॥ श्रीः ॥
उपयुक्तमीमांसा
धर्मस्य जैमिनिमते चरणप्रकारे श्रीबादरायणमते फलहेतुमार्गे । निष्ठां गतौ निखिलसूत्रविचारदृष्टी नित्यं यतीन्द्रनिगमान्तगुरू नतोऽस्मि ॥
मानेर्जिज्ञासायामिति विचारार्थे निष्पन्नो मीमांसाशब्दः । तत्र वेदार्थविचाररूपार्थे शब्दमिमं प्रयुज्य चतुर्दशसु विद्यास्थानेषु एकतमत्वेनेयं मीमांसा पर्यगणि, ‘अङ्गानि चतुरो वेदाः मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥’ इति । तत्र अङ्गानीति शिक्षादीनां षण्णां वेदोपकारकत्वेनाङ्गत्वं मुक्तकण्ठमुक्तमिति तेषामप्राधान्यं सिद्धम् । पुराणधर्मशास्त्रे तदुपबृंहणार्थं प्रवृत्ते । उपबृंहणञ्च विवक्षितार्थविशदीकरणम् । एवं धर्मतत्त्वरूपवेदार्थवैशद्यहेतुत्वात् तद्व्याख्यानरूपतया तयोर्वेदाङ्गत्वम् । पुराणधर्मशास्त्रविशदीकृतार्थलाभो वेदेभ्यः कथं भवतीति तद्विचारे कर्तव्ये, सेयं मीमांसा भवति । तत्र प्रयोक्तव्यन्यायप्रकारशिक्षणरूपत्वात् न्यायविस्तरस्तया समुच्चीयते । संशयविपर्ययसहमापातज्ञानं व्यपोह्य वेदवाक्यार्थनिर्णयस्य संपादकतया मीमांसाशास्त्रं वेदस्यान्तरङ्गसहकारि भवति । अत एवाहुः, ‘धर्मे प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति’ इति ।
अत्र धर्मशब्दो वेदार्थं सामान्येनाहेति उत्तरमीमांसाऽपि क्रोडीकार्या भवति तत्त्वविदाम् । ब्रह्मणोऽपि धर्मत्वमातिष्ठमानानां तु तत्र संदेहस्य नैव प्रसक्तिः । धर्मपदमधर्मादेर्यथोपलक्षणम्, तथा ब्रह्मणोऽपीति वा काममुच्यताम् । सर्वथा वेदार्थविचार एव मीमांसा । वेदार्थस्यैव पूज्यत्वात् प्रधानत्वात् पूज्यार्थविचारो मीमांसेति वाचस्पतिमिश्रादिभिरप्यभाणि । धर्मो नाम चोदनागम्यं धृतिसाधनम् । धृतिः प्रीतिः । धृतिः स्थितिः स्थैर्यं सुखजीवनमित्यादि च भाव्यम् । द्रव्यक्रियागुणादीनां फलसाधनानां धर्मत्वमिष्टम् । यथा ‘जुहुयात् स्वर्गकामः’ इत्यत्र क्रिया फलसाधनम् । दध्नेन्द्रियकामस्य जुहुयादित्यत्र दध्येव फलसाधनम् । ‘यः कामयेत वर्षुकः पर्जन्यः स्यादिति, नीचैः सदो मिनुयात्’ इत्यत्र सदोगतं नीचैस्त्वं फलसाधनम् । ‘पञ्चमे ब्रह्मवर्चसकामस्योपनयनम्’ इत्यत्र पञ्चमवयस्कत्वरूपकालोऽपि फलसाधनमित्येवम् ।
सेयं मीमांसा पूर्वमीमांसा उत्तरमीमांसेति द्वेधा विभज्यते । किं मीमांसाशास्त्रमेकमिति तत्र पूर्वमीमांसा पूर्वो भोगः उत्तरमीमांसा चोत्तर इति पूर्वकायोत्तरकायशब्दयोरिव पूर्वमीमांसापदोत्तरमीमांसापदयोर्विग्रहः, आहो शास्त्रद्वयमेवेति अत्र विवदन्ते । ‘मीमांसा न्यायविस्तरः’ इत्यत्रैकवचनादेकं शास्त्रमिति वादे - ‘पुराणं धर्मशास्त्रम्’ इत्यत्रैकवचनवत् किं न स्यात्; नाना हि पुराणानि धर्मशास्त्राणि च; इतिहासश्चानेक इति प्रत्यवतिष्ठन्ते । अत्र वदन्ति - न ह्येकवचनमात्रेणैकत्वसाधनम् । एकवचनावगतमेकत्वमसति बाधे न प्रतिषेध्यमिति तत्त्वे विमृश्यमाने औचित्यात् प्राच्यैरैकशास्त्र्यमुररीकृतं किमित्यकाण्डे खण्डनीयमिति ताटस्थ्येन द्रष्टव्यमिति ।
व्यवहारे भट्टनय इति वदद्भिरद्वैतिभिः पूर्वमीमांसानुसार आविष्क्रियते । तत्रत्यं प्रमाणलक्षणात्मकं प्रथममध्यायमन्यच्च यथायथमुपजीव्य बादरायणेन प्रणीतमिदं शारीरकमिति संप्रतिपन्नम् । स्वशास्त्रे पूर्वोक्तमर्थं तदुक्तमिति निर्दिशति यथा ‘अल्पश्रुतेरिति चेत् तदुक्तम्’ इति, तथा पूर्वमीमांसोक्तमपि तदुक्तमित्येव निर्दिशन् बादरायणः ऐकशास्त्र्यमभिप्रैतीति विज्ञायते । अपिच, ‘सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्’ इत्यत्र आदिपदेन शाखान्तराधिकरणोक्तानि, ‘नानाशब्दादिभेदात्’ इति आदिपदेन द्वितीयाध्यायोक्तानि कर्मभेदकप्रमाणामि, ‘श्रुत्यादिबलीयस्त्वाच्च न बाधः’ इति आदिपदेव तृतीयाध्यायोक्तानि लिङ्गादीनि अङ्गत्वे प्रमाणानि, ‘लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि’ इति सुस्पष्टनिर्देशेन च तानि, ‘पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत्’ इति दशमषष्ठत्रयोदशाधिकरणम्, ‘भूम्नः क्रतुवत्’ इति प्रथमचतुर्थद्वादशं वैश्वानराधिकरणम्, ‘विधिर्वा धारणवत्’ इति, विधिस्तु धारणेऽपूर्वत्वादिति तृतीयचतुर्थपञ्चमम्, भावशब्दाच्चेति भावार्थाः कर्मशब्दा इति सूत्रम् (2-1-1), ‘न चाधिकारिकमपि पतनानुमानात् तदयोगात्’ इति अधिकारलक्षणे षष्ठे अष्टमचतुर्थम् ‘अवकीर्णिपशुश्च तद्वत्’ इत्यधिकरणम्, ‘द्वादशाहवदुभयविधं बादरायणोऽतः’ इति दशमचतुर्थषोडशम् ‘द्वादशाहस्य सत्रत्वम्….’, ‘यजतिचोदनादहीनत्वम्….’ इत्यधिकरणम् एवमन्यान्यच्च पदेपदे स्मारयन् ऐकग्रन्थ्यमैकरस्यञ्चाविष्करोतीति सहृदयेन स्वहृदयेन संभूय संशीलनीयम् । अन्यादृशो विस्तरश्च श्रुतप्रकाशिकाशतदूषणीपरमार्थभूषणादिपु द्रष्टव्यः ।
किं बहुना । पूर्वमीमांसानिर्णेयस्य कर्मणः उत्तरमीमांसामीमांस्यस्य ब्रह्मणश्च न कश्चित् संबन्धः, प्रत्युत विरोध इति कलयत्यपि शाङ्करे 3-3-30 ऐकात्म्या(शरीरेभावा)धिकरणे ऐकशास्त्र्यं स्वाभिमतमाविरकारि । देहव्यतिरिक्तात्मसद्भावो नेह स्थापनीयः; शास्त्रप्रमुख एव (एतन्मीमांसाशास्त्रारम्भ एव) प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य आत्मन उक्तत्वादिति शङ्कामुद्भाव्य, ‘सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । अत्र स्वयं सूत्रकृदेवाह’ इति वर्णितम् । अत्र उक्तं भाष्यकृतेति पदम्, कुमारिलभट्टपादश्लोकमपि स्मारयति, य एषः, ‘इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदत्र युक्त्या । दृढत्वमेतद्विषयस्तु बोधः प्रयाति वेदान्तनिषेवणेन’ इति । कर्मविचारेदम्परो जैमिनिः तत्त्वेदम्परबादरायणकरिष्यमाणोत्तरभागावसेयत्वमात्मनः प्रतीक्ष्य स्वयं न तत्र सूत्रं प्रणिनाय । भाष्यकारस्तु वक्ष्यमाणमेव प्रसङ्गादाकृष्याबोधयदिति भावः । आह चोपरि, ‘इत एवाकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः । इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय’ इति यावद्रूप आत्मा बादरायणेन बोधनीयः, तावद्रूपतया तज्ज्ञानमनपेक्षितं कर्मविचारे । किञ्चिद्विचारे कृते पुनः सम्यग्विचारः कार्यः पश्चादिति किमत्र तद्विचारग्रहणेनेति जैमिनिरुदास्त । अपेक्षितं देहातिरिक्तत्वं तु पारलौकिकफलस्थापनादेव सिद्धम् । तत्स्वरूपस्वभावजिज्ञासायां तदंशस्य प्रकृतानुपयोगात्, शारीरके वक्ष्याम इत्युक्तमुपवर्षेणेति तत्त्वम् । अत्र शाङ्करे वक्ष्यमाणस्याकृप्य वर्णनं शाबरे इत्युक्तत्वात् अहमर्थत्वरूपस्वरूपस्य विज्ञानगुणकत्वस्य च शाबरोक्तत्वात् उपवर्षवक्ष्यमाणमेवेदमिति चात एव ज्ञायमानत्वात् एवम्भूतात्मस्वरूपमस्वीकुर्वतामहमर्थातिरिक्तात्मवादिनामद्वैतिनां पूर्वसंप्रदायग्रन्थविरोधोऽप्युक्तो भवतीत्यन्यदेतत् । अत्र हि शाङ्करभाष्ये पूर्णमीमांसाशास्त्रस्यैकत्वम्, तत्प्रथमाध्यायस्य पूर्णशास्त्रमुखत्वम्, अत्रोक्तोपासनानां तत्रोक्तचोदनालक्षणधर्मत्वम्, अत्र विचार्यस्यात्मस्वरूपस्य तत्रोक्तधर्मार्थतयाऽपि विचार्यत्वं च व्यक्तमुक्तम् । शास्त्रप्रमुखे, कृत्स्नशास्त्रेत्यादिपदस्वारस्यमवधेयम् । धर्माधर्मयोरिव कर्मब्रह्मणोर्विरुद्धत्वेऽपि तत्तत्परमीमांसयोः तदर्थप्रतिपादकवेदभागयोरिवैकशास्त्रावयवत्वं जाघटीतीति हि तदाशयः । अन्यथा कर्मज्ञानकाण्डयोर्नैकवेदता स्यात् । अतः शाखाद्यैक्यवत् शास्त्रैक्ये सत्यपि प्रमेययोर्द्वयोर्मिथोऽनन्वय उपपन्न इत्येतावदेव शाङ्करहृद्गतम् । ‘शास्त्रैकत्वसिद्धिः’ इति वृत्तिविरोधः शबरोपवर्षादिमीमांसकग्रन्थविरोधश्चान्यथा स्यादिति किमत्र प्रतिवादेनेति । किं सुदूरगमनेन । शाङ्करे उपक्रम एवाथशब्दार्थविचारे, स्वाध्यायानन्तर्यं तु समानमित्युक्तम् । तदर्थं विशदयता च वाचस्पतिमिश्रेण ‘अथातो धर्मजिज्ञासा’ इत्यस्य सामान्यतो वेदार्थजिज्ञासेत्यर्थकत्वात् ब्रह्मभूतवेदार्थविचारे स्वाध्यायाध्ययनानन्तर्यस्य शास्त्रप्रमुख एवोक्तत्वात् इह विशेषकिञ्चिदानन्तर्यमेव वक्तव्यमिति स्पष्टमुक्तम् । तद्व्याख्याने कल्पतरौ तद्विवरणभूते परिमले च ऐकशास्त्र्याभ्युपगमौपयिकनिरूपणविस्तरो द्रष्टव्यः । यावत्सामरस्यं प्राचीनपरिगृहीतम्, तत्रापि भेदकल्पनया वृथाकोलाहलो न सहृदयहृद्यः ।
विशिष्टाद्वैतिनः शास्त्रैक्याभावे अथशब्दस्य कर्मविचारानन्तरमित्यर्थः कथं स्यादिति तत्स्थापनशेषतया न तत् निरूपयन्ति; किं तर्हि, तत्त्वं प्राच्येष्टं च तदित्येतावतैव । अध्ययनक्रमादिनैव कर्मब्रह्मविचारक्रमसिद्ध्या अथशब्दाभिमतार्थस्य सौस्थ्यात् । अद्वैतिना भास्कराचार्येण अथशब्दस्य सौत्रस्य कर्मविचारानन्तरमित्यर्थ एव प्राच्योक्तः पर्यग्राहि । एवंस्थिते शाङ्करानुयायिनः आकरविरोधादप्यबिभ्यतो हठेन शास्त्रभेदप्रतिष्ठापने मुष्टिं बध्नन्ति; किं तेषां गृहीतग्रहणप्रतिविधानेन ।
प्रतिस्पर्धितयाऽप्यभिमतेऽत्र पूर्वतन्त्रे प्रतिपादितान् विषयान् अद्वैतिन एव पदेपदे उदाहृत्य स्वग्रन्थान् महयन्ति; अन्ये तु स्वल्पम् । अद्वैतिनामुभयोरैकरस्यस्थापनावश्यकत्वापर्यालोचनया, मीमांसाव्याख्यातृवर्णितानां सर्वेषां सूत्रकृतो जैमिनेः शिरसि निक्षेपेऽपि न हानिः काचिदासीत् । परं निर्दुष्टे दोषारोपणमित्येष दोषः । विशिष्टाद्वैतिनस्तु विरोधं परिहरन्तः ऐकरस्यस्थापकान् अंशान् दर्शयन्ति । आपातप्रतीतविरोधपरिहारस्तावदवश्यमेव कार्यः । संभवति महर्षीणां सामरस्ये विरोधारोपेण वैरस्यापादनमस्थाने । व्याख्यातॄणां प्रमादस्तु सर्वत्र संभाव्यते । अत एव आदिकपिलमहर्षिगत्यनिश्चयेन सेश्वरनिरीश्वरसांख्यभेदः समपद्यत । जैमिनिग्रन्थं पूर्वमीमांसां स्वग्रन्थशारीरकोपजीव्यं सर्वप्रकारेण दर्शयन् बादरायणो जैमिनेः सेश्वरत्वम्, ‘साक्षादप्यविरोधं जैमिनिः’, ‘अन्यार्थं तु जैमिनिः’, ‘परं जैमिनिर्मुख्यत्वात्’, ‘ब्राह्मेण जैमिनिः’, ‘भावं जैमिनिः’ इत्येवं सुस्पष्टं प्रकटयति ।
एवं सति यदि मीमांसकाः निरीश्वरवादं वर्धयेयुः, तत् कथं जैमिनेर्हृदयं भवितुमर्हति? एवं देवतानिराकरणमपि मीमांसाव्याख्यातॄणां स्वप्रौढिमप्रकटनप्रागल्भ्यादेव; अथवा शून्यवादिनो बुद्धस्य चातुर्विध्यमतवत् गुडजिह्विकान्यायेन सेश्वराणामेव निरीश्वरवादो नास्तिकसङ्ग्रहाय । न पुनर्जैमिनेराशयस्य तथात्वेन । अत एव हि बादरायणो देवानामर्थित्वं सामर्थ्याभावादुपासनेऽनधिकारमुद्भाव्य परिहरन् शङ्केयं जैमिनीयेति नाह । प्रत्युत ‘मध्वादिष्वसंभवादनधिकारं जैमिनिः’ इति मधुविद्यादिषु स्वस्वविषयकविद्यासु स्वस्य स्वस्य देवस्य नाधिकार इत्येतावदेव जैमिन्युक्तत्वेनादर्शयत् । अतः, देवतानां देहादिकमस्ति, परं स्वस्यैवाराध्यभावः स्वपदमपि फलं यत्रोपासने, तत्र ताः कथमधिक्रियेरन् इत्येव स मेने ।
किञ्च पश्यत(1-3-26)शाङ्करदर्शितम् ‘न देवानां देवतान्तराभावात्’ इति वाक्यम् । तेन देवानामविग्रहत्वादनधिकार इति न, किन्तु स्वातिरिक्ताया आराध्यदेवताया अभावादेवेति ज्ञायते । व्यवृणोच्च वाचस्पतिर्भामत्याम् - वस्वादीनां हि न वस्वाद्यन्तरमस्तीति । यदि तु वस्वादय एव नेष्येरन्, तर्हि आदित्यमधुभोगार्थो वस्वादिभावः फलमित्यपि परित्यक्तं स्यादिति गतं विधिवाक्येनापि । शाङ्करोदाहृतमिदं वावयं (पू.मी. 6-1-5) कर्तुर्वेति सूत्रे शाबरभाष्ये स्थितम् । एवंस्थिते यत् अप्पय्यदीक्षितैः परिमले (1-1-1) ‘जैमिनिना तिर्यगधिकरणे ‘न देवता देवतान्तराभावात्’ इति सूत्रेण…. देवताभ्युपगम एव स्पष्टीकृत इत्युक्तम् । तत्र पर्यवसितार्थस्य ग्राह्यत्वेऽपि तथाविधसूत्रसद्भावकथनं विचार्यम् । तथा जैमिनिसूत्रानुपलम्भात् । किं जैमिनिरिति, भाष्यकारः शबरस्वाम्यपि हि न देवतामपलपति, देवतान्तराभावादेव हि देवानधिकारः तेनाभाषीति तावत् वक्तुं कश्चित् व्यवस्येत्, यावत् ‘देवता वा’ (6) इति नवमप्रथमशाबरं नेक्षते । तत्र हि गुणत्वे देवताश्रुतिरित्यत्रातिथिवैलक्षण्यं वर्णयता देवता विग्रहवती भुङ्क्ते चेति पक्षोऽपि परास्यते । आस्तामेतत् । सूत्रे तु मात्रयाऽपि न विग्रहादिराहित्यं प्रतीयते । तदेतदनन्तरं दर्शयिष्यामः । एवं विकृतियागे द्रव्यघटितं वा देवताघटितं वा सादृश्यमतिदेशोपयोगीति विमर्शे द्रव्यघटितसादृश्यस्य जैमिन्यादृतत्वमात्रेण देवतापलापो न शक्यशङ्क इत्यपि वक्ष्यामः । एवमाकृतिशक्तिवादिनो जैमिनेः, ‘शास्त्रदृष्ट्या तूपदेशो वामदेववत्’, ‘चराचरव्यपाश्रयस्तु’ इत्येवं विशिष्टे व्युत्पत्तिं वदतो बादरायणस्य च आशयभेद इत्येतदपि व्याख्यातृमतिभेदमूलमित्यपि दर्शयिष्यामः ।
