अथ विधिविवेकः
श्रीगणेशाय नमः
साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।
बोधं विधौ समायत्तमतः स प्रविविच्यते ॥
अथ न्यायकणिका श्रीसरस्वत्यै नमः
परामृष्टः क्लेशैः कथमपि न यो जातु भगवान्
न धर्माऽधर्माभ्यां त्रिभिरपि विपाकैर्न च तयोः ।
परं वाचां तत्त्वं यमधिगमयत्योमिति पदं
नमस्यामो विष्णुं तममरगुरूणामपि गुरुम् ॥ १ ॥
भुवनभवनस्थेमध्वंसप्रबन्धविधायिने
भवभयभिदे तुभ्यं भेत्रे पुरां तिसृणामपि ।
क्षितिहुतवहक्षेत्रज्ञाऽम्भःप्रभञ्जनचन्द्रम-
स्तपनवियदित्यष्टौ मूर्तीर्नमो भव विभ्रते ॥ २ ॥
अज्ञानतिमिरशमनीं परदमनीं न्यायमञ्जरीं रुचिराम् ।
प्रसवित्रे प्रभवित्रे विद्यातरवे नमो गुरवे ॥ ३ ॥
आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ४ ॥
प्रकरणाऽऽरम्भे प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्रयोजनहेतुकं प्रकरणस्य विधिविषयविवेचनं प्रयोजनमाह—
साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।
बोधं विधौ समायत्तमतः स प्रविविच्यते ॥
इह केचिदाहुः । यदप्रयोजनविषयं न तत्प्रेक्षावत्प्रवृत्तिगोचरः । यथा काकदन्तपरीक्षा । तथा चैतन्मीमासाप्रकरणमिति व्यापकविरुद्धोपलब्धिः । न चेयमसिद्धा । प्रयोजनं खल्विह विधेर्वेदप्रामाण्यसिद्धिर्वा, पदार्थसंसर्गप्रतीतिर्वा, हिताऽहितसाधनताऽवगमो वा प्रवृत्तिनिवृत्तिनिमित्तम् । न तावत्प्रामाण्यसिद्धिरन्तरेणाऽपि विधिं तत्सम्भवात् ।
पूर्वपक्षः—स्यादेतत् । विधिविरहे कार्यशून्यतया भूताऽर्थाऽवगाहिनो भूतस्य च मानान्तरविषयतया तदपेक्षत्वाद्वेदस्य प्रामाण्यं विहन्येत, पुरुषवाक्यवत् । तदनुपपन्नम् । अत्रेदं तु भवान् पृष्टो व्याचष्टाम् यदेतत्पुरुषवचसां मानान्तराऽपेक्षत्वम्, तत्किं भूतार्थतया, आहोस्वित् पुरुषबुद्धिप्रभवतया ? न तावद्भतार्थतया । प्रत्यक्षादीनामप्रामाण्यप्रसक्तेः । तान्यपि हि भूतार्थान्येव । चैत्यवन्दनादिवाक्यस्य च कार्याऽर्थाऽभिधायिनो निरपेक्षतया प्रामाण्यप्रसङ्गात् । विनियोगमात्रपरमेतन्न कार्यपरमिति च स्वतन्त्रसिद्धान्तश्रद्धामात्रविजृम्भितं न प्रामाणिकमिति निवेदयिष्यते । तस्माद्वक्तृधीप्रभवत्वमेव सापेक्षत्वे हेतुः । तच्च भूतार्थेऽपि वैदिके नास्तीति नास्ति सापेक्षता । सा च कार्यनिष्ठानामपि पुरुषवचसाम् । तन्न, प्रामाण्यसिद्धिरर्थो विधेः ।
नाऽपि पदार्थसंसर्गप्रतीतिः । विनाऽपि विधिना स्थाल्यामोदनं पचति चैत्र इति पदार्थसंसर्गप्रतीतेरुपपत्तेः । यदि मन्येत विवक्षाऽधीनरचनानि पुंसो वचनानि, विवक्षा च मानान्तराऽवधारणाऽधीना, मानान्तरं च पदार्थसंसर्गगोचरं न पदार्थमात्रगोचरमिति तन्मानान्तरं प्रभवतया पुंस्यान्यपि पदार्थसंसर्गमेव गोचरयन्ति । न त्वेवं वेदवाक्यान्यपौरुषेयाणीति पदार्थसंसर्गसिद्ध्यर्थ विधिरेषितव्य इति । तदयुक्तम् । विधावपि तदनुपपत्तेः । तस्मिन् विधौ सति तद्विधिकाङ्क्षानिबन्धनः सम्बन्धः पदार्थानामिति चेत् ? तदाकाङ्क्षैव कुतः तदपर्यवसानादिति चेत् ? न । क्रियादिष्वपि साम्यात् । यथा हि शब्दाऽभिहितो विधिर्विषयनियोज्यादिभिर्विना न पर्यवस्यति तथा क्रियादयोऽपि पदार्थाः कारकादिभिर्विनेति त एव पदैरुपात्ता आकाङ्क्षायोग्यतासन्निधिसध्रीचीनाश्च संसर्ग गमयिष्यन्तीति कृतं विधिना । विशिष्टाऽर्थप्रतीतिप्रयुक्तत्वेन च पदानां समभिव्याहारस्य लोके विदितलोकतदुपायत्वाच्च वैदिकाऽर्थप्रतीतेः ।
नाऽपि हिताऽहितसाधनताऽवगमस्तस्य प्रयोजनं सम्भवति । सन्तापमपनयति च तप्तस्य सलिलाऽवसेकः, दहति च ज्वलनज्वालाकलापाऽऽलिङ्गनमिति वर्तमानाऽपदेशादपि हिताऽहितसाधनताऽवगमात् । ततश्चेप्साजिहासाभ्यां प्रमाणान्तरादिव प्रवृत्तिनिवृत्त्योरुपपत्तेर्व्यर्थो1 विधिरिति सिद्धा व्यापकविरुद्धोपलब्धिः,2 अतो नाऽऽरम्भणीयमेतत्प्रकरणमिति । तान् प्रत्याह—साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः । बोधं विधौ समायत्तमिति । मा भूवन्नन्यानि प्रयोजनानि विधेः । पुरुषार्थसाधनताऽवबोधस्तु विधिनिबन्धनः । न हि स्वर्गकामो यजेते-ति विधौ असति स्वर्गो भावनाया भाव्यः सम्भवति । सा हि भाव्यमात्राऽपेक्षिणी । भविता च भाव्यो यागादयश्च भवितार इति समानपदोपादानतया प्रकृत्यर्थतया च तदनुरक्ताया एव भावनायाः प्रतीतेः स्वर्गस्य च पदान्तरोपादानतया पुरुषविशेषणतया च व्यवस्थानात्तमपहाय यागादीनेव3 भाव्यतया भावना गृह्णीयात् । कर्त्रपेक्षितोपायतारूपविध्युपहितमर्यादा पुनरियं भावना समानपदोपादानमपि प्रथमाऽवगतमपि दुःखाकरतया कर्त्रनपेक्षितमपहाय धात्वर्थमसमानपदोपादानमपि पुरुषविशेषणमप्यपेक्षिततया स्वर्गमेव भाव्यमवलम्बते । समासादिततयाविधभाव्या च यागादीन् करणतया स्वीकरोतीति पुरुषार्थसाधनता तेषां सिद्धा भवति । कथं तर्हि वर्तमानाऽपदेशेभ्यो लोके4 पुरुषार्थसाधनताऽवगतिः ? प्रमाणान्तरवशान्न शब्दसामर्थ्यात् । यथा चैतत्तथा द्रव्यसंस्कारकर्मस्विति चाऽसाधकं तु तादर्थ्यादिति च व्याचक्षाण उपपादयिष्यति स्वयमेवाऽऽचार्यः ।
नन्वेष विधिः शब्दात्प्रसिद्धो वा स्यादप्रसिद्धो वा ? स चेत्प्रसिद्धो, नाऽनेन प्रकरणेन प्रतिपादनीयः । शब्दप्रतिपन्नस्याऽप्रतिपित्सितत्वात् । निष्पादितक्रिये कर्मणि साधनस्य तत्राऽनुपपत्तेः । अप्रसिद्धश्चेन्नितरां वेदार्थतया प्रतिपाद्यः । तस्मादनर्थकमेतद्विषयं प्रकरणमिति । अत आह—अतः स प्रविविच्यते इति । सत्यं शब्दाऽवगम्योऽपि विधिर्विप्रतिपत्तेः साधकबाधकप्रमाणविरहे सति संशयमापन्नः सन्5 प्रतिपित्सित उपपत्त्यनुपपत्तिभ्यां परीक्ष्य शङ्कितसमारोपितरूपव्यवच्छेदेन यथावत्प्रतिपाद्यते । तदुच्यते—6 विविच्यते इति ।
नन्वस्य विवेकोऽपि वार्तिककृत्प्रभृतिभिरकारीति सोऽपि व्यर्थ एवेत्यत आह—प्रेति । कृतोऽपि तैर्विवेकोऽकृतकल्प एव । “अभिधाभावनामाहु”7 रित्यादिसङ्कीर्णशब्दप्रयोगात् । इह तु कर्तुरिष्टाऽभ्युपाय इति
स खलु शब्दभेदो वा, तद्व्यापाराऽतिशयो वाऽर्थभेदो वा ? यद भिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।
प्रमाणत्वादनियमात्प्रवृत्तेः संविदाश्रयात् ।
समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥
प्रमाणं हि शब्दः प्रतिज्ञायते । बोधकं च प्रमाणम् । तत्र प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते । स्वयमेव तु प्रवृत्तेः कारकस्तां प्रमाणतामपजह्यात् । न हि कारको हेतुः प्रमाणम् । अपि तु ज्ञापकः । निष्कृष्याऽभिधानात् तस्य च व्युत्पादनात्प्रकर्षोपपत्तेरर्थवदेतत्प्रकरणमिति8 । तत्र प्रथमं तावद्विप्रतिपत्तिनिमित्तं विमर्शमाह—स खलु शब्दभेदो वा । लिङादिः शब्दान्तराद्भिद्यते इति भेदः । तस्य खलु लिङादेरयस्कान्तमणेरिव वस्तुस्वभावजोऽतिशयो येन लोहमिव चेतनं प्रवर्तयति ?, तद्व्यापाराऽतिशयो वा, प्रवृत्तिहेतुरुपेयते अर्थभेदो वा वक्ष्यमाणभेदः । ? यद्यर्थभेदः, कथं तर्हि चोदनेति क्रियायाः प्रवर्तकं वचनमिति विधिना त्वेकवाक्यत्वादिति चेत्यत आह—यदभिधानाच्छब्दोऽपि तथा व्यपदेश्यः ।
तत्र शब्दस्वरूपस्य तावद्विधिभावं निषेधति—
प्रामाणत्वादनियमात् प्रवृत्तेः संविदाश्रयात् ।
समभिव्याहृतेः शब्दो न विधिः कार्यकल्पनात् ॥
कारिकां व्याचष्टे—प्रमाणं हि शब्दः प्रतिज्ञायते चोदनालक्षणोऽर्थो धर्म इति । बोधकं च प्रमाणम् । अबाधिताऽनधिगताऽसन्दिग्धाऽर्थप्रमाजनकम् । तत्र च प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते शब्दस्वरूपविधिवादिनां मते । स्वयमेव तु प्रवृत्तेरप्रमायाः कारकस्तां प्रमाणतामपजह्यात् । नन्वप्रमाया9 अपि प्रवृत्तेः कारकः कस्मान्न प्रमाणमत आह—न हि कारको हेतुः प्रमाणम् । मा भूद् वीजादीनामङ्कुरादिकारकाणां प्रामाण्यम् । किं तर्हि प्रमाणकमित्यत आह—अपि तु ज्ञापकः । इन्द्रियादौ तथाभावात्10 ।
ननु मा नामवादीत्प्रवृत्तिहेतुं कञ्चनाऽर्थातिशयम्, अस्तु शब्दः स्वयमेव प्रवृत्तिहेतुः । तथापि यत्र प्रवृत्तिरनेन जनयितव्या तद्विषयः11 पुरुषस्य 12
विषयाऽवबोधनान्न दोष इति चेत् ? न । तन्मात्रस्याऽन्यत्राऽपि तुल्यत्वात् । चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽनर्थक्यात् । शब्दस्वातन्त्र्ये च नियोगतोऽवश्यं प्रवृत्तिः स्यात् । तथा चाऽकुर्वन् विहितं कर्मेति निर्विषयं स्यात् । न हि तदानीं बलवदनिलसलिलौघनुद्यमानस्येवेच्छाऽपि तन्त्रं प्रवृत्तिं प्रति पुरुषस्य । ज्ञापकश्च स्वरूपकर्मसम्बन्धविषयज्ञानमपेक्षते । लिङादिस्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसंविदो ऽपि पुंसः प्रवृत्तिप्रसङ्गः ।
व्यापारो बोध्यते13 इति कारकहेतोरपि विषये प्रमाजनकत्वात्प्रमाणतोपपत्स्यते । अङ्कुरस्येव पचादिहेतोः स्वाकारणं प्रमाषयत इति शङ्कते— विषयाऽवबोधनान्न दोष इति चेत् ? । निराकरोति—नेति । कुतः ? तन्मात्रस्याऽन्यत्रापि14 वर्तमानापदेशेऽपि चैत्रः पचतीत्यादौ तुल्यत्वात् । न हि तत्र भावना यत्र नाऽबगम्यते । अस्तु तुल्यता, का नो हानिरित्यत आह— चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमाऽऽनर्थक्यात् । प्रवर्तकत्वं चोदनात्वं प्रवृत्तिहेतुं कञ्चनाऽर्थाऽतिशयमवगमयन्ननेन रूपेण प्रामाण्यमश्नुते, न भावनामात्रवचनत्वेन । तस्याऽन्यत्राऽपि तुल्यत्वात् । तस्माद्येन रूपेण प्रामाण्यं न तेन चोदना, येन चोदना न तेन प्रामाण्यम्, तस्य प्रवृत्तिं प्रति कारकत्वादित्यर्थः । प्रमाणत्वादिति हेतुं व्याख्याय अनियमात् प्रवृत्तेरिति व्याचष्टे, शब्दस्वातन्त्र्ये च पुंसः प्रवृत्तौ नियोगतोऽवश्यं प्रवृत्तिः स्यात् । भवतु, को दोष ? इत्यत आह—तथा चाऽकुर्वन् विहितं कर्मेति धर्मसूत्रकारवचनं निर्विषयं स्यात् ।
नन्विच्छाधीनप्रवृत्तित्वात्पुंसां तस्याश्च कादाचित्कत्वात् न विहितेऽप्यवश्यम्भावनियमः प्रवृत्तेरिति सम्भवति विहिताकरणेन15 निर्विषयता वचनस्य, इत्यत आह—न हि तदानीं बलवदनिलसलिलौधनुद्यमानस्येवेच्छाऽपि तन्त्रं प्रवृत्ति प्रति पुरुषस्य । संविदाश्रयादिति व्याचष्टे— ज्ञापकश्च स्वरूपतत्कर्मसम्बन्धविषयज्ञानमपेक्षते, न तु कारकः16 । लिङादिस्वरूपं च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसंविदोऽपि पुंसः प्रवृत्तिप्रसङ्गः । एतदुक्त भवति, स्वकार्ये संविदाश्रयत्वं ज्ञापकत्वेन
ननु शङ्खध्वनिवदेतत् स्यात् ? यथा हि शङ्खशब्दात् प्रवर्तितव्यमित्युपयुक्तस्वरूपसम्बन्धसंविद एव प्रवर्तन्ते, नेतरे । न च शङ्खशब्दः प्रवृत्तेरभिधायकोऽन्यस्य वा कस्य चित्प्रवृत्तिहेतोः, येन ज्ञापकः स्यात् । वार्तमेतत् । न हि शङ्खध्वनिः प्रवृत्त्युपयुक्तसङ्गतितया प्रवृत्तिकारणं शङ्खशब्दात् प्रवर्तितव्यमिति, अपि तु प्रवर्तितव्यमिति । प्रकृत्यर्थाऽतिरिक्ते प्रत्ययार्थे च विधेयस्य पुंसोऽभिप्रायभेदे कृतसङ्केतस्तमनुस्मारयति ।
व्याप्तम्, धूमादौ तथा दर्शनाद् वीजादौ चाऽनुपलब्धेः । तदिह तद्विरुद्धकारकत्वोपलब्धिरूपाऽनुपलब्धिरेव17 संविदाश्रयत्वं नित्रर्तयेदिति ।
चोदयति ननु शङ्खध्वनिवदेतत् स्यात् ? । तदेव स्फुटयति—यथा हि शङ्खशब्दात् प्रवर्तितव्यमिति प्रवृत्युपयुक्तस्वरूपसम्बन्धसंविद18 एव प्रवर्तन्ते नेतरे । न चाऽस्य तत्र ज्ञापकत्वम्, अनभिधानात् । अपि तु19 कारकत्वमेवेत्याह—न च शङ्खशब्दः प्रवृत्तेरभिधायकोऽन्यस्य वा कस्यचित्प्रवृत्तिहेतोः, येन ज्ञापकः स्यात् । अनभिधायकोऽपि शङ्खध्वनिर्न प्रवृत्तौ कारकोऽपि तु प्रवृत्तिहेतुमभिप्रायविशेषमनुविधेयस्याऽवगयमन् ज्ञापक एवेति न व्यभिचार इति । परिहरति—वार्तमेतत् । न हि शङ्खध्वनिः प्रवृत्त्युपयुक्तसङ्गतितया प्रवृतेः कारणम् । कुतः ? शङ्खशब्दात् प्रवर्तन्ते इत्यस्मादपि स्वकार्यप्रवृत्तिं20 प्रति कारणत्वमस्याऽवगम्यते । हेतौ पञ्चमीविधानात् । ततश्चाऽनेन प्रकारेण विदितस्वकार्यशब्दाच्छङ्खध्वनेरेवाऽभिप्रायविशेषाऽनुमानसिद्धात् प्रवृत्तिप्रसङ्गात्21 । कथं ततः22 प्रवृत्तिरित्यत आह— अपि तु प्रवर्तितव्यमिति प्रकृत्यर्थाऽतिरिक्ते प्रत्ययार्थेऽनुविधेयस्याऽभिप्रायभेदे23 आज्ञादौ कृतसम्बन्धः कृतसङ्केतस्तमनुस्मारयति । तमभिप्रायविशेषमुपलक्षणीकृत्याऽनुमातुमुद्दिश्येति24 यावत् । स्मारयति सम्बन्धम् । ततः कृतसम्बन्धस्मरणसहकारिणः शङ्खध्वनेरेवाऽभिप्रायविशेषाऽनुमानसिद्धिः ।
क्वचित्पाठः । कृतं सम्बन्धमनुस्मारयति तावत् । अथ तत्स्मरणसहकारी सन्नभिप्रायभेदमनुमापयतीति द्रष्टव्यम् । एतेन शङ्खध्वनेर्ज्ञापकत्वाद् व्यभिचार इति दर्शितम् । भवत्वेवं, प्रवृत्तिस्तु कुत इत्यत आह— ततो ऽभिप्रायभेदादनुमितात्तदनुविधायिनः प्रवर्तन्ते ।
ततस्तदनुविधायिनः प्रवर्तन्ते । अविदितविषयतया नाऽनधिगतसमयाः प्रवर्तन्ते इत्यपि मिथ्या । तन्मात्रसङ्गतिज्ञस्याऽपि तत्प्रसङ्गात् । अप्रत्ययपूर्वायां च शब्दपरतन्त्रस्य प्रवृत्तौ विषयवेदनाऽनुपयोगात् । प्रबलपवनेरितस्येवाऽन्धपङ्ग्वादेर्न वेदनं प्रवृत्त्यङ्गम् । कारको अपि प्राणिस्थोऽहिदंशो ज्ञानमपेक्षते । नैवम् । ज्ञानस्यैव तत्र कारकत्वात् । विनाऽप्यहिदंशं शङ्काविषेणाऽपि मरणदर्शनात् ।
योऽप्याह—अभिधेयविज्ञानं प्रति कारकहेतुरपि शब्दो यथा शक्तिज्ञानमपेक्षते तथा प्रवृत्तिशक्तिसंविदमपीति । तेनाऽपि न ज्ञापकादन्यत्र ज्ञानाऽपेक्षा प्रदर्श्यते । ज्ञानकरकस्यैव ज्ञापक इत्याख्यानात् ।
ननु भवतु प्रवृत्तेः कारको यत्र त्वनेन प्रवर्तयितव्यः पुरुषः स विषयोऽज्ञातो न25 प्रवृत्तिविषयो भवतीति तत्र लिङादिर्ज्ञापको ऽभ्युपगन्तव्यः । तथा चाऽस्य संविदाश्रयत्वमुपपन्नम् । प्रवृत्तिकारकस्याऽपि प्रवृत्तिविषये प्रामाण्यादित्यत आह—अविदितविषयतया नाऽनधिगतसमयाः पुमांसो लिङादिभ्यः प्रवृत्तिकारकेभ्योऽपि प्रवर्तन्ते इत्यपि मिथ्या । कुतः ? तद्विषयमात्रसङ्गतिज्ञस्याऽपि तत्प्रवृत्तिप्रसङ्गात् । दूषणान्तरमाह—अप्रत्ययपूर्वायाञ्च शब्दपरतन्त्रस्य प्रवृतौ विषयवेदनाऽनुपयोगात् । कस्मादुपयोगो नास्तीत्यत आह—प्रबलपवनेरितस्येव नाऽन्धपङ्ग्वादेर्वेदनं प्रवृत्त्यङ्गम् । चोदयति—कारकोऽपि प्राणिस्थोऽहिदंशो26 ज्ञानमपेक्षते इति व्यभिचारः । परिहरति—नैवम् । ज्ञानस्यैव तत्र कारणत्वात्27 । कुतः ? विनाऽप्यहिदंशं शङ्काविषेणाऽपि28 मरणदर्शनात् । दंशस्यैव मरणकारणत्वेऽसति तस्मिन् न शङ्काविषेण प्रेयात् । न जातु बीजविज्ञानमङ्कुरमसति बीजे जनयति । बालानामपि प्राग्भवीयभावनाप्रबोधादहिदंशविज्ञाने सति भयसम्भवान्मरणमिति मन्तव्यम् ।
योऽप्याह—अभिधेयविशेषविज्ञानं प्रति कारकहेतुरपि शब्दो यथा शक्तिज्ञानमपेक्षते तथा प्रवृत्तिशक्तिसंविदमपीति । तेनाऽपि न ज्ञापकादन्यत्र ज्ञानाऽपेक्षिता प्रदर्श्यते । ज्ञानकारकस्यैव ज्ञापक इति आख्यानादिति न सपक्षेण व्यभिचार इति भावः । सर्वस्यैव ज्ञापकस्य कार्यजनकतास्वरूपतच्छक्तिसंविदाश्रयभावितोक्तेति29 मत्वा भ्रान्तश्चोदयति । ननु
ननु ज्ञानकारकोऽपि चक्षुरादिर्न शक्तिज्ञानमपेक्षते । किमतः ? शब्दस्याऽकारकत्वप्रसङ्गः30 । अयमपरो दोषः । कुतस्तर्ह्यर्थबोधः ? अभ्यासात् कशाऽङ्कुशवत् । उक्तञ्च—
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।
बालानां च तिरश्चां च यथाऽर्थप्रतिपादने ॥
ज्ञानकारकोऽपि चक्षुरादिर्न शक्तिज्ञानमपेक्षते । समाधातुं निगूढाऽभिसन्धिराह—किमतः ? आन्तरे पत्रार्श्वस्थः प्रसङ्गमापादयति—ज्ञानं प्रति31 शब्दस्याऽकारकत्वप्रसङ्गः । ज्ञानकारकचक्षुरादिवैधर्म्यात् । अत्राऽनन्तरतया पार्श्वस्थं प्रति तावदुत्तरमाह—अयमपरो दोषः । न वयं मीमांसकाः, येन शब्दार्थयोः स्वाभाविकं सम्बन्धमाचक्ष्महे इति भावः । ननु यद्यवाचकः शब्दः, कुतस्तर्ह्यर्थबोधः ? न च नास्तीति वक्तव्यं, वचनेन भवतो32 ऽस्मत्प्रतिपादनायाऽप्रवृत्तिप्रसङ्गादिति भावः । उत्तरम्—अध्यासात् कशाङ्कुशाऽभिघातवत्33 । नाऽभिधानाऽधीनोऽर्थबोधः शब्दादपित्वभ्यासाऽधीनः34 । यथा हि खलु कशाऽङ्कुशाऽभिघातादयोऽनभिघायका अपि वाजिगजादीनामभ्यासात् स्वतः35 प्रवृत्तिनिवृत्तिहेतुमर्थप्रतिभासां प्रतिभां भावयन्तः प्रवर्तका36 निवर्तकाश्च तथा सङ्क्षेपतः सर्वः शब्दो37 व्युत्पन्नानामव्युत्पन्नानां चेह जनयतीत्यर्थः । उक्तञ्च—
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दः समासतः ।
व्युत्पन्नानां38 पुनरर्थाभिधानतः39 । अभ्यासजनितां भावनामभ्यासशब्देनाह । कार्ये कारणोपचारात् । अयं च प्राग्भवीयोऽभ्यासोऽवश्याऽभ्युपेय इत्यत्र दृष्टान्तमाह—
बालानां40 च तिरश्चां च यथाऽर्थप्रतिपादने ।
न हि तेषां प्राग्भवीयभावनामन्तरेण प्रवृत्तिनिवृत्तिहेतुभूताऽर्थप्रतिभासप्रतिभोत्पादनसम्भवः4142 । अर्थाऽऽभासप्रतिभोत्पादनेन चाऽर्थप्रतिपादनमुक्तम् । एतच्च सिद्धान्ते विस्तरेण वक्ष्यते ।
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । इति ।
न च ब्रूमः सर्वो ज्ञापको ज्ञानाऽपेक्षः, किन्तु स एव, नेतरः । बीजादिष्वदर्शनात् ।
न च दृष्टविपरीतस्वभावकल्पना लिङादीनाम् अनुपपत्त्या । तादृशाऽनुसारेणाऽप्युपपत्तेः । प्रत्ययश्च सहाऽभिधानात्प्रकृत्या, तदनुवादाद्वा, अनागमश्च सोऽभ्यासः आगम्यते प्राप्यतेऽस्मादिति कारणमागमः । अविद्यमान आगमो यस्मिन्नसावनागमोऽनादिरित्यर्थ । समयः कैश्चिदिष्यते । समय इत्यादिमत्तामाह43 । नैयायिकादयो हीश्वरनिर्माणं शब्दार्थसम्बन्धं44 समय इत्याचक्षते । स चाऽभ्यासस्य भावनाया विषय इत्यभ्यास उक्तः । एवं पार्श्वस्यं निराकृत्य प्रकृतं चोदकं प्रत्युत्तरमाह—न च ब्रूमः, सर्वो45 ज्ञापको ज्ञानाऽपेक्षः46 किन्तु स एव ज्ञापक एव, नेतरः कारकः । कुतः ? बीजादिष्वङ्कुरादिकारकेष्वदर्शनात् ज्ञानाऽपेक्षाऽवधार्यते स तु ज्ञापकः47 एतेन निगूढोऽभिसन्धिरुद्घाटितः ।
ननु ज्ञापकत्वे समानेऽपि केचिदनाश्रितसंविदो ज्ञानं जनयन्ति, यथा चक्षुरादयः । केचित्पुनराश्रितसंविदः,48 यथा धूमादयो धूमध्वजादिविज्ञानम् । एवं यद्यप्यन्ये कारकाः हेतवः स्वकार्यजननं प्रत्यनाश्रितसंविदस्तथाऽपि शब्दप्रवृत्तिकारकोऽपि संविदमाश्रयिष्यते49 अन्यथा प्रवृत्त्यनुपपत्तिरित्यत आह—न च दृष्टविपरीतस्वभावकल्पना लिङादीनामन्यथाऽनुपपत्त्या । कुतः ? प्रवृत्तिहेतुभूताऽर्थज्ञापकतया दृष्टाऽनुसारेणाऽप्युपपत्तेः50 । प्रकृतिप्रत्यययोः सहाऽभिधानम् । तथा च प्रत्ययश्च सहाऽभिधानात्प्रकृत्या सह समभिव्याहारमर्हति नाऽन्यथा । सहाऽभिधानप्रकारं दर्शयति—तदनुवादाद्वा
तद्द्योतनाद्वा, तत्सम्बन्ध्यर्थान्तराऽभिधानाद्वा तया समभिव्याहारमर्हति । अवाचकस्य तु प्रवृत्तेः कारकस्य स न युक्तः । सङ्ख्याद्यभिधेयान्तरनिबन्धनः स इति चेत् ?
अस्तु । प्रवृत्तेस्तु प्रत्ययेनाऽप्रतिपाद्यमानायाः कथं प्रवत्यभिसम्बन्धः ? अभिधयैव प्रत्ययस्य प्रकृत्यर्थाऽनुरक्ता प्रवृत्तिरिति चेत् ? न तावद्भावना कार्यरूपा लिङाद्यभिधेयेति शब्दविधिवादिभिः शक्यं वक्तुम् । तस्यां तर्हि तादृशलिङादेः कारकत्वेन सङ्गतिः । समभिव्याहृतिस्तु तस्या । वाच्यं
प्रकृत्यर्थाऽनुवादात् । यथैको द्वौ बहवः इति । तद्द्योतनाद्वा प्रकृत्यर्थद्योतनाद्वा । यथा कुमारीति ईप्रत्ययः51 स्त्रीत्वं द्योतयति । तत्सम्बन्ध्यर्थान्तराभिधानात् । यथा पचति पाचको दण्डीति तिवके52 नयः प्रकृत्यर्थविशिष्टभावनाः कर्तृसम्बन्धार्थाः । अस्तु, प्रस्तुते किमायातमित्यत आह—अवाचकस्य तु लिङादेः प्रवृत्तेः कारकस्य न समभिव्याहारो युक्तः । सहाऽभिधानाऽसम्भवात् । शङ्कते—अभिधेयान्तरनिबन्धनः स इति चेत् ? । न हि वयमनभिधेयतां53 सर्वथैव लिङादीनां ब्रूमः, येन सहाऽभिधानासम्भवात् प्रकृत्या54 समभिव्याहृतिर्न स्यात् । किन्तु कर्तृसङ्ख्यादयो हि तस्याऽभिधेयाः । ते च कथञ्चित्कृत्या सम्बद्धा इति समभिव्याहारोपपत्तिरित्यर्थः । निराकरोति—अस्तु समभिव्याहारमात्रम्, विशेषस्तु न सिध्यतीत्याह—प्रवृत्तेस्तु प्रत्ययेनाऽप्रतिपाद्यमानायाः कार्यायाः कथं प्रकृत्यर्थसम्बन्धः ? न खलु समभिव्याहारमात्रं लिङादीनां प्रकृत्या सहाऽवगम्यते, अपि तु कर्तव्यतोपहितसीमानं प्रवृत्तिभावनां प्रकृत्यर्थविशिष्टामभिदधताम् । न च कर्तृसङ्ख्याद्यभिधाने सत्य55 प्ययं विशेषः सेद्धुमर्हतीत्यर्थः56 । शङ्कते—अभिधेयैव प्रत्ययस्य प्रकृत्यर्थाऽनुरक्ता प्रवृत्तिर्भावना । तेन समभिव्याहारविशेष57 उपपन्न इति चेत् ? निराकरोति—न तावद्भावना कार्यरूपा लिङाद्यभिधेयेति शब्दस्वरूपविधिवादिभिः शक्यं वक्तुम् । कर्तव्यताऽऽकाराया58 एव भावनायाः प्रवृत्तिहेतुतया विधित्वेन शब्दस्वरूपस्य तत्त्वाऽनुपपत्तेः । तस्मात्प्रवृत्तिमात्रं लिङाद्यर्थो न पुनः कर्तव्यतारूपेति तैरभ्युपगन्तव्यम् । तथा च तस्यां तर्हि प्रवृत्तौ तादृश्यां कर्तव्यताऽऽकारायां लिङादेः कारकत्वेन सङ्गतिर्न पुनरभिधायकत्वेनेति प्रकृत्यर्थाऽनुरक्तकार्य
लक्ष्यं वा तथाविधेन सम्बन्धमुपाश्नुते । अप्रतीतयोर्घटनाऽयोगात् । कार्यायां तु प्रवृत्तौ न नियमनिमित्तं समस्ति अनभिधेयस्य प्रवृत्तिहेतोः । अपि चाऽश्रुतफलेषु फलाऽध्याहारः, क्वचित् क्रतूपकारकल्पना, श्रुतानामपि स्वर्गादीनां फलत्वाऽध्यवसाय इति सर्व एष59 महिमा विधेः । स शब्दस्य तद्भावेऽनुपपन्नः । न हि तदा शब्दादनवगम्यमानमन्यथा गम्यते । न हि लिङादिस्वरूपस्यैवाऽन्यथाऽनुपपत्तिः । प्रवर्तकस्येति चेत् ? न । तस्याऽपि पवनादिवर्तिन इवोपपत्तेः फलरूपं कारकं विना । तस्मान्न विधिः शब्दस्तद्व्यापारो वा ।
रूपप्रवृत्त्यभिधायकत्वेन रूपेण । विशिष्टसमभिव्याहृतिस्तु कुतः60 सा किमित्यहेतुकेत्यत आह—वाच्यं लक्ष्यं वा तथाविधेन वाच्येन लक्ष्येण वा सम्बन्धमुपाश्नुते । शब्दादप्रतीतयोर्घटनाऽयोगात् । शाब्दे प्रमेये प्रवृत्तिमात्रस्याऽभिधेयत्वात् । कार्यायां तु कर्तव्यताऽऽकारायां प्रवृत्तावनभिधेयायां न नियमनिमित्तं विशिष्टसमभिव्याहारनिमित्तं समस्ति अनभिधेयस्याऽविद्यमानविशिष्टाऽभिधेयस्य शब्दस्वरूपविधिवादिनो61 मते प्रवृत्तिहेतोर्लिङादेः । कार्यकल्पनादिति विवृणोति—
अपि चाऽश्रुतफलेषु पिण्डपितृयज्ञादिषु स्वर्गादिफलाऽध्याहारः । क्वचित् क्रतूपकारकल्पना समिधादौ । श्रुतानामपि पुरुषविशेषणतया स्वर्गादीनां फलत्वाऽध्यवसाय इति सर्व एष महिमा विधेः । स शब्दस्य तद्भावे विधिभावेऽनुपपन्नः । कस्मात् ? न हि तदा शब्दादनवकल्प्यमानमन्यथा फलं क्रतूपकारं विनाकिञ्चिद्गम्यते62 । यच्छब्दादवगतं63 फलादिना विनाऽनुपपद्यमानं फलादीनां कल्पनाबीजं भवेत् । मा भूद् लिङादिगम्यस्याऽन्यथाऽनुपपत्तिः । लिङादिरेव सेति64 चेत्तत्राह—न हि लिङादेः स्वरूपस्यैवाऽन्यथाऽनुपपत्तिः । न हि तद्रूपस्य श्रोत्रग्राह्यस्य सान्निध्ये फलादि वर्तते, येन तद्विना नोपपद्यते । शङ्कते—प्रवर्तकस्येति चेत् ? लिङादयः खलु पुंसां प्रवर्तकाः । न चैते निष्फले प्रवर्तयितुं पुरुषमीशते इति तदन्यथाऽनुपपत्त्या फलकल्पनेत्यर्थः । निराकरोति—न । तस्याऽपि प्रवर्तकत्वस्य पवनादिवर्तिन इवोपपत्तेः । न हि यो यः प्रवर्तयति स सर्वः फलमपेक्षते । पवनादीनां प्रवर्तयतामपि तदनपेक्षत्वदर्शनादित्यर्थः । कारिकार्थमुपसंहरति—तस्माद्धेतुपञ्चकान्न विधिः शब्दः । तद्व्यापारो वा न विधिः । अत एव हेतुपञ्च
नन्वनभिधेये एते दोषाः, अभिधेय एव तु लिङादिशब्दानां पुरुष प्रति प्रयोजकव्यापार आत्मीयः प्रवर्तना । एवं ह्यक्तम् । “अभिधाभावनामाहुरन्यामेव लिङादयः” । तथा च ज्ञापकत्वात्प्रामाण्यम् । प्रवृत्तिहेतुं बुद्ध्वा पुरुषस्येच्छया प्रवृत्तिः सम्बन्धबोधाऽपेक्षा च अभिधेयसम्बन्धनियमश्च । अभिधेयत्वात् । प्रतीतप्रवर्तनाऽन्यथाऽनुपपत्त्या कार्यकल्पनेति ।
नैतत्सारम् ।
न प्रयोगाऽनिरूप्यत्वाद्वैयर्थ्यात्पूर्वदोषतः ।
अप्रवृत्तेः फलाऽयोगाद्रूपोक्तेर्व्यापृतिः श्रुतेः ॥
विधिरित्यनुषज्यते । न हि प्रेरणाऽध्येषणाऽभ्यनुज्ञालक्षणः शब्दस्य काञ्चोदयति—नन्वनभिधेयशब्दव्यापारे एते दोषाः पूर्वोक्ताः । अभिधेये एव तु लिङादिशब्दानां पुरुषं प्रवर्तमानं प्रयोज्यं प्रति प्रयोजकव्यापार आत्मीयः प्रवर्तना । न चैतत्स्वोत्प्रेक्षितमित्याह—एवं ह्युक्तम्—
“अभिधाभावनामाहुरन्यामेव लिङादयः” । इति ।
अभिधायाः शब्दस्य भावनां प्रवर्तनामाहुरित्यर्थः । एवं च यत्कारणत्वेनाऽप्रामाण्यमासञ्जितं65 तत्स्वकार्यप्रवर्तनाज्ञापकत्वेन परिहृतं भवतीत्याह—तथा च ज्ञापकत्वात् प्रामाण्यम् । इच्छासहकारिणश्च प्रवर्तकत्वात् इच्छायाश्चाऽवश्यम्भावाऽनियमात66 । प्रवृत्तिनियमोऽप्युपपन्न इत्याह— प्रवृत्तिहेतुं बुद्धवा पुरुषस्येच्छया प्रवृत्तिः । ज्ञापकत्वे सति संविदाश्रयत्वमप्युपपन्नमित्याह—सम्बन्धबोधाऽपेक्षा च । प्रकृत्यन्तराऽनुरक्तप्रवर्तनाऽभिधायिना67 च प्रत्ययेन सह प्रकृतेः समभिव्याहारविशेषोऽप्युपपन्न इत्याह— अभिधेयसम्बन्धनियमश्च । अभिधेययोर्धात्वर्थप्रत्ययार्थप्रवर्तनयोः सम्बन्धनियमात्प्रकृतिप्रत्यययोः समभिव्याहारविशेषोऽप्युपपन्न इत्यर्थः । कुतः ? प्रवर्तनाया अभिधेयत्वात् । शब्दव्यापारश्चाऽभिहित68 इच्छासहकारी प्रवर्तयतीति । कार्यकल्पनाऽप्युपपन्नेत्याह—शब्दप्रतीतप्रवर्तनाऽन्ययाऽनुपपत्त्या कार्यकल्पनेति । तदेतद् दूषयति—नैतत्सारम् । तथा हि ।
न प्रयोगाऽनिरूप्यत्वाद्वैयर्थ्यात्पूर्वदोषतः ।
अप्रवृत्तः फलाऽयोगाद्रूपोक्तेर्व्यापृतिः श्रुतेः ॥
वेधिरित्यनुषज्यते । स च न व्यापृतिः श्रुतेरिति निषिध्यते । प्रयोगाऽनिरूप्यत्वादिति विवृणोति—न हि प्रेषणाऽध्येषणाऽभ्यनुज्ञालक्षणः
व्यापारो निरूप्यते । तस्य पुरुषधर्मत्वात् । नाप्यन्यस्तत्समर्थाचरणलक्षणः कारीषादिवत् । अनुपलब्धेः । तत एवोपलब्धिः सम्बन्धाऽपेक्षणादसमीचीना । न च णिज्वत्प्रेषणाद्यतिरिक्ते तत्समर्थाचरणमात्रे लिङादयो निरूपितप्रयोगाः । कारीषादिस्तु शीतापनोदनादिना शक्ततां सम्पादयन् प्रवृत्तिहेतुः । शब्दस्तु कथमिति न निरूप्यते ।
शब्दस्य प्रयोगो व्यापारो निरूप्यते । ननु शब्दोच्चारणाऽनन्तरं तदवगमात्तेनोक्तमितिकथं69 प्रेषणादिलक्षणः शब्दप्रयोगो न निरूप्यत इत्याह—तस्य पुरुषधर्मत्वात् । सत्यं शब्दविज्ञानाऽनन्तरमुपलभ्यते । न70 त्वसौ शब्दस्याऽभिप्रायभेदत्वात् । प्रेषणादेरचेतनत्वेन शब्देऽसम्भवादित्यर्थः ।
अथ मा भूवन् प्रेषणादयः पुरुषधर्माः शब्दे, यथा तु कारीषोऽग्निरध्यापयतीत्यध्ययनप्रवृत्तौ71 समर्थ शीताऽपनोदनमध्येतुर्भावयन् कारीषो ऽग्निरध्ययने प्रवर्तयति पुरुषम् एवं लिङादयोऽपि प्रवृत्तिसमर्थं कञ्चिदुपकारं पुरुषस्याऽऽचरन्तः स्वव्यापारेण प्रवर्तयिष्यन्तीत्यत आह—नाप्यन्यः प्रेषणादिभ्यस्तत्समर्थाऽऽचरणलक्षणः कारीषादिवत् । कुतः ? अनुपलब्धेः । प्रमाणान्तरेण ।
यद्युच्येत, मा ज्ञायि प्रामाणान्तरेण, शब्दादेव स व्यापारोऽवगंस्यते72 इत्यत आह—तत एवोपलब्धिरसमीचीना । कुतः ? सम्बन्धग्रहणाऽपेक्षणात्73 । अयमर्थः74 । गृहीतसम्बन्धः खलु शब्दः स्वार्थमवबोधयति । सम्बन्धबोधश्च सम्बन्धिसंवेदनाऽधीनः75 । शब्दादेव चेदर्थः सम्बन्धी प्रतिपतव्यो, दुरुत्तरमितरेतराश्रयं प्रसज्येत; सम्बन्धबोधे शब्दोऽर्थमवबोधयति, तदवबोधे च सम्बन्धबोध इति । ननु यथा णिच्प्रत्ययः कारीषादीनामध्ययनप्रवृत्यनुकूलं व्यापारमभिधत्ते अभिधास्यन्ते तथा लिङादयः स्वव्यापारमेव पुरुषप्रवृत्त्यनुकूलां प्रवर्तनामित्यत आह—न च णिज्वत् प्रेषणाद्यतिरिक्ते तत्समर्थाऽऽचरणमात्रे लिङादयो निरूपितप्रयोगाः मानान्तरेण लिङादीनां व्यापारस्याऽनुपलब्धेरित्युक्तम् । णिज्वाच्यस्तु कारीषादीनां व्यापारो न तथेत्यत आह—कारीषादिस्तु शीताऽपनोदनादिना शक्ततां सम्पादयन् प्रवृत्तिहेतुः । शब्दस्तु कथमिति न निरूप्यते, वैयर्थ्यादिति
स्यान्मतम्—पवनादिरिव लिङादि प्रेरयति पुरुषम् । तदसत् । अभिधानवैयर्थ्यात् । अप्रतीतव्यापारस्याऽपि वाय्वादेरिव स्वभावत प्रेरकत्वात् । पूर्वोक्तदोषापाताच्च । न हि प्रवृत्ति प्रति कारकत्वे शब्दस्य सदपि तद्व्यापाराऽभिधानमङ्गम् । अनभिहितव्यापारस्याऽपि तस्य कारकत्वात्76 । कारकस्याऽनपेक्षितज्ञानत्वात77 । उपेत्यापि तु शब्दस्य प्रयोग ब्रूम । न प्रवर्तेन पुरुष । प्रवतयतोऽपि शब्दस्याऽननुरोध्यत्वात् । न हि सर्वस्मिन् प्रवतयितरि प्रवृत्ति प्रेक्षावताम्, अपि त्वनुविधेये । न चार्थाऽनथप्राप्तिपरिहाराद्यनुविधानकारण स्वाम्यादाविव शब्दे समस्ति । फलात्प्रवृत्तौ तद्वयथ्यम् । तत एव फलाऽवगमादवैयर्थ्यमिति चेत् ? तन्न ।
विवरीतु शङ्कते—स्यान्मतम् । पवनादिरिव लिङादि प्रेरयति पुरुषम्, कि मानान्तरतस्तद्व्यापारग्रहणेनेति । निराकरोति—तदसत् । अभिधानस्य वैयर्थ्यात् । कुत ? अप्रतीतव्यापारस्याऽपि78 लिङादेर्वाय्वादेरिव स्वभावत प्रेरकत्वात्, पूर्वोक्तदोषाऽऽपाताच्च । अप्रमाणत्वादिदोषप्रसङ्गादित्यर्थ ।
नन्वनभिधेयत्वे व्यापारस्यैते दोषा न त्वभिधेयत्वे इत्युक्तम्, अत आह—न हि प्रवृत्तिकारकत्वे शब्दस्य सदपि तद्व्यापाराऽभिधानमङ्ग प्रवृत्ति प्रति । अनभिहितव्यापारस्याऽपि तस्य कारकत्वात् । कुत ? कारकस्याऽनपेक्षितज्ञानत्वात् । एतेन वैयर्थ्यात्पूर्वदोषत इति च विवृते । अप्रवृत्तेरिति विवृणोति—उपेत्याऽपि तु शब्दस्य प्रयोग ब्रूम, न प्रवर्तेत पुरुष । कुत ? प्रवर्तयतोऽपि शब्दस्याऽननुरोध्यत्वात् । न हि सर्वस्मिन् प्रवर्तयितरि प्रवृत्ति प्रेक्षावताम्, अपि त्वनुविधेये । अथाऽनुविधेय शब्द कस्मात्तेन भवतीत्यत आह—न चार्थाऽनथप्राप्तिपरिहाराद्यनुविधानकारण स्वाम्यादाविव शब्दे समस्ति । आदिशब्दाभ्या करुणादु खिनोर्ग्रहणम् । यद्युच्येत, फलप्राप्तिरनुविधानकारणमस्तीति, तत्राह—फलात्प्रवृत्तौ तद्वैयर्थ्यम् । तदिति शब्दव्यापार परामृशति । शङ्कते—तत एव शब्दव्यापारात् शब्देन कृताऽवभासनात्79 फलाऽवगमादवैयर्थ्यमिति चेत् ? तन्न । फलाऽयोगात्, स्वव्यापारेण कृताऽवभासनेन । शब्दे प्रवर्तयितरि फलस्याऽयुक्तत्वमाह—आप्ते हि सप्रत्ययक्रिये हितकरे एव प्रवर्तयितरि अन्यथाऽनुपपत्त्या फलाऽवगम । प्रमाणेन हिताऽहितप्राप्तिपरिहारोपायतत्त्वाऽवगतिराप्ति, तया सह वर्तते इत्याप्तस्तस्मिन् । स च हिताऽहितप्राप्तिपरिहारोपायतत्त्वाऽवगतावपि कदाचिदकारुणिकतया नोपदिशति । अत उक्तम—हितकरे परेषाम् । एते च तत्त्वज्ञानकारुण्य परात्मवर्तिनी इति
फलाऽयोगात् । आप्ते हि सप्रत्ययक्रिये हितकरे एव प्रवर्तयितरि अन्यथानुपपत्त्या फलाऽवगम । शब्दे तु किमनुपपन्नम् ? प्रवर्तनामात्रस्य वाय्वादाविव विपरीतेऽप्युपपत्ते ।
पुरुषश्रेयोऽर्थ प्रवृत्ते शास्त्रस्य नैवमिति चेत् ? न । प्रमाणाऽभावात् । प्राक् शास्त्रत्वाऽसिद्धे । लिङादिव्यापारे च विधौ स्वरूपाऽभिधानप्रसङ्ग । अन्यथा शब्दविशिष्टव्यापाराऽप्रत्ययात्सन्निधानाद्विशिष्टत्वेऽर्थस्यापि तत्प्रसङ्गात् । योग्यत्वस्योभयत्राऽपरिज्ञानात् । तस्मान्नाऽभिधेया भावना विधिरूपम् । कुतोऽवगम्यते इत्यत उक्तम्—सप्रत्ययक्रिये । प्रत्यय उपदिष्टस्याऽर्थस्य मानान्तरेण सवादस्तेन सह वर्तते इति सप्रत्यया क्रिया यस्योपदेशरूपा सा यस्योपदेष्टु80 स तथोक्त, तस्मिन् ।
एतदुक्त भवति । यदेव यस्मै हितमुपदिशति कम तस्य तत्प्रवृत्तौ हितप्राप्ते सवाददर्शनादुपदेष्टृवर्तिनी अपि तत्त्वज्ञानकारुण्ये ईषत्करज्ञाने एवेति तदेतस्मिन् प्रवर्तयितरि81 तत्प्रवर्तनाऽन्यथानुपत्त्या फलाऽवगम इति युक्तम् । शब्दे तु किमनुपपन्नम् ? प्रवर्तनेति चेत् ? तत्राह—प्रवर्तनामात्रस्याऽऽप्ताऽनाप्तप्रणेतृकस्य82 वाय्वादाविव विपरीतेऽप्युपपत्ते । शङ्कते— पुरुषश्रेयोऽर्थप्रवृत्ते शास्त्रस्य नैवमिति चेत् ? शासनाद्धि शिष्याणा शास्त्रमुच्यते, शासन च शङ्कितसमारोपितरूपव्यवच्छेदेन हिताऽहितप्राप्तिपरिहारोपायतत्त्वज्ञापनम्, ततश्च शास्त्रत्वादेव पुरुषश्रेयोऽवगतिरित्यर्थ । निराचष्टे—न प्रमाणाऽभावात् । प्राक् फलाऽवगमाच्छास्त्रत्वाऽसिद्धे । फलाऽवगमाच्च शास्त्रत्वे परस्पराश्रयप्रसङ्गादिति भाव ।
तदनेन फलाऽयोगादिति विवृतम् । रूपोक्तेरिति व्याचष्टे—लिङादिव्यापारे च विधौ लिङादिस्वरूपाऽभिधानप्रसङ्ग । कस्मात् ? अन्यथा यदि लिङादिस्वरूप नाऽभिधीयते ततस्तन्नाऽवगतमिति विशिष्टव्यापाराऽप्रत्ययात् लिङादे सनिधानात् तेन विशिष्टत्वेऽर्थस्याऽपि तद्व्यापारवत्त्वप्रसङ्गात् । सनिधानाऽविशेषात् । अयाऽर्थस्य प्रवर्तना प्रति योग्यत्व नाऽवधृतमिति सनिधानेऽपि न तस्य प्रवर्तना व्यापार इति तत्राह—योग्यत्वस्योभयत्राऽपरिज्ञानात् । न हि लिङादेरपि योग्यत्वमन्यतोऽवधृतमित्यर्थः । कारिकार्थमुपसहरति—तस्मान्नाऽभिधेया भावना विधिरूपम् ।
अथ मतम्—अभिधैव भावना विधिर्लिङ्गाद्यर्थ इति । अत्रोच्यते—
प्रवृत्तेः सर्वतोऽर्थे वा प्रसङ्गात्कार्यतो गतेः ।
अस्थानान्नियतेर्हेतोरभावाच्चाऽभिधैव न ॥
विधिरित्यनुषज्यते । अभिधा चेद्विधिः सर्वशब्दानां यथास्वमभिधेयेषु तद्भाव इति घटादिशब्देभ्यो ऽपि प्रवृत्तिप्रसङ्गः । अस्या83 अविशेषात् । अभिधेयविशेषाद्भेदे स एव प्रवृत्तिहेतुरन्वयव्यतिरेकाभ्याम् । अनन्यलभ्यस्तु शब्दार्थ इति स्थितौ कार्योन्नेयाया अभिधायाः शब्दार्थत्वमयुक्तम् ।
अथ मतं, नाऽभिधेया भावनाऽभिधाभावनेति, अपि त्वभिधैवाऽर्थाऽभिधाव्यापारः शब्दस्य भावना विधिर्लिङाद्यर्थ इति । तस्य च शब्दाऽर्थसंवेदनाफलप्रथितसद्भावस्य84 प्रवृत्तिजननं प्रति सामर्थ्यमात्रमुन्नेयमिति भावः ।
अत्रोच्यते—
प्रवृत्तेः सर्वतोऽर्थे वा प्रसङ्गात्कार्यतो गतेः ।
अस्थानान्नियतेर्हेतोरभावाच्चाऽभिधैव न ॥
विधिरित्यनुषज्यते । स च नाभिधेति निषिध्यते । अस्यां प्रतिज्ञायां प्रवृत्तेः सर्वतः प्रसङ्गादिति हेतुं विवृणोति—अभिधा चेद्विधिः सर्वशब्दानां यथास्वमभिधेयेषु तद्भावोऽभिधाव्यापारसद्भाव85 इति घटादिशब्देभ्योऽपि प्रवृत्तिप्रसङ्गः । कुतः ? अस्या अभिधाया अविशेषात् । यद्युच्येत, अर्थाभिधात्वमात्रेणाऽविशेषेऽपि अभिधेयविशेषाद्भेदो भविष्यत्यभिधायाः । तादृशः खल्वभिधेयविशेषो लिङादीनां, येन लिङाद्यभिधैव प्रवर्तयति, न तु घटादिशब्दाऽभिधेति, तत्राह—अभिधेयविशेषाद्भेदे स एवाऽभिधाविशेष एव प्रवृत्तिहेतुर्नाऽभिधा । कुतः ? अन्वयव्यतिरेकाभ्यामभिवेयविशेषाऽवगमे सति प्रवृत्तेः । सत्यामप्यभिधायां घटादिशब्देभ्यस्तदभावे प्रवृत्तेरभावादित्यर्थः ।
तदनेनाऽर्थे वेति विवृतम् । कार्यतो गतेरिति विवृणोति—अनन्यलभ्यस्तु शब्दार्थ इति स्थितौ सत्यामर्थप्रतीतिलक्षणकार्योन्नेयाया अभिधाया
अभिधायाश्चाऽभिधाऽपेक्षणेऽनवस्थापातात् । अर्थाऽभिधैवाऽपेक्षते इति चेत् ? न । नियामकस्य हेतोरभावात् । अर्थाऽभिधानस्य च । न ह्यत्र हेतुरस्ति । अर्थाभिधैवापेक्षते नाऽभिधेति । अभिधीयतेऽभिधेति पुरुषस्य च प्रवृत्तिरिति किं केन सङ्गतम् ? तस्मादभिधा न विधिः ।
अस्तु तर्ह्यर्थभेदः । नैतदपि ।
अपौरुषेये प्रेषादिर्नृधर्मो नाऽवकल्पते ।
अन्यलब्धत्वाच्छब्दार्थत्वमयुक्तम् । अस्थानादिति विवृणोति—अभिधायाश्चाऽभिधाऽपेक्षणेऽभिधाऽभिधाऽप्यभिधात्वेनाऽभिधेया,86 एवं तदभिधाऽपीत्यनवस्थापातः । शङ्कते—अर्थाऽभिधैवाऽपेक्षतेऽभिधां नाऽभिधेति चेत् ? निराकरोति—न । नियामकस्य हेतोरभावात् ।
अपि चाऽर्थाऽभिधाऽभिधीयमाना तयैवाऽभिधीयेताऽभिधान्तरेण वा ? यदाऽभिधान्तरेण तदा तयोयौगपद्यं क्रमो वेति विकल्पा उपप्लवन्ते । तत्र न तावत्प्रथमः कल्पः । स्वात्मनि वृत्तिविरोधेनाऽपास्तत्वात् । नाऽपि यौगपद्यम् । फले फलान्तराऽनुपपत्तेः । न ह्यस्ति सम्भवः, पाकः, पच्यते, छिदा87 च्छिद्यते इति । क्वचिदस्ति, यथा ज्ञानं ज्ञायते इति चेत् । न । फलावस्थायां तदनुपपत्तेः फलान्तरोत्पादसमये च तस्य ज्ञेयतया कर्मकारकत्वेन फलाभावाऽभावात् । अस्तु तर्हि क्रमः । प्रथमं लिङादिभिः स्वार्थोऽभिधीयते, अथ स्वार्थो ऽभिधेति । तन्न । शब्दबुद्धिकर्मणामनावृत्तानां विरम्य व्यापाराऽनुपपत्तेः ।
एतेनैव क्रमशोऽभिधानं प्रत्युक्तम् । तदनेनाऽभिसन्धिनाऽऽह— अर्थाऽभिधानस्य च । अर्थाऽभिधाया अपि हेतोरभावादित्यर्थः । अनेन नियतेर्हेतोरभावाच्चेति व्याख्यातम् । चेत्यभिधानाऽभावहेतुसमुच्चयादिति । नियमहेत्वभावमाह—न ह्यत्र हेतुरस्ति । अर्थाऽभिधैवाऽपेक्षतेऽभिधां नाऽभि धाऽभिधेति । अन्यलभ्यस्याऽपि शब्दार्थत्वाऽभ्युपगमादिति भावः । अपि चाऽभिधीयते लिङादिभिः स्वार्थाऽभिधेति च प्रेक्षावतां हिताऽहितप्राप्तिपरिहारार्थनां प्रवृत्तिरिति किं केन सङ्गतम् ? न खलु प्रासादः श्वेत88 इति पिपासवो दहनमाहरन्ति । उपसंहरति—तस्मादभिधानमपि न विधिः ।
अस्तु तर्ह्यर्थभेद एव लिङादीनां विधिः नैतदपि । कुतः ?
अपौरुषेये प्रैषादिर्नधर्मो नाऽवकल्पते ।
न च प्रवर्तनामात्रमविशेषमकर्तृकम् ॥
लोके हि प्रतीतः प्रेषणाऽध्येषणाऽभ्यनुज्ञालक्षणोऽभिप्रायाऽतिशयः प्रयोक्तृधर्मो लिङर्थः । तस्याऽपौरुषेयेषु वेदवाक्येष्वसम्भवः । प्रतीतेः सम्भव इति चेत् ? न । पौरुषेयत्वापत्तेः । वेदात्मनोऽभिप्राय इत्यतिस्थवीयः । तेनाऽसन्दृब्धत्वेऽभिप्रायाऽवगत्यभावात्, सन्दृब्धत्वे पौरुषेयत्वदोषात् ।
न च प्रवर्तनामात्रमविशेषमकर्तृकम् ॥
लिङाद्यर्थभेदश्चेद्विधिस्तस्य लोकाऽधीनाऽवधारणत्वाल्लोके च प्रेषणाध्येषणाऽभ्यनुज्ञालक्षणस्य तस्योपलब्धेः स एव विधिः स्यात् । तस्य च पौरुषेयतयाऽपौरुषेयेषु वेदवाक्येष्वसम्भव इत्याह—लोके हि प्रतीतः प्रैषणाऽध्येषणाऽभ्यनुज्ञालक्षणोऽभिप्रायाऽतिशयोऽनुविधेयपुरुषधौरेयधर्मतयाऽतिशयः प्रयोक्तुर्धर्मो लिङर्थः । तस्याऽपौरुषेयेषु वेदवाक्येष्वसम्भवः । शङ्कते—लोकाऽवगतसामर्थ्याल्लिङादेर्वेदेऽपि श्रूयमाणात्प्रेषणादिप्रतीतेः सम्भव इति चेत् ? न हि दृष्टेऽनुपपन्नं नामेति भावः । निराकरोति—न, पौरुषेयत्वापत्तेः89 । येऽपि वेदान्तवादिनोऽपौरुषेयमङ्गीकृत्य वेदं वेदशरीरिणमन्तर्यामिणमास्थिषत “अथाऽधिदैवं90 यः सर्वेषु वेदेषु प्रतिष्ठन् सर्वेभ्यो वेदेभ्योनन्तरो यं सर्वे वेदा न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान् वेदानन्तरो यमयति एष त आत्माऽन्तर्याम्यमृत” इति श्रुतेः; तान् प्रत्याह— वेदात्मनोऽभिप्राय इत्यतिस्थवीयः । चेष्टेन्द्रियार्थाश्रयः शरीरमिति हि तद्विदः । न च कस्यचिदात्मनश्चेष्टादीनां वेदराशिराश्रयो भवितुमर्हति । न जातु देवदत्तादिशरीरवदस्मिन् बुद्धिपूर्वाः सन्ति क्रियाः । न च पार्थिवाऽऽप्यतैजसवायवीयाऽदृष्टोपनिबद्धकर्णनेमिमण्डलाऽवच्छिन्ननभोभागात्मनामिन्द्रियाणाममूर्त्तवेदाधारता सम्भवति । न च मनोमात्रस्य बाह्येन्द्रियनिरपेक्षस्य भोगसाधनत्वमूपपद्यते ।
एतेन विषयाश्रयत्वमस्य प्रत्युक्तम् । तस्माद्देहलक्षणविरहाद्वेदात्मनो वेददेहस्याऽऽत्मनोऽभिप्राय इत्यतिस्थवीय इति । अपि च यदा लोके गामभ्याजेत्यादिवाक्येभ्यो वक्तुराज्ञादयोऽभिप्रायभेदाः प्रतीयन्ते नाऽन्यस्य तदा यद्यन्तर्यामी91 वेदसन्दृब्धा92 ततस्तेन तस्याऽसम्बद्धत्वेन तदभिप्रायाऽवगत्यभावात्, सन्दृब्धत्वे92 पौरुषेयत्वदोषादयुक्तमेतत्
यदपि मतम्—अनेकसामर्थ्यपरिकल्पनादोषाद्व्यभिचाराच्च प्रैषादीनामवाच्यत्वादव्यभिचारात्प्रवर्तनामात्रं लोके लिङाद्यर्थस्तस्य वेदेऽप्युपपत्तिरिति । इदमप्य93 चतुरस्रम् । निर्विशेषसामान्याऽयोगात् । अकर्तृकत्वे व्यापाराऽनुपपत्तेश्च । न तावत् प्रैषादयो विशषा वेदे सम्भविनः । नाऽप्यन्यो विशेषः कश्चिदुपदर्श्यते । तदुपदर्शने वा सामान्याऽभिधानप्रसाधनमस्मिन्नवसरे व्यर्थम् । तदेतदपास्तसकमभेदं प्रवर्तनासामान्यं ब्राह्मण्यमिव समुज्झितकठादिभेदं स्यात् । प्रवर्तना च प्रवर्तयितुर्व्यापारः स तमन्तरेणेति नाऽतिविराजते । पुरुषस्याऽभावात् । शब्दस्य च प्रवर्तकत्वनिषेधात् प्रवर्तयितुरभावः ।
यदि मन्येत फलं प्रवर्तकं तद्व्यापारः प्रवर्तना, फलार्थिनः पुरुषस्य
यदपि मतं, तत्तत्प्रेषणाद्यभिप्रायविशेषाऽभिधानेऽनेकसामर्थ्यपरिकल्पनादोषाद्व्यभिचाराच्च प्रैषादीनामवाच्यत्वादव्यभिचारात्प्रवर्तनामात्रं लोके लिङर्थो,94 न पुनः प्रैषादयः । तस्य चाऽपौरुषेये वेदेऽप्युपपत्तिरिति । अभिप्रायभेदाः खल्वमी प्रैषादयः पुरुषनान्तरीयकतया तमवगमयन्ति, न प्रवर्तनामात्रम् । तस्य तन्नान्तरीयकत्वाऽभावादिति भावः95 । निराचष्टे— इदमप्यचतुरस्रम् । कुतः ? निर्विशेषसामान्याऽयोगात् । अकर्तृकत्वे व्यापाराऽयोगाच्च ।
प्रथमं हेतु विवृणोति—न तावत्प्रैषादयो विशेषा वेदे सम्भविनः, अपौरुषेयत्वव्याधातात् । नाऽप्यन्यो विशेषः कश्चिदुपदर्श्यते । तदुपदर्शने वा सामान्याऽभिधानप्रसाधनमस्मिन्नवसरे व्यर्थम्, विशेषस्यैव प्रवर्तकत्वात् । तदेतदपास्तसकलभेदं प्रवर्तनासामान्यं ब्राह्मणत्वमिव समुज्झितकठादिभेदं96 स्यात् । गगनकुसुमायमानं स्यादित्यर्थः ।
द्वितीयं विवृणोति—प्रवर्तना च प्रवर्तयितुर्व्यापारः, स तं प्रवर्तयितारमन्तरेणेति नाऽतिविराजते । ननु पुरुषः प्रवर्तयिता भविष्यतीत्यत आह— पुरुषस्याऽभावात् । नापि शब्द इत्याह—शब्दस्य च प्रवर्तकत्वनिषेधादधस्तात् । तस्मात्प्रवर्तयितुरभावः, तदभावात्तद्व्याप्तायाः प्रवर्तनाय अप्यभावः । यदि मन्येत फल प्रवर्तकमिति तद्व्यापारोऽर्थिता प्रीत्यात्मत97
तत्साधने प्रवृत्तेः । अन्यथा ऽभावात् । न कश्चिद्व्यापारविशेषः प्रवर्तनाऽपि तु प्रवृत्तिसमर्थं व्यापारमात्रं च प्रयोजकव्यापारः । भिक्षा वासयति; कारीषो ऽग्निरध्यापयतीति दर्शनात् । तदसत् ।
अर्थिता व्यापृतिः पुंसो नियमः किन्निबन्धनः ।
फलसाधनता कर्मनिश्चेया साध्यता कदा ॥
फलार्थिता चेत् प्रवृत्तिहेतुः सेच्छा तद्योगो वा इच्छासमवायो वा । कृत्तद्धितसमासेषु सम्बन्धाऽभिधानं त्वतल्भ्यामिति वचनात् पुरुषधर्म इति न फलं व्यापृतिः । अथ तदिच्छोपहारमुखेन फलस्य प्रवृत्तिहेतुर्धर्मः प्रीत्यात्मता फलव्यापारः प्रवर्तना ? साऽपि तत्रैव न कर्मणि । फलव्यापाराच्च वा प्रवर्तना । कस्मात्98 ? फलार्थिनः पुरुषस्य फलसाधने99 प्रवृत्तेः । अन्यथा फलव्यापारमन्तरेणाऽभावात् । न24 हि कश्चिदेव विशेषो व्यापारः प्रवर्तना, अपि तु प्रवर्तनसमर्थ100101 व्यापारमात्रं102 प्रयोजकव्यापारः, प्रवर्तनासमर्थश्चायमर्थितालक्षणः103 प्रीत्यात्मतालक्षणो97 वा फलस्य व्यापारः । भिक्षा वासयति, कारीषोऽग्निरध्यापयतीति दर्शनात्, अन्नोपादानशीताऽपनोदनाभ्याम् । तद् दूषयति—तदसत् ।
अर्थिता व्यापृतिः पुंसो नियमः किं निबन्धनः ।
फलसाधनता कर्म्मनिश्चेया104 साध्यता कदा ॥
फलार्थिता चेत्प्रवृत्तिहेतुः सेच्छा, तद्योगो वा इच्छासमवायो वा कृत्तद्धितसमासेषु सम्बन्धाऽभिधानं त्वतल्भ्यामिति वार्तिककारवचनात् पुरुषधर्म एव, न फलधर्म इति न फलं व्यापृतिः । न खल्वन्यत्र समवेतोऽन्यव्यापारो भवितुमर्हति, अतिप्रसङ्गात् । शङ्कते—अथ तदिच्छोपहारमुखेन फलस्य प्रवृत्तिहेतुर्धर्मः, प्रीत्यात्मता फलव्यापारः प्रवर्तना, इष्टलक्षणं फलम्, सुखाऽनुशायिनी चेच्छेति फलेन सुखात्मना भवितव्यम्, सुखत्वेन तदिच्छामुपहरति, इच्छा च प्रयत्नं प्रसूते, इतीच्छोपहारमुखेन फलसमवायिनी प्रीत्यात्मता प्रवृत्तिहेतुव्यापारत्वाद् भवति प्रवर्तनेत्यर्थः । निराचष्टे—साऽपि प्रीत्यात्मताऽपि तत्रैव फले एव । न च फलं प्रवृत्तिविषय इत्युक्तम्, फलेन साक्षात्करणे कर्तुश्चेष्टेति । यत्र च फलसाधने कर्म्मणि प्रवृत्तिः तस्य च दुःखतया न प्रीत्यात्मतेत्याह—न कर्मणि ।
प्रवर्तमानः सर्वत्र प्रवर्तेत । नियमनिमित्ताऽभावात् । तत्साधनत्वात् कर्मण्येव प्रवर्तते, न सर्वत्र । तत एव तर्हि तत्साधनत्व प्रवृत्तिहेतुः कर्मणि न फलरूपम्, तच्च कर्मसमवायीति कर्म प्रवर्तकं स्यात् । एवं तर्हि तत्साध्यता प्रवृत्तिहेतुः, सा च फलसमवायिनीति न दोषः । तथा हि । समभिलषितस्य तृप्त्यादेः कर्मविशेषेण साध्यत्वात्तत्रैव प्रवृत्तिः । का पुनरियं साध्यता ? यदि रूपं फलस्य, सर्वत्र प्रवत्तिप्रसङ्गः । कारकविशेषः । स हि फलस्य साधननियतः शक्तिभेदो रूपादिवत् । अन्यथा कारकत्वाऽभावात् । यथा हि
यद्युच्येत, फलसमवायिनोऽपि प्रीत्यात्मताव्यापारात्पुरुषः कर्मणि प्रवर्त्स्यति, तत्राह—फलव्यापाराच्च प्रवर्तमानः सर्वत्र प्रवर्तेत । कुतः ? फलादन्यत्वेन तत्साधनस्याऽन्येषां चाऽविशेषान्नियमनिमित्ताऽभावात् । चोदयति—तत्साधनत्वात्कर्मण्येव प्रवर्तते । सर्वत्र सर्वेषां फलसाधनत्वाऽभावात् । परिहरति—तत एव तत्साधनत्वे सति प्रवृत्तिभावादेव । भवतु तर्हि तत्साधनत्वं प्रवृत्तिहेतुः कर्मणि, न पुनः फलरूपम् । भवतु को दोष ? इत्यत आह—ततश्च कर्मसमवायि न फलसमवायीति कर्मैव प्रवर्तकं स्यात् । चोदयति—एवं तर्हि तत्कर्मसाध्यता प्रवृत्तिहेतुः, सा च फलसमवायिनीति न दोषः । ननूक्तं फलसमवायिनी सा कथमन्यत्र कर्मणि प्रवृत्तिहेतुरतिप्रसङ्गादिति ? तत्राह—तथा हि समभिलषितस्य तृप्त्यादेः कर्मविशेषेण साध्यत्वात्तत्रैव कर्मविशेषे प्रवर्त्तनाऽन्यत्र105 ।
एतदुक्तं भवति । फलसमवायिन्यपि असौ साध्यता106 साधनाऽधीनानिरूपणतया साधनमपि गोचरयति, न पुनरसाधनमपि । तेनैव तस्माद्विशेषात्साधने एव प्रवर्तयति, न तु सर्वत्रेति । तदेतद् दूषयति—का पुनरियं साध्यता ? यदि रूपं फलस्य, ततस्तस्य साधनाऽधीननिरूपणत्वाऽभावान्न साधने प्रवर्तयेत् । प्रवर्तयेद्वा सर्वत्रैव, अन्यत्वाऽविशेषात् । चोदयति—कारकविशेषः । विशेष्यते व्यावर्त्यते कर्मकारकं गगनकुसुमादिभ्यो107 येन शक्तिभेदेन स तथोक्तः । ननु तथाऽपि कुतस्तस्य साधने प्रवर्तकत्वम् ? इत्यत्राह—स हि फलस्य साधननियतः शक्तिभेदः । अतः साधने प्रवर्तते इत्यर्थः । निदर्शनमाह— रूपादिवत् । कुतः शक्तिभेदप्रत्ययः ? इत्यत आह—अन्यथा यदि फलस्य शक्तिभेदो न स्यात्ततोऽस्य लौकिकपरीक्षकप्रसिद्धस्य कर्मकारकत्वस्याऽभावात् । शक्तिमत्कारकमिति तद्विदः । दृष्टान्तदार्ष्टान्तिके विभजते—यथा हि रूपादीनां
रूपादीनां शक्तिविशेषाद् ग्रहणे साधननियमः तथा फलेष्वपि द्रष्टव्यः । गगनतत्कुसुमादेरनुत्पादात्, तृप्त्यादेश्च कर्ममात्रेण । कदा पुनरयं शक्तिभेदः साध्यताऽभिधानः ? फलस्य भावसमये न तावत् । वैयर्थ्यादप्रवृत्तिहेतुत्वाच्च । न खलूत्पन्नस्योत्पादो, यद्योगिनी108 शक्तिरर्थवती । नापि सिद्धे फले तत्साधने कश्चित्प्रवर्तते । अभावकालेऽप्यसत्कथं शक्तिमत् खपुष्पवत् ?
ननु सदेव कार्यमुत्पद्यते ? कर्मकारकाणां शक्तिविशेषाद्ग्रहणे चक्षुरादिसाधननियमः, तथा फलेष्वपि द्रष्टव्यः109 । सम्भवति खलु स तादृशः फलस्य कर्मकारकस्य सामर्थ्याऽतिशयो येनाऽभवनधर्मणश्च गगनकुसुमादेर्भवनधर्मणश्च घटादेस्तथा साधनाऽविशेषाच्च भेदः सिध्यतोत्याह—गगनकुसुमादेरनुत्पादात्110 । तृप्त्यादेश्च फलस्य कर्ममात्रेण । तदेतद्विकल्प्य दूषयति—कदा पुनरयं शक्तिभेदः साध्यताऽभिधानः ? फलस्य भावसमये न तावत् । कुतः वैयर्थ्यादप्रवृत्तिहेतुत्वाच्च । वैयर्थ्यादिति हेतुं विवृणोति—न खलुत्पन्नफलस्योत्पादः111 यद्योगिनी शक्तिरर्थवती । अप्रवृत्तिहेतुत्वाच्चेति विवृणोति—नाऽपि सिद्धे फले तत्साधने कश्चित्प्रेक्षावान् प्रवर्तते । फलस्याऽभावकालेऽप्यसत् कथं शक्तिमत् ? खपुष्पवत् । चोदयति—ननु सदेव कार्यमुत्पद्यते ?
इदमत्राऽऽकूतम् । यदसत्तन्न क्रियते यथा शशविषाणम् । असच्चेत्कारणे कार्यं112 तदपि न क्रियेत, असत्त्वात् । क्रियते च, तस्मात्सत् । तथा हि । क्रियमाणत्वं भवनकर्तृतया व्याप्तं, सा चाऽसतो व्यावर्तमाना स्वव्याप्यं क्रियमाणत्वं व्यावर्तयन्ती सत्येव व्यवस्थापयतीति प्रतिबन्धसिद्धिः । अपि च कारकत्वोऽविशेषेऽपि कस्मात् तन्त्वाद्यात्मका एव पटादयो, न कुविन्दाद्यात्मकाः ? न ह्यसत्त्वे कश्चिद्विशेषः । तन्त्वाद्यात्मानश्चोपलभ्यन्ते । तस्मातन्त्वादिषु सन्तः पटादयः । अपि च यदि तन्त्वादिष्वसन्तः पटादयः, कस्मात्तन्त्वादिभ्य एव भवन्ति, न तु वारणादिभ्यः113 ? पट एव वा तन्तुभ्यः कस्माज्जायते, न जायन्ते कटादयः ? अतो न114 खल्वसत्त्वे कश्चिद्विशेषः । सोऽयमुभयविधो नियमः स्वकारणे कार्यस्य सत्त्वमसत्वमन्यत्राऽवगमयति । अपि चाऽशक्तादशक्यकार्यस्याऽनुत्पत्तेरतिप्रसङ्गात् शक्तादेव कारणात्कार्येण
इदं तावदसत्कार्यवादिनोऽनुनाथ्य वक्तव्यम् ।
शक्येनोत्पत्तव्यम्, शक्तियुक्तश्च शक्यः,115 शक्तिश्च सम्बन्धरूपा संयोगवदुभयाश्रया शक्याऽभावे न भवतीति शक्यभावोऽभ्युपेयः । अपि च कारणं नाम कार्योपहितमर्यादं यदि तदभावे नाऽर्हति भवितुम् न हि यद्यदुपहितमर्यादं तत्तदभावे भवति; यथा कुण्डलोपहितसीमा कुण्डली न कुण्डलाऽभावे । तस्मात्कारणभावात्तत्र कार्य सत् । तदिदं सत्कार्यसाधनमवीतपञ्चकमाचख्युः116 साङ्ख्याः । परिहरति—इदं तावदसत्कायवादिनोऽनुनाथ्य117 वक्तव्यम् ।
इदमाकूतम् । न तावत्क्रियमाणत्वमत्र प्रमाणं भवितुमर्हति, असाधारणत्वात्, अनुपलब्धिविरोधाच्च । यथा हि खल्वसदशक्यक्रियमेवं118 सदपि न जातु सतीति शक्तिरपरिणामिन्यनन्ता क्रियागोचरः । अपि च119 इदममन्त्रौषधमिन्द्रजालमार्येण120 शिक्षितं121 यदिदमजाताऽविनष्टरूपाऽतिशयम्व्यवधानमनतिदूरस्थानं तस्यैव तदवस्थेन्द्रियादेरेव पुंसः कदाचित्प्रत्यक्ष122 परोक्षं च, येन कदाचिदस्य प्रत्यक्षमुपलब्धिः, कदाचिदनुमानम्, कदाचिदागमः । तस्मिन्नेवाऽनतिशयेऽमीषां प्रकाराणां विरोधात् । यदि मन्येत, नाऽनतिशयमेकाऽतिशयोत्पत्त्या पराऽतिशयनिवृत्त्या च व्यवहारभेदोपलब्धेः । तिस्रः खल्विमा भावपरिणतिविधा भवन्ति साङ्ख्यानाम्, धर्मलक्षणाऽवस्थाभेदात् यथास्वं धर्मिधर्मलक्षणाऽधिकरणाः । तद्यथा सुवर्णतत्त्वमेकं धर्मि, तस्य परिणामाः, स्वस्तिकरुचकादयो धर्मा उपजनाऽपायधर्माणस्तेषाञ्च लक्षणपरिणामः, तथा हि । यदा खल्वयं हेमकारः स्वस्तिकं भङ्त्त्वा रुचकं रचयति तदा स्वस्तिको वर्तमानतालक्षणं हित्वाऽतीततालक्षणमापद्यते । रुचकस्त्वनागततालक्षणं हित्वा वर्तमानतां प्रतिपद्यते । तथाऽवस्थापरिणामो लक्षणगतः । प्रतिक्षणमुत्पत्तिनिरोधधर्माणोऽभिनवतमाऽभिनवतराऽभिनवपुराणपुराणतरपुराणतमत्वादयः । प्रयत्नरक्षितस्यापि वस्त्रादेः प्रान्ते पुराणतमत्वोपलम्भात् सोऽयं त्रिविधः परिणामोऽतिशय इति । अथाऽयमतिशयस्त्रिविधोऽपि धर्मिणि सनातनः कादाचित्को वा ? यदि सनातनस्तदा स्वस्तिकादयश्च त्रैकाल्यं च नवपुराणत्वादयश्चाऽपर्यायं धर्मिण्येकस्मिन् सुवर्णे उपलभ्येरन् । कादाचित्कत्वे तु कथं नाऽसतामुत्पादः ? तेषां शक्त्यात्मना सत्त्वादयमदोष इति चेत् ? न । शक्तिरति
अपि च निरुपादानकार्याऽनुत्पादात्तदत्यन्तव्यतिरेकाऽभावादुपादेयस्यो-
शयश्च किमेकमेव तत्त्वं नाना वा ? तत्रैकत्वे जन्माऽजन्मनिवृत्तिरनिवृत्तिः प्रत्यक्षतापरोक्षताऽर्थक्रियासूपयोगोऽनुपयोगश्चेति कथमेकत्र निष्पर्यायं परस्परपराहतं युज्यते ? नानात्वे वा सत्त्वेऽपि शक्तेरसन्नतिशयः कादाचित्क इति कथं नाऽसत उत्पत्तिः ? सर्वदाऽतिशयस्य सत्त्वे वा कथं न पूर्वोक्तदोषप्रसङ्गः ? अतिशयस्य व्यक्त्यव्यक्तिभ्यामविरोध इति चेत् ? व्यक्त्यव्यक्ती अप्यतिशयस्य सदातन्यौ न वा ? तत्र सदातनत्वे तदवस्थैव विरोधप्रसक्तिः । कादाचित्कत्वे वा कथं नाऽसत उत्पादः ? इति भव्यत्वञ्चाऽसत उपपादयिष्यतेऽधिकारनिरूपणप्रस्तावे । असत्त्वेऽपि च कारणसामर्थ्यनियमात् कार्यनियम उपपद्यते । अन्यथा भवन्मतेऽपि प्रधानोपादानत्वाद्विश्वस्य123 प्रधानस्य चाऽन्वयितया सर्वत्रैकरूपत्वादुपादानात्मकत्वादुपादेयस्य कार्यजातस्य सर्व सर्वतः सर्वत्र सर्वदा सर्वथा सदितीदमतो नेदमिदमिह नेदमिदमिदानीं नेदमिदमेवं नेदमिति नियमो न स्यात् । कस्यचिदपि रूपस्य कथञ्चित्कदाचित् क्वचिद्विवेकहेतोरभावात् । सर्वत्र सत्त्वाऽविशेषेऽपि हेतुसामर्थ्यनियमादभिव्यक्तिनियम इति चेत् ? हन्ताऽसत उत्पत्या किमपराद्धम्, येन तस्यामपि नियमो न स्यात् ? भवतां तु सर्वेषां सर्वात्मकत्वादभिव्यक्तिभेदाऽनुपपत्तेश्च दुरधिगमो नियम इत्युक्तप्रायम् ।
एतेन कुविन्दादिसमवधानेऽपि पटस्य नियमेन तन्त्वात्मकत्वेन124 सत्कार्यसाधनं प्रत्युक्तम् । शक्तिश्च शक्यविषयाऽपि शक्ताश्रया विनापि शक्यसद्भावं ज्ञानमिव ज्ञेयविषयमपि ज्ञानाश्रयमन्तरेणापि ज्ञेयमुपपत्स्यते । कारणत्वञ्च कार्यं प्रति कारणस्य शक्तिभेदः । स च कारणाश्रय एव,125 न कार्यकारणाश्रयः । निरूपणमप्यस्य कार्याऽवगमाधीनं, न तु कार्यसत्त्वाऽधीनमिति नाऽवीतपञ्चकं सत्कार्यसाधने प्रभवति । तस्मात्तन्त्वादयः स्वव्यापारात्प्रागसत्कार्यमुत्पादयन्ति कारणत्वादभिव्यक्तिकारणवदित्यसत्कार्यवादिनो दर्शयाम्बभूवुः । तेन ताननुनाथ्यैतद्वक्तव्यम्, सदेव कार्यमुत्पद्यते इति126 ।
अपि च समानतीर्था अपि स्वायम्भुवा एकान्ताऽनभ्युपगमादिति वदन्तो न सर्वात्मना सत उत्पत्तिमभ्युपयन्ति, अपि तूपादेयस्योपादानरूपेण सतो, न पुनरुपादेयरूपेणापि सत इत्याह—अपि च निरुपादानकार्याऽनुत्पा
पादानरूपेण सत उत्पत्तिरुच्यते । सर्वात्मना तु सत्त्वे तदनुपपत्तेर्वैयर्थ्याच्चोपादेयवत् । साध्यं नोपादानम् । कथं तर्हि कर्म्म कारकम् ? नैव कमकारकं कारकाश्रितमिति केचित् । विकार्यप्राप्ययोर्वा सत्त्वाददोषः । त्रैविध्यं तर्हि हीयते । कामं, न त्वसतः कारकत्वं शक्याऽध्यवसानम् । कथं तर्हि घटं127 करोतीति प्रयोगः ? उपादेयश्रुत्या उपादाननिर्देशात् । बुद्धिस्थस्य वा
दात्तदत्यन्तव्यतिरेकाऽभावादुपादेयस्योपादानरूपेण सत उत्पत्तिरुच्यते । निष्क्रान्तमुपादानात्कार्य निरुपादानम्, तन्त्वादिभ्यो भिन्नदेशमिति यावत् ।
एतदुक्तं भवति । यथा कुविन्दादिभ्यो भिन्नदेशे एतदुपलभ्यते, नैवं तन्त्वादिभ्यः, सोऽयं धर्मधर्मिभावो नैकान्तिकभेदे भवितुमर्हति, गवाश्वस्येव । नाप्यभेदे ऐकान्तिके, धर्मिरूपस्येव । तस्मात्कथञ्चिद्भेदः कथञ्चिदभेद एषितव्यः । सोऽयमनेकान्ताऽभ्युपगम इत्यर्थः ।
अथोपादेयस्वरूपेणापि सतः किमित्युत्पत्तिर्नोच्यते ? इत्यत आह— सर्वात्मना तु सत्त्वे तदनुपपत्तेः । तस्मादुत्पत्तेरनुपपत्तेः । हेत्वन्तरमाह— वैयर्थ्याच्च साधनानाम् । कुतः ? उपादेयवत् । उपादेयरूपेण तद्वत् तदन्वितमिति यावत् । साध्यं साधनार्ह नोपादानम्, यतो निष्पादितक्रिये कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायाऽतिपातात् । ननु यद्यसत उत्पत्तिस्ततस्तस्याऽसत्त्वेन क्रियां प्रति निमित्तभावाऽभावात्कथं कर्मकारकम् ? इत्याह—कथं तर्हि कर्मकारकम् ? तदेकदेशिमतेन परिहरति—नैव कारकं कर्मकारकाश्रितमिति केचित् । यथाहुः “कारकादुत्पत्तेः कर्मे”-ति । तदेतत्कारकाऽधिकारे कर्मसञ्ज्ञाविधानविरुद्धमित्यनादृत्य पक्षान्तरमुपन्यस्यति— विकार्यप्राप्ययोर्वा सत्त्वाददोषः । चोदयति—त्रैविध्यं तर्हि वैयाकरणप्रवरसम्मतं कर्मणो हीयेत । निर्वर्त्यस्याऽसत्त्वेनाऽकर्मत्वात् । परिहरति—कामम्, न त्वसतः कारकत्वं शक्याऽध्यवसानम्; तत्रभवतोऽभियुक्तस्य पाणिनेर्विरोधे कात्यायनस्याऽसद्वादित्वमिति128 भावः । ननु यदि न निर्वर्त्यस्य कर्मता, कथं तर्हि घटं करोतीति द्वितीयाप्रयोगः ? तस्माल्लौकिकप्रयोगविरोधात्पाणिनेरेवाऽसद्वादित्वमित्यर्थः । समाधत्ते—उपादेयस्य घटस्य श्रुत्या । घटशब्देनेति यावत् । उपादानस्य कपालानां तादर्थ्यनिमित्तोपचारात् । उपादानस्य च सत्त्वेन कारकत्वोपपत्तेर्द्वितीयाप्रयोगसिद्धिः ।
एतदुक्तं भवति, प्रयोगो लौकिको घटं करोतीति, न पुनस्तस्य मुख्यत्वमपि, औपचारिकस्याऽपि तस्य लोके दर्शनात्; मञ्चाः क्रोशन्तीति
क्रियासूपयोगाद्युक्तो निर्वर्त्यस्य कारकभावः । यथोक्तम्—
व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्म्मणः ।
कारकत्वं तथासिद्धं बुद्धिरूपप्रकल्पितम् ॥
एतेन साध्यसाधनयोः परस्पराऽऽनुकूल्यं परास्तम् । अस्तु तर्हि कर्म्म प्रवर्तकम् । अभिमतसाधनता तस्य प्रवर्तना, प्रवृत्तिहेतुरूपत्वात् । न । तस्य विषयत्वात् । अपि च—
प्रज्ञायते लिङादीनां व्यञ्जनीया प्रवर्तना ।
प्रयोक्तृधर्म्मो न णिचो यथाऽनियतकर्तृका ॥
लोकाद्धि शब्दार्थाऽधिगमः । तत्र च प्रवर्तना नियताधारा प्रयोक्तृसंश्रयैव यथा । तदिह कारके कर्तुरीप्सिततमं कर्म, कर्मणि द्वितीयेत्यभियुक्तस्मृतेरौपचारिक इति निश्चीयते । अतो यस्य स्मृत्या विरोधो मुख्यत्वस्य, न तस्य लौकिकत्वम्, यस्य तु प्रयोगस्य लौकिकत्वम्, न तस्य विरोध इति । अस्तु वा मुख्यत्वम्, तथाऽप्यविरोध इत्याह—बुद्धिस्थस्य वा क्रियासूपयोगात् । क्रियानिमित्तत्वोपपत्तौ युक्तौ निर्वर्त्यस्य कारकभावः । यथोक्तम्—
व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।
कारकत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥
आकृतौ हि पदार्थे तस्या नित्यत्वाज्जन्यमानत्वानुपपत्तेरित्यर्थः । तस्मान्न फलस्य शक्तिभेदः साध्यता । एतेन फलगतशक्तिभेदसाध्यतानिराकरणमात्रेण साध्यसाधनयोः सिद्धि प्रति परस्पराऽऽनुकूल्यं सम्बन्धः साध्यता परास्ता वेदितव्या । तत्राऽपि साम्यात्कदेति प्रश्नस्य ।
अस्तु तर्हि कर्म प्रवर्तकम् । अभिमतसाधनता तस्य प्रवर्तनप्रयोजकव्यापारः । कुतः ? प्रवृत्तिहेतुरूपत्वात् । तथा खल्वभिमत129 साधने कर्मणि स्वयं दुःखरूपेऽपि पुरुषः प्रवर्तते । तदेतद् दूषयति—न, तस्य विषयत्वात्प्रवृत्तिकर्तुः प्रयोजकः प्रवर्तकः, सिद्धश्च स भवति, तदिह सिद्धं चेत्कर्म प्रवृत्तेः प्राक् प्रवृत्तेर्भावनाया विषयो न भाव्यम् । न जातु गगनमस्या भाव्यं भवितुमर्हति । विषयश्चेत्कर्म असिद्धत्वात्कथं प्रवर्तकमित्यर्थः । अपि च—
प्रज्ञायते लिङादीना व्यञ्जनीया प्रर्वतना ।
प्रयोक्तृधर्मो न णिचो यथाऽनियतकर्तृका ॥
लोकसिद्धो हि शब्दसामर्थ्याऽधिगमः । तत्र च प्रवर्तना नियताधारा प्रयोक्तृसंश्रयैव लिङाद्यर्थोऽवगम्यते । णिजर्थस्तु सा अनियताधारा ।
लिङाद्यर्थोऽवगम्यते । णिजर्थस्तु साऽनियताधारा । न च णिजर्थवल्लिङाद्यर्थोपि भवितुमर्हति । यथालोकप्रज्ञानं शब्दार्थव्यवस्थानात्130 ।
यस्य त्वेवं सति पुरुषप्रयत्नोऽनुवादो होमाऽनुगतस्तु व्यापारः श्रुत्योच्यते इति दर्शनाच्चेतनकर्तृव्यापारात्मिका, इतरथा वा स्पन्दाऽस्पन्दसाधारण्येनौदासीन्यप्रच्युत्यात्मव्यापारमात्रं भावना विधिशब्दपर्याया लिङर्थो ऽपरामृष्टकालभेदा । लिङादिषु131 तु सत्त्वेपि कातविशेषेण विधिरूपप्रतिबन्धादप्रवृत्तिहेतुत्वात् यद्यादिभिरिव132 लिङभिधेयाया इति दर्शनम्; तम्प्रत्युच्यते—
नैकं विबद्धं न च तद्विशेषश्चेत्स कथ्यताम् ।
कालभेदाऽपरामर्शः कामं नाऽस्मात्प्रवर्तते ॥
लिङादिषु कालभेदेन विधिरूपस्य प्रतिबन्धे भावनाज्ञानाऽभावो- न च णिजर्थवल्लिङर्थोऽपि भवितुमर्हति, यथालोकप्रज्ञानं शब्दार्थव्यवस्थानात् । सुगमम् । यस्य तु दर्शनमिति परेण सम्बन्धः कृतः । किं तदित्याह— एवं सति पुरुषप्रयत्नोऽनुवादः, होमाधारगतस्तु व्यापारः श्रुत्योच्यत इति तेषु तेषु शास्त्रप्रदेशेषु भाष्यकारव्यवहारदर्शनाच्चेतनकर्तृव्यापारात्मिका प्रयत्नशब्दप्रवेदनीया । इतरथा स्पन्दाऽस्पन्दसाधारण्येनौदासीन्यप्रत्युपलक्ष्यमाणाऽऽत्मव्यापारमात्रं भावना विधिशब्दपर्याया लिङर्थः ।
ननु यदि भावनैव विधिः पचत्यपाक्षीत्पक्ष्यतीत्यत्राऽप्यस्ति भावनेति पचेदित्यनेन तुल्यार्थत्वप्रसङ्ग इत्यत आह—अपरामृष्टकालभेदा प्रवृत्तिहेतुर्भावना विधिरपरामृष्टकालभेदा तद्धेतुः । सा च लिङर्थ । न त्वेवं लङाद्यर्थ133 इत्यर्थः । लङादिषु सत्त्वेऽपि भावनायाः कालविशेषेण वर्तमानादिना विधिरूपप्रतिबन्धादप्रवृत्तिहेतुत्वान्न लिङादितुल्यार्थता, यद्यादिभिरिव134 लिङभिधेयाया इति । यथा “यदि रथन्तरसामा सोमः स्या”, “द्यस्योभयं हविरार्तिमार्च्छती”,-त्येवमादिषु;135 तं प्रत्युच्यते—
नैकं विबद्धं, न च तद्विशेषश्चेत्स कथ्यताम् ।
कालभेदाऽपरामर्शः कामं नाऽस्मात् प्रवर्तते ॥
यदि हि भावना विधिरित्येकमेव तत्त्वं ततो लिङादिषु कालभेदेन विधिरूपप्रतिबन्धे भावनाज्ञानाऽभावः । विधेर्भावनाया अभेदात् । अविबद्धे
ऽभेदात् । अविबद्धे भेदप्रसङ्गात् । न खल्वेकं विबद्धमविबद्धं च कल्पते । विशेषस्य प्रतिबन्धो न भावरूपस्य । विशेषरूपभावाऽभावाऽनुविधानात् । प्रवृत्तिभावाऽभावयोः । स तर्हि विशेषो विधिः । न भावो भावना विधिरुपदेशः प्रेरणमित्येकम् । निदर्शनीयश्चासौ । कर्तव्यतेति चेत् ? न । तस्या एव बुभुत्सनात् ।
ननु कालभेदपरामर्शविरह एव विशेषः किमन्येन ? वर्तमानादिरूपाया अननुष्ठेयत्वात्तदभावेऽप्यनुष्ठेयत्वप्रतीतेः । भवत्वेष विशेषो न तु पुरुषस्य प्रवृत्तिहेतुः । कामं प्रत्येतु कालभेदविविक्तां भावनाम् ? अनुष्ठानं तु कुतः ? न हि वस्तुरूपमात्रप्रतिपत्तिः प्रवृत्तिनिमित्तम् । न खलु घट इति प्रतिपद्य ततोऽर्थ तावत्येव तस्मिन्प्रवर्तते । साध्यतया प्रवर्तत इति चेत् ?
वा भावनाया विबद्धाऽविबद्धविरुद्धधर्माऽध्यासाद् भेदप्रसङ्गात् । विरुद्धधर्माऽध्यासाऽसम्भवमेकस्य दर्शयति—न खल्वेकं विबद्धमविबद्धञ्च कल्पते, घटते । चोदयति—विशेषस्य प्रतिबन्धो न भावरूपस्य । भाव इति ण्यन्ताद्भवतेरेरजित्यचि कृते भावनामाह । परिहरति—विशेषरूपभावाऽभावाऽनुविधानात् प्रवृत्तिभावाऽभावयोः । स तर्हि विशेषो विधिः । अतो न भावो भावना विधिरुपदेशः प्रेरणमित्येकं वस्तु । निदर्शनीयश्चासौ । शङ्कते—भावनायाः कर्तव्यतेति चेत् ? निराकरोति—न । तस्या एव बुभुत्सनात् । सत्यम्, कर्तव्यता विधिः, सैव तु कीदृशीति जिज्ञास्यत इत्यर्थः । चोदयति—ननु कालभेदपरामर्शविरह एव विशेषो भावनायाः कर्तव्यताविधिः, तत्किमन्येन विशेषेण ? अत्रैवाऽन्वयव्यतिरेकौ दर्शयति—वर्तमानादिरूपाया भावनाया अननुष्ठेयत्वात्तदभावे चाऽनुष्ठेयत्वप्रतीतेर्विधिनिबन्धनत्वाच्चऽनुष्ठेयत्वस्य कालभेदाऽपरामर्श एव भावनायाः कर्तव्यता विधिरिति साम्प्रतम् । तद् दूषयति— भवत्वेष विशेषः, न तु पुरुषस्य प्रवृत्तिहेतुः, अतद्धेतुश्च कथं विधिः ? नन्वनुष्ठेयत्वाऽवगतेरेव प्रवृत्तिः सा च भावनायाः कालभेदाऽपरामर्शे आपततीत्यत आह—कामं प्रत्येतु कालभेदविविक्तां भावनामयं पुमान्, अनुष्ठानं तु कुतो हेतोः ? ननु कालभेदाऽपरामर्शभावाऽभावाऽनुविधानादनुष्ठेयत्वाऽवगतिभावाऽभावयोः स एव विशेषः प्रवृत्तिहेतुरित्युक्तम्, तत्किं हेतुप्रश्नेन ? इत्यत आह—न हि वस्तुरूपमात्रप्रतीतिः प्रवृत्तिहेतुः । कस्मात् ? न हि घट इति प्रतिपद्य ततो घटशब्दादर्थकालभेदपरामर्शरहितं तावत्येव तस्मिन् घटे प्रवर्तते । तस्मादन्वयो व्यभिचारीत्यर्थः । शङ्कते—साध्यतया प्रवर्तते इति 136
केयं साध्यता ? यद्यसिद्धत्वम्, खपुष्पम् । मृत्पिण्डाऽवस्थायां च घटो नास्तीत्यपि प्रसङ्गः । अथ कारकविषयत्वं तैर्विषयीकृतायां प्रवृत्तिकारिकायां किमर्थं प्रवर्तेत ? साध्यायां चाऽनेन प्रवर्तितव्यमिति कुतस्त्यम् ? फलवत्ताऽवगमात्प्रवर्तत इति चेत् ? । स एव कुतः ? अनुष्ठेयत्वाऽवगमादिति चेत् ? न । सिद्धेऽनुष्ठेयत्वे फलकल्पना ततश्चाऽनुष्ठेयत्वमितीतरेतराश्रयत्वात् । एवमेवाऽप्रवृत्तस्याद्या प्रवृत्तिः आकूतं चिकीर्षा अध्यवसायो वा लिङाद्यथः । उत्तरकाला प्रवृत्तिः प्रयत्नो वा देहवचनचेष्टा वा लङाद्यर्थ इति विशेषाऽभिधानं प्रत्यूढम् । तद्धेत्वभावात् । पुरुषरूपमात्रप्रतीतेरप्रवृत्तेः, हेत्वन्तराऽप्रतीतेश्च । तां च भूतवर्तमानौ प्रतिबध्नीतो, नेतरः कालो, भविष्यत्यनुष्ठेयत्वाऽविरोधात् ।
चेत् ? विकल्प्य निराकरोति—केयं साध्यता ? त तावत् कालभेदपरामर्शविरहो, व्यभिचारादित्युक्तमधस्तात् । तथा च सति यद्यसिद्धत्वमत्यन्तप्रागभावाभ्यां खपुष्पम् । मृत्पिण्डाद्यवस्थायाञ्च घटो नास्तीत्यपि साध्यमिति प्रवृत्तिप्रसङ्गः । अथ कारकविषयत्वम्, तैर्विषयीकृतायां प्रवृत्तिकारिकायां किमर्थं प्रवर्तेत ? साधनप्रवर्तकत्वं हि कर्तृव्यापारः; प्रवृत्तानि चेत्साधनानि स्वव्यापारे कृतं तर्हि प्रवर्तकेनेत्यर्थः137 । अपि च साध्यायाञ्च भावनायामनेन प्रेक्षावता हिताऽहितप्राप्तिपरिहारार्थिना प्रवर्तितव्यमिति कुतस्त्यम् ? शङ्कते—फलवत्ताऽवगमात्प्रवर्तत इति चेत् ? निरकरोति—स एवाऽन्तरङ्गतया धात्वर्थभाव्यावरुद्धायां भवन्मते कुतः ? अनुष्ठेयत्वावगमादिति चेत् ? न । सिद्धेऽनुष्ठेयत्वे फलकल्पना, फलकल्पने चाऽनुष्ठानमितीतरेतराश्रयम्138139 । एवमेवाऽप्रवृत्तस्याऽऽद्या प्रवृत्तिः । तामेव विभजते—आकूतं चिकीर्षाऽध्यवसायो वा प्रयत्नस्तत्पूर्वो लिङर्थः, उत्तरकाला प्रवृत्तिः प्रयत्नो वा देहवचनचेष्टा वा लङाद्यर्थ इत्याचार्यदेशीयानां विशेषाभिधानं प्रत्युक्तम् । एवमित्यतिदिष्टं हेतुमादर्शयति—तद्धेत्वभावात् । तदित्याद्यां प्रवृत्तिं परामृशति । स एव कुतः ? पुरुषस्य रूपमात्रप्रतीतेरप्रवृत्तेर्हेत्वन्तरस्य साध्यताया वा फलस्य वाऽप्रतीतेः । अपि च स नाम कालभेदपरामर्शस्त्यज्यताम्, यः साध्यतां विहन्ति भावनायाः, अतीतवर्तमानौ च तथा; न त्वनागतः । तस्य तया सह विरोधाऽसिद्धेः । तेन पक्ष्यतीत्यादावनुपहतसाध्यभावा भावनाऽवगम्यते इति विधित्वप्रसक्तिरित्याह—ताञ्च भूतवर्तमानौ प्रतिबध्नीतो, नेतरः कालो, भविष्यत्यनुष्ठेयत्वाऽविरोधात् ।
यदपि समर्थनम्—अप्राप्तसम्बन्धया क्रियया आत्मनः सम्बन्धस्य प्रतीत्या प्रवृत्तिः यथाऽद्य तवेदं कर्म्मेति लोके । अत्रापि तु ऌङन्ते श्रोतुः प्रमाणान्तरेणाऽनधिगतमर्थमवगमयति विधित्वप्रसङ्गः ।
न । निमित्ताऽन्तराऽप्राप्ते तस्य तदभिधानं, तत्र निमित्तान्तरप्राप्तस्यैव भविष्यत्त्वेनाऽभिधानादर्थस्य लिङादिभिस्तु तथाऽभिधानम् । अतश्चाऽज्ञातज्ञापनमप्रवृत्तप्रवर्तनमुभयविधप्राप्तिप्रतिषेधेनाऽप्राप्तक्रियाकर्तृसम्बन्धो विधिरिति विधिविदामुद्गाराः ।
नैतत्सारम् । यस्मात्—
न प्रवृत्तिर्योगधियो लोकेऽभिप्रायवेदनात् ।
मृषा भवेत्तथा कामं140 किं मुधैष प्रयस्यति ॥
यदपि समर्थनम्, अप्राप्तसम्बन्धया क्रिययाऽऽत्मनः सम्बन्धस्य प्रतीत्या प्रवृत्तिः । यथाऽद्य तवेदं कर्मेति लोके । स्वामिना हि यदा भृत्यं प्रत्युच्यते चैत्र! अद्य तव नगरगमनं कर्मेति तदा खल्वयं चैत्र आत्मनो नगरगमनसम्बन्ध स्वामिवचनादन्यतोऽनधिगतमवगम्य गमने प्रवर्तते, तथेहापि स्वर्गकामादेर्यागादिक्रियासम्बन्धं लिङादेरन्यतोऽनधिगतमवगम्य स्वर्गकामस्य यागादौ प्रवृत्तिरित्यप्राप्तक्रियाकर्तृसम्बन्ध एव विधिरित्यर्थः । एकदेशी तु प्रसङ्गमापादयति—अत्राऽपि समर्थने पक्ष्यतीत्यादौ ऌङन्ते श्रोतुः प्रमाणान्तरेणाऽनधिगतमर्थमवगमयति वचने विधित्वप्रसङ्गः । परिहरति चोदकः—न । निमित्तान्तराऽप्राप्ते क्रियाकर्तृसम्बन्धे तस्य लिङादेस्तदभिधानम्, सम्बन्धाभिधानम्, तत्र ऌङादौ निमित्तान्तरप्राप्तस्यैव भविष्यत्त्वेन रूपेणाऽभिधानादर्थस्य सम्बन्धस्य । लिङादिभिस्तु तथाऽभिधानं निमित्तान्तराऽप्राप्ततयाऽभिधानम् । अप्राप्ते हि द्विविधा प्राप्तिः प्रतिषिध्यते, उत्पत्तिः प्रमितिश्च । तत्र मानान्तराऽनधिगतं सम्बन्धमवगमयति ऌङन्ते यद्यपि प्रमितिरूपा प्राप्तिर्न समस्ति, समस्त्युत्पत्तिरूपा, निमित्तान्तरादुत्पत्स्यमानस्यैव तस्य तत्राऽभिधानात् । न त्वेवं लिङन्ते141 तद्वाक्यार्थाऽवगतिनिबन्धनं पुरुषप्रयत्नमन्तरेणाऽन्यतो यागादिसम्बन्धाऽसिद्धेरित्यर्थः । यत एवमतश्चाऽज्ञातज्ञापनमप्रवृत्तप्रवर्तनमुभयविधप्राप्तिप्रतिषेधेनाऽप्राप्तक्रियाकर्तृसम्बन्धो विधिरिति विधिविदामुद्गाराः । तदेतद् दूषयति—नैतत्सारम् । यस्मात्—
न प्रवृत्तिर्योगधियो लोकेऽभिप्रायवेदनात् ।
मृषा भवेत्तथा कामं किं मुधैष प्रयस्यति ॥
प्रतिपद्यतां नामाऽयमात्मनः क्रियायोगं शब्दात् तं च तथाभावे तथेति निश्चिनोतु, विपर्यये नैतदेवमिति । प्रवर्तते तु कस्मात् ? लोके त्वद्य तवेदं कर्मति वचनादधिगतवक्त्रभिप्रायो यो यदभिप्रायाऽनुरोधी स प्रवर्तितुमर्हति, अन्यथा सर्वस्य प्रवृत्तेः । नन्विहापि शब्दाऽनुरोधी प्रवर्त्स्यति । न शब्दाऽनुरोधे किञ्चन निमित्तम् । नन्वस्ति प्रामाण्यम् ? तच्च प्रवृत्तो समर्थितं भवति । अन्यथा मृषात्वाऽऽपातात् । कथम् ? भूतवर्तमानयो सम्बन्धयोरभावात् । भविष्यत्यपि न चेत्पुरुषः प्रवर्तते न तत्स्यादिति मृषात्वापातः । पुरुषप्रवृत्त्या तर्हि प्रामाण्यम्, भवतु कामं मृषा, किमर्थोऽयमस्य शब्दप्रमाणीकरणप्रयासः ? बहुतरं च तस्यैवमायसितव्यमापतति । सकलमिथ्याज्ञान-
प्रतिपद्यतां नामाऽयमात्मनः क्रियया योगं शब्दः, तञ्च तथाभावे मानान्तरेण संवादे च तथेति निश्चिनोतु । विपर्यये मानान्तरेण बाधे नैतदेवमिति । प्रवर्त्तते तु कस्मात् ? ननूक्तं यथा तवेदं कर्मेति लोके, इत्यत आह—लोके तु अद्य तवेदं कर्मेति वचनादधिगतवक्त्रभिप्रायभेदो यो यदभिप्रायाऽनुरोधी स तदभिप्रायाऽवगमात् प्रवर्तितुमर्हति । न हि तदा क्रियाकर्तृसम्बन्धबोध प्रवर्तयति, अपि त्वनुविधेयाऽभिप्रायभेद आज्ञादिरित्यर्थः । कुतः ? अन्यथा यदि क्रियाकर्तृसम्बन्धबोधमात्रं प्रवृत्तिहेतुः, न त्वनुविधेयाऽभिप्रायभेदबोधः, ततः सम्बन्धबोधः सर्वसाधारण इति सर्वस्य प्रवृत्तेः । चोदयति—नन्विहापि शब्दाऽनुरोधी प्रवर्त्स्यति । यथा लोकेऽभिप्रायानुरोधी । दूषयति—न शब्दाऽनुरोधे किञ्चिन्निमित्तम् । यथा ऽभिप्रायाऽनुरोधेऽनुविहितभावः खल्वयं स्वामी हितं तु भृत्याय प्रयच्छति, अहितं वा न विधत्ते । चादयति—नन्वस्ति प्रामाण्यम्, प्रवृत्तिहेतुभावस्तस्य कथम् ? इत्यत आह—तच्च प्रवृत्तौ समर्थितं भवति । कस्मात् ? अन्यथा प्रवृत्त्यभावे कर्तुः क्रियासम्बन्धविरह आत्यन्तिक इति तदभिधायिनो वेदराशेर्मृषात्वाऽऽपातात् । पृच्छति—कथं पुनः प्रवृत्त्यभावे सम्बन्धाऽभावः142 ? उत्तरम्—भूतवर्तमानयोः सम्बन्धयोरुपलम्भाऽर्हयोरनुपलब्धेरभावात् । भविष्यत्यपि सम्बन्धे न चेत्पुरुषः प्रवर्तते ततस्तस्य कालत्रयविवेके गगनकुसुमवदात्यन्तिकमसत्त्वमिति तद्विषयस्य न तत्स्यादिति न तत्प्रामाण्यं स्यादिति । सोऽयं मृषात्वापातः । तदेतद् दूषयति—पुरुषप्रवृत्त्या तर्हि प्रामाण्यम् । भवतु को दोष ? इत्यत आह—ततः कामं भवतु मृषा शब्दः, किमर्थोऽयमस्य पुंसः शब्दप्रमाणीकरणप्रयासः ? न खल्वस्य प्रेक्षावतस्तत्प्रमाणीकरणे हितप्राप्तिरहितनिवृत्तिर्वा । यदि
प्रमाणीकरणात् । ननु न शाब्दं मिथ्याज्ञानम् । द्विविधहेत्वभावात् । यद्यपि हेतुदोषो न स्यात्, बाधकस्तु दुर्वारः । भूतवर्तमानयोः सम्बन्धयोरुपलब्धिगोचरयोरनुपलब्धेः । भविष्यतो हेत्वभावात् । शब्दप्रामाण्यं हेतुः । न । प्रवृत्तौ तस्य भावादितरेतराश्रयत्वात् । ननु स्वतः प्रामाण्याद्विज्ञानस्य नेतरेतराश्रयम् । न । प्रवृत्तिहेत्वभावेन तस्याऽपवादात् । प्रमाणस्य परिच्छेदकत्वात्स्वतोऽप्रवृत्तिकारणत्वात् । प्रवृत्तिहेतुसद्भावादेव प्रामाण्यसिद्धेः ।
ननु च स्वतः प्रामाण्यात्प्रवृत्तिहेतुः कल्पयिष्यते तस्मात्प्रमितसिद्धावन्यपरिच्छेदात् । अन्याऽपरिच्छित्त्या च प्रमितताहानात् । कः ? फलम् । न । प्रामाण्यसिद्धिमात्रमीहितं तत्र बहुतरं च तस्यैवमायसितव्यमापतितम्, सकलमिथ्याज्ञानप्रमाणीकरणात् । चोदयति—ननु न शाब्दं मिथ्याज्ञानं द्विविधहेत्वभावात् । तस्मात्प्रामाण्यमेव शब्दस्य पुरुषप्रवृत्तिमाक्षेप्स्यतीत्यर्थः । दूषयति—यद्यप्यपौरुषेयतया हेतुदोषो न स्याद् बाधस्तु दुर्निवारः । कुतः ? भूतवर्तमानयोः सम्बन्धयोरुपलब्धिगोचरयोरुपलम्भकप्रत्ययान्तरसाकल्यस्वभावविशेषशालिनीरनुपलब्धेः । भविष्यती हेत्वभावात् । हेत्वभावे च कार्याऽभावः । अन्यथा कादाचित्कत्वाऽनुपपत्तेरिति भावः । चोदयति—शब्दप्रामाण्यं भविष्यतः सम्बन्धस्य हेतुरस्ति । दूषयति— न । प्रवृत्तौ तस्य प्रामाण्यस्य भावात् प्रामाण्ये तु सति प्रवृत्तिसिद्धेरितरेतराश्रयात् । चोदयति—ननु स्वतः प्रामाण्याद्विज्ञानस्य न प्रवृत्तिनिबन्धनं प्रामाण्यमिति नेतरेतराश्रयम् । निराचष्टे—न । प्रवृत्तिहेत्वभावेन तस्य प्रामाण्यस्यौत्सर्गिकस्याऽप्यपवादात् । ननु प्रमाणमेव प्रवृत्तिहेतुः, स्वतः प्रामाण्याऽन्यथानुपपत्त्या तदाक्षेपकत्वादित्यत आह—प्रमाणस्य परिच्छेदकत्वात्, स्वतोऽप्रवृत्तिकारणत्वात् । प्रवृत्तिहेतुसद्भावादेव143 प्रामाण्यसिद्धेः ।
इदमाकूतं, कोऽयमाक्षेपो नाम ? न तावत्प्रज्ञापनम् । तस्या अहेतुकायाः खपुष्पवदत्यन्ताऽसत्याः प्रवृत्तेः प्रज्ञापने शब्दप्रामाण्याऽनुपपत्तेरर्थादुत्पादकत्वमेषितव्यम् । तत्र चोक्तो दोषः । चोदयति—ननु च स्वतः प्रामाण्यात्प्रवृत्तिहेतुः कल्पयिष्यते । कस्मात् ? स्वतः सिद्धप्रमाणभावात् प्रमाणात् प्रमितस्य सिद्धौ तदन्यथाऽनुपपत्त्याऽन्यस्य तदुपपादकस्य परिच्छेदात् । अन्यथाऽनुपपत्तिमेव प्रमितस्य दर्शयति—अन्याऽपरिच्छित्त्या च प्रमितताहानिप्रसङ्गात् । कोऽसावन्यः प्रवृत्तिहेतुः ? उत्तरं फलम् ।
फलवत्यप्यर्थिनोऽप्रवृत्तेः । क्रियासम्बन्धस्याऽविशेषेण प्रवृत्तेः । कल्पितेऽपि तस्मिंस्तदनुपपत्तेः ।
ननु स्वर्गकामादय एव क्रियासम्बन्धिनः श्रूयन्ते ? सत्यं, न तु सर्वत्र “विश्वजिता यजेत”, “यावज्जीवमग्निहोत्रं जुहुयादि”ति । अत एव सर्वस्याऽभिलषितमेकत्र फलम् अन्यत्राऽपायपरिहारः कल्प्यते । सत्यम् । न त्वेवमपि श्रुतोपपत्तिः । तथा हि—
अर्थिनोऽपि नियोगेन न क्रिया न निमित्तिनः ।
आलस्यादन्तरायेभ्यो विहिताऽकृत्यभावतः ॥
न खलु फलकामो निमित्तवान्वाऽपायपरिहारप्रयोजनो नियोगतः क्रियासम्बन्धमनुभवति, येन श्रुतक्रियासम्बन्धोपपत्तिः स्यात् फलाऽपायपरिहारकल्पनयोः सतोः । यतो ह्यवश्यं क्रियासम्बन्धः स हेतुस्तमुपपादयितुं क्षमते । कथं पुनः फलकामस्याऽपायभीरोर्वा न क्रिया ? अलसतया । न तदेतद् दूषयति—न फलवत्यप्यर्थिनोऽप्रवृत्तेः । ननु मा भूदर्नार्थनः प्रवृत्तिः अर्थी तु प्रवर्त्स्यतीत्यत आह—क्रियासम्बन्धस्याऽविशेषेणाऽर्थिनोऽनर्थिनश्च प्रवृत्तेः144 । कल्पितेऽपि फले तस्मिन्नविशेषप्रवृत्तस्य क्रियासम्बन्धस्याऽनुपपत्तेः । प्रमितं खल्वनुपपद्यमानमुपपादकमुपकल्पयति, न पुनरनुपपद्यमानमात्रमनुपपादकम् । अनुपपादकञ्च फलमविशेषप्रवृत्तस्य क्रियाकर्तृसम्बन्धस्येत्यर्थः—चोदयति । ननु स्वर्गकामादय एव क्रियासम्बन्धिनः श्रूयन्ते न तु पुरुषमात्रम् । दूषयति—सत्यम्, क्वचिन्न तु सर्वत्र । विश्वजिता यजेत, यावञ्जीवमग्निहोत्रं जुहुयादिति । चोदक आह—अत एव सर्वस्याऽभिलषितमेकत्र विश्वजिति स्वर्गः फलमन्यत्र नैमित्तिकेऽपायपरिहारः प्रयोजनं कल्प्यते, न फलं तत्कामस्याऽनधिकारादिति सर्वशक्तौ प्रवेदयिष्यते । तदेतद् दूषयति—सत्यम्, न त्वेवमपि श्रुतोपपत्तिः । तथा हि—
अर्थिनोऽपि नियोगेन न क्रिया न निमित्तिनः ।
आलस्यादन्तरायेभ्यो विहिताऽकृत्यभावतः ॥
न खलु फलकामो निमित्तवान्वाऽपायपरिहारप्रयोजनः कर्ता नियोगतः क्रियासम्बन्धमनुभवति प्राप्नोति, येन श्रुतक्रियासम्बन्धोपपत्तिः स्यात्, फलोपापयरिहारकल्पनयोः सतोः । कस्मात्पुनर्न स्याद् ? इत्यत आह—यतो ह्यवश्यं क्रियासम्बन्धः स हेतुस्तमुपपादयितुं क्षमते—पृच्छति । कथं पुनः फलकामस्य विश्वजिदादावपायभीरोर्वा नैमित्तिके नावश्यम्भाविनी क्रिया ?
