08 वेदापौरुषेयताधिकरणम्

विश्वास-प्रस्तुतिः

“कर्तृ-प्रत्यायकास् स्युश् श्रुतिषु सुविदिताः काठकाद्यास् समाख्यास्,
तेनेमाः पौरुषेय्यस्”, तद् इह कुशलिनी विप्रलिप्सादिशङ्का ।
मैवं शारीरकोक्तां सरणिम् अ-वयतां, नित्य-सिद्धेषु वेदेष्व्
आविष्कारे ऽधिकारात् कतिचन पुरुषाः कर्तृनिर्देशम् आपुः ॥ १५९ ॥

मूलम्

कर्तृ-प्रत्यायकास् स्युश् श्रुतिषु सुविदिताः काठकाद्यास् समाख्यास् तेनेमाः पौरुषेय्यस् तद् इह कुशलिनी विप्रलिप्सादिशङ्का ।
मैवं शारीरकोक्तां सरणिमवयतां नित्यसिद्धेषु वेदेष्वाविष्कारेऽधिकारात् कतिचन पुरुषाः कर्तृनिर्देशम् आपुः ॥ १५९ ॥

विश्वास-प्रस्तुतिः

कल्पेकल्पे दयालुः स्थिरचरकृद् अधिष्ठाय रूपं कठाद्यं
शाखा-भेदान् विचित्रान् समतनुत ततोऽध्यापयामास चर्षीन् ।
इत्य् उक्तं न्याय-भक्तैर् इदम् अपि च परं भक्ति-मात्र-प्रसूतं
निर्माणाध्यापने द्वे किम् इति निगदिते पश्चिमेनैव लभ्ये ॥ १६० ॥

मूलम्

कल्पेकल्पे दयालुः स्थिरचरकृद् अधिष्ठाय रूपं कठाद्यं
शाखाभेदान् विचित्रान् समतनुत ततोऽध्यापयामास चर्षीन् ।
इत्युक्तं न्यायभक्तैर् इदम् अपि च परं भक्तिमात्रप्रसूतं
निर्माणाध्यापने द्वे किम् इति निगदिते पश्चिमेनैव लभ्ये ॥ १६० ॥

विश्वास-प्रस्तुतिः

“वाक्यत्वात् कर्तृमत्त्वे सति निगम-गिरां, कर्तृ-भेदे तु चिन्त्ये
वृद्ध-व्याहार-सिद्धास् तद्-अवधृति-कृतः काठकाद्यास् समाख्याः ।
"
इत्येषा मुग्ध-भाषा बहु-निगम-हता बाध-शून्या विपक्षे
नासौ वाक्यत्व-हेतुर् निगम-कृतकतां संप्रयोक्तुं क्षमेत ॥ १६१ ॥

मूलम्

वाक्यत्वात् कर्तृमत्त्वे सति निगमगिरां कर्तृभेदे तु चिन्त्ये
वृद्धव्याहारसिद्धास् तदवधृतिकृतः काठकाद्यास्समाख्याः ।
इत्येषा मुग्धभाषा बहुनिगमहता बाधशून्या विपक्षे
नासौ वाक्यत्वहेतुर्निगमकृतकतां संप्रयोक्तुं क्षमेत ॥ १६१ ॥

विश्वास-प्रस्तुतिः

वेदानां यच् च शाखा-विभजनम् उदितं द्वापरान्ते चतुर्णां
नानित्यत्वं ततः स्यात् समुदित-पृथग्-आम्नान-मात्र-प्रवृत्तेः ।
कृत्स्नाम्नान-क्षमाणाम् उपचिततपसां गोचरः कृत्स्नम् आदौ,
पश्चात् तु ज्ञान-शक्त्योर् अपचय-नियमाद् व्यास-कॢप्तिस् समीची ॥ १६२ ॥

मूलम्

वेदानां यच्च शाखा-विभजनमुदितं द्वापरान्ते चतुर्णां
नानित्यत्वं ततः स्यात्समुदितपृथगाम्नानमात्रप्रवृत्तेः ।
कृत्स्नाम्नानक्षमाणामुपचिततपसां गोचरः कृत्स्नमादौ
पश्चात्तु ज्ञानशक्त्योरपचयनियमाद्व्यासकॢप्तिस्समीची ॥ १६२ ॥