उपनिषद्विचारं विशिष्य कर्तुमप्रवृत्तस्य जैमिनेर्बादरायणेन सह तदर्थविचारः पश्चात् कर्तव्य आपतितः, तदा तस्य प्राथमिकमाशयं परास्यन् गुरुः शिष्यं यथावस्थितमध्वानमानिनाय । तत्र प्राथमिकी तद्दशाऽपि क्वचिदुद्घाट्यते शारीरके । अथ विनीतस्य तस्य वास्तवार्थविमर्शनैपुण्यमपि बहुषु स्थलेषु प्रीतो बहुमत्या गुरुराविष्करोति । एवमुपसन्नस्य तस्य ग्रन्थे विरोधमपश्यन्नेव गुरुस्तन्मीमांसनमादृत्योपरितनभागमात्रं स्वयं मीमांसते स्म । तदिह अर्वाग्दृष्ट्या विरोधशङ्कावहानि पूर्वमीमांसाधिकरणानि कतिचित् यथावत् व्याख्याय सूत्राणामाञ्जस्येनानुकूल्यं दर्शयामः -
तत्र पूर्वमीमांसायामध्यायाः पोडश । तत्र द्वादश सशाखोपशाखं विशेषतो वर्धिताः । अध्यायेषु तृतीयषष्ठदशमेष्वष्टौ पादाः; अन्यत्र सर्वत्र चत्वार एव । प्रत्यध्यायं तत्र प्रतिपादितं प्रमेयं तावत् सर्वाविगीतमेवं सङ्गृह्णीमः -
मानं भेदः शेषभावः प्रयुक्तिः पौर्वापर्यश्चाधिकारोऽतिदेशः । सामान्येनाथो विशेषातिदेशः ऊहो बाधस्तन्त्रमन्ते प्रसङ्गः इति ।
आदौ धर्मविचारं प्रतिज्ञाय चोदनारूपवेदप्रमाणको धर्म इति तं लक्षयित्वा, वेद एव प्रमाणं वेदः प्रमाणमेवेत्यंशद्वयं निरूपयन् प्रमाणविभागे दत्तदृष्टिः विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्याख्यानि अष्टौ प्रमाणानि सावान्तरभेदं प्रथमेऽध्याये प्रत्यपीपदत् ।
द्वितीये यागहोमदानादिधर्मभेदे प्रमाणानि षट् - शब्दान्तरमभ्यासः संख्या संज्ञा गुणः प्रकरणान्तरमिति विभज्य न्यरूपयत् ।
एवं लक्षितविभक्तानां धर्माणां नानारूपाणामङ्गाङ्गिभावनिर्णयाय अङ्गत्वे प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामानि षट् प्रतिपाद्य तेषामुत्तरोत्तरदौर्बल्यं तन्मूलमङ्गाङ्गिनिर्णयप्रकारश्च तृतीयेऽध्यायेऽष्टभिः पादैरदीदृशत् ।
चतुर्थे - एवमङ्गाङ्गिनिर्णयस्य समाहारेणानुष्ठानार्थत्वात् सत्यप्यङ्गित्वे केषाञ्चित् अङ्गानुष्ठानप्रयोजकत्वं नास्तीत्याकलय्य तं प्रयोज्यप्रयोजकभावं विचारयन् कर्मणि क्रत्वर्थपुरुषार्थविभागं विधाय तत्रतत्राक्षाभ्यञ्जन-तुषोपवाप-आर्थवादिकाङ्गफलादीनामेकहायनीनयन-पुरोडाशकपाल-अङ्गानुष्ठानादिकं प्रति प्रयोजकत्वम् अनुष्ठापकत्वं नास्तीत्येवमादिकमचकथत् ।
अनुष्ठेयतयाऽवधारितानां पौर्वापर्यव्यवस्थां दर्शयितुं पञ्चमे श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि षट् क्रमप्रमाणानि प्राचीकशत् ।
षष्ठे कस्मिन् कोऽधिकारीति नित्यनैमित्तिककाम्यविभागेनाधिकारिनिरूपणमकार्षीत् ।
एवमुपदेशषट्कं वृत्तम् ।
यत्र समग्राङ्गोपदेशो भवति, यस्य कर्मणः अन्यकर्मसकाशादङ्गानि नानीयन्ते, सा प्रकृतिः । तस्मिन् कर्मण्युपदिश्यमानानामङ्गानामनुष्ठानप्रकारश्चिन्तित एवं षट्केन ।
अथातिदेशषट्कम् ।
यत्रान्यकर्मसकाशादङ्गान्यानीयन्ते, सा विकृतिः । तत्र विकृतिकर्मण्यङ्गानयनमेवातिदेशः । तत्प्रमाणनिरूपणं सप्तमेऽध्याये । तच्च प्रमाणं नाम वचनञ्चेति द्विविधम् । नित्याग्निहोत्रातिरिक्ते क्वचित् अग्निहोत्रनामकरणात् तद्बलेन तत्र नित्याग्निहोत्रादङ्गातिदेशो नामातिदेशः । वचनञ्च प्रत्यक्षवचनं सादृश्यादिबलकल्पितवचनञ्चेति द्विविधम् ।
अथाष्टमे विशेषातिदेशः - विवादस्थले एतस्मादेवातिदेशः न त्वन्यस्मादिति निर्धारणं तत्रतत्र क्रियत इति ।
नवमे अतिदिष्टेषु मन्त्रादिषु प्राकृताग्न्यादिपदस्थाने सूर्यादिपदप्रक्षेपः कर्तव्यो विचार्यते ।
दशमे अतिदिश्यमानेषु केषाञ्चित् प्रयोजनलोपात् बाधः, तत्स्थानेऽन्यप्रत्याम्नानात् बाधः, कण्ठतो निषेधाच्च बाध इति बाधो निरूप्यते ।
एवमतिदिष्टानामियत्तयाऽवधृतानामङ्गानां, तथोपदिष्टानामपि सकृत्करणं यद्यनेकोद्देशेन, तत् तन्त्रम् । तत् शोध्यत एकादशे ।
यदि एकोद्देशेनानुष्ठितेनैवाङ्गेनान्यस्याप्यर्थात् कार्यसिद्धिः, तत्र पृथगनुष्ठानं नास्तीति स प्रसङ्गो नाम द्वादशे ज्ञाप्यते ।
एवं द्वादशाध्याय्यर्थसङ्ग्रहः ।
अथ तत्र शिष्यन्ते चत्वारोऽध्यायाः ।
तस्य सङ्कर्षकाण्ड इति व्यवहारः, देवताकाण्ड इति च । द्वितीयनामानुगुणं तत्र चतुर्षु ‘स्वरूपमादौ तद्भेदः तदुपासनपूर्वकम् । फलञ्च देवताकाण्डे देवतानां तु कथ्यते’ इति अधिकरणचिन्तामणौ वैश्वामित्रैर्वरदगुरुभिरभाणि । सङ्कर्षकाण्डस्य देवताकाण्ड इति व्यवहारो भामतीव्याख्याने कल्पतरावपि क्रियते । तत्र परिमले - देवताविषयविशेषविचारविरहिते तत्र देवताकाण्डेति व्यवहारः क्लेशेनैव निर्वाह्य इत्यप्यय्यदीक्षितनिरूपणं स्फुटमस्ति । माध्वग्रन्ये 3-3 उपसंहार इति सूत्रे पूर्णत्वाविरोधिगुणमात्रस्योपास्यता, न दोषस्येति निरूपणार्थं, ‘तथाच साङ्कर्षणसूत्रम्, अचेतनासत्यायोग्यानि अनुपास्यानि अफलत्वविपर्ययाभ्याम्’ इति उपासनविषयं सूत्रमुदाहारि । एवं सङ्कर्षान्ते, ‘स विष्णुराह हि तं ब्रह्मेत्याचक्षते’ इति सूत्रं निर्दिशन्तः तेन सह ‘अथातो ब्रह्मजिज्ञासा’ इति शारीरकारम्भसूत्रस्य सङ्गतिमपि संदर्शयन्ति । सर्वमिदमप्पय्यदीक्षितदर्शिते संप्रति लोके सितासिततया प्राप्तप्रचारलवे सङ्कर्षे नैव लक्ष्यते । अत्राभियुक्तैर्भट्टपराशरपादैः काशकृत्स्नप्रभवः संकर्ष इत्यभाषि । तर्हि स देवताप्रतिपादकः स्यादित्याशेरते । परं तु तस्य किं सङ्कर्षस्य विंशतिलक्षणमीमांसानिविष्टत्वम्, आहो जैमिनीयस्येति विवादे श्रीभाष्योदाहृतवृत्तिग्रन्थे, ‘जैमिनीयेन षोडशलक्षणेन’ इति स्पष्टनिर्देशात् जैमिनिरेव मीमांसानिविष्टसङ्कर्षकृदिति वक्तव्यम् । काशकृत्स्नोऽपि श्रीपराशरभट्टार्यगौरवेणाद्रियमाणः श्रीदेशिकचरणैरपि उदलेखि सेश्वरमीमांसाप्रथमसूत्रे । ‘कर्मणाञ्च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः ‘प्रभुत्वादार्त्विज्यम्’ इत्यन्तेन सूत्रकलापेन सङ्कर्षेण कृतः’ इति श्रीभाष्यकारसारग्रन्थसूक्तिः । ‘प्रभुत्वादार्त्विज्यम्’ इति तावत् द्वादशाध्यायान्तिमाधिकरणादिमसूत्रम् । अन्वाहार्ये च तद्दर्शनादिति तदधिकरणान्तिमसूत्रम् । सङ्कर्षकाण्डान्तिमसूत्रे तु, यथा याज्यासंप्रैषो यथा याज्यासंप्रैष इत्यभ्यास इति तदेवान्तिमसूत्रम् । अतः सारे संकर्षेण चेति चकारोऽपेक्षितः । तस्य तदाऽपि प्रचाराभावादेव तदन्तिमसूत्रं नादर्शीत्यूहस्यावसरोऽस्ति ।
शबरस्वामिनाऽपि द्वादशाध्यायीभाष्यमेव रचितमिति प्रपञ्चहृदये । तत्र केचित् विशेषा अवगम्यन्ते । तद् यथा - ‘तस्य विंशत्यध्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम् । तत् ग्रन्थबाहुल्यादुपेक्ष्य किञ्चित् सङ्क्षिप्तमुपवर्षेण कृतम् । तदपि मन्दमतीन् प्रति दुष्प्रतिपादं विस्तीर्णत्वादुपेक्ष्य षोडशलक्षणपूर्वमीमांसाशास्त्रमात्रस्य देवस्वामिना अतिसङ्क्षिप्तं कृतम् । भवदासेनापि कृतं जैमिनीयभाष्यम् । पुनर्द्विकाण्डे धर्ममीमांसाशास्त्रे पूर्वस्य तन्त्रकाण्डस्य आचार्यशबरस्वामिना अतिसङ्क्षेपेण सङ्कर्षकाण्डं द्वितीयमुपेक्ष्य कृतं भाष्यम्’ इति । एवञ्च संप्रति मीमांसाशास्त्रप्रचारो यं ग्रन्थमाकरीकृत्य, तत् शाबरभाष्यमेव द्वादशलक्षणीमात्रविश्रान्तमित्यवगमात् कालक्रमेण तथा लोपमभजत सङ्कर्षकाण्डः, यथा सूत्राण्यप्यनुपलभ्यानि समवर्तन्त; दूरे तेषामर्थबोधः । लोके सर्वमपि क्षीणमिव लक्षितमपि देशवैशाल्यात् परिग्रहभूयस्तया च कदाचित् अन्यदाऽभिवर्धमानं पश्यामः । अतः सारस्वतं स्रोत इव लक्ष्यालक्ष्यं कालदेशानुकूल्ये पुनःप्रादुर्भवेदपि, यथा भामतीकल्पतरुकाले निलीनः स एव सङ्कर्ष ईषदात्मानमदर्शयदप्पय्यदीक्षितकाले इति । विस्तरोऽस्मत्कृते परमार्थभूषणे द्रष्टव्यः ।
तदेवं लुप्तप्रायः सङ्कर्षः जैमिनीयः षोडशाध्याय्यन्तर्गतः, यत्र यूपपादः, इष्टकापादः, अवदानपादः, होमपादः, कालपादः, अग्निपादः, ग्रहपादः, वरणपादः, सामिधेनीपादः, निगदपादः, वषट्कारपाद इति पादनामानुरूपं द्वादशाध्यायीप्रमेयमेव प्रकीर्णं विचीर्यते इति न देवतास्वरूपाद्यैदम्पर्यम् । एवमपि काशकृत्स्नकृतोऽन्यः सङ्कर्षः प्रकृतकर्ममीमांसोपयोगित्वात् देवताप्रतिपादकः सन् पूर्वसङ्कर्षशेषः सन् पूर्वान्तर्भूतत्वेनैव परिगण्यत इति तत एव हेतोः तत्रत्यसूत्राणामपि, तं ब्रह्मेत्याचक्षत इत्यादीनां शारीरकपूर्वांशत्वेन ग्रहणम्; काशकृत्स्नबादरायणयोः समानाशयत्वात् । अत एव जीवब्रह्माभेदनिर्देशनिर्वाहविषये काशकृत्स्नपक्षमेव बादरायण आद्रियमाण एवमसूत्रयत्, ‘अवस्थितेरिति काशकृत्स्नः’ इति । तदिदमुभयोरैकमत्यं सर्वसंप्रतिपन्नम् । इदमभिप्रेत्य श्रीपराशरभट्टपादैः सङ्कर्षः काशकृत्स्नप्रभव इत्यभ्यध्यायि । शाङ्करभाष्यतृतीयतृतीये 43 सूत्रे आनन्दगिरिः, ‘सङ्कृष्यते - कर्मकाण्डस्थमेवावशिष्टं कर्म सङ्क्षिप्योच्यत इति सङ्कर्षो देवताकाण्डम्’ इति । मधुसूदनसरस्वती च प्रस्थानभेदे, ‘तथा सङ्कर्षकाण्डमप्यध्यायचतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात् कर्ममीमांसान्तर्गतमेव’ इति । मीमांसकमूर्धन्यखण्डदेवशिष्यश्च शम्भुभट्टः भाट्टदीपिकाव्याख्यायां प्रभावल्याम्, ‘मीमांसा अथातो धर्मजिज्ञासेत्यादिना जैमिनिप्रणीता द्वादशाध्यायी सङ्कर्षकाण्डात्मिका चतुरध्यायी च कर्ममीमांसा, अथातो ब्रह्मजिज्ञासेत्यादिना व्यासप्रणीता चतुरध्यायी शारीरकमीमांसा च’ इति । किमनेनानेकसितासितवाक्यकदम्बप्रदर्शनेन । सर्वथा देवतोपासनादितत्परे वा उपासनीयदेवतोद्देश्यककर्मान्तर्गतानेकविप्रकीर्णार्थव्युत्पादके वा सङ्कर्षकाण्डे पूर्वसूचितरीत्या कर्मशेषतयैव देवतादिप्रमेयस्थितिर्भाव्या; न प्राधान्येन ।
एवं शाबरप्रभृति समभिवृद्धो निरीश्वरमीमांसकप्रचारः शारीरके श्रद्धां वहद्भिरद्वैतिद्वैतिविशिष्टाद्वैतिभेदभिन्नैः सर्वैरेव वेदान्तिभिः शारीरकार्थविवरणमुखेन प्रशममनीयत । तदर्थे च विशिष्य कतिपयसूत्रव्याख्यानिरासेन व्याख्यानान्तरं विधातुं मार्गदर्शिन आसन् श्रीभगवद्रामानुजस्वामिपादाः, ये आनन्दमयाधिकरणभाष्ये अरुणाधिकरणमन्यथा व्युदपादयन् । एवमाकृत्यधिकरणादिष्वपि तदभिसंहिता व्याख्यानप्रणाली श्रीमन्निगमान्तमहादेशिकैः कृत्स्नमीमांसासूत्रविशदव्याख्यानप्रवृत्तैः सेश्वरमीमांसायां सम्यङ् न्यरूपि । परं प्रकृष्टप्रग्रन्थगौरवग्रहणदूरैरलसास्तिकैरपरिरक्षिता साम्प्रतं प्रथमपादद्वयमात्रेण सा जीवितं धारयति । अन्या च मीमांसापादुका पद्यमयी तैरेव प्रथमपादमात्रार्थसङ्ग्रहरूपा प्रणीता । उपलभ्यमानांशे च जैमिनिसूत्राशयो बादरायणाशयानुरूपो निरीश्वरमीमांसकागृहीतो यथावद्व्युदपाद्यत । अतः प्रथमपादसूत्राणामत्र व्याख्यायार्थप्रदर्शनमनावश्यकमिति आशयभेदः परं सङ्गृह्यते -
तत्र प्रथमाधिकरणे धर्मविचारः कार्य इति यत् स्थाप्यते, तत्र पूर्वपक्षसिद्धान्तोपपादनप्रणाली प्राभाकरमतेऽन्या, भाट्टमते परा, अस्मन्मते चान्यादृशी । तथा हि - ‘स्वाध्यायोऽध्येतव्यः’ इति वाक्यमध्ययनविधायकं न भवति, यजेत स्वर्गकाम इत्यादौ स्वर्गकामादेरिवात्र नियोज्यस्य कस्यचिदश्रवणात्, बालस्याव्युत्पन्नस्य वेदप्रेर्यत्वायोगाच्च । अतो व्युत्पन्नः प्रौढ आचार्यः, ‘तमाचार्यं प्रचक्षते’, ‘तमध्यापयेत्’ इत्यादिवाक्यार्थवेदी स्वयमाचार्यककामः अतएव विधिनियोज्यो भवन् बालमुपनीयाध्यापयति आचार्यकं स्वयमाप्तुम् । एवं लब्धत्वात् वेदस्य आचार्यकार्थस्यार्थज्ञानार्थत्वाभावात् तदर्थविचारे न प्रवृत्तिः संभवति, ज्ञानस्यानपेक्षितत्वादिति पूर्वः पक्षः । अध्यापनविधिप्रयुक्तत्वेऽप्यध्ययनस्याध्यापकनिष्ठबहिरङ्गभूताचार्यकापेक्षया अध्येतृनिष्ठस्यान्तरङ्गसार्थज्ञानस्यैव फलत्वं युक्तमिति कर्तव्यस्तत्सिद्धये विचार इति प्राभाकराः ।