तर्ह्यर्थिता । न प्रत्यात्मवेद्याऽर्थिता क्रियाऽभावेन शक्यनिह्नवा । तथा मरणादिभ्योऽन्तरायेभ्योऽप्रवृत्तिः । यदि च नियोगतः प्रवृत्तिः, विहिताऽकरणाऽभावप्रसङ्गः । अपि च—
निमित्तान्तरतः प्राप्तिर्मोहादेश्च प्रकल्पते ।
न चोपदेशकः शब्द उदीक्षेत ततः पुमान् ॥
फले हि प्रवृत्तिहेतौ कल्प्यमाने न शब्दनिमित्तः क्रियासम्बन्धः, अपि तु शाब्दपरिप्रापित इति निमित्तान्तराऽप्राप्तताऽनुपपत्तिः । प्रमाणान्तराऽनधिगतत्वादुपपत्तिर्यदि; ऌडन्तेऽपि प्रसङ्ग इत्युक्तम् । अपि च मोहयदृच्छादौ सम्भविनि क्रियासम्बन्धहेतौ नैकान्ततः फलवत्त्वं परिकल्प्यम् । शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात्फलकल्पनेति चेत् । न । अशास्त्रत्वात् । उपदेशकं उत्तरम्—अलसतया । प्रष्टुर्वचनं न तर्ह्यर्थिता । न ह्यस्ति सम्भवस्तदर्थिता च तदक्रिया चेत्यर्थः । उत्तरम्—न प्रत्यात्मसंवेद्या मनसा संयुक्तसमवायादिष्टाऽर्थिता क्रियाभावेनाऽनुमानेन शक्यनिह्नवा । अनुमानस्य मानसप्रत्यक्षबाधितविषयतयाऽनुत्पादादिर्त्थः । तथा मरणादिभ्योऽन्तरायेभ्योऽर्थिनोऽप्रवृत्तिः । यदि च नियोगतः प्रवृत्तिस्ततो विहिताऽकरणाऽभावप्रसङ्गः । तथा चाऽकुर्वन्विहितं कर्मेति निर्विषयं प्रसज्येतेत्युक्तम् । अपि च—
निमित्तान्तरतः प्राप्तिर्मोहादेश्च प्रकल्पते ।
न चोपदेशकः शब्द उदीक्षेत ततः पुमान् ॥
फले हि प्रवृत्तिहेतौ145 कल्प्यमाने सति न शब्दनिबन्धनः क्रियया सम्बन्धप्रसङ्गो146 अपि तु शाब्दफलपरिप्रापित इति निमित्तान्तराऽप्राप्तताऽनुपपत्तिः । यदि मन्येत, भवतु फलं निमित्तमस्योत्पादकतया, ज्ञापकतया तु सम्बन्धस्याऽन्यतोऽप्रज्ञातस्य शब्दो निमित्तं भविष्यतीति शङ्कते—प्रमाणान्तराऽनधिगतत्वादुपपत्तिर्यदीति । निराकरोति—ऌङन्तेऽपि विधित्वप्रसङ्ग इत्युक्तम् । अपि च मोहयदृच्छादौ सम्भविनि क्रियासम्बन्धहेतौ नैकान्ततः फलवत्त्वं क्रियायाः शक्यपरिकल्पनम् । औषधादाविव मोहादपि प्रवृत्तेरुपपत्तेः । क्रियाकर्तृसम्बन्धस्य यदृच्छाहेतुरपि क्रिया करकिसलयकलितलीलाकमलदलसङ्कलनादिलक्षणा लोकसिद्धैव । शङ्कते—शास्त्रस्य पुरुषश्रेयोऽविधायकत्वात् मोहयदृच्छादिपरिहरणात् फलकल्पनेति चेत् ? निराकरोति—न । अशास्त्रत्वात् । तद् दर्शयति—उपदेशकं हि शास्त्रम्,
हि शास्त्रम् । न चैतेषामुपदेशका यजेतेत्यादयः शब्दाः । न ह्येभिरिदं कुर्वित्युपदिश्यते । अपि तु स्वर्गकामादेर्यागसम्बन्धोऽवगम्यते, दण्ड्यादिश्रुतिभिरिबादण्डादिसम्बन्धः । स च भूतो वर्तमानो वा ऽनुपलब्धिनिराकृत इति भविष्यन्नवशिष्यते ।
अपि चैवं न प्रत्ययपूर्वं पुरुषः प्रवर्तते । सामुद्रविदाख्यातमिवाऽनिरूपितनिमित्तं क्रियासम्बन्धमुदीक्षेत । तथा च वचनवैयर्थ्यम्, पुरुषकाराऽभावात् ।
यदपि दर्शनम्—प्रमाणान्तराऽगोचरः शब्दमात्राऽऽलम्बनो नियुक्तोऽस्मीति प्रत्यात्मवेदनीयः सुखादिवत् अपरामृष्टकालत्रयो लिङादीनामर्थो विधिरिति । न चैतेषामुपदेशका यजेतेत्यादयः शब्दाः, यस्मान्न तैरिदं कुर्वित्युपदिश्यते, अपि तु स्वर्गकामादेर्यागेन सम्बन्धोऽवगम्यते यजेतेत्यादिशब्दैः । गम्यतइति णिचि रूपम् । दण्ड्यादिश्रुतिभिरिवाऽनुपदेशिकाभिर्दण्डादिसम्बन्धो देवदत्तादेः । स च भूतो वर्तमानो वाऽनुपलब्धिनिराकृत इति भविष्यन्नवशिष्यते । तत्र च फलमिव मोहयदृच्छादयोऽपि हेतवः सम्भविन इति नैकान्ततः फलकल्पनासम्भव इति ।
अपि चैवं न प्रत्ययपूर्व पुरुषः प्रवर्तते यथोपदेशकादिदं कुर्विति वाक्यात्, किन्तु सामुद्रविदाख्यातमिवाऽनिरूपितनिमित्तविशेषं क्रियासम्बन्धमुदीक्षेत । ननूदीक्षताम् को दोष ? इत्यत आह—तथा च वचनवैयर्थ्यम् । कुतः ? पुरुषकाराऽभावात् । यत्र हि वचनादर्थ प्रतिपद्य प्रवर्तमानः समीहितं किञ्चिदाप्नोति तत्रार्थो वचनस्य, तदभावे त्वप्रतीतेरप्रवृत्तेः147 । समीहितप्राप्त्यनुपपत्तेः यदा तु वचनादर्थ प्रतिपद्याऽपि पुंसोदीक्षितव्यम्, न प्रवर्तितव्यम्, तदाऽनर्थकं वचनमित्यर्थः ।
सम्प्रति टीकाकारीयं मतमुपन्यस्यति—यदपि दर्शनम् प्रमाणान्तराऽगोचरो न च निष्प्रमाणकः । यतः शब्दमात्रालम्बनः, शब्दमात्रमालम्बनमाश्रयः प्रतिपादकतया यस्य स तथोक्तः । कथम्पुनरस्य शब्दप्रतिपाद्यत्वम् ? इत्यत आह—यतो लिङादियुक्तवाक्यश्रवणसमनन्तरं स्वर्गकामादिना नियोज्येन नियुक्तो ऽस्मीति प्रत्यात्मवेदनीयः सुखादिवत् । यथा हि सन्तापदूनश्चन्दनाऽनुलेपनाऽनन्तरमान्तरमपि मनोमात्रप्रवेदनीयमामीलितलोचनः सुखभेदमनन्यप्रमाणकमनुभवति, एवं नियोगमपि लिङादिवाक्यश्रवणाऽनन्तरमित्यर्थः । प्रमाणान्तराऽगोचरत्वे हेतुमाह—अपरामृष्टकालत्रयः ।
अत्रोच्यते—
पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः ।
नाऽकर्तृका क्रिया कालविविक्तञ्च खपुष्पवत् ॥
स खलु शब्दप्रमाणको वाक्यार्थः पदार्थो वा । तत्र पदार्थस्यैव पदार्थान्तरोपकल्पितविशेषस्य वाक्यार्थत्वादपदार्थत्वे तदनुपपत्तिः । सम्बन्धवाक्यार्थवादिनोऽपि तद्विशेषो वाक्यार्थः सम्बन्धिनश्च पदार्था एवेति नाऽप- सदुपलम्भनानि हि प्रत्यक्षादीनि मानान्तराणि, कालभेदसम्भेदश्च सत्तातद्विषयाणाम्,148 अयं पुनर्नियोगोऽतीताऽनागतवर्तमानादीनामन्यतमेनाप्यात्मना न परामृश्यत इति कार्यतया न मानान्तरगोचरः । कार्यप्रतिपक्षतया च विद्यमानोपलम्भनत्वम्, नाऽतीताऽनागतप्रतिपक्षतया । तेनाऽनुमानादिष्वतीताऽनागतविषयेष्वपि तदस्तीति न भागाऽसिद्धता हेतोः । सोऽयं लिङादीनामर्थो नियोगो विधिः । एवंविधार्थत्वे च चोदनाया अनपेक्षतया प्रामाण्यसिद्धिरिति ।
अचोच्यते—
पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः ।
नाऽकर्तृका क्रिया कालविविक्तञ्च खपुष्पवत् ॥
स खलु शब्दप्रमाणको नियोगो वाक्यार्थः पदार्थो वा स्यात् । अपदार्थस्य तस्य वाक्यार्थत्वं दूषयति—तत्र पदार्थस्यैवैकस्येतरपदार्थान्तरोपकल्पितविशेषस्य वाक्यार्थत्वाल्लोके तथा दर्शनात् । अपदार्थत्वे तदनुपपत्तिः । सम्बन्धवाक्यार्थवादिनोऽपि मते न तावत्सम्बन्धमात्रं वाक्यार्थः । तस्य विशेषनिबन्धनव्यवहाराऽनङ्गतया वाक्यश्राविणः क्वचित् कुतश्चित् प्रवृत्तिनिवृत्त्योरनुपपत्तेः । तस्मादेतद्विशेषो वाक्यार्थः । न च नियोगस्तद्विशेषः, असम्बन्धरूपत्वात् । सम्बन्धश्च विशेष्यमाणः सम्बन्धिभिर्विशेषणीयः । तस्य सम्बन्धिनिरूपणतया स्वरूपेण विशेषाऽनुपपत्तेः । सम्बन्धिनश्चास्य पदार्था इति नियोगेनापि सम्बन्धिना सता पदार्थेनैव भवितव्यम्, नाऽपदार्थेन । न च सम्बन्धमात्रं वाक्यार्थ इत्याह— सम्बन्धमात्रमविशिष्टं सम्बन्धिभिः पदार्थैः पदार्थ एव सम्बन्धाऽन्वयव्यतिषङ्गादिपदगोचरमात्रमेव, न तु विशिष्टव्यवहारार्हमित्युक्तमिति । तस्मात्सम्बन्धवाक्यार्थवादिनोऽपि मते नाऽपदार्थो नियोगो वाक्यार्थ उपपद्यते । अपदार्थस्यापि सम्बन्धभेदस्यैव वाक्यार्थत्वात् । अपदार्थभूतस्य
दार्थो वाक्यार्थः ।
अस्तु तर्हि पदार्थः ? नैवम् । अनन्यप्रमाणगोचरस्य तत्त्वाऽनवकॢप्तेः । सम्बन्धसंवेदनसापेक्षत्वात् । तस्य च सम्बन्धिपरिच्छेदपुरःसरत्वात् । प्रमाणादृते च तस्याऽयोगात् ।
नन्वस्ति शब्दः प्रमाणम् ? न । इतरेतराश्रयत्वात् । प्रमिते हि शब्देन नियोगे सम्बन्धग्रहः, सति च तस्मिन् शब्देन तस्य प्रमा । अविदिनसङ्गतेः पदस्य प्रकृतेः प्रत्ययस्य चाऽप्रत्यायकत्वात् । नियोगस्याऽसम्बन्धितया तदवच्छेदकत्वाऽनुपपत्तेरित्युक्तमित्यर्थः ।
द्वितीयं विकल्पमबलम्बते—अस्तु तर्हिं पदार्थः । निराकरोति— नैवम् । अनन्यप्रमाणगोचरस्य तत्त्वाऽनवकॢप्तेः । पदार्थत्वाऽनुपपत्तेः । कुतः सम्बन्धसंवेदनसापेक्षत्वात्पदार्थत्वस्य । भवतु संवेदनसापेक्षता, ततः किम् ? इत्यत आह—तस्य च सम्बन्धसंवेदनस्य सम्बन्धिपरिच्छेदपुरस्सरत्वात् । एवमपि किम् ? इत्याह—प्रमाणादृते कार्यसम्बन्धिपरिच्छेदस्याऽयोगात् । परिच्छेदो हि प्रमाणस्य फलम्, तन्न तदभावे भवितुमर्हति, अङ्कुर इव वीजाभावे इत्यर्थः । चोदयति—नन्वस्ति शब्दः प्रमाणम् । परिहरति—नेतरेतराश्रयत्वात् । तद् दर्शयति—प्रमिते हि शब्देन नियोगे तेन सह सम्बन्धग्रहः, सति च तस्मिन् सम्बन्धग्रहे शब्देन तस्य नियोगस्य प्रमा ।
यस्तु मन्यते, अस्ति खलु लिङादेस्तादृशः सामर्थ्याऽतिशयः, येनाऽगृहीतसम्बन्धो विलक्षणविषयः कतिपयश्रवणसहकारी149 जनयति विलक्षणविषयमवबोधम् । कतिपयश्रवणसमनन्तरं तद्भावात् । न चाऽन्येनाऽगृहीतसङ्गतितया शब्दाः स्वार्थमभिदधतीत्यनेनापि तथा भवितव्यम् । मा भूदन्येषां न साक्षात्कार्यार्थतेत्यस्यापि तथाभावः ।
तन्निराकरोति—प्रमान्तराऽविदितसङ्गतेः पदस्य प्रकृतेः प्रत्ययस्य चाऽप्रत्यायकत्वात् । अयमभिसन्धिः । प्रथमश्रवणादिव सम्बन्धाऽग्रहे शतशोऽपि श्रुतात् लिङादेविंलक्षणविषयबोधाऽनुत्पत्तेः, व्यवहारदर्शनस्य चाऽर्थरूपसम्बन्धिदर्शनगर्भतयोत्पत्तेरुपपत्तेर्नाऽदृष्टचरसामर्थ्याऽतिशयपरिकल्पनादौ नैसर्गिक150 शब्दमात्रवर्त्तिसम्बन्धाऽपेक्षाऽपवादोऽसति151 बलवद्बाधकोपनिपाते युज्यत इति ।
प्रैषादीनां लोके प्रतीतेस्तद्गतस्य तदुपाधेः सम्बन्धग्रहः ।
अत्र चोदयति—प्रैषादीनां लोके प्रतीतेस्तद्गतस्य तदुपाधेः सम्बन्धग्रहः । इदमाकूतम् । कार्याऽभिधायिता तावल्लिङादीनामवगता आचार्यवाक्येषु माणवक! समिधमाहरेत्यादिषु । तथा हि । एतद्वाक्यश्रवणाऽनन्तरं प्रवर्तमानं समिदाहरणे माणवकमुपलभ्य पार्श्वस्थो व्युत्पित्सुरेवमवधारयति, बुद्धिपूर्वेयमस्य प्रवृत्तिः, स्वतन्त्रप्रवृत्तित्वात्, मदीयप्रवृत्तिवत्, यच्चाहं बुद्ध्वा प्रवृत्तस्तदेवायं मदविशेषात् । अहं च न क्रियामात्राऽवगमान्नापि फलमात्रावगमान्नापि फलसाधनत्वाऽवगमात्; किन्तु कार्यताऽवगमात्152 । न खल्वन्ततोऽर्भकः स्तनपानादिकामपि क्रियां कार्यतया यावन्नाऽवगतवानस्मि न तावत्तस्यामपि प्रवृत्तः । न च या श्रेयःसाधनता सैव कार्यता । परस्परपरिहारस्थितिलक्षणविरोधाधारत्वात् । न ह्यस्ति सम्भवः, यदेव समीहतं प्रति साधनत्वं तदेव कृतिं पुरुषप्रयत्नं प्रति साध्यत्वमिति । क्लेशात्मनस्तु कर्मणः फलसाधनताऽन्वयिनी कार्यतेति केचिदभेदं प्रतीतवन्तः । तथा सुखस्य फलसाधनतां विना च कार्यताऽवगतिरस्ति । अतः फलसाधनताऽतिरिक्तकार्यताबोधात् प्रवृत्तिर्ममेति माणवकोऽपि तदवबोधादेव प्रवृत्त इति निश्चिनोति । तदबबोधश्चास्याऽऽचार्यवचनाऽनन्तरमुपजायमानस्तन्निबन्धन एवेति कार्याऽभिधायितां शब्दस्य कल्पयति तच्च कार्य्यमन्वितमभिधेयमिति स्थितौ सत्याम् “अग्निहोत्रं जुहुयात्स्वर्गकाम” इत्यादिषु वाक्येषु षष्ठाद्यराद्धान्ताऽनुसारेण स्वर्गकामपदेन नियोज्यतया स्वर्गकामः समर्पणीय इति स्थितम् । यश्च कार्यमवबुध्यते स नियोज्यः । स्वर्गकामश्च साध्यस्वर्गकामविशिष्टः । स च तस्मिन्नेव कार्ये नियोज्यतयाऽन्वेति, यदेव तस्य काम्योपायतामनुभवितुं शक्नोति । न च क्रिया क्षणभङ्गिनी कालान्तरभाविफलहेतुरिति न कार्य्यतया नियोज्येन सहाऽन्वेति । यत्कालान्तरस्थायि कार्यं तदेव तेन सहाऽन्वयं गन्तुमर्हताति क्रियाऽतिरेकिमानान्तराऽवेद्यमेव लिङादयः कार्यमभिदधतीति । तच्च मानान्तराऽपूर्वतया अपूर्वमिति च कार्यतयाऽवगम्यमानमात्मनि पुरुषं नियुञ्जानं नियोग इति च व्यपदिश्यते । न च क्रियाऽनन्तरं भवदपि देशकालादिसहकार्यपेक्षया अनन्तरमेव स्वर्गादि भावयति । न च फलजनकतया गुणभावादपूर्वस्य वाक्यार्थत्वहानिः, स्वाऽनुगुणनियोज्यलाभाय फलानुकूलताऽवलम्बनात्स्वमिवत् । यथाऽऽत्मन एव संविदधानः153 स्वामी गर्भदासस्योपकरोति, तथैतदपि । न चैवं वेदे एव
तेषामेव तर्हि प्रतीतेः सम्बन्धज्ञानं न नियोगस्य । उपाधयस्ते न शब्दार्थाः, व्यभिचारात् । प्रवर्तकस्तेष्वनुयायी शब्दार्थः । सर्वत्राऽपरित्यागात् ।
नैतत्सारम् । उपाधयश्चेन्मानान्तरसिद्धाः नैकस्तेष्वन्वयी प्रवर्तको व्युत्पत्तिः । लोकव्युत्पत्तेरेव वेदवाक्याऽनुसारेण अपूर्वपर्यन्तगमनात् । न चाऽनेकार्थाऽभिधायिता लिङादीनां न प्रतीयते । वदति हि माणवक आचार्यचोदितः प्रवर्त्तितः कार्यमवबोधित इति यावत् । न खल्वन्यथा चेतनः प्रवर्तयितुं शक्यते । यतस्तदेवं प्रैषादीनां लोके प्रतीतेः कार्याऽवबोधमन्तरेण च प्रवृत्त्यनुपपत्तेस्तद्गतस्य सम्बन्धग्रहस्तदुपग्रहमपीद्य च वेदे पर्यवसानात् ।
ननु प्रैषादयोऽप्यवगम्यन्ते लोके, तत्कथं कार्याऽभिधायकत्वमेव लिङादीनाम् ? इत्यत आह—तदुपाधेः । प्रैषाद्युपाधेः । एतदुक्तं भवति, उपाधय एते, न तु शब्दार्थाः । त एव चोपाधयः ये तटस्थाः प्रयोगदर्शनमात्राच्छब्दार्थं विशेषे व्यवस्थापयन्ति, यथा हरिपदाऽभिधेयस्य पशुत्वमुपाधिः । तथा हि । पशुत्वं तटस्थमेवाऽभिधानाऽविनिवेशादिति हरिपदार्थ इति हर्तृत्वं154 पशावेव नियच्छति । एवं प्रैषादयोऽप्यभिधानाऽविनिवेशिन एव कार्य विशेषे व्यवस्थापयन्ति, न पुनरभिधेया इति सम्बन्धग्रहणसम्भवादुपन्नं नियोगाऽभिधानं लिङादीनामिति ।
तदेतद् दूषयति—तेषां प्रैषादीनामेव तर्हि प्रतीतेः सम्बन्धज्ञानं न नियोगस्याऽपूर्वस्य । ननूक्तमुपाधयस्ते न शब्दार्थाः, व्यभिचारात् । न हि प्रैषादयो लिङर्थाः, समं प्रत्यामन्त्रणेऽपि तस्याप्रयोगात् । नामन्त्रणाम्, ज्यायांसं प्रत्यध्येषणेऽपि प्रयोगात् । नाऽध्येषणम्, हीनं प्रति प्रेषणेऽपि प्रयोगात् । सोऽयं व्यभिचारः ।
प्रवर्तकस्तेष्वनुयायी शब्दार्थः । कुतः ? सर्वत्रऽपरित्यागात् । सर्वेष्वेव प्रैषादिषु कर्तव्यतैका सम्भवेत्155 । अन्यथा स्वतन्त्रप्रवृत्तेरनुपपत्तेरित्युक्तम् । तस्मात्कर्त्तव्यताऽभिधायिनो लिङादयः स्वर्गकामपदसम्बन्धान्नियोज्यविशेषणीभूतसाध्यस्वर्गाद्यनुकूलस्याऽऽशुतरविनाशियागाद्यतिरिक्तस्याऽपूर्वस्याऽभिधायिनः । तदेवं प्रमाणान्तराऽगोचरता लिङाद्यर्थता नियोगस्येति सिद्धम् ।
तद् दूषयति—नैतत्सारम् । उपाधयश्चेन्मानान्तरसिद्धा, नैकस्तेष्वन्वयी
नियोगः । प्रमाणान्तरगोचरत्वात्तेषां सम्बन्धज्ञानं न तस्य । अविदितविषयस्य सम्बन्धस्य प्रत्येतुमशक्तेः । त एव च शब्दार्था विदितसङ्गतित्वान्नेतरे ।
प्रवर्तको नियोगः । अपूर्वमिति यावत् । अतः प्रमाणान्तरगोचरत्वात्तेषामुपाधीनामेव सम्बन्धज्ञानं लिङादिवाच्यत्वज्ञानम् । न तस्याऽपूर्वापरनाम्नो नियोगस्य । कुतः ? अविदितविषयस्य सम्बन्धस्य प्रत्येतुमशक्तेः ।
भवतूपाधिषु सम्बन्धज्ञानम्, मा च भूदपूर्वे, किमेतावता ? इत्यत आह— त एव शब्दार्था विदितनियोगसङ्गतित्वात् नेतरे नियोगसङ्गतिसंवेदनविरहात् । इदमत्राकूतम् । सत्यं कर्तव्यताऽभिधायिनो लिङादयः, कर्तव्यता तु क्रियाया एव, नाऽपूर्वस्य, लोकाधीनाऽवधारणत्वाच्छब्दसामर्थ्यस्य । तस्या एव च कार्यतया प्रवृत्तिहेतुत्वेन स्वात्मनि मानान्तरेण विदितत्वात् । नन्वपूर्वस्य तस्य मानान्तराऽगोचरत्वात् कर्तव्यतामात्रविदितसङ्गतीनां लोके लिङादीनां स्वर्गकामपदसम्बन्धाद्वेदेऽपूर्वविशेषप्रतिलम्भ इति चेत् ? अस्तु तावदस्यैव तु कर्तव्यस्य लिङाद्यर्थता, न पुनः क्रियाया अपि लौकिक्या इति कुतस्त्यम् ? अनेकार्थत्वस्याऽन्याय्यत्वात् । लक्षणस्यापि च कर्तव्यायां क्रियायां लौकिकस्य लिङादीनां प्रयोगस्योपपत्तेरपूर्वकर्तव्यतानान्तरीयकत्वात् । क्रियाकर्तव्यताया असाधितायाः क्रियायास्तत्साधनत्वाऽनुपपत्तेः156 । लौकिकप्रयोगाऽविरोधात् । अपूर्वकर्तव्यतायास्तु लौकिकक्रियाकर्तव्यातानान्तरीयकत्वाऽनुपलब्धेर्वैपरीत्याऽनुपपत्तेरत्यन्तप्रयोगाभ्यासाल्लाक्षणिकस्यापि वाचकत्वाऽभिमानादपूर्वाऽभिधाननियोगसिद्धरिति चेत् ? नन्वनेकार्थत्वमन्याय्यमित्येतदेव कुतः ? अनेकशक्तिकल्पनागौरवादिति चेत् ? नन्वपूर्वमपि नैकविधप्रधानाङ्गवर्ति नानेति कथमैकार्थ्य लिङः ? कृतिव्याप्यतायाः प्रवृत्तिनिमित्तस्य सर्वत्राऽविशेषाद्रूपभेदेऽप्यपूर्वाणामेकशक्तिरस्या लिङ एकहायन्यादिशब्दवदिति चेत् ? हन्त भोस्तपस्विन्या क्रियया किमपराद्धम् ? यदस्यां कर्तव्यतारूपायामभिधानायकः पतिरिव लिङादिः शक्त्यन्तरमुत्कोचं रोचयते । शब्दसाम्येऽपि कर्तव्यताभेदादयमदोष इति चेत् ? न । भेदाऽभावात् ।
यदि मन्येत, यद्यपि कर्तव्यताशब्दसाम्यं तथाऽपि कृतिं प्रतीप्सिततमता कर्तव्यताऽपूर्वस्य, तदुद्देशेन पुरुषप्रयत्नस्येति कृतेः प्रवृत्तेः सैव च लिङादिप्रवृत्तिनिमित्तम् । न चैवंरूपा क्रियाकर्तव्यता, तस्या दुःखतया तां प्रति प्रधानभावाऽनुपपत्तेः ओदनाद्यर्थप्रवृत्तकृतिव्याप्यतालक्षणौदनादिहेतोस्तस्याः कर्तव्यता, सा त्वन्यत्वान्न शक्त्यन्तरमन्तरेण लिङादिगोचर इति । तन्न । विशेषाऽभावात् क्रियाकर्तव्यतायाः । न खल्वपूर्वमुद्दिश्य कृतिः प्रवर्तितुमर्हति । सा हि पुरुषप्रयत्नः । स चेच्छानुशयीति तदेवोद्दिश्येत । यदिच्छाकर्म तदेव च तस्याः कर्म यत्सुखं सुखानुशयित्वादिच्छायाः । न चाऽपूर्व सुखमिति कथमिष्टम् ? अनिष्टं चेत् कथं तदुद्देशेन कृतेः प्रवृत्तिः ? शब्दात्तथाऽवगतेः । असुखमप्यनिष्ठमप्यपूर्व कृतिं प्रति प्रधानमित चेत् ? तत्किं शब्दोऽवगमयतीत्यनग्निरप्यस्तु धूमः ? आनन्दस्वभावं वा विज्ञानम्, “विज्ञानमानन्दमि”ति श्रुतेः । प्रमाणान्तरविरोधान्नैवमिति चेत् ? न । इहाऽपि तस्य साम्यात् । समिदादिविषयस्याऽपूर्वस्याऽननुष्ठेयस्याऽनुष्ठेयाऽधिकाराऽपूर्वपरत्वेन कर्तव्यतात्वाऽभ्युपगमनात् । स्वर्गाद्यनुकूलत्वादपूर्वस्याऽसुखस्यापीच्छाविषयत्वमिति कुतो मानान्तरविरोध इति चेत् ? न । क्रियायामपि समीहितसाधनतायास्तथाभावात् । नैमित्तिकनिषेधाऽपूर्वयोश्च फलविरहिणोस्तदनुपपत्तेः । एवं च नैमित्तिकनिषेधाऽपूर्वयोर्नाऽपूर्वसिद्धिर्लिङादीनाम् । निमित्तवतो निषिध्यमानक्रियाकर्तुश्च सिद्धविशेषणावच्छिन्नस्य नियोज्यस्य क्रियाकर्तव्यताऽवगमाऽविरोधात् । प्रधानाऽङ्गग्रामसहभावस्याऽशब्दार्थभूतकल्पिताऽपूर्वद्वारेणाप्युपपत्तेः । अपि च साध्यस्वर्गविशिष्टो ऽपि नियोज्यः कस्मात् क्रियामेव नावैति कर्तव्याम् ? तस्या आशुतरविनाशिनीत्वेन तदनुकूलत्वाऽभावात् । तद्धि तदुत्पादाऽनुकूलं यस्मिन् सति यदुत्पद्यते, नाऽसति । न चाऽऽमुष्मिकं स्वर्गादि सति कर्मणि भवति चिरविनष्टे । तस्मिंस्तदुपपत्तेरिति चेत् ? किमिदानीमाग्नेयादिष्वपि न साधनत्वमधिकाराऽपूर्वस्य, भाक्तो वा साधनभावस्तेषाम् ? न हि तस्य भाक्तत्वे इतिकर्तव्यतासम्बन्धो घटते । न जातूपचरितवह्निभावो माणवको दाहपाकयोरुपयुज्यते । तेषां च विषयत्वमेकं नाना च करणत्वं भवद्भिरभ्युपेयते । तयोर्भिन्नप्रस्थानोपधारूपत्वात् । प्रतिपत्त्यनुबन्धो हि विषयो157 यथाप्रतीति व्यवतिष्ठते । तत्रोच्चारिताश्चाऽऽग्नेयादयो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति सकृदवगतेस्तथैव विषयभावमनुभवन्तीत्येकमेवैषामधिकाराऽपूर्व प्रति विषयत्वम् उत्पत्त्यनुबन्धस्तु करणत्वम् । स च स्वरूपाऽधीनः, न प्रतिपत्त्यधीनः । स्वरूपं चैषामाग्नेयादीनां “यदाग्नेयो ऽष्टाकपाल” इत्यादिभ्यो भिन्नभावमवगतमिति तदनुवर्तिनी साधनताऽपि भिन्नैव । न चैवमन्योन्यनिरपेक्षाणामुपायभावः । यथाश्रुतकरणाऽधीनसिद्धित्वात् परमाऽपूर्वस्य । बहूनि चाऽस्य करणानि श्रूयन्ते, इति नैकोपायसाध्यता भवितुमर्हति । अनेककरणसाध्यत्वं चैकस्या अपि क्रियाया लोकेऽपि दृष्टमेव । यथाऽश्वेन दीपिकया खङ्गपाणिभिरग्रेसरैः सञ्चरते राजा प्रदोष इति । अवान्तरव्यापारभेदादश्वादीनां साधनानां भेद इति चेत् ? इहाप्युत्पत्त्यपूर्वाण्येवाऽवान्तरव्यापाराः । ते च प्रत्याग्नेयादि भिद्यन्ते इति समानम् । एवं चाऽऽज्यौषधसान्नाय्येषु न सङ्करो धर्माणाम् । परमाऽपूर्वप्रयुक्तत्वेऽप्यवान्तरव्यापारोत्पत्त्यपूर्वभेदेन साधनभावस्य भेदादपूर्वसाधननिवेशितत्वाच्च तेषाम् । अन्यथा तदभेदे सङ्करप्रसङ्गात् । तस्माद्यथैवाधिकाराऽपूर्वोत्पत्तिसमये आग्नेयादीनामसतामपि शब्दाऽवगतसाधनभावनामुत्पत्त्यपूर्वाण्यवान्तरव्यापाराः शक्तयो वा तथा फलं प्रत्यवगतसाधनभावायाः क्रियाया अवान्तरव्यापारः शक्तिर्वा अपूर्व भविष्यति । कथमन्यसमवेताऽन्यस्य शक्तिः, असति वा व्यापारवत्यवान्तरव्यापार इति चेत् ? आग्नेयादीनामपि परमाऽपूर्वसाधनानामवान्तरव्यापारेषु शक्तिषु वोत्पत्त्यपूर्वेषु तुल्यत्वात्पर्यनुयोगस्य । अनपेक्षशब्दाऽवगतसाधनभावनामाग्नेयादीनामसहभुवामन्यसमवेतान्यप्यसमानकालान्यप्युत्पत्त्यपूर्वाणि व्यापाराः सामर्थ्य वेति चेत् ? तत्किं “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते”-ति लोकाऽनुसारतः साध्यस्वर्गवैशिष्ट्येन158 क्रिया कार्या नाऽवगम्यते, स्वविशेषणं वा साध्यरूपं प्रत्ययस्याऽनानुकूल्यम्, येन तद्घटनायाऽवान्तरव्यापारः सामर्थ्य वा कियाया नाऽपूर्वमास्थीयेत ?
फलसाधनसाधनं न फलसाधनं क्रियेत्यपि मिथ्या । फलप्रवृत्ताया एव तस्यास्तत्साधनत्वात् । यथा परमाऽपूर्वसाधनप्रवृत्तानामाग्नेयादीनामुत्पत्त्यपूर्वसाधनत्वम्, सस्यागमोद्देशेन159 प्रवृत्तस्येव कृषिकर्मणो भूपाटनादिसाधनत्वम् । न च परमाऽपूर्वं प्रत्युत्पत्त्यपूर्वाणामेव साधनत्वम्, नाऽऽग्नेयादीनामिति साम्प्रतम् । न हि दर्शपूर्णमासाभ्यामिति च यजेतेति चोत्पत्त्यपूर्वाणामभिधानमपि तु षण्णामाग्नेयादीनां कालविशेषसम्बन्धेनोत्पन्नानामनूदितानां समुदायिनाम्160 । न चैषामुत्पत्तिवाक्यान्येव यथास्वमुत्पत्त्यपूर्वाणि प्रति कारणत्वमधिगमयितुमीशते । अधिकारवाक्यसन्निधिसमाम्नातानां तदुत्पत्तिवाक्यानामधिकाराऽपूर्वप्रत्यभिज्ञाशङ्कया द्रागिवाऽपूर्वान्तरप्रत्ययाऽजननात् । उत्पन्नानूदितानां तु पश्चादाग्नेयादीनामधिकाराऽपूर्वं
अथ मानान्तरात्सिद्धिः ? न । मानान्तरविषयत्वेनाऽनपेक्षत्वसिद्धेः ।
अपि च नियोक्तृव्यापारो नियोगो न नियोक्तुर्विना अवकल्पते । न प्रत्यधिगतविषयकरण161 भावानामपरस्परं सम्भवतां तदनुपपत्तेः । तत्सिद्ध्यर्थमुत्पत्त्यपूर्वाणि कल्पितानि प्रत्ययवाच्यान्यपि कार्यरूपाण्यपि नाऽऽग्नेयादीनां साधनानां प्रधानं प्रति स्वकरणतामापादयितुमर्हन्ति । तैराग्नेयादिभिः परमाऽपूर्वे जनयितव्येऽवान्तरव्यापारतया तत्कल्पनात् । तथैव च लिङर्थत्वव्यवस्थापनात् प्राधान्याऽनुपपत्तेः । प्रधानद्वयसम्बन्धस्यैकत्र दुरधिगमत्वात् । तस्माद्यथा तवाऽऽग्नेयादीनामुत्पत्त्यपूर्वाऽवान्तरव्यापाराणां परमाऽपूर्व फलं चैककृतिकर्म तथा विवृद्धं साध्यं प्रत्येक एव करणभावः, तथा ममाप्यपूर्वाऽवान्तरव्यापाराया एव क्रियाया अपि स्वर्गाऽनुकूलतेति साध्यस्वर्गविशिष्टोऽपि शक्त एव क्रियाकर्तव्यतामवबोद्धुम् । न च यो यत्कामः स तदुपायमेव कार्य्यमवैति, नाऽनुपायमित्यस्यैकान्तिकत्वमिति निवेदयिष्यते । दर्शितं च भावनाविवेके । कर्तृसमीहितोपायस्य कर्तव्यताज्ञानालम्बनतायां फले चाऽप्रसङ्ग इत्युपरिष्टान्निवेदयिष्यते । तस्मान्न स्वर्गकामादिसम्बन्धान्मानान्तराऽपूर्वाऽभिधानसिद्धिर्लिङादीनाम् ।
नाऽपि लोके माणवक! सन्ध्यामुपास्वेत्याचार्यवचनाऽनन्तरं माणवकस्य प्रवृत्तिमुपलभ्य तस्याश्च कार्याऽबगमाऽधीनत्वात्सन्ध्योपासनकर्मणश्च दुःखतया तदनुपपत्तेः तदतिरिक्ते कार्ये मानान्तराऽवेद्ये लिङादेः सङ्गतिग्रह इति चतुरस्रम् । क्रियाया एव कर्तव्यतोपपत्तेः । दुःखतयाऽनुपपत्तिरिति चेत् ? एवं तर्हि वरं तस्या एव हिताऽहितप्राप्तिपरिहारयोरन्यतरोपायतापरिकल्पनम्, तादृश्या एव तस्या आत्मनि प्रवृत्तिहेतोरुपलब्धेः तदेतदप्यतिपेलवम् । तस्मान्मानान्तराऽविषयत्वेनाऽपदार्थत्वाच्च नैव वाक्यार्थत्वं नियोगस्याऽपूर्वस्येति सिद्धम् ।
यदि तु नियोगस्य पदार्थत्वलिप्सयाऽनभिमतमपि मानान्तरगोचरत्वमास्थोयते ततो मानान्तरविषयत्वेनाऽनपेक्षत्वं चोदनायाः स्यादित्याह— अथ मानान्तरात्सिद्धिः ? न । मानान्तरविषयत्वेनाऽनपेक्षत्वसिद्धेश्चोदनायाः । अपि च नियोग इति प्रवर्तनेति च प्रेरणेति च नियोक्तुर्व्यापारे निरूढवृत्तयः शब्दास्तं गमयन्ति । न चाऽसौ नियोक्तुर्विना अवकल्पते, कारणाऽभावे कार्यनिवृत्तेरित्याह—अपि च नियोक्तुर्व्यापारो नियोगो न नियोक्तुर्विना अवकल्पते । अस्तु तर्हि नियोक्तेत्यत्राह—न चाऽस्याऽस्ति
चाऽस्य सम्भवः, अपौरुषेयत्वाऽभ्युपगमात् । शब्दस्य पुरस्तात् प्रतिषेधात् । कुर्विति तदपरामर्शादनन्यगोचरत्वम् । तद्यदि शब्दतो घटादावपि प्रसङ्गः । न हि घटादिश्रुतयोऽपि भूतादीनामन्यतममामृशन्ति । अर्थाऽर्थतः ? अत्यन्ताऽसत्त्वं खपुष्पादिवत् । एतल्लक्षणत्वादत्यन्ताऽसत्तायाः । नित्यानां च वर्तमानत्वादव्यभिचारः । यदीतरप्रतियोगिता वर्तमानता न नित्येषु सा ।
सम्भवः । ननु पुरुषो नियोक्ता भविष्यतीत्यत आह—अपौरुषेयत्वाऽभ्युपगमात् । पुरुषाऽभावाद्वेदे । अस्तु तर्हि शब्दो नियोक्तेत्यत आह—शब्दस्य पुरस्तात् प्रतिषेधात् । प्रमाणत्वादित्यादिना । यदपि प्रमाणान्तराणां कालविपरिवृत्त्यर्थविषयगोचरत्वात् कुर्विति तदपरामर्शात् कालत्रयाऽपरामर्शात्करिष्यसि, अकार्षीः, करोषीत्यभिन्नार्थत्वप्रसङ्गादनन्यगोचरत्वम् । तद्यदि शब्दतो घटादावपि मानान्तराऽगोचरत्वप्रसङ्गः । न हि घटादिश्रुतयोऽपि भूतादीनामन्यतममामृशन्ति । न हि घट इति भूतादीनामन्यतमामर्शे घटोऽभूदस्ति भविष्यतीति प्रयोगसम्भवः । विरोधपौनरुक्त्याभ्यां त्रयामर्शे चाऽपौनरुक्त्यमेवेत्यर्थः । अथाऽर्थतस्त्रैकाल्याऽनामर्शो, न पुनः शब्दमात्रात् । दूषयति—अत्यन्ताऽसत्त्वं खपुष्पादिवत् । यथा खपुष्पादयो नाऽभूवन्न भवन्ति न भविष्यन्ति तथा चेन्नियोगोऽपि न स्यात्तेभ्यो विशेषः । न ह्यत्यन्ताऽसत्ताया अन्यल्लक्षणम् । अतः कालत्रयविवेकादित्याह—एतल्लक्षणत्वादत्यन्ताऽसत्तायाः । कालाऽतिरिक्तस्य हि सत्त्वं कालाऽवच्छेदेन व्याप्तम्, स तदवच्छेदोकालात्मनो162 नियोगान्निवर्तमानः सत्त्वमप्यस्य निवर्तयति, निवर्तमाना वृक्षतेव शिंशपात्वमेकशिलामयात् गिरिप्रदेशादित्यर्थः । ननु कालाऽतिरिक्ताः परमाण्वाकाशादयः सन्तो न च कालाऽवच्छिन्नास्तस्माद्व्यभिचार इत्यत आह—नित्यानां च वर्तमानत्वादव्यभिचारः । अतीताऽनागताभ्यां व्यपवृत्तयाऽस्तिक्रियया स्वाऽयोगं नित्येषु नियोगेन व्यवच्छिन्दन्त्या उपहितानां नित्यानां वर्तमानता सदातनीत्यर्थः । शङ्कते—यदीतरप्रतियोगिता वर्तमानता, न नित्येषु सा, या खल्वनागतता कारणद्वारेणोपमृद्य भवति या च अतीततया स्वनाशककारणद्वारेणोपमृद्यते,163164 सा वर्तमानता । न चेयं नित्येषु सम्भवति । प्राक्प्रध्वंसाऽभावाऽविनाभावितया नित्यत्वविरोधिनीत्वादित्यर्थः । तदेतत्पारिभाषिकं वर्तमानत्वं न लोकसिद्धम् । अस्ति हि प्राक्प्रध्वंसाऽभावरहिते
कालाऽसंसृष्टमपि तर्हि मानान्तरविषय इति व्यर्थः कालविवेकोपन्यासः ।
प्रमाणग्राह्यता सत्त्वलक्षणम् । अतो नाऽत्यन्तासत्त्वम् । न । अभाव- ष्वप्याकाशादिषु वर्तमानतानिसर्गाऽनुभवो लौकिकानाम् विद्यते व्योमाऽऽकाशोऽस्तीत्यादिप्रयोगदर्शनात्165 । न च भाक्तः प्रयोगः, विशेषाभावात् । न खल्वात्माऽस्ति, विज्ञानमस्तीति विशेषोऽवगम्यते । अविशेषे अपि166 चैकस्य भाक्तत्वकल्पने तदतिरिक्तस्यापि भाक्तत्वप्रसङ्ग इति ।
सत्यप्यत्र दूषणे स्थवीयसि दोषान्तरमाह—कालाऽसंसृष्टमपि तर्हि मानान्तरविषय इति व्यर्थो नियोगस्य कालविवेकोपन्यासः ।
एतेन यदाहुः कारकव्यापारो हि कालत्रयाऽवच्छेद्यो नाऽधिकार इति, तदप्यपास्तं वेदितव्यम् । यथाऽव्यापारात्मतयाऽधिकारो नियोगः कार्य्यम्, न कालत्रयसम्भिन्नः तथा घटादयोऽपि । न जातु तेऽपि व्यापारा167 न च168 मानान्तरागोचराः । तथाऽधिकारोनवच्छिन्नोऽपि कालेन मानान्तरगोचरः स्यादिति व्यर्थः कालविवेकोपन्यासः । ननु न कालसम्बन्धः सत्ता, नापि तद्वयाप्ता, कालस्य तदसम्बन्धस्याऽसत्त्वप्रसङ्गात् । नाऽपि सामान्यम्, पूर्वविमर्शाऽभावे169 तदनुपपत्तेः । यथा कालाक्षीमीक्षितवतः स्वस्तिमत्यां गवि तदवमवर्शो, नैवं हिमशैलादिषु च त्रसरेण्वादिषु च रूपादिषु चोत्क्षेपणादिषु गोत्वादिषु च तदवमर्शः समस्ति एतेन द्रव्यत्वादयोऽपि प्रत्युक्ता वेदितव्याः । तस्मान्न सामान्यमपि सत्ता, अपि तु प्रमाणग्राह्यता सत्त्वलणम् । सा च त्रैकाल्याऽनवच्छिन्नस्य कालस्येव नियोगस्याऽपि शास्त्रप्रमाणप्रयोगवेदनीयस्याऽस्तीति नात्यन्ताऽसत्त्वम् ।
गगनकुसुमादयस्त्वतीतसमस्तमानकर्मभावा अत्यताऽसन्त एवेत्याशयवान् परिचोदयति—प्रमाणग्राह्यता सत्त्वलक्षणम्, अतो नाऽत्यन्ताऽसत्त्वं नियोगस्य । दूषयति—नाऽभावस्यापि प्रमेयत्वात् । न खलु प्रमेयता सत्ता, तदनुवृत्तावपि सत्ताया अभवाद् व्यावृत्तेः । यद्धि यस्मिन् अनुवर्तमाने व्यावर्तते तत्ततोऽन्यदेव, यथा सूत्रात् कुसुमानि । सदसदिति च परस्परव्यावृत्ते लोकसिद्धे प्रमेये । यदाहुः प्रामाणिकाः सत् सदिति गृह्यमाणं यथाभूतमविपरीतं च तत्त्वं सत् । असदसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वमस
कथम् ? यदा नाऽभावः प्रमेयः कण्टकादीनामिति निरटङ्कि, कथं तर्हि नास्यापि प्रमेयत्वात् । अभाव प्रमेय इति सुव्याहृतम् । नास्ति प्रमीयते चेति ऽस्तीति व्यवहारः ? विषयावच्छेदात् । अवच्छिन्नविषयं हि प्रमाणं तदवबोधयदन्यदनवबोधयन्नास्तीति व्यवहारयति । कथमन्यविषयो व्यवहारोऽन्यविषयात्प्रमाणात् ? नाऽयमन्यविषयः । तस्य प्रमाणविषयाऽवच्छेदविषयत्वात् । तस्या विषयान्तरत्वात् । तथा हि—नास्तीत्ययमर्थो नेद प्रतीयते
दिति । तदेतदसत्त्वेन नित्यं परस्परव्यावृतं सदसत्त्वं व्यच्छिन्नमनुभूयते । चोदकः सोपहासमाह—अभावः प्रमेय इति सुव्याहृतम् । उपहासवीजं दर्शयति—नास्ति प्रमीयते चेति कथम् ? न हि यथा द्रव्यगुणसामान्यान्यन्योऽन्यविलक्षणानि स्वभावभेदवन्ति च तद्भेदाश्चकासति तथा ऽयमभावोऽपि कश्चित् परस्परव्यावृतश्च स्वभावभेदवांश्चाऽनुभव एव च प्रमाणमार्गासङ्गतो लोकस्तत्त्वालोकनात्, न पुनः पुरुषप्रवादमात्रम् । विप्रवादो हि सम्भवेत् सवटयक्षवत् । तस्मान्नास्तीति व्यपदेशऽप्रमीयमाणतामात्राऽऽलम्बनो न पुनरभावं विग्रहवन्तं गोचरयति । तथा च घटो नास्ति, न प्रमीयत इत्यर्थः । तस्य कथं प्रमीयत इत्यनेन सङ्गति ? विरोधादित्यर्थः । यद्येवमभावव्यवहारस्य भूतले कण्टकादि नास्तीति चरणन्यासादिलक्षणस्य प्रवृत्त्यात्मकस्य घटादि नास्तीति च निवृत्त्याऽऽत्मकस्याऽसत्यम्भावे किं बीजम् ? इत्याह । यदा नाऽभावः प्रमेयः कण्टकादीनामिति निरटङ्कि, कथं तर्हि तदानीं नास्तीति व्यवहारः ? उत्तरमाह—विषयाऽवच्छेदात् । प्रमाणस्य भूतलग्राहिणः । तदेव स्फोटयति—अवच्छिन्नविषयं हि प्रमाणमेकाकिभूतलग्राहि न घटकण्टकादिसद्वितीयभूतलग्राहीति यावत् । तदवबोधयद् भूतलमन्यदनवबोधयत् घटकण्टकादि नास्तीति व्यवहारयति ।
तदेतद्विशदीकर्तुं शक्यते—कथमन्यविषयो व्यवहारो घटाद्यभावविषयोऽन्यविषयाद् भूतलादिविषयात् प्रमाणात् ? अभावव्यवहारस्तावदयं सर्वजनीनो न निह्नवमर्हति, भावव्यवहारवत् । तदनेनाऽभावादेवोत्पत्तव्यम्, अन्यव्यवहारस्याऽन्यत उत्पत्तावतिप्रसङ्गादित्यर्थः । निराकरोति—नायमन्यविषयः । न व्यतिरिक्ताऽभावविषयः, तस्याऽभाववद् विग्रहवतोऽप्रतीतेः । किंविषयस्तर्हि ? इत्यत आह—तस्याऽभावव्यवहारस्य प्रमाणविषयाऽवच्छेदविषयत्वात् ।
नन्वेवं विषयावच्छेदोऽपि भावरूपाद्विषयाद् भिन्न इति कथं नाऽन्यविषयोऽयमभावव्यवहारः ? इत्यत आह—तस्या विषयान्तरत्वात् । न
भूतलं प्रमीयते न घट इति । अतस्तत्राऽप्रमितिः प्रमाणमित्यलौकिकमिति ।
उच्यते—अनिरूपितव्यवहारमत्रभवन्तं पश्यामः । इदं हि भवान्निरूपयतु, य एष लौकिकानां क्वचिन्नास्तीति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः किमयमपरिच्छेदाद्, उताऽन्यपरिच्छेदात् उत तदभावपरिच्छेदात् ? यद्यपरिच्छेदात्, नेष्टस्याऽभावं जिज्ञासेरन्, अपरिच्छेदादेव निवर्तेरन्, अनिष्टस्याऽपरिच्छेदादेव प्रवर्तेरन् । प्रमाणविषयाऽपरिच्छेदनिबन्धन एव व्यवहारः । न । विशेषाऽभावात् । न हि तदितरयोरपरिच्छेदो विशिष्यते । अप्रत्यय- ह्यवच्छेदो नाम भूतलभावाद् भिन्नः, कि तर्हि दृश्ये प्रतियोगिनि घटकण्टकादौ भूतलमात्रोलम्भः । स चैकाकिभूतलविषयः । यस्मिन्दिदृक्षिते यस्मिन् प्रतियोगिनि दृश्ये भवति170 तस्याभाव उच्यते, प्रवर्तयति च तदभावव्यवहारम् । ननु भवतु नामैतद्विषयोऽयमभावव्यवहारो नास्तीति व्यपदेशो लौकिकानां भावाऽतिरिक्तमर्थमबलम्बिष्यत इत्यत आह—तथा हि । नास्तीत्ययमर्थो नेदं प्रतीयते, भूतलमेकाकि प्रतीयते । न घट इति व्यपदेशोऽपि प्रमाणविषयावच्छेदविषय एव, न निर्विषयः । प्रमाणविषयावच्छेदश्च व्याकृतः । तस्मादुपपन्न उपहास इत्याह—अतस्तत्राऽप्रमितिः प्रमाणं चेत्यलौकिकम् ।
तदेतद्दूषयितुमुपक्रमते—उच्यते । अनिरूपितव्यवहारमत्रभवन्तं पश्यामः । निरूपणे त्वभावव्यवहारस्याऽनुपपन्नमेतदिति तन्निरूपणे प्रवर्तयति । इदं हि भवान्निरूपयतु, य एष लौकिकानां क्वचिन्नास्तीति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः किमयमपरिच्छेदात्सर्वोपाख्याविरहलक्षणात्, उताऽन्यपरिच्छेदात्, उत तदभावपरिच्छेदात् ? तत्र प्रथमं कल्पं दूषयति—यद्यपरिच्छेदात्, नेष्टस्याऽभावं जिज्ञासेरन् । किञ्चाऽपरिच्छेदादेव निवर्तेरन् अनिष्टस्याऽपरिच्छेदादेव प्रवर्तेरन् । जिज्ञासमानोऽपि खल्वपरिच्छेदमेवाऽऽप्नुयात् । तदतिरिच्यमानदेहस्य प्रमेयाऽभावस्याऽनभ्युपगमात् । स च प्राप्त एवेति प्रेक्षावतामभावजिज्ञासा न स्यात् ।
शङ्कते—प्रमाणविषयाऽपरिच्छेदनिबन्धन एव व्यवहारः । नाऽपरिच्छेदमात्रमत्र विवक्षितम्, अपि तु दृश्यस्य प्रतियोगिन इत्यर्थः । निराकरोति— न । विशेषाऽभावात् । तमेवाह—न हि तत्तदितरयोरपरिच्छेदो विशिष्यते । न हि दृश्यत्वेऽदृश्यत्वे वा प्रतियोगिनोरपरिच्छेदस्य प्रसज्यप्रतिषेधात्मनः सर्वोपाख्याविरहिणः कश्चिद्विशेषः सम्भवति । तत्सम्भवे तु तुच्छत्वाऽनुपपत्तेः ।
पूर्विके च प्रवृत्तिनिवृत्ती इत्यसमीचीनम्171 ।
वस्त्वन्तरप्रत्ययात् प्रवर्तन्ते निवर्तन्ते चेति मिथ्या । भावेऽपि प्रतियोगिनस्तत्प्रसङ्गात् । भावे घटकण्टकयोर्ज्ञायमानयोस्तन्निबन्धे एव प्रवृत्तिनिवृत्ती172 । हन्त तर्हि तदभावाद्विपर्ययः, न वस्त्वन्तरभावात् । इष्टाऽनिष्टसाधनज्ञानस्य तदापि भावात्पुरस्वाच्च ।
दूषणान्तरमाह—अप्रत्ययपूर्विके च प्रवृतिनिवृत्ती इत्यसमीचीतम् । न खलु गगनकुसुमायमानस्तुच्छोऽपरिच्छेदः प्रत्ययः कारणं वा विज्ञानं वा सम्भवति । ततश्चाऽपरिच्छेदात् प्रेक्षावत्प्रवृत्तिनिवृत्ती ब्रुवाण आकस्मिकत्वं वा तयोरविज्ञानपूर्वकत्वं वा वाचोयुक्त्यन्तरेणाऽभिदधीत, कदाचित्कत्वप्रेक्षावत्प्रवृत्तिनिवृत्तित्वयोरनुपपत्तेरित्यर्थः ।
ननूभयी भूतलादौ संवित्, सद्वितीयभूतलविषया चैकाकिभूतलविषया चेति । उत्तरा ऽपि च द्वयी, दृश्ये प्रतियोगिनि अदृश्ये च । दृश्यत्वं चास्यो पलम्भाय173 प्रत्ययान्तरसाकल्यं, स्वभावविशेषश्च । स च स्वभावविशेष उच्यते । यस्मिन्सति सत्स्वन्येषूपलम्भप्रत्ययेषु सद्भावोऽनुभूयते । एवं च या दृश्ये प्रतियोगिनि भूतलप्रतीतिः सैवाऽभावव्यवहारसाधनी । यस्याश्चाऽतुच्छत्वात् सम्भवति विशेषणयोगः । तत्सिद्ध्यर्थ च युज्यते सूक्ष्मकीटकण्टकादिजिज्ञासेत्यत आह—वत्स्वन्तरप्रत्ययात् प्रवर्त्तन्ते चेति मिथ्या । कुतः ? भावेऽपि प्रतियोगिनो घटादेर्भूतलादौ तत्प्रसङ्गात् । घटो नास्तीति निवृत्तेः कण्टको नास्तीति प्रवृत्तेः प्रसङ्गात् ।
शङ्कते—भावे घटकण्टकयोर्जायमानयोस्तन्निबन्धने एव प्रवृत्तिनिवृत्ती; न भूतलज्ञाननिबन्धने । निराचष्टे—हन्त तर्हि तदभावात् घटकण्टकयोरभावाद्विपर्यय इष्टाऽनिष्टसाधनज्ञानस्य घटकण्टकज्ञानस्य । अथ भूतलभाव एव कस्मादिष्टाऽनिष्टसाधनज्ञानविपर्ययहेतुर्न भवति ? इत्यत आह—न वस्त्वन्तरभावात् । न भूतलभावादिष्टाऽनिष्टसाधनज्ञानविपर्ययः । कस्मात् ? तदाऽपीष्टाऽनिष्टसाधनज्ञानस्य समयेऽपि भावाद् भूतलस्य । एतदुक्तं भवति । यदीष्टाऽनिष्टसाधनज्ञानविरोधो भूतलस्याऽभविष्यत् ततस्तस्मात्तदनङ्क्ष्यत्174 न त्वनयोर्विरोधः । तज्ज्ञानसन्तत्या सह तस्य चिरमवस्थितेरिति ।
न चेष्टसाधनज्ञानाऽसहभुवोऽपि भूभागस्य तज्ज्ञानविपर्ययविरोधिताऽपीत्याह—पुरस्ताच्च । भूतलस्य भावात् । इष्टाऽनिष्टसाधनज्ञानस्य घटकण्टकज्ञानस्य पुरस्तात्तदभावे दृश्यमानं भूतलं न तत्सहभावनियतमित्यर्थः ।
अत्रेदमाकूतम् । योऽयमभावव्यवहारो लौकिकानां घटो नास्तीति निवृत्तिलक्षणः, कण्टको नास्तीति प्रवृत्तिलक्षणः, स न तावद् दृश्ये घटकण्टकादौ भूभागग्रहनिबन्धनः, दृश्यमानेऽपि तद्गते घटादौ प्रसङ्गात् । न ह्यदृश्यः, दृश्यमानत्वात्175 । केवलभूभागग्रहणनिबन्धनत्वादयमदोष इति चेत् । किं पुनरस्य कैवल्यम् ? स्वरूपमिति चेत् । न । घटकण्टकादिग्रहे ऽपि तत्सद्भावात् । तद्धर्म176 इति चेत् ? स तर्हि घटादिभावविरोधी भूमिकान्तरेण तदभाव एवेति सिद्धं नः समीहितम् । नन्वभावप्रमेयवादिनामपि भूतलग्रहणसद्भावज्ञानकारणमेषितव्यम् । यदाह—गृहीत्वा वस्तुसद्भावं स्मृत्वा च177 प्रतियोगिनमिति । तत्र न तावत् संसृष्टभूतलग्रहस्तद्धेतुर्विरोधात् । न खल्वस्ति सम्भवः, घटसंसृष्टभूतलग्रहश्च तत्र घटाऽभावनिश्चयश्चेति । नापि घटाऽभाववद्भूतलग्रहः । आत्माश्रयप्रसङ्गात् । न खलु स एव तस्य हेतुरिति साम्प्रतम् । तस्माददृश्ये प्रतियोगिनि घटादौ भूतलमात्रग्रहणं घटाऽभावपरिच्छेदहेतुरित्यकामेनाऽपि घटाभावादन्यत् कैवल्यं भूतलस्य स्वीकरणीयम् । तदेव चाऽभावव्यवहारनिबन्धनमिति किमन्तर्गङुना घटाऽभावेनेति ।
तदेतदयुक्तम् । वस्तुसद्भावग्रहणमात्रस्याऽभावज्ञानहेतुत्वाऽनभ्युपगमात् । अपि तु तुल्योपलम्भयोग्यस्य प्रतियोगिनोऽनुपलम्भने सत्यस्य तत्कारणत्वमिष्यते । तदाह—स्मृत्वा च प्रतियोगिनमिति । अनेनागृह्यमाणतामस्य सूचयति । तत्त्वे स्मृत्यनुपपत्तेः । न चैकज्ञानसंसर्गिभूतलोपलम्भ एव घटानुपलम्भ इति साम्प्रतम् नोपलब्धचरघटसंसृष्टभूतलोपलम्भेऽपि178 घटाऽनुपलम्भप्रसङ्गात् । तदाऽपि भूतलोपलम्भस्य भावात् । घटाऽनुपलम्भस्य च तदव्यतिरेकात् । नन्वयमनुपलम्भः प्रतीतो वा स्यादभावज्ञाने हेतुरप्रतीतो वा ? न तावत् प्रतीतोऽनवस्थाऽऽपातात् । सोऽपि ह्युपलम्भाऽभावरूपत्वादनुलम्भान्तरेण प्रमातव्यः, एवमनुपलम्भान्तरमपीत्यनवस्थानात् । अप्रतीतत्वे तु सत्तया हेतुः स्यात् । तथा च यदाऽयं प्रमाणोपलम्भचरचत्वरभूतलप्रमित्साऽभावात् तस्मिन्नप्रतीतचरे चैत्राऽभावं त्वचिरप्राप्तचैत्रविशिष्टचत्वरतलोपलम्भवान् पृच्छ्यते मैत्र! प्राक् किमासीदिह चैत्र इति स तदा तत्प्रश्नसमुदितजिज्ञासः प्राक्तनीं दृश्यमानस्य चैत्रस्याऽसत्तां तदानी मेवाऽवधार्योत्तरमाह, आयुष्मन्नासीदिह चैत्रः सम्प्राप्त इति ।
तन्नोपपद्यते । तदानीन्तनेनोपलम्भेन तदनुपलम्भाऽपवादात् । न च प्राक्तनोऽनुपलम्भस्तस्य सम्प्रतितनीमभावधियमाधातुमर्हति । न खलु निमीलितनयनयुगलः प्राच्या नयनसत्तया सम्प्रति रूपं पश्यति । तस्मादेक ज्ञानसंसर्गवस्त्वन्तरोपलम्भ एवाऽभावज्ञानकारणमेषितव्यम् । तथा च स्वसंवेदनसिद्धः स एवाऽभावव्यवहारसाधनाय पर्याप्त इति कृतमभावेन प्रमेयेनेति ।
अत्रोच्यते । न तावद्विना घटाऽनुपलम्भम् भूतलोपलम्भमात्रमभावव्यवहारसाधनम् । न च भूतलोपलम्भ एव तदनुपलम्भ इति चोक्तम् । अतोऽनुपलम्भो वरं179 प्रतियोगिन एषितव्यः । न चाऽसावप्रतीतस्तदभावव्यवहारसाधनम्, प्रेक्षावद्व्यवहारस्याऽबुद्धिपूर्वकत्वाऽनुपपत्तेः । तदभावज्ञानसाधनं तु भवेत् । अज्ञातस्याऽपि ज्ञानोपायत्वदर्शनाच्चक्षुरादिवत् ।
नन्वेवं सत्तामात्रेणोपायत्वमभ्युपेतं भवति । तच्चाऽनुपपन्नम् । असत्यनुपलम्भे तदभावबुद्धिसमुत्पादप्रसङ्गादित्युक्तम् । न । अनुपलम्भाऽभावस्याऽसिद्धेः । नन्वत्र चत्वरतले किमयमासीच्चैत्र इति प्रश्नसमये तदुपलम्भमानः स एव मैत्रः180 कथं तदुपलम्भवान् ? सत्यम्, गृह्णाति चैत्रम्, न तु स्मरत्यस्य प्राक्तनीं तत्र सत्ताम्, चत्वरतलस्येव । न च स्मृतिरनुपलम्भ इति तदभावोऽप्यनुपलम्भ एव । तेन यथा ग्रहणार्हस्याऽग्रहणं181 तदभाववीक्षासाधनम्,182 एवं सत्यपि सम्प्रति तस्य ग्रहणे प्राक्तनी चैत्रस्य सत्ता चत्वरस्येव तत्र मध्यन्दिने स्मरणार्हा न स्मर्यत इति माध्यन्दिनस्मरणाऽभावः सन्निति प्राक्तनाऽभावविषयं माध्यन्दिनं प्रत्ययं शक्त एव जनयितुम् । न च प्रत्यक्षाऽनुपलब्धिरेवाऽभावज्ञानसाधनमिति साम्प्रतम् । योग्यप्रमाणाऽनुपलब्धेस्तत्साधनत्वात् । अतत्साधनत्वे त्वनुमानादिनिवृत्तेः । मकरगतस्य सवितुर्मीनादिषु सत्तायाश्च चैत्यवन्दनादिधर्मतायाश्च दर्विहोमाऽपूर्ववत्त्वस्य च ध्वन्यागमनमात्रोपपन्नश्रवणशब्दस्य सजातीयपरम्परारम्भणस्य निवारणाऽभावात् । प्रमाणान्तराणामिवाऽप्रमाणस्याऽपि स्मरणस्य स्वविषये योग्यत्वोपपत्ते । प्रत्ययान्तरसाकल्यलक्षणस्य च दृश्यत्वस्य विषयकारणक एव प्रत्यय उपपत्तेः । तदभावे चाऽनुमानादिनिवृत्तेरनुमेयाद्यभावसाधनत्वात् । न ह्यनुमानाद्येकविषयाणां प्रमेयाणां क्वचिदभावस्तद्व्यवहारो वा विषयाऽतिरिक्तप्रत्ययान्तरसाकल्ये सम्भवति । तस्मिन् सति सद्विरोधिभावप्रत्ययव्यवहारोपपत्तेः न च विषयकारणेऽपि प्रत्ययान्तरसाकल्यसम्भवः । इन्द्रियार्थसन्निकर्षस्यैवाऽसत्यर्थेऽनुपपत्तेः । तस्मात्संस्काराऽभावेऽपि स्मरणाऽर्हत्वमुपपन्नम् । न चोपलम्भाऽनुपलम्भयोर्विरोधः, असमसमयवृत्तिभावाऽभावसाधनतया भिन्नविषयत्वात् ।
स्यादेतत् । सत्तामात्रेणाऽभावसाधने त्वनुपलम्भस्य दृश्यत्वमप्यस्य तथेति तज्ज्ञानसिद्ध्यर्थ सूक्ष्मकीटकण्टकादिजिज्ञासा न स्यात् । मैवम् । दृश्यत्वसिद्ध्यर्थं हि सा । अजिज्ञासितस्य तत्त्वाऽनुपपत्तेः । न तु दृश्यत्वज्ञानार्थम् । भवतु वा दृश्यत्वज्ञानं हेतुः, भूतलज्ञानवत्, किमायातमनुपलम्भस्य ? न ह्यालोको ज्ञायमानः कारणमिति चक्षुषाऽपि तथा भवितव्यम् । न च धूमोऽवगतोऽनुमानज्ञानकारणमिति मनोऽपि तत्कारणं ज्ञातव्यम् । तस्मात्सत्तयाऽनुपलम्भोऽभावज्ञानकारणमिति नाऽनवस्था । नाऽपि प्रमेयाऽभावाऽतिरिक्तकैवल्याऽङ्गीकारः । चत्वरतलोपलम्भस्य चैत्राऽनुपलम्भे सति तत्कारणत्वात् । तदयमभावव्यवहारो वस्तुसद्भावग्रहणतत्प्रतियोगिततस्मरणतद्बुभुत्साऽतिरिक्तनिमित्तजन्मा183 । यथा सत्स्वपि तन्तुषु कदाचित्पटः प्रादुर्भवंस्तदतिरिक्ततत्संयोगभेदजन्मेति । दृश्ये प्रतियोगिनि स्मर्यमाणे वस्तुसद्भावग्रहणे सत्यभावव्यवहारो ऽवश्यम्भावीति हेतुरसिद्ध इति चेन्न । गृह्यमाणेऽपि प्रतियोगिन्यस्मर्यमाणे किमासीदिति प्रश्नाऽनन्तरं प्राक्तनतदभावव्यवहारप्रवृत्तेः । भवतु तर्हि बुभुत्सिते प्रतियोगिनि बोधार्हे वस्तुसद्भावज्ञानमभावव्यवहारसाधनम् । अस्ति च गृह्यमाणे चैत्रे किमासीदिति प्रश्नसमनन्तरं तत्र तदीयप्राचीनसद्भावसुस्मूर्षा । तदेतस्यां सत्यां प्राक्कालवर्तिचत्वरतलस्मृतिरेवाऽवश्यं तदभावव्यवहारप्रवृत्तिनिमित्तमित्यसिद्धता हेतोः । न । एतस्यामप्यवश्यम्भावनियमाऽभावात् । प्रतीतिस्मरणाऽनुभवयोः सतोरपि नितान्तबल्लभ्यतया सुस्मूर्षाऽनुबुभूषयोरविरामात्184 । तथा च प्रतियोगिनोऽनुभवे स्मरणे च तत्र तत्र तदभावव्यवहारप्रसक्तेः । असंस्मरणेऽननुभवे चेति विशेषणान्न दोष इति चेत् ? अङ्गीकृतं तर्हि तदतिरिक्तं निमित्तमभावः । तथाप्युपलम्भाऽभावरूपत्वादस्य न प्रमेयाऽभावसिद्धिरिति चेत् । अत्रोत्तरमनन्तरमेव वक्ष्यति स्वयमेवाऽऽचार्यः ।
नन्वभावो नाम विग्रहवान्न कश्चिदनुभूयत इत्युक्तम्, तत्किमयमभावव्यवहारो नास्ति, नास्ति निमित्तो वा ? न तावन्नास्ति निमित्तः । कादा
तस्मान्नाऽन्यप्रमितिनिबन्धने नाप्यप्रमितिनिबन्धने अनभिमतमभिमतं नास्ति, अभिमतं नास्तीति प्रवृत्तिनिवृत्ती, अपि त्वभावाऽधिगमनिबन्धने । नास्तिज्ञानस्य को विषयो निरूपितः ? ननूक्तम्, किमपराद्धं भवतो विषयाऽभावेन ? यत्तमतिलङ्घ्य प्रमाणाऽभावो विषय इत्युच्यते । ज्ञेयाऽभावो न
चित्कत्वाऽनुपपत्तेः । न च निमित्तान्तरमस्याऽस्तीत्युक्तम् । न च नास्ति, भावव्यवहारस्याऽपि अपह्नवप्रसङ्गादित्युक्तम् । निःस्वभावस्य कथमनूभूयमानता ? इति चेन्न । सद्व्यावृत्तिरूपस्य तस्य प्रतीयमानत्वात्स्वतोऽवान्तरविशेषाऽनुपलब्धेः । निःस्वभावतेति चेत् ? न । ज्ञानशक्त्यादीनामपि तत्प्रसङ्गात् । तेषामपि हि न स्वतो भेदो निरूप्यते । ज्ञेयशक्यभेदाऽधीनं185 तद्भेदनिरूपणमिति चेत् ? न । इहापि प्रतियोगिभेदेन तद्भेदनिरूपणादिति सर्वमवदातम् ।
प्रकृतमुपसंहरति—तस्मान्नाऽन्यप्रमितिनिबन्धने नाऽप्यप्रमितिनिबन्धनेऽनभिमतं नास्ति, अभिमतं नास्तीति प्रवृत्तिनिवृत्ती, अपि तु पारिशेष्यादभावाऽवगमनिबन्धने । न केवलं व्यवहाराऽन्यथानुपपत्तेरभावसिद्धिः, अपि तु घटोऽस्तीति ज्ञानवत्तदभावज्ञानमप्यवगम्यते । न च ज्ञानं निरालम्बनमिति निवेदयिष्यते । तदस्याऽऽलम्बनं नाऽभावादन्यदस्तीत्याशयवान् पृच्छति—नास्तिज्ञानस्य को विषयो निरूपितः ? अपर आह—ननूक्तम्, नेदमिह प्रतीयत इत्यर्थः ।
तत्र न तावददृश्ये186 प्रतियोगिनि वस्तुसद्भावज्ञानम्, प्रतियोगिनोऽप्यप्रमितिः सम्भवतीत्युक्तम् । अतस्तद्व्यतिरिक्ताऽनुपलम्भाऽभावो वक्तव्यः । तथा च किमपराद्धमत्रभवती विषयाऽभावेन ? यत्तं प्रमीयमाणमतिलङ्घ्य प्रमाणाऽभावो विषय उच्यते ।
शङ्कते—प्रातिस्विकभेदाऽनुपलब्धेर्ज्ञेयाऽभावो न प्रमेयः । निराचष्टे— भवतु यद्यस्ति ज्ञानज्ञेयाऽभावयोर्विशेषः । न हि ज्ञानाऽभावोऽप्याजानतो भेदवान् । तद्भेदस्याऽपि प्रतियोगिभेदाऽधीननिरूपणत्वात् । तथा च चैत्रो नास्तीति प्रतीतिस्तदभावाऽवभासलक्षणकार्यसमधिगमनीया, न कुकविकृतिरिव क्लेशेन कथञ्चित्प्रमाणाऽभावविषयतया व्यख्यातुमुचिता । अथापि वैजात्यात् उच्यते, न च तत्त्वतो नास्तीति बुद्धिव्यवहारौ स्तः, किन्तु
प्रमेयः । भवतु यद्यस्ति तद्विशेषो हेतुः । ज्ञानाऽभावे ज्ञानभ्रमो व्यवहाराऽभावे व्यवहारभ्रमः । आलोकाऽदर्शनेऽन्धकारभ्रमवत् ।
न । सुषुप्त्याद्यवस्थासु प्रसङ्गात् । अप्रमिते च भ्रमाऽयोगात्सुषुप्त्यादिवत् । चैत्रदर्शनाऽभावे चैत्रो नास्तीति ज्ञानं भ्रमः, चैत्रोचितव्यवहाराऽभावे व्यवहारभ्रमः ।
अत्रैव निदर्शनमाह—आलोकाऽदर्शनेऽन्धकारभ्रमवत् । न किलाऽन्धकारो नाम तत्त्वतो ऽस्ति, तत्प्रत्ययो वा । तथा हि तद् द्रव्यादीनामन्यतममेव187 भवेत् । तैरेव विश्वस्य सङ्ग्रहात् । तत्र द्रव्यत्वे तमःपृथिव्यादीनामन्यतममन्यद्वा ? न तावदन्यतमम् । क्षितिसलिलात्मसु चतुर्दशगुणेषु, तेजसि चैकादशगुणे, मातरिश्वनि च नवगुणे, मनसि चाऽष्टगुणे, नभसि च षङ्गुणे, दिक्कालयोश्च पञ्चगुणयोरविनाशिनोरनन्तर्भावात् । अन्तर्भावे वा तावद्गुणत्वप्रसङ्गान्नित्यत्वापत्तेश्च । नाऽपि द्रव्यान्तरम् निर्गुणस्य तत्त्वाऽनुपपत्तेः । नीलोत्पलपलाशश्यामलमुपलभ्यमानं महच्च तमो न निर्गुणम् । अतो द्रव्यान्तरमिति चेत् ? न । कृष्णरूपस्य188 गन्धाद्येकार्यसमवायिनस्तद्व्याप्तस्य तदभावेऽभावात् । तथा च निखिलगुणविरहिणो न द्रव्यत्वम् । गुणकर्मसामान्यभावोऽप्यनाश्रयस्य न सम्भवति । न च पृथिव्यादिद्रव्यमस्याश्रयः । तदाश्रयत्वे तद्गुणानां तत्सहचरितानामुपलब्धिप्रसङ्गात् । न चास्य तमस उपलब्धिरुपपद्यते । उपलम्भकाऽभावात्189 । न चेन्द्रियाणामेतत्तमो लोचनं गोचरयति । तदभावे तदनुपलब्धिप्रसङ्गात् । अस्ति च निमिलितलोचनस्याऽपि तमः पश्यामीत्यभिमानः । घ्राणादीनां गोचरस्तम इति स्थवीयः । मनोऽपि चाऽऽन्तरगोचरनियतं बहिरसतीन्द्रियलिङ्गादौ दवीय एव । न च कारणाऽभावे कार्यमुत्पत्तुमर्हति । तस्याऽऽकस्मिकत्वेन कादाचित्कत्वाऽनुपपत्तेः । तस्मान्न तमो नाम किञ्चिदस्ति वस्तु । नापि तज्ज्ञानम् । अथ च तमस्तमालनीलमुपलभामह इत्यभिमानो लौकिकानामालोकाऽदर्शने । सोऽयं विप्लवः । एवमभावदर्शनं तद्व्यवहारश्च विप्लव एवेति भावः ।
तदेतन्निराकरोति—न । सुषुप्त्याद्यवस्थासु प्रसङ्गात् । यदि हि ज्ञानव्यवहारयोरभावे तद्विभ्रमः, सुषुप्त्याद्यवस्थास्वपि तथा प्रसङ्गः । न हि तदा ज्ञानं, नाऽपि व्यवहारः । समस्तविज्ञानोपसंहृतिलक्षणात्वात्सुषुप्त्याद्यवस्थायाः । हेत्वन्तरमाह—अप्रमिते च भ्रान्त्ययोगात् सुषुप्त्यादिवत् ।
तमोदर्शनं तु भूच्छायादर्शनम् ।
प्रमितस्य हि भावस्य प्रमित एव भावे समारोपभ्रान्तिर्न पुनरसतो नापि ज्ञानाऽऽकारस्य, नाप्यग्रह इत्युपपादितं विभ्रमविवेके । अत्रापि सूचयिष्यति । न च ज्ञाव्नयवहाराभावौ क्वचिदुपलब्धपूर्वौ । तदुपलम्भे वा कृतमत्र भ्रमोपन्यासेन । तस्मादप्रमिते भ्रान्त्यनुपपत्तेरयुक्तमेतदित्यर्थः ।
दृष्टान्तस्तु साध्यविकल इत्याह—अत एव तमोदर्शनं तु भूच्छायादर्शनम् । अयमत्राऽभिसन्धिः । प्रमीयते तावत्तमस्तमालमालाश्यामम् । न चाऽप्रमितावेव प्रमितिविभ्रमसम्भवः । न चास्य बाधकमस्ति प्रमाणम् । न च तदभावे प्रमीयमाणमपह्नवमर्हति । अतिप्रसङ्गात् । न च तमसः प्रमाणाऽनुपलब्धेः प्रमा प्रथमानाप्यपह्नोतुमुचिता । रूपाद्युपलब्धेरपि तत्प्रसङ्गात् । न हि तत्प्रमाणमिन्द्रियाद्युपलभ्यते । रूपाद्युपलब्धिलिङ्गकमनुमानमस्योपलब्धिरिति चेत् ? न । इहापि समानत्वात् । ननु चक्षुरादिगोचरत्वमस्येत्युक्तम् । तर्हि वरमस्तु तमसि समस्तजनसाक्षात्काराऽऽस्पदे प्रमितिकार्यदर्शनात् प्रमाणान्तरमनुपलब्धपूर्वमपि, न पुनस्तस्याऽन्यतोऽनुपलम्भात् स्पष्टदृष्टकार्यविपर्ययो युज्यते । अस्तु वा चक्षुरेवाऽस्य कारणम् । न च निमीलिताक्षस्य पटलवतो वा तन्नास्ति, अपि तु पिहितम् । कथं तर्हि पिहितं190 घटादाविव बाह्ये तमसि प्रवर्त्तेतेति चेत् ? मा प्रवर्त्तिष्ट । किन्नश्छिन्नम् ? परिच्छेत्स्यति हि तच्छायां पक्ष्मणोः पटलस्य वाऽत्यासन्नामपि पिधातृणी पटलपक्ष्मणी पिदधतीं तामेवेक्षते चक्षुः, न तु पटलपक्ष्मणी । आलोकाप्यायितं तत्पृथिव्यादिग्रहे प्रभवति, न तु तच्छायायां तद्विरोधिन्याम्, केवलस्यैव तत्र सामर्थ्यात् । कार्यदर्शनोन्नेयत्वात्तस्य सूक्ष्ममपि चेषीकतूलादि चक्षुराच्छादकमासन्नमनुभूयमानमतिमहदनवधि चकास्ति तथेयमपि । न चाऽन्धानामितरगात्राऽवयववद् गोलकाधिष्ठाने तत्कार्योपलम्भसम्भवः । तद्भावे वा वरमुपलम्भकान्तरकल्पनेत्युक्तम् ।
कतमत्पुनर्द्रव्यादीनां तमः ? ननु द्रव्यमेव, कालिमगुणशालित्वात् स्पन्दवत्त्वाच्च । तथा हि । कालिमैवाऽस्य रूपमुपलभ्यते । अप्तेजसोरिव श्वेतिमा । एवं सङ्ङ्ख्या ऽप्येकत्वादिका परिमाणम्, तच्चतुर्विधम् । पृथिव्याद्यणूनामिव तमोऽणूनामप्यनुमानात् । पृथक्त्वसंयोगविभागपरत्वाऽपरत्वसंस्काराश्च पञ्चविधमपि कर्माऽध्यक्षमीक्षते । यथाहाऽत्रभवान्वार्तिककारः ।
न नु नाऽभावमात्रस्य तमस्त्वं वृद्धसम्मतम् ।
छायायाः कार्ष्ण्यमित्येवं पुराणे भूगुणश्रूतेः ॥
भूगुणस्य कार्ष्ण्यस्य च्छायायां द्रव्यान्तरश्रुतेरित्यर्थः ।
दूराऽऽसन्नप्रदीपादिदेहचेष्टाऽनुसारिणी ।
आसन्नदूरदीपादिमहदल्पचलाऽचला ।
देहानुवर्त्तिनी च्छाया न वस्तुत्वादिना भवेत् ॥ इति ।
न च पृथिव्यादीनामन्यतमम् । न तावत्कृष्णरूपस्य तमसस्तोयादिभावसम्भवः । तीयतेजसोः सितत्वादेवं पवनादीनां चाऽरूपत्वात् । न च परोपधानात् कालिन्दीसलिलस्येव तमसः कालिमेति साम्प्रतम् । अनुपहितस्य कदाचिदपि स्वाभाविकरूपान्तरशालिनोऽनुपलब्धेः, क्षेत्रसमुद्धृतस्येव कालिन्दीवारिणः स्वभावस्वच्छधवलस्य ।
नापि पार्थिवं तमः । तद्गुणानां गन्धादीनामभावात् । ननु तथैव गन्धादिव्याप्तं कृष्णमपि रूपं तन्निवृत्तावसदित्युक्तम् । तत्किं पवनेऽनुष्णशीतस्पर्शोऽसन्नेव ? गन्धादिव्याप्तस्य तस्य पृथिव्यामुपलब्धेः । पवने च तेषामभावात् । पाकजस्य स्पर्शस्य गन्धादिव्याप्तत्वम् । अयं त्वपाकजः स्पर्शो वायवीय इति चेन्न । इहापि साम्यात् । न हि तमसोऽपि कालिमा पाकजः । प्रत्यक्षं चोभयत्राऽपि समानम् । तमःपरमाणवश्च पार्थिवादिपरमाणव इव द्व्यणुकादिक्रमेण महान्तं तमोऽवयविनं पार्थिवमिवारम्भन्ते । तच्च रूपविशेषे सत्यनेकद्रव्यत्वान्महत्त्वाद्वा चाक्षुषमिति न तदुत्पत्त्यनवकॢप्तिः । न च तस्य दिवाऽऽरम्भसम्भवः शाश्वतिकविरोधे सति तेजसि । न जातु स्पर्शवद्वेगवन्मुद्गरादिघाते परिपन्थिनि कुम्भारम्भाय भवन्ति मृदवयवाः बिभ्रति वा कुम्भमारब्धमिति । अत एव हि दिवापि निरस्ततेजसि गिरिगुहायामारभन्ते एव ।
स्यादेतत् । न तामसः परमाणवो ऽवयविनमारभन्ते । स्पर्शविरहादात्ममनो व्योमवत्191 । न चाऽऽरम्भे रूपवत्त्वं प्रयोजकम् । अरूपाणामपि पवनपरमाणूनां स्पर्शवद्द्रव्यारम्भदर्शनादस्पर्शानां चाऽऽत्ममनसां तदभावात् । तत्किमत्र भवतां तमःपरमाणवः सन्ति न वा ? सन्ति चेत्कथन्तदवयविनामभावः ? तद्भावलक्षणत्वात् परमाणुभावस्य । असत्त्वे वा तमःपरमाणूनां कथं न हेतोराश्रयासिद्धिः ? हेतोरस्पर्शस्याऽसद्रूपत्वादसदाश्रयत्वमदोष इति चेन्न । तुच्छस्याऽहेतुत्वात्कल्पनारोपिततद्भावस्य च वस्तुनोऽसाधकत्वात्192 । न जातु समारोपितधूमभावा मिहिका193 कृशानुसाधनं भवति । प्रामाणिकस्य त्वभावस्य भावाऽधिकरणमन्तरेणाऽयोगात् । तमःपरमाणुष्वसत्स्वाश्रयाऽसिद्धतया भवत्यसिद्धिः, न तु स्वतोऽप्रसिद्धस्य सत्यामपि परप्रसिद्धौ साधनाङ्गत्वम्, स्वयमप्रतीतस्य परप्रत्यायनाऽनर्हत्वात् । यथोक्तम् ।
योऽपि तावत्पराऽसिद्धः स्वयंसिद्धोऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रियेति ॥
अपि चाऽस्पर्शस्य द्रव्याऽनारम्भकत्वेन न स्वाभाविकः सम्बन्धो मनसः शक्यो निश्चेतुं, वैयर्थ्यस्योपाधेर्विद्यमानत्वात्194 । धर्माऽधर्मनिमित्तत्वाद्विश्वकार्यनिर्माणस्य । साक्षात्पारम्पर्येण च सर्वं कार्यजातं भोगसाधनं सत्तन्निर्माणं स्यात् । न च मनोऽवयविनः शरीरतया विषयतया वा भोगसाधनता सम्भवति । इन्द्रियाऽनधिष्ठानतया देहभावाऽभावात् । अपार्थिवस्य च तद्भावाऽनभ्युपगमात् । विषयभावस्त्वननुभूयमानतयाऽनुपपन्नः । इन्द्रियभावस्त्वणुत एव मनसः । तमसस्तु रूपवतो विषयभावेन भवति भोगसाधनत्वमिति न वैयर्थ्यम् । परममहतां पुनरसमवायिकारणसंयोगविरहादधिकपरिमाणकार्यद्रव्याऽनुपपत्तेश्च कारणसमानन्यूनपरिमाणकार्याऽदर्शनाच्चाऽधिक्याऽयोगाच्च परममहत्त्वव्याधाताच्च न स्वसमवायिद्रव्यारम्भकत्वमिति सोऽयमुपाधिः । न चौपाधिकः सम्बन्धोऽनुमानाङ्गम् । मा भूदुपाध्यायदर्शनादसकृदवगतसहभावस्याऽनुमानं शिष्यस्य । न चाऽनन्यथासिद्धे नीलाऽन्धकाराऽनुभवे परिपन्थिनि स्फुरति प्रत्यक्षे बाधितविषयमनुमानमुदेतुमुत्सहते । मा भूदनुष्णत्वं तेजसो द्रव्यत्वात्पृथिव्यादिवदित्यनुमानम् । द्रव्यान्तरस्य च द्रव्यान्तराश्रयत्वं दृष्टम् । तद्यथा आकरजस्य तेजसः सुवर्णादेः पार्थिवद्रव्योपष्टम्भः, अन्यथा पतनादि न भवेद् गुरुत्वाऽभावात् । यथा चाऽभिजातमहानीलादिमणिसमाश्रयं तेजः न च तद्वदेतद् । भ्रमणतस्तेज195 इति साम्प्रतम् । तेजसस्तदाश्रयस्याऽन्ततः खद्योतादिगतस्यापि कयाचिन्मात्रया रूपप्रकाशनव्याप्तत्वात्तमसश्च तद्वैपरीत्यात् । तस्मात्तमो द्रव्यान्तरमपि पृथिव्याद्यनुविधास्यति, तेजसश्च विनङ्क्ष्यति । तदपगमे च पृथिव्यादिभ्यः पुनः प्रभविष्यति । चतुष्कादपवरकप्रविष्टस्य कतिपयाऽऽलोकाऽवयवसम्भेदविरलेऽपि तमसि सान्द्रताऽवगमो भ्रमः । इन्द्रियोपहतेः । कालपरिवासवशात् । उपहतिविगमे तु यथावत्पश्यत्यपवरकवर्तिनः पदार्थान्, अल्पां च तत्र च्छायाम् ।
आलोकाऽभावदशनं चेत्यसमानम् ।
सा च सान्द्रा पिधत्ते पदार्थान्, न तेजसा विरलीकृता । न चाऽऽलोकाभावमात्रं तम इति साम्प्रतम्, तस्य नीलत्वाऽनुपपत्तेरस्मृताऽनवलोकिताऽलोकस्य च तमःप्रत्ययाऽनुपपत्तिप्रसङ्गात् । तथा च परिस्पन्दादयस्तद्वर्तिनो ऽबगम्यमानाः कथञ्चित् क्लेशेन न व्याख्यामर्हन्ति । तस्मात्प्रत्यक्षसिद्धमसति बाधके द्रव्यान्तरमेकादशं तमो नवगुणं196 चेति सिद्धम् ।
नादृष्टौ दर्शनं छाया नवाऽभावोऽस्मृतौ गतेः ।
रूपादुपायसद्भावाद् द्रव्यं द्रव्यान्तराऽनुगम् ॥
इति सङ्ग्रहश्लोकः ।
अलं वा नैयायिकैर्विवादेन । आलोकाऽभाव एव तमः । तथाऽपि सिद्धत्येव नः समीहितमित्याह—आलोकाऽभावदर्शनं चेति । तस्मादसमानं दार्ष्टान्तिकेनेति । तद्यदि प्रमाणग्राह्यता प्रमाणसम्बन्धः, यदि वा तदर्हता, उभय्यप्यसावभावे सदाऽस्तीति तस्यापि सत्त्वप्रसङ्गः । अथ स्वरूपवर्तमानता,197 न साऽभावेऽस्ति । न । अतुच्छत्वोपपादनात् । न चैवमपि प्रतिभावं198 भेदवती सत्सदिति बुद्धिव्यपदेशयोरभिन्नाऽर्थावगाहिनोर्गोचरो भवितुमर्हति । अभेदे वाऽभिधानान्तरेण सामान्यमेव तत् । पूर्वाऽभिमर्शमन्तरेण सामान्यमप्रामाणकमिति चेत् ? न । विकल्पाऽसहत्वात् । कः खल्वयं पूर्वाऽभिमर्शोऽभिमत आयुष्मतः, यावदुपलब्धरूपपरामर्शः, आहोस्वित् कतिपयानामपि रूपाणाम् ? तत्र प्रथमस्य न क्वचिदपि सम्भवः । न खलूपलब्धचरशिलाभ्रकस्यापि199 वर्षासु शरदि पुनः पश्यतस्तादृशः पूर्वाऽवमर्शोऽस्ति । तस्याऽपि तदभावादन्यत्वप्रसङ्गः । कतिपयपरामर्शोऽत्रापि समानः । अस्ति खलु कतिपयानां रूपाणामनुगमस्त्रसरेणुकरेण्वोर्विविधभेदसमवायेऽपि वा द्रव्यत्वादिना । तस्माद्यथा सद्बुद्धिव्यपदेशयोरनन्ययासिद्धेर्गुणवत्त्वस्य च प्रतिगुणवद्भेदेन तदुपपादनाऽसामर्थ्यात् एवं द्रव्यगुणकर्मसामान्यानामपि अत्यन्तभिन्नानामपि सदित्यभिन्नबुद्धिव्यपदेशभाजामनुस्यूतमस्ति तत्सत्त्वम् । यस्य च त्रैकाल्याऽसम्बन्धादत्यन्ताऽसन्तः शशविषाणादयः, यस्य चाऽयोगव्यवच्छेदादत्यन्तसन्तः परमाण्वाकाशादयः, यस्य चात्यन्ताऽयोगव्यच्छेदात्कदाचिदेव सन्तः पटादयः, यस्य च सम्बन्धाद् द्रव्यगुणकर्मसामान्यानि स्वाऽभावव्यवच्छेदेन स्वाऽनुभवाद् भासन्ते, सामा
अस्तु वा प्रमाणग्राह्यता,200 वर्त्तमानता तु सत्त्वमुच्यते ।
अर्थाऽभावो नियोगस्य शाब्द्यां भूताद्यपाकृतौ ।
अनन्यगोचरत्वं न प्रमाणान्तरजन्मनि ॥
अशाब्दश्चेन्नियोगो नाभून्नास्ति न भविष्यतीति बोधयति न नियुक्तो न नियुज्यते न नियोक्ष्यते वा स्वर्गकाम इति वाक्यार्थः स्यादिति सुनिरूपितोऽधिकारः । अथ न शाब्दो भूतादिप्रतिक्षेपः किं तु तस्यौदासीन्यान्मानान्तरतस्तथाऽवसायः । न तर्ह्यनन्यगोचरः । मानान्तरेण तथात्वस्याऽवसायात् शब्दप्रमितस्य विशेषस्ततः । प्रत्यक्षस्येव गिरेरग्निमत्ता न्यरूपभूयस्त्वाऽल्पीयस्त्वनिबन्धनश्च तत्र वैलक्षण्याऽवगतिभेदः । यथाऽऽहाचार्यः ।
सामान्यरूपभूयस्त्वे तस्मात्तत्त्वं प्रकाशते ।
विलक्षणत्वमल्पत्वे चकास्ति तदनुद्भवात् ॥ इति ।
तदेतद् ब्रह्मसिद्धौ कृतश्रमाणां सुगममिति नेह प्रपञ्चितम् ।
अभ्युपेत्योच्यते । अस्तु वा प्रमाणग्राह्यता सत्त्वं, तथाऽपि वर्तमानता तु सा । कस्मात् ? अतीताऽनागतयोः प्रमाणग्राह्ययोरप्यसत्प्रतीतिव्यवहारास्पदत्वात् । वर्तमानतैव हि सत्त्वमुच्यते । तथा च वस्तुतः कालाऽनवच्छिन्नो नियोगः प्रमाणग्राह्योऽप्यसन्नेव सत्त्वे च न201 मानान्तराऽगोचर इति सिद्धम् ।
अपि च—
अर्थाभावो नियोगस्य शाब्द्यां भूताद्यपाकृतौ ।
अनन्यगोचरत्वं न प्रमाणान्तरजन्मनि ॥
अपि चास्य त्रैकाल्याऽनवच्छेदः शब्देन वा प्रतिपाद्यते, मानान्तरेण वा ? यदि शब्देनाऽत्यन्ताऽसत्त्वम् । मानान्तरेण तु त्रैकाल्यव्यवच्छेदे मानान्तरगोचरत्वप्रसङ्गाद्विवक्षितार्थभावनमित्याह—अशाब्दश्चेन्नियोगो नाऽभून्नास्ति न भविष्यतीति बोधयति तथा सति न नियुक्तो न नियुज्यते न नियोक्ष्यते स्वर्गकाम इति वाक्यार्थः स्यादिति सुनिरूपितोऽधिकारः । अथ न शाब्दो भूतादिप्रतिषेधः, तस्य शब्दस्य तेषु भूतादिषु निषेध्येष्वौदासीन्यात्, किन्तु मानान्तरतस्तथाऽवसायः, त्रैकाल्यव्यवच्छेदेनाऽवसायः । न तर्ह्यनन्यगोचरः । कुतः ? मानान्तरेण तथात्वस्य त्रैकाल्यावच्छेदस्याऽवसायात् ।
ऽनुमानात् । न । विशिष्टाऽपरिच्छेदे विशेषणस्याऽविषयत्वात् । अपि च अन्यतोऽपि तथात्वाऽधिगमेऽनियोग एव स्वर्गकामः । तस्यापि प्रमाणत्वात् । अतत्त्वे वा भूतादिविवेकाऽभिधानं प्रलापः । ननूपाधयो भूतादयः, न चोपाधिनिवृत्तावुपाधिमतो निवृत्तिरप्रतीतिर्वा । भवत्वन्योपाधिष्वेवमिह त्वेतल्लक्षणमेवाऽत्यन्ताऽसत्त्वम् । नित्याऽनित्यत्वोपाधिनिवृत्तौ च नोपाधिमत्सम्भवः । प्रत्यक्षं त्वापातजन्मकाले भेदोपाधिविविक्तरूपमात्रग्राहीति न ततो विषयभेदः । अवर्त्तमानस्याऽरूपत्वाद्वर्त्तमानविषयं तत् । सत्यं वस्तुतो
शङ्कते—शब्दप्रमितस्य नियोगस्य विशेषस्त्रैकाल्यविवेकस्ततो मानान्तरात् । न पुनर्मानान्तरं नियोगे प्रवर्तत इति । अत्रैव निदर्शनमाह—प्रत्यक्षस्येव गिरेरग्निमत्ताविशेषोऽनुमानात्, न तु तदग्निमत्तागोचरं गिरिमपि गोचरयितुमर्हति । निराकरोति—न । विशिष्टाऽपरिच्छेदे विशेषस्याऽविषयत्वात् । न ह्यस्ति सम्भवो यद्विशिष्टं पर्वतादि न परिच्छिद्यते, तद्विशेषश्चाऽग्निमत्त्वं गम्यत इति । न चाऽप्रत्यक्षीकृतपर्वतस्तद्विशेषमनुमातुमर्हतीति साम्प्रतम् । अनुमानसमये प्रत्यक्षज्ञानस्याऽतीतत्वेन गिरेरपरिच्छेदात्स्मृत्यनुपपत्तेश्च । तदा युगपद् ज्ञानोत्पत्तेरनुपपत्तेरन्तःकरणस्य प्रत्ययपर्याये सामर्थ्यात् । अन्यथा समानगोचरबुद्धिधाराऽऽनुपपत्तेः । सकृदेव यावत्कर्तव्यकरणात् । समर्थस्य क्षेपाऽयोगात् । प्रत्यक्षाऽनुमानयोश्च धर्मिधर्मरूपमात्रगोचरतया सहस्थितावपि विशिष्टत्वाऽनवभासनात्202 । अपि चास्याऽन्यतोऽपि तथात्वाऽधिगमेऽनियोग एव स्वर्गकामः । तस्याऽपि प्रमाणत्वात् । कालत्रयविरहात् । तत्त्वे वा203 भूतादिविवेकाऽभिधानमप्रमाणिकं प्रलापः । चोदयति—ननूपाधयो विशेषणानि वस्तुतो भूतादयः कर्णस्येव कुण्डलादयः । न पुनः स्वभावः । ततः किम् ? इत्यत आह— न चोपाधिनिवृत्तौ सत्यामुपाधिमतोऽपि निवृत्तिरप्रतीतिर्वा । न खलु कुण्डलनिवृत्तौ कर्णो निवर्तते, न प्रतीयते वा । परिहरति—भवत्वन्योपाधिषु कुण्डलादिष्वेवम्, इह त्वेतल्लक्षणं त्रैकाल्यविवेकलक्षणमेवाऽत्यन्ताऽसत्त्वम् । न खलु शशविषाणादीनामत्यन्ताऽसत्त्वमन्यत् । अतस्त्रैकाल्यविवेकात् । न केवलमयमन्येऽपि सन्ति ते उपाधयो ये निवर्तमाना वस्तुसत्तां निवर्तयन्तीत्याह—नित्याऽनित्यत्वोपाधिनिवृत्तौ नोपाधिमत्सम्भवः । अपि च शब्दतस्त्रैकाल्याऽनवमर्शे प्रत्यक्षं त्वापातजन्मविशेषणविशेष्यभावाऽनवमर्शात् कालभेदोपाधिविविक्तरूपमात्रग्राहीति न ततः प्रत्यक्षाद्विषयभेदः शाब्दस्य ज्ञानस्य भवेत् ।
न प्रमितितः । वस्तुतो वर्तमानादिविवेके निरात्मकत्वमत्यन्ताऽप्रमितितो न विषयभेदात्प्रमाणान्तराऽनपेक्षत्वं शब्दस्य । सैषोभयतस्पाशा ।
ननु प्रतीयते यजेतेति कार्योऽर्थो, न स भविष्यन्मानाऽभावात् एकान्ताऽनवधारणात् । कार्य्यत्वादेव नेतरकालाऽनुपाती । न च नास्ति । प्रतीतेः । उक्तोत्तरमेतत् । सात्मकत्वे न वस्तुतः कालभेदः, प्रमितितश्चेन्न विषयभेद इति नैरात्यम् । कथं तर्हि प्रतीतिः ? अत एव प्रतिभामात्रं विकल्पमात्रं वा शाब्दज्ञानमिति विपश्चितः । प्रतिभानिबन्धनश्च व्यवहारः । प्रतिभाऽनुगृहीतानि च प्रमाणानि व्यवहाराऽङ्गमिति ।
शङ्कते—अवर्तमानस्याऽरूपत्वाद्वर्तमानविषयं तत् । निराचष्टे—सत्यं वस्तुतो न प्रमितितः । उक्तमर्थं सङ्क्षिपति—तत्र नियोगे वस्तुतो वर्तमानादिविवेके निरात्मकत्वमत्यन्ताऽप्रमितितो न विषयभेदात् प्रमाणान्तराऽनपेक्षत्वं शब्दस्य, सैषोभयतस्पाशा रज्जुः ।
चोदयति—ननु प्रमीयते यजेतेति कार्यो ऽर्थो न स भविष्यन्, भविष्यत्यर्थे प्रमाणाऽभावादेकान्ताऽनवधारणात्तत्त्वाऽनिश्चयात् । मा भूद् भविष्यन्, वर्तमानोऽतीतो वा स्यादित्यत आह—कार्यत्वादेव नेतरकालाऽनुपाती । गगनकुसुमायमानस्तर्हीत्यत आह—न च नास्ति । कुतः ? प्रतीतेः । न ह्येकान्ताऽसतः प्रतीतिविषयभावः सम्भवतीति । परिहरति—उक्तोत्तरमेतत् । उक्तप्रायमस्योत्तरम् । तद्दर्शयति—सात्मकत्वे न वस्तुतः कालभेदविवेकः प्रमितितश्चेन्न विषयभेदः, प्रत्यक्षाद् घटादिशब्दाच्चेति । तस्मान्मानान्तराऽगोचरत्वमिच्छतो नियोगस्य त्रैकाल्यसम्भेदविरहमन्तरेण तदनुपपत्तेर्नैरात्म्यमापतेत् ।
कथं तर्हि प्रतीतिरत्यन्ताऽसतः ? उत्तरम्—अत एवाऽसद्गोचरत्वादेव प्रतिभामात्रंविकल्पमात्रं वा शाब्दं ज्ञानमिति विपश्चितः । असत्प्रतीतिरेव प्रतिभेति वा विकल्प इति वा मतभेदेन व्यपदेशभेदवती । एतदुक्तं भवति, नाऽत्यन्ताऽसत्प्रतीतेरगोचरो ऽपि तु प्रमितेः । नन्वसद्विषया प्रतीतिः कथं व्यवहाराऽङ्गम् ? न खलु खद्योतं दहन इति मन्यमानस्तेन दहति पचति वेति । अत आह—प्रतिभानिबन्धनश्च व्यवहारः । नाऽस्त्ययं नियमः, असदर्थविज्ञानं न व्यवहाराङ्गमिति । संशयविपर्ययौ हि तथा । ताभ्यां व्यवहाराऽनुपलब्धेः । प्रतिभा पुनर्व्यवहारहेतुः । तद्भावाऽभावाऽनुविधानाद् द्रव्यव्यवहारभावाऽभावयोरित्यर्थः । यद्येवं न तर्हि व्यवहारसाधनत्वं प्रमाणानाम्, प्रतिभात एव तत्सिद्धेरित्यत आह—प्रतिभाऽनुगृहीतानि च प्रमाणानि व्यवहाराङ्गम् । एतच्चोपरिष्टात् स्पष्टयिष्यतीति । इतिः समाप्तौ ।
अपि च—
वेदार्थ इत्थमाशङ्का नियोगस्य न कार्यता ।
नियुक्तस्य प्रवृत्तिश्च न नियोगैकबन्धना ॥
यत् खलु न भूतं न वर्त्तमानं भावि न वेत्यनवधारितैकान्तं तदाशङ्काज्ञानगोचरो, यथा वर्षमनतिपतितमप्रवृत्तमतिनीलबहलजलदोदयदर्शनसामर्थ्येन प्रत्ययपथमनुपतद्व्यभिचारदर्शनादनिश्चीयमानैकान्तम् । इमां चाऽवस्थां वत वेदार्थः प्रज्ञाशालिभिरुपनीतोऽतिव्याख्यया ।
अपि च विषयः कार्य्यो न नियोगः । कार्यश्च वेदप्रमेयः इतरपदार्थानां तदन्वयित्वात् । तस्यैव कालविविको मानान्तराऽगोचरतयाऽनपेक्षत्वसिद्धये-
अपि च—
वेदार्थ इत्थमाशङ्का नियोगस्य न कार्यता ।
नियुक्तस्य प्रवृत्तिश्च न नियोगैकबन्धना ॥
यत्खलु न भूतं न वर्तमानं भावि न वेत्यनवधारितैकान्तं तदाशङ्काज्ञानगोचरः । तद्यथा वर्षमनतिपतितमभूतमप्रवर्तमानमतिनीलबहल जलदोदयाद्बहुलदर्शनसामर्थ्येन प्रत्ययपथमनुपतत्क्वचिद् व्यभिचारदर्शनादनिश्चीयमानैकान्तम् । ततः किम् ? इत्याह—इमां चाऽवस्थां वेदार्थः प्रज्ञाशालिभिरुपनीतो ऽतिव्याख्यया । निश्चयफलं हि प्रमाणम् । अयं च204 स्वार्थे शङ्कामनिश्चयात्मिकां विदधानोऽप्रमाणं स्यादित्यर्थः ।
तदनेन वेदार्थ इत्थमाशङ्केति विवृतम् । नियोगस्य न कार्यतेति विवृणोति—अपि च विषयः कार्यो न नियोगः । आज्ञादिषु हि नियोगेषु स्वाम्यादिनियोक्तृकेषु विषयः कार्योऽवगम्यते नियोज्येन । च चाऽऽज्ञादयो नियोगा इत्यर्थः । ततः किम् ? इत्याह—कार्यश्च वेदप्रमेयो लोकाऽनुसारात् । ननु द्रव्यादयोऽपि तत्पदेभ्योऽवगम्यन्त इति कथं तस्यैव वेदप्रमेयता ? इत्यत आह—इतरपदार्थानां तदन्वयित्वात् । कार्यान्वयित्वात् । एतदुक्तं भवति । सर्वमेव पदजातं कार्यपरम्, तत्रैव व्युत्पत्तेः, तत्र किञ्चिदभिधायकतया, यथा लिङादि । किञ्चित्तु तदर्थस्वार्थाऽभिधायकतया यथा दध्नेत्यादि । भवत्वेवम्, प्रकृते तु किमायातम् ? इत्यत आह—तथा च तस्यैव कार्यस्यैव वेदार्थस्य कालविवेको मानान्तराऽगोचरतयाऽऽम्नायस्य साऽपेक्षत्वसिद्धयेऽभिधानीयो न तु नियोगस्य, तस्याऽकार्यत्वेन वेदार्थत्वाऽभावात् । न चासौ कालरहितः । तस्य कारकव्यापारविषयतया205 त्रैकाल्यपरामर्शसम्भवादिति भावः ।
ऽभिधानीयः । ननु नियोग एव कार्य्यत्वप्रत्ययः । एवं हि व्यपदिशन्ति, आचार्य्यनियोगः कर्तव्यो राजशासनमनुष्ठेयमिति । नैतत् । नियोज्यस्य नियोक्तृत्वप्रसङ्गात् । नियोगस्य हि कर्ता नियोक्तेति । अपि च । यागे नियोगात्कर्तव्यता तस्य कुतः ? न ह्येष तत्र नियुज्यते ।
स्वरूपेणैव स कार्यः, न तत्राऽन्यापेक्षा विषयवत् । किं तु यजेतेति याजयेदित्यर्थः स्यात् । तथा च स्वर्गकामोऽन्यनियोगमात्रेण कृतशास्त्रार्थः स्यादिति साधु सुसम्पादितमत्रभवता । नियोगार्थे च कार्ये स्वर्गयागयोः परस्पराऽसम्बन्धस्तदन्वयात् ।
चोदयति—ननु नियोगे एव कार्यत्वप्रत्ययो लौकिकानाम् । कुतः ? एवं हि व्यपदिशन्ति, आचार्यनियोगः कर्तव्यः, राजशासनमनुष्ठेयमिति । परिहरति—नैतत् । कुतः ? नियोगश्चेन्नियोज्यस्य कार्यः, तथा च सति नियोज्यस्य नियोक्तृत्वप्रसङ्गात् । कस्मात् ? नियोगस्य हि कर्त्ता नियोक्ता । यथा स्वाम्यादिराज्ञादेः । अपि च यागे विषये नियोगात्कर्तव्यता तस्य नियोगस्य । कुतः कर्तव्यता ? यद्युच्येत, नियोगादिति, तत्राह—न ह्येष तत्र नियोगे नियुज्यते । नियोगान्तराऽभावात् । स्वात्मनि च विषयविषयिभावाऽनुपपत्तेः । भेदाऽधिष्ठानत्वात्तस्य ।
शङ्कते—स्वरूपेणैव स नियोगः206 कार्यः । न तत्राऽन्याऽपेक्षानियोगान्तरापेक्षा विषयवत् । यथा हि विषयो विषयिनियोगकर्तव्यताक्षेपात्कर्तव्यः, यथाह—यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तन्त्रे व्यवहार इति, नैवं नियोगस्य कर्तव्यता, स्वभावत एव तस्य तत्त्वादित्यर्थः । परिहरति— भवतु, किन्तु यजेतेति याजयेदित्यर्थः स्यात् ।
अयमभिसन्धिः । न तावदपूर्वं भावार्थविषयं कार्यतया ऽवगम्यमान स्वात्मनि नियोज्यं प्रेरयन्नियोगो लिङाद्यर्थ इत्युपपादितमधस्तात् । तथा चाऽऽज्ञादय एवाऽवशिष्यन्ते इति यजेतेति लिङा कार्य नियोगमभिदधता यागविषयाऽऽज्ञादिरर्थः कर्तव्य इत्युक्त स्यात् । तस्य चाऽपौरुषेये वेदे ऽपि सम्भवः । न चाऽऽज्ञादयो विषयाऽनुष्ठानमन्तरेणाऽज्ञापयित्रा कर्तुमशक्याः । न खलु राजा विष्टिं नियुञ्जानः शिबिकावहने बहति स्वयं शिबिकाम् । ततश्च स्वर्गकामो यागनियोगकरणमात्रेण कृतशास्त्रार्थः स्यादिति साधु सुकरं सम्पादितमत्रभवता ।
अतश्च न नियोगः कार्य इत्याह—नियोगार्थे च कार्ये स्वर्गयागयोः परस्पराऽसम्बन्धः । कुतः ? तदन्वयात् । कार्यरूपनियोगान्वयादुभयोः ।
एकनियोगसम्बन्धिनोररुणैकहायनीवन्नियमात् । सत्यम् । नाऽन्यकामो यागनियोगे । स्वर्गकामनियोगो न यागादन्यत्र । साध्यसाधनभावस्त्वयुक्तः ।
ननु न नियोगो विषयनियोज्यसम्बन्धमकुर्वन् कर्तव्यताऽवगमायाऽलम्, रूपाऽभावात् कञ्चित्क्वचिन्नियुङ्क्त इति हि नियोगस्य रूपमस्येदं कर्तव्यमिति । न च सम्बन्धो गुणप्रधानभावादृते सम्भवतीति नेष्टं परनिष्पत्तये इति स्वर्गस्याऽपरार्थत्वाद्यागस्य तादर्थ्यम् । इष्टसंयुक्ते तदर्थाऽन्वयप्रतीतेः । करोतु नियोज्यविषयसम्बन्धं नियोगः, विषयनियोज्यविशेषणसङ्गतिस्तु कुतः ?
