विश्वास-प्रस्तुतिः
प्रत्यक्षप्रत्यपेक्षान्वयतदितरयोरत्र भङ्गात्तदुत्थं मानं नात्रानुमानं तदनुविहितितो वाक्यमत्राप्रमाणम् ।
इत्याशङ्कां निरोद्धुं परमिह विदधे सूत्रमौत्पत्तिकाद्यं कर्ता शारीरकस्य स्वगुरुरपि वदत्येतदित्याह भक्त्या ॥ १०५ ॥
मूलम्

निर्बाधास्सन्ति बोधाः कतिकति जगति त्यक्तदोषप्रसङ्गा दोषोपेतेऽपि धर्मिप्रभृतिषु नियतः स्थापितस्सत्यभावः ।
तस्मादौत्सर्गिकत्वं मुनिरमत धियां मानभावस्य युक्त्या वेदोत्पन्नेऽपि नित्येश्वरमतिनयतो दोषहान्येव तत्स्यात् ॥ १०६ ॥

पाणिन्यादिप्रवाहैरसदितरतया स्थापितश्शब्दराशिश्शब्दस्येत्युद्गृहीतो न खलु सहजसंबन्धशाली तदन्यः ।
गावीगोण्यादिशब्दास्त्वलसजडमुखैरर्भकालापनीत्या कीर्त्यन्ते तत्तदर्थेष्विति न खलु ततस्तत्र तच्छक्तिसिद्धिः ॥ १०७ ॥

बन्धश्चेद्बन्धशून्यः कथमिव घटयेद्बन्धवत्त्वेऽनवस्था मैवं संबन्धमात्रस्थितिमपलपतस्स्वोक्तिबाधादिदोषात् ।
इष्टश्चेद्दूषकत्वप्रभृतिरपि मृषा सिद्धमिष्टं परेषां दृष्टः कल्प्यश्श्रुतो वा न तदपलपितुं शक्यते संप्रयोगः ॥ १०८ ॥

वेदे तच्चोदिते च त्यजदुपधि महालोकसंगृह्यमाणे मानत्वं धर्मता च स्थितमपि कुरुतां नाम नित्यं तथाऽपि ।
एतस्येत्येतदित्थं हितमहितमिदं त्वेवमित्यादिबोधस्तत्तद्वेदोपदेशप्रभव इति वदत्यत्र तस्यादिशब्दः ॥ १०९ ॥

नित्यप्रत्यक्षसिद्धं निगममितरदप्याह चेद्विश्वकर्ता स्मर्तृत्वं तस्य न स्यात्क्वचिदितरसमं तद्गिरां च स्मृतीनाम् ।
मा भूदेतत्तथाऽपि स्मरतिरिह भवेत्क्षेत्रसामादिनीत्या वेदार्थव्यञ्जकत्वात्स्मृतिरिति च वचस्तेन सञ्जाघटीति ॥ ११० ॥

किञ्चाम्नायानभिन्नक्रमनियमतयाऽद्ध्यापयेच्छात्रपूर्वान् गीतादिग्रन्थराशिं क्रमविघटनया तत्रतत्र प्रयुङ्क्ते ।
तस्माद्विष्णुस्मृतिर्या तदितरदपि यन्नित्यसर्वज्ञशास्त्रं प्रख्यातं भारतादौ भवति तदखिलं वेदराशेर्विभक्तम् ॥ १११ ॥

सन्दर्भो यस्त्वपूर्वस्स्मृतिरिव कविभिः कल्प्यते सावधानैर्नित्यं सर्वज्ञबुद्धौ निहितवपुरसौ नैगमात्को विशेषः ।
सत्यं पुंसां विशेषादुपनमति भिदा तत्र मानेतरात्मा निर्बाधत्वेतराभ्यां भवति कवयतां कर्तृभावोऽपि कश्चित् ॥ ११२ ॥

बुद्धार्हन्तौ कणादः कपिल इति यथाकाममुद्ग्रृह्यमाणास्सर्वज्ञास्सन्त्यनेके कलितमपि च तैस्संगृहीतं ततः किम् ।
वेदादित्यप्रकाशप्रतिहतगतिभिर्दृष्टिभिस्तादृशानां धर्माधर्मव्यवस्था दुरधिगमतमा दोषमालाविलाभिः ॥ ११३ ॥

प्रत्यक्षादन्यदेव स्मृतिजनकतया वर्णयन्तोऽनुमानं तस्माच्छास्त्रं विभक्तं न कथमकथयन् बाधनाक्षेपसाम्यात् ।
प्रत्यक्षेऽप्यप्रमाणं त्ववधृतिविरहान्निर्विकल्पं वदन्तश्शास्त्रेऽप्येवं जजल्पुस्स्वहृदयविहतं तत्स्वतोऽन्यैश्च वार्यम् ॥ ११४ ॥

वश्याकृष्ट्यादिषट्कप्रतिकृतिलपनप्रस्तरस्फोटनाद्यं दृष्टं जैनादिशास्त्रेष्विति कुहकपथः क्षुद्रविस्रम्भयोग्यः ।
बाधे दोषे च दृष्टे बडिशवदनवर्त्यामिषन्यायविद्भिर्मन्वाद्याप्तोपदेशप्रणिहितमतिभिस्तेषु वाचाऽपि नार्चा ॥ ११५ ॥