विश्वास-प्रस्तुतिः

वेदाद् द्वेधा ऽप्रधृष्यात् भवति विमृशतां वेद-नित्यत्व-सिद्धिर्
मन्वादीनां च वाक्यैर् अवितथ-वचसां बाध-दोषातिवृत्तैः ।
अङ्गोपाङ्गैर् अशेषैर् अपि कथितम् इदं सद्-गृहीतैस् तद् अस्मिन्
प्रादुर्भावादि-मात्रं प्रजनयति विभुस् सोऽपि पारम्य-रम्यः ॥ १६३ ॥

मूलम्

वेदाद्द्वेधाऽप्रधृष्यात्भवति विमृशतां वेदनित्यत्वसिद्धिर्मन्वादीनां च वाक्यैरवितथवचसां बाधदोषातिवृत्तैः ।
अङ्गोपाङ्गैरशेषैरपि कथितमिदं सद्गृहीतैस्तदस्मिन्प्रादुर्भावादिमात्रं प्रजनयति विभुस्सोऽपि पारम्यरम्यः ॥ १६३ ॥

विश्वास-प्रस्तुतिः

कर्ता दृष्टः श्रुतो वा न हि, परकथितस् तापसादिः श्रुतीनां
प्रद्विष्टोक्तिर् न तत्त्व-स्थितिम् अवगमयेन् नातिशक्ता नियोक्तुम् ।
श्रद्धेयैर् अन्यथोक्त्या भजति च विहतिं शङ्कनेऽतिप्रसक्तिश्
शङ्का सार्वत्रिकी च स्व-जनि-विहति-कृत् सर्व-चेतः-प्रतीपा ॥ १६४ ॥

मूलम्

कर्ता दृष्टः श्रुतो वा न हि परकथितस्तापसादिः श्रुतीनां
प्रद्विष्टोक्तिर्न तत्त्व-स्थितिमवगमयेन्नातिशक्ता नियोक्तुम्।
श्रद्धेयैरन्यथोक्त्या भजति च विहतिं शङ्कनेऽतिप्रसक्तिश्शङ्का सार्वत्रिकी च स्वजनिविहतिकृत्सर्वचेतःप्रतीपा ॥ १६४ ॥

विश्वास-प्रस्तुतिः

अन्या मन्वन्तरेषु श्रुतिर् इति च वचः काल-योग-प्रवाहाज्
जप्य-श्रुत्यादि-नीत्या न कथम् इतरथा द्रव्य-पूर्वेण भेदः ।
दिष्टा यत्रानधीते मुनिभिर् अनघता तत्र तत्-कर्तृतोक्ता
प्रोक्तं ब्रह्म स्वयंभ्व् इत्यपि जनि-विलयाभावम् अत्र स्मरन्ति ॥ १६५ ॥

मूलम्

अन्या मन्वन्तरेषु श्रुतिरिति च वचः कालयोगप्रवाहाज्जप्यश्रुत्यादिनीत्या न कथमितरथा द्रव्यपूर्वेण भेदः ।
दिष्टा यत्रानधीते मुनिभिरनघता तत्र तत्कर्तृतोक्ता प्रोक्तं ब्रह्म स्वयंभ्वित्यपि जनिविलयाभावमत्र स्मरन्ति ॥ १६५ ॥

विश्वास-प्रस्तुतिः

कल्पादाव् एवम् ईशः कथयति निगमान् पूर्वयैवाऽऽनुपूर्व्या
तद्वन् मन्वन्तरादिष्व् अपि शिथिल-समाधान-मात्रं क्रमैः स्यात् ।
नित्य-श्रुत्यैव बाधाद् उपजनि-विलयौ नानुमानैः प्रसाध्यौ
मीमांसा-प्राच्य-पाद-प्रसृतिर् अविहता देशिकैर् दर्शितेयम् ॥ १६६ ॥

मूलम्

कल्पादाव् एवम् ईशः कथयति निगमान् पूर्वयैवाऽऽनुपूर्व्या
तद्वन् मन्वन्तरादिष्व् अपि शिथिल-समाधान-मात्रं क्रमैः स्यात् ।
नित्यश्रुत्यैव बाधाद् उपजनि-विलयौ नानुमानैः प्रसाध्यौ
मीमांसा-प्राच्यपादप्रसृतिर् अविहता देशिकैर् दर्शितेयम् ॥ १६६ ॥