भाट्टास्तु नाध्यापनविधिप्रयुक्तमध्ययनम्, किं तु ‘स्वाध्यायोऽध्येतव्यः’ इति स्वविधिप्रयुक्तम् । अनधीयाना व्रात्या भवन्तीति अनध्ययने प्रत्यवायश्रवणात् अध्ययनस्यावश्यकार्यतया नाचार्यककामना आचार्यनिष्ठा तत्प्रेरिका । ननु अध्ययनवाक्ये नियोज्यो न श्रूयत इत्युक्तम् । स्यान्नाम । तमध्यापयीतेत्यत्रापि नियोज्यो न श्रूयते, आचार्यककाम इति पदाभावात् । बालस्याध्ययनविधिज्ञानं कथं भवतीति चेत् - संध्योपासनादिकं कार्यमिति कथं जानाति । न हि तत् सर्वमप्याचार्यककामनाधीनम् । अतो हितकारिपित्रादिप्रवर्तितो विधिवश इति सर्वत्राविशिष्टम् । तस्मात् प्रकारान्तरेणाधिकरणरचना कार्या । अत्रैवं पूर्वपक्षः - अध्ययनं नार्थज्ञानार्थं विधीयते । अध्ययनादन्येनाप्युपायेन स्वाध्यायप्राप्तेरर्थज्ञानस्य च सुसंपादत्वात् । अतोऽध्ययनविधिरदृष्टार्थः, नार्थज्ञानार्थः । अतो न विचारः कार्य इति । सिद्धान्तस्तु यावद्दृष्टफललाभमदृष्टकल्पनस्यान्याय्यत्वात्, शब्दस्यार्थबोधकताया आनुभविकत्वात् तदर्थमेवाध्ययनम् । विधान्तरेणाप्यर्थज्ञानसंभवात् किमर्थमेतद्विधिरिति चेत् - एतद्विधिबलप्रवृत्तस्वाध्यायार्थज्ञानपुरुषलाभेन शान्ताकाङ्क्षा यागादिविधयः अन्येषां स्वानुष्ठानार्थमर्थग्रहणोपायकल्पने न कदापि प्रवर्तन्त इति अन्येषामनधिकारित्वसिद्धिरेव फलम् । अर्थज्ञानञ्च विचारमन्तरा न भवितुमर्हतीति सोऽपि कर्तव्य इति ।
इदमपि वेदान्तिनो नानुमन्यन्ते । ‘स्वाध्यायोऽध्येतव्यः’ इति वावये हि स्वाध्यायो वेद एवाध्ययनकर्म । अतस्तदुद्देशात् तत्प्राप्तिरेव फलम् । न च तदनिष्टत्वम्, साक्षात्फलत्वस्यार्थज्ञानेऽप्यभावात्; परम्परया फलत्वस्य स्वाध्यायेऽप्यक्षतत्वात् । निरर्थकहुम्फडादिभागेऽर्थज्ञानायोगाच्च; तदतिरिक्तपारायणादिफलान्तरसत्त्वाच्च । अत एव न्यायरत्नमालायामपि, ‘न केवलार्थविज्ञानसिद्धिरस्य प्रयोजनम् । अपेक्षितं दृश्यते यत् सर्वं तत्फलमिष्यते’, ‘जपयज्ञपारायणादिविधिभिर्वेदस्वरूपावधारणमपेक्षितमिति तदपि प्रयोजनम्’ इत्युक्तम् । अत एव बादरायणोऽपि, ‘अध्ययनमात्रवतः’ इति सूत्रेणाध्ययनविधेरर्थं ज्ञानपर्यन्तता नेति न्यरूपयत् । अतः स्वाध्यायलाभेनैव विधिचारितार्थ्यात् अध्ययनसमनन्तरमेव, अधीत्य स्नायादिति समावर्तनविधानादवसरालाभाच्च न विचार इति पूर्वः पक्षः । साङ्गवेदाध्ययनादापातप्रतीतिसद्भावात् तस्या एव विचारे प्रेरकत्वात्, अविदुषां कर्मणि मुख्याधिकारित्वाभावात्, कृतेऽपि समावर्तने गुरोरिव शिष्यस्यापि पूर्णावकाशलाभात् अध्ययनानन्तरं तत एव साङ्गाध्ययनात् हेतोर्विचारो भवितुमर्हतीति । तदेव प्रथमाधिकरणे भाट्टप्राभाकरवत् वेदान्तिनः प्रस्थानभेदः ।
अथ धर्मलक्षणम्, प्रमाणपरीक्षणम्, प्रत्यक्षादेरप्रामाण्यम्, वेदस्य प्रामाण्यमित्यंशाः क्रमेण निरूप्यन्ते । तत्र नातीव विवादः । यत् तत्र प्रत्यक्षानुमानोपमानशब्द-अर्थापत्त्यनुपलब्धिभेदेन प्रमाणषाड्विध्यवर्णनम्, तत् व्याख्यातृभिः कृतम्, न सौत्रम् । अतः प्रत्यक्षानुमानागमरूपत्रैविध्यं विशिष्टाद्वैतिदर्शितं न जैमिनिविरोधाय । अथ शब्दनित्यताधिकरणम्, अत्र वर्णनित्यत्वं स्थापयन्ति मीमांसकाः । वर्णनित्यत्वेऽपि कुमारसंभवादिवत् वेदानित्यत्वसंभवात् तत्स्थापनं वृथा ।
नन्वेवं शब्दनित्यता कथम् । पदनित्यत्वे तद्घटकवर्णानामपि नित्यत्वध्रौव्यात्; तत्स्थापनञ्च व्यर्थं पदनित्यत्वेऽपि कुमारसंभवादिवत् वेदानित्यत्वसंभवाच्च ॥ उच्यते -
सामर्थ्यात् ज्ञानभावाच्चाबाधादप्राप्तबोधनात् । प्रामाण्यस्य स्वतस्त्वाच्च धर्मे वेदस्य मानता इति पूर्वाधिकरणे निरणायि । तत्र शब्दस्य बोधकत्वं सङ्केताधीनमेव लोके दृष्टम् । पदानि सङ्केतकाले तदर्थं कल्पितान्येव भवन्तीति पदानामनित्यत्वमवर्जनीयम् । एवं पदानित्यत्वे वेदनित्यत्वनिर्दुष्टत्वादेर्न प्रसक्तिरिति शङ्कायाम् - बोधकत्वरूपसंबन्धस्य स्वाभाविकत्वं सङ्केतासंभवञ्चोपपाद्य पदनित्यत्वं स्थाप्यते । तच्च पदनित्यत्वात् वेदनित्यत्वमिति स्थापनायेति न मन्तव्यम् । किन्तु पदानित्यत्वे वेदानित्यत्वं स्यादिति शङ्कायामेतदारम्भः । नन्वेवं वर्णानित्यत्वे वेदानित्यत्वं स्यादिति शङ्कापरिहारार्थमेव वर्णनित्यत्वस्थापनं मीमांसककृतमस्त्विति चेन्न - वर्णनित्यत्वस्य शास्त्रविरोधेनानङ्गीकार्यत्वात् । सृष्टिप्रलयानभ्युपगमेन ‘न कदाचिदनीदृशं जगत्’ इति वदतां शब्दं द्रव्यत्वेन मन्यमानानां मीमांसकानां तन्नित्यत्ववादः शब्दस्याकाशाद्यनित्यभूतगुणत्वं सृष्टिप्रलयौ च वदद्भिर्वेदान्तिभिर्नेषितुं शक्यते । ताल्वादेरभिव्यञ्जकत्वपक्षेऽपि सृष्ट्यारम्भे वर्णा उत्पादिताः प्रलयारम्भे प्रलीयन्त इत्यवश्याभ्युपेत्यमिति वर्णनित्यत्वं दुर्भणम् । एवं तर्हि कथं पदनित्यत्वमिति चेत् -पदानामानुपूर्व्यैक्यमेव पदनित्यत्वमिति न दोषः । एवमपि अनित्यानेकविधोपाख्यानदर्शनात् काठकादिसमाख्यानादिना च कुमारसंभवादिवत् वेदानित्यत्वे शङ्किते तन्निर्वाहायान्तिममधिकरणमिति अनित्यार्थसंयोगात् वेदानित्यत्वशङ्कायाम् ‘किं ते कृण्वन्ति कीकटेषु गावः’ इत्यादौ प्रमगन्दादिशब्दानामप्रसिद्धार्थकल्पनया सर्वोपाख्यानान्यथाकरणं मीमांसकेष्टं बादरायणः, ‘अतः प्रभवात् प्रत्यक्षानुमानाभ्याम्’ इति इन्द्रचन्द्रवसिष्ठविश्वामित्रादिशब्दानामपि गवादिशब्दवत् आकृतिविशिष्टवाचितया प्रवाहनित्यतास्थापनात् नाद्रियतेति तदविरोधेन जैमिनिसूत्रार्थवर्णनमेव वेदान्तिनो मन्यन्ते । कुमारिलवार्प्तिकेऽपि, ‘यदा मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् सृष्टिप्रलयाविष्येते । तत्र….प्रतिसृष्टि च ऋतुलिङ्गन्यायेन तुल्यनामप्रभवव्यापारवस्तूत्पत्तेर्नानित्यताप्रसंगः’ इति कथितमिति सेश्वरमीमांसायामुदाहृतमप्यनुसन्धेयम् । तस्मादविरोधेनार्थवर्णनमेव तेषामपि हृद्यम् ।
तत्रैवं विचारविषयेष्वधिकरणेषु आकृत्यधिकरणस्य प्रथमतृतीयान्तर्गततया प्राथम्यात् तत्रत्यसूत्राणामर्थः शोध्यते । शब्दानां जातिशक्तिवादिभाट्टप्राभाकरमीमांसकमतं टीकायां जिज्ञासाधिकरणोत्तरभागे (2-65प्रभृतिषु) विस्तरेण खण्डितमिति सूत्रार्थशोधनमेवात्रास्मत्कृत्यम् । आकृत्यधिकरणतः पूर्वं व्याकरणाधिकरणम् । तत्र गवादय एव शब्दाः साधवः न गाव्यादयः, साधव एव प्रयोक्तव्याः नासाधव इति नियमद्वयं व्याकरणस्मृतिप्रामाण्यादेषितव्यमित्युक्तम् । तत्र ‘तदशक्तिश्चानुरूपत्वात्’ इति गाव्यादिशब्दानां प्रमाद-करणापाटवादिमूलानामशक्तत्वं गवादिशब्दानामेव व्याकरणसंस्कृतानां शक्तिमत्त्वमिति कथनात् शब्दशक्तेर्विषयः कः इति विचारः प्रसक्तः । अन्तिमसूत्रे च तत्र, एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् इत्यस्मिन्, यथा अश्मकेभ्य आगच्छामीति कश्चित् ब्रूयात् तत्र विभक्तिव्यत्ययेऽपि अपञ्चम्यर्थस्य तदशक्यस्याप्यवगतिः, तथा गवादिशब्दस्थानगते गाव्यादिप्रकृतिभागेऽपीत्युक्तम् । विभक्तीनाञ्चार्थव्यवस्था व्याकरणानुशिष्टा कर्मणि द्वितीयेत्येवं विस्तरेण । तथा, ‘नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्’ इति व्युत्पत्तिपक्षे सर्वस्यापि धातुतो निष्पन्नत्वात् कृदन्तत्वात् कृताञ्च यथायथं कर्तृकर्माद्यर्थकत्वस्य मीमांसकादिसर्वेष्टत्वात् भावार्थप्रत्ययव्यतिरिक्तस्थले तत्तद्द्रव्यादिपरत्वं शब्दस्य सुगमम् । धातूनाञ्च क्रियावाचित्वं भूवादय इत्याद्यवगतमेव । विभक्तीनां तिङां सुपाञ्च कर्तृकर्मादिव्यक्त्यर्थकत्वमनुशासनादवगम्यते, लःकर्मणि चेत्येवम् । पच्यादेरनेकक्रियासमुदायोऽर्थ इति च । एवञ्च धातवः प्रत्यया वा सर्वे क्रियातत्संबन्धिविविधव्यक्तिवाचिन एव व्याकरणादवगताः । ‘तदधीते तद्वेद’ ‘तस्यापत्यम्’ इत्यादिसूत्रनिष्पादितान्यपि वैयाकरणः पाराशर्य इत्यादीनि पदानि द्रव्यवाचीन्येव । क्वचिदेव तु जात्याख्यायामेकस्मिन् इत्यादौ विवक्षावशात् जातिमात्रे स्थितिर्व्याकरणेष्टा । न केवलं व्याकरणमात्रेण, लोकव्यवहारेणापि सर्वेषां पदानां व्यक्तिवचनत्वमेव सुनिरूढम्, गौर्गच्छति, गामानय, गवा समृद्ध्यतीत्येवम् । एवं व्युत्पत्तिलभ्यविशेषणांशस्य यत्र न बाधः, तत्र लक्षणया प्रयोग इत्येवाध्यवसातव्यम् ।
एवं विचारावसरे विचारान्तरं पदं धते - किं य एव लौकिकाः शब्दाः त एव वैदिका इति; लोके प्रयुज्यमानाः संस्कृतशब्दाः, वेदे प्रयुज्यमानाश्चाभिन्ना उत भिन्ना इति । कुतोऽयं विशय इत्यत्र समुचितं कारणं न निर्दिशन्ति । अत्रास्माभिरुक्तमवधेयम् । संस्कृतशब्दानां सर्वेषां धातुनिष्पन्नत्वादनित्यत्वमायातम् । वैदिकास्तु शब्दा अपौरुषेया इति नः सिद्धान्तः । न च नित्यानां तेषामनित्यानाञ्चैषामैक्यं संभाव्यते । अत एव व्याकरणदर्शितव्युत्पत्तिमुखेन लौकिकानां ये अर्था अवधारिताः, त एवार्था वैदिकानामपीत्यवधारणस्य नावसरोऽस्ति अतोऽर्थभेदोऽपि शब्दभेदवदिति शङ्का । तत्र सूत्रकृत् शब्दैक्यादर्थैकत्वमप्याह - ‘प्रयोगचोदनाभावादर्थैकत्वमविभागात् स्यात्’ इति । अयमर्थः - प्रयोगे - लोकव्यवहारे चोदनायां - वेदे च शब्दानामेकरूपाणामेव भावात् अविभागात् एकत्र धातुजत्वमन्यत्रान्यादृशत्वमित्यादिविभागाभावाच्चोभयैक्यादर्थैक्यमेवेति । व्याकरणेन निष्पादिताः शब्दाः पश्चादेव कुलालादिकृता घटादय इवात्मानं लभन्त इति नास्ति । प्रागेव स्थितानां शब्दानामर्थावधारणोपायं कञ्चिदेवमाहुः शाब्दिकाः । आहुश्च ‘उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते’ इति । अर्थस्तावत् पदानां व्युत्पाद्य व्याकरणाधिगमित एव सर्वत्र ग्राह्यः । प्रकृतिप्रत्ययनिष्पत्तिबलाद्वा भवतु; ‘स्वमपीतो भवति । तस्मादेनं स्वपितीत्याचक्षते । स्वं ह्यपीतो भवति’, ‘यत्रैतत् पुरुषोऽशिशिषति नाम, आप एव तदशितं नयन्ते । तद् यथा गोनायोऽश्वनायः पुरुषनाय इति, एवं तदप आचक्षते अशनायेति’, ‘यत्रैतत् पुरुषः पिपासति नाम, तेज एव तत् पीतं नयते….तत् तेज आचष्टे उदन्येति (उदनायेति)’, इति स्वपित्यशनायोदन्याशब्दनिर्वचनवत् विवक्षितार्थस्य हृदये लग्नत्वाय व्युत्पत्त्यारोपणमात्रमिति कृत्वा व्युत्पादितार्थवत्त्वं पदानां स्वभावादित्येव वा । सर्वथा शब्दभेदेऽर्थभेदे व्युत्पादितार्थातिरिक्तार्थे च न प्रमाणमिति । य एव लौकिकास्त एव वैदिका इत्यस्यार्थस्तावत् वैदिकशब्दानां लौकिकसजातीयानां लौकिकभिन्नत्वं नास्तीत्येतावानेव । न तु लोके प्रयुज्यमानशब्दापेक्षया अन्ये शब्दा न सन्ति वेदे इति; न वा लौकिकान् शब्दानेव घटयित्वा वेदाः कृता इति । वैदिकेष्वेव शब्देषु केचिल्लोके प्रयुज्यन्ते । अत्राप्रयुक्ताः प्रयोगानर्हाश्च केवलवैदिका बहवः शब्दाः सन्ति । वेदेष्वप्रयुक्ताः शब्दा लोकमात्रादृतास्तु न संस्कृतशब्दा भवन्तीति तत्त्वस्थितिः । एवं तर्हि य एव वैदिकाः त एव लौकिकाः इति हि वक्तव्यमिति चेत् - सत्यम् - व्याकरणाधीनार्थनिर्णयो लौकिकमात्रविश्रान्त इति न वेदस्येत उपयोग इति शङ्कायां तत्रैतदर्थस्थापनाय लौकिका एव वैदिका इति प्रतिविधानमासीदिति ध्येयम् । ननु व्याकरणे भाषायामेव केचिच्छब्दाः, व्यवस्थाप्यन्ते, ते कथं वैदिका इति । उच्यते । कर्णेभिरित्यादिवत् वेदमात्रविश्रान्ताः शब्दाः न लोके प्रयोज्या इति ज्ञापनाय कर्णैरिति भाषायामित्युक्तौ वेदे कर्णैरिति पदं नास्तीति न मन्तुं साम्प्रतम् । एवं वैदिका एव शब्दाः पूर्वापरपर्यालोचनायां तत्रार्थान्तरे प्रयुक्ततयानिश्चिताः लोके अर्थान्तरे कालक्रमेण नीताः सन्ति केचित् । ते भाषायामित्युक्तौ, तेष्ववर्थेषु ते भाषायां भवन्तीत्यर्थः । अर्थान्तरे वेदे प्रयुक्तत्वात् शब्दानां वैदिकत्वं न हन्यते । सन्तु वा केचन शब्दाः पृषोदरादिवत् कालक्रमेण किञ्चिदन्यथाभूता अपि लोके; अथापि वैदिकशब्दविकारा एवेमे प्राचीनादरणवशादनुवर्तन्त इति । तत्रापि मूलभूतपदशोधनस्य कार्यतया वैदिकत्वमेव । अत आनुपूर्वीभेदोऽर्थभेदश्च संभाव्यताम् । शब्दैक्यं संप्रतिपत्तव्यम् । प्रकृतेः प्रत्ययस्य च पृथक्पृथक्वेदे उपलम्भे भाषायामन्यादृशस्तत्समाहारोऽपि स्यादिति लोके तथा प्रयोगस्य वेदेनानुमतत्वाद्वा वैदिकत्वम् ।