चोदयति—एकविनियोगसम्बन्धिनोः स्वर्गयागयोररुणैकहायनीवन्नियतः परस्परसम्बन्धः स्यात् । एतदुक्तं भवति । न विनियोगोपमर्द्दी नियोगः । तद्विषयतया तदविरोधेनाऽवस्थानात् । परिहरति सत्यम्, नाऽन्यकामो यागनियोगे । स्वर्गकामनियोगो न यागादन्यत्र । साध्यसाधनभावस्त्वयुक्तः । स्वर्गयागयोरेकनियोगसम्बन्धिनोरपि स्वर्गकामयागयोरेव सम्बन्धो ऽवगम्यते, न पुनः स्वर्गयागयोः । अनवगम्यमानश्च विनियोगो न नियोगविषय इत्यर्थः ।
चोदयति—ननु न नियोगो विषयनियोज्यसम्बन्धमकुर्वन् स्वयं कर्तव्यताऽवगमायाऽलम् । कुतः ? तदसम्बन्धे रूपाऽभावात् । नियोगत्वोपाधिकरूपं207 दर्शयति—कञ्चिन्नियोज्यं स्वर्गकामादि क्वचिद्विषये यागादौ नियुङ्क्ते इति हि नियोगरूपं विषयनियोज्याभ्यामस्य निरूप्यमाणत्वात् । ताभ्यां निरूप्यमाणत्वं दर्शयितुं स्वरूपमप्याह—कार्यताऽऽकारेणाऽप्युभयनिरूप्यत्वमस्येदं कर्तव्यमिति । न वा तया ऽपि नियोज्यद्वारा स्वर्गस्य यागसम्बन्धो गुणप्रधानभावादृते सम्भवतीति नेष्ट परनिष्पत्तय इति स्वर्गस्याऽपरार्थत्वाद्यागस्याऽनिष्ठत्वेन तादर्थ्यं स्वर्गार्थत्वम् । तस्मात्सिद्धः स्वर्गयागयोः साध्यसाधनसम्बन्धः । नन्वयं तादर्थ्ये सति, तदेव कुतः ? इत्यत आह— इष्टसंयुक्ते वाक्ये स्वयमनिष्टस्य तदिष्टार्थाऽन्वयप्रतीतेः । दूषयति— करोतु नियोज्यविषयसम्बन्धं नियोगः, विषयनियोज्यविशेषणसङ्गतिस्तु कुतः ? ययोरेकनियोगसम्बन्धस्तयोर्भवतु परस्पराऽन्वयनियमः स्वर्गकामयागयोः, स्वर्गयागयोस्तु किमायातम् ? न हि स्वर्गो याग इव नियोगेन सम्बद्धः, अपि तु नियोज्यविशेषणमित्यर्थः ।
विशिष्टसम्बन्धाच्चेत् । जीवनादेरपिप्रसङ्गः । किमतः ? अङ्गत्वं वा निमित्तस्य प्राधान्यं वा । अङ्गत्वे ऽतिदेशप्रसङ्गो निमित्तस्य ।
प्राधान्ये काम्यनैमित्तिकाधिकारयोरविशेषः । उभयोः कार्यनिष्ठत्वान्न नैमित्तिकः प्रयोगनिष्ठः स्यात् । तथा चोभयत्र सर्वाङ्गोपसंहारो न वा । नियोज्यभेदसमर्प्पणेन कृतार्थस्य जीवनादेर्न विषयसम्बन्धः स्यात् । आर्थस्तु निमित्तनैमित्तिकभावः । तस्मिंश्च सति तत्राऽधिकारात् स्वर्गकामो यजेतेत्यपि तर्ह्येवं स्यात् । न भविष्यति । साध्यस्यैव विशेषणत्वात् । काम्यत्वात् । तथापि न विषयसम्बन्धे प्रमाणम् । अन्यसाध्यस्यापि
चोदयति—विशिष्टसम्बन्धाच्चेत् । यद्यपि न साक्षात्स्वर्गो नियोगेन सम्बद्धः, तद्विशिष्टस्तु नियोज्यो नियोगसम्बद्ध इति स्वर्गोऽपि तन्मुखेन नियोगसम्बद्ध इत्येकनियोगसम्बन्धाद्यागेनापि सम्बध्यते । तथा च साध्यसाधनभावसिद्धिरनयोरित्यर्थः । दूषयति—जीवनादेरपि निमित्तस्य नियोज्यसम्बन्धद्वारेण नियोगसम्बन्धे यागादिसम्बन्धप्रसङ्गः । चोदकः पृच्छति, किमतः ? उत्तरम्—अङ्गत्वं वा निमित्तस्य नियोगविषये यागादौ प्राधान्यं वा । तत्राऽङ्गत्वे विकृतौ समिदादिवदतिदेशप्रसङ्गो निमित्तस्य । प्राधान्यं तु यागं प्रति साध्यत्वलक्षणं जीवनादेर्निमित्तस्य सिद्धस्य न सम्भवत्येव ।
अभ्युपेत्योच्यते । प्राधान्ये काम्यनैमित्तिकाऽधिकारयोरविशेषः । कुतः ? उभयोः कार्यनिष्ठत्वात् । ततश्च न नैमित्तिकः प्रयोगनिष्ठः208 स्यात् । मा भूत्, का नः पीडा ? इत्यत आह—तथा चोभयत्र काम्ये नैमित्तिके च सर्वाऽङ्गोपसंहारो न वा ? चोदक आह—नियेज्यभेदसमर्पणेन कृतार्थस्यैव जीवनादेर्न विषयसम्बन्धः स्यात् । न ह्यस्य विषयसम्बन्धमन्तरेण वैयर्थ्यम्, नियोज्यावच्छेदकतयाऽर्थवत्त्वादित्यर्थः । यदि नियोज्यभेदसमर्पणेन चरितार्थं जीवनं न सम्बन्धान्तरमर्हति, हन्त भोर्निमित्तनैमित्तिकभावमपि न भजेतेत्यत आह—नियोज्यभेदसमर्पणपरस्यैव जीवनादेः । आर्थस्तु निमित्तनैमित्तिकभावः । आर्थतां दर्शयति—तस्मिन् सति तत्राऽधिकारात् । दूषयति— स्वर्गकामो यजेतेत्यपि तर्ह्येवं स्यात् । नियोज्यविशेषणं कामो निमित्तत्वेन सम्बध्यते, न साध्यतयेत्यर्थः । चोदक आह—न भविष्यति कामस्य निमित्तभावः । सिद्धस्य निमित्तता भवति, कामस्य तु साध्यस्यैव नियोज्यविशेषणत्वात् । साध्यतैवाऽस्य कुतः ?209 इत्यत आह—काम्यत्वात् । यो हि यदिच्छति तत्तस्य साध्यम् । इच्छाप्रयत्नयोर्वैयधिकारण्याऽभावादिति भावः । दूषयति—तथा ऽपि न विषयसम्बन्धे कामस्य प्रमाणमस्ति ।
विशेषणत्वोपपत्तेः । इच्छामात्रदृष्टेश्च । ननु कामिनोऽधिकाराऽवगतिः कामोपायेऽवकल्पते, नान्यथा तत् नियोज्येन कृतं स्यात् । कामिना कृतं नियोज्येन कृतं स्यात् ।
न तु कामः प्रवृत्तिहेतुः, अधिकारहेतुस्तु । अधिकारहेतुका च प्रवृत्तिरिष्यते न फलहेतुका, प्रागधिकारात्तदज्ञानात् ।
ननु साध्यं साधनाऽपेक्षीति सन्निधानाद्विषयः साधनतयाऽनेन सम्भन्त्स्यत इत्यत आह—अन्यसाध्यस्याऽपि विशेषणत्वोपपत्तेः । अयमभिसन्धिः । समानपदोपादानतया नियोगेनैव स्वविषयो भावार्थः कारणतया स्वीकृतो नाऽन्यत्र तद्भावमनुभवितृमर्हति । साध्यद्वयसमवायस्यैकत्राऽसम्भवाद् वाक्यभेदप्रसङ्गात् । न च स्वर्गनियोगयोः साध्यत्वमन्यथा नोपपद्यते, येन साध्यविवृद्धिः कल्प्येत । अन्यसाध्यस्यापि स्वर्गस्य नियोज्याऽवच्छेदकतया नियोगसाध्यत्वप्रतिपत्तेरुपपत्तेरिति । अपि चाऽभ्युपेत्य साध्यत्वं कामस्येदमुदितम्, परमार्थतस्तु साध्यताऽपि न प्रतीयत इत्याह—इच्छामात्रदृष्टेश्च । प्रयत्नव्याप्यता हि साध्यता, न पुनरुद्देश्यतामात्रम्,210 नाऽपि तदविनाभाविनी सा । न खलु कारणान्यवश्यं कार्यवन्ति व्यभिचारादिति भावः ।
चोदयति—ननु कामिनोऽधिकाराऽवगतिर्नियोगाऽवगतिः, प्रधानं कार्य प्रत्यात्मनस्तैरश्चीन्यविज्ञानमिति यावत्, कामोपाये स्वर्गाद्युपाये एव धात्वविषयिणः कार्यस्य नियोगस्य काम्योत्पादाऽनुकूलत्वे सत्यवकल्पले । यस्मान्नाऽन्यथा काम्यऽनुपायत्वे तत्कर्म्म कामिना नियोज्यते साधनं कृतं स्यात्किन्तु पुरुषमात्रेण । फलानुकूलनियोगाऽवगमे हि विवृद्धे साध्ये एकस्मिन्नियोगफलरूपसाधनतयाऽबगम्य कर्म्म प्रयुज्येत । तदवश्यमेवंविधनियोगप्रतीतिसामर्थ्याद्भावार्थस्य कामोपायत्वमभ्युपेयमित्यर्थः ।
उत्तरम्—कामिना कृतं नियोज्येन कृतं स्यात् । कामोपायस्तर्हि कर्मेत्यत आह—न तु कामः प्रवृत्तिहेतुः । यदि हि प्रवृत्तिहेतुः कामो भवेत्ततो नाऽनुपाये प्रवर्त्तते कामीति प्रवृत्तिविषयस्य तदुपायत्वं स्यात्, न त्वस्य प्रवृतिहेतुतेत्यर्थः । किमयमहेतुरेव कामः ? तथा च व्यर्थमस्य श्रवणमित्यत आह—अधिकारहेतुस्तु । नियोगाऽवगमनहेतुस्तु नियोज्यावच्छेदकतया । कुतस्तर्हि प्रवृत्तिः ? इत्यत आह—अधिकारहेतुका च प्रवृतिरिष्यते, न फलहेतुका । कुतः ? प्रागधिकारात्तत्फलाऽज्ञानात् । नियोगाऽबगमस्य पुनः
ननु कामिनोऽधिकारः । कामाऽनुपाये च न कामनिमित्तः । अधिकारो न निर्निमित्तो न वाऽन्यनिमित्तः । कामनिमित्तः । सत्यस्मिन्नधिक्रियमाणत्वात् ।
नन्वनुपायेऽधिक्रियमाणस्य न फलार्थिता निमित्तम् । उपाये ह्यपेयार्थिता नियोगनिमित्तम् । सिद्धे तर्ह्युपायोपेयभावे नियोगः । न नियोगात्तत्सिद्धिः । सिद्ध एवाऽसौ नियोगात्प्रतीयते । न । सापेक्षत्वात् । तथा हि—यदि विशिष्टपुरुषनियोगः शब्दार्थः कथं स नियोगाद् गम्यते ? अथ फलविशेषनिमित्तको नियोगः, नासौ प्रागसिद्धे तद्भावे इति प्राक्सिद्ध- पुरस्ताच्चेत्फलमवगन्तव्यम्, कृतं फलाऽबगमेन, नियोगाऽवगमादेव प्रवृत्तिसिद्धेरित्यर्थः ।
पुनश्चोदयति—ननु कामिनोऽधिकारः स्वर्गकामादिपदसम्बन्धादवगम्यते । तथा च कामो निमितमधिकारस्येत्यर्थः । भवतु, किं ततः ? इत्याह—कामाऽनुपाये च न कामनिमित्तो नियोगः । नापि निर्निमित्त इत्याह—अधिकारः कार्यरूप इति । न निर्निमित्तः । स्वरूपहानिप्रसङ्गात्211 । न वाऽन्यनिमित्तः । कामपदवैयर्थ्यादिति भावः । उत्तरम्—कामनिमित्तः । कुतः ? सत्यस्मिन् कामेऽधिक्रियमाणत्वात् ।
चोदकः स्वाभिप्रायं कथयति—नन्वनुपायेऽधिक्रियमाणस्य फलार्थिता न हि नियोगावगमस्य निमित्तम् । कुतः ? उपाये ह्यपेयार्थिता नियोगाऽवगमनिमित्तम् । दूषयति—यद्युपेयार्थिताऽनुपाये नियोगाऽवगमननिमित्तम्, सिद्धे तर्ह्यपायोपेयभावे नियोगः । ओमिति ब्रुवन्तं प्रत्याह—न नियोगात्तत्सिद्धिः । ततश्च सेष्यते इति भावः । चोदक आह—सिद्ध एवासौ नियोगात्प्रतीयते । अयमर्थः । न तदवगमपुरःसरं नियोगविज्ञानमपि तु नियोज्यस्य स्वर्गकामस्य यागे नियोगाऽवगमोऽपर्यवस्यन् स्वर्गयागयोः साध्यसाधनभावमाक्षिपति । तेन सिद्ध एवोपायोपेयभावः । कारणान्तरान्नियोगेन ज्ञाप्यत इति । तद् दूषयति—न । सापेक्षत्वप्रसङ्गात् । तद् दर्शयति—तथा हि । यदि विशिष्टपुरुषनियोगः शब्दार्थः । यो हि पुरुषः स्वर्ग उपायेन मे212 साध्य इत्यवगच्छति तदीयो नियोगः शब्दार्थः । तर्हि नियोगात्प्रागयं विशेषः पुरुषस्याऽवगन्तव्य इति कथं स विशेषो नियोगाद् गम्यते ? अथ फलविशेषनिमित्तको नियोगः, यागसाध्यता स्वर्गस्य विशेषः, तन्निमित्तको नियोगः शब्दार्थः । निराकरोति—नासौ प्रागसिद्धेऽनवगते तद्भावे याग
तद्भावाऽपेक्षः शब्देनोच्यत इति प्रमाणान्तराऽपेक्षत्वप्रसङ्गः ।
उपेयस्यैव चाऽधिकारनिमित्तत्वे जीवनादिष्वधिकाराऽभावः ।
निमित्तत्वप्रतीतिहेतुशब्दाऽभावाच्चाऽयुक्तमेवैतत् । नियोज्यविशेषणमेव तु तस्मिन्सति नियोगादर्थान्निमित्तमुच्यते । यदि च स्वर्गकामादयो साध्यत्वे फलस्य भवितुमर्हतीति मानान्तरेण प्राक्सिद्धतद्भावाऽपेक्षः शब्देनोच्यत इति प्रमाणान्तराऽपेक्षत्वप्रसङ्गः ।
इदमत्राऽऽकूतम् । न तावत्साध्यस्वर्गाऽविशिष्टस्य यागविषयकार्याऽवगतिर्यागस्य साध्यं स्वर्गं प्रति साधनतामाक्षेप्तुमर्हति, नियोगप्राधान्यविरोधेन प्रत्युत प्रतिक्षेपार्हत्वात् । प्रधानभूतनियोगसिद्ध्यनुकूलनियोज्यसिद्ध्यर्थमनुप्रवेशात् । चिकीर्षितस्याऽपि फलस्य साध्यता न नियोगरूपकार्यप्राधान्यविरोधिनी, तदधीनप्रतीतित्वात्, किन्तु नियोगकार्ये प्राधान्याऽनुकूलतया तादर्थ्येनैवाऽवतिष्ठते । गर्भदासोपकारवत्, इति चेन्न । चिकीर्षिताऽचिकीर्षितसमवाये चिकीर्षितार्थेन चेतनव्यापारेण तदितरस्य तादर्थ्येन व्यापारात् । अप्राधान्यापादनेन तदनुकूलताऽनुपपत्तेः । तादर्थ्येन निवेशात्तदानुकूल्यमिति चेन्न । स्वभावविरोधेन तदनुपपत्तेः । न हि जातु सन्तापदूनस्योपकर्तुमुपनिधीयमानो दहनस्तदनुकूलतामाचरति । न चाऽसुखमसुखसाधनं वाऽपूर्व चिकीर्षागोचर इत्यावेदितम् ।
यत्तु गर्भदासवदित्युक्तम्, तदयुक्तम् । द्वौ हि तत्र प्रयत्नौ चेतनद्वयसमवायिनौ । तत्र स्वामिनः प्रयत्नः स्वार्थमुद्दिश्य गर्भदासोपकाराय प्रवर्त्तते । गर्भदासोऽपि च स्वयोगक्षेमसमवहितस्वान्तवृत्तिरेव प्रवर्त्तते स्वाम्यर्थे । गर्भदासस्थानीयश्चायं नियोज्यः कामी नियोगं कृत्या व्याप्नुयात् । तथा च कामोद्देशेनाऽस्य कृतिः प्रवृत्ता गर्भदासस्येव स्वार्थोद्देशेन स्वाम्यर्थमिव नियोगं व्याप्नुयात्, न पुनः प्राधान्येन । न च स्वामीव चेतनान्तरमत्राऽस्ति, यत्कृतिं प्रति प्राधान्यं नियोगस्य भवेत् । तस्मात्कामोपायता213 भावार्थस्य न नियोगाऽऽक्षेपलभ्येति साम्प्रतम् ।
यदि मन्येत, नियोगनिमित्तत्वमनुपेयस्य कामस्य न सम्भवतीति यागं प्रत्युपेय एवेत्यत्राह—उपेयस्यैव चाऽधिकारनिमित्तत्वे जीवनादिष्वधिकाराऽभावप्रसङ्गः । अपि चाऽधिकारनिमित्ततां कामस्याऽभ्युपेत्येदमुक्तम् । परमार्थतस्तु निमित्तत्वप्रतिपत्तिहेतुलिङादिशब्दाऽभावादयुक्तमेवैतन्निमित्तत्वं कामस्य ।
चोदयति—मा भून्निमित्तप्रतिपत्तिहेतुः शब्दो नियोज्यविशेषणमेव ।
निमित्तपरा न तर्हि नियोज्यपराः । तत्राऽधिकाराऽप्रतीतेः प्रयोगाऽभावः ।
अथाऽर्थादधिकारसिद्धिः ? मुधा कर्तृविशेषणपक्षनिरासः ।
यथैव हि कामितयाऽधिकारोऽवगम्यसान उपायभूते धात्वर्थे तथा कामितया कर्तृत्वं नाऽनुपायो यस्य च कामोपायस्तस्येदं कर्मेति अर्थात् कर्तृनियमविधेरधिकारसिद्धिः । अधिकारविधेरिव कर्तृनिय सिद्धिः । तस्मिंश्च सति नियोगादर्थान्निमित्तमित्युच्यते214 । परिहरति—यदि च स्वर्गकामादयो निमित्तपराः, न तर्हि नियाज्यपराः । च त्वर्थः पूर्वपक्षं व्यावर्त्तयति । उभयपरत्वे वाक्यभेदप्रसङ्गात् । तत्र निमित्तपरत्वेऽधिकाराऽप्रतीतेः प्रयोगाऽभावः । अथ निमित्तपरादपि शब्दादापेक्षितत्वादर्थान्निमित्तवतोऽधिकारसिद्धिः प्रतीतिः, अन्यथाऽनुष्ठानाऽभावेन कायस्य तत्त्वव्याघातादिति । निराकरोति—अधिकारस्य सिद्ध्यर्थ तर्हि मुधा कर्तृविशेषणपक्षनिरासः । न तावत् कर्तृविशेषणपक्षे कर्त्तेव क्रियाङ्गतयाऽवश्यं तद्विशेषणमुपादातव्यम्, येन समुद्रमनोध्यानवत् फलेप्सा215 उपादानस्य सर्वान् प्रत्यविशेषात् कर्तृविशेषो न लभ्येत, अपि तु यथा राज त्वजातिः शुचित्वादिवत्प्रयत्नाऽनिर्वर्त्त्यतयाऽनुपादेया216 कर्त्तारमवच्छिनत्ति । राजा राजसूयेन स्वाराज्यकामो यजेते-ति । यस्य चाऽसावनुपादेयापि राजत्वजातिरस्ति, तस्याऽर्थादधिकारो, न तु ब्राह्मणवैश्ययोः, न जातिविरहिणोः । एवं फले निसर्गसुन्दरतया स्वभावादिच्छाकर्मणीच्छा पुरुषस्याऽनुपादेयाऽपि सम्भवतीति तया समुदाचरन्त्या प्रसुप्ततनुविच्छिन्नेच्छेभ्यो व्यवच्छेत्तुं कर्त्ता चेतनान्तरेभ्यः शक्यत इति न व्यवच्छेद्याऽभावः । न च चरमया क्रियया कर्तृसङ्ख्यया वाऽऽख्यातपदगोचरेण कर्त्तुरेव प्रथममुपस्थापितत्वात् कार्येण प्रथममपेक्षितत्वेऽपि चाऽधिकारिणः साङ्गप्रयोगज्ञानाऽधीननिरूपणत्वाद् न द्रागित्येव प्रतीतिरित्यपेक्षायामपि न प्रथममभिसम्बन्ध इत्युपरिष्टान्निवेदयिष्यते ।
एवमपि कुतः सिद्धिरधिकारिण ? इत्यत आह—यथैव भवन्मते कामितया ऽधिकारोऽवगम्यमान उपायभूते217 धात्वर्थे, तथाऽस्माकमपि तथा कर्त्तृत्वं नाऽनुपाये । यो हि यदिच्छति स तत्करोतीति न्यायस्याऽत्रापि सम्भवात् । नन्वेवमपि कुतोऽधिकारविशेषप्रतिलम्भ ? इत्यत आह—यस्य च कामोपायस्तस्येदं कर्मेत्यर्थात् कर्तृनियमविधेरधिकारसिद्धिरस्माकम्,
इष्टसंयुक्ते च वाक्ये इष्टार्थेऽन्वयो न नियोगार्थेऽन्वयः । उभयार्थेऽन्वये वाक्यभेदात् ।
ननु न विनियोगोपमर्दी नियोगः । विरोधाऽभावात् । यथाविनियोगं तत्प्रत्ययात् । तत्र परस्पराऽन्विताः पदार्था नियोगविषयतामापद्यन्ते । न चाऽन्वयो गुणप्रधानभावमन्तरेण । तत्रेष्टत्वात्स्वर्गः प्रधानं कर्म गुणत इति कर्मोपसर्जने स्वर्गकामः पुरुषो नियुज्यते इति न नियोगप्रधानता हास्यते । कर्मफलसम्बन्धश्चोपपत्स्यते ।
न च कामे स्वतः प्रवृत्तो नियोज्यपुरुषः । उपायरहितेऽर्थिनोऽप्यप्रवृत्तेः । न च प्राङ्नियोगादुपायोपेयज्ञानम् । न खलु विनियोगनिबन्धना भवतामधिकारविधेरिव कर्तृनियमसिद्धिः । दूषणान्तरमाह—इष्टसंयुक्ते च वाक्ये इष्टार्थेऽन्वयो, न नियोगार्थेऽन्वयः218 । अथोभयार्थः कस्मान्न भवती ? त्यत आह—उभयार्थेऽन्वये वाक्यभेदात् । गर्भदासन्यायश्च न सम्भवतीत्युक्तमधस्तात् ।
सम्प्रति जरत्प्राभाकरमतमुपन्यस्यति—ननु न विनियोगोपमर्द्दी नियोगः कुतः ? विरोधाऽभावात् । तमेवाह—यथाविनियोगं तत्प्रत्ययात् । तत्र परम्पराऽन्विताः पदार्था नियोगविषयतामापद्यन्ते । न चाऽन्वयो गुणप्रधानभावमन्तरेण, तत्रेष्टत्वात् स्वर्गः प्रधानम्, कर्म गुणतः, गुणः । सार्वविभक्तिकस्तसिः इति कर्मोपसर्जनं यस्याऽस्मिन्स्वर्गे यागसाध्ये स्वर्गकामः पुरुषो नियुज्यत इति न नियोगप्रधानता तस्य हास्यते, कर्म्मफलसम्बन्धश्चोपपत्स्यते । सुगमम् ।
ननु यागोपसर्जने कामे न पुरुषो नियोज्यः । इच्छात एवास्य प्रवृत्तत्वात् । अप्रवृत्तप्रवर्त्तनाव्याप्यस्य च तद्भावादित्यत आह—न च कामे स्वतः प्रवृत्तौ न नियोज्यः पुरुषः । कुतः ? उपायरहितेऽर्थिनोऽप्यप्रवृत्तेः । सत्यामपि कामनायां प्रवृत्तिरशक्या । कामयन्त एव हि सर्वज्ञतां पुमांसो न पुनरियमनुपाया शक्यप्राप्तिरिति नास्यां प्रवर्त्तन्ते । एवमुपायज्ञानस्य पुरस्तात् काम्या अपि स्वर्गादयो न प्रवृत्तिगोचरा इति नियोगस्तदुपायमवगमयंस्तत्र प्रवर्तयति तदर्थिनमित्यर्थः । न च प्राङ्नियोगादुपायोपेयज्ञानम्, तस्मादेव तदवगतेरित्यर्थः ।
स्वर्गयागसङ्गतिरिष्यते । तार्तीयी सा, नैयोगिकी त्वेषा । भावार्थश्च नियोगविषय इति प्रत्युद्धृतमेव स्यात् । निरधिकारता च स्यात् । विषयस्यानधिकारहेतुत्वात् । विश्वजिदादौ तदकल्पनप्राप्तेः । विधेयत्वलक्षणत्वयोर्विरोधात् प्राप्त्यप्राप्तिभ्याम् । कर्तृतया चाऽन्वयात्प्राङ्नियोगान्नियोज्यत्वाऽभावात् । अवश्यकर्तव्यताप्रसङ्गश्च । कामस्याऽतन्त्रत्वात् । तन्त्रत्वेऽपीच्छाऽप्यवश्य-
तदेतत्स्वतन्त्रसिद्धान्ताऽविरोधेन दूषयति—न खलु विनियोगनिबन्धना स्वर्गयागसङ्गतिरुपायोपेयलक्षणेष्यते भवद्भिः । कुतः ? तार्तीयी हि सा विनियोगनिबन्धना सङ्गतिर्नैयोगिकी त्वेषा बादर्यधिकरणस्य तृतीयेऽध्याये साक्षात्सङ्गतिमनिच्छतष्टीकाकारस्य सम्मतेति राद्धान्तव्याकोपः । अपि च सोपायफलविषयं नियोगमभ्युपगच्छत इदमपरमनिष्टमापद्यतइत्याह—भावार्थश्च केवलो नियोगविषय इति प्रत्युद्धृतमेव स्यात् । अपि च यदा फलं नियोगविषयस्तदा निरधिकारता च स्यात् । कुतः ? विषयस्याऽनधिकारहेतुत्वात् । अथाऽधिकारहेतुरेव विषयः कस्मान्न भवती ? त्यत आह—विश्वजिदादौ तदकल्पनप्राप्तेः । विषयस्याऽधिकारहेतोर्विद्यमानत्वात् ।
ननु प्रयोजनमेतत्, प्रमाणं तु वक्तव्यम्, तदिदमुच्यते—विधेयत्वलक्षणत्वयोर्विरोधात् । नियोगविषयः खलु विधेयः, अधिकारहेतुश्च लक्षणम्, तेन हि लक्षितः पुरुषस्तदलक्षितेभ्यो219 व्यवच्छिन्नोऽधिकारभागी चेति । अथैतयोरेव कुतो विरोधः ? इत्यत आह—प्राप्त्यप्राप्तिभ्यां लक्षणस्य प्राप्तत्वात्प्रसिद्धत्वात् । अप्रसिद्धस्य तदनुपपत्तेः । अप्राप्तस्य च विधेयत्वेन विधिविषयत्वात्प्राप्तौ तदनुपपत्तेरित्यर्थः । अपि च विनियोगविषयश्चेन्नियोगः, तथा सति तद्विषयान्नियोगनिरूपणात्प्राग्विनियोगो निरूपणीयो तथा भावार्थः । नो खल्वनवगत एव भावार्थो नियोगनिरूपणाय प्रभवति । यथा च यागस्वर्गकामसम्बन्धलक्षणो विनियोगो नियोगात्प्राङ्निरूपितो विषय इति स निरूपणीयः । नियोगाऽवगमाच्च प्राक् स्वर्गकामः क्रियया सम्बध्यमानः कर्तृतयैव सम्बध्यते, पश्चात्तु नियोगप्रतीतौ नियोज्यायेति कर्तुरधिकारात् पुनरपि राद्धान्तव्याकोप एवेत्याह—कर्तृतया चाऽन्वयात्प्राङ्नियोगान्नियोज्यत्वाऽभावात्220 । इदं चाऽपरमनिष्टमापद्यत इत्याह—यागावच्छिन्नविषयककर्तव्यताऽवगतेः । कर्तव्यतया च स्वविरुद्धस्वभावव्यवच्छेदादवश्यकर्त्तव्यताप्रसङ्गश्च सोपायस्य स्वर्गादेः ।
कार्या स्यात् । तस्मात्परस्परमनन्वितयोर्न्नियोगाऽन्वयः । तदन्वये परस्परं वाक्यभेदात् । एकनियोगसम्बन्धादपि साध्यसाधनभावः प्रत्युक्तः ।
ननु नियोगादस्येदमुपकारकमित्यवगम्यते, कथं तस्य कर्म स्यात् ? क इवाऽस्योपकारोऽन्यत्र काम्यात् ? उपकारान्तरेऽर्थिपदमनर्थकं स्यात् । उपकार्योपकारकत्वे तर्हि नियोगार्थः । किमतः ? उपदेशकत्वं हीयते । स्थितवस्त्वनुवादात् सापेक्षत्वं च । तस्मादस्येदं कर्तव्यमिति नियोगार्थो-
नन्वयं कामोपहितमर्यादः स्वर्गादिः, कामश्च नाऽवश्यम्भावीति कथमवश्यकर्त्तव्यते?त्यत आह—कामस्याऽतन्त्रत्वात् । नियोगादवश्यकर्त्तव्यता, तया च स्वविरुद्धस्वाऽभावव्यवच्छेदादवश्यकर्तव्यता फलस्य प्रतीयमाना न कामयना सम्बन्धमर्हति नित्याऽनित्यसंयोगविरोधादिति प्रधाननियोगाऽनुरोधेनाऽतन्त्रता कामनायाः सम्भवतु, न प्रमादपाठ इत्यर्थः । अथ तु तन्त्रताऽऽस्थेया ? तत्राह—तन्त्रत्वेऽपीच्छाऽप्यवश्यकार्या स्यात् । तद्विषयत्वान्नियोगस्य फलादिवत् । उपसंहरति—तस्मात्परस्परमनन्वितयोर्यागस्वर्गकामयोर्नियोगाऽन्वयः । तदन्वये च न परस्परं तन्त्रम्, फलस्याऽपि साध्यतया द्वयोर्वाक्यभेदात् । एकनियोगसम्बन्धादपि साध्यसाधनभावः प्रत्युक्तः । गर्भदासन्यायस्यात्राऽसम्भवादिति221 भावः ।
ननु मा नाम भून्नियोज्यविशेषणतया साध्यत्वेन स्वर्गस्य यागसङ्गतिः, अधिकारप्रतीतिसामर्थ्यात्तु कर्मणि स्वर्गसाधनत्वमस्य सङ्गंस्यत इति चोदयति—ननु नियोगाल्लिङादेरस्य पुरुषस्येदमुपकारकं कर्मेति सिद्धमवगम्यते, गम्यताम्, किमेतावता ? इत्याह—कथं च तस्याऽधिकारिणः कर्म स्याद्, यदि नोपकारकं कर्म । कर्मजनितमुपकारं भजमानो हि चेतनः कर्मणि स्वामितां प्रतिपद्यते नाऽन्यथेत्यर्थः । तथाऽपि स्वर्गलक्षणस्योपकारस्य किमायातमि ? त्यत आह—क इवाऽस्योपकारोऽन्यत्र काम्यादुपकारात् ।
ननु जगति किमयमेवोपकार ? इत्यत आह—उपकारान्तरे कल्प्यमानेऽर्थिपदमविवक्षितार्थ स्यात् । तथा च श्रुतहानिरश्रुतकल्पना चेति दोषद्वयमापतितमित्यर्थः । दूषयति—यदि लिङादेरस्य पुरुषस्येदमुपकारकं कर्मेति सिद्धमवगम्यते, उपकार्योपकारकत्वे तर्हि नियोगार्थो लिङर्थः । चोदकः पृच्छति—किमतः ? उत्तरम्—उपदेशकत्वं प्रसिद्धं हीयते । कुतः ? स्थितवस्त्वनुवादात् । ततः सापेक्षत्वं चाऽप्रामाण्यनिमित्तं मूर्द्धाभिषिक्तं प्रसज्येत । उपसंहरति—तस्मादस्येदं कर्त्तव्यमिति नियोगार्थो, न पुनरस्ये
ऽनुष्ठानप्रतीतेः, अव्यभिचाराच्च । नैमित्तिकनिषेधाऽधिकारयोरुपकाराऽनाश्रयणात् । न च नियोज्यार्थ एव कर्मणि नियोगः । अत एव लौकिके चाऽध्येषणादावभावात् । ननु विशेषणं स्वर्गो नोपलक्षणम् । भवतु नियोगेऽस्याऽन्वयः । न तु नियोग एव यागसम्बन्धं विदधाति । तथा नाम ईदृशः पुरुषो नियुज्यत इति । “यस्याऽग्निर्गृहान्दहेदि”ति यथा । नन्विष्टसिद्ध्युपाधौ
दमुपकारकमिति । कुतः ? अनुष्ठानप्रतीतेः, प्रसिद्धोपदेशभावाऽविरोधात् अव्यभिचाराच्च । उपकार्योपकारकयोस्तु नियोगार्थत्वे व्यभिचारः स्यात् । कुतः ? नैमित्तिकातिषेधाऽधिकारयोरुपकाराऽनाश्रयणात् । न चाऽपूर्वोत्पत्तिरुपकारः । तस्याऽसुखस्य हिताऽहितप्राप्तिपरिहाराऽसाधनस्याऽनुकूलवेदनीयताऽभावेनोपकारभावाऽभावादिति भावः ।
ननु “ज्वरितः पथ्यमश्नीया”दित्यादौ नियोज्यार्थे कर्मणि नियोगो लोके दृश्यते, तदुपायत्वाच्च वेदेऽपि नियोगविषयस्य कर्मणो नियोज्यार्थकर्मतीचितेत्यत आह—न च नियोज्यार्थ एव कर्म्मणि नियोगः । कस्मात् ? अत एव नैमित्तिकनिषेधाऽधिकारयोर्व्यभिचारत एव । ननु लोके प्रतीतिसामर्थ्यान्नैमित्तिकनिषेधाधिकारयोरुपकारं कल्पयिष्याम इत्यत आह— लोके चाऽध्येषणादावभावान्नियोज्यार्थतायाः कर्म्मणः । पुनरपि स्वर्गे साध्यतायामुपलक्षणवैलक्षण्येन नियोज्यविशेषणतां प्रमाणयति—ननु विशेषणं स्वर्गो नोपलक्षणम्, येनात्मानं न कार्ये निवेशयेदिति चेत् । कथं222 न साध्यतयाऽन्वियात् ? अथ नेति चेत् ? कथमस्य न यागः साधन ? मित्यतः परस्परसङ्गतिः स्वर्गयागयोरित्यर्थः । परिहरति भवतु नियोगे स्वर्गाऽन्वयो, यथाऽऽरुण्यस्य, यागस्य तु कथं ? ननु नियोग एव स्वर्गसम्बन्धः स्वर्गस्य स्वविषयेण योगेन सम्बन्धं विदधाति । तथा च स्वर्गयागयोः सम्बन्धः223 साध्यसाधनभाव इति । परिहरति—तथा च स्वर्गकामयागयोः सम्बन्धो नाम नियोगात् न तु स्वर्गयागयोः । न ह्येतावता नियोगसङ्गतिस्तयोर्न कल्प्यत इति तत्स्वरूपं दर्शयति—ईदृशः स्वर्गकामः पुरुषोऽस्मिन्यागे नियुज्यत इति । ईदृशत्वे दृष्टान्तमाह—यस्याऽग्निर्गृहान् दहेत् स यजेतेति । यथा आहिताग्नेर्गृहदाहवत इष्टौ नियोगो नेष्टेर्गृहदाहं प्रति साधनतामवगमयति, तथा स्वर्गकामस्याऽपि यागनियोगो न यागस्य तद्विशेषणं प्रति साधनभावमवगमयितुमर्हतीत्यर्थः । 224 भावार्थ नियोगात्फलसिद्धिः स्यात् ? स्याद्यदीदृशो भावार्थः । न त्वयमेवेत्युक्तं भावनाविवेके ।
नैमित्तिके च फलप्रसङ्गः । यथा चाऽस्मिन्दर्शने न कर्मफलसम्बन्धस्तथोक्तं भावनाविवेके । ऽअतः स्वर्गयागयोरसम्बन्धान्न पुरुषार्थसाधनज्ञानम् । पुरुषार्थसाधनं च जिज्ञासन्ते प्रेक्षाबन्तः । लोकाच्च शब्दार्थाऽबगमान्न
चोदयति—नन्विष्टसिद्ध्युपाधौ भावार्थे नियोगात्फलसिद्धिः स्यात् । इदमभिसंहितम् । यद्यपि धातुः कर्म्मरूपमात्रं गोचरयति, पाकच्छेदादिपदेभ्यस्तन्मात्राऽवगमात् । आख्यातोपसन्धानात्तु तदर्थः पूर्वाऽपरीभूतप्रचयरूपः प्रतीयते । न चैकमुपसङ्ग्राहकमन्तरेण तद्भाव इति फलमस्योपसङ्ग्राहकम् । तदिदमाख्यातमाप्रारम्भादाफलोत्पत्तेः पूर्वाऽपरीभूतं समानजातीयक्रियासन्तानं वा समानजातीयक्रियासमुदायं वाऽन्योत्पादाऽनुकूलतया भावात्मानमवच्छिनत्ति, पचतीत्यभिदधाति । तथा च यजेतेत्यभिमतफलावधिनि देवदत्तस्मरणद्रव्याऽवमर्शनतद्विषयस्वत्वत्यागात्मनि यागकर्मणि नियोगात्फलभेदाऽपेक्षायामधिकृतविशेषणस्याऽपि स्वर्गस्य यागसाध्यतया समन्वय इति ।
परिहरति—स्याद्यदीदृशो भावार्थः । न त्वयमेवमित्युक्तं भावनाविवेके । तादृशं चेत् कर्म्म नियोगविषयस्तर्हि तन्नियोगात्प्रागवगन्तव्यम् । न खल्वनबगतगोचरो नियोज्यस्तद्गोचरं नियोगमवगन्तुमुत्सहते । न च स्वर्गाऽवधिको यागः प्राङ्नियोगाऽवगमान्मानान्तरेण पाक इवौदनाऽबधिः शक्याऽबगमः । न च नियोगात्तदवगमः । परस्पराश्रयदोषप्रसक्तेः । सति नियोगाऽवगमे तन्निरूपणम्, तस्मिंस्तु सति तदबगम इति । यद्यपि यागरूपं प्रमाणान्तरसिद्धम्, तथाऽपि भावात्मना न तत्सिद्धम् । तेन च तद्विषयो, न पुना रूपमात्रेण । तन्मात्रेण वा विषयत्वसमर्थने नास्य स्वर्गसम्बन्धः स्यादिति भावः । नैमित्तिके च फलकल्पनाप्रसङ्गः । इष्टोपाधेर्भावार्थस्य काम्यवत्तत्राऽप्यविशेषात् । न चाऽपूर्वमिच्छागोचर इत्यसकृदावेदितम् । यथा चाऽस्मिन् दर्शने प्रकारान्तरेणापि न कर्म्मफलसम्बन्धस्तथाक्तं भावनाविवेके ।
ननु भवत्वसम्बन्धः, का नः पीडेत्यत आह—तेन स्वर्गयागयोरसम्बन्धाद् न पुरुषार्थसाधनं ज्ञानम् । ततः किमित्याह—पुरुषार्थसाधनं च जिज्ञासन्ते प्रेक्षाबन्तः ।
तदनेन प्रबन्धेन स्वर्गयागयोः परस्पराऽसङ्गतिप्रसङ्गाद् नियोगस्य कार्यता प्रतिषिद्धा । पुनस्तामेव प्रकारान्तरेण निषेधति—लोकाच्च शब्दार्था
नियोगप्रधानता । तत्सिद्धावनियोगात् । नापि प्रतिपत्ता प्रत्येति ताम् । विषयसिद्धावप्यननुष्ठानात् । न हि गामानयेति नियोगसिद्धिर्विवक्षिता वक्तुरपि तु विषयसिद्धिः ।
अन्यल्लोके शब्दवृत्तमन्यद्वेदे । विवक्षापरो हि समन्वयो लोके शाब्दानाम्, नियोगपरो वेदे । अयमपरो गण्डस्योपरि स्फोटः । यदि खलु विवक्षापरेऽन्वये शब्दसामर्थ्यं लोकतोऽवगम्यते नाऽन्यपरत्वम् । अनन्यप्रमाणकत्वाच्छब्दसामर्थ्यस्य । वक्तुरभावादिति चेत् । अयमेव विवक्षापरोऽन्वयस्तमनुमापयेदिति प्राप्तं पौरुषेयत्वम् । प्रतिपत्त्यभावो वा भवन्ती वा प्रतिपत्तिर्न्न शब्दनिमित्ता सामयिकी स्यात्, सामान्यतोदृष्टजा वा । तस्माल्लाक्षणिकप्रयोगज एव तत्रभवतो विभ्रमो नियोगः कार्य्य इति । अपि ऽधिगमान्न नियोगप्रधानता नियोज्यकृतिं प्रति । कुतः ? तन्नियोगसिद्धावनियोगान्नियोक्तुरेव तत्सिद्धेः । नाऽपि प्रतिपत्ता प्रत्येति तां नियोक्तुर्वाक्ययोगसिद्धिं स्वकृतेर्व्याप्यतया । कस्मात् ? विषयसिद्धौ सत्यामननुष्ठानान्नियोज्यस्य प्रतिपतुः । न ह्यन्येनाऽऽनीतायां गवीतरस्तदानयनमारभते । तस्माद्विषयसिद्धौ नियोक्तृनियोज्ययोः सम्प्रतिपत्तेः सम्बद्धविषयपरामेव साधनतामध्यवस्यति, न तु नियोगपरामित्यर्थः ।
चोदयति—अन्यल्लोके शब्दवृत्तमन्यद्वेदे । तदेव स्फोटयति— विवक्षापरो हि समन्वयो लोके शब्दानां पदार्थानाम्, नियोगपरो वेदे । तेन तत्र नियोगस्यैव कार्यतेत्यर्थः । दूषयति—अयमपरो गण्डस्योपरि स्फोटः । तमाह—यदि खलु विवपक्षापरेऽन्वये शब्दसामर्थ्यं लोकतोऽबगम्यते ततो न विवक्षितादन्यपरत्वं वेदस्य । कस्मात् ? अनन्यप्रमाणकत्वाल्लोकप्रमाणकत्वाच्छब्दसामर्थ्यस्य नोपायान्तरं तदवगमाय वेदे सम्भवतीति । शङ्कते— वक्तुरभावान्न विवक्षासम्भवो वेद इति चेत् ? निराकरोति—अयमेव विवक्षापरोऽन्वयस्तमनुमापयेदिति प्राप्तं पौरुषेयत्वम् । सोऽयमस्मिन् पक्षे लोकविरोधलक्षणस्य गण्डस्योपरि पौरुषेयत्वप्रसङ्गलक्षणः स्फोटः । अथ दृढतरमपौरुषेयत्वं ततः प्रतिपत्त्यभावो वा स्फोटः । तदुपायाऽभावात् । अथ स्वाऽनुभवसिद्धा वेदवाक्यश्रवणसमनन्तरा प्रतीतिर्नाऽपह्नवमर्हति, तत्राह—भवन्ती वा प्रतिपत्तिर्न शब्दनिमित्ता सामयिको । स्वतः सिद्धेष्वेव वेदवाक्येषु पुरुषकृतसङ्केतनिबन्धना तदुच्चारणादर्थप्रतीतिरित्यर्थः । यदि तु सम्बन्धुरस्मरणान्न सङ्केतक्रियासम्भवः, ततः सामन्यतोदृष्टरूपजा वा । गवादिपदयुक्तं हि वाक्यमर्थविशेषप्रत्ययनिमित्तमुपलब्धम्, वैदिकं च तथेति तदपि प्रत्यायकमिति सामन्यतोदृष्टादर्थप्रत्ययो वैदिकादपि वाक्यादित्यर्थः ।
च न लोके नियोगमात्रं प्रवृत्तिहेतुः, सर्वस्य नियोगादप्रवृत्तेः । अनुविधेयनियोगाच्च तद्भावात् । अनुविधेयत्वं नियोक्तुरन्यनियोगात् प्रवृतिहेतुः । अनुविधानकारणं चाऽर्थाऽनर्थप्राप्तिरिहारादि प्रमाणान्तरसिद्धम् । न च वेदे नियोक्ताऽपि । कुतः पुनरनुविधेयः ? ननु शब्दः । भवतु नाम नियोक्ता, न त्वनुविधेयः । हेत्वभावात् । न ह्यर्थाऽनर्थप्राप्तिपरिहारयोः शब्दाऽनुविधाने प्रमाणमस्ति । नियोग इति चेत् । न । तस्य प्रमेयत्वात् । नियोगज्ञानं तर्हि । न । तस्य नियोगविषयत्वात् । तस्य च ताभ्यामन्यत्वात् । न चाऽर्थादाक्षेपः ।
यत्त नियोगकर्त्तव्यतायामाचार्यनियोगः कर्तव्यः, राजशासनमनुष्ठेयमिति लौकिको व्यपदेशः प्रमाणमुपन्यस्तम्, तदपहसन्नन्यथासिद्ध्यति— तस्माल्लाक्षणिकप्रयोगप्रभव एष तत्रभवतो विभ्रमो नियोगः कार्य इति । नियोगशब्देन स्वाभिधेयविषयभावार्थलक्षणादिति पूर्वार्द्ध व्याख्याय कारिकायाः पश्चार्द्ध व्याचष्टे । अपि च न लोके नियोगमात्रं प्रवृत्तिहेतुः । कुतः ? सर्वस्य नियोगादप्रवृत्तेः । अनुविधेयनियोगाच्च तत्प्रवृत्तिभावात् । तस्मादनुविधेयत्वं नियोक्तुरन्यनियोगात्प्रवृत्तिहेतुः । अनुविधानकारणं चार्थाऽनर्थप्राप्तिपरिहारादि प्रमाणान्तरसिद्धम् । वेदेऽप्यनुविधेयोऽस्तु लोकवदिति चेत् । अतः आह—न च वेदेऽपौरुषेयेऽपि नियोक्ताऽपि दृश्यते । कुतः पुनरयमनुविधेयः ? धर्मस्याऽत्यन्ताऽसिद्धेरित्यर्थः ।
चोदयति—ननु शब्दो नियोक्ताऽनुविधेयः । शब्दनियोक्तृत्वं न्यरासि प्रथममेव प्रमाणत्वादित्यादिना । अभ्युपगम्याप्याह—भवतु नाम नियोक्ता, न त्वनुविधेयः । अनुविधानहेत्वभावात् । नन्वर्थाऽनर्थप्राप्तिपरिहारावनुविधानकारणं भविष्यतीत्यत आह—न ह्यर्थानर्थप्राप्तिपरिहारयोः शब्दाऽनुविधाने प्रमाणमस्ति । शङ्कते—शब्दाऽनुविधाने सत्यनुविधातुः पुरुषस्य हितप्राप्तिरहितनिवृत्तिर्वा भवतीत्यत्र नियोगः प्रमाणमिति चेत् । निराकरोति—न । तस्य नियोगस्य प्रमेयत्वात् । न खलु प्रमेयं तत्त्वेन प्रमाणं भवतीति । पुनः शङ्कते—यदि प्रमेयतया नियोगो न प्रमाणम्, नियोगज्ञानं तर्हि प्रमाणमस्तु । निराकरोति—न । तस्य नियोगविषयत्वात् । तस्य च नियोगस्य ताभ्यामर्थाऽनर्थप्राप्तिपरिहाराभ्यामन्यत्वात् ।
यदि मन्येत, मा नाम भून्नियोगः । प्रमेयतयाऽर्थानर्थप्राप्तिपरिहारयोः प्रमाणं शब्दावगतेस्त्वयं चेतनप्रवृत्तिं विनाऽनुपपद्यमानस्तस्याश्चार्थाऽनर्थप्राप्तिपरिहारमन्तरेणाऽसम्भवात् प्रवृत्तिमर्थानर्थप्राप्तिपरिहारप्रयोजनमाक्षेप्स्यते च तदपेक्षया प्रमेयमपि प्रमाणताम्, कारकशब्दानामापेक्षिकप्रवृत्तित्वादित्यत आह—न चाऽर्थादाक्षेपः । कुतः ? हिताऽहितप्राप्तिपरिहाररहित
अनाप्तनियोगदर्शनात् । क्षेम्योऽयं पन्थाः, गच्छतु भवाननेनैवेति यथा । पदार्थाऽन्वयनिष्ठो नियोगो लोके तस्य च प्रमाणान्तरविषयत्वात्तदपेक्षत्वात्तन्निबन्धना प्रवृत्तिर्लोके, नियोगनिष्ठस्तु वेदे, अतो नाऽन्याऽपेक्षा । उक्तोत्तरमेतत् । अपि च न नियोगमात्रं प्रवृत्तिहेतुः । मिथ्या तर्हि नियोगज्ञानम् । न च तद्युक्तम् । कारणद्वयाऽभावात् । न वयं नियोगमवजानीमहे येन मिथ्यात्वं स्यात् । सत्यपि तस्मिन्पुरुषः प्रवर्तते लोक इव यस्य कस्य चिन्नियोगात् । न हि तत्र नियोगो नास्ति । अतत्परत्वे तात्पर्यमप्रमाणकमित्युक्तम् । ननु कर्तव्यताऽवगमात् प्रवृत्तिः । अवगच्छति च नियुक्त इदं मम कर्तव्य-
स्याऽनाप्तनियोगस्य दर्शनात् । अपथमेव सुपन्थानमाख्याय तत्र प्रर्त्तयत्यनाप्तः क्षेम्योऽयं पन्थाः, गच्छतु भवाननेनेति यथा । चोदयति— पदार्थाऽन्वयनिष्ठोऽर्थाऽनर्थप्राप्तिपरिहारोपायतालक्षणसमन्वयनिष्ठो नियोगो लिङादिर्नियुज्यतेऽनेनेति व्युत्पत्त्या लोके तस्य साध्यसाधनभावस्य प्रमाणान्तरविषयत्वात् । प्रमाणान्तराऽपेक्षत्वात्तन्निबन्धना साध्यसाधनभावाऽबगमनिबन्धना प्रवृत्तिर्लोके । अनाप्तवाक्ये च नियोगस्य मानान्तरेण बाधितत्वादप्रवृत्तिः । मानान्तराऽगोचरनियोगनिष्ठस्तु पदार्थान्वयो वेदे । स च प्रतीतः प्रवृत्तौ हिताऽहितप्राप्तिपरिहारसाधनतामनुविधानकाणं नाऽपेक्षते । प्रवर्त्तनकरसत्वात् । अतो नाऽन्याऽपेक्षा । न हि प्रमाणं शब्दस्तदवबोधने मानान्तरमपेक्षते । नाऽपि नियोगः पुरुषप्रवृत्तौ हिताऽहितप्राप्तिपरिहारसाधनतामित्यर्थः । तदेतद् दूषयति—उक्तोत्तरमेतत् । विवक्षापरत्वनिराकरणप्रस्तावे ।
यत्तु प्रवर्त्तनैकरसत्वमभिमतं नियोगस्य, तदपि न मृष्यामह इत्याह— अपि च लौकिको भवतु, अलौकिको वा, सर्वथा नियोग इत्येव न नियोगमात्रं प्रवृत्तिहेतुः । चोदयति—न चेत्प्रवर्त्तयति, मिथ्या तर्हि नियोगज्ञानम् । न चैतदुचितम्, कारणद्वयाऽभावात् । परिहरति—न वयं नियोगमवजानीमहे, येन मिथ्यात्वं वेदस्य स्यात् । सत्यपि तस्मिन्पुरुषप्रवृत्तिर्लोक इव यस्य कस्यचिन्नियोगात् । न हि तत्र नियोगो नास्ति । अथ न तन्नियोगपरं लौकिकमपि तु विनियोगपरमित्यत आह—अतत्परत्वे नियोगपरत्वे लौकिकस्य लोकाऽधीनाऽवधारणार्थस्य225 वैदिकस्य तात्पर्यं नियोगपरत्वमप्रामाणिकमित्युक्तम् ।
ननु न वयं नियुक्तिमात्रं नियोगं ब्रूमहे, अपि तु कर्त्तव्यताम् । सा च निरपेक्षा प्रवृत्तहेतुर्वेदादवगम्यत इत्याह—ननु कर्त्तव्यताऽवगमात्प्रवृत्तिः ।
मिति । यस्त्वगच्छन्नपि अनुष्ठेयं नाऽनुतिष्ठति स सत्त्वेऽप्यर्थाऽनर्थप्राप्तिपरिहारयोरननुतिष्ठन्निव न दण्डैर्वार्य्यते । तदेतदविमृष्टनियोगरूपम् । तथा हि । प्रवर्तनामात्रं नियोगः । स च लिङाद्यर्थ इति प्रवर्त्तितोऽहमत्रेति प्रतिपत्तिः शब्दात् । कर्तव्यताऽवगमस्तु नियोक्तुरनुविधेयत्वात् । अनुविधेयनियोगे ममेदं कर्तव्यमित्यध्यवसायात् । इतरत्र तु प्रवर्तनामात्रप्रतीतेः । उक्तं च कर्तव्यताविषयो नियोगो न नियोगः कर्तव्यतामाह ।
अवगच्छति च नियुक्त इदं मम कर्त्तव्यमिति । यस्त्ववगच्छन्नप्यनुष्ठेयं नाऽनुतिष्ठति स सत्त्वेऽप्यर्थाऽनर्थप्राप्तिपरिहारयोरननुतिष्ठन्निव न दण्डैर्वार्यते । इदमभिसंहितम्, चेतनाप्रवृत्तिलक्षणकार्योन्नेयशक्तयो लिङादयः प्रवृत्तिहेत्वाभिधायिनः । तद्धेतुश्च स्वात्मनि कर्त्तव्यताऽवगमो विदित इति कर्त्तव्यतामभिदधाति । तथा च ततः कर्त्तव्यतामवगम्याऽप्यप्रवर्त्तमाना हिताऽहितप्राप्तिपरिहारोपायतामिव न दण्डैः पराणुद्यन्त इति । दूषयति— तदिदमविमृष्टनियोगरूपं वचः । तथा हि । लोकाऽनुसारादाज्ञादिरूपितं प्रवर्त्तनामात्रं नियोगः । स च लिङाद्यर्थो, न पुनः प्रवृत्तिहेतुः कर्त्तव्यता । तदवबोधे ऽपि कर्त्तव्यताऽनवबोधात् । अननुविधेयनियोगेन हि तत्र नियोगप्रत्ययो नास्तिः अपि तु कर्त्तव्यताऽवबोधः । तदवबोधे सत्यसति विधुरप्रत्ययोपनिपाते226 प्रवृत्तेरवश्यम्भावनियमादिति । तस्मात्प्रवर्तितोऽहमिति प्रतिपत्तिः शब्दात्प्रवृत्तिहेतुः । कर्त्तव्यताप्रतिपत्तिस्तु प्रेक्षापूर्वतो नियोज्यस्य नियोक्तुरनुविधेयत्वात् । कस्मात् ? अनुविधेयनियोगे ममेदं कर्त्तव्यमित्यध्यवसायात् । इतरत्र तु कर्त्तव्यताऽध्यवसायरहितप्रवर्त्तनामात्रप्रतीतेः ।
अत्रैव जरत्प्राभाकरोन्नीतार्थं गुरोर्वचः सङ्गच्छत इत्याह—उक्तं च, कर्त्तव्यताविषयो नियोगः प्रवर्त्तना नियोक्तुर्द्धर्म्मः, तमभिदधाति लिङ्, न नियोज्यस्य धर्मं कर्त्तव्यत्वं प्रवर्त्तनाया विषयमाह, विषयस्य विषयिणोऽन्यत्वात् ।
नवीनास्तून्नयन्ति, अनिरूपितनियोगव्यापारस्येदं चोद्यमित्युपक्रम्येदमुक्तम् । कर्त्तव्यताविषयो हि नियोगो न कर्त्तव्यतामाहेति । यागकर्त्तव्यताऽनुष्ठानं विषयो यस्य नियोगस्य स तथा । तेन हि नियोगः साध्यते, न पुनर्नियोगो यागस्याऽनुष्ठानं ज्ञापयति ।
एतदुक्तं भवति साक्षान्नियोग एव कर्त्तव्यतयाऽबगम्यते लिङादिभ्यः । स तु यागविषयस्तदनुष्ठानमन्तरेण कर्त्तव्यताया अपर्यवसानात् तदनुष्ठान
तद्विषयत्वादेव हि तर्हि कर्तव्यताऽवगमः । न तावदयं शाब्दः । शब्देन नियोगमात्रस्याऽभिधानात् । नाप्यार्थः । सर्वनियोगेष्वभावात् । तस्मादिदमपि दर्शनमविमृश्यमानसुन्दरमिति नाद्रियन्ते वृद्धाः । अस्तु तर्ह्यनुविधेयो नियोक्ता भूतानाम् । साक्षात्कृताऽऽनुश्रविकश्रेयःसाधनो227 हितकामः सर्वज्ञः ।
माक्षिपति । सोऽयमाक्षेपाऽपरनामोपादानव्यापारो नियोगस्याऽऽस्थीयत इति । तदेतदपूर्वात्मनि कार्यरूपे नियोगे सत्युपपद्यते । तदभावश्च निपुणतरमुपपादितः । तदास्तां तावत् ।
चोदयति—नियोगस्य तद्विषयत्वादेव तर्हि कर्त्तव्यताऽवगमः । विषयिणो विषयनान्तरीयकत्वादिति भावः । निराकरोति—न तावदयं शब्दः । कस्मात् ? शब्देन नियोगमात्रस्याऽभिधानात् । ननूक्तं नान्तरीयकत्वादिति, तत्राह—नाप्यार्थः । कुतः ? सार्वनियोगेष्वभावात् । कर्त्तव्यताऽवगमस्य । न खल्वयमननुविधेयेन शतशोऽपि नियुज्यमानोऽवबुध्यमानोऽपि नियोगं कर्त्तव्यतामवगंस्यत इत्युक्तम् । उपसंहरति-तस्मादिदमपि दर्शनमपि दृश्यमानसुन्दरमिति नाद्रियन्ते बृद्धाः । तत्सिद्धमेतत् । विवादाध्यासिता लिङादयो न मानान्तराऽपूर्वकार्याऽभिधायिनः, तेनाऽगृहीतसङ्गतित्वात्, यद्येनाऽगृहीतसङ्गति न तत्तदभिधायि, यथा वाजिपदं क्रमेलकस्येति । अगृहीतसङ्गतेरभिधायकत्वे व्यवस्थाहेत्वभावात् । सर्वस्य सर्वमभिधायकं सम्भवेदित्यव्यवस्था । तदिदमगृहीतसङ्गतित्वं व्यवस्थाहेत्वभावेन व्याप्तं स्वव्यापकविरुद्धव्यवस्थोपलब्धेरभिधायकत्वान्निवर्त्तमानमनभिधायकत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः ।
सम्प्रत्यन्यथा प्रत्यवतिष्ठते परः । अस्तु तर्ह्यनुविधेयो नियोक्ता भूतानाम्, भिषज इव तस्य भगवतो नियोगादर्थाऽनर्थप्राप्तिपरिहारार्थेन प्रवर्त्स्यन्ति निवर्त्स्यन्ति चेति । कस्मादित्याह—यतः साक्षात्कृताऽऽनुश्रविकश्रेयः साधनः । ननु साक्षात्कृताऽऽगमगम्यश्रेयःसाधनोऽपि कदाचिदन्यथा ब्रूयात्, न वा ब्रूयात् । तत्कथमस्याऽनुविधेयता ? इत्यत आह— हितकामः परेषां स्वार्थीभूतविश्वव्यापिकारुण्यो228 हि भगवान् वैराग्याऽतिशयसम्पन्नो मात्रयाऽपि रागादिभिः क्लेशैरुपक्लेशैश्च मदमानादिभिरपरामृष्टः । तदयमतिमहति संसारदुःखपङ्के निमज्जतः प्राणिनः पश्यन् कथं नामैतानुद्धरेयमिति तद्दुःखेन कथं न दूयमानो वा हिताऽहितप्राप्तिपरिहारोपायतत्त्वे विद्वान् करणपाटवे सति कथमन्यथोपदिशेत्, नोपदिशेद् वा । अथैवम्भाव एवास्य कुतः ? इत्यत आह—सर्वज्ञः प्रहीणरागाद्यावरणतत्त्वज्ञानः खल्वयमनवयवेन विश्वं करतलाऽऽमलकमिव साक्षादीक्षमाणः सर्वज्ञः साक्षात्कृताऽऽनुप्रविकश्रेयः साधनो भवति, भवति च हितकामः । दुःखतो जगदुद्धर्त्तुकामस्यास्य सर्वज्ञतामन्तरेण तदनुपपत्तेस्तत्र प्रवृत्तेः ।
न च सर्वज्ञो नास्ति । तथा हि । तदभावव्यवहारो बाधकप्रमाणसद्भावाद्वा साधकप्रमाणाऽभावाद्वा भवेत् । न तावद्वाधकप्रमाणसद्भावः । न खलु प्रत्यक्षमस्य बाधकं रजतस्येव समारोपितस्य शुक्तितत्त्वं विषयः सम्भवति । तद्विरुद्धोपस्थानाऽसम्भवात् । सर्वज्ञताया अत्यन्तपरोक्षायाः केनचिदपि सह प्रत्यक्षप्रतीतेन विरोधाऽनवगतेः । नाप्यनुमानमस्य बाधकम् । तद्धि विधिनिषेधसाधनतया द्विविधम् । तत्र विधिसाधनं स्वभावहेतुकं कार्यहेतुकं वा न निषेधे साध्ये प्रभवति । अन्यसाधनत्वेऽन्यसाधनस्याऽप्रसङ्गात् । अनुपलब्धिलिङ्गकं तु प्रतिषेधसाधनं भवेत् । तच्च स्वभावाऽनुपलम्भसाधनादन्यदिह सर्वज्ञविरुद्धार्थान्तरविधानेन वा तत्कारणव्यापकनिषेधेन वा सर्वविदभावं साधयेत् । न तावत्स्वभावविप्रकर्षिणा229 सर्वविदा सह कस्यचिदपि प्रतीयमानस्य विरोधो दृष्टपूर्वः । विरोधिप्रतिपत्तिनान्तरीयकतया विरोधाऽवगतेः । विरोधिप्रतिपत्तौ वा नाऽत्यन्ताय तन्निषेधः । न च प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावः स्वभावविप्रकर्षवति सर्वविदि शक्याऽवगमः । अत एव व्यापकत्वमपि कस्यचिद् दुरवसायमेव सर्वविदि । नापि विपक्षे बाधके प्रमाणप्रवृत्तिः क्षणिकत्वस्येव सत्त्वे सर्वविद्व्यापकाऽभावाऽबगम-निबन्धनम्230 । तदभावात् । भावे वा निषेधो नास्ति अत्यन्तायतस्य । न खलु खपुष्पं कस्यचिद्व्याप्यं सम्भवति व्यापकं वा । न चाऽन्यमात्रनिवृत्तावन्यस्य निवृत्तिः । अतिप्रसङ्गात् । यथाहुः—
अन्यस्यैव निवृत्याऽन्यविनिवृत्तिः कथं भवेत् ।
नाऽश्ववानिति मर्त्येन न भाव्यं गोमताऽपि किम् ? ॥ इति ।
न च सत्त्वज्ञेयत्वादयो सर्वज्ञतासहभुवः सहस्रश उपलब्धा व्याप्ता विवादाध्यासितस्य पुरुषधौरेयस्य विरुद्धोपस्थापनेन सर्वज्ञतां प्रतीक्षिपन्तीति साम्प्रतम् । सत्त्वादेरसर्वविद्व्याप्त्यसिद्धेः । न खलु दर्शनाऽदर्शनमात्रनिबन्धनं व्याप्तिविज्ञानम्, मा भूच्चैत्रः श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तीमवदित्यनुमानम् । तत्तनयताया अश्यामतया विरोधाऽभावेन सन्दिग्धव्यतिरेकित्वान्नानुमानमेतदिति चेत् ? न । इहाऽपि समानत्वात । न हि सर्ववित्तया सह सत्त्वादेः कश्चिद्विरोधो, येनासौ न सन्दिग्धव्यतिरेकः स्यात् । द्वयी हि विरोधाऽवगतिः सहाऽनवस्थानं वा, छायाऽऽतपवत् परस्परपरिहारो वा भावाऽभाववत् । न तावदविकलकारणस्य सर्वज्ञत्वस्यालोकस्येव231 सत्त्वादेः सन्तमसस्येव भावेऽभावः, यतः सहाऽनवस्थितिरूपविरोधसङ्गतिः स्यात् । तथा च भावे वा नात्यन्ताभावः सर्वज्ञताया इत्युक्तम् ।
नाऽप्युत्तरः । न खलु सर्वज्ञतासत्त्वादिपरिहारेण सत्त्वादयो वा तत्परिहारेण भावाऽभाववत् प्रत्ययपथमवतरन्ति । न च सर्वज्ञतया तेषां व्याप्तिरस्तीत्युक्तम् ।
स्यादेतत् । उपदेशप्रणयनमेव बाधकं सकलवस्तुतत्त्वदर्शनस्य । तथा हि । उपदेशो विकल्पविज्ञानयोनिर्विकल्पश्च समारोपितगोचरतया मिथ्येति न तथा तथागतविज्ञानं भवितुमर्हति । तदयमुपदेशो निषेध्यसर्वविषयतत्त्वविज्ञानविरुद्धसमारोपितगोचरविकल्पविज्ञानकार्य इति विरुद्धकार्योपलब्ध्या बुद्धादीनां सर्वज्ञत्वाऽभावसाधनम् । उपदेशाऽभावे वा वृथा तत्प्रसाधनं तत्सन्निधानमात्राद्वा चैत्यवन्दनादिचोदनानामनिःसृतत्वाभ्युपगमेऽनाश्वास इति । तन्न । विकल्पस्य सर्वविज्ञानत्वाऽविरोधात् । द्विविधो हि विकल्पो विपर्यासपूर्वोऽतत्पूर्वश्च । तत्र विपर्यासपूर्वो भवादृशाम् अतत्पूर्वस्तत्रभवतः सर्ववेदिनः । न खल्वसौ भ्रान्तो विकल्पवानपि तु विदितसमस्तवस्तुतत्त्वविस्तारः करुणापराधीनमानसो दुःखिन उपदेष्टुकामः । वचनमन्तरेण तदनुपपत्तेः विकल्पं विना तदसम्भवात् तस्याऽतात्त्विकत्वं विद्वानपि तमाहरति । यथा नैरात्म्यतत्त्वं विद्वानपि विकल्प्य समारोपितमात्मानं निषेधति, नास्त्यात्मेति । यथा वा वैयाकरणप्रवरो गाव्यादिशब्दानसाधून् जानानोऽपि पृथग्जनप्रतिपिपादयिषया प्रयुञ्जानोऽपि नाऽपशब्दकारी । तदिदमाहार्यमस्य रूपं न तात्त्विकमिति तत्त्वविदो नोपदेशविरोधः । न च रागादिमत्ता । न खलु कृपा रागपक्षे वर्त्तते । नन्वियं परदुःखप्रहाणेच्छेति राग एव । मैवम् । न हीच्छामात्रं रागः, अपि तु चित्तमलमात्मनो दर्शनाऽऽवरणमभूतगुणाऽभिनन्दनं रागमाचक्षते । न ह्यसति नित्यात्मदर्शने स्वार्थतृष्णापरिप्लुतः कश्चित्परिस्पन्दते । यथा हि चेत्रः स्वतो भिन्नं मैत्रमुदीक्षमाणः स्वगतसुखतृष्णापरिप्लुतो न मैत्रसुखाय घटते । तथा पूर्वाऽपरक्षणविविक्तं विज्ञानमात्रमात्मानं साक्षादीक्षमाणः सन्नतिपतिततद्विपरीतलक्षणान्तरोपकारकर्मणि232 प्रवर्त्तते, प्रवर्त्तते च स्वार्थतृष्णापरिप्लुतः । तेनाऽवगच्छामोऽवगच्छति नूनमयमहमिति
न । तस्याऽनुपपत्तेः, अज्ञानाच्च । तथा हि—
हेत्वभावे फलाऽभावात्प्रमाणेऽसति न प्रमा ।
चक्षुराद्युक्तविषयं परतन्त्रं बहिर्मनः ॥
यद्यप्यात्मप्रत्यक्षनिवृत्तिर्विप्रकर्षवतामभावं व्यभिचरति । सर्वप्रत्यक्ष- विभिन्नानपि स्वचित्तक्षणानेकतया । तदिदं सहजमात्मऽदर्शनं233 निदानं रागादीनाम् । यथाऽहं सुखो भवेयं दुःखी च मा भूवमिति च मा भूवमिति च तृप्यतो यैवाहमिति धीः सैव सहज तत्त्वदर्शनमिति234 । न च सर्वविदः करुणाऽहमुपकुर्या परानित्येवमाकारापि सत्त्वदर्शनाऽवयवा यस्मान्नात्मगामो फलाभिलाषाऽयमपि तु स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छेत्युक्तम् । न च सर्वे चित्तक्षणाः प्रत्येकं परमुपकुर्यामहमहमित्यहमहमिकयोत्पद्यमाना अप्यात्मदर्शनाऽबयवाः । परोपचिकीर्षायास्तं विनाऽप्युपपत्तेः । तत्त्वदर्शने चोपदेशसम्भवात्स्वगततामन्तरेणापि235 परोपकारस्य समीहितत्वादपेक्षितलक्षणत्वाच्च फलस्य सत्सम्बन्धस्य प्रवृत्तेः प्रेक्षावत्ताऽविधातात् । तस्मादुपदेशतत्त्वविज्ञानयोरविरोधात्सन्दिग्धव्यतिरेकित्वाद्वचनमपि न सर्वज्ञताया बाधकमिति न बाधकप्रमाणसद्भावस्तदभावव्यवहारसाधनम् । नाऽपि साधकप्रमाणाऽभावः । तथा हि । प्रत्यक्षाऽभावो वा सकलप्रमाणाभावो वा स्यात् । प्रत्यक्षाभावोऽपि चाऽऽत्मनः सर्वेषां वा, यदात्मनस्तदाऽपि दृश्यताविशेषणो निर्विशेषणो वा । न तावदात्मप्रत्यक्षनिवृत्तिर्दृश्यताविशेषणा सर्वज्ञाऽभावसाधनी । तस्य स्वभावविप्रकर्षिणस्तत्वानुपपत्तेः प्रसिद्धत्वान्निर्विशेषणायाश्च व्यभिचारात् समस्तप्रत्यक्षनिवृत्तेश्चाऽसिद्धत्वात् । न खल्वर्वाग्दृशः सकलप्रत्यक्षनिवृत्तिः । असिद्धत्वात् । न च प्रमाणं प्रमेयस्य व्यापकं कारणं वा, येन236 तन्निवृत्तौ निवर्तेत । तस्मान्न तदभावसिद्धिः । नापि तद्भावसन्देहः । तत्साधनेन तत्सद्भावस्य निवेदयिष्यमाणत्वात् । तस्मादनुविधेयपुरुषधौरेयनियोगादेव प्रवृत्तिनिवृत्ती इति साम्प्रतम् ।
तदेतन्निराचष्टे—न । कुतः ? तस्याऽनुविधेयस्य237 सर्वविदोऽनुपपत्तेः । अज्ञानाच्च । पातिते प्रमाणदारुणि यथायथं परिशोधयति—तथा हि ।
हेत्वभावे फलाऽभावात् प्रमाणे सति न प्रमा ।
चक्षुराद्युक्तविषयं परतन्त्रं बहिर्मनः ॥
तदेतद्व्याख्यातुमना भूमिकामारचयति—यद्यप्यात्मप्रत्यक्षनिवृत्तिर्विप्रकर्षवतां त्रिविधेन कालदेशस्वभावविप्रकर्षेण तद्वतां रामसुमेरुपरमाण्वा
निवृत्तिरसिद्धा । असर्वदृशः सकलप्रमाणनिवृत्त्या च नाऽर्थाऽभावसिद्धिः । अव्यापकनिवृत्त्याऽव्याप्यनिवृत्तेरनियमात् । अव्यापकत्वं चाऽहेतुत्वात् । तन्मात्रानुबन्धाऽभावाच्च । अन्यथा सर्वस्य सर्वदर्शित्वप्रसङ्गात्, अविशेषाच्च । वचनादयश्च यद्यप्यविरोधादनिवर्तकाः तथापि कारणनिवृत्त्या कार्यनिवृत्तिप्रतीतेः प्रमाणाऽनुपपत्त्या तत्कार्यायाः सर्वार्थेषु संविदोऽभावमनुमिमीमहे । तथा हि । न प्रत्यक्षं चक्षुरादिजन्म तावत्सर्वार्थेषु, तेषां विषयनियमात् । किञ्चिदेव हि वर्तमानं सम्बद्धं च तद्विषयो न सर्वेऽर्थाः ।
यद्यपि चाऽनेकविधप्रमेयसंवेदनाद्रूपतो नियमो दुर्निरूपः । पटुमन्दता- दीनामभावं व्यभिचरति । सर्वप्रत्यक्षनिवृत्तिरसिद्धा । असर्वदृशोऽस्मदादेः सकलप्रमाणनिवृत्त्या च नार्थाऽभावसिद्धिः । कस्मात् ? अव्यापकनिवृत्ताबव्याप्यनिवृत्तेरवश्यम्भावाऽनियमात् । अव्यापकत्वमेव कुत ? इत्याह— अव्यापकत्वं चाऽहेतुत्वादकारणत्वात्तन्मात्रप्रतिबन्धाऽभावाच्च238 । हेतुधर्म्ममात्राऽनुबन्धे हि साध्यधर्मोऽस्य व्यापकः । यथा वृक्षत्वं शिंशपात्वस्य । न च प्रमेयमात्राऽनुबन्धि प्रमाणम् । अन्यथा239 प्रमेयाऽनुबन्धित्वे प्रमाणस्याऽस्मदादेः सर्वस्य सर्ववित्त्वप्रसङ्गः । तथा सत्यविशेषाऽस्मदादीनां भवदभिमतेन सह सवविदा । प्रमेयमात्राऽनुबन्धिप्रमाणशालिता हि सर्वज्ञता । सा चाऽस्मदादेरपीत्यविशेषप्रसङ्गः । वचनादयश्च यद्यप्यनिवर्त्तकाः सर्वार्थतत्त्वविदो विपश्चितश्चाऽविरोधस्तया240 सह वचने सत्त्वादीनाम्, तथाऽपि कारणनिवृत्त्या कार्यनिवृत्तिप्रतीतिः144 । न ह्यस्ति सम्भवो, नास्ति धूमकेतनः, अस्ति च धूम इति । प्रमाणं च करणं प्रमाया इति प्रमाणाऽनुपपत्त्या तत्कार्यायाः सर्वार्थसंविदोऽभावमनुमिमीमहे ।
प्रमाणाऽनुपपत्तिमेव दर्शयति—तथा हि । न प्रत्यक्षं चक्षुरादिजन्म तावत् सर्वार्थेषु सम्भवति । कुतः ? तेषां चक्षुरादीनां विषयनियमात् । नियमभेदमाह—किञ्चिदेव वर्त्तमानं सम्बद्धं तद्विषयः । न हि वर्त्तमानमात्रं तद्विषयः । स्वभावविप्रकर्षवतां परमाण्वादीनामपि तद्विषयत्वप्रसङ्गात् । अत उक्तम्—किञ्चिदेवावयवि द्रव्यादीति । तथाऽपि कालव्यवहितदेशविप्रकृष्टं च तद्विषयः प्रसज्येत, अत उक्तं सम्बद्धमिति ।
एतस्मिंश्च नियमे न सर्वविषयं विज्ञानमिन्द्रियजमित्याह—न च सर्वेऽर्था देशकालस्वभावधिप्रकर्षशालिनः । तथा नियमान्तरे तु दूषणमनभ्युपगमादेव परिभूतमित्याह—यद्यपि चाऽनेकविधप्रमेयसंवेदनाद्रूपतो नियमो
दिभेदतश्च नानादेशपरिमाणार्थपरिच्छेदान्न देशतः सम्बन्धनियमः । परिमाणतो नियमश्च । कालतस्तु निरूप्यते । प्राप्यकारित्वेऽवर्तमानस्य प्राप्त्यभावात् । अप्राप्यकारित्वेऽप्यर्थसामर्थ्यसव्यपेक्षत्वात् ।
ज्ञानोत्पत्तावजातनिवृत्तयोरनुपाख्येयत्वात् असामर्थ्यात् । तथा दुर्निरूपः । तथा हि । न तावद्रूपवच्चाक्षुषम्, अरूपस्याऽपि सङ्ख्यादेश्चाक्षुषत्वात् । नापि रूपिसमवेतम् । तदसमवेतस्य नीरूपस्य कालादेरपि चाक्षुपत्वादिति न रूपतो नियमः । नापि पाटवं वा रूपशब्दादीनामुद्भवसमाख्यातम्, स्फीताऽऽलोकमध्यवर्त्तिताऽर्थस्य ऐन्द्रियकत्वनियमहेतुः । अनुद्भूतानां मन्दानां रूपशब्दादीनां चक्षुरादिगतानामन्धकारस्थस्य च घटादेरग्रहणादितिसाम्प्रतमित्याह—पटुमन्दतादिभेदतश्च ग्रहणाऽग्रहणनियमो दुर्निरूपः । इन्द्रियपाटवतारतम्येन मन्दमन्दतरमन्दतमग्रहणात् । वृषदंशादीनां च निरालोकवर्तिपदार्थग्रहणात् । नापि देशसन्निधिमहत्त्वे द्रव्यग्रहणनियमकारणे इत्याह—नानादेशपरिमाणार्थपरिच्छेदान्न देशतः सम्बन्धनियमः । चक्षुरेतावति देशे सन्निकृष्यते, नैतावतीति नायं नियमः सम्भवतीति तुल्यवद्भूम्यादिगतकुम्भादिशनैश्चरादिग्रहणदर्शनात् । परिमाणतो नियमश्च दुर्निरूपः । सूक्ष्मसूक्ष्मतरसूक्ष्मतमगोचरत्वस्योपलब्धेः । अणोरनुपलम्भ इत्यचोद्यम्241 । यदेव भवदभिमतं त्र्यणुकमोक्षामहे तदेव परमाणुमाचक्ष्महे । तदवयवाऽनुपलम्भात् तत्कल्पनाहेत्वनुपपत्तेश्च । दृश्यमानाऽवयवस्य च स्थवीयसस्तैरेव क्षोदीयोभिरारम्भसम्भवात् । अमहतोऽपि च गुणादेश्चाक्षुषत्वान्न महिमगुणशलिता तद्धेतुः । तदेकार्थसमवायस्य वा तद्धेतुत्वे त्र्यणुकस्याऽग्रहणप्रसङ्गः स्यात्, तदभावात्परस्पराऽपेक्षोभयकारणत्वे वा त्र्यणुकस्य च गुणादेश्चैकैककारणशालिनोरचाक्षुषता स्यात् । परस्पराऽनपेक्षकारणत्वे तु तृतीयस्यापि प्रकारस्य सम्भवो दुर्वारः । भवतु वा स्वभावविशेष एव चाक्षुषत्वे हेतुरेक इति न परिमाणतो नियमोपपत्तिः । तस्मान्निरूपणान्तराऽभावात् कालतस्तु निरूप्यते नियमः ।
तथा हि—इन्द्रियाणि प्राप्यकारीणि न वा, उभयथापि तेषां वर्त्तमानविषयतैषितव्येत्याह—प्राप्यकारित्वे प्राप्ते उभयाश्रयत्वेनाऽवर्त्तमानस्याऽसन्त आश्रयत्वाऽयोगात् । प्रप्त्यभावात् अप्राप्यकारित्वे यद्यपि प्राप्याश्रयत्वेन नाऽपेक्ष्यतेऽर्थः तथापि इन्द्रियाणामसत्यर्थे विज्ञानाऽजननात् अर्थसामर्थ्याऽपेक्षत्वात् । ज्ञानोत्पत्तौ कार्ये अजातनिवृत्तयोरनुपाख्येयत्वात् हेतोरसामर्थ्यम् ।
चाऽतिशयानामपि चक्षुरादयः स्वविषयमेव देशतः परिमाणतः सङ्ख्यातो वाऽधिकं बोधयेयुः नाऽविषयमजातमतिवृत्तम् । तदुक्तं विद्यमानोपलम्भनत्वात् । तथा हि । प्रत्यक्षे रूपादिवेदने तच्चक्षुरादिपरतन्त्रं तन्नियमादेव
न खल्वतीतोऽजातशत्रुः सम्प्रति सन्तर्पयति विप्रानन्नपानैरुत्थापयति वा यूपं महासम्पन्निमित्तमनागतशङ्खश्चक्रवर्त्ती । यद्युच्येत मा नाम भूतामर्वाग्दृशां लोचनगोचरावतीताऽनागतौ, योगविमलाञ्जनोज्ज्वलीकृतलोचनास्त्वालोचयिष्यन्ति सकृदेव जगदुदरवर्त्ति वृत्तवर्त्तिष्यमाणमर्थमात्रम् । अचिन्त्यो हि इन्द्रियाणां सामर्थ्याऽतिशयः, प्रभावाऽतिशयश्च योगस्य ।
यथा हि न चक्षुरादीनां देशतः परिमाणतः सङ्ख्यातो वा नियमः तथा कालतोऽपि मा भूदिति तत्राह—यदा कालतो नियम इति व्यवस्थापितं तदा अतिशयानामपि सिद्धाञ्जनादिभिर्योगिनां चक्षुरादयोऽर्वाग्दृशामिन्द्रियाणि च स्वविषयमेव देशतः परिमाणतः सख्यातो वाऽधिकं बोधयेयुः, नाऽविषयमजातमनिवृत्तं वा । एतदुक्तं भवति । यथैव कार्यमहेतुकं न भवति कादाचित्कत्वव्याघातात् एवमनियतहेतुकमपि । न खलु अनियतहेतुकत्वमहेतुकत्वाद्विशिष्यते । कारणस्य हि कार्यप्राग्भावनियमः कारणत्वम्, तच्चाऽनियतनिमित्तत्वेऽनुपपन्नम् । न हि जातु यवबीजमत्यन्तपरिकर्मितमपि कलमोऽङ्कुराय परिकल्पते । नानाकारणमेकं वृश्चिकादीति242 च स्थूलदृशः । कुशाग्रीयदृशस्तु प्रणिहितमीक्षमाणाः पश्यन्ति तत्रापि कमपि जातिभेदम् । तस्माद्यथैवकारणान्तराणिस्वकार्यनियतसामर्थ्यानि243 स्वकार्य एवाऽतिशयमनुभवन्ति नाऽकार्ये नाऽप्यन्यकार्ये तथेन्द्रियाण्यपि न स्वाविषये244 नाऽप्यन्यविषये इति सिद्धम् ।
अत्रैव पास्मर्षं सूत्राऽवयवं योजयति—तदुक्तं विद्यमानोपलम्भनत्वादिति । ननु मा प्रवर्त्तिषत बाह्यानीन्द्रियाणि, मनस्तु प्रवर्त्स्यतीत्यत आह— मानसमपि प्रत्यक्षं न सर्वं बोधयति । बहिर्मनसोऽस्वतन्त्रत्वात् । यत्र हि मनः स्थितं तत्र तेन प्रवर्त्तितव्यम्, स्वप्रत्ययाऽनुविधानात् । आन्तरे च सुखादौ तत् स्वतन्त्रमिति सुखादिविषयं तत् । न च सुखादयश्चितितया स्वसंवेदनप्रत्यक्षा इति साम्प्रतम् । विज्ञानादन्यत्वात् । विज्ञानाऽभिन्नहेतुतया तत्त्वमेषामिति चेत् । न । अभिन्नहेतुजत्वस्याऽसिद्धेः । इन्द्रियार्थसनिकर्षो हि चन्दनविज्ञानस्य हेतुः, सुखस्य तु तद्विज्ञानम्, तदभावेऽपि विज्ञानमात्रादेव स्वप्ने सुखोत्पाददर्शनात् । सत्यपि चन्दनाऽनुलेपे हेमन्ते तदनुत्पादादित्येषा दिक् । तस्मात्सुखादिविषयं मानसं बहिर्विषयं भवितुं नाऽर्हति, तत्र तत्प्रत्ययस्य मनस इन्द्रियादितन्त्रत्वादिन्द्रियादीनां च तदगोचरत्वात् ।
नियतम् । अन्यथाऽन्धाद्यभावप्रसङ्गादिति । मानसमपि प्रत्यक्षमान्तरसुखादिविषयम् । बहिर्मनसोऽस्वतन्त्रत्वात् । स्वातन्त्र्येऽन्धबधिराद्यभावप्रसङ्गादित्युक्तम् । तज्जन्मसमनन्तरप्रत्ययसहकार्य्यपेक्षणाद्यदि नाऽन्धाद्यभावः सर्वथा पारतन्त्र्यं न निवर्तते । तद्विषयत्वात् । अन्यथेन्द्रियान्तरजसहकारिणोऽपि प्रवृत्तेः स एवाऽन्धाद्यभावः । न च तुल्यजातीयविषय एव समनन्त-
कस्मान्न स्वतन्त्रं बहिर्मन ? इत्यत आह—स्वातन्त्र्ये रूपादौ मनसोऽन्धबधिराद्यभावप्रसङ्गात् । न खल्वन्धादयो निर्मनस्कास्तेषां स्मृत्याद्यभावप्रसङ्गात् । मनश्चेच्चक्षुरादिनिरपेक्षमीक्षेत रूपादीन्न कश्चिदन्धबधिरादिः प्रसज्येतेति । तदेव स्फोटयति—तथा हि । प्रत्यक्षे रूपादिवेदने तन्मनश्चक्षुरादिपरतन्त्रं तन्नियमादेव नियतमन्यथा नियमाद्यभावेऽन्वाद्यभावप्रसङ्गादिति ।
उक्तं शङ्कते—तज्जन्मसमनन्तरप्रत्ययसहकार्यपेक्षणाद्यदि नाऽन्धाद्यभावः । अयमर्थः । न खलु मनो नाम चक्षुरादिवत् किं चिदिन्द्रियान्तरं रोचयामहे, किं तु पूर्वमेव विज्ञानं चरमज्ञानस्योपादानमाचक्ष्महे । तदेव हि समंविज्ञानत्वेनाऽनन्तरं चाऽव्यवहितत्वेन समनन्तरप्रत्यय इत्युच्यते । तत्र यदिन्द्रियजविज्ञानसमनन्तरप्रत्ययसहकारिणा तदिन्द्रियजविषयक्षणोपादानेन रूपेक्षणान्तरेणेन्द्रियजविज्ञानसमानकालेन जनितं स्वजनकक्षणविषयं विशदाभमुपरतेन्द्रियव्यापारस्य ज्ञानं तन्मानसं प्रत्यक्षम् । न तदिन्द्रियजम्, तद्व्यापारोपरमे भावात् । नाऽऽन्तरविषयम् । इन्द्रियजविषयविज्ञानविषयक्षणजनितक्षणान्तरगोचरत्वात् । न चाऽन्धवधिराद्यभावः । तेषामिन्द्रियरहिततया तज्जविज्ञानाऽभावेनोपादानविरहात् । न चाऽप्रत्यक्षम्, विशदाभासत्वादिति ।
निराकरोति—सर्वथा नेन्द्रियान्तरपारतन्त्र्यं निवर्त्तते स्वोत्पत्तौ मानसस्य प्रत्यक्षस्य । कुतः ? यदिन्द्रियजविज्ञानविषयाऽनन्तरक्षणो ग्राह्यः तदिन्द्रियविषयजविषयजविषयत्वात्245 अन्यथा तदिन्द्रियजविषयजविषयाऽनपेक्षणे246 स्वोत्पत्तौ मानसस्येन्द्रियान्तरजविज्ञानसहकारिणोऽर्थात्प्रवर्त्तमानस्य रूपविज्ञानस्य स एवाऽन्धाद्यभावः प्रसज्येत । सहकारिभिः सह स्वोपादेयमुपादानमपि करोतीति सहकारीत्युच्यते । यद्युच्येत तुल्यजातीयविषय एव समनन्तरप्रत्ययो भवति नाऽसजातीयविषयः, तेनाऽयमप्रसङ्ग इति, तत्राह—न च तुल्यजातीयविषय एव समनन्तरप्रत्ययः । कस्मात् ? जात्यन्तरसञ्चाराऽ
रप्रत्ययः । जात्यन्तरसञ्चाराऽभावात् । न खल्वेष ज्ञानधर्मो, जात्यन्तरसञ्चारात् । न प्रत्यक्षधर्मोऽवितर्कितरूपाद्यपेक्षणात् । न मानसधर्मः । सुखादिषु तददर्शनात् । अपि च विषयनियमात्पारतन्त्र्यमस्तु सहकारिविशेषाऽपेक्षया वेति पारतन्त्र्य युक्तं स्मरणे तथा दर्शनात् । एकेन्द्रियग्राह्ये च सजातौ रूपान्तरग्रहणप्रसङ्गः । अबान्तरजात्यपेक्षणे भिन्नसन्तानाऽऽपातः । तदतत्सन्तानवृत्त्योर्ज्जात्यभेदात् । तस्मादेकसन्तानक्षणे समनन्तरप्रत्ययतां
भावप्रसङ्गात् । न तावन्निरुपादानं विज्ञानं भवितुमर्हति । न चाऽनियतोपादानम् । उक्तमेतत्, अनियतहेतुकत्वमहेतुकत्वान्नाऽतिरिच्यत247 इति । तदिह पूर्वबुद्धिभावाऽभावाऽनुविधानादुत्तरबुद्धिभावाऽभावयोः सैवोपादानमिति युक्तम् । ततश्च शुक्लविज्ञानाऽनन्तरमुपजायमानं घनसारशलाकायां शीतस्पर्शविज्ञानं शुक्लविज्ञानोपादानमेषितव्यम् । अन्यथा शुक्लविज्ञानजातीयस्य सन्तानस्य शिशिरज्ञानजात्यन्तरसञ्चाराऽभावः स्यादित्यर्थः ।
तदेतद्विभजते—न खल्वेष ज्ञानमात्रस्य धर्मः । कुतः ? जात्यन्तरसञ्चारात् । न प्रत्यग्धर्मः । कस्मात् ? अविकल्पितरूपार्थाऽपेक्षणात् । अविकल्पितस्य रूपस्य साक्षात्कारात्तद्विषयपूर्वज्ञानसम्भवे तु शब्दादिस्मृतौ सत्यां वाऽऽलोचनमात्रं भवेदित्यर्थः । न मानसप्रत्यक्षधर्मः । कस्मात् ? सुखादिषु तद्विषयपूर्वज्ञानाऽदर्शनात् ।
एवं तावदुक्तेन क्रमेण सहकारिविशेषाऽपेक्षया क्षणान्तरविषयत्वेऽपि पारतन्त्र्यमापादितं मनसः सम्प्रति विमर्शपूर्वकमिन्द्रियविषयतयैव पारतन्त्र्यमवधारयति—अपि च विषयनियमात्पारतन्त्र्यमस्तु सहकारिविषयाऽपेक्षया वेति विमृश्याऽभिमतमवधारयति—पारतन्त्र्यं युक्तम् । य एव यदिन्द्रियविषयः तत्रैव मनस्तदिन्द्रियतन्त्रं प्रवर्तत इति युक्तमित्यर्थः । कस्मात् ? स्मरणे तथा दर्शनात् । अपि च तुल्यजातीयविषयं समनन्तरप्रत्ययं मानसप्रत्यक्षकारणं ब्रुवाणो न तावदेकेन्द्रियग्राह्यतया तुल्यजातीयतां वक्तुमर्हति, अतिप्रसङ्गादित्याह—एकेन्द्रियग्राह्ये च सजातावभ्युपगम्यमाने रूपान्तरग्रहणप्रसङ्गः, पीतदर्शनमपि चाक्षुषं मानसप्रत्यक्षं चक्षुरसन्निकृष्टेऽपि नीले प्रसुवीत, तदिन्द्रियग्रहणाऽर्हत्वस्योभयत्राऽविशेषादित्यर्थः । यदि त्ववान्तरजातिरास्थीयेत न चासौ रूपान्तर इति नाऽतिप्रसङ्गस्तत्राह—अवान्तरजात्यपेक्षणे हि भिन्नसन्तानज्ञानाऽऽपातः । एकनीलोत्पलसन्तानवर्त्येकनीलोत्पलक्षणविषयमिन्द्रियाऽसन्निकृष्टसन्तानान्तरवर्तिनीलोत्पलक्षणविषयमपि विशदं मानसं जनयेत् । कुतः ? तदसन्तानवृत्त्या नीलोत्पलक्षणयोर्जात्यभेदात् । उपसंहरति—तस्मादेकनीलोत्पलसन्तानवर्त्तिक्षणविषयेन्द्रियजज्ञाने समनन्तरप्रत्ययत्वं तदिन्द्रिय
वदता चक्षुरादिविषयग्राहित्वमेवोक्तं भवति । क्षणविवेकप्रतिभासनादभेदप्रतिभासनात् क्षणिकत्वप्रतिक्षेपात् ।
विषयज्ञानविषयजविषयस्य मानसस्य वदताऽकामेनापि चक्षुरादिविषयग्राहित्वमेवोक्तं भवति । तथा चाऽस्येन्द्रियपारतन्त्र्यमिति सिद्धम् ।
न चैतावताऽपि चक्षुरादिविषयत्वमेव भविष्यति, न चक्षुरादिविषयग्राहित्वमित्यत आह—क्षणविवेकप्रतिभासनात् । इदमभिसंहितम् । क्षणिकत्वे हि सिद्धे भावानामेव तद्भवेदपि, न त्वेतदस्ति । तथा हि । अस्य साधनं प्रत्यक्षमनुमानं वा भवेत् । प्रमाणान्तराऽभावात् । प्रमाणस्य सतोऽत्रैवाऽन्तर्भावात् । अनन्तर्भावे तत्त्वाऽनुपपत्तेरिति स्थितेः । तत्र न तावत्प्रत्यक्षं लौकिकं नीलोत्पलादिवर्तिक्षणिकतां गोचरयति । ननु न नीलादन्यत् क्षणिकत्वं नाम वस्तुसत् । अर्थक्रियाभेदे हि तथा स्यात् सितादिवत् । न च क्षणिकत्वस्य नीलसाध्याया अर्थक्रियाया भिन्ना समस्ति अर्थक्रिया, या स्वलक्षणभेदेनाऽवतिष्ठेत । क्षणिकत्वं पीतादिवन्नीलसाध्ययैव चेदर्थक्रियया तत्तत्वतो नीलाद्भिद्यते । न भिद्यते चेन्नूनं नीलग्राहिणा प्रत्यक्षेणैव क्षणिकत्वं गृहीतं तदव्यतिरेकात् । तदनुपपन्नम् अनुभवाऽनारोहात् न खल्वनुभवो व्याख्यानमर्हति । स च नीलमिति न तु क्षणिकवचनमिति । तदव्यतिरेकात्तद्गोचरत्वे स्थेम्नोऽपि तदभिन्नस्य तत्त्वप्रसङ्गः । मानान्तरात्तु क्षणिकस्य तद्भेदसिद्धौ प्रत्यक्षसिद्ध्यभिधानं प्रलापः । तत्र तस्याऽवसायाऽजनकत्वात् । अवसायाऽननुगतव्यापारस्य प्रत्यक्षस्य प्रवृत्तिविषयं प्रति प्रामाण्याऽनभ्युपगमात् ।
स्यादेतत् । अनुभवारूढैव क्षणमात्रवर्तिता नीलादीनाम् । तथा हि प्रत्यक्षविज्ञानं क्षणिकं स्वसमयेनैवाऽवच्छिन्नं परिच्छिनत्ति । तद्यथा । नीलाऽऽकारमालोचनं नीलं परिच्छिन्दत् तदभावं व्यवच्छिन्दत् तदभावाऽव्यभिचारिणः पीतादीनपि व्यवच्छिनत्ति । तथाऽस्तसमयाऽवच्छिन्नं नीलं परिच्छिन्दत् स्वसमयवर्त्तिताऽभावमप्यस्य248 व्यवच्छिन्दत् तदभावाऽविनाभाविनीं तत्पूर्वाऽपरसमयवर्तितामस्य व्यवच्छिनत्ति । तदव्यवच्छेदे पीतादीनामप्यव्यवच्छेदः । तथा च नीलसाध्याऽर्थक्रियाऽर्थिनो न क्वचिदेव नियमेन प्रवर्तेरन् । तदनुभवसिद्धैव क्षणिकता भावानामिति ।
तदनुपपन्नम् । नीलमात्रगोचरत्वादालोचनस्य । न खल249 तदात्मानमपि गोचरयति, दवीयसी त्वस्य स्वसमयगोचरता । स्वसंवेदनाऽभ्युपगमेऽप्यात्माऽनात्मप्रकाशनमात्रं नात्मानं समयेनाऽऽत्मना वा नीलं समयेन वा घटयेत् । आलोचनमात्रतया विशेषणविशेष्यभावाऽविषयत्वात्250 । आलोचनस्यापि तत्समयाऽविच्छेदेऽपि नीलादीनां नैकक्षणमात्रवर्त्तित्वसिद्धिः । आलोचनस्यापि द्वित्रादिक्षणवर्तित्वात् एकक्षणमात्राऽवस्थानाऽसिद्धेः । न चैकस्य क्रमवदनेकसम्बन्धो विरुध्यत इति निवेदयिष्यते । तत्सिद्धं प्रत्यक्षेण क्षणविवेकाऽप्रतिभासनान्नेन्द्रियविषयजविषयतामानसस्य251 किन्त्विन्द्रियविषयग्राहित्वमेवेति252 ।
ननु मा नाम क्षणभेदः प्रतिभासताम्, तदभेदस्तु कुत ? इत्यत आह— अभेदप्रतिभासनात् । सोऽयं स्फटिक इति प्रत्यभिज्ञैव भगवती स्थापयिष्यति स्फटिकम् । नन्वियन्न स्फटिकस्य पूर्वाऽपरक्षणाऽवस्थानलक्षणं स्थिरत्वं योचरयितुमर्हति । न खल्वेतद्विज्ञानमेकम्, कारणभेदाद् विषयभेदात् स्वभावविरोधाच्च । तथा हि । स इति पारोक्ष्यमयमिति च साक्षात्कारः । न त्वनयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकताऽऽपादयितुम् । त्रैलोक्यस्यैक्यप्रसङ्गात् । सत्यपि च स्फटिक इति व्यपदेशाऽभेदे वैशकालभेदाद् विरुद्धधर्म्मसंसर्गादनयोर्गोचरो भिद्यते । न च संस्कारः पूर्वाऽनुभवयोनितया तद्गोचरनियतः सम्प्रतितनीमननुभूतचरीमस्य सत्तामवगमयितुमर्हति । न चेन्द्रियाणि सन्निहितविषयाणि प्राक्तनीं गोचरयन्ति तत्तास्पदस्य253 सत्तामसन्निहिताम् । न च कारणभेदेऽपि कार्याऽभेदसम्भवः । कारणभेदाऽभेदाऽधीनत्वात्तद्भेदाऽभेदयोः अन्यथाऽऽकस्मिकत्वाऽऽपत्तेः । तत्तेदन्तास्पदे च स्वगोचरमात्रचारिणी स्मरणग्रहणे न परस्परस्य गोचरं सम्भिन्तः । न चाऽऽभ्यामन्यदेकं विज्ञानमुभयविषयाऽसम्भेदसमर्थं सम्भवत्युक्तादेव क्रमात् । न चाऽस्य प्रामाण्यम्, विकल्पत्वेनाऽवस्तुनिर्भासत्वात् स्मार्त्तादविशेषाच्च । तस्मात्प्रत्यभिज्ञां स्थापयति भावानिति मनोरथमात्रम् ।
अत्रोच्यते । एकमेवेदं विज्ञानं प्रत्यभिज्ञासमाख्यानम् । ननूक्तं स्वभावविरोधान्नेति, तत्किमिदानीं भवतामनुमानविज्ञानमपि नैकम् ? तदपि हि प्रत्यक्षमप्रत्यक्षं वा विकल्पोऽविकल्पश्च समारोपोऽसमारोपश्च । स्वाऽनुभवाऽवस्थापिताऽभेदस्य स्वरूपस्य तद्ग्राह्यभेदाऽपेक्षया प्रत्यक्षत्वादीनामविरोध इति चेत् । न । इहापि साम्यात् । न खल्वेतदपि विज्ञानं तत्तेदन्ताऽधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयति, यदभिन्नं नानुभूयते अनुभूयते वा । एकत्वेऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभेदापेक्षया254 प्रत्यक्षतापरोक्षते न विरोत्स्येते । सहसम्भवाद्विज्ञानैकत्वस्य च प्रमाणसिद्धत्वात् । न च स इति पूर्वदेशकालसंसर्गोऽयमिति च सन्निहितदेशकालसंसर्ग एकस्य विरुध्यते । अतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति । तदव्यवच्छेदे तत्स्वरूपाऽपरिच्छेदात् स्वप्रच्युतिव्यवच्छेदस्वभावत्वात् पद्मरागभावस्य । तदव्यवच्छेदे तत्परिच्छेदाऽनुपपत्तेः । कस्मात्पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते ? तदभावाऽविनाभावादिति चेत्, स एव कुतः ? प्रत्यक्षण कदाचिदपि पुष्परागद्मरागयोस्तादात्म्याऽनुबलम्भादिति चेत् । यत्र तर्हि सतस्तादात्म्यप्रतीतिः तत्र न तदभावाऽविनाभावः । समस्ति च सोऽयं पद्मराग इति देशकालभेदाऽनुगतमेकं पद्मरागतत्त्वमवभासयन्ती साक्षात्कारवती प्रतीतिः । तेन भवतु देशकालयोस्तत्संसर्गयोर्वा परस्परमतदात्मत्वं न तु तदवच्छिन्नस्य पद्मरागस्य । तस्य भावात्संसर्गाभ्यां चाऽन्यत्वात् । ततोऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति चेत् । स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते । तस्मात्तत्तेदन्ताऽऽस्पदस्य पद्मरागस्य255 तदवभासिनोऽनुभवस्य चैकत्वमनुभवाद्वा अनुमानाद्वा तदवभासलक्षणफलाऽभेदजन्मनः सिद्धम्256 । विशदतरकार्यसिद्धौ चाऽप्रतीयमानमपि कारणं कल्पनीयं न पुनरप्रतीयमानकल्पनाभयात् कार्यवैशद्यमपह्नोतुमुचितम् । रूपादिविज्ञप्तीनामप्यपह्नवप्रसङ्गात्257 । तदिह यद्यपीन्द्रियं केवलमसमर्थं यद्यपि च संस्कारमात्रं संस्कारसध्रीचीनं त्विन्द्रियं भावयिष्यति प्रत्यभिज्ञातद्भावाऽभावाऽनुविधानात् प्रत्यभिज्ञाभावाऽभावयोः । न हि नाऽजीजनद्258 बीजमङ्कुरमिति मृदादिसहितमपि न जनयति । तेन भवतु स्थिरस्य भावस्य सहकारिप्रत्ययसमवधानसमासादिताऽतिशयस्य259 कार्यकारिता, भवतु वोपसर्पणं प्रत्ययपरम्परालब्धतथात्वादभेदस्य, उभयथाऽपि लोचनादीनां संस्कारसहितानामनुभववासनाभेदसहभुवां वा प्रत्यभिज्ञानजननसामर्थ्यसम्भवः । अनुभववासनामात्रजत्वेऽयमित्यनुपपत्तेरिन्द्रियमात्रजत्वे वा स इति अनर्थजत्वे वा अर्थसन्निधानाऽसन्निधानाभ्यां तत्प्रतिभासभेदाऽनुपपत्तेः । न चैवमतीतकालसम्बन्धितेन्द्रियाणाम् । तदसम्बन्धेऽप्यतीतकालतायास्तत्पारम्पर्यसम्बन्धसंस्कारद्वारेणाऽबभासोपपत्तेः । न चैवमतीतकालता न प्रत्यक्षेति साम्प्रतम् । इन्द्रियजविज्ञानविषयत्वात् तन्मात्रानुबन्धित्वाच्च प्रत्यक्षताया इन्द्रियसम्बन्धत्वे । तन्मात्रानुबन्धित्वे260 तु तज्ज विज्ञानाऽविषयाणामपि तद्गन्धादीनां261 परमात्ममनःप्रभृतीनामप्रत्यक्षत्वप्रसङ्गः262 । तस्मान्न कारणाऽभावः । नापि सामग्रीभेदः, यतः कार्यभेदः स्यात् । तस्मिन् जनयितव्ये नियमेन तत्पूर्वभाविनां संस्कारेन्द्रियादीनामेकत्र सामग्रीभावात् । तत्सिद्धमभेददर्शनं प्रत्यभिज्ञानात्मकमेकमनेकदेशकालाऽवस्थासम्बन्धं पद्मरागादि गाचरयतीति । च चेदं स्मार्त्तम्, पूर्वाऽपरदेशकालाऽवस्थानुगतेरधिकारात263 । न च विकल्परूपतयाऽस्याऽप्रामाण्यम्, अभिलापसंसर्गयोग्यप्रतिभासप्रामाण्ययोरविरोधात् । समारोपितगोचरत्वस्याऽसति वाधकेऽनुपपत्तेः । न चनदनुसन्धानमात्रं यथा भिन्नानामपि यजमानानामेकीभूता वयमिह सत्रे इति व्यपदेशमात्रं तत्केनचिदुपाधिना न त्वेकत्वावगमः । इह तु देशकालाऽवस्थासंसर्गभेदेऽपि पश्यन्त्येकं पद्मरागतत्त्वमभिन्नदेशकालमिव लौकिकपरीक्षकाः । तत्सिद्धमभेदप्रतिभासनादिति ।
नन्वस्त्वभेदप्रतिभासः, न पुनरयमक्षणिकतामावहति भावादीनाम् । बाधके सति समारोपितगोचरत्वात् । अस्ति हि बाधकं यत् सत्तत् क्षणिकं यथा घटादि । संश्च विवादाऽऽस्पदीभूतः शब्दादिरिति स्वभावहेतुः । भावमात्राऽनुबन्धिसाध्यविषयत्वात् । कथं पुनरिह सत्तामात्राऽनुबन्धसिद्धिः क्षणिकतायाः पूर्वाऽपरभागविकलकालमात्राऽवस्थितिलक्षणायाः ? । इत्थम् । तथा हि । सर्वोपाख्यारहितविपरीतरूपनिरूपणा सत्ता भावानां नाऽर्थक्रियाकारिताया अतिरिच्यते । नो खलु समस्ताऽर्थक्रियाऽनुपयोगिभावसम्भवः । तथा हि—स्वरूपमात्राऽनुबन्धिसार्वज्ञविज्ञानगोचरो न वा ? अगोचरश्चेन्निरुपाख्यो न भावः । तद्विषयताव्याप्तस्य वस्तुरूपस्य तन्निवृत्तौ निवृत्तेः । तद्गोचरत्वे वा कथमनालम्बनम् ? आलम्बनं चेत् कथमप्रत्ययः ? प्रत्ययश्चेत्कथमर्थक्रियायां नोपयुज्यते ? तदर्थक्रियाकारितैव सत्ता भावानाम् । सा च क्रमाऽक्रमाभ्यां व्याप्ता । तृतीयप्रकारविरहात् ।
तथा हि । भावानां तासु तास्वर्थक्रियासु क्रमाऽक्रमौ परस्परपरिहारवन्तौ त्यक्षत एव चकास्तः । तथा च प्रकारान्तरमपि क्रमाऽक्रमात्मकमीदृशाभ्यामेवाऽनुभूताऽवसिताभ्यां क्रमाऽक्रमाभ्यां व्यतिरिक्तमङ्गीक्रियेत, ततो दृश्यमानयोस्तयोरपि क्रमाऽक्रमयोः परस्परसङ्करप्रसङ्ग इति दृश्यमानः क्रमोऽक्रमात्मकोऽक्रमश्च क्रमात्मक इति तथैवाऽनुभवक्रिये प्रसज्येयाताम् । तदेवं परस्परपरिहारबन्तौ क्रमाऽक्रमौ परिच्छिन्दत् प्रत्यक्षमेव प्रतिक्षिपति, न मृष्यति च प्रकारान्तरमीदृक्क्रमाऽक्रमसङ्कीर्णमेकम् । तदनुपलम्भश्च दृश्यविशेषणरहितोऽपि दृश्यमानतादात्म्यनिषेधात्मकतया तदभावव्यवहाराय कल्पते । दृश्यमानस्तम्भतादात्म्येन स्वयमदृश्यानां पिशाचप्लवङ्गमादीनामविशेषेणाऽनुपलम्भमात्रेणाऽसद्व्यवहारसिद्धेः । अनेवम्भूतक्रमयौगपद्यव्यतिरेकवति तु प्रकारान्तरे क्रमयौगपद्ये एव न सम्भवतः । ननु मा भूतामस्त्वन्य एव क्रमाऽक्रमाऽभिधानयौगपद्यादन्यप्रकारो यमास्थाय अर्थक्रियासूपयोक्ष्यत इति चेत् । नन्वेषां प्रकारान्तरवत्किमर्थक्रिया पिशाचायमानैव ? तथा चेत्किं नश्छिन्नम् । दृश्यमानास्त्वनुभूताऽवसितपरस्परव्यावृत्तक्रमयौगपद्यरूपप्रकारद्व्यसमालिङ्गितशरीरा अर्थक्रिया न प्रकारान्तराद् भवितुमीशते । न च तदपि । तथा हि । यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं तत्र प्रकारान्तरसभवः । तद्यथा नीलप्रकारव्यवच्छेदेनाऽनीलप्रकारव्यवस्थानं पीते । अस्ति च क्रमयौगपद्ययोरन्यतरव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकारान्तराऽविषयीकृते अर्थक्रिया सर्वत्र कार्यकारणइति264 विरुद्धोपलब्धिः । निषिध्यमानप्रकारान्तरसम्भवविरुद्धं हि द्वयोरन्यतरनिषेधेऽन्यतरव्यवस्थानमिति प्रकारान्तराऽभावाद् भावानामर्थक्रिया क्रमाऽक्रमाभ्या व्याप्ता, तौ च स्थिराद्व्यावर्त्तमानौ अर्थक्रियामपि व्यावर्त्तयतो वृक्षतेव शिंशपात्वमेकशिलामयादचलप्रदेशात् ।
तथा हि । न तावत्क्रमेणाऽर्थक्रियासम्भवः, स्वेनैव हि रूपेण भावा अर्थक्रियासूपयुज्यमाना दृश्यन्ते यतो265 यद्यत्कार्यान्वयव्यतिरेकाऽनुविहितभावाऽभावं तत्तत्कार्यप्रसवसमर्थम्, रूपं च तेषां कार्येणाऽनुकृताऽन्वयव्यतिरेकमिति तदेव समर्थम् । तच्च द्वितीयादिष्विव क्षणेषु प्रथमेऽपि क्षणे सदिति द्वितीयादिक्षणजन्यं कार्यकलापं प्रथमे एव क्षणे जनयेत् समर्थस्य क्षेपाऽयोगादिति नाऽक्षणिकस्य क्रमवद्व्यापारसम्भवः ।
स्यादेतत् । असमर्थोपि क्रमवत्सहकारिसन्निधानात् क्रमेण266 करोतीति । तदनुपपन्नम् । विकल्पाऽसहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा ? आदधाना अपि भावाद्भिन्नमभिन्नं वा ? तत्र भिन्नोपकाराऽऽधाने भावरूपे सत्यप्यलब्धजनने सत्यप्यस्मिन्ननुपलब्धेरुत्पत्तिमत एवोपकारात्कार्यस्य निष्पत्तेर्न तत्कारी267 भावः स्यात् । न चोपकारसहकारिणः कार्यजननमिति साम्प्रतम् । उपकारस्योपकारान्तरजननेऽनवस्थापातात् । तत एव चोपकार्यस्योत्पत्तेर्भावस्याऽतत्कारित्वप्रसङ्ग इत्युक्तम् । अभिन्नोपकाराधाने भाव एवाऽभिधीयेत, न च स प्राक् सिद्धः शक्य आधातुम् । अनुपकारकत्वे वा सहकारिणो भावेन नाऽपेक्ष्येरन्नित्युत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् । अनपेक्षस्य क्षेपाऽयोगात् । क्षेपे वा पश्चादपि न जनयेत् । यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणः, यस्मात्तैः सहभावः कार्य करोति । न च नाऽपेक्ष्यन्ते । तैर्विना कार्यस्याऽनुत्पत्तेरिति । तन्न । स्वरूपेण चेत्कार्यजनको भावः कस्मान्नैतानन्तरेण जनयति ? । तेभ्यः प्रागपि रूपसद्भावात् । सहकारिरूपेण वा जनकत्वे त एव जनका न भावाः । अन्यरूपेण वाऽन्यस्य जनकत्वे गगननलिनस्यापि सत्त्वेन सद्व्यवहारगोचरत्वप्रसङ्गः । न चोभयभावाऽभावाऽनुविधानादर्थक्रियाभावाऽभावयोरेकैकस्माच्च व्यभिचारादस्मादुभयाऽधीनजन्मतेति साम्प्रतम् । चरमभाविनि सति हेतौ उत्पत्तिमति कार्योत्पत्तेरवश्यम्भावनियमेन व्यभिचाराऽभावात् । न च स्वकारणात्कतिपयकालकलाविलम्बेन कार्यजननस्वभावो भावो जात इति स्वभावादेव विलम्बकारीति साम्प्रतम् । विकल्पाऽसहत्वात् । किं कतिपयकालविलम्बेऽस्य विलम्बनकारितास्वभावो निवृत्तौ न वा ? निवृत्तश्चेत् कथं स268 भावो न निवृत्तः ? स्वभावनिवृत्तेः । अनिवृत्तौ वा कथमस्य स्वभावः ? निवृत्ताऽनिवृत्तरूपविरुद्धधर्मसंसर्गात् । अतत्स्वभावत्वे वा न विलम्बत इति जन्माऽनन्तरमेव कृतकृत्यः प्रसज्येत । अनिवृत्तौ कतिपयकालकलाऽतिक्रमेऽपि न कार्यं जनयेत् । विलम्बकारिताया रूपस्य तादवस्थ्यात् । तदुक्तेन क्रमेण न क्रमेणाऽर्थक्रियाकारिता सम्भवति भावस्य । नापि यौगपद्येन युज्यते । तस्माद्यावत्कार्यं किमपि प्रथमे क्षणे तेनाऽक्षणिकेन स्वेनाऽऽत्मना सम्पादिता तावत्सर्व द्वितीयादिक्षणे सम्पादयेत् । तावत्कार्यसम्पादनयोग्यस्याऽऽत्मनो द्वितीयादिक्षणेषु सन्निधानात् । तथा च सम्पादितस्य सम्पादनाऽनुपपत्तेः तदन्यत्वे द्वितीयादिक्षणसम्पाद्यस्य न यौगपद्येन निखिलाऽर्थक्रियानिर्वर्त्तनमक्षणिकस्य युज्यते । तदनेन पर्यायेण नाऽक्षणिकस्य क्रमाऽक्रमाभ्यामर्थक्रियाकारिता कल्प्यत इति । विपक्षे अक्षणिकत्वे व्यापकाऽभावात्ततो व्यावर्त्तमानं सत्त्वं क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ।