विश्वास-प्रस्तुतिः

अन्यैर् अप्य् अर्थवाद-प्रभृतिषु निहितैर् आदिमाध्याय-भेदैर्
मानं तत् तत्-प्रवृत्त्या निगमम् इह मुनिस् सूत्रयामास साध्व्या ।
इत्थं प्रामाण्य-सिद्धिं व्यवहरण-दशा-भाविनीं भावयन्तस्
स्वाभीष्ट-स्थापकानाम् अपि खलु वचसां मूलघातं सृजन्ति ॥ १६७ ॥

मूलम्

अन्यैरप्यर्थवादप्रभृतिषु निहितैरादिमाध्यायभेदैर्मानं तत्तत्प्रवृत्त्या निगममिह मुनिस्सूत्रयामास साध्व्या ।
इत्थं प्रामाण्यसिद्धिं व्यवहरणदशाभाविनीं भावयन्तस्स्वाभीष्टस्थापकानामपि खलु वचसां मूलघातं सृजन्ति ॥ १६७ ॥

विश्वास-प्रस्तुतिः

ग्राह्यं सर्वत्र मानं परभजनविधौ भेदतादात्म्यचर्चा तत्रैवाङ्गप्रयुक्ती परिकरघटने मार्गभेदक्रमाप्तिः ।
कर्ता वैराग्यपादप्रभृतिषु विविधावस्थितिः स्थापनीयश्शेषं चाशेषमीदृग्विलगति बहुषु ब्रह्मकाण्डस्थलेषु ॥ १६८ ॥

श्रीमद्रामानुजोक्तां स्मृतिमनुसरतामैकशास्त्र्यादिसिद्धेरव्याजोपायविद्यापथिकगतिविधौ न्यासि दिङ्मात्रमेतत् ।
शेषं चाशेषमित्थं शितमतिभिरनुप्रेक्ष्य संरक्षितव्यं क्षुद्रक्षोभार्हतर्कोदितकुहककथावर्णिदुर्नाटकेभ्यः ॥ १६९ ॥

संक्षिप्तं विस्तृतं वा सरसबहुमतं सावधानप्रियं वा प्राधान्येन प्रणीतं परफणितिपरिष्कारवृत्त्या स्थितं वा ।
शिक्षासौकर्यतुष्टिप्रचितगुरुजनानुग्रहेद्धं सुधीभिश्श्रद्धेयं नाथजुष्टश्रुतियुवतिशिरोभूषणं भाषणं नः ॥ १७० ॥

तत्तत्प्रत्यर्थिवर्गप्रचकितनिगमस्तोमतत्त्वार्थचिन्ता विष्वग्वैघट्यघट्टोन्मथनपटुधिया वेङ्कटेशेन कॢप्ता ।
अक्षोद्या तर्कलोष्टैरतिमहति पदेऽप्यत्यजन्ती स्वसीमां मीमांसापादुकेयं मितिपथगतिकृन्मृद्नती कण्टकौघम् ॥ १७१ ॥

विख्यातो वेदघण्टापथ इति विततिं प्रस्तुतां प्रस्तुतार्थामुत्पद्यन्तां पृथिव्यामुपनिषदगदङ्कारवाचः प्रवाचः ।
मिथ्यादृष्टिप्रवाहोदितकुमतिकथाकन्दलीकन्दलीनां दृष्ट्यैवालीकलिप्सादृढनिहितमतिं दैत्यरोधी रुण(द्धु)द्धि ॥ १७२ ॥

शाक्योलूक्याक्षपादक्षपणककपिलामर्त्यवन्द्यप्रधानैरन्यैराम्नायचर्चाकवचधृतिकनद्गोमुखद्वीपिभिश्च ।
बंहीयः क्षोभिताऽपि श्रुतिरिह बहुधा जायमानेन गोप्त्रा कालेकालेऽभिगुप्ता कलहमतितरन्त्यक्षता रक्षतान्नः ॥ १७३ ॥

(इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु मीमांसापादुका समाप्ता)