[[दर्शनेषु मीमांसायाः स्थानम् Source: EB]]
[
?Rदर्शनेषु मीमांसायाः स्थानम्
?0
?Rमहाप्रभुलाल्गोस्वामी
?R वैयाकरणदृष्ट्या मीमांसाशब्दः ‘?Rमान्बधदान्शान्भ्यो दीर्घोऽभ्यासस्य’?R इति पाणिनिसूत्रेण जिज्ञासार्थकमान्धातोः सन् प्रत्ययेन निष्पन्नः जिज्ञासाशब्दः मीमांसाऽपरपर्यायः। विचारं विना जिज्ञासायाः कार्यरूपे परिणतिः न संभाव्यते। अतः मीमांसाशास्त्रं विचारशास्त्रमेव। पूजितविचारवचनः मीमांसाशब्दः। नीयते प्राप्यते अर्थसिद्धिः अनेन इति व्युत्पत्त्या न्याय इति पूर्वमीमांसापदस्य अपरं नाम। मीमांसा न्यायोऽपि भवति। एकसहस्रन्यायपरिव्याप्तत्वात् न्यायमालाप्युच्यते। प्रपञ्चहृदये उक्तम् `तदिदं विंशत्यध्यायनिबद्धं मीमांसाशास्त्रम्?R तत्र षोडशाध्यायनिबद्धं पूर्वमीमांसाशास्त्रं पूर्वकाण्डस्य धर्मविचारपरायणं जैमिनिकृतम्। तदन्यदध्यायचतुष्कम् उत्तरमीमांसाशास्त्रम् उत्तरकाण्डस्य ब्रह्मविचारपरायणं व्यासकृतम्।’ भगवता रामानुजाचार्येणापि श्रीभाष्यप्रारंभे उक्तम्–’?Rवक्ष्यति च कर्मब्रह्ममीमांसयो रैकशास्त्र्यम्–संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन शास्त्रैकत्वसिद्धिः’ इति। सेश्वरमीमांसाप्रणेता वेदान्तार्यश्रीवेङ्कटनाथः स्पष्टमभिधत्ते–‘अथातो धर्मजि?Rज्ञासा’?R इत्यारभ्य अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’?R इत्येवमन्तं विंशतिलक्षणमेकं शास्त्रम्। अत एव तस्य विंशत्यध्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम्। तद् ग्रन्थबाहुल्यभयादुपेक्ष्य किञ्चित् संक्षिप्तमुपवर्षेण कृतम्।
?R याज्ञवल्क्येन कर्मकाण्डज्ञानकाण्डयोस्तादात्म्यं प्रदर्शयता उक्तम्
– विद्याकर्मणी समन्वारभेते। शरीरादात्मन उत्क्रमणानन्तरं विद्याकर्मणी अनुवर्तेते। तथाच उत्तरजन्मप्राप्तिः। अनन्तरमेतत्साहाय्येनैव आत्मा मृत्युं तीर्त्वा मोक्षंप्राप्नोति।
?R यजुर्वेदे च उक्तम् —
?Rविद्यां चाविद्यां च यस्तद्वेदोभयं सह।
?अविद्यया मुत्युं तीर्त्वा विद्ययाऽमृतमश्नुते। यजु 40
?R अत्र अविद्याशब्दः विद्यासदृशार्थबोधकः। अतः ज्ञानसहयोगिनः कर्मणः वाचकः अविद्याशब्दः। नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थावगतिः इति महाभाष्यात्। किञ्च, तदाहुः आत्मयाजी श्रेयान् देवयाजी, इत्यात्मयाजीति ह ब्रूयात्। स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियते, इदं मेऽनेनाङ्गम् उपधीयते इति। यथाऽहिस्त्वचो निर्मुच्येतैवमस्मात् मर्त्याच्छरीरात् पाप्मनो निर्मुच्यते। स ऋङ्मयो यजुर्मयः साममयः आहुतिमयः स्वर्गलोकमभिसंभवति। अथ ह स देवयाजी यो वेद देवानेवाहमिदं यजे देवान् समर्पयामि इति। स यथा श्रेयसे पापीयान् बलिं हरेत् वैश्यो वा राज्ञे बलिं हरेदेवं स न तावन्तं लोकं जयति यावन्तमितरः (शत - 12-2-6 19-3-94)
?R शतपथसमये कर्मकाण्डात् पृथक् आत्मज्ञानप्रतिष्ठा सञ्जाता। यत्र कर्मकण्डस्य निन्दा परिलक्ष्यतेढा।
प्लवा ह्येते अदृष्टा ?Rयज्ञरूपा अष्टादशोक्तमवरं येषु कर्म।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियान्ति।
एतस्य खण्डनं मीमांसायां प्रशंसाधिकरणे षइविंशसूत्रेण कृतम्। “?Rन हि निन्दा निन्दितुं प्रवर्तते, अपितु विधेयं स्तोतुम्।” अध्यात्मविद्यास्तुत्यर्थमेतद्वचनं, नतु यज्ञनिन्दार्थम्। कौत्ससदृशो याज्ञिकोऽप्यासीत् येन मन्त्राणामप्यानर्थक्यमुक्तं। `?Rयदि मन्त्रार्थप्रत्यायनाय’ अनर्थकं भवतीति कौत्सः अनर्थका हि मन्त्राः। एतस्य स्वण्डनं निरुक्ते पूर्वमीमांसायां च कृतम्। उत्तरमीमांसायास्तु पूर्वमीमांसां विना गतिरेव नास्ति।
?R श्रुत्यादिबलीयस्त्वाच्च बाधः (3-3-3) श्रुत्यादिबलीयस्त्वास्य निर्देशः। अत्र लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि (3-3-44) अत्र लिङ्गभूयस्त्वनिर्देश इति उभाभ्यां ब्रह्मसूत्राभ्यां श्रुतिलिङ्गवाक्य प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् इति सूत्रपरामर्शः स्पष्टः।
?R स्वामिनः फलश्रुतेरित्यात्रेयः (3-4-44) फलमात्रेयो निर्देशात् इति मतस्योल्लेखः आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते(3-4-45) द्वादशाहवदुभयं बादरायणोऽतः (4-4-12) इत्याभ्यां सूत्राभ्यां प्रथमनिर्दिष्टसूत्रेण च याज्ञिकमते विभिन्नविशेषणविशिष्टदेवता पृथगेव स्वीकृता। तदर्थञ्च पृथगेवाहुतिर्भवति इत्यादिविषयाणां निर्देशः। अतः पूर्वमीमांसागतन्यायानां यथा उत्तरमीमांसायां मूलत्वमङ्गीकृतं, न तथा पूर्वमीमांसायाम्। अत एव उत्तरमीमांसेति नामकरणमपि सार्थकम्। पूर्वमीमांसाया एव चत्वारः अध्यायाः देवताकाण्डरूपेण प्रसिद्धाः। पूर्वमीमांसायाः परिशिष्टरूपा इमे। शबरस्वामिनः प्राचीनैः देवस्वामिभिः संकर्षकाण्डप्रारंभे उक्तम्।
?Rसिद्धैरेतैः प्रसङ्गान्तैः श्रुतियोगं प्रदर्शयन्।
लक्षणानि श्रुतीश्चैव सङ्कृष्याथ जगे मुनिः॥
अनेन सङ्कृ?Rष्यपदेन संकर्षणशब्दस्य संबन्धः प्रदर्शितः। देवतास्वरूपविचारस्तु तत्र नास्त्येव। मीमांसाशास्त्रपरम्परा सुचरितमिश्रेणैवमुक्ता ब्रह्मा महेश्वरो वा मीमांसां प्रजापतये प्रोवाच - प्रजापतिरिन्द्राय, इन्द्र आदित्यायेत्येवमादि। जैमिनीयसूत्रार्थसङ्ग्रहेऽपि एष एव क्रमो निर्दिष्टः। पार्थसारथिमिश्र प्रदर्शितपरम्परायां, ब्रह्मा, महेश्वरः, प्रजापतिः, इन्द्रः, आदित्यः, वसिष्ठः पराशरः इति लभ्यते। विंशत्यध्यायात्मकमीमांसाशास्त्रे द्वादशाचार्याः स्मृताः। आत्रेयः, औडुलोमिः, जैमिनिः, आलेखनः, कामुकायनः, बादरायणः, आश्मरथ्यः काशकृत्स्नः, बादरिः, एतिशायनः, कार्ष्णाजिनिः, लावुकायनः, अनेन प्रकरेण एकोनविंशसंख्याका आचार्याः स्मृताः। पूर्वम् आर्षयुगः, अनन्तरं मुनिकालः, तत आचार्यकालः, अस्मिन् निभिन्नविचाराः प्रवर्तिताः।
?Rप्रायेणैव हि मीमांसा?R लोके लोकायतेकृता।
तामास्तिकपथे कर्तुमयं यत्नः कृतो मया॥
?R मीमांसा हि भर्तृमित्रादिभिः अलोकायता एव लोकायतीकृता नित्यविहितनिषिद्धयोः इष्टानिष्टफलं नास्तीत्यादि बह्वपसिद्धान्तपरिग्रहेणेति पार्थसारथिः।
?R उम्बेकमिश्रः— ननु वेदार्थग्रहणाविस्मरणार्थमपि तत्तद्भर्तृमित्रविरचिततत्त्वशुद्ध्यादिलक्षणप्रकरणमस्त्येवेति गतार्थमिदं वाक्यमत आह–प्रायेणेति। सैवमात्मिका अलोकायता एव सती बाहुल्येन लोकायतीकृता। सत्स्मृतिसदाचाराणां विना कारणेन धर्मत्वनिराकरणात्, विधिनिषेधयोरिष्टानिष्टफलानभ्युपगमाच्च।
?R वाक्यपदीयस्वोपज्ञटीकायां भर्तृहरिः—न प्रकृत्या किञ्चित् कर्म दृष्टमदृष्टं च। शास्त्रानुष्ठानात् केवलात् धर्माभिव्यक्तिः, शास्त्रातिक्रमाच्च प्रत्यवाययोगः। येषामेव ब्राह्मणवधादीनां विषयान्तरे पातकत्वं, तेषामेव विषयान्तरे प्रकृष्टाभ्युदयहेतुत्वं शास्त्रेण विधीयते (वा-का-145)
?R ?यथा न्यायशास्त्रस्य प्रमाण निरूपणं, उत्तरमीमांसाया ब्रह्मस्वरूपनिरूपणं व्याकरणस्य पदपदार्थतत्वज्ञानं तथा मीमांसाशास्रस्य वाक्यार्थनिरूपणं प्रयोजनम्।
?R वाक्यार्थनिरूपणं सर्वेषां दार्शनिकानामावश्यकम्। परं मीमांसका वाक्यार्थनिरूपणे सावहिताः सन्ति। इमे वेदार्थ निरूपणे प्रवृत्ताः। वेदस्य वाक्यरूपत्वात् तदर्थ निरूपणं विना सर्वमपौरुषेयं वाक्यं व्यर्थं स्यादिति सूक्ष्म प्रणिधानपूर्वकं स्वीयप्रयोजनार्थमेवातिशयेन दत्तावधानाः सन्ति वाक्यार्थ निरूपणे। वेदवाक्यार्थज्ञानार्थमेव मीमांसकानां प्रवृत्तिः। वैयाकरणाः पदनिरूपणे, नैयायिकाः प्रमाणनिरूपणे, मीमांसकाश्च वाक्यार्थनिरूपणे प्रणिहितबुद्धयः। मीमांसकैः वाक्यार्थनिरूपणार्थमपेक्षितयुक्तिसमूहानां न्यायानां च समवायः आलोचितः। जैमिनिप्रणीतद्वादशलक्षण्यां पूर्वमीमांसायां वाक्यार्थनिरूपणानुकूलन्यायकदम्बविचारवैशिष्टयं विलोक्य विस्मयो जायते। संप्रति मीमांसादर्शनसंवादउपेक्षितः, यतः जैमिनिप्रदर्शितवाक्यार्थनिरूपणानुकूलयुक्तीनां विद्वत्समये लोप इव सञ्जातः। अपौरूषेयवेदवाक्यस्य अर्थनिरूपणोपयोगियुक्तय एव लौकिकवाक्यार्थनिरूपणोपयोगिन्यः। पाणिनिव्याकरणं यथा वैदिकपदसमूहसाधुत्वनिरूपणार्थं प्रवृत्तं सत् प्रसङ्गतः लौकिकपदसमूहसाधुत्वनिरूपणं करोति, तथैव मीमांसाशास्त्रं वेदवाक्यार्थप्रदर्शने प्रवृत्तं सत् लौकिकवाक्यकदंवनिरूपणमपि विधते। अत एव दार्शनिकाः आलङ्कारिकाश्च वाक्यसमूहार्थनिरूपणे मीमांसाप्रदर्शिताभिहितान्वयवादअन्विताभिधानवादयोः कमप्येकमवलंब्यैव अर्थनिरूपणं कुर्वते। भट्टपादकुमारिलेनापि महामतिप्रभाकरस्य गुरुनाम्ना प्रसिद्धस्य अन्विताभिधानम् प्रत्याख्याय अभिहितान्वयवादः समर्थितः। वाक्यविवरणे–‘तद्भूतानां क्रियार्थेन समाम्नायः अर्थस्य तन्निमित्तत्वात्’ (जै-सू-1-1-25) इत्येतत्सूत्रभाष्ये वार्तिकादौ च अभिहितान्वयवादस्य विवेचना विद्यते। जैमिनिसूत्रभाष्यव्याख्यान एव प्रभाकरोऽन्विताभिधानवादं समर्थयति। परवर्तिनः शालिकनाथप्रभृतयश्च परिपोषयन्ति इदं मतम्।
?अभिहितान्वयवादान्विताभिधानवादयोः स्वरूपं
?0सत्यमिदं यत् सर्वेषु शास्त्रेषु पदार्थः वाक्यर्थश्च निरूपितः। परं मुख्यतया जैमिनिरेव वाक्यार्थ निरूपणे प्रयत्नशीलः। वेदस्यामरकाव्यत्वेऽपि वाक्यार्थनिरूपणे एव काव्यचमत्कारत्वस्योपलब्धिः। अत एव आलङ्कारिका अपि पदार्थस्य वक्यार्थस्य च आलोचनायां निरतिशयप्रयत्नशीलाः। अभिहितान्वयवदिनां मते वाक्यार्थः अपदार्थः। अर्थात्, कस्यापि पदस्य नासावर्थः। पदार्थादेव वाक्यार्थः प्रतीयते। आकाङ्क्षासन्निधियोग्यतावशादेव पदार्थान्वयरूपस्तात्पर्यार्थः भासते। तात्पर्यार्थ एव वाक्यार्थः। तात्पर्यार्थरूपो वाक्यार्थः न पदार्थः। पदात् न प्रतीयते इत्यत एवापदार्थः।
अन्विताभिधानवादिनस्तु तात्पर्यार्थाख्यो वाक्यार्थः नापदार्थः। काव्यप्रकाशे ‘तात्पर्योर्थोऽपि केषुचित्’ इत्यनया कारिकया अन्विताभिधानवादिनो निर्दिष्टाः। तात्पर्योर्थो अन्विताभिधानवादिनां वाक्यार्थो वाच्य एव। तत्र पदस्य शक्तिरस्ति। शक्तमेव पदं वाक्यार्थानुभावकम्।
अभिहितान्वयवादिनः पदे शक्तिं स्वीकुर्वन्ति। अतः पदशक्तिः पदनिष्ठा। किन्तु लक्षणा न पदनिष्ठा। अपि तु पदार्थनिष्ठा। नैयायिकास्तु शक्तिं लक्षणां च पदनिष्ठामेव स्वीकुर्वन्ति। अतः शक्यं लक्ष्यं चेत्युभययोः पदार्थत्वम्। अभिहितान्वयवादिनस्तु भट्टाः न तथा स्वीकुर्वन्ति। पदशक्त्या उपस्थितोऽर्थ एव पदार्थः। शक्त्या पदेन पदार्थोपस्थापने सति एकस्मिन् शक्य पदार्थे अपरस्य शक्यपदार्थस्य तात्पर्यविषयीभूतान्वयानुपपत्ति प्रतिसन्धानात् असौ शक्यपदार्थ एव वाक्यार्थान्वययोग्यस्वसंबन्धिनं पदार्थन्तरमुपस्थापयति। तथाच शक्यपदर्थ एव लक्ष्यार्थोपस्थापकः न तु पदम्। लक्ष्यार्थः पदेन नोपास्थितः। अपितु शक्यार्थेनैव उपस्थापितो भवति। अतः भट्टमते लक्ष्यार्थोऽपि अपदार्थ एवं।
तत्र पदार्थनिष्ठैव लक्षणा। न तु पदनिष्ठा। वाक्यार्थोऽपि पदार्थैरेवव लक्ष्यते न तु पदैरिति न लाक्षणिकानां शक्तत्वप्रसङ्गः। पदोपस्थापितपदार्थोपलक्ष्ये पदवृत्तिविषयत्वव्यवहारः वाक्यार्थशाब्दत्ववत् परम्परयेत्यदोषः" (वेदान्तर-पृ-36) उक्तं मधुसूदनेन।