तदेवं लौकिकवैदिकैक्यं समर्थ्य लौकिकानां व्याकरणाद्यनुसारेण व्यक्तिपरत्वात् व्यक्तिरेवार्थ इत्याह । तत्रापीदं सूत्रमावर्तते - प्रयोगचोदनाभावात् अर्थैकत्वमविभागादिति । गामानयति, गामानय, ‘प्रजापतिः प्रजा असृजत’, ‘पशुमालभेत’ इत्यादिप्रयोगाणां चोदनानाञ्च व्यक्तिविषये भावात् स एवार्थः, क्वचित् आकृतिविवक्षायामपि न तस्या अर्थत्वम् । अत एवार्थैकत्वम् । आकृतिप्रतीप्तिस्तु क्वचित् अविभागात् व्यक्तिसंबन्धात् स्यात् । स्थलभेदेनार्थविभागश्चायुक्तः; अन्याय्यत्वादनेकशक्तिकल्पनस्येति । आकृतिमात्रपरत्वं व्युदसितुं हेत्वन्तरमाह अद्रव्यशब्दत्वादिति । अस्यापि न तदुक्तोऽर्थः । किन्तु अद्रव्यं लिङ्गसंख्यादि । तद्वाचकशब्दसत्त्वात् तदर्थान्वयार्थं द्रव्यस्यापि वाच्यतया आकृतिपरत्वमयुक्तम् । अन्यथा, ‘षड् देयाः द्वादश देयाः’ इत्यादीनि निरर्थकानि स्युरिति । हेत्वन्तरञ्चाह अन्यदर्शनाच्चेति । यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेत इत्यादौ अन्यतदादिशब्दानामर्थवर्णनं पशुशब्दस्य जातिवाचित्वे न घटते, तज्जातीयादन्यो हि तर्हि गृह्येतेति ।
एवं प्राप्तेऽभिधीयते - आकृतिस्तु क्रियार्थत्वात् । यत् तावदुच्यते, न शब्दानामाकृतिवाचित्वम् । ‘श्येनचितं चित्वीत’ इत्यादौ श्येनपक्ष्ययोगात् श्येनाकृतिमात्रग्रहणेऽपि व्यक्तावेव प्रयोगभूम्ना व्याकरणवशाच्च व्यक्तावेव व्युत्पत्तिरिति । तत्रेदं वक्तव्यम् - ‘गमेर्डोः’ इति गोशब्दव्युत्पत्त्या गमनकर्तृव्यक्तिपरत्वे गोजातीयभिन्नापि नरवानरादिः क्रयान्वयिनी स्यात् गां दद्यात् गवा क्रीणातीत्यादौ । पूर्वपक्षिसंमतमुख्यार्थग्रहणे वैदिकलौकिकसर्वक्रियाक्षोभोऽभिमतद्रव्यानिश्चयात् स्यात् । गमनकर्तृत्वांशाभावे गोरपि गोपदग्राह्यता न स्यात् । कर्तृत्वस्योपलक्षणत्वे व्यक्तिरूपविशेष्यमात्रार्थकत्वे चातिप्रसङ्गः परिच्छेदकाभावादर्थानिर्णयश्च सात् । अतः क्रियार्यमेवार्थपरिच्छेदकतयाऽवश्यमाकृतिरपेक्ष्यते । अतश्च व्युत्पत्तिनिमित्ततया गमनक्रियादौ स्वीकृतेऽपि प्रयोगनियमपरिपालनार्थं प्रवृत्तिनिमित्ततया स्वीकर्तव्या भवत्याकृतिः । अत एव रूढिशक्तिरिष्यते । व्युत्पत्तिनिमित्तविरहितेऽपि वस्तुनि प्रयोगदर्शनात् । अतो व्युत्पत्तिबलेन पदानां पश्चात् कल्पितत्वस्य भवताप्यनङ्गीकारात् भूरिप्रयोगेणाकृतेरपि बोधनीयत्वात् गोशब्दादितो गमनादिरूपार्थस्य बोधे मानाभावाच्च धात्वर्थवैशिष्ट्यं न विवक्षणीयम् । अव्युत्पन्ना एव शब्दाः अर्थधारणानुकूलत्वाय व्युत्पत्तिककल्पनयाऽपि निरूप्यन्ते । क्वचित्, ‘पद्मानि यस्याग्रसरोरुहाण’ इत्यादौ व्युत्पत्तेरावश्यकत्वात् क्वचिद्व्यङ्यार्थपोषणादिहेतोर्व्युत्पत्तेरपि ग्रहणाय च तत्प्रदर्शनं सफलम् । तत्र विशेषणभूताकृतिमात्रविवक्षया श्येनचितमिति प्रयोगः । न पुनः सर्वथा शक्तिबलाप्रतीताया एवाकृतेः श्येनादविभागमात्रेण गङ्गाशब्देनानुपस्थिततीरग्रहणवत् ग्रहणम्, वैषम्यात् । अतो गोशब्दादेर्न गमनकर्तृत्वादि निमित्तम्; किं तु गोत्वादिकमेवेति ।
एवं पूर्वपक्षसिद्धान्तयोः स्थितौ मीमांसकोक्तप्रकारः सर्वथोपेक्ष्य एव । व्यक्तिशक्तिवादनिरासेन आकृतिमात्रशक्तिस्थापनं तच्चिकीर्षितम् । व्यक्तिशक्तिवादे एकव्यक्तिशक्तौ व्यक्त्यन्तरे प्रयोगायोगः, सर्वव्यक्तिशक्तौ आनन्त्यमितीदृशदोषोद्भावनं स्वकपोलकल्पितम् । सूत्रे तत्सूचकपदलेशस्याप्यभावात् । आकृतिं प्रवृत्तिनिमित्तीकृत्य तद्विशिष्टव्यक्तिसामान्यपरत्वे दूषणा(ण?)स्यानवसरः तार्किकैः प्रपञ्चित एव । प्रयोगबाहुल्यं व्याकरणं च सर्वथैवोपेक्ष्यानुभवविप्रकृष्टं लाघवविचारं को नामाद्रियेत । मीमांसकैरेव गवा क्रीणाति इति तृतीयाविभक्तिस्थले आकृतेर्द्रव्यपरिच्छेदद्वारा करणत्वेनान्वयेऽपि कर्मसंप्रदानापादानाधिकरणार्थकविभक्तिषु व्युक्तिपर्यन्तत्वविवक्षाया आवश्यकत्वमुक्तम् । परं तत् लक्षणया, न तु शक्त्येति तैरुच्यते । भूयसां न्यायः किमिति प्रस्मर्यते । न च कुत्रापि जैमिनिर्जातिशक्तिमाह । यत्तु (7-1-2) ‘उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात्’ इति सूत्रे अङ्गानां सामान्यतो यागतदपूर्वार्थत्वम्, उत यत्किञ्चिदर्थत्वमिति विचारे सत्त्वदृष्टान्तकथनस्य व्याख्यानम् - गौर्न पदा स्प्रष्टव्य इत्यत्र गोत्वे स्पर्शनिषेधसंबन्धः; गोशब्दस्याकृतौ शक्तेरिति - तत् व्याख्यातृकल्पनमात्रम् । चतुर्थसूत्रे ‘सत्त्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत’ इत्यत्र प्रवृत्तिनिमित्तभूतलक्षणयोगात् सर्वसत्त्वग्रहणमिति गोत्वस्य लक्षणताया एवोक्तत्वात् । लक्षणसंयोगादित्यस्य व्यक्तिलक्षणाबलादिति व्याख्यानं तु कुत्सितम् । एवं ‘तेषामृक् यत्रार्थवशेन पादव्यवस्था’, ‘गीतिषु सामाख्या’ इत्यादिसूत्रात् अनेकव्यक्त्यर्थकत्वं पदस्यादुष्टमित्येव जैमिनिर्ज्ञापयतीति सुवचम् ।
अन्यदप्यवधेयम् - आकृतिशब्देन सौत्रेण जातिं तार्किकेष्टां गृह्णन्ति । तदयुक्तम्; तस्या आकृतिव्यङ्ग्यत्वात् आकृतिशब्दार्थत्वाभावात्; श्येनचितमित्युदाहरणेऽनन्वयाच्च । न हि तत्र श्येनत्वजातिरस्ति । आकृतौ सत्यां तद्व्यङ्ग्या जातिरपि स्यादेवेति चेत् - तर्हि तदाश्रयो व्यक्तिरपि स्यादेव । विकलाकृतिसद्भावात् न तदुभयमपीति तु तत्त्वम् । बादरायणवत् जैमिनिरपि आकृतिव्यतिरिक्तां नित्यामनेकानुगतां तार्किकजातिं नेच्छतीति आकृतिपदप्रयोगादेव ज्ञायते । आकृतेरपि व्यक्तिभेदेन भेदेऽपि अर्थत्वं स्थापयन् आनन्त्यादिदोषं नाद्रियत इत्यपि ध्येयम् । शक्तपदव्यक्त्यनेकत्वेऽपि शक्त्यैक्यवत् शक्यव्यक्त्यनेकत्वेऽपि शक्त्यैक्यं सूपपादमिति न्यायकुसुमाञ्जल्युक्तमपि धर्तव्यम् । शक्तिः सविषयकपदार्थ इह । लोके ज्ञानेच्छादेः सविषयकस्याश्रयभेदेन व्यक्तिभेदेऽपि विषयभेदेन भेदो न लक्ष्यते । एकैकज्ञानादेरनेकविषयकत्वस्य संप्रतिपन्नत्वात् । अतो विषयभूतव्यक्त्यनेकत्वे शक्त्यनेकत्वमिति वार्तम् । एवञ्च प्रथमसिद्धान्तसूत्रं नाकृतिमात्रे शक्तिस्थापकमिति स्थितम् ।
अनन्तरसूत्रम् - ‘न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत्’ इति । अस्यैवमर्थं वर्णयन्ति - जातिमात्रशक्तिवादे व्रीहीन् प्रोक्षतीत्यादौ प्रोक्षणादिक्रियासंबन्धो व्रीहित्वादौ अशक्यः, अन्यं तद्वर्णं पशुमित्यत्रार्थान्तरमिष्टं न गृह्येत, षड् देया इत्यादौ द्रव्ये संख्यान्वायो न सिद्ध्येदिति चेदिति । एवं व्याख्याने सूत्रमध्यगतम् इति चेदिति पदद्वयं व्यर्थम् । अतोऽयमर्थः - श्येनचितमित्यादौ पक्षिव्यक्तौ न क्रियायोग इति हेतोः पक्षिव्यतिरिक्ते आकृतिरूपार्थान्तरे विधानं चेन्मन्यते, तथैव आकृतिमात्रमर्थमिष्ट्वा न द्रव्यं वाच्यतयेष्यताम्, प्रोक्षतीत्यादावाकृतौ क्रियानन्वयादर्थान्तरे द्रव्येऽन्वयकल्पनमित्यस्तु इति चेदिति पूर्वपक्षः । तत्रोत्तरम् - तदर्थत्वात् प्रयोगस्याविभाग इति । सर्वत्र व्यक्तिग्रहणार्थत्वात् प्रयोगस्य व्याकरणादिसिद्धार्थत्यागायोगात् आकृतिव्यक्त्योरविभागात् विशिष्टमेव शब्देनोच्यते, यथा चक्षुषा प्रमाणेन विशिष्टमेव ज्ञाप्यते; न तत्र वैषम्यकल्पने किञ्चित् प्रमाणम् - एवमिति । तदेवं विशिष्टपरत्वमाकृत्यधिकरणार्थः । व्युत्पत्तिनिमित्तमुपेक्ष्य प्रवृतिनिमित्ततया आकृतिस्वीकरणमत्र चिकीर्षितम् । यद्यपि आकृतिरवयवसंस्थानमिति सर्वत्र दुर्वचम् - अथाप्यसंभवस्थलेऽन्यो धर्मः । तदुक्तं श्रीभाष्ये, ‘आकृतिः संस्थानम्, संस्थानं नाम स्वासाधारणो धर्म इति यथावस्तु संस्थानं वेदितव्यम्’ इति । एवं लोकव्युत्पत्तिं जैमिनिस्थापितामादृत्य वेदान्तव्युत्पत्तिप्रदर्शनेन शेषपूरणं बादरायणश्चकार ‘शास्त्रदृष्ट्या तूपदेशः’ इत्यादौ । जैमिनिरपि द्रव्यपरत्वमेव मन्यत इति साक्षादप्यविरोधं जैमिनिरित्यादौ च ज्ञायते । यूपाहवनीयादिशब्दानामपि न संस्कारमात्रवाचित्वं संस्काराणामपि भिन्नतयाऽनेकत्वाविशेषात् । ‘यूपस्य स्वरुं करोति’, ‘तत्र यः प्रथमः शकलः परापतेत् स स्वरुः’, ‘मूलतः शाखां परिवास्योपवेषं करोति’ (4.2-1,2) इत्यादौ स्वरु-उपवेषादिशब्दानां यूपकाष्ठ-वत्सापाकरणशाखामूलादिद्रव्यविशेषपरत्वमेव स्वरसतोऽवगम्यते ।
आख्यातस्याकृत्यधिकरणन्यायेन कृतावेव शक्तिः न तु कर्तरीत्युक्तमप्ययुक्तम्; कृतीनामप्यानन्त्यात् शक्त्यानन्त्यप्रसङ्गात् । कृतित्वेन सर्वकृतिग्रहणे न दोष इति चेत् - तुल्यं गवादावपि । विशेषणग्रहाभावे विशिष्टग्रहो न भवतीति विशेषणे शक्तिरिष्यत इति चेत् - न; विशिष्टग्रहे विशेषणग्रहणं कारणमित्यनङ्गीकारात् । विशिष्टग्रहो नियमेन विशेषणविषयक एव भवतीत्येतावदेवानुभविकम् । अतः प्रत्यक्षं शाब्दमर्थज्ञानञ्च विशिष्टविषयकमेव । अन्यथा गवादिनाम्नां गोत्वादिमात्रार्थस्मवे उद्भिच्चित्राग्निहोत्रश्येनादिनामधेयानामपि तत्तद्यागविशेषगतजातिविशेषनामधेयत्वमेव स्यात् । तस्य जातिविशेषस्यैव मुख्यार्थस्य प्रमाणबलात् स्वर्गादिकरणत्वं भवेत् । एवञ्च यागादौ नष्टेऽपि कृतिसाधितयागादिव्यक्त्युपलक्षितनित्यभूतजातित एव कालान्तरभाविफलसंभवे कृतमपूर्वेणेति महदनिष्टं मीमांसकम्मन्यानाम् । एवं तावत् सूत्रस्वरसार्थः प्रादर्शि । इतोऽपि स्वरसेऽर्थान्तरे संभवति अस्योपेक्ष्यत्वेऽपि आकृतिमात्रशक्तिपक्षस्तु जैमिनिमतत्वेन न वक्तं शक्यते इत्यलम् । कथं तर्हि अरुणाधिकरणे आरुण्यरूपगुणमात्रस्य क्रियान्वयमभिसन्धाय पूर्वोत्तरपक्षौ वर्तयामासेति चेत् - तथावर्तनं व्याख्यातृचेष्टितम्, जैमिनिस्तु विशिष्टपरमाकलय्यैव प्रावर्तयदिति भगवता भाष्यकृता आनन्दमयाधिकरणे सति प्रसङ्गे सम्यगुपपादितमेवेति ।
किञ्च मीमांसकमते सोमेन यजेत, व्रीहिभिर्यजेतेत्यादावपि सोमादिशब्दस्य जातिवाचितया तत्तत्क्रियान्वयायोग इत्याशङ्क्य परिहारार्थमप्येकमधिकरणमपेक्षितम् । अगत्या द्रव्यपरिच्छेदद्वाराऽन्वय इति लोकव्युत्पत्तिकालिकपरिश्रमादेव भोत्स्यत इति चेत् - तथेहापि भोत्स्यत इति गुणवाचित्वप्रयुक्तानन्वयशङ्काया नैवावकाशः । किञ्च चतुर्थद्वितीये (25) तथा द्रव्ये गुणश्रुतिरुत्पत्तिसंयोगादिति सूत्रे, ‘श्वेतं पशुमालभेत’, ‘शुक्लानां चरुम्’ इत्यादौ गुणविषयनियमविधिं वदता द्रव्ये गुणश्रुतिरिति पदप्रयोगेण द्रव्ये गुणान्वयस्य श्रौतत्वमलाक्षणिकत्वमेव ज्ञाप्यते । अत्र पृथगधिकरणत्वतदभावविषयमतिभेदस्तावदास्ताम् । पूर्वं कर्तृदेशकालानां नियमविधिरुक्तः । तस्य सर्वकारकविषयकत्वं वर्णयन्ति । तत्र सामान्यतः क्रियायाः कर्तृदेशकालाक्षेपकत्वेऽपि समे दर्शपूर्णमासाभ्यामित्येवं समादिदेशनियमस्यासिद्ध्या तन्नित्यवच्छ्रवणबलात् तन्नियमः स्वीकार्य इत्युक्तम् । तद्वदेवायं गुणविचारोऽपि । परं तु द्रव्ये इति पदेनेदं ज्ञाप्यते, यत्र एकां गामित्यादौ द्रव्योद्देशेन गुणविधानमेव वाक्यकृत्यम् । तत्र गुणनियमस्यावश्यकत्वेऽपि यत्र द्रव्यस्यापि विधानमत्रैव भवति, तत्र तावत्येव तात्पर्यमिति गुणस्य संभावितत्वेनानूद्यमानत्वमस्त्विति शङ्कायां विधिवाक्यश्रुतत्वात् गुणस्य, अर्थवादश्रुतत्वाभावेन पाक्षिकत्वकल्पनायोगात् गुणविशिष्टद्रव्यविधानेन गुणान्वयेऽपि नियम इति । यदि च गुणमात्रं शब्दार्थः स्यात् । तर्हि तस्यैव प्रथमं क्रियान्वयात् अङ्गत्वेन श्रुतस्य पश्चादुपेक्षणायोगात् उपेक्षारूपपूर्वपक्षस्यैवानवसरः । गुणविशिष्टद्रव्यपरत्वे च गुणांशे विधिसंक्रमाभावशङ्का भवितुमर्हति । उत्पत्तिसंयोगादित्यस्य विधेयविशेषणत्वादित्यर्थः; न तु कर्मविधिवाक्यगतत्वादितीत्यलम् ।