स्यादेतत् । क्षणिकोऽपि भावोऽर्थक्रियाजननस्वभावो न वा ? न चेदसन्नेव । जनकस्वभावश्चेत् किमस्य सहकारिभिः ? इत्युत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयत्येवाऽङ्कुरं कुतः पुनस्तस्योत्पत्तिः पूर्वस्माद्वीजक्षणात् तर्हि तत्सन्तानपतितानां सर्वेषां बीजत्वाऽविशेषादङ्कुरजननसामर्थ्यमिति लब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् । मैवम् । पूर्वपूर्वक्षितिबीजपवनादिक्षणसमवधानोत्पन्नाऽतिशयवत्तदुत्तरोत्तरक्षणपरम्परालब्धजन्माऽन्यो बीजक्षणः समर्थः समर्थक्षित्यादिक्षणसहभूतोऽनपेक्ष एवाङ्करं जनयति । न चाऽस्य क्षित्यादिसहभुवस्तदनपेक्षस्यापि तैर्विना कार्यकरणम् । तदेकसामग्र्याधानस्य तदभावे अभावात् । न चाऽसहकारिता क्षित्यादीनाम् । तैरेव सहाऽङ्कुरजननात् । तेषामपि तत्पूर्वभावित्वस्य नियमवत्त्वाऽविशेषात्, तन्मात्रत्वादेव च कारणतायाः । न चाऽनपेक्षाणामपि परस्परं कार्यान्तराऽऽरम्भणाम्, तन्मात्रस्य तेभ्य उपलब्धेः तत्रैव सामर्थ्यनियमात् । न च कृतकरतयेतरेषामक्रिया, सहक्रियायां कृतमित्यसम्भवात् । न च स्वकारणबललब्धपरस्परसन्निधयोऽप्रेक्षावन्तः शक्यमिदमेकेनाप्यस्मासु कर्त्तमिति कृतं सन्निधिनेति निवर्तितुमीशते । न च सहकारिकारणभेदः कार्यभेदहेतुः, अपि तु सामग्रीभेदः । तस्मिन् सति कार्यभेदोपलब्धेः । अभिन्ना चेह सामग्रीति न कार्यभेदसम्भवः । परस्परसमवधानं चोपसर्पणप्रत्ययेभ्यः क्षित्यादीनामिति न क्षणिकस्याऽर्थक्रियाविरोधादसाधारणता हेतोः । न च साध्यधर्मिणि दृश्यमाने शब्दादौ व्याप्तिप्रसाधनादेव साध्यसिद्धेरसाधनाऽङ्गहेतुवचनम् । न खलु सर्वोपसंहारवती व्याप्तिर्दृश्यमात्रविषया भवितुमर्हति । शक्यं हि शङ्कितुं परेण दृश्यमानानां सत्त्वमक्षणिकत्वान्न व्यावर्त्तितं त्वयेति सत्त्वमनैकान्तिकं न क्षणिकत्वसाधनम् इति । तस्माद्यत्सद् दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति दर्शनीया व्याप्तिः । नन्वेवमपि शब्दादेर्विवादाऽऽस्पदीभूतस्य व्याप्तिर्द्दर्शनबलादेव सिद्धा क्षणिकतेति तदवस्थमेवाऽसाधनाङ्गत्वं हेतुवचनस्य । मैवम् । असत्यपि शशविषाणादौ यत्सद् दृश्यमदृश्यं वा तत्सर्वं क्षणिकमिति यथा सर्वोपसंहारवती व्याप्तिः सिध्यति । न च शशविषाणादयो भवन्ति क्षणिकाः । एवमसत्यपि विवादास्पदीकृते शब्दादौ व्याप्तिसिद्धावपि न सिध्यति क्षणिकतेत्यवश्यं दर्शयितव्यमेव तेषां क्षणिकत्वसाधनाय सत्त्वमिति नाऽसाधनाङ्गता हेतुवचनस्य । अपि च कृतका भावाः स्वहेतुभ्य उपजायमाना विनश्वरा जायन्ते269 अविनश्वरा वा ? विनश्वराश्चेदुदयानन्तरमेवाऽपवृज्येरन्निति सिद्धिः क्षणभङ्गः । अथाऽविनश्वराः, न कदाचिदपि नश्येयुः । न खल्वविनश्वरो विनष्टुमर्हति । न जातु स्वकारणादुत्पन्नं नीलं पीतं भवति । न च हेत्वन्तराऽधीनजन्मा विनाश एषामिति साम्प्रतम् । विकल्पाऽसहत्वात् । स हि हेत्वन्तरेण जन्यमानो विनाशो भावाद्भिन्नोऽभिन्नो वा । न तावदभिन्नः कारणभेदात् । भिन्नत्वे तु भावस्य तादवस्थ्यात् पूर्ववदुपलब्ध्यादिप्रसङ्गः । तेन भावस्तिरोधीयत इति चेत् । न । तिरोधानस्यापि भेदे भावतादवस्थ्यम् । अभेदे वा हेतुभेदाऽनुपपत्तिः । तस्मादभावस्यापि समस्तरूपविरहिणो विकल्पितस्य क्रियाऽनुपपन्नेति अभावं करोतीति करोतिक्रियाया अभावेन निःस्वभावेन सम्बन्धाऽनुपपत्तेः । नञा सह सम्बन्धो भावं न करोतीति । यश्च न करोति तस्याऽकारकस्याऽहेतुत्वमिति न विनाशहेतवः ।
केचित् तु तस्मात्स्वहेतोरयमेकक्षणस्थितिधर्मा भावो जात इति द्वितीयक्षणे स्वयमेव न भवति, न पुनरत्र हेतुमपेक्षते । न खलु स्वकारणतः स्वभावव्यवस्थितं नीलमुपजायमानमपीतादिभावे हेतुमपेक्षते पर्यनुयुज्यते270 वेति । अपि च कृतकानां भावानामवश्यम्भावी विनाशः प्रतीयते तेनापि शक्या क्षणिकताऽनुमातुम् । तथा हि । यद्येषां ध्रुवं भावि तत्र तेषां हेत्वन्तराऽपेक्षा नास्ति यथा रूपादीनां लोहमयत्वे । धुवभावी च कृतकानां भावानां विनाश इति विरुद्धव्याप्तोपलब्धिर्विनाशस्य हेत्वन्तरायत्ततां प्रतिक्षिपति । ध्रुवभाविता हि निषिध्यमानहेत्वन्तराऽपेक्षत्वविरुद्धतन्निरपेक्षत्वव्याप्त्या लब्धा हेत्वन्तराऽनपेक्षत्वमुपस्थापयति । तच्च स्वविरुद्धं हेत्वन्तराऽपेक्षत्वमपाकरोति । यथा हि । ये ये हेत्वन्तरापेक्षा न ते ध्रुवभाविनः तथा वाससि रागादयः । यथा यदि भावा अपि स्वहेतुभ्यो हेत्वन्तरं विनाशं प्रत्यपेक्षेरन् ततस्तस्य सन्निधाननियमप्रमाणाऽभावात् कश्चित्कृतकोऽपि न विनश्येत् । सोयमवश्यम्भावी क्षणिकानां भावानां विनाशः स्वहेतुभ्य एवैकक्षणाऽवस्यायिनामुत्पत्तिं सूचयति । तथा च स्वयमेव न भवन्ति भावा द्वितीये क्षणे इति सिद्धः क्षणभङ्ग एतेषाम् ।
सदृशपराऽपरोत्पत्तिविप्रलब्धबुद्धयस्तु क्षणानामन्योऽन्यस्य भेदमपश्यन्तोऽज्ञादिवदर्वाग्दृशस्तदेवेदं स्तम्भादीत्यध्यवस्यन्तीत्याशङ्क्याह— क्षणिकत्वप्रतिक्षेपात् ।
इदमाकूतम् । नैव तावत्सत्त्वं क्षणिकत्वसाधनसमर्थं क्षणिकत्वे व्यवस्थाऽनुपपत्तेरसाधारणत्वात् । तथा हि । अन्त्यक्षणप्राप्तानां क्षणानां कार्यजननमुपेयते । तत्रेदं भवान् पृष्टो व्याचष्टां किमेकस्मादेकं कार्यमुपजायते उताऽनेकम् ? एवं किमनेकस्मादेकं कार्यमुताऽनेकमिति ? न तावदेकस्मादेककार्येण खल्वनुकृताऽन्वयव्यतिरेकं कारणं तदुच्यते यस्य कार्योत्पादात्प्राङ् नियमवान् भावः । अनुकारयन्ति च बहव एव क्षितिबीजादयः स्वाऽन्वयव्यतिरेकावङ्कुरं यत् नियमेन तदुत्पादस्य पुरस्तात् सहभवन्तः । काकतालीयन्यायेन तु क्षित्यादिक्षणानां प्राग्भावो न नियमवान् भवेत् । न चाऽङ्कुरमात्रं बीजक्षणस्य परस्तादवश्यम्भावि । क्षित्यदीनामपि तथाभावात् । तान्यपि खल्वङ्कुर इव बीजक्षणस्य परस्तादवश्यम्भावनियतानि । न च पौर्वापर्यनियमादन्यः कार्यकारणभावः । अपि च एकैककारणत्वाऽभावे न नियनेनाङ्कुरादिसहभुवो भूम्यादयो भवेयुः । तस्मादनेकस्मान्नैकम्271 ? यदाह न किञ्चिदेकमेकस्माऽदिति । नाप्येकस्मादनेकम्, अनेकक्षितिबीजतेजोऽनिलसलिलाऽनन्तरभावनियमादङ्कुरादीनामनेकेषाम् । नाप्यनेकस्मादेकस्यैवाङ्कुरस्य जन्मेति साम्प्रतम् । अङ्कुराद्भिन्नानां भूम्यादीनां तेन सहैकहेतुकत्वाऽभावे तत्सहभावनियमाऽभावप्रसङ्गात् । तत्सहभावनियमस्य चाऽङ्कुरवत्तेषामप्यविशेषात् । तदनेकस्मादनेकोत्पत्तिः परिशिष्यते ।
तत्रेदमालोचनीयम् । किं पूर्वक्षणा उतरेषां क्षणानां परस्परनिरपेक्षा एव जनका आहो स्वित्सापेक्षा ? इति । ननूक्तमन्त्यक्षणप्राप्ताः परस्परनिरपेक्षाः कार्याणि जनयन्तीति तत्किमनभ्युपेतारोपितप्रतिषेधप्रपञ्चेन । तत्किमिदानीं समर्थबीजक्षणजनकोऽपि तज्जनने इति कृतं सहकारिभिः । ननूक्तं नैते प्रेक्षाबन्तः कि तु स्वप्रत्ययाऽधीननियतसन्निधयो न व्यवधेरीशते इति । किमयं कृषीबलोऽपि न प्रेक्षावान् यः कुसूलादपनीय बीजमावपति भूमौ परिकर्मितायां क्षित्यादिसहभाविन एवाऽतिशयोत्पादपरम्परयाऽङ्करजननसामर्थ्यदर्शनात् । बीजस्य कुसूलस्थस्य272 वत्सरशतेनापि तददर्शनात् । तत्रावपतीति चेत् । अथ किमयं न स्वसन्तानमात्रम्प्रभवसमर्थो बीजक्षणः ? तथा चेत् कथं सन्तानान्तरं सहकारि नापेक्षेत कार्यकरणे ? नन्वपेक्षत एव चैष स्वोत्पादे न स्वकार्ये तत्र चाऽस्याऽनपेक्षत्वमुच्यते न तु स्वोत्पतौ । ननूत्पत्तावप्यस्य स्वसन्तानवर्ती जागर्ति पूर्व एव निरपेक्षः क्षणः । एवं तस्य पूर्वः पूर्वः स्वसन्ततिपतित एवाऽनपेक्षो जागर्ति जनने इति कुसूलनिहितबीजे एव स्यात्कृती कृषीबलः, कृतमस्य प्रेक्षावतः कृषिकर्मणला दुःखाकरेणेति ।
यदि मन्येत द्विविधमिह कार्यम् । एकं सहकारिभिराहिताऽतिशयविशेषमपरम्पराप्रसवधर्मकं द्वितीयं तु सहकार्यतिशयनिरपेक्षजननम् । तत्राऽङ्कुरे आहिताऽतिशयविशेषं पराऽपेक्षजन्म । आद्योऽतिशयस्तु सहकारिकृताऽतिशयपरम्परानिरपेक्षोत्पादः । न चैतदुभयविधमपि कार्य बीजस्य सन्तानमात्रादुत्पत्तुमर्हतीति क्षित्यादिसन्तानान्तराऽपेक्षमेव स्वसन्तानवर्तित्वात्कादाचित्कं273 कार्यं करोतीति कल्पते कृषिकर्म । सन्तानान्तराणि तु कादाचित्कार्योत्पत्तौ ये सहकारिप्रत्ययाः त एव यथाऽङ्कुरोत्पत्तौ सहकारिणो बीजस्य सामर्थ्यप्रबोधहेतवः कदाचित्त्वेषां क्षित्यादीनां ये मेलनहेतवस्त एव सामर्थ्याऽवबोधहेतवो भवन्ति तथा बीजानामाद्याऽतिशयोत्पादने सामर्थ्यप्रबोधहेतव उपसर्पणप्रत्ययाः । सर्वथा सन्तानान्तरैरनाहिताऽतिशयसामर्थ्यं न बीजं कार्यविशेषं कादाचित्कं करोति । सामर्थ्यप्रबोधहेतवश्च द्वये सहकारिप्रत्यया उपसर्पणप्रत्ययाश्चेति ।
तदनुपपन्नम् । तथा हि । भवतु द्विविधं कार्यम्, अस्तु च तत् कादाचित्कत्वात्सन्तानान्तराऽपेक्षम् । अपेक्षाऽर्थस्तु वक्तव्यः । कारणस्य स्वसामर्थ्यप्रबोध इति चेत् । ननु सामर्थ्यतत्प्रबोधयोः समर्थभावतत्प्राकट्याऽव्यतिरेकात् समर्थप्रत्ययोत्पाद इत्युक्तं स्यात् । तथा च स्वोत्पादे अपेक्षेत कारणं सहकारिप्रत्ययान्274 । सत्यम् । नाऽभ्युपगम एव दोषत्वेन चोद्यते । अथाऽयमाङ्कुरसमर्थो वा क्षण आद्याऽतिशयो वा किं निरपेक्षेण स्वसन्तानमात्रजन्मना पूर्वबीजक्षणेन जन्यते निरपेक्षेण न पुनः स्वसन्तानमात्रजन्मना । तस्यापि पूर्वस्मादेव पुञ्जादुत्पत्तेः । ननु समानकुसूलजन्मसु बहुषु बीजसन्तानेषु कस्मात्किञ्चिदेव बीजं परम्परयाऽङ्कुरजननाऽनुगुणमुपजनयति बीजक्षणाम्, नाऽन्ये बीजक्षणा भिन्नसन्ताने पतिताः । न खलु उपसर्पणप्रत्ययात्प्राक्तेषां समानाऽसमानसन्तानवर्त्तिनां कश्चित्परस्पराऽतिशयो बीजक्षणानाम् । अथोपसर्पणप्रत्ययात्प्राक् न तत्सन्तानवर्त्तिनो जनयन्ति परम्परयाप्यङ्कुरजननाऽनुगुणं बीजक्षणम् । बीजमात्रजननात्तु तेषां कस्यचिद् बीजक्षणस्योपसर्पणप्रत्ययसह भुव आद्यातिशयोत्पादः । हन्त तर्हि तदभावे सत्युत्पन्नोऽपि जनयेदेव । न चाऽस्योपसर्पणप्रत्ययेन सहभावनियमः । तत्सन्तानानां कुसूलवर्तिनां बीजक्षणानां तेन सह समानयोगक्षेमाणामप्युपसर्पणप्रत्ययसहभावाऽभावात् । क्षणस्य चैकस्य क्षणान्तरेणैकेन कार्यकारणभावनिश्चयाऽयोगात्सामान्यविषयत्वादन्वयव्यतिरेकयोस्तत्रैवोपपत्तेः । न खलु कारणभेदेन । तथा च केवलानां व्य भिचारसम्भवादाद्याऽतिशयोत्पादमङ्कुरोत्पादं वा प्रति क्षित्यादीनां परस्पराऽपेक्षाणामेवोत्पादकत्वमकामेनाप्यङ्गीकरणीयम् ।
अपि चाऽन्त्यक्षणप्राप्तं बीजमनपेक्ष्मङ्कराऽवनिपवनपाथस्तेजांसि जनयेत् । किं येनैव रूपेणाङ्कुरं जनयति तेनैव तदितराण्यपि किं वा रूपान्तरेण ? न तावत्तेनैव । क्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तेः । न खलु कारणा ऽभेदे भेदवत्कार्य भवितुमर्हति । कार्यभेदस्याऽऽकस्मिकत्वप्रसङ्गात् । यदाह— “अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धकर्माऽध्यासः कारणभेदश्चे” ति । नापि सामग्रीभेदः । तस्या अप्येकत्वात् । अन्यथा सहभावे नियमाऽभावात् । रूपान्तरेण तदिरेषां जनकम् । तथा हि । बीजमङ्कुरादि जनयदुपादानं तद्विक्रियया तदुपपत्तेः । तदितरेषु पुनरस्य सहकारिप्रत्ययता । तेषां तु पूर्वे पाबनादयो यथास्वमुपादानानि, तद्विक्रियया तदुत्पादादिति चेत् । ननु सहकारितोपादानतेति किमेकं तत्त्वं नाना वा ? एकं चेत्कथं रूपान्तरेण जनकम् ? नानात्वेऽप्यनयोर्बीजाद्भेदोऽभेदो वा ? भेदे कथं बीजस्य जनकत्वम् ? ताभ्यामेवाऽङ्कुरादीनामुत्पत्तेः275 । अभेदे वा कथं बीजस्य नानात्वं ? भिन्नतादात्म्यात् । एतयोर्वैक्यमेकतादात्म्यात् ।
यद्युच्येत क्षित्यादौ जनयितव्ये तदुपादानभूतमेव क्षित्यादिबीजस्य रूपान्तरमिति । न तर्हि बीजं तदनपेक्षं क्षित्यादीनां जनकम् । तदनपेक्षत्वे तेषामङ्कुराद्भेदाऽनुपपत्तेः । न चाऽनुपकारकाण्यपेक्ष्यन्त इति त्वयैवोक्तम् । न च क्षणिकस्योपकारसम्भवोऽन्यत्र जननात् । तस्याभेद्यत्वात् । तथा चाऽर्थक्रियाकारिताया एकाऽनेकत्वसाऽपेक्षत्वव्याप्तत्वात् । तृतीयप्रकारविरहादनयोरन्यतरनिषेधस्याऽन्यतरविधाननान्तरीयकत्वात् क्षणिकत्वे च तद्व्यापकयोरेकाऽनेकत्वप्रकारयोरभावादुक्तेन क्रमेण सत्त्वं न निवृत्तमित्यसाधारणाऽनैकान्तिकं गन्धवत्त्ववदिति ।
यदि मन्येत अनुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च कार्येणाऽनुविहितभावाऽभावत्वात्सहकार्यकरणाच्च । नन्वनेन क्रमेणाऽक्षणिकोऽपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः कार्येणाऽनुकृताऽन्वयव्यतिरेकानपेक्षिष्यते करिष्यते च क्रमवत्सहकारिसमवधानवशात्क्रमेण कार्याणीति व्यापकाऽनुपलब्धेरसिद्धेः सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्वसिद्धाविति । नन्वयमक्षणिकः स्वरूपेण कार्य जनयति । तच्च स्वरूपं तृतीयादिष्विव क्षणेषु द्वितीयेऽपि क्षणे सदिति तदाऽपि जनयेत् । अकुर्वन्बा तृतीयादिष्वपि न कुर्वीत स्थिरस्य तादवस्थ्यात् । अतादवस्थ्ये वा तदेवास्य क्षणिकत्वमिति ।
अत्रोच्यते । सत्यं स्वरूपेण कार्य जनयति, न तु तेनैव, सहकारिसहितस्य तस्य जनकत्वात् । क्रमवत्स्वप्रत्ययाऽपेक्षिणस्तत्सहकारिसमवधानस्य द्वितीये क्षणे भावात् स्वरूपवत् सहकारिसमवधानमप्यात्मनोऽन्वयव्यतिरेका वनुकारयति तत्कार्योत्पादने । न चेतावता सहकारिसमवधानादेवोत्पत्तिमतः कार्यसिद्धेः कृतमेतेषां स्वरूपेणेति साम्प्रतम् । तत्सहितादेव ततस्तदुत्पत्तिदर्शनाद्रूपे सत्यप्यनुत्पादात् । समवधाने तु उत्पादादेव कार्यस्य तदेव हेतुः न पुना रूपमपीति चेत् । नन्वेवमहेतुत्वे समानेऽपि बीजे रूपस्य रासभादिभिः सह कस्माद्वीजरूपे सत्येवाङ्करोत्पादो न रासभादिषु ? सत्स्वेव बीजादिस्वरूपसमवधानस्यैव हेतुत्वादिति चेत् ? तद्धेतुत्वे कथं तन्निवेशि स्वरूपमपि न हेतुः ? अहेतुत्वे वा कथं न रासभादितुल्यता ? न चाऽवर्जनीयतया रूपनिवेशः । समवधानमात्रस्य तदन्तरेणापि भावत् । विशेषस्तु रूपमेव । तस्माद्यथोभयाऽधीननिरूपणा व्याप्तिर्व्यापकस्य व्याप्ये भाव एव, नाभाव इति व्याप्यस्य तु व्यापक एव भावो, नाऽन्यत्रेति निरूप्यते तथा कार्यकारणभाव उभयाधीननिरूपणोऽपि कारणस्य कार्यात्प्रागभाव एव नाभाव इति कार्यस्य कारणे सत्येव नाऽसति भाव इति अनुभवाऽनुसारान्निश्चीयते । तथैव लौकिकपरीक्षकाणां कार्यकारणभावाऽवगतेः । न च कारणतैव सत्तास्वरूपं नीलादेरनुभवाऽवसितम् । तद्धि तेनैव स्वरूपेण स्वभावव्यवच्छिन्नं तासु तास्वर्थक्रियासूपयुज्यते, न पुनस्तत्कारितैवास्य रूपम् । मा भूदपर्यायेणाऽनेकार्थक्रियाकारणे रूपभेदः, मा च भूदुषाध्यपेक्षमस्यापि निरूपणं कार्यत्वस्यैव सत्त्वस्य शुद्धस्यैव निरूप्यमाणत्वात् कारणत्वे तु सत्त्वे यथा कार्यत्वं भावस्वभावोऽपि वस्तुतः कारणाधीननिरूपणं तथा कारणत्वमपि स्वसम्बन्धिकार्यमन्तरेणाऽशक्यनिरूपणमिति सत्त्वं शुद्धं न निरूप्येत । ततश्चोपाध्यपेक्षः शुद्धो वा नाशे कार्यत्वसत्त्ववदिति व्याहन्येत । तथा च यद्यस्ति सर्वज्ञः तथाऽपि सिद्धं सद्रूप एव भावस्तद्विज्ञानालम्बनप्रत्ययत्वमनुभविष्यति । अथ नास्ति, तथाऽपि स्वस्वहेतुतो लब्धस्वरूप एवापाततोऽकिञ्चित्करः समर्थोऽपि तत्तत्सहकारिसन्निधेस्तासु तास्वर्थक्रियासूपयोक्ष्यते । न च प्रथमतः कार्याऽनुपलब्धेरसामर्थ्य, तथा सति रासभादेरपि क्षित्यादिसमवधानादङ्कराद्युत्पत्तिप्रसङ्ग इत्युक्तम् । ननु जनकत्वमजनकत्वं च विरुद्धौ धर्मौ कथमेकत्र समाविशतः ? तथैकत्रैव बीजेऽङ्कुरजनकत्वं तदजनकत्वलक्षणं च क्षित्यादिजनकत्वं कस्मान्न विरुद्धे ? विरोधिनी चेत्कथमभेदः ? भेदश्चेन्नैकं जगति किञ्चिदिति नाऽनेकमपि स्यादिति सुनिरूपितमत्रभवता भावानां तत्त्वम् । सकृदुपलभ्यमाने कार्यभेदेऽपि बीजरूपस्य जनकस्याऽभेदावगतेः प्रत्यक्षेणाऽभेद इति चेन्न । इहापि समानत्वात् । न खल्वत्रापि क्रमवत्कार्यभेदेऽपि बीजरूपमन्यदन्यदपेक्ष्यते । न च नञः प्रयोगाऽप्रयोगमात्राभ्यां विरोधाऽबगतिः । अतिप्रसङ्गात् । न च बीजस्यापि यदैव जनकत्वं तदैवाऽजनकत्वम् । न च जनकत्वमस्य स्वभावोऽपि तु बीजं जनकत्वं न
अपि च मनोवैगुण्ये चक्षुराद्यभावे च रूपाद्यवेदनादुभयवेद्यताऽवसीयते । केवलमनोवेद्यता तु कुतः ? द्वितीयक्षणोपलब्धेरिति चेत् । न । तत्र चक्षुरा-
तदितरप्रत्ययसमबधानं वा सामर्थ्यं वा धर्मभेदः । समवधानं चो सर्पणप्रत्ययाऽधीनमस्य । न च न धर्म्मधर्मिणोरभेदः । तस्य ततोऽन्यत्वात् । अन्यत्वेऽपि च तदाश्रितन्वात्तस्योलब्धेः तेन च सहकार्यकरणात्तत्सम्बन्धः । तत्सिद्धमक्षणिकस्यापि क्रमाऽक्रमाभ्यामर्थक्रियाकारितोपपत्तेः सन्दिग्धव्यतिरेकित्वादनैकान्तिकं सत्त्वमसाधनाङ्गं क्षणभङ्गुरत्वे भावानामिति ।
यच्च विकल्पितं, स्वभावतो भावा विनश्वरा अविनश्वरा वा जायन्त इति, तत्रोच्यते । न वयं विनश्वरत्वमविनश्वरत्वं वा जानीम, किन्तु सन्तः स्वहेतुभ्यो जायन्ते ध्वंसन्ते व हेत्वन्तरेभ्यः स्वप्रत्ययाऽधीनसन्निधानेभ्य इति । ध्वंसश्च ध्वंस्यमानाऽभिन्नो हेतुभेदात्स्वभावभेदाच्च । उपपादितश्च स्वभावभेदो नियोगपरीक्षायाम् । नन्वस्मिन्नुत्पन्नेऽपि भिन्नमूर्तौ किमायातं भावस्य ? न किञ्चिदायातम् । अस्त्ययमायुष्मान् भावः । अस्तु स्वकारणाधीनजन्मना, तदभावेन तत्स्वरूपविरहलक्षणेन स्वलक्षणशालिता स्वाऽनुरूपं व्यवहारं प्रवर्त्तयता निरस्तसमस्तार्थक्रियाः किं नच्छिन्नम् ? न च ध्रुवभाविता विनाशस्य हेत्वन्तरानपेक्षतामावहति । असिद्धत्वादनैकान्तिकत्वाच्च । इदं हि भवान्निरूपयतु, किं घटसन्तानात्संविभागा कपालसन्ततिर्ध्रुवभाविनी न वा ? न चेद्विनाशोऽपि घटस्याऽध्रुवभावी । न खलु संविभागक्षणोत्पादमन्तरेण घटविनाशमीक्षामहेऽपिहितचक्षुपः । तथा चाऽसिद्धा ध्रुवभाविना विनाशस्य । अथ ध्रुवभाविनी, तस्यामेव विभागसन्ततौ ध्रुवभाविन्यामपि मुद्गरापेक्षिण्यामनैकान्तिकं ध्रुवभावित्वं नाऽनपेक्षत्वेन व्याप्तमिति हेत्वन्तराऽपेक्षत्वं निषेद्धुमर्हति । तस्मात् क्षणिकत्वसाधनाऽनुमानप्रतिक्षेपादवाधितं प्रत्यभिज्ञानं स्थापयति भवानिति सिद्धम् ।
तदेवं क्षणिकत्वप्रतिक्षेपान्नेन्द्रियजविज्ञानसमयभावी तद्विषयजन्मा क्षणोऽस्ति यो मनोविज्ञानगोचरः स्यादित्युक्तम् । अस्तु वा, तथाप्ययमपि चाक्षुषो, न तु मनोमात्रगोचरः । उभयभावाऽनुविधानात्तद्विज्ञानभावाऽभावयोरित्याह—अपि चाऽन्यविषयव्यावृत्तमनसां मनोवैगुण्येऽप्रणिहितमनसामन्धादीनां चक्षुराद्यभावे च रूपाद्यवेदनात् इतरथा च वेदनात् उभयवेद्यताऽनुमीयते । केवलमनोवेद्यता कुतः ? शङ्कते—प्रथमे एव क्षणे इन्द्रियसामर्थ्योपक्षयात् द्वितीयक्षणोपलब्धेः केवलमनोवेद्यताऽनुमीयते इति चेत् ? निराकरोति—न । कुतः ? तादृशतज्जातीयक्षणावधृतसामर्थ्यानां चक्षुरादीनां सामर्थ्यपरिक्षये हेत्वभावात् न चैकस्मिन्नेव क्षणे सामर्थ्यमेतेषां येन क्षणान्तरे तन्न स्यादि
दीनां सामर्थ्यपरिक्षये हेत्वभावात् । तज्ज्ञानधारावाहिकत्वदर्शनाच्च । स्मरणे तु प्रतीतमेव पारतन्त्र्यमनुमानादिषु लिङ्गाद्यभावे प्रत्ययात् पारतन्त्र्यमिति न क्व276 चिदप्यनान्तरे मनःसाक्षात्स्वतन्त्रं प्रवर्तत इति आन्तर एव साक्षाद्विषयस्तत्रैव साक्षाद् वृत्त्या प्रकर्षमनुभवेत् नाऽविषये ।
इत्याह—तज्ज्ञानधारावाहिकत्वदर्शनाच्च । ननु स्मरणे केवलमेव मनः प्रवर्तते, अन्धादीनामपि रूपादिस्मरणोपलब्धेरित्यत आह—स्मरणे तु प्रतीतमेव पारतन्त्र्यं मनसः । प्रमाणान्तराऽधिगतगोचरत्वात् । प्रमाणान्तरजन्माऽनुभवाऽऽहितभावनासहितं हि मनः स्मरणे हेतुः, न निरपेक्षमित्यर्थः । न चाऽनुमानादिज्ञानेषु स्वतन्त्रमित्याह—अनुमानादिषु लिङ्गाद्यभावे प्रत्ययात्पारतन्त्र्यं मनसः प्रतीतमिति । तस्मान्न क्व चिदनान्तरे मनः साक्षात्स्वतन्त्रं प्रवर्त्तत इत्यान्तर एव सुखादिरस्य साक्षादव्यवधानेन संयुक्तसमबायलक्षणेन सन्निकर्षेण स्वतन्त्रस्य विषयो न तु बाह्यम् । तेन साक्षाच्चक्षुरादिवदसम्बन्धादस्वतन्त्रत्वाच्च । तेन तन्मनस्तत्रैव साक्षाद्वृत्त्या प्रकर्षमनुभवेद् न तदविषये बाह्ये । तत्सिद्धमेतत् विवादाध्यासितानि चक्षुरादीनि नाऽतीताऽनागतविषयविज्ञानजनकानि विषयसहकारिणां तत्कार्यजनकत्वाद् यद्यत्सहकारि यत्कार्यजनकं तत्तदभावे न कार्य जनयति यथा बीजमङ्करजनकक्षित्यादिसहकारिक्षित्यादावतीतेऽनागते वा नाऽङ्क्राय कल्पते । न चाऽर्थसहकारित्वमिन्द्रियाणामसिद्धं, विज्ञानजनने तदसहकारित्वेऽस्मदादीनामप्यतीताऽनागतार्थप्रत्यक्षत्वप्रसङ्गात् । सिद्धौषधमन्त्रतपः समाधीनां चङ्क्षुराद्यतिरोधायकत्वेऽपि न स्वविषयाऽतिलङ्घनमित्युक्तम् । न च सन्दिग्धव्यतिरेकिता । तथा हि । सहकारित्वमपेक्षणीयतया व्याप्तं तदभावे तु कार्यजनने अपेक्षणीयत्वविरुद्धमनपेक्षणीयत्वं277 व्यापकविरुद्धोपलब्ध्या सहकारितामपि निवर्त्तयतीति प्रतिबन्धसद्धिः । एवं विवादाऽऽस्पदं मनो न चक्षुरादिनिरपेक्षं बाह्ये प्रवर्त्तते तत्तन्त्रप्रवृत्तित्वाद्यद् यत्तन्त्रप्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्त्तते यथाऽऽलोकापेक्षं चक्षू रूपे न सन्तमसे इति विरुद्धोपलब्धिः । न च बाह्ये न चक्षुरादितन्त्रं मन इति साम्प्रतम् । अन्धबधिराद्यभावप्रसङ्गात् इति विपञ्चितम् । ननु मा भूदिन्द्रियजं मानसं च प्रत्यक्षं सर्वविषयं, भावनामयं तु भविष्यति । तथा हि । श्रुतमयेन विज्ञानेन समस्तवस्तुविषयनैरात्म्यादि गृहीत्वा युक्तिमयेन च भूततामस्य व्यवस्थाप्याऽसकृच्चेतोनिवेशनरूपभावनाप्रकर्षपर्यन्त-जन्मप्रत्यक्षं विज्ञानमनवयवेनाऽऽत्मादिरूपविश्वालम्बनं278 करतलाऽरविन्दविषयमिवाऽतिविशदं भावयिष्यति तथागतः । न चाऽयमीदृशः प्रत्ययो न सम्भवति भावनाप्रकर्षात् । तथा हि । भावनाऽभावाद्वा तत्प्रकर्षाऽभावाद्वा तत्सासर्थ्याऽभावा द्वा न भवेद् । न भावनाऽभावात्279 सर्वधर्मनैरात्म्यभावनाऽसम्भवः । स खल्वेवं न भवेद् यदि जगति दुःखं नाम न स्यात्, सद्वा न जिहासितं स्यात्, जिहासितं वा न शक्यहानम्, अशक्यहानता च तन्नित्यत्वाद्वा, तदुपायाऽपरिज्ञानाद्वा, उपायाऽपरिज्ञानेऽपि च शक्यहानत्वेऽपि च नैरात्म्यभावनाया अनुपायत्वाद्वा, लघुतरोपायान्तरसम्भावाद्वा । न तावत् दुःखं नाम नास्ति जगति, परिणामतापसंस्कारैः खल्वनवयवेन पञ्चापि स्कन्धा भवन्ति संसारिणाम् । न चैते स्वस्य परेषां वा नाऽपनिनीषिताः । श्रावकबोधिप्रतिनियतेन सा नैसर्गिककरुणापराधीनचेतसा वा पुरुषधौरेयकेण परदुःखदुःखिना प्रतिकूलवेदनीयत्वात् । नाप्यशक्यहानता । न हि नित्यो नाम भावः सम्भवी, तस्य समस्तक्रियाविरहिणो व्योमोत्पलायमानत्वात् । नाप्युपायाऽपरिज्ञानम् । तथा हि । दुःखस्य समुत्पादका दोषाः रागद्वेषादयो मदमानादयश्च ते चोत्पादका अपि तदवयवान्निवर्तमानास्तदपि निवर्त्तयन्ति, यथा कफोद्भवो ज्वरः कफनिवृत्त्या निवर्त्तते । दोषाश्च नित्यात्मादिदर्शनजन्मानः तदवयवास्तदविभागवर्त्तिनस्तदभाव न भवन्ति । तदभावहेतुर्न तत्प्रतिपक्षसाक्षात्कारादन्यः । तस्यैव तद्विरोधित्वात् । तथा हि । यत्र यद्विरुद्धसमवधानं तत्राऽवश्यं तदितरनिवृत्तिः । यथा विरुद्धवह्निसन्निधाने शीतनिवृत्तिः । सम्भवति च चित्ते स्थिराऽऽत्मदर्शनविरुद्धसर्वधर्मनैरात्म्यस्वात्मीभाव इति स्वभावविरुद्धोपलब्धिः । एवं च तद्धेतुरागादीनामप्यत्यन्तनिवृत्तिः । तथा हि । ये सम्भवत्स्वहेतुविरुद्धाऽत्यन्तविवृद्धयः ते सम्भवदत्यन्तसमुच्छेदाः यथेन्द्रलुप्तनितान्तविवृद्धयः केशाः । सम्भवत्स्वहेतुविरुद्धात्यन्तविवृद्धयश्च रागादय इति स्वभावहेतुः । सर्वधर्म्मनैरात्म्यं च तत्प्रतिपक्षस्तत्साक्षात्कारश्च न भावनाप्रकर्षादन्यतः । न चाऽसौ भावनामन्तरेणेति । न च सर्वधर्म्मनैरात्म्यविज्ञानं प्रति च समर्थो भावनाप्रकर्षः ।
तथा हि । यन्मनोविज्ञानं सम्भवद्भावनाप्रकर्ष तद्भावनाऽऽधेयज्ञेयाऽऽकारवैशद्यं यथाकामार्त्ताद्यवस्थासु मनोविज्ञानं कामिनीवस्त्वाद्यालम्बनं भावनाप्रकर्षऽऽधेयविशदभावम् । सम्भवद्भावनाप्रकर्षश्च नैरात्म्यविकल्प इति स्वभावहेतुः, भावनाप्रकर्षमात्रनिमितत्वात् । प्रतिभासवैशद्यस्य यस्य भावनाप्रकर्षस्तस्य विशदप्रतिभासत्वं नियतसंविधानमिति सम्भवद्भावनाप्रकर्षमात्रानुबन्धिना विशदप्रतिभासतेति सत्यपि भावनाप्रकर्षसम्भवे यदि प्रतिभासवैशद्यं नोत्पद्येत निमित्तान्तरसापेक्षं स्यात् । निरपेक्षतया च व्याप्तः प्रकर्षो दृष्टः, ततो व्यापकविरुद्धोपलब्ध्या विपक्षाद् व्यावर्तमानो भावनाप्रकर्षो वैशद्येन व्याप्यत इति न सन्दिग्धव्यतिरेकः । नाप्यसिद्धः । कारुण्येन दुःखभयाद्वा भावनाप्रकर्षप्रारम्भसम्भवात् । न च लङ्घनोदकतापवद्व्यवच्छिन्नोत्कर्षता सर्वधर्म्मनैरात्म्ये चेतसो येन क्वचिन्न विवादः सम्भवेत् । यतो यः स्थिराऽऽश्रयो धर्मो यत्र यथोत्पन्नो यथाहितस्य भागस्य प्रवृत्तये न पुनर्यत्नमपेक्षते सोऽत्यन्तं निष्ठां तत्र गच्छति । तद्यथा कलधौतस्य पुटपाकप्रबन्धाऽऽहिता विशुद्धिः रक्तसारताम् । स्थिराश्रयश्च सर्वधर्मनैरात्म्यबोधे उत्पन्ने विशेषे पुनः प्रयत्नाऽनपेक्षः सम्भवदत्यन्ताऽभ्यासः पुंसामिति स्वभावहेतुः स्थिराश्रयत्वं परलोकसिद्धेः । अप्रधानमपि भावाद्भिन्नमभिन्नं वा ? तत्राऽभिन्नोपकाराऽभावरूपे सत्यप्यलब्धजन्मनः सत्यप्यस्मिन्ननुपलब्धेरुत्पत्तिमत एवाऽपकरात् कार्यनिष्पत्तेरशक्ताद्भावः स्यात् । न चोपकारिणः कार्यजननमिति साम्प्रतम् । उपकारस्योपकारान्तरजनने ऽनवस्थापातात् । तत एव कार्यस्योत्पत्तेर्भावस्याऽतत्कारित्वप्रसङ्ग इत्युक्तम् । अभिन्नोपकाराऽऽधाने वा भाव एवाधेयः । न च स प्राक्सिद्धः शक्य आधातुम् । अनुपकारित्वे वा सहकारिभावेन नापेक्षेरन्नित्युत्पन्नमात्रमेव बीजमङ्कुरादि जनयेत् । अनपेक्षस्य क्षेपाऽयोगात्तत्क्षेपे वा पश्चादपि न जनयेदविशेषात् । यदि मन्येताऽनुपकारका अपि भवन्ति सहकारिणो यस्मात्तैः सहभावः कार्य करोतीति । न च नाऽपेक्ष्यन्ते, तैर्विना कार्यस्याऽनुपपत्तेरिति । तत्र स्वरूपेण चेत् कार्यस्य जनको भावः तस्मान्नैवाऽभावयोरेकैकस्माद् व्यभिचारादुभयाऽधीनजन्मतेति साम्प्रतम् । हेतोरुक्तकार्योत्पत्तेरवश्यम्भावनियमेन व्यभिचाराऽभावात् । न च स्वकारणात् कतिपयकालकलाविलम्बेन कार्यजननस्वभावो भावो जात इति स्वभावादेव विलम्बकारीति साम्प्रतम् । विकल्पाऽसहत्वात् । किं कतिपयकालकलाविलम्बनकारितास्वभावो निवृत्तो न वा ? निवृत्तश्चेत् कथं भावो न निवृत्तः ? स्वभावनिवृत्तेः । अनिवृत्तौ बाधकमस्य स्वभावो निवृत्तरूपविरुद्धधर्मसंसर्गात् । अतत्स्वभावत्वे वा न विलम्बत इति जन्मानन्तरमेव भावः कृतकृत्यः प्रसज्येत । अनिवृत्तौ कतिपयकालकलातिक्रमेऽपि न कार्य जनयेत् । विलम्बकारिताया रूपस्य तादवस्थ्यात् । तदुक्तं ऽन क्रमेणाऽर्थ क्रियाकारिता सम्भवति भावस्य नापि यौगपद्येन युज्यते यस्माद्यावत्कार्यं किमपि प्रथमे क्षणे तेनाऽक्षणिकत्वेनात्मना सम्पादितं तावत्सर्व द्वितीयादिक्षणेषु सम्पादयेत् तावत्कार्यम् । क्षणिकस्य तु क्रमाऽक्रमाभ्यामर्थक्रिया कल्पत इति । विपक्षे क्षणिकत्वे व्यापकाभावात्ततो व्यावर्त्तमानं सत्त्वं क्षणिकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ।
स्यादेतत् । क्षणिकोऽपि भावोऽर्थक्रियाजननस्वभावः । न चेदमत्रैव जननत्वाऽभावश्चेत् किमस्य सहकारिभिरित्युत्पन्नमात्रमेव बीजमङ्कुरं जनयेत् । ननूत्पन्नो बीजक्षणः समर्थो जनयत्येव, कुतः पुनस्तस्योत्पत्तिः पूर्वस्माद्बीजक्षणात् ? तर्हि तत्सन्तानपतितानां सर्वेषां बीजत्वाऽविशेषादङ्कुरजननसामर्थ्यमिति लब्धजन्ममात्रमेव बीजमङ्कुरं जनयेत् । मैवम् । पूर्व क्षितिबीजपवनादिक्षणसमवधानोत्पन्नाऽतिशयवत्तदुत्तरोत्तरक्षणपरम्परालब्धजन्माऽन्योऽपि क्षणसमर्थः समर्थक्षित्यादिक्षणसहकृतोऽनपेक्ष एवाऽङ्कुरं जनयति । न चाऽन्यक्षित्यादिसहभुवस्तैस्तदनपेक्षितस्यापि तैर्विना कार्यकरणं, तदेकसामर्थ्याऽधीनस्य तदभावेऽभावात् । न चाऽसहकारिता क्षित्यादीनां सिद्धेति नोदकतापवद्व्यवस्थितोत्कर्षता । तत्राऽत्यन्ततापेन तदाश्रयाणमपामुपरतेरस्थिराश्रयत्वात् । नापि लङ्नवद्व्यवस्थितोत्कर्षम् । यथाहितस्य भागस्योत्पत्तौ तत्र पुनर्यत्नापेक्षत्वात् । न हि तत्र पूर्वसिद्धाऽऽलम्बनमात्रा सती280 लङ्घनान्तराय कल्पते, अपि त्वसौ विनष्टा । लङ्घनान्तरं तु पूर्वलङ्घनवद्बलप्रयत्नाभ्यां प्रवर्तते । सर्वधर्मनैरात्म्यप्रकाशनस्वभावस्तु चेतसः स्वरसवाहीति न पुनः प्रयत्नमपेक्षते । तस्य हि पूर्वभावनाऽऽहिताऽधिकाऽधिकोत्तरविशेषप्रतिलम्भेनाऽत्यन्तप्रकर्षोत्पत्तेराश्रयस्वभावभूतत्वात् । इह प्रकर्षविशेषणं लङ्घनं तु न देहस्वाभावः । सत्यप्याश्रये पुनर्यत्नापेक्षत्वात् । एवमुदकतापोऽपि नोदकस्वभावः । तद्विनाशत्वात् । भावनां वा पक्षीकृत्योच्यते । तथा हि । या याऽऽदरनैरन्तर्यदीर्धकालाऽऽसेविता भावना सा सर्वा करतलाऽमलकायमानाऽऽलम्बननिर्भासविज्ञानफला । तद्यथा कामातुरस्य कामिनीभावना विशेषणत्रयवती कामिनीविषयविज्ञानविशदाभताहेतुः । तथा च समस्तवस्तुनैरात्म्यभावनाविशेषणत्रयशालिनीति स्वभावहेतुः । मनोविज्ञानं हि विशदाभमियमीदृशी भावना स्वाऽन्वयव्यतिरेकावप्यनुकारयन्ती कारणान्तरनिरपेक्षा कामातुरादिषु दृष्टा । तद्यदि सत्यामप्यस्यां विशदाभत्वं समस्तवस्तुनैरात्म्यग्राहिणो विज्ञानस्य नोपजायेत, कारणान्तरसापेक्षत्वमस्याः प्रसज्येत । तथा च दृष्टं निरपेक्षत्वं भावनाया व्यापकं
भावनामयमपि विज्ञानं श्रुताऽनुमितविषयम् अकस्माद्भावनाऽयोगादागमाऽनुमानपरतन्त्रम् । पूर्वज्ञानभूतार्थत्वविपर्य्ययाऽनुविधानात् सापेक्षत्वादप्रमाणम् ।
व्याहन्येतेति विपक्षे व्यापकविरुद्धस्य सापेक्षत्वस्य दर्शनाद्धीवैशद्यजननाद् व्यापकविरुद्धोपलब्ध्या व्यावर्तमाना भावना वैशद्यजन्मनियताऽवशिष्यत इति भावनाविशेषाऽनुविधानात्स्फुटत्वोत्पादन्य न भावनामात्रानुबन्धितेति स्वभावहेतुः, हेतोश्च समग्रस्य कार्योत्पादनसामर्थ्याऽनुमानम् । तथा च सत्यामेव तस्यां सामग्र्यामप्रतिबन्धायां नियमेन फलमुत्पद्यत इति न पाक्षिकफलसम्भवविषयत्वं सामग्र्या निश्चीयत इति निश्चयान्नाऽनुमानत्वविरोधः । न चाऽसिद्धो हेतुः । सम्भवति हि भावना विशेषणत्रयवती सांसारिकदुःखनिमित्ताद् विभ्यतां श्रावकबोधिप्रतिनियतानां निखिलदुःखनिमित्तशमनी कारुणिकानां च सकलानेव दुःखिन आत्मतयाऽभ्युपगच्छतां दानादिपारमिताभ्यासतनूकृतान्तर्मलानामीदृग्भावनाप्रकर्षजन्मविज्ञानमभ्रान्तं च । प्रमाणसिद्धवस्तुविषयत्वात् । अविकल्पश्च विशदाभत्वात् । समस्तवस्तुविषयं च तन्नैरात्म्यसाक्षात्काररूपत्वात् । न च नैरात्म्यं नाम भावेभ्यो भिन्नं किञ्चिदस्ति, यदप्रत्यक्षगोचरेष्वपि तेषु प्रत्यक्षगोचरं स्यात् । विकल्पारूढं च स्फुटं नाऽविकल्प्य विज्ञानं प्रतिभासि । तदेतद्भावनाधेयवैशद्यं सद्विशदभावात्मनैव स्यात् । तथा च विश्वनैरात्म्यवैशद्यं विश्ववैशद्यमेवेति । यदिदं सार्वज्ञ तद्भूतार्थभावनाया एवाऽऽदरनैरन्तर्यदीर्घकालाऽऽसेवितायाः सर्वाऽऽकारसकलवस्तुसाक्षात्कारहेतोः सम्भवादसिद्धो हेत्वभावो न फलाऽभावसिद्धावङ्गमित्याशङ्क्याह—भावनामयमपि विज्ञानं श्रुताऽनुमितविषयम् । कुतः ? अकस्माद्भावनाया अयोगात् । आगमाऽनुमानपरतन्त्रं तद्विषय एव साक्षाद्वृत्त्या प्रकर्षमनुभवेद् न तदविषय इति पूर्वेण सम्बन्धः । न च तदपि प्रकर्षवत्प्रमाणमित्याह—पूर्वज्ञानभूतार्थत्वविपर्ययाऽनुविधानाच्च साऽपेक्षत्वादप्रमाणम् ।
एतदत्रार्थतत्त्वं विवक्षितमाचार्यस्य । सत्यं, श्रुताऽनुमानगोचरचारिणी भावना विशदाभविज्ञानहेतुरिति नाऽवजानीमहे, किं तु यद्विषये जातं तदेव विशदप्रतिपत्तिगाचरा न जातु रूपभावनाप्रकर्षो रसविषयविज्ञानवैशद्याय कल्पते । ननु न विषयान्तरवैशद्यहेतुभावं भावनायाः सङ्गिरामहे, कि तु श्रताऽनुमानविषयवैशद्यहेतुतामेव । तद्विषयं च समस्तवस्तुनैरात्म्यमिति तद्भावनाप्रकर्षः समस्तवस्तुनैरात्म्यं विशदयन् समस्तवस्तुविशदतामन्तरेण तदनुपपत्तेः समस्तवस्तुवैशद्यमावहती-त्युक्तम्281 ।
सत्यमुक्तम् । अयुक्तं तु तत् । तथा हि । नाऽऽगमाऽनुमानगोचरत्व निरात्मनां वस्तुभेदानां परमार्थसताम् । न हि ते एतेषामन्यनिवृत्तिमात्रावगाहिनी परमार्थसत्स्वलक्षणं गोचरयितुमर्हति । नापि तद्विषया भावना तदग्राह्यमपि स्वलक्षणं तदध्यवसेयतया तद्विषय इति तद्योनिरपि भावना तद्विषयेति तत्प्रकर्षवैशद्यहेतुरिति चेत् । न । तदवसेयस्यापि परमार्थसत्त्वाऽभावात् । तथा हि । यदनुपानेन गृह्यते यच्चाऽवसीयते द्वे अप्यन्यनिवृत्ती न वस्तुनी । स्वलक्षणाऽवगाहित्वे अभिलापसंसर्गयोग्यप्रतिभासत्वाऽनुपपत्तेः ।
मा भूत्तयोः स्वलक्षणं विषयः । तत्प्रभवभावनाप्रकर्षजन्मनस्तु282 विशदाभस्यचेतसो283 भविष्यति कामिनीविकल्पप्रभवभावनाप्रकर्षादिव कामोऽऽतुरस्य कामिनीस्वलक्षणसाक्षात्कारः । करिकुम्भकठोरकुचकलशे हरिणशाबलोललोचने284 चम्पकदलाऽवदातगात्रलते लावण्यसरसि निरन्तरलग्नललितदोःकन्दलीमूलमालिङ्गनमङ्गने प्रेयसितरे प्रयच्छ सञ्जीवय पतितोऽस्मि तव चरणनलिनयोरिति285 वचनकायचेष्टयोरुपलब्धेः । अस्ति च विकल्पाऽविकल्पयाः कथञ्चित्समानविषयतेति नाऽतिप्रसङ्ग इति । सत्यम् । सम्भवत्यनुभवो न पुनरस्याऽर्थ प्रामाण्यसम्भवः । अतदुत्पत्तेः अतदात्मनस्तदव्यभिचारनियमाऽयोगादतादात्म्यं चाऽर्थस्य विज्ञानादतिरेकात् अनतिरेकेऽपि च विज्ञानानामन्योन्यस्य भेदतादात्म्यात् एकस्य विज्ञानस्येतरविज्ञानवेदनाऽनुपपत्तेः । विज्ञानस्वलक्षणैकत्वाऽभ्युपगमे तन्नित्यमेकमेवाऽद्वितीयं ब्रह्माऽभ्यसनीयमिति क्षणिकनैरात्म्याऽभ्यासाऽभ्युपगमो दत्तजलाञ्जलिः प्रसज्येत । तन्न तादात्म्यादस्याऽव्यभिचारः । नापि तत्कार्यत्वात् । भावनाप्रकर्षकार्य खल्वेतन्न विषयकार्यम् ।
यद्युच्येत पारम्पर्येण तत्कार्यमनुमानवत् । यथा हि वह्निस्वलक्षणाद् धूमस्वलक्षणं ततो धूमाऽनुभवस्तता दहनविकल्पस्ततश्चाऽनुमानमुत्पन्नमिति286 पारम्पर्येण वह्निप्रतिबन्धात्प्रापकं च वह्नेर्द्दाहपाककारिणः, तथैतदप्यनुमानजनितभावनाप्रकर्षपर्यन्तजं पारम्पर्येणाऽर्थप्रभूततया तदव्यभिचारनियमान्न प्रमाणमिति चेत् । किमनुमानेन वह्निं व्यवस्थाप्य भावयतो यद्वह्निविषय विशदं विज्ञानं तत्प्रमाणमिति ? ओमिति ब्रुवाणस्य पर्वतनितम्बारोहणे सति इन्द्रियसन्निकर्षजन्मनो दहनविज्ञानस्य भावनाऽऽधेयविशदाभविज्ञानेन सह सम्वादनियमप्रसङ्गः287 । विसंवादश्च बहुलमुपलभ्यते । लक्षणयोगिनि च व्यभिचारसम्भवे तल्लक्षणमेव वाधितमिति विशदाभमपि प्रातिभमिति संशयाक्रान्तमप्रमाणम् । तद्भावनाया भूतार्थत्वं न तज्जन्मविशदविज्ञानप्रामाण्ये हेतुर्व्यभिचारात् । एवं च प्रसर्प्पकस्येव सक्तुकर्करीप्राप्तिमूललाभमनोरथपरम्परानीतो द्रविणसम्भारसाक्षात्कारस्तथागतस्य निरात्मकसमस्तवस्तुसाक्षात्कार इत्यापतितम् सर्वार्थवस्तुभावनापरिकर्मितचित्तसन्तानवर्त्ति ज्ञानं प्रत्यालम्बनप्रत्ययत्वमर्थस्य । तथा च तदुत्पत्तेस्तदव्यभिचारनियम इति चेत् । नार्थस्याऽऽलम्बनप्रत्ययत्वं विज्ञानं प्रतीन्द्रियाऽपेक्षत्वेन व्याप्तं, तच्चाऽस्माद्विरुद्धोपलब्ध्या व्यावर्तमानमालम्बनप्रत्ययतामप्यर्थस्य निवर्त्तयति । न खल्विन्धनविशेषो धूमहेतुरिति विनापि दहनं सहस्रेणापि संस्कारैर्धूममाधत्ते । तदाधाने वा समस्तकार्यहेतुताऽनुमानोच्छेदप्रसङ्गः । भावनायाश्च भूतार्थाया अर्थाऽनपेक्षाया एव विशदविज्ञानजननसामर्थ्यमुपलब्धं कामातुरादिवर्त्तिन्या इति भूतार्थापि तन्निरपेक्षैव समर्थेति नाऽर्थस्यालम्बनप्रत्ययत्वं शक्याऽवगमम् । अपि चाऽऽलम्बनप्रत्यया अपि त एवाऽस्य क्षणा युज्यन्ते, ये तस्य पुरस्तात्तना अव्यवधानाः । तथा च त एवाऽस्य ग्राह्य न पुनः पूर्वतरास्तत्काला अनागताश्चेति न सर्वविषयता । अथ दृश्यमाना धातुत्रयपर्यापन्नाः प्राणभृतो जन्मान्तरपरिवृत्तौ यत्राऽतीताऽनागतस्वन्धकदम्बकोपादानोपादेयात्मान इति तद्दर्शनं दृश्यमानतादात्म्येन तद्विशेषणतयाऽतीताऽनागतान्यपि गोचरयति । न चाऽस्मदादिदर्शनस्यापि तथा प्रसङ्गो, रागादिमलावृतत्वात् । तस्य हि भगवती निर्मृष्टनिखिलक्लेशोपक्लेशमलं विज्ञानमनावरणं288 परितः प्रद्योतमानं स्वालम्बनं प्रत्ययं सर्वाऽऽकारं गोचरयत्तस्य च साक्षात्परम्परया च कथञ्चित्सर्वेण सम्बन्धाद्देशकालविप्रकार्णवस्तुविशिष्टस्वभावतया तथैव गोचरयेत् । न च सर्वग्रहणमन्तरेणेति सर्वविषयमस्य विज्ञानमनावरणं सिद्धम् ।
तदनुपपन्नम् । विचाराऽसहत्वात् । तथा हि इयमालम्बनप्रत्ययस्य सर्वविशिष्टता स्वाभाविकी चेन्न तावत्सर्वस्मिन्नालम्बनप्रत्यये चैका भवति । एकस्याऽनेकवृत्तित्वाऽनुपपत्तेः । नाना चेदालम्बनप्रत्ययाश्च सर्वे चेति तत्त्वम् । तथा च न सम्बन्ध इति न तद्ग्रहणे सर्वग्रहणविकल्पारोपिततथात्वविल्पकं वस्तुविषयं सर्वत्र प्रतीयत इति सुभाषितम् । स्वालम्बनप्रत्ययमात्रगोचरमेवा ऽविकल्पकं समस्तवस्तुविशिष्टालम्बनाऽध्यवसायजननम् । तेनाऽध्यवसायाऽनुगतव्यापारमविकल्पकमपि समस्तवस्तुविषयं भवति । यथाऽऽह—“व्यवस्यन्ति289 क्षणादेव सर्वाकारं महाधिय” इति चेत । अथ कतिपयवस्त्वालम्बनस्याऽनुभवस्य290 कुतः स एष महिमा ? यतः समस्तवस्त्ववसाय इति । सगाद्यावरणविगमादिति चेत्तर्हि यथावस्तु तानि पश्येत्, न पुनरस्मादपार्थत्वमेवेति । तदयुक्तम् । विकल्पनिर्माणकौशलमस्य युज्यते । तत्त्वाऽऽवरकता हि मलानां केशादीनां न पुनर्विकल्पनिर्माणप्रतिबन्धता । तस्माद्भावनाप्रकर्षमात्रजत्वादर्थाऽव्यभिचारनियमाऽभावाद्विशदाभमपि संशयाक्रान्नत्वादप्रमाणमप्रत्यक्षं चेति साम्प्रतम् ।
यदपि सदर्थप्रकाशनं बुद्धेः स्वभावोऽसदर्थत्वं त्वागन्तुकमित्यसति बाधके सदर्थत्वमेवेति । तदयुक्तम् । अनुमितभावितवह्निविषयविशदाभविज्ञानादिप्रामाण्यप्रसङ्गात् । तद्विषयस्य क्वचिद्वाधदर्शनादप्रामाण्यमिहापि समानम् । अन्यत्राऽभिनिवेशात् । तदिह यदि विशदाभविज्ञानहेतुत्वं भावनाया विशेषणयोगेन साध्यते ततः सिद्धसाधनम् । भवतु तथागतस्तथाभूतविज्ञानवान्, न तत्त्वे तद्विज्ञानमस्य प्रत्यक्षमप्रमाणत्वात् । तथा चाऽपक्षधर्मतया हेतोरसिद्धता, प्रसिद्धधर्मिणोऽजिज्ञासितविशेषणतया ऽनुमेयत्वाऽभावात् । अथ प्रत्यक्षविज्ञानहेतुता भावनायाः परं प्रत्यक्षसिद्धा साध्यते, तथा सति साध्यविपर्ययव्याप्तेर्विरुद्धता हेतोः । विशेषणत्रयवत्या अपि भावनाया विशदाभभ्रान्तिविज्ञानजनकत्वात् । दृष्टान्तस्य च साध्यहीनत्वात् । यदा च भूतार्थभावनाजनितत्वेऽपि नाऽस्य प्रामाण्यमभूतार्थत्वात्तदा, यदुच्यते
“
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधोऽयत्नवत्त्वेपि बुद्धेस्तत्पक्षपाततः ॥ इति,
”
तदनुपपन्नम् । भूतार्थत्वे हि बुद्धेस्तत्पक्षपातित्वेऽभूतार्थैः291 प्रतिपक्षैर्बाधो न भवेत् । अभूतार्था त्वियं स्वात्माऽभावमापन्नाप्यात्मीयदृष्टिरिव सम्भवद्बाधा । तस्मात्प्रतिपक्षविवृद्धिमात्रम् । न चाऽऽत्यन्तिकी विवृद्धिः सम्भवति । यथा समूलकाषं कषिता दोषा न पुनरुद्भविष्यन्ति अत एवाऽस्थिराश्रयत्वे ऽप्यपुनर्यत्नापेक्षित्वेऽप्यस्य नाऽऽत्यन्तिकी निष्ठा सम्भवति । आत्मीयदृश इव विरोधिप्रत्ययसम्भवात् । तत्सम्भवश्चाऽभूतार्थत्वात् । तच्च न । श्रुतानुमितविषयं292 तु प्रत्यक्षं न सम्भवत्येव । तयोः परोक्षरूपाऽवगाहित्वात् । प्रत्यक्षस्य च
ननु न कालतोऽपि293 नियमश्चक्षुरादीनाम् । अवर्तमानरजताद्युपलब्धेः294 । न हि सा शुक्तिकाद्युपलब्धिः । अन्याकारसंविदोऽन्यविषयत्वाऽयोगात् अनाश्वासात् ।
तद्विपरीताऽर्थत्वात् तद्गतभूतार्थत्वाऽनुविधायित्वेन स्वविषये295 श्रुताऽनुमानज्ञानापेक्षतया प्रामाण्याऽनुपपत्तेश्च । तत्सिद्धमेतद्भतार्थभावनाप्रकर्षपर्यन्तजं विज्ञानमप्रत्यक्षम्, अर्थे प्रमाणत्वात् यदप्रमाणं तदप्रत्यक्षमर्थे । यथा कामाऽऽतुरस्य कामिनीविज्ञानम् । अप्रमाणं च तत् । नितान्तविशदाभत्वे सति भावनाजन्यत्वात् । यन्नितान्तविशदाभत्वे सति भावनाप्रकर्षजं विज्ञानं तदप्रमाणं, यथाऽनुमितभावितवह्निविषयविशदाभविज्ञानमिति समानहेतुकत्वं समानरूपतया व्याप्तम् । यथाह “तदतद्रूपिणो भावास्तदतद्रूपहेतुजा” इति । तदस्याः प्रामाण्यं निवर्तमानं तुल्यहेतुजत्वमपि निवर्तयति । न चैषा भूतार्थे भावनाप्रकर्षपर्यन्ताऽतीन्द्रियसन्निकृष्टाऽनुमितभावितवह्निवैशद्ये च निरात्मकसमस्तवस्तुवैशद्येऽपि च विशिष्यते । न च रागाद्यावरणविरहो वा विशेषः । न खल्वेते कम्बलादिवदावरका विज्ञानस्य, कि तु तदाक्षिप्तमना विविधविषयभेदतृष्णादिपरिप्लुतो न शक्नोति भावयितुमिति भावनाऽऽदरमात्रे एव तद्विरहोपयोगः । अस्ति चेहापि शिशिरतरसम्भूतजडिममन्थरतरकायकाण्डस्याऽनुमितवह्निभावनाभियोग इति न हेतुभेद इति प्रतिबन्धसिद्धिः । न चैकपार्थिवाऽणुसमवायिकारणजन्मभिरभिन्नौष्ण्याऽपेक्षैकवह्निसयोगाऽसमवायिकारणैर्गन्धरसरूपस्पर्शैर्नानाभावैर्व्यभिचारः । सामर्थ्यवैचित्र्यादेकत्वेऽपि पार्थिवस्य परमाणोः । तद्वैचित्र्यं च कार्यवैचित्र्योपलम्भात् । तच्च नित्यसमवेतं नित्यं कारणसामर्थ्यक्रमेण च पार्थिवाऽवयविनि कार्ये जायत इत्यवदातम् । परिशिष्टं ग्रन्थव्याख्यानसमये वक्ष्यामः । तदास्तां तावत् ।
सम्प्रति व्यवस्थापितोन्मूलनेन कश्चित्प्राभाकरगन्धी प्रत्यवतिष्ठते—ननु न कालतोऽपि नियमश्चक्षुरादीनाम् । कुतः ? इदं रजतमित्यवर्त्तमानरजताद्युपलब्धेः । नन्विदं रजतमिति पुरोवर्त्तिनीं शुक्तिमवलम्बमाना कथमसन्निहितदेशकालरजतोपलब्धि ? रित्यत आह—न हि सा शुक्तिकाद्युपलब्धिः । कस्मात् ? अन्याऽऽकारायाः संविदोऽन्यविषयत्वाऽयोगात् । तद्योगे विषयत्वस्याऽनियमात् । सर्वं विज्ञानं सर्वविषयमित्ययत्नसिद्धा सर्वज्ञता स्यादिति फलितं तथागतमनोरथेन । तस्माद्यदाकारविज्ञानं296 स एवास्य विषय एषि
अधिगतस्वातन्त्र्यं च मनः स्वप्ने । न च स्वप्नज्ञानं स्मृतिः । अतद्रूपत्वात् । नैतत्सारम् । तथा हि—
अर्थाऽपेक्षा मुधा तुल्यमन्याकारप्रवेदनम् ।
देहिनो वर्तमानाभा स्वप्ने स्पष्टाऽपि हि स्मृतिः ॥
चक्षुरादयस्तावद्वर्त्तमानमेव शुक्तिकाशकलाद्यर्थं दर्शयन्ति, तदपेक्षणात् । अन्यथा वैफल्यात्297 तत्सन्निधेः तदसन्निधावपि रजतवेदनप्राप्तेः । तव्यो नियमाय । रजताऽऽकारं चेदमिति तदेवास्य विषयो न पुनः शुक्तिः । अवेदनात् अनाश्वासाच्च । यदि ह्यन्याऽऽकारा संविदन्यविषया भवेत्तदा संविदः स्वार्थव्यभिचारात् सर्वत्रैवाऽनाश्वासप्रसङ्ग इति न प्रेक्षावान् क्व चित् कुतश्चिद्वा प्रवर्तेत निवर्तेत वा । तस्मादपि रजतविषयमेव । न चेदं रजतमिति सामानाधिकरण्यप्रथेयमपि त्वसामानाधिकरण्याऽग्रहो दोषवशात् । न च स्मृतिः । साक्षात्काराऽऽस्पदत्वात् । न च नास्ति । स्वसंवेदनसिद्धत्वात् । तदस्य कृष्तसामर्थ्य चक्षुर्वा मनो वा कारणमकामेनाऽप्यभ्युपगन्तव्यम् । न च रजतं वर्त्तमानमित्यवर्तमानमपि चक्षुर्मनो वा गोचरयति । तथा च न कालतोऽपि नियमः ।
परतन्त्रं बहिर्मन इत्याक्षिपति—अधिगतस्वातन्त्र्यं च मनः स्वप्ने । तेनाऽन्यत्रापि बाह्ये स्वतन्त्रमेव । यद्युच्येत स्वप्नेऽपि पूर्वाऽनुभवभावनासहङ्कारि स्मृतिं जनयति मनः, तेनाऽस्वतन्त्रमेवेति, तत्राह—न च स्वप्नज्ञानं स्मृतिः । कस्मात् ? अतद्रूपत्वात् । अनुभूतविषयाऽसम्प्रमोषो हि स्मृते रूपम् । असम्प्रमोषश्चाऽनुभूततयाऽनुभाव्यस्याऽनुसन्धानम् । न चैवंविधं स्वप्नज्ञातं, तस्मान्न स्मृतिः । न च चाक्षुषं, चक्षुर्व्यापाराऽभावात् । तत्सिद्धमेतद्बाह्ये मनः स्वतन्त्रमिति ।
तदेतन्निराकरोति—नैतत्सारम् । तथा हि—
अर्थाऽपेक्षा मुधा तुल्यमन्याकारप्रवेदनम् ॥
दोषतो वर्त्तमानात्वं स्वप्ने स्पष्टा ऽपि हि स्मृतिः ॥
यत्तावदुक्तम् अनीताऽविषयं चक्षुरादीति, तत्राह—चक्षुरादयस्तावद्वर्त्तमानमेव शुक्तिकाशकलाद्यर्थं दर्शयन्ति । कुतः ? तदपेक्षणात् । शुक्तिकाद्यपेक्षणात् । अन्यथा तदनपेक्षणे वैफल्यात्तत्सन्निधेः शुक्तिसन्निधानस्य । कुतोऽस्य वैफल्यप्रसङ्ग ? इत्यत आह—शुक्तिकाऽनपेक्षणे तदसन्निधावपि रजतवेदनप्राप्तेः । अयमभिसन्धिः । न तावच्चक्षुरादिवद्रजतविज्ञानं कारण
रजतताऽवभासनं यदि न शुक्तिविषयं वर्तमानाभासनमपि तर्हि नाऽवर्त्तमानगोचरम् ।
तामात्रेणाऽपेक्षते शुक्तिशकलम् । चक्षुराद्यभाव इव तदभावेऽन्यत्र रजतसन्निधावपि रजतविज्ञानाऽभावप्रसङ्गात् । तस्माद्विषयतयैवाऽपेक्षते रजतविज्ञानं शुक्तिशकलमिति ।
यच्चोक्तमन्याऽऽकारासम्बिन्नाऽन्यविषयेति, तत्राह—रजतावभासनं यदि न शुक्तिविषयं वर्तमानाभासनमपि तर्हि नाऽवर्तमानगोचरम्298 ।
अयमभिसन्धिः । अतीतरजतगोचरं चेदेतद्विज्ञानमतीततयैवाऽस्मिन् रजतं प्रपद्येत, तथा च तत्प्रेप्सवो न प्रवर्तेरन्, अतीतस्य प्राप्त्यभावात् । न खल्वतीतं तत्तयाऽवगम्य शब्दाद्वदान्यप्रेष्ठं युधिष्ठिरं क्षुत्क्षामात्माऽपि भिक्षुको याचितुं प्रवर्तते । अतीतस्यापि रजतस्य दोषतस्तत्राऽनवभासनाद्वर्तमानस्य च शुक्तिकेयमिति299 तत्तय गृहीतस्य रजतसाधारणरूपवेदनात् । तद्भेदहेतुशुक्तिकात्वसामान्यविशेषाऽनवभासाच्च । समीहितसन्निहितरजतमतितुल्यताभेदाऽनध्यवसायसामर्थ्याऽभ्यासात्300 । ततश्च रजतमिदमिति सामानाधिकरण्यव्यपदेशः समीचीनं सन्निहितरजतप्रत्ययतुल्यव्यवहारप्रवर्तनं च शुक्तिकेयमिति भेदधियः स्वविषयविरुद्धभेदाऽग्रहनिवारणेन पूर्वप्रत्ययप्रसञ्जितरजतोचितव्यवहारनिराकरणाद्बाधकताऽप्युपपन्नेति चेन्न । भेदाऽग्रहमात्रस्य तथाभूतव्यवहारप्रवर्तकत्वाऽनुपपत्तेः । सन्निहितरजताऽवभासो हि तद्व्यवहारहेतुर्न पुनरतथाऽनवभासः । तत्तुल्यतया सोऽपि तद्व्यवहाराय कल्पते । भेदाऽनवभासश्च तत्तुल्यतेति चेत् । यद्येवमवर्तमानाऽवभासनयाऽतीतरजताऽवभासविज्ञानतुल्यताऽप्यस्यास्तीति तत्तुल्यव्यवहारप्रवृत्तिरप्येतस्य स्यात् । तदयं रजतविज्ञानवान् पुरोवर्त्तिनि शुक्तिकाशकले प्रवर्त्तेत निवर्त्तेतेति तव विरुद्धं क्रियाद्वयमापन्नम् । पुरोवर्त्तिवस्त्ववभास एव रज विज्ञानादगृहीतभेदः समीचीनसन्निहितरजताऽवभाससदृशव्यवहारहेतुरिति नाऽयं प्रसङ्ग इति चेत् । अथ रजतं तदिदं तु शुक्लभास्वरमिति बुद्धेर्व्यवहारं कस्मान्न प्रवर्त्तयति ? यथैव हि समीचीनसन्निहितरजतधीतुल्यतयाऽस्य भेदाऽनध्यवसायात्तथा तद्रजतमिदं तु शुक्लभास्वरमितीत्येतत्तुल्यताऽप्यभेदानध्यवसायात् । न चाऽध्यवसाययोः कश्चिद्विशेषः, येनैक एव स्वोचितं साम्यं सम्पादयति नाऽपरोऽपीति । सोऽयमस्य तदवस्थ एव विरुद्धक्रियाद्वयस्य समावेशप्रसङ्गः । न च चेतनव्यवहारोपायतुल्यता ज्ञानोपायानां, येन ज्ञानहेतोरेव चरमवस्तुव्यवहार इत्युच्येत । अजातरूपतत्कार्यतत्सम्बन्धानामपि चक्षुरादीनां ज्ञानोपायन्वदर्शनात् । चेतनव्यवहारस्य तु विज्ञानजत्वनियमेन पर्यनुयोगाऽनर्हत्वात् । तत्सिद्धमेतद्विवादाध्यासितं रजतविज्ञानं दृश्यमानपुरोवर्त्तिवस्तुगोचरं तदुपायाऽविषयत्वेऽपि सति तवर्थिनस्तत्रैव नियमेन प्रवर्तकत्वात् । तदुपायाऽविषयं सद्यत्रैव यदर्थिनं प्रवर्तयति तत्तद्विषयं, यथोभयसिद्धसमोचीनरजतविज्ञानमिति । तथा ह्ययं प्रवृत्तिनियमो हेतुमत्तया व्याप्तः स चाऽतद्विषयत्वाद् व्यावर्तमानः स्वव्याप्यं प्रवृत्तिनियममपि व्यावर्त्तयति तद्विषयत्वे एव व्यवस्थापयतीति प्रतिबन्धसिद्धिः । न चाऽसावतद्विषयत्वेऽपि भेदाऽग्रहमात्राद्भवितुमर्हति । अभेदाग्रहणस्यापि स्वोचितव्यवहारप्रवर्तनेन विरोधिक्रियासमावेशेन व्यवहर्तुः प्रवृत्तिनिवृत्तिप्रसङ्गादित्युक्तम् । तस्मादन्यस्याऽन्यथाग्रहणमेपितव्यम् । एवं च वर्तमानतयाऽवभासनमुपपद्यते । तथा च रजताऽवभासनं यदि न शुक्तिविषयम् अन्यत्वाद्वर्त्तमानाऽवभासनमपि तर्हि नाऽवर्त्तमानगोचरम् । अन्यत्वतादवस्थ्यात् ।
यद्युच्येत, अवर्तमानगोचरं भविष्यति वर्तमानाऽवभासं विज्ञानदोषसामर्थ्यात् । न च दोषाणां कार्यकारणसार्थ्यविहतिमात्रे व्यापारो न कार्यान्तरविषयशक्याऽऽधाने, न जातु यवबीजमुपहतं दोषैः शाल्यङ्कुराय कल्पते इति साम्प्रतम् । भस्मकादिदोषवशादुदरजस्य वह्नेर्बहुविधाऽन्नपानपाचनोपलम्भात् व्यभिचारात् । अशितपीताहाररसभावः कार्यमुदरजस्य तेजसस्तत्प्रतिघातेन भस्मकस्यापि दोषभाव इति न व्यभिचार इति चेन्न । इहापि समानत्वात् । इन्द्रियादीनामपि परमार्थविज्ञानजननसामर्थ्यं स्वाभाविकमपवाध्य विपर्ययविज्ञानहेतुतामादधाना दोषा न च्यवन्ते तत्ताया । न चाऽनवभासनात् अवर्तमानं न विषय इति युज्यते । विकल्पाऽक्षमत्वात् । किमवर्तमानं रजतमवर्त्तमानतया न विषय इति साध्यते आहो स्वित् रजततयाऽपि विषय ? इति । तत्र प्रथमे कल्पे न विप्रतिपद्यामहे । रजततया त्वविषयत्वे साध्ये तत्त्वेनाऽनवाभासनमसिद्धं न हेतुर्भवति । तथोक्तमाचार्येण “आभासते कथञ्चिच्च तन्नात्यन्तं न भासते, तेन नावेदिके”ति । तस्मा द्दोषवशादवर्त्तमानमपि वर्त्तमानतया प्रतीयत एवेत्याह—दोषतस्तथात्वमवर्त्तमानगोचरस्य विज्ञानस्य वर्त्तमानाऽवभासनमितरस्यापि शुक्तिकागोचरस्यापि रजताऽवभानं तुल्यमेव ।
दोषतस्तथात्वमितरस्यापि तुल्यम् । वर्तमाने चाऽवर्तमानाऽवभासो नाऽवर्तमाने वर्तमानाऽवभासः । अर्थसन्निधेः साफल्यात् । नेदं रजतमिति च प्रसक्तस्य प्रतिषेधोपपत्तेः । तैमिरिकस्य केशोण्ड्राभं ज्ञानमालोकांशेष्विति नाऽर्थापेक्षो व्यभिचारः । स्वप्नेऽपि किं स्मृतेर्वर्तमानाऽवभासत्वम्,301 उत मनसः स्वातन्त्र्यमिति ? स्मृतेर्वर्तमानाऽवभासता युक्ता । अनन्तरदिवसाऽनुभूतस्याऽविकलाऽनधिकस्य विस्पष्टस्मृतेः वर्तमानवद्वेदनाद्दोषोपप्लवेन । न त्वदृष्टं मनसः स्वातन्त्र्यम् । दोषतश्च न सामर्थ्याऽतिरेको,
एवमापाततस्तुल्यतामभिधाय स्वाऽभिमतस्यास्य विशेषमाह—वर्तमाने शुक्तिशकले चाऽयमवर्त्तमानरजतावभासो नाऽवर्तमाने रजते वर्तमानाऽवभासः । पुरोवर्त्तिवस्तुविषयं नाऽतीतविषयं रजतमिदमिति विज्ञानमित्यर्थः । कस्मात् ? अर्थसन्निधेः साफल्यात् । कुतश्च नेदं रजतमिति प्रसक्तस्य प्रतिषेधोपपत्तेः । अङ्गुलीनिर्द्देशेन शुक्तिकाशकलमेव रजततया प्रतिषेधन्ति विप्रतिपत्तारः । तत्तत्र रजतं प्रसञ्जितं पूर्वविज्ञानेनेति गम्यते । न च विवेकाऽग्रहणेन तत्प्रसञ्जनं, जीवत्यविवेकाऽग्रहे परिपन्यिनि । तस्माद्विपरीतग्रहे तत्प्रसञ्जकं कल्पते नान्यथा । न च पुरोवर्त्तित्वमनेनाऽतीते प्रसञ्जितम् । इदन्तया तस्य प्रतिषेधाऽसम्भवात् । तत्पुरोवर्त्तिवस्तुविषयमेव तद्विज्ञानमित्यवदातम् ।
ननु तैमिरिकस्य302 केशाभविज्ञानमुपजायते । न च तत्रास्ति केशानां सन्निधिः । नाप्यन्यस्य कस्यचित् । येन तत्तदालम्बनं भवेत् । तस्मादसन्निहितकेशाबलम्बनमेषितव्यं तद्विज्ञानम् । ततश्चाऽर्थापेक्षो व्यभिचारश्चक्षुरादीनामित्यत आह—तैमिरिकस्य केशोण्ड्राभं विज्ञानमालोकांशेष्विति नाऽर्थापेक्षो व्यभिचारः ।
यच्चोक्तमधिगतस्वातन्त्र्यं मनः स्वप्नाऽवस्थायां बाह्य इति तन्निराचिकीर्षुर्विमृशति स्वप्नेऽपि किं स्मृतेर्वर्त्तमानाऽवभासित्वमुत तस्मिन्मनःस्वातन्त्र्यमिति ? विमृश्य स्वपक्षं प्रतिजानीते—स्मृतेर्वर्त्तमानाऽवभासता युक्ता । हेतुमाह—अनन्तरदिवसाऽनुभूस्या विकलानाधिकस्यापि303 स्पष्टस्मृतेर्वर्त्तमानवद्वेदनाद्दोषोपप्लवेन । न त्वदृष्टं मनसः स्वातन्त्र्यं बाह्ये युक्तम् । अथ कस्माद्दोष एव मनसो नाधत्ते तथाविधसामर्थ्याऽतिशयं ? येन बाह्ये स्वतन्त्रमेव तद्वर्तेतेत्यत आह—दोषतश्च न सामर्थ्याऽतिशयो दृष्टो येन मनः
दोषस्य तदपनयनहेतुत्वात् । सत्यस्वप्नदर्शनं तु यदि वर्तमानस्य तथाग्रहणात्तददृष्टम् । प्रबोधे स्वप्नाख्यानार्थसंवाददर्शनाद् दृष्टमिति चेत् । न । आख्यानसंवादाऽभावात् । आख्यानसंवादस्तु काकतालीयः । भविष्यतस्तु वर्तमानवद्दर्शनं कथं सत्यम् ? मा भूत् सत्यम् । अस्ति तावत् स्वातन्त्र्यं मनसः । तदपि तद्विविधस्याऽनुभूतस्य स्मरणम् । इतरथा मनसोऽदृष्ट-
स्वतन्त्रं तद्बाह्ये तत्त्वज्ञानं प्रसुवीत । विपर्यासस्तु संस्कारतन्त्रादेव मनस इत्युक्तम् । कस्मान्न दोषतो मनसः सामर्थ्याऽतिरेक इत्यत आह—दोषस्य तदपनयनहेतुत्वात् । तदिति तच्च विज्ञानजननसामर्थ्यं परामृशति ।
यदि मन्येत अस्ति खलु सत्यं स्वप्नदर्शनमपि । तद्यथा । वल्लभालिङ्गितमात्मानमनुभूय304 स्वप्ने जागरायामपि तथैव पश्यति । न चेयं वर्तमानाऽवभासा स्मृतिरिति साम्प्रतम् । असति बाधके तदनुपपत्तेः । तदभावश्च संवाददर्शनात् । तस्मादत्र मनसः स्वातन्त्र्यमुपेतव्यमिति, तत्राह—सत्यस्वप्नदर्शनं तु यदि वर्तमानस्य तथाग्रहणात् तददृष्टम् । न खल्वयमपि प्रत्ययः संवादी । तथा हि स्वप्ने जागराऽवस्थाऽऽपन्नमयमात्मानं वल्लभावाहुकदलीबलयितमुपलब्धवान्, विनिद्रनयनोत्पलस्तु पश्यन्नपि प्रियाऽऽलिङ्गनं निद्राणोऽहमासं सम्प्रत्येव प्रबुद्ध इत्यवगच्छति । कुतोऽस्य स्वप्नदृष्टाऽर्थसंवाद ? इत्यर्थः ।
शङ्कते—प्रबोधे स्वप्नदृष्टार्थसंवाददर्शनान्मनसः स्वातन्त्र्यं दृष्टमिति चेत् । यदा खलु स्वप्ने शुक्लमाल्याम्बरधरो ब्राह्मणायनमाह ऽसोमशर्मन्नायुष्मन् पञ्चमेऽहनि प्रातरेव भूपतिरुर्वराप्रायभुवा ग्रामवरेण मानयिष्यति त्वामिति, स च पञ्चमेऽहनि प्रातरेव तथा सम्मानितः सोमशर्मा भवति सत्यस्वप्नवानित्यर्थः । निराकरोति—न । कस्मात् ? आख्यानसंवादाऽभावात् । आख्यानेन हि प्रबुद्धः सोमशर्मा स्मरन्नप्याख्यातारं ब्राह्मणायनं न पश्यति तत्प्रणीततां चाऽऽख्यानस्य स्मृत्यारूढस्य मन्यते इति । मैवं भूदाख्यानसंवादः स्वप्नस्यास्तीति, तथा च सत्यतेत्यत आह—आख्यानसंवादस्तु काकतालीयो दैवप्राप्तो न स्वप्नज्ञानं प्रमाणयति, यथाविधस्यैव तत्सामग्रीकस्य विसंवादवतो बहुलमुपलब्धेः । संवादस्य दैवाऽधीनत्वात् । ननु यत्राऽतीतस्य वर्त्तमानवद्भासनं तत्र संस्कारतन्त्रमस्तु मनो भावनायोनिपूर्वाऽनुभवात् । यत्र पुनरनागत एव वर्तमानतयाऽवभासते स्वप्ने कुतस्तदनुभवः कुतस्तरां च तद्भावना कुतस्तमां च मनस305 स्तत्तन्त्रते ? त्यत आह—भविष्यतस्तु वर्तमानवद्दर्शनं कथं सत्यम् ? चोदक आह—मा भूत्सत्य
सामर्थ्यस्य कल्प्यत्वात् । धर्मविशेषश्चेद्यथार्थदर्शनप्रसङ्गात् । तस्य कार्यं प्रत्यदृष्टसामर्थ्यस्य कल्प्यत्वात् । यदि च न स्मृतिः स्वप्नज्ञानं प्रमाणं तर्हि न प्रमाणमपि । बहिस्तथा ग्राह्यस्याऽभावात् । न तर्हि बहिरर्थे स्वतन्त्रं मनः । स्वप्ने तस्याऽग्राह्यत्वात् । ग्राह्यत्वे वाऽनुभूतस्य ग्रहणं, तथा दृष्टत्वात् । न दोषतोऽदृष्टसामर्थ्याऽतिरेककल्पनेत्युभयथा न स्वतन्त्रं बहिर्मनः । एतेन तिमिरतः केशादिदर्शनं प्रत्युक्तम् ।
मस्ति तावत्स्वातन्त्र्यं306 मनसः संस्कारस्य भविष्यत्यसम्भवात् । समाधाता स्वाऽभिप्रायमुद्घाटयति—तदपि तद्विधस्यान्यत्राऽनुभूतस्य स्मरणम् । न हि सर्वथाऽननुभूतमुपलभ्यते स्वप्ने । परस्परविरुद्धानामपि क्वचित्कदाचित्कन्थं चिदुपलब्धानां सहानुभवविभ्रमसम्भवः । कस्मात्पुनः क्लेशेन सर्वत्र स्मरणमाश्रीयते ? इत्यत आह—इतरथा मनसोऽदृष्टस्वातन्त्र्यकल्पनाप्रसङ्गात् ।
यद्युच्येत स्वप्नेऽपि प्रेयसीसम्भोगजन्मनः सुखोद्भवस्योपलब्धेरस्ति समुदाचाराद् वृत्तिरस्य307 धर्मः, तेन तद्विशिष्टमेव मनः प्रियानुभवं भावयिष्यतीति कृतं संस्कारेणेति, तत्राह—धर्म्मविशेषश्चेद् यथार्थदर्शनप्रसङ्गात् । धर्म्मविशेषो हि यथार्थदर्शनहेतुरवगत आगमतः कथं मिथ्याज्ञानाय कल्पते ? अपि च लौकिकं कारणमसाधारणमाश्रित्य स्वकार्यं जनयति । न च तन्मनसः स्वातन्त्र्यं प्रति किञ्चिदुपलभ्यते । तेन धर्मविशेष एवाऽसहायः कारणमिति कल्पनीयं, तच्चाऽदृष्टप्रमाणेनेत्याह—तस्य धर्मविशेषस्य मनःस्वातन्त्र्यं कार्यं प्रत्यदृष्टसामर्थ्यस्य कल्पनाप्रसङ्गात् । यदि च न स्मृतिः स्वप्नज्ञानं भवन्मते प्रमाणं तर्हि स्वतन्त्रस्य मनसस्तद्विषये प्रवृत्तिः । अथ न प्रमाणमपि । कुतः ? स्वप्नज्ञाने भासते वस्तु, तस्य बाधके सति बहिस्तथा ग्राह्याऽभावात् ।
उत्तरं—न तर्हि बहिरर्थे स्वतन्त्रं मनः, स्वप्ने तस्य तथाविधस्याऽग्राह्यत्वात् । प्रकारभेदरहितवस्तुरूपग्राह्यत्वे वा भावनैव जागर्ति स्मरणहेतुः । तस्याश्च पूर्वाऽनुभवमन्तरेणाऽसम्भवादनुभूतस्य ग्रहणम् । तथा सिद्धोपप्लवबशात्संस्कारतन्त्रस्य मनसो बाह्यस्मृतेः कारणत्वेन दृष्टत्वात् । न तु दोषतोऽदृष्टसामर्थ्याऽतिरेककल्पना । तस्माद्यदि ग्राह्यत्वं बाह्यस्य यदि वाऽग्राह्यत्वमुभयथाऽप्यस्वतन्त्रं बहिर्मनः । एतेन मनसः स्वप्नविज्ञाने स्वातन्त्र्यप्रदर्शनमार्गेण तिमिरतः केशादिज्ञानं मानसमिति प्रत्युक्तम् । अलोकांशालम्बनतया तद्विज्ञानस्य दोषवल्लोचननिमित्तत्वात् ।
यत्तूक्तमनाश्वासादिति तदन्यत्राऽऽचार्येण—
“
बोधादेव प्रमाणत्वमिति मीमांसकस्थितिम् ।
विदन्नव्यभिचारेण तां व्युदस्यत्यपण्डितः ॥
” इत्यादिना प्रबन्धेन दूषितमिति नेह दूषितम् । तथा दूषणक्रणिकेह सूच्यते ।
किमव्यभिचारितैव प्रामाण्यमथ तत्कारणं तद्व्यापिका वा ? येन क्वचिद्व्यभिचारदर्शनात्तदभावे सति ज्ञानमात्रेऽनाश्वासः स्यात् । न तावदव्यभिचारितैव प्रामाण्यम् । अव्यभिचारिणामपि वह्न्यादौ धूमादीनां कुतश्चिन्निमित्तादनुपजनितकृशानुप्रत्ययानामप्रामाण्यं स्यात् । व्यभिचारिणामपि चक्षुरादीनां नीलादिभेदे तद्विषयविज्ञानहेतूनां प्रामाण्यमिति साम्प्रतम् । प्रमितिक्रियां प्रति साधकतमत्वसम्भवात् । अन्यथा काष्ठादीनामपि पाकादावपि असाधनत्वप्रसङ्गात् । नापि प्रामाण्यकारणम् । अत एवाऽन्यथा चक्षुरादीनां नीलादिभेदव्यभिचारिणां तत्प्रतिमितिहेतूनामप्रामाण्यप्रसङ्गात् । केचिदेव हि धूमादयो वह्न्यादिबोधजननायाऽव्यभिचारमपेक्षन्ते, नाऽपेक्षन्ते च चक्षुरादयः । स्वभावनियमात् । एतेन व्यापकत्वमव्यभिचारितायाः प्रमाण्यं प्रत्युक्तं वेदितव्यम् । ज्ञानेनाऽव्यभिचारोऽपेक्ष्यते स्वकार्ये इति चेत् । न । विकल्पाऽसहत्वात् । अथापि स्यादव्यभिचारितोपेतं विज्ञानं प्रमाणं तस्याऽभावस्तत्त्वम् । तद्धि तथाविधं सत्स्वकार्ये पर्याप्तं मिथ्याज्ञानस्य तत्राऽसामर्थ्यादिति । तन्नास्ति । विकल्पाऽनुपपत्तेः । तथा हि । विज्ञेयाऽवभासोऽस्य कार्यमुच्यते स्वगोचरोचितव्यवहारप्रवर्त्तनं वा । तत्र न तावत् ज्ञेयाऽवभासेऽस्य स्वभावप्रतिलम्भमात्राऽधीनजन्मनि सम्भवत्यव्यभिचारग्रहाऽपेक्षा । न हि वयमुत्पन्नविज्ञानविषयाऽवभासायाऽस्य स्वविषयस्य स्वविषयाऽव्यभिचारमुदीक्षमाणाः स्म । भूतिरेव हि विज्ञानस्य विषयाऽवभासे क्रियेति । यथाह—ऽतेन जन्मैव विषये बुद्धेर्व्यापार इष्यते । तदेव च प्रमाणरूपमिति ।
ऽन हि तत् क्षणमप्यास्ते जायते वा प्रमात्मकम् ।
येनाऽर्थग्रहणे पश्चाद्व्याप्रियेतेन्द्रियादिवत् ॥ इति च ।
अथ स्वगोचरोचितव्यवहारप्रवर्त्तने ज्ञानमव्यभिचारितामपेक्षते । न हि विज्ञानं विज्ञानमित्येव व्यवहारं प्रवर्तयति, मिथ्याज्ञानादपि तत्प्रसङ्गात् । तस्मान्मिथ्याज्ञानाद् व्यावृत्तमस्य संवादकत्वमर्थक्रियाप्रापणसामर्थ्यमव्यभिचारितालक्षणं प्रेक्षावत्प्रवृत्त्यङ्गमवगन्तव्यम् । न खल्वव्यभिचारमन्तरेण ततस्तत्प्राप्तिः स्वार्थव्यभिचारश्च । ततोऽन्यस्य ज्ञानस्य तस्मादनुत्पत्तेः । अन्यथाऽतिप्रसङ्गात् । यथाह—
“
अर्थस्याऽसम्भवे भावात् प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबन्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ इति ।
” तद् द्विविधं प्रत्यक्षज्ञानम् । अर्थक्रियासाधननिर्भसिकं प्रवर्तकं प्रमाणम्, अभ्यासदशाऽऽपन्नं तद्विपरीतं च । तत्र तद्विपरीतस्याऽर्थक्रियानिर्भासाद्विज्ञानात्प्रामाण्यमभ्युपगन्तव्यम् । यथाह “प्रमाणतोऽर्थप्रतिपतौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाण”मिति । तथा “प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः, असंवादन”मिति । तदर्थनान्तरीयकाऽर्थान्तरदर्शनादभ्यासदशापन्नात् । तद्यथा । आराद्वह्निविज्ञानस्य वह्निकिशुकनिचयसंशयेन तिरोहितप्रामाण्यस्य धूमदर्शनात्308 प्रामाण्यविनिश्चयः । अर्थक्रियानिर्भासस्य ज्ञानस्याऽगृहीतप्रामाण्यस्य न प्रवर्तकविज्ञानप्रामाण्यनिश्चायकत्वं, गृहीतप्रामाण्यस्य वा309 तन्निश्चायकत्वेनाऽनवस्थाप्रसङ्ग इति चेत्, न । अर्थक्रियानिर्भासस्य ज्ञानस्य स्वरूपेणेष्यमाणतया फलत्वेनाऽप्रवर्तकतया प्रमाणलक्षणाऽयोगितया व्यभिचारनिश्चयस्याऽनुपयोगात् । तद्रूपस्य च स्वसंवेदनसिद्धस्य शङ्काऽनास्पदत्वात् । यदाह—“स्वरूपस्य स्वतो गति”रिति । निबन्धारोऽप्याहुः—
अर्थक्रिया सुखाद्यात्मज्ञानमेव तथाविधम् ।
प्रमाणलक्षणाऽयोगि स्वतोऽधिगतशक्तिकम् ॥ इति ।ऽ
अन्योन्यसंश्रयान्नैवमिति चेत् । न । प्रवृत्तिद्वैविध्यात् । तत्रैतत्स्यात् । अर्थक्रियानिर्भासाद्विज्ञानाच्चेदव्यभिचारनिश्चयश्चेतसस्तदेव कुतः ? प्रेक्षावतां प्रवर्तकविज्ञानान्निश्चिताऽव्यभिचारादिति चेत् प्राप्तमन्योन्यसंश्रयमिति तत्र प्रेक्षावत्प्रवृत्तिद्वैविध्यात् । द्वयी खल्विह प्रवृत्तिः प्रेक्षावतां, तत्राऽऽद्या प्रवर्त्तकविज्ञानपरीक्षार्था, द्वितीया तु परीक्षितसाधननिर्भासस्य विज्ञानस्य तज्जातीयाद्विज्ञानादर्थक्रियाप्राप्त्यर्था । यथा किल कृषीवलस्य कर्परस्थितायां कृषिपरिकर्मितायां बीजाऽऽवपनलक्षणा प्रवृत्तिराद्या बीजपरीक्षार्था । स तु तत्राऽङ्कुरोत्पादनादवगतबीजतत्त्वः सस्याऽधिगमकाम्यया द्वितीयां प्रवृत्तिमारभते परिकर्मितायां भुवि तज्जातीयबीजाऽऽवपनलक्षणां, तथेयमपि प्रवृत्तिर्द्वयीति नाऽन्योन्यसंश्रयः । न च प्रेक्षावत्त्वव्याघातः । परीक्षोपाये प्रवर्तमानस्याऽनुपाये सन्दिग्धोपाये वाऽप्रवृत्तेः । प्रवर्ततां वोपायसन्देहादपि तथापि न प्रेक्षावत्त्वविघातः । अर्थसंशयस्य प्रेक्षावत्प्रवृत्त्यङ्गत्वात् निवृत्त्यङ्गत्वाच्चाऽनर्थसंशयस्य । अभ्यासदशापन्नस्य तु प्रत्यक्षस्य प्रापिताऽर्थक्रिया ज्ञानसाधर्म्यादनुमानात् प्रामाण्यविनिश्चयः । अनुमानस्य तु नान्तरीयकाऽर्थदर्शनजन्मतया निश्चितव्यभिचारस्य स्वत एव प्रामाण्यनिश्चयः । तत्स्वगोचरोचितव्यवहारप्रवर्त्तनायाऽस्त्वव्यभिचारनिश्चयाऽपेक्षा प्रमाणस्येति ।
तदिदमसाम्प्रतम् । अर्थक्रियानिर्भासिनो हि विज्ञानस्याऽर्थाव्यभिचारस्य स्वार्थे विनिश्चायकत्वं दुर्लभं, किमङ्ग पुनः पूर्वविज्ञानस्य प्रापणसामर्थ्ये स्वसंवेदनसिद्धस्य तस्य प्रयोजनतया किमर्थाऽव्यभिचारनिरूपणेन कि च प्रामाण्येनेत्युक्तमिति चेत् । तत्किमिदानीं यत्र स्वप्ने कामुकस्य स्वोचिताऽर्थक्रियासामर्थकामिनीविज्ञानं तदनन्तरं प्रवृत्तिज्ञानमथ सम्भोगविज्ञानमन्तरं सुखं चरमधातुविसर्गश्चेति तत्र तावदाद्यं कामिनीविज्ञानमस्तु प्रामाण्यं, न ह्यन्यत्राऽर्थक्रियानिर्भासं नास्ति विज्ञानम् । तदनन्तरं तस्य भावाज्जागरायां तदर्थकारिणः कामिनीरूपस्य बाधनात् । सुखचरमधातुविसर्गयोश्च मनोमात्रयोनितया कामिन्यामसत्यामपि तज्ज्ञानमात्रादुत्पादनात् जागरायामनुवृत्तेरविरोधात् । अन्यथा कामिनीवस्तुसाध्याऽधरपल्लवनखक्षतादिवद्व्यावृत्तिप्रसङ्गादयमदोष इति चेत् । न । प्रकृतेऽर्थक्रियानिर्भासस्य ज्ञानस्याऽव्यभिचारित्वाऽग्रहेणाऽर्थक्रियाया अनिश्चयेन प्रवर्त्तकस्य ज्ञानस्याऽर्थक्रियासमर्थवस्तुपरिप्रापणलक्षणप्रामाण्याऽनिश्चयेन स्वप्नविज्ञानसाम्यात् ।
यदि मन्येत अर्थक्रियानिर्भासं ज्ञानं स्वतः प्रमाणम् । अर्थक्रियानिश्चयात्मकत्वात् । न च स्वप्नादौ प्रसङ्गः । तत्राऽवस्थान्तरे पुरुषान्तरे कालान्तरे वा बाधकोत्पादादप्रामाण्यात् । तत्प्रवर्त्तकेष्वपि ज्ञानेषु समानमन्यत्राऽभिनिवेशात् । अपि चाऽव्यभिचारित्वं नाम ज्ञानस्यार्थेन सह । न च तदर्थग्रहणादृते शक्याऽवसानम् । न खल्वगृहीतदहनो धूमस्य तदव्यभिचारमवधारयितुमर्हति । क्षणिकत्वमपि ज्योतिर्विदागमेषु पूर्वाऽपरभागरहितकालकलामात्रस्य प्रसिद्धेस्तन्मात्रवर्त्तित्वं भावस्येति नाऽत्यन्ताऽप्रसिद्धं येन सत्त्वस्य तदव्यभिचारो न शक्याऽवगमो भवेत् । मा भूद्वा कापि न नः क्षतिः । न चाऽप्रमाणमप्रमाणेन वा ऽनवधृतप्रामाण्येन तद्ग्रहणमव्यभिचारग्रहणाऽङ्गम् । न खल्वप्रमाणेनाऽगृहीतप्रमाण्येन वा प्रमाणेन विषयीकृतो वह्निर्धूमाऽव्यभिचारग्रहणाय कल्पते । तस्मादव्यभिचारग्रहणमन्तरेण नाऽर्थग्रहणं, न चाऽर्थग्रहणमन्तरेणाऽव्यभिचारग्रहणम् इति परस्पराश्रयप्रसक्तिः । एवं च दृष्टसामर्थ्यसाधर्म्याऽनुमानेनाऽभ्यासदशापन्नप्रत्यक्षज्ञानानां स्वार्थव्यभिचारग्रहणं परास्तं वेदितव्यम् ।
यच्चाऽनुमानस्य स्वतःप्रामाण्यमुक्त तस्मिन् दर्शने प्रत्यक्षस्य स्वाऽर्थाऽव्यभिचारग्रहणादुक्तेन क्रमेण तत्पूर्वकत्वाऽनुमानस्योदय एव दुर्लभः कुतो ऽस्य प्रामाण्यं कुतस्तरां च तत् स्वतः ? नन्वव्यभिचाराऽग्रहे ज्ञानमात्रादनाश्वासः प्रेक्षावतामित्युक्तम् । सत्यमुक्तमिदं तु वक्तव्यं, कोऽयमनाश्वासः, किं संशय आहोस्विदज्ञानम् ? न तावदज्ञानं बोधस्यैव ज्ञानत्वात् । नापि संशयः । विशेषस्मृत्यपेक्षविमर्शं त्रिकारणं पञ्चकारणं वा संशयं रोचयन्ते310 समानाऽनेकधर्मोपपत्तेः311 । “विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यवस्थातश्च312 विशेषाऽपेक्षो विमर्शः संशय” इत्याचक्षाणास्तद्विचक्षणाः । न चाऽगृहीते विशेषे313 स्मरणसम्भवः । न च संशयात्मैव तद्ग्रहणं स्मृतिहेतुः । स्मृतौ सत्यां यद्भावात्तस्मिंश्च स्सृत्युपपत्तेरन्योन्याश्रयप्रसङ्गात् । संस्कारजत्वेऽपि च प्रसङ्गतादवस्थ्यात् । अनादितायाश्च गत्यन्तरसम्भवेऽनाश्रयणात् । तत्सिद्धं नाऽव्यभिचारनिश्चयो ज्ञानस्य स्वाऽर्थनिश्चयनिमित्तं, तस्योत्पत्तौ तदपेक्षत्वात् । यत्स्वरूपस्योत्पत्तौ यदपेक्ष्यते न तत्तस्य हेतुः । यथाऽनुमेयविज्ञानं लिङ्गविज्ञानस्य । न चाऽसिद्धता हेतोः । उक्तं हि—“स्वाऽर्थनिश्चयापेक्षं तदव्यभिचारविज्ञान”मिति । कार्यात्प्राग्भावित्वेन हि कारणत्वं व्याप्तं, तद्विपक्षाद्विरुद्धोपलब्ध्या व्यावर्तमानं कारणत्वमपि व्यावर्तयतीति प्रतिबन्धसिद्धिः । अर्थप्रापणशक्तिरपि314 तस्याऽर्थत्वप्रदर्शनान्नाऽन्या । न हि ज्ञानमात्मीयहस्ते वस्तूपनयति, अपि तु तत्र प्रवर्तयति ज्ञातारम् । न चास्य तत्र प्रवर्त्तनमन्यदतो वस्तुतत्त्वोपदर्शनात् । न च वस्तुतत्त्वमर्थस्याऽन्यदतः स्वरूपात् । तच्चास्य रूपमनुभवः स्वभावत एवाऽनुभवति, न पुनरव्यभिचाराद्यपेक्षते । तदिदमनुभवस्याऽर्थे स्वतःप्रामाण्यमुच्यते । यत्पुनरनुभूयमानाद्रूपादर्थस्याऽन्यथात्वं न तदनुभवत्यनुभवः । रजतविभ्रमेण तदन्यथात्वग्रहणे रजतार्थिनस्तत्राऽप्रवृत्तेर्बाधकाऽनुपपत्तेश्च । ततश्च ज्ञानान्तराऽवसेयमन्यथात्वं, तेन तत्राऽन्यदपेक्षत इति तदस्य परत इत्युच्यते । यत्पुनरस्य तत्त्वाऽबबोधरूपत्व विज्ञानस्य तदपि तद्ग्राहिणः प्रत्ययान्तरान्मानसादानुमानिकाद्वाऽवगम्यमानं स्वत इत्युच्यते । तत्स्वरूपग्राहिणः प्रत्ययात्प्रत्ययान्तराऽनपेक्षणात् । न चास्य बाधकाशङ्कायामाप्रामाण्यमाशङ्कनीयम् । बाधाऽनर्हे तदाशङ्काऽनुपपत्तेः । सन्ति हि कानिचिद्विज्ञानानि स्वस्थेन्द्रियस्वान्तस्य पुंसः स्फीताऽऽलोकमध्यवर्तिप्रमेयविषयाणि, यत्र न मनागपि बाधा दृष्टचरी कथं तत्र बाधार्हता, यत्रापि निपुणेन प्रतिपत्रा भवितव्यम् । स यदि प्रयत्नेनाऽनुसरन्नपि नाऽऽपादयत्यस्य बाधां तदौत्सर्गिकमस्य प्रामाण्यमविहतमनपेक्षमवतिष्ठते । यदि तु पश्येत्ततस्तदपोहितमिति नान्यत्र तदुत्प्रेक्षितव्यम् । यथोक्तम्—
लिङ्गाद्याभासजं लोके प्रतिभानमनिश्चयः ।
सर्वतः पूर्णविज्ञानः पूर्णे न्यूने न कश्चन ॥
यदपि किल श्वो मे भ्राताऽऽगन्तेति प्रतिभायामक्षलिङ्गाद्यपेक्षाऽभावाद् बहिः स्वतन्त्रं मनो दृष्टं, सर्वं च सर्वमिति वा सदसत्पदार्था द्रव्यादयः
तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थाऽन्यथात्वहेतूत्थदोषज्ञानादपोद्यते ।
द्वावेव निन्दितौ लोके निरशङ्काऽतिशङ्कितौ ॥
एवं त्रिचतुरज्ञानजन्मनो नाऽधिका मतिः ।
अर्थ्यते315 तावदेवैकं स्वतः प्रामाण्यमश्नुते ॥
उत्प्रेक्षते हि यो मोहादज्ञानमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ इति ।
न चेदं शापमात्रम् । उक्तं हि—“न बाधाऽनर्हे तदाशङ्का युज्यते अतिप्रङ्गादि”ति । बाधकारणदोषाभ्यामप्रामाण्यज्ञानात्तदभावग्रहाऽपेक्षप्रामाण्यनिश्चये,316 न तु स्वत इति चेत् । न एकहेतुत्वकल्पनायां कार्योत्पत्तावनेकहेतुत्वकल्पनाऽनुपपत्तेः । बाधकारणदोषग्रहणस्य चाऽप्रामाण्यनिश्चयहेतुभावमात्रेण प्रामाण्योपहन्तृत्वेन तदभावे बोधमात्रादेव प्रामाण्योपपत्तौ न तदभावोऽपेक्षणीयः । स च सत्यामाशङ्कायां, सा च यादृशे विषये दृष्टचरी तादृशे एव न सर्वत्रेत्यावेदितम् । तत्सिद्धं स्वतः सर्वप्रमाणानां प्रामाण्यं, तदन्याऽनपेक्षणात् । यद्यतोऽन्यत्राऽपेक्षते तत्तस्य स्वत एव । तद्यथा वह्नेर्दहनसामर्थ्यमिति । तदन्याऽनपेक्षत्वं च साधितमुक्तेन प्रबन्धेन । तदन्याऽपेक्षस्य हि तत्स्वभावाऽनधीनत्वे तदाश्रितत्वविरुद्धतदनाश्रितत्वप्रसक्तिबाधकं प्रमाणमिति न सन्दिग्धो व्यतिरेकः । तदिदमुक्तम्—
“
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
न हि स्वतोऽसती शक्तिः कर्त्तुमन्येन शक्यते ॥ इति ।
” तस्मान्नाऽनाश्वास इति सिद्धम् ।
सम्प्रति नैयायिकाऽभिमतयोगिज्ञानविषयत्वं विश्वस्य निराकरोति—
लिङ्गाद्याभासजं लोके प्रतिभानमनिश्चयः ।
सर्वः सम्पूर्णविज्ञानः पूर्णे न्यूने न कश्चन ॥
यदपि किल श्वो मे भ्राता आगन्तेति लौकिक्यां प्रतिभायामक्षलिङ्गाद्यपेक्षाऽभावाद्317 बहिः स्वतन्त्रं मनो दृष्टम् । ननु तत्र भ्रातुः स्वरूपस्य
प्रकृतिपुरुषौ पञ्चस्कन्धा इत्यादि वाऽभेदेन लोकप्रमाणवशेन मनसो विषय इत्यपि स्वातन्त्र्ये बहिः सर्वज्ञत्वसिद्धिः । अत्रोच्यते—
लोकोत्तरं तावत् प्रतिभानं विवादपदं, लौकिकं तु प्रियाऽप्रियगोचरं प्रायः सहप्रवृत्तहृदयप्रसादोद्वेगादिलिङ्गाद्याभासप्रभवमत एवाऽनिश्चयात्मकं तथा व्यपदिशन्ति प्रतिभानमेव, न तु निश्चयः । उभयकोटिसंस्पर्शित्वात्तुल्यत्वाच्च न संशयात्मकम् । प्रतिभैव । न प्रमाणम् । अनिश्चयफलत्वात् । प्रमाणान्तरापेक्षनिश्चयत्वात् । एवं लिङ्गादिजातीयाऽपेक्षत्वात् तत्रापि प्रागुपलब्धेर्भवत्वेवमिह तु विश्वेषां भावाना देशकालाऽवस्थाविशेषविप्रकीर्णानां न रूपतोऽप्युपलम्भसम्भव इति कथमत्र मनसः स्वातन्त्र्यमित्यत आह—सर्वं च सर्वमिति वा प्रकाररहितेन रूपेण व्यूढं प्रकारभेदवता यतो नेदानीं व्यूहे हेतुप्रकारान्नैयायिकः स्वपराऽभिमतानाह—सदसत्पदार्था द्रव्यादयः प्रकृतिपुरुषौ पञ्चस्कन्धा इत्यादिना वा भेदेन लोकप्रमाणवशेन मनसा विषयीकृतं भावनामयस्य स्फुटाऽवभासस्य लोकोत्तरस्य प्रत्यक्षस्य विषय इत्यपि सर्वज्ञतासिद्धिः स्वातन्त्र्ये मनसः । एतदुक्तं भवति । निष्प्रकारं सप्रकारं वा लौकिकेन प्रमाणेन गृहीत्वा भावयतो भावनाऽपनीताऽऽवरणं मनः स्वतन्त्रमेव विश्वमवगाहते इति ।
अत्रोच्यते । लोकोत्तरं तावत्प्रतिभानं सत्तया विवादपदमेवेति न तत्र मनसः स्वातन्त्र्यं स्वरूपेण प्रतिषेधनीयम् । लौकिकं तु प्रियाऽप्रियाऽगोचरं न स्वतन्त्रमनोजन्यं, यतः प्रायः सहप्रवृत्तहृदयप्रसादोद्वेगादिलक्षणलिङ्गाद्याभासप्रभवमत एव लिङ्गाद्याभासप्रभवत्वादेव तदनिश्चयात्मकम् । तथा च व्यपदिशन्ति “एवं प्रतिभानं न तु निश्चय” इति । उभयकोटिसंस्पर्शस्याऽतुल्यत्वाच्च न संशयात्मकम् ।
ननु यदि न संशयो नापि निश्चयः तर्हि तद्विज्ञानतत्त्वं वाच्यमित्यत आह—प्रतिभैव । न ह्येतद्विज्ञानतुल्यवदुपप्लवमानविरुद्धकोटिद्वयविषयो येन संशयात्मकं, नाप्येककोटिविषयामपि प्रमामवधारयति येन निश्चयः स्यात् । न चैककोटिविषयं न च प्रकाशते येन न स्यात् । तस्मात्सिद्धं प्रतिभैवेति । तर्हि स्वयमनिश्चयात्मापि निश्चयजननादस्तु प्रमाणं चक्षरादिवदित्यत आह—न प्रमाणम् । कस्मात् ? अनिश्चयफलत्वात् । ननूपजाते प्रतिभाभेदे यत्र तदनन्तरं निश्चयो भवति तत्र निश्चयफलकः प्रमाणभेदः कस्मान्न प्रमाणम् ? इत्यत आह—प्रमाणान्तराऽपेक्षनिश्चयत्वात् । न तावत्प्रतिभाया एवाऽनपेक्षया एव निश्चयजनकत्वं, सर्वत्र तथाभावप्रसङ्गात् । लिङ्गाद्य
पारतन्त्र्यम् । अन्यथा तदनपेक्षो मनोमात्रसाधनो बहिरर्थसम्बन्धः सर्वस्य सर्वस्मिन् सर्वदा स्यादिति । अदृष्टविशेषादक्षलिङ्गाद्यनपेक्षं318 मनः कस्यचिद् बाह्येऽप्यर्थेऽसति चक्षुराद्यारम्भवैयर्व्यप्रसङ्गः । तत एवाऽदृष्टविशेषाऽभिसंस्कृतात् सर्वप्रतिपत्तिसिद्धेस्तस्यापि वैयर्थ्यात् । अकरणस्यैव कर्तुरात्मनोऽदृष्टविशेषादेव परिच्छित्तिक्रियासिद्धेः । न खल्यनुपायमदृष्टमप्यर्थं साधयति शरीराद्यारम्भात्319 न तर्हि अक्षलिङ्गाद्यनपेक्षं चैभिर्मनसः प्रवृत्तिः स्वतः । अत एव योगजाद्धर्मात् सर्वार्थेषु न मानसं प्रत्यक्षं, सन्निकर्षोपायत्वात् सिद्धेः ।
पेक्षायां च तद्धेतुत्वे कृतमनया, लिङ्गादीनां तन्निरपेक्षाणामेव तत्र तत्र सामर्थ्यप्रतीतेरिति ।