काव्यप्रकाशादौ भट्टोक्तस्यैव पुनरावृत्तिर्विद्यते। ‘लक्षणारोपिता क्रिया’ पदं स्वशक्यव्यवहितलक्ष्यार्थविषयकं भवतीति लक्षणाव्यापारः शब्दे आरोपितः भवति। अतः लक्षणा न शब्दधर्मः। अपितु अर्थधर्मः अत एव भट्टेनोक्तम्—‘वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति च स्थितिः’। वाक्यार्थः सर्वत्र लक्ष्यात्मको न तु शक्यात्मकः इत्यस्यायमभिप्रायः– यत्
– लक्ष्यकथनेन लक्षणाया पदं लक्ष्यार्थोपस्थापकमित्यवगम्यते। लक्ष्यार्थो यथा पदार्थप्रतिपाद्यः तथैव वाक्यार्थोऽपि पदार्थप्रतिपाद्यः। वाक्यार्थस्य अत एव लक्ष्यत्वम्। लक्ष्यार्थस्य उपस्थापकः पदार्थः। एवं पदार्थस्योपस्थापकं शक्तं पदम् । परम्पराक्रमेण लक्ष्यार्थेन पदस्य संबन्धः इति लक्ष्यार्थोऽपि पदवृत्तिविषय इति लोके व्यवहारो भवति। लक्ष्यार्थो वाक्यार्थश्र साक्षादर्थप्रतिपाद्यः; साक्षात् पदप्रतिपाद्यो नास्ति इत्येव अभिहितान्वयवादस्य मूलाधारः। अर्थ प्रतिपाद्ये वाक्यार्थे यथा शोब्दत्वव्यवहारः, तथैव लक्ष्यार्थस्यापि पदवृत्ति विषयत्वव्यवहारः। लक्ष्यार्थस्य साक्षात् पदप्रतिपाद्यत्वव्यवहारोऽभिहितान्वयवादविरोधी।
न्यायमञ्जरकारदृष्टयाऽभिहितन्वमवादः अन्विताभिधानवादश्च इत्थं निर्दिष्टः। गृहीतसङ्केतपुरुषं प्रति पदश्रवणानन्तरं पदार्थोपास्थितिर्भवति। इयमेव पदश्रवणजन्यपदार्थोपस्थितिः। पदार्थोपस्थितिश्च पदार्थज्ञानम्। एतत् ज्ञानं स्मृतिरनुभूतिर्वा। नैयायिकमते उपस्थितिशब्दार्थः स्मृतिः, पदार्थोपस्थितिः पदार्थस्मृतिः। पदार्थोपस्थापकः–पदार्थस्मरकः इत्येव नैयायिकाभिप्रायः। अन्विताभिधानवादी प्रभाकरो नैतत् स्वीकरोति। पदश्रवणजन्यं पदार्थज्ञानं भवतीति सर्वे स्वीकुर्वन्ति। एकवाक्यघटकनानापदात् पृथक्पृथक्रूपेण नानापदार्थज्ञानमेव वाक्यार्थज्ञानमिति न। अपि तु पदात् ज्ञातपदार्थस्य परस्परसंसृष्टत्वे वाक्यार्थो भवति। एकपदार्थस्य अपरपदार्थेन संसर्ग एवान्वयः। अन्वयप्रतीतिरेव वाक्यार्थप्रतीतिः। अन्वितपदार्थ एव पदेनाभिधीयते। अन्वितपदार्थस्तु इतरपदार्थ संबद्ध पदार्थः। इतरपदार्थेनानन्वितस्य असंबद्धस्य पदार्थस्य अभिधानं पदं न करोति। पदम् इतरपदार्थान्वित पदार्थमभिधत्त इति अन्विताभीधानम्।
केचदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते। अन्यथा पदानां वाक्यात्वायोगात्’ इति (न्या-म-पृ314) पदस्य पदार्थमात्र प्रतिपादकत्वे शब्दप्रमाणत्वं न स्यात्। पदस्य अप्रमाणत्वे वाक्यमेव प्रमाणं स्यात्। किन्तु एतत् न सम्यक्। पदं वाक्यं च न विभिन्नं वस्तु। असंसृष्टार्थमात्र ज्ञापकं प्रमाणं न भवति। एतादृशी प्रतीतिः प्रमा भवितुं नार्हति। अत एव निर्विकल्पकं ज्ञानं न प्रमा। पदस्य प्रामाण्यरक्षणार्थं पदस्यापि संसृष्टार्थानुभावकत्वं स्वीकरणीयम्। वाक्यार्थो यथा इतरान्वितोऽर्थेः तथैव पदार्थोऽपि इतरान्वितार्थः। वाक्यमात्रस्य शब्दप्रमाणत्वं पदस्याप्रमाणत्वमितिकथनं त्वसङ्गतमेव। अवयवसमूहेन आरब्धः अवयवी यथावयवकदम्बात् सर्वथाअभिन्नः अवयवसमूहसमवेतः, एवमेव पदसमूहेनारब्धं वाक्यं न। अपि तु पदसमूहमेव वाक्यम्। अतः पदवाक्ययोर्न कोऽपि भेदः। पदं सामान्यरूपेण इतरान्वितार्थानुभावकम्। वाक्यं च विशेषरूपेण इतरान्वितार्थानुभावकम्। पदं वाक्यं चोभयमपि विशिष्टार्थानुभावकमिति प्रमाणम्। इतरार्थेन सहासंसृष्टार्थः पदस्य अर्थ एव न भवति। इतरानन्वितार्थस्य प्रतिपादकत्वे पदस्य प्रामाण्यमेव नेति तस्यां स्थितौ पदमप्रमाणमेव स्यात्। बृहतीग्रन्थे सुस्पष्टमेव उक्तम्। संबन्धिनः पदार्थद्वयस्य अन्वयः संबन्धो वा अपदार्थो न भवितुमर्हति। अपदार्थः वाक्यार्थबोधे न भासते। वाक्यार्थबोधे अपदार्थस्य भासमानतास्वीकारे वाक्यार्थबोधे शाब्दबोधत्वं न स्यात्। शब्दोपस्थाप्यस्यैव शाब्दबोधे भानं भवति। अतः अन्वयोऽपि पदार्थ एव।
अभिहितान्वयवादिनां मते इतरपदार्थेन सह अनन्वितः शुद्धपदार्थ एव पदेनाभिधीयते। पदेन अभिहितः शुद्धपदार्थः आकाङ्क्षासन्निधियोग्यत्वसहकारेम पदार्थानां परस्परं संसर्गमवगमयति। तथा पदार्थसंसर्गश्च अपदार्थ एव। लक्ष्यार्थो यथा अपदार्थः, वाक्यार्थोऽपि तथैवापदार्थः। पदार्थानां परस्परसंसर्ग एव वाक्यार्थः। नैयायिकानामियमेव दृष्टिः।
अन्ये मन्यन्ते - शुद्धानामेव पदार्थानां पदैरभिधानम्। ते तु अभिहताः सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्गमधिगमयन्ति इति (न्या.म.पृ 364)
भगवान् शबरस्वमी कथयति - वाक्यघटकपदानि स्वस्वमर्थं बोधयित्वा निवृत्तव्यापाराणि भवन्ति। शुद्धार्थाभिधानमेव पदस्य व्यापारः। एतदनन्तरं किमपि करणीयं नास्ति। अभिहितपदार्था एव वाक्यार्थं प्रति पादयन्ति। ‘पदानि हि स्वस्वमर्थमभिधाय निवृत्तव्यापाराणि। अथेदानीं पदार्था अवगताः सन्तः वाक्यार्थं गमयन्ति (शा-भा 1-1-8-25) अयमेवाभिहितान्वयवादः। कोऽपि वादो भवतु। पदार्थे पदसङ्केतग्रहं विना अर्थात् अगृहीतसङ्केतात् पदादर्थावगतिः न भवितुमर्हति। अत्रेयं जिज्ञासा जागर्ति यत् पदेन सह वाक्यार्थस्य सङ्केतग्रह आवश्यकः अथवा पदेन सह शुद्धपदार्थस्य सङ्केतग्रह आवश्यकः? पदेन सह वाक्यार्थस्य सङ्केतस्वीकारे अन्विताभिधानम्। एवं पदेन सह शुद्धपदार्थस्य सङ्केतस्वीकारे अभिहितान्वयवादः। अर्थात् पदेन वाक्यार्थावगतौ अन्विताभिधानम्। पदेन शुद्धपदार्थावगतौ अभिहितान्वयवाद इति पदस्य क्व सङ्केतग्रह इत्येवालोचनीयम्।
अत्राभिहितान्वयवादिनो मन्यन्ते - यत् अभिहितान्वयस्वीकार एवावश्यकः। पदार्थो वाक्यार्थश्च अत्यन्तं भिन्नः। पदार्थप्रतीतिपूर्विकैव वाक्यार्थप्रतीतिरिति। शुद्धपदार्थे पदस्य सङ्केतग्रहं विना वाक्यार्थप्रतीतिरेव न संभाव्यते। शुद्धपदार्थे व्युत्पन्नशब्दात् शुद्धपदार्थ एवाभिहितः। अभिहितशुद्धपदार्थात् वाक्यार्थावगतिः भवति। अतः अन्विताभिधानवादो न भवितुमर्हति। पदस्य अर्थस्य च प्रविभागः सकलशास्त्रप्रसिद्धः। किमपि पदं जातिवाचकं, किमपि गुणवाचकं, किमपि क्रियावाचकं, किमपि च द्रव्यवाचकम्। महाभाष्येऽपि चतुर्विधत्वं प्रसिद्धमेव। एतच्चतुर्विधत्वं शुद्धपदार्थाभिधान एव संरक्षितं स्यात्। अन्विताभिधानवादे एतत् सुरक्षितं नैव स्यात्। यतः,
पदार्थान्वितपदार्थस्य पदेनाभिधीयमानत्वे पदेन अभिधीयमानपदार्थस्यचतुर्विधतै व नावधारिता स्यात्। अन्विताभीधानवादिमते पदेनाभिधीयमानपदार्थमात्रमेव कदंबपुष्पाकारं स्यात्। यथा कदम्बपुश्पमगणितदलसमन्वितंम्, एवमेव अन्विताभिधानवादिनामपि पदार्थः योग्येतरपदार्थान्वितः। कस्यापि पदस्य जातिरर्थः कस्यापि पदस्य गुण इति निरूपणं न संभवति। अस्मिन् सर्वं पदं सर्वाभिधायकम्। अतः मतमिदमसङ्गतम्।
अथ अन्विताभिधानवादिनः सङ्गिरन्ते - यत् आवापोद्वापाभ्यां पदस्य गुणवाचकत्वादिकमवधारितं स्यात्। वाक्ये यस्य पदस्य सद्भावदशायां वाक्यार्थप्रतीतौ गुणः भासते यदभावे गुणो न भासते, तत्पदं गुणवाचकम् इत्यनेन प्रकारेण अवधारितं भविश्यति। अत्र अभिहितान्वयवादिनः शङ्कन्ते यत् पूर्वोक्तरीत्या जात्यादिवाचकताया अवधारणं न संभवति - यतः वाक्य एव पदानामावापोद्वापः संभवति। यद्धि न वाक्यं, तत् शाब्दबोधजनकमपि नास्ति। अतः शाब्दबोधजनकवाक्यमात्रे एव वाक्यघटकं प्रत्येकं पदं योग्येतरार्थान्वितार्थबोधकम्, वाक्यान्तर्गतं किमपि पदं अनन्वितार्थाभीधायकं न भवति। अतः प्रत्येकं पदमेव इतरान्वितपदार्थस्य बोधकमिति कदंबाकारार्थप्रतिपादकं पदं, न तु शुद्धार्थप्रतिपादकं किमपि पदं वाक्यान्तर्गतम्। अतः आवापोद्वापाभ्यां पदं जात्याद्यर्थबोधकं न भवितुमर्हतीति दोषः तदवस्थ एव। अस्यां स्थितौ गामानयेत्यनेन अश्वबन्धननियोगोऽपि संभाव्यते। पदस्य शुद्धपदार्थाभिधायकत्वे एवैतत् संभवति। पदेन सह शुद्धपदार्थस्य संबन्धः औत्पत्तिकः, अर्थात् नित्य इत्येव जैमिनिसिद्धान्तः। औत्पत्तिकस्तु शब्दस्य अर्थेन संबन्धः (1-1-5) यद्यपि अव्युत्पन्नपुरुषस्य प्राथमिकी व्युत्पत्तिः वाक्यजन्यवृद्धव्यवहारात् भवति। तथापि वाक्येन सह वाक्यार्थस्य सङ्केतः न गृह्यते। वाक्येन सह वाक्यार्थस्य व्युत्पत्तिग्रहणे तु प्रतिवाक्यं पृथक् व्युत्पत्तिग्रहोऽपेक्षितः स्यात्। वाक्यं चानन्तम् अद्यापि नूतनवाक्यरचना जायत इति अभिनवमेव तद्वाक्यम्, व्युत्पत्तिग्रहापेक्षायां व्युत्पत्तिग्रहोऽसंभव एवेति शब्दव्यवहार एवोच्छिन्नः स्यात्। वाक्यस्य नूतनत्वेऽपि तद्घटकं पदं न नूतनम्। अतः पदेन सह शुद्धपदार्थसङ्केतग्रहवशादेव शाब्दव्यवहारो रक्षितः स्यात्। पदार्थविदभिनवकविरचितश्लोकवाक्यार्थग्रहणे सर्वथा समर्थो भवति। एतच्च पदेन सह शुद्धपाद्रथव्युत्पत्तिग्रहेणैव संभाव्यते। अतोऽभिहितान्वयवाद एव समीचीनः।
अन्योऽपि अन्विताभिधानवादे दोषो वर्तते। वाक्यान्तर्गतमेकमेव पदं यदि वाक्यार्थबोधकं स्यात्; वाक्यघटकापरपदोच्चारणं व्यर्थमेव स्यात्। एकमेव पदं द्वितीयपदार्थेन उपरक्तं सत् अर्थबोधकं स्यात् एवमेव द्वितीयमपि पदमन्योपरक्तार्थस्यैव वाचकं स्यात्; तथा एकमेव पदं निखिलपदाभिधेयार्थवाचकं सत् अन्विताभिधानवादिनां मते एकेनैव पदेन सर्वविधव्यवहारः स्यात्। उक्तं न्यायमञ्जर्याम्–‘अतश्चैवं पदान्तरोच्चारणवैकल्यप्रसङ्गात् एकस्मादेव पदात् तदुपरक्तद्वितीयपदार्थावगतिः सिद्ध्येत्। यथा ‘गौः’ इति पदोच्चारणानन्तरं गोपदं सर्वविधगुणक्रियादिसमन्वित गोपदार्थबोधकं भवतीति कथम् अवगतिः स्यात् यत् गोवस्तुनः उपादानम् अपसारणं वा कर्तव्यं, शुक्लगोरुपादानं कृष्णगोरपसारणं कर्तव्यम्, यतः तादृशावगत्या कोऽप व्यवहारो न संभाव्यते गोशब्दः सकलगुणक्रियान्वितस्वार्थबोधक इत्यत्र कारणावगतिरपि नास्ति।
अत्रान्विताभिधानवादिनः कथयन्ति – पदान्तर सन्निधानवशात् गोशब्दः विशेषगुणक्रियादिद्वारा–अन्वितस्वार्थबोधको भवति। शुक्लपदसन्नधानप्रयुकं गोपदं शुक्लान्वितगोरवबोधको भवति। एवं गच्छतिपदार्थसन्निधानात् गोपदं गमनक्रियान्वितगोबोधकं भवति। अनियतभावेन सर्वविधगुणक्रियान्वितस्वार्थस्य बोधकं किमपि पदं न भवति। पदान्तरसन्निधानप्रयुक्तमेव पदं नियतगुणक्रियान्वितार्भबोधकम्। अतः अन्विताभिधानवादिमते न काप्यापत्तिरिति।
अत्रेयमापत्तिः— यत् पदं किं स्वरूपतः पदान्तरसान्निध्यप्रयुक्तमेव नियतगुणाद्यन्वयनियामकम्? अथवा सन्निहितपदं स्वार्थप्रतिपादनद्वारा उक्तनियमस्य साधनं भवति। पदान्तरस्य स्वरूपतः सान्निध्यमात्रस्य उक्तनियमहेतुत्वं न संभवति - यतः अर्थोपस्थापनं विनैव पदं स्वरूपतः सान्निध्यादर्थविशेषप्रतीतेः साधनं न भवितुमर्हति -यथा जपमात्रोपयोगिमन्त्रघटकशब्दस्य अर्थोपस्थापकता नास्तीति तादृशमन्त्रवाक्यघटकशब्दः कस्याप्यन्वितार्थ प्रतिपादको न भवति। अर्थानुपस्थापकपदसन्निधानमसन्निधान समानमेव। अतः अवश्यमेव स्वीकरणीयं - यत् अर्थविशेष प्रतिपादनपूर्वकमेव सन्निहितपदान्तरं पदस्य नियतगुणक्रियादिना अन्वितस्वार्थप्रतिपादने सहायकं भवति। एवंस्वीकारे पदान्तराभिहितार्थान्वयस्वीकारे अभिहितान्वयवाद एव स्यात्। अतः अभिहितान्वयवादस्वीकार एव समुचितः। अनाकाङ्क्षितासान्निहितायोग्यार्थेन सह अभिहितार्थोऽन्वितो न भवति। ‘अङ्गुल्यग्रे हस्तियूथशतमास्ते’ इतिवाक्येन अभिहितान्वयबोधो न भवति। योग्यताभावेनैव वाक्यार्थ बोधः न भवति। अन्विताभिधानवादिमते च प्रदर्शितवाक्यादपि वाक्यार्थबोधे काप्यापत्तिः नास्ति - यतः वाक्यघटकं पदम् अन्वितार्थस्यैव अभिधानं करोतीत्यन्वयाभावे किमपि कारणं नास्ति। अत एव शबरस्वामिनोक्तम्-‘पदानि स्वंस्वमर्थमभिधाय निवृत्तव्यापाराणि। अथ इदानीमर्था अवगता वाक्यार्थं गमयन्ति (जै-सू-1/1/51)