अथात्रापूर्वस्य प्रसक्तत्वात् तद्विचारस्य द्वितीयारम्भ एव स्थितत्वेनानन्तर्याच्च तदपि विचार्यते । ‘चोदना पुनरारम्भः’ इति सूत्रम् । तत्र ‘चोदनेत्यपूर्वं ब्रूमः’ इति शाबरं भाष्यम् । क्षणभङ्गित्वात् क्रियाणाम्, तासां स्थितानामेव सौक्ष्म्यादिनाऽनुपलम्भ इति कल्पनायाः प्रत्यक्षविरुद्धत्वाच्च सर्वगतात्मस्थतया कर्मजन्यतया चापूर्वकल्पनमेव ज्याय इति च वर्णितम् । सूत्रकारस्तावत् अपूर्वशब्दं ‘अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्वम्’ इत्यादौ मानान्तराज्ञातपूर्वे विधेये प्रायुङ्क्त, यथा बादरायणः, ‘कार्याख्यानादपूर्वम्’ इति । चोदनाशब्दस्य पुरुषगतादृष्टपरत्वं कथमिति चिन्तायां विकर्षेणापि संबन्धो दुर्ग्रह इव । अत एव लाभमार्गमप्रदर्श्य अपूर्वं ब्रूम इति गम्भीरमुक्तं शाबरे । एतदपेक्ष्य आरम्भ इत्यपूर्वं ब्रूम इत्युच्यते चेत्, युज्यते । अनेन ज्ञायते; क्षणभङ्गिकर्मणः कथं फलमिति प्रश्नशमनं चोदनाशब्देन प्राञ्चः कृतवन्त इति । इदमेव भाष्यमवलम्ब्य नियोगोऽपूर्वमित्युच्यते । नूनं नियोगातिरिक्तमपूर्वं नापेक्षितमिति प्रारब्धो वादः कर्मजन्यस्य कस्यचिदपूर्वस्य नियोगत्व-लिङर्थत्वकल्पनयाऽन्यथा परिणमितः प्राभाकरैः । तथाचापूर्वमित्यात्मगतमदृष्टं किमपि नास्ति; यागादेर्नष्टत्वेऽपि तदुपलक्षिता तदुत्तरत्वविशिष्टा यागादिप्रेरणैवापौरुषेयवायवीया नित्या फलं जनयिष्यतीति जैमिनिर्मेने । यथा यागोपलक्षितः कालो यज्वा वा फलहेतुरिति न्यायकुसुमाञ्जलिदर्शितमेकं मतम्, तथैतदिति । इदमेव धर्मं जैमिनिरत एवेत्यत्र शारीरके निगूढमिव । बादरायणस्तु यागप्रवृत्तिहेतुभूतां प्रवर्तनाख्यां चोदनां फलहेतुत्वेनानिच्छन् यथाश्रुतियागादिजन्यं प्रीतिविशेषं तथात्वेनाह । सोऽपि नियोगविशेष एव, अयं कर्ता फलमिदं लभतामिति सङ्कल्परूप इति । एवञ्च प्रवर्तनाया एव स्थिरायाः आरम्भत्वं फलहेतुत्वं चोदनापुनरारम्भ इति विवक्षितं स्यात् जैमिनिना । अस्तु वा, चोदनेति क्रियायाः प्रवर्तकं वाक्यमाहुरिति शाबरभाष्यात् वाक्यमेव नित्यं धर्मोपलक्षितं फलहेतुरिति; कृतमपूर्वेण । तदुपलक्षितत्वं नाम तद्धर्मतद्ध्वंसान्यतरकालिकत्वम् । यद्यपूर्वरूपं द्वारं जैमिन्याशयितं स्यात्, तर्हि बादरायणः फलाधिकरणे फलमत इति धर्मजन्यप्रीतिमत्परमपुरुषद्वारस्थाने तदिष्टमपूर्वमेव दर्शयितुम् अपूर्वं जैमिनिरत एवेति सूत्रयेत् । धर्मशब्दस्यापूर्ववाचित्वं यद्यपि तार्किकमते, न तु मीमांसकमते । न च चोदनालक्षणोऽर्थो धर्म इति सूत्रस्य विधिवाक्येन वाच्यतयाऽन्यथा वा ज्ञापितं कर्मसाध्यत्वादर्थभूतमपूर्वं धर्म इत्येवाथोऽस्त्विति वाच्यम् - अपसिद्धान्तादित्यलम् । अतो धर्मं जैमिनिरित्येव सूत्रणात् धर्मोत्पाद्यं किञ्चिद्विनैव फलोत्पत्तिः जैमिनीष्टेति विज्ञायते ।
देवताप्रीतिविषये जैमिन्याशयः कीदृश इति चेत् - उच्यते । देवताप्रीतिद्वारा चेत् फलं भवेत्, भवति देवतायाः प्राधान्यमिति यागे द्रव्यप्रयुक्तसादृश्यं देवताप्रयुक्तसादृश्यात् प्रबलमिति अष्टमप्रथमे सिद्धान्ते कथितं न सङ्गच्छत इति केचिन्मन्येरत् - तन्न युक्तम् । न ह्यत्र देवतापलापेन द्रव्यसादृश्यप्राबल्यं विवक्षितम्, किन्तु सत्या एव तस्या दुर्बलत्वमात्रम् । तथाहि - ‘ऐन्द्राग्नमेकादशकपालं निर्वपेत्’ इति आग्नेयं पय इति च श्रूयते । तत्र किं देवतैक्यात् ऐन्द्रपुरोडाशयागे ऐन्द्रसान्नाय्यविध्यन्तः, उत द्रव्यसारूप्यात् पुरोडाशयागविध्यन्त इति विशये देवताप्रयुक्तं साम्यं बलीय इति पूर्वपक्षः - तत्र हेतुः पुरोडाशवाचकपदापेक्षया ऐन्द्रमिति देवतावाचिनः पदस्य प्रथमे श्रवणमिति शाबरे उक्तम् । ऐवं तर्हि यदि तत्पदं पश्चात्, तत्र न शङ्केति स्यात् । देवतोद्देश्यकद्रव्यत्यागरूपे यागे देवतानिर्देशः प्रथममिति तत् कारणमित्युत्प्रेक्षान्तरम् । सर्वमिदं विहाय देवताया आराध्यतया प्राधान्यात् तत्कृतं प्राबल्यं ग्राह्यमिति युज्यते । तत्र समाधिः - ‘विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात्’ इति । हविर्देवतयोर्मध्ये कतरस्यादर इति विप्रतिपत्तौ सत्यां हविरादाय नियमः कार्यः । कर्मणो हविरुपाख्यत्वात् - हविर्मूलं दृश्यमानत्वात् । ‘हविस्त्यज्यमानं दृश्यते’ इति च शाबरम् । प्रत्यक्षं सादृश्यं परोक्षात् सादृश्यात् प्रबलमित्युक्तं भवति । देवतोद्देश्यकद्रव्यत्यागे त्यागरूपप्रधानांशे द्रव्यान्वयः, देवतायास्तु तद्विशेषणे उद्देशांशे इति विप्रकर्षश्च । तदुक्तमनन्तरसूत्रेण, तेन च कर्मसंयोगादिति । किञ्च ऐन्द्रम् आग्नेयमित्यादौ देवता उपसर्जनतया प्रतीयते, द्रव्यं विशेष्यतया । द्रव्यस्य क्रियान्वयः साक्षात् । अतोऽपि तत्सादृश्यग्रहणम् । तदुच्यते सूत्रान्तरेण - गुणत्वेन देवताश्रुतिरिति । यत् पुनरुक्तम् आराध्यतया देवतायाः प्राबल्यमिति - तत्रापीदमेवोत्तरम् - गुणत्वेन देवताश्रुतिरिति । देवताया अतिथिवैलक्षण्यस्य वक्ष्यमाणत्वात् देवताया यागं प्रति अङ्गत्वेनान्वयात् द्रव्यदेवतयोर्द्वयोरप्यङ्गत्वाविशेषात् अन्तरङ्गद्रव्यघटितसादृश्यमेव ग्राह्यमिति । राजपुरुषमानयेत्यादौ राज्ञि आर्थप्रधान्ये सत्यपि कार्यान्वयः पुरुष एव; तद्वत् द्रव्यप्राबल्यमिति च शाबरोक्तम् । अतो देवताया आराध्यताप्रयुक्तप्राधान्येऽपि द्रव्यप्राबल्यमूलातिदेशप्राप्तेतिकर्तव्यताकयागाराध्यत्वाय देवतासादृश्यत्यागः । वस्तुतो द्रव्यघटितसादृश्यग्रहणे सत्येव संनिपत्योपकारकावहननादीनामन्वयौचित्यम् । प्रथमसूत्रे कर्मणस्तदुपाख्यत्वादित्यत्रेदमुक्तं मन्तव्यम् । संनिपत्योपकारककर्मकलापसंस्कृतेनैव द्रव्येण हविर्निष्पद्यमानं दृश्यते । तथाविधेनैव हविषा देवता भवत्याराधनीया । तत्र हविरैक्यप्रयुक्तसादृश्ये स्वीकृते सर्वविध्यन्तातिदेशौचित्यमिति । अतो न देवतामलापः । अपि चाङ्गानामेवातिदेशः, न फलादेः । अतोऽतिदेशविषये गुणत्वाकारपुरस्करणं युक्तमिति देवतारूपगुणापेक्षया द्रव्यरूपगुणस्यान्तरङ्गत्वादिना प्राबल्यमिति ।
यदपि सप्तमे (7-1-3) ‘चोदनाशेषभावाद्वा तद्भेदात् व्यवतिष्ठेरन् उत्पत्तेर्गुणभूतत्वात्’ इति सूत्रे शाबरे चोदनाशब्देनापूर्वग्रहणायोपपादनम् - दर्शपूर्णमासाभ्यां कुर्यादिति कार्यं यज्यतिरिक्तं प्रतीयते, तच्च न फलम्, तस्य यागासाध्यत्वात् । विनष्टे हि यजौ तद्भवति । अतोऽपूर्वमेव क्रियते इति तदेव कार्यं चोदनेति - तत्रोच्यते - नूनमीदृशान्येव शाबरवाक्यानि नियोगाख्यापूर्वस्य लिङ्वाच्यत्ववादिनः प्राभाकरस्याधारभूतानि । प्रकृतपूर्वपक्षस्तु तावता न भवति । यजिधातोः यागत्वेन सर्वपरत्वात् सर्वयागार्थः प्रयाजाद्यङ्गकलापः स्यादिति पूर्वपक्षे अपूर्वार्थत्ववर्णनेन कः परिहार; अपूर्वत्वेन सर्वयागापूर्वग्रहणे तदाशङ्कातादवस्थ्यात् । अतोऽपूर्वं दूरीकृत्य, तत्र तत्र श्रूयमाणस्य लिङादेर्भिन्नभिन्नचोदनारूपप्रेरणापरत्वस्य निर्विवादत्वात् तत्प्रेरेणान्वितेन यजिना तच्छेषभूतप्रकृतयागस्यैवोपस्थापनात् । अनुवादस्य सति संभवे संनिहितगामित्वात् व्यक्तिवचनानां संनिहितगामित्वमिति न्यायाच्च सर्वयागग्रहणायोगात् प्रयाजादेर्नियन्त्रणमित्येव सूत्राशयः । अतो न चोदनापदस्य कार्यपरतया कार्यत्वमुखेनापूर्वपरत्वमपि । अपूर्वस्य कार्यत्वं त्वशेषेण दूषितं श्रीभाष्यजिज्ञासाधिकरणान्ते, ततः प्रागेव वेदार्थसंग्रहे च । लिङर्थश्च न प्राभाकरोक्तं भाट्टोक्तं वा, किन्तु कृतिसाध्यत्वमित्यपि तत्रैव स्थापितम् । अतो लिङ्निष्ठा नित्या काचिच्चोदना शब्दभावनेत्यपि निर्मूलभावनामात्रम् ।
एवञ्चेत् देवताप्रीतेः फलहेतुत्वसंभवात् कथं नवमे देवताया अतिथिवैषम्यवर्णनेनानाराध्यत्वं जैमिनिराहेति चेत् - न; तत्रातिथिवैषम्यप्रदर्शनेऽप्यनाराध्यत्वस्याकथनात् । तानि च सूत्राणि तत्त्वटीकायां श्रीदेशिकचरणैरेव व्याख्यातानीति नात्र विस्तरस्यावसरः ।
तदेवात्र तदभिप्रायं परिगृह्य मुखान्तरेण संगृह्णीमः - पूर्वं फलदेवतयोश्चेत्यधिकरणे फलप्रतिपादकस्य ‘अगन्म सुवः’ इति मन्त्रस्य, देवताप्रतिपादकस्य च मन्त्रस्य फलदेवतार्थत्वं न तत्तत्स्थलनिर्दिष्टतत्तत्फलदेवतात्वाकारेण, किं तर्हि प्रकृतकर्मसंबन्धिफलत्वेन कर्मसंबन्धिदेवतात्वेन च । अतो विकृतौ फलान्तरे देवतान्तरे च कर्मसंबन्धिनि यथायथमूहो मन्त्रे कार्य इति निर्णीतम् । तत्र फलस्य कर्मसंबन्धः तत्साध्यत्वरूप इति सुनिश्चितम् । देवतायाः कर्मसंबन्धः किं फलवदेव प्राधान्यरूपः उत तत्साधनत्वरूप इति विशये - द्रव्यस्य तद्दानरूपयागस्य च दैवता किं प्रयोजिका उत नेति विचारः क्रियते । तत्रे पूर्वपक्षसूत्राणि त्रीणि । ‘देवता वा प्रयोजयेदतिथिवत् भोजनस्य तदर्थत्वात्’ (9-1-6) इति प्रथमम् । समर्प्यमाणहविरपेक्षयाऽप्यधिकेष्टत्वं संप्रदानत्वाद् देवतायाः संमन्तव्यम् । हविश्च तच्छेषभूतमिति सैव प्रयोजिका । अतिथिवत्; अतिथिप्रीतिमुद्दिश्य भोज्यदानात् अतिथिरेव हि तत्र प्रयोजकः । अस्मद्द्रव्यं प्रति अस्वामिभूतोऽप्यतिथिः प्रयोजको यदि, सुतरां देवतायाः प्रयोजकत्वम्, तस्याः द्रव्यस्वामित्वस्यापि सद्भावादिति वक्तुमनन्तरसूत्रम् आर्थपत्याच्चेति । नेदं सूत्रं सामान्यतो देवलोकस्थद्रव्यस्वामित्वसाधकम्; किं तु यजमानमनुजद्रव्यस्वामित्वस्यापि । तत् अर्थसिद्धम् । ननु परिपूर्णायाः देवतायाः किमनेन द्रव्येण । किञ्च दत्तेऽपि द्रव्ये मदीयमेव मह्यमर्पितमिति कृत्वा कदाचिदुपेक्षेतापि इत्यत्राह ‘ततश्च तेन संबन्ध’ इति । फलेन पुंसः संबन्धः तत एव - देवतात एव भवति ।
अयं भावः - प्रकृतितः करग्राही पार्थिव इव देवता प्रजाया हित एव व्याप्रियते । कर्म द्विविधम्, नित्यं काम्यञ्च । तत्र नित्ये कर्मणि द्रव्यदानं स्वरूपप्राप्तं मन्वानाऽपि देवता काम्यस्य अवश्यकार्यत्वाभावात् तत्र नराणां स्वांशदानार्थप्रवृत्तिमभिलक्ष्य करप्रदानरूपावश्यकार्यातिरेकेण प्रजया प्रकारान्तरेण क्रियमाणेन पुरस्कारेण पार्थिव इव विशिष्य तुष्यतीति ततः फलं भवतीति । तस्मात् देवता द्रव्यस्य प्रयोजिकेति पूर्वः पक्षः । अत्राह - अपिवा शब्दपूर्वत्वात् यज्ञकर्म प्रधानं स्यात् गुणत्वे देवताश्रुतिरिति । ज्योतिष्टोमेन यजेत स्वर्गकाम इत्यादौ तृतीयया यागस्यैव फलसाधनत्वावगमात् प्राधान्याप्राधान्यनिर्णयस्य शब्दाधीनत्वात् सोमेन यजेतेत्येवं यागाद्युद्देशेन द्रव्यविधानात् द्रव्यस्य यज्ञ एव प्रयोजकः; यज्ञस्य च फलम्, नित्यस्थले तत्र निमितञ्च प्रयोजकम् । ननु ‘यज देवपूजायाम्’ इति पूजोद्देश्यत्वं देवताया गम्यते । उच्यते । स्वर्गोद्देशेनान्विते द्रव्यमिव देवताऽपि तन्निष्पादकतया आग्नेयमित्यादौ गुणत्वेनैवान्वेतीति न देवतायाः प्रयोजकत्वसंभवः । गोदानादौ कर्तव्येऽध्यवसिते तदुचितशास्त्रसंमतसंप्रदानसङ्ग्रहवत् कर्तव्यकर्मार्थे यथाशास्त्रं देवतासङ्ग्रहः । न पुनरस्मदिष्टां देवतामुद्दिश्य वा देवतेष्टमनुरुध्य वाऽस्माभिः कर्म परिगृह्यत इति ।