उपसंहरति—एवं लिङ्गादिजातीयाऽपेक्षत्वाल्लिङ्गाद्याभासाऽपेक्षत्वात् तत्रापि प्रतिभानेऽपि लौकिके परतन्त्रं मनः । अन्यथा स्वातत्र्ये तल्लिङ्गाद्याभासाऽनपेक्षमनोमात्रसाधनो बहिरर्थसम्बन्धो मनसो नित्यसन्निधानात् सर्वस्य पुंसः सर्वस्मिन्नर्थे सर्वदा स्यादिति सर्वः सर्वदा सर्वदर्शी स्यात् । अदृष्टविशेषाद् बाह्ये मनः स्वतन्त्रं कदाचित्कस्यचिदेवेति नाऽतिप्रसङ्गः । तदाह—अदृष्टविशेषादक्षलिङ्गाद्यनपेक्षं मनः कस्यचित्क्वचिद्बाह्येऽप्यर्थे चक्षुराद्यारम्भवैफल्यप्रसङ्गः । कस्मात् ? तत एव मनसोऽदृष्टविशेषाऽभिसंस्कृतात्सर्वरूपादिप्रतीतिसिद्धेः । आसतां चक्षुरादयः, तस्य मनसोऽपि वैयर्थ्यम् । कुतः ? अकरणस्यैव कर्त्तुरात्मनोऽदृष्टविशेषादेव रूपादिपरिच्छित्तिक्रियासिद्धेः ।
यद्युच्येत, न खल्वनुपायमदृष्टमप्यर्थ साधयति । कुतः ? शरीराद्यारम्भात् । न तर्ह्यक्षलिङ्गाद्यनपेक्षा बहिर्मनसः प्रवृत्तिः । ततोऽदृष्टत एवाऽनुपायस्याऽसाधनत्वादेव योगजाद्धर्मात्सर्वार्थेषु न मानसं प्रत्यक्षं, यत्तत्तारकमित्याचक्षते स्वायम्भुवाः । कुतः ? इन्द्रियाऽर्थसन्निकर्षोपायत्वात्तद्बाह्यविषयप्रत्यक्षत्वसिद्धेः ।
यद्युच्येत नेन्द्रियार्थसंयोग एव, तदुपायगुणादिज्ञानस्याऽप्रत्यक्षत्वप्रसङ्गात् । नाऽपीन्द्रियसमवाय एव । शब्दज्ञानस्यैव प्रत्यक्षत्वापत्तेः । अपि तु संयुक्तसमवायादयोऽपि तदुपायाः । अत एव सर्वाऽविरोधार्थ“मिन्द्रियार्थसन्निकर्षोत्पन्न”मित्याह स्मं तत्रभवानक्षपाषः । तद्गुणादिग्रह इव संयुक्तसमवायादिहापि समाधिजधर्म्मसंस्कृतस्य मनसो बाह्येन्द्रियस्य वा तत्संयुक्त 320
संयुक्तसंयोगाऽनभ्युपगमात् । अन्यथा कुङ्यादिव्यवहिताऽर्थोपलब्धिप्रसङ्गात् । अनुमानेऽपि प्रत्यक्षत्वाऽऽपातात् । अजाताऽतिवृत्तेषु तस्याप्ययोगात् । अत एव नेन्द्रियाऽर्थयोः सिद्धयोः सन्निकर्षः । अतीताऽनागतानां तदाप्यसत्त्वाद् व्यवहिताऽर्थोपलब्धिप्रसङ्गात् । अनुमानादिषु च प्रत्यक्षत्वाऽऽपातात् । सन्निकर्षग्रहणाऽऽनर्थक्याच्च । नन्वतीताऽनागतानां देशादिविशेषणत्वेन ज्ञानाज्ज्ञानस्य त्रिशेषदेशाद्यालम्बनत्वात् तैश्चक्षुवो मनसो वा सन्निकर्षसम्भवात् । तेषां च सत्त्वात्सन्निधानादव्याहतमनुत्पन्नाऽतिवृत्तज्ञानस्येन्द्रि-321
संयोगादिराश्रयिष्यते तत्तद्व्यवहितादिग्रहणसिद्ध्यर्थमित्यर्थत आह—संयुक्तसंयोगस्य प्रत्यक्षज्ञानहेतोरनभ्युपगमाद् भवद्भिः ।
न केवलमनभ्युपगतोऽनुपपन्नश्चाऽतिप्रसङ्गादित्यत आह—अन्यथा कुङ्यादिसंयोगव्यवहिताऽर्थोपलब्धिप्रसङ्गादस्मदादीनाम् । न च समाधिसंस्कृतस्य मनसो लोचनादेर्वा सामर्थ्यमेवंविधं सम्भवतीत्युक्तं बौद्धसर्वज्ञपरीक्षायाम् । ततः सर्वस्य सर्वज्ञत्वप्रसङ्गात् अस्ति हि कथञ्चित्सर्वस्य सर्वेण सम्बन्ध । तथाऽनुमानेऽपि प्रत्यक्षत्वापातात् । इन्द्रियार्थसन्निकर्षोत्पन्नत्वेन ह्यनुमानात् प्रत्यक्षं व्यावर्तते । यदा त्वनुमानमपि तथा तदपि प्रत्यक्षं स्यात् । तथा हि । धूमादि यावच्चक्षुरादिसंयुक्तं धूमादिश्च वह्न्यादिना तदनेन प्रकारेणाऽस्ति कश्चित्कथञ्चिदिन्द्रियस्य सन्निकर्ष इति तदुत्पन्नमनुमानं प्रत्यक्षं प्रसज्येत । न च प्रत्युत्पन्नचक्षुरादिनिरपेक्षमत्र धूमाद्येव कारणमिति युक्तम् । सन्निकर्षस्यैव तत्र तत्र कॢप्तसामर्थ्यस्य सम्भवे लिङ्गादिसामर्थ्यकल्पनाऽनुपपत्तेः । न चैतावता सर्वज्ञता सिध्यतीत्याह—अजाताऽतिवृत्तेषु तस्याप्ययोगात् । अत एव नेन्द्रियाऽर्थयोः सद्भावो ज्ञानजननं प्रति परस्पराऽऽनुकूल्येनाऽवस्थानं सन्निकर्षः ।
अत एवेति विभजते—अतीताऽनागतानां तदा विज्ञानसमयेऽसत्त्वाद्व्यवहितार्थोपलब्धिप्रसङ्गात् । अनुमानादिषु च प्रत्यक्षत्वाऽऽपातात् । हेत्वन्तरमाह—सन्निकर्षग्रहणाऽऽनर्थक्यप्रसङ्गाच्च । इन्द्रियार्थोत्पन्नमित्येतावतैव तयोः सद्भावसिद्धेः । असत उत्पादकत्वाऽयोगात् ।
चोदयति—नन्वतीताऽनागतानां देशादिविशेषणत्वेन ज्ञानात् । तद्यथा इयमतीताऽनागतबहुराजा जगतीति तज्ज्ञानस्य विरोधिदेशाद्यालम्बनत्वात्तस्यैवाऽङ्गुल्या निर्देशात् तत्र प्रवृत्तेश्च देशादिभिर्विशेष्यैर्यथायथं चक्षुषो मनसो वाऽवधृतप्रत्यक्षता न हेतुभावस्य, सन्निकर्षसम्भवात् । कुतः सम्भव ? इत्यत आह—तेषां च विशेष्याणां देशादीनां च सत्त्वात् सन्निधानादव्याहतमनुत्पन्नाऽतिवृत्तज्ञानस्येन्द्रियार्थसन्निकर्षजत्वाऽविशेषेणाऽनवभासोऽपि विशेष्य
याऽर्थसन्निकर्षजत्वम् । अनुमानादिलक्षणाभावे322 च इन्द्रियाऽर्थसन्निकर्षोत्पन्नं ज्ञानमिति नाऽनुमानादिषु तत्त्वम् । यदि तावद्यः कश्चिदर्थस्ततः स्मृतौ प्रत्यक्षत्वप्रसङ्गः । अथ प्रमेयो देशादिप्रज्ञानं भवतु प्रत्यक्षं, तन्मात्रसन्निकर्षात् न तु विशेषणज्ञानम् । विशिष्टज्ञानं प्रत्यक्षमिति तदाक्षेपात् विशेषणमपि प्रत्यक्षमिति चेत् । न तस्याऽसन्निकर्षात् । न ह्यसति विशेषणे विशिष्टो वर्तमानोऽपि भवति । सर्वस्य तथात्वप्रसङ्गात् । कथं तर्हि अतिवृत्तायां मातरि देवदत्तापुत्रो323 यज्ञदत्त उच्यते । किमत्र ? न स तया तदा विशिष्टतया व्यवहारमनुपतेदिति । यदि तर्ह्यवर्त्तमानं न व्यवहाराङ्गं देवदत्ताऽपि
स्यैवार्थत्वादिति भावः । नन्वेवमपि पर्वतादेरिन्द्रियसन्निकृष्टस्याऽनुमानविषयत्वादनुमानस्यापि प्रत्यक्षत्वापात इत्यत आह—पृथगनुमानादिलक्षणप्रणयनसामर्थ्यादनुमानादिलक्षणाभावे इन्द्रियाऽर्थसन्निकर्षोत्पन्नमिति प्रत्यक्षलक्षणमिति नाऽनुमानादिषु तत्त्वं प्रत्यक्षत्वम् । तल्लक्षणविरहात् ।
तदेतद्विकल्पप्य दूषयति—यदि तावद्यः कश्चिदर्थः तेन सहेन्द्रियाऽसन्निकर्षाद्यद्विज्ञान तत्प्रत्यक्षं, ततः स्मृतौ प्रत्यक्षत्वप्रसङ्गः । सापि खलूद्बुद्धसंस्कारेणाऽऽत्मना सह मनसः सन्निकर्षादुपजायते । न चैतस्याः पारमर्ष पृथगस्ति लक्षणम् । अथ प्रमेयः स एव खलु अर्थ्यमानतयाऽर्थो, न चाऽऽत्मा स्मृतावर्थ्यमानः, कि तु पूर्वाऽनुभूतो देशादिरिति दूषयति—देशादिमात्रज्ञानं भवतु प्रत्यक्षं, तन्मात्रसन्निकर्षात्, न तु विशेषणज्ञानम् ।
शङ्कते—विशिष्टज्ञानं प्रत्यक्षमिति तदाक्षेपाद्विशेषणमपि प्रत्यक्षमिति चेत् ? निराकरोति—न । तस्याऽविधेयस्य विशेषणवदसन्निकर्षात् । कस्मात्तर्ह्यसन्निहितविशेषणोऽतीतविशेषणो विशिष्टावर्त्तमानो भवति रूपमात्रस्य वर्त्तमानत्वेऽपि । कुतः ? सर्वस्य तथात्वप्रसङ्गात् । असन्निधानाऽविशेषात् । चोदयति—देशाद्यवर्तमानविशेषणे विशिष्टो वर्त्तमानः, कथं तर्ह्यतिवृत्तायाम्मातरि देवदत्तापुत्रो यज्ञदत्त इत्युच्यते ? समधातुं निगूढाऽभिसन्धिः पृच्छति किमत्र कथं ? चोदक आह—न स तया तदा विशिष्ट इति न देवदत्तापुत्र इति हि विशिष्टतया व्यवहारमनुवर्तेत । अवर्तमानस्य व्यवहाराऽनङ्गत्वादिति । समाधाताऽऽह—यदि तर्ह्यवर्त्तमानं न व्यवहाराऽङ्गं देवदत्ताऽप्यतीतयो
विशेषणतया न व्यवहाराऽङ्गं स्यात् । अथ भूतपूर्वेण विशेषणेन व्यवहारः, विशिष्टतयापि तादृश्या न दण्डवारितः । न चेदृशं विशेषणमुपलक्षणं तु, रूपतो भिन्नस्याऽसन्निधानात् । सन्निध्यसन्निधिकृत एव चैतयोर्भेदः । तस्मान्नाऽसनिहितविशेषणो विशिष्टः सन्निहितः । यदि विशेषणं प्रमेयं जाताद्यर्थश्च प्रमेयः । अनर्थसन्निकर्षजमपि प्रत्यक्षं प्राप्तम् । न च तथा । तल्लक्षणविरहादिन्द्रियस्याऽर्थापेक्षत्वात् ।
अथ देशविशेष एव प्रमेयो न तद्विशेषणं तथा । न च तल्लक्षणविरहः । अर्थ्यमानसन्निकर्षात् । न तर्हि देशाद्यालम्बनज्ञानेनाऽनुत्पन्नादिवेदिनो ध्यायिनः । प्रमेयैकदेशसन्निकर्षाच्च प्रत्यक्षज्ञानोदये सर्वः सर्वप्रत्यक्षदर्शी भयसिद्धा न तद्व्यवहाराङ्गं स्यात् । समाधातैवाऽऽशङ्क्य तुल्यतामापादयति—अथ भूतपूर्वेण विशेषणेन व्यवहारो न विशिष्टतयाऽपि तादृश्या दण्डेन वारितः । अपि चाऽभ्युपेत्य विशेषणत्वमेवंविधस्येदमुदितं, परमार्थतस्तु नेदं विशेषणं देवदत्तादिकं नामेत्यत आह—उपलक्षणं तु, रूपतो भिन्नस्य स्वलक्षणस्याऽऽकारिण इति यावत् । असन्निधानाद्विशेष्यस्याऽभिमतवस्त्वनाकारत्वादिति । अथ मा भूत् सन्निधानं, तथापि विशेषणं कस्मान्न भवती ? त्यत आह—सन्निध्यसन्निधिकृत एव एतयोर्विशेषणोपलक्षणयोर्यथाक्रमं भेदः । कस्मात् ? नाऽसन्निहितविशेषणो विशष्टः सन्निहितः । स्वरूपेण सन्निहितोऽपि तदसन्निहितविशेषणस्य वस्तुनः स्वरूपं सन्निहितस्य तन्मात्रं प्रत्यक्षं न पुनर्विशिष्टत्वमपीति सिद्धम् ।
यदि च विशिष्टप्रमेयतासिद्ध्यर्थं विशेषणमपि प्रमेयमङ्गीक्रियेत तदन्तरेण विशिष्टप्रमेयताऽनुपपत्तेः । ततो जाताद्यर्थश्च प्रमेय इति अनर्थसन्निकर्षजमपि ज्ञानं प्रत्यक्षं प्राप्तम् । विशेषणस्याऽर्थ्यमानस्य तत्र सन्निकर्षाऽभावात् । न च तथा सम्भवति । कुतः ? प्रत्यक्षलक्षणविरहात् । इन्द्रियार्थसन्निकर्षोत्पन्नमिति हि तल्लक्षणम् । अथ मा भूत् लक्षणं विशेष्येन्द्रियसन्निकर्षमात्रात्तज्जन्निष्यते, लप्स्यते च प्रत्यक्षं वैशद्यादित्यत आह—इन्द्रियस्याऽर्थाऽपेक्षत्वादिति तत्त्वज्ञानोत्पत्तौ यत्तदवोचाम तत्त्वविज्ञानजननमिन्द्रियाणामर्थसहकारितया नियतमिति ।
तदेतत्समुत्थानं शङ्कते—अथ तेषु देशविशेष एव प्रमेयो न तद्विशेषणम् अतीतादि । तथा च न प्रत्यक्षलक्षणविरहोऽर्थ्यमानेन्द्रियसन्निकर्षात् । उत्तरं— न तर्हि देशाद्यालम्बनेन ज्ञानेनाऽनुत्पन्नादिवेदिनो ध्यायिनः । यदि मन्येत प्रमेयैकदेशसन्निकर्षादेव ध्यायिनो ध्यानसंस्कृतस्वान्तवृत्तयो युञ्जाना विश्वमेव
स्यात् । सर्वत्येन्द्रियसन्निकृष्टं प्रति कथञ्चिद्विशेषणत्वोपपत्तेः । अनुमानलक्षणाऽभावेऽपि प्रत्यक्षविद्यमानाऽर्थस्मृतौ प्रत्यक्षप्रसङ्गः । संस्कारस्तत्र कारणं नाऽर्थसत्ता । असत्यप्यर्थे भावात् । इतरत्रापि तुल्यम् । योगजधर्म्मस्य हेतुत्वात् । न हि तत्राऽर्थोपयोगे प्रमाणम् । सन्निहितेऽसन्निहिते, व्यवहितेऽव्यवहिते, वर्तमानेऽवर्तमाने च सर्वत्र योगिप्रत्यक्षोत्पादाऽभ्युपगमात् । वर्तमानदेशाद्यालम्बनत्वं लिङ्गाद्यभावे इति वदता सम्प्लवो निरस्तः स्यात् । उत्सूत्रं च कल्पितमनुमानादिति बाधनासूत्रं कल्पितम् । अनुमानादिबाधना-
वर्त्तमानाऽवर्त्तमानं कथञ्चिदिन्द्रियसन्निकृष्टं प्रमेयैकदेशविशेषणतया साक्षात्करिष्यन्तीति, तत्राह—प्रमेयैकदेशसङ्किर्षात्तु कथञ्चिद्विशेषणीभूतावर्त्तमानविश्वविषयप्रत्यक्षज्ञानोदये324 सर्वः सर्वप्रत्यक्षदर्शी स्यात्सर्वस्येन्द्रियसन्निकृष्टमर्थं प्रति कथञ्चिद्विशेषणत्वोपपत्तेः । उक्तं हि—“नाऽन्यत्र योगः प्रभवती”ति । अनुमानलक्षणाऽभावे च अनुमानलक्षणाऽनवरुद्धे विषये प्रत्यक्षलक्षणं व्यवस्थाप्यमाने प्रत्यक्षे कस्मिश्चित् सदृशे गवयादौ दृष्टे संस्कारबोधात्सदृशान्तरस्य गवादेरर्थस्य विद्यमानस्य स्मृतौ प्रत्यक्षप्रसङ्गः ।
सम्भवति हि गवादेरपि हि विद्यमानस्य कथञ्चित् प्रत्यक्षगवयादिविशेषणत्वमिति325 शङ्कते—संस्कारस्तत्र स्मृतौ कारणं नाऽर्थसुत्ता । कुतः ? असत्यप्यर्थे सति संस्कारे स्मृतेर्भावात् । उत्तरम्—इतरत्रापि तुल्यम् । कुतः ? अर्थसत्तानिरपेक्षस्य योगजधर्मस्य हेतुत्वात् । तद्दर्शयति—न हि तत्र योगिनां सर्वविषयप्रत्यक्षजन्मनि समस्तार्थोपयोगे326 प्रमाणम् । कस्मात् ? सन्निहितेऽसन्निहिते, व्यवहितेऽव्यवहिते, वर्त्तमानेऽवर्त्तमाने च सर्वप्रकारे योगिप्रत्यक्षोत्पादाऽभ्युपगमात् शास्त्रे ।
यद्युच्यते अतीतादिविशिष्टसन्निहितवर्त्तमानदेशाद्यालम्बने तत्राऽतो तादिगोचरमिति, तत्राह—वर्त्तमानदेशाद्यालम्बनत्वं योगिज्ञानस्यातीतादिविशिष्टाऽर्थग्राहिणः प्रत्युक्तमधस्तात् । अपि च प्रमाणत इति सर्ववचनोपसङ्ग्रहार्थ तसिं प्रयुञ्जानेन तदर्थ चोपरिष्टात्तु विशदयता तत्र भवता पक्षिलस्वामिना प्रमाणेन प्रमाणाभ्यां प्रमाणैश्चैकस्यैव प्रमेयस्याऽऽत्मादेः प्रमितिरिति प्रमाणसम्प्लवो दर्शितः, तद्व्याकोपश्च प्रसज्येतेत्यत आह—लिङ्गाद्यभावे प्रत्यक्षमिति वदता सम्प्लवः प्रमाणानां निरस्तः स्यात् । उत्सूत्रं च कल्पितम् । न खलु लिङ्गाद्यभाव इति उद्देशो लक्षणं परीक्षासूत्रं वा समस्ति ।
न्नोत्सूत्रमिति चेत् । शब्दनिवृत्त्यर्थमव्यपदेश्यपदव्याख्यानमयुक्तम् । षड्विधसन्निकर्षाभ्युपगम इन्द्रियग्रहणं चाऽनुमानादिनिवृस्यर्थमित्यादि पराहतं स्यात् । तस्मादक्षलिङ्गादिपरतन्त्रं मनः । सर्व च परिपूर्णं चेल्लौकिकप्रमाणगोचरो लौकिकप्रमाणव्यवहार्य्यपि327 परिपूर्णज्ञान इति न लोकोत्तरज्ञानाऽभिमतस्य विशेषः । स्पष्टाऽवभासं ज्ञानं यदि, न तत्र तस्योपयोगः । अथ निश्चयः, स इतरस्यापि प्रमाणतुल्यः । प्रमितेः प्रत्यक्षदर्शिनः सर्वार्थेषु
शङ्कते—अनुमानादिलक्षणप्रणयनवाधनान्नोत्सूत्रमिति चेत् ? सूत्राऽऽहिताऽर्थसामर्थ्यलभ्यमपि तदर्थ एव, तन्मूलत्वादित्यर्थः । निराकरोति— शब्दनिवृत्त्यर्थमव्यपदेश्यपदव्याख्यानमयुक्तम् । भाष्यकारो हि शाब्दज्ञाननिवृत्त्यर्थम् अव्यपदेश्यपदं वर्णयांवभूव । तथा हि । यत्र प्रत्यक्षेण दृश्यमाने केसरादिमति वस्तुनि नागरिकेणाऽऽरण्यकं प्रत्युच्यते तुरङ्गोऽयमिति तत्राऽ ऽरण्यकस्तस्य वस्तुनस्तुरङ्गमपदवाच्यतामवैति, मानद्वयव्यापारात् । तथा हि । तुरङ्गमपदाऽभिधेय इत्येतावता शब्दः पुरोवर्तिनि च विशेषे तदभिधेयताश्रये इन्द्रियतदुपदेशस्य तत्र शब्दस्य प्रवृत्तेः । तच्चैतदुभयजमपि ज्ञानं शाब्दमेव, शब्दस्य तत्र साधकतमत्वात् । सत्यपीन्द्रियाऽर्थसन्निकर्षे शब्दाऽभावे तदनुपपत्तेः । असति तु तस्मिन्यदा सदेव वस्त्वनुभूतमारण्यकेनाऽनुस्मर्य सङ्केतं प्रतिपद्यते स केसरादिमान् पदार्थस्तुरङ्गम इति तदा वाक्ये सति तदवबोधात् । तस्मादुभयजस्य विज्ञानस्य शब्दस्य निवृत्त्यर्थमव्यपदेश्यपदव्याख्यातमयुक्तं स्यात् । लिङ्गाद्यभावे प्रत्यक्षलक्षणव्यवस्थापनात्, उभयजस्य शाब्दत्वेन प्रत्यक्षत्वप्रसक्त्यभावात् ।
एतदुक्तं भवति । तदेव सूत्राऽभिहितसामर्थ्येन लभ्यते न यत्सूत्राऽवयवमुपहन्ति न तूपघातकमपीति, तथा देशकालविप्रकीर्णमात्रविषयप्रत्यक्षज्ञानाऽभ्युपगमो लिङ्गाद्यभावे प्रत्यक्षलक्षणम्, इन्द्रियग्रहणं चाऽनुमाननिवृत्त्यर्थमित्यादि पराहतं स्यात् । तद्विषयं प्रत्यक्षमित्यादिशब्दसूचितं पराहतं वेदितव्यम् । प्रकृतमुपसंहरति—तस्मादक्षलिङ्गादिपरतन्त्रं बहिर्मनः । अपि च सर्वं परिपूर्ण लौकिकं प्रमाणगोचरो न्यूनं वा ? तत्र सर्व च परिपूर्णं चेल्लौकिकप्रमाणव्यवहार्येऽपि परिपूर्णज्ञान एवेति न ततो लोकोत्तरज्ञानाऽभिमतस्य विशेषः ।
शङ्कते—स्पष्टाऽवभासं ज्ञानं यदि विशेषः । एतदुक्तं भवति । पूर्णविषयमपि लौकिकमविशदाभमलौकिकं तु भावनाऽऽधेयविशदाभमित्यस्यास्ततो विशेष इति । निराकरोति—न । तत्र सर्वस्मिन् सम्पूर्णगृहीते न
नैराकाङ्क्ष्यं नेतरस्य । अप्रत्यक्षमपि यदि परिपूर्णं मानान्तरेण मितं किमन्य दाकाङ्क्षेदिति । न हि प्रमाणान्तराऽऽकाङ्क्षा, प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः । पुनः प्रमेयसिद्ध्यर्थं प्रमाणान्तराकाङ्क्षा । न । पूर्वस्मादप्यसकृत्तत्सिद्धेः । सिद्धस्य पुनः सिद्ध्यपेक्षाहेत्वभावाच्च । उपायान्तरसद्भावश्चोपायान्तराकाङ्क्षैव स्यात् । प्रीतिविशेषश्चेत्पूर्वप्रमाणजाद्दर्शनात्सिद्ध्यतीति328
स्पष्टाऽवभासस्योपयोगः । लौकिकप्रमाणाऽन्वितमर्थमवगमयता विस्पष्टं तेन पिष्टं पिष्टं स्यात् ।
शङ्कते—अथ निश्चयः ? निराकरोति—स इतरस्यापि लौकिकस्य प्रमाणत्वेन तुल्यः । शङ्कते—प्रमितेः सर्वस्या एव प्रत्यक्षपरत्वात् सर्वार्थेषु नैराकाङ्क्ष्यं नेतरस्य प्रमाणान्तरेण समस्तवस्तुदर्शिनो लौकिकस्याऽप्रत्यक्षे सर्वस्मिन्नैराकाङ्क्ष्यम् । तथा हि प्रमाता आगमादर्थमवगम्य अनुमानात् बुभुत्सते अनुमाय च तं प्रत्यक्षेण दिदृक्षते । अथ साक्षात्कृत्य निराकाङ्क्षतामापद्यते । सेयं सर्वैव प्रत्यक्षप्रमितिः प्रमातॄणाम् । निराकरोति—अप्रत्यक्षमपि यदि मानान्तरेण परिपूर्णमितं किमन्यदाकाङ्क्षेदिति । यत्र खल्वनुमायाऽपि प्रत्यक्षेण दिदृक्षते न नूनं तत्राऽनुमानेन सम्पूर्णप्रमेयाऽधिगतिरभूत् तद्भावे दिदृक्षाऽनुपपत्तेः । यथाहुरत्रभवन्तो वार्त्तिककारमिश्राः ।
यावदज्ञातसन्दिग्धं मेयं तावत्प्रमित्स्यते ।
प्रमिते तु प्रमातॄणां प्रमोत्सुक्यं विहन्यते ॥ इति ।
अथ मानान्तरमाकाङ्क्षति तत्राह—न हि प्रमाणान्तराऽऽकाङ्क्षा । कुतः ? प्रमेयसिद्ध्यर्थत्वात्तदाकाङ्क्षायाः । हिताऽहितप्राप्तिपरिहारार्थिनो हि तदुपायमर्थयन्ते, स च प्रमाणाऽधीननिरूपण इति प्रमाणमनुसरन्ति, स चेत् कुतश्चित्प्रमाणात्सिद्धः कृतं तर्हि प्रमाणान्तरानुसरणेन तेषाम् । तथापि चेदनुसरन्ति नूनं प्रमेयान्तरमप्यमी बुभुत्सन्ते इत्यर्थः । अथ ततः प्रमेयसिद्धावपि तस्याऽऽशुतरविनाशित्वेन329 पुनस्तत्प्रमेयसिद्ध्यर्थं प्रमाणान्तराकाङ्क्षां निराकरोति—न । पूर्वस्मादप्यसकृत्तत्सिद्धेरनेकजन्मपरम्पराऽऽयाससाध्ययोगजविज्ञानगोचरप्रयत्नाऽनुपपत्तेः । कुतश्चित्सिद्धस्य पुनः प्रमाणान्तरात्सिद्ध्यपेक्षाहेत्वभावाच्च । तदनुभवभावितभावनोद्बोधवशादेतद्विषयस्मृतिसन्तानसम्भवात् ।
शङ्कते—विचित्राऽभिसन्धित्वात् प्रमातृणामुपायान्तरसद्भावस्तस्मिन्प्रमेये विशेषणतया बुभुत्सिते चेत् । निराकरोति—तर्हि प्राप्ताऽप्राप्तविवेकेन उपायान्तराऽऽकाङ्क्षैव स्यात् न प्रमेयान्तराऽऽकाङ्क्षा । शङ्कते—
व्यर्थं प्रमाणान्तरम् । उपायान्तरसद्भावाच्च पुनर्जिज्ञासमानं दृष्टमपीतरैर्जिज्ञासेत, विशेषनिश्चयात्मकं प्रत्यक्षमनिश्चयात्मकमनुमानादिति व्यभिचारात् । अप्रमितत्वादेव तर्ह्याकाङ्क्षा । व्यभिचारिणोऽनिश्चयात्मकस्याऽप्रमाणत्वात् । भानादियोग्यं प्रत्यक्षं सन्निकर्षान्नाऽनुमानादि । सन्निकर्षसाधनं तर्हि गमनाद्यपेक्षतां न तु प्रमासाधनं, सिद्धत्वात्प्रमायाः प्रमिते च सन्निकर्षस्य भानादिहेतुत्वात् । प्रकृतं च प्रत्यक्षनसन्निकृष्टगोचरमिति न नैराकाङ्क्ष्यायाऽलमित्यविशेष एव लौकिकलोकोत्तरयोः प्रमात्रोः । अनुमानादेः सामान्यविषयत्वात्प्रत्यर्थनियतात्मविशेषाऽनवधारणात् साकाङ्क्षत्वं लौकिकस्य
प्रीतिविशेषश्चेत् । यथा हि श्वश्रूरेकेन गवाक्षेण वीक्ष्य जामातरमपरेण वीक्षते प्रीतिविशेषात् तथेदमपीत्यर्थः । निराकरोति—सुकरे पूर्वप्रमाणजादपि पुनर्द्दर्शनात्सिध्यतीति व्यर्थं प्रमाणान्तरम् । अत्यन्तदुष्करमपि चोपायान्तरसद्भावाच्च पुनर्जिज्ञासमानं प्रत्यक्षदृष्टमपीतरैरनुमानादिभिरयं विचित्राऽभिसन्धिः प्रतिपत्ता जिज्ञासेतेति न प्रत्यक्षपरा सर्वप्रमितिः । प्रत्यक्षपरत्वमिच्छता वाच्यो विशेषः प्रत्यक्षस्य मानान्तरेभ्यः । अथाऽयमुच्यते निश्चयात्मकं प्रत्यक्षं विशदत्वादनिश्चयात्मकमनुमानादि व्यभिचारदर्शनात् । तदिदमनुपपन्नम् । अनुमानादेरपि यथोक्तलक्षणोपपन्नस्य व्यभिचाराऽभावात् । आभासव्यभिचारस्तु330 प्रत्यक्षेऽपि तुल्य इत्यनभिधाय स्थूलनिराकराणान्तरमाह—अप्रमितत्वादेव331 तर्ह्याकाङ्क्षा । कुतः ? व्यभिचारिणोऽत एवाऽनिश्चयात्मकस्याऽप्रमाणत्वात् । शङ्कते—भानादियोग्यं प्रत्यक्षम् । कुतः ? सन्निकर्षाद्विषयस्य सन्निहितत्वात् असन्निधाने तदनुपपत्तेः । न पुनरेवमनुमानादि । तस्य देशकालविप्रकीर्णवस्तुगोचरत्वात् । निराकरोति—सन्निकर्षसाधनं तर्हि गमनाद्यपेक्षतां न तु प्रमासाधनम् प्रमाणम् । कुतः ? अनुमानादेरेव सिद्धत्वात्प्रमायाः । न च प्रमैव भानादिहेतुरित्याह—सन्निकर्षस्य प्रमाण332 मात्रसहायस्य भानादिहेतुत्वात् । अपि च प्रकृतं प्रत्यक्षं देशकालविप्रकीर्णवस्तुमात्रविषयमसन्निकृष्टवस्तुगोचरमिति न नैराकाङ्क्ष्यायाऽलमिति । तस्मादविशेषो लौकिकलोकोत्तरयोः प्रमात्रोः सर्वप्रमायाम् ।
पुनः शङ्कते—गृहीतसम्बन्धलिङ्गादिप्रभवतया333 विशेषे च सम्बन्धसंवेदनाऽनुपपत्तेः अनुमानादेः सामान्यविषयत्वात्प्रत्यर्थनियताऽनन्तविशेषाऽ
प्रमातुः । लौकिकोत्तरस्याऽपि कालरूपाऽवधारणान्नैराकाङ्क्ष्यमिति नाऽविशेषः । यदि तर्हि तौकिकं प्रमाणं विकलवस्तुविषयः लोकोत्तरमपि भावनामयं तत्परतन्त्रं न तद्गोचरयितुमर्हति । स्वातन्त्र्यं तु बहिर्म्मनसो नेत्यावेदितमेव । तस्मात्सर्वं मनसो विषया इति प्रलापः । अपि च—
मिथ्यैव वर्तमानाभं न तु प्रत्यक्षमन्यथा ।
क्रमाऽक्रमौ न कल्पेते न प्रमेयं निरूप्यते ॥
कालत्रयपरिवृत्त्यर्थगोचराणि मानान्तराणि वर्तमानविषयं प्रत्यक्षं तत्र वर्तमानात्मना पश्यतो मिथ्याज्ञानं, सर्वस्याऽतथाभावात् । यथार्थं तु पश्यतो न प्रत्यक्षम् । अतीताऽनागतविषयत्वाऽभावात् तस्य । अथ वाऽवश्यमनेन बहुविधस्य प्रत्यक्षस्यैकं लक्षणं वाच्यम् । अन्यथा प्रमाणान्तरत्वाऽभिधानम- नवधारणात् साकाङ्त्वं लौकिकस्य प्रमातुः । लोकोत्तरस्य त्वविकलरूपसर्वाऽवधारणादप्रमितस्य वस्तुनो ऽभावान्नैराकाङ्घ्यमिति नाऽविशेषः । दूषयति—यदि तर्हि लौकिकं प्रमाणं नाऽविकलवस्तुविषयं, लोकोत्तरमपि भावनामयं भवानया कृतं तत्परतन्त्रम्, भावना च विकलविषयलौकिकप्रमाणपरतन्त्रेति न तदविकलं गोचरयितुमर्हति । न च भावनाऽऽहितसंस्कारं मनो बहिः स्वतन्त्रं प्रवर्तत इत्याह—स्वातन्त्र्यं तु बहिर्मनसो नेत्यावेदितमेव । एतच्च बौद्धसर्वज्ञपरीक्षायां निपुणतरमुपपादितम् । प्रकृतमुपसंहरति— तस्मात्सर्वं मनसो विषय इति प्रलापः । अपि च ।
मिथ्यैव वर्तमानाभं न तु प्रत्यक्षमन्यथा ।
क्रमाऽक्रमौ न कल्पेते न प्रमेयं निरूप्यते ॥
यथा लोकप्रतीतिकालत्रयपरिवृत्त्यर्थविषयाणि मानान्तराण्यनुमानादीनि वर्तमानविषयं प्रत्यक्षं तत्र सर्वज्ञस्य प्रत्यक्षेण सर्वं वर्तमानात्मना पश्यतो मिथ्याज्ञानम् । कुतः ? सर्वस्याऽतीताऽनागतवर्त्तमानस्याऽतथाभावात् वर्तमानत्वाऽभावात् । यथार्थं तु पश्यतोऽतीतादित्वेन पश्यतो न तद्विषयं ज्ञानं प्रत्यक्षं स्यात् । अतीताऽनागतविषयत्वाऽभावात् तस्य प्रत्यक्षस्य । प्रत्यक्षता हि वर्तमानविषयतया व्याप्ता । वर्तमानविषयता चातीताऽनागतविषयाद्विज्ञानान्निवर्तमाना प्रत्यक्षत्वमपि निवर्तयतीत्यर्थः ।
न तु प्रत्यक्षमन्यथेत्यस्याऽन्या व्याख्या । अथ वा अवश्यमनेन बहुविधस्य प्रत्यक्षस्यैकं लक्षणं वक्तव्यम् अन्यथा यद्येकं लक्षणं नोच्येत तस्य प्रत्यक्षस्याऽपरिगृहीतस्यैकस्याऽनुमानादिभ्यः प्रमाणान्तरत्वाऽभिधानमप्रत्ययकारणकं स्यात् । यदि पुनरसालक्षण्येऽपि प्रत्यक्षमेकं प्रमाणमभ्युपेयेत ततः
प्रत्ययं प्रमाणान्तराऽभ्युपगमो वा परिभाषाप्रयोजनाऽभावात् । भिन्नलक्षणेष्वपि केषुचिल्लौकिकाः प्रत्यक्षशब्दं प्रयुञ्जते इति मिथ्यालोकोत्तरे तदयोगात् । तत्र नाऽक्षजत्वं लक्षणं मनसोऽतिव्याप्तेः । तस्मादिन्द्रियार्थसन्निकृष्टाऽर्थजत्वं तल्लक्षणम् । यथोक्तम् । “अर्थसामर्थ्येन समुद्भवादिन्द्रियाऽर्थसन्निकर्षोत्पन्नं सत्सम्प्रयोग इति” । मनसोऽक्षत्वे सुखादिज्ञानव्याप्तेः अर्थसामर्थ्यजत्वेन अनुमानादिव्यवच्छेदात् । न च सूक्ष्मविप्रकृष्टव्यवहितानां ज्ञानोत्पत्तौ सामर्थ्यमिति न सर्वविषयप्रत्यक्षस्योपपत्तिः । कल्पनाऽपोढत्वं
प्रमाणान्तराऽभ्युपगमो वा प्रत्ययः स्यात् । भिन्नलक्षणानामपि प्रत्यक्षत्वेऽनुमानादीनामपि प्रत्यक्षत्वप्रसङ्गात् न मानान्तराणि तान्यभ्युपेयेरन्नित्यर्थः । यदुच्येत भिन्नत्वाऽविशेषेऽपि द्रव्यगुणकर्म्मणामेवाऽर्थशब्दाऽभिधेयता परिभाषिता न सामान्यविशेषसमवायानाम् । एवं कासुचिदेव ज्ञानव्यक्तिषु प्रत्यक्षशब्दः परिभाषितो नाऽनुमानादिव्यक्तिष्वित्यत आह—परिभाषाप्रयोजनाऽभावात् । अप्रयोजनस्य परिभाषणेऽतिप्रसङ्गादित्यर्थः । भिन्नलक्षणेष्वपि केषुचिल्लौकिका वाचकमेव प्रत्यक्षशब्दं प्रयुज्जते । न खल्वेते पर्यनुयोज्याः । यथा जातित्रये अक्षशब्दमेकमित्यपि मिथ्या । कुतः ? लोकोत्तरे भवदभिमते लोकोत्तरत्वादेव तस्य लौकिकप्रयोगस्याऽयोगातं । तदवस्थितं प्रत्यक्षलक्षणमेकं वक्तव्यमिति ।
ननूच्यते अक्षजत्वं नाम प्रत्यक्षाणामेकं लक्षणं, तथा च सर्वज्ञज्ञानं मनोऽभिधानाऽक्षप्रभवमिति नाऽतिवर्तते प्रत्यक्षतामित्यत आह—तत्र नाऽक्षजत्वं लक्षणम् । कुतः ? तथा हि—मनोनामाऽक्षं न वा । तत्र मनसोऽक्षत्वेऽनुमानाद्यपि मनोजन्मैवेति तस्यापि प्रत्यक्षत्वं प्रसक्तमित्यतिव्याप्तेर्न लक्षणम् । अनक्षत्वे वा सुखादिज्ञानस्य बाह्येन्द्रियाऽजनितस्याऽप्रत्यक्षत्वप्रसक्तेरव्याप्तेः । तस्मादिन्द्रियाऽर्थसामर्थ्यजत्वमेव तत्प्रत्यक्षलक्षणमास्थेयं सर्वैरेव वादिभिः ॥
अत्रैव सर्वेषामनुमति दर्शयति—यथोक्तमर्थस्य सामर्थ्येन समुद्भवात् । अन्धादीनामनुपपत्तेरिन्द्रियस्येत्यपि शेषः । तथेन्द्रियार्थसन्निकर्षोत्पन्नं तथा सत्सम्प्रयोग इति । एवं च सति नाऽव्याप्तिः । मनसोऽक्षत्वे सति सुखादिज्ञानव्याप्तेर्नाऽतिव्याप्तिः । अर्थसामर्थ्यजत्वेनाऽनुमानादिव्यवच्छेदात् । नन्वेवमपि सर्वविषयं विज्ञानं कस्मान्न प्रत्यक्षम् ? इत्यत आह—न च सूक्ष्मविप्रकृष्टव्यवहितानामर्थानां विज्ञानोत्पत्तौ सामर्थ्यमिति न सर्वविषयप्रत्यक्षतोपपत्तिः ।
प्रत्यक्षलक्षणमिति चेत् । केयं कल्पना ? यदि शब्दाभासा प्रतीतिः, श्रौत्रं ज्ञानमप्रत्यक्षम् अथाऽभिलापसंसर्गयोग्यप्रतिभासा ।
शङ्कते—कल्पनापोढत्वं प्रत्यक्षलक्षणमिति चेत् । इदं खल्वनुमानादिभ्यो विकल्परूपेभ्यः प्रत्यक्षतां निवर्त्तयति व्यवस्यापयति च सुखादिषु ज्ञातरूपतया स्वसंवेदनसिद्धेष्वपोढेषु कल्पनायाः प्रत्यक्षत्वं, सङ्गृह्णाति च सर्वज्ञविज्ञानमखिलं कल्पनानिर्मुक्तमित्यर्थः ।
तदेतद्यथासम्भवं विकल्प्य दूषयति—केयं कल्पना यस्या अपोढत्वमुच्यते प्रत्यक्षत्वं ? यदि शब्दाऽऽभासा शब्दाऽऽकारप्रतीतिः श्रौत्रं ज्ञानं शब्दविषयं विशदाभमप्रत्यक्षं प्रसज्येत । अथाऽभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना ।
अयमर्थः । अभिलापसंसर्गयोग्यः प्रतिभास आकारो यस्याः प्रतीतेः सा कल्पना । एतदुक्तं भवति । स एवाऽभिलापसंसृष्टो334 भवति यत्राऽयमभिलापः कृतसङ्केतः । स एव च तथा यो देशकालाऽवस्थाऽनुगतः प्रतिभासते । न च वस्तुसतः स्वलक्षणस्याऽनुगतिः सम्भाविनी । न च जात्यादयो वस्तुसन्तः सम्भवन्ति । विचाराऽसहत्वात् । अत एव तद्वन्तोपि भेदा न तात्त्विकाः । तदभावे तद्वत्ताऽनुपपत्तेः । तस्मात् स्वाऽऽभासं वा अलीकं वा बाह्यं पश्यन्ति यादृशम् एको गोविकल्पः तादृशमेव गोविकल्पान्तरमपि । न च स्वविषयविकल्पान्तरविषयाद्भेदस्तेनैव335 गृह्यते नापि विकल्पान्तरेणेति भेदाऽग्रहादेको विकल्पविषयः । तदेकत्वाद्विकल्पानामप्येकत्वम् । तदेकविकल्पनिर्माणसामर्थ्याच्चाऽनुभवानामप्येकत्वम् । तदेकत्राऽतद्धेतूनां व्यक्तीनाप्येकता यथाऽऽह—
एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।
एकधीहेतुभादेन व्यक्तीनाप्यभिन्नता ॥ इति ।
तच्चाऽऽरोप्यमाणं336 रूपमन्यव्यावृत्तिस्वभावं भावाऽभावसाधारणत्वाच्चाऽत्यन्तविसदृशानां सादृश्याऽऽपादाकत्वाच्चाऽबाह्यसादृश्याच्च । तथा हि । यद्भावाऽभावसाधारणं रूपं तदन्यव्यावृत्तिनिष्ठमेव यथा मूर्त्तत्वादि । तथा च गवादि विकल्पविषय इति स्वभावहेतुः । साधारणं खल्वेतद्गोत्वादि भावाऽभावयोः, अस्ति गौर्नास्ति गौरिति विकल्पास्पदत्वात् । असाधारण्ये तदनुपपत्तेः विरोधपौनरुक्त्याभ्याम् । तथा यदत्यन्तविसदृशानां सादृश्य
सामान्याकारस्वसंवेदनेप्यप्रत्यक्षत्वम् । अथ वस्तुनि वस्त्वन्तरयोजना, सामान्याऽऽकारप्रतीतेः प्रत्यक्षत्वम् । सामान्यस्य वस्त्वन्तरस्याऽनभ्युपगमात् ।
मापादयति तदन्यव्यावृत्तिनिष्ठमेव, यथा वराहमहिषमातङ्गादीनामत्यन्तविसदृशानामक्रमेलकत्वम्337 । तथा च अत्यन्तविसदृशानां शाबलेयादिस्वस्वलक्षणानां गोत्वमिति स्वभावो हेतुः । तथा ज्ञानप्रतिभासस्य वा अलोकस्य वा बाह्येन वा परमार्थतो वाऽत्यन्ताऽसद्रूपेण सादृश्यमन्यव्यावृत्तिकृतमेव कल्पते नाऽन्यथा । अत एव ज्ञानाऽऽभासो वाऽलीकं वा गोत्वं प्रति विकल्पं विद्यमानं338 सदृशतयाऽनाकलितभेदमप्यश्वादि विकल्पविषयव्यावृत्तमेव बाह्यतयाऽऽरोप्यत इति नाऽन्यव्यावृत्तिरूपताऽस्य न प्रथते । न चाऽनिरूपितेनाऽगवा तद्व्यावृत्तिरूपगोनिरूपणाद् गोनिरूपणाऽधीनत्वाच्चाऽगोनिरूपणस्याऽन्योन्याश्रयमिति साम्प्रतम् । अन्यतरस्याऽन्यतः प्रसिद्धेः । गोरूपस्य विज्ञानाऽऽकारस्य वा अलीकस्य वाऽन्यतो व्यावृत्तिर्न पुनरस्य तदधीनं निरूपणम् । अन्यथा सामान्येऽपि पारमार्थिके दोषस्य साम्यात् । तस्मात् ज्ञानाकारो वा अलीकं वा बाह्यत्वेनाऽवसितं सङ्केतसम्भवाद्भवति शब्दसंसर्गयोग्यं तद्विषया व्युत्पन्नानां च प्रतीतिः कल्पनेति । तज्ज्ञानाकारवादिनां कल्पनां दूषयति—सामान्याकारस्वयंवेदनेऽप्यप्रत्यक्षम् ।
इदमभिसंहितम् । ज्ञानाऽतिरिक्तस्य वेदनाऽनुपपत्तेरन्यव्यावृत्तिरूपं सामान्यं ज्ञानाकार इति निरूपितं साऽऽकारवादिभिः । न च तद्बाह्यत्वं विकल्पस्य ग्राह्यमध्यवसेयं वा सम्भवतीति निवेदयिष्यते “न निरालम्बनं ज्ञान”मित्यत्रान्तरे । तत्पारिशेष्यात् ज्ञानाऽऽकारसामान्यस्य स्वसवेदनेऽपि विकल्पनीयतया स्यादप्रत्यक्षता प्रागेव ताद्बाह्यतायास्तस्या अग्राह्याया अनध्यवसेयाश्च सर्वथा विकल्पगोचरत्वादिति ।
सम्प्रति निराकारज्ञानवादिनां339 मतकाशङ्कते—अथ वस्त्वन्तरस्य रजतादेः पुरोवर्तिनि शुक्तिकादौ यो जनो रजतमिदमिति विज्ञानकल्पनां निराकरोति सा सामान्याऽऽकारा प्रतीतिः सामान्यमाक्रियते व्यज्यते यया प्रतिपत्त्या सा प्रत्यक्षं स्यात् कुतः ? सामान्यरूपस्य वस्त्वन्तरस्याऽनभ्युपगमात् । यथाह—
तस्यां यदूषमाभाति बाह्यमेकमिवाऽन्यतः ।
व्यावृत्तमिव निस्तत्त्वं परीक्षाभङ्गभावतः ॥ इति ।
अथाऽभिधानयोजना, अव्युत्पन्नाऽभिधानस्य तथा स्यात् ।
अथाऽरूपस्याऽऽरोपः कल्पनापोढं रूपमात्रवेदनं प्रत्यक्षम् । न तर्ह्यजाताऽतिवृत्तेषु योगिनोऽन्यस्य वा ज्ञानं प्रत्यक्षम् । ज्ञानप्रतिभासिनो रूपस्य तेष्वभावात् । भावे वा प्रत्युत्पन्नत्वाऽऽपातात् ।
शङ्कते—अथाऽभिधानयोजना । अभिधेये कल्पनां निराकरोति—
अव्युत्पन्नाऽभिधानस्य पुंसो याऽभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः शब्दयोजनारहिता सा तथा प्रत्यक्षं स्यात् । न चेष्यते । शङ्कते—अथाऽरूपस्याऽलीकस्याऽऽरोपो बाह्यत्वेन कल्पना । यथोक्तं भदन्तेन “बुद्ध्या कल्पितया विविक्तमपरैर्यद्रूपमुल्लिख्यते तद्बुद्धिर्न बहि”रिति । इयं च कल्पना व्युत्पन्नानामव्युत्पन्नानां च साधारणी । तेन तदपोढं रूपमात्रवेदनं प्रत्यक्षम् । तथा च नोक्तदोषप्रसङ्ग इति । निराकरोति—न तर्ह्यजाताऽतिवृत्तेषु योगिनोऽन्यस्य वा ज्ञानं प्रत्यक्षम् । कुतः ? ज्ञाने प्रतिभासिनो रूपस्य तेष्वजाताऽतिवृत्तेष्वभावात् । कस्मादभाव ? इत्यत आह—भावे वा प्रत्युत्पन्नत्वाऽऽपातात् ।
अयमभिसन्धिः । न खलु विकल्पानामलीकप्रकाशनेऽपि समानविषयत्वसम्भवः । प्रतिविकल्पमलीकस्याऽभेदात् । ननूक्तं भेदेऽप्यलीकानां यादृशमेको गोविकल्पः कल्पयत्यलीकं तादृशमेवाऽपर इति भेदाऽग्रहादलीकानां भेदा340 ऽवसाय इति । सत्यमुक्तमिदं त्वालोचनीयम् । किमलीकात्मनामस्ति तत्तिरोहितं स्वरूपं यदेषु प्रथमानेप्वपि न प्रथते, नास्ति वा ? न तावदवस्तुसतां कल्पनामात्राऽधीनमूर्तीनां कल्पनाऽनुपदर्शितरूपसम्भवः । तस्याऽकल्पितत्वेन वस्तुसतोऽलीकरूपत्वाऽनुपपत्तेः । तस्मादप्रथमानं नास्तीति वेदितव्यम् । यथा च नास्तितैव पारमार्थिको तेषाम् । अस्तिता पुनः कल्पनामात्रमापतेत् । ननु भेदांऽग्रहादभेदाऽध्यवसायो विकल्पविषयाणामित्यन्य एवैषां विषय आश्रयणीयः । यः शब्दः संसर्गयोग्यः स्यात् प्रतिविकल्पं त्वलीकानां भेदात्स्वलक्षणवदशक्यसमयतया अभिलापसंसर्गयोग्यत्वाऽभावेन विकल्पगोचरत्वाऽनुपपत्तेः । न चाऽभेदस्यापि सम्भवः । न खलु कल्पनामात्राऽधीनसत्त्वस्य तद्भेदात् एकत्वमुपपद्यते । तद्धि तस्यां तदिव तज्जन्मनि जातमिव तद्विनाशे विनाशि चेति कथं तद्भेदो न भिद्येत । भेदश्चेदशक्यसमयतयाऽभिलापसंसर्गयोग्यत्वाऽभावेनाऽलीकं तद्बाह्यभावात् स्वलक्षणवन्न विकल्पगोचर इति नाऽऽत्माकारो नाऽलीकं न तद्बाह्यता न स्वलक्षणं बुद्धे र्विषयः । सर्वेषामशक्यसमयतयाऽभिलापसंसर्गाऽनर्हत्वात् । न चाऽगोव्यावृत्तिरूपतयाऽलीकानामभेदः केषाञ्चिदिति साम्प्रतम् । तत्स्वभावत्वे तेषामन्योन्याश्रयदोषेण ग्रहणाऽभावप्रसङ्गात् । यथाहाऽत्रभवान्वार्त्तिककारः ।
सिद्धश्च गौरपोह्येत गोनिवृत्त्यात्मकश्च सः ।
तत्र गौरेव वक्तव्योऽन्यतायाः प्रतिषिध्यते ।
गव्यसिद्धे त्वगौर्नास्ति तदभावे न गौः कुतः ॥ इति ।
न चेयमन्यव्यावृत्तिरपि कल्पनानिर्मिता तद्भेदे भेदवती साधारणी भवितुमर्हति । अतएव च विधिरूपमपि विकल्पते गोत्वम् । यत्किल विजातीयमात्रव्यावृत्तं परमार्थसतः सजातीयाऽसजातीयव्यावृत्तात्स्वलक्षणात्341 भिन्नमप्यभेदेनाऽबसितम् । यथोक्तं “यथाऽभिनिवेशाऽऽयत्तत्वात् यथातत्त्वं च समीहितत्वा”दिति । तदपि न विकल्पास्पदम् । अस्यापि ज्ञानाऽऽकारस्याऽलीकस्य वा प्रतिविकल्पं भेदेन विकल्पनीयताऽनुपपत्तेः ।
यदि मन्येत यथैवासद् रूपं सदात्मना प्रथते तथैकत्वरहितमप्येकत्वेन प्रकाशते । न चैतावताऽस्य भेदः । तस्यापि वस्त्वधिष्ठानतया कल्पितेऽनुपपत्तेः । तस्मादेतद्गोत्वादि न भिन्नं नाप्यभिन्नम्, सम्भिन्नं तु बाह्यतया प्रकाशते । तथा च सिद्धाऽभिलापसंसर्गयोग्यताऽस्येति । तत्किं य एवैकस्य विकल्पस्य विषयः स एव विकल्पान्तरस्यापि ? ओमिति चेत् । तस्यापि विकल्पनाऽधीनदेहत्वात् । इदमेव हि कल्पितस्य कल्पनाऽधीनत्वं यत्कल्पनाभेदाऽभेदाद्यनुविधानं नाम । तदनधोनत्वे तु कल्पितत्वाऽनुपपत्तेरनलीकत्वप्रसङ्ग इत्युक्तम् । यच्चाऽलीकस्य न भाविके नाऽनलीकत्वे इति । तत्र सर्वप्रतीयमानाऽवस्थायां त्वापादयामः, न भिन्नकल्पनाऽनुशयि शक्यमेकत्वेन प्रतिपत्तुम् । तदनुपातित्वाऽनुपपत्तेः । कल्पनायां प्रथनान्तरेण तस्य तत्त्वाऽसम्भवात् ।
स्यादेतत् । कल्पनैव स्वहेतोस्तथाभूतोपजाता यया स्वविषयः केषुचिदेक इति केभ्यश्चिद्व्यावर्तत इव प्रदृश्यते । नन्वेवंविधोऽपि किं विकल्पान्तरविषयो न ? न चेत् नाऽभिलापसंसर्गयोग्यः । तस्याऽदृष्टपूर्वस्याऽशक्य342 समयत्वात् विकल्पान्तरविषयत्वे वा तदधीनत्वाऽनुपपत्तिरित्युक्तम् । अपि चाऽत्यन्ताऽसतो गोत्वादेः स्वभावभेदभाजो न प्रकाशसम्भवः । गगननलिननरविषाणादीनामपि नात्यन्ताऽसत्ता । ससर्गभेदमात्रस्याऽसत्त्वात् । संसर्गिणां तु गगनादीनां नलिनादीनां च तत्र तत्र सद्भावात् । संसर्गमात्रस्य च क्वचित्सद्भावात् तत्रापि च कथञ्चिदुपपत्तेः । अत्यन्ताऽसतां
आरोपितरूपाऽनुकारित्वात्तत्र कल्पनात्वप्राप्तेः । न ह्यविद्यमानरूपानुकारादन्यो ज्ञानस्याऽऽध्यारोपः । ननु निरधिष्ठान आरोपोऽतो वस्तुनोऽन्यरूपप्रतीतिः कल्पना । निरधिष्ठानं तर्हि तैमिरकस्य केशादिज्ञानं
संसर्गभेदानां सद्रूपसंसर्गिभेदाऽधीननिरूपणतया परस्परव्यावृत्तरूपाऽबभाससम्भवात् । इह तु स्वलक्षणज्ञानाऽधीननिरूपणानां गोत्वादीनां स्वलक्षणं, तद्विज्ञानव्यक्तीनामत्यन्तव्यावृत्तेः । भेदे सत्यभिन्नत्वाऽनवभासनात् अर्थक्रियायाश्चैकत्वाऽनुपपत्तेः । अतद्व्यावृत्तेश्च परस्तादाश्रयप्रसङ्गेनाऽनवकल्पनात् । न च कल्पितस्य गोत्वस्य विधिरूपस्याऽन्यव्यावृत्तिरूपस्य वा ऽभिलापसंसर्गयोग्यता । ननु परमार्थसत्सामान्याऽभिधानेऽपि भावाऽभावसाधारण्यं न कल्पते । तदाश्रयाणां व्यक्तीनां तल्लक्षितानां देशकालविप्रकीर्णतया शब्दार्थस्य भावाऽभावसाधारण्यसम्म्भवात् । न चाऽत्यन्तवैधर्म्यं व्यक्तीनां, येनाऽन्यव्यावृत्तिरेव साधर्म्यममूषामाश्रीयेत । सामान्यस्यैव वस्तुसत आश्रयभूताऽवसितस्य समानस्य धर्मस्योपपत्तेः । तद्वाधानिरासश्च निवेदयिष्यते संसर्गपरीक्षायाम् । तत्सिद्धमेतन्नाऽभिलापसंसर्गयोग्यता ज्ञानाऽऽकाराऽलीकबाह्यत्वयोरभिलापेनाऽशक्यसमयत्वात् । यदभिलापेनाऽशक्यसमयं न तत्तत्संसर्गयोग्यं, यथा सुखादीनामात्मेति । यथोक्तम्—
अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।
तेषामतः स्वसंवित्तिर्नाऽभिजल्पाऽनुषङ्गिणी ॥ इति ।
शक्यसमयतया खल्वभिलापसंसर्गयोग्यता व्याप्ता । अन्यथाऽतिप्रसङ्गात् । सा ज्ञानाऽऽकाराऽलीकबाह्यताभ्यां निवर्तमानाऽभिलापसंसर्गयोग्यतामपि निवर्त्तयतीति प्रतिबन्धसिद्धिः । तदिदं प्रसिद्धतरतया दूषणमनुद्भाव्य प्रकृतस्यापि सिद्धिरुद्भाविताऽऽचार्येण दूषणतयेति ।
नन्वारोपितरूपाऽनुकारिणी कल्पना । न चाऽतीताऽनागतेषु विज्ञानं योगिनस्तथेति न तत्कल्पनेत्यत आह—आरोपितरूपाऽनुकारित्वात् तत्राऽजाताऽतिवृत्तज्ञाने कल्पनात्वप्राप्तेः । नन्वारोपितरूपाऽनुकारित्वमेवाऽस्याऽसिद्धमित्यत आह—न ह्यविद्यमानरूपाऽनुकारादन्यो ज्ञानस्याऽध्यारोपः । न चेदं विद्यमानम् । उक्तं हि भावे वा प्रत्युत्पन्नत्वाऽऽपातादिति ।
चोदयति—ननु निरधिष्ठान आरोपः । यथोक्तम् “आरोपविषयारोपे वा ज्ञानं रजतभ्रम”मिति । ततः किम् ? इत्यत आह । अतो वस्तुनः स्वलक्षणस्य परमार्थसतोऽन्यरूपेण सामान्यरूपेण प्रतीतिः कल्पना । तथा च नाऽजाताऽतिवृत्तः साक्षात्कारो योगिनः कल्पना । न हि तत्राऽजाताऽतिवृत्ते सामान्यरूपतया चकास्त इति । अत्रैकदेशी परिहरति—निरधिष्ठानं तर्हि तैमिरि
प्रत्यक्षम् । अथ तत्र किञ्चिदधिष्ठानमुच्यते । खपुष्पमिति तु ज्ञानमकल्पना प्रत्यक्षं स्यात् । सामन्ये च सामान्याऽऽकारा प्रतीतिः स्वसंवित्ताविव तत्राऽनारोपरूपत्वात् । अथ रूपमात्रकल्पना, अतीताऽजातादिषु ज्ञानं न कल्पनापोढम् । अथ सामान्याकारप्रतीतिर्वस्तुनि कल्पना तत्प्रत्यक्षं सामान्ये तु भ्रान्तत्वात् ।
कस्य केशादिज्ञानं प्रत्यक्षं प्रसज्येत । चोदकमुत्थाप्य दूषयति—अथ तत्र किञ्चिदालोकांशाद्यधिष्ठानमुच्यते । परमार्थदूषणमाह—खपुष्पमिति तु ज्ञानमविकल्पना यतः प्रत्यक्षं स्यात् । न हि तत्र किञ्चिदधिष्ठानं सम्भवति । न खलु बौद्धानां मूर्ताऽभावादन्यदस्ति गगनं नाम । अभावश्च सर्वोपाख्याविरहलक्षणो नाऽधिष्ठानं कस्यचिदिति । अपि च सामान्ये सामान्याऽऽकारा प्रतीतिः प्रत्यक्षं स्यात् । नन्वियं ज्ञानाऽऽकारमलीकं वा बाह्यमध्यवस्यन्ती343 समानाऽऽरोप एवेति कथं न कल्पने ? त्यत आह—स्वसंवित्ताविव तत्र सामान्ये अनारोपरूपत्वात् । यथा हि विकल्पविज्ञानं विकल्पनीयप्रवणमपि स्वसंवित्तावकल्पना एवं सामान्यमलीकं वा ज्ञानाऽऽकारं बाह्यमध्यवस्यदेव कल्पना । न तद्रूपमात्रे नाऽऽरोपमपहाय तत्सामान्यरूपमात्राऽऽवेदनं कदाचिदपीति चेत् । अथ विकल्पनीयमपहाय संविद्रूपतावेदनमपि किं कदाचिद्विकल्पनीयं, समानसमयतया तु तद्वेदनं बाह्यसमारोपसमयसामान्यवेदनेऽपि समानं तत् । तस्मात् स्वसंवित्ताविव सामान्यरूपमात्रविकल्पतया344 प्रत्यक्षं प्रसज्येतेत्यर्थः ।
शङ्कते—अथाऽविद्यमानस्वरूपसामान्यादेः रूपमात्रकल्पनापि भवति कल्पना । न चैवं सति स्वसवितौ कल्पनात्वप्रसङ्गः । विकल्पविज्ञानस्वरूपस्य विद्यमानत्वादिति भावः । निराकरोति—अतीताऽजातादिविज्ञानं कल्पनापोढं तत्प्रतिभासिनो रूपस्य जात्यादेरिवाऽविद्यमानत्वात् ।
शङ्कते—अथ सामान्याऽऽकारा प्रतीतिर्वस्तुनि कल्पना समाऽऽरोपरूपत्वात् न प्रत्यक्षम् । अथ मा भूद्वस्तुनि, सामान्ये तु स्यादित्युक्तं, तत्राह— सामान्ये तु भ्रान्तत्वात् । असत्खल्वैतत्सामान्यं विचाराऽसहत्वात्345 । तत्तद्विषया प्रतीतिरसदर्थतया विभ्रमः । न खलु “प्रत्यक्षं कल्पनापोढमन्यनिर्दिष्टलक्षण”मिति प्रणयतो दिङ्नागस्यैव कल्पनापोढमात्रं प्रत्यक्षलक्षणमपि तु तदेवाऽभ्रान्तत्वसहितं प्रत्यक्षलक्षणमिति मन्यते स्म कीर्त्तिः346 । यथाह—“प्रत्यक्षं
का पुनिरयं भ्रान्तत्तां यद्यसदर्थता तुल्येयं सर्वज्ञवेदने347 अथाऽत्यन्ताऽसदर्थता, तैमिरिकस्वप्नादिज्ञानं प्रत्यक्षम् । अथार्थक्रियासंवादित्वमभ्रान्तत्वं, यद्यर्थनिबन्धनौ सुखदुःखप्राप्तिपरिहारौ उपादानपरित्यागाऽयोग्यवेदनस्य
कल्पनापोढमभ्रान्त”मिति । एतेनाभ्रान्तविशेषणोपादानेन विरधिष्ठाने केशादिज्ञाने भ्रान्तत्वमप्रत्यक्षतया347 व्याख्यातम् । तदेतद्विकल्प्य दूषयति—का पुनरियं भ्रान्तता ? यद्यसदर्थता तुल्येयं सर्वज्ञवेदने348 । अजाताऽतिवृत्तयोरसत्त्वात् । अथाऽत्यन्ताऽसदर्थता तैमिरिकस्वप्नादिज्ञानं प्रत्यक्षं प्रसज्येत । तस्याऽर्थस्याऽत्यन्तासत्त्वाऽभावात् । अथाऽर्थक्रियासंवादित्वमभ्रान्तत्वम् । यथाह—“प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिरविसंवादन”मिति, तद्विकल्प्य दूषयति—यद्यर्थनिबन्धनौ ज्ञानविषयनिबन्धनौ यथाक्रमं सुखदुःखप्राप्तिपरिहारौ अर्थक्रियासंवादित्वमिष्यते तत उपादानपरित्यागाऽयोग्यविषयं यद्वेदनं तस्य चन्द्रतारकारादिविषयस्य विज्ञानस्य भ्रान्तत्वप्रसङ्गः । अथोत्तरोत्तरज्ञाननिर्वृत्तिरेकस्मिन्नर्थे संवादः, स चास्ति चन्द्रतारकादिविषयस्यापि विज्ञानस्येति तदप्यभ्रान्तं प्रत्यक्षं चेति न व्यभिचारः । दूषयति—क्षणिक विषयस्य विज्ञानस्य भवतामस्माकमाशुतरविनाशिविद्युदादिविषयस्य विज्ञानस्य तथात्वं भ्रान्तत्वं प्रसज्येत । न हि तत्रैकस्मिन् विषये उत्तरोत्तरज्ञानोत्पत्तिसम्भवः ।
यदि मन्येत उपदर्शिताऽर्थप्रापणसामर्थ्यमेव प्रापकत्वमविसंवादकत्वं, प्रवर्तकत्वमेव च प्रापणसामर्थ्यमुपदर्शकत्वमेव प्रवर्तकत्वम् । न हि अर्थक्रियासमर्थवस्तूपदर्शनादन्यद् विज्ञानस्य प्रवर्तकत्वं प्रापकत्वं वा सम्भवति । न च देशकालाऽऽकारनियतं चन्द्रतारकाऽन्यसामर्थ्यमर्थक्रियासु स्वोचितासु च न तादृशमुपदर्शित विज्ञानेन । न च न तादृशं प्राप्येत यदि न देशतो विप्रकृष्येत विद्युदादि वा न कालत इति । तदयुक्तम् । विकल्पाऽसहत्वात् । किमर्थमात्रप्राप्तिः संवाद आहो यथोपदर्शिताऽर्थप्राप्ति ? न तावत्पूर्वः कल्पः । विज्ञानमात्रादर्थमात्रप्राप्तेरविसंवादसम्भवेन तन्मात्रस्याऽभ्रान्तत्वप्रसक्तेः । नाप्युत्तरः । साऽऽकारनिराकारविज्ञानयोर्विच्छिन्नस्थूलाऽवभासस्य प्रत्यक्षतया नियतस्याऽभ्रान्तत्वेन तत्त्वाऽनवकॢप्तेः । न खलु स्थौल्यं नाम परमार्थसद्विज्ञाने वा बाह्ये वा सम्भवति । अनेकविधविरुद्धधर्मसंसर्गाप्ततयोभयत्राप्यपास्तत्वात् । यथाह—
तस्मान्नाऽर्थे न विज्ञाने स्थूलाऽऽभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भवः ॥ इति ।
348 भ्रान्तत्वप्रसङ्गः । अथोत्तरोत्तरज्ञाननिर्वृत्तिः, क्षणिकविज्ञानस्य तथात्वम् । तस्मादतदात्मनि तादात्म्यप्रतीतिर्भ्रान्तिः । तथा च सर्वज्ञज्ञानं न कल्पनापोढमभ्रान्तमिति न प्रत्यक्षलक्षणमन्वेति । अवाऽनुभवाऽऽकारप्रवृत्तं ज्ञानमतोऽन्वेत्येव । यथोक्तं “मानसमप्यनुभवाकारप्रवृत्तं प्रत्यक्ष”मिति । अथ केयमनुभवाकारता ? यदि बोधात्मकता, सर्वं तथा ज्ञानम् । अथ व्यक्त्यन्तराऽवभासता, प्रथमोपनिपात्यपि दूरत्वादिनाऽव्यक्तपीतादिपरिच्छेदं न प्रत्यक्षं स्यात् । अथाऽदूरान्तराऽतिरोहितवेदना, सामान्यवेदनस्य प्रत्यक्षत्वप्रसङ्गः ।
न च निराकारविज्ञाननये बहवो रूपपरमाणवो निरन्तरोत्पादवन्तः समर्था एकविज्ञानोपारोहिणः स्थूलाऽऽभासभाजः । यथाह—“अप्रतिभासधर्मोऽस्ति स्थौल्य”मिति । प्रतिभासनकालधर्म्मः प्रतिभासधर्म्म इति । न च न ते रूपपरमाणवः, न च न निरन्तरमुत्पन्नाः, न च नैकविज्ञानोपारोहिणः, न च न तादृशस्थूलव्यपदेशभ्राज इति कस्मात् भ्रान्ततेति साम्प्रतम् ? नैरन्तर्याऽनुपपत्तेः । तद्ग्रहस्य भ्रान्तत्वापातादन्तरालाऽग्रहे नितान्तविच्छिन्नेषु तरुष्वेकघनवनप्रत्ययवत् । न हि न ते तरवः । न च नैकस्मिन्विज्ञाने भासन्ते । निरन्तराऽनुत्पादश्च तुल्यः । न खलु तरव इव रूपपरमाणवो निरन्तरमुत्पन्नाः, विजातीयैर्गन्धरसस्पर्शपरमाणुभिरन्तरितत्वात् तादृशस्यापि चाऽभ्रान्तत्वे द्विचन्द्राऽलातचक्रचलद्वृक्षादिदर्शनानामप्यभ्रान्तत्वप्रसङ्गः । तदियमभ्रान्तता भवत्स्वेव प्रहरतीत्युपेक्षिता आचार्येण ।
उपसंहरति—तस्मात्परिशेष्यादतदात्मनि तादात्म्यप्रतीतिर्भ्रान्तिः । भवत्वेतद् भ्रान्तिलक्षणं, तथापि का नः पीडे ? त्यत आह—तथा च भ्रान्तिकल्पनयोः समारोपरूपेणैक्ये सति सर्वज्ञज्ञानं न कल्पनापोढम् । अविद्यमानरूपयोरतीताऽनागतयोः रूपवत्वेनाऽऽरोपात् । तदवेदने प्रत्यक्षत्वाऽनुपपत्तेरसाक्षात्कारत्वप्रसङ्गात् । नाप्यभ्रान्तमरूपाऽऽरोपादेवेति न प्रत्यक्षलक्षमन्वेति ।
लक्षणान्तरं प्रत्यक्षस्य शङ्कते—अथाऽनुभवाऽऽकारप्रवृत्तं प्रत्यक्षम्, अतोऽन्वेत्येवाऽतीताऽनागतविषयं सर्वज्ञज्ञानम् । यथोक्तं “मानसमप्यनुभवाऽऽकारप्रवृत्त”मिति । तद्विकल्प्य दूषयति—केयमनुभवाकारता ? यदि बोधात्मकता ततः सर्वं तथाबोधात्मकं ज्ञानमिति सर्वमेव प्रत्यक्षं प्रसक्तम् । अथ व्यक्त्यन्तराऽवभासता प्रथमोपनिपात्यपि निर्विकल्पकं दूरत्वादिना दोषेणाऽव्यक्तपीतादिपरिच्छेदं न प्रत्यक्षं स्यात् । अथाऽदूरान्तरस्याऽतिरोहितस्य च वेदनाऽनुभवाऽऽकारप्रवृत्तिरस्ति चाऽव्यक्तपरिच्छेदस्याप्यदूरान्तराऽतिरो
यदि मन्येत सन्निहितवर्त्तमानाऽवभासाऽनुभवाऽऽकारप्रवृत्तिः, तथाभूतं च सर्वार्थेषु योगिनां तथागतानां च दर्शनमिति । तदसत् । पूर्वदोषाऽप्रतिवृत्तेः । अपि च तथाभूतेऽतथादर्शनाद् वर्तमानं मिथ्याज्ञानमेवः तैमिविकदर्शनवत् । न तु प्रत्यक्षमन्यया भवति, तदिन्द्रियार्थसामर्थ्य349 जन्यलक्षणमितरथा तिमिराद्युपप्लवजकेशादिदर्शनं कस्य हेतोरजाकीर्य्यत ? सर्वमेव प्रत्यक्षमसन्निहिताऽवभासम् । अर्थज्ञानयोः कार्य्यकारणभावेन कालभेदात् । किं तर्हीदं
हितगोचरत्वं दूरान्तरत्वेऽतिरोहितत्वे च350 तद्गोचरस्याऽवेदनाप्रसङ्गादिति दूषयति च । तद्गोसामान्यस्याऽवस्तुसतो न दूरान्तरत्वं नापि तिरोहितत्वम् । उभयोर्वस्तुधर्म्मत्वात् । ततस्तद्वेदनं प्रत्यक्षं स्यात् ।
यदि मन्येत सन्निहितवर्तमानाऽवभासा खल्वनुभवाकारप्रवृत्तिः । न च सामान्यमलीकं सन्निहितं च वर्त्तमानं च । तथाभूतं च सर्वार्थेषु योगिनां कतिपयभूमिसमारूढानां तथागतानां च दशभूमिगतानां च351 दर्शनमिति । दूषयति—तदसत् । कुतः ? पूर्वदोषाऽनतिवृत्तेः । यद्यपि सामान्यमपरमार्थकतयाऽसन्निहितमवर्त्तमानं च तथापि तथाऽवभासत इत्यनुभवाऽऽकारप्रवृत्त्या तत्प्रतिपत्तिः प्रत्यक्षं प्रसज्येतेति पूर्वदोषाऽऽपत्तिरित्यर्थः । अत्रैव कारिकायाः पूर्वार्द्धेन दूषणान्तरमाह—अपि च तथाभूते वर्तमानेऽतीतेऽनागते च तथाभूतदर्शनात् । तथाभूतत्वमाह—वर्तमानं मिथ्याज्ञानमेव, तैमिरिकदर्शनवत् । कस्मात्पुनर्न प्रत्यक्षम् ? इत्यत आह—न तु प्रत्यक्षमन्यथा भवति । कुतः ? तदिन्द्रियार्थसामर्थ्यजन्यलक्षणं प्रत्यक्षं यत्खलु तत्राऽर्थ्यमानं तस्य चेन्द्रियस्य च सामर्थ्याज्जायमानं प्रत्यक्षं विज्ञानमिति तस्य लक्षणं, न पुनरनुभवाऽऽकारप्रवृत्तिस्त्वदभिमता लक्षणमित्यर्थः । कस्मात्पुनरिदं न लक्षणम् ? इत्यत आह—अन्यथा हि तिमिराद्युपप्लवजकेशादिदर्शनं कस्य हेतोः प्रत्यक्षताया अवाऽकीर्यत ? न हि भवतामनुभवाऽऽकारप्रवृत्तित्वं प्रत्यक्षलक्षणमिच्छतां तैमिरिकज्ञानस्य प्रत्यक्षत्वमभिमतमित्यर्थः ।
सम्प्रति साऽऽकारज्ञानवादी प्रत्यवतिष्ठते—सर्वमेव प्रत्यक्षमसन्निहिताऽवभासं तत्सर्वत एव मा निवर्तिष्ट प्रत्यक्षतेति नाऽयमन्यथाग्रहोऽप्रत्यक्षतामावहतीत्यर्थः । कस्मादसन्निहिताऽवभासं सर्वज्ञानम् ? इत्यत आह— अर्थज्ञानयोः कार्यकारणभावेन कालभेदात् । यथासङ्ख्यमत्र नेष्यते । दूषणवादी तु गूढाऽभिसन्धि पृच्छति—किं तर्हीदं नीलादिसन्निहितदेशकालं352
प्रकाशते ? ज्ञानाऽऽकारम् । न हीदानीं सर्वैकदेशस्यापि प्रत्यक्षदर्शी । ज्ञानाकारेऽर्थे वेदनाऽध्यवसायेनैव व्यवहारदर्शनान्नाऽर्थदर्शनहानिः । कथमन्यवेदनेऽन्याऽध्यवसायः ? निरूढत्वादनादेरर्थग्रहाऽभिनिवेशाऽपस्मारलक्षणाया अविद्यायाः । स्वस्ति तर्हि सर्वज्ञत्वाय भूयिष्ठाऽविद्याऽपस्माराय, वरं कनीयोऽविद्यमेकदेशदर्शित्वमेव । अपि च परिभाषयापि तावदेकदेश एव प्रत्यक्षं स्यात् । ग्राह्यत्वं हेतुत्वमेव ज्ञानाकाराऽर्पणक्षममिति न पुनः सर्वः । तस्याऽहेतुत्वाद्देशतः कालतो वाऽसन्निधानात् । अन्यथा सर्वस्य सर्वदर्शित्व-
प्रकाशते ? चोदक आह—ज्ञानाकारम् । प्रष्टा सोपहासं स्वाऽभिप्रायमाविष्करोति—न हीदानीं सर्वैकदेशस्याप्यर्थरूपस्य प्रत्यक्षदर्शी विद्यत इति । साधु समर्थितः सर्वार्थप्रत्यक्षदर्शी चोदयति—ज्ञानाकारेऽर्थवेदनाऽध्यवसायेनैव व्यवहारान्नाऽर्थदर्शनहानिः । द्विविधो हि विषयः प्रमाणानां ग्राह्यश्चाऽध्यवसेयश्च । तत्र स्वाऽऽकारो ग्राह्यः । तस्य तु बाह्यत्वमध्यवसेयम् । यथाह— “स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन353 प्रवृत्ति”रिति । न ह्यस्मिन्दर्शने प्रकारान्तरेण ग्रहणमुपपद्यते । तेन ज्ञानाऽऽकारस्य बाह्यत्वेनाऽध्यवसाय एव सर्ववेदनम् । न चैतावता भ्रान्तः । न खलु चित्तेन ग्रहणव्यापारेण गृह्णन् भ्रान्तो भवति कदाचिदन्यथा गृह्णन् कदाचिदुचितादुपायात् उपायान्तरेणाऽऽभिमुख्येन प्रवृत्तो भ्रान्तः । न त्वेतदुभयमपि सर्वविदि समस्तीति कथं भ्रान्तः ? दूषयति—कथमन्यवेदने स्वाऽऽकारवेदने अन्यवेदनस्य बाह्यवेदनस्याऽध्यवसायः ? चोदक आह—निरूढत्वादनादेरर्थग्रहाऽभिनिवेशाऽपस्मारलक्षणाया अविद्यायाः । सोपहासं दूषयति—स्वस्ति तर्हि सर्वज्ञत्वाय भूयिष्ठाऽविद्याऽपस्माराय, वरं कनीयोऽविद्यमेकदेशदर्शित्वमेव । न हि स्वाऽऽकारमनर्थमप्यध्यवस्यन्ननन्योपायतयाऽपि भवत्यभ्रान्तः । न च भ्रान्तत्वं न्यायसिद्धं समस्तप्रत्यक्षभ्रान्तत्वप्रसङ्गभिया शक्यमपह्नोतुं, प्रमाणसिद्धस्य प्रयोजननिरोधेनाऽशक्यनिह्नवत्वादिति भावः । अध्यवसायकर्त्वनिराकरणं च दर्शयिष्यते “न निरालम्बनं ज्ञान”मित्यत्र । अपि च परिभाषयाऽपि तावदेकदेश एव प्रत्यक्षं स्यात् । परिभाषामाह—ग्राह्यत्वं हेतुत्वमेव ज्ञानाऽऽकारार्पणक्षममिति । यथाह सौत्रान्तिकनये ।
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव तद् युक्तं ज्ञानाऽऽकाराऽर्पणक्षणम् ॥ इति ।
तच्चेतद्ग्राह्यत्वमलौकिकतया पारिभाषिकम् । तेन चैकदेश एव प्रत्यक्षो न पुनः सर्वः । कुतः ? तस्य सर्वस्याऽहेतुत्वात् । तदेव कुतः ?
प्रसङ्गात् । अथवा प्रत्युत्पन्नाकारमेव ज्ञानमतीताऽनागताऽऽकारमपि वा । पूर्वत्र सर्वस्याऽतथाभावान्मिथ्या । उत्तरत्राऽनीतादिरूपकल्पनाप्रवृत्तत्वान्न प्रत्यक्षम् । सर्वं वा ज्ञानकाले प्रत्युत्पन्नात्मना ज्ञायेत, तथावस्थं वा । पूर्वस्मिन्मिथ्यात्वम् । उत्तरत्र न सर्वं प्रत्यक्षमदस्थान्तराऽप्रत्यक्षीकरणात् । अपि च सर्वं न क्रमेण शक्याऽवगममानन्त्यात् । न हि पूर्वाऽपरकोटिविर-
देशतः कालतो वा तस्याऽसन्निधानात् । अतो हि ते भावने ये देशतः कालतो वा विप्रकृष्येते न तु तथा सर्वमित्यर्थः । अथाऽसन्निहितः कस्मान्न हेतुः ? इत्यत आह—अन्यथा सन्निधिविरहिणोऽपि हेतुत्वे सर्वस्याऽस्मदादेरपि सर्वदर्शित्वप्रसङ्गः । योगस्य च सामर्थ्यमत्र निरस्तमेव यथा पूर्वार्द्धे ।
अस्याऽन्या व्याख्या । अथ वा प्रत्युत्पन्नाऽऽकारं वर्तमानाऽऽकारमेव वा सर्वस्मिंस्त्रैकाल्यभाजि वस्तुविस्तारे विज्ञानमतीताऽनागताकारमपि वा । तत्र पूर्वस्मिन् कल्पे सर्वस्याऽतथाभावान्मिथ्या सर्वज्ञविज्ञानं स्यात् । उत्तरत्र त्वतीताऽनागतादिरूपकल्पनाप्रतीतत्वान्न354 प्रत्यक्षम् । कल्पनारहितस्य तत्त्वात् । न तावदतीताऽनागते रूपमात्रेण प्रमेये निर्विकल्पकप्रमेयस्य रूपमात्रस्य तयोर्वर्त्तमानादविशेषात् । न हि वर्तमानमपि वर्तमानताविशिष्टं निर्विकल्पके प्रथते, अपि तु रूपमात्रेण । तस्मादतीतत्वादिना विशिष्टत्वमनयोर्ज्ञातव्यम् । तथा च कल्पनात्वं विशेषणविशेष्यभावेन ग्रहणमेव हि तत्त्वं कल्पनानाम् । तथैवाऽभिलापसंसर्गाऽर्हत्वात् । न तु शब्दाऽर्थयोरेकविज्ञानोपारोहे, निर्विकल्पकेऽपि तथा सम्भवात् । तस्मादतीतादिविशिष्टालम्बनस्य ज्ञानस्य कल्पनात्वादप्रत्यक्षतेत्युपपन्नम् ।
यस्तु मन्यते अस्तु वर्त्तमानविषयमेव प्रत्यक्षं, तथापि सर्वविषयमतीताऽनागतयोरप्यतीताऽनागतत्वाभ्यां वर्तमानत्वादिति तन्निरासायाऽस्यैव व्याख्यान्तरमाह—सर्वं वा ज्ञानकाले प्रत्युपन्नात्मना ज्ञायेत तथाऽवस्थं वा । यो यदवस्थः स तथेत्यर्थः । तत्र पूर्वस्मिन्मिथ्यात्वम्, अन्यावस्थस्याऽन्यथाग्रहणात् । उत्तरत्र न सर्वं प्रत्यक्षम् । कुतः ? अवस्थान्तराऽप्रत्यक्षीकरणात् । एतदुक्तं भवति । यस्तुज्ञानकालेऽतीतः355 प्रत्युत्पन्नोऽनागतो वा स तथैव प्रत्यक्षीकर्त्तव्यः । स च स्वज्ञानकालेऽतीत आसीदनागतो वर्तमानश्च तथा स्वज्ञानकाले वर्त्तमानोऽभूदनागतः भविता चाऽतीतः । एवं स्वहीनकालेऽनागतस्य भवितारौ वर्त्तमानत्वाऽतीतत्वे इति स्वज्ञानसमयवत्यंवस्थाभेदवद्वस्तुग्रहणेऽवस्थान्तरमस्यामगृहीतमिति न सर्वज्ञः स्यात् ।
हिणो ज्ञेयस्योत्पादवतः परिनिष्ठाऽस्ति । न यौगपद्येन, आनन्त्यादेव । इयत्ताऽनवधारणे सर्वैकदेशप्रतिपत्त्योरविशेषात् । नन्वनवधारयन्नपीयत्तां रूपतो यौगपद्येन सर्वमवैति । नैतत्सारम् । न हीयताऽभवधारणे सर्वमवधारितं भवत्येकदेशो वा । अन्यतराऽव्यवच्छेदात् । बहुद्रव्यसमवाये इयत्तावधारणादेव सर्वप्रतिपत्तिः, सा च परिमिते सम्भवति नाऽपरिमिते । ज्ञानाऽऽकाराऽधीनश्च ज्ञेयाऽधिगमः । न चैकविज्ञानवर्त्तिनामाकाराणां युगपद्भुवामा-
पश्चार्द्ध विवृणोति—अपि च । सर्व न तावत्क्रमेण शक्याऽवगमम् । कस्मात् ? आनन्त्यात् । तदेव दर्शयति—न हि पूर्वाऽपरकोटिविरहिणो ज्ञेयस्योत्पादवतः परिनिष्ठाऽस्ति । नित्यस्यापि तावत्परमाण्वादेर्व्यवस्थितरूपस्यापि नेयत्ता किमङ्ग पुनरव्यवस्थितरूपस्योत्पादवत् इत्यर्थः । न यौगपद्येन । कुतः ? पूर्वोक्तादानन्त्यादेव इयत्ताऽबवधारणात् । साकल्यवचनो ह्यं सर्वशब्दः, साकल्यं चेयत्तानिःशेषतायामापतेत्, सा चेन्नाऽवधारिता नाऽवधारितं सर्वमित्यर्थः । अथेयत्ताऽवधारणाऽधीनं सर्वाऽवधारणमित्येतदेव कुत ? इत्यत आह—तदियत्ताऽनवधारणे सर्वैकदेशपतिपत्त्योरविशेषात् । एतदुक्तं भवति । बहूनामेकदेशप्रत्तिपत्तौ हि न सर्वप्रतिपत्तिरिति लोकप्रसिद्धं ब्रवन्ति वक्तारः, एकदेशमेषां जानीमो न सर्वमिति । यदि रूपमात्रमेव सर्वं भवेत् ततस्तस्योभयत्राऽविशेषात् सर्वैकदेशप्रतिपत्त्योरभेदप्रसङ्ग इति ।
चोदयति—नन्वनवधारयन्नपीयत्तां रूपतो यौगपद्येन सर्वमवैति । अनियतमेव च सर्वमिति कथं तदपरिमाणरूपाऽवधारणे सम्भवतीयत्ता प्रमेयस्याऽपराध्यते । यदनियतं न पुनस्तद्विषयं विज्ञानं तस्य यथाप्रमेयमवस्थानात्, अनवस्थाने वा प्रामाण्याऽनुपपत्तेरित्यर्थः । निराकरोति— नैतत्सारम् । न हीयत्ताऽनवधारणे सर्वमवधारितमेकदेशो वा । कस्मात् ? अन्यतरस्यैकदेशस्य परिमितरूपमात्राऽग्रहणे अव्यवच्छेदात् । अन्यतराऽव्यवच्छेदेन चाऽन्यतरप्रतिपत्तेः । व्यतिरेकं दर्शयित्वाऽन्वयमाह—बहुद्रव्यसमवाये इयत्ताऽवधारणादेव सर्वप्रतिपत्तिः नैकस्मिन्नसम्बद्धेषु वा परस्परं बहुष्वपि सर्वत्वमेकदेशत्वं वा सम्भवतीति बहुद्रव्यसमवाय इयुक्तम् । सा चेयत्तानिःशेषता परिमिते सम्भवति नाऽपरिमिते, तत्सिद्धमानन्त्यादनिःशेषता । तथा च न सर्वाऽवभासकृत् । सर्वग्रहणमेव यौगपद्यग्रहणमिति तस्याप्यभाव इति । इतश्च नाऽनन्तस्य सर्वस्य युगपद्ग्रहो यत्सौत्रान्तिकनये ज्ञानाकाराऽधीनश्च ज्ञेयाऽधिगमः । न चैकविज्ञानवर्त्तिनामाकारणां युगपद्भुवामानन्त्यं समस्ति । कुतः सर्वेषां प्रत्युपन्नत्वात् ।
नन्त्यं समस्ति । सर्वेषां प्रत्युत्पन्नत्वात् । अव्यवच्छिन्नदेशकाला ह्यजाताऽतिवृत्तप्रत्युत्पन्ना अनन्ताः सहाऽपेक्षमाणा अनीताश्च, पूर्वकाचकोटेः अनवच्छेदात्, अवच्छेदेऽपि पुरस्तात् । प्रत्युत्पन्नास्तूभयक्रोटिव्यवच्छिन्ना यावन्त उत्पन्नास्तावन्त एवेति कथमानन्त्यम् ? अतो नाऽनन्ताऽऽकारमेकं ज्ञानमनन्तानि वा युगवद् ज्ञानानि । किं चेदं सर्वं यद्विद्वान् सर्ववित् ? न तावत्प्रत्येकमर्थाः, नाप्यन्यसहिताः केनचित्सामान्येन वशीकृताः कियन्तोऽपि । न चेत्थम्भावोऽनन्तेषु सम्भवति । मुख्यमनन्तमेव सर्वमिति चेत् । न । अन्यतर-
अथ प्रत्युत्पन्नानामपि कस्मान्नानन्तयम् ? इत्यत आह—अव्यवच्छिन्नदेशकाला ह्यजाताऽतिवृत्तप्रत्युत्पन्ना अनन्ताः । ननु प्रत्येकं भावानां नात्मावच्छिन्नदेशकालत्वमपोत्यत आह—सहाऽपेक्षमाणाः समुच्चीयमानाः न केवलं त्रयः, किं तु अतीताश्चाऽनन्ताः । नन्वेकयैव कालकलया तस्याः पुरस्तात्तनाः सर्वे एवाऽतीताऽवच्छिन्ना इति कथमतीता अनन्ता ? इत्यत आह—पूर्वकालकोटेरनवच्छेदात् अवच्छेदेऽपि पुरस्तात् । न चेयं विधा एकाऽनेकविज्ञानोपारोहिणामाकाराणामस्ति, येनाऽऽनन्त्यमेव तेषां भवेदित्याह—प्रत्युत्पन्नास्तूभयक टिव्यवच्छिन्ना यावन्त उत्पन्नास्तावन्त एवेति कथमानन्त्यम् ? उपसंहरति—अतो नाऽनन्ताकारमेकं ज्ञानमनन्तानि वा युगपत् ज्ञानानि, उभयत्राप्युभयकोटिव्यवच्छेदात् ।
न प्रमेयं निरूप्यते इति कारिकार्द्धार्थं विवृणोति—किं चेदं सर्व यद्विद्वान् सर्ववित् ? न तावत्प्रत्येकमर्थाः प्रत्येकमन्यनिरपेक्षेषु सर्वशब्दाऽप्रयोगात् । नाप्यसम्बद्धाऽन्यसहिताः । मा भूदेकस्मिन्नपि देवदत्तपुत्रे यं कं चिदन्यमपेक्ष्य सर्वशब्दप्रयोगः, अपि तु केनचित्सामान्येन वशीकृताः कियन्तोऽपि । यथा सर्वे ब्राह्मणाः सर्वे गाव इति । भवत्वेवं को दोषः ? अत आह—न चेत्थम्भावोऽनन्तेषु सम्भवति ।
शङ्कते—मुख्यमनन्तमेव सर्वमितिं चेत । तथा हि । प्रकरणादावसति नियामके अयं कथमसङ्कुचितवृत्तिः सर्वशब्दोऽनन्तेषु वर्तत इत्यनन्त एवास्य मुख्योऽर्थ इत्यर्थः । निराकरोति—नाऽन्यतरकालकोटिभाजामतीतानामनागतानां वाऽऽनन्त्येऽप्यतीतया तावत्यैवैकयाऽप्युपहितानामसर्वत्वात् । पूर्वाऽपराऽव्यवच्छिन्नानां च प्रत्युत्पन्नानां प्रत्युत्पन्नतोपहितानां सर्वत्वात् । अपि चाऽऽनन्त्यमेव सर्वत्वे तदवधारणं न सम्भवति । तथा हि । सर्वा व्यक्तयोऽवधारिता न वा ? अवधृताश्चेत् तावत्य एव नाऽनन्ताः । अनवधारणे ह्यनन्तता तासाम् । तथा चाऽनवधारणेत्याह—अनवधारणं चाऽनन्तमिति कथम् ? तस्य सर्वस्याऽवधारणात् । न चाऽनवधार्यमाणं प्रमेयमिति भावः ।
कालकोटिभाजामानन्येऽप्यसर्वत्वात् पूर्वाऽपराऽव्यवच्छिमानां च सर्वत्वात् । अपि चानत्यमेव सर्वत्वे तदवधारणं न सम्भवति । तथा हि । सर्वा व्यक्तयोऽवधारिताश्चेत्तावत्य एव नाऽनन्ताः । भनवधारणे ह्यनन्तत्वं तासां तदनवधारणं चाऽनन्तपिति कथं तदवधारणम् ? कालत्रयाऽवच्छिन्नास्तर्ह्यर्थाः सर्वे, न, तेष्ववच्छेदाऽभावादेकदेशाऽविशेषात् । तस्मात्क्रमाऽक्रमाऽतिरिच्यमानविधाऽभावात्ताभ्यां व्याप्तेर्ज्ञानस्य तदनुपत्तावनुपपत्तिः । प्रमेयाऽभावाच्च । प्रत्यक्षपूर्वत्वाच्चाऽनुमानादीनामपि सर्वस्मिन्न कारणत्वम् । प्रत्यक्षेण साक्षात्पारम्पर्येण वा सम्बन्धग्रहणाऽभावान्नाऽनुमानम् । न शब्दोऽत एव । पदार्थान्तरोपहितविशेषपदार्थस्येव वाक्यार्थत्वात् । नाऽऽर्थापत्तिः । तदभावेऽनवकल्पमानदर्शनाऽनुपपत्तेः । नोपमानम् । सादृश्यविषयत्वात् ।
शङ्कते—कालत्रयाऽवच्छिन्नास्तर्ह्यर्थाः सर्वे । वयमनन्ततामेव सर्वतां ब्रूमः, किं त्वेकेनैव कालेनोपाधिवशलब्धाऽतीताद्यर्थव्यवस्थाभेदेनाऽवच्छिन्नाऽभावात्सर्वमित्यर्थः । निराकरोति—न तेष्ववच्छेदाऽभावात् । हेतोरेकदेशाऽविशेषात् सर्वप्रतिपत्तेरनुपपत्तेः । न ह्येकेनोपसङ्गृहीता इत्येतावन्तः किं तु एतावता । न च यावदयमेको दोषग्रहणाऽनवच्छिन्नो नित्यः कालोऽन्तवानिति कथं तदवच्छिन्नोप्येतावान् । न चाऽतीताऽनागतप्रत्युत्पन्नत्वान्यप्यस्य समुच्चितान्यन्तवन्तीत्यर्थः । कारिकायाः पश्चार्धं प्रमाणयन्नुपसंहरति— तस्मात् क्रमाऽक्रमाऽतिरिच्यमानविधाऽभावाद्धेतोस्ताभ्यां व्याप्तेः ज्ञानस्य तदनुपपत्तावनुपपत्तिः । प्रमेयाऽभावाच्च प्रमेयं च न निरूप्यते । प्रमेयाऽनिरूपणादेव च सर्वग्रहणसामर्त्थ्यमात्रेण सर्वज्ञता प्रत्युक्ता वेदितव्या । ननु मा नाम सर्व प्रत्यक्षेण ज्ञासीत्, अनुमानादिभिस्तु ज्ञास्यतीत्यत्राह—प्रत्यक्षपूर्वकत्वाच्चाऽनुमानादीनामपि सर्वस्मिन् अकारणत्वम् प्रमाणत्वम् ।
प्रत्यक्षपूर्वकत्वं प्रमाणानां प्रत्येकमादर्शयति—प्रत्यक्षेण साक्षात्पारम्पर्येण वा सम्बन्धस्य पक्षधर्मतानियमलक्षणस्याऽग्रहणं हेतुस्तस्य च सर्वस्मिन्नभावन्नाऽनुमानम् । न शब्दोऽत एव प्रत्यक्षेण सम्बन्धग्रहणलब्धजन्मत्वात् । नन्वगृहीतसम्बन्धं सर्व मा भूत्पदार्थो वाक्यार्थस्तु भविष्यतीत्यत आह—पदार्थान्तरोपहितविशेषस्य पदार्थस्यैव वाक्यार्थत्वात् । कृतोपपादनमेतन्नियोगपरीक्षायाम् । नाऽर्थापत्तिः । कुतः ? तस्य सर्वस्याऽभावेऽनवकल्पमानस्याऽघटमानस्य कस्यचित् दर्शनाऽनुपपत्तेः । नोपमानम् । दृष्टस्य356 स्मृत्यारूढस्य गवादेर्दृश्यमानेन गवयादिनोपमेयत्वात् । सर्वस्य क्वचिददर्शनात् । सादृश्यविषयत्वाच्च । सर्वस्य चाऽसादृश्यरूपत्वात् । न प्रमाणाऽभावस्तस्य प्रमेयाऽभाव
नाऽभावः । अभावविषयत्वात् । प्रत्यक्षस्येव चेतरेषामपि प्रमाणानां क्रमाऽक्रमौ न कल्पेते प्रमेयं न च निरूप्यते । एवं तावदनुपपत्तिः । ज्ञानमपि ।
सर्वादृशामन्यवित्तमिन्द्रियाणां न गोचरः ।
अत एव न सर्वज्ञज्ञानकार्य्यं प्रसिद्ध्यति ॥
न तावदनतीन्द्रियदृशः सदपि परवर्ति संवेदनं प्रत्यक्षम् । अत एव नाऽनुमेयम् । तदसिद्धौ तत्कार्याऽसिद्धेः । नन्वतिशयानां काष्ठाप्राप्तिः विषयत्वात् । सर्वस्य च सदसद्रूपतया तदनुपपत्तेः । प्रत्यक्षस्येव चेतरेषामपि प्रमाणानां क्रमाऽक्रमौ न कल्पेते न घटेते । प्रमेयं च न निरूप्यते ।
एवं तावदनुपपत्तिप्रमाणादारु परिशोधितम् । ज्ञानमपि परिशोध्यते । तथा हि—
सर्वादृशामन्यवित्तमिन्द्रियाणां न गोचरः ।
अत एव न सर्वज्ञज्ञानकार्यं प्रसिद्ध्यति ॥
न तावदनतीन्द्रियदृशोऽस्मदादेः सदपि परवर्त्ति सर्वसंवेदनं प्रत्यक्षगम्यम् । ननु यथा जातमात्रस्य बालस्य स्मितरुदितादिकार्यदर्शनादप्रत्यक्षा अपि हर्षविषादादयः प्राग्भवीयश्चाऽनुभवोऽनुमीयते तथोपदेशादिलक्षणकार्यदर्शनात्परवृत्तिसर्वविषयं विज्ञानमनुमास्यत इत्यत आह—अत एव चात्यन्ताऽप्रत्यक्षत्वादेव नाऽनुमेयम् । ननूक्तं कार्यदर्शनादनुमेयमित्यत आह— तत्सर्वज्ञज्ञानाऽसिद्धौ प्रत्यक्षेण तत्कार्याऽसिद्धेः । न जात्वपरिदृष्टधूमकेतनो धूमं तत्कार्यमवैति । स्मितरुदितादयस्तु मानसप्रत्यक्षसमधिगमनीयशोकादिकार्यतया स्वात्मनि प्रतीता इति वैषम्यम् । उपदेशस्तु मन्वादीनां चरकादीनां वा वेदात् उपदेशान्तरप्रभवप्रवृत्तिप्रसूतादन्वयव्यतिरेकाऽवगमाद्वा । न च वैद्यचरकोपदेशानामादिरस्ति357 । न खलु सर्वासामौषधीनां तत्संयोगानां च सहस्रेणापि पुरुषायुषैरागमा358नधीनः359 शक्तः कर्तुं कश्चिदन्वयव्यतिरेकौ । चैत्यवन्दनाद्युपदेशस्तु व्यामोहाद्विप्रलम्भाद्वेति निरवद्यम् । परोक्तास्तु हेतवोऽधस्तादेव निरस्ता इति नाऽत्र तिरोहितमिव किञ्चित् ।
सम्प्रति स्वायम्भुवाऽभिमतं सार्वज्ञं निरसितुमुपन्यस्यति—ननु साऽतिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा, तद्यथा कुवलाऽऽमलकबिल्वेषु महत्त्वस्य साऽतिशयस्याऽऽकाशे काष्ठाप्राप्तिः । यत आकाशं परममहद्भ
परिमाणानामुपलब्धा, साऽतिशयं च ज्ञानम्, अतः क्वचित्काष्ठाप्राप्तं सर्वविषयमिति । उच्यते—
काष्ठा यद्यवधिः कामं परं यस्मादसम्भवि ।
कार्य्यद्रव्यैरनेकान्तो गुणैश्च गरिमादिभिः ॥
यदि यतः परं नास्ति सा काष्ठा, भवतु तत्प्राप्तिः । न च तया सर्वविषयत्वसिद्धिः । भूयिष्ठविषयत्वं तु भवेत् । पार्थिवस्येव गोलकस्य पार्थिवान्तराऽपेक्षं बहुतराऽऽकाशाऽवकाशव्यापित्वं न सर्वव्यापिता । अथ यतः परं न सम्भाव्यते, कार्य्यद्रव्यैर्व्यभिचारः । न हि साऽतिशया अपि घटादयः परिमाणतः पराऽसम्भवनीयाऽतिशायिनः । अन्याऽनवकाशप्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणधर्म्मोऽयमिति साम्प्रतम् । तद्गतानां गरिमादीनां360 वति । साऽतिशयं चेदं विज्ञानमुपलभ्यते । तत्तदेकद्विबहुविषयादिव्याप्त्या तदिदमपि क्वचित्काष्ठाप्राप्तं युक्तम् । इयमेव चाऽस्य काष्ठाऽऽप्तिः यद्विदितसमस्तवेदितव्यस्य तदभावेऽव्यवस्थानमिति । यथाह भगवान् पतञ्जलिः “तत्र निरतिशयं सर्वज्ञविज्ञानमि”ति । अत्रोत्तरमाह । उच्यते—
काष्ठा यद्यवधिः कामं परं यस्मादसम्भवि ।
कार्यद्रव्यैरनेकान्तो गुणैश्च गरिमादिभिः ॥
तामिमां काष्ठां विकल्प्य दूषयति—यदि यतः परं नास्ति स काष्ठा, भवतु तत्प्राप्तिर्न तया सर्वविषयत्वसिद्धिः । सर्वमेव विज्ञानं स्वहेतुसमासादितजन्मभेदं स्वगोचराऽवधि नाऽतिवर्त्तते इत्यत्र न विप्रतिपद्यामहे । नो खल्वेतावता सर्वविषयविज्ञानसिद्धिरित्यर्थः । भूयिष्ठविषयत्वं तु भवेत् प्राज्ञानां षट्प्रमाणीनिपुणानां विज्ञानस्य पार्थिवस्येव गोलकस्य सकलजीवलोकाऽधिष्ठानस्य गण्डशैलशिलादिपार्थिवान्तराऽपेक्षं बहुतराऽऽकाशाऽवकाशव्यापित्वं, न पुनः सर्वव्यापिता ।
कल्पान्तरमाशङ्कते—अथ यतः परं न सम्भाव्यते सा काष्ठा, यथा व्योम्नः परममहत्परिमाणं परमाणूनां पारिमाण्डल्यम् । न ह्याभ्यां परं महीयः क्षीदीयो वा सम्भवति । तद्दूषयति—कार्यद्रव्यैर्व्यभिचारः । तं दर्शयति—न हि साऽतिशया अपि कुटकुम्भमणिकादयः परिमाणतः पराऽसम्भवनीयरूपदेशाऽतिशायिनः । कस्मात् ? अन्याऽनवकाशप्रसङ्गात् । स्पर्शवता गगनपरिमाणेन एकेनैव द्रव्येण सर्वव्याप्तेः स्पर्शवतामन्येषामनवकाशः स्यात् । प्रथमं गुणत्वे सतीति विशेषणान्न कार्यद्रव्यैर्व्यभिचार इति
तदवस्थाऽसम्भवात् । सर्वैर्गुरुत्त्ववद्भिरेककार्य्यारम्भाऽभावात् । प्रयत्नविशेषाच्चाऽन्तिकदूरप्राप्तिर्मनुष्यवातहरिणहरिपतत्रिणाम् । न च तस्याऽसम्भवनीयपरावस्थोऽतिशयः । अनन्तत्वान्नभसः । केषाञ्चिन्निरतिशयप्राप्तानां361 पातप्रसङ्गात् । निरवशेषगन्तव्यदेशप्राप्त्या362 हि प्रयत्नो निरतिशयः स्यात् । तदनन्ततया कुतोऽस्य निरतिशयता ? तस्मात्प्रयत्नेनैवाऽसाधारणगुणेन बुद्धिगुणेन वा व्यभिचारः । ऐश्वर्य्यफलस्य धर्मस्य न सा काष्ठा । तद्वदैश्वर्य्यजननाद्धर्मस्यापि । ईश्वरैश्वर्य्यस्य धर्म्मफलत्वाऽभावात् । क्लेशकर्म्मविपाकाऽऽशयाऽपरामर्शादनेकैश्वर्य्यप्रसङ्गादैश्वर्य्यव्याघातात् । अपि च—
तत्राह—न च गुणधर्मोऽयमिति साम्प्रतम् । कुतः ? तत्कार्यद्रव्यगतानां गरिमादीनां तदवस्थायाः काष्ठाया असम्भवात् । एवं हि गरिमा नाऽवस्थोदयं पश्येद्यदि सर्वैरेव गरिमगुणशालिभिः सम्भूय परमगरिमगुणमेकं कार्यमारभ्यते । न त्वेतत्सम्भवतीत्याह—सर्वैर्गुरुत्ववद्भिरेककार्यारम्भाऽभावात् । अथाऽसाधारण्ये गुणत्वे सतीति विशेषणान्न व्यभिचारः । तत्राह— प्रयत्नविशेषाच्चाऽन्तिकदूरप्राप्तिर्मनुष्यवातहरिणहरिपतत्त्रिणाम् । न च तस्य विशेषस्याऽसम्भावनीयपराऽवस्थोऽतिशयः । कस्माद् ? अनन्तत्वाद्गन्तव्यस्य नभसः । केषाञ्चिन्निरतिशयप्रयत्नानां पातप्रसङ्गात्363 । निरवशेषगन्तव्यदेशप्राप्त्या हि प्राप्तप्रापणीयतया गतिहेतुः प्रयत्नो निरतिशयः स्यात् । तदनन्ततया कुतोऽस्य निरतिशयता ? तस्मात्प्रयत्नेनैवाऽसाधारणगुणेन बुद्धिगुणेन वा व्यभिचारस्तदवस्थ इत्यर्थः ।
यद्युच्येत धर्मात् खल्वशुक्लादकृष्णात् ज्ञानवैराग्यैश्वर्याणि जायन्ते,364 तत्र यथा धर्मविशेषजन्मनी वैराग्यैश्वर्ये निरतिशयमेव तज्जन्मविज्ञानमति तत्र व्यभिचार इति, तत्राह—ऐश्वर्यफलस्य धर्मस्य न साऽस्ति काष्ठा तद्वदैश्वर्यादिजननाद्धर्म्मस्यापि तद्वत्तया व्यपदेश इति । कुतः पुनरशुक्लकृष्णस्य न सा काष्ठे ? त्यत आह—ईश्वरैश्वर्यस्य धर्मफलत्वाऽऽपातात्365 । अशुक्लाऽकृष्णौ धर्मौ योगिनां भाक्तस्यैश्वर्यस्य न पुनर्निरतिशयस्य । तत् खल्वनुपचरितं भगवति परमेश्वरे एव । न च तद्धर्म एवं तज्ज्ञानमपि । तदयमसिद्धो हेतुः । दृष्टान्तश्च साधनहीनः । कुतः पुनरैश्वर्यं परमेश्वरस्य न धर्मजनितम् ?
नाऽसम्भाव्यपराऽवस्थं नभः परिमितं यदि ।
अथाऽनन्ततया तत्त्वं न त्वेषां परिमाणता ॥
इत्यत आह—क्लेशकर्मविपाकाऽऽशयाऽपरामर्शात् । यथाहाऽत्रभगवान् पतञ्जलिः “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर” इति । अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः क्लेशाः । कुशलाऽकुशलानि कर्माणि । तद्विपाका जात्यायुर्भोगाः । आशेरते इत्याशयाः कर्मवासनाः धर्मधर्म्मविषयत्वात् । तथापि मुक्तात्मभ्यश्च प्रकृतिलयवैदेह्यप्राप्तेभ्यश्च क्लेशादिभिरपरामृष्टेभ्योऽस्य भगवतो366 न भेद इत्याशङ्क्योक्तं पुरुषविशेष इति । मुक्तात्मनां खलु पूर्वा बन्धकोटिः, उत्तरा च विदेहप्रकृतिलयानां सनत्कुमारप्रभृतीनां समस्ति । तस्य तु भगवतोऽयमेव विशेषस्तेभ्यो यतः क्लेशादीनामिह वैकल्पिकता इति तत्र कुतोऽस्य धर्म्मविशेषजनितमैश्वर्यम् ? इत्यर्थः ।
यस्तु वैघात्यात् वृद्धवचनमतिक्रम्य परमेश्वरैश्वर्यस्यापि धर्मजनित्वमभ्युपैति तं प्रत्याह—अनेकेश्वरप्रसङ्गाद्धेतोः सर्वेषामैश्वर्यव्याधातात् । अयमर्थः । धर्मजनितत्वे हीश्वरत्वस्य य एव तद्वान् स एवेश्वरो बहवश्च तद्वन्त इति तद्वशाद् बहव ईश्वराः प्रसज्येरन् । तत्रैकस्यैश्वर्येण सर्वेषां समं न्यूनं वा ऐश्वर्यम् । न्यूनत्वे च यदेवाऽतिशायि तदेव तत्स्यादिति भाक्तमैश्वर्यमितरेषाम् । तच्च स्वाभाविकत्वादुपपद्यते । स्वभावस्याऽव्यवस्थानात् । ननु धर्मजत्वे तस्याऽव्यवस्थितेः साम्येऽपि वा अविरोधेन सम्भूयेशते परिषद्वत् प्रत्येकं वा ? पूर्वस्मिन्कल्पे परिषदिव न कश्चिदीश्वरः स्यात्, सम्भूयेशत्वात् । उत्तरत्र त्वेकेनैवेशनायाः कृतत्वादन्यः किं कुर्वन्नीशः स्यात् ? न हीशनामकुर्वन्नीशः, न च स्वतन्त्राणामेकाऽभिप्रायसम्भवः । ततश्च विरुद्धाऽभिप्रायत्वे सति न कस्यचित्कार्यस्योत्पादः । उत्पादे वा परस्परविरुद्धस्वभावसमलिङ्गितमपर्यायेण जगदुपलभ्येत । कर्म्मवदैश्वर्य कर्मजनितमित्यप्यागमविरुद्धम् । धर्मजस्याप्यपर्यायेण श्रुतेरिति । यच्च काष्ठाप्राप्तिरुपलभ्यते परिमाणानामित्युक्तं, तद्विकल्प्य दूषयति—अपि च—
नाऽसम्भाव्यपरावस्थं नभः परिमितं यदि ।
अथाऽनन्ततया तत्त्वं न त्वेषां परिमाणता ॥
परिमितं चेदाकाशमिति ततोऽधिकं किमिति न सम्भाव्यते । साऽतिशयपरिमाणदर्शनादेव कुवलाऽऽमलकविल्वादिषु सम्भावनीयमेतत् । इयतोऽपि नभसो भविष्यति किञ्चिदधिकपरिमाणमिति शङ्कते—अनन्तत्वान्नभसोऽसम्भा
अनन्तत्वादिति चेत् । किमिदमानन्त्यम् ? अपरिच्छिन्नता । नन्वेष परिमाणाऽभावः । एतावत्तर्हि परिमाणम् । ईदृशीं च काष्ठाप्राप्तिमीश्वरज्ञानस्य वदन्नज्ञानमाविर्भावयति । सोऽयं शान्तिकर्म्मणि वेतालोदयः । सर्वकार्य्याणां कर्तृत्वादेव तर्हि सर्वज्ञत्वम् । उपादानोपकरणसम्प्रदानप्रयोजनाभिज्ञा हि कुलालादयः कर्त्तारः । सर्वेषां च कार्याणामीश्वरः367 कर्तेति समस्तकार्य्योपादानाद्यभिज्ञः । तथा च सर्वज्ञ इति । किमेते स्वकार्यस्य निरवशेषोपकरणवेदिनः कतिपयोपकरणवेदिनो वा ? न तावदशेषोपकरण-
वनीयमेतत् । शङ्कां निराचिकीर्षुः पृच्छति—किमिदमानन्त्यम् ? शङ्किता ब्रूते । अपरिच्छिन्नतैवाऽऽनन्त्यम् । नैतस्या अन्यदानन्त्यं नाम किञ्चित् । उतरम्—नन्वेष परिमाणाऽभाव एव वचनव्यक्त्यन्तरेणाऽऽश्रितः । तदेव स्फुटयति—एतावत्तर्हि परिमाणं तद्विपरीतता तु तदभावः । अस्तु तर्हि व्योमवदनन्तमीश्वरज्ञानं सैवाऽस्य काष्ठाप्राप्तिः किं नः परिमाणग्रहणेने ? त्यत आह ईदृशीं च काष्ठाप्राप्तिमीश्वरज्ञानस्य वदन्नज्ञानमीश्वरस्याऽऽविर्भावयति । आत्मीयस्यैव विज्ञानस्य साकल्येनाऽपरिज्ञानात् । ज्ञाने वा कुतोऽस्याऽऽनन्त्यं साकल्ये परिच्छेदनान्तरीयकेण इयत्ताऽवधारणेनाऽपास्तत्वात् । सोऽयं शान्तिकर्मणि ईश्वरज्ञानस्याऽऽनन्त्येन विज्ञत्वसमर्थनलक्षणे ईश्वरस्यैव वस्त्वज्ञानलक्षणोपेतो वेतालोदयः ।
सम्प्रति नैयायिकाः प्रत्यवतिष्ठन्ते—सर्वकार्याणां कर्तृत्वादेव तर्हि सर्वज्ञत्वम् । सर्वकार्याणां तनुभुवादीनामुपलब्धिमान् कर्ता प्रतीयमानोऽन्तर्भावितसर्वज्ञत्व एव प्रतीयते प्रदीप इवाऽन्तर्भावितप्रभावितानः, स्वप्रमाणादित्यर्थः । ननु भवतु कर्तृता, सर्वज्ञता तु कस्मादि?त्यत आह—उपादानोपकरणसम्प्रदानप्रयोजनाऽभिज्ञा हि कुलालादयः कर्त्तारः । उपादानमिह परमाणुजातिचतुष्टयम् । उपकरणं समस्तक्षेत्रज्ञसमवायिनौ धर्माऽधर्मौ । सम्प्रदानं क्षेत्रज्ञाः, यानयं भगवान् स्वकर्मभिरभिप्रैति । प्रयोजनं सुखदुःखोपभोगः368 क्षेत्रज्ञानां । कुलालादिकर्तृव्यापारविषयस्तूपादानादिः प्रसिद्ध एव । एतदुक्तं भवति । ये यत्कर्तारः ते तदुपादानाद्यभिज्ञाः कुलालादयः । सर्वेषां च कार्याणामीश्वरः कर्त्तेति समस्तकार्योपादानाद्यभिज्ञः । तथा च सर्वज्ञ इति ।
तमेतं परतन्त्रसिद्धान्तं सनिदर्शनमुपन्यस्य दूषयितुमुपक्रमते—किमेते कुलालादयः स्वकार्यस्य निरवशेषोपकरणादिवेदिनः कतिपयोपकरणादिवेदिनो 369
वेदिनस्ते । अदृष्टस्याऽज्ञानात् । नापि सम्प्रदानप्रयोजनविशेषवेदिनः । तस्याऽनेकस्यापि सम्भवात् तन्मात्रज्ञाने न सर्वज्ञतासिद्धिः । बालोन्मत्तादयश्च सर्वकार्य्याणां न प्रयोजनादिवेदिनः । साध्यं चेत्कर्तृत्वं तत्कथमनन्तर्भावितसर्वज्ञत्वं हेतुमन्तरेण सेद्धुमर्हति ।
ननु सिद्धमेव, सन्निवेशादिमतां बुद्धिमत्पूर्वकत्वात् । वा ? न तावदशेषोपकरणादिवेदिनस्ते । कुतः ? अदृष्टस्य सर्वोत्पत्तिमतां निमित्तहेतोरपरिज्ञानात् । नापि सम्प्रदानप्रयोजनविशेषवेदिनः । तस्य सम्प्रदानभेदस्य देवदत्तादेः प्रयोजनभेदस्य मधूदकादिधारणादेरनेकस्यापि सम्भवात् । अथोपकरणादिमात्रविज्ञानं न समस्तोपकरणादिज्ञानं कुललादीनां तर्हि तेनैव निदर्शनेनेश्वरस्यापि तदुपकरणादिमात्रज्ञानं तन्मात्रज्ञाने च न सर्वज्ञतासिद्धिः । कतिपयज्ञो हि तथा सति स्यादिति ।
न च तन्मात्रज्ञानपि ईश्वरस्य बालादिवदित्याह—बालोन्मत्तादयश्च स्वकार्याणां न प्रयोजनादिवेदिनो, निरभिप्रायाणां तत्र प्रवृत्तिदर्शनात् । न च कुलालादयो निदर्शनं न बालादय इत्यत्र नियमहेतुरस्ति । साध्यं चेत्तत्कर्तृत्वं तत्कथमन्तर्भावितसर्वज्ञत्वं हेतुमन्तरेण सेद्धुमर्हति ?