अभिहितान्वयवदिमतं न समीचीनम् - यतः प्रदीपः यथा सङ्केतग्रहनिरपेक्षः रूपप्रकाशको भवति, आलोको हि रूपप्रकाशकः। रूपं प्रकाश्यम्, आलोकः प्रकाशकः, प्रकाश्यप्रकाशकभावयोः व्युत्पत्तिग्रहो नैवापेक्षितः। आलोकस्य प्रकाशकत्वं, रूपस्य च प्रकाश्यत्वं ये न जानन्ति, तेषां कृतेऽपि आलोकः रूपप्रकाशकः। अतः व्युत्पत्तिग्रहनिरपेक्ष एव रूपस्य प्रकाशकः, किन्तु, शब्दः व्युत्पत्तिग्रहनिरपेक्षः अर्थप्रकाशको न भवति। शब्दादर्थावगतौ व्युत्पत्तिग्रहणमावश्यकम्। व्युत्पत्तिर्हि सङ्केतः। अगृहीतसङ्केतः पुरुषः अर्थं न अवगच्छति। अतः अर्थप्रकाशकत्वसाम्येऽपि एकत्र व्युत्पत्तिग्रङः अपेक्षितः नान्यत्र। व्युत्पत्ति ग्रहश्च वृद्धव्यवहारेम अवगतो भवति। वृद्धव्यवहारश्च, वाक्येनैव भवति, न पदेन। व्यवहारनिष्पादनार्थं कोऽपि पदमात्रप्रयोगं न करोति। अर्थान्तरसंसृष्टार्थविवक्षयैव विवक्षा प्रयुक्तैव वक्ता वाक्यं व्याहरति। तदनुरूपमेव श्रोता अर्थान्तरसंसृष्टमर्थं एवावगच्छति। वक्तृपुरुष समीपवर्तिनः सर्व एव एवमेवावगच्छन्ति। संहतार्थभिधायकपदसमूहस्यैव वाक्यत्वम्। यथा पाकादिक्रियाकरणकाष्ठादिकं संहत्यैव पाकक्रियाजनकम् शिविकारोहक गणा मिलितभावेन शिबिकोद्वहनं कुर्वन्ति, खण्डत्रयविभक्तस्य प्रस्तरस्य यथास्थानविन्यस्तस्यैव स्थाल्यादिधारणसमर्थत्वं, तथैव वाक्यस्थं समस्तं पदं मिलितभावेन वाक्यार्थस्य बोधकम्। प्रत्येकं वाक्यघटकं पदं नैव बोधकं भवति।
पदार्थबोधनं कृत्वा, पदं पर्यवसितं भवति। एकस्य वाक्यान्तर्गतस्य पदस्य समग्रवाक्यार्थप्रतिपादकत्वे एकेनैव पदेन समग्रवाक्यार्थप्रतीतौ पदान्तरोच्चारणं व्यर्थमेव स्यात्। इति चेत् अत्र अन्विताभिधानवादिनः कथयन्ति। वाक्यान्तर्गतस्य प्रत्येकपदस्य वाक्यार्थप्रतिपादनव्यापारो विद्यते। प्रत्येकं पदं वर्तते। अतएव समग्रवाक्यार्थप्रतीतिः भवति। एकस्यापि पदस्याभावे, समग्रवाक्यार्थप्रतीतिः न संभाव्यते। अतः वाक्यान्तर्गतस्य प्रत्येकपदस्य समग्रवाक्यार्थप्रतिपादनपर्यन्तं व्यापारोऽपेक्षित एव। तथाच प्रत्येकं वाक्यान्तर्गतं पदं वाक्यार्थप्रतिपादन व्यापारजनकम्। एवं च एकस्य पदस्य कृत्स्नकारित्वमिति।
अत्र अभिहितान्वयवादिनः कथयन्ति। अन्विताभिधानवादिनो यत् कथयन्ति, तेन पदसमुदायस्यैव समग्रवाकार्थप्रतीतिकर्तृत्वं। प्रदर्शितोदाहरणत्रयं तत्रैव सङ्गच्छते। समुदायान्तर्गतस्य प्रत्येकसमुदायिनः कदृत्वं नास्ति। वाक्यघटकपदानां व्यापारो नास्ति। परं पदसमुदायरूपं वाक्यमेव वाक्यार्थप्रतिपादकम्। अतः वाक्यघटकपदस्य समग्रवाक्यार्थप्रतिपादनव्यापारो नैव जातः। तथाच पदानां वाक्यावयवत्वं नास्तीति पदार्थोऽपि वाक्यार्थावयवो न स्यात्। तथाच वाक्यस्य वाक्यार्थस्य च निरवमवत्वं स्यात्।
अत्रान्विताभिधानवादिनः कथयन्ति, पदसङ्द्यातरूपं वाक्यं वाक्यार्थप्रतिपादकमिति स्वीकारेणापि सङ्घातान्तर्गतस्य प्रत्येकपदस्य किमपि कार्यं नास्तीति वक्तुं न शक्यते। सङ्घातस्य कार्यकरत्वे तदन्तर्गतस्य वस्तुनोऽपि पृथक्कार्यकर्तृत्वमित्येव सर्वत्र दृश्यते। दृष्टान्तदर्शनेनैव एततसुस्पष्टं भवति। एकस्यापि शिविकावाहकस्य फलनिष्पत्तिपर्यन्तं व्यापारः, तथैवेहापि एकस्यापि पदस्य वाक्यार्थप्रतीतिपर्यन्तं व्यापारः।
यद्युच्येत, पदसङ्घातस्य किं कार्यम्? पदसङ्घातान्तर्गतस्य पदस्य च किं कार्यम्’ इति, अत्रेदमुत्तरम्; यत् पदसङ्घातस्य कार्यं वाक्यार्थप्रतिपत्तिः पदसङ्घातान्तर्गतपदकार्यं पदार्थप्रतिपत्तिः। काष्ठस्थाल्यादिसङ्घातस्य कार्यं पाकक्रिया संघातान्तर्गतस्यकार्यं ज्वलनं धारणं सन्तापनादिकमिति।
अत्र अभिहितान्वयवादिनः पृच्छन्ति पदार्थप्रतिपादनमेव यदि पदस्य कार्यं तदा अन्यानन्वितशुद्धपदार्थ एव पदार्थ इति कथमान्विताभिधानवादः सङ्गच्छते?
अत्ररूपताभिधानवादिनामेतत् समाधानं, यत् अन्यपदार्थानन्वितशुद्धपदार्थ एव नास्ति। वाक्ये प्रयुक्तं पदं पदसङ्घातप्रयुक्तम्। वाक्यकार्यसंपादनार्थमेव। शुद्धपदार्थप्रतिपादनार्थं तेषां प्रयोगो न भवति। वाक्यार्थप्रतिपादनार्थं प्रयुक्तत्वेऽपि पदस्य किमपि कार्यमेव नास्तीति न स्वीक्रियते। वैयाकरणस्येव वाक्यस्य निरवयवत्वं न स्वीक्रियते। वाक्यान्तर्गत पदस्य स्वकीयं कार्यमङ्गीक्रियते। सङ्घातान्तर्गतस्य पदस्य कर्यनिष्पादकत्वं सर्वानुभवसिद्धम्। यथा एकस्य शकटस्य अङ्गबाहुल्यं प्रत्यङ्गं भिन्नरूपेण कार्यसंपादकत्वं परमन्यांशनिरपेक्षरूपेण शकटोचितकार्यसंपादकता नास्ति, तथैवेहापि इतरपदनिरपेक्षस्य पदस्य इह प्रयोगो नास्ति। प्रयोगेऽपि तस्य कार्यकारित्वं नास्ति। पदान्तरेण सह मिलितमेव पदं स्वकीयं व्यापारं करोति। अतः पदार्थान्तरान्वितप्रतिपादकमेव पदम्। मिलितरूपेण अर्थाभिधायकपदसमूहस्यैव वाक्यत्वम्। “संहत्य अर्थमभिदधति पदानि वाक्यम्” एकार्थपदसमूहो वाक्यम्" अर्थात् नानाविशेषणविशिष्टैकार्थप्रतिपादकपदसमूहस्य वाक्यत्वम्" एकार्थः पदसमूहो वाक्य्म्’ इति अन्विताभिधानवादिसिद्धान्तः।
अन्विताभिधानवादे प्रदर्शितदोषपरिहारस्तु वाक्येन सह वाक्यार्थस्य व्युत्पत्तेरपेक्षितत्वे अभिनवकविविरचितश्लोकात् वाक्यार्थप्रतीतिः न स्यात्। अतः पदेन सह पदार्थस्य व्युत्पत्तिस्वीकार आवश्यकः। पदार्थवेत्ता अभिनववाक्यादापि वाक्यार्थाभिधाने समर्थः। अतः शुद्धार्थे एव पदस्य व्युत्पत्तिरिति कथनं न समीचीनम्; यतः इतरान्वितार्थे पदशक्तिस्वीकारेऽपि ‘शुक्लगुणान्वितगोपदार्थ एव गोशब्दार्थः इत्यर्थो नास्ति। शुक्ला गौः, एतादृशप्रयोगे, गोपदं शुक्लगुणान्वितगोरेव बोधकं भवति। किन्तु कृष्णा गौः इति प्रयोगे गोपदं शुक्लगुणान्वितगोः बोधकं न भवति। अपितु कृष्णगुणान्वितगोरेव बोधकम् भवति। सर्वगुणान्वितार्थबोधकं गोपदम् इति वक्तुं न शक्यते; यतः आनन्त्यापत्तिरिति आकाङ्क्षितयोग्यसन्निहितार्वितार्थान्तरे पदस्य व्युत्पत्तिरिति वक्तव्यम्।
यद् यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते।
तेन तेनान्वितः स्वार्थः पदैरेवाभिधीयते।
इत्यन्विताभिधानादिसिद्धान्तः। शुद्धव्यवहारे शक्तिः केनापि वृद्धव्यवहारेणन सिद्य्धति।
एतावतापि न ज्ञायते इयान् पदस्य अर्थ इति शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य दर्शनं भवति परं प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते, सन्निहितयोग्याकाङ्क्षितान्वितार्थाभिधेयत्वे हि क्वचित् गृहीतः संबन्धः सर्वत्र गुहीतो भवति। ततश्च नवकविश्लोकादपि अर्थप्रतिपत्तिरुत्पत्स्यते। पदपदार्थयोस्तु न व्युत्पत्तिः उपायाभावादित्युक्तम्। पदान्तरसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीति पदान्तरोच्चारणमपि निष्फलंनस्यात्।
एवमेव सर्वत्र अन्विताभिधानस्य अभिहितान्वयवादस्य च खण्डनं मण्डनं प्रदर्शितम्। स्वमतानुसारं न्याय मञ्जर्यां पक्षाः प्रदर्शितः स वस्तुतः न शाबरभाष्यसंमतः। भट्टमतेन योऽयमभिहितान्वयवादः अस्माभिरवगम्यते, स वस्तुतः शाबरमतसमर्थनमात्रमेव। एवमेव उदयनाचार्येणापि न्यायकुसुमाञ्जल्यां बहवो विचाराः प्रदर्शिताः। अनन्तरं च गङ्गेशोपाध्यायैः तत्त्वचिन्तामणौ तत्र बहवः विचाराः अन्वताभिधानवादम् अभिहितान्वयवादं चाश्रित्य प्रदर्शिताः। एवं च एतेन ज्ञायते - यत् शबरभाष्यव्याख्यानप्रसङ्गे ये किल पक्षाः प्रदर्शिताः कुमारिलभट्टेन प्रभाकरेण च त एव पक्षाः वाक्यार्थ विचारप्रसङ्गे सर्वैरेव दार्शनिकैः विश्लेषिताः। अतः वाक्यार्थविचारे यथा–मीमांसकानां गतिः न तथा अन्येषाम्। मीमांसकविचारमाश्रित्यैव सर्वे एव दार्शिनिकाः स्वस्वग्रन्थस्थगम्यार्थविचारे प्रवृत्ताः सन्ति।
?0"?Rमीमांसायां देवतायाः स्वरूपम्"
?0 “?Rमहाप्रभुलाल गोस्वामी”
?R
?R मीमांसाशास्त्रं वैदिकसाहित्यस्य विदग्धविवरणम्। एतस्य साहित्यस्यप्रभावोऽलक्ष्यः। किन्तु प्रभावः अद्यापि जागर्ति। मन्त्रैस्सह संबद्धा मीमांसा। शब्दद्वयस्य मूलभूतः एक एव धातुः। मन्त्रो हि देवाविष्टमनसः स्वतो विच्छुरणभूतः। अभ्यासेन बुद्धिरूपान्तःकरण चेष्ठा मीमांसा। मन्त्ररहस्यस्य स्वतस्सिद्धत्वमाकलय्य तत्प्रतिषाद्यकर्मचोदनाया ज्ञानचोदनायाश्च सुसंबद्धस्वरूपप्रदर्शनार्थंम् एव ब्राह्मणानामाविर्भावः। ब्राह्मणमेव वेदार्थस्य आदिमीमांसा। ततः कर्ममीमांसा ब्रह्ममीमांसा च। अनन्तरं तार्किकदृष्टिमादाय, वेदमीमांसा आचार्यजैमिनिना सूत्रैः पदार्शिता।
?R वैदिकसाहित्ये अध्यात्मसाधनायाः मूले देवतावादः प्रतिष्ठितो वर्तते। देवतावादस्य च भित्तिः श्रद्धा। श्रद्धा च मानवचत्तसय मौलकवृत्तिः पराक्दृष्ट्या अनुभूतस्य अतीन्द्रियस्य तन्त्वस्य विशिष्टं रूपम्। तत्राप्यावेशशून्यता नास्ति। मानवचित्तस्य अपरा काचिदेका वृत्तिः यस्याः प्राचीनकाले ऊहशब्देन निर्देश आसीत्। परवर्तिकाले च तर्कशब्देन तस्या निर्देशः, तन्मूले वर्तते जिज्ञासेति ‘?Rआत्मवादः’?R प्रवहमानो दृश्यते। देवदर्शनमात्मदर्शनञ्चोभयमप्य तिप्राकृतम्। देवतापि अतीन्द्रियः आत्माप्यतीन्द्रियः। अत एव मीमांसायाम् ‘?Rअथातो धर्मजिज्ञासा’?R (पू-मी-1-1-1) उत्तरमीमांसायाम् अथातो ब्रह्माजिज्ञासा। (उ.मी-1-1-1) इति जिज्ञासैव मूलं। मीमांसायां आत्मवादिनां मते संशयस्य प्राधान्यात् संशयस्य आद्यातप्रतद्यातबलात् सर्वं दुर्विज्ञेयमस्पष्ट मद्य जातम्। सत्यान्वेषणे सर्वे सन्नद्धाः किन्तु एकस्य प्राप्तिसाधनं श्रद्धा अपरस्य तर्को बुद्धिश्च। अर्थात् एक आवेगकम्पितः विप्रः अपरश्च पौरुषदृप्तः नरः इति वेदभाषया वक्तुंशक्यते। इमां लौकिकचित्तवृत्तिमवलम्ब्य, सनातनधाराद्वयं प्रवहति। एका ऋषिधारा अन्या च मुनिधारा, मुनिधारा। मननप्रधाना न केवलं श्रुतिमेवाश्रयते। ऋषयः अदेवं, देवनिन्दाःदिकं प्रति कटाक्षं कुर्वन्ति। इमे चार्वाकादिवत् न वेदनिन्दकाः। नास्तिका न सन्ति। अपि तु सहेतुकमननाश्रिताः संप्रदायविशेषप्रवर्तकाः दार्शनिकचिन्तायाः इमे एव प्रवर्तकाः। दर्शनं हि मननफलं तर्कप्रस्थानम्। तार्किकाद्यातस्य शैथिल्यं संपादय मीमांसकाः दार्शनिकाः स्वार्थभावनासंरक्षणतत्पराः। आद्यधर्मस्य आगतविरोधानां विभिन्नदृष्ट्या विवेचकानां दार्शनिकानां खण्डनपुरस्सरं स्वसिद्धान्तसंरश्रणे ऊहात्मकं तर्कं विदधति, नतु पारमार्थिकदिशाश्रद्धाशून्यास्ते। अत एव नु ऊहप्रकरणे देवविवेचनं कृतं श्रद्धाधनेन भगवता जैमिनिना। तथाच वैदिककर्मानुरूपं देवस्वरूपं पृथगिवाभाति। परं जगत्स्रष्ट्टत्वं तस्य नास्ति इत्यत्र नास्ति शङ्का?Rलेशोऽपि। अत एव देवव्यतिरिक्तमीश्वरमङ्गीकृतं नैयायिकेन पतञ्जलिना च। अयि भोः गोस्वामि महोदयाः।
?R?0 प्रश्नः— ?0मूलम्?। वैदिकदृष्ट्या देवतायाः किं स्वरूपम् इति प्रतिपादयन्तु"