अत एवातिथिदृष्टान्तो विषम इत्याह ‘अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात् तस्य प्रतिविधानत्वात्’ इति । दूरादागतं बुभुक्षापरीतमतिथिमभिलक्ष्य गृहं प्रविष्टम्, उपचरितुं त्वरमाणाः तदभिकाङ्क्षितमनुबुध्य यथायथं परिचरितुं प्रवर्तामहे । यद्यत् अतिथये रोचते, तत् कर्तव्यम्, यत् तस्मै न रोचते, न तत् बलात् कारयितव्यम् । इह तु देवताकाङ्क्षामप्रतीक्ष्य, यत् अस्मद्वशे स्थितं द्रव्यं चरुः पुरोडाशो वा पयो यवागूर्वा तत्प्रतिनिधिर्वा, तद् ग्राहयन्तः स्वतस्तामाहूयार्पयामः । तस्मादातिथ्ये कर्मणः प्रयोजकत्वं नास्ति । तत्र कर्म अतिथ्यागमप्रतिविधानरूपमिति । अत्र सूत्रे प्रतिविधानत्वादित्येतत्स्थाने प्रीतिप्रधानत्वादिति शाबरादौ पाठो लक्ष्यते । शाबरभष्यं तु प्रीतिप्रधानत्वादिति पाठं स्थापयतीति दुनिर्णयम् ‘आतिथ्ये हि तत्प्रीतिर्विधीयते’, ‘अभावः प्रीतिविधानस्य’ इति पठ्यते । प्रधानपदानुगुणमभाषित्वा विधानपदप्रयोगात् विधानपदघटितमेव सूत्रमभिमतं स्यात् । प्रीतिशब्दस्थाने प्रतिशब्दो भाष्ये सुयोजः । नूनं देवताप्रीतिविचारस्यापि क्रियमाणत्वात् तदनुरोधेन प्रीतिप्रधानेति पाठविपर्यासः पाश्चात्य इति । अतस्तत्त्वटीकानुरोधी प्रतिविधानशब्द आदर्तव्यः । प्रतिविधानपदप्रयोगो जैमिनेरन्यत्रापि । प्रीतिप्रधानत्वादित्येव पाठेऽपि तत्रातिथिप्रीतिरेवोद्देश्या, इह तु कर्म तत्फलं वेति वैलक्षण्यं भाव्यम् । तावता देवताविग्रह-तदाराधन-तत्प्रीत्यादेर्नापलापः; किं तु तत्प्रीतेरातिथ्य इव प्राधान्याभावमात्रमुच्यते । न हि देवता वाञ्छतीति यागो विहितोपेक्षया मन्त्रद्रव्यादीनि अन्यानि अस्माभिः स्वीकर्तुं शक्यन्ते । एवं तावत् प्राच्योक्तमेव मुखान्तरेण सूत्राक्षरार्थशोधनेन विशदीकृतम् । देवताप्रीतिविग्रहाद्यपलापसाधकं किमत्र सूत्रेषु लक्ष्यते, येन जैमिनेरर्धनास्तिकत्वं शङ्क्येत । तदाहुस्तत्त्वटीकायाम् - ‘सूत्रेषु तावदेतेषु पूर्वपश्चिमपक्षयोः । देवताविग्रहादेर्न प्रतिक्षेप्यत्वसूचनम् ॥’ इति ।
यदेवं सूचनेऽप्यसति शाबरे देवताविग्रहादिनिराकरणम्, यच्च तदनुयायिनां वर्णनम्, ‘विग्रहो हविरादानं युगपत् कर्मसन्निधिः । प्रीतिः फलप्रदानञ्च देवतानां न विद्यते ॥’ इति - तत् सर्वमभिसन्धायोक्तं भगवता भाष्यकृता वेदार्थसङ्ग्रहे, ‘अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृताः’ इति । तस्मात् यथा कर्तुरात्मनः, ‘फलञ्च पुरुषार्थत्वात्’ इति सूत्रोक्तरीत्या भोक्तृत्वावस्थया प्राधान्येऽपि प्रथमं कर्तृत्वावस्थया कर्मशेषत्वम्, यथा च फलस्वर्गादेः कर्मसाध्यतया प्राधान्येऽपि अगन्मसुवरिति मन्त्रप्रकाश्यत्वाकारेण कर्मप्रोत्साहकरत्वादिना शेषत्वम्, तथा देवतायाः आराध्यत्वफलप्रदत्वाकारेण प्राधान्येऽपि यागं प्रति रूपतया तन्निर्वर्तकत्वेन तच्छेषत्वं निर्बाधमिति ।
एवं देवतायां प्रयोजकत्वनिरसनस्य किं फलम्, यदि विग्रहतत्प्रीत्यादि न निरस्यते इति चेत् - इदमेव, यत् वेदार्थसङ्ग्रहे भङ्ग्या सूचितम् । तदुक्तं तत्त्वटीकायाम् - अनिर्धारितवास्तवप्राधान्यानामपि कर्मश्रद्धासंवर्धनमिति ।
अयमाशयः - देवताप्राधान्ये द्रव्यसादृश्यबलीयस्त्वप्रयुक्तातिदेशस्याष्टमोक्तस्य भङ्गः स्यादिति, तथा देवतापदमन्यदूहितव्यमिति न स्यात् अपूर्वप्रयुक्तत्वाभावादिति च तत्तदुक्तं प्रयोजनवर्णनं न क्षोदक्षमम्; आराध्यत्वफलप्रदत्वादिना सत्यपि प्राधान्ये शाब्दाप्राधान्यादेरुक्तरीत्या वर्णनेनैव तद्दोषपरिहारात् तदर्थं विग्रहापलापापूर्वस्वीकारादेरनावश्यकत्वात् । उक्तरीत्या देवताया गुणभूततया अतिथिवैलक्षण्यात् देवतास्वाच्छन्द्याभावात् तन्नियोगादिकल्पनया द्रव्येतिकर्तव्यताद्यन्यथाकरणं न संभावनीयम् । अत एव दीयमानपिण्डग्रहणार्थं पितृदेवतया हस्ते प्रसार्यमाणेऽपि, ‘भूमौ दत्तेन पिडेन’ इति वाक्यार्थलोपभिया भीष्मो भूमावेव पिण्डं निचिक्षेपेति प्रसिद्धिः । न तावता पित्राद्यपलापप्रसक्तिः; प्रत्यक्षदृष्टेः । एवं द्रव्यादेस्तद्देवताप्रयुक्तत्वे विकृतौ तद्देवताविरहे तद्द्रव्यतद्देवत्यमन्त्रादेरतिदेशोऽपि न स्यात् । अन्यदपि विमृश्यन् - फलदेवतयोरिति पूर्वसूत्रे देवताविषयः स्पृष्टः । उपरि, ‘देवता वा’ इति वाशब्दघटितसूत्रारम्भात् तदधिकरणनिवेश एव तस्याक्षेपस्य । एवञ्च अपिवेति समाधानसूत्रमपि तदन्तर्गतमेवेति तदधिकरणप्रयोजनमेवैतत्प्रयोजनम् । यदि देवताविषयं तत्राविचार्य वा, विचारेऽप्यधिक शङ्कया विचारयितुं वाऽधिकरणारम्भः - तदापि तत्प्रयोजनमेनैतत्प्रयोजनमिति ॥ तदत्र गुणत्वमपि वर्णितम् । तेनोक्तरीत्या सकलाङ्गोपसंहारवत एव कर्मणः फलम् । शास्त्रप्रामाण्याच्च तत एव देवताप्रीतिः । परं तु स प्रीतिविचारो न जैमिनिना तदा मुख्यत्वेनामन्यत; ‘चोदना पुनरारम्भः’ इति प्राक् सूत्रितत्वात् ।
देवताप्रीतेर्द्वारत्वमेव बादरायणोक्तं कस्मान्न जैमिनिराहेति चेत् - देवानामनित्यतया तद्विलये कथं कर्म फलिष्यतीति केचिन्मन्येरन्; ‘स्तेगान् दंष्ट्राभ्यां मण्डूकान् जम्भ्येभिः’ इत्वश्वमेधीयमन्त्रादितः (स्तेगाः क्षुद्रजन्तुविशेषाः गोकर्णगा इति लोके प्रसिद्धा इति सायणीये) स्तेगमण्डूकादीनां तिरश्चामचेतनानाञ्चौषधिवनस्पतीनां होमेषु देवतात्वश्रवणात् त्यज्यमानहविरुद्देश्यत्वातिरिक्तमाराध्यत्वादिकं न विवेकिविश्वसनीयम् । देवतानुद्देश्यकेषु दानोपवासकृच्छ्रादिषु देवता का प्रीयेत? तत्र कः फलहेतुः । अतः सर्वानुगुण्येन चोदनाबलात् भवति फलमिति गढहृदयः सामान्यमुपदिश्य जैमिनिर्व्यरंसीत् । व्यासाभिसंहितदेवताप्राधान्यस्य जैमिन्युपदर्शितद्रव्यसादृश्यप्राबल्य-अतिथिवैलक्षण्यादेश्च मिथो विरोधो नास्तीति सिद्धमेतावता । असति विरोधे क्वचित् ग्रन्थे (कणादसूत्रेऽपि) अदृष्ट-अपूर्वादिशब्दाः अदृश्यमानत्वाज्ञातपूर्वत्वाद्युपाधिना भगवदनुग्रहादिपरा एव वक्तुं शक्यन्ते । दानतपःप्रभृतिषु देवतानुद्देश्यकेष्वपि, ‘श्रुतिः स्मृतिर्ममैवाज्ञा’ इत्युक्तरीत्या भगवदाज्ञात्वस्याक्षततया तन्निग्रहानुग्रहरूपत्वमेव सर्वत्र पापपुण्ययोर्बादरायणः प्राह । तथा च द्रमिडभाष्यकारः ‘फलसंबिभन्त्सया हि कर्मभिरात्मानं पिप्रीषन्ति । स प्रीतोऽलं फलायेति शास्त्रमर्यादा’ इति । अत्र अलमिति पदेन अन्यादृशापूर्वकल्पन-देवतान्तरानित्यत्वप्रयुक्तफलविनाभावविमर्शादिसर्वव्युदसनमभिसंहितमिति ।
किञ्च 1-1-5 ‘औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः’ इति सूत्रे, ‘अव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वात्’ इत्यनेन प्रमाणान्तरागोचरोऽर्थः औत्पत्तिकबोध्यबोधकभावाख्यसंबन्धरूपशक्तिशालिना वेदेन बोध्यमानः पुरुषबुद्धिमूलत्वादिप्रयुक्तदोषसंभावनायाः बाधस्य चाभावात् प्रामाणिक एव स्वीकार्यः; तथोपदिष्टं बादरायणेनेति बादरायणपुरस्कारेण निरूपणमुपक्रममाणो जैमिनिः बादरायणपक्षादन्यं पक्षं मन्यत इति कथं कल्पनां सहेमहि । अतो मन्त्रार्थवादाद्यर्थं बादरायणवदेव सोऽपि स्वीचकारेत्यत्र न विशयलेशः । परं क्रियाशेषत्वं विना तेषां स्वातन्त्र्यं न स मेने, शासनाद्धि शास्त्रमिति । आदेशाभावेऽप्युपदेशोऽपि पर्याप्त इति बादरायणाशयः । सोऽप्यंशः तत्रैव सूचितः, ‘तस्य ज्ञानमुपदेशः’ इति । उपदेशस्याप्यादेशपर्यवसानं जैमिनीष्टम् । अन्यत्र भागे तथात्वेऽपि उपनिषद्भागे उपदेशस्य स्वातन्त्र्यं बादरायणो मन्यते । स्वयं तत्राप्रवर्तमानो जैमिनिः स्वविचारणीये कर्मकाण्डे उपदेशानामादेशशेषत्वं बादरायणेष्टमेवेति स्वयं तथा तत्र न्यरूपयत् । औत्पत्तिकसूत्रादिवास्तवार्थादिकं सेश्वरमीमांसायां द्रष्टव्यम् ॥
॥ श्रीः ॥
अथ भाष्यटीकोदाहृतकतिपयमीमांसाविषयाणां विवरणम् -
(पुट.) 6. ‘छागो वा मन्त्रवर्णात्’ । षष्ठाध्यायान्तिमाधिकरणे पशुचोदनायामित्यत्र विचारितम् । यत्रैकवाक्यता, तत्र संदिग्धेषु वाक्यशेषादिति न्यायेन सामान्यस्य विशेषे पर्यवसानं युक्तम् । अग्नीषोमीयं पशुमालभेतेति वाक्यं तु, ‘छागस्य वपाया’ इति मन्त्रनिरपेक्षमेव निस्संदेहार्थबोधहेतुरिति अविशेषात् सर्वस्यापि पशोर्यथालाभं द्रव्यत्वम् । छागमन्त्रस्तु छागप्रयोगे उपयुज्यते इत्याक्षेपः । पशुपदस्य सामान्यस्य छागरूपमन्त्रोक्तविशेषपर्यवसानेनाविरोधे संभवति छागमन्त्रपाक्षिकत्वं न युक्तम् । सति विशेषश्रवणे सामान्यं भिन्नवाक्यत्वेऽपि तद्विशेषे पर्यवस्यतीति सिद्धान्तः ।
22. विरोधाधिकरणन्यायेति । श्रुतिमूलकतया स्मृतेः प्रामाण्यं प्रागुक्तम् । अथ 2-3-2 ‘विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्’ इति विरोधाधिकरणे श्रुतिविरोघे स्मृतिवचनमनादरणीयं स्यात् । मूलानपेक्षं श्रुतिवचनमेव प्रमाणं स्यात् । असत्येव श्रुतिविरोधे स्मृत्या श्रुतेरश्रूयमाणाया अनुमानं तन्मूलं स्मृतिप्रामाण्यं च भवतीत्युक्तम् ।
28. ज्योतिष्टोमे पृष्ठाख्यस्तोत्रसाधनत्वेन बृहत् रथन्तरमिति सामनी विहिते । तत्र, ‘रथन्तरे प्रस्तूयमाने संमीलयेत्, बृहति प्रस्तूयमाने समुद्रं मनसा ध्यायेत्’ इति रथन्तरसामाङ्गतया नेत्रसंमीलनं बृहत्सामाङ्गतया च समुद्रध्यानं विहितम् । साम्नः पृष्ठस्तोत्रसाधनत्वाकारेणोद्देश्यत्वात् साधनत्वस्य सामद्वयेऽप्यविशिष्टत्वात् उभयत्राप्युभयं स्यात्, न तु व्यवस्थेति पूर्वपक्षे - निर्देशबलात् तत्तत्सामासाधारणधर्म एवोद्देश्यतावच्छेदक इति व्यवस्थैवेत्युक्तम् । प्रकृते तु न स विषयो विवक्षितः; समुद्रध्यानस्य बृहत्सामाङ्गत्वं कया विधयेति विचारे दृष्टद्वाराभावाददृष्टविधैव वक्तव्येत्येतावदेव ।
29. सक्तुहोमवदिति । व्रीहीनवहन्ति, व्रीहीन् प्रोक्षतीत्यादाविव द्वितीयाश्रवणेऽपि द्वितीयायाः साध्यत्वरूपार्थस्य मुख्यत्वेऽपि, सक्तून् जुहोतीत्यादौ सक्तुकरणकहोमविधानमेव, संस्कार्यत्वे सक्तूनां भूतभाव्यन्यतरोपयोगस्य वाच्यत्वात् तदभावात् । अतः प्रयाजवत् प्रधानकर्मतेति 2-1-4 धर्ममात्रेत्वित्यधिकरणे स्थितम् ।
30. विलम्बितधीहेतुत्वमिति । 3-3-7. ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इत्यत्र उत्तरोत्तरस्य दुर्बलत्वमुक्तम् । इमानि अङ्गत्वे प्रमाणानि । उत्तरोतरं पूर्वपूर्वप्रमाणकल्पनेनैवाङ्गताबोधकम् । अतो यावदुत्तरप्रमाणमङ्गताबोधं निर्वर्तयेत्, ततः प्रागेव पूर्वेण प्रमाणेनान्याङ्गताबोधस्य निर्वर्तितत्वात् आकाङ्क्षाशमनादुत्तरमुपरमतीति ।
33. सुवर्णं भार्यमिति । 3-4-12 ‘अप्रकरणे तु’ इत्यत्र, सुवर्णं हिरण्यं भार्यमित्यनारभ्याधीतवाक्ये विचारः । सक्तूनां भूतभाव्युपयोगायोगेनासंस्कार्यत्वेऽपि सुवर्णस्य धारणसंस्कार्यत्वसंभवात् तस्य च क्रतूपयुक्तहिरण्यरूपत्वे क्रत्वर्थत्वस्याक्षतत्वात् अव्यभिचरितक्रतुसंबन्धाभावेऽपि अदृष्टरूपसंस्कारस्यादृष्टार्थक्रतूपस्थापकत्वसंभवात् संस्कारकर्मतेत्याशङ्क्य, भार्यमिति श्रुतकर्मत्वस्य लौकिकं यत् क्रियाजन्यफलशालित्वरूपं कर्मत्वं तत्परतयैवोपपत्तेः हिरण्यपदस्य क्रतुप्रकरणावर्तिनः क्रतुसंबन्धिहिरण्यानुवादरूपत्वाज्ञानाच्च हिरण्यभरणं पुरुषार्थमेवेति निरूपितम् ।
37. न स्वाङ्गं स्वव्यवधायकमिति । प्रकरणं स्थानमिति प्रमाणद्वयेन सर्वाङ्गग्रहणोपपादनसिद्धमिदम् । तथा हि - फलवत्सन्निधौ अफलं तदङ्गमित्युच्यते । यजेत स्वर्गकाम इति वाक्ये फलश्रवणात् तत् प्रधानम् । तत्सन्निधौ फलमनिर्दिश्य विहितानि सर्वाणि तदङ्गानि । तत्राङ्गानां क्रमेण पाठे प्रथमपठितेनाङ्गेन द्वितीयादेर्व्यवहितत्वात् द्वितीयतृतीयादिकं न स्यात् फलवद्यागाङ्गम्; भवतु पूर्वपूर्वं प्रति उतरोत्तरमङ्गमिति शङ्कायामुच्यते, न स्वाङ्गं स्वव्यवधायकमिति । बहूनामङ्गानां वक्तव्यत्वे क्रमेणैव वक्तव्यतया अशोकवनिकान्यायेन किमपि पूर्वं गृह्यते । अतोऽविशेषात् सर्वेषां प्रधानाङ्गत्वमेव । अतः प्रथमाङ्गव्यवहितत्वात् द्वितीयं नाङ्गमिति नेति । अन्योऽप्यर्थः । क्वचित् प्रधानं फलवद्विधाय तदङ्गे तदङ्गोपयुक्तद्रव्यसंपादनादि विधाय पश्चात् तदङ्गमुच्येत । तत्राङ्गस्य स्वाङ्गद्रव्यादिना फलवत्प्रधाने व्यवधानं नास्तीति । लोकेऽपि भुजानन्तरो हस्तः, हस्तानन्तराऽङ्गुलिरिति हस्तस्य जीवात्माङ्गभूतभुजव्यवहितत्वे प्रतीतेऽपि न हस्तस्य जीवाङ्गत्वे विवादः, अवयवान्तरमुखेनावयवान्तरस्य कदाचित् प्रेर्यत्वेऽपि च साक्षादङ्गत्वमपीष्यत इत्यादि द्रष्टव्यम् ।