अत्र चोदयति—ननु सिद्धमेव । कुतः ? सन्निवेशादिमतां बुद्धिमत्पूर्वकत्वात् । त्रयो हि खलु जगति भावा भवन्ति । प्रसिद्धचेतनकर्त्तृकाश्च यथा प्रासादाऽट्टालगोपुरतोरणादयः । प्रसिद्धतद्विपर्ययाश्च यथा परमाण्वाकाशादयः । सन्दिग्धतत्कर्तृकाश्च यथा तनुतरुमहीमहीधरादयः । तत्र विवादाध्यासिता उपलब्धिमत्कर्तृकाः कार्यत्वादचेतनोपादानत्वाद्वा, यत्कार्यमचेतनोपादानं वा तत्सर्वमुपलब्धिमत्कर्तृकं यथा प्रासादादि, तथा च तनुभुवनादयः, तस्मात्तेऽप्युपलब्धिमत्पूर्वका इति । उक्तहेतुद्वयोपलक्षणार्थ सन्निवेशादिमत्त्वग्रहणम् । इतरथा गुणकर्मणोरव्यापनेन हेतोरेकदेशाऽसिद्धत्वप्रसङ्गात् । न च पृथिव्यादीनां कार्यत्वमसिद्धं महत्त्वे सति क्रियावत्त्वेन वा साऽवयवत्वेन वा वस्त्रादिवत्तत्सिद्धेः । यदि मन्येतबुद्धिमत्त्वमात्रे370 साध्ये सिद्धसाधनम्, अभिमतं हि परेषामपि कर्मजत्वात्कार्यजातस्य कर्म्मणश्चेतनहेतुत्वात्तत्कारणत्वं जगतः । सर्वज्ञपूर्वकत्वे तु न तेन हेतोर्व्याप्तिर्दृष्टचरी । दष्टान्तश्च साध्यहीनः । कुलालादिनामसर्वज्ञत्वात् । विरुद्धता च हेतोः । असर्वज्ञपूर्वकत्वेनैव कुम्भादावुत्पत्तिमत्त्वस्य वाऽचेतनोपादानत्वस्य वा व्याप्तेरुपलब्धेः । न चोपलब्धिमत्पूर्वकत्वमात्रं साधनविषयः । तद्विशेषस्य तु सर्वज्ञपूर्वकत्वस्याऽतद्विषयस्यापि ततः सिद्धिरिति साम्प्रतम् । तथा हि । यद्यसौ विशेषो न साधनव्याप्तः कथमतस्तत्सिद्धिः, सिद्धत्वात्कथमविषयः, विषयश्चेत्कथं न स्वाश्रयात्तद्दोषगतिं स्पृशे दि ? ति । तदयुक्तम् । सामान्यमात्रव्याप्तावप्यन्तर्भावितविशेषस्यैव सामान्यस्य पक्षधर्मतावशेन साध्यधर्मिण्यनुमानात् । इतरथा सर्वाऽनुमानोच्छेदप्रसङ्गात् । तथा हि वह्न्यनुमानमपि न वह्निसामान्यमात्रविषयं, तस्य प्रागेव सिद्धत्वात् । नापि तद्विशिष्टगिरिगोचरो, वह्नित्वसामान्यस्य तत्सम्बन्धाऽभावेन तद्विशेषत्वाऽनुपपत्तेः । इतरथा गोत्वसमवायादिव गावः शाबलेयादयः पर्वतोऽपि वह्नित्वसमवायाद्वह्निः प्रसज्येत । अस्ति च वह्नित्वेन गिरेः संयुक्तसमवायः सम्बन्ध इति चेत्, तर्हि नाऽप्रतिपद्य पर्वतसंयुक्तं वह्निविशेषमसौ शक्यप्रतिपत्तिरिति वह्निविशेषास्याप्यनुमानम् । तथा371 न पूर्वोक्तदोषप्रसङ्गः ।
एवमिन्द्रियाऽनुमानेऽपि स एव दर्शनीयः । तथा हि । तत्रापि नेन्द्रियकरणिका काचित् क्रियोपलब्धा । न खलु च्छिदादयः क्रिया इन्द्रियसाधनाः, व्रश्चनादीनामनिन्द्रियत्वात् । न च व्रश्चनादिसाधनाः सम्भवन्ति रूपादिपरिच्छित्तिलक्षणाः क्रियाः । तस्माद्यथैव क्रियात्वसामान्यस्य सत्यपि करणमात्राऽधीनत्वाव्याप्तत्वे पक्षधर्म्मतावशादिन्द्रियलक्षणकरणविशेषसिद्धिः तथेहापि सत्यप्युत्पत्तिमत्त्वस्याऽचेतनोपादानत्वस्य चोपादानोपकरणसम्प्रदानप्रयोजनज्ञकर्तृमात्रव्याप्तत्वे विवादाध्यसितेषु पक्षधर्म्मतावलाद्विशिष्टस्य तस्य सिद्धिः । अन्यथा सामान्यस्यापि व्यापकाऽभिमतस्याऽसिद्धिः स्यात्, निर्विशेषस्याऽसम्भवात्, विशेषस्य चाऽन्यस्याऽनुपपत्तेः । असर्वज्ञस्य चाऽत्रादृष्टादिभेदविज्ञानरहितस्याऽधिष्ठातृभावाऽसम्भवात् । तेन यद्यप्युपलब्धिमत्कर्तृकत्वं व्याप्तिविषयस्तथापि तद्विशेषस्य पक्षधर्म्मताबलात् प्रतिलम्भ इति विशेषविषयमनुमानम् । न चोक्तदोषप्रसङ्गः । तस्य साध्यदृष्टान्तयोर्द्धर्म्मविकल्पादुत्कर्षाऽपकर्षाऽनुयोगस्य सर्वाऽनुमानसाधारण्येनाऽनुमानमात्रप्रामाण्यप्रतिक्षेपहेतुत्वात् । तत्सिद्धं विवादाऽध्यासिता उपलब्धिमत्कर्तृका इति ।
अत्रेप्सितप्रसिद्ध्यायत्तसाधनं शब्दोक्तं तदायत्तोपादानादिविषयत्वात् यस्य यदायत्तमुपादानादिविषयत्वं तत्तत्प्रसिद्ध्यायत्तसाधनं यथा धूमो वह्न्यादेर्द्देशविशेषसिद्ध्यधीनोपादानादिविषयत्वन्तदधीनसिद्धिरिति । न चाऽस्य सकलक्षेत्रज्ञसमवायिधर्म्माऽधर्मज्ञानकारणाऽभावेन तदज्ञानम् । तत्समवेतानां ज्ञानचिकीर्षाप्रयत्नानां नित्यत्वात् । न च बुद्धितन्नित्यत्वयोः कश्चिद्विरोधः । बुद्धेरनित्यायास्तत्र तत्रोपलब्धेर्विरोध इति चेत् ? तर्हि तोयादिपरमाणबोपि न रूपादिमन्तः प्रसज्येरन् । पार्थिवानां रूपादीनां कार्याणामुपलब्धेः, इह च तेषामकार्यत्वात् । हिमकरकादौ रूपादिदर्शनात् कार्यद्रव्यगतानां च तेषां कारणगुणप्रक्रमेण भावात् । पाथसीयानामपि रूपादिमत्ता । सदकारणतया372 च तद्गतानि रूपादीनि नित्यानीति चेत् । इहापि कार्यत्वेनाऽचेतनोपादानत्वेन वा समस्तविषयज्ञानाऽनुमानात् तस्य च सद373 कारणतया नित्यत्वसिद्धेः समानत्वात् परपुरुषसमवेतावपि धर्म्माऽधर्मावधिष्ठातुं शक्नोति सम्बन्धात् । न हि साक्षात्संयोगसमवायावेव सम्बन्धौ, संयुक्तसंयोगिसमवायस्यापि तद्भावात् । प्रयुक्ताः खल्वीश्वरेण परमाणवः तैरेव374 क्षेत्रज्ञाः तत्समवेतौ धर्माधर्माविति, संयुक्तसमवायो वा क्षेत्रज्ञैरीश्वरस्य संयोगात् । अनुमानात् संयोगसिद्धेः । ईश्वरः क्षेत्रज्ञसंयुक्तो मूर्त्तद्रव्यसंयोगित्वात् यो मूर्त्तद्रव्यसंयोगी स क्षेत्रज्ञसंयुक्तः यथा घटादिः । स चास्य संयोगीऽन्यतरोभयकर्मसंयोगानां तत्कारणानामभावादजन्यः । कार्यारम्भाऽऽभिमुख्यमेव धर्म्माऽधर्मयोः प्रवृत्तिः । सा च देशकालादिवदीश्वरप्रत्नमप्यपेक्षते । न चैवं वाच्यं धर्म्माऽधर्म्मौ परमाणून्वा स्वधर्मानुपगृहीतान्375 कथमीश्वरः प्रयत्नेन प्रेरयतीति । विषविद्याविदा तदीयधर्म्माऽनुपगृहीतस्य विषशकलस्य प्रेरणदर्शनात् । ज्ञानेच्छाप्रयत्नानां च तद्वर्तिनां नित्यत्वसिद्धौ कृतमस्य शरीरग्रहणेन । तन्मात्रादेव परमाणूनामदृष्टादीनां च प्रवृत्तौ शरीरपृथिव्यादिलक्षणस्य कार्यस्योत्पत्तेरुपपत्तेः, न चैतद्वाच्यं नेश्वरः कर्त्ता पृथिव्यादीनां, प्रयोजनाऽभावादनित्यं चेश्वरविज्ञानं विज्ञानत्वादिति । ईश्वरस्य तज्जानस्य च धर्म्मिणोऽप्रसिद्धौ हेतोराश्रयाऽसिद्धत्वात् । तत्सिद्धौ वा कर्तुर्नित्यज्ञानस्येश्वरस्याऽनुमानादेव धर्म्मिग्राहिणः सिद्धेस्तद्विरोधान्न तदाश्रयमनुमानम् आत्मानमापादयितुमर्हति । तत्किमीश्वरज्ञानाऽनित्यत्वग्राहिणोऽनुमानस्य विशेषविषयतया बलीयस्त्वप्रसाधनप्रयत्नेन ? मूल एवास्य विहितः कुठारः । न चाऽज्ञातरूपाणामिन्द्रियमनसां विज्ञानोत्पत्तिं प्रति साधनभावस्य च वत्सविवृद्धिनिमित्तस्याऽचेतनस्य क्षीरस्य स्वातन्त्र्येण प्रवृत्तेश्च । वनविटपिनां च विना प्रयत्नमुत्पादस्य च दर्शनाद्व्यभिचार इति साम्प्रतम् । सर्वेषामेव तेषां विवादास्पदत्वेन पक्षपक्षे निक्षेपात् । न च शशशृङ्गाऽस्तिता, तदनुपलब्धिविरोधात् । अपरोक्षदर्शनानर्हतया376 भगवतस्तद्विरोधाऽनुपपत्तेः । अन्यथा सर्वाऽनुमानोच्छेदप्रसङ्गात् । शृङ्गस्य तु शशशिरोवर्त्तिनो गवादिगतस्येव दर्शनार्हस्याऽनुपलब्धिनिराकृतस्य साधनार्ह
वार्तमेतत् ।
त्वात् । न च पक्षेण व्यभिचारः । सर्वत्र तस्य सुलभतया सर्वानुऽमानोच्छेदप्रसङ्गात् । व्यतिरेकी वा हेतुः कार्यमात्रं पक्षीकृत्य प्रयोक्तव्यः । स चैवं प्रयोगमारोहति । नित्येतरत्समस्तसर्वज्ञपूर्वकमुत्पत्तिमत्त्वादचेतनोपादानत्वाद्वा । यत्पुनर्न सर्वज्ञपूर्वकं न तदुत्पत्तिमत् अचेतनोपादानं वा । यथा परमाण्वाद । न चेदं तथा तस्मात्सर्वज्ञपूर्वकमिति । सर्वज्ञपूर्वकत्वेन च परं प्रत्यसिद्धेन कार्यमात्रमेव पठ्यत इति भवति पक्षः । यदि पुनश्चेतनाऽनधिष्ठितानि स्वं कार्य कुर्युः ततो यत्र क्वचनाऽवच्छिन्नानि कार्य जनयेयुरिति न देशकालप्रतिनियतप्रसवं कार्यमुपलभ्येत । हेतुसमवधानजननतया कार्य न प्रत्येकं कारणैर्जन्यत इति चेत्सत्यं, समवधानमेव तु कारणानामन्योन्यम्377 कुतः ? कादाचित्कपरिपाकाददृष्टविशेषादिति चेत्, स खल्वयमप्यचेतनः कथं यथावत्कारणानि सन्निधापयेत् । नो खलु यत्र क्वचनाऽवस्थितानि दण्डादीनि विना कुम्भकारप्रयत्नमदृष्टविशेषादेव परस्परं सन्निधीयन्ते, सन्निहितानि वा कार्यस्येशते । तस्मात् कारणसमवधानव्याप्तत्वात् कार्योत्पादनस्य तस्य चोपलब्धिमत्पूर्वकत्वाऽभावेऽनुपपत्तेः व्यापकनिवृत्त्या विपक्षात्कार्योत्पादे निवर्तमाने उपलब्धिमत्त्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । न चेश्वरज्ञानमप्रत्यक्षमिन्द्रियार्थसन्निकर्षाऽनुत्पादादिति साम्प्रतम् । लोकस्य हि प्रत्यक्षस्य तल्लक्षणम् । अस्य हि निखिलाऽर्थसाक्षात्कारित्वं लक्षणं वेदितव्यम् । अत्र चाऽऽम्नायो भवति एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः, द्यावाभूमी जनयन् देव एक इति । स्मृतिश्च भवति ।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
न चेश्वरज्ञानस्य शरीरेन्द्रियाऽपेक्षयोत्पादः । अस्ति हि श्रुतिः “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्याऽस्ति वेत्ता तमाहुरग्र्यम्पुरुषं महान्तम्” इत्यादिका । तदनुमानाऽऽगमाभ्यां सिद्धमीश्वरस्य कर्तृत्वं सर्वज्ञत्वं चेति ।
तदेतद्दूषयति—वार्त्तमेतत् । इदमत्राऽऽकूतम् । न तावत्पक्षधर्मतावशात्तदधिष्ठानविशेषो युगपदसङ्ख्येयस्थावरादिलक्षणकार्यदर्शनादखिलविषयनित्यविज्ञानमात्रशाली षङ्गुण ईश्वरः सेद्धुर्महति, न ह्येतावता विश्वं कार्य मुपजायते । न जातूपादानादिज्ञोऽपि कुम्भकारः कुम्भमचिकीर्षुश्चिकीषुर्वा तदुपादानादिष्वलसतयाऽप्रयतमानः कुम्भाऽऽरम्भाय कल्पते । तस्मात् ज्ञानचिकीर्षाप्रयत्नसमुदायजन्मा कार्योपादो न ज्ञानमात्राद् भवितुमर्हति ।
मा भूदार्द्रेन्धनदहनजन्मा धूमः केवलाऽऽर्द्रेन्धनाद्वह्नेर्वा पृथग्जनज्ञानविलक्षणमीश्वरज्ञानमसहायमेव विश्वस्मिन् कार्ये पर्याप्तमिति चेत् ? हन्त भोः किमस्य ज्ञानेनापि स्वरूपाऽतिशय एवाऽस्याः सहायस्तत्र तत्र कार्ये वर्त्स्यतीति न किञ्चित्कार्यमसहायादेकस्मादिति चेत् । ननु तस्यैव स्त एव क्षेत्रज्ञगतौ धर्माऽधर्मौ, सन्ति च परमाणवः सहाया इति किमस्य ज्ञानेन ? अविज्ञातास्ते न प्रवर्त्तन्त इति ज्ञानमेषि व्यमिति चेत् । अथाऽविज्ञातास्ते कस्मान्न प्रवर्त्तन्ते ? तथाऽनुपलम्भात् कुम्भाद्युपायेष्विति चेत् । तर्हि ज्ञानवच्चिकीर्षाप्रयत्नावप्यास्थेयौ तत्रापि च ज्ञानं चिकीर्षाविशेषे उपयुज्येत । स च प्रयत्नभेद इति प्रयत्नहेतुभेद एव साक्षात्कारोदये हेतुरिति कथं तमन्तरेण तत्सम्भवः ? न हि वह्निमन्तरेण तुषप्रक्षेपफूत्कारमात्रादेवौदनं सिद्ध्यति ।
यदि मन्येत स्त एव चिकीर्षाप्रयत्नावपि भगवतीश्वरे इति ? अथ किमेतौ नित्यावनित्यौ वा ? नित्यौ चेत्कृतमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नोत्पादाऽनुपयोगिना । तयोर्नित्यतया स्वोत्पादोपयोगाऽनपेक्षणात् । न च प्रयत्नवत् ज्ञानमपि साक्षात्कार्योत्पादनाङ्गम् । प्रयत्नभेदेन खल्वयमधितिष्ठत्युपादानादि, न तत्समये ज्ञानस्य कश्चिदुपयोगश्चिकीर्षाया वा निष्पादितक्रिये कर्म्मण्यविशेषाधायिनः साधनस्य साधनन्यायाऽतिपातादिति दत्तजलञ्जालिरीश्वस्य378 सर्वज्ञता । अथाऽनित्यौ, ततस्तयोरुत्पत्तिकारणं वक्तव्यम् । ननु नित्यज्ञानमेवोत्पत्तिमूलकारणमस्ति । ततः किमपरेण कारणेन ? अहो वत प्रमादो यदयमात्ममनःसंयोगविशेषाऽसमवायिकारणौ इच्छाप्रयत्नौ तमन्तरेण ज्ञानमात्रादेव भवत इत्यपि वक्तुमध्यवसितः । तथा सत्ययमतण्डुलमपि मण्डं साधयेदेव ।
सन्त्येवाऽस्य मुक्तात्ममनोभिः संयोगास्तेन तत्सहायस्तत्र चिकीर्षाप्रयत्नप्रचयं युगपत्प्रसूते तत्कार्योपजननायेति चेत् ? ननु मनांसि तत्संयोगाश्च किमनधिष्ठितानि चिकीर्षाप्रयत्नौ प्रसुवते अधिष्ठितानि वा ? यद्यनधिष्ठितानि379 ततस्तैरेव व्यभिचारः । अधिष्ठानं तु प्रयत्नमन्तरेणाऽयुक्तमेव । प्रयत्नान्तरेण चिकीर्षान्तरजन्मना तदधिष्ठानम् । अनादित्वाच्चिकीर्षाप्रयत्न-प्रवाहस्येति चेत् ? यथाऽयमुत्पन्नसञ्जिहीर्षुः ईश्वरः क्षेत्रज्ञेषु
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिद्धेः सन्निवेशादेरेककारणता कुतः ॥
प्रतिबन्धवृत्तिधर्म्माधर्मनिचयेषु जगति च परमाण्ववस्थामापन्ने निर्व्यापारः कियन्तमपि कालं स्थित्वा यदा चिकीर्षति प्रयतते वा तदा तस्य चिकीर्षाप्रयत्नयोर्जनयितव्ययोर्न स्थितं चिकीर्षान्तरं वा प्रयत्नान्तरं समस्तीति कुतो मनसां तत्संयोगानां वाऽधिष्ठानमि?त्यनधिष्ठितेभ्यो मनस्तत्संयोगेभ्यो न प्रयत्नचिकीर्षे उत्पद्येयाताम् । उत्पद्यमाने वा कथं कार्यत्वमचेतनोपादानत्वं वा न हेतुं व्यभिचारयतः । न च सवितृप्रकाशवदीश्वरस्य ज्ञानमात्रमिच्छामात्रं प्रयत्नमात्रं तत्तद्भावभेदोपधानात्तद्विषयं भवतीत्यपि साम्प्रतम् । परस्पराश्रयदोषप्रसङ्गात् । तत्तद्भावोपधाने तत्तद्विषयत्वे च तत्तदुपधानम् । उपधीयमानाऽनधिष्ठाने तदुपधानस्य कार्यस्याऽनुत्पादात् । तस्य चाऽधिष्ठानादुत्पत्तेरिति । ज्ञानानित्यत्वपक्षे च दूषणमुपरिष्टात्प्रवेदयिष्यते ।
सोऽयमीदृशो विशेषो विचाराऽसहः कथं पक्षधर्म्मताबलादपि साध्यधर्मिण्युपसंह्नियते ? न हि स्वयमनुपपद्यमानमन्यस्योपपादनायाऽलम् । का तर्हि सामान्यस्याऽऽनुमानिकस्याऽसति विशेषे गतिः ? किमवश्यम्भवितव्यमस्य गत्या ? ननु प्रमाणसिद्धमुपपादनीयं यस्याऽनुमोपपद्यते यत् नामाऽनुपपद्यमानम् अस्तु तस्य परमनुपपत्तिरेव । ननु प्रमाणसिद्धमनुपपन्नमिति विप्रतिषिद्धम् । एवं तर्हि प्रमाणसिद्धिप्रतिघात एवास्त्वविप्रतिषेधाय, न पुनरनुपपन्नस्योपपत्तिः । कतमत्तर्हि साधनस्येदं दूषणम् ? न दूषणम् साधनस्य तस्य नाम वादिनः यः ससहायनिःसहायनित्याऽनित्यत्वादिविशेषपरिहाराय गगनकुसुमायमाने क्षित्यादिवर्त्तिनि बुद्धिमत्पूर्वकत्वसामान्ये साधनाऽनर्हे साधनं प्रयोजयति । न च सम्भवति तादृशो विशेषो यमास्थाय क्षित्यादौ बुद्धिमत्पूर्वकत्वसामान्यं व्यवतिष्ठेत । न चैवं सर्वाऽनुमानोच्छेदप्रसङ्गः । सम्भवद्विशेषविषयत्वादितरेषामनुमानानाम् । न हि नं सम्भवति पर्वतनितम्बवर्त्तिवह्निविशेषोऽनुद्भूतरूपस्पर्शो वा तैजसश्चक्षुरवयवो रूपोपलब्धिसाधनम् । कारणानां च चित्ररूपसंस्थानसामर्थ्यानां तत्र तत्रोपलब्धेः । तस्माद्यथा कश्चिन्निशातमसिमच्छेद्यमाकाशं प्रति व्यापारयन्पुरुषो निगृह्यते न पुनरसिमाकाशं वा तद्वत्कार्यत्वमचेतनोपादानत्वं वा तर्कसहायं लब्धपरिपाकाऽदृष्टवत्क्षेत्रज्ञपरमाण्वादिसंयोगकारणमात्रविषयमीश्वरे सर्वज्ञे इति तदिदमुक्तं वार्त्तमेतदिति ।
यत्तु वृद्धैर्दूषितं तदतिप्रसिद्धतयोपेक्ष्य दूषाणन्तरमाह—
सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।
प्रसिद्धेः सन्निवेशादेरेककारणता कुतः ॥
तत्र वृद्धा दूषयांवभूवुः । किमुत्पत्तिमत्त्वमात्रमत्र हेतुः क्रियते किं वा तद्विशेषः ? यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुपजायते । एतदुक्तं भवति । त एव खलूत्पत्तिमन्तोऽचेतनोपादानबुद्धिमत्पूर्वका ये बुद्धिमदन्वयव्यतिरेकाऽनुविधायिभावाऽभावाः प्रमाणेनोपलब्धाः, प्रासादाऽट्टालकगोपुरतोरणादयश्च तथा, न तु तनुभुवनादयः । न खलु तद्भावाऽभावयोर्बुद्धिमद्भावाऽभावाऽनुविधानं कदाचिदप्युपलब्धम् । घटादेरुत्पत्तिमतस्तथोपलम्भादनुत्पत्तिमतश्च गगनादेरनुपलम्भादुत्पत्तिमत्त्वस्य च तनुभुवनादावप्यभेदात् तथाभाव इति चेत् ? तत्किमिदानीं मृद्विकारस्य घटादेर्मनुष्यकार्यत्वमुपलब्धमिति शक्रमूर्धाऽपि तत्कार्यः । न च मृद्विकारत्वं संस्थानं वा भिद्यते । तद्विधसंस्थानस्यापि मृद्विकारस्य मनुष्यनिर्माणदर्शनात् । तादृशत्वेऽपि तस्य तदन्वयव्यतिरेकाऽनुविधानाऽदर्शनात् न तत्कार्यत्वमिति चेत् । न । इहापि साम्यात् । अत्रापि हि यस्य यस्य बुद्धिमद्भावाऽभावाऽनुविधानमस्ति तस्य तस्य सर्वस्याऽस्तु नाम तत्पूर्वता प्रासादादेः, न पुनस्तद्विधस्यापि भुवनादेर्भवितुमर्हति । तस्य तदन्वयव्यतिरेकाऽनुविधानाऽभावात् । नन्वयं योऽसौ धूमविशेषो वह्निभावाऽभावाऽनुविधायिभावाऽभाव उपलब्धः स सर्वो वह्निपूर्वोऽस्तु न तु पर्वतनितम्बवर्ती तथेति कथं ततो वह्निरनुमीयते । सामान्यवद्विषयत्वेऽपि तु कार्यकारणभावाऽवधारणस्येहापि साम्यम् ।
तत्किमिदानीं मनुष्यकार्याः कुङ्यादय उपलब्धा इति शक्रमूर्द्धापि380 तथास्तु ? कस्यचिद्विशेषस्य कुङ्यादिभ्यः शक्रमूर्द्धादेः सम्भवान्नैवमिति चेत् । स तर्हि प्रासादादिभ्य381 सम्भवति382 तनुभुवनादावपीति न विशेषः । न त्वयमेवंविधो धूमविशेषाणां वह्न्यन्वयव्यतिरेकाऽनुविधायिनामस्ति पर्वतगतधूमात्स्वरूपेण विशेषः । अत एव न पाण्डुद्रव्यमात्रात्कुमुदकपोतादेरनुमानम् । धूमत्वसामान्यस्यैव तेभ्यो भेदाऽऽपादकत्वात् । न च हेतुसमवधानं चेतनमन्तरेणाऽसम्भवि । अदृष्टपरिपाकादेव383 कादाचित्काद्देशकालभेदसमासादितजन्मनस्तदुपपत्तेः । ततश्च कार्यनियमसिद्धेः । न खलु नियतप्रकारसामर्थ्येभ्यः कारणेभ्यः कार्यमनियमेनोत्पत्तुमर्हति । अन्यथा कर्तृचैतन्येऽप्ययं दुर्वारः प्रसङ्गः । तस्यापि कारणसामर्थ्याऽनुरोधेन नियोजकत्वात् । न च चेतनमन्तरेण कुम्भादिकारणानि न प्रवर्त्तन्ते इति पृथिव्यादिकारणैरपि न प्रवर्त्तितव्यम् । यथा हि देहवत्प्रयत्नमन्तरेण कुम्भादिकारणेष्वप्रवर्तमाने
दृष्टा प्रेक्षापूर्वप्रासादादिसन्निवेशवैलक्षण्येऽपि चेतरेषां तरुगिरिसागरादीनां यद्यपि सन्निवेशमात्रसामान्यात्, तथा सति विभक्तेशतया स्वार्थे पराऽनुग्रहे वा दुःखोत्तरसर्गदर्शनात् प्रयोजनाऽभावनिराकृताऽपि चैतन्यमात्रसिद्धिः स्यात् एकत्वं तु तस्य कुतस्त्यम् ? न हि घटरथादय एकबुद्धिमत्पू-
ष्वपि पृथिव्यादिकारणानि न देहवतः प्रयत्नमपेक्षन्ते स्वप्रवृत्तिं प्रति तथा चेतनमात्रप्रयत्नमपि नाऽपेक्षिष्यन्ते, कि त्वदृष्टपरिपाकवत्क्षेत्रज्ञसंयोगादेव384 प्रवर्त्स्यन्तीति किं तदभिज्ञेन कल्पितेन ? तस्माद्विशिष्टमुत्पत्तिमत्त्वमसिद्धम् ।
पृथिव्यादिषु उत्पत्तिमत्त्वमात्रं त्वप्रयोजकं विशेषप्रयुक्तव्याप्त्युपजीवित्वेन स्वाभाविकप्रतिबन्धवैकल्यात् । स्वाभाविकप्रतिबन्धवतश्च हेतोरनुमानाऽङ्गत्वात् । इतरथोपाध्यायदर्शनादेरपि शिष्याद्यनुमापकत्वप्रसङ्गात् । अपि च प्रेक्षावतां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता । न चेश्वरस्य प्रेक्षावतो जगन्निर्माणे प्रयोजनं पश्यामः । प्राप्तनिखिलप्राणीयस्य प्राप्तव्याऽभावात् । अन्ततः क्रीडासाध्यस्यापि सुखस्याऽवाप्तत्वात् । नापि कारुण्येन परार्थं प्रवर्तते । सुखमयजीवलोकसर्जनप्रसङ्गात् । दुःखमयी तु सृष्टिर्बहुल385 मुपलभ्यते । न च धर्म्माऽधर्म्मसहायस्य निर्माणवैचित्र्यमिति साम्प्रतम् । अधर्मस्य जगद्दुःखाऽहेतोः कारुणिकाऽनधिष्ठानाऽनुपपत्तेः । अनधिष्ठितस्य वा कार्यकरणे हेतोर्व्यभिचारप्रसङ्गात् । न च दुःखाऽनुभवनं वैराग्योत्पादनद्वारेणाऽपवर्गोपयोगीति परहितकाम्यया तदीयमधर्ममधितिष्ठतीति साम्प्रतम् । ईश्वराऽधीनत्वाद् दुःखोत्पादनस्य तस्य च तत्र वैमुख्येन386 तदनुत्पादे तदत्यन्तविमोक्षलक्षणस्याऽपवर्गस्य फलतः प्राप्तेः । न चाऽप्रयोजनमपि स्वभावादेव भावयतीति युक्तं, प्रेक्षावत्त्वव्याघातात् । तथा च तत्प्रणीतेष्वागमेष्वनाश्वास इति तत्रोपेक्षां दर्शयित्वा दूषणान्तरमाह—
दृष्टा प्रेक्षापूर्वप्रसादादिसन्निवेशवैलक्षण्येऽपि चेतरेषां तरुगिरिसागरादीनां यद्यपि सन्निवेशमात्रसामान्याच्चैतन्यमात्रसिद्धिः स्यादिति परेण सम्बन्धः । तथा सति विभक्तेशतया स्वार्थे पराऽनुग्रहे वाऽसति कस्मान्न परार्थाऽनुग्रह ? इत्यत आह—दुःखोत्तरसर्गदर्शनात् । प्रयोजनाऽभावनिराकृतापि चैतन्यमात्रसिद्धिः स्याद् यद्यपि एकत्वं तु तस्येश्वरस्य कुतस्त्यं घटरथादीनां कर्तुस्तथा दर्शनादिति चेत् तत्राह—न हि घटरथादय एकबुद्धिमत्पूर्वकाः ।
र्वकाः । ईश्वरपूर्वकत्वेन तथेति चेत् साध्यं तच्चेतनमात्रनान्तरीयकत्वात्सन्निवेशस्य केषाञ्चित्तथा दर्शनात् अन्यत्रापि तथाभाव इति चेत् । दृष्टान्तसाध्याभ्यामनेकान्तः । सर्वसाध्यत्वे दृष्टान्ताऽभावः । द्विकर्तृकत्वे च घटादेर्भुवनाद्यपि तथेति ईश्वरेश्वरप्रसङ्गादनवस्था । अत एव न द्वितीयाऽनुमानम् । एकाऽनुमानमपि तर्हि मा भूत्, तथाप्यनवस्थायास्तुल्यत्वात् । अथ न द्व्यधिष्ठातृका घटादयः सर्वमेकाधिष्ठातृकमिति । न सर्वज्ञत्वसिद्धिः ।
शङ्कते—ईश्वरकर्तृकत्वेन सर्वस्य कार्यजातस्य तथैककर्तृकत्वमिति चेत् साध्यमीश्वरपूर्वकत्वं सर्वस्य कार्यजातस्य तत्कथं तदेव साधनतयोपादीयत इत्यर्थः । पुनः शङ्कते—तच्चेतनपूर्वकत्वमात्रनान्तरीयकत्वात् सन्निवेशस्य केषाञ्चिद् घटरथादीनां तथा दर्शनादन्यत्रापि क्षित्यादौ तथाभाव इति सिद्धमीश्वरपूर्वकत्वम् । तथा चैककर्तृकत्वमिति चेत् । निराचष्टे—दृष्टान्तसाध्याभ्यामनेकान्तः । दृष्टान्ते हि घटादावेकः कर्त्ता कुलालादिः, साध्ये च क्षित्यादौ ईश्वर इति व्यभिचारान्नोत्पत्तिमत्त्वमचेतनोपादानत्वं वा चेतनात्मानं कर्त्तारं तनुभुवनादीनां साधयितुमर्हति । अनेककर्तृकस्य दृष्टान्तसाध्ययोर्दर्शनादित्यर्थः ।
यदि तु सर्वमेवेश्वरपूर्वकत्वेन साध्येत ततो घटादीनामीश्वरपूर्वकत्वेन पक्षविनिक्षेपात् दृष्टान्ताऽभाव इत्याह—सर्वसाध्यत्वे दृष्टान्ताऽभावः । न च व्यतिरेकी हेतुः सम्भवति । कादाचित्काऽदृष्टपरिपाकादेव देशकालादिप्रतिनियतकार्योत्पादोपपत्त्या व्यतिरेकाऽव्यभिचारस्याऽनिश्चयादिति भावः । यथा चैतत्तथोपपादितमधस्तात् ।
अपि चाऽस्त्वीश्वरः कर्त्ता घटादीनां तथापि प्रत्यक्षपरिदृष्टकुलालादिरपि कर्त्तेति द्विकर्त्तृकत्वे च घटादेर्भुवनाद्यपि तथा तेनैव निदर्शनेन द्विकर्तृकत्वमितीश्वरस्येश्वरप्रसङ्गादनवस्था ।
एतदुक्तं भवति । यथा प्रत्यक्षपरिदृष्टकुलालादिकर्तृकेऽपि घटादौ तावतैवोपपद्यमानोत्पादे चेतनान्तरमीश्वरस्तत्कर्त्तारं कुलालमधिष्ठातुं कल्पते तथेश्वरमधिष्ठातुमीश्वरान्तरम्, एवं तमित्यनवस्थेति । अत एव चोदयति—अनवस्थाप्रसङ्गादेव न द्वितीयेश्वरस्याऽनुमानम् । ततो न द्विकर्तृकतेति चेत् । परिहरति—एकाऽनुमानमपि तर्हि मा भूत् । कस्मात् ? तथा एकानुमानेऽप्यनवस्थायास्तुल्यत्वात् । लब्धपरिपाकाऽदृष्टवत्क्षेत्रज्ञसंयोगादेव क्षित्यादिलक्षणकार्योत्पत्तावेकस्यापीश्वरस्याऽनुमाने तुल्यैवाऽनवस्थेत्यर्थः ।
शङ्कते—अथ न द्व्यधिष्ठातृका घटादयः किं त्वेकैककुलालाद्यधिष्ठातृकाः सर्वे । ततश्च नेश्वरान्तराऽनुमानं न चाऽनवस्थेति । निराकरोति—न
रथाङ्गाद्यवयवा नानातक्षनिर्मिता अपि दृश्यन्ते जगति प्राय उपकार्योपकारकाः, एवं च रथाङ्गाद्येकतक्षपूर्वकं दृष्टम् । तस्माज्जगदप्येककर्तृपूर्वकमिति । तदेतद् व्यभिचारि । नानातक्षपूर्वकस्यापि दर्शनात् ।
हेत्वभावप्रतिक्षिप्तं न कार्य्यमनुमीयते ।
हेतुर्न चेतनामात्रं प्रेक्षा त्वनुपपत्तिका ॥
न हि कर्म्माशयाऽभावे तस्य शरीरेन्द्रिययोगो बुद्धिरैश्वर्य्यं वा सम्भवतीति प्रमाणविरुद्धस्तदुपगमः । हेत्वभावे कार्य्याऽनुपपत्तेः । उपपत्तौ वा न सन्निवेशात्तदनुमानम् । कर्म्माशयपूर्वकत्वे वा तज्ज्ञानमन्यतः स्यात् । सर्वज्ञत्वसिद्धिः387 । यदि हि सर्वकार्याणामेकः कर्त्ता स्यात्ततोऽज्ञस्य तत्त्वाऽनुपपत्तेः सर्वज्ञता स्यात् । अथ पुनरेकैककार्यमेकैकेन कर्त्ता जन्यत इति यो यज्जनयति स तत्कारणमात्रज्ञ एवेति न सर्वज्ञ इत्यर्थः ।
यदपि कश्चित् प्रमाणयेत् यत्परस्परोपकार्योपकारकत्वेन व्यवस्थितं तदेककर्तृकं दृष्टं, यथा रथाऽवयवा एकतक्षपूर्वका दृष्टाः, तथा च तनुभुवनानि ।
अत्रापि समस्ति कथञ्चित् परस्परोपकार्योपकारकभाव इत्यत्राह रथाद्यवयवा नानातक्षनिर्मापिता अपि दृश्यन्ते जगति प्राय उपकार्योपकारकाः । सर्व जगत् परस्परोपकार्योपकारकं दृष्टं, ततः किमेवंविधं रथाङ्गाद्येकतक्षपूर्वकं दृष्टम् ? तस्माज्जगदप्येककर्तृपूर्वकं तथा च जगत्कर्त्ता सर्वज्ञ इति ।
दूषयति—तदेतद् व्यभिचारि । कुतः ? नानातक्षपूर्वकत्वस्यापि दर्शनात् ।
हेत्वभावप्रतिक्षिप्तं न कार्यमनुमीयते ।
हेतुर्न चेतनामात्रं प्रेक्षा त्वनुपपत्तिका ॥
ईश्वरस्य क्लेशकर्मविपाकाशयाऽपरामर्शाऽभ्युपगमात् । न हि कर्माऽऽशयाऽभावे तस्य शरीरेन्द्रियादियोगो बुद्धिरैश्वर्यं वा सम्भवतीति प्रमाणविरुद्धस्तदुपगमः । प्रमाणविरोधमाह—हेत्वभावे कार्याऽनुपपत्तेः । न ह्यस्ति सम्भवो वह्निर्नास्ति समस्ति च धूम इति । कर्माशयहेतवश्च शरीरादयस्तदभावे न भवितुमीशते इत्यर्थः । उपपत्तौ वा हेत्वभावे कार्योत्पादस्य भवत्पक्षेऽपि न सन्निवेशात् तस्य बुद्धिमतोऽनुमानं, कारणमन्तरेणापि कार्योत्पत्तेः । यस्तु कश्चिद्वैयात्यादीश्वरेऽपि कर्माऽऽशयपरामर्शमभ्युपगच्छेत्
नन्वत एव हेत्वभावे कार्य्याऽभावात् तदनुमानम् ? अन्यथा दूषणमपि न स्यात् । वक्तव्यो वा विशेषो यतो दूषणं न साधनमिति । उच्यते । प्रत्यक्षेण विलक्षणाह्यप्रत्ययपूर्वाः388 सन्निवेशा अतद्धेतवः स्युः । न चैवं बुद्धिरनुमेया, दृष्टसालक्षण्येनाऽनुमानात् । अपि च तुल्यत्वेऽपि प्रतिबन्धमात्राद् दूषणं साधनमपि, साधनं तु निरस्तप्रतिपक्षं साध्यसिद्धाविति । न च बुद्धिमात्रं
तं प्रत्याह—कर्माशयपूर्वकत्वे वा तज्ज्ञानमन्यतः स्यात् येन कर्म्माशयेनाऽस्य शरीरादयो जनयितव्याः स तावदविज्ञातोऽनधिष्ठितश्च चक्षुराद्युपजननाय न पर्याप्त इति ज्ञातव्यः । न च तज्जन्येन शरीरादिना, इतरेतराऽश्रयप्रसङ्गात् न च प्राग्भवीयेन शरीरान्तरादिना । जन्मसमये तस्याऽतिवृत्तत्वात् । न चेश्वरान्तरमभ्युपेयते परैः । तदुपगमे वा तत्रापि दुर्वारः प्रसङ्गः । चोदयति—नन्वत एव हेत्वभावे कार्याऽभावादेव तस्य बुद्धिमतस्तनुभुवनादिहेतोरनुमानम् । अन्यथा यदि हेत्वभावेऽपि भवेत्कार्यं ततो दूषणमपि “हेत्वभावप्रतिक्षिप्तं न कार्यमनुमीयते” इत्येतत् न स्यात् । वक्तव्यो वा विशेषस्तादृशः, यतो दूषणं न तु साधनमिति । उभावपि हि साधनदूषणवादिनौ कारणाऽभावे न कार्यमिति वक्तुं प्रवृत्तौ । तत् कथमनेनैकः पर्यनुयुज्यते ? वदन्ति हि वृद्धाः “यश्चोभयोः पक्षयोर्दोषो न तत्रैकश्चोद्यो भवती”ति ।
स्वपक्षे विशेषमादर्शयन् परिहरति—उच्यते । प्रत्यक्षविलक्षणा ह्यप्रत्ययपूर्वकाः क्षित्यादिसन्निवेशाः अतद्धेतवोऽप्रत्ययवद्धेतवः स्युः । अथ यथा प्रासादादीनां सन्निवेशाः प्रत्यक्षेण विलक्षणाः क्षित्यादिसन्निवेशेभ्य उपलभ्यन्ते तथा बुद्धिरलौकिकेभ्यो विलक्षणा अनुमानादुपलभ्यत इत्यत आह—न चैवं बुद्धिरनुमेया । कुतः ? दृष्टसालक्षण्येनाऽनुमानात् । एतदुक्तं भवति । प्रत्यक्षमिन्द्रियजन्मनिदर्शननिरपेक्षमुपजायमानमदृष्टचरमपि त्रैलोक्यविलक्षणमप्यर्थं स्वलक्षणं गोचरयितुं पारयत्येव । अनुमानं व्युत्पत्त्यपेक्षितया व्युत्पत्तेश्च पूर्वदर्शनाऽधीनतया दृष्टसलक्षणमेव गोचरयेन्न तु विलक्षणम् । अदृष्टलिङ्गसम्बन्धं हि तत् । तदिह बुद्धिरनुमीयमाना यथादर्शनमनुमीयेत । सा चाऽनित्या शरीरात्ममनःसंयोगहेतुः । असर्वविषयोपलब्धाऽस्मदादाविति तद्विधैवाऽनुमातव्या । तथा च नित्यत्वसर्वविषयत्वादिव्याहतिरिति । न चैवं दहनाद्यनुमानेषु प्रसङ्गः । न खलु तत्र महानसादिदृष्टदहनविलक्षणः पर्वतनितम्बवर्ती दहनेऽनुमीयते । न च देशभेदस्त
सन्निवेशहेतुर्विन्यासप्रयोजनविचारनिर्णयात्मिका प्रेक्षा । न च सा तत्र सम्भवति, स्वार्थपरार्थाऽभावादिति । ननु मा भूत्सर्वज्ञो नियोक्ता, धर्म्मज्ञस्त्विवष्यताम् । न हि रूपतश्चक्षुरादीनां विषयनियमो निरूप्यत इत्युक्तम् । कालतस्तु नियमे यदा वर्त्तमानत्वं तदाऽतिशयवच्चक्षुरादिविषयभावो न389 विरुद्धः । आत्यन्तिके चाऽवर्त्तमानत्वेऽत्यन्ताऽसत्त्वं390 खपुष्पादिवदित्युक्तम् ।
द्वैलक्षण्याय पर्याप्तः, अन्यत्वात् । कथं तर्हि रूपाद्युपलब्धेरिन्द्रियाऽनुमानम् ? न हि तत्र दण्डादिकरणसालक्षण्यं, रूपादिपरिच्छित्तिकरणानामिन्द्रियाणामनुमानाऽगोचरत्वात् । रूपादिपरिच्छित्त्यन्यथानुपपत्तिप्रभवा खल्वियमर्थापत्तिरिन्द्रियगोचरा, सा च सम्बन्धदर्शननिरपेक्षया न दृष्टसालक्षण्यमपेक्षते । न चैवं बुद्धिमत्पूर्वकत्वेऽप्यर्थापत्ति, रन्यथाऽनुपपद्यमानस्य कस्यचिदप्यदर्शनात् । तनुभुवनादेश्चाऽदृष्टवत्क्षेत्रज्ञपरमाणुसंयोगादुत्पत्तेरित्यसकृदावेदितम् । तदेवमस्ति साधनदूषणस्य विशेषः ।
अपि चाऽविशेषेऽपि न वैतण्डिकः शक्यो निराकर्त्तुं यः स्वपक्षस्थापनाहीनं परपक्षमाहन्तीत्याह—अपि च तुल्यत्वे प्रतिबन्धमात्राद् दूषणं साधनमपि सप्रतिपक्षमपि । साधनं तु निरस्तप्रतिपक्षं साध्यसिद्धौ साधनतायामवतिष्ठते न तु सप्रतिपक्षं प्रतिबन्धमात्रादिति ।
तदेवं पूर्वार्द्ध कारिकाया व्याख्याय पश्चार्द्धं व्याचष्टे—न च बुद्धिमात्रं सन्निवेशहेतुः, अपि तु विन्यासप्रयोजनयोर्यौ विचारनिर्णयौ तदात्मिका प्रेक्षाबुद्धिविशेष इति यावत् । प्रेक्षैव तर्हि भवतु भगवतीश्वरे, इत्यत आह—न च सा च सम्भवति, स्वार्थपरार्थाऽभावात् दर्शितश्च तदभावः पुरस्तात् ।
सम्प्रत्यन्यथा प्रत्यवतिष्ठते परः—ननु मा भूत्सर्वज्ञो नियोक्ता प्रत्यक्षेण, धर्मज्ञस्त्विष्यतां, यथाह—
हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥
कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।
दूरं पश्यतु वा मा तत्त्वमिष्टं तु पश्यति ॥
प्रमाणं दूरदर्शी चेद् वयं391 गृध्रानुपास्महे ॥ इत्यादि ।
नन्वयं धर्मो रूपपिशेषाऽभावात् कथं प्रत्ययपूर्व ? इत्यत आह— न हि रूपवतश्चक्षुरादीनां विषयनियमो निरूप्यत इत्युक्तम् । नन्वेतदप्युक्तं
तत्र कुर्वित्यर्थो392 धर्म्मः, यागादेर्विषयस्य धर्म्मत्वेनोपगमात393 । उत्पाद्यत्वात्तस्याऽप्रत्यक्षत्वमिति चेत् । उत्पन्नस्याऽस्तु । ननूत्पन्नमपि स्वरूपेण धर्मः, श्रेयः साधनत्वेन तु तच्चाऽतीन्द्रियम् । किं पुनरिदं श्रेयः साधनत्वम् ? यदि तावच्छक्तिः सा चाऽतीन्द्रियेति । उक्तमत्र नेन्द्रियाणां परिमाणतो वा394 विषयनियमः सुनिरूपितः । अथ तदाऽसत्त्वात् । कालान्तरभावित्वात् श्रेयसः । भवतु, अन्यथा धर्मत्वहानेः । श्रेयःसाधनं तु वर्त्तमानमिति
वर्त्तमानकालविषयमेव चक्षुरादीति । न च धर्मो वर्तमान इत्यत आह— कालतस्तु नियमे यदा धर्म्मस्य वर्त्तमानत्वं तदाऽतिशयवच्चक्षुरादिविषयभावो न विरुद्धः । यद्युच्येत न कदाचिदप्ययं वर्तमान इति, तत्राह— आत्यन्तिके चाऽवर्त्तमानत्वे अत्यन्ताऽसत्त्वं खपुष्पादिवत् इत्युक्तम् ।
ननु कुर्विति नियोगो धर्मः, न चैष वर्तमानः । करोषीत्यविशेषप्रसङ्गात् । वर्तमानाऽवस्थस्तु न नियोग इति न धर्म इत्यत आह—तत्र कुर्वित्यर्थो धर्म्मः । कस्मात् ? यागादेर्नियोगविषयस्य धर्म्मत्वोपगमात्तत्रैव धर्म्मत्वप्रसिद्धेः । शङ्कते—उत्पाद्यत्वादवर्तमानत्वात्तस्याप्यप्रत्यक्षत्वमिति चेत् । निराकरोति—उत्पन्नस्यास्तु । पुनः शङ्कते—उत्पन्नमपि यागादि न स्वरूपेण धर्म्मः, श्रेयःसाधनत्वेन तु तच्चातीन्द्रियम् । तदेतद् दूषयितुं विकल्पयति—किं पुनरिदं श्रेयः साधनत्वं ? यदि तावच्छक्तिः सा चाऽतीन्द्रियेति । दूषयति—उक्तमत्र नेन्द्रियाणां परिमाणतो वा विषयनियमस्तु निरूपित इति । अथ साधनस्य श्रेयसा सम्बन्धः श्रेयःसाधनत्वं, कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति वार्त्तिककारवचनात् । सम्बन्धश्च सम्बन्धिद्वयाऽधीननिरूपणो नाऽन्तरेण सम्बन्धिना शक्यो निरूपयितुमित्यसति श्रेयसि कालान्तरभाविनि कथं तत्मबन्धो यागादीनाम्प्रत्यक्षमीक्ष्येतेति शङ्कते—अथ तदा यागादिसमयेऽसत्त्वात् । कुतोऽसत्त्वमि?त्यत आह कालान्तरभावित्वादामुष्मिकस्य स्वर्गादेः श्रेयसः । उत्तरम्—भवतु कालान्तरभावि श्रेयः, तत्साधनत्वं त्वतिशयो यागादिसमवेतो यः स तत्कालो यो यागादिकालः । न खलु भिन्नकालयोराधाराऽऽधेयभावः सम्भवति । तत्सम्भवे तत्त्वमेव कुतः ? इत्यत आह—अन्यथाऽसमवायादतिशयस्य यागादीनामश्रेयः साधनत्वाद्धर्म्मत्वहानेः । तस्माद्यदा तदा भवतु, श्रेयः साधनत्वं तु वर्तमानमिति नाऽक्षाणामविषयो धर्म्मः श्रेयःसाधनरूपः ।
नाऽक्षाणामविषयः । ननु प्रागनुष्ठानाद्धर्मज्ञानमिष्यतेऽनुष्ठातृभिः । तथा च भविष्यद्वाऽक्षाणामविषयः395 । नैवाऽधिष्ठातॄणां396 प्रत्यक्षं धर्मे ब्रूमः, अपि तूपदेष्टुरतिशयवतः । स चाऽतिशयः स्वाभाविको महत्त्वमिव व्योम्न उपदेशान्तरजः क्रियानिबन्धनो वेत्यदोषः ।
उच्यते—
अतुल्यकालं सामर्थ्यं कर्म्मणः क्षणभङ्गिनः ।
चिरकालफलायाऽऽहुर्न तदध्यक्षमीक्षते ॥
प्रलीयमानकर्म्मलब्धोपजनः । पूर्वाऽपराङ्गोपपादिताऽवस्थान्तरो देश-
एतदुक्तं भवति । भवतु नाम श्रेयःसाधनत्वशब्दः सम्बन्धवचनो न पुनर्द्धर्म्मशब्दोऽपि श्रेयःसाधन एव । तस्य लौकिकपरीक्षकैरविवादं प्रयोगात् । अतिशयवच्च यागाद्येव तत्साधनमिति त एव धर्म्मपदास्पदम् । ते च तद्भाजो वर्तमाना इति तेषां तद्वतां प्रत्यक्षतेति ।
चोदयति—ननु प्रागनुष्ठानात् धर्म्मज्ञानमिष्यतेऽनुष्ठातृभिस्तज्ज्ञानस्याऽनुष्ठानाऽङ्गत्वात् । तथा च भविष्यद्वाऽक्षाणामविषयः । परिहरति— नैवाऽनुष्ठातृणामस्मदादीनां प्रत्यक्षं धर्मं ब्रूमः, किं तूपदेष्टुरतिशयवतः । यः खलु परेणाऽनुष्ठीयमानं यागादिप्रत्यक्षेण श्रेयःसाधनं पश्यति । कुतः पुनरस्याऽयमतिशय ? इत्यत आह स चाऽस्यातिशयः स्वाभाविको महत्त्वमिव व्योम्न उपदेशान्तरजः क्रियानिबन्धनो वा कस्यविदाप्तोपदेशादष्टाङ्गयोगमवगम्य तदनुष्ठानात्तत्परिपाके सति तां तां योगभूमिमधिरूढस्य सम्प्रज्ञातसमाधिप्रभावादेवाऽयमतिशयो जायते । तस्याऽचिन्तनीयसामर्थ्यत्वात् । यथाह—को हि योगप्रभावादृते अगस्त्य इव समुद्रं पिवतु, स इव दण्डकाऽरण्यं सृजतीति । सोऽयमुभयविधोऽतिशय उपायप्रत्यय उपेयप्रत्ययश्चेत्याख्यायते योगाचार्यैरिति । तस्माददोषः ।
तदेवं प्रत्यवस्थितं परं निराकरोति—उच्यते ।
अतुल्यकालं सामर्थ्य कर्म्मणः क्षणभङ्गिनः ॥
चिरकालफलायाहुर्न397 तदध्यक्षमीक्षते398 ।
तदेतद् व्याचष्टे—आशुतरविनाशित्वात् कर्मणः प्रलीयमानकर्म्मलब्धोपजनः । कर्माऽऽनन्तर्यमपि तस्य नास्ति, किमङ्ग पुनस्तत्कालतेत्याह—399
कालाद्यासादितपरिणतिभेद आनन्तर्यमपि कर्म्मणोऽतिवर्तमानः कोऽप्यतिशयः कर्त्तरि कर्म्मणश्चिरभाविनः फलस्य साधनं कथ्यते । तदसौ न कर्म्मकाले वर्तमानः । स्वकाले वर्तमानोऽपि कर्म्मणोऽतिवृत्तत्वान्न कर्मसम्बन्धितयाऽध्यक्षमीक्षते । तदुक्तं फलसाधनरूपेण तदानीं येन नास्त्यसाविति । कर्म्मकाले तस्य भावित्वं तत्काले च कर्म्मणोऽभावः । कथं तर्हि कर्म्मणः साधनत्वं तदन्यसमवायि ? तदाहितत्वात् । न हि स्वसमवाय्येव साधनं भवतीति कश्चिन्नियमः । कार्य्याऽनुमेयं तद्यत्र कार्य्यायाऽलं तत्रैव युक्तं तदाहितत्वात्तस्य शक्तिः । न चौपचारिकः कर्म्मणः साधन-
पूर्वपराङ्गाऽग्न्यन्वाधानब्रह्मणतर्प्पणादिना पूर्वोपपादिताऽवस्थान्तरः । एतावताऽप्यसौ नाऽतिशयः, अपि तु देशकालाद्यवस्थाद्यपेक्षाऽऽसादितपरिणतिभेदः । सोऽयमुक्तकारणक्रम आनन्तर्यकर्मणोऽतिवर्त्तमानः किं पुनः समानकालतां कोऽपि कर्म्मणोऽतिशयः400 । ननु निराधारस्य कार्यस्याऽनुपपत्तेरुत्पत्तिधर्म्मा किमाधारोऽयमतिशय ? इत्यत आह—कर्तरि नित्यात्मनि । तत् किं401 कर्तृस्थः कर्त्तुरेव न किं तु कर्म्मणः ननु कर्मैव फलाय चोदितं तत्साधयतु किमन्तर्गर्भिणाऽपूर्वेणे ? त्यत आह—चिरभाविनः फलस्य साधनं कथ्यते वृद्धैः । न हि चिरविनष्टं कर्माऽनुपजनिताऽतिशयभेदं चिरभाविने फलाय कल्पते इत्यर्थः भवत्वेवं प्रकृते किमायातमि?त्यत आह—तदसौ न कर्म्मकाले वर्त्तमानः । अथ सर्वदैव किमवर्त्तमानः ? तथा च गगनकमलिनीकल्पः प्रसज्येतेत्यत आह—स्वकाले वर्त्तमानोऽपि । अथ मा भूदसौ कर्मकाले, तत्काले, तु कर्म्म कस्मात् ? इत्यत आह—आशुतरविनाशितया तत्काले कर्मणोऽतिवृत्तत्वात् । तस्मात्कर्मतदतिशययोरसमानकालतयाऽतिशयवतोऽत्यन्ताऽवर्त्तमानतया वर्तमानविषयनियतं प्रत्यक्षं न तद्गोचरयियितुमर्हतीत्याह—न कर्मसम्बन्धितयाऽध्यक्षमीक्षते । तदुक्तं “फलसाधनरूपेण तदानीं येन नास्त्यसावि”ति । तदेव स्फुटयति-कर्म्मकाले तस्याऽतिशयस्य उक्तकालक्रमस्य भावित्वं तत्काले च कर्मणोऽभावः ।
चोदयति—कथं तर्हि कर्म्मणः साधनत्वं तदपूर्वमन्यसमवायि ? परिहरति—तदाहितत्वात् । न हि स्वसमवाय्येव साधनमिति कश्चिन्नियमः । ननु तथाप्यात्मसमवायित्वादात्मन एव कस्मान्न भवती ? त्याह— कार्याऽनुमेयं तदपूर्वं यत्र च कार्यायाऽलं तत्रैव युक्तम् । अयमर्थः । यदि हि तद्रूपमन्यनिरपेक्षमेव गम्यते ततो यत्प्रत्यासन्नमवगम्यते तस्य स्यात् यथा घटस्य शौक्ल्यं, न त्वेतत्तथा, अपि तु कर्म्मणि करणत्वेन फलाय चोदिते
भावः । काष्ठादिषु तथैव सिद्धेः । ननु न तदस्तीति मन्यन्ते । प्रमाणाऽभावात् । न च श्रुताऽर्थापत्तिः प्रमाणम् । फलसम्बन्धे चोदनाप्रामाण्यविघातात् । असिद्धो हि स तदा चोदनातोऽर्थापत्तितः सिद्धिं समासादयतीत्यर्थापत्तिकारणः स्यात् । अन्यथा कर्म्मफलसम्बन्धसिद्धेरर्थापत्तिप्रसङ्गः । सिद्धे तस्मिन्किमन्यदपेक्ष्य तदुपकल्प्यते ? न हि निरपेक्षा । अपेक्षयामपि यागफलसम्बन्धप्रतीतावर्थान्तरं चेदपेक्षेत कथं तदप्रतिपत्तौ तत्प्रतिपत्तिः ?
तदुपपत्त्यैतत्कल्प्यमानं प्रतिपत्तिदशायां कर्म्मसम्बद्धमेवाऽवगतम् । न ह्यन्यसम्बद्धमेतत्फलसम्बन्धमुपपादयति कर्म्मणः । तथाप्रतीयमानमपि चेत्कर्म्माऽपहायाऽन्येन सम्बध्येत स्वरूपादेव हीयेतेति कर्म्मण्येव तत् । ननु प्रथमं प्रतीयतां नाम कर्म्मसम्बन्धः, वास्तवस्तस्य तेन सम्बन्धो वक्तव्यः । इतरथा तत्प्रतीतेर्मिथ्यात्वप्रसङ्गादित्यत आह—तेन कर्म्मणाऽऽहितत्वात्तस्य कर्म्मणः शक्तिः ।
अपरः कल्पः—कस्मादन्यसमवायि तदपूर्वं न तु कर्म्मसमवायि कल्प्यते ? इत्यत आह—कार्याऽनुमेयं तत्तद्यत्र कार्यायाऽलं तत्रैव युक्तं, न खलु तदाशुतरविनाशि कर्म्माधारं तद्विनाशे विनष्टमामुष्मिकाय फलाय कल्पते । तस्मान्नित्यात्मसमवायीत्यर्थः । यद्यात्मसमवायि तत्तस्यैव शक्तिः न कर्म्मण इत्यत आह—तदाहितत्वात्तस्यैव शक्तिः । न चेत्थमौपचारिकः कर्म्मणः साधनभावः, काष्ठादिषु तथैव सिद्धेः । न खलु काष्ठादीनामपि साक्षाद्व्यक्तिसाधनता, किं त्वौष्ण्याऽपेक्षस्य वह्निसंयोगप्रचयभेदस्य । अथ च काष्ठैः पचन्तीति मुख्यैव साधनता काष्ठानामग्नितन्डुलसमवाय्यपि वह्निसंयोगस्तत्पूर्व इति तथा यागादीनामपि । कृतोपपादनं चैतद् नियोगपरीक्षायाम् ।
ननु न तदपूर्वमस्तीति मन्यन्ते देवानां प्रियाः । कुतः ? प्रमाणाऽभावात् । न च श्रुताऽर्थापत्तिरेवाऽत्र प्रमाणमिति कथं प्रमाणाऽभावः ? इत्यत आह—न च श्रुताऽर्थापत्तिः प्रमाणम् । कस्मात् ? कर्म्मणः फलसम्बन्धे चोदनाप्रामाण्यविघातात् । असिद्धो हि स तदाऽपूर्वकल्पनायाः प्रावकर्म्मफलसम्म्बन्धश्चोदनातोऽर्थापत्तितोऽपूर्वकल्पनायां सत्यां सिद्धिमासादयतीति तद्भावभावादर्थापत्तिकारणोऽर्थापत्तिप्रमाणकः स्यात् । अन्यथाऽनपेक्षाच्छब्दात् कर्मफलसम्बन्धसिद्धेरेव हेतोरर्थापत्तिप्रसङ्गः । उत्तरम् सिद्धे सति कर्मफलसम्बन्धे तत्प्रतीत्या किमन्यदपूर्व विनाऽनुपपद्यमानमपेक्ष्य तदपूर्वमुपकल्प्यते ? न ह्यत्यथाऽनुपपद्यमाने निरपेक्षा प्रतीतिः कल्पनायै प्रभवति । यद्युच्येत यागफलसम्बन्धप्रतीतिरेव नोपपद्यते किमन्येनाऽनुपपद्यमानेनेति ?
नाऽप्रतिपन्नपदार्थो वाक्यार्थो यतः प्रमाणान्तरं चेत् अपेक्षते अनपेक्षत्वं व्याहन्येत । अपि च । श्रुतं वाक्यमनुपपन्नं साऽपेक्षत्वात् “विश्वजिता यजेते” तिवत् अध्याहार्य्यनिर्देशात् । अर्थो वाऽनुपपन्नः । पूर्वत्र वाक्यशेषकल्पना । न “चाऽनुपपत्तिः । स्वर्गकामो यजेते” ति परिसमाप्तेर्वाक्यशेषाऽनुपपत्तेश्चाऽपूर्वं कृत्वेति प्राग्यागादपूर्वोत्पत्तिप्रसङ्गः । यागेनाऽपूर्वं कृत्वेति द्विरुच्चारणं यजेः, पूर्वश्च दोषः । उत्तरत्रापि श्रुततया चेदनुपपन्नः, पूर्व एव विकल्पः । स्वभावान्तरेणाऽनुपपत्तौ श्रुतसिद्ध्यर्थमपूर्वकल्पनेत्यसमीचीनम् ।
तत्राह—अपेक्षायामपि यागफलसम्बन्धप्रतीतौ अर्थान्तरं चेत्स्वोत्पत्तावपक्षेत, तदनुपपन्नम्, कथं हि तस्याऽर्थान्तरस्याऽप्रतिपत्तौ तत्कर्मफलसम्बन्धसिद्धेः प्रतीतिः । नाऽप्रतिपन्नपदार्थो वाक्यार्थो यतः प्रमाणान्तरं चेदपेक्षते न त्वर्थान्तरं तत्राह—अनपेक्षत्वं व्याहन्येत । अपि चाऽनुपपत्तिरपि कि वाक्यस्याऽथ तदर्थस्य ? इति विकल्पयति अपि च श्रुतं वाक्यमनुपपन्नं साऽपेक्षत्वात् ।
कुतः साऽपेक्षत्वम् ? इत्यत आह—विश्वजिता यजेतेतिवदध्याहार्यनिक्षेपात् स्वर्गकामदस्य वाक्येकदेशस्याऽध्याहार्यत्वं तत्समुदाये वा वाक्ये उपचरितमध्याहारो वाऽस्यास्तीति अध्याहारि स्वर्गकामदं, तस्याऽनिर्देशात्सापेक्षत्वमिति द्वितीयपक्षमाह—अर्थो वाऽनुपपन्नः । एवं विकल्प्य दूषयति— पूर्वत्र वाक्यशेषपरिकल्पना स्यात् । न हि वाक्यमपरिपूर्णमतज्जातीयेनाऽर्थेन पूरयितुं शक्यमाप तु शब्देनैवेति लौकिकीस्थितिः । तदेतद्वाक्यं नोपपद्यत इत्यङ्गीकृत्योक्तम् । परमार्थतस्तु—वाऽनुपपत्तिः । कुतः ? दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति पदैः स्वार्थाऽभिधानद्वारेण वाक्यार्थप्रतीतेः परिसमाप्तेः । यश्च वृद्धैर्वाक्यशेषः परिकल्प्यतेऽपूर्व कृत्वेति सोऽप्यनुपपन्न इत्याह— वाक्यशेषाऽनुपपत्तेश्चाऽपूर्व कृत्वेत्यपूर्वकत्वात् । स्वर्गकामो यजेतेति हि वाक्यादयमर्थः प्रतीयते येन केनचिदपूर्वं कृत्वा यजेत स्वर्गकाम इति । तथा सति प्राग्यागादपूर्वोत्पत्तिप्रसङ्गः । यदि पुनरपूर्वकरणेऽपि यागेनेति सम्बध्येत ततः फलेऽपि तत्सम्बन्धनीयमिति द्विरुच्चारणं यजेः पूर्वश्च दोषः । न तावद्येनैव यागेनाऽपूर्व क्रियते तेनैव पश्चात्फलमपि, कर्म्मणो विरम्य व्यापाराऽनुपपत्तेः । अर्थाद्यागान्तरेण । तथा च प्राग्यागात्फलसाधनादपूर्वोत्पत्तिप्रसङ्ग इति पूर्वोक्तदोषः । उत्तरत्रापि च श्रुततया चेदनुपपन्नो वाक्यार्थः पूर्व एव विकल्पः । तेन सह तुल्यदोषत्वात् । तेनात्रापि च शाब्दतयैवार्थान्तरकल्पनीयं यतः । यदि तु तत्त्वं परित्यज्य स्वभावान्तरेणा402 ऽनुपपत्तिरास्थीयेत तत्राह—स्वभावान्तरेणाऽनुपपत्तौ श्रुतसिद्ध्यर्थमपूर्वस्य कल्पनेति वृद्धवचनमसमीचीनं स्यात् । सोऽयं देवानाम्प्रियैः प्रणीतो दूषणगणो देवचूडामणिभिरेव परिहरणोय इत्याचार्येणापि नोदधारि, तत्र के वयं ते तव ममेति तत्रोपक्षीणमतिविभवा इति ।
अपि च पौरुषेयत्वे सति वेदानां सर्वज्ञप्रणीततया तदनुविधायिनां तेभ्यः प्रतिपत्तिर्भवेदपि, न पुनरस्ति पौरुषेयता । ननु वाक्यमात्रं पुरुषाऽधीनवचनम् । तथा हि दुर्भणत्वेन वर्णाऽनुपूर्व्यभेदसम्बन्धेन विशिष्टेन वा विषयाऽऽनयनादिकार्येण समानात्मानः पौरुषेया अपि पदक्रमास्तेषु तेषु बौद्धाद्यागमेष्वपि प्रतिपन्नपौरषेयत्वेषु दृश्यन्ते । यच्च यस्मादभिन्नस्वभावं न तत्ततो भिन्नहेतुकं यथैकस्मात्कलमाऽङ्कुरादभिन्नस्वभावं कलमाङ्कुरान्तरं तत्समानहेतुकं, तथा लौकिकीभ्यः पदानुपूर्वीभ्योऽभिद्यमानस्वभावा वैदिकाः पदसन्निवेशा इति स्वभावहेतुः । भिन्नकरणत्वाद्धि स्वविरुद्धभिन्नस्वभावत्वव्याप्तात्स्वभावविरुद्धोपलब्धान्निःस्वभावत्वं व्यावर्त्तमानं कारणाऽभेदेन व्याप्यत इति प्रतिबन्धसिद्धिः ।
अत्रोच्यते । किं वेदवाक्यानां पुरुषप्रणीतत्वमात्र साध्यते आहो स्वित् स्वतन्त्रपुरुषप्रणीतत्वमि?ति । पूर्वस्मिन् सिद्धसाधनम् । न खलु वयमपि नित्यत्वेऽपि वर्णानामानुपूर्वीविशेषोपहितसीमपदमभेदवाक्यानामपौरुषेयतामाऽऽचक्ष्महे403 । तथा हि । वर्णानां नित्यतया विभुतया च देशतः कालतो वा न सम्भवत्यानुपूर्व्यमित्यभिव्यक्त्याश्रयं तद्वक्तव्यम् । सा च पुरुषप्रयत्नयोनिरिति कथं तद्भेदोपहितमर्यादानां गवादिपदानां वेदवाक्यानां च पौरुषेयते ? ति । अथ स्वतन्त्रपुरुषप्रणीतत्वं “मा निषादा”दिवाक्यवत् । प्राचेतसः खल्वत्रभवानादिकविः स्वतन्त्रः, तद्वद्वेदवाक्येष्वपि कश्चिदोश्वरादिरिति साम्प्रतम् । अनैकान्तिकत्वात् । स्वतन्त्रप्राचेतसपुरुषप्रणीतत्वाऽभावात्404 ।
स्यादेतत् । न स्वतन्त्रपुरुषप्रणीतत्वं वेदवाक्यानां साधयामः, अपि तु स्वतन्त्रपुरुषपूर्वकत्वम् । अस्ति चाऽस्मदादिपुरुषप्रणातेष्वपि “मानिषादा”दिपदसन्निवेशेषु पारम्पर्येण पुराणस्य कवेः स्वातन्त्र्यमिति नानेकान्त इति । तदनुपपन्नम् । पुरुषप्रणीततामात्रेण कारणाऽभेदेन लौकिकात्पदसन्निवेशाद्वैदिकानामभेदोपपत्तावप्रतीतस्य वेदेषु पुरुषस्वातन्त्र्यस्याऽप्रयोजनकस्य कल्पनानुपपत्तेः तत्समानसन्निवेशत्वस्य पुरुषपारतन्त्र्येणाऽऽत्यन्तिके नास्ति कश्चिद्विरोधः । येन तद्विपक्षादात्यन्तिकपारतन्त्र्याद्व्यावर्त्तमानं पुरुषस्वातन्त्र्याऽप्रयोजनकस्य कल्पनाऽनुपपत्तेः । तत्समानसन्निवेशे च पुरुषपारतन्त्र्येणाऽऽत्यन्तिकेन नास्ति कश्चिद्विरोधः । येन तद्विपक्षादात्यन्तिकपारतन्त्र्याद्व्यावर्तमानं पुरुषस्वातन्त्र्येण व्याप्येत । तेन यथा समानमैत्रीजन्मस्वपि मैत्रीतनयेष्वन्नपानविशेषोपयोगनिमित्ता श्यामता केषाञ्चिदेव न सर्वेषामिति तत्तनयतया न श्यामताऽनुमानमेवं विलक्षणप्रयत्नस्थानाऽभिघातादिजन्मवाक्यनिष्पत्तेस्तद्भेदाऽभेदाऽनुविधायिभेदाऽभेदो युज्यते न पुनः पुरुषपारतन्त्र्ये तन्त्रीकर्तुमुत्सहते । सोऽयं सन्दिग्धव्यतिरेकतयाऽतैकान्तिको हेत्वाभासः ।
यस्तु दर्शनकथन्तासम्बोधरहितो यथादर्शनपूजकः प्रमाणयेत् दृष्टानि हि भारतादिवाक्यानि स्वतन्त्रपुरुषप्रणीतानीति वेदवाक्यान्यपि वाक्यत्वात्तथाविधानीति, स वक्तव्यः, विवादाध्यासितं वेदाऽध्ययनमध्यनान्तरपूर्वकं वेदाध्ययनत्वादस्मदादिवेदाध्ययनवत् । नैवं भारतादिषु अस्याऽनुमानम् । तत्र दृढतरेण कृष्णद्वैपायनादिस्मरणेनाऽनुमानस्य बाधेन विधेयत्वादनुत्पादात् । वेदे तु कर्तृस्मृतिद्रढिमाऽसम्भवात्काठकादिसमाख्यातस्य प्रवचनमिति वचनोपपत्तेरबाधितविषयस्याऽनुमानस्याऽप्रत्यूहमुत्पत्तेः । न च भवदनुमानमस्य विषयबाधे प्रभवति । तस्य सामान्यतोदृष्टसम्बन्धात्सामान्यशास्त्रस्यैव विशेषशास्त्राद् दुर्बलत्वात् । तथाह—
प्रसिद्धाऽवयवं यत्स्याद्विशेषे वा प्रतिष्ठितम् ।
तत्साध्याङ्गकसामान्यदृष्टात्तु बलवत्तरम् ॥ इति ।
स्यादेतत् । शब्दानामर्थप्रत्यायनस्य पुरुषसङ्केताऽधीनजन्मत्वात्तत्सम्बन्धा केनचिल्लौकिकसंव्यवहारार्थ शब्दानामर्थैः सम्बन्धान् कृत्वा405 वेदः प्रणीतः । न चाऽर्थप्रत्यायनं प्रति शब्दानां स्वाभाविकी शक्तिः सङ्केतेन व्यज्यत इति साम्प्रतम् । यदि हि सत्यपि सङ्कते कश्चिद् ध्वनिः कञ्चनाऽर्थ नाऽवभासयेत् ततः कस्यचित् सङ्केताऽभिव्यक्तसामर्थ्यस्य स्वाभाविकमुपपद्येत वाचकत्वं, न त्वेतदस्ति । सङ्केतमन्तरेण ध्वनेरर्थरूपस्याऽप्रतिपादकत्वात् । सति तु सङ्केते सर्वस्मादपि सर्वार्थप्रत्ययोत्पत्तिदर्शनात् । तदयुक्तम् । अन्तरेणापि सङ्केतमनादिवृद्धव्यवहारदर्शनादभिव्यक्तसामर्थ्येभ्यः शब्देभ्योऽर्थप्रतिपत्तेरुपपत्तेः । सम्बन्धकल्पनायामर्थापत्तिपरिक्षयात् । न च व्यवहारदर्शनमेव सङ्कोच इति साम्प्रतम् । न खल्वेतदनेन शब्देनाऽयमर्थः
उच्यते—
उपदेशो नियोज्यार्थकर्म्माप्रस्थितचोदना ।
प्रथितो गुरुवैद्यादौ नित्येऽपि न न कल्पते ॥
यद्यप्याज्ञाऽभ्यर्थना वेदेऽनुपपन्नाः, उपदेशस्तु युज्यते । सोऽपि तद्वदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । तथा हि—आज्ञाऽभ्यर्थने हि प्रत्येतव्य इत्येवमाकारम्, अपि तु शब्दोच्चारणसमनन्तरप्रवृत्तिनिवृत्तिहर्षाद्याभासम् । तच्च स्वप्रवृत्त्यादिनिबन्धनाऽर्थभेदविषयप्रख्याऽनुमानद्वारेण406 शब्दस्य तत्र कारणतायां प्रमाणम् । न च व्युत्पद्यमानास्तदा सङ्केतं सङ्केतस्य कर्त्तारं वा प्रतियन्ति । न चेह सङ्केतं तस्य च कर्त्तारमन्तरेण कस्यचित्परिदृश्यमानस्याऽनुपपत्तिः । ततो नूनं स्वभावतः शब्द एवाऽर्थभेदप्रत्ययस्यहेतुरित्यध्यवस्यति । न च गवादिशब्दानामश्वादौ देवदत्तादिशब्दानां च तत्र तत्र सङ्केताऽधीनतया प्रवृत्तेर्गोत्वादावपि गवादिशब्दाः सङ्केताऽऽयत्तप्रवृत्तय इति शक्याऽनुमानम् । अनादिवृद्धव्यवहारपरम्पराऽभिव्यक्तस्वाभाविकाऽर्थप्रत्ययहेतुभावानां स्वार्थवृत्तेः सङ्केताऽभावेन सह सम्भवादविरोधात् । यथादर्शनपूजकं प्रति तु शक्यमेवं प्रत्यवस्थातुम् । विवादाऽध्यासिताः पुमांसो गवादिपदेभ्यो गोत्वादिषु सङ्केताऽनायत्तप्रतिपत्तयो गवादिपदेभ्यो गोत्वादिप्रतिपत्तिमत्त्वादस्मदादिवदिति । विपञ्चितं चैतद्वृद्धैरिति दिङ्मात्रमत्र सूचितं, क्षन्तव्यं च किञ्चिदुद्ग्रन्थाऽभिधानं सूरिभित्युपरम्यते । ॥ इति पूर्वकणिका समाप्ता ॥
सिद्धान्तमुपक्रमते—उच्यते ।
उपदेशो नियोज्यार्थकर्माऽप्रस्थितचोदना ।
प्रथितो गुरुवैद्यादौ नित्येऽपि च न कल्पते ॥
तत्र यत्तावदुक्तम् ऽअपौरुषेये प्रैषादिर्नृधर्मो नाऽवकल्पत इति । तेन यद्याज्ञाऽभ्यर्थनाऽनुज्ञाः प्रतिषिध्यन्ते तदनुजानीमहे एव, उपदेशप्रतिषेधं तु न मृष्यामह इत्याह—यद्यप्याज्ञाऽभ्यर्थनानुज्ञा वेदेऽनुपपन्नास्तस्याऽपौरुषेयत्वेन चेतनस्य नियोक्तुरभावात् । उपदेशस्तु युज्यते । तस्याऽपौरुषेयेऽपि सम्भवात् । न ह्यसौ नियोजकार्थकर्म्मेति वक्ष्यति, येन चेतनकर्तृकः स्यात् । न चासौ न लौकिकोऽप्रेरणात्मको वा, येनाऽविधिः स्यादित्याह—सोऽपि तद्वदेवाऽज्ञावदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते । ननु च यदि प्रेरणात्मकः कथमाज्ञादिभ्यो भिद्यते ? भिद्यते चेत्कथं प्रेरणात्मकः ? इत्यत आह— तथा हि । आज्ञाऽभ्यर्थने हि नियोक्त्रर्थमनादृतनियोज्यफलं कर्म गोचरयतः,
नियोक्त्रर्थमनादृतनियोज्यफलं कर्म्मगोचरयतः । नियोज्यार्थं तूपदेशः । अनुज्ञा तु यद्यप्येवं क्वचित्तथापि प्रवृत्तपुरुषविषयत्वान्नोपदेशः । नियोज्यार्थकर्म्मगोचरमप्रवृत्तप्रवर्तनमुपदेशमाचक्षते धीराः । न हि गामभ्याज, माणवकमध्यापय, कुरु यथाऽभिमतमित्युपदेशप्रतीतिः । नापि भैक्ष्यं चरेत्, ज्वरितः पथ्यमश्नीयादित्याज्ञादिप्रतीतिः407 । भूयसा चैष पौरुषेयेषु कामार्थशास्त्रादिष्वाज्ञादिभिरनारूषितो लोके प्रज्ञायते । गोपालादिवचःसु च मार्गाऽऽख्यानपरेषु अनेन पथा गच्छेति । न हि हीनस्याज्ञानात्मार्थे408 कर्मण्य-
नियोज्यार्थं तु कर्मोपदेशो गोचरयति । तदनेनैवोपदेशो नियाज्याऽर्थकर्मेति कारिकार्थो विवृतः ।
एतदुक्त भवति । आज्ञाऽभ्यर्थनोपदेशाः कर्मणि प्रवृत्तिजननेन तद्गोचरयन्तो भवन्ति प्रेरणात्मतया समानास्तेषामाज्ञाऽभ्यर्थनाभ्यां गोचरीक्रियमाणं कर्माऽनादृतनियोज्यप्रयोजनमाज्ञापयितुरभ्यर्थयमानस्य वा प्रयोजनायाऽवकल्पते । उपदेशगोचरस्तु कर्माऽनादृतोपदेशकप्रयोजनमुपदेष्टव्यार्थमेवेत्ययमाज्ञाऽभ्यर्थनाभ्यामुपदेशस्य भेदः प्रेरणात्मकत्वं चेति नियोज्यार्थं कर्म यस्योपदेशस्य न तु नियोक्त्रर्थ स तथोक्त इत्यक्षरयोजना ।
ननु यदि नियोज्यार्थकर्मोपदेशः हन्ताऽनुज्ञाऽप्युपदेशः प्रसज्येत । सोऽपि हि क्वचिन्नियोज्याऽर्थकर्मेत्यत आह—अनुज्ञा तु यद्यप्येवं क्वचित्तथापि प्रवृत्तपुरुषविषयत्वान्नोपदेशः । नियोक्त्रथकर्मापि अनुज्ञा भवत्येव । तथा हि । भृत्यस्य प्रभवे हितं चिकीर्षोरप्यस्ति हितकामितया सहसा कुर्वतः प्रभोरभ्यनुज्ञेति क्वचिद्ग्रहणम् । अनेनाऽप्रस्थितचोदनेति विवृतम् । अप्रस्थितस्याऽप्रवृत्तस्य पुंसः प्रस्थापना चादनेत्यक्षरयोजना । लोकप्रसिद्धोऽयमीदृश उपदेश इति कुत ? इत्यत आह—नियोज्याऽर्थकर्मगोचरमप्रवृत्तप्रवर्त्तनमुपदेशमाचक्षते धीराः । न चाऽऽख्यानमात्रमवगतिरप्याज्ञादिविलक्षणोपदेशालम्बनाऽस्तीत्याह—न हि गामानयेत्याज्ञायां माणवकमध्यापयेत्यभ्यर्थनायां कुरु यथेहितमित्यनुज्ञायामुपदेशप्रतीतिः । नापि भैक्ष्यं चरेज्ज्वरितः पथ्यमश्नोयादित्याज्ञादिप्रतीतिः । न चाऽस्योपदेशस्य क्वचित्कथञ्चिदवगतिः, भूयसा प्रकारेण सर्वत्राऽवगतेरित्याह—भूयसा चैव पौरुषेयेषु कामाऽर्थशास्त्रादिष्वाज्ञादिभिरनारूषिता लोके प्रज्ञायते । शास्त्रकारा हि नैसर्गिकवैनयिकबुद्ध्यतिशयसम्पन्ना लौकिकाः न केवलं शास्त्रेषु निकृष्टबुद्धिवचनेष्वपीति प्रसिद्धतरत्वमाह—गोपालादिवचस्सु च मार्गाऽऽख्यानपरेष्वनेन पथागच्छेति । अथैतदाज्ञादीनामन्यतमत्कस्मान्न भवति ? इत्यत आह—न हि
भ्यर्थनानुज्ञानमप्रवृत्तस्य । अत एव चोपदेशः । इत्याज्ञादिभ्यो भेदेन तस्य प्रतीतत्वात्तस्य ज्ञानमुपदेश इति ततो भिन्न उपदेशशब्देन दर्शितः । भवतु ततो भिन्नः, कः पुनरसौ ? ननूक्तमुपदेश इति विशिष्टस्य शब्दस्योच्चारणम् । यद्येवभव्युत्पन्नस्यापि प्रवृत्तिप्रसङ्गः । उच्यते—
विशिष्टः पुरुषार्थस्य शुद्धस्योपायमाह यः ।
पुरुषार्थो यदा येन यो नरेणाऽभिकाङ्क्ष्यते ॥
पुरुषार्थस्योपायसनवगतमवगमयन्नुत्कर्षाद्विशिष्टः शब्द उक्तः । अन्यथा सर्व एव शब्दः शब्दान्तराद् भिन्न इति अविशेषणमेव स्यात् । अतो हीनस्याऽज्ञानात्मार्थे कर्मण्यभ्यर्थनाऽनुज्ञानमप्रवृत्तस्य । यत एव तद् गोपालवचोऽत एव प्रसक्तानामाज्ञादीनां प्रतिषेधादन्यत्रोपाख्यानादावप्रसङ्गाच्छिष्यमाणे सम्प्रत्यय इत्याह—अतएवोपदेशस्तत एव चाऽयमपौरुषेयेऽपि सम्भवतीति सत्रकारेण दर्शित इत्याह—इति तस्मादाज्ञादिभ्यो भेदेन लब्धप्रतीतित्वात्तस्य ज्ञानमुपदेश इति तत आज्ञादिभ्यो भिन्न उपदेशो दर्शितः । भवतु ततो भिन्नः, कः पुनरसौ ? समानाऽसमानजातीयव्यवच्छेदकमस्य वाच्यमित्यर्थः ।
ननु चोक्तं भाष्यकृता उपदेश इति विशिष्टस्योच्चारणं विशिष्टस्येति वदता शब्दस्य रूपगतो विशेष उक्तः । स च प्रत्यक्षशब्दवर्त्तितया प्रत्यक्ष इति प्रथमश्राविणोऽपि प्रवृत्तिप्रसङ्ग इत्याह—यद्येवमव्युत्पन्नस्यापि प्रवत्तिप्रसङ्गः । न प्रत्यक्ष व्युत्पत्तिमपेक्षत इत्यर्थः । उच्यते—
विशिष्टः409 पुरुषार्थस्य शुद्धस्योपायमाह यः ।
पुरुषार्थो यदा येन यो नरेणाऽभिकाङ्क्ष्यते ॥
शब्दगतो विशेषः प्रतिशब्द समवायादप्रयोजक इत्यर्थगतेन हेतुना विशेषेण विशिष्टः शब्द उक्तः । स चाऽयमर्थगतो विशेष इत्याह—पुरुषार्थस्योपायमनवगतमवगमयन्नुत्कर्षाद्विशिष्टः शब्द उक्तः । अन्यथा सर्वः शब्दः शब्दान्तराद्भद्यत इत्यविशेषणमेव स्यात् । अनवगतमित्यनुज्ञाया व्यवच्छिनत्ति । यतश्चाऽर्थविशेषेणोपदेशता शब्दस्य तस्य च नाऽनवगतसङ्गतिना पुरुषेण प्रतीतिः अतोऽपि व्युत्पत्तेरपेक्षेत्याह—अतो नाऽविदितार्थस्य प्रथमश्राविणः पुरुषस्यापदेशात्प्रवृत्तिः ननूपदेशो विधिः, स चाऽर्थभेदाऽभिधायकः शब्द इति क्वचित्क्वचिदुच्चारणमाह शब्दस्योच्चारणमिति । क्वचिदर्थम्, विध्युद्देशेनैकवाक्यत्वादिति । क्वचिद्वचनं चोदनेति ।
नाऽविदितार्थस्य प्रवृत्तिः । प्रदर्शनार्थं चेदम् । अतोऽर्थशब्दाऽभिधोच्चारणादिज्ञानं च कर्म्मकर्तृकारणभावसाधनेनोपदेशशब्देनोच्यते प्रेषणादिवत् । तैरपि हि यथाविवक्षितमर्थादयो निर्दिश्यन्ते । अर्थस्तर्हि प्रवर्त्तकः । सत्यं, शब्दोऽपि, तत्प्रतिपादनात् । कथं तर्ह्यङ्गोपदेशः ? अपेक्षितो ह्यर्थः पुरुषाऽर्थः । अन्यथा ग्रामादिरपि न तथा स्यात् । अपेक्षितश्चोपदिष्टसाधनाऽनुग्रहः । ननु लिङादिभ्यः प्रवर्त्तनाऽवगम्यते । पराहतं चेदम्
क्रियायाः प्रवर्तकं वचनमिति । क्वचित् ज्ञानं शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमिति । वार्तिककारश्चाऽभिधाभावनामाहुरित्यभिधामिति । अत आह—प्रदर्शनार्थ चेदं, विशिष्टः शब्दो विधिरिति । अतोऽर्थशब्दाऽभिधोच्चारणादिज्ञानं च कर्मकर्त्तृकरणभावसाधनेनोपदेशशब्देन यथायथमुच्यते । तेषु तेषु शास्त्रप्रदेशेषु चोदनाविधिशास्त्रशब्दा उपदेशशब्दा एवेत्यर्थः । अत्रैव लौकिकं निदर्शनमाह—प्रेषणादिवत् । कथमेतन्निदर्शन मि?त्यत आह—तैरपि हि प्रेषणादिशब्दैः कर्मकरुणसाधनैर्यथाविवक्षमर्थादयो निर्दिश्यन्ते । यद्यर्थभेदाऽभिधायित्वेन उत्कर्षः तर्हि प्राप्ताऽप्राप्तविवेकेनाऽर्थ एव प्रवर्तको न शब्द इति चोदनालक्षणोऽर्थो धर्म इति शास्त्रकृद्ववचनव्याघातः प्रसज्यत इत्याह—अर्थस्तर्हि प्रवर्तकः ।
परिहरति—सत्यं, शब्दोपि प्रवर्तकस्तत्प्रतिपादनात् । अयमभिसन्धिः । न तावत्साक्षादपेक्षितोपायताऽपि प्रवृत्तिहेतुः, तस्याः प्रवृत्तेः प्रागभावादपि तु स्वज्ञानेन प्रवर्त्तयतीति तत्र शब्देनैव जन्यत इति यथाऽर्थस्तद्विषयत्वात्प्रवर्तकस्तथा शब्दोऽपि तज्जनकत्वादित्यविशेषः । तथा च न व्याघातः । एतेन पूर्वार्धं कारिकाया व्याख्यातम् । अत्र च पुरुषार्थस्येति पुरुषो नियोज्योऽभिमतः शुद्धस्येति नियोज्यार्थस्यैव न नियोक्त्रर्थस्येत्यर्थः । ननु यदि पुरुषार्थोपायाऽभिधायी शब्द उपदेशः, कथं तर्ह्यङ्गोपदेशः ? न खल्वङ्गानि पुरुषार्थसाधनानि, अपि तु क्रत्वर्थानि । परिहरति—अपेक्षितो ह्यर्थोऽत्र पुरुषार्थो, न हि जात्या कश्चित्पुरुषार्थो व्यवस्थितः । अन्यथा ग्रामादिरपि न तथा स्यात् । तस्यापि स्वयमसुखवत् कदाचित्कथञ्चिदिष्यमाणत्वाच्चेन्न तर्हि जात्या पुरुषार्थत्वम् । यथाह न्यायवादी ऽसोऽयं प्राण्यर्थोऽपरिसङ्ख्येयः प्राणभृद्भेदस्याऽपरिसङ्ख्येयत्वादिति410 । न चाङ्गकार्यं प्रति जात्यैवाऽपेक्षा नास्ति पुरुषाणामित्याह—अपेक्षितश्चोपदिष्टसाधनस्य श्रेयःसाधनाऽनुग्रहः । अननुग्रहे साधनवैगुण्येन श्रेयसोऽजननात् ।
उपदेशो नियोज्यार्थकर्माप्रस्थितचोदनेति411 । नेदं पराहतम412 । तथा हि—
पुंसो नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥
प्रवृत्तिसमर्थो हि कश्चिद्भावाऽतिशयो व्यापाराऽभिधानः प्रवर्त्तना । सा च क्रियाणामपेक्षितोपायतैव । न हि तथात्वमप्रतिपद्य तत्र प्रवर्त्तते
अत्र चोदयति—ननु लिङादिभ्यः प्रवर्तनाऽवगम्यते । अन्यथा तच्छ्राविणः प्रवृत्त्यनुपपत्तेः । न पुनः पुरुषार्थोपायता । न खलु भूतार्थप्रतीतिः प्रवृत्तिहेतुः । पराहतं चेदमुपदेशो नियोज्यार्थकर्माऽप्रस्थितप्रचोदनेति413 । यदि हि नियोज्यप्रयोजनं कर्मभूतमाहुः कथमसावप्रवृत्तप्रवर्त्तना ? सेयं पराहतिः । नेदं पराहतं पराहतिपरिहारेण सर्व परिहृतं भवतीत्याशयः । कुतः ? तथा हि—
पुंसो नेष्टाऽभ्युपायत्वात् क्रियास्वन्यः प्रवर्त्तकः ।
प्रेक्षावतां हि कायवचनचेष्टे प्रयत्नपूर्विके, प्रयत्नश्च रागपूर्वः, सुखानुशयी च रागो न दुःखे नाप्यसुखे414 भवितुमर्हति, द्वेषादुपेक्षणाच्च । क्रिया च दुःखेत्यनुभवो लोकस्य । सा यदि सुखसाधनमपि न स्यान्नाऽस्यां सुखार्थिनः प्रवर्त्तेरन् । चैते उपायाः साक्षात् सुखे प्रवर्त्तितुमीशते इति प्रेक्षावद्व्यापारोपरमप्रसङ्गः । तस्माद् दुःखरूपासु क्रियासु सुखसाधनतैवेच्छोपहारमुखेन प्रवर्त्तयति । स्वविज्ञानेन चाऽसाविच्छां प्रवृत्तिहेतुमुपहरतीत्युक्तम् । यदि पुनः शब्दः सुखसाधनतां न प्रतिपादयेन्न क्रियायां पुरुषं प्रवर्त्तयेत् । ननु तथापीष्टसाधनतामात्रं शब्देन प्रतिपादितं, कुतः पुनरतः प्रवर्त्तनाप्रत्ययः ? इत्यत आह—
प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ॥
तद् व्याचष्टे—प्रवृत्तिसमर्थो हि कश्चिद्भावाऽतिशयो व्यापाराऽभिधानः प्रवर्त्तना । अयमर्थः । न वयं परिस्पन्दमेवैकं व्यापारमाचक्ष्महे, येनाऽस्पन्दनात्मनः समीहितसाधनताया अप्रवर्त्तनात्मत्वेन पर्यनुयुज्येमहि, अपि तु भावधर्म एव कश्चित्समीहितसाधनाऽनुगुणो व्यापारपदार्थः । तद्यथा आत्मनो बुद्ध्यादिजननप्रवृत्तस्य मनःसंयोग एवाऽयं भावधर्मः415 । तद्वदत्रापि स्पन्दस्तदितरो वा भावधर्मः प्रवृत्तिजननाऽनुकूलतया व्यापारविशेषः प्रवर्तना । न चाऽसौ शब्दस्तद्भावना चेत्याह—सा च क्रियाणामपेक्षितोपायतैव । कुतः ?