?0समाः– ?0ज्ञानकर्मणोर्मध्ये परवर्तिनि काले प्राचीन (2) निर्माणजातं, मननयुगात् प्रक् श्रुतियुगे भेदो नासीदेव। सर्वेषां कर्मणां ज्ञान एव परिसमाप्तिः, द्रव्ययज्ञात् ज्ञानयज्ञस्य वैशिष्ट्यमित्यत्र नास्ति विवादः। क्रियाकलापस्य तदेव लक्ष्यं, यद्धि आत्मचेतनायाः। चिन्मू (दभू) मौ उत्तीर्णतैव उभयोः प्रधानं लक्ष्यम्। चिन्मयभूमिरेव स्वर्गः, ज्योतिर्मयानुभव एव ‘स्वः’ अतः स्वर्गः मोक्षश्च न परस्परविरुद्धभावनाव। अत्र प्रबलं प्रमाणं शुक्लयजुर्वेदस्य अवशिष्टाध्याये ईशोपनिषदः सन्निवेशः। संहितान्तर्गतैवेयमुपनिषद्। एतस्या उपनिषदः अष्टादशमन्त्रेषु उदात्तोदारदृष्ट्या विराजमान समन्वयात्मिका भावना वैदिकसाहित्ये निरूपमेयैव। सार्वभौमज्ञानप्रदीपदीप्तौ कर्मकाण्डपरिसमाप्तिसूचनैव।
याज्ञवल्क्यपरिचये, कृष्णयजुर्वेदधारायाः शुक्लयजुर्वेदे प्रवाहात्मिका प्रबला कीर्तिस्तस्य। अविद्यात्मक कर्मणो ज्ञाने उत्तरणमेव। वेदमन्त्राणां कर्मपरत्वबलादेव संप्रदायक्रमेण तेषां सुरक्षा सञ्जाता। मन्त्रेण सहैव समन्विता मीमांसा। एकेनैव धातुना उभयोर्निर्वचनम्। देवाविष्टमननस्य स्वतो विच्छुरणं मन्त्रः। तस्यबुद्य्धारूढप्रचेष्टा पूजिताचारवचना मीमांसा। ब्राह्मणम् आदिमीमांसा। तत्र देवस्वरूपस्य मन्त्रात्मकस्य देवस्य चेतनात्मकस्य ब्रह्मणश्च मीमांसा। अव्याहतमीमांसाधारा कालक्रमेण मतवादवशात् तार्किकाद्यातप्रतिधाबलेन विशिष्टव्यापारात्मिका सञ्जाता। अत एव मीमांसकप्रवरैः श्रीकुमारिलभट्टैरुक्तम्तन्मूलेप्रायेणैव हि मीमांसा लोके लोकायतीकृता।
तामास्तिकपथेकर्तुं अयं यत्नः कृतो मया (मी-श्लो-10)
देवता मीमांसा॥ वैदिकसाहित्ये, अध्यात्मसाधनाया यद्रूपमुपलभ्यते, तन्मूले देववादो विद्यते। देववादस्य च भित्तिः श्रद्धा वर्तते। श्रद्धा च मानवचित्तस्य मौलिकवृत्तिः, अतीन्द्रियस्य तस्य पराग् दृष्ट्या, तस्य विशिष्टरूपं ज्ञायते, तन्मूलेऽप्यावेशः अस्ति। तत्रैवापरा वृत्तिः, ऊहस्तर्को वा। तन्मूले च वर्तते जिज्ञासा, आत्मवादे च तत्प्रतिष्ठा। देवोऽप्यतीन्द्रियः, आत्माप्यतीन्द्रियः। आत्मदर्शनं देवदर्शनं चोभयमपि सामान्यरूपेणातीन्द्रियमेव। स्वभाववशाच्च कश्चिन्मानवः, देववादी, कश्चिच्चात्मवादी। आत्मवादिनः संशयं निमित्तीकृत्य अध्यात्मभावनायाः समस्तामस्पष्टतां दूरीकर्तुं देववादीसन्नद्धो भवति। अध्यात्मचिन्तनेन चेतनायाः चरमविस्फोरणं सत्यरूपेण प्रतिष्ठितं भवति। देववादी बृहत्त्वं बृंहणत्वं च श्राद्धावेगवशात् बुद्धिग्राह्यं करोति। आत्मवादी च आत्मपरायणः सन् तत् प्राप्नोति। अत एवेयं मुनिधारा। मननस्य फलमेतत् ध्यानम्। मीमांसा हि तार्किकाघातं प्रतिक्षिप्य स्वस्थानं संरक्षति। समग्रवेदमीमांसा पूर्वोत्तरमीमांसा। पूर्वमीमांसा कर्ममीमांसेति कर्मणः प्राधान्यम्। उत्तरमीमांसा च ज्ञानमीमांसेति ज्ञानस्य प्राधान्यम्। वैदिका ऋषयः अदेवशब्देन नास्तिकस्य निन्दां कुर्वन्ति। नेमे चार्वाकाः, अपि तु संप्रदायमूलकपुरुषविशेषप्रयुक्तचिन्ताधाराप्रवर्तकाः। इयं धारा ब्राह्मण्यधारा। एतद्विरुद्धा बौद्धधारा। ज्ञानकर्मणोः विरोधसृष्टिरेतेषामेव। वेदार्थमीमांसायामेतत् स्मर्तव्यमेव। एतस्यैव सङ्केतः भट्टेन मीमांसा लोके लोकायतीकृता इत्यनेन कृतः। मीमांसायाः शक्तिः ब्राह्मणमूलिका श्रुतिमीमांसा वेदमीमांसा वा। कर्मकाण्डं साधनशास्त्रं स्वादाय कर्ममीमांसा प्रचलति। एतस्या लक्ष्यमध्यात्मचेतनायाः भूमिः। उत्तरमीमांसायां मनोमयसाधनाया विवृत्तिरस्ति। किन्तु, इयं विवृत्तिः उपनिषदः चिन्तायाः विवृत्तिः। वेदस्य सर्वथा संरक्षणार्थं बद्धपरिकराः मीमांसाकर्मकाण्डिनः। तेषां स्मृतिः निष्ठा श्रद्धा लोकानां विस्मयावहा कतिपयसहस्रसंवत्सरव्यापिनीं चिन्तामादाय तद्रक्षणार्थं तदर्थप्रतिपादनार्थं प्रयासः पूर्वमीमांसायामेव। सरहस्यवेदाध्ययनार्थं या शिक्षा तैः प्रदता, सा तु इदानीं क्व गता? इति विचारेऽपि लज्जा भवति। ब्राह्मण व्यारव्यानानन्तरं वेदाङ्गावसरः समायाति। तत्रापि यास्कव्याख्यानमेव लभ्यते। अनन्तरं सायणाचार्यः एव मध्ययुगशेषे समग्रवेदव्याख्यानार्थं प्राचीन सांप्रदायिकधारामाश्रित्य तत्परो भवति।
यास्कस्य दैवतकाण्डस्य गूढार्थसंपर्के संपूर्णसचेतनभावनामाश्रित्य शब्दनिर्वचनपूर्वकं मन्त्रविचारं सः करोति। अतः नास्ति सन्देहावसरो यत् श्रुतिसंरक्षणं यजुर्वेदिभिरेव कृतम्। पूर्वमीमांसायाः प्रतिपाद्यं कर्म धर्मो वा। ज्ञानवादिभिः कर्मज्ञानयोरधिकारस्य साधनायाः फलस्य च भेद प्रदर्शितः। यो हि वेदरक्षकः स एव ज्ञानकाण्डदृष्ट्या हीनतामापन्नः। यास्केनः कौत्समतमुद्धृत्य खण्डनप्रयासे वेदमन्त्राणां नैरर्थक्यमपि प्रदर्शितम्। परमव्योम्नः स्पन्दात्मकस्य शब्दब्रह्मणः अर्थस्य ग्रहणेनैव चेतनाया अभिव्यक्तिर्भवति। कर्मणिः यथायथरूपेण विनियोगार्थमेव यदा मन्त्रः, तदा अर्थावबोधनार्थं विशेषचिन्ता व्यर्थैव स्यात्।
वैदिकसाहित्ये दीर्घयुगवाहिनी सुनियन्त्रितभावना उपासना विद्यते। साधनायाः परिनिष्ठितरूपस्य विश्वमानवचित्प्रकर्षस्यापरिवर्तनीयसङ्केतस्य रूपमुपलभ्यते। सङ्केतोऽयं यथार्थः सनातनश्च। एतस्य अध्यात्मप्रगतिः प्रवहमाना नावरुद्धाद्याधुनापि। वैदिकसाहित्यस्य प्रधानोपजीव्यो देववादः। देवताया यजने क्रियायाः प्राधान्यम्। उपासनायाञ्च भावस्य महत्त्वम्। आपातदृष्ट्या क्रियायां चेतना बहिरावृत्ताभावे चान्तरावृत्ता। क्रियायामपि भावस्यैव अभिव्यक्तिः जायते। भाव एव तस्य धारकः पोषकश्च। भावो हि ध्यानं, धीः दीधितिः। अर्थात् ध्यानचित्ततैव। ध्यानं देवतायाः प्राणो यस्य च यजमानस्य उपासकस्य संमुखे प्रत्यक्षत्वम्। निघण्टौ धीशब्दस्य चार्थद्वयम् कर्म प्रज्ञा च। द्वयमप्येतदार्थीभावनायाः संहितायां ब्राह्मणे एतत्साहचर्यस्य परिचयः स्पष्टमुपलभ्यते। ‘तत्ते जुहोमि मनसा वषट्कृतम्" (ऋ-10-16-12) मागयो ‘देव इति वषट्कृतिं जुषाणः’ (7-14-3) यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् बषट्करिष्यन्, साक्षादेव तद् देवतां प्रीणाति प्रत्यक्षात् देवतां यजति’ (3-1-8) अग्नौ आहुतिप्रदानात् पूर्वं याज्यान्त्रपाठः आवश्यकः। भागयोः तदर्थं अन्ते इति मन्त्रो विद्यते, अर्थात् अग्निः येन वहति ज्वलति एतस्य मन्त्रस्य उच्चारणं वषट्कारः। एतस्य कर्माङ्गस्य मननेन ध्यानेन च सह संयोगः। ब्राह्मणे च वषट्कारस्य विशिष्टं महत्त्वं वर्तते (ऐव्रा-3-5-8) कृचिच्च मुख्येषु त्रयस्त्रिंशद्देवेषु वषट्कारोऽन्तिमो देवः’ (ऐ-ब्रा-1-10,ता-ब्रा-(6-2-5) धीस्वभाववान् धीरः। उपनिषदि ध्यानसिद्धस्य इयं संज्ञा। ऋक्संहितायां, यो हि ईश्वरः विश्वभुवनस्य रक्षकः सोऽपि 1 नि 2/1)2-3-8) धीरः अप्राज्ञमध्ये प्रविष्टस्सन् प्रज्ञामुन्मिषति" इतो विश्वस्य भुवनस्य गोपाः समाधीरः पाकम् अत्राविवेश (1-155-25) एतावता कर्म प्रज्ञा च समानरूपेण देवस्य वैभवम्।
वेदे देवतायाः स्वरूपम्—
निर्वचनदृष्ट्या देवस्वरूपनिर्णये देवशब्दो यौगिकः पारिभाषिकश्च। वेदे व्यवहृतशब्दस्य तात्पर्यनिर्णये निर्वचनमेव मूलम्। दिव्शब्दात् देवः। देवो दानात् वा दीपनाट्वा द्योतनाद्वा द्युरथानो भवतीति वा (नि-7/15) दिव् दिवा देवः इत्येतत् त्रयमपि एकभावनायाः प्रकाशः, सा च भावना आलोकात्मिका, दीप्त्यात्मिका। अत एव दीप्त्यर्थकात् दीपधातोरपि निर्वचनं एतस्य भवति। अतः देवतायाः स्वरूपमालोकः दीप्तिरिति। अयमेव आलोकः अन्तर्बोधशब्देन चित्तिशब्देन विवेकशब्देन वोच्यते। तत्फलं, तु प्रज्ञानं, संज्ञानं, संवित् वा। बोधे चेतनायां वा चित्तितया अव्यक्तेषु चित्तिं प्रदाय अग्निं व्याकृतवान् देवः(ऋ-3-2-3) चित्तिम् अचित्तिं चिनवद्वि विद्वान्। प्रचेतनाऽप्रचेतनयोर्मध्ये यद्वशात् विवेकं कर्तुं शक्नोति (ऋ-1-154-28) एवमेव विवेकापरपर्यायत्वेन ऋग्वेदे बहुत्र व्यवहारो दृश्यते। चित्तिवशात् प्रज्ञानम्, अनन्तरं संज्ञानं सायुज्यबोधो वा जायते ‘संजानाना उपसीदन् अभिज्ञु पत्नीवन्तो नमस्यं नमस्यान् ‘अर्थात् आग्निना सह आत्मनः तादात्म्यमवगत्य तं नमस्कारयोग्यं देवं पत्न्या सह प्रणम्य, तत्समीपं वसति (ऋ 1-72-5) सं ज्ञानमेव परममयनम् (10-18-4) एतत्फलं संवित् पूर्णप्रज्ञा वा (ऋ-8-58-1) ‘अगन्म ज्योतिरविदाम देवान् (8-48-3) देवतायाः साधारणसंज्ञा ज्योतिर्मयः विवस्वान् इति। आलोकार्थकात् वसुधातोः व्युत्पन्नः शब्दः। उषस्, उस्रः वासरः विवस्वान् सर्वे एव वसवः। धनवाची नपुंसकलिङ्गवसुशब्दोऽपि आलोकात्मकं वित्तमेव बोधयति। वसिष्ठोऽपि ज्योतिष्मत्तमः। सप्तममण्डलस्य ऋषिः वसिष्ठः। अवेस्तायां विहस्तः स्वर्गवाची। विहस्ता च रमपुरुषस्य संज्ञा। देवताविषये आर्यहृदये या हि विशिष्टभावना, सा दीप्तिस्वरूपैव। तिस्रः प्रजा आर्याज्योतिरग्राः (7-33-7) अन्धकारस्य अज्ञानस्य वा अपाकरणार्थं विशिष्ट प्रार्थना दृश्यते। उषस आलोके प्रातिभसंविद आभायाः स्फुरण एव ऋषेः कण्ठात् उद्बोधिनी वाक् उल्लसति। उत्तिष्ठत, जाग्रत स्वकार्यं कुरुत। तमसः दीप्तावुत्तरणमेव जीवनस्य दिव्यनियतिः।
एतस्य ज्योतिषः प्राप्तिसाधनं योगः यागश्च। दीप्तिस्वरूपस्य देवस्य प्रतीकभूतः आकाशे आदित्यः। अयं च अदितेः पुत्रः। अदितिः अखण्डिता शक्तिरेव। अत एव दिव्शब्देन आकाशस्य कथनं भवति। वाक् आकाशे परिख्याता, आदित्यस्येव वाचः साधनायामपि दीप्तिरूपत्वादेव आर्याः अग्रेसरा भवन्ति। ओम् इत्यसौ एकपदी वाक् परमव्योम्नि सहस्राक्षरा। यावद्ब्रह्म विष्ठितं तिष्ठ तं तावती वाक् (ऋ-10-114/8) परमव्योमशब्देन लोकोत्तरपरमशून्यता यतः परं किमपि नास्ति। `अस्य पारे रजसो व्योम्नः’ (ऋ-1-52-12) अतोऽक्षरं परमं व्योम तत्रैव देवा निमग्नाः तिष्ठन्ति तस्य परमन्योम्न एव सहस्राक्षरा गौरी वाक् (5-60-1) इत्यादि आध्यात्मिकदृष्ट्या परमव्योम चेतनाया उत्तुङ्गतमभूमिः। अत एव देवस्य वाग्रूपत्वमपि न विरुद्धम्। चैतन्ये कान्या चेतनता।
वैदिक देववादकथया ज्योतिर्मय बृहत्त्वमेव देवस्वरूपम्। बहिरन्तश्च स एवपख्याप्तः। पराक् दृष्ट्या प्रत्यक्षस्य देवस्यैव अन्तर्दृष्ट्यात्मरूपता।
आपातदृष्ट्या बहुदेववादः वेदे दृश्यते। एतेन च वैषम्यस्य सूचना लभ्यते। ‘एकं सद्विप्रा बहुधा वदन्ति’ बहुदेववादः वस्तुतोऽद्वैतवादस्योपसृष्टिः। एकत्वस्य स्फुरणभदितिशब्देन भवति। देवतायाः कस्या अपि विभूतेराराधना भवतु। तस्य पर्यवसानं दीप्तावादित्ये वा भवति। यतः सर्वे देवाः अदितिपुत्राः आदित्याः। अदितिश्च अखण्डिता आद्यशक्तिः। अत एव नु ‘अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः। विश्वेदेवा अदितिः। पञ्चजनाः अदितिर्जातमदितिर्जनित्वम्’(ऋ 1-88-10) अग्नेरुक्तिरियम्।
ज्योतिषः बाह्यसाधनायां यागः, अन्तस्साधनायां च योगः। यज्ञवशात् मन एवालोकितं भवति। देवजन्म एव यज्ञस्य लक्ष्यम्। अत एव ‘ऐतरेयब्राह्मणे 3-1-18 अपाम सोमममृता अभूमाऽगन्म ज्योतिरविदाम देवान् (8-48-3) सोमपानं विधाय अमृता अभूमेति ज्योतिषि गमनं देवत्वप्राप्तिश्च फलमुक्तम्। देवसदनं व्योम तस्य चाक्षरस्वरूपत्वम्। अत एव सहस्राक्षरा गौरी वाक् इत्युच्यते। अत एव मीमांसकैः अक्षररुपत्वमपि जीवस्य प्रतिपादितम्। एतावता आकाशरूपेणादित्यरूपेण च देवस्सदाऽपरोक्षः। देवोपासनायाः ज्योतीरु पोसनायाश्च फलमेतत् देवताया मूर्तिः वैदिकसाधनायां नास्ति। अत एव संहितायां देवोऽमूरः अर्थात् अमूर्तः चिन्मयो वा। ऋग्वेदे ‘येऽस्था निचेतारो अमूरा इत्युच्यते। मूर्थशब्दः घनीभूत प्रतीकात्मकः।
विरूक्तकारस्य यास्काचार्यस्य दृष्ट्या देवतायाः स्वरूपम्?