37. आधानविधेरुत्तरक्रतुविधिपर्यन्तत्वं नेति । यजेत, जुहुयादित्यादिवाक्यैर्यागहोमाः स्वयं विहिताः । अग्नीनादधीतेति वाक्येनाग्न्युद्देशेनाऽऽधानं विहितम् । आधानजन्यातिशयविशिष्टाग्नीनां यागहोमाङ्गत्वं प्रामाणिकम् । अथापि आधानवाक्यस्याग्निसंपादनमात्रे विश्रान्तिः, न तस्य तत्तद्यागहोमविधानेऽपि तात्पर्यम् । तद्वत् अध्यापनविधिः स्वाध्यायप्राप्तौ विश्राम्यति । न त्वर्थज्ञानप्रेरणेऽपि, अन्यथा यागहोमप्रेरणेऽपि अध्ययनविधितात्पर्यं किमिति न कल्प्यत इति ।
50. भूयसां स्यादिति । भूयसां स्यात् बलीयस्त्वमिति विचारसिद्धोंऽशः । सूत्रं तु (12-2-22) ‘विप्रतिषिद्धधर्मा(र्म)णां समवाये भूयसां स्यात् सधर्मत्वम्’ इति । काम्येष्टिकाण्डे आग्नेयपुरोडाश-ऐन्द्रपुरोडाश-प्राजापत्य-अम्मधुदधिघृतधानाद्रव्ययागानां पशुकामानुष्ठेयत्वमुक्तम् । तत्राग्नेयः साधारणः । ऐन्द्रदधिनी अमावास्याविकारौ । अम्मधुदधिघृतानि पौर्णमासीविकाराः । तत्र सर्वार्थं सकृदाज्यभागाद्यंगानुष्ठाने किममावास्यामन्त्राणां ग्रहणम् उत पौर्णमासीमन्त्राणामिति विशये ऐन्द्रस्य प्राजापत्यापेक्षया पूर्वत्वेन मुख्यत्वेऽपि अम्मधुघृतरूपभूयोनुग्रहाय पौर्णमासीमन्त्रग्रहणमेव कार्यमित्युक्तम् ।
53. सर्वशाखाप्रत्ययन्यायादिति । द्वितीयाध्यायान्तिमाधिकरणम् । अस्मिन् कर्मभेदाध्याये शब्दान्तरादिभिर्भेदश्चिन्तितः । तदपवादेनैक्यं क्वचिदुच्यत इह । अग्निहोत्रं जुहोतीति वाक्यमनेकत्र शाखासु पठ्यते । तत्रैकेन विहितस्य पुनरन्येन विधानायोगात् अभ्यासः प्रकरणान्तरमिति प्रमाणद्वयमनुरुध्य तत्रतत्र विहितोऽग्निहोत्रहोमो विभिन्न इति पूर्वः पक्षः । तत्र सिद्धान्तसूत्रम्, एकं वा संयोगरूपचोदनाख्याऽविशेषादिति । इदमेव सूत्रं प्रत्यभिज्ञापयता बादरायणेन सर्ववेदान्तवेद्याक्षरविद्यादिरूपोपासनैक्यं सूत्रितम्, ‘सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्’ इति । जैमिनिसूत्रार्थस्तु - फलसंबन्धरूपसंयोगस्य, कर्माङ्गद्रव्यादेः, विधेः, अग्निहोत्रादिनाम्नश्चाविशिष्टत्वात् कर्मैक्यमेव । न च विहितविधानायोगः; ततच्छाखाध्यायिनां पुरुषाणां भिन्नभिन्नत्वात् । अतः सर्वत्र शाखासु श्रूयमाणानामग्निहोत्राङ्गानां सवैरप्युपसंहृत्यानुष्ठेयत्वमेतद्विचारफलमिति ।
58. न विधौ परः शब्दार्थ इति । ‘यदाग्नेयोऽष्टाकपालो….भवति’, ‘सौर्यं चरुं निर्वपेत्’, ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिविधौ वाच्यार्थभवननिर्वापालम्भादीनां परित्यागेन यागरूपलक्ष्यार्थः स्वीक्रियते; द्रव्यदेवतासंबन्धस्य यागमन्तरेणानिष्पत्त्या तावति तात्पर्यस्यावश्यवक्तव्यत्वात् । एवमावश्यकार्थाधिकार्थलाक्षणिकत्वं विधिवाक्यस्य नास्ति । मुख्यार्थेनैव निर्वाहे लक्षणा विधिवाक्येषु न भवतीत्यर्थः । ननु विधिवाक्येति किम् । सर्वत्रैव मुख्यार्थेनैवोपपत्तावमुख्यग्रहणमयुक्तम् । तात्पर्यग्राहकप्रमाणसत्त्वे त्वमुख्यग्रहणमपि सर्वत्राविशिष्टमिति को विशेषः ॥ उच्यते । अर्थवादवाक्ये वाक्यार्थबोधसंपादनाय ‘आदित्यो यूपः’ इत्यादौ गौण्यादिनाऽर्थान्तरे वर्णितेऽपि तावति अनुपरम्य प्राशस्त्यरूपार्थान्तरावगमकत्वमपि स्वीक्रियते । विधिवाक्ये तु प्रथमप्रतीतादन्यदपि ग्राह्यं न भवति चारितार्थ्यादित्येतावता वैषम्येणैवं मीमांसकव्यवहारः । एवम् अर्थवादस्य प्राशस्त्य एव तात्पर्यात् तदुपयोगितया वर्ण्यमानो वाक्यार्थो यथायथं तत्तद्बुद्ध्यनुसारेण नेतुं शक्यते विवक्षितांशहान्यभावात् न त्वन्यत्रैवमिति । ‘नचानन्यपरं….उपचरितार्थम्’ इति भामत्यामेतदनुसन्धेयम् ।
58. दर्शपूर्णमासशब्दयोर्लक्षणयेति । 2-2-3. प्रकरणं तु पौर्णमास्यामित्यधिकरणे, ‘य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजते’ इति विद्वद्वाक्यद्वयम् । विद्वत्पदघटितत्वात् विद्वद्वाक्यमिदम् । आग्नेयादिलक्षणकर्मविधायकमिदम् उत तदनुवादकमिति विचार्य अनुवादस्य प्रयोजनसद्भावात् य एवमिति यच्छब्दाद्यनुरोधादनुवादत्वमेव । किं प्रयोजनमिति चेत् - दर्शपूर्णमासाभ्यां ‘यजेत स्वर्गकामः’ इति वाक्ये दर्शपूर्णमासपदेन कीदृशकर्मग्रहणमिति विमर्शे प्रकरणश्रुताग्नेयाग्नीषोमीयप्रयाजानुयाजादीनामविशेषेण ग्रहणेन सर्वेषां फलसंबन्धात् प्राधान्यापत्तौ वाक्यद्वयमिदं येषामुत्पत्तिवाक्ये तत्तत्कालश्रवणमस्ति तावन्मात्रस्य पौर्णमासीम् अमावास्यामिति कालवाचिपदेनानुवादकं सत् आग्नेयोपांशुयाजाग्नीषोमीययागत्रयरूपसमुदायम् आग्नेयैन्द्रदधिपयोयागत्रयरूपसमुदायं च दर्शयतीति तावन्मात्रं दर्शपूर्णमासशब्दार्थ इति ज्ञापनं प्रयोजनमिति । तत्र समुदायद्वयाभिप्रायेण द्विवचनम् । दर्शपूर्णमासपदद्वयस्य यथार्हं तत्तत्त्रयरूपसमुदायोऽर्थः । अत्र न समुदायत्वेन । किं तु यागा अर्थः । द्वित्वस्य स्वाश्रयसमुदायघटकत्वसंबन्धेन यागेऽन्वय इति नव्याः । एवञ्चेत् समुदायमपि परित्यज्य स्वाश्रयकालघटितवाक्योत्पन्नत्वसंबन्धेनैव यागेऽन्वयोऽस्तु इति विचारितमस्माभिः मीमांसासुधास्वादे इत्यन्यदेतत् । समुदायलक्षणामाश्रित्यात्रोक्तम् ।
58. श्येनादिशब्दानां गौण्येति । 1-4-5 तद्व्यपदेशञ्चेति सूत्रे श्येनेनाभिचरन् यजेतेति वाक्ये अभिचाररूपफलार्थं ज्योतिष्टोमाश्रयणेन श्येनपक्षिरूपगुणविधानमित्याशङ्क्य तद्विरोध्यपदेशस्य एतद्बाधकापदेशस्य सद्भावात् न तया । ‘यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते’ इति श्येनपक्षिणमुपमानीकृत्य तदुपमेयस्यान्यस्यैवाभिचारहेतुत्वस्यार्थवादे वर्णनात् याग एवाभिचारहेतुः; श्येनपक्षिकार्यकारित्वात् तद्गुणयोगेन गौणं सन्नामधेयं श्येनपदमिति निर्णीतम् ।
58. अर्धमन्तर्वेदीति । 3-7-5. अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदीति वाक्ये यूपार्धमानोद्देशेन वेद्यन्तर्भागस्य विधाने अवशिष्टयूपार्धभागस्य बहिर्वेदि अवस्थानमर्थसिद्धमित्याशङ्क्य, अर्धमेवान्तर्वेदीति एवकारघटनेन परिसंख्याने कृते सत्येव यूपार्धान्तरं वेद्यन्तर्वारितं स्यात्, अन्यथा बहिरर्धनियमो न स्यादिति तद्दोषवारणाय अन्तर्वेदिबर्हिर्वेदीति पदद्वयेन उभयसंबन्धिस्थानविशेषं लक्षयित्वा तत्र यूपनिखननविधानमित्युक्तम् ।
60. न पृथिव्यामिति । 1-2-5. अभागिप्रतिषेधादिति सूत्रेण अप्रसक्तप्रतिषेधात् अप्रतिषेध्यप्रतिषेधाच्चाप्रमाणं वाक्यम्, यथा - ‘न पृधिव्यामग्निश्चेतव्यः, नान्तरिक्षे न दिवि’ इति । अत्र हि अन्तरिक्षे दिवि च चयनकरणप्रसक्त्यभावात् व्यर्थो निषेधः । पृथिव्यामपि चयनस्याकर्तव्यत्वे ‘श्येनचितं चिन्वीत स्वर्गकामः’ इति चयनविधिरनादृतः स्यात् । तत्र तदविधाने चयनप्रसक्त्यभावात् पृथिवीचयननिषेधोऽप्यप्रसक्तप्रतिषेधः स्यादिति प्रत्यवस्थानं कृतम् । तत् 1-2-18. ‘अन्त्ययोर्यथोक्तम्’ इति सूत्रेण परिहृतम् । विहितं चयनं पृथिव्यामेव प्राप्तम् । तत्र हिरण्यं निधाय चेतव्यमिति वाक्येन हिरण्यनिधानपूर्वकत्वं विधीयते । तेन अनिहितहिरण्यकेवलपृथिव्यां चयनं न कर्तव्यमिति सिद्ध्यत्येव । तदेवार्थसिद्धमर्थवादरूपेणानूद्यते केवलपृथिवीनिन्दने हिरण्यनिधाने श्रद्धा जायेतेति । तत्र चमत्कारेणान्यदुक्तम् - यथाश्रुतग्राहिणा पुरुषेण मन्येत, न पृथिव्यामग्निश्चेतव्य इति वाक्यश्रवणमात्रेण - यदि पृथिव्यां चयननिषेधः, तर्हि अन्तरिक्ष एव कर्तव्यं स्यात् । यदि अन्तरिक्षे अनालम्बने तन्न शवयम्, तर्हि तदर्थे द्यौर्गन्तव्या स्यात् । तावच्छक्तिविकलेन न चयनं कार्यमिति । तं प्रति कथ्यते - पृथिव्यां निषेध बणमात्रेण (?) अन्तरिक्षे वा दिवि वेति नालोचयेः, न तयोस्तत् कर्तव्यम्; किं तर्हि पृथिव्यामेव हिरण्यं निधायेति । तस्मादन्त्ययोः नान्तरिक्षे न दिवीत्यनयोरपि न पृथिव्यामित्यस्येवार्थवादतयैकवाक्यत्वसंभवान्न दोष इति । सेश्वरमीमांसायामिदं सुदर्शम् ।
90. अर्थैकत्वादेकं वाक्यमिति । 2-1-46 ऋचः पादबद्धत्वात् एकैको मन्त्र इति सुगमम् । साम्नोऽपि ऋगारूढत्वात् तत्परिमाणमपि सुज्ञानम् । यजुषां तु केवलपदकदम्बत्वात् कियत्पदमेलने एकयजुर्मन्त्रतेति जिज्ञासायाम्, यावदेकं वाक्यम्, तावदेकं यजुरिति ज्ञापयितुमेकवाक्यलक्षणमुक्तम् अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेत् विभागे स्यादिति । यत्र विभज्यमानांशसाकाङ्क्षत्वमेकार्थबोधकत्वञ्च, तदेकवाक्यमिति । भगो वां विभजतु, अर्यमा वां विभजतु इति मन्त्रद्वयस्य पुरोडाशविभजनप्रकाशनरूपैकप्रयोजनकत्वादेकार्थत्वेऽपि नैकवाक्यता । अतो विभागे साकाङ्क्षत्वकथनम् । स्योनं ते सदनं कृणोमि….तस्मिन् सीदेत्यनयोः सदनकरण-सादनरूपभिन्नार्थत्वेऽपि विभागे साकाङ्क्षत्वमस्ति उत्तरवाक्यस्य तच्छब्दघटिततया पूर्ववाक्यसापेक्षत्वात् । अतस्तद्वारणायार्थैकत्वमपि निवेश्यम् । अत्रार्थपदं प्रयोजनपरमिति वार्त्तिके प्रपञ्चितम् । वाक्यस्य नानाकारकान्वितैकाख्यातार्थाभिधायित्वात् प्रधानभूतार्थैक्यमेव विवक्षितमिति प्रकृतटीकाशयः । एवं महावाक्यस्थले अवान्तरवाक्यानि पदस्थाने परिकल्प्य एकवाक्यता ग्राह्या । यथा समिधो यजति, तनूनपातं यजति इत्थं दर्शपूर्णमासाभ्यां यजेतेति । तत्रोभयाकाङ्क्षादिकमस्त्वेव ।
93. अपच्छेदन्यायेनोत । ज्योतिष्टोमे बहिष्पवमानस्तोत्रार्थं हविर्धानात् बहिष्पवमानदेशम् एकस्य पश्चादन्य इति संतत्य प्रसर्पतामन्वारम्भः श्रुतः, अध्वर्युं प्रस्तोता संतनुयात् प्रस्तोतारमुद्गाता उद्गातारं प्रतिहर्ता प्रतिहर्तारं ब्रह्मा, ब्रह्माणं यजमानः, यजमानं प्रशास्तेति । अन्वारम्भः स्पर्शपृष्ठकच्छग्रहणम् । एवमन्वारभ्य गच्छतां मध्ये, ‘यदि प्रस्तोताऽपच्छिन्द्यात् ब्रह्मणे वरं दद्यात्; यदि प्रतिहर्ता, सर्ववेदसं दद्यात्; यद्युद्गाता, अदक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत, तत्र तद् दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात्’ इति अपच्छेदभेदेन विचित्रं प्रायश्चित्तमाम्नायते । तत्रैकापच्छेदे न विवादः । अपच्छेदयौगपद्ये, सति संभवे समुच्चयः, असंभवे विकल्प इत्युक्तम् । अथ क्रमेणापच्छेदे चिन्ता । तत्र प्रथमस्यासंजातविरोधत्वादुपक्रमन्यायेन पूर्वप्रायश्चित्तमिति पूर्वः पक्षः । सिद्धान्तस्तु - यत्रोत्तरस्य पूर्वगृहीतार्थसापेक्षतया तदेकवाक्यतयाऽर्थबोधकत्वम्, तत्रोपक्रमन्यायः । नात्र द्वितीयनिमित्ताधीनोपस्थितिकवाक्यार्थज्ञानस्य पूर्ववाक्यार्थज्ञानोपजीवनेनोत्पतिः । निमित्तज्ञानस्येव नैमित्तिकज्ञानस्यापि निरपेक्षमुत्पत्तेः । उत्पन्नं ज्ञानं पूर्वज्ञानविरुद्धविषयकतया पूर्वं दुर्बलयति, यथा पाश्चात्यं प्रत्यक्षं पूर्वोत्पन्नतद्विपरीतज्ञानबाधकम्, तथा । अत उत्तरापच्छेदनिमित्तकप्रायश्चित्तमेवेति, ‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इति सूत्रेण निरणायि । प्रकृतिवदित्यस्य, यथा प्राकृतकुशातिदेशस्य विकृतौ शरमयं बर्हिर्भवतीति प्रत्याम्नातेन शरेण दौर्बल्यं तद्वदित्यर्थः । विस्तरोऽस्मत्परमार्थभूषणे ।