त्यक्तानां वेदनिष्ठैरगतिपरवतां त्यागडम्भास्थितानां मूढानां क्षुद्रतर्कैर्मुनिसमघटिकाभोजनौत्सुक्यभाजाम् ।
तत्तद्बाह्यागमेषु भ्रमदनुगधियां भण्डसम्मोहितानां स्वैराचारार्थिनां च स्वकहृदयविसंवादशारः प्रवेशः ॥ ११६ ॥

पाषण्डत्वप्रसिद्धिश्चतुरुदधिपरिष्कारवत्यां पृथिव्यां पापानां षण्डमन्यन्मतमखिलपरिभ्रष्टमाविष्करोति ।
प्रत्यन्तक्षुद्रभाषाविहितमनियताशेषवृत्त्यर्हमेतत्तत्प्रत्यर्थिस्वभावश्रुतिपरिषदवध्वस्तमस्तं प्रयाति ॥ ११७ ॥

साधूनां त्राणमिच्छुस्तदहितदमने दत्तदृष्टिर्मुकुन्दो मायानिष्पन्नदैत्यप्रमुखकुहनया मोहयामास पापान् ।
मिथ्यादृष्ट्यैव शास्त्राण्यपि कतिचिदसौ निर्ममे निर्ममेभ्यस्त्वाचष्टानन्यशेषश्रुतिनिकरशिरस्सारसंग्राहकाणि ॥ ११८ ॥

बाधे वेदोदितानां भवति विफलता सिद्धिरस्त्वन्यतश्चेन्नैष्फल्यं वेदवाचां दिनकरकिरणैर्दर्शिते किं प्रदीपैः ।
तस्माद्बाधोपलम्भव्यपनयनवचस्सार्थकं वेदवेद्ये द्वेधा बाह्यान्प्रवृत्तान्दमयितुमनसस्संग्रहो ह्येष सारः ॥ ११९ ॥

नित्ये वेदे न वक्तुर्गुण इति स कथं मानमित्यप्ययुक्तं वक्तुस्सत्त्वे हि वाचामपवदनभिया तद्गुणोऽन्वेषणीयः ।
नित्यज्ञानं च हेतोर्न भवति गुणतस्स्वीकृतं तच्च मानं तादृग्विज्ञानमात्मन्यवितथविषयं वर्णितं क्वापि बोधे ॥ १२० ॥

चित्रादीनां समाप्तौ न भवति पशुवृष्ट्याद्यभीष्टं नियत्या स्वर्गादेः का कथा स्यादिति किल कलयन्त्यत्र लोकायतस्थाः ।
दृष्टोपाये फलानामनियतिवदिहाप्यस्तु किं नस्ततस्याद्धर्माणां कर्मकर्तृप्रभृतिविगुणता तत्फलानाप्तिहेतुः ॥ १२१ ॥

यागस्वर्गादिमध्ये यदि भवति किमप्यास्तिकानामपूर्वं चित्रापश्वादिमध्ये न तदिह घटते तत्क्षणोत्पत्तियोगात् ।
नो खल्वन्यत्र देहे परमिह पशुवृष्ट्यादिलाभाय यत्नो बाधे चैवं समस्ता श्रुतिरनृतवचस्तन्न बाधव्यपोहात् ॥ १२२ ॥

सद्यस्सिद्धिर्यदा स्यादिह न खलु तदा बाधशङ्कावकाशो विघ्नैस्सिद्धौ विलम्बः कृषिवदिह भवेदन्यथाऽतिप्रसङ्गात् ।
तेनैवापूर्वमन्तर्भवति नरपतिप्रीणनन्यायदृष्ट्या वैगुण्योत्थे विलम्बे विहतिविहतता शेषमप्येवमूह्यम् ॥ १२३ ॥

नानाभूतैर्निजाङ्गैः क्रमसमुपनतैरङ्गिसिद्धावपूर्वं तत्तन्निष्पादनीयं करणसमुदयात्पूर्वमेवाभ्युपेत्यम् ।
भोगश्चित्रादिसाध्यो बहुदिवससमासादनीयश्च मध्ये त्यक्त्वाऽपूर्वं न सिध्येदपि च सुनियताऽदृष्टहेतूपनीतिः ॥ १२४ ॥

ग्राव्णां चैतन्यकृत्यं श्रवणमभिदधे सत्रचर्या पशूनामन्येऽपि ह्यर्थवादप्रभृतिषु विहतास्तत्कथं मानतेत्थम् ।
व्याघातो यत्र दृष्टश्श्रुतिषु बहुविधस्तत्र चाऽऽप्तोक्तनीत्या मुख्यादन्यत्र वृत्तेः प्रमितिकरणता स्थापनीया यथार्हम् ॥ १२५ ॥