यास्क ?निरुक्तस्य सप्तमाध्याये देवताया आकारः अस्ति नवेति विषयमादाय विचारणा वर्तते। ततः पूर्वमपि देवः एको नवेति विचारः। तत्र आत्मविन्मते देव एक आत्मा परमात्मा वा। अग्निवाय्वदयः तस्यैव आत्म रूपाः।
आत्मनः पर्यायशब्दः देवता परमेश्वरो वा। परमात्मनः एकत्वेऽपि महाभाग्यात् निरतिशयपुण्यानुभावरूपाणिमाद्यैश्वर्यवशात् भिन्नरूपत्वमादधात्यगन्यादयः इति। अत एवादित्यं मेधाविनः इन्द्रमित्रवरुणादिनामभिः कथयन्ति। अग्निः, यमः, मातरिश्वा (ऋ-1-164-46) इन्द्रः स्वीयशरीरात् मायावशात् भिन्नं भिन्नं रूपं धत्ते (ऋ-3-53-8) एकेश्वर वादः आत्मविदां कथा। “महाभाग्याद्देवताया एक आत्माबहुधास्तूयते (नि-7-4-11) महभाश्यशब्दार्थस्तावत्, अणिमाद्यैश्वर्यरूपो महान् पुण्यनुभावः’ स्कन्दस्वामिना एतस्य व्याख्यान उक्तम् — ‘महान् भागो यस्यासौ महाभागः तद्भावो महाभाग्यं, तस्मात्। हेतौ पञ्चमी। निरतशयपुण्यानुभावादणिमदिलक्षणादैश्वर्यात् कारणादित्यर्थः। अत एवाग्रे निरुक्ते उक्तम् - एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति (नि-74-12)
वस्तुगत्या एकस्यात्मनो देवताया अन्ये देवगणाः। अङ्गस्वरूपाः तेऽपि तथैवात्मस्वरूपाः एकस्मात् देवात् नातिरिच्यन्ते। अङ्गान्येव प्रत्यङ्गानि इति प्रत्यङ्गत्वम् (स्क-स्वा) अथवा अङ्गान्यपेक्ष्य प्रत्यङ्गं–हस्तादीन्यङ्गम्, अङ्गुल्यादीनि प्रत्यङ्गं (स्क-स्वा) तस्मादग्नीन्द्रसूर्यात्मकस्य देवतात्मनोऽङ्गानि जातवेदो वायु प्रभृतीनि। शकुन्यश्वप्रभृतयश्च प्रत्यङ्गानि। जातवेदो वायु प्रभृतीनि शकुन्यश्वप्रभृतयश्च प्रत्यङ्गानि इति दुर्गाचार्याः एवमेवाग्रेऽपि एकदेववादः समर्थितः। अत एव इतरेतरजन्मानः भवन्ति इतरेतरप्रकृतयः (15) देवः परमैश्वर्यशाली, तन्माहिमा अचिन्तनीयः। एकोऽपरस्य जनकः। प्रातः देवानां त्वग्नेः सूर्यः अजायत। ‘एष प्रातः प्रसुवति - इति ह विज्ञायते। तस्मात् सूर्यस्याग्निः प्रकृतिः। सूर्याच्चाग्निः सायं जायते। तस्मादग्नेः सूर्यः प्रकृतिः। अदितेर्दक्षो दक्षाच्चादितिः इति (ऋ-10-72-4) तेजोवशादेकोऽन्यस्य प्रकृतिः। न च मनुष्ये एतादृशमैश्वर्यम्, इति एतादृशी सृष्टिरपि नास्ति। पुत्रः कदापि पितुः प्रकृतिर्न भवति। अत एव देवगणाः कर्मजन्मानः, कर्म तेषां निमित्तकारणम्, कर्मएव एतेषामाविर्भावसाधनम्। मनुष्या अपि कर्मजन्मान एव। अतो विशिनष्टि आत्मजन्मानः आत्मेच्छया जन्म येषां ते आत्मजन्मानः। एतदुक्तं भवति - ईदृशं तेषामत्यन्तविशिष्टं कर्म येन यस्मिन् काले यादृशं च कार्यकरणमिच्छन्ति, तस्मिन् तथा तादृशमेवोत्पद्यते कर्म। स्कन्दस्वामिमतापेक्षया दुर्गाचार्यव्याख्याने वैलक्षण्यं विद्यते। मनुष्यकर्मफलसिद्धये लोकस्य अग्निवायुसूर्या जायन्ते। न ह्येतेभ्य ऋते लोकस्य कर्मफलसिद्धिः स्यात्। अग्न्यादिदेवा उपास्याः। एतदुसनय फलं जायते। विना चैतेषां केषामुपासना कथञ्चकर्मफलसिद्धिः। अथवा विना देवं लोके कृष्यादिफलसिद्धिः न संभाव्यते। वृष्टिं विना कृषिफलं न स्यात्। तथाच कुतः स्याद्यशसः प्राप्तिरिति। न केवलं कर्मजन्मानः देवाः। अपि तु आत्मजन्मानोऽपि। परमात्मनो देवाविर्भावः। मनुष्यादीनामपि भवतु जन्म परमात्मनः परं देवाः सङ्कल्पानुरूपकार्यसंपादनार्थं योगवशात् यागवशाद्वा, आविर्भवन्ति। आत्मानंसाक्षात्कुर्वन्ति। अनीश्वरे मानवे न एतादृशी शक्तिः। उक्तं दुर्गाचार्येण—क एव तस्मान्न जायते इति चेत्सत्यम्। सर्वं तस्माज्जायते, न कामकारेण। देवास्तु, तमात्मानं पश्यन्तो योगेन ततः कामकारेण जायन्ते। इति अत एव उपसंहारे सप्तमाध्यायस्य चतुर्थपादे उक्तम् - आत्मैवैषां अनुभवो भवत्यात्मा अश्व आत्मायुधमात्मेषवः आत्मा सर्वं देवस्य देवस्य॥ (नि-7-4-12) सर्वेषां देवानां रथा अश्वाः आयुधप्रभृतयः तदात्मभूता आत्मानः। स्वरूपमेवेमा विकृतयः नात्मभिन्नाः अत एवाश्वरथादीनां स्तुतिः परमेश्वरस्तुतिरेवेति न व्यर्थः।
अनन्तरञ्चाकारचिन्तनम् - यदा सर्वमात्मैवाभूत् तदा कीदृशमाकारचिन्तनं स्यात्। आत्मविदां मते एष विचारः निरर्थकः यतः देवः परमात्मा च निर्गुणः निराकार एव। अतः याज्ञिकदृष्ट्यैव एष विचार आवश्यकः यतः एतेषा मीमांसकानां मते अपूर्वस्य भूताभावे संस्यतिः तथाच तद्वशादेवं तेषां आविर्भावात् न तु तादृशंकर्म दैवैः कृतं यद्वशात् तेषां जन्म इति। मनुष्यसदृश विग्रहधारी आकारविशिष्टो वा देवः, यतः ‘चेतनावद्धि स्तुतयो भवन्ति इतिपूर्वपक्षः (7-6-3) प्रशस्तचेतनाविशिष्टमनुष्यं प्रति यथा स्तुतयः, तथैव देवादीन् प्रत्यपि। अतः मनुष्यसदृशाकारवान् देवः। `चेतनावद्वत्’ अस्मिन् वतिप्रत्ययद्वयम्। तत्र एकः मत्वर्थे। अपरः वतिप्रत्ययः तुल्यार्थे। मत्वर्थवतिप्रत्ययेन प्रशंसा सूच्यते। अर्थात् प्रशस्तचैतन्यविशिष्टः अर्थात् हिताहितविचारशून्य पष्यद्यपेक्षया मनुष्य एव प्रशस्तचेतनावात्। बहुविधतर्कैः पुरुषाकारत्वं, समर्थ्यानन्तरमुक्तवान् देवोमनुष्यसदृशो नास्ति। अपुरुषविधाः स्युरित्यपरम् (नि-7-7-1) अप्रत्यक्षभूता अग्नि वायुप्रभृतयः न मनुष्यसदृशाः। य तः एतच्चेतनावद्वद्धि स्तुतयो भवन्तीत्यचेतनान्यप्येवं स्तूयन्ते, यथाक्षप्रभृतीन्योषधिपर्यन्तानि (7-7-37) (एतत्सर्वं ऋग्वेदे उपवर्णितम्। 10-34-14, 10-175 1-2, 10-86-9) अचेतनेष्वपि एतादृशी स्तुतिः दृश्यते। अचेतनस्यापि भक्षणादिनिर्देशात् न मनुष्याकारो देवः। अनन्तरम् अपि अपिवोभयविधाः स्युः (7-7-7) उभयथापि मन्त्रदर्शनात् (स्कन्दसवामी) उभयहेतुप्रामाण्यात् (दुर्गाचार्याः।) उभयविधत्वेऽपि नैव ते परस्परं स्वतन्त्राः। पुरुषविधः देवगणः, अधिष्ठातृ देवता। अपरुषविधश्च कर्मात्मा। कर्म संपादकरूप आत्मा क्षित्यादिरूपमपुरुषविधत्वं सन्धार्य वृष्ट्यादिकं संपादयति। अतः जग्रत्पालनकर्मसंपादकः देवः यस्य कर्म यो हि संपदयति स तत्कर्मात्मा। इति हासपुराणादिश्वाख्यानेषु एष एव सिद्धान्तः। सर्वं चैतदुपपद्यते महाभाष्ये सत्यैश्वर्यात्, अमूर्ता, मूर्ता एकधा द्विधा बहुधा वेति महाभाष्यात्। वशात् यथा तु वर्तमानानामपश्यन् मन्त्रदृशस्तथा तथा अस्तुवन्। अत एव वैदिकदृष्ट्या आत्मस्वरूपः विशुद्धज्ञानदेहः निराकार इति। अत एव तत्र संस्थानैकत्वं संभोगैकत्वञ्चोपेक्षितव्यम् इति निरूक्ते उक्तम्। (7-5-8) अत्र हि समानस्थानतानिबन्धनैकत्वमेव सहस्थानतया एकत्वं स्थानैकत्वमिति, विश्वस्थितिनिमित्तानु ग्राहकतानिबन्धनैकत्वमेव संभोगहेतुकमेकत्वं संभोगैकत्वम्। अस्मिन् भेदपक्षे, संस्थानैकत्वं पृथिव्यादिस्थानगतमेकत्वं अस्मदादिषु उपचारेणोपेक्षितव्यम् (स्क-स्वा)
अयमाशयः— आत्मविदां मते देव एकः। निरुक्तकारमते, त्रयो देवाः। याज्ञिकमते च बह्वः। यास्काचार्यः सामञ्जस्यार्थं कथयति, देव एकोऽनेको वा। पृथिव्यादिस्थानगतमेकत्वंम् आरोप्य एकः देवः इति। स्थानभेदात् त्रयो देवाः इति इमे त्रयो देवाः मिलितभावेन स्थानत्रयस्य पालनं कृत्वा अनुग्राहकाः। भुज पालने इति सहयोगे पालने कर्तव्ये स्थित्यर्थं विश्वस्यानुग्राहकत्वेन एकत्वं संभोगैकत्वं च। तथा च देवस्य नानेकत्वम्, अपि तु त्रित्वम्। त्रिस्थानस्थितस्य देवस्य संभोगवशात् अर्थात् पृथिव्यन्तरिक्षद्युलौकैतत्स्थानत्रयस्य पालनात् अत्र स्थितजनं प्रत्यनुग्रहप्रकाशनात् अनुग्रहात्मकमेकमेव कार्यम्। देवसृष्टौ मेघगणाः प्रथमं दृष्टाः। इन्द्रचोदनात् ततो जलं निस्सरति। पर्जन्यदेवः, वायुः, सूर्यश्च यथाक्रमं पृथिव्या उद्भित्समूहं परिपालयति। वायुः सूर्यश्च प्रीतिकरं जलमुद्वहति (ऋश्वेद-10-76-23) निरुक्त 2/22) देवानां माने प्रथमा अतिष्ठन् कृन्तत्रोदेषामुपरा उदायन्। त्रयस्तपन्ति पृथिवीमनूपा द्वावृवुकं वहतः पुरीष्टम् यदा देवास्सृष्टाः तदैत एव मध्यमका अन्तरिक्षस्था मेधस्वरूपा देवाः प्रथमा अतिष्ठन्। मेघाभावे हि सर्वमिदं जगत् वर्षाभावान्न स्यात्। तस्मादेते प्रकृष्टतमा अवस्थितवन्तः वायुः आदित्य एवं मेधा इमे त्रयो देवाः स्वकर्मणा पृथिवीमनुगृह्णन्ति। प्राधान्येन मेघस्यैव अनुग्रहेण ओषधिवर्गस्य परिपुष्टिः। पुष्टिकारकस्य जलस्य वोढा वायुः आदित्यश्च। वायुना आदित्येन नीतं जलमेव पृथिव्यां वर्षणेन पुष्टिकारकम्। अग्निः पृथिवीलोकात् जलं धूमाकारेण ऊर्ध्वं लोकं प्रति प्रेरयति। द्युलोकस्थाग्निरेव रश्मिव्यापृतः सूर्यः सन् पृथिव्यां जलमानयति। काठक-सं 11/10 शत-व्रा-5/3/5/96 नि 7/25/
कुष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति। त आ ववृत्रन् सदनादृत स्यादित्चृतेन पृथिवी र्व्युद्यते। उत्तरायणे सूर्यरश्मयः जलराशिं द्युलोकं नयन्ति। दक्षिणायने स्व स्थानात् च्युत जलराशिः पृथिवीमभिषिञ्चति। पार्थिवाग्निरेव न जलप्रवर्तकः, अपि तु सूर्यो वर्षण प्रवर्तकः। एतेभ्यो वैदिकवाक्येभ्यः प्रतीयते, यत् इमे अग्निवायुसूर्याः लोकत्रयं प्रति सततमनुग्रहकारकाः लोकानुग्रहएव एतत्कार्यम्। तथा च रक्षणरूपैककार्यवशात् इमे देवा एक एवेति नात्र संशयः। लौकिकव्यवहारेऽपि कार्यैक्यादैक्यं व्यवह्रियते। तदेवंप्रकारमेकत्वं कार्यैकत्वात् स्थानैकत्वाद्वा भाक्तं न प्रतिषिद्य्धते। फलतः देवस्यैकत्वम्। तथा च भेदकृतं साकारत्वं निराकारे पर्यवस्यति। वेदमीमांसकयास्काचार्यमते देवस्य एकत्वं बहुत्वं चाविरोधि। विचारशैलीभङ्गिमात्रम्। अत एवात्मवित् आत्मनि त्रित्वनानात्वे गुणीकृत्य, पारमार्थिकदृष्ट्या एकमात्मानं पश्यति। निरुक्तकारमते देवस्य त्रित्वं पारमार्थिकरूपेण सत्यम्, एकत्वं बहुत्वं च गौणम्। अतो नास्ति विरोधावसरः। प्रदर्शितविषयस्य सुस्पष्टाभिव्यक्तये कथयन्ति–यथा पृथिव्यां मनुष्यः पशवो देवाः इति स्थानैकत्वम् सम्भोगौकत्वञ्च दृश्यते, यथा पृथिव्याः पर्जन्येन च वाय्वावादित्याभ्याञ्च संयोगोऽग्निना चेतरस्य लोकस्य (नि-6/5/ ) अयमाशयः– मनुष्याः पशवः देवाः पृथिव्यां वर्तन्ते। अतः पृथिवीस्थानत्वनिबन्धनं तेषां समष्टिगतमेकत्वमिति। सम्यक्पालनात्मकमेकमेव कार्यं संपादयन्तीति एक कार्यनिबन्धनात्मैकत्वमेतेषाम्।
भेदाभेदश्चैतेषाम् तदैतन्नरराष्ट्रमिव (नि 7/5/1 अमात्यजनपदप्रजापुञ्जप्रभृतिबोधनाय पृथगुच्यते। राष्ट्रमिति कथनेन सर्वाभेदः प्रतीयते। एवमेव दीप्त्यात्मकदेवकथनेन निराकारो देवः प्रतीयते। तस्माद्वेदमीमांसका नैरुक्ताः निराकारमेकं देवमामनन्ति। तथा च मीमांसकः अधिभूतविग्रहभावनानन्तरम् उद्बुद्धोद्दीप्त चेतना रूपमुत्सार्य तिष्ठति। वस्तुमध्ये भावदर्शनमेव तात्त्विकदर्शनम्। वैदिककवेः देवदर्शनमेतज्जातीयमेव। देवोपासनायां पुरुषविधत्वं स्फुटमवभासते। संहितायां परमदेवतायाः संज्ञा पुरुष इति। संज्ञा च उपचरिता परमदेवतायाम् पुरुषसूक्तमादाय पुरुषमेधयज्ञस्य वर्णना शतपथब्राह्मणे विद्यते। तस्य द्रष्टा पुरुषनारायणः। देवता आदित्यः। तत्र मनुश्यस्य सतः तस्य पुरुषमेधयाजिनः आजानदेवत्वम्। द्विविधाः देवाः कर्मदेवा आजान देवाश्च। कर्मणा उत्कृष्टेन देवत्वं प्राप्ताः कर्मदेवाः। सृष्ट्यादौ उत्पन्ना आजानदेवाः, ते कर्मदेवेभ्यः श्रेष्ठाः। येशतं कर्मदेवानामानन्दाः स एक आजान देवानामानन्दः (बृ-4/3/33) इति सूर्यादयो दीप्तिस्वरूपाः आजान देवाः। वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तम् एव विदित्वा अतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (71/12) एष महापुरुष आदित्यमण्डलस्थः। आदित्यवर्णं स्वप्रकाशम् आदित्यस्यैव वर्णोयस्य तम्, उपमान्तराभावात् स्वोपमम् (महीधरः)
विभिन्नासु उपनिषत्सु दिव्यपुरुषस्य रूपादिशून्यत्वं बहुधा उपवर्णितम्। देवो भवतु बह्म वा विश्वात्मकत्वं सर्वमयत्वमेवेशित्वम्। परिणामवादो भवतु, विवर्तवादो वा पुरुषोत्तमस्वरूपस्य विकारशून्यत्वमकामेनापि स्वीकर्तव्यम्। तस्माद् याज्ञिकानां देवोपासनायामपि चिन्मयमूर्तिव्यतिरिक्ता न काचित् मूर्तिः।
देवविरोधिनां संज्ञा आसीददेवोऽनिन्द्रोऽयज्ञ इति। एतत्तु सत्यं यत् कर्मानुरोधे सत्यपि पूर्वमींमासायांदेवस्य विग्रहादिपञ्चकं न स्वीक्रियते—
विग्रहादिपञ्चकं च
विग्रहो हविषां भोग ऐश्वर्यञ्च प्रसन्नता।
फलप्रदानमित्येतत् पञ्चकं विग्रहादिकम्।
किन्तु, सङ्कर्षणकाण्डे उत्तरमीमांसायां देवस्य विग्रहवत्त्वप्रतिष्ठायां महान् आग्रहो विद्यते। देवगुणस्य देवकर्मणो वा यादृशी वर्णना वेदे तैरपि विग्रहादिपञ्चकशून्यत्वमेव लभ्यते। यास्कदृष्ट्या देवधर्मः दानं दीपनं द्योतनञ्च। उपासकस्य ऋद्धकरणं दीप्तकरणं स्वप्रकाशरूपेण समीपे आविर्भावः, एतत्सर्वमद्वैतबोधं, विग्रहादिशून्यत्वमेव अभिव्यनक्ति। देवोऽजरोऽमरश्च। तत्प्राप्तिरेव पुरुषार्थः। देवः अस्माकंराजा, ?पिता माता सखा चेति।
?वेदे स्तुतिः’
?0इन्द्रो भूतस्य भुवनस्य राजेन्द्रो दाधार पृथिवीमुत्तेमाम्।
इन्द्रे हविश्वा भुवना श्रितानिइन्द्रं मन्ये पितरं मातरं च॥(मैत्रा-सं 4/14/71)
इयमेव मैत्रायणीसंहिता कालापकसंहिता। अस्यां बहुषु मन्त्रेषु परमेश्वरस्य मातृरूपेण पितृरूपेण सखिरूपेण च निर्देशो विद्यते। अत्र परमेश्वर एव इन्द्रशब्देन निर्दिष्टः। अत एव, इन्द्रो मायाभिः पुरुरूप ईयते, रूपंरुपं मघवा बोभवीति’ इति सङ्गच्छते।