असंजातविरोधन्यायः - तृतीयतृतीयाद्ये, श्रुतेर्जाताधिकारः स्यादिति पूर्वपक्षे वेदो वा प्रायदर्शनात् इति समाहितम् । तदर्थ एवम् - उच्चैः ऋचा क्रियते, उपांशु यजुषा, उच्चैः साम्ना’ इति वाक्येषु ऋगादिपदस्य द्वितीयाध्यायोक्तरीत्या ऋगादिमन्त्र एवार्थः उत ऋग्वेदादिरिति विशयः । मुख्यार्थत्वान्मन्त्रपरत्वमिति शङ्का । श्रुतेः मुख्यार्थत्वात् जाताधिकारः - ऋक्त्वयजुष्टवसामत्वरूपजातिकमन्त्रोद्देश एव स्यात्; न वेदानामुद्देश्यता, वेदस्य मन्त्रब्राह्मणोभयात्मकतया ऋङ्मन्त्रप्रायवेद इत्याद्यर्थस्य लक्ष्यत्वेन मुख्यत्वाभावादिति । अत्र जातपदं जातिमदर्थकम् । जातिमात्रं विवक्षितं चेत्, जात्यधिकार इत्येव सूत्रयेत् । जातिशक्तिवादस्य स्वयं कल्पितत्वात् व्याख्यातारः जातं जातिरिति क्लिष्टं वर्णयन्ति । उद्देश्यत्वं कर्मत्वं धर्मस्य न भवति, किन्तु धर्मिण इति स्वोक्तिव्याघातश्च मीमांसकानाम् । अतः ‘जातिर्जातञ्च सामान्ये’ इति कोशसत्त्वेऽप्यत्र विशिष्टमेव ग्राह्यं जातशब्दमुख्यार्थः । एवं पूर्वपक्षे प्रतिविधिः वेदो वेति । तत्तद्वेद एव तत्तच्छब्दविवक्षित इह । प्रायदर्शनात् । प्रायः - उपक्रमः । तत्र वेदस्य दर्शनात् । ‘प्रजापतिरकामयत प्रजाः सृजेयेति’ इत्यारभ्य - ‘त्रयो देवा असृज्यन्त अग्निर्वायुरादित्यः । तेभ्यस्तेपानेभ्यस्त्रयो वेदा अजायन्त, अग्ने ऋग्वेदः वायोर्यजुर्वेदः आदित्यात् सामवेदः’ इति वेदानां प्रस्तुतत्वात् तत्रैव, इमान् वेदानधिकृत्य किमप्युत्तरत वक्ष्यत इति बुद्धिप्रसरात् तद्विरोधेन ऋगादिमन्त्रग्रहणे प्रकृतार्थवादैकवाक्यता विधिवाक्यानां भज्येत । अतोऽर्थवादत्वेऽपि तस्य प्रथमबोधितार्थकतया मुख्यत्वात् तदा तद्बुद्धिविरोधिनः प्रत्ययस्य सञ्जातत्वाभावात् असञ्जातविरोधिकोऽर्थवाद इति तस्य प्राबल्यम् । सञ्जातविरोधिकं तु पाश्चात्यं विधिवाक्यं वेदपरं सत् ऋग्वेदादिक्रियमाणोद्देशेन उच्चैःस्वरं यजुर्वेदक्रियमाणोद्देशेनोपांशुस्वरञ्च विदधातीति ।
अयमसञ्जातविरोधन्यायोऽप्युपक्रमन्याय इत्युच्यते । अन्यदप्युपक्रमाधिकरणमस्ति 3-4-15. ‘अचोदितञ्च….’ इति । तत्रेदं विषयवाक्यम् - प्रजापतिर्वरुणायाश्वमनयत् । स स्वां देवतामार्च्छत् । स पर्यदीर्यत । स एतं वारुणं चतुष्कपालमपश्यत् । तं निरवपत् । ततो वै स वरुणपाशादमुच्यत । वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति । यावतोऽश्वान् प्रतिगृह्णीयात्, तावतो वारुणान् चतुष्कपालान्निर्वपेत् इति । अत्रार्थवादे वरुणायाश्वान् ददत् प्रजापतिर्वरुणेनाक्रान्तः बाधामन्वभूत् । तत्परिहाराय वारुणचतुष्कपालेष्टिः कृतेत्युक्तम् । वरुणदेवताक्रमणं नाम जलोदराख्यरोगप्राप्तिः । विधिवाक्ये तु प्रतिग्राहिणा इष्टिः कर्तव्येत्युच्यत इति विरोधः । तत्र विधिप्राबल्येन पूर्वपक्षः । उपक्रमप्राबल्येन, दात्रैव कर्तव्येष्टिः । प्रतिगृह्णीयादिति वैधपदस्य प्रतिग्राहयेदिति लक्षणयाऽर्थः इति सिद्धान्तः । प्रतिशब्दयोगात् तत्प्रतीपार्थोऽपि सुवच इति प्रतिगृह्णीयादिति पदं दद्यादित्यर्थकमपि सुवचम् - अथापि सत्यामपि लक्षणायां सा सोढव्येति ज्ञापनाय तथोक्तिः । एतत्पूर्वाधिकरणे दोषात्त्विष्टिरित्यत्र नेयमिष्टिर्लौकिकेऽश्वदाने; किन्तु शास्त्रीयकर्माङ्गदान एवेति स्थितम् । असञ्जातविरोधाधिकरणस्यैवोपक्रमाधिकरणत्वेनव्यवहारोऽत्राधिकरणे मीमांसकैरेव कृतः ।
3-3-1. सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति सूत्रे चोदनादिपदेन शाखान्तराधिकरणोक्तसंयोगरूपचोदनाख्यानां निर्देशः । एतच्चाधस्तात् सर्वशाखाप्रत्ययमेकं कर्मेत्येतद्विवरणत एवावगन्तव्यम् । तत्र चोदनायाः प्रथमनिर्देशस्तु पुरुषार्थाधिकरणशङ्किष्यमाणरीत्या वाक्यार्थज्ञानातिरिक्तं विधेयं किमपि नेति भ्रमो न कार्य इति प्रारम्भे प्रतिबोधनार्थम् । अत्र पादे द्वितीयाध्यायोक्तभेदकप्रमाणानि मनसिकृत्य पूर्वपक्षसिद्धान्तप्रवर्तनात् तानि ज्ञातव्यानि । तानि प्रमाणानि षट्, शब्दान्तरम् अभ्यासः संख्या संज्ञा गुणः प्रकरणान्तरमिति । तत्र शब्दान्तरम् - अपर्यायधातुः; यथा यजति जुहोति ददातीति । अभ्यासः - एकस्यैव धातोर्विधेयान्तरादितात्पर्यप्रसक्त्यभावेऽपि पुनः कथनम्, ‘समिधो यजति, तनूनपातं यजति’ इत्येवम् । संख्या - कर्मविधायकवाक्ये निर्दिष्टद्वित्वादिसंख्या, यथा ‘तिस्र आहुतीर्जुहोति’ इति । तेन तेषां होमानां मिथोविजातीयत्वम् । संज्ञा - अथैष ज्योतिः अथैष विश्वज्योतिरिति नामभेदः । गुणः - वैश्वदेव्यामिक्षेति वाक्ये द्रव्यदेवताविशिष्टयागपरे सत्येव, वाजिभ्यो वाजिनमिति द्रव्यान्तरादिश्रवणात् तस्य पूर्वकर्मण्यन्वयायोगाद् भेद इत्येवम्भूतद्रव्यादि । प्रकरणान्तरम् - पूर्वोक्तकर्मोपस्थापनेन तत्र किञ्चिद्गणोपादानमिति यत्र दुर्वचम्, तत्र नामैक्येऽपि कर्मभेदः । यथा कुण्डपायिनामयनमिति नाम्नः कर्मणो मध्ये मासमग्निहोत्रं जुह्वतीति । सर्वमिदं ‘नाना शब्दादिभेदात्’ इत्यादिसूत्रे स्पष्टमनुसन्धेयम् ।
3-3-4.7 ‘श्रुत्यादिबलीयस्त्वाच्च न बाधः’ इत्यादिसूत्रे तृतीयाध्याये अङ्गताबोधकत्वेनोक्तानि प्रमाणान्यनुसन्धेयानि । तानि षट् - श्रुतिः लिङ्गं वाक्यं स्थानं प्रकरणं समाख्येति । अर्थस्य [अङ्गत्वस्य] स्वरसत एव बोधकः शब्दः श्रुतिः । तादृशश्रुतिकल्पनानुकूलं सामर्थ्यं शब्दगतमर्थगतं वा लिङ्गम् । तत्सामर्थ्यपरिशीलनानुकूलः अङ्गाङ्गिबोधकशब्दसमभिव्याहारः वाक्यम् । तादृशसमभिव्याहारसंपादिका अङ्गाङ्गिगताकाङ्क्षा प्रकरणम् । एकतरगताकाङ्क्षा अन्यतरस्मिन्नप्याकाङ्क्षाकल्पनौपयिकी स्थानम् । प्रकृतिप्रत्ययरूपेणान्यथा वा विभागार्हेणैकेन पदेनोपस्थापितयोर्यत्राकाङ्क्षादिकल्पनामुखेनाङ्गाङ्गित्वबोधः संपाद्यते, तत्र तादृशं पदमेव समाख्या । एषु चोत्तरोत्तरस्य पूर्वपूर्वकल्पनद्वारैवाङ्गताबोधकत्वात् यत्र पूर्वप्रमाणेनैकाङ्गत्वमुत्तरप्रमाणेन अन्याङ्गत्वमिति समवायः - विरोधप्रसक्तिः, तत्रोत्तरेण पूर्वकल्पना यावद् भवति तावदेव पूर्वं कॢप्तं कार्यकरं भवति । तत्र निश्श्रेण्यारोहणप्राप्यं फलमधिगन्तुमुभयोः पुरुषयोरारोहतोः पूर्वपर्वस्थः फलं लभते, अधस्तनपर्वस्थश्च किञ्चिदारोहन्नपि मोघः प्रतिनिवर्तते यथा, तथेहेति ध्येयम् । अयमेवाप्राप्तबाध इत्युच्यते, उत्तरप्रमाणकार्याङ्गत्वप्रसक्तिवारणात्; अङ्गताबोधकश्रुतेरेवोत्तरप्रमाणेनाकल्पनात् । दशमाध्याये उच्यमानस्तु प्राकृतपदार्थस्य विकृतौ बाधः प्राप्तबाध इत्युच्यते । अतिदेशप्रमाणस्य सामान्येन कल्पितत्वात् प्रमाणाकल्पनाविरहात् स्थितमप्यतिदेशप्रमाणं बाधनीयार्थाविषयकं भवतीति ।
3-3-59. ‘अङ्गेषु यथाश्रयभावः’ इति सूत्रे आश्रयशब्दं प्रयुञ्जानः मीमांसकसङ्केतितमाश्रयशब्दार्थमनुरुन्धे बादरायणः । फलाय विधीयमानं किञ्चित् तत्फलजननार्थं यां क्रियामाश्रयते, स आश्रयः; यथा गोदोहनेन पशुकामस्य प्रणयेदित्यत्र प्रणयनम् । अपां प्रणयनं चमसपात्रेण कार्यं, यदि यजमानः पशुकामः स्यात्, तर्ह्यध्वर्युः गोदोहनपात्रेण तत्प्रणयनं कुर्यात् । अप्प्रणयनस्य पशुकामनायां सत्यामसत्याञ्च भावात् प्राप्ताप्राप्तविवेकेन गोदोहनस्यैव फलं पशुः । परं तत् यागाङ्गभूतप्रणयनरूपक्रियामनुपजीव्य तटस्थं क्रियान्तरान्वयि वा न फलं जनयेत् । अतः प्रणयनं तेनाश्रीयत इति स आश्रयः । एवं क्रतुमध्यगतमुद्गीथमाश्रयं परिकल्प्य तत्र शत्रुपराभवरूपफलाप्तये मुख्यप्राणदृष्टिरूपमुपासनं विधीयमानमपि द्रष्टव्यम् । यद्यत्र विशेषतः फलं नाश्रोष्यत, तर्हि विधीयमानं गोदोहनं प्राणोपासनमित्यादि तत्तदाश्रयाङ्गमापत्स्यतेति अङ्गत्वप्रसक्त्या तस्य गुणशब्देन व्यवहारः । आश्रयलक्षणं ब्रह्मसूत्रोक्तलक्ष्यापरिचयात् सङ्कुचितं कृतं मीमांसकैः । तदस्माभिर्मीमांसासुधास्वादे यथावत् परिष्कृतम् ।
4.3. एवमर्चिरादिपादे ‘वायुमब्दादविशेषविशेषाभ्याम्’ इत्यादौ पञ्चमाध्यायोक्तानि क्रमप्रमाणानि श्रुत्यर्थपठनस्थानमुख्यप्रवृत्त्याख्यानि मनसिकृत्य पौर्वापर्यं परिकल्पयामास । श्रुतिरत्र साक्षात् पौर्वापर्यवाचकः शब्दः । अर्थः प्रयोजनम्; तद्वशेन क्रमः । अतो यवागूपाकः पश्चात् श्रुतोऽपि अग्निहोत्रहोमात् प्राक् अनुष्ठीयते । तस्यास्तद्द्रव्यत्वात् । काम्येष्टीनां मन्त्राणाञ्च प्रथमस्य प्रथममिति रीत्या क्रमः पाठक्रमः । एकत्र स्थानेऽनेकेष्वनुष्ठेयेषु तत्स्थानिनः प्रथममनुष्ठानं स्थानकमात् । प्रधानक्रमेणाङ्गानुष्ठाने मुख्यक्रमः । बहुषु अङ्गेषु वह्वङ्गिविषये पृथक्पृथगनुष्ठेयेषु एकाङ्गानुष्ठानं यस्मिन् अङ्गिनि आरब्धम्, अन्येषामङ्गानामपि तदङ्गिन्यारम्भेण तेनैव कमेणानुष्ठाने प्रवृत्तिक्रमः । यथा प्रजापतिदेवत्येषु सप्तदशसु पशुषु उपाकरणनियोजनादिषु कर्तव्येषु उपाकरणं यं पशुमारभ्य यथा, तथा नियोजनमपीत्येवम् । तदेवं पूर्वमीमांसार्थानामिहोत्तरमीमांसायामुपयुक्ततया उदाहरणतया ग्रहणाच्च तत्र किञ्चिद्वैशद्यं संपादितं महते उपकाराय कल्पत इति दिक्प्रदर्शनमकारि । एवंरीत्या शिष्टमपि द्रष्टव्यम् ।
इदमप्यत्र बोध्यम् - विध्यर्थवादमन्त्रात्मना त्रेधा विभक्ते वेदे विधिः स्वतन्त्रः । तच्छेषत्वं शेषयोः । अत्र विधिशब्देन प्रवर्तकनिवर्तकवाक्यराशिः सर्वो गृह्यते । तत्र यथायथं विधेयनिषेध्यतदनुबन्धिविषये स्तुतिनिन्दापरतया अर्थवादस्य तदेकवाक्यत्वम् । मन्त्राणां तु प्रयोगकाले उच्चार्यमाणानामनुष्ठेयार्थस्मृतिहेतुतेति सप्रयोजनम् । तत्र देवतानां गुणविग्रहाद्यनङ्गीकारिनिरीश्वरमीमांसकपक्षे ‘आदित्यो यूपः’ इत्यादाविव संभावितगौणार्थकल्पनात् तादृशार्थज्ञानस्य यथार्थत्वात् यथार्थज्ञानरूपप्रमितिजनकत्वात् प्रामाण्यम् । गुणविग्रहादिस्वीकारिवेदान्तिमते स्वरसत एव याथार्थ्यम् । तस्य देवतागुणादेर्वेदैकगम्यतया अज्ञातार्थज्ञापकत्वरूपप्रामाण्यमपि सुस्थम् । एवमर्थवादेऽपि भाव्यम् । आकाङ्क्षायां सत्यां फलसमर्पकत्व-संदिग्धार्थ-निर्णायकत्व-अर्थविशेषव्युत्पादकवादिकमपीष्यते । यथा ‘प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति’, ‘तेजो वै धृतम्’, ‘वसन्ते……..यवाः कणिशशालिनः इत्यादिषु । परमपुमर्थभूतब्रह्मप्रतिपादकोपनिषद्भागस्तु विधिभिन्नोऽपि स्वतन्त्रः न तु किञ्चिच्छेषभूतः । विधौ प्रवर्तकवाक्यं चतुर्विधम्, उत्पत्तिविधिः विनियोगविधिः प्रयोगविधिः अधिकारविधिश्चेति । अपूर्वविधेयस्वरूपबोधकः प्रथमः; विहितानां मिथोऽङ्गाङ्गिभावबोधको द्वितीयः, तेषामनुष्ठानक्रमबोधकस्तृतीयः; तत्राधिकारी क इति फलादिबोधकः चतुर्थ इति ।
मीमांसकमते वाक्यार्थवर्णनप्रक्रिया चैवम् - विधिर्नाम प्रवर्तकवाक्यगतलिङ्लोडादिलकार्थः, स नियोगोऽपूर्वमिति प्राभाकराः । शब्दगता भावना प्रवर्तनारूपेति भाट्टाः । इष्टसाधनत्वमिति मण्डनमिश्रः । इष्टसाधनत्वकृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वरूपार्थत्रयं विधिरिति तार्किकाः । प्रवर्तकपुरुषरूपाप्तगतेच्छाविशेष इति प्राच्यो न्यायाचार्य उदयनः । एतदिच्छासमानयोगक्षेम एव शब्दव्यापारो भाट्टेष्टः । ईश्वरगतेयमिच्छा वा कृतिसाध्यत्वविशेष एव वा विधिरिति श्रीभाष्यकृतः । मीमांसकैराख्यातेन सर्वेण लकारेण कृतिरर्थतयेष्यते । सा अर्थभावना । तस्याः भावयेदिति व्यवहारः । भावयेदित्यस्य उत्पादयेदित्यर्थः । सा च पुरुषप्रयत्नाख्यो व्यापार एव । तस्याः किं भावयेत्, केन भावयेत्, कथं भावयेदित्याकाङ्क्षात्रयं वदन्ति । तासां साध्याकाङ्क्षा करणाकाङ्क्षा इतिकर्तव्यता(अङ्गा)काङ्क्षेति व्यवहारः । प्रयाजादिभिः सह दर्शादिना यजेत स्वर्गकाम इति वाक्ये तस्यामाख्यातोपात्तायामर्थभावनायां साध्याकाङ्क्षाबलात् स्वर्गः साध्यत्वेनान्वेति, करणाकाङ्क्षायां यागः करणत्वेन, इतिकर्तव्यताकाङ्क्षायां प्रयाजादिरितिकर्तव्यतात्वेन । कारकाणां सर्वेषां क्रियान्वयस्यानुभविकत्वात् तानि सर्वाणि भावनामनुयन्ति । भावनैव मीमांसकमते क्रिया । तथा च स्वर्गोद्देश्यका यागकरणिका प्रयाजादीतिकर्तव्यताका अर्थभावना विधिविषय इति भावनामुख्यविशेष्यको बोधः । अत्र न्यायपरिशुद्ध्यादिपरिशीलनेन अस्मन्मते निष्क्रष्टव्यमस्ति । तत् अवसरान्तरे भवितुमर्हतीत्यलं बहुना ॥
इत्थं मीमांसाविषय उक्तः । एवं पाराशर्यवचस्सुधामित्यादौ व्याकरणालङ्कारादिविषयाः भाव्याः । भावप्रकाशिकाभूमिकायां वचस्सुधारूपकसमासविचारोऽस्माभिरपि कृतो द्रष्टव्यः ।
इत्थं यतीन्द्रनिगमान्तगुरूपदिष्ट ब्रह्मिष्ठजैमिनिसदाशयशीलनेन ।
टीकोपयुक्ततमतान्त्रिकमार्गदर्शी श्रीवीरराघवसुधीर्मुदमातनोति ॥