कश्चित् । याप्याज्ञादिभ्यः416 प्रवृत्तिः सापि कथं चिदपेक्षितनिबन्धनत्वमुपाश्रित्यैव । अन्यथाऽभावात् । ननु कर्त्तव्यमिति प्रतिपत्तेः प्रवृत्तिः । कथं
न हि तथात्वमपेक्षितोपायत्वमप्रतिपद्य तत्र क्रियासु प्रवर्त्तते कश्चित् । नन्वनपेक्षितोपायेऽप्याज्ञया राज्ञः प्रवर्त्तन्ते प्रेक्षावन्त इति कथमपेक्षितोपायतैव प्रवृत्तिहेतुः ? इत्यत आह—याप्याज्ञादिभ्यः प्रवृत्तिः साऽपि कथञ्चिदपेक्षितनिबन्धनतामुपाश्रित्यैव । यद्यप्याज्ञादयो नियोक्त्रर्थकर्माणस्तथापि तद्विषयसम्पादनस्य कथञ्चिन्नियोज्याऽपेक्षितनिबन्धनत्वमप्यस्ति । तथा हि । तत्सम्पादनपरितोषित आज्ञापयिता समीहितमस्मै प्रयच्छति अहितं वा न विधत्ते । तदिदमपेक्षितमुपाश्रित्य भृत्यस्य प्रवृत्तिः । कुतः पुनरेतदि?त्याह—अन्यथा तदनुपाश्रये प्रवृत्तेरभावात् न खलु यस्य यो न हिताऽहितप्राप्तिपरिहाराभ्यां यतते स तदाज्ञामनुरुध्यते । न चैतावतोपदेशस्याऽऽज्ञादिभिरविशेषः, तेषां नियोजकाऽर्थसमुद्देशेन प्रवृत्तेरानुषङ्गिकत्वान्नियोज्यार्थस्योपदेशस्य तद्वैपरीत्यात् । तस्माल्लिङादिभ्यः प्रवर्तनाऽवगतिरुपपन्नाऽनुपपन्ना च पराहतिरिति ।
अत्र केचिदाम्नायं प्रति श्राद्धमानिनः प्राहुः । ननु कर्त्तव्यमिति प्रतिपत्तेः प्रवृत्तिः । इदमाकूतम् । कार्यदर्शनोन्नेयव्यापृतयः खल्वमी लिङादयः । कर्यं च प्रवृत्तिलक्षणं वृद्धानां लिङादिश्रवणसमनन्तरमुपलभ्यते । तच्च बुद्धिपूर्वकं, स्वतन्त्रप्रवृत्तित्वात् अस्मत्प्रवृत्तिवत् । अनुमिता च बुद्धिरस्मत्प्रवृत्तिहेतुबुद्धिगोचरचारिणी प्रवृत्तिहेतुबुद्धित्वात् अस्मत्प्रवृत्तिहेतुबुद्धिवदिति । तस्याश्च विषयं स्वयमेव चक्षुरुन्मील्य पिण्डिकरोगं417 परित्यज्य पर्यालोचयन्तः शब्दव्यापारपुरुषाशयतत्समीहिततत्साधनताव्युदासेन कर्त्तव्यतामेव प्रतिपद्यामहे । तथा हि । स्तनपानादावपि न जातु समीहितोपाय इत्येव प्रवृत्ताः स्मः, किं तु कर्त्तव्यमेतदिति । अतीते वर्त्तमानेऽनागते च सामुद्रविदाख्याते एतत्ते भवितेतिवत्कर्त्तव्यतात्मना प्रवृत्तेः । तदवगमे च तदात्मनि प्रवृत्तेः कर्त्तव्यतैव प्रवृत्तिहेतुरिति लिङादिश्रवणाऽनन्तरा प्रवृत्तिः कर्त्तव्यताऽभिधानमेव लिङादीनामापादयति । तथा च विदितसङ्गतितया लिङादयो वेदेऽपि तामेवाऽभिदधते । एतावांस्तु भेदो लौकिकवचसः प्रमाणान्तराऽपेक्षप्रवृत्तित्वादपेक्षितोपायताप्रतीतिपुरःसरत्वाच्च दुःखरूपक्रियाकर्त्तव्यताऽवगतेरपेक्षितोपायतां तत्प्रमाणभूतामन्तर्भाव्य कर्तव्यताऽवगतिः । अपौरुषेयस्तु वेदो न स्वार्थे प्रमाणान्तरमपेक्षत इत्यपेक्षितो
हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ? यो हि स्वर्णमुपलभ्य मृत्तिकेत्याह कस्तस्योत्तरं दद्यात् ? कः पुनरयमर्थः कर्त्तव्यमिति ? न कश्चित् । प्रतिभा । का पुनरियम् ? नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा418 प्रतिभाक्रियाविषयत्वे हि क्रियाप्रतीतिः स्यात् । सा च प्रवृत्तिहेतुः ।
पायताऽवगमनिरपेक्ष एव कर्त्तव्यताऽवगमहेतुः । तथा च सा वेदादवगम्यमानाऽनुष्ठातारमधिकारिणं नियोज्यमपेक्षते, न पुनः साध्यमस्या एव, ताद्रूप्यात् । नियोज्यश्च यत्र साध्यविशिष्टो भवेत् तत्र साध्यबुद्धिर्यथा स्वर्गकामो यजेतेति । यत्र त्वसौ निमित्तवान्यथा यावज्जीवमिति निषिध्यमानक्रियाकर्त्ता वा यथा न कलञ्जं भक्षयेदिति तत्र भगवानाम्नाय एव निरस्ताऽखिलदोषाशङ्को भावार्थविषयं नञर्थविषयं वा कार्य हिताऽहितसाधनताऽवगमनिरपेक्षोऽवगमयन्प्रवृत्तिं निवृत्तिं वा विधत इति किमपेक्षितोपायतयेति ।
नन्वपेक्षितोपायतामन्तरेण कर्त्तव्यमिति शतशोऽप्यभिधीयमानं न प्रवृत्तये कल्पत इत्यत आह—कथं हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ? शब्दस्तावत्कर्तव्यतायां विदितसङ्गतिस्तामवगमयति । तथा नैमित्तिकनिषेधाऽधिकारयोरसौ प्रतीयमाना न शक्या नेति वक्तुम् । न चाऽपेक्षितोपायतानिवृत्तौ तस्या अपि निवृत्तिरिति साम्प्रतम् । सा हि तस्यां न प्रमाणम् । न चैकप्रमाणनिवृत्तौ प्रमाणान्तरेण प्रतीयमानं तदेव निवर्त्तितुमर्हति । न हि सन्तमसे द्रव्यं चक्षुषा न गृह्यते इति न त्वचा व्यवस्थाप्यते । न च निमित्तान्तरं नैमित्तिकाऽपूर्वं न कर्त्तव्यं प्रेक्षावता । असुखत्वे सति हिताऽहितप्राप्तिपरिहाराऽनुपायत्वात् काकदन्तपरीक्षावदित्यनुमानं सम्भवति । आम्नायजन्मना कर्तव्यताबोधेन बाधितविषयत्वात् । तदाह—यो हि स्वर्णमुपलभ्य मृत्तिकेत्याह कस्तस्योत्तरं दद्यात् ? तस्मादनपेक्षादाम्नायात् कर्त्तव्यताऽवगताऽनुष्ठानमाक्षिपत्येव419 । अन्यथा तत्त्वाऽनुपपत्तेः । तस्यास्तन्नान्तरीयकत्वात् । तस्मात्सूक्तं कथं हि तथा प्रतिपद्यमानो न प्रवर्त्तेत ।
ननु यदि न हितसाधनता कर्त्तव्यता तर्हि तदर्थतत्त्वं वाच्यम्, न च तदस्तीत्याशयवान्सिद्धान्ती पृच्छति—कः पुनरयमर्थः कर्त्तव्यमि?ति । तत्रान्तरे पूर्वपक्ष्येकदेशी प्राह—न कश्चित् । नन्वेवमसदर्था कर्त्तव्यतावगतिरप्रमाणम् । अप्रमाणं च न व्यवहाराय कल्पत इत्यत आह—प्रतिभा420 । ननु व्यभिचारादर्थानिश्चयात्मकमनैकान्तिकलिङ्गप्रसूतं421 संवेदनं प्रतिभेति
अप्रमाणं न व्यवहाराङ्गम् । संशयविपर्ययौ हि तथा । न हीदमित्थमनेन कर्तव्यमिति अनुपजातप्रतिभाभेदः प्रवर्तते प्रत्यक्षाद्यवगतेऽप्यर्थे । तत्र हि प्रमाणकार्य्यसमाप्तिः । प्रतिभानेत्रो हि लोक इतिकर्तव्यतासु समीहते ।
प्रतिभाविदः । न चाऽनिश्चयात्मकं विज्ञानं व्यवहाराङ्गं भवतीत्याशयवानाह— का पुनरियम् ? एकदेशिन उत्तरं—नियतसाधनाऽवच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञेति । न हि ते प्रतिभाविदः, ये संवेदनमनिश्चयात्मकं प्रतिभामाचख्युः । संशयो हि सः । वयं तु साध्यसाधनेतिकर्त्तव्यताऽवच्छिन्नायाः क्रियायाः प्रतिपत्तावनुकूलां तत्प्रतिपत्त्या कार्येऽनुष्ठानलक्षणे कर्त्तव्ये सहकारिणो कर्त्तव्यमिति प्रज्ञां प्रतिभामध्यगीष्महि । एवं तर्हि क्रियैऽवास्या विषय इति न निर्विषयेत्यत आह—प्रतिभाक्रियाविषयत्वे हि क्रियाप्रतीतिः स्यात् । सा च त्रैकाल्याऽवच्छिन्नक्रियागोचरा । यथा पचति पक्ष्यत्यपाक्षीदिति । इयं पुनरतीताऽनागतवर्त्तमानानामन्यतमेनाप्यनवच्छिन्नमद्भुतार्थमिव प्रतिभासयन्ती प्रज्ञा । न पुनरस्याः परमार्थसद्विषयः, कालत्रयरहितत्वात् खपुष्पवत् । न खलु कुर्यामिति वर्त्तमानाख्या, करोमीत्यविशेषप्रसङ्गात् । नाऽनागता, करिष्यामीति । नाऽतीता, अकार्षमिति । तदेषा न प्रमाणमसद्विषयत्वान्न422 संशयः एकान्ताऽवसायान्न विपर्ययः सर्वेषां सर्वत्र व्यवहारदर्शनात् । अत एव चित्तवृत्तिं तामिमामाचक्षते विकल्परूपामाचार्याः “शब्दज्ञानाऽनुपाती वस्तुशून्यो विकल्प” इति वदन्तः ।
ननूक्तमप्रमाणं प्रतिभा कथं व्यवहारं प्रवर्तयेदि?ति, अत आह—सा च प्रवृत्तिहेतुः । कुत एतदप्रमाणं न व्यवहाराङ्गमि?ति । संशयविपर्ययौ हि तथा । प्रतिभा पुनस्ताभ्यामन्या व्यवहारं प्रवर्तयतीत्यभिप्रायः । तत्किमन्यतामात्रेण प्रवृत्तिहेतुः ? नैवमिति, तदन्वयव्यतिरेकाऽनुविधानात्प्रवृतिभावाऽभावयोः । तत्र व्यतिरेकं तावदाह—न हीदमित्थमनेन कर्तव्यमित्यनुपजातप्रतिभाभेदः प्रवर्तते प्रत्यक्षाऽवगतेप्यर्थे । ननु प्रत्यक्षादेरेव हानोपादानोपेक्षाः फलमिति किमर्थं प्रतिभा ? इत्यत आह—तत्र हि प्रमाणकार्यसमाप्तिः । प्रमाणानां हानादिलक्षणं कार्यं तत्प्रतिभाभेदे सति समाप्यते नाऽन्यथा । तेन हानादिक्रियासु प्रवृत्तानि प्रत्यक्षादीनि काष्ठानीव पाके ज्वलनं प्रतिभारूपमपेक्षमाणान्यपि नाऽकारणमित्युक्तं भवति । अन्वयमिदानीमाह—प्रतिभानेत्रो हि लोक इतिकर्त्तव्यतासु समीहते । इतिकर्त्तव्यतास्वनुष्ठानेषु कायवचनचेष्टासु समीहते प्रयतते कार्यमिति प्रतिभासाधनो हि लोक इत्यर्थः । तदनेन क्रियाप्रतिपत्तावानुकूल्यं प्रतिभासु दर्शितम् । नन्वयं विकल्पः, स च शब्द
किं पुनरस्या निमित्तम् ? शब्दः । तत्र व्युत्पन्नानां साक्षाद्भावनामुखेन वाऽप्रसिद्धशब्दनिबन्धनव्यवहाराणां बालादीनामनादिशब्दभावना । अन्यथा आद्यकरणविन्यासाद्यसम्भवात् । यथोक्तम् ।
आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ॥
ज्ञानाऽनुपातीति तद्विदः । न च प्रतिभा शब्दज्ञानमनुपतति । बालादीनां तदभावेन तदनुत्पादादप्रवृत्तिप्रसङ्गात् । तस्मान्निमित्तान्तरं वाच्यम्, न च तदस्तीत्याशयवानाह—किं पुनरस्या निमित्तम् ? उत्तरं—शब्दः423 । तत्र ये तावद् व्युत्पन्नास्तेषां प्रतिभायाः साक्षाद्भावनामुखेन वाऽप्रसिद्धशब्दनिबन्धनव्यवहाराणां बालादीनाम् ।
नन्वियं षट्वभ्यासाऽऽदरप्रत्यययोर्निर्भावनानाऽसति पूर्वाऽनुभवे भवितुमर्हति, अनुभवोऽप्यविदितसम्बन्धशब्दविज्ञानजन्मा नास्ति । नाऽस्मिन जन्मनि बालादीनां प्राग्भवीया तु भावना सर्वसंस्कारच्छिदः प्रयाणात् ध्वंसतेस्मेति न सम्प्रतितनीं प्रतिभां भावयेत्, भावने वा जात्यन्धवधिरादयस्तज्जन्माऽनुभूतानिव जन्माऽन्तराऽनुभूतान् रूपशब्दादीनपि व्याचक्षीरन्नित्यत आह— अनादिशब्दभावनाऽवश्याऽभ्युपेतव्या । कुतः ? आद्यकरणविन्यासादीनामन्यथाऽसम्भवात् । यथोक्तं प्रतिभाविद्भिः ।
आद्यः करणविन्यासः424 प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ॥
जातमात्रः खल्वयं बालकः पित्रा मुखहुते मधुसर्पिषी जिह्वया लेढि, सोऽयमाद्यः करणविन्यासः । प्राणांश्चोर्ध्व समीरयति यच्छ्वसतीत्युच्यते । अपि चोदीरितेन वायुना हृदयादीनि स्थानान्यभिहन्ति यतः शब्दभेद आविरस्ति । तदेतत्सर्वं प्राग्भवीयशब्दभावनाविजृम्भितम् । अत्र प्रयोगः, बालानामेवंविधा चेष्टा कर्त्तव्यताऽवगतिपूर्विका स्वतन्त्रचेतनप्रवृत्तित्वाद्या या स्वतन्त्रचेतनप्रवृत्तिः सा सा कर्तव्यताऽवगतिपूर्विका यथाऽस्मदादीनाम् । तथा विवादाध्यासिता कर्तव्यताऽवगतिः शब्दयोनिः कर्त्तव्यताऽऽकारत्वात् यो य एवमाकारः स सर्वः शब्दयोनिर्यथाऽस्मदादीनाम् । स च शब्दः साक्षादनुपलभ्यमानो भावनामुखेनाऽधिकरणसिद्धान्तन्यायेन करणभावमापद्यते । भावना च यथाकार्यदर्शनोन्नेया यावत्कार्यदर्शनं व्यवस्थाप्यत इति न जात्यन्धबधिरादीनां जन्मान्तराऽनुभूतरूपादिव्याख्यानप्रसङ्गः ।
विच्छिन्नप्रतीतीनामपि च पदार्थानां किं कथमनुसन्धीयेत, विचारविकलाऽप्रत्यवमृष्टपूर्वशक्तिः समाविष्टपूर्वशक्तिप्रतिभासेवोदीयमानोपश्लेषं
व्युत्पन्नानामपि शब्दभावनायोनिरस्ति प्रतिभेत्याह—विच्छिन्नप्रतिपत्तीनामपि च पदार्थानां किं कथमनुसन्धीयत इति विचारकल्पनाप्रत्यवमृष्टपूर्वशक्तिः समाविष्टपूर्वशक्तिप्रत्यवभासेवोदीयमानोपश्लेषं विदधाति । अयमर्थः । सन्तापतप्ततनवो हि शीतह्रददर्शनमात्रादप्सु मिमङ्घवः प्रवर्त्तन्ते, नान्तरा विचारयन्ति । दृश्यमानह्रदगता आपस्तापमपनेतुं समर्थाः सति शिशिरभावे तोयत्वाद्यतोयं शिशिर तत्तत्सर्वं तापाऽपनोदनसमर्थं यथा गङ्गातोयम्, वयं च तप्तास्तदिह तत्प्रशमनाय निमज्जाम इति । न चेतेषां परस्परोपश्लेषमन्तरेण कर्त्तव्यता । न वास्यामसत्यां स्वतन्त्रचेतनप्रव्त्तिः । न चोपश्लेषे समुदाचरद्वृत्ति किञ्चित्प्रमाणमस्ति । तस्मादसंविदितरूपा शब्दभावनैव इदमित्थमनेन कर्त्तव्यमिति प्रतिभाहेतुरास्थेयः । न चैवं वाच्यं, प्राग्भवीयं तज्जन्मजं वा यत्र यत् प्रतिभाति तत्र तद्भावनाबीजमस्तु, किं शब्देने?ति । आनुमानिकाऽनुभवजन्मनो भावनाया भूतार्थगोचरत्वेन कर्त्तव्यताऽऽकारप्रतीत्यकारणत्वात् । कर्त्तव्यताकाररहितस्य चाऽत्रोपश्लेषमात्रस्य प्रतीतेः । अत्र किं कथमनुसन्धीयते इति विचारविकलेति अनुमानबीजभूतानां धर्मिस्वरूपदर्शनतद्धर्मसन्देहजिज्ञासापक्षहेतुधर्मपरामर्शप्रमाणान्तराबाधानामभावं सूचयति । अप्रत्यवमृष्टपूर्वशक्तिरिति व्याप्तिस्मरणाऽभावमाह । न जातु गृहीतव्याप्तिरपि तस्या अस्मरन्ननुमातुमर्हति ।
ननु न यदि पूर्वशक्तिपरामर्शः किमिति तापदूनं शिशरह्रदाऽवगाहने प्रवर्त्तयेन्न दहनज्वालाकलापाऽऽलिङ्गने ? एतन्निराकरोति—समाविष्टपूर्वशक्तिप्रत्यवभासान्नेदमनुमानं येन पूर्वशक्तिपरामर्शमपेक्षते, अपि तु स्वकारणात्पूर्वशक्त्याकारोपजायमाना क्वचित्प्रवर्त्तयति क्वचिन्न । ननु यदि पूर्वशक्त्यवभासा प्रतिभा तर्हि पूर्वैव शक्तिरस्या विषय इति न निर्विषयेति, एतन्निराकरोति—इवेति । न तु सैव । तथा हि । कर्त्तव्यतावभासा प्रतिभा पूर्वशक्तिमपि तदवच्छेदकतया गोचरयति, कर्तव्यता च न परमार्थसतीति तदवच्छेदेन प्रतिभारूढेनात्मना शक्तिरप्यवस्तुसती । स्वरूपेण तु सत्त्वमप्रयोजकं प्रतिभायामनारोहात् । सेयमेवंविधा प्रतिभा भावानामुपश्लेषं विदधाति । कुतः ? तादर्थ्यात्प्रवृत्त्यर्थत्वादस्याः ।
ननु भवतु प्रवृत्त्यर्था भावना;425 उपश्लेषविधानादित्यत आह—अनुपश्लेषे तदभावात् । विशिष्टार्थप्रतिपत्तिनिबन्धनो व्यवहारोऽनविच्छिन्न
विदधाति । तादर्थ्यादनुपश्लेषे तदभावात् । दुर्ज्ञानोपायेषु च प्राज्ञैरपि स्वरविशेषाश्रयभेदेषु पक्षिणां पूर्वं शब्दभावनाऽनुगमात्प्रत्युत्पन्नशब्दव्यापारा426 प्रतिभा प्रवृत्तिनिबन्धनं, नोपायज्ञानम् । उपदेशाऽसकृद्दर्शनयोरभावात् । आहारविशेषप्रतिपत्तिश्च तज्जातीयानामविदितप्रीत्युपायत्वेन प्रथमज्ञाननिबन्धना न भवेत् । जातिभेदाऽभिव्यक्तप्रतिभाभेदानां प्लवनादिक्रियायां प्रवृत्तिश्चाऽज्ञातोपायानामेकजातीयानां च रागादिमयी प्रवृत्तिः, शाश्वतिक-
प्रतिपत्तिपदार्थमात्रान्नोत्पत्तुमर्हतीत्यर्थः । अपि च यत्प्राज्ञानामपि प्रमाणैरेकान्तदुष्करं तन्मन्दधियामपि पक्षिणां प्रत्युत्पन्नशब्दव्यापाराभावेऽपि पूर्वशब्दभावनाऽनुगमलब्धजन्मप्रतिभाभेदवशादीषत्करमिति प्रमाणेभ्योऽपि सामर्थ्याऽतिशयं प्रतिभाया दर्शयति—दुर्ज्ञानोपायेषु च प्राज्ञैरपि स्वरविशेषाऽऽश्रयभेदेषु पक्षिणां पूर्वशब्दभावनाऽनुगमाद्विप्रकृष्टशब्दव्यापारा प्रतिभा प्रवृत्तिनिबन्धनम् ।
ननूपायज्ञानमेव प्रमाणभूतमस्ति, तन्नः प्रवृत्तिनिबन्धनमिति किं प्रतिभया ? इत्यत आह—नोपायज्ञानं प्रवृत्तिनिबन्धनम् । कुतः ? उपदेशाऽसकृद्दर्शनयोरभावाद्धि कारणम् उपायज्ञानं कारणद्वयनिवृत्तौ निवर्त्तते धूम इव धूमध्वजनिवृत्तावित्यर्थः । अथ कुलायनिर्माणे कलविङ्कानां स्वरभेदविकारे च मधौ पुंस्कोकिलानामुपायज्ञानबीजमसकृद्दर्शनमध्यारोप्येतेत्याह— आहारविशेषप्रतिपत्तिरस्मदादिभिरेतदादरणीयमिति प्रतिभेति यावत् । तज्जातीयानां तज्जातिर्येषां तेषां समानजातीयानामुत्पन्नमात्राणामसकृद्दर्शनाऽभावादविदितप्रीत्युपायत्वेन प्रथमज्ञाननिबन्धना न भवेत् । प्रथमग्रहणेनाऽसकृद्दर्शनाऽभावं सूचयति ।
नन्वनादित्वात्प्रेत्यभावस्य पुनः समानाऽसमानजातीयविविधदेहोपधानसमधिगततत्तज्जातिनियततत्तद्भावनानिचयस्यैकस्यामपि जातौ समस्तप्रतिभोदयप्रसङ्गः, कारणसन्निधानादित्यत आह—जातिभेदाऽभिव्यक्तप्रतिभाभेदानाम् । एतदुक्तं भवति । येन कर्माशयेन यदुपात्तं जन्म स तज्जन्मोचितामेव भावनामभिव्यनक्ति, न जात्यन्तरोचिताम् । तस्यास्तत्राऽनुपयोगात् । अभिव्यक्तभावनाभेदः प्रतिभाभेदमुत्पादयन्नभिव्यनक्ति । उत्पत्तौ सत्यां प्रतीतेः प्लवनादिक्रियाप्रवृत्तिश्चाऽज्ञातोपायानां जातमात्राणां चक्रवाकादीनां न भवेत् । एकजातीयानां च पारावतीरगादीनां रागद्वेषमयी प्रवृत्तिर्जातमात्राणामज्ञातसुखदुःखोपायानां न भवेत् । शाश्वतिकविरोधिनामहिनकुलादीनां द्वेषवती प्रवृत्तिर्न भवेत् ।
विरोधानां द्वेषप्रवृत्तिः । अतो नेष्टाऽभ्युपायमात्रं प्रवृत्तिहेतुः, अपि तु प्रतिभेत्यादर्शयन् वृद्धाः । यथाऽवोचन्—
उपश्लेषमिवाऽर्थानां सा करोत्यविचारिता ।
सार्वरूप्यमिवापन्ना विषयत्वेन वर्त्तते ॥
साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।
इतिकर्त्तव्यतायां तां न कश्चिदतिवर्त्तते ॥
प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
व्यवहाराः प्रवर्त्तन्ते तिरश्चामपि तद्वशात् ॥
पूर्वपक्ष्येकदेशी427 प्रकृतमुपसंहरति—अतो नेष्टाऽभ्युपायता प्रवृत्तिहेतुरपि तु प्रतिभेति । एतच्चाऽदर्शयन् वृद्धाः । यदवोचन्—
उपश्लेषमिवार्थानां सा करोत्यविचारिता ।
अविचारिते किं कथमनुसन्धीयत इति विचारविकलेति व्याकृतम् । न चासौ व्यतिरिक्तविषयेत्याह—
सार्वरूप्यमिवापन्ना विषयत्वेन वर्त्तते ।
विच्छिन्नप्रतिपत्तीनां तापह्रदतोयादीनां सहसोपश्लेषं विदधाति । तेषां सार्वरूप्यमापन्नेव न त्वापन्ना । तेषां तदारोहिणां वस्तुसत्ताया विचाराऽसहत्वात् । तस्मात्प्रतिभैव ताद्रूप्यमापन्ना विषयत्वेन वर्तते । न तद्व्यतिरिक्तोऽस्ति विषयः । एतदपि च विच्छिन्नाप्रतिपत्तीनामपि बहुपदार्थानां समाविष्टपूर्वशक्तिप्रत्यवभासेवोदीयमानेति व्याख्यातम् । न चेयमाकस्मिकी, न वा प्रमाणभूताऽपि न व्यवहाराङ्गमित्याह—
साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।
इति कर्तव्यतायां तां न कश्चिदतिवर्त्तते ॥
अप्रमाणभूतामपि च निर्विषयतया व्यवहारान् प्रत्यन्तरङ्गतया चाऽव्यभिचारितया च ।
न केवलं प्रेक्षावतां मनुष्याणामपि तु—
प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥
तदुदाहरणप्रचयमात्यन्तिकप्रसिद्धिख्यापनायाह अन्यथा
स्वरवृत्तिं विकुरुते428 मधौ पुंस्कोकिलः कथम् ।
जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥
आहारप्रीतिविद्वेषप्लवनादिक्रियासु429 च ।
जात्यन्वयप्रसिद्धासु430 प्रयोक्ता431 मृगपक्षिणाम् ॥
उच्यते—
न निरालम्बनं ज्ञानं क्रियासाधनयोगिनि ।
सामान्येऽस्मिन्विप्रकृष्टे यच्छब्दवदुपायधीः ॥
खा खलु प्रतिभाऽऽलम्बनवती न वा ? आलम्बनवती चेत्तदेवाऽवबोद्धव्यं प्रवृत्तिनिबन्धनं, न च तदन्यदीहितोपायतायाः ।
स्वरवृत्ति विकुरुते मधौ पुंस्कोकिलः कथम् ।
जन्त्वादयः कुलायादिकरणे शिक्षिताः कथम् ॥
आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥
तत्र सिद्धान्ती पूर्वपक्ष्येकदेशिनमनन्तरतया432 निराकरोति—
उच्यत इति ।
न निरालम्बनं ज्ञानं क्रियासाधनयोगिनि ।
सामान्येऽस्मिन्विप्रकृष्टे यच्छब्दवदुपायधीः ॥
यद्यपि प्रतिभा निर्विषयेत्युक्तं, तथापि कदाचिदिदमभ्युपगतसिद्धान्तमात्रं स्यान्न तात्त्विकमिति दूषणाऽभिधित्सया विकल्पितम् । सा खलु प्रतिभा आलम्बनवती न वा । तत्र प्रथमं पक्षमाश्रित्याह—आलम्बनवती चेत्तदेव वा बोध्यं प्रवृत्तिहेतुर्न प्रतिभा । नन्वेतावतापि किमभिमतसिद्धिः ? इत्यत आह—न च तदन्यदीहितोपायतायाः । एतच्चोपरिष्टान्निपुणतरमुपपादयिष्यते । तथा चाऽभिमतसिद्धिः ।
द्वितीयं पक्षमवलम्बते परः । ननु न विज्ञानं वाक्यविषयं सम्भवति । विकल्पाऽसहत्वात् । निराकारस्य वा विज्ञानस्य तद्विषयः साकारस्य वा । न तावन्निराकारस्य । विषयलक्षणाऽयोगात् । तथा हि यदि सत्तया433 विषयः सर्वेऽर्थाः सर्वेषां सत्तामात्रस्याऽविशेषाद्विषया इति सर्वसर्वज्ञतापत्तिः । अथोत्पादकत्वाद्विषयत्वं तच्च कस्यचिदेवार्थस्य कस्यचिदेव प्रतिपत्तुः कस्यचिदेव प्रत्ययं प्रतीति नाऽतिप्रसङ्गः, तथापि चक्षुरादीनामप्युत्पादकत्वाद्विषयत्वं प्रसज्येत, विज्ञानसमये च तदुत्पादकस्याऽतीतत्वात् । क्षणिकत्वेन कार्यकारणयोरयौगपद्यात् । वर्तमानताज्ञानाऽभावप्रसङ्गः । एमसामग्री प्रतिबन्धेन वा वर्त्तमानविषयत्वे नेत्रादीनामपि तदेकसामग्रीनिवेशिना विज्ञानकालानां ग्रहणप्रसङ्गः ।
स्यादेतत् । प्रत्ययः स्वकारणाऽऽसादितसामर्थ्यभेदः कचिदेवाऽर्थ वर्त्तमानमवभासयति न सर्व, स हि तस्य महिमेति न नेत्रादिविषयता । यथाऽऽह“विषयग्रहणं धर्मो विज्ञानस्ये”ति । अत्रैतदालोचनीयं, किं विषयः पुनरयं सामर्थ्यभेदः स्वकारणाऽधीनजन्मा विज्ञानस्ये ?ति । अर्थविषय इति चेत् ? किमयमस्य निर्वर्त्त्यो यथा संयवनस्य पिण्डः, विकार्यो वा यथाऽवघातस्य व्रीहयः, संस्कार्यो वा यथा प्रोक्षणस्योलूखलादिः प्राप्यो वा यथा दोहनस्य पयः ? किमनेनाऽनभ्युपेताऽऽरोपणेन ? अर्थप्राप्तौ तु विज्ञानं समर्थमिति ब्रूमः । का पुनरियं प्राप्तिः ? प्रमितिरर्थधर्मः कञ्चिदेव प्रमातारं प्रति द्वित्वादिसङ्ख्येवाऽपेक्षाबुद्धिमन्तं प्रति बुद्धिध्वंसाच्च ध्वंसते द्वित्वादिकमिवाऽपेक्षाबुद्धिविनाशादिति चेत् । न तावदुन्मीलितलोचना द्वित्वादिकमिव434 तद्धर्म प्रमितिमीक्षामहे । अपि चाऽतीतानागतयोरप्रमितिप्रसङ्गः । न ह्यस्ति सम्भवः, अप्रत्युत्पन्नो धर्मी धर्मश्च तस्य प्रत्युत्पन्न इति ।
यद्युच्यते, न विज्ञानादन्योऽर्थप्रकाशः किं तु विज्ञानप्रकाश एव सः । विज्ञानप्रकाशश्च विज्ञानमेव435 । कथमन्यप्रकाशोऽन्यस्येति चेत् । स्वभावभेदात् । रूपादयो हि स्वप्रत्ययादुपजायमाना नात्मनः परस्य वा प्रकाशकाः, ज्ञानं तु स्वप्रत्ययसमासादितजन्माऽऽत्मपरप्रकाशनपरमार्थ न जातु तदर्थमन्तरेण दृष्टरूप पश्चाद्येन सम्बध्यते परशुरिव शुद्धः स्वकारणाऽधीनजन्मा पश्चाच्छिदया, किन्त्वर्थसहितमेवेति न पर्यनुयोगमर्हति । न हि परशुः स्वकारणादयोमयस्तत्त्वे किञ्चिदपेक्षते पर्यनुयुज्यते वा । स्वभावभूतं चाऽस्य परप्रकाशनमप्रकाशननिवृत्त्या कथञ्चित्कल्पितभेदं फलमिति स्वपरप्रकाशनसामर्थ्यमसामर्थ्यनिवृत्त्या कथञ्चित्कल्पितव्यतिरेकेण436 प्रमाणमिति न निर्विषयं सामर्थ्यमिति ।
तत्र ब्रूमः । कः पुनरर्थः स्वपरप्रकाशनपरमार्थं विज्ञानमि?ति । यदि प्रकाशनस्वभावं, सिद्धमेतत् । अथ परस्परसम्बन्धस्वभावं, कः पुनरेषां सम्बन्धः ? विषयविषयिभावः सम्बन्ध इति चेत् । तस्याऽर्थज्ञानसमवायेन नानात्वमनेकवृत्तितया प्रसज्येत । तथा च ते एव तत्त्वम् । अतीताऽनागताऽर्थवृत्तिता च कथमस्येत्यभिहितप्रायम् । विज्ञानमात्राऽऽश्रयत्वे तु कथम स्याऽर्थाऽन्वयः ? तस्मादात्मपरप्रकाशनपरमार्थ विज्ञानमिति वर्णयता बलाद्विज्ञानतादात्म्यं नीलादेरभ्युपगतं भवति । तथा च निराकारं विज्ञानं प्रति विषयलक्षणाऽयोगात् साकारस्य विषयोऽर्थ इति ।
अपि च विज्ञानप्रकाश एव चेदर्थप्रकाशस्ततस्तद्भेदेनाऽर्थभेदो व्यवस्थापनीयः । तस्य च निराकारतया विशेषस्याऽभावात् इदं नीलस्य संवेदनमिदं पीतस्येति विभागाऽभावादर्थक्रियाविशेषाऽर्थिनो न प्रवर्त्तेरन् । आकारभेदवत्त्वे तु विज्ञानस्य नीलसारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं संविद्रूपता त्वस्य नीलेऽर्थे व्यवस्थाप्यमानत्वात् फलम् । यद्यपि सारूप्यं विज्ञानं चेत्येकमेव तत्त्वं तथापि कथञ्चिदेकव्यावृत्तिनिष्ठरूपाऽवगाहनस्वभावैर्विकल्पैर्व्यावर्त्यभेदाऽऽरोपितभेदं प्रमाणफलभावमश्नुते । यदाह—“न हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राऽविशेषादविशेषप्रसङ्गात् । तां तु सारूप्यमाविशत्स्वरूपवन्तं घटयेदिति । तत्सारूप्यतदुत्पत्तिभ्यां च विषयत्वेन नेन्द्रियादिषु तत्प्रसङ्गः । अर्थाऽऽहिताऽऽकारवेदनमेव चाऽर्थवेदनं ज्ञानाकाराश्च वर्त्तमाना इति वर्त्तमानताऽप्युपपन्नेति । यथाह—
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव तद् युक्तं ज्ञानाऽऽकाराऽऽर्पणक्षमम् ॥ इति ।
तथाप्युक्तं स्यादर्थवेदनमिति । तस्मात्साकारज्ञानगोचरोऽर्थ इति सौत्रान्तिकाः प्रपेदिरे ।
तदिदमनुपपन्नम् । तथा हि । साकारं विज्ञानमर्थविषयमित्यनुभवाद्व्यवस्थाप्यतेऽनुमानाद्वा । न तावदनुभवः स्वाकारमात्रपर्यवसायी नीलमपरं गोचरयति । नीलमिति हि प्रतिभासो न पुनर्नीले इति । न च भिन्नं सद्विषयो भवितुमर्हतीत्युक्तम् ।
स्यादेतत् । द्विविधो हि विषयः प्रमाणानां, ग्राह्योऽध्यवसेयश्च । तद्यथा प्रत्यक्षस्य ग्राह्यः क्षण एकोऽध्यवसेयश्च प्रवृत्तिविषयः सन्तानः । अन्यथाऽर्थक्रियाऽर्थिनः प्रमाणमवर्त्तकं स्यात् । प्रवृत्तिविषयोपदर्शनं हि प्रवर्तकत्वं प्रापकत्वं च प्रमाणानाम् । न च ग्राह्यक्षण एव प्रवृत्तिविषयास्तस्य तदानीमतीतत्वात् । सन्तानस्तु स्यात् । न चाऽसौ ग्राह्य इत्यध्यवसेयत्वमभ्युपेतव्यम् । तथाऽनुमानविकल्पस्यापि ग्राह्यं सामान्यमन्यव्यावृत्तिरूपम् । अध्यवसेयस्तु प्रवृत्तिविषयोऽर्थक्रियाक्षमः । प्रवृत्तिविषयाऽपेक्षं हि प्रामाण्यं तयोः । यथाह—न ह्याभ्यामर्थं परिच्छिद्याऽध्यवसायप्रवर्तमानोऽर्थक्रियायां विसंवाद्यते इति । तदेवं बाह्यमग्राह्यमध्यवसेयतया विषय इति तत्राऽध्यवसायार्थाऽपरिज्ञानात् विकल्पोऽध्यवसायः । तत्रानुमानं विकल्परूपत्वात्त द्विषयं तु विकल्पजननादिति चेत् । ननु विकल्पोऽपि स्वाऽऽकारविषयत्वात्कथं बाह्यमध्यवसातुमर्हति ? यदि मन्येत न विकल्पानां विषयः स्वाकारोऽपि तु संवेदनस्य । प्रत्यक्षस्य हि विकल्पविषयो यो विकल्प्यते । न च स्वरूपं विकल्प्यते । तस्य सर्वतो व्यावृत्तस्याऽभिलापसंसर्गयोग्यत्वाऽभावाद्विशदप्रतिभासत्वाच्च । तस्मादात्मन्यविकल्पाः स्वाऽवभासं बाह्यतया विकल्पयन्तस्तत्र तत्र प्रवर्तयन्ति स्वव्यवहारार्थिनः । पारम्पर्येण च बाह्यादुत्पत्तेस्तत्प्रतिबन्धात्तत्प्राप्तेर्न विसंवादयन्ति लोकमिति । यदाह—“स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्ति”रिति । आह अनर्थे स्वभासमर्थमध्यवस्यतीति निर्वचनीयमेतत् । नन्वर्थमारोपयन्तीति किं विकल्पस्य स्वरूपाऽनुभवाऽऽरोप उत व्यापारान्तरं स्वरूपाऽनुभवः ? न पूर्वः कल्पः । अनुभवसमारोपयोर्विकल्पाऽविकल्परूपतया द्रंवकठिनवत्तादात्म्याऽनुपपत्तेः । व्यापारान्तरत्वे क्रमः समानकालता वा । न तावत् क्रमः । क्षणिकस्य विज्ञानस्य क्रमवद्व्यापाराऽयोगादक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापाराऽयोगान्न क्रमवद्व्यापारसम्भवः । अनुभवसमारोपौ समानकालाविति चेत् । भवतु समानकालत्वं केवलमात्मभावाऽवस्थित एव वेद्यः । परभाववेदने स्वरूपवेदनाऽनुपपत्तेः । तथा चात्मज्ञानस्य ग्राह्यग्राहकाऽऽकाराऽनुभूतोऽर्थश्च समारोपितः । न त्वात्माऽवेद्यमाने समारोपितो437 नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः । स च समारोपः सताऽर्थस्याऽसतो वा ग्रहणमेव । न च ज्ञानाऽतिरिक्तस्य ग्रहण सम्भवतीत्युक्तम् । स्वप्रतिभासस्य बाह्याद्भेदाऽग्रहो बाह्यसमारोपस्ततो बाह्ये प्रवृत्तिरिति चेत् । स किं गृह्यमाणे बाह्ये न वा ? न तावद् गृह्यमाणे । उक्तं ह्येतत् न तद्ग्रहः सम्भवतीति । अगृह्यमाणे तु भेदाऽग्रहेण न प्रवृत्तिनियमः स्यात् । अन्येषामपि तदानीमग्रहणात् । अन्यत्रापि प्रवृत्तिप्रसङ्गात् । तस्मान्नाऽनुभवव्यवस्थाप्यो नाप्यनुमानव्यवस्थाप्यः । तदपि प्रत्यक्षवदेव ग्रहीतुमध्यवसातुं वा बाह्यं नाऽर्हतीत्युक्तप्रायम् । न च तादृशो बाह्यप्रतिबन्धस्तदात्मा तत्कार्यो वा हेतुरप्यस्ति । नन्वयमस्ति । ये यस्मिन्सति कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षा यथा विच्छिन्नाऽऽगमवचनप्रतिभासप्रत्ययाः सन्तानान्तरापेक्षाः । तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसन्ताने षडपि प्रवृत्तिप्रत्यया438 इति स्वभावहेतुः । यश्चाऽसावालयविज्ञानसन्तानाऽतिरिक्तः सोऽर्थो वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदाचिदुत्पाद इति चेत् । नन्वेकसन्ततिपतितानामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना । तस्याश्च स्वकार्यजननं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्त्तिपूर्वक्षणः । सन्तानान्तरापेक्षाऽनभ्युपग मात् । तथा च सर्वेऽप्यालयसन्तानपतिताः परिपाकहेतवो, न वा कश्चिदपि । विशेषाऽभावात् । यो यथाऽभिप्रेतः परिपाकहेतुः क्षण आलयसन्तानपतितस्तथा सर्वेऽपीत्यविशेषः । क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् । नन्वेवमेकस्यैव नीलविज्ञानजननसामर्थ्य तत्प्रबोधजननसामर्थ्य चति क्षणान्तरस्य तन्न स्यात् । सत्त्वे वा कथं क्षणभेदाच्छक्तिभेदः ? इत्यालयसन्तानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे वा कार्यक्षेपाऽनुपपतेः । स्वसन्तानमात्राऽधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्ध सदातनत्वम्, तस्योपलब्ध्या च कादाचित्कत्वं निवर्त्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः । न च सन्तानान्तरनिमित्तत्वं सर्वेषां प्रवृत्तिविज्ञानानां विज्ञानवादिभिरङ्गीकृतमपि तु कस्यचिदेवाऽऽगमवचनप्रतिभासस्य विज्ञानस्य । अपि च सन्तानान्तरनिमित्तत्वे तस्यापि सदा सन्निधानान्न कादाचित्कत्वं स्यात् । न खलु सान्द्रतरस्य सन्तानस्य कादाचित्कत्वस्य देशतो विप्रकर्षसम्भवो, विज्ञानवादे व्यतिरिक्तदेशाऽभावात् अमूर्त्तत्वाच्च विज्ञानानामदेशात्मकत्वात् । नापि कालतः । अपूर्वसत्त्वप्रादुर्भावाऽनभ्युपगमात् । तस्मादनुमानमस्ति439 बाह्यसाधनमिति तदिदमनुपपन्नम् । स्वसन्तानमात्रप्रभवत्वेऽपि प्रत्ययकादाचित्कत्वोपपत्तौ सन्दिग्धविपक्षव्यावृत्तिकत्वेन हेतोरनैकान्तिकत्वात् । बाह्यनिमित्तत्वेऽपि कथं कदाचिन्नीलसंवेदनं, कदाचित्पीतसंवेदनं, बाह्यनीलसन्निधाने स्वकारणनिबन्धनः शक्तिभेदोऽपि भविष्यति । सन्तानिनो हि क्षणभेदहेतवस्ते च प्रतिकार्य भिद्यन्त एव सन्ताने सन्निधानाऽसन्निधानाभ्यामिति चेत् । अथ पीतसन्निधाने किमिति नीलादिज्ञानं न भवति पीतज्ञानं वा भवति ? सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् । कुतः पुनरयं सामर्थ्यभेदः ? स्वहेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धनः शक्तिभेदो भविष्यति । सन्ताना हि क्षणभेदहेतवः प्रतिकार्यं भिद्यन्त एव । न च सन्तानो नाम कश्चिदेक उत्पादकः समस्ति, यदभेदात् क्षणा न भिद्येरन् । ननूक्तं न क्षणभेदाऽभेदाभ्यां440 शक्तिभेदाऽभेदौ, भिन्नानां क्षणानामेकस्य सामर्थ्यस्योपलब्धेः । अन्यथैक एव पूर्वक्षणो नीलविज्ञानजननः स्यान्न क्षणान्तराणीति न नीलाकाराणि विज्ञानान्तराण्युत्पद्येरन्, यदि भिन्नानां नैकं सामर्थ्यम् । ननु नीलसन्तानिनामपि मिथो भिन्नानां नैकमस्ति नीलाकारादिसामर्थ्यमिति सन्निधाने ऽपि नीलान्तरस्य न नीलविज्ञानमुत्पद्यत । सन्तानिभेदेऽपि शक्त्यभेद इति चेत् । क्षणभेदेन किमपराद्धं ? येन तस्मिन्नपि न भवति । अथ सन्तानिभेदे शक्तिभेद एव, तथा च कार्यभेदः । न हि यदे
निरालम्बनं तु ज्ञानमयुक्तमेव ।
कस्मिन्नीलाकारं ज्ञानं ज्ञानान्तरमपि नीलाकारं तदेव भवितुमर्हति । तदस्माकं क्षणभेदेऽपि समानम् । अन्यत्राऽभिनिवेशात् । अपि चोत्पत्तिसारूप्याभ्यां विषयत्वे चक्षुरालोकसंस्काराणामपि यथाक्रमं रूपग्रहणं प्रति नियमस्पृष्टताज्ञानजनकत्वसारूप्यैस्तदुत्पत्त्या च नीलवद्ग्रहणप्रसङ्गः । अत्यन्तसारूप्याद्वा विषयत्वे नीलविज्ञानसमनन्तरप्रत्ययस्य नीलार्थादपि सदृशतरस्य नीलज्ञानविषयत्वाऽऽपत्तिः । सतोरप्युत्पत्तिसारूप्ययोरध्यवसायाद्विषयभावः स चार्थ एव नान्यत्रेति चेत् । न । उक्तोत्तरत्वात् । निवेदितमेतदधस्तात् । यथा “नाऽध्यवसायगोचरो बाह्य” इति ।
तदनेन प्रबन्धेन वेद्यत्वलक्षणो हेतुः समर्थितो विज्ञानवादिनाम् । स चैवं प्रयोगमारोहति । यद्वेद्यते येन वेदनेन ततस्तन्न भिद्यते यथा ज्ञानस्याऽऽत्मा, वेद्यन्ते च नीलादय इति विरुद्धव्याप्तोपलब्धिः । निषेध्यभेदविरुद्धः खल्वभेदस्तेन व्याप्तं वेद्यत्वं भिन्नस्य साऽऽकारनिराकारविज्ञानप्रवेदनीयस्याऽनुपपत्तेरिति प्रपञ्चितमधस्तात् । तस्माद्विरुद्धाऽभेदव्याप्तवेद्यत्वोपलब्धिरूपाऽनुपलब्धिरेव भेदाऽभावसाधनीतिस्थिता441 बुद्धीनां बाह्याऽनालम्बनत्वसिद्धिः ।
अतश्चैतदेवं सहोपलम्भनियमो ज्ञानस्यार्थेन । तथा हि । यद्येन नियतसहोपलम्भनं तत्ततो व्यतिरिच्यते यथैकस्माच्चन्द्राद् द्वितीयश्चन्द्रः । नियतसहोपलम्भनज्ञानमर्थेनेति व्यापकविरुद्धोपलब्धिः । अभेदो हि सहोपलम्भनियमेन व्याप्तः । न खलु नीलपीते भिन्ने नियमेन सहोपलभ्येते । तद्विरुद्धश्चाऽयं नियमः स्वविरुद्धमनियमं निवर्त्तयंस्तद्व्याप्तं भेदमपि निवर्त्तयति । तद्व्यापकविरुद्धोपलब्ध्या भेदाऽभावसिद्धिः । यथाह “सहोपलम्भनियमादभेदो नीलतद्धियोरि”ति । कथं तर्हि ज्ञानात्मकात्प्रतिपत्तुरर्थस्य भेदबुद्धिर्नीलमेतदिति ? बलवद्वेद्यत्वसहोपलम्भनियमाऽनुमानेन बाधिता भ्रान्तिरेव । यदाह “भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवद्व्यम्” इति ।
अपि च यः प्रत्ययः स सर्वो बाह्याऽनालम्बनः । यथा स्वप्नप्रत्ययः, प्रत्ययश्च विवादाध्यासित इति स्वभावहेतुः । निरालम्बनं विज्ञानं तन्मध्यपातिनी च प्रतिभेति सापि तथेत्यत आह—निरालम्बनं तु ज्ञानमयुक्तमेव । इदमत्राऽऽकूतम् । नैतन्निरालम्बनत्वे442 प्रमाणं भवितुमर्हति । तथा हि । किमनुभवसिद्धस्य नीलादेर्वेद्यस्य तत्त्वं हेतुः क्रियेत, अहो स्विदन्यस्य ? तत्र यद्यनुभवसिद्धस्य ततोऽनहङ्कारास्पदमसितादिरूपं स्थूलं नीलादिविच्छिन्नं वेद्यमनुभूयते, नास्याऽऽन्तरज्ञानस्वभावता शक्यसाधना । यथाहाचार्यः “स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यते” इति । अथाऽन्यस्य । तस्याऽसिद्धं वेद्यत्वम् । ज्ञानाकारत्वे चास्य न काचित्क्षतिः । यद्युच्येत नाऽनुभूतत्वमात्रस्य हेतुत्वमपि त्वनुभूताऽवसितत्वस्य । अवसायश्च स्वभावत एकव्यावृत्तिनिष्ठरूपाऽवगाही न मनागपि व्यावृत्त्यन्तरमवगमयति । मा भूदिह सदभिलापविकल्पपर्यायता सर्वेषां गवादिशब्दविकल्पानाम् । व्यावर्त्त्यभेदाऽनुविधायिनश्च व्यावृत्तिभेदाः । तदिहाऽवेद्यव्यावृत्तिकृतवेद्यत्वाऽवगाही विकल्पो नाऽबाह्यव्यावृत्तिकृतं बाह्यत्वं विगाहत इति यदेव किञ्चित्पांसुलपादकेन हालिकेनापि नीलादेर्वेद्यत्वमनुभूतावसितं तद् बाह्यत्वनिरासाय समर्थमिति न विरोधः । तदसत् । न खल्वेकाऽवसायागोचरतया विरोधमापादयामो, ऽपि तु यद्बाह्यत्वं स्थूलत्वं चाऽनुभूतावसितं नीलादेस्ताभ्यां विरोधी । तथा हि । ज्ञानकारत्वे नीलस्य नानादिग्देशव्यापिता स्थूलत्वं विच्छिन्नदेशता च बाह्यत्व न स्याताम् । न खल्वेकत्वेन ग्रहणाऽग्रहणे एव परं विरुध्येते येन विज्ञानदेशे नीलादेः स्थूलस्य ग्रहणादेवाऽविरोधः स्यादपि तु तद्देशत्वाऽतद्देशत्वेऽपि । तथा हि । भिन्नदेशयोरपि परस्परपरिहारेण स्थितिरस्ति विच्छिन्नाऽवभासज्ञानकारणशक्तिभिर्भिन्नदेशत्वम् । तत्र पूर्वदिग्भागस्थितान्नीलाद्विच्छिन्नमवभासते प्रत्यक्षेण, न तु परस्परात्मकमनुभवाऽनुसारिणा निश्चयेन यथाऽवसीयते तथाऽनवसायात्परस्परविच्छेदेन चाऽवसायात् । दृश्यमानं चाऽनुभवाऽनुसारिणा निश्चयेन यथाऽवसीयते तथैव सदसति बाधके । यदि च पूर्वदिक्कमितरदिक्कं गृह्येत नैव दिग्भिन्नभावदर्शनं भवेदस्ति च तत् । तस्माद्दिगन्तरसन्निविष्टं रूपमितरदिक्कं न गृह्यते । तथा सति यथा नीले पीतमदृष्टमिति नीलपरिच्छेदे तदभावो व्यवच्छिद्यते तद्वच्च पीतादिवत्पूर्वदिक्के रूपे तदितरदिक्कं रूपमदृष्टमिति पूर्वदिक्करूपपरिच्छेदे तदभावो व्यवच्छिद्यते । इतरथा तादूप्यमेव न परिच्छिन्नं स्यात् । तदभाववच्च पूर्वदिक्काऽभाववन्तस्तदितरदिग्भागवर्त्तिनः स्वभावाद् व्यवच्छेत्तव्याः नीलपरिच्छेदेनेव नीलाऽभाववन्तः पीतादय इति सिद्धस्तद्देशत्वाऽतद्देशत्वयोः परस्परपरिहारस्थितिलक्षणो विरोधः । यत्र चैवं विध्यार्विरोधः तत्र मानाऽभेदो यथा नीलपीतयोः । एवंविधश्चाऽनुभूयमाने नीले स्थूले विरोध इति व्यापकविरुद्धोपलब्धिः । प्रतिषेद्धव्यः खलु भेदो विरोधाऽभावेन व्याप्तस्तद्विरुद्धश्च विरोध इति । तेन यावदुक्तं भवति नीलं वा नेति तावदुक्तं भवति नीलं स्थूलमिति । न च नानैकज्ञानात्मेति युक्तम् । एकत्वस्य नानात्वविरोधात् । न च नानाविज्ञानानीति साम्प्रतम् । प्रत्येकं स्वाऽवभासमात्राऽवसायित्वे नानाविज्ञानानां स्थूलाभासाऽनुभवाऽभावप्रसङ्गात्443 । न च नानाकाराऽनुभववासनाजन्मा विकल्प स्तदनुभवाकारसङ्कलनात्मकस्थूलाकारभाग्भवितुमर्हति । तस्याप्येकत्वेऽनुभववत्तदाभासत्वाऽनुपपत्तेः । नानात्वे वा स्थूलाभासाऽभावप्रसङ्गात् । विकल्पविषयत्वेन च विशदाभसताऽनुपपत्तेः । यदाह । “न विकल्पानुबन्धस्य स्पष्टार्थप्रतिभासते”ति । न चाऽनुभूत स्थूलत्वं येन तदुपाधिर्विकल्पे विस्पष्टाभासः444 स्यात् । तस्मादर्थे विज्ञाने च स्थूलत्वाऽनुपपत्तेरसदेतदभ्युपगन्तव्यम् । न च तद्विज्ञानं सम्भवति । सदसतोरेकत्वाऽनुपपत्तेः । एतेनेदमिति विच्छिन्नाऽवभासो व्याख्यातः । तस्मादनिच्छताऽपि विज्ञानानां मनोवेद्यत्वमभ्युपगन्तव्यम् । तथा च वेद्यत्वमभेदस्य न व्याप्यमिति विरुद्धव्यापकोपलब्धिरसिद्धा नाऽभेदोपस्थापननेन भेदं निषेद्धुमर्हति । ननु न परप्रतिबन्धमात्रादर्थसिद्धिः, उक्तं च “साकारमनाकारं च विज्ञानमनात्मभूतवेदनासमर्थ”मिति । तत्किमिदानीं समर्थनीय एव स्थूलाऽनुभवो नास्ति वा ? न तावन्नास्ति, नीलवत्तस्याप्यनुभवात् । तदपह्नवे चाऽनिर्मूलतया नीलाऽनुभवस्याऽपह्नवप्रसङ्गः । तथा चास्य कुतो भेदो वा ? अथास्ति न चाऽसमर्थनीयः । न च ज्ञानाऽऽकारः । का तर्हि तस्य समर्थना ? अत एवाऽनात्मनः प्रकाशनविज्ञानं स्वकारणाऽऽसादिताऽदृष्टान्तसिद्धस्वभावभेदं न कथन्तास्पदं भवितुमर्हति । न खल्वनुभवो दृष्टान्तमपेक्षते । मा भूद्भूम्यादावसाधारणगन्धादिगुणाऽननुभवनम् । कः पुनरस्याऽनात्मसम्बन्ध ? इति चेत् । अथाऽन्यत्रापि सम्बन्धस्य कः सम्बन्धिभ्यां सम्बन्धः ? रूपेणैव स तथेति न सम्बन्ध्यन्तरमपेक्षते । न जातु सम्बन्धिनावन्तरेणाऽसौ निरूप्यते । न च जातु तस्मिन्सति सम्बन्धिनावसम्बन्धिनौ भवतस्तेन सम्बन्धिसम्बन्धनपरमार्थः445 । सम्बन्धसम्बन्धिनौ तथोत्पन्नौ सम्बन्ध इति चेत् । ननु स्थूलाऽनुभवोऽपि न स्थूलमन्तरेण निरूप्यते । न च तस्मिन्सति स्थूलमननुभूतं भवतीति रूपेणैव सोऽपि स्थूलप्रकाशनपरमार्थः सम्बन्ध इव वा तथोत्पन्नौ सम्बन्धिनाविव वा सम्बन्धनपरमार्थौ । सेयं समर्थना । यद्येवमियमनुभवमात्रस्यैवाऽनात्मग्राहितामापादयति, न हि नीलाद्यनुभवेऽपि नीलादिमन्तरेण निरूप्यते । न च तस्मिन्सति नीलादयो नाऽनुभूता इति स्थूलाऽनुभववदनात्मनो नीलादेरनुभवः स्वभावत एव न सम्बन्धान्तरेणेति तत्त्वम् । अतदात्मनोऽपि वेद्यत्वोपपत्तेरनैकान्तिकं वेद्यत्वम् । एवं सहोपलम्भनियमोऽप्यनैकान्तिकः । स्वकारणाऽधीनो हि तादृशः स्वभावभेदो विज्ञानस्य येनात्माऽनात्मनोरसावेक एवोपलम्भः । न च स्वभावः कथन्तागोचर इत्युक्तम् । एतेनैव प्रत्ययत्वमपि प्रत्युक्तम् । स्वप्नादिप्रत्ययानां च समारोपितबाह्यविषयत्वात्साध्यविहीनत्वं दृष्टान्तस्य । तथा च विरुद्धो हेतुः ।
अपि चाऽसिद्धः सहोपलम्भः । न हि य एव नीलस्योपलम्भः स एव तदुपलम्भस्येति नियमः समस्ति । न खल्वयमनुभवगोचरः । तथा हि । विस्फारिताक्षः446 प्रतिपत्ता नीलमिदमिति पश्यन्न तदैव तदनुभवमपि पश्यति । नीलप्रवणो हि तदनुभविता नाऽनु भवप्रवणोऽनुभूयमानोपाधितयाऽनुभवमपि447 परिच्छिनत्ति । न खल्वनुभवा448 नवभासे नुभूयत इति भवति । न ह्यस्ति सम्भवो दण्डो न गृह्यते गृह्यते च दण्डीति । तस्माद्विशेषणतयाऽनुभवग्रहणेऽप्यनुभूयमानप्रवणोऽनुभवितेति सिद्धः सहोपलम्भनियम इति चेत् । नैतत् । न ह्यनुभूयते नीलमित्यनुभवोऽपि तु नीलमिति । असत्यनुभवप्रकाशे विषया न प्रकाशेरन् । तदधीनं हि प्रकाशं तेषाम् । न खलु न लीनो नीलाऽनुभवस्तानलमवभासयितुम्449 । न ह्यनुभवादन्यो विषयाऽवभासः, यमयमनवभासमानोऽपीन्द्रियादिवशादधीतोऽपि तु परप्रकाशनपरमार्थोऽनुभव एव तत्प्रकाशः । तथा च यदि निलीयते तन्निलीनस्वभावत्वाद्विषयानपि नाऽऽभासयेदिति नाऽनुभवो न विषया भासन्त इत्यायातमान्ध्यमशेषस्य जगतः । तस्मादनुभवप्रकाशाऽयत्तप्रकाशत्वमेषितव्यं विषयाणाम् । अपि चैकस्मिन्नर्थे स्फुटाऽस्फुटाऽवभासो युगपदुपलभ्यते प्रतिपत्तॄणाम् । न चाऽसावर्थधर्मः स्फुटत्वादिरेकस्मिन्युगपद्विरुद्धधर्मसमावेशाऽसम्भवात् । विज्ञानभेदस्तूपपद्यत इति विज्ञानस्य धर्मः । तथा च तज्ज्ञानमनुभवसिद्धम् ।
तदेवमनुभवादेव स्वसंवेदनसिद्धौ यो नाम स्वसिद्धान्ताभ्यासाऽऽहितव्यामोहो विप्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते । यद्यत्प्रकाशाऽऽयत्तप्रकाशं तत्तस्मिन्प्रकाशमान एव प्रकाशते, यथा दण्डप्रकाशाऽऽयत्तप्रकाशो दण्डी । प्रत्ययप्रकाशायत्तप्रकाशश्च प्रत्येतव्यो रूपादिरिति स्वभावहेतुः । न च प्रत्ययप्रकाशाऽऽयत्तप्रकाशत्वं रूपादीनामसिद्धम् । उक्तं हि ऽतदनायत्तत्वे प्राप्तमान्ध्यमेव जगतोऽशेषस्येति । न च स्वसंवेदने स्वात्मनि वृत्तिविरोधः । न हि संवेदनस्य स्वरूपादन्या वृत्तिरस्ति । यतः स्वात्मनि कर्तृकर्मभावो विरुध्येत । संवेदनमेव त्वपराधीनप्रकाशमाविर्भूतस्वभावमात्मसंवेदनमाचक्षते । न च स्वभावेन भावो विरुध्यते । तस्मादात्मसंवेदनसिद्धेः सिद्धः सहोपलम्भनियम इति ।
तदनुपपन्नम् । हेत्वसिद्धेः । न हि नोलादयोऽनुभवप्रकाशाऽऽयत्तप्रकाशाः किं त्वनुभवाऽधीनप्रकाशाः । एवं चेन्नेत्रादिभिरनेकान्तः । किं पुनर्नीलादीनामनुभवे आयत्तता ? नन्वनुभवप्रकाशेऽपि किमायतते ? यदि न किञ्चिन्नाऽतिरिक्तं वचः । अनुभवप्रकाशाऽऽयत्तः । प्रकाश इति चेत् । ननु स एव तदधीन इत्युक्तं भवति, तच्चाऽयुक्तम् । न ह्यात्मन्यायतते, भेदाऽश्रयत्वात्तद्भावस्य450 अनुभव एवात्मनः परस्य च सम्बन्धितयाऽनुभवभेदोऽनुभवप्रकाशो नीलप्रकाशः, तथा चाऽनुभवप्रकाशाधीनता नीलप्रकाशस्येति चेत् । एवं तर्हि स्वप्रकाशाऽधीनस्य नीलसम्बन्धितेत्युक्तं स्यात् । तत्रैतावद्वक्तव्यम् । भवतु स्वप्रकाशः कुतस्तु नीलसम्बन्धिते?ति । स्वभावादिति चेत् । कृतं तर्हि स्वप्रकाशेन, स्वभावत एव तत्सम्बन्धोपपत्तेः । एतावांस्तु विशेषः, तवासौ कल्पिता तत्सम्बन्धिता, मम तु पारमार्थिकी, यां किल ज्ञेयाऽभिव्यक्तिरिति ज्ञाततेति वा कर्मतेति वाऽऽचार्याः प्रचक्षते । ननु कर्मतेति चेयमर्थधर्मः, कथमर्थधर्मोऽयमतीतादिषु सम्भवतीत्युक्तम् । नेयमर्थधर्मः, किं तु ज्ञातुरात्मनो ज्ञेयसम्बन्धभेद एव ज्ञातता । स च ज्ञातृधर्मो ज्ञायमानार्थाऽवच्छिन्नो ज्ञेयं प्रति गुणभाव आत्मनः सुखादिवत्प्रमित्साऽनपेक्षसमनन्तरप्रत्ययोत्पन्नमानसप्रत्यक्षवेदनीय451 एकसमवेतोऽप्युभयाऽधीननिरूपणताद्याश्रयः शक्तिरिव सम्बन्धः सम्भवति । नन्वयमनुभव एव । तथा हि । सोऽपि विज्ञेयविशेषप्रतिबन्धव्यवहाराऽनुगुणः पुंसो धर्मभेद आख्यायते । सत्यमीदृशः । न त्वसौ सम्बन्धः452 । व्यापारो हि स आत्मनः । तस्य तु फलं सम्बन्ध आत्मनो ज्ञेयप्रवणतालक्षणः । कुतः पुनरनुभवाऽवगतिः ? अस्मादेव तु सम्बन्धलक्षणात्फलात् । यदाह ऽज्ञाते त्वनुमानादवगच्छतीति । आत्मनःसंयोगविशेषादेव कादादित्कफलसम्भवान्नाऽनुभवाऽनुमानमिति चेत् । तत्किमिदानीमात्मनः संयोगविशेषो जात इत्यात्मनाऽर्थ प्रति गुणभूतेन भवितव्यम् ? क्रिया हि गुणप्रधानभावमापादयति भावानां पाकादिषु तथोपलम्भात् चैत्रौदनादीनाम् । ननु क्रियोपधाननिबन्धनश्चेत्सम्बन्धः कथमप्रतीतायां क्रियायां शक्यः प्रतिपत्तुम् ? प्रतीता चेत्क्रिया न तर्हि सम्बन्धात्फलभूतात्तत्प्रतीतिः । नैतदस्ति । क्रियामन्तरेण हि न सम्बन्धः, न पुनः क्रियाप्रतीतिं विना न तत्प्रतीतिरप्रतीतायामपि क्रियायां सम्बन्धप्रतीतेः । यथाऽऽग्नेय इति शब्दाऽवगताद् द्रव्यदेवतासम्बन्धादनुमीयते यजिस्तथोत्पन्नविज्ञानादर्थं453 प्रति गुणभूतमात्मानं मनसैव सहसाऽवगम्य तद्धेतुं संवेदनक्रियामनुमिमीते । आत्ममनःसंयोगमात्रात्तदनुपपत्तेः । यथाह—“पूर्व सा गृह्यते पश्चाद् ज्ञानं तज्ज्ञाततावशादि”ति ।
स्फुटत्वमपि ज्ञेयताविशेष एव न संवेदनविशेषः । तथा हि । सामान्यविशेषतद्वतां संवेद्यता स्फुटता, तद्विपरीतत्वमस्फुटता, यतो दूरे वृक्ष इति
तस्य ज्ञेयाऽवभासकार्यलक्षणत्वात् ।
विषयाऽभावाच्च व्युत्पत्त्यसम्भवे तदनपेक्षस्य454 प्रवृत्तिः स्यात् । प्रतियन्ति न पुनरशोक इति वा सहकार इति वा । प्रत्यासीदन्तस्तु मलयमारुताऽऽकम्पमाननवपल्लवमानन्दनिष्पन्दमधुपमालानिपीयमानमधुरमधुरसस्तबककदम्बकं रक्ताऽशोकपादम् । तस्माज्ज्ञेयतायामयं विशेषो न ज्ञाने इति सिद्धं पराञ्चः प्रत्यया न प्रत्यञ्च इति ।
प्रयोगस्तु विवादाऽध्यासिताः प्रत्ययान्तरेणैव वेद्याः प्रत्ययत्वात् ये ये प्रत्ययास्ते सर्वे प्रत्ययान्तरवेद्याः यथा न प्रत्ययान्तरेणैव वेद्याः । अविद्यमानस्याऽवभासेऽतिप्रसङ्गात् ज्ञायमानस्यैवाऽवभासोऽभ्युपेयः । तथा च विज्ञानस्य स्वसंवेदने तदेव तस्य कर्म क्रिया चेति विरुद्धमापद्येत । यथोक्तम्—
अङ्गुल्यग्रं यथात्मानं नाऽऽत्मना स्प्रष्टुमर्हति ।
स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ॥ इति ।
यत्प्रत्ययत्वं वस्तुभूतमविरोधेन व्याप्तं, तद्विरुद्धविरोधदर्शनात्स्वसंवेदनान्निवर्त्तमानं प्रत्ययान्तरवेद्यत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । एवं प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः । तथा च न स्वसंवेदनं विज्ञानमिति सिद्धम् ।
असिद्धश्च सहोपलम्भनियमः । फलभेदसमुन्नेयं च विज्ञानमभिन्नं सन्न फलभेदायाऽलमिति विनापि नीलाद्याभासं स्वभावत एव भेदात्प्रतिकर्म व्यवस्थाप्यते । तदेवमसति बाधकेऽनुभव एवात्मग्राही बाह्यसद्भावे प्रमाणं, न प्रमाणान्तरमत्राऽनुसरणीयम् । न हि करिणि दृष्टे चीत्कारेन तमनुमिमते प्रेक्षावन्तः । प्रमेयपरीक्षा तूपेक्षिता विस्तरभयात् । तदनेन प्रबन्धेनोक्तोऽभिसन्धिराचार्यस्य निरालम्बनं ज्ञानमयुक्तमेवेत्यवधारयतः ।
निराकरणान्तरमाह—तस्य ज्ञेयाऽवभासकार्यलक्षणत्वात् । ज्ञेयाऽवभासो ज्ञेयताऽर्थस्य तयाऽत्यन्तपरोक्षं विज्ञानमनुमातव्यं, तत्र प्रमाणान्तराभावादित्युक्तम् । निरालम्बनत्वे तु ज्ञेयाऽवभास एव नास्तीति केन ज्ञानमनुमीयेत ? यस्य निरालम्बनत्वं साध्येत । तदनेन धर्मिणः साध्यधर्मेण विरोधो दर्शितः । तथा चाऽऽश्रयाऽसिद्धत्वं हेतोरिति भावः । अपि च व्युत्पन्नसम्बन्धः शब्दः प्रतिभां भावयेत् । व्युत्पत्तिश्चाऽर्थेन सह शब्दस्य न विज्ञानेन कार्येण तस्याऽऽनन्त्याद् व्यभिचाराच्च । सामान्यस्य च प्रतिभात्वस्याऽकार्यत्वात्कारकस्य
ननु कारकसंसर्गिणी क्रिया आलम्बनमिष्टैव । न । तस्या अपवर्त्तकवचनजन्मन्यपि प्रख्यायां साम्याल्लिङादियुक्तेभ्यो वचनेभ्यः प्रतिभाभेदादप्रवृत्तिप्रसङ्गात् ।
ननु नाऽप्रवर्तकमनिवर्तकं वा वचः समस्ति । वैयर्थ्यात् । कर्तव्यतापर्यवसायिनी हि वाक्यप्रवृत्तिः । कथं तर्हि भूताऽन्वाख्यायिनो वेदान्तालौकिकवचांसि च ? कर्तव्यताभेदात् प्रवृत्तिनिवृत्तिप्रतिपत्तिविषयत्वात्455 । सर्वा हि कर्त्तव्यता भेदवती । वेदान्तेषु तावदात्मतत्त्वप्रतिपत्तिकर्त्तव्यता । लोके चेदमिह निध्यादि प्रतिपत्तव्यमिति वाक्यपर्य्यवसानम् । स्वकार्ये व्युत्पत्त्यनपेक्षत्वात् । अर्थश्च निरालम्बनत्वाऽभ्युपगमे नास्तीति व्युत्पत्तेरसम्भवात्तदनपेक्षस्य च प्राक् प्रवृत्तिः स्याऽन्न चासावस्तीत्याह— विषयाभावाच्च व्युत्पत्तेरसम्भवे456 तदनपेक्षस्य प्रवृत्तिः स्यात् ।
कश्चिदाह—ननु कारकसंसर्गिणी क्रियाऽऽलम्बनमिष्टैव, तथापि न भवदभिमतोपायता सिध्यतीति भावः । दूषयति—न, तस्याः काष्ठैः पचयतीत्यत्राऽप्रवर्त्तकवचनजन्मन्यपि प्रख्यायां साम्यात्प्रवृत्तिः स्यादप्रवृत्तौ वा काष्ठैः पचेदिति लिङादियुक्तादपि वाक्यात्प्रतिभाया अभेदादप्रवृत्तिप्रसङ्गात् ।
परस्त्वप्रवर्त्तकवचनजन्मनीत्यमृष्यमाण आह—ननु नाऽप्रवर्त्तकमनिवर्त्तकं वा वचः समस्ति । कुतः ? वैयर्थ्यात् । परप्रत्यायनाय हि वचनमुच्चारयन्ति प्रेक्षावन्तः । तदेव च परः प्रत्याययितव्यो यत्प्रयोजनवत् । न च भूताख्यानं तथा । तस्मात्प्रवर्त्तकं निवर्त्तकं वा वचो नाऽन्या गतिरस्तीत्यर्थः ।
ननु भूतान्वाख्यानमपि दृश्यते लोके वेदे च निधिमानेष भूभागः, “सदेव सोम्येदमग्र आसी”दिति, अत्राह—कर्त्तव्यतापर्यवसायिनी हि सर्वा वाक्यप्रवृत्तिः । यद्येवं कथं तर्हि भूतान्वाख्यायिनो वेदान्ता लौकिकानि च भूयांसि वचांसि ? उत्तरम्—कर्त्तव्यताभेदात् । प्रवृत्तिनिवृत्तिप्रतिपत्तिविषयत्वात् । एतदेव स्फुटयति—सर्वा हि कर्त्तव्यता भेदवती457 । तमेव भेदमाह—वेदान्तेषु तावदात्मप्रतिपत्तिः कर्त्तव्यता । आत्मा ज्ञातव्य इति हि प्रतिपत्तिरात्मनि विधीयते, तत्परत्वं च वेदान्तानाम् । लोकेऽपि चेदमिह निध्यादि प्रतिपत्तव्यमिति वाक्यपर्यवसानम् । दूषयति—नैतत्सारम् । इदमत्र विकल्पनीयम् । आत्मप्रतिपत्तिकर्त्तव्यतापरत्वमुपनिषदाम् । तिस्रः खल्विमाः प्रतिपत्तयः सम्भवन्ति । श्रुतमयी, चिन्तामयी, साक्षात्कारवती, चेति । तत्र
नैतत्सारम् । शब्दात्प्रतिपत्तेरुत्पत्तेः458 पुनस्तत्राऽव्यापारात् । कर्म्मफलसम्बन्धबोधवत् । निश्चयोऽपि यदि शब्दात्, सञ्जात एव, अन्यतश्चेत्तदाप्रामाण्यम् । अर्थपरतापि न दृष्टार्थत्वात्स्वाध्यायाऽध्ययनविधेः कर्म्मवत् । अविशिष्टस्तु वाक्यार्थ इति न्यायात् । अन्यथा सविधिकस्यैव विवक्षितार्थत्वप्रसङ्गात् । न च पुरुषार्थत्वाय विधिः प्रार्थ्यते । ज्ञानस्य ज्ञेयाऽभिव्यक्ति-
श्रुतमयीमधिकृत्याह—शब्दात्प्रतिपत्तेरुत्पत्तेः पुनस्तत्राऽव्यापारात् । न श्रुतमयी विधेया । शब्दाद्विधेयमवगम्यते उत्तरकाला प्रवृत्तिर्विधिप्रयोजनं न पुनः शब्दाऽवबोध एव, आत्माश्रयदोषप्रसङ्गादिति भावः । कर्मफलसम्बन्धबोधवत् यथा कर्मविधिवाक्यं न कर्मफलसम्बन्धबोधे विधीतरमपेक्षते तथोपनिषदोऽपि नाऽऽत्मबोधे इत्यर्थः । शङ्कते—निश्चय आत्मनि । विधेः फलं विकल्प्य दूषयति—यदि शब्दात् सञ्जात एवाऽन्यतश्चेत् प्रमाणान्तरात् तत्सापेक्षतयाऽप्रामाण्यं शब्दस्य । अथ विधिं विना वेदान्तानां शब्दस्वरूपपरता स्यात् स्वरूपप्राथम्यात् । यदा तु वेदान्तैरात्मा ज्ञातव्य इति विधीयते तदा तैर्नाऽविवक्षितार्थैः शक्यमात्मज्ञानं कर्तुमिति विवक्षिताऽर्थमर्थ्यते विधिरित्याह—अर्थपरताऽपि न विधेः प्रयोजनम् । कुतः दृष्टार्थत्वात् स्वाध्यायाऽध्ययनविधेः । उपनिषदां कर्मविधिवत् । “अविशिष्टस्तु वाक्यार्थ” इति न्यायात् । प्रयोजनवदर्थाऽवबोधनं हि दृष्टं प्रयोजनमध्ययनविधेः । अक्षरग्रहणार्थत्वे त्वदृष्टार्थता स्यात् । यथा कर्मविधीनां विनैव विध्यन्तरेणाऽर्थपरत्वमौत्सर्गिकमेवं, वेदान्तानामपीत्यर्थः । यदि पुनर्न स्वाध्यायविधिदृष्टार्थो यदि वा नौत्सर्गिकमर्थपरत्वं वचसां तत्र सविधिकमेवाऽविवक्षितार्थ स्यादित्याह—अन्यथा सविधिकस्यैव विवक्षितार्थत्वप्रसङ्गात् । यद्युच्येत विध्यभावे हि धात्वर्थ एव भावनाभाव्यः, समानपदोपादानत्वात् भवेद्विधौ सति तदतिक्रमेणाऽसमानपदोपादानोप्यार्थवादिकोऽप्यपुनरावृत्तिरूपः पुरुषार्थो लभ्यतइति विधिः प्रार्थ्यत इत्यत आह—न च पुरुषार्थत्वाय विधिः प्रार्थ्यत इति । कुतः ? ज्ञानस्य ज्ञेयाऽभिव्यक्तिफलत्वात् । तस्य च तन्नान्तरीयकतया विधिमन्तरेणापि प्रापणात् । नन्वपुनरावृत्तिः फलं, श्रूयते हि वचनं ऽन स पुनरावर्त्तते इति, न चाऽसौ विधिं विना शक्या प्रतिपत्तुमित्यत्राह—फलान्त राऽनभ्युपगमात् । अपुनरावृत्तिरिति हि मोक्ष उच्यते । न चाऽसौ साध्य इति वक्ष्यते । अपि च प्रतिपत्तिविधिपरत्वे वेदान्तानां ब्रह्मस्वरूपसत्तायामप्रा माण्यप्रसङ्गः । न ह्यसौ विधिनाऽपि तद्विषयो नित्यत्वात्, येन विधिरपेक्ष्येत प्रतिपत्तिविषयो हि विधिः प्रतिपत्तिविषयमात्मतत्त्वमपेक्षते । तथा च
फलत्वात्फलान्तराऽनभ्युपगमात् क्रियापरत्वाच्च विधेर्वस्तुस्वरूपसत्ताया अविवक्षितत्वात्तत्प्रतिपत्त्यर्थमनुष्ठानं गम्येत नात्मतत्त्वाऽवबोधः स्यात् । अतः श्रूयमाणो विधिरेवञ्जातीयेष्वविवक्षितः । नित्यप्राप्तेः ।
ननु विधिरहितस्याऽनुवादरूपस्य साकाङ्क्षस्य प्रामाण्यमलभ्यम् । अथ केयमनुवादता ? प्रमाणान्तराऽधिगतार्थता, आहोस्विद्भूतार्थता ? प्रमाणान्तराऽविगतार्थता चेद्विधिशून्यमप्यतादृशमप्यपौरुषेयं नाऽनुवादः । भूतार्थता चेत् कुतः सापेक्षता ? यति लौकिकवचसां प्रमाणान्तराऽधिगतगोचरत्वाद् भूतार्थानां सापेक्षत्वं दृष्टम् ओषधपानादिषु, विधयोऽपि लौकि- तथात्मशब्दः प्रमाणमिति चेत् । न । आत्मतत्त्वमन्तरेण समारोपेणापि प्रतिपत्तेरुपपत्तेः । एवं च तत्परत्वाऽवभावाद्वेदान्तानां ब्रह्मविद्यात्वं प्रसिद्धं बाध्येतेत्येतदाह—क्रियापरत्वाच्च विधेर्वस्तुरूपसत्ताया अविवक्षितत्वात् तत्प्रतिपत्त्यर्थमनुष्ठानं गम्येत नात्मतत्त्वाऽवबोधः स्यात् । नन्वात्मा ज्ञातव्य इति श्रुतिरस्ति, न चासौ प्रमादः । तुल्यं हि साम्प्रदायिकम्, तदेकवाक्यता च वेदान्तानाम्, अतो निष्प्रोजनतया नाऽवज्ञानमर्हतीत्येतदुपसंहारव्याजेन निराकरोति—अतः श्रूयमाणो विधिरेवञ्जातीयकेषु विधानाऽनर्हेष्वविवक्षितः, नित्यप्राप्तत्वात् । सिद्धा हि वेदान्तेभ्यो विधि विनापि ब्रह्मस्वरूपप्रतिपत्तिः । न ह्यस्ति सम्भवो विदितरूपसङ्गतिः शब्दन्यायविद्वेदान्तेभ्योऽर्थ न प्रतिपद्यतइति प्राप्तत्वात्, एवञ्जातीयकेषु श्रूयमाणो विधिरविवक्षितः । न च प्रमादोऽनुवादतोऽप्युपपत्तेः । ननु मा भूत्प्रतिपत्तिविधिः फलं, प्रामाण्यायैव तु विधिराश्रयिष्यते, अन्यथा तदयोगादिति चोदयति—ननु विधिरहितस्याऽनुबादस्वरूपस्य तत एव साकाङ्क्षस्य प्रामाण्यमलभ्यम्, अनपेक्षलक्षणत्वात्तस्या,ऽन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात् । तदेतद्विकल्पयति—अथ केयमनुवादता ? प्रमाणान्तराऽधिगतार्थताऽऽहोस्विद्भूतार्थता ? दूषयति—प्रमाणान्तराऽधिगताऽर्थता चेत् । विधिशून्यमपि तर्हि भूतार्थमतादृशं प्रमाणान्तरविषयीकृतार्थमपौरुषैयं नाऽनुवादः । ज्ञानपूर्वको हि पश्चाद्वादोऽनुवादः । अपौरुषेये तु ज्ञातुःकर्तुरभावान्न ज्ञानपूर्वक इति नाऽनुवादः । सापेक्षत्वेनेत्यनुषज्यते । पौरुषेयं हि वचः प्रमाणान्तरेणार्थं प्रतीत्य निर्मीयमाणं प्रमान्तरापेक्षं स्यान्न त्वेवमपौरुषेयमित्यर्थः । द्वितीयपक्षमाश्रित्याह—भूतार्थता चेत्किङ्कृता सापेक्षता ? भूतार्थत्वसापेक्षत्वयोर्न प्रतिबन्धोऽस्ति कश्चिदित्यर्थः ।
शङ्कते—यदि लौकिकवचसां प्रमाणान्तराऽधिगतगोचरत्वाद् भूतार्थानां सापेक्षत्वं दृष्टमिति वैदिकान्यपि भूतार्थानि सापेक्षाणि । तत्रोत्तरम्— औषधपानादिष विधयो लौकिकास्तथा साऽपेक्षा इति विधिमद्वैदिकमपेक्षेत ।
कास्तथेति विधिमतदप्यपेक्षेत । अथाऽपोरुषेयत्वान्नाऽपेक्षते ततोऽपौरुषेयत्वमितत्वाप्यपार्थम् । अथ प्रमाणान्तरसम्भवाद् भूतार्थस्य साऽपेक्षता, न विधिमनः । विध्यर्थे तदसम्भवाल्लौकिकस्यापि तदनपेक्षताप्रसङ्गः ।
पुरुषबुद्धिप्रमणत्वाद्विनियोगस्य तत्सापेक्षतया तत्र सापेक्षत्वम् अपौरुषेये वचसि । सोऽपि न केवलं बुद्ध्यन्तरनिरपेक्षः, मानान्तरविषयोऽपि । तर्ह्यपौरुषेयवचननिमित्ताऽनपेक्ष इति यतोऽसाबपेक्षत्वकारणं न मानान्तराऽसम्भवः । पौरुषेयता च सापेक्षत्वे हेतुः । नियोगनिष्ठेऽपि लौकिके वचसि सापेक्षत्वान्न प्रमाणान्तरसम्भवः । तथा च सापेक्षत्वे प्रत्यक्षाऽनुमानयोः परस्पर-
अथ विधिमद्वैदिकमपौरुषेयत्वान्नाऽपेक्षते ततोऽपौरुषेयत्वमितरत्रापि वैदिकभूतार्थेऽप्यपार्थमिति । अथ प्रमाणान्तरसम्भवाद् भूतार्थस्य वैदिकस्य सापेक्षता न विधिमतः । कुतः ? विध्यर्थे तदसम्भवात् । प्रमाणान्तरासम्भवात् । उत्तरं लौकिककस्याप्यौषधादिविधेस्तदनपेक्षत्वप्रसङ्गः । यदि मन्येत शब्दानामौत्सर्गिकी नियोगार्थता तदर्थस्वार्थता वा । तन्न । तदर्थस्वार्थानि द्रव्यगुणकर्मवचनानि न स्वार्थं केवलमेव नियोगेन घटयितुमीशत इति विनियोगमन्तराश्रयन्ते । सोऽयमजहत्क्रियाकारकसंसर्ग एषामर्थस्य नियोगसम्बन्ध इति वैदिकी स्थितिः । उत्सर्गस्याऽनपोदितस्य459 तादवस्थ्यात् अतोऽपौरुषेये नियोगविनियोगयोरबुद्धिपूर्वकत्वादनपेक्षत्वं शब्दस्य । लोकस्तु प्रमाणेनोपलभ्याऽर्थमन्यत्रोपलब्धं460 वा समारोप्य वचनानि रचयति । यथा “ज्वरितः पथ्यमश्नीयाद्वि”, मोक्षमाणो नैरात्म्यं461 भावयेदिऽति । न च नियोगः प्रमाणान्तरविषये समारोपविषयो वा, अन्यत्राऽनुपलब्धेः । तद्विषयस्तु विनियोगः प्रमाणान्तरगोचरः समारोपगोचरो वा सम्भवति । यथोपलम्भनं च विवक्षा, यथाविवक्षितं वचनरचनेत्यौत्सर्गिकीं नियोगपरतामपहाय लक्षणया विनियोगपरतामवलम्बते, पौरुषेयं च वस्तुतः सापेक्षमिति चोदयति—पुरुषबुद्धिप्रभवत्वाद्विनियोगस्य सापेक्षतया तत्र सापेक्षत्वम् । अपौरुषेये तु सोऽपि विनियोगोऽपि न केवलं नियोगो बुद्ध्यन्तरनिरपेक्षः । पुरुषबुद्धिप्रभवत्वं चाऽऽप्तवाक्ये विनियोगस्य ज्ञेयतयाऽनाप्तवाक्ये चाऽऽरोपिततयाऽवगन्तव्यम् । परिहरति—मानान्तरविषयोऽपि भूतरूपोऽर्थो नियोग इवापौरुषेयवचननिमित्ताऽनपेक्षः । यतोऽपौरुषेयताऽनपेक्षत्वकारणं न मानान्तराऽसम्भवः । पौरुषेयता च सापेक्षत्वे हेतुः । अत्रैवाऽन्वयव्यतिरेकौ दर्शयति—नियोगनिष्ठेऽपि लोकवचसि सापेक्षत्वात् । अयमर्थः । यदि न लौकिकं वचनं नियोगनिष्ठं भवेत् ततो वैदिकमपि न
विषयसम्भवात्सापेक्षत्वात्प्रमाणत्वहानिः । अतः प्रमाणान्तरोपलब्धिविवक्षापुरःसरप्रवृत्तित्वाद्विधिमदितरत्वाद्वा वचनं सापेक्षम् । अतथाभावाद्वैदिकमुभयमप्यनपेक्षमिति चतुरस्रम् । तेन प्रमाणत्वार्थमपि न विधिविवक्षा ।
स्यात्, लोकावगतसम्बन्धस्य शब्दस्य वेदेऽपि बोधकत्वात् । अगृहीतसम्बन्धस्य तु बोधकत्वे प्रथमश्राविणोऽप्यर्थप्रत्ययः प्रसज्येत । तस्माद्यद्यपि परेषां राद्धान्ते न नियोगनिष्ठता पौरुषेयाणां वचसामपि तु विनियोगप्रधानता तथाप्यापाद्य नियोगनिष्ठत्वमेतदुक्तमिति मन्तव्यम् ।
न प्रमाणान्तरसम्भवः सापेक्षत्वे हेतुः । सत्यपि तस्मिन् वैदिकस्य विनियोगस्यानपेक्षत्वात् । अत्रैव प्रसङ्गान्तरमाह—तथा च सापेक्षत्वे प्रत्यक्षानुमानयोः परस्परस्य विषयसम्भवात्सापेक्षत्वात्प्रमाणत्वहानिः । एतदुपसंहरति—अतः प्रमाणान्तरोपलब्धिविवक्षापुरःसरप्रवृत्तित्वाद्विधिमदितरद्वा पुरुषवचः सापेक्षम् । अतथाभावात्तु वैदिकमुभयमप्यनपेक्षमिति चतुरस्रम् । प्रकृतमुपसंहरति—तेन प्रमाणत्वार्थमपि न विधिविवक्षा ।
कश्चिदाह सत्यमपौरुषत्वादनपेक्षता, तदेव तु प्रमाणान्तराऽगोचरार्थतया सिध्यति । न खल्वनालिख्य बुद्धावर्थ तत्प्रत्यायनाय वचनं रचयन्ति लौकिकाः । न च प्रमाणान्तरागोचरोऽर्थः शक्यो बुद्धावालिखितुम् । औत्सर्गिकी च नियोगपरता शब्दानां, नेयमसत्यपवादे शक्या निह्नोतुम् । आम्नाये नियोगश्च प्रमाणान्तराऽगोचरः शब्दैकसमधिगम्य इति तदर्थत्वादपौरुषेयताऽऽम्नायस्य । पौरुषेयत्वे हि मुख्या नियोगार्थता हीयेत । अत एव वाक्यत्वादयोप्यागमवाधितविषया नाम्नायस्य पौरुषेयतां साधयितुमीशते । ततश्चाऽनपेक्षता । न चेयं विधा “ज्वरितः पथ्यमश्नीयाऽदि”त्यादिषु सम्भवति, स्पष्टदृष्टेन पौरुषेयत्वेन मुख्यमपि नियोगार्थत्वमपोद्य लक्षणया विनियोगपरत्वाऽऽपादनात् । यदि पुनराम्नायस्य भूतार्थता भवेत्तदा तस्य प्रमाणान्तरयोग्यतया शक्यवचनत्वेन पोरुषेयता दुर्वारा भवेदिति प्रत्यत्नेन भूतार्थतामपनीय कार्यपरत्वमाम्नायस्य व्युत्पाद्यत इति ।
तदनुपपन्नम् । सिध्येदयं मनोरथो यदि तथाविधो विधिराम्नायगोचरः स्यात्, न त्वयं तद्गोचरः सम्भवतीत्युपपादितं नियोगपरीक्षायाम् । अपि चाऽयमौपनिषदोऽपि पुरुषो न प्रमाणान्तरगोचर इति कथमुपनिषदामपि पौरुषेयता दुर्वारा ? तथाविधस्यान्यस्य सिद्धरूपस्य प्रमाणान्तरगोचरत्वमुपलब्धमित्यस्यापि सिद्धतया तदर्थत्वमिति462 चेत् । एवं तर्हि क्रियात्मनः
नन्वन्यदेवेदं शब्दप्रभवादात्मतत्त्वगोचरं ज्ञानं विधीयते । न हि शाब्दज्ञानपरिवेद्यं ब्रह्मस्वरूपम् । वाक्यलक्षणो हि शब्दः प्रमाणं, पदार्थसंसर्गात्मा च तदर्थः, प्रत्यस्तमिताऽखिलभेदप्रपञ्चं चात्मतत्त्वं, तत्कथमस्य गोचरः ? तस्मात्प्रलीनसकलाऽवच्छेदोल्लेखमद्वैततत्त्वाऽवभासात्मकं ज्ञानमन्यदेव शाब्दाद्विधीयते ।
वार्तमेतत् । न खलु फलांशो विधिगोचरः । निष्प्रपञ्चात्मतत्त्वाऽवभासश्च फलमेव न ततोऽन्यदभीप्स्यते । मोक्ष इति चेत् । ततोऽव्यतिरेकात् । सप्रपञ्चात्मतत्त्वावऽभासो हि संसारः । निष्प्रपञ्चात्मावऽभासो कार्यस्य मानान्तरगोचरतेति कार्यतया नियोगस्यापि तदर्थत्वमिति तदर्थस्यापि वेदस्य पौरुषेयता दुर्वारा भवेत् । स्वरूपेण वा तस्य प्रमाणान्तराऽगोचरत्वे औपनिषदस्याऽऽत्मनोऽपि तदिति सर्व समानमन्यत्राभिनिवेशात् । तदास्तां तावत् ।
एवं तावन्न श्रुतमयी प्रतिपत्तिर्विधातव्येत्युक्तम् । ननु मा नामेयं विधायि, साक्षात्कारवती तु विधायिष्यते इति चोदयति—नन्वन्यदेवेदं शब्दप्रभवाद्विज्ञानादात्मतत्त्वगोचरं ज्ञानं विधीयते । कस्मात्पुनरात्मतत्त्वगोचरत्त्वं न शब्दस्येत्यत आह—न हि शाब्दज्ञानपरिवेद्यं ब्रह्मस्वरूपं, वाक्यलक्षणो हि शब्दः प्रमाणं, पदमात्रस्याऽप्रमाणत्वात् । तथापि किम् ? इत्याह— पदार्थसंसर्गात्मा च तदर्थः, संसर्गश्च संसृज्यमानाऽनेकार्थतन्त्रत्वादेकोऽपि नानात्वादूषितः । न चाऽऽमतत्त्वमेवम्भूतमित्याह—प्रत्यस्तमिताऽखिलभेदप्रपञ्चं चात्मतत्त्वं, तत्कथमस्य गोचरः ? उपसंहरति—तस्मात्प्रलीनसकलावच्छेदोल्लेखमद्वैततत्त्वावभासनात्मकं ज्ञानमन्येव शाब्दाद्विधीयते ।
एतद् दूषयति—वार्त्तमेतत् । न खलु फलांशो विधिगोचरो, यथाह महर्षिः—“तस्य लिप्साऽर्थलक्षणा निष्प्रपञ्चात्मतत्त्वावभासश्च फलमेव” । निष्प्रपञ्चेति विगलितनिखिलदुःखत्वमाह । प्रपञ्चो हि दुःखं, तत्त्वग्रहणेनाऽऽनन्दात्मतां सूचयति । बहुलमानन्दश्रुतेः फलत्वमेव दर्शयति । न ततोऽन्यद्धीप्स्यते विगलितदुःखत्वादानन्दात्मत्वाच्च ।
चोदयति । मोक्ष इति चेत् । श्रूयते हि “न स पुनरावर्त्तते” इति । परिहरति—न । ततो निष्प्रपञ्चाऽऽत्मतत्त्वाऽवभासादव्यतिरेकात् । अव्यतिरेकमेव दर्शयति—सप्रपञ्चात्माऽवभासो हि संसारः । निष्प्रपञ्चात्माऽवभासो मोक्षः । संसारविरुद्धस्वभावो मोक्ष इति तत्स्वभावकथनाय संसारोऽपि र्दाशतः । न चाऽसौ प्रवृत्तिविषयोऽपि, सिद्धत्वादित्याह—स्वात्मनि स्थितिः ।
हि मोक्षः स्वात्मनि स्थितिः । अन्यथा कार्य्यत्वादमोक्षात् । बन्धहेतुश्च कर्म्मादिप्रपञ्चोऽविद्या, तदुच्छेदश्च विद्यैव । यदि च न कथञ्चिदपि शब्दज्ञानविषयो ब्रह्म कथं तज्ज्ञानविधिः शक्यप्रतिपत्तिः ? विषयतश्च ज्ञाननिरूपणं, सिद्धश्च तन्निरूपयति, तत्सिद्धिश्च प्रमाणान्तराऽभावात् स्यात् । तस्यापि चेदविषयः तदसिद्धेर्ज्ञानविशेषाऽप्रतिपत्तेर्विध्यप्रतिपत्तिः । अथ कथञ्चिद्विषयः, न तर्हि शाब्दज्ञानाऽनपेक्षता । प्रतिपत्तिकर्त्तव्यतापरत्वाच्च463 वचनस्येदृक्ता नाऽऽगमार्थः स्यादित्युक्तम् । नाप्यार्थोऽर्थः । अध्यारोपेणापि प्रतिपत्तेः सम्भवात् । अतो न नियोगाऽनुप्रवेशेन वस्तुतत्त्वं प्रकाश्यते । न हि
अनेन पराऽभिमता मोक्षावस्था व्युदस्ता वेदितव्या । तद्व्युदासहेतवश्च ब्रह्मसिद्धौ प्रपञ्चिताः । यदि तु न स्वात्मनि स्थितिः, अपि तु पराऽभिमतो मोक्षस्तत्राह—अन्यथा कार्यत्वादमोक्षात् । अथाऽविद्योच्छेदः कस्मान्न भवति ? इत्यत आह—बन्धहेतुश्च कर्मादिरूपः प्रपञ्चोऽविद्या, नाऽन्या । ततः किं ? तदुच्छेदकश्च विद्यैव । निष्प्रपञ्चात्मतत्त्वावभास आत्मतत्त्वमेव सः, स एव च मोक्ष इति न प्रवृत्तिविषयः । अत्रैव दूषणान्तरमाह—यदि च न कथञ्चिदपि शब्दज्ञानविषयो ब्रह्म, कथं तज्ज्ञानविधिः शक्यप्रतिपत्तिः ? किमिति न शक्यप्रतिपत्तिः ? इत्यत आह—विषयतश्च ज्ञाननिरूपणम् । चो हेत्वर्थे । निरूप्यतां विषयेण, को दोष ? इत्यत आह—सिद्धश्च विषयो ज्ञानं निरूपयति सोऽपि सिध्यतु, का क्षतिः ? इत्यत आह—तत्सिद्धिश्च प्रमाणान्तराऽभावाच्छब्दादभ्युपेतव्या । तस्यापि चेदविषयः तदसिद्धेर्विषयाऽसिद्धेर्ज्ञानविशेषाऽप्रतिपत्तेर्विध्यप्रतिपत्तिः ।
शङ्कते । अथ कथञ्चित्तद्विषयः । यद्यपि तत्स्वरूपं न शब्दगोचरस्तथापि भेदप्रपञ्चविलयद्वारेण निरूपणाद्विषयभाव इत्यर्थः । परिहरति—न तर्हि शब्दज्ञानाऽपरिच्छेद्यता । प्रथमपक्षोक्तं दूषणमत्रापि योजयति— प्रतिपत्तिकर्त्तव्यतापरत्वाच्च वचनस्य, ईदृशं प्रतिपत्तव्यमितीदृक्ता नाऽऽगमार्थः स्यादित्युक्तं, यत्परः शब्दः स शब्दार्थः । प्रतिपत्तिकर्त्तव्यतापरश्चेन्न प्रत्येतव्यत्वपर इत्यर्थः । स्यादेतत् । कर्त्तव्यतायाः प्रतिपत्तिगोचरत्वात्प्रतिपत्तेश्च प्रतिपाद्यविषयत्वात्कर्त्तव्यतैव प्रतिपत्तिं तद्विषयं464 चाऽऽक्षेप्स्यति, ततश्च प्रत्येतव्यतत्त्वनिश्चय इत्यत आह—नाप्यार्थोऽर्थः । कुतः ? अध्यारोपेणापि प्रतिपत्तिसम्भवात् । सत्यं, प्रत्येतव्यमाक्षिपति प्रतिपत्तिविषया कर्त्तव्यता, न तु तस्य तथात्वमपि, समारोपेणापि प्रत्येतव्योपपत्तेरित्यर्थः । इदं दूषणपमु
तत्र शब्दस्य प्राभाण्यम् । एवमनपेक्षतया प्रामाण्यसिद्धेः कार्य्याऽन्वयरहितभूतादिकमप्यवगमयितुमलमाम्नाय इत्यसमञ्जसमेतत् । यदि कार्य्यरूप एव वेदार्थः कथं तर्हि मन्त्राऽर्थवादाः सोपनिषत्काः ? यस्माद् भूतादिकमर्थं चोदनैव गमयति । कथम् ? कार्य्यमर्थमेवमवगमयन्ती भूतादिकमपि गमयति ।
संहरति—अतो न नियोगाऽनुप्रवेशेन वस्तुतत्त्वं प्रकाश्यते । न हि तत्र वस्तुतत्त्वे शब्दस्य प्रामाण्यम् ।
उपसंहरति—एवं भूतार्थत्वेऽप्यनपेक्षतया प्रामाण्यसिद्धेः कार्याऽन्वयरहितः स्वरूपेणाऽपि भूतादिकमर्थमवगमयितुमलमाम्नाय इति । चोदना हीति भाष्यग्रन्थस्य निबन्धनकृतो व्याख्यानमसमञ्जसमित्याह—इत्यसमञ्जसमेतत् । सर्वनामपरामृष्टं निबन्धनकृतो व्याख्यानमाह—यदि कार्यरूप एव वेदार्थः कथं तर्हि मन्त्राऽर्थवादाः सोपनिषत्का भूतार्थाऽभिधायिन इत्याशङ्क्याऽवतारितं चोदना हीति, तस्याऽर्थमाह—यस्माद् भूतादिकमर्थ चोदनैव गमयति । यदि भूतादिरर्थश्चोदनाया न स तर्हि कार्यरूपो वेदार्थः, न चाऽनपेक्षेत्याशयवान्पृच्छति—कथम् ? उत्तरं—कार्यमवगमयन्ती भूतादिकमपि गमयति । द्विविधो हि शब्दः कार्याऽभिधायी लिङादिः, भूताद्यभिधायी च लङादिः । तत्र लिङादेस्तावत्कार्याऽभिधायित्वादेव तत्परत्वम् । लङादयस्तु465 भूतादिकार्यपरतया तदन्वितमेवाऽभिदधति । ततश्च तेषामपि कार्ये तात्पर्यात्कार्यार्थत्वं सिद्धम् । तथा च भूताद्यभिधायिनामपि निरपेक्षत्वम् । यथाह— नाऽन्यत्किञ्चनेन्द्रियमिति । इदं च व्याख्यातम्, न च प्रमाणान्तरगोचरोऽयमित्यादिना । एतदुक्तं भवति न कार्यसम्बन्धिना रूपेण प्रमाणान्तरेणाऽवगम्यत इति । तदिदमसमञ्जसम् । भूतार्थपरत्वेऽप्यनपेक्षत्वेन प्रामाण्योपपत्तेः । स्यादेतत् । वृद्धव्यबहाराऽबगम्यः शब्दाऽर्थसम्बन्धः । स च प्रवृत्त्यात्मकः । प्रवृतिश्च कार्याऽवगमपूर्विका प्रेक्षावताम्, अतः कार्ये एव सर्वे साक्षात्तदन्वितस्वार्थतया वा लब्धव्युत्पत्तयः शब्दा इति कार्यरूप एव वेदार्थ इति ब्रूमो न पुनः प्रामाण्यायेति । तदप्युक्तम् अन्यथापि व्युत्पत्तेरुपपत्तेः । तथा हि । इन्द्रमित्रः प्रतिपन्नदेवदत्तानन्दनिबन्धनपुत्रजन्मा देवदत्तगृहादेव वार्त्ताहरेण सह देवदत्ताभ्याशमागतः पटवासोपायनाऽर्पणपुरःसरं दिष्ट्या देवदत्त वर्धसे, ते पुत्रो जात इति वार्त्ताहरव्याहारसमनन्तरमुन्मीलत्पुलककपोलमुत्फुल्ललोचनयुगलमतिस्मेरं मुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते, तत्प्रमोदहेतुश्च पुत्रजन्मविज्ञानम्, अन्यस्य तदानीमनुपलब्धेः । वचनोच्चारणा
अन्ये तु शाब्दज्ञानसन्तानविधानमिच्छन्ति । तस्य संहृतनिखिलभेदोल्लेखविशुद्धविशदज्ञानफलत्वात् । अत्रापि466 नात्मरूपाऽवगतिः । ज्ञानप्रकर्षश्चाऽभ्यासनिबन्धनः प्रथित इति न चोदनार्थता । तस्माद् दृष्टार्थेषु कर्म्मसु विशेषविधयः । उपनिषदात्मतत्त्वं त्वनपेक्षविध्यन्तराद्वाक्यात्प्रतीयते । अलं वा गुरुभिर्विवादेन ।
नन्तरं च तद्भावाद्वचनस्य तत्र हेतुतामवगच्छति । न चाऽसमर्थस्याऽसाविति सामर्थ्यमवैति । एवंविधविषये हर्षजनकं हेत्वन्तरं शङ्कमाना जननीजारशङ्कयाऽऽत्मनोऽपि ब्राह्मण्यं प्रति सन्दिहाना नाऽधिकारभाजो ब्राह्मणोचितासु क्रियास्विति कृतं मीमांसाऽभ्यासपरिश्रमेण तेषाम् । अपि चाऽव्युत्पन्नकाष्ठशब्दार्थो व्युत्पन्नविभक्त्यर्थश्च वर्त्तमानाऽपदेशेऽपि देवदत्तः स्थाल्यामोदनं काष्ठैः पचतीति पचत्यर्थे करणं पश्यति, तस्य काष्ठप्रातिपदिकार्थतां च प्रतिपद्यत इति सिद्धं विवादाध्यासितं वचनं कार्याऽसङ्गताऽर्थगोचरं तत्र प्रमाजननात् यद्यत्र प्रमाजननं तत्तद्गोचरं यथारूपादिगतं चक्षुरादीति ।
सम्प्रति चिन्तामयीं प्रतिपतिं निराचिकीर्षुस्तामुपन्यस्यति—अन्ये तु शाब्दज्ञानविधानसन्तानविधानमिच्छन्ति । न च तत्फलरूपं येन न विधीयते, अपि तु फलस्याऽऽत्मतत्त्वसाक्षात्कारस्य साधनम्, अतो विधातव्यमित्याह— तस्य संहृतनिखिलभेदोल्लेखविशुद्धविशदज्ञानफलत्वात् । संशयादिपर्युदासो विशुद्धिः । साक्षात्कारो विशदता । तत्र तावत्पूर्वोक्तं दोषमासञ्जयति— अत्रापि नाऽऽत्मरूपाऽवगतिः, प्रतिपत्तिविधिपरत्वाद्वेदान्तानामिति । भावनाऽऽधेयविशदाभत्वं च विज्ञानानामन्वयव्यतिरेकसिद्धमिति प्राप्तत्वान्न शाब्दज्ञानसमानज्ञानसन्तानो भावनापरनामा विधेय इत्याह—ज्ञानप्रकर्षश्चाऽभ्यासनिबन्धनः467 प्रथित इति न चोदनार्थता युक्ता ।
ननु “तस्माच्छान्तो दान्तः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्”इत्यादिवाक्यान्यात्मदर्शनं शान्ततादिगुणोपेतं विदधत्येव, न चाऽविधीयमाने आत्मदर्शनाश्रयिणो गुणा विधातुं शक्यन्ते इति शान्ततादिगुणविधानायाऽऽत्मदर्शनमपि विधातव्यमित्यत आह—तस्माद् दृष्टार्थेष्विव कर्मसु विशेषविधयः, उपनिषदात्मतत्त्वं त्वनपेक्षितविध्यन्तराद्वाक्यात्प्रतीयते । इदमत्राकूतम् । गुणविधयो468 हि भावार्थसिद्धिमपेक्षते न पुनस्तद्विधानमपि तेन, यथैव रागतः प्राप्ते द्रव्याऽर्जने ब्राह्मणादीनां प्रतिग्रहादयो नियम्यन्ते तथेहापि नित्यानन्दमयमात्मतत्त्वं विगलितनिखिलदुःखाऽनुषङ्गं साक्षाच्चिकीर्षोरन्वयव्यतिरेका
भवतु वा प्रतिपत्तिकर्त्तव्यता469 नियोगद्वारेणात्मतत्त्वावगतिर्लोकवचांसि भूयांसि भूताऽन्वाख्यानानीत्युक्तम् ।
ननु वैयर्थ्यमत्रोक्तम् । प्रतिपत्तिविधावपि तुल्यमेतत् । भूतार्थप्रतिपत्तेरनतिरेकात् । अथाऽविपरीतात्मप्रतिपत्तिरेव । सा भूताऽऽख्यानपर्य्यवसानेऽपि तुल्या । अस्तु तर्हि प्रवृत्तिपर्य्यवसायित्वमेव सर्ववचसां भूतोऽप्यर्थः कथ्यते । तेनाऽन्यत्र प्रवृत्तिं कर्तुं तत्रैव वा, अन्यथार्थाभावात् । न । कुतुहलनिवृत्तेरप्यर्थात्वात् । तथा हि । अजिहासिताऽनुपादित्सितदूरदेशराजसञ्ज्ञाचरितगोचराः कुतूहलिनां दृश्यन्ते प्रश्नाः । कुतूहलनिवृत्तिपराणि च तज्ज्ञानां ऽवगतध्यानसाधनस्याऽत्मध्याने प्रवृत्तस्य शान्तत्वादिविधिरिति । ततस्तिसृणामपि प्रतिपत्तीनां विधानाऽनर्हत्वादात्मतत्त्वप्रतिपादनपरत्वं हि वेदान्तानामुपपादितम् । सर्व चैतद् ब्रह्मसिद्धौ कृतश्रमाणामनायासमधिगमनीयमिति नेहाऽस्माभिरुपपादितम् ।
इदानीमभ्युपेत्याह—अलं वा गुरुभिर्विवादेन । अनुत्तरार्हतासाम्यादौपचारिकं गौरवम् । भवतु प्रतिपत्तिकर्त्तव्यता नियोगद्वारेणात्मतत्त्वावगतेः, लोकवचांसि तु भूयांसि भूताऽन्वाख्यानानीत्युक्तम् । तथाप्यप्रवर्त्तकवचनजन्मन्यपि प्रख्यायां साम्यादिति हेतुः सिद्धो भवतीत्यर्थः । ननु नाऽप्रवर्त्तकं वचो, यतो वैयर्थ्यमत्रोक्तम् । परिहरति—प्रतिपत्तिविधावपि तुल्यमेतत् । कुतः ? भूतार्थ470 प्रत्तिपत्तेरनतिरेकात् । यदि भूतोऽर्थः प्रयोजनाऽभावान्नाऽऽख्यातव्यस्तर्हि प्रतीतिरपि तद्विषया न विधातव्या । न ह्येतस्याः प्रत्येतव्यव्याप्तेरन्यत् फलमस्तीत्यर्थः । अथाऽविपरीताऽऽत्मप्रतिपत्तिरेवार्थः प्रतिपत्तिविधेः । प्रतिपत्तिविधिपक्षे तावदयमर्थो न भवतीत्युक्तम् । अभ्युपगम्य परिहारान्तरमाह—सा प्रत्तिपत्तिर्भूताख्यानपर्यवसानेऽपि तुल्या ।
पुनश्चोदयति—अस्तु तर्हि प्रवृत्तिनिवृत्तिपर्यवसायित्वमेव सर्ववचसां भूतोऽप्यर्थः कथ्यते । तेनाऽन्यत्र प्रवृत्तिं कर्तुं तत्रैव वा, अन्यथाऽर्थाभावात् । इदमत्राऽऽकूतम् । सर्वो हि शब्दः परार्थमुच्चार्यते प्रेक्षावद्भिः, परश्च तमेवाऽर्थ प्रतिपद्यते यस्तेन प्रतिपित्सितः, यस्तस्य हेय उपादेयो वा, उपेक्षणीयप्रत्यायने प्रेक्षावत्त्वव्याघातात् । विशेषतस्तु वेदराशेः स्वाध्यायाऽध्ययनविधिसमयसमासादितपुरुषार्थशेषभावस्य । तेन भूतार्थप्रतिपत्तेर्भवतु तत्र शब्दस्य कारणत्वं, किं तु शब्दस्य प्रवृत्तिनिवृत्तिपरत्वमिति । परिहरति—न कुतूहलनिवृत्तेरप्यर्थत्वात् । एतदेव दर्शयति—तथा हि । अजिहासिताऽनुपादित्सितदूर
वचांसि । अटवीवर्णकादयः प्रवृत्तिनिवृत्तिशून्या भारतादिषु भूतपर्य्यवसायिनो रूपादेव प्रीतिहेतवः, प्रीत्युत्पत्त्यर्थं चेष्टाख्यानानि न प्रवृत्तये निवृत्तये वा श्रोतुरित्यलमतिप्रसङ्गेन ।
शिशुशकुन्तादीनां यथा विप्रकृष्टः शब्दो निमित्तम् भावनाऽनुगमात् प्रतिभायाः, तथा तादृशमेवोपायज्ञानं प्रवृत्तिनिवृत्तिमुखेन किं नेष्यते ? जातिविशेषादयश्च शब्दभावनाया इवोपायज्ञानभावनायाः प्रबोधकाः । देशराजसञ्ज्ञाचरितादिगोचराः कुतूहलिनां दृश्यन्ते प्रश्नाः । कुतूहलनिवृत्तिपराणि च तज्ज्ञानां वचांस्यटवीवर्ण्णकादयश्च प्रवृत्तिनिवृत्तिशून्या भारतादिषु भूतपर्यवसायिनो रूपादेव प्रीतिहेतवः । प्रीत्युत्पत्त्यर्थ च इष्टाऽऽख्यानानि471 न प्रवृत्तये निवृत्तये वा श्रोतुरित्यलमतिप्रसङ्गेन । इदमत्राकूतम् । प्रेक्षावन्तो न प्रवृत्तिनिवृत्तिविषयमेवाऽर्थमवगमयन्ति, अपि तु प्रयोजनवन्तम् । प्रयोजनवत्ता च क्वचिदर्थस्वरूपप्रत्ययोत्तरकालाभ्यां प्रवृत्तिनिवृत्तिभ्यां परिसमाप्यते, क्वचिदर्थस्वरूपप्रत्ययेनैव । तदुक्तम्—कुतूहलिनिवृत्तेरप्यर्थत्वादिति । एवं ब्रह्मस्वरूपमप्यपहतपाप्मज्ञानमागमौपनिषदं स्वयमेव पुरुषार्थ इति स्वाध्यायविध्यविरोधान्नोपनिषदां प्रवृत्तिनिवृत्तिपरतेति साम्प्रतम् । तत्सिद्धं क्रिया साधनयोगिनी समाऽन्यस्मिन्निति न प्रतिभाया आलम्बनम् । न च निरालम्बनेयम् । तत्पारिशेष्यात् हितोपायताविषयेति ।
यदुक्तं स्वरविशेषादाश्रयविशेषात् शिशुशकुन्तादीनां पूर्वपूर्वशब्दभावनाऽनुगमाद्विप्रकृष्टशब्दव्यापारा प्रतिभा प्रवृत्तिनिबन्धनं नोपायज्ञानमिति, तत्राह—शिशुशकुन्तादीनां यथा विप्रकृष्टः शब्दो निमित्तं भावनानुगमात्प्रतिभायाः, तथा तादृशमेवोपायज्ञानं प्रवृत्तिनिवृत्तिनिबन्धनं भावनाऽनुगममुखेन किं नेष्यते ? किं विप्रकृष्टशब्देन ? उपायज्ञानस्येव प्रवृत्तिहेतुतया अन्यत्र स्वाऽनुभवसिद्धत्वात् । यथा चैतत्तथोपरिष्टाद्वक्ष्यते । यदि मन्येत उपायज्ञानाऽऽहिता चेद्भावना प्रवृत्तिहेतुः अथाऽनुभूतचरशकुन्तजन्मनो मनुष्यस्यापि किमिति न तया प्रवृत्तिः ? इत्यत आह—जातिविशेषादयश्च शब्दभावनाया इवोपायज्ञानभावनायाः प्रबोधकाः । अथ शब्दभावनापि किमिति न तथा ? जातिविशेषादृष्टादिति चेत् । उपायज्ञानभावनायामपि तुल्यमेतदित्यर्थः ।
ननु प्रतिभालम्बनस्य स्वरूपतोऽनिष्पत्तेः शब्दज्ञानाकारेणैव निरूपणा । न च प्रत्युत्पन्नः शब्दोऽस्ति । तदस्याश्रयणीया भावना । नैतत्सारम् । अनिष्पत्तिर्हि अवर्तमानत्वाद्वाऽनेकार्थसमाहारादेकात्मभावाद्वा प्रतिभालम्बनस्योच्यते । शब्देऽप्यसौ तुल्या । सोऽपि तर्ह्यतीतो वर्णसमाहारात्मको नैकः समस्ति । भेददर्शनाऽभावात्, अभेददर्शनाच्चेत्युक्तम् ।
अत्र चोदयति—ननु प्रतिभालम्बनस्य समीहितोपायस्य क्रियाविशेषस्य स्वरूपतोऽनिष्पत्तेर्नाऽसावबलम्बनम् । न च निरालम्बनं ज्ञानमित्युक्तं भवतैव, अतः शब्दज्ञानाकारेणैव निरूपणा । न च प्रत्युत्पन्नशिशुशकुन्तादीनां शब्दोऽस्ति । तदवश्याऽऽश्रयणीयाऽपूर्वशब्दभावना । परिहरति—नैतत्सारम् । विकल्पाऽनुपपत्तेः । तत्र तावद्विकल्पयति—अनिष्पत्तिर्ह्यवर्तमानत्वाद्वाऽनेकार्थसमाहारादेकात्मभावाद्वा प्रतिभालम्बनस्योच्यते । वर्त्तमानविषयं खलूपायज्ञानं न प्रवर्तयति प्रवृत्तविषयत्वात् । अतोऽनागतविषयमेषितव्यम् । तथा चाऽसत्त्वनिष्पत्तिः प्रतिभालम्बनस्य । अथ वा प्रतिभाविषयस्य पदार्थसंसर्गात्मकत्वात्तस्य चैकस्याऽनुपपत्तेः परस्परव्यवच्छिन्नक्रियाकारकाऽनेकार्थसमाहारमात्रत्वात् । न चाऽनेकात्मकमेकं भवितुमर्हति, अनेकेषामप्येकत्वप्रसङ्गात् । तथा च न संसर्गः । नानात्वे च संसर्गिण एव । तथा च न संसर्ग इत्यन्ताभावो निष्पत्तिरित्यर्थः । तदेतदुभयं परपक्षे तुल्यमित्याह—शब्देऽप्यसौ तुल्या । सोऽपि ह्यतीतो वर्णसमाहारात्मको नैकः समस्ति ।
ननु वर्णव्यतिरिक्तः स्फोटात्मा शब्दः परैरभिमतः, स चैक इति स युक्तः प्रतिभालम्बनमिति शङ्कां निराचिकीर्षुः स्फोटनिराकरणपराणि सिद्धवद्भाष्याक्षराणि पठति—भेददर्शनाऽभावादभेददर्शनाच्चेत्युक्तं भाष्यकृता । वर्णेभ्यो भिद्यते इति भेदः स्फोट उच्यते । तद्दर्शनाऽभावात् । भेददर्शनाऽभावात् । न जातु गौरिति चतुर्थ्यामपि बुद्धौ क्रमभेदवदनुभवकर्मतोऽप्रश्लिष्टवर्णत्रयाऽवगाहिन्यामन्यो वर्णेभ्यः कश्चिदाभासते । यद्युच्येत जरा राजेति तत्त्वेऽपि वर्णानामर्थधीभेदादन्यो वर्णेभ्यो वाचकः, स च स्फोट इति, तत्राह—अभेददर्शनाच्च । भिद्यन्त इति भेदाः, न भेदा अभेदा वर्णास्तेषां दर्शनात् । एतदुक्तं भवति, न तु जरा राजेति पञ्चम्योरपि बुद्ध्योर्वर्णाऽतिरिक्तौ परस्परविभिन्नवाचकौ चकास्तः, किं तु त एव वर्णाः क्रमभेदवदनुभवाहितसंस्कारभेदा भासन्ते, ते च स्फोटधीभेदमाधास्यन्ति । अवश्याभ्युपेतव्यत्वादनवयवपदवादिनामपि संस्कारभेदस्येति दिङ्मात्रमत्र सूचितमाचार्यमतमनवर्त्तमानैः
नन्वेवञ्जातीयकेष्वेवाऽभेदवस्तुबुद्धेरेकशब्दात्मकमुपागमन् । न ह्यवस्तुषु संसर्गसमूहात्यन्ताऽसदादिषु संसर्गिषु वा नानात्मस्वेकवस्तुप्रतिभासः सम्भवति विनैकस्य शब्दात्मनः प्रत्यासात् परिणामाद्विवर्त्ताद्वेति । न । अन्यथा सिद्धेः ।
पुनः प्रकारान्तरेण परः प्रत्यवतिष्ठते—नन्वेवञ्जातीयकमेवाभेदवस्तुबुद्धेरेकशब्दात्मकमुपागमन् धीराः । तथा हि । क्रियाकारकगुणगुणिप्रयोजनप्रयोजनिप्रभृतिषु संसर्गिषु समूहिषु वा शिंशपाऽशोककिंशुकादिषु संसर्गः समूहश्चैको वस्तुभूतश्चकास्ति, चकासति वा शशविषाणाऽऽलातचक्रादयोऽवस्तुभूताः । सैवंविधेष्वेकबुद्धिर्वस्तुबुद्धिश्चैकमनवयवशब्दात्मानमेवाऽवलम्बते ।
अथ संसर्गादय एव तद्वन्तो वा एकबुद्धेर्वस्तुबुद्धेश्च कस्मान्नाऽऽलम्बनम् ? इत्यत आह—न ह्यवस्तुषु संसर्गसमूहाऽत्यन्तासदादिषु472 वा नानात्मस्वेकवस्तुप्रतिभासः सम्भवति । संसर्गादयो हि न परमार्थसन्तः सम्भवन्ति । तथा हि प्रसङ्गसाधनम् । यदनेकवृत्ति तन्नाना तद्यथा भिन्नभाजनगतानि तालफलानि । अनेकवृत्तिश्च पराभ्युपगतः संसर्गादिरिति स्वभावहेतुः । नानात्वाऽभावाच्चाऽनेकवृत्तित्वाभाव इत्यतिप्रसङ्गविपर्ययो व्यापकाऽनुपलब्धिः । न चैकत्वाऽनेकवृत्तित्वयोरविरोधात्सन्दिग्धो व्यतिरेक इति वाच्यम् । अविरोधाऽसिद्धेः । तथा हि । एकस्य सत्त्वं विरोध्यभावेन व्याप्तं तद्विरुद्धश्चेह विरोधीव्यापकविरोधो473 पलब्ध्या भाविकमेकत्वं निवर्त्तयति । तथा चैकत्वाऽभावात्संसर्गिण एव न संसर्गः तथा हि एकस्मिन्संसर्गिणि परिच्छिद्यमाने तदभावो व्यवच्छिद्यते । तदभाववन्तश्चाऽन्ये संसर्गिण इति तेऽपि व्यवच्छिद्यन्ते । अन्यथाऽसौ संसर्गी474 परिच्छेद्यो न स्यात् । तथा तत्संसर्गिसम्बन्धे च स्वभावे संसर्गस्य परिच्छिद्यमाने तत्संसर्गिस्वभावाऽभावो व्यवच्छेत्तव्यः । तदभावबन्तश्च संसर्ग्यन्तरसम्बन्धस्वभावा इति तेऽपि व्यवच्छेत्तव्याः । तदव्यवच्छेदे स एव तत्स्वभावः स एवाऽतत्स्वभावश्चेति विरुद्धमापद्येत । सोऽयं तद्देशत्वाऽत्तद्देशत्वलक्षणविरुद्धधर्माध्यासः । तदाह देशकालाऽवस्थाविशेषनियतैकसंसर्गव्यवच्छिन्नस्वभावान्तरविरहादनेकवृत्तेरेकस्य तद्देशादिविशेषवत्ताऽन्येन योग इति । अथैकस्मिन्नेव संसर्गिणि गृह्यमाणे तद्गतः संसर्गोऽपि गृह्येत, तेनैव स्वभावेन संसर्ग्यन्तरेष्वप्यस्तीति तान्यपि ग्रहीतव्यानि । न च तानि गृह्यन्ते, इति संसर्गोऽपि न गृह्येतेति सोऽयं ग्रहणाऽग्रहणलक्षणो विरोधः । तथा नानासंसर्गिषु वर्त्तमानः संसर्गो भागशो वर्तते, कार्त्स्न्येन वा ? न तावद्भागशो, निर्भागत्वात् । सभागत्वे वाऽनवस्थापातात् । नापि कार्त्स्न्येन, संसर्ग्यन्तरे तदभावप्रसङ्गात् । न च प्रकारान्तरमस्ति, तयोरन्यतरनिषेधस्याऽन्यतरवि
संसर्गस्तावद्वाक्यार्थलक्षणः कारकोपसर्जनक्रियाप्रधानोऽतुल्यप्रधानसंसर्गी ।
धिनान्तरीयकत्वात् । तस्मान्न संसर्गसमूहौ परमार्थसन्तौ । एतेनाऽवयविसामान्यादयः प्रयुक्ता वेदितव्याः । शशविषाणादेश्चाऽसत्त्वं प्रसिद्धतरमेवेत्यभिप्रायः ।
न चैष संसर्गादिबाधकप्रकारः पदे निरवयवे समस्तीत्याह—विनैकस्य शब्दात्मनः प्रत्यासात्परिणामाद्विवर्ताद्वा । प्रत्यासोऽध्यासः । यथा वस्तुतः स्वच्छधवले लाक्षारसावसेकतिरस्कृतधवलिम्नि स्थवीयसि स्फटिकमणौ तनीयस्तया लाक्षालक्षणद्रव्याग्रहणाल्लाक्षागुणाऽऽरोपेणाऽरुणः स्फटिकमणिरिति मतिरध्यासः । तथा नानापदार्थेषु तिरस्कृतभेदेषु तस्य स्फोटात्मनस्तात्त्विकमेकत्वमारोप्यैको वाक्यार्थः संसर्गात्मेति । समूहिषु च किंशुकादिषु च तिरस्कृतभेदेषु वनमिति वा समूह इति वा पदस्य तात्त्विकमेकत्वमारोप्यैकत्वबुद्धिः । एवं शशविषाणादिष्वसद्भूतेषु शशविषाणमित्यादिपदगतसत्त्वाऽध्यरोपेण प्रतीतिरिति प्रत्यासार्थः । परिणामोऽपि यथैकं सुवर्णतत्त्वं कटकमुकुटकर्णिकाङ्गुलीयादिभेदेन विपरिणमते तथा शब्दतत्त्वमपि नानापदार्थरूपेणेति । एतस्मिंश्च दर्शने भेदानां कथञ्चित्पदतत्त्वाद्भिन्नानां पारमार्थिकत्वम् । एवं स्फुरणमात्रेण चाऽस्य पक्षस्योपन्यासः । विवर्तस्तु यथा मुखमेकमनेकेषु मणिकृपाणदर्षणादिषु सद्भूतेषु विवर्त्तमानं तच्छायापत्तौ विभिन्नवर्णपरिमाणदेशं चकास्ति, न तु तत्र तत्त्वतो भिन्नवर्णपरिमाणदेशानि मुखानि सन्ति, एवमनाद्यविद्यावासनोपधानवशात्पदतत्त्वमेकमनेकपदार्थात्मना प्रथते, न तु पदार्थास्ततो विभिद्यमानात्मानः परमार्थतः सन्तीति । एते प्रत्यासपरिणामविवर्त्ता मतभेदेन मन्तव्या इति ।
परिहरति—न । अन्यथासिद्धेः । तामेवाह—संसर्गस्तावद्वाक्यार्थलक्षणः कारकोपसर्जनक्रियाप्रधानोऽतुल्यप्रधानसंसर्गी । अत्रेदमाकूतम् । यत्तावदिदमुक्तम् अनेकप्रवृत्तित्वान्नानात्वमिति, तदनेकवृत्तित्वस्यैकत्वेनापि475 सह सम्भवात्सन्दिग्धव्यतिरेकतया नानात्वेन प्रतिबन्धासिद्धेरयुक्तम् । न चैकस्य नानावर्त्तिनस्तद्देशत्वाऽतद्देशत्वलक्षणो विरोधः सम्भवति । सह सम्भवात् । युक्तमेतत् । यद्वस्तुनि परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति स्वाऽभावव्यवच्छेदरूपत्वेन भवानां तदव्यवच्छेदे परिच्छेदाऽनुपपत्तेः, भावपरिच्छेदात्मकत्वात् तदभावव्यवच्छेदस्य । अथ संसर्गान्तरं कस्माद्व्यवच्छिद्यते ? तदभाववत्त्वादिति चेत् । तदेव कुतः ? प्रत्यक्षेण तादात्म्येनाऽप्रतिभासनात् । अन्यथैकसंसर्गिवत्संसर्ग्यन्तरमपि प्रथेत । यथाह तत्परिच्छि नत्ति ततोऽन्यद् व्यवच्छिन्नति । त एव476 तर्हि परस्पराऽभावात्मानो न ये प्रत्यक्षेण कदाचिदपि परस्परसङ्कीर्णाः प्रत्यवभासन्ते । संसर्गः पुनरयं नानासंसर्गिष्वभिन्नः477 प्रत्यक्षेण न विरोधमधिरोहति ।
स्यादेतत् । अमूल्यदानक्रयी खल्वयं संसर्गो नास्ति, यतो न विज्ञानेष्वाकारमर्पयति, प्रत्यक्षतां तु स्वीकर्तुमिच्छतीति । तदयुक्तम् । निराकारविज्ञानवेद्यत्वव्यवस्थापनेन नीलादीनामप्यमूल्यदानक्रयित्वेनाऽसत्त्वप्रसङ्गात् । न च संसर्गिणः संसर्गं ज्ञातुमुत्सहते । न चायं संसर्गिभ्यो न भिद्यते । विरुद्धधर्मास्पदत्वात् । न खल्वयं संसर्गिषु परस्परं व्यावर्त्तमानेष्वनुवर्त्तमानोऽनुवर्त्तमानेषु च निवर्त्तमानस्तदात्मा भवितुमर्हति, त्रैलोक्यस्यैक्यप्रसङ्गात् । तेनास्तु तद्देशत्वतदभावयोर्विरोधो, न पुनस्तद्देशत्वाऽतद्देशत्वयोर्भवितुमर्हति । न हि नञः प्रयोगमात्राद्विरोधाऽवगतिः । मा भूत्पुत्रोऽपुत्र इति नानात्वमेकस्यापि पुत्रस्येति ।
स्यादेतत् । येनैव स्वभावेनैकस्मिन्संसर्गिणि संसर्गो वर्त्तते किं तेनैव संसर्ग्यन्तरेऽपि किं वा स्वभावान्तरेण ? इति । न तावत्स्वभावान्तरेण । स्वभावेनोपादेयभेदे भावभेदप्रसङ्गात् । तेनैव चेत्संसर्गिणामत्यन्ताभेदप्रसङ्ग इति । तत्र वक्तव्यम् । अथ रूपं येन स्वभावेनोपादेयं रूपान्तरं जनयति किं तेनैव स्वाऽऽलम्बनं विज्ञानं स्वभावान्तरेण वेति तुल्यमेवैतत् । यद्युच्येत, स्वभावो वा सामर्थ्य वा न रूपादतिरिच्यते, तदेव तु स्वप्रत्ययाऽधीनजन्मभेदमुभयजननमेकं प्रत्यक्षेणाऽवसीयमानं न भेदमर्हति । न च कारणाभेदः478 कार्याऽभेदमापादयति, अन्यत्वात् । तत्किमिदार्नी नानासंसर्गिषु एको न भासते प्रत्यक्षेण संसर्गः स्वभावासंसर्गिणः, येन ते तदभेदादभिन्ना भवेयुः । प्रतीत्यसमुत्पादमात्रं कार्यकारणभावो न भाविकः कश्चिदुभयाश्रयः, तेनाऽन्यस्य कारणस्याऽभेदेऽपि न कार्याभेद479 इति चेत् । ननु संसर्गिभिः संसर्गस्यापि न कश्चिदपरसंसर्ग इति तदभेदेऽपि न संसर्गिणामभेदोऽन्यत्वात् । असम्बन्धः संसर्गः कथं तेषामेव ? इति चेत् । अथाऽसम्बन्धे किमिति रूपमेव प्रतीत्यरूपविज्ञाने480 समुत्पद्येते न पुना रसादिकमपि ? स्वभावभेदादिति चेत् । सोऽत्रापि तुल्यः । तस्माद्विरोधाऽसिद्धेः सन्दिग्धव्यतिरेकत्वादनेकंवृत्तित्वं नानात्वं प्रत्यसाधनाङ्गम् । न च ग्रहणाऽग्रहणलक्षणविरोधः संसर्गे सम्भवति । सकलसंसर्गिग्रहणाऽधीननिरूपणस्य481 तस्याऽग्रहणे ग्रहणादेव
समूहोऽपि नान्तरेण तद्भावनिमित्तमेकं समूहिनाम् । तत्र तदुपाधिरेकप्रकाशः । शशविषाणादयोऽपि जात्यन्तरपरिदृष्टवस्तुरूपेणोत्प्रेक्ष्यमाणा