स्वतोनिरपेक्षः देव एव जगतः स्रष्टा इति ऋक् संहितायां तैत्तिरीयसंहितायां च उक्तम्।
किंस्विद्वनं क उ स वृक्ष आस
यतो द्यावापृथिवी निष्टतक्षुः।
मनीषिणो मनसा पृच्छतेदु
तद्यदध्यतिष्ठद् भुवनानि धारयन्”
?Rतै-सं-4/?R6/?R2, ऋक्सं - 8/?R3/?R16/?R4/
?Rसर्वात्म कादस्मादन्यद्वस्तु नास्तीति जगत्सृष्टौ निरपेक्ष ईश्वरः। अत्र त्रिविधजिज्ञासा वर्तते। यद्वनं छित्वा तक्षणादिना निर्मितं जगत् तद्वनस्य किं नाम? किंनामकं तद्वृवृक्षम्? चतुर्दशभुवनं सन्धार्य कुत्रासौ तिष्ठति? एतस्य प्रश्नस्य उत्तरे उक्तम्—
ब्रह्म वनं ब्रह्म स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः।
मनीषिणो मनसा विब्रवीमिवः ब्रह्याध्यतिष्ठद् भुवनानि धारयन्" तै-ब्रा-2/8/
अयमाशयः— यद्वनात् यद्वृक्षात् द्युलोकभूलोकयोः निर्माणं तद्वनं वृक्षं च उभयमपि ब्रह्म। वनस्थानीयं वृक्षस्थानीयं च ब्रह्यैव सर्वशक्तिसंपन्नमिति अतिरिक्तां काञ्चित् शक्तिं नापेक्षते। स एव भुवनस्य धारकः कारकः माता पिता नियन्त्रकश्च। अतः कुंभकारवदीश्वरः नैव जगतः कर्ता। यतः एकं ब्रह्म खल्विदं सर्वम्।
?0
?Rबृहदारण्यकोपनिषदि देवसंख्याविषयमाश्रित्य याज्ञवल्क्यस्य शाकल्येन सह शास्त्रार्थः प्रसिद्धः। तत्र उपसंहारे ‘विज्ञानमानन्दं ब्रह्म’ इति एकदेववादः समर्थितः। इदं तु ध्येयमेव यत् उपासकाः परमानन्दस्वरूपं देवं स्तुवन्ति। स च व्यापकः। पराक् दृष्ट्या देववादः, तदा अभीष्टो देवः ज्ञेयः। यदा ज्ञानं तदा प्रत्यक् दृष्टिः। प्रत्यक् दृष्ट्या ज्ञानानुभवे एकदेववादः तत्कुक्षिस्थः। त्यत् शब्देन याज्ञवलक्यः निर्दिशति, ‘नेति नेति’ इति तदादेशः। बहुदेववादमादाय ज्ञानयात्रा प्रवहति, मूले आगमनानन्तरं एकस्मिन् उपसंहारः ‘सर्वं खाल्वेदं ब्रह्म’ इति। एकदेवस्य महिमा बहुदेवः। आचार्यः शङ्करः रामानुजाचार्यश्च देवानां देवीनां च स्तुतिं कुर्वन्नपि अद्वैती विशिष्टाद्वैती एव वर्तते। सर्वात्मकस्य केनरूपेण अवस्थितिर्नास्ति? किं महाशून्ये बौद्धाः देवसमूहं देवीसमूहं वा न पशन्ति? परमत्तत्वं स्वात्मनि सर्वं प्रतिष्ठापयति, आत्मा जगत् ब्रह्म च न व्यतिरिक्तपदार्थः। ध्यानतन्मात्रतायामहं मम च सर्वमपि तस्य प्रतिरूपं भवति। सहस्रशीर्षा पुरुषः, सहस्त्राक्षः सहस्रपात् एक। एव देवः, संहितायां चतुर्भिः सूत्रैः देवभावना प्रतिष्ठिता एकोदेवः (10/51/1) उत्यस्य च समर्थनं बहुभिः मन्त्रैः एक ईशान ओजसा (2/6/41) ‘एको वसूनि पत्यते’ (6/45/20) एकः सुपर्णः–(10/114/4) ‘एकः पुरुषः’ (10/10) एकविष्णु (1/154/4) इत्यादिभिः कृतम्। ‘द्वितीया भूमिः’ एकंसत्’ अरूपं सन्मात्रम्, तृतीयभूमौ “एकं तत्” अर्थात् सत्ताया अपि विशेषितं तत् नास्ति। ‘असत्कल्पं तत्;। चतुर्थभूमौ, सर्वोपाधिविनिर्मुक्तं ‘नसत् नासत्’ इति। एको देव इति कथनेन प्रथमभूमिः देववादाश्रिता। तस्य यज्ञादिना परमोपास्यत्वम्। सर्वेऽपि देवा अस्यैव विभूतयः। अत एव गृत्समदः संबोधयति–त्वमिन्द्रः, त्वं विश्णुः त्वं ब्रह्मणस्पतिः त्वं माता त्वं पिता त्वं मित्रावरूणौ अर्यमा, त्वं त्वष्टा रुद्रः इत्यादिना। पञ्चममण्डलस्य तृतीयसूक्तेऽपि एतादृशी एव स्तुतिः। एवंरूपेण एकदेववादविभूतिः तत्र वर्णिता। अनन्तरं यत् नीरूपं स्वरूपं वर्तते तत् मीमांसकैः स्वीकृतम्।
मीमासायां देववादः वेदवचनान्याश्रित्यैव समर्थितः। भगवात् परमानन्दस्वरूपः। आनन्दस्य रूपत्रयम्-प्राकृतसाध्यसिद्धभेदात्। प्रवृत्तिमूलकानन्दः प्राकृतः। विषयैस्सह इन्द्रियसंयोगात् जायमानः। तदा पराक् पश्यति, नान्तरात्मन्। प्राचीनमन्दिरभित्तिषु बाह्यभागे एतस्यैव निदर्शनं विद्यते। बाह्यवृत्तीनामन्तःप्रवेशः सर्वथा दुष्कर एव। वेदभाषायां वर्णरतिप्रमोदः असुतृप्तिर्वा। अन्तरावृत्तौ प्रत्याहारे वा आनन्दधारा चेतनोर्ध्वमुखी भवति। अयमानन्दः यागसाध्यो योगसाध्यो वा। अनन्तरं बिन्दौ सुस्थिरा सिन्धुरिव सार्वभौमस्सन् सिद्ध आनन्दः।
?जैमिनीयदृष्ट्या देवस्वरूपम्।
??0जैमिनिसूत्रे, नवमाध्यायस्य प्रथमे पादे एष विचारः प्रस्तुतः। अतिदेशविचारानन्तरम् ऊहविचारो जायते। ऊहः– ऊह्यमानपदार्थः। यस्य पदार्थस्य यत्पदार्थसंस्कारकता उपदेशादवगता, तस्य पदार्थस्य तद्विलक्षणपदार्थसंस्काराय विकृतः प्रयोग ऊहः। यद्यपि तर्कणापरपर्यायस्य ऊहस्य सर्वत्र एकरूपत्वात् न त्रैविध्यं संभवति, तथापि तर्क्यमाणविषयत्रैविध्यात् त्रिविधश्चोहः मन्त्रोहः, सामोहः संस्कारोहश्चेति। प्रकृतौ अन्यथादृष्टस्य विकृतावन्यथाभावः ऊहः। क्वचित् प्रकृतिमात्रोहः। यथा आग्नेययागे निर्वापग्रहणकाले अग्नये जुष्टं निर्वपामीति। किन्तु, विकृतिभूतसौर्ययागे अग्निर्देवता नास्तीति सूर्याय जुष्टमिति प्रकृतिमात्रोहः। क्वचित् लिङ्गमात्रोहः–वस्व्यसि रुद्रासीति स्थाने वसुरसि रुद्रोऽसिइति अन्यथा मन्त्रस्यानन्वितार्थत्वं स्यात्। एवमेव प्रकृतिभूतैकपशुकयागे, अन्वेवं माता मन्यताम्’ इत्येतन्मन्त्रस्य, एनम् इत्यस्यस्थाने एनान् इति विपरिणामपूर्वकं पाठः करणीयः। एवमेव ‘अग्नये जुष्टम्’ इत्यस्य स्थाने ‘अदित्यै जुष्टम्’ इति। अन्यथात्वं च येन संबन्धेन यद्धर्मावच्छिन्नवृत्तित्वं यस्य प्रकृतौ श्रुतं, तस्य तेन संबन्धेन विकृतौ तद्धर्मावर्छिन्नभिन्नवृत्तित्वम्’। स्मारकत्वसंबन्धेन अग्नित्वाद्यवच्छिन्नवृत्तित्वं प्रकृतौ श्रुतम् विकृतो च स्मारकत्वसंबन्धेन तद्धर्मावच्छिन्नभिन्नसूर्यवृत्तित्वम्। एवमेव प्रोक्षणाव द्यातादिनामपि संस्कार्यतासंबन्धेन व्रीहित्वाद्यवच्छिन्नवृत्तित्वं प्रकृतौ श्रुतं। विकृतौ च तेनैव संबन्धेन तद्धर्मावच्छिन्नभिन्नश्यामाकादिवृत्तित्वम्। तथाच पदान्तरप्रक्षेपः वचनादेः परिवर्तनपूर्वकपाठ एवोहः। मन्त्रसामसंस्काराणामेवोहो भवति।
इदानीमेतच्चिन्तनीयं, यत् अवघातादिधर्मः यागार्थकः अपूवार्थकोवा?। अवघाते व्रीहिस्वरूपं विवक्षितम्, अविवक्षितं वा। अपूर्वः निमित्तः प्रयोजकेवा’ अथवा न निमित्तो न व प्रयोजकः? अवधातादिधर्मः यागार्थकः अपूर्वारथको वेति संशये, एतत्सर्वं यागसाधनमिति यागार्थकमेवेति पूर्वपक्ष सिद्धान्ती कथयति-‘यज्ञकर्म प्रधानम्’ अर्थात् अपूर्वस्यैव प्राधान्यम्। तथाच यागे अवधातादिकं यत्किमपि क्रियते, तेषामपूर्व एव प्रयोजनम्।
‘व्रीहीन् अवहन्ति’ इत्यादिवाक्ये यो हि व्रीहिविषयकः अवघातः विहितः, तत्र व्रीहिपदार्थस्वरूपं विवक्षितं नवेति संशयः। पूर्वपक्षिणः कथयन्ति, अत्र अभिधात्री या श्रुतिः, तद्बलात् व्रीहिः प्रतीयते। अतः तत्स्वरूपस्य अविवक्षितत्वे किमपि कारणं नास्तीति तद्विवक्षितमेव। अत्र सिद्धान्तिनः वदन्ति–अस्मिन् पक्षे अवधातः अनर्यकः स्यात् इति व्रीहिस्वरूपं नैव विवक्षितम्। अपूर्वस्य प्रधान प्रयोजनत्वात् अपूर्वसाधनतारूपेणैव व्रीहिरावश्यक इति अपूर्वसाधनत्वम्, एवं व्रीहिस्वरूपं चेत्युभयस्वीकारे गौरवमापतति। अतः व्रीहिस्वरूपं नैव विवक्षितम्। अन्यथा ‘नैवारश्चरुर्भवति इत्यादिवाक्यविहितावधातादेः प्राप्तिः स्यात्। किन्तु पूर्वपक्षदृष्ट्या, तदनावश्यकं स्यात्।
अपूर्वः अवघातादेः निमित्तं प्रयोजकं न वेति संशयः। अत्र पूर्वपक्षिणः कथयन्ति अपूर्वः अवघातादेः प्रयोजको भवतु नाम; परन्तु निमित्तं न भवितुमर्हति; यतः निमित्तत्वं प्रयोजकत्वं चेति परस्परं विरुद्धम्। अत्र सिद्धान्तिनः प्रत्यवतिष्ठन्ते–अपूर्वः अवघातादेः प्रयोजकं निमित्तंच। अपूर्वस्य प्रयोजकत्वं शब्दबोधितम्। निमित्तता च अर्थापत्तिसिद्धा। यद्धि, क्रियातः पूर्वं तिष्ठति, तन्निमित्तम्। यत्सिद्य्धर्थं क्रिया भवति तत् प्रयोजकम्, अपूर्वस्य स्वरूपतः साध्यत्वेऽपि मनः स्थितरूपेण सिद्धत्वमपि। तथाच सिद्धस्वरूपो निमित्तं न भवितुमर्हतीति वक्तुं न शक्यते।
“प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति” इति वाक्येन यत् प्रोक्षणं विहितं तत् किमवघातार्थमिति अवघातप्रयुक्तम्? अथवा अपूर्वार्थमिति अपूर्वप्रयुक्तमिति संशयः। अत्र पूर्वपक्षिणः कथयन्ति-संस्कारसंसृष्टं प्रोक्षणमवघातार्थमिति अवघातप्रयुक्तं, यतः वाक्येन तस्य अवघातार्थता अवगम्यते।
एतस्य पूर्वपक्षस्य समाधानार्थं सिद्धान्तिनः वदन्ति-प्रोक्षणस्य अवघातार्थत्वे, तन्निष्प्रेप्रयोजनं स्यात्, यतः प्रोक्षणादवघातस्य कश्चिदुपकारो नदृष्टचरः, अवघातस्य विनियोजकत्वात्। प्रोक्षणस्य अवघातार्थत्वस्वीकारे तस्य वैफल्यं स्यात्, इति आनर्थक्यं प्रसज्येत। तत्परिहारार्थं प्रोक्षणस्य अपूर्वार्थकत्वमकामे नापि स्वीकर्तव्यमेव। तथा च, ‘आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्’ इति नियमेन, श्रुतिलिङ्गेत्यादिन्यायवाक्येन प्रकरणबाधपूर्वकं प्रोक्षणस्य अवघातार्थता न प्रतिपाद्यते। अपि तु एतादृशस्थले प्रकरणेनैव वाक्यस्य बाधो भवति। प्रोक्षणस्य च अपूर्वार्थता बोध्यते। अतः प्रोक्षणमपूर्वार्थकमिति तदपूर्वप्रयुक्तम्। एतद्विचारस्य एतत् प्रयोजनं, यत् पूर्वपक्षिमतेन अवघाताभावे प्रोक्षणं न स्यात्, सिद्धान्तानुसारं च यत्रावघातो नास्ति, तत्र यथा निवृतिदेवतार्थं यत् कृष्णव्रीहिनिष्पन्नं च हविर्भवति, तथैव नखविदलनेन तुषनिष्कासनपूर्वकं चरुसंपादनविधिरस्ति तत्रावघातं विनापि अपूर्वसिद्य्धर्थं नखप्रोक्षणं कर्तव्यमिति प्रोक्षणस्यापूर्वप्रयुक्तताधिकरणम्।
भाष्यरीत्याऽन्यन्याये योजना वर्तते ज्योतिष्टोमे यावत्या वाचा कामयेत तावत्या दीक्षणीयायामनुब्रूयात् मन्द्रं प्रायणीयायाम् मन्द्रतरमातिथ्यायाम्, उपांशूपसत्सु, उच्चैः अग्नीषोमीये’ अस्मिन् वाक्ये ध्वनेः मन्द्रत्वादिरूपोच्चावचीभावो विहितः। असौ किं परमापूर्वप्रयुक्तो वा, अवान्तरापूर्वप्रयुक्तो वा इति संशयः। सिद्धान्तस्तु “तेन त्वर्थेन यज्ञस्य संयोगात् धर्मसंबन्धः, तस्मात् यज्ञप्रयुक्तं स्यात् संस्कारस्य तदर्थत्वात्’ इति अवान्तरापूर्वप्रयुक्त एवेति।
श्रुतौ दर्शपूर्णमासप्रकरणे ‘अगन्म सुवः’ अग्नेरहमुज्जितिमनूज्जेषम् ‘इत्येतन्मन्त्रद्वयं तत्र पठितम्। तत्र प्रथममन्त्रे स्वर्गरूपं फलं द्वितीयमन्त्रे अग्निदेवता बोध्यते। स्वर्गरूपं फलम्, एवम् अग्निरूपो देव एव मन्त्रद्वयस्य प्रयोजकः अथवा अपूर्व एव प्रयोजकः— इति संशयः। पूर्वपक्षिमते फलं देवता च मन्त्रं प्रति प्रयोजके, यतः मन्त्राभ्यां प्राधान्येन एतद्द्वयमेव बोध्यते; अतः अत्र
एतद्द्वयमेव प्रयोजकम्।
सिद्धान्तिमते, मन्त्रद्वयं फलदेवताप्रयुक्तं न भवितुमर्हति; अपि तु
अपूर्वप्रयुक्तमेव; यतः अपूर्वमेव फलवत् इति प्रधानम्; अतस्तदेव अनुष्ठेयम्। अनुष्ठेयस्यैवेतिकर्तव्यताकाङ्क्षा। अतः एतदितिकर्तव्यताकाङ्क्षानिवृत्त्यर्थमेतत् कर्तव्यमिति एतत् तत्प्रयुक्तमेव।
अस्तु फलस्यैव अप्रयोजकत्वम्। फलं प्रयोजकं मा भवतु। देवता तुप्रयोजयेत् इति देवता कर्मादेः प्रयोजिका, यतः भोजनं तदर्थ मेव यजमानत्यक्तद्रव्यभोजनस्यैव यागत्वात्। अतः देवता प्रधानम्, अतिथिवत्। अतिथिः यथा आतिथ्यकर्मणि प्राधानत्वात् प्रयोजकः, तथैव देवताऽपि प्रधानत्वात्, यागकर्मणि प्रयोजकः। देवपूजैव यागपदवाच्या। देवभोजनार्थमेव द्रव्यत्यागः।
किञ्च, देवः सर्वस्य प्रभुरिति सर्वस्य अधिपतिः इति यागादिकर्मणः स एव प्रयोजकः। यथा देवः प्रसीदेत् तथा कर्तव्यम्। तत्प्रसन्नतां विना अभीष्टफलप्राप्तिः नैव संभाव्येत।
‘सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः’ स्वर्ग एव लोकानां परमः काम्यः स्वर्गे च इन्द्रस्यैवाधिपत्यं, किं बहुना? योगक्षेमे हवनीयद्रव्यादौ सर्वत्र इन्द्रस्यैवाधिपत्यम्।
इन्द्रो दिव इन्द्र ईशे पृथिव्याम् इन्द्रो अपामिन्द्र इत्पर्वतानाम्।
इन्द्रो वृधामिन्द्र इ न्मेधिरानामिन्द्रः क्षेमे योगे हव्ये इन्द्रः।
फलप्राप्त्यर्थमेव यागः। अतः देवता प्रधानम् यागकर्मणः प्रयोजकः। सकलविषयप्रभुरिति फलप्रदानमपि तदधीनम्। प्रसन्नतां विना सःफलं नैव दद्यात्। अतः यागप्रयोजनं देवप्रसन्नतैव इति देवः यागे प्रधानम्, स एव प्रयोजकः नापूर्वः तत्प्रयोजकः, इति पूर्वपक्षिणामाशयः।
सिद्धान्तिनस्तु वदन्ति–यागनिष्पाद्यः अपूर्व एव प्रधानम््। अतः अपूर्व एव यागकर्मप्रयोजकः। देवता यागाङ्गं., प्रदानादि कर्मप्रयोजको नास्ति। फलप्रदानकर्तैव प्रधानम्, प्रयोजकः, कश्च फलप्रदातेति शास्त्रगम्यः। यजेत स्वर्गकाम इत्यादि शास्त्रमेव एकपदश्रुतिबोधितकरणात्मकयागमेव स्वर्गफलकं बोधयति। क्षणस्थायियागस्य तत्फलजनकता फलकालपर्यन्तस्थायि परमापूर्वं विना नोपपद्यते इति अपूर्वोऽपि श्रुतार्थापत्तिसिद्धः शास्त्र बोधितः। देवतायाः फलप्रदत्वं श्रुतौ कुत्रापि नोल्लिखितम्। अतः फलप्रदो नास्ति देवः इति कथं तस्य प्राधान्यम्? यदि उच्येत ‘द्रव्यं, देवता, एवं त्याग एव यागः। विना देवतां त्यागः न सिद्य्धति, तत्त्यक्तं द्रव्यं स्वीकृत्य, यदि देवः प्रसन्नो न भवेत् तदा फलं नैव दद्यात्। अतः यागे देवतायाः प्राधान्यं नास्तीति कथं वक्तुं शक्यते। इति, तत्रोच्यतो दे युगपत् बहुव्यक्तिकृतविभिन्नयागे उपस्थितःसन् प्रीतः फलं ददाति इति केनापि प्रमाणेन न सिद्य्धति। देवस्य शरीरसंभव
एव एतत् सर्वं संभाव्यते। किन्तु देवताया विग्रहवत्त्वे किं प्रमाणम्?