यस्मिन्मूलप्रमाणं न भवति न भवेत्तत्र शब्दः प्रमाणं धर्मे मानं च नान्यत्तत इह वचसो मानता मानशून्या ।
इत्युत्प्रेक्षाविलानां क्षम इह तु परं मूलदोषव्यपोहस्सोऽयं निर्धारणीयस्त्रिभिरधिकरणैर्दुस्तरैरुत्तरत्र ॥ १२६ ॥

एकस्सर्वेन्द्रियाणां विषयमनुभवन्बुद्धितश्चातिरिक्तस्सत्सूत्रे भाति हस्ताद्यपघनघनतोऽप्यर्थतस्तुल्यनीत्या ।
तस्मात्स्वर्गादिदृष्टेतरदपि हि फलं देहभेदात्स भोक्ता बाधे चैवं विधूते भवति फलवती चोदनाऽतीन्द्रियार्था ॥ १२७ ॥

स्वप्ने देहान्तरेणाप्यनुभवति सुखाद्येष पश्चात्तु जाग्रत्स्वाप्ने देहे व्यतीते स्मरति किमपि तच्छैशवादौ च तद्वत् ।
नानाभूतेषु पाणिप्रभृतिषु च परामृश्यतेऽसावभिन्नस्तद्वन्नानाशरीरो युगपदयुगपच्चैष भुङ्क्ते फलानि ॥ १२८ ॥

न ज्ञानं बाह्यशून्यं किमपि परमतिप्रत्ययात्स्वप्रवृत्तेर्न ज्ञेयं स्वप्रकाशं प्रकटतदितरावस्थयोस्तस्य तत्त्वात् ।
न ज्ञाता चेतरस्स्याद्बहुविषयिगणग्राह्यधीस्तोमवत्वात्त्रिभ्यस्सिद्धे त्रिकेऽस्मिन्नवहितमतिभिर्भाव्यमित्यत्र भावः ॥ १२९ ॥

न स्याद्धर्मः क्रियात्वाद्विहितमितरवन्नाप्यधर्मो निषिद्धं तस्मादेवेति यावज्जिगदिषति मुधा तन्त्रनासीरवीरः ।
तावद्दुष्कम्पकौतस्कुतमहितमहामोहमातङ्गयूथक्रीडासंहारसिंहारव इह निगमस्स्वार्थरोधं रुणद्धि ॥ १३० ॥

यस्यासिद्धं निषेध्यं कथमनुमिनुयात्तादृशस्तन्निषेधं सिद्धं वा यस्य मानैस्स च निरुपधिकं न क्षमस्तन्निषेद्धुम् ।
साध्यं मानैरबाध्यं किमपि यदि तदा सिद्धसाध्यत्वदोषो यश्चाप्रत्यक्षमात्रं न सदिति कथयेत्स्वेष्टभङ्गात्स भग्नः ॥ १३१ ॥

नित्यं विज्ञानमेकं क्षणभिदुरमुतास्थाय शेषं विमृद्नन् स्वव्याघातादिदोषैरपहृतविषयो दोषतैषां त्वखण्ड्या ।
मर्यादा स्वा परा वा न खलु नियमयेत्तादृशैरर्थसिद्धिं मूलच्छिद्वादकॢप्तौ मुखरितपटहो मोहमूर्धाभिषिक्तः ॥ १३२ ॥

प्रत्यक्षश्शब्दराशिर्मतिरपि हि ततो दृश्यते नात्र बाधः कॢप्तिश्चातिप्रसक्त्यै कथमिह विमुखी मानता जानतां वः ।
लिङ्गं व्याप्तिस्तदुत्थानुमितिरपि तथा तेन चेष्टास्तवेष्टास्तस्मादेकं प्रमाणं परिगणितवतोऽकृष्टपच्यं ततोऽन्यत् ॥ १३३ ॥

किंचित्सूत्रे प्रमाणं किल नियमयता किंचिदिष्टं ह्यमानं मानामानव्यवस्थात्यज इह विविधाः प्रापितास्तेन हानम् ।
निर्बाधैव प्रमेत्यप्यवगमितमिदं तेन तत्त्वानुभूतौ माने ग्राह्येऽनुभूतिः प्रमितिरिति वदन्त्यप्रमादूर(भू)भीताः ॥ १३४ ॥

वेदस्यार्थानुभूतिप्रजननशकनस्थापने किं फलं स्यात्किं वा बुद्धार्हदाद्यैः परुषमभिहितं प्रत्युतेष्टं हि शिष्टम् ।
मन्वानः पीतशङ्खभ्रममनुभवनं तद्व्यवच्छेदसिद्ध्यै विन्यस्यन्भेदकोक्तिं विहरतु विमतव्यूहभेदे वियातः ॥ १३५ ॥

आपातादन्यथाधीरखिलहृदयसंवादिनी येऽत्र रुष्टास्तेऽपि च्छायामिव स्वामतिपतितुमिमां कुत्रचिन्न क्षमन्ते ।
तत्सामग्र्यैव तत्तद्व्यवहरणमिति स्थापयन्तस्त्विहान्ये प्रध्यायन्तो लघुत्वं गुरुमतकथकाः प्राणिता देशिकैर्नः ॥ १३६ ॥