विश्वास-प्रस्तुतिः
वाक्याद्वाक्यार्थबुद्धौ बहुविधकुहकक्षोभतो बाधितायां तत्प्रत्यापत्तिसिद्ध्यै परमिह मुनिना न्यासि वाक्याधिकारः ।
दृष्टापह्नुत्ययोगाद्दृढतरविदितात्कार्यतो हेतुसिद्धौ दन्तादन्तिप्रयासः पुनरिह विदुषां दर्पसङ्घर्षतन्त्रः ॥ १५२ ॥
मूलम्

वाक्यादज्ञातयोगादविदितकथनेऽतिप्रसङ्गप्रसङ्गो मैवं व्युत्पन्नशब्दस्तबकमहिमतस्तत्तदर्थोपलब्धेः ।
संबन्धस्स्याद्गृहीतः कथमपि न तु वा तत्तदर्थैः पदानां वाक्यं वाक्यार्थयुक्तं न तु विदितचरं काव्यकॢप्त्यादिदृष्टेः ॥ १५३ ॥

यद्वाक्यं गोपदादिव्यतिकरितमिदं वक्ति गोत्वादिमद्भिर्युक्तान्वाक्यार्थभेदानिति सकृदखिलव्यापिसंबन्धबोधात् ।
वाक्यं वाक्यार्थबोधे प्रभवति तदिहातिप्रसङ्गो न शक्यः पुंवाक्येऽप्येवमेव स्थितिरिति न ततो वेदवाचां विशेषः ॥ १५४ ॥

वाक्यं नान्यत्प्रतीमः किमपि पदसमाहारतस्तान्यमानं वाक्यस्यार्थः पदार्थादनधिक इति नापूर्वरूपोपपत्तेः ।
अन्योन्योपक्रियादिप्रणिधिमति पदान्येव वाक्यं भवेयुर्वाक्यार्थत्वं पदार्थेष्वपि भवति मिथःश्लिष्टरूपातिरेकात् ॥ १५५ ॥

वाक्यं चेदप्रमाणं निखिलमभिलपेन्नास्य वादाधिकारः किंचिच्चेन्मानमिष्टं तदितरदपि ते तादृशं किं न मानम् ।
एतद्यो वा न मानं व्यपदिशति स चाबाधतो मानमिच्छेत्तस्मादाम्नायवाक्यैरकलुषधिषणोत्पत्तिरक्षोभणीया ॥ १५६ ॥

वाक्याद्वाक्यार्थबुद्धिर्न घटत इति यद्वाक्यमुक्तं भवद्भिस्तच्चेत्स्वार्थप्रतीतिं जनयति जनयेत्तद्वदन्यच्च वाक्यम् ।
नो चेत् भङ्गस्त्वदुक्त्या न कथमपि भवेदस्मदिष्टस्य तस्मादप्राप्ते वेदवाक्यान्यपि निजविषये मामतां न व्यतीयुः ॥ १५७ ॥

स्वव्याघातप्रसक्तौ स्वपरघटकवद्भावनं भ्रान्तकृत्यं मूर्खाणां पण्डितानामपि न हि विहतं वाक्यमिष्टं प्रतीत्यै ।
दृष्टं बोधं पदाद्यैरपलपितुमवश्यायकल्पान्विकल्पानल्पप्रज्ञाभिनन्द्यानभिदधतु ततस्स्वोक्तिरेवापकृत्ता ॥ १५८ ॥