यद्युच्यते `मद्यवन् का शि तते। । जगृश्णाते दक्षिण मिन्द्रहस्तम्’ बाहू ते इन्द्र रोमशौ, अभीते इन्द्र पिङ्गले इत्यादिवेदमन्त्रे, इन्द्रदेवस्य मुष्टिः, दक्षिणहस्त इत्यादिवर्णनया इन्द्रदेवताया विग्रहवत्त्वं पुरुष शरीरत्वं च प्रतिपाद्यते। एवमेव ‘इन्द्रो दिव इन्द्र ईशे पृथिव्यां’ इत्यादिमन्त्रे इन्द्रस्यैश्वर्यं–इन्द्रस्य आधिपत्यम् ‘तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति’ इत्यादिवचनैः इन्द्रस्य तृप्तिः प्रसन्नता च गम्यते। तथाच यागेन यदा देवतायाः सेवात्मकपूजैव गम्यते प्रजासेवया तुष्टः सेवाकारिणे अवश्यमेव अभीष्टं फलं दद्यात् इति प्रत्यक्षसिद्धदृष्टान्तेन यागेन प्रसादित इन्द्रादिः फलप्रदानं कुर्यादित्यपि स्वीकरणीयमेव। तथाच फलप्रदानकारी देवः यागे प्रधानभूत इति असौ प्रयोजकः।
किन्तु एतत् न समीचीनम्। यतः यागः तत्फलं स्वर्गादिकं शब्दवोध्यं। केवलात् शास्त्रादेव ज्ञेये वस्तुनि शास्त्रे यथोच्यते, तदेव स्वीकरणीयम्। प्रमाणान्तरसिद्धोऽपि अर्थः शास्त्र तात्पर्यशून्यः नैव स्वीकरणीयः। ‘स्वर्गकामो यजेत’ इत्यादिशास्त्रेण अवगम्यते यत् साध्यस्वरूपयाग एव फलजनक इति। सिद्धद्रव्यदेवतादिः गुणभूतः।
यदि यागस्य अपूर्वद्वारैव फलजनकता, तदा देवस्यैव फलजनकत्वस्वीकारे का क्षतिः?। अत्रेदं वक्तव्यम्—यागोऽपूर्वव्यवहितो यदि फलजनको न स्यात्, तदा वेदबोधितविधिवाक्यानुसारं देवः यागेनापि व्यवहित इति देवस्य फलप्रदत्वं दुस्तरं स्यात्। व्यापारेण शक्त्या वा व्यापारवत्पदार्थस्य शक्तिमत्पदार्थस्य व्यवहितत्वं न भवति यतः।, तथा सति काष्ठचन्दनादिकं प्रति कुठारादेरपि कारणता न स्यात्। अपूर्वः यागस्यैव व्यापारस्वरूपः शक्तिस्वरूप इति, तेन यागस्य फलजनकत्वं न बाध्यते। यतः यागेन फलं भवतीति श्रुतिबोधितं दृढतरप्रमाणसिद्धम्। एतेन दृढतरप्रमाणेन तत्प्रामाण्यरक्षा करणीयेति अपूर्वाख्यः यागव्यापारः यागशक्तिर्वेति स्वीकरणीयम्। श्रुतार्थापत्तिबलसिद्धं स्वर्गकामो यजेत इत्यादिश्रुतिस्वारस्यम्। देवतायाः फलप्रदातृत्वे तु न किमपि दृढतरं प्रमाणम्। विना कर्म देवस्य फलप्रदातृत्वमपि न संभवति। तथाच यदा कर्म विना देवता फलप्रदनेऽसमर्थः तदा कर्मण एव फलप्रदातृत्वं स्वीकरणीयमिति देवताया माध्यस्थ्यं वृथैव।
देवतायाः फलप्रदत्वस्वीकारे, वनस्पतिभ्यः स्वाहा, मूलेभ्यः स्वाहा इत्यादिमन्त्रे अचेतनदेवताया अपि प्रतिपादनमस्ति इति, तेषामपि फलप्रदत्वम् अचेतनत्वं स्वीकरणीयम्; परन्तु एतत् न युक्तिसहम्। वस्तुतः इन्द्रादिदेवस्य विग्रहवत्त्वं, हविर्भागित्वं, ईशितृत्वं, प्रसन्नत्वं यत् स्वीकृतं, तत् अचेतनदेवताऽव्याप्तमिति स्वीकारेण विग्रहपञ्चकवत्वं देवस्य न स्वीकरणीयम्। मन्त्रार्थवादादेः देवताया विग्रहवत्त्वे प्रमाणत्वप्रतिपादनमपि न समीचीनम्, यतः इमे मन्त्रार्थवादादयः न क्रियाप्रतिपादका इति स्वार्थे तात्पर्यशून्या एव। यत्र यस्य तात्पर्यं नास्ति, सोऽर्थः नैव सिद्य्धति। अतो यागो न देवताप्रधानः देवप्रयोजको वा। यागादिकर्मणि देवो गुणभूतः।
पूर्वपक्षिणा अतिथिदृष्टान्तेन देवस्य प्रयोजकत्वं प्रतिपादितम्। आतिथ्ये कर्मणि अतिथेः तृप्तिप्रदानमेव प्रधानम्। पानेन भोजनेन दानादिना यथा अतिथिः प्रीतो भवति, तादृशी परिचर्यैव कर्तव्यभूतेति विधौ दृश्यते। किन्तु ‘स्वर्गकामो यजेत’ इत्यादिवाक्ये यागस्यैव कर्तव्यता शास्त्रबोधिता। देवस्य प्रीतिसंपादनं न शास्त्रगम्यम्। समस्तालौकिकविषये शास्त्रमेवैकं प्रमाणम्, इति शब्दात्मकवेदस्थ शब्दात् तात्पर्यानुसन्धानपूर्वकं यो ह्यर्थः नावगम्यते, तादृश विषयस्य कल्पनाबलेन अनुमानबलेन वा स्वीकरणं नोचितम्। वेदविधिपरिपूर्णतार्थं या कल्पनाऽपेक्षिता, साऽवश्यं शास्त्रस्य प्रामाण्यरक्षणार्थं स्वीकरणीयम्। किन्तु, देवस्य विग्रहादिमत्त्वं यागे तत्प्रीतिसंपादनञ्च शास्त्रविहितपरिपूर्णतार्थं नापेक्षितमिति, तादृशी कल्पना न समीचीना। अतः यागे देवता प्रधानं नास्ति। अपि तु, अपूर्व एव प्रधानम्।
वेदान्ते, प्रथमाध्यायस्य तृतीयपादस्थषड्विंशसूत्रात् त्रयस्त्रिंशसूत्रपर्यन्तं देवस्य विग्रहवत्त्वं समर्थितम् क्रियाप्रतिपादकवाक्यस्यैव मीमांसकमते प्रामाण्यं, तद्भिन्नस्य वेदभागस्य तात्पर्यशून्यत्वमिति पौढिवादमात्रमिति अन्या कथा।
वेदान्तिमते, सिद्धार्थ प्रतिपादकांशानामपि स्वार्थे तात्पर्यन्तु युक्तमेव।
भारते, एकान्तरूपेण आत्मवस्तु वेदमन्त्रबाग एव विद्यते। समग्रमानवसमाजे परमेश्वरसंबन्धे धारणा वेदेन पवित्रीकृता प्लावितेति अन्यस्य दार्शनिकस्य मधुकरीं वृत्तिं नादत्ते दर्शनचिन्तायां भारतीयः। वेदे ईश्वरतत्त्वं नैव सङ्कुचितं भीतभीतभावेनावस्थितम्।
त्वं स्त्री त्वं पुमानसि? त्वं कुमार उत वा कुमारी।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः॥
(अथर्वस-90/2/96-26) ईश्वरः सर्वात्मक इति जीवधर्मेणापि ईश्वरः उपास्यरूपेण श्रुतौ स्मृतौ च निर्दिष्टः। मनोमयः प्राणशरीरः भारूपः (छा-3/14/12) सर्वात्मकं ब्रह्म इति जीवसंबन्धी धर्मः परमेश्वरसंबन्धी भवति। शांकरभाष्यस्य प्रथमाध्यायस्य द्वितीयपादस्य द्वितीयसूत्रे, द्वितीयाध्यायस्य तृतीयपाद त्रिचत्वारिंशसूत्रे चोद्धृतैषा श्रुतिः। अद्यापि उपासकबृन्दैः मातृपितृसर्वबन्धुभावेन चोपासना क्रियते।
वेददृष्ट्या यथार्थरूपेण ईश्वरं केनापि रूपेण वक्तुं शक्यते। किन्तु, वेदेनानवगतेश्वररूपाः केनापि रूपेण ईश्वरं वक्तुं न प्रभवन्ति। नास्ति सन्देहः, यत् उपासकसंप्रदाय एकस्यैवेश्वरस्य नानाभावेन उपासनां कुर्वन्नास्ते; वेदमन्त्र एवात्र दृढभूमिः।
उतैषां पिता उत वा पुत्र एषाम् उतैषां ज्येष्ठ उत वा कनिष्ठः।
एको ह देवो मनसि प्रविष्ठः प्रथमो जातः स उ गर्भे अन्तः “(अथर्वसं 10/23/4-2z)
कोऽपि संबन्धस्तिष्ठतु असौ उपास्यः विग्रहशून्यो वा भवतु विग्रहवान् वा भवतु। वस्तुतः नानात्वेऽपि एक एवासावपरिमेयः। सर्वत्र व्यापृतः। `न तस्य प्रतिमा अस्ति यस्य नाममहद्यशः। `यजुः सं’ महीधरेण स्वभाष्य उक्तम्, “यस्य पुरुषस्य प्रतिमा प्रतिमानम् उपमानं किञ्चिद्वस्तु नास्ति, अत एव नाम प्रसिद्धम्। महद्यशः यस्यास्ति, सर्वातिरिक्तयशाः इत्यर्थः।
?
पूर्वमीमांसादर्शनस्य प्रथमाध्यायस्य तृतीयपादस्य प्रथमसूत्रस्य वार्तिके उक्तं, याश्चैताः प्रधानपुरुषेश्वरपरमाणु कारणताप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रतीताः, ताः सर्वाः मन्त्रार्थवादवाक्यादेव। तत्र न्यायसुधाया मप्युक्तं–“ननु यैषा सुखदुःखमोहात्मकसत्त्वरजस्तमोरूपं प्रधानं जगत्कारणमिति प्रक्रिया स्थितिसिद्धान्तापरपर्याया सांख्यैः, पुरुष इति ब्रह्मविद्भिः, ईश्वर इति पातञ्जलीयैः, परमाणव इति औलूक्यैः आदिशब्दात् तत्तत्कार्यं जगत्, इति यथाक्रमं सांख्यादिभिः प्रतीताः प्रतिज्ञाताः अङ्गीकृताः किमासां मूलमित्याह। अतः सर्वोऽपि सिद्धान्तः वेदमन्त्रमूलकः अर्थवादवाक्यादेव संगृहीत इत्यन्या कथा। किमन्यत् “विज्ञानमात्रक्षणभङ्गनैरात्म्यवादादीनामपि उपानिषदर्थवादप्रभवत्वं, विषयेषु आत्यन्तिकरागं निवर्तयितुम्” इत्यपि तत्रैवोक्तम्। अतः वेद प्रदर्शितेश्वरैकत्वमेव दार्शनिकैः युक्त्या आविष्कृतम्। नैयायिक दृष्ट्या देवेश्वरषयोः भेदो वर्तते। देवः मनुष्यश्च, ईश्वरसृष्टो जीवविशेषः। स्रष्टा चेश्वरः। तस्य च निर्देशः ‘एकं सद्विप्रा बहुधा वदन्ति’ इति मन्त्रेण भवति। अत एव देवस्य विग्रहशून्यत्वमङ्गीकृतं मीमांसकैः अप्राधान्यं च। सृष्टिर्हि कर्मायत्तेति कर्म प्रधानम्। कर्म चापूर्वापरपर्यायम्। सृष्टिर्हि कालसापेक्षा। सर्वगुरुरीश्वरश्च कालानवच्छिन्नः। पातञ्जलमते ईश्वरः जगतः स्रष्टा नास्ति, परं सर्वज्ञः तत्र योगिनः सादिसर्वज्ञाः, ईश्वरश्च अनादिसर्वज्ञः। अत एवोक्तं सः पूर्वेषामपि गुरुः कालेनानवच्छेदात् (पा.सू 1/26)
? ?0ईश्वरस्य कारुण्यम्
न्यायसूत्रे (2/1/5z) वात्स्यायनः कथयति–किं पुनराप्तानां प्रामाण्यम्? 1–साक्षात्कृतधर्मता, 2–भूतदया, यथाभूतार्थचिख्यापयिषा। आप्ताः खलु साक्षात्कृतधर्माणः। इदं हातव्यम्, इदमस्य हानहेतुः इदमस्याधिगन्तव्यम्, इदमस्य अधिगमे हेतुः इति भूतान्यनुकम्पन्ते”। अर्थादाप्तः यं पदार्थमुपदिशति, स पदार्थ आप्तेनसाक्षात्कृतो भवति। आप्तपुरुषप्रणीतत्वादेव वेदस्य प्रामाण्यम्। यं पुरुषमुपदिशति, तं प्रति अनुकंपा वर्तते। एवं साक्षात्कृतयथार्थभूतवस्तुनः प्रख्यापनेच्छापि विद्यते। एतत्त्रिविधविशेषणविशिष्ट एवाप्तः। वाचस्पतिमिश्रः खव्याख्याने कथयति–शरीरभुवनादिकार्यस्य कर्ता सकलवस्तुतत्त्वज्ञः अर्थात् सर्वज्ञः। सर्वज्ञोऽयं पुरुषः क्लेशकर्मविपाकाशयैरपरामृष्टः वासनारहितः। एतस्य पुरुषस्य अविद्यास्मितारागद्वेषाभिनिवेशात्मकक्लेशशून्यः। अनन्तरमुक्तम् यदयं परमकारुणिकः। हितप्राप्तेरहितपरिहारोपायस्य ज्ञातेति उपदेशं कर्तुं समर्थो भवति, न च अयथार्थमुपदिशति। एवं भाष्यकारः टीकाकरश्चदेवं परमकारुणिकं मन्यते।
वैष्णवकविरपि स्नेहमेव वात्सल्यरसस्थायिभावं स्वीकरोति। ‘स्थायी वत्सलता स्नेहः पुत्रास्त्वालंबनं मतम्’ (साहि-द-3-251) वत्सलता प्रेम। तत्सहितस्नेहो रतिः। तत् कारुण्यं स्नेहवात्सल्यञ्च ऋङ्मन्त्रेऽपि प्रदर्शितम्। गीतायामप्युक्तम् ‘पिताहमस्य जगतो माता धाता पितामहः—(गी- 6-17) पितासि लोकस्य चरचरस्य (गी-11/53)
मीमांसकाः न चेश्वरं स्वीकुर्वन्ति। वेदे उद्घोषितं जगत्कर्तृत्वमपि नाङ्गीकुर्वन्ति। एतस्य तात्पर्यविषयीभूतत्वाभावात् वाक्यार्थता नास्ति। ईश्वराभावे करुणास्वीकारस्य प्रश्न एव नोदेति।
नैयायिकमते ईश्वरः सर्वज्ञ इति ईश्वरः प्रेक्षावान्। प्रेक्षावत ईश्वरस्य जगतः निर्माणे किं प्रयोजनम्?। ईश्वरस्य प्राप्तव्यं किमपि नास्ति; यतः ईश्वरः आप्तकामः, आप्तकामस्य विषयाभिलाषा न भवति। लीलाविस्तारार्थमेव जगतः निर्माणं करोति इत्यपिना प्राप्तव्याभावे लीलाक्रीडे च न सुसङ्गते।
करुणापरायणः करुणयैव जगतः निर्माणे प्रवृत्तो भवति। तथापि किं सुखमयं जगत् न निर्मितमिति एतदपि न समीचीनम्। प्राणिनां धर्माधर्मावाश्रित्य जगन्निर्माणे प्रवृत्त ईश्वर उभयमयं जगत् निर्मिमीते। अधर्मस्य दुःखहेतुत्वात् तदेव दुःखस्य कारणम्।
अधर्मश्च दुःखहेतुः। स च जड इति ईश्वरानधिष्ठितः अचेतनोऽधर्मः दुःखोत्पादनेऽक्षमः। तदैतच्चिन्तनीयम्; यत् जानन्नपि कारुणिक ईश्वरः कथमधर्मस्याधिष्ठाता समभवत्। यदि ईश्वरः अधर्मस्य अधिष्ठाता न भवेत् तदा दुःखं न स्यात्;। अचेतनः अधर्मः कदापि दुःखकार्यजनको न स्यात्; अतः एतादृशस्य ईश्वरस्य स्वीकारोऽनावश्यकः।
जीवस्य दुःखानुभवोऽप्यावश्यकः। अन्यथा, कदापि जीवस्य वैराग्यं न स्यात्। विना वैराग्यम् अपवर्गलाभो न संभाव्यते। अतः अपवर्गलाभार्थं जीवस्य दुःखानुभवोऽपि सप्रयोजनः। अत एव च धर्माधर्मयोरधिष्ठातृत्वमङ्गीकृतम्। अतः ईश्वरस्य कारुणिकत्वमेव समर्थितं भवति।
एतदपि न समीचीनम् यतः जीवदुःखोत्पादने ईश्वरः प्रभुः। दुःखस्य आत्यन्तिकनिवृत्तिरेवापवर्गः। अधर्माधिष्ठातृत्वाभावे दुःखमेव न स्यात्। अनायासलभ्यकार्यसंसिद्य्धर्थं जगन्निर्माणं निष्फलमेव।
विना प्रयोजनं स्वभावत एव जगत्सृष्टौ प्रवृत्तिः। अर्थात् जगत्सृष्टिकरणंम् ईश्वरस्य स्वभाव इति। एतदपि न सङ्गतम्; यतः तदा ईश्वरसय प्रेक्षावत्त्वं न स्यात्।
सत्यम्। ईश्वरः कारुणिकः अतिशयितमहिमा, तथापि वस्तुसामर्थ्यस्यान्यथाकरणं न संभाव्यते। अनित्यौ धर्माधर्मौ ईश्वरस्य महिम्ना नित्यौ न भविष्यतः। विना फलोत्पादनं धर्माधर्मयोर्विनाशोऽपि न संभवति। धर्मसामर्थ्यलङ्घनपूर्वकमीश्वरोऽधिष्ठाता न भवितुमर्हति। धर्माधर्म सहकारिप्रयुक्तस्सन् विचित्रं जगत् कुरुते। जीवोपार्जितकर्मफलस्यापेक्षां विनैव जगतः सृष्टिसंपादने ईश्वरस्य स्वेच्छाचारिता स्यात् यादृच्छिकी आकस्मिकी च जीवसृष्टिः भवेत्। तथा च जीवस्य शरीरलाभः, जन्म, मृत्युः भोगः, अपवर्गः, सर्वोऽपि आकस्मिकः स्यात्। कर्मफलाभावे, जीवस्य सर्वकर्मवर्जितत्वे उच्छेद एव स्यात्। जीवजगतोरञ्च्छेदो न स्यादिति परमकारुणिक ईश्वरः अधर्मस्यापि अधिष्ठातृत्वं स्वीकरोति। यादृच्छिकत्वे विषमकारित्वमकारुणिकत्वं च ईश्वरस्य भवेत्। ता-टी(4/1/21) भूमिः यथा स्वभावादेव स्थावरजङ्गमात्मकं प्राणिपुञ्जं धारयति; जलं स्वभावतः क्लेदनं करोति; तथा प्रेक्षावतः ईश्वरस्य जीवधर्माधर्मसापेक्षस्य सृष्टिकरणे प्रवृक्षिकारणसान्निध्ये। एव अर्थोत्पत्तिरिति युगपदुत्पत्तिसंभावना नास्ति। धर्माधर्मयोः परिपाककाल एवापेश्रितो भवति। ‘लोकवत्तु लीलाकैवल्यम्(2/1/33) इति ब्रह्मसूत्रे भाष्यकारः शङ्करः—“एवमीश्वरस्यापि अनपेक्ष्य किञ्चित् प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिः भविष्यति, इति स्वभावादेव सृष्टौ प्रवृत्तिः।” आगमप्रकरणे गौडपादेनाप्युक्तम्—“देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा?(आ-प्र-श्लो) अत एव तत्त्वचिन्तामणौ–दुःखपङ्कनिमग्नं जनमुद्दिधीर्षुरेव ईश्वरः प्रवर्तते इत्युक्तम्।
अतः अतीतानागतवर्तमानात्मकं सर्ववस्तुविषयकमीश्वरज्ञानं प्रत्यक्षरूपम्; यतः परोक्षज्ञानमीश्वरस्य नास्ति, यतः परोक्षज्ञानमनुमित्युपमितिशाब्दस्मृत्यात्मकं ज्ञानम्। एतदव्यतिरिक्तं परोक्षज्ञानं न संभाव्यते। परंन्तु, एतत् सर्वमपि ज्ञानं संस्कारजन्यम्। व्याप्त्यनुभवजन्यसंस्कारत् व्याप्तेः स्मरणम्, व्याप्तिस्मरणमेव अनुमानप्रमाणम्। व्याप्तेः स्मरणात् तृतीयलिङ्गपरामर्शवशात् अनुमितिः। एवमेव उपमानप्रमाणस्य व्यापारः अतिदेशवाक्यार्थस्मरणम् अतिदेशवाक्येन शब्दानुभवः, अनुभवाच्च संस्कारः, संस्काराच्च अतिदेशवाक्यार्थस्मृतिः। शाब्दबोधे पदज्ञानमेव प्रमाणम्। पदार्थस्मृतिः प्रमाणव्यापारः। पदार्थस्मृतिश्च पदार्थानुभवजन्यसंस्कारादुत्पद्यते। स्मृतिरनुभवजन्यसंस्कारादुत्पद्यते। ईश्वरज्ञानं नित्यमिति न संस्कारजम्। विषयप्रकाशात्मकं ज्ञानं यस्य नित्यं, तस्य विषयप्रकाशः नित्यसिद्धइति संस्कारस्य स्मरणस्य वा अनावश्यकता। ज्ञानं संस्कारात्मकफलनाश्यमिति नित्यज्ञानं संस्कारजनकं न भवति। जनकज्ञानं ज्ञानजन्यः संस्कारश्च एककाले न तिष्ठतः। स्मृतिं विना अनुमितिरुपमितिः शाब्दज्ञानं न संभवति (न्या-वा-4/1/21)
?0”?Rईश्वर ज्ञाननित्यत्वे आपत्तिस्तत्समाधानं च”
?Rइन्द्रियार्थसन्नकर्षजन्यत्वाभावात् ईश्वरज्ञानस्य कथमिव प्रत्यक्षत्वम्। प्रतिगतमक्षमेव प्रत्यक्षम्”?R अत्यादयः क्रान्ताद्यर्थे द्वितीयया’?R इति समासः। इन्द्रियाश्रितमिन्द्रियप्रतिगतमर्थात् इन्द्रियजन्यमेव ज्ञानं प्रत्यक्षम्। ईश्वरज्ञानं न जन्यम् नित्यत्वात्। अतः नेन्द्रियजन्यम्। इन्द्रियजन्यत्वाभावे कथमिव प्रत्यक्षत्वम्??R। यतः ईश्वरस्य शरीरमिन्द्रियाणि मनो वा न सन्ति।
जन्यप्रत्यक्षस्य इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति लक्षणम्। न तु नित्यानित्यसाधारणस्य। अत एव उदयनेन लक्षणा वलि ग्रन्थे, ज्ञानकरणजन्यत्वरहितज्ञानत्वमपरोक्षत्वम्;?R अर्थात् यद्धि ज्ञानं ज्ञानकरणजन्यं न तदेवापरोक्षं ज्ञानम्। परोक्षज्ञानं ज्ञान कारणजन्यं भवति’?। अनुमितेः व्याप्तिज्ञानं करणम्, उपमितेः सादृश्यज्ञानं करणम्, शाब्दबोधस्य पदार्थज्ञानं करणम्, स्मृतेः अनुभवज्ञानं करणम्। अतः ज्ञानकरणजन्यत्वाभावात् ईश्वरज्ञानस्य अपरोक्षत्वमेव (लृ-पृ-3) तत्त्वा चिन्तामणावपि एतदेव लक्षणमविकलमङ्गीकृतम्। प्रत्यक्षस्य स्थाने अपरोक्षमित्युच्यते। अत एव श्रुतावपि, ब्रह्मस्वरूपं ज्ञानं यत्साक्षादपरोक्षं ब्रह्मेत्युक्तं (बृ-3-4-1) परिमले एतस्य षट्पञ्चाशत्पृष्ठे एतस्य विस्तृतं विवेचनमस्ति। अत एव पश्यत्यचक्षुः स शृणोत्यकर्णः (श्वे 3-) इति संगच्छते। भातीयश्रौतसिद्धान्तस्यैवेदं विभिन्नदर्शनदृष्ट्योपपादनम्। अद्वैतवेदान्तिभिः विवरणाचार्यैः अपरोक्षार्थव्यवहारानुकूलज्ञानत्वं ज्ञानस्यापरोक्षत्वमित्युक्तम्।
गुणविशिष्टान्तरमीश्वरः तस्यात्मकल्पात् कल्पान्तरानुपपत्तिः (न्या-सू 4-1-2) ईश्वरे षट् गुणाः सन्ति। संख्या, परिमितिः, पृथक्त्वं, संयोगः, विभागश्च इमे पञ्च सामान्यगुणाः, बुद्धिः विशेषगुणः। इच्छाऽपि एकः विशेषगुणः। इयमिच्छा अक्लिष्टा अव्याहता सर्वार्थविषयिणी च। अप्रतिहतेच्छ ईश्वरः। अविद्याक्लेशदूषण रहित ईश्वरः। मिथ्याज्ञानमेव न्यायमते अविद्या। कः पुनरयं विपर्ययः, अतस्मिन् तदिति प्रत्ययः। यद्वस्तु यत् नास्ति, तस्य तद्वस्तुरूपेण ज्ञानं विपर्ययः, मिथ्याज्ञानम्, अविद्या वा। मिथ्याज्ञानपूर्विकेच्छैव रागदोषदुष्टा, यथार्थज्ञानपूर्विकेच्छा निर्दुष्टा। मण्डनेनाप्युक्तम्–‘न हि इच्छामात्रं रागः। अविद्याक्षिप्तम् अभूतगुणाभिनिवेशं रागमाचक्षते। तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादोऽभिरुचिरिच्छा न रागपक्षे व्यवस्थाप्यते (ब्र-पृ-3)। जगत्सृष्टिवशात् “ज्ञानचिकीर्षाप्रयत्नानां समवायः कर्तृत्वम्” ‘कर्तृत्वं प्रयत्नसापेक्षम्’ इति प्रयत्नगुणोऽपि वर्तते इति ईश्वरे अष्टौ गुणाः।
?
? जीवो बुद्य्धादिगुणवान् शरीरी। तथैव ईश्वरस्यापि शरीरेन्द्रियादिकमस्ति नवेति विचारे वार्तिककारः वदति। ईश्वरस्य शरीरादिस्वीकारे तस्य नित्यत्वमनित्यत्वंवा? नित्यानित्यत्वशून्यत्वं तु न संभवति। अनित्यशरीरस्वीकारे धर्माधर्मादेरपि स्वीकार आवश्यकः। धर्माधर्मादिशून्यस्य शरीरादिसत्वमपि न विद्यते यथा मुक्तस्य। धर्मादिस्वीकारे च धर्माद्यधीनतेश्वरस्यापि स्यात्। नित्यशरीरादिकल्पना च दृष्टविपरीतार्थकल्पनैव। बोगायत नं शरीरम् ईश्वरस्य स्वीयसुखदुःखसमवायात्मकः–भोगो नास्तीति शरीरकल्पनाऽपि वृथैव। भोगरहितस्य ईश्वरस्य शरीरकल्पना, शरीरस्य च नित्यत्वकल्पना सर्वा अपि दृष्टविपरीतकल्पना एव। ज्ञानस्य नित्यस्य कल्पनाच्छरीरकल्पनाया अवसर एव नास्ति।
अत एव मीमांसकैः अपि ईश्वरस्य देवरूपस्य शरीरं न स्वीकृतम्। अस्मिन् प्रसङ्गे अस्माभिः उपसंहारे एतत् वक्तुं शक्यते शबरस्वामिना यागयज्ञादीनां प्राधान्यमङ्गीकृत्य देवादीनां विग्रहवत्त्वं खण्डितम्। शङ्कराचार्यादयः आसमुद्रहैमाचलं देवानां देवीनां च स्तुतिं विधाय, तेषां पूजा प्रतिष्ठा च कृता। किमेभिः वेदविरुद्धमेवाचरितम्। कृष्णयजुर्वेदस्य मैत्रीयणीशाखान्तर्गतमैत्रायणीसंहितायां रुद्रस्य गणेशस्य ब्रह्मणः विष्णोः सूर्यस्य च उपासनार्थं गायत्री पठिता। तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात्। इति। एवमेव एतदेव अन्येषामपि। तथाच पञ्चदैवोपासना धिकारी अशुद्धचित्तः पुरुषः ज्ञानमार्गाधिकारी न भवतीति कथं वा तस्यापेक्षा। अनयोः भेदस्तु परवर्तिकाले जातः।
मीमांसादर्शने यजतिचोदनाद्रव्यदेवतादिक्रियासमुदाये कृतार्थ सुस्पष्टमभिहितम्। भगत्वं कात्यायनेनापि यज्ञं व्याख्यास्यामः द्रव्यं देवता त्यागः वता इति अस्मिन् सूत्रे उक्तम्–शास्त्रनियममनुसृत्य प्रणीतवह्निमाधाय, ‘यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् वषट्करिष्यन्’ इत्यादिवेदवचनेन देवताया विधानम्, अनन्तरं हविरादिद्रव्यत्यागः इति सर्वं मानम्। नवमाध्याये देवतायाः शरीरं नास्तीति यत् प्रतिपादितं शबरखामिना, तत् प्रौढिवादमात्रम्। खण्डदेवेन भाट्टकौस्तुभेऽप्युक्तम्। तेन च तत्सिद्धान्तः स्थिरीकृतः। भाट्टदीपिकायामप्युक्तम्–विग्रहाद्यभावे ध्यानं न संभवति। मम तु एव वदतोऽपि वाणी दुष्यति इति हरिस्मरणमेव नः शरणम्। षष्ठाध्यायस्य प्रथमपादस्य पञ्चमसूत्रे न देवानां देवतान्तराभावात् इत्यपि न संगच्छते। कुमारिलपादेनाप्युक्तम्–येषां शब्द एव देवता, तेषामप्ययुक्तोऽयंग्रन्थः निन्दितात् इतरत् प्रशंसयितुमित्युक्तम्। एवं च यस्य निन्दा क्रियते तेनच न तस्य निन्दा गम्यते। अपि तु तदितरस्य प्रशंसा गम्यते। तस्मात् यत् यद्देवताया अशरीरत्वं विग्रहादिशून्यत्वं मीमांसायां प्रतिपादितं, तदस्मत्शरीस्सदृशं तत् शरीरं नास्ति तस्य अनित्यंशरीरं नास्ति। अपितु धर्माधर्मादिबलात् यस्य शरीरस्य लाभः अस्माभिः क्रियते, तादृशं शरीरम् ईश्वरस्य न भवितुमर्हति, यतः ईश्वरस्य धर्माधर्माभावात् एतावतैव उक्तम्, ईश्वरः अशरीरी, तथाच नैयायिकैरन्यैरपि दार्शनिकैः तत् स्वीकृतं, यत् देवस्य तादृशं शरीरं नास्ति इति यदि शरीरस्य नित्यत्वम् अनित्यत्वं, नित्यम् अनित्यं च इति वा स्वीक्रियते, तर्हि महान् दोष आपतति। अत एव एतेषामयमेवाभिप्रायः, यादृसं शरीरम् अस्माकं वर्तते धर्माधर्मादिजन्यं, तादृशं शरीरम् ईश्वरस्य नास्तीति समीचीनम्।
]