तद्ग्रहणे वा ग्रहणादेवेति । वृत्तिविकल्पश्च साकल्यवैकल्यलक्षणोऽत्रानवकाश एव । नानात्वे कार्यसमवायिनी साकल्यवैकल्ये नाऽभिन्ने तत्त्वे सम्भवः । तस्मात्स्वभावतो वर्तते संसर्गिषु संसर्ग इत्येतावद् वक्तुमीश्महे, न पुनः कार्त्स्न्यभागाभ्यामिति । एतेन समूहो व्याख्यातः, प्रत्याख्याताश्च कतिपये अवयविसामान्यनिराकरणहेतवो न सर्वे विस्तरभयात् ।
तदेवं प्रत्यक्षसंसर्गः संसर्गिद्वयाऽऽधार एको गुणगुणिनोर्जातिजातिमतोः क्रियाकारकयोरवयवाऽवयविनोर्द्रव्ययोरनुभवसिद्धो विना बाधकं न प्रत्याख्यानमर्हति । वाक्यार्थलक्षणस्तु देवदत्तः स्थाल्यामोदनं पचतीत्यादिर्यद्यपि प्रतिसंसर्गिद्वयं भिद्यते तथापि कारकाणां क्रियार्थत्वात्तस्याः प्रधानत्वेन वाक्यार्थभूताया एकत्वात्तत्प्रधानः संसर्गोऽप्येक उक्तः । नानाकारकोपरक्तक्रियार्थत्वेऽपि च वाक्यस्य पदार्थमात्रस्याऽन्यतः प्राप्तेः प्राप्ताऽप्राप्तविवेकेन संसर्गो वाक्यार्थः । तदिदमुक्तं, कारकोपसर्जनक्रियाप्रधान इति । यत्र तर्हि क्रियाद्वय प्रतीयते यथा निजभुजवीर्यमास्थाय शूरानादिशूरो जयति, तत्र कथं वाक्यार्थस्यैकत्वम् ? इत्यत आह, अतुल्यप्रधानसंसर्गी । अतुल्योऽत एव प्रधानं संसर्गी यस्य स तथोक्तः । एतदुक्तं भवति । न क्रियेत्येव वाक्यार्थोऽपि तु प्रधानमिति । जयार्थं च जिगीषोरादिशूरस्य निजभुजवीर्याऽऽश्रयक्रियेत्यप्रधानत्वान्न वाक्यार्थः । विजयक्रियैव तु प्राधान्यात्तथा ।
समूहमुपपादयति—समूहोऽपि नान्तरेण तद्भावनिमित्तमेकं समूहिनाम् । समानदेशकालाः खलुः किंशुकादयः समूह इति वा वनमिति वा व्यपदिश्यन्ते, तेन सोऽपि समूहिनां सम्बन्धिनैकेन देशेन कालेन समूहभावनिमित्तेन विना न भवतीति । तत्र समूहिषु तदुपाधिरेकदेशकालोपाधिरेकप्रकाश एकविषयः प्रकाश इत्यर्थः । शशविषाणादयोऽपि गवादिजात्यन्तरपरिदृष्टविषाणवस्तुरूपेणोत्प्रेक्ष्यमाणाः समारोप्यमाणा वस्त्वात्मकाः प्रकाशन्ते । तेनाऽन्यथापि सिद्धेः संसर्गादिष्वेकप्रत्ययप्रत्यवभासस्य नैकशब्दात्मप्रत्यासादिकल्पना युक्ता । अपि चाऽन्यथैकस्य शब्दात्मनः प्रत्यासेन भिन्नेष्वभेदकल्पनायामेकवाक्यगम्येऽनेकत्राप्येकता482 स्यात् । यथा श्वेतो धावतीत्येकस्मादेव वाक्यादर्थद्वयमवगम्यते, शुक्रो निर्णेनेक्तीति कौलेयक इतो द्रुतं गच्छतीति । तदेतदर्थद्वयमेकवाक्यसमधिगम्यं तत्प्रत्यासादभिन्नमेव भासेतेत्यर्थः ।
वस्त्वात्मकाः प्रकाशन्ते । अन्यथैकवाक्यगम्ये नैकवाक्यता स्यात् । न च तत्र शब्दभेदः । रूपाऽभेदात् । अर्थभेदाद्भेद इति चेत् । कथमन्यथा प्रतीतोऽन्यथा । अर्थभेदाऽनुमानादिति चेत् । प्राक्तर्ह्यर्थभेदाभेदावबगम्येते पश्चाच्छब्दभेदाभेदाविति न शब्दप्रत्यासत्तिनिमित्तोऽर्थेष्वेकताऽवभासः । समूहैकशब्दयोश्चाऽविशेषः । अविदितसमूहशब्दस्य च तत्तदवभासो न दूरतः
नन्वत्रापि प्रत्यर्थ शब्दभेद इत्यत आह—न च तत्र शब्दभेदः कुतः ? रूपाऽभेदात् । न हि निर्णेजने गतौ वा वाक्यस्वरूपस्य भेदकं प्रतिपाद्यामहे । शङ्कते—अर्थभेदाद्भेद इति चेत् । उत्तरम्—कथमन्यथा एकत्वेन प्रतीतोऽन्यथा नाना ? पुनः शङ्कते—अर्थभेदानुमानादिति चेत् । यथा ज्ञाता स्थिराऽवगम्यमानापि प्रत्यक्षेणाऽनुमानेनाऽऽशुतरविनाशिनी निश्चोयते एवं प्रत्यक्षाऽवगतैक्यमपि वाक्यमर्थभेदान्नाना निश्चीयत इति । परिहरति— प्राक्तर्ह्यर्थभेदाऽभेदाववगम्येते, पश्चाच्छब्दभेदाऽभेदाविति न शब्दप्रत्यासत्तिनिमित्तोऽर्थेष्वेकताऽवभासः । अगृहीतभेदः खल्वर्थः शब्दगताऽभेदाध्यवसायादभिन्नो भासते । न हि जातु शुक्तित्वप्रतिपत्तौ रजतसमारोपो गवति । अर्थभेदश्चेत्प्राक् शब्दभेदाऽभेदाभ्यां गृहीतो नाऽर्थस्य शब्दवर्त्यभेदः शक्यसमारोप इत्यर्थः । दोषान्तरमाह—समूहैकशब्दयोश्चाविशेषः । यदि शब्दैकत्वसमारोपाद्भिन्नानामप्यर्थानामेकता ततो यथैकमाकाशमित्यभिन्नस्यैकत्वमनौपाधिकमवगम्यते तथा समूह इत्यत्रापि नोपाध्यपेक्षमबगम्येत । उपाध्यपेक्षत्वे चैकमाकाशमित्यपि न शुद्धमवगम्येतेत्यविशेषः प्रसज्यते । क्वचित्पाठः समूहैकशब्दयोश्चाऽविशेष इति । तस्यार्थः । यथा बहूनां धवादीनां समूह इत्येकशब्दनिबन्धनमेकत्वमवभासते तथा वृक्षा इत्यत्राप्येकत्वमवभासेत । न चैतदस्ति । किं च यदि शब्दप्रत्यासकृतमेकत्वम् अविदितशब्दविशेषो न रूपत एव एकमर्थमवगच्छेदित्याह—अविदितसमूहशब्दस्य च तदवभासो न दूरतः स्यात् । अपि चाऽभावेऽशब्द इति च भावशब्दप्रतिपत्तेर्विवक्षितार्थहानिः । शब्दाऽध्यासे खल्वभाव इति शब्द एवाध्यस्य प्रतिपत्तव्यः स च भाव इति विवक्षितार्थहानमेवमशब्द इति च शब्द इत्यर्थः । विवर्त्तपरिणामयोरप्येते दोषाः प्रसञ्जनीयाः ।
एष त्वधिकोऽपि परिणामविवर्त्तयोर्दोष इत्याह—विवर्त्तपरिणामयोस्तु सर्वस्यैकत्वादवान्तरैकत्वं नैकशब्दालम्बनम् । ये हि परस्परविभिन्नानां शब्दानामध्यासमाहुस्तेषामवान्तरैकत्वं गौरिति वाऽश्व इति चोपपद्येतैव । ये पुनरभिन्नस्य शब्दब्रह्मणो विवर्तं वा परिणामं वाऽर्थमाचक्षते तेषां सर्वत्र
स्यात् । अभावे शब्द इति च भावशब्दप्रतीतेर्विवक्षितार्थ हानिः । विवर्त्तपरिणामयोस्तु सर्वस्यैकत्वादवान्तरैकत्वं नैकशब्दालम्बनम् । वस्त्ववस्तुविभागश्च न स्यात् । अथ तुल्येऽपि शब्दविवर्तेऽन्यनिबन्धनोऽयं विभागः । न, शब्दविवर्तनिबन्धनः । शशविषाणाऽलातचक्रादिषु वस्त्वाकारनिरूपणा । पराक्रान्तमेव च बहुधा स्वयूथ्यैरित्यलमतिप्रसङ्गेन । तस्मादीप्सितस्योपायता कर्तृप्रवृत्तिहेतुः ।
ननु कर्त्तव्यतावगमात्प्रवर्त्तते, सैव तथाऽस्तु । का पुनरियम् ? कर्त्तव्यतैव । केन प्रमाणेनाऽवगम्यते । नेन्द्रियैरध्यक्षमीक्ष्यते । तत्पुरः- शब्दब्रह्मणोऽविशेषादवान्तरैकत्वं पदार्थानां वाक्यार्थानां च कुतस्त्यमित्यर्थः । किं च वस्त्ववस्तुविभागश्च न स्यात् । न ह्यस्मिन्दर्शने समस्ति तत्प्रमेयं न यच्छब्दब्रह्मणः परिणामो वा विवर्त्तो वा । तथाविधं च सर्वं सदेवेति नाऽसत्प्रमेयतेत्यर्थः । अत्र शङ्कते—अथ तुल्येऽपि शब्दविवर्त्तेऽन्यनिबन्धनेऽनाद्यविद्यावासनावैचित्र्यनिबन्धनोऽयं विभागः । उत्तरम्—न, शब्दविवर्त्तनिबन्धनः । अयमभिसन्धिः । अनुभवसिद्धो नाऽसति बाधकेऽनाद्यविद्यानिबन्धनः शक्यो वक्तुम् । शब्दब्रह्मण्यपि तथाप्रसङ्गात् । तच्च शब्दविवर्त्तनिबधनस्तस्य तद्रूपतया निषेधात्मत्वाऽयोगात् । तस्मात्पारमार्थिक एवेति युक्तम् । यथाह न्यायवादी “सत्सदिति गृह्यमाणं यथाभूतमविपरीतं च तत्त्वमि”ति । नन्वस्तु तात्त्विको विभागो भावाऽभावयोः । अभावानां पुनरनधिगतस्वलक्षणभेदानां कुतः परस्परविभागः ? इत्यत आह—शशविषाणाऽलातचक्रादिषु वस्त्वाकारनिरूपणा । विभाग इत्यनुषङ्गः । यद्यपि शशविषाणाऽलातचक्राद्यभावानां न स्वरूपेण भेदस्तथाप्यवच्छेदकभावाऽधीननिरूपणत्वाद्भावानां च स्वरूपभेदात्तदुपाधिरभावानामपि परस्परविभाग इत्यर्थः । स्फोटस्वरूपनिराकरणप्रयत्नाभावं प्रति कारणमाह—पराक्रान्तमेव चाऽत्र बहुधा स्वयूथ्यैर्भाष्यकारवार्त्तिककारप्रभृतिभिरित्यलमतिप्रसङ्गेन ।
प्रकृतमुपसंहरति—तस्मादीप्सितस्योपायता कर्त्तुः प्रवृत्तिहेतुः । एवं पूर्वपक्षैकदेशिनि निरस्ते सम्प्रति परमपूर्वपक्षी ब्रूते—ननु कर्त्तव्यताऽवगमात्प्रवर्त्तते, सैव तथाऽस्तु । दूषयति—का पुनरियं कर्त्तव्यता ? न निरालम्बनं ज्ञानम्, न च श्रेयःसाधनता त्वयेष्यत इति भावः । पूर्वपक्षिण उत्तरम्— कर्त्तव्यतैव । यदाभासं विज्ञानं तदालम्बनम्, कर्त्तव्यताऽवगमश्च कर्त्तव्यताऽऽभास इति कर्त्तव्यतैवाऽस्यालम्बनमित्यर्थः । सिद्धान्ती पृच्छति—केन प्रमाणेनाऽवगम्यते ? कर्त्तव्यताऽवगमो हि प्रमाणस्य कार्यमसति कारणे प्रमाणे न भवितुमर्हतीत्यर्थः । स एवैकग्रन्थ्येनाह—नेन्द्रियैरध्यक्षमीक्ष्यते । ननु मा
सरत्वान्नेतरैः । सत्यम् । न शब्दातिरेकिभिः । ननु शब्दोऽपि संविदपेक्षयेतरसिद्धिमपेक्षते । ननु नियोगतः, शब्देऽपि तत्सम्भवात् । नन्वितरेतराश्रयः स्यात् । न । अनादित्वाच्छब्दभावनायाः । न खलु शब्दः साक्षादेव कर्त्तव्यताप्रतिभामाविर्भावयति विप्रकृष्टः, अपि तु भावनाऽनुगममुखेन । तत्र विप्रकृष्टशब्दभावनाद्वारसिद्धेः कर्त्तव्यतात्मनि परत्र प्रवृत्तिप्रसवोन्नीतप्रत्यये नाऽसुकरा प्रत्युत्पन्नशब्दसंवित् । उक्तं च ।
साक्षाच्छब्देन जनिता भावनानुगमेन वा ।
इतिकर्त्तव्यता या तां न कश्चिदतिवर्त्तते ॥
नामेन्द्रियाणि प्रवर्त्तिपत, कस्मात्पुनर्नानुमानादिगोचरः कर्त्तव्यता ? इत्यत आह—तत्पुरस्सरत्वान्नेतरैः । अनुमानादयो हि प्रत्यक्षपुरस्सरास्तत्कार्यत्वान्नाऽसति प्रत्यक्षे प्रवर्त्तन्ते इत्यर्थः । पूर्वपक्षी ब्रूते—सत्यं, न शब्दाऽतिरेकिभिर्गम्यते । कर्त्तव्यताशब्देन तु गंस्यत इत्यर्थः । सिद्धान्ती ब्रूते—ननु शब्दोऽपि संविदपेक्षया सम्बन्धज्ञानाऽपेक्षया प्रथमश्राविणोऽप्रतीतेः इतरसिद्धिमितरेण कर्त्तव्यतायाः सिद्धिमपेक्षते । पूर्वपक्षी त्वाह—ननु नियोगतः प्रमाणान्तरादेव सिद्धिमर्थस्याऽपेक्षते । कुतः ? शब्दतः सिद्धेऽपि तत्सम्भवात्सम्बन्धज्ञानसम्भवात् । सिद्धान्ती ब्रूते—नन्वितरेतराश्रयः स्यात् । शब्दतः सिद्धौ सत्यां सम्बन्धविज्ञानं सम्बन्धविज्ञाने च सति शब्दतः सिद्धिरिति । पूर्वपक्षिण उत्तरम्—अनादित्वाच्छब्दभावनायाः । यथा हि बीजादङ्कुरोऽङ्कुराद्बीजमिति बीजाङ्कुरजात्योरन्योऽन्याश्रयत्वेऽपि व्यक्तिभेदाद् व्यवस्था । न हि यस्या बीजव्यक्तेर्याऽङ्कुरव्यक्तिरुपजायते तस्या एवाऽङ्कुरव्यक्तेः सैव बीजव्यक्तिरपि तु तज्जातीयाया अन्यस्याः । इयमस्याश्चान्या जनिरिष्यते । तेन यत्राऽन्योन्याश्रयं न तत्र जन्यजनकभावः । यत्र च तद्भावो न तत्राऽन्योन्याश्रयत्वमिति । तथेहापि शब्दप्रवृत्तेः कर्त्तव्य विगमेन भावना प्राग्भवीया । तस्याश्चेह जन्मनि कर्त्तव्यताऽवगमे तत्र विदितसम्बन्धस्य शब्दस्य प्रवृत्तिः, ततः प्रत्युत्पन्नशब्दतः कर्त्तव्यताऽवगमः, ततो भावनेति । तदिदं शब्दप्रवृत्तिकर्तव्यताऽवगतिर्भावनाचक्रमनिशमावर्त्तते इति नेतरेतराश्रयत्वम् ।
ननु भावनायां किं प्रमाणम् ? अत आह-न खलु शब्दः साक्षादेव कर्त्तव्यताप्रतिभासमाविर्भावयति, यतो विप्रकृष्टः, अपि तु भावनामुखेन, एवं च सति शब्दैकसमधिगम्येऽपि कर्त्तव्यतात्मनि नासुकरा संविदित्याह— तत्र विप्रकृष्टभावनाद्वारसिद्धेः कर्त्तव्यतात्मनि स्वज्ञानेन प्रवृत्तिहेतौ परत्र प्रवृत्तिप्रसवोन्नीतप्रत्ययेनाऽसुकरा प्रत्युत्पन्नस्य वर्त्तमानस्य शब्दस्य संविद् ज्ञानमिति । उक्तं च ।
साक्षाच्छब्देन जनिता भावनाऽनुगमेन वा ।
इतिकर्त्तव्यता या तां न कश्चिदतिवर्त्तते ॥ इति ।
कर्त्तव्यतावगमादेव प्रवृत्तिः, नेप्सितोपायतायाः । नित्येष्वप्यप्रवृत्तिप्रसङ्गात् । ईप्सितोपायत्वे वा नित्यत्वव्याघातः ।
उच्यते—
पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणम् ।
भवेद्विशेषहेतुः को बीजमर्थेन तु श्रुतौ ।
का पुनरियं शब्दभावना ? शब्दविषया शब्दज्ञानबीजमुत शब्दाऽभिहिताऽर्थज्ञानबीजम् । यदि शब्दविषया तैरेवाऽनष्टस्मृतिसंस्कारैः प्राग्भवीयैः शब्दैर्व्यभिचारः स्यात् । व्युत्पत्तिश्च तदा नाऽपेक्ष्येत । शब्दाऽभिहिता चेत्तथापि पूर्वस्यां सत्यां स एव प्रसङ्गः । अथेयमेव । विशेषहेतुर्वक्तव्यो, यत् तुल्येषु प्रत्ययपाटवाऽभ्यासाऽऽदरेषु शब्दार्थसम्बन्धविषयेष्वर्थ
कृतव्याख्यानमेतत् । इदं च वेदवादिभिरवश्याभ्युपेतव्यं न पुनरभिमतसाधनत्वम्, अव्यापकत्वादित्याह—कर्त्तव्यताऽवगमादेव प्रवृत्तिर्नेप्सितोपायतायाः । नित्येष्वप्यप्रवृत्तिप्रसङ्गात् । अथ नित्यमपि समीहितोपायः कस्मान्न भवति ? इत्याह—ईप्सितोपायत्वे वा नित्यस्याऽनित्यत्वप्रसङ्गः । काम्यतया पुरुषेच्छातन्त्रत्वेनाऽवश्यकर्त्तव्यताऽनुपपत्तेः । तदेतद् दूषयति— उच्यते ।
पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणम् ।
भवेद्विशेषहेतुः को बीजमर्थेन तु श्रुतौ ॥
भवनाऽनुगमेनेत्युक्तम्, तत्र भावनां विकल्पयति—का पुनरियं शब्दभावना ? शब्दविषया वाचकत्वविशिष्टविषया शब्दवाचकत्वज्ञानबीजमुत शब्दाभिहिताऽर्थज्ञानबीजम्, कर्त्तव्यतामात्रज्ञानस्य वा बीजं करणम् । भावनाविज्ञानयोः कार्यकारणभूतयोः समानविषयत्वात् । अत्र प्रथमं कल्पमधिकृत्याह—यदि शब्दविषया तैरेवाऽनष्टस्मृतिसंस्कारैः प्राग्भवीयैः शब्दैर्व्यभिचारः स्यात् । स्मृतिजनकः संस्कारो न वेगादिरित्यर्थः । स च वाचकतया शब्दः स्मर्यत इति व्युत्पत्तिश्च नापेक्ष्येत । तथा च प्रथमश्राविणोऽप्यर्थप्रत्ययप्रसङ्गः । तदिदमुक्तं पूर्वशब्दैर्व्यवहृतिर्व्युत्पत्तेरनपेक्षणं भवेदिति । कल्पान्तरं शङ्कते—शब्दाऽभिहिताऽर्थविषया चेद्, भवतु, तथापि वाचकशब्दविषयाप्यस्ति भावनेति तस्यां पूर्वस्यां सत्यां स एव प्रसङ्गः । अथैवमर्थविषयैवास्ति भावना न पूर्वशब्दविषयः । उत्तरं—विशेषहेतुर्वक्तव्यो यत्तुल्येषु प्रत्ययपाटवाऽभ्यासाऽऽदरेषु शब्दार्थसम्बन्धविषयेष्वर्थ एव भावनाबीजं तत्प्रत्ययपाटवादयो न तु शब्दसम्बन्धयोः । त्रीणि कारणानि भावनायाः समस्तव्यस्तानि । तथा हि । सकृदनुभूतेषु प्रत्ययपाटवाद् भावना भवन्ति ।
एव भावनाबीजं न शब्दसम्बन्धयोः । प्रायणं दुःखं वोच्छेत्तृ जात्यन्तरव्यवधानं वा शब्दसम्बन्धयोर्भावनाबीजानां नाऽर्थेषु । तेष्वपि च भावनानुगमश्चेत्, जात्यन्तरबधिरास्तज्जन्माऽनुभूतानिव रूपशब्दप्रकारान् जन्मान्तराऽनुभूतानाचक्षीरन् । अथापि पूर्वाऽभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः कासाञ्चिद्भावनानामनुगमो न सर्वासाम् । व्युत्पन्नवदव्यवहाराद्बालस्य ।
यथा दुर्जनवचनजनिते दुःखे मन्दस्यापि प्रत्ययस्याऽभ्यासो भावयति भावनाम्, यथा जडस्य शास्त्राऽभ्यासः, तथा सकृन्मन्दमनुभूयमानेऽपि प्रत्ययादराद् भवति भावना । यथा देवह्रदे महाचैत्र्यां बुद्बुदवत्किञ्चिदुत्पन्नं कनकनलिनदर्शनादीनि व्यस्तानि समस्तानि चोहनीयानि । तदेतत्त्रितयमपि संस्कारकारणं शब्दार्थसम्बन्धेषु तुल्यमिति कथमर्थ एव संस्कारो न तु सम्बन्धशब्दयोरिति । तदिदमुक्तं विशेषहेतुः को बीजमर्थेन तु श्रुतौ । यदि मन्येत अर्थवच्छब्दसम्बन्धयोरप्युत्पन्नैव भावना, सा तु प्रायणेन वा दुःखेन वा गर्भवासजन्मना जातिव्यवस्थानेन वा विनष्टा न स्मृतिं जनयतीत्यत आह— प्रायणं दुःखं वोच्छेतृ जात्यन्तरव्यवधानं वा शब्दसम्बन्धयोर्भावनाबीजानां नार्थेष्विति । विशेषहेतुर्वक्तव्य इत्यनुषज्यते । भावनारूपाणि बीजानि स्मृतेरित्यर्थः । न जातु कारणाऽनियमे कार्यनियमः सम्भवति, तस्याऽऽकस्मिकत्वप्रसङ्गादिति भावः । यदि तु कश्चिद्वैयात्यादभ्युपैति, शब्दार्थसम्बन्धेषु भावनाऽनुवर्तत इति, तं प्रत्याह—तेष्वपि चाऽविशेषेण भावनाऽनुगमे जात्यन्धबधिरास्तज्जन्माऽनुभूतानिव रूपशब्दप्रकारान् जन्मान्तरानुभूतान् आचक्षीरन् ।
तत्र चोदयति—अथापि पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः कासाञ्चिद् भावनानामनुगमो न सर्वासाम् । अस्यार्थः । निकायविशिष्टाभिरपूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धो जन्म, तत्कर्त्ता जातस्तस्याऽभिप्रेतविषयप्रार्थनायां तत्प्राप्तौ सुखाऽनुभवो हर्षोऽनिष्टविषयसाधनसन्निपाते तज्जिहासोर्हान्यशक्यता भयम् । इष्टविषयनियोगे सति तस्येष्टस्य प्राप्त्यशक्यस्य प्रार्थना शोकः । तदेतेषां हर्षभयशोकानां सम्प्रतिपत्तिरनुभवः पूर्वाभ्यस्तस्मृत्यनुसम्बन्धाद् भवति । पूर्वस्मिन् जन्मनि अभ्यस्तस्याऽनर्थस्य483 स्मृत्यनुबन्धात् । एकविषयो वा एकाऽऽकारविषयो वा अनेकविज्ञानोत्पादोऽभ्यासः, तत्कर्माऽभ्यस्तं यथा देवदत्तोऽनेनाऽभ्यस्तः शालयो वाऽभ्यस्ता इति गृहीतिनिरोधे तदनुसन्धानविषयः प्रत्ययः स्मृतिरनुबध्यतेऽनेनेत्यनुबन्धः स्मृतेरनुबन्धो भावना । तस्मात्पूर्वाऽभ्यस्तस्मृत्यनुबन्धाद्धेतोर्जातस्य कुमारस्याऽसतीन्द्रियविषयसम्प्रयोगे हर्षभयशोकसम्प्रतिपत्तेः
भवतु, किं तु
पूर्वसिद्धिव्यपेक्षत्वान्मानं तत्र न किञ्चन ।
सिद्धे सामान्यतो वृत्तिर्विशिष्टे लिङ्गवाक्ययोः ॥
न तावल्लिङ्गादिजं ज्ञानं तत्र प्रमाणम् । संवित्प्रभवतया पूर्वसिद्धिव्यपेक्षत्वेन । नापि भावनाजं, तन्निमित्तज्ञानाऽपेक्षत्वेन । नापि लिङ्गवाक्यजे । तयोः सामान्यरूपप्रसिद्धेर्विशिष्टावगाहित्वेनाऽप्रसिद्धपदार्थवाक्यार्थप्रतीत्यनु- प्राग्भवीयानां कासाञ्चित्तदीयभावनानाम् अनुगमः । आसीच्च पूर्व शरीरान्तरसम्बन्धः । हर्षादिसम्प्रतिपत्तिरसिद्धेति चेन्न । स्मितरुदितादिमत्त्वेनैतदनुमानात् तथा हि । हर्षादिमदात्मवती बाल्यावस्था स्मितरुदितादिमत्त्वाद् यौवनावस्थावत् । एवं बाल्यावस्था स्मृतिमदात्मवती हर्षादिमदात्मवत्त्वात् यौवनावस्थावत् । तथा बाल्यावस्था संस्कारवदात्मवती स्मृतिमदात्मवत्त्वाद् यौवनावस्थावत् । तथा च बाल्यावस्थाऽनुभूतचरानुभववदात्मवती संस्कारवदात्मवत्त्वाद्यौवनावस्थावत् । तथा बाल्यावस्थाऽनुभवकाले शरीरसम्बन्धवदात्मवती अनुभववदात्मवत्त्वाद् यौवनावस्थावत् इति प्रसङ्गात्परलोकसिद्धिरपि सूचिता । तदेवं कासाञ्चिदनुगमो न सर्वासां भावनानाम् । कुतः ? व्युत्पन्नवदव्यवहाराद् बालस्य । कार्यदर्शनोन्नेया हि भावना यावत्कार्यदर्शनं व्यवतिष्ठत इत्यर्थः ।
एवं सिद्धान्तैकदेशिनो दूषणे परिहृते पूर्वपक्षवादिना परमसिद्धान्ती दूषणमाह—भवतु, किं तु
पूर्वसिद्धिव्यपेक्षत्वान्मानं तत्र न किञ्चन ।
सिद्धे सामान्यतो वृत्तिर्विशिष्टे लिङ्गवाक्ययोः ॥
तद् व्याचष्टे—न तावल्लिङ्गादिजं तत्र ज्ञानं प्रमाणं न पदं प्रत्ययो वा तत्र कर्त्तव्यतायां प्रमाणमिति । केन हेतुना ? प्रथमश्रुतेभ्यो लिङ्गादिभ्योऽनुत्पादात्कर्त्तव्यता ज्ञानस्य संवित्प्रभवतया मानान्तरतः पूर्वसिद्धिव्यपेक्षत्वेन । नापि भावनाजं तन्निमित्तज्ञानापेक्षत्वेन, यदाकारं हि विज्ञानं भावनया जनयितव्यं तदाकारमेवानुभवं स्वकारणमेवापेक्षते मानान्तरतः, न च तदस्तीत्युक्तम् ननु लिङ्गवाक्ये कर्त्तव्यतावगाहिनी भविष्यतः, तयोः प्रमाणान्तराऽनवगतार्थगोचरत्वादन्यथा प्रामाण्याऽनुपपत्तेरित्यत आह—नापि लिङ्गवाक्यजे । हेतुमाह—तयोः सामान्यरूपप्रसिद्धेः विशिष्टाऽवगाहित्वेन गृहीतसम्बन्धं लिङ्गिनं गमयति, सम्बन्धश्च पक्षव्यापकत्वे सति स्वसाध्येन नियमः । न चाऽगृहीते दृष्टान्तधर्मिवर्तिनि साध्यधर्मे तेन सह हेतोर्नियमः
पपत्त्या सामान्यरूपप्रसिद्धिनिबन्धनप्रमाणाऽपेक्षायां तदभावे प्रामाण्याऽभावः । यथा चेह जन्मनि तथा पूर्वस्मिन्पूर्वतरेऽपि साऽपेक्षितेति प्रमाणाऽभावः । तत्र किं विकल्पमात्रमेवेदमनादिशब्दवासनानिबन्धनं स्यात्तच्च पुरस्तात्प्रत्युक्तम् ।
शक्यसाधनः । न चाऽपूर्ववस्तुसत्तासाधने पक्षधर्मता । तथा हि । कदाचित्सत्तायां साध्यायां भावधर्मे वा हेतुरुच्येताऽभावधर्मो वा, प्रकारान्तराऽभावात् । तत्र बाह्या अप्याहुः ।
“
नाऽसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धो भावस्य तत्सत्ता साध्यते कथम् ॥ इति ।
” तस्मादनुमानं सामान्यरूपेण यो वह्निः प्रसिद्धं तेन विशिष्टं वस्तु पर्वतादिकमवगाहते । वह्निभावाऽभावसाधारणेन रूपेण वा यः प्रसिद्धः पर्वतादिः साधनाश्रयस्तमेव वह्निविशिष्टमवगाहते । तदनेन नियमात्पक्षधर्मतारूपसम्बन्धद्वयसंवित्तावनुमानप्रवृत्तिर्नाऽन्यथेति सूचितम् । एवं वाक्यमपि सामान्यप्रसिद्धक्रियं पदार्थ सामान्यरूपप्रसिद्धेनैव पदार्थान्तरेण कारकरूपेण विशिष्टमवगाहते । तदनयोर्विशिष्टविषयता, न पुनरपरिदृष्टचरवस्तुसद्भावविषयतेत्युक्तं भवति । कुतो वाक्यमेवंविधम् ? इत्याह-अप्रसिद्धपदार्थवाक्यार्थप्रतीत्यनुपपत्त्या पदार्थस्यैवेतरपदार्थविशिष्टस्यैव वाक्यार्थत्वात् । अगृहीतसम्बन्धस्य चाऽपदार्थत्वात् । अतः सामान्यरूपप्रसिद्धिनिबन्धनस्य च कर्त्तव्यतायां प्रमाणस्याऽभावाल्लिङ्गवाक्ययोर्विशिष्टायां तस्यां प्रामाण्याऽभावः ।
ननूक्तं कथं शब्दप्रवृत्तिकर्तव्यताऽनुभवभावनाचक्रमनिशमावर्त्तत इति, किमत्र मानान्तरेण ? इत्यत आह—यथा चेह जन्मनि तथा पूर्वस्मिन्पूर्वतरेऽपि साऽपेक्षितेति प्रमाणाऽभावः । अत्रेदमाकूतम् । प्राग्भवीयभावनाजनितकर्त्तव्यतावगमाद् बालस्य स्वयं प्रवृत्तौ सिद्धायामनादितापरिहारः स्यात्, सैव त्वसिद्धा । तथा हि । यद्विषयाऽनुभवभाविता या भावना सा तत्रैव स्मृतिमाधत्ते, न त्वर्थान्तरेऽपि, अतिप्रसङ्गात् । न च कर्त्तव्यतासामान्यमपि विशेषप्रवृत्तिहेतुः । न च यत्क्रियाभेदगोचरा प्रागपि भवे कर्त्तव्यताऽवगतात्तत्क्रियागोचरैव बालेन स्मृता क्रियान्तरे प्रवृत्तिमुत्पादयितुमर्हति । नापि क्रियान्तरे स्मर्यते । न खलु पाटलिपुत्रौपलब्धस्य प्रासादस्य शिलाह्रदे स्मरन्नभ्रान्तः । अतः स्तनपानादिगोचरकर्त्तव्यताऽवगतौ भावनाय अन्यत्कारणं वक्तव्यम्, न च तच्छक्यमिह जन्मनि सर्वेषु जन्मस्विति प्रमाणाऽभावः । अपेक्षितोपायतां स्तनपानादेः प्रत्यभिज्ञासिद्धया तज्जातीयतया बालोऽप्यनुमिमीते । तत्र विषयस्याप्यसिद्धौ सत्यां विकल्पमात्रमेवेदमनादिशब्दवासनानिबन्धनं स्यात् ।
अपि च—
कर्त्तुरिष्टाऽभ्युपाये हि कर्त्तव्यमिति लोकधीः ।
विपरीते त्वकर्त्तव्यमिति तद्विषये ततः ॥
यः खलु प्रत्ययो यमर्थमन्वेति स तस्य विषयः शुक्ल इव शुक्लप्रत्ययस्य । अपेक्षितोपायतां तद्विपरीततां चाऽनुयातौ484 कर्त्तव्यमकर्त्तव्यमिति प्रमितिप्रत्ययौ लौकिकानाम् । तेन तयोर्गोचराविति गम्यते । तच्च पुरस्तात्प्रत्युक्तं न निरालम्बनं ज्ञानमिति । तत्पारिशेष्यात्कर्तुरीप्सितोपायतैव प्रवृत्तिहेतुः कर्त्तव्यताज्ञानस्याऽऽलम्बनम् ।
अपि चाऽन्वयव्यतिरेकाभ्यामपि सैवाऽऽलम्बनमित्याह—
कर्त्तुरिष्टाऽभ्युपाये हि कर्त्तव्यमिति लोकधीः ।
विपरीते न कर्त्तव्यमिति तद्विषये ततः ॥
ननु कृतिव्याप्यतद्विपरीततागोचरौ कर्त्तव्यत्वाऽकर्त्तव्यत्वप्रत्ययौ कथं समीहिततद्विपरीतसाधनते गोचरयितुमर्हतः ? न च साधनताकर्त्तव्यतयोस्तादात्म्यम्, सिद्धसाध्यत्वेन दहनतुहिनवत्स्वभावविरोधादित्यत आह—यः खलु प्रत्ययो यमर्थमन्वेति स तस्य विषयः शुक्ल इव शुक्लप्रत्ययस्या अपेक्षितोपायता तद्विपरीततां चाऽनुयातौ कर्त्तव्यमिति प्रत्ययौ प्रवृत्तिनिवृत्तिहेतू लौकिकानाम् । तेन ते अपेक्षितोपायतातद्विपरीतते तयोः485 कर्त्तव्यमकर्त्तव्यमिति प्रत्यययोर्गोचराविति गम्यते अन्वयव्यतिरेकाभ्याम् । इदमत्राकूतम् । सत्यं, कृतिसाध्यतामात्र कर्त्तव्यता । न तु तन्मात्रं हेतुः, समीहितस्यापि कर्त्तव्यतया तद्धेतुत्वप्रसङ्गात् । न खलु फलं कर्त्तव्यमिति प्रवृत्तिगोचरस्तत्साधनं तु स्यात् । न चाऽन्यस्य कर्त्तव्यताऽन्यत्र प्रवर्तयति । अतिप्रसङ्गात् । साधनतया नाऽतिप्रसङ्ग इति चेत्, तर्हि प्राप्ताऽप्राप्तविवेकेन साधनत्वमेव प्रवृत्तिहेतुः, न तु तन्मात्रमपि तु कर्त्तुरिष्टाऽभ्युपाय इत्युपपादयिष्यति स्वयमेवाऽऽचार्यः । तस्मात्कर्त्तुरिति वचनादाचार्यस्य कर्त्तव्यतैकार्थसमवायिनी समीहितसाधनता प्रवृत्तिहेतुः कर्त्तव्यताज्ञानालम्बनमभिमता । न चाऽनयोर्भिन्नकालयोरैकाधिकरण्ये कश्चिद्विरोध इति उपपादयिष्यामः । न च कर्त्तव्यतामात्रोपयोगिनी समीहितसाधनता प्रमाणान्तःपातिनी न प्रवृत्तिहेतुः । कर्त्तव्यतैव तद्धेतुः । सा च क्वचित्साधनतयाऽवगम्यते, क्वचिच्छब्दतस्तेनाऽसत्यामपि समीहितसाधनतामनित्येषु कर्त्तव्यताऽवगम्यमाना प्रवृत्तिहेतुरिति साम्प्रतम् ।
तस्मात्कर्त्तव्यतापि नाऽन्या कर्तुः समीहितोपायतायाः । यथोक्तं
तेन कर्त्तव्यतामात्रं प्रवृत्तिहेतुरित्युक्तम् । अपि च भवतु प्रमाणान्तःपातिनी, तथाप्यस्ति हि किञ्चित्प्रमाणं यदभावात्प्रमेयं निवर्त्तते, यथा कृतकत्व भावानामनित्यत्वे प्रमाणम् । अथ च तदभावादनित्यत्वं निवर्त्तते, नैव ह्यस्ति सम्भवः अकृतकश्चाऽनित्यश्च भाव इति । तथेहापि कृतिव्याप्यता कार्यता, कृतिश्च पुरुषप्रयत्नः, स चेच्छाद्वेषजीवनयोनिः स्वयोनिनिवृत्तौ न भवति, धूम इव धूमध्वजनिवृत्तौ । न च हिताहितप्राप्तिपरिहाराऽसाधनसाधनेषु नैमित्तिकनिषेधाऽपूर्वेष्विवाऽसम्भवः । द्वेषजीवने त्वनाशङ्कनीये एवाऽनुपादेयत्वाद् विधेयविषयत्वाच्च । नन्वेतदनुमानं, तच्चाऽपूर्वकर्त्तव्यताविधायिनि परिपन्थिनि नित्यतयाऽनपेक्षप्रमाण्ये सति शब्दे बाधितविषयतया नोदेतुमर्हति । अबाधितविषयत्वमपि हि पक्षधर्मतावदनुमानसामग्रीनिविष्टमिति तद्विदः । तत्किं सहस्रसंवत्सरे सत्रे सहस्रहायनजीविन एव सन्त्वधिकारिणः ? सहस्रसंवत्सरनिर्वर्तनीयमेतदाम्नायते सत्रम् । सहस्रसंवत्सरजीविनां पुसामसम्भवात्संवत्सरशब्दो जघन्यप्रवृत्तिर्द्दिवसेष्विति चेत् । न असम्भवस्याऽसिद्धेः । आम्नायत एव हि मानान्तरनिरपेक्षात्सहस्रसंवत्सरसत्रविधायिनः सम्भविष्यन्ति सहस्रायुषः पुरुषाः । स्यादेतत् । विवादाध्यासिताः पुरुषाः न सहस्रायुषः पुरुषत्वादस्मदादिवदित्यनुमानादसम्भव इति । नन्वागमवाधितमनुमानं नोदीयत इत्युक्तम् । सत्यम्, प्रवृत्त आगमोऽनुमानं बाधते, तत्प्रवृत्तिरेव तु स्मारितपदार्थाऽन्वययोग्यताऽवधारणपुरःसरा, तदवधारणसमये च बाधितविषयमनुमानं प्रवृत्तं सत्रकर्त्तव्यतासहस्रसंवत्सराणामन्वयमयोग्यत्वान्निरुध्य संवत्सरशब्दं जघन्यवृत्तिमापादयतीति चेत् । न । इहापि समानत्वात् । न खलूपेक्षणीये नैमित्तिकनिषेधाऽपूर्वे प्रयत्नं प्रति प्राधान्येनाऽन्वयमर्हतः । न चैकशब्दवाच्ययोरन्वयो न योग्यतामपेक्षत इति युक्तम् शब्दाऽवधारणसमये योग्यताहीनयोरन्ययाऽनवधारणेनैकशब्दवाच्याऽन्वयाऽनुपपत्तेः । कामाधिकारे कामाऽनुकूलतया कृत्यन्वयोपपत्तिरिति चेत् । किमायातं नैमित्तिकनिषेधाऽधिकारयोः ? तत्र तच्छब्दप्रत्यभिज्ञानात्कामस्याऽश्रुतेरपूर्वमात्रकर्त्तव्यताऽवगतिरिति चेत् । तर्हि कर्त्तव्यताशरीरनिवेशिनाऽकामेनापि भवितव्यं नियोज्येनेव निमित्तवत्ता निषिध्यमानक्रियाकर्त्रा वा श्रुतेनापि । तथा च न नियोगमात्रकर्त्तव्यता । नैमित्तिकनिषेधाऽधिकारयोस्तन्मात्रत्वे च कर्त्तव्यताहानिर्नियोज्याऽभाव इवेति कर्त्तुरपेक्षितोपायता कर्त्तव्यता, तद्विपरीतता चाऽकर्त्तव्यतेति सिद्धम् । तदेतदुपसंहरति—तस्मात्कर्त्तव्यतापि नाऽन्या
कर्त्तव्यस्य सुखं फलमिति । कथं तर्हि नित्येषु नित्यता कर्त्तव्यता वा । यथाशक्ति चाङ्गोपसंहारः । तथा हि । यदि तावत्पुत्रादीप्सितं तत्रोपेयनित्यता विहन्येत । तदिच्छाया अनित्यत्वात् । तत्र यावज्जीवमित्यनर्थकम् । नाप्यधिकारिविशेषणतयार्थवत् । अर्थसिद्धेः ।
अथ, मतं सर्वेषां सर्वदा सर्वमीहितं फलं भविष्यत्युपात्तदुरितनिर्हरणम् । भवेदेवं नित्यता, फलवशेन न शब्दात् । तथा हि । फलस्य नित्यसमीहितत्वात्तद्वशेनाऽवश्यकर्त्तव्यता वास्तवी । शब्दस्तु नित्यसमीहितोपायप्रतीतिमात्रोपलक्षणः । तत्राऽसति शब्दव्यापारे ततो निर्हृत्यर्थकृच्छादिवत्सर्वाङ्गोपसहाराप्रसङ्गोऽन्यथा फलाऽभावात् । शाब्दे हि नित्यत्वे समहितोपायतायाः । अत्रैव भाष्यग्रन्थं पठति—तदुक्तं कर्त्तव्यस्य सुखं फलमिति ।
अत्र चोदयति—यदि कर्तुः समीहितसाधनतैव कर्त्तव्यता, कथं तर्हि नित्येषु नित्यता कर्त्तव्यता वा ? न ह्येतन्नित्यं समीहितसाधनं भवतीति भावः । क्वचित्पाठः कथं तर्हि नित्येऽप्यनित्यता कर्त्तव्यताया इति, स च सुगम एव । यदि च समीहितसाधनता ततो यथाशक्ति चाङ्गोपसंहारः कथमिति चेत्यनुकृष्यते । तदभावे न नित्यतेत्यर्थः । ननु समीहितसाधनत्वनित्यत्वयोः को विरोधः ? इत्यत आह—तथा हि । यदि तावत्पुत्रादीप्सितं तत्रोपेयनित्यता विहन्येत । कुतः ? तदिच्छाया अनित्यत्वात् । भवतु अनित्यत्वं को दोषः ? इत्यत आह—तत्राऽनित्यत्वे सति यावज्जीवमित्यनर्थकम् । नाप्यधिकारिविशेषणतयाऽर्थवत् । अर्थसिद्धेर्यावत्पदस्यानर्थक्यं स्थितमेव । यावज्जीवनमात्रस्याप्यधिकृतविशेषणत्वं न सम्भवति, व्यवच्छेद्याऽभावात् । न ह्यजीवतोऽधिकारप्रसक्तिस्तेनार्थसिद्धेरनर्थकत्वमित्यर्थः ।
अथ मतम्, सर्वेषां सर्वदा सर्वमोहितं फलं भविष्यति उपात्तदुःरितनिबर्हणम्, ततश्च नित्यसमोहितसाधनत्वान्नित्यत्वमुपपत्स्यत इति । निराचष्टे—भवेदेवं नित्यता । किं तु फलवशेन, न तु शब्दात् । स्फुटयति— तथा हि । फलस्य नित्यसमीहितत्वात्तद्वशेनाऽवश्यकर्त्तव्यता486 वास्तवी । शब्दस्तु समीहितोपायप्रतीतिमात्रोपक्षोणः487488 । ननु नित्यतया नः प्रयोजनं, सा च फलतोऽपि लब्धेति कृतं शब्देनेत्यत आह—तत्राऽसति शब्दव्यापारे नित्यतायामेनोनिर्हृत्यर्थकृच्छादिवत्सर्वाङ्गोपसंहारप्रसङ्गः । कुतः ? अन्यथाऽनुपसंहारे सर्वेषामङ्गानां प्रायश्चित्तवदेव फलाऽभावात् । न चैष शब्देऽपि
परिपूर्णाङ्गं सर्वदा चेत्यसम्भवाद्यथा शक्नुयादित्युपपद्यते489 । इतरथाऽङ्गाम्नायस्याऽविकल्प्यत्वाद्यो यदेति विश्वजिदादिवत्स्यात् । न हि सर्वेषां समीहितोपायो विश्वजिति पङ्ग्वादयोऽधिकारिणः । नानुषङ्गिकमीप्सितम्, प्रमाणाऽभावात् । अर्थापत्तेरक्रियायां प्रत्यवायेनापि क्षयात् । स्मृतिवाक्यशेषाभ्यां च तत्कल्पनाया एव युक्तत्वात् । स्मृतितश्च पुनस्तदर्थावगमात् ।
नित्यत्वे प्रसङ्ग इत्याह—शाब्दे हि नित्यत्वे परिपूर्णाङ्गं सर्वदा चेत्यसम्भवात् शब्देनैवाऽवश्यकर्त्तव्यताऽभिधायिना सर्वाङ्गोपसंहृतौ सत्यामनुपपद्यमानेन यथा शक्नुयादित्युपपद्यते । अथ वास्तवेनापि नित्यत्वेन किमिति नोपपद्यते ? इत्याह—इतरथा तु वास्तवे नित्यत्वे नित्यवदङ्गाऽऽम्नायस्याऽविकल्यत्वाद्यो यदेति विश्वजिदादिवदुपलभ्येत ।
दृष्टान्तं विवृणोति—न हि सर्वेषां समीहितोपाये विश्वजिति पङ्ग्वादयोऽधिकारिणः । पङ्ग्वादय इत्यसमाधेयाङ्गवैकल्यं सूचयति । इदमत्राकूतम् । शाब्दमङ्गाम्नायं शाब्देनैव नित्यत्वेन शक्यं व्यवस्थापयितुं न वास्तवेन, तस्य प्रमेयत्वादङ्गाम्नायस्य च प्रमाणत्वात्प्रमाणतन्त्रत्वात्प्रमेयव्यवस्थितेः । ननु “यावज्जीवं दर्शपूर्णमासाभ्यां यजेते”ति यावज्जीवोपबन्धान्नित्यकर्त्तव्यताप्रतिपादनपरं शास्त्रम्, ततश्च नित्यकर्त्तव्यता शाब्दी भविष्यतीति तत्पराच्च शास्त्रादानुषङ्गिकं सर्वदा सर्वजनसमीहितं दुरितक्षयलक्षणं भवतोच्यत इत्यत आह—नानुषङ्गिकमीप्सितम्, प्रमाणाऽभावात् । न खलूपातदुरितनिबर्हणकाम इति यावज्जीववाक्यशेषमधीयते । नाप्यर्थापत्तिः । कुतः ? अर्थापतेरक्रियायां प्रत्यवायेनापि क्षयात् ।
नन्वेवमुभयथाऽप्युपपत्तेः कस्य कल्पनौचित्यम् ? इत्यत आह— स्मृतिवाक्यशेषाभ्यां च तत्कल्पनाया एवाऽकरणे प्रत्यवायकल्पनाया एव युक्तत्वात् । तत्र स्मृतिः “अकुर्वन्विहितं कर्मे”त्यादिका । वाक्यशेषोऽपि “यो ह वै दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपातयेत्स स्वर्गाल्लोकाच्च्यवते” इति । तथा हि । यावज्जीवोपबन्धयोर्दर्शपूर्णमासयोः किमुपात्तदुरितक्षयः कल्प्यताम्, उताऽकरणे प्रत्यवायप्राप्तिः ? इति सन्देहे “यो ह वै” इति वाक्यशेषात्स्मृतेश्चाऽकरणे प्रत्यवाय इति निर्णयः । अपि च लौकिक्या अपि स्मृतेस्तदर्थाऽवगमात् । तथा हि । यदवश्यकर्त्तव्यमिति लोके विधीयते यच्च निषिध्यते यथा ग्रामान्तराऽऽनीतानां राजाश्वादीनां नीराजनादि, भुजगाङ्गुलिदानादि वा तदकरणे । तत्करणं च प्रत्यवायो भवतीति प्रतिपद्यन्ते लौकिकाः । तदेवमनादिलौकिकस्मृतिद्रढिमलब्ध
प्रतिषिद्धस्य च नियोगतोऽकर्त्तव्यस्य क्रियायामिव नियोगतः कर्त्तव्यस्याऽक्रियायां प्रत्यवायो युक्तः । तथा नियोगोपपत्तेः । प्रत्यवायभयात् ईप्सितोपायेष्विच्छया प्रवृत्तेः । तथा च यादृशी प्रवृत्तिर्न्न तादृश्यभ्युदयाय । नित्येप्सितोपायनित्यत्वफलवत्त्वयथाशक्त्यनुष्ठेयत्वानां चासङ्गतेरकरणे प्रत्यवायकल्पना । तस्मान्नित्येप्सितोपायानि न नित्यानि । प्रवृत्तिश्च तेष्वकरणे प्रत्यवायकल्पनात् । दुःखात्मकत्वाच्च कर्म्मणः आनुषङ्गि-
व्युत्पत्तिरित्यवश्यकर्त्तव्यताऽकरणे प्रत्यवायकल्पनाबीजेन पुनरुपात्तदुरितनिर्हरणकल्पनाया इत्याह—स्मृतेश्च पुनस्तदर्थाऽवगमात्प्रतिषिद्धस्य नियोगतोऽकत्तव्यस्य क्रियायामिव नियोगतः कर्त्तव्यस्याऽक्रियायां प्रत्यवायो युक्तः । न चात्र न संशयो येन वाक्यशेषादिभ्यो निर्णय इत्याह—तथा नियोगोपपत्तेस्तदकरणे प्रत्यवायकल्पनायामेव नियोगस्याऽवश्यभावस्य कर्त्तव्यताया उपपत्तेः । कुतः ? अकरणे प्रत्यवायभयादोप्सितोपायत्वेनाऽवश्यम्भावः प्रवृत्तेरित्याह—ईप्सितोपायेष्विच्छया प्रवृत्तेरिच्छायाश्चाऽवश्यम्भावादिति भावः । ननु नेप्सितोपायतामात्रमपि तु नित्येप्सितोपायत्वम्, ततश्चाऽवश्यम्भावनियमः प्रवृत्तेस्तद्धेतोः इत्यत आह—तथा च यादृशी प्रवृत्तिर्न तादृश्यभ्युदयाय । तथा हि । नितान्तसमीहितेष्वपि कदाचिदालस्यादुदासते तदर्थिनस्तदुपायेषु, न त्वक्रियमाणे प्रत्यवायहेताविति सर्वजनीनमेतदित्यर्थः । परपक्षे विरोधमादर्शयति—नित्येप्सितोपायनित्यत्वफलवत्त्वयथाशक्त्यनुष्ठेयत्वानां च का सङ्गतिः ? विरुद्धं खल्वेतन्नित्येप्सितोपायनित्यत्वे फलवत्व यथाशक्यनुष्ठेयत्वं चेति । तथा हि । सदातनाङ्गसाकल्यवत्ता हि साधननित्यता, सा यथाशक्यनुष्ठयत्वेन कतिपयाङ्गवैकल्येन विरुध्यते । तथा तदेव फलवत्वेन नित्येप्सितोपायनित्यत्वं विरुध्यते । तथा हि । ईप्सितप्राप्ताविच्छा निवर्त्तते । न निवर्त्तते चेत् न नूनं तदीप्सितम् । इच्छानिवृत्तौ च न नित्यमीप्सितम्, सोयं फलवत्त्वेप्सितत्वयोविरोधाद्विरोधः । तस्माच्छब्दावगतनित्यत्वनिर्वाहायाऽकरणे च प्रत्यवायकल्पनैव ज्यायसौ । उपसंहरति—तस्मान्नित्येप्सितोपायतया न नित्यानि कर्माणि । प्रवृत्तिस्तु तेष्वकरणे प्रत्यवायात् । ननु नित्येषु केषुचिदुपात्तदुरितक्षयोऽपि फलं श्रूयत इत्यत आह—दुःखात्मकत्वाच्च कर्मणस्तदानुषङ्गिकात् कार्यविरोधिनः पाप्मनः क्षयात्प्रवृत्तिर्न तच्छाब्दं फलं कर्मण्येव स्वभावतो दुःखात्मनि विधीयमाने दुःखविरोधित्वात्पाप्मनस्तत्प्रक्षयस्य हविर्विकारादिवदानुषङ्गिकत्वादित्यर्थः ।
कात्कार्य्यविरोधिनः पाष्मनः क्षयादिति । भावनायाश्च साध्यत्वात् अग्निहोत्रमितिवन्निर्द्देशार्थत्वाद्विपरिणम्यापि सम्भवात्तृतीयानिर्द्देशाऽविरोधः । वार्त्तमेतत् । तथा हि ।
नित्यं नित्येहितोपाये यावज्जीवमिति श्रुतेः490 ।
अङ्गान्यतो यथाशक्ति न वा सर्वाणि चाऽन्यथा ॥
न तावदिष्टसाधनत्वेऽपि नित्यत्वविहतिः । नित्येष्टस्यैव साध्यत्वकल्पनात् दुरितनिर्हरणस्य । सुखे तद्धेतौ वा कदाचिन्माध्यस्थ्यमेवेति दुःखतद्धेतुभ्यां तु सर्वदोद्विजमानस्य तन्निवृत्तौ सर्वदाकामः, हितमपि च
यदि नित्यानां कर्माणां नाऽभिमतसाधनत्वं किं तु तान्येव कर्त्तव्यतया चोद्यन्ते तदा तेषां करणवाचिनी तृतीया दर्शपूर्णमासाभ्यामित्यनुपपन्नेत्याशङ्क्याह—भावनायाश्च साध्यत्वात् । अयमर्थः । यद्यपि यजेर्नेष्टं प्रति साधनता । यद्यपि च प्रत्यवायप्रागभावो न साध्यस्तथापि भावनैव साध्या भविष्यति । यद्यपि भावनाव्याप्यतया तां प्रति कमत्वान्न करणत्वं यजेस्तथापि फलपक्षे यथा भावनाव्याप्यस्य साधनावच्छेदकतया करणभावस्तथेहापि भविष्यतीति ।
परिहारान्तरमाह—अग्निहोत्रमितिवन्निर्द्देशार्थत्वाद्विपरिणम्यापि सम्भवात्तृतीयानिर्देशाऽविरोधः । अयमर्थः । यथा“ऽग्निहोत्रं जुहुयात्स्वर्गकाम” इत्यग्निहोत्रमिति तृतीयार्थे द्वितीया तथा दर्शपूर्णमासाभ्यामिति तृतीया द्वितीयार्थे भविष्यति । निर्देशार्थत्वादिति । निर्द्देश्यत इतिनिर्देशः कर्मरूपार्थस्तदर्थत्वाद्विपरिणामस्तृतीयाया इत्यर्थः । परिहरति—वार्तमेतत् । तथा हि ।
नित्यं नित्येहितोपाये यावज्जीवमिति श्रुतेः ।
अङ्गान्यतो यथाशक्ति न वा सर्वाणि चान्यथा ॥
न तावदिष्टसाधनत्वे नित्यत्वविहतिः, नित्येष्टस्यैव साध्यत्वकल्पनाद् दुरितनिर्हरणस्य विश्वजिदादिभ्यो वैलक्षण्यम् । प्रवृत्तेरवश्यम्भावायाह—सुखे तद्धेतौ वा कदाचिन्माध्यस्थ्यमित्यालस्यादिभ्यो दुःखतद्धेतुभ्यां तु सर्वदोद्विजमानस्य तन्निवृत्तौ सर्वदा कामः । ननु हितकामनासमये नाऽसावस्तीति
प्रेप्सतस्तस्य प्रतिबन्धक्षये समीहाऽस्त्येव । तस्मादिष्टनिबन्धनः पाप्मनः क्षयः सदा समीहितः । नित्यानां कर्म्मणां फलनित्यत्वादेव यावज्जीवमिति शब्दावगतादिति न नित्यत्वविरोधः । अनित्ये हि साध्ये सा विहन्येत । यथाशक्त्युपसंहारश्च नित्यत्वादेवाऽहीनाङ्गस्य नित्यं क्रियासम्भवात् । न चेदं वास्तवं नित्यत्वं, न हि फलवादिनो यावज्जीवशब्दं नामनन्ति491 फलविशेषशब्दं वाऽधीयते, किं तु याज्जीवश्रुतेरवगतनित्यत्वास्तत एवाऽर्थापत्त्या फलभेदप्रयोगभेदौ कदाचिदुन्नयन्ति । अनित्ये साध्ये परिपूर्णाङ्गे च प्रयोगे यावज्जीवशब्दाधिगतनित्यकर्त्तव्यताऽनुपपत्तिः । न हि कदाचिदीप्सितोपायात्मिकायां कर्त्तव्यतायां परिपूर्णाङ्गसाधनात्मिकायां च यावज्जीशब्दोऽन्वेति । नित्यत्वाच्च कल्पितः फलभेदो न तदेव बाधते । कथं तर्हि नित्येप्सितोपायत्वान्नित्यत्वमुक्तम् ? शब्दाऽवगतस्यैव तस्याऽविघातः शब्दसामर्थ्यलभ्येनैव तेनोक्तो यथाशक्ति प्रयोगेण तन्त्रेण च । तत एवाऽनयोर्मानान्तरं मृग्यम् ।
कथं सर्वदा ? इत्यत आह—हितमपि च प्रेप्सतस्तयेष्टस्य प्रतिबन्धक्षये प्रतिबन्ध्यतेऽनेनेति दुरितं प्रतिबन्धस्तस्य क्षये समीहाऽस्त्येव । तस्मान्नित्येप्सितोपायत्वफलवत्त्वयोरविरोध इत्याह—तस्मादिष्टनिबन्धनः पाप्मनः क्षयः सर्वदा समीहितः । नित्यानां कर्मणां फलनित्यत्वादेव याज्जीवमिति शब्दाऽवगतादिति न नित्यताविरोधः । यदनुपपत्त्या यत्कल्प्यते न तेन तदेव बाध्यतइत्यर्थः । न च तस्य स्वभाव एव कर्मणो नित्यताविरोधीति व्यतिरेकमुखेन दर्शयति—अनित्ये साध्ये सा विहन्येत । इदं नित्यं समीहितम् । यथाशक्त्यनुष्ठेयत्वस्याऽविरोधमाह—यथाशक्त्युपसंहारश्च नित्यत्वादेव । कुतः ? अहीनाङ्गस्य नित्यं क्रियासम्भवो यतः । न चेदं वास्तवं नित्यत्वं येन प्रमेयं सदङ्गविधं न व्यवस्थापयेत्, अपि तु शब्दमेव कुतः ? न हि फलवादिनो यावज्जीवशब्दं नामनन्ति, फलविशेषशब्दमेव वाऽधीयते । यतः शब्दावगतान्नित्यत्वान्नैवंविधं फलं कल्पयेरन् । किं तु यावज्जीवश्रुतेरवगतनित्यत्वात्तत एवार्थापत्त्या फलभेदप्रयोगभेदावुन्नयन्ति । अर्थापत्तिं दर्शयति—अनित्ये साध्ये परिपूर्णाङ्गे च प्रयोगे यावज्जीशब्दाऽवगतनित्यकर्त्तव्यताऽनुपपत्तिः न हि कदाचिदीप्सितोपायात्मिकायां कर्त्तव्यतायां परिपूर्णाङ्गसाधनात्मको यावज्जीवशब्दोऽन्वेति । नित्यत्वाच्च कल्पितः फलभेदो न तदेव वाधते अपि तु तदधीनाऽऽत्मलाभत्वात्तदनुगुणात्मूलाभत्वात्तदनुगुणात्मतया व्यवतिष्ठते । यदि शब्दाऽवगम्यमेव नित्यत्वं कथं तर्हि नित्येप्सितोपायत्वान्नित्यत्वमुक्तम् ? परिहरति—शब्दाऽवगतस्यैव यावज्जीवमिति शब्दावगतस्यैव कर्मनित्यत्वस्याऽविघातः शब्दसामर्थ्यलभ्येनैव तेन नित्यसमीहितोपायत्वेनोक्तो यथाशक्ति प्रयोगेण तन्त्रेण च ।
कथं चेदं नित्यत्वं कर्मणो यदि नित्यसमीहितसाधनत्व मि?ति नित्याऽनुष्ठानादेतदकरणे प्रत्यवायान्नित्यक्रिया शब्दादेव । नैतत् । शब्दादेव चेदस्य कर्त्तव्यता किमर्थमकरणे प्रत्यवायकल्पना ? शब्दादेव प्रवृत्तिसिद्धेः । न च शब्दः कारकत्वेन प्रवृत्तिहेतुरित्युक्तम् ज्ञापकत्वे चाकरणे प्रत्यवायज्ञापनान्नि-
प्रसङ्गात् किञ्चिदाह—तत एव यतो यावज्जीवश्रुतिविशिष्टया लिङा नित्येप्सितमिह फलं कल्पितं तत उभयोरपि काम्यनित्ययोः कर्मणोः कामनाकृतप्रवृत्तित्वेनाऽगृह्यमाणविशेषतया साधारणतया तन्त्रमनुष्ठानमस्मदभिमतं सिध्यति ।
मीमांसकैकदेशिनस्तु काम्ये क्रियमाणे प्रवृत्तौ नियोगात् कामनाया बलीयस्त्वान्नित्यस्यैकदेशकालकर्तृकतया प्रासङ्गिकीं सिद्धिं मन्यन्ते । तदिदमसाम्प्रतम । यदि हि नैसर्गिकी कामनिबन्धना प्रवृत्तिर्नियोगनिबन्धनायाः प्रवृत्तेर्बलीयसी स्यात् ततो भवन्मतेन प्रत्यग्रक्लेशधनव्ययपराङ्मुखा नित्यनैमित्तिकेषु प्रवर्त्तयत्यपि नियोगे न प्रवर्त्तेरन् । तथा निषिद्धेभ्यो हिंसादिभ्यो न निवर्त्तेरन्निति नित्यनैमित्तिकनिषेधगोचराः खलु विधयो दत्तजलाञ्जलयः प्रसज्येरन् । स्यादेतत् । केवला कामना विधेर्दुर्बला, विध्यनुगृहीता तु वलीयसी नाऽनुग्रहार्था भवेत । न हि नित्यनैमित्तकेषु विधिना प्रवृत्तौ कर्त्तव्यतायां कामनायाः कश्चिदुपयोगः । नापि दृष्टार्थेषु काम्येषु तदा विधेरुपयोगः । तस्मान्न काम्येऽनुष्ठीयमाने प्रासङ्गिकत्वं नित्यस्य । तस्मादस्मन्मतावलम्बनेन तन्त्रतैव रमणीयेति ।
क्वचित् पाठः न तु तत एवेति । अस्यार्थः न तु नित्यसमीहितोपायत्वाद्यथाशक्तिप्रयोगाच्च नित्यत्वकल्पना, किं तु श्रुतादेव नित्यत्वादेतदुभयमिति । अन्यथेति यथार्था स्यादिति । तयोश्च नित्यसमीहितोपायत्वं यथाशक्त्यनुष्ठानयोर्मानान्तरं मृग्यम् । यदि पुनर्यावज्जीवश्रुतिप्रतिपन्ननित्यत्वोपपादनार्थं नित्यसमीहितफलकल्पनायामपि वास्तवी नित्यता न शाब्दीति मन्येत तत्राह—कथं चेदं वास्तवं नित्यत्वं कर्मणो यदि नित्यसमीहितसाधनत्वमिति । नित्याऽनुष्ठानात्परस्याप्येत्तत्तुल्यमित्याह—अकरणे प्रत्यवायादितरस्याप्यनुष्ठानमिति तुल्यम् । शब्दपूर्वकत्वेन तत्कल्पनायामङ्गीक्रियमाणायां नाऽशब्दनित्यत्वमुभयोः परस्याऽऽत्मनश्च । पर आह—नाऽकरणे प्रत्यवायादस्मन्मते नित्यक्रिया किं तु शब्दादेव । परिहरति—नैतत् । शब्दादेव चेदवश्यकर्त्तव्यता किमर्थमकरणे प्रत्यवायकल्पना ? शब्दादेव प्रवृत्तिसिद्धेः । ननु शब्द एव स्वरूपेण प्रवर्त्तयिष्यति मा च भूदकरणे प्रत्यवाय इत्याशङ्क्याह—न च शब्दः कारकत्वेन प्रवृत्तिहेतुरित्युक्तम् । ज्ञापकत्वे चाऽकरणे
त्यनुष्ठापयतीति वास्तवमेव स्यात् । तस्मादव्यवस्थितविधितत्त्वानामीदृशा नानाविधाः समुल्लासाः । कृच्छविश्वजितोस्तु सदा सर्वस्य समीहितसाधनयोरपि सर्वस्य सर्वदेति शब्दस्याऽभावात्सर्वाङ्गप्रयोगः । ननु फलवत्त्वे शक्त्यनुसार एव न सम्भवति, वैगुण्यात्फलाभावप्रसङ्गात् किमिदं वैगुण्यम् ? चोदनार्थत्वहानिः, न तर्हि वैगुण्यम्, यावज्जीविके यथाशक्त्यङ्गोपेतेऽपि चोदनार्थत्वात् अचोदनार्थत्वे वा शक्तेरफलत्वेऽपि सर्वाङ्गोपसंहारोऽन्यथा चोदनार्थनिवृत्त्यभावाच्चेति । तदा क्रियाव्यतिरिक्तसाध्याभावान्नाङ्गापेक्षा । अनङ्गत्वमेव प्राप्तम्, कर्म्मणो विज्ञातोपायत्वात् । क्रियाऽपि विधेयरूपेण ज्ञातस्वभावा चोदनार्थनिर्वृत्तये अपेक्षतेऽङ्गानीति चेत्, सर्वाङ्गोपसंहारप्रसङ्गः । अथाऽऽख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति यावज्जीवश्रुतेः शक्तिश्चोदनार्थः । फलवादिनो न सा दण्डवारिता । किं चेदं रूपं चोदनायाः । यदि
प्रत्यवायज्ञापनान्नित्यमनुष्ठापयतीति वास्तवमेव नित्यत्वं स्यात् । उपसंहरति— तस्मादव्यवस्थितविधितत्त्वानामीदृशा नानाविधाः समुल्लासाः ।
यत्तु विश्वजिदादिवदित्युक्तम्, तत्र वैधर्म्यमाह—कृच्छविश्वजितोस्तु सदा सर्वस्य समीहितसाधनयोरपि सर्वस्य सर्वदेति शब्दस्याऽभावत्सर्वाङ्गप्रयोगः । चोदयति—ननु फलवत्त्वे शक्त्यनुसार एव न सम्भवति, वैगुण्याद्धेतोः फलाऽभावप्रसङ्गात् । साधनाद्धि फलेनोत्पत्तव्यम्, । अङ्गसाकल्यवच्च साधनं नाङ्गवैकल्ये सति तत्त्वे व्यवस्थातुमर्हतीत्यर्थः । परिहरति—किमिदं वैगुण्यम् । ? यद्युच्येत चोदनार्थत्वस्य हानिस्तत्राह—न तर्हि वैगुण्यम् । कुतः ? यावज्जीविके यथाशक्त्यङ्गोपेतेऽपि चोदनार्थत्वात् । यावज्जोवशब्दस्यैष महिमा यत्कतिपयाऽङ्गविकलमपि साधनं फलाय कल्पते इत्यर्थः । न चेदेवं परमतेऽपि तुल्यः प्रसङ्ग इत्याह—अचोदनार्थत्वे वा शक्तेरफलत्वेऽपि सर्वाङ्गोपसंहारः । कुतः ? यावज्जीवशब्दाऽनादरे यो यदेत्युपबन्धात्साङ्गस्याऽफलस्यापि चोदनार्थत्वत्किञ्चिदङ्गवैकल्ये चोदनार्थनिर्वृत्त्यभावात् । यद्युच्येत तदा क्रियाव्यतिरिक्तसाध्याऽभावान्नाङ्गापेक्षा साध्याऽभावसूचनपरश्च यावज्जीवशब्द इति । दूषयति—अनङ्गत्वमेव तर्हि युक्तं कर्मणः । कुतः ? विज्ञातोपायत्वात् । शङ्कते—क्रियापि विधेयरूपेणाऽज्ञातस्वभावा चोदनार्थनिर्वृत्तयेऽपेक्षतेऽङ्गानीति चेत् । यद्यपि क्रियास्वरूपं लौकिकं लौकिकोपायसाध्यं च, तथापि चोदसागम्येन रूपेणालौकिकत्वात् साङ्गस्य चोदनार्थत्वादङ्गानामप्यनुष्ठानं युक्तमित्यर्थः । निराचष्टे—सर्वाङ्गोपसंहारप्रसङ्गः । आशङ्क्य साम्यमाह—अथाऽऽख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति यावज्जीवश्रुतेः शक्तिश्चोदनायाः । फलवादिनोऽपि सा न 492
दर्शपूर्णमाससञ्ज्ञकं तदुत्पत्तिवाक्याऽवगतमित्यनौत्पत्तिकानामभावः । अथान्यन्न तच्छेयःसाधनत्वात् । यथोक्तम् “श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते”इति । तस्याऽयमभ्युपाय इति हि तेषामुपदेशऽ इति च । नाऽप्यकरणे प्रत्यवायहेतुता, असतो हेतुत्वाऽनुपपत्तेः ।
दण्डेन वारिता । अपि च किं चेदं रूपं चोदनार्थः, कर्मस्वरूपं हि देवतोद्देशेन पुरोडाशत्यागात्मकम्, तच्च मानान्तरात्समधिगम्यमिति न चोदनार्थस्तत्र प्रमाणमिति भावः ।
ननु भवतु कर्मस्वरूपं मानान्तरवेद्यं यत्पुनरेतस्याष्टसु कपालेषु संस्कृतपुरोडाशद्रव्यत्वमग्निदेवतात्वं च त“दाग्नेयोऽष्टाकपाल” इत्येतस्मादुत्पत्तिवाक्यादन्यतोऽशक्यावगममिति । न चोत्पत्तिवाक्याऽवगतविविधविशेषणे कर्मणि न्यूनाऽतिरेककरणाय प्रमाणान्तरं प्रभवति, तत्करणे तत्स्वरूपग्रहणप्रसङ्गादन्यतस्तदविज्ञानादित्याशयवानाशङ्कते—यदि दर्शपूर्णमाससञ्ज्ञकम् । निराकरोति—तदुत्पत्तिवाक्याऽवगतमित्यनौत्पत्तिकानामभावः प्रसज्येत । यन्मात्रमेव हि द्रव्यदेवतादिकमङ्गमुत्पत्तिवाक्याऽवगतं तावतोऽशक्यहानत्वात्तद्धाने कर्मस्वरूपहानप्रसङ्गात् । मा भूत्परित्यागः, अन्यानि यानि पुनरङ्गान्युत्पत्तिकर्मसम्बन्धीनि सन्निपत्योपकारकाण्यवधातादीन्यारादुपकारकाणि च प्रयाजादीन्यनौत्पत्तिकान्याग्नेयाद्युत्पत्त्यसम्बन्धीनि तेषामभावप्रसङ्गः । न खलु तेषां प्रहाणे कर्मस्वरूपं निरपेक्षोत्पत्तिवाक्यावगतं विद्यते । अथाऽन्यन्न तच्छेयःसाधनत्वात् । यथोक्तं श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयतेऽ “तस्यायमभ्युपाय इति हि तेषामुपदेश” इति च ।
यत्पुनरुक्तं यावज्जीवोपधानाल्लिङोऽवश्यकर्त्तव्यता कर्मणोऽवगम्यते । लोकश्च तदवश्यकर्त्तव्यमवगच्छति यदकरणे प्रत्यवायो भवति, भयाद्धि यादृशी प्रवृत्तिर्न तादृशी लोभात्, तदकरणनिमित्तप्रत्यवायमेव कल्पयिष्यामो न पुनरुपात्तदुरितक्षयलक्षणं फलम् । तथा सत्यकुर्वन्विहितं कर्मेत्यादिभूयांसि वचांसि धर्मशास्त्रकाराणां वाक्यशेषश्च “यो ह वे”त्युपपत्स्यते इत्यत आह— नाप्यकरणे प्रत्यवायहेतुता । असतो हेतुत्वाऽनुपपत्तेः । अयमर्थः । सत्यं करणेनाऽकरणं निवर्तते । किमिति पुनस्तन्निवर्त्तनीयम् । प्रत्यवायहेतुत्वादिति चेत् । तदसत् । कुतः ? असतो हेतुत्वाऽनुपपत्तेः । न च करणेन भावरूपेण प्रत्यवायाऽभावः प्रागभावरूपः शक्योपजनः । ननु च नित्याऽकरणे तत्कालेऽन्यान्येव कर्माणि कानिचिदन्ततो निमेषादीन्यपि तानि प्रत्यवायं जनयन्ति । नित्यक्रियायां तु सन्त्यपि तानि न जनयन्तीत्येवं
तुल्ये च साध्यत्वे नाऽनुपपत्तिः प्रयाजादीनाम् ।
न हि स्वरूपे कार्ये वाऽनुपयोग्यङ्गम् । प्रयुक्तेरप्येवंविधस्याऽभावात् । न च दुःखत्वात्कर्मण आनुषङ्गिकात्पापक्षयात्प्रवृत्तिरशास्त्रीयत्वे किमिति न कल्प्यते ? न शक्यं कल्पयितुम् । तथा हि । यावज्जीवं जुहुयादिति होमाऽनुरक्तायां भावनायां पुरुषं प्रवर्त्तयतीति प्रवर्त्तना, सा चाऽन्वयव्यतिरेकाभ्यामपेक्षितोपायतैव प्रवृत्तिविषयस्य निवर्त्तना वाऽनर्थसाधनता निवृत्तिविषयस्य । तद्यत्र प्रवर्त्तयति यतश्च निवर्त्तयति तस्यैव हितोपायत्वमहितोपायत्वं च प्रतिपादयति । न पुनरन्यस्य नित्यसमये क्रियमाणस्य कर्मणः प्रत्यवायहेतुतामवगमयितुमुत्सहते । श्रुतिसम्भवे लक्षणाश्रयणाऽयोगात् ।
यच्चोक्तं भयात् प्रवृत्तिर्ध्रुवभाविनी न तथा लोभादिति । सत्यमेतत् । वाङ्मनःशरीरचेष्टाभिर्दशविधाभिर्निषिद्धत्वेन विवेकिना परिह्रियमाणाभिरपि दैवाद्दिवानिशमुपगताभिराधीयमानात्पाप्मनो विविधदुःसहदुःखबीजाद्विभ्यतस्तत्प्रत्यक्षलक्षणसमीहितसाधनेऽपि ध्रुवप्रवृत्तयो भवन्त्येव । न च क्वचित्समीहितसाधनता, क्वचिदपरामृष्टेष्टसाधनत्वं लिङर्थ इति युक्तम् । ऐकात्म्ये सम्भवत्यव्याप्यत्वादर्थवैचित्र्यस्याऽव्यवस्थाप्रसङ्गात् । न च स्मृतिविरोधः । समीहितसाधनत्वेऽपि नित्यानां यदा न तानि क्रियन्ते तदा दुरितान्यक्षीणानि प्रायश्चित्तान्तरेण क्षेष्यन्त इति नाऽनुपपत्तिः । वाक्यशेषोऽपि सन्देहेऽपेक्षितो निर्णयहेतुतां प्रतिपद्यते । अपेक्षितोपायत्वे विधावुपात्तदुरितक्षयप्रत्यवायाऽभावस्याऽसन्देहान्नित्यानां न वाक्यशेषापेक्षाऽस्तीति अर्थवादमात्रं वाक्यशेष इति कृतं विस्तरेण ।
किं चाऽस्मिन्मते तुल्ये च साध्यत्वे प्रयाजादीनां दर्शपूर्णमासयोश्चतृतीयाया अपि द्वितीयार्थे व्याख्यानाद्भावनायां वा कथञ्चित्करणभावेनोपपादनात्प्रयाजादीनामङ्गत्वाऽनुपपत्तिः । विनियोजकप्रमाणाभावात् । कर्त्तव्यस्य हीतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणमाचक्षते । तदिह दर्शपूर्णमासयोर्नित्ययोर्निष्फलत्वेन प्रयाजादीनां च यावद्दर्शपूर्णमासौ कर्त्तव्यतया प्रयाजादीन् नापेक्षेते तावत्प्रयाजादयोऽपि किमिति दर्शपूर्णमासौ अपेक्षन्ते ? इति न प्रकरणं विनियोजकं भवितुमर्हति । न च प्रकरणव्यतिरिक्तमेषां प्रयोजकं प्रमाणान्तरं प्रतिज्ञायते प्रज्ञायते वा । न च द्वारकार्याभावेऽङ्गता युक्ता । तस्यास्तद्व्याप्यत्वेन तन्निवृत्तौ निवृत्तेरित्याह—न हि स्वरूपे कार्ये वाऽनुपयोग्यङ्गम् ।
तप्तशिलारोहणादिवत् । पापकृतत्वे च पुरुषकारवैयर्थ्यात् । अतत्कृतत्वे वा नाशाऽभावात् । शास्त्रीयेण तूपायेन विपाचने न दोषः ।
यदि तर्हि फलवत्यपि न सर्वाङ्गोपसंहारः काम्येऽपि तथा स्यात् । यावज्जीवश्रुतेरितरत्रैवमिति चेत् । इहापि स्वर्गकामश्रुतेरस्तु । यथैव यावज्जीवमशक्यमहीनाङ्गं तथा सर्वेण स्वर्गकामेन तत्र यत्था यदा यावन्ति शक्नोति तदा तावतामुपसंहारः, तथा यो यावन्ति शक्नोति स तावन्त्युपसंहरिष्यति । अङ्गविधिविरोधाद्धि स्वर्गकामश्रुतिरर्थिमात्रविषया विशेषमनुरुध्यते493 शक्त्यपेक्षायां त्वङ्गविध्यविरोधे नित्यवन्न विशेषानुरोधहेतुः ।
ननु मा भूदविनियोजकम्, प्रकरणादिप्रयुक्तिरेव तु विधेराक्षेपाऽपरनामा लिङ्गसङ्ख्यादीनामिव प्रयाजादीनामङ्गत्वं गमयिष्यतीत्यत आह—प्रयुक्तेरप्येवंविधस्याऽभावादेवंविधस्येति दर्शपूर्णमासाभ्यां साध्यत्वेन तुल्यस्यापि नियुक्तस्य न प्रयुक्तिरुपादानं सम्भवति विनियोगाऽनुसारित्वादुपादानस्य । अतएव “नोद्यन्तमादित्यमीक्षेत”, “सुवर्ण भार्य”मित्येवमादयो विनियोगाऽभावात् क्रतुविधिनाऽनाक्षिप्यमाणाः क्रत्वर्था न भवन्ति । न च दुःखत्वात्कर्मण आनुषङ्गिकात् पापक्षयात्प्रवृत्तिः अशास्त्रीयत्वे तप्तशिलारोहणादिवत् । अपि च तस्य नित्यक्रियाजन्मनो दुःखस्याऽऽक्षिप्तपापकृतत्वे विधानमनर्थकम्, नित्यानां कर्मणां प्राग्भवीयपापपरिपाकादेवोत्पादात्पुरुषकारवैयर्थ्यात् । अतत्कृतत्वे वा नाशाभावात्स्वफलविरोधित्वात्पापस्य । ननु यद्यकृतेन विधिना नाश्यते पाप्मा कथं तर्हि त्वन्मतेऽपि नित्यात्कर्मणो विनङ्क्ष्यतीत्यत आह— शास्त्रीयेण तूपायेन विपाचने न दोषः प्रायश्चित्तैरिव । पाचनं फलजननाऽभिमुखीभावः, तस्यैकान्तिकी निवृत्तिर्विपाचनं चिरम्भावार्थः । शास्त्रगम्योऽयमर्थो न पर्यनुयोगमर्हति, तप्तशिलारोहणादि तु न शास्त्रयुक्तिगोचर इति भावः ।
अथ चोदयति—यदि तर्हि फलवत्यपि न सर्वाङ्गोपसंहारः, काम्येऽपि तथा स्यात् । चोदक एवाऽऽशङ्क्य परिहरति—यावज्जीवश्रुतेरितरत्र नित्ये एव न सर्वाङ्गोपसंहार इति चेत् । इहापि स्वर्गकामश्रुतेरस्तु । एकग्रन्थेनाह— यथैव यावज्जीवमशक्यमहीनाङ्गं तथा सर्वेण स्वर्गकामेन यत्र यथा नित्ये यदा यावन्ति शक्रोति तदा तावतामुपसंहारः तथा काम्येऽपि यो यावन्ति शक्नोति स तावन्त्युपसंहरिष्यति ।
स्यादेतत् । अङ्गानां नित्यवद्विधानात् व्यवस्थायां च तदनुपपत्तेर्नार्थिमात्रमधिकृत्य विधेरुपपत्तिः । अर्थिश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थविषयत्वेनाप्युपपन्ना । न ह्यसौ न स्वर्गकामस्तस्मात्काम्येषु यो यदेत्येव युक्तमित्यत
अथ मतम् अनुपरोधे स्वर्गकामश्रुतेरङ्गविधय एवोपरुध्येरन्नविशेषप्रवृत्ता यथाशक्तिव्यवस्थायाम् । नित्येऽपि तुल्यम् । यावज्जीवश्रुतेरनन्यगतित्वात् । तत्रैवङ्कामश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थेऽप्युपपन्नैव । तत्राऽविरोधात् कांस्यभोजिन्यायेन तदनुरोधेनाङ्गिवृत्तिः । सत्यमविरोधेन दर्शितस्तु स्वर्गकामश्रुतेर्विषयसङ्कोचलक्षणो विरोधः । तत्राऽप्रधानविरोधे प्रधानाऽनुरोधः श्रेयान्,
आह—अङ्गविधिविरोधाद्धि स्वर्गकामश्रुतिरर्थिमात्रविषयापि विशेषमनुरुध्यते । शक्त्यपेक्षायां त्वङ्गविध्यविरोधे च नित्यवन्न विशेषाऽनुरोधहेतुरस्ति तस्याः । अस्यार्थः । सति विरोधेऽङ्गविधिभिः स्वर्गकामश्रुतिरविशेषप्रवृत्ता विशिष्टविषया व्याख्येया, नित्यवत्तु यो यावन्ति शक्नोतीति शक्त्यपेक्षायामङ्गविधीनामविरोधेन स्वर्गकामश्रुतेः प्रस्थितायाः सङ्कोचो न्याय्यः । अथोच्येत, विषयसङ्कोचलक्षणस्तावदुपरोधोऽङ्गविधीनां स्वर्गकामश्रुतेश्च तुल्यस्तत्राङ्गविधीनां बहुत्वात्तदनुरोधेन वरं स्वर्गकामश्रुतिरेकोऽवरुध्यतामिति ।
शङ्कते—अथ मतमनुपरोधे स्वर्गकामश्रुतेरङ्गविधय उपरुध्येरन्नविशेषप्रवृत्ता यथाशक्तिव्यवस्थायामिति । परिहरति—नित्येऽपि तुल्यमिति । तत्राप्येकैव यावज्जीवश्रुतिरङ्गविधयश्च बहव इति भावः । स्यादेतत् । यदि नित्ये यदा यावन्त्यङ्गानीति शक्त्यपेक्षा नाश्रीयेत ततो यावज्जीवश्रुतिरत्यन्तं बाध्येत । न ह्यस्ति सम्भवो यावज्जीवं यजेत सर्वाङ्गोपसंहारेणेति । अस्ति तु सम्भवः स्वर्गकामो यजेत सर्वाङ्गोपसंहारेणेति । नहि सर्वाङ्गोपसंहारसमर्थस्य स्वर्गकामस्य स्वर्गकामपदमवाचकमित्याह—यावज्जीवश्रुतेरनन्यगतित्वात् । तत्रैवङ्कामश्रुतिस्तु सर्वाङ्गोपसंहारसमर्थेऽप्युपपन्नैवेति ।
ननु भवतु समर्थोऽपि स्वर्गकामस्तथापि तत्पदमनियतवृत्ति सत् कथमप्रधानैरङ्गविधिभिर्नियम्यते ? इत्याशङ्क्याह—तत्राऽविरोधात् कांस्यभोजिन्यायेन तदनुरोधेनाङ्गिविधिवृत्तिरिति । अयमर्थः । कामिपदं हि कामोपाधिना प्रतिपुरुषवृत्त्यङ्गविधिविरोधेन समर्थे नियम्यमानमपि विरुध्येत कांस्यभोजिन्यायेन । तद्यथोपाध्यायः प्रधानो नित्यं तत्तत्पात्रभोजी शिष्यस्त्वप्रधानः कांस्यपात्र एव भुङ्ते, तत्र प्रवृत्तिलाघवादेकस्मिन्पात्रे उपादातव्ये यदि प्रधानोपायाऽनुरोधाद्यत्किञ्चित्पात्रमुपादीयेत शिष्यस्य भोजनं न सम्पद्येत । कांस्यपात्रे तूपादीयमाने नाऽनियतपात्रभोजनमुपाध्यायस्य भोजनविरोधः । तेनाऽविरोधे प्रधानमपि गुणाऽनुरोधान्नियम्यतएवेति तदनुरोधेनेति अङ्गविध्यविरोधेनाङ्गिविधिवृत्तिरिति । तदेतद् दूषयति-सत्यमविरोधो दर्शितस्तु स्वर्गकामश्रुतेर्विषयसङ्कोचलक्षणो विरोध इति । ना कांस्यपात्रभोजिन्यायस्य विषयः । तथा हि । तत्राऽनियतपात्रभोजनोऽप्युपाध्यायो न
लोकवत् । यथा हि ब्राह्मणान्भोजय नानाविधोपकरणेनाऽन्नेनेति यथाशक्त्युपकरणव्यवस्थानोपकरणाऽनुरोधेन ब्राह्मणनियमः । एवं चाऽङ्गविधीनामपि नाऽत्यन्तसापेक्षत्वम् । ततः काम्येष्वपि यथा शक्नुयादित्येवास्तु, न यो यदा शक्नुयादिति, अवैलक्षण्यात् । नैतत्सारम् । एकप्रयोगविधिवैरूप्यप्रसङ्गादनेक-
सहसैव सर्वेषु पात्रेषु भुङ्क्ते येन नियतपात्रभोजिना शिष्येण विरुध्येत, कामश्रुतिस्तु कामसम्बन्धमात्रलब्धवृत्तिः सकृदेव समर्थमसमर्थ वाऽर्थिमात्रमुपस्थापयन्ती समर्थेऽर्थिनि व्यवस्थाप्यमाना कथं नाङ्गविधिभिरुपरुध्येत ? इति ।
ननु भवतु विरोधस्तथापि भूयस्त्वादङ्गविषयो बलीयसो बाधिष्यन्त इत्याशङ्क्याह—तत्राङ्गप्रधानविरोधे प्रधानाऽनुरोधः श्रेयान् लोकवदिति । सर्वथा साम्ये हि भूयस्त्वं बलीयस्त्वे हेतुः, इह कामश्रुतिरेकापि प्राधान्याद् भूयसोऽप्यप्रधानतयाऽङ्गविधीन् व्यवस्थापयितुमर्हत्येवेत्यर्थः ।
लोकवदिति दृष्टान्तं व्याचष्टे—यथा ब्राह्मणान् भोजयाऽनेन नानाविधोपकरणेनाऽन्नेनेति यथा ब्राह्मणशक्त्युपकरणव्यवस्थानोपकरणाऽनुरोधेन ब्राह्मणनियमः । यदा तु कामश्रुतेरसङ्कोचो नाङ्गविधीनां यो यावन्त्यङ्गानि समर्थ उपहर्तुं स तावद्भिरुपेतं प्रधानं निवर्त्तयतीति व्यवस्थापना तदा प्रधानविधिरङ्गानि कानिचित्कदाचिदपेक्षते कदाचिन्नेति नैकान्तोऽङ्गविध्यपेक्षा भवति, यथा “केशश्मश्रु वपते न वे”ति विधिप्रतिषेधसामर्थ्यलब्धजन्मनि विकल्पाऽवगमे सति नैकान्ततः प्रधानविधिरङ्गं वपनमपेक्षेतैव किं त्वपेक्षेतापि तथैते सर्वेऽपि कामविधयोऽङ्गानीति सिद्धं भवतीत्याह—एवं चाऽङ्गविधीनामपि नात्यन्तसापेक्षतेति । एवं च सर्वेषामेव नित्यकाम्यविधीनामवैरूप्यं स्यादित्याह—ततः काम्येष्वपि यथा शक्नुयादित्येवास्तु, न यो यथा शक्नुयादिति, अवैलक्षण्यात् ।
तदेतद् दूषयति—नैतत्सारम् । एकप्रयोगविधिवैरूप्यप्रसङ्गादिति । अयमर्थः । सकृत्प्रवृत्ता खल्वियं कामश्रुतिरर्थिमात्रविषया यदि सर्वानेवाऽविशेषेणार्थिनोऽन्धादीन् विकलाऽवयवांश्चोपस्थापयैत्तदा स्वर्गकामोपहितमर्यादोऽयं प्रयोगवचनो नयनवन्तं स्वर्गकामं प्रत्याज्यावेक्षणं विदधाति अन्धं च स्वर्गकामं प्रति स एव तदेव न विदधातीति वैरूप्यं प्रसज्येत । न ह्यन्धादिपदान्यर्थिपदेन सह समभिव्याहृतानि, येन व्यवस्था स्यात् । ननु नैकशः प्रयोगवचनाङ्गे प्रवर्त्तते येन तस्य वैरूप्यं स्यात् किं त्वेकफलसम्बन्धानर्थानेकप्रधानोपकार494 सम्बन्धांश्चैकस्य कर्तुरेकव्यापारतामापादयति, तथा च न प्रयोगविधिरङ्गानि प्रापयति किं तर्हि प्राप्तान्यङ्गान्यभिसमीक्ष्योपसंहरति
प्रयोगकल्पनाप्रसङ्गात् । केवलपदार्थव्यवहाराभावाद्विशेषश्रुतेरविरोधाच्च । स एव प्रयोगविधिस्तस्यैवाऽङ्गस्य प्रयोगं तमेव प्रतिविदधाति न विदधातीति495 स्यात् । कल्पनागौरवं च, सामर्थ्यभेदेन प्रयोगभेदात् । पदस्य च पदान्तर-
एकप्रयोगमापादयतीति यावत् । तेन यथा श्रुत्यादिप्रापितान्यङ्गानि तदनुसारेणैव प्रयोगवचनेनोपसंह्रियन्ते तथाऽऽख्यातानामर्थ ब्रुवतां शक्तिः सहकारिणीति स्रुवाऽऽज्यावदानवत्कर्तृसामर्थ्यस्यापि प्रापकत्वादन्धस्वर्गकामकर्तृसामर्थ्याऽनुसारेणाऽऽज्यावेक्षणमात्रवर्जितमङ्गजातमुपसंहरिष्यति । चक्षुष्मन्तं तु प्रति तत्सहितमिति को विरोधः ? यदि चक्षुष्मन्तमेव प्रत्युपसंहरेत् नोपसंहरेच्च ततो भवेत्प्रयोगविधिवैरूप्यलक्षणो विरोध इत्याशङ्क्याह— अनेकप्रयोगकल्पनाप्रसङ्गादिति । मा प्रापद्विरोधलक्षणं वैरूप्यं समर्थाऽसमर्थार्थिसमन्वयव्यवस्थापनया तत्तदङ्गोपादानपरिवर्जनाऽऽपादितप्रयोगभेदरूपं तु प्रयोगवैरूप्यं कल्पनागौरवापादकं प्रयोगवचनः प्रतिपद्यत एवेत्यर्थः ।
ननु च प्रामाणिकं कल्पनागौरवमपि न दोषमावहति । अस्ति चाऽत्र प्रमाणं स्वर्गकामश्रुतेरसङ्कोचः सामान्येन प्रवृत्तायाः । ऐकरूप्ये तु प्रयोगस्य सङ्कोचे विरोधः स्यादित्याशङ्क्याह—केवलपदार्थव्यवहाराऽभावाद्विशेषश्रुतेरविरोधाच्च । अयमर्थः । प्रत्यायनाय पदान्युच्चारयन्ति प्रेक्षावन्तः, स एव च तैरर्थो बोधयितव्यो यो बुभुत्सितः परैः तमेव च परे बुभुत्सन्ते यो व्यवहाराङ्गम्, न चाऽविशिष्टपदार्थसाध्योऽस्ति कश्चिद्व्यवहारः, तेन यद्यपि पदात्पदार्थमात्रमवगम्यते तथापि तन्मात्रं न व्यवहाराङ्गमित्यपर्यवस्यत् पदार्थान्तरं विशेषमपेक्षमाणं यत्पदान्तरेण योग्यमुपनीयते पदार्थान्तरं तदवच्छेदमनुमन्यतेतरां प्रयोगे, न तु प्रतिक्षेपकरणमन्यथा496 वाक्यार्थप्रत्ययाऽभावात्तदुच्छिन्नपदशङ्क्यमत्यन्तं मूकं जगत्प्रसज्येत । तदिह स्वर्गकामश्रुतिरपि लोकाऽनुसारेण स्वार्थमात्रे पर्यवस्यन्ती पदान्तरेण वाक्यान्तरेण वा योग्येन य एव विशेषः कश्चिदुपनीयते तमनुमन्यमाना न सङ्कोचेन हूयते । न हि तथा सर्वाङ्गोपसंहारसामर्थ्यविशेषणेऽर्थिनि लभ्यमाने न लब्धः स्वार्थः कामिपदसम्बन्धोपहितसीम्नस्तस्यापि तत्त्वादित्यप्रामाणिकत्वात् कल्पनागौरवं दोषायेति ।
एकप्रयोगविधिवैरूप्यप्रसङ्गादित्युक्तम्, तद्विस्पष्टयति—एवं हि स एव प्रयोगविधिस्तस्यैव्राङ्गस्य प्रयोगं तमेव प्रतिविदधाति न विदधातीति स्यादिति । अनेककल्पनाप्रसङ्गादिति स्फुटयति—कल्पनागौरवं चाऽङ्गसामर्थ्यभेदेन प्रयोगभेदादिति ।
सम्बन्धे विशेषपरत्वं सर्वत्रगमिति न कदाचिदन्यायकल्पना । नित्येऽपि तर्ह्येवमेवास्तु जीवन्यदा शक्नुयात् । यावदित्यनुपपन्नमिति चेत् । अनियतनिमित्तेषु कथम् ? अपि च सातत्येन होमप्रसङ्गः । अथ कालविशेषोपादानाऽनुरोधान्न तथा । हन्ताऽङ्गविध्यनुविधायिन्यपि यावज्जीवश्रुतिः सामर्थ्ये सम्बन्धमन्वेतीत्यङ्गविध्यनुरोधाद्यदेति स्यात् ।
अथ मतं—जीवन्नपि साङ्ग एव कर्म्मण्यधिक्रियते नाङ्गशून्यं विधान-
केवलपदार्थव्यवहाराऽभावाद्विशेषश्रुतेरविरोधादिति यदुक्तं तत्स्पष्टयति —पदस्य च पदान्तरसम्बन्धे विशेषपरत्वं सर्वत्रगमिति न कदाचिदन्यायकल्पनेति । ननु यदि पदस्य पदान्तरसम्बन्धे विशेषपरत्वमविरुद्धमिति स्वर्गकामपदं समर्थ विषयमिति यो यदेति सम्बन्धः, हन्त तर्हि जीवनमपि सामर्थ्येनाऽवच्छिन्नं नित्येऽपि यो यदेत्युपबन्धमावेदयिष्यतीत्याह—नित्येऽपि तर्ह्येवमेवाऽस्तु जीवन्यदा शक्नुयादिति ।
शङ्कते—यावदित्यनुपपन्नमिति चेत् । अयमभिसन्धिः । एकैकत्र चेतने कामनानिवेशादेकस्मिन्नपि समर्थे स्वर्गकामश्रुतेः समवेताऽर्थत्वान्न विरोधः, इह तु यावच्छब्दस्य जीवनकालव्यार्प्त्थत्वात् यदा शब्दस्य कालैकदेशव्यवस्थापकत्वाद्व्याप्तिविरुद्धत्वादस्ति नास्तीतिवदसङ्गतिरिति । परिहरति— अनियतनिमित्तेषु कथमिति । नाऽयमेकान्तो, यावच्छब्दाऽननुबन्धेषु नैमित्तिकेषु ग्रहोपरागादिस्नानेषु यदा शक्नुयादित्युपबन्धो नोपपन्न इत्यर्थः ।
इदानीं तावच्छब्दोपबन्धेऽपि यदा शक्नुयादिति सम्बन्धयितुं प्रसङ्गमापादयति—अपि च सातत्येन होमप्रसङ्गः । यावज्जीवेत्पदं च जीवनावच्छिन्नकालव्यापनार्थमिति यावदयं प्राणिति तावदनेन होतव्यमित्यनपेक्षिते प्रातःसायन्नियमे निरन्तरमेव जगतः सर्वोऽपि पानाहारव्यवहारो विपद्येतेति । अथ कालविशेषोपादानाऽनुरोधान्न तथा, तत्राह—हन्त कालविशेषोपादानवत्सर्वाङ्गविध्यनुविधायिन्यपि यावज्जीवश्रुतिः सामर्थ्ये सम्बन्धमन्वेतीत्यङ्गविध्यनुरोधाद्यदेति स्यात् । अयमर्थः । यथा सायम्प्रातःसमयविधिसामर्थ्यात्सायम्प्रातःसमयाऽवच्छिन्नमेव जीवनं यावदित्युपबध्यते तथा सर्वाङ्गविधिसामर्थ्यात्तदेकवाक्यतया सर्वाङ्गोपसंहारसामर्थ्यसमयावच्छिन्नमेव जीवनं यावदित्युपभन्त्स्यन्ते । ततश्च नित्येऽपि काम्यवदेव यदा शक्नुयादित्युपबन्धसिद्धिरिति ।
अथ मतं जीवन्नपि साङ्ग एव कर्मण्यधिक्रियते, नाङ्गशून्यं विधानम्, साङ्गस्यैव तस्य करणभावेनाऽवगमात् । ननु तथापि काम्यान्नित्यस्य को विशेषः ? इत्याशङ्क्याह—अधिकृतस्य तु प्रयोगो यावदधिकारं नाङ्गानु
मधिकृतस्य तु प्रयोगो यावदधिकारं नाङ्गाऽनुरोधेन निवर्त्तते । यथासम्भवं तु अधिकारायत्तत्वात्तस्य । न च काम्येऽपि प्रसङ्गः । कार्यनिष्ठत्वात्कामाधिकारस्य497 प्रयोगनिष्ठत्वाच्च नैमित्तिकस्य । साधनापेक्षत्वात् कार्य्यस्य,
रोधेन निवर्त्तते । अयमभिसन्धिः । यद्यप्यङ्गविध्येकवाक्यताबलान्निखिलाङ्गोपसंहारसमर्थस्य जीवतोऽधिकारो विधेरवगतस्तथापि सामर्थ्यमालोच्य पुरुषः प्रवृत्तोऽनन्तरं तु यदि कश्चित्प्रमादतः कतिपयाङ्गकरणाऽसमर्थः समर्थश्चेतराणि सर्वाण्येव कर्त्तुं तत्र किमेषोऽसमर्थः कतिपयेष्वङ्गमिति सर्वथैव ततः प्रयोगादुपरमताम् ? अथ यत्राप्यसमर्थस्तदङ्गसहितमप्यधिकारप्रतीतिसामर्थ्यादनुतिष्ठतु ? आहोस्विदशक्यकतिपयाङ्गवर्जितमितराङ्गग्रामसहितं प्रधानम्प्रयुङ्क्ताम् ? इति यथासम्भवं त्वधिकारायत्तत्वात्तस्येति । अयमर्थः सत्यप्यधिकारप्रत्यये शक्यकरणाऽनुपपत्तेः सर्वथोपरमे चाधिकाराऽङ्गविरोधादधिकाराऽतिक्रमप्रसङ्गेनाऽन्तिमपक्षपरिग्रहः । अशक्याङ्गवर्जितेतराङ्गसहितप्रधानानुष्ठानं खल्वधिकारानुरोधादयं प्रयोगविधिरवलम्बते इति ।
ननु काम्येप्येतत्सर्वं समानमित्याशङ्क्याह—न च काम्येऽपि प्रसङ्गः, कार्यनिष्ठत्वात्कामाऽधिकारस्य प्रयोगनिष्ठत्वाच्च नैमित्तकस्य । अयमभिप्रायः । काम्ये हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टो नियोज्यस्तदेव कार्यं प्रतिपद्यते यत्स्वविशेषणाऽनुकूलम्, साध्यस्यैव सतो विशेषणत्वात्, तदननुकूलत्वे तु कार्यस्य, न तत्र स्वर्गकामो नियोज्यः स्यात्कार्यं च कृत्यवच्छिन्ने नाप्रतीयमानायां कृतौ शक्यनिरूपणम् । न ह्यनवगतविशेषणो विशिष्टमवगच्छति । कृतिव्याप्यं हि प्रधानं कार्यमुच्यते । प्राधान्यं च तदुद्देशेन कृतेः प्रवृत्तिः । कृतिश्चैवंविधेषु वाक्येषु चेतनव्यापारः प्रयत्नशब्दवेदनीय एवाऽऽस्थेयः । चेतनो हि नियोज्यस्तदेव कार्यं प्रतिपद्यते यत्र कार्ये तिरश्चीनमात्मानमवगच्छेत् । न चाऽन्यव्यापारव्याप्ये तथाऽवगन्तुमर्हति । प्रयत्नश्च प्रत्ययवन्न विषयमन्तरेण शक्यो निरूपयितुम्, विषयश्च तस्य प्रायेण भावार्थः । तदालम्बनस्यैव प्रयत्नस्याऽपूर्वाभिधानकार्योद्देशेन प्रवृत्तेः । न खलु लोकेऽप्यलब्धपाकरूपभावार्थविषयः पक्तुः प्रयत्न ओदनोद्देशेन प्रवर्तितुमर्हतीति । ततश्च कृतिमन्तरेण कार्यस्याऽनिरूपणात् कृतेश्च भावार्थं विनाऽप्रतीतेः कृतिप्रणाडिकया कार्यस्य भवति भावार्थो विषयः, तद्बन्धनत्वात् । षिञ् बन्धने इत्यस्माद्विषयपदव्युत्पत्तेः । तदेवं कामोपायस्य कार्यस्य विषयभावमुपगच्छन् भावार्थे नाऽनुपायः पारयति गन्तुमित्युपायतामेव497 पुरोधाय विषयताऽवगम्यते भावार्थस्य काम्येषु । उपायता च निखिलाङ्गसम्पादितो
यावदङ्गं च साधनभावाऽवगतेः सर्वाङ्गोपसंहारेणैव कार्य्यसिद्धेः । ननु उभय-
पकारतया नाऽन्यथा, मिलितानां च सर्वेषामङ्गभावः । प्रत्येकं तद्भावेऽष्टविधदोषनिदानविकल्पाऽऽपत्तेः । तत्राऽऽगन्तुकेऽप्यक्रियमाणे समस्ताऽङ्गजन्यस्य करणोपायस्यासम्पत्तेरुपायत्वाऽभावाद्498 विषयिणोऽधिकारस्याऽप्रतीतेर्न यद्बलेन हीनाङ्गं काम्यं कर्म सम्पादयति, अपि तु सर्वोपसंहाराय घटते । समर्थस्तु क्वचित्प्रयोगादेव निवर्त्तते । नित्ये तु नायं प्रकारः सम्भवी । न हि तत्र साध्यविशिष्टो नियोज्यः, येनाऽनुपायं कार्यं कार्यतया नावगच्छेत् । तेनाऽन्यतःसिद्धनिमित्तावच्छिन्नो नियोज्यः कृतेः प्रणाङिकया भावार्थमात्रविषयमेव तावत्प्रथमं कार्यमवगच्छति । प्रतिपन्नसविषयकार्यस्तु कृत्युपहितस्वरूपत्वात्कार्यस्य कृतेश्च क्रियात्वेन करणनान्तरीयकत्वात्कार्यं प्रति करणमपेक्षमाणः सन्निधानाद्विषयीभूतस्य भावार्थस्य करणतां प्रतिपद्यते । न च कृतिनिवृत्तस्य भावार्थस्य कथं तामेव कृतिं प्रति करणत्वमिति वक्तव्यम् । तदवच्छिन्नायास्तदपूर्वविशेषेण कृतिभावाल्लोके तथा प्रतीतेः । यथाच्छेतुरुद्यमननिपातनलक्षणया क्रियया व्याप्यमानमपि व्रश्चनं तामेव प्रति साधनं भवति, व्रश्चनविषययोरुद्यमननिपातनयोश्छिदारूपत्वप्रतिलम्भात् । न हि लोष्टसमाश्रये उद्यमननिपातने अनाहितद्वैधीभावे छिदेति निरूपयन्ति । तेन यद्यपि भावार्थों व्याप्यते कृत्या तथाप्यपूर्वाऽर्थप्रवृत्तयेति तां प्रति न भावार्थः कर्म, किं तु करणमपूर्वं तु प्रधानं कर्म, तदुद्देशेन कृतेः प्रवृत्तत्वात् । तदेवं नित्येऽपि विषयभूतस्य भावार्थस्य पश्चात्करणत्वप्रतीतेरवगतसाङ्गप्रधानकरणत्वस्तदनुष्ठानसमर्थः प्रवृत्तः कुतश्चिन्निमित्ताद्यदि किञ्चिदुपहर्तु न पारयति तथाप्यधिकारप्रतीतेः प्रतीत्यनुबन्धीभूतभावार्थमात्रविषयाऽवगमनोपायान्नोपरन्तुमर्हति, किं तु किञ्चिदङ्गहीनं प्रयोगमनुतिष्ठति । तदिदं प्रयोगनिष्ठत्वं कार्यनिष्ठत्वप्रतिपक्षतयोपन्यस्तम् ।
यदि कामाऽधिकारस्य कार्यनिष्ठत्वं ततः किं भवति ? इत्यत आह— साधनाऽपेक्षत्वात्कार्यस्य, यावदङ्गं च साधनभावाऽवगतेः सर्वाङ्गोपसंहारेणैव कार्यसिद्धेर्न काम्ये प्रसङ्गः । ननूभयत्रापि काम्ये नैमित्तिके चाऽधिकार एव कर्त्तव्यः । नियोगस्यैव कार्यस्य विधिप्रत्ययादवगतेस्तस्यैव प्रधानत्वात् । तत्कर्त्तव्यतायाश्चाऽनुष्ठानमन्तरेणाऽनुपपत्तेरनुष्ठानस्य च पुंसः कर्तृतामन्तरेणाऽसम्भवात् कर्तृतायाश्चाऽधिकारिणां कर्मणि स्वामितामन्तरेणाऽसिद्धेरधिकारितायाश्च नियोज्यतां प्रधानीभूतकार्यं नियोगं प्रत्यात्मनस्तिरश्चनभावबोद्धृतां विनाऽपर्यवसानात् नियोज्योऽपेक्षितः । स चाऽविशिष्टो न शक्यः प्रतिपत्तुमिति तद्विशेषणाकाङ्क्षायां क्वचित्सिद्धमेव विशेषणं
त्राप्यधिकार एव कर्त्तव्यः । सत्यम् । एकत्र निमित्तपर्प्यन्तोऽपरत्रफलपर्य्यन्तः । तत्र निमित्तपर्य्यन्ते निमित्तवतोऽधिकृतस्याऽप्रपुञ्जानस्याऽधिकाराऽतिक्रान्तिरिति यथासम्भवं प्रयोगः । फलपर्य्यन्ते त्वङ्गवैकल्ये फलाऽनुपपत्तिः । फलकामिताऽधिकारहेतुर्निवर्त्तते इत्यधिकाराऽभावान्नाधिकाराऽतिक्रान्ति-
जीवनादि स्वीकरोति, क्वचिच्च कामादिपदाऽऽपादितसाध्यभावं स्वर्गादि । न च नियोगविशेषणस्य साध्यता नियोगस्य साध्यत्वमुपहन्ति, नियोगसाध्यत्वनिमित्तत्वान्नियोज्यविशेषणसाध्यत्वस्य । “न च निमित्तं विधिरपबाधत”इति न्यायात् । तेनोभयत्र नित्ये काम्ये च नियोगस्यैव कर्त्तव्यत्वात्कार्यनिष्ठत्वादित्यविशेष इत्यर्थः ।
समाधत्ते—सत्यमेकत्र निमित्तपर्यन्तोऽपरत्र फलपर्यन्तः । अयमर्थः । निमित्तपर्यन्ताऽधिकारात्499 निमित्तस्य चाऽसाध्यत्वात् निमित्तवान्नान्योपायतया कार्यमवबुध्यते, किं तर्हि भावार्थविषयमेव500 । तस्यां च दशायां प्रतिपत्त्यनुबन्धितया भावार्थः प्रतीयमानस्तदनुरञ्जकत्वेनैव परमवतिष्ठते नोपायतया । ततश्च नैमित्तिकाऽधिकारस्य भावार्थमात्रविषयता न तूपायीभूतभावार्थविषयता । ततश्च यावद्भावार्थरूपभावित्वादधिकाराऽवगतेस्तन्मात्रेण च निमित्तस्य निमित्ततापर्यवसानान्निमित्तपर्यन्त इत्युक्तम् । कामाधिकारे तु कामोपायस्यैव कार्यस्य प्रधानस्याऽवगतेः फलपर्यन्त इत्युक्तम् । यद्येवं ततः किं सिध्यति ? इत्यत आह—तत्र निमित्तपर्यन्ते निमित्तवतः सर्वाङ्गोपसंहारसमर्थस्य प्रवृत्तस्य दैवात्किञ्चिदङ्गमुपसंहर्त्तुमपारयतोऽपि भावार्थमात्रविषयत्वान्नियोगस्य तस्य च किञ्चिदङ्गहानादप्रच्युते501 रधिकृतस्याऽप्रयुञ्जानस्य प्रयोगमननुतिष्ठतोऽधिकाराऽतिक्रान्तिरिति यथासम्भवं प्रयोगः । फलपर्यन्ते त्वधिकारेऽङ्गवैकल्ये सति न साधनत्वम्, साङ्गस्य साधनभावात् असाधनात्फलाऽनुत्पत्तेरुत्पत्तौ वाऽतिप्रसङ्गात् फलकामिता निवर्त्तते ।
ननु न प्रत्यात्मवेदनीया फलकामिताऽङ्गहानौ न निवर्त्तत इति शक्यं वक्तुमित्याशङ्क्याह—अधिकारहेतुरिति । अयमर्थः । फलकामिता खलूक्तेन मार्गेण करणभूतस्य भावार्थस्याऽधिकारविषयभावमापादयन्त्यधिकारहेतुः । सा चाऽङ्गवैगुण्ये सति केवलस्य भावार्थस्योपायभावात् विषयाऽभावेन502 विषयिणोऽधिकारस्यापि निवृत्तेः सत्यपि नाधिकारहेतुतयाऽस्तीति फलकामिता निवर्त्तत इत्युच्यते इति । तस्मादधिकाराऽभावान्नाऽधिकाराऽतिक्रान्तिदोष इति न यथा कथञ्चित्प्रयोगः ।
दोष इति न503 यथाकथञ्चित्प्रयोगः । एवं न सातत्येन प्रयोगो नाऽर्थाऽवरुद्धेषु यथाशक्ति चोपसंहारो नित्येषु न काम्येष्विति सर्वं चतुरस्रम् ।
नेदं चतुरस्रम् । इदमङ्ग504 भवान्व्याचष्टां किं शक्त्यपेक्षोऽधिकारो
ननु यदि नैमित्तिकेष्वङ्गवैगुण्येष्वधिकाराऽनपगमो भावार्थमात्रविषयत्वाऽनपायात्505 तथा सति यावज्जीवमग्निहोत्रं जुहुयादिति सायम्प्रातःकालयोरनङ्गत्वेन तदभावेऽप्यधिकारस्याऽनपेतत्वान्मध्यन्दिनादिकालेऽप्यजुह्वदधिकारमतिक्रामेदिति निरन्तरमेव होमप्रसङ्ग इत्याशङ्क्याह—एवं सति न सातत्येन होमप्रसङ्गः । इदमत्राकूतम् । यद्यपि नैमित्तिकेषु प्रथमं भावार्थमात्रमेव विषयस्तथापि कार्यस्य कृत्युपहितत्वेन करणाऽपेक्षायां भावार्थः पश्चात्करणं भवति । लब्धकरणत्वस्य चाऽङ्गापेक्षायामङ्गान्युपतिष्ठन्ते, तेन साङ्गोपसंहारं506 प्रति स्वाभाविकसामर्थ्यशालिन एव पश्चादधिकाराऽवगमादप्रतिसमाधेयाऽन्धत्वादिदोषाणामपेक्षमाणाद्यङ्गवति अत्र्यार्षेयाणां च त्र्यार्षेयचरणवत्यनग्न्याहितानां चाऽऽहवनीयादिभाजि मध्यन्दिनसमयवर्त्तिनां च पुंसां सायम्प्रातःसमयाऽङ्गसङ्गिनि नाऽधिकारः कर्मणि, यथाविहितकर्मोपसंहारं प्रति निजसामर्थ्याऽभावात् । येषां पुनराजानिकमस्ति507 सामर्थ्य यथा दरिद्राणां प्रतिसमाधेयबाधिर्यादीनां च तेषां सत्यपि दरिद्राणत्वे सत्यपि च वाधिर्यादावस्त्येव धनसाधने श्रवणादिसाधने च कर्मण्यधिकार इति तदकरणे भवत्यधिकाराऽतिक्रमो नित्येषु न तु काम्येषु । स्वाभाविकसामर्थ्ये सत्यपि तदानीन्तनेन प्रतिसमाधेयेनाप्यसामर्थ्येनाङ्गवैकल्ये सति साधनत्वाऽपायेन साधनीभूतभावार्थविषयस्याऽधिकारस्य निवृत्तेः । ननु विशेषणेषु भवतु भावार्थमात्रमेव विषयः कार्यस्य, तथापि तस्यामपि कार्यत्वेन करणाऽधीनोत्पत्तित्वात् प्रतिसमाधेयेनाप्यसामर्थ्येनाङ्गाऽननुष्ठाने सति तद्विकल्पादनुत्पत्तेः कथमनपायोऽधिकारस्य नापायस्तस्य यावद्विषयं प्रत्यभिज्ञानाद्विषयस्य भावार्थस्य कतिपयाङ्गवैगुण्येऽप्यनपेतत्वान्निजस्य च सर्वाङ्ङ्गोपसंहारसामर्थ्यस्य च तदनपायेऽनपेतोऽधिकारस्तदानीन्तनमागन्तुकं कतिपयाङ्गाऽनुष्ठानसामर्थ्यमबलोक्य यावदुपसंहरणीयाङ्गसम्पाद्यतामेवात्मनोऽवगमयति । न ह्यस्ति सम्भवोऽधिकाराऽवगतिरननुष्ठानं चेति । तस्मादधिकाराऽवगतिसामर्थ्यात्तस्यां दशायां यथाशक्त्युपसंह्नियमाणाङ्गाऽऽधेयोपकारतामेवाऽन्यथानुपपत्तेः स्वकरणस्य कार्यमवलम्बते । सोऽयमङ्गवैकल्याद् गौणः शास्त्रार्थ इत्युच्यते । औत्सर्गिकी तु सकलाङ्गग्रामसम्पादनीयकरणोपकारितैव
यथाधिकारं च प्रयोगः, आहोस्विच्छ्रुत्यपेक्षोऽधिकारो, ऽधिकृतस्य तु यथाशक्ति प्रयोगः ? पूर्वस्मिन्कल्पे यथैव कालविशेषयुक्ते कर्म्मणि तत्कालजीविनोऽधिकृताऽन्यस्य तद्विशिष्टकर्म्मोपसंहाराऽसामर्थ्यात् । अन्यथा ऽन्यदापि अकुर्वतोऽधिकाराऽतिक्रान्तिः । पश्चिमे तु नाङ्गशक्तिरधिकारं
नित्याऽधिकारस्येति सर्वाङ्गोपसंहारो मुख्यः शास्त्रार्थः । तस्मात्सूक्तं न सातत्येन प्रयोगो नाऽर्थावरुद्धेषु कालेष्विति । नापि तस्यैव होमस्याऽऽहाराद्यवरुद्धेषु कालेषु यथा सततहोमो न सततं सायमादिकालमपेक्षते, किं तर्हि अर्थाऽविरुद्धकालाऽवलम्बनम्, अन्यथा सन्ततत्वाऽभावप्रङ्गात्, ज्ञायत एवैतत्सततं होतव्यं न तत्सायमादिसमयाऽपेक्षमिति, तथेह होमे सायमादिसमयविधानात्तस्य च मध्यन्दिनादिसमयेऽवश्यमनुपसंहार्यत्वात् । तस्मान्न सातत्येन होमो यथाशक्ति चोपसंहारो नित्येषु न काम्येष्विति सर्व चतुरस्रम् ।
तदेकदेशिमतं दूषयितुं विकल्पयति—नेदं चतुरस्रम् । इदमङ्ग भवान् व्याचष्टां कि शक्त्यपेक्षोऽधिकारो यथाधिकारं च प्रयोगः, आहोस्वित्यञ्च्छ्रुत्यपेक्षोऽधिकारोऽधिकृतस्य तु यथाशक्तिप्रयोगः ? इति । अयमर्थः । अङ्गोपदेशसामर्थ्यादश्रुतमपि सर्वाङ्गोपसंहारनिजसामर्थ्यमनुपादेयत्वादधिकारविशेषणतामापद्यत इति तदपेक्षोऽयमधिकारो भवति । यथाधिकारं च प्रयोग इत्येकः कल्पः । अपरस्तु यावज्जीवश्रुतिमात्राऽपेक्षोऽधिकारो नाङ्गोपसंहारसामर्थ्यमपेक्षते, तस्याऽश्रुतत्वादिति । तत्र प्रथमं कल्पं शक्त्यपेक्षोऽधिकार इति दृष्टान्तद्वयेनोपपाद्य दूषयति—यथैव कालविशेषयुक्ते कर्मणि “यावज्जीवं दर्शपूर्णमासाभ्यां यजेते”त्येवमादौ तत्कालजीवनाधिकृतादन्यस्याऽतत्कालजीवस्य तत्कालविशिष्टकर्मोपसंहारसामर्थ्याऽभावात् । अवश्यं च तदास्थेयमित्याह—अन्यथाऽन्यदापि पञ्चम्यादावपि अकुर्वतोऽधिकाराऽतिक्रान्तिः स्यात् । यथा राजसूये राजत्वमन्यस्य सम्पादयितुमशक्तेरधिकारं विशिनष्टि । न जातु ब्राह्मणवैश्यौ राजत्वमात्मनः सम्पादयितुमर्हतः, येन राजसूये राजकर्तृकेऽधिक्रियेयाताम् । तथाऽङ्गोदेशाऽपेक्षत्वादधिकारस्य तत्सामर्थ्यविशिष्टजीवनमधिकारकारणमिति । भवत्वेवं तथापि को दोषः ? इत्यत आह—कुतः प्रथमे कल्पे तादृशस्याङ्गोपसंहाराऽसमर्थस्याऽधिकाराऽतिक्रान्तिः ।
द्वितीयं कल्पं श्रुत्यपेक्षोऽधिकार इति दूषयति—पश्चिमे तु नाङ्गशक्तिरधिकारं विशिनष्टीति सातत्यप्रसङ्गह् । अस्यार्थः । यदा हि श्रुत्यपेक्षोऽधिकारस्तदा जीवनमात्रस्य श्रुतत्वात्तन्मात्रमेवाऽधिकारिविशेषणमिति होमादिसातत्यप्रसङ्गः । किं च काम्ये चाङ्गहानादननुष्ठानेऽधिकाराऽतिक्रमः स्यात् । किं च पङ्ग्वादेश्चाऽधिकारप्रसङ्गः, न ह्यसौ न स्वर्गकामो न चाऽजीवनवान् ।
विशिनष्टीति सातत्यप्रसङ्गः । न ब्रूमोऽङ्गशक्तिरधिकारं विशिनष्टीति, किं त्वङ्गशक्त्यपेक्ष एवाऽधिकार इति । तादृशस्यैव तु कस्यचिदङ्गस्याऽसम्भवे न प्रयोगो निवर्त्तत इति । वैगुण्याच्चापि फलेऽधिकारहेतुरेव नास्तीत्युक्तम् ।
कोऽयमसम्भवः ? तदुपसंहारासामर्थ्यम्, न तर्ह्यधिकृतस्तद्विशेषणत्वात्तस्य । अथाऽनुपसंहारोऽनङ्गत्वमेव । कादाचित्कमसामर्थ्यमसम्भवो न तेनाऽधि-
अत्रैकदेशी गूढाऽभिप्रायः प्रथमं पक्षमाश्रित्याह—न ब्रूमोऽङ्गशक्तिरधिकारं विशिनष्टीति, किं त्वङ्गशक्त्यपेक्ष एवाऽधिकार इति । किमिति तर्ह्यङ्गवैकल्ये नैमित्तिकं प्रयुज्यते ? इत्याशङ्क्याह । तादृशस्यैव ह्यधिकारिणः कस्यचिदङ्गस्याऽसम्भवेऽपि न प्रयोगो निवर्त्तत इति सामर्थ्यस्याऽधिकारिविशेषणस्य भावार्थमात्रस्याऽधिकारिविषयस्य च तदानीमपि नैमित्तिकेषु भावादित्यर्थः ।
काम्ये तर्हि हीनाङ्गे प्रयुज्यमाने समर्थस्याधिकाराऽतिक्रान्तिः प्रसज्येतेत्याशङ्क्याह—वैगुण्याच्चपि फलेऽधिकारहेतुरेव नास्तीत्युक्तम् । अयमर्थः । वैगुण्ये सत्यविद्यमानफलत्वं काम्ये करणत्वमिति यावत् । करणीभूतस्य भावार्थस्य विषयत्वं वैगुण्ये चाऽकरणत्वे विषयत्वाऽभावादधिकाराऽवगमविलय508 इति नाऽननुष्ठानेऽधिकाराऽतिक्रान्तिरित्युक्तं कार्यनिष्ठत्वात्काम्यस्येत्यनेन । तदेतद्विकल्प्य दूषयति—कोयमसम्भवो यदि तदुपसंहाराऽसामर्थ्यं न तर्ह्यधिकृतः, तद्विशेषणत्वात्तस्य । अयमर्थः । यद्यङ्गोपसंहाराऽसामर्थ्यमङ्गस्याऽसम्भवस्तत्कारणत्वेनोपचारादुच्यते, तदा सामर्थ्यस्याधिकारिविशेषणस्याऽसम्भवादनधिकृतः किमिति नैमित्तिकमङ्गविकलं प्रयुञ्जीत । अथाऽनुपसंहारोऽनङ्गमेव509 । अथ समर्थोऽपि नोपसंहरति किञ्चिदङ्गमनुपसंहार एवाऽङ्गस्याऽभाव उच्यते तदा न नूनमेतदङ्गम्, न ह्यस्ति सम्भवो यद्विद्वान् समर्थः किञ्चिदङ्गमपहाय प्रधानं प्रयुङ्क्त इति सेयमुभयतस्पाशा रज्जुः ।
साम्प्रतमेकदेशी स्वाऽभिप्रायमाविष्करोति—कादाचित्कमसामर्थ्यमसम्भवो न तेनाऽधिकारात्पर्युदासो द्रव्याप्रतिसमाधेयाऽङ्गवैकल्य इव । इदमत्राकूतम् । द्वैधं खल्विह पुमांसो व्यवस्थिताः । केचिदसमर्थाः केचिच्च तिरोहितसामर्थ्याः । तत्र ये तावदसमर्था अन्धपङ्ग्वादयः शूद्रादयश्च तेषामनधिकार एव, सामर्थ्यस्याऽधिकृतविशेषणस्याऽभावात् । येऽपि समर्थाः कुतश्चिन्नि
कारात्पर्य्युदासो द्रव्याप्रतिसमाधेयाङ्गवैकल्यवत् । सत्यम्, न शूद्रवदेकान्ततो न त्वधिकारहेतुविगमेऽधिकारो न निवर्त्तते वीतायामिव फलेच्छायां
मितादभिभूतसामर्थ्यास्तेषामधिकृतविशेषणस्य सामर्थ्यस्य सद्भावात्कोऽधिकारविलयहेतुः ? न खल्वभिभूतसामर्थ्यो भवत्यसमर्थः । न च कार्यव्यवसेयत्वात्सामर्थ्यस्य कार्याऽभावे तदप्रमाणमिति वाच्यम् । प्रतीतचरसामर्थ्यस्य कार्यकारिणः पश्चादकरणे पुनश्च करणे किं सामर्थ्यविनाशोत्पादौ, आहोस्वित्तिरोभावाऽऽविर्भावौ ? इति विषये परैव कल्पना ज्यायसी, लाघवात्, न पूर्वा । तदा हि समर्थ्यरूपधर्मकल्पनायां गौरवप्रसङ्गः । ततश्च सामर्थ्यस्याऽधिकृतविशेषणस्य विद्यमानत्वादुपक्रमे प्रयोगस्य साध्वेव चाऽधिकृत इति यथाशक्ति नैमित्तिकमारभेत समापयेच्चेति । अत्रैव निदर्शनमाह—द्रव्याऽप्रतिसन्धेयाङ्गवैकल्यवत् ।
तद्दूषयति—सत्यं न शूद्रवदेकान्ततो न त्वस्याऽधिकारहेतुविगमेऽधिकारो न निवर्त्तते । अयमत्राऽभिसन्धिः । इदमत्र भवान् व्याचष्टां यदेतत्सामर्थ्यमधिकृतविशेषणमुच्यते तत् किं साक्षात्सामर्थ्यस्य श्रुतेराहोस्विदङ्गोपदेशबलात् ? तत्र तावत्प्रथमः कल्पोऽनुपलब्धिनिराकृत एव । द्वितीये तु कल्पेऽङ्गोपदेशसामर्थ्याद्यथाविनियोगमधिकारव्यवस्थितेरयमधिकारविधिः साङ्गस्य प्रधानस्याऽनुष्ठानमाक्षिपन् कर्त्तारमन्तरेण तदनुपपत्तेः कर्त्तारमाक्षिपति । न चाऽसामर्थ्यस्य कर्तृत्वं कारकविशेषस्य तद्भावाच्छक्तिमतश्च कारकत्वात् । क्रियानिमित्तं हि कारकं, निमित्तं च नाम तदुच्यते यस्मिन् सति नैमित्तिकं भवत्येवेत्युपरिष्टाद्वक्ष्यते । न च द्रव्यस्वरूपमात्रे सति क्रिया भवत्येव । तस्माच्छक्तिमद्रूपकारकत्वाऽध्यवसानम् । यथा न द्रव्यमात्रं कारकं तथा न शक्तिमदपि । अभिभूतशक्तेरपि शक्तिमतः क्रियाया अनुपजननात् । ततश्चोद्भूतशक्तेरेव सहकारिसमवधानशालिनः कर्तृत्वं कारकत्वं चेति रमणीयम् । न चाऽधिकारमन्तरेण कर्तृत्वं न च नियोज्यमन्तरेणाऽधिकार इति तदाविर्भूतसामर्थ्यं कर्तृताप्रणाडिकया नियोज्यताऽवस्थामुपगतमनुपादेयं सन्नियोज्यविशेषणतामनुभवति । यथा चाऽसमर्थवदभिभूतसामर्थ्योऽप्यनियोज्यो नाऽधिकृतश्च । तदुक्तं “न त्वस्याऽधिकारहेतुत्वविगमेऽधिकारो न निवर्त्तत” इति । न सामर्थ्यमात्रमनुष्ठानाऽनुपयोगि सदप्यधिकारमनुवर्त्तयति, किं तर्हि यदनुष्ठानहेतुरुद्भवविशिष्टम्, तस्यैवाऽधिकारहेतुत्वात् । तच्चेद्विगतमधिकारोऽपि निवर्त्ततएवेति न कस्यचिदङ्गस्योपसंहारसामर्थ्ये तिरोभावेऽप्यप्रयुञ्जानस्य नैमित्तिकाऽधिकाराऽतिक्रान्तिरित्यर्थः । अपि च जातेष्टौ भवतां संवलिताऽधिकारपक्षे जन्मवतः
कामिनः । अन्यथाऽधिकृतस्य समर्थस्य स्वर्गकामस्य कादावित्काङ्ग-
पुत्रस्येन्द्रियादिकामस्य पितुरधिकारादितरकाम्यवत्करणीभूतस्यैव भावार्थस्य विषयभावात्तन्मात्रविषयत्वे काम्यत्वाऽनुपपत्तेर्नैमित्तिकस्य च करणीभूतभावार्थविषयत्वेऽप्यविरोधात् यथाशक्तिप्रयोगाऽनुपपत्तिरित्यास्तां तावत् ।
अथोच्येत अधिकाराऽवगमः प्रवृत्तिहेतुत्वात्प्रवृत्तेः पूर्वमुपयुज्यते, न प्रवृत्तावुपजातायाम्, न जातूपजनितकुम्भः कुम्भकारः कुम्भकरणाय घटते । तदुद्भूतसाङ्गप्रधानकरणसामर्थ्योऽधिकृतः सन्यदि कुतश्चित्प्रमादतोऽङ्गैकदेशे न स्वसामर्थ्यमुत्पश्यति तथापि तदाऽनधिकृतो न विरन्तुमर्हतीत्यत आह— वीतायामिव फलेच्छायां कामिनः । इदमत्राकूतम् । अस्ति हि किञ्चिन्निमित्तिकारणमपि यदुपजनितकार्यं निवर्त्तमानं कार्यमपि निवर्त्तयति । यथाऽपेक्षाबुद्धिर्द्वित्वसङ्ख्यानिमित्तमुत्पादितद्वित्वा निवर्त्तमाना द्वित्वमपि निवर्त्तयति । समवायस्य समवायिकारणेषु सर्वत्र प्रायेणेयमेव गतिः । तदिहापि स्वर्गकामः प्रवृत्तोऽप्युपरतकामो नाऽधिकारी केवलं शिष्टविगर्हणभियाऽनधिकृतोऽपि कर्म समापयति । तथा निमित्तवानपि तिरोहितसामर्थ्योऽसन्ननधिकारीत्यकुर्वन्नाधिकारमतिक्रामेत् । शिष्टगर्हणभयात्तु समापनं काम्येऽपि समानमिति न नैमित्तिकस्य विरोधायाऽलमिति ।
यदि च समर्थस्य प्रवृत्तस्य पश्चात्सामर्थ्याऽभिभवेन प्रवृत्त्युपरमेऽधिकाराऽतिक्रान्तिर्नैमित्तिके काम्येऽपि510 प्रसज्येतेत्याह—अन्यथाऽधिकृतस्य समर्थस्य स्वर्गकामस्य कादाचित्काऽङ्गवैकल्ये511 फलाऽनुत्पत्तावधिकाराऽतिक्रान्तिः स्यात् । ये पुनराहुः । एकाङ्गवैकल्येऽपि प्रयोगस्य प्रत्यभिज्ञानात्प्रवृत्तस्यापि नाऽधिकारविगमः, न खलु भग्नशृङ्गो गौरिति । तान् प्रति काम्येऽपि समानमित्युत्तरम् । प्रसिद्धतरत्वाच्च तदुपेक्ष्य दूषणान्तरमाह— अप्राप्तकालं चाऽकुर्वतोऽधिकाराऽतिक्रान्तिः स्यादिति चेनाऽनुषज्यते । अप्राप्तकालं च पञ्चम्यामिष्टिप्रयोगमकुर्वतोऽधिकाराऽतिक्रान्तिर्भवेदित्यर्थः । अथापि स्यात् किमित्येवमप्राप्तकालमननुतिष्ठन्नधिकारमतिक्रामति । न हि निमित्तानन्तरमेव नैमित्तिकं कर्त्तव्यमिति प्रमाणमस्ति, किं तर्हि निमित्ते सतीति सत्तामात्रमवगम्यते । शास्त्रान्मीमांसित्वा व्यवस्थापितमिदं हि जातेष्टौ । एवं हि श्रूयते । “वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते” इति । तत्र संशयः किं पुत्रजन्माऽनन्तरमेव निर्वप्तव्यम्, उत कृते जातकर्मणि ? इति । किं प्राप्तम् । पुत्रजन्माऽनन्तरमिति । कुतः ? जात इति निमित्तश्रुतेः ।
शक्तिवकल्ये फलाऽनुत्पत्तावप्यधिकाराऽतिक्रान्तिः स्यात् अप्राप्तकालं चाऽऽकुर्वतः ।
अथाऽधिकृतोऽपि जातपुत्रवत्कालशौचे कालमुपसंहृत्यकुर्वन्नाऽधिकारमतिक्रामति512 निमित्तानन्तर्य्यस्याऽशब्दार्थत्वात् । कालसम्पत्तावप्यन्याङ्ग- सत्यस्मिन्नक्रियायां तद्विरोधप्रसङ्गादिति प्राप्ते उच्यते । कृते जातकर्मणीति । कुतः ? इष्टिभावनायामस्यां भाव्याकाङ्छायामर्थवादतो बहवः खल्विह भावेन सम्बन्धुं समर्थास्तेजस्वितेन्द्रियावित्वादयः पुत्रगामिनः श्रूयन्ते । तत्तेषामेव रात्रिसत्रन्यायेन फलत्वकल्पना । यदि च जातमात्रे एव कुमारे इष्टिरियं निरुप्येत ततोऽकृतजातकर्मणः स्तन्यदाननिषेधादिष्टिक्रियायां च कालक्षेपात् कुमारविपत्तिप्रसङ्गात्तद्गुणविधानार्थमिष्टिरनर्थिका स्यादिति न जातमात्रे इति निरूपितम् ।
तथेदमपरं चिन्त्यते । अवगतमेतन्नाऽकृते जातकर्मणीति । इदमिदानीं सन्दिह्यते किं जातकर्माऽनन्तरमेव निर्वप्तव्यम्, आहोस्विदूर्ध्व दशरात्रात् ? इति । कुमारमरणभयात्कारणाज्जन्माऽऽनन्तर्यमतिक्रान्तम् । कृते तु जातकर्मणि पुत्रजन्मनो निमित्तस्य सनिधानादिति क्रमकारणाऽभावाज्जातकर्माऽनन्तरमेवेति प्राप्ते ब्रूमः । शुचिना कमं कर्त्तव्यमिति शौचस्याप्यधिकारकारणत्वादानन्तर्यस्य च जातकर्मणैव वधितत्वात् सति भावमात्रतया निमित्तभावाऽबलम्बनाद्दशरात्रस्य परस्तादपि तदुपत्तेरतीते दशरात्रे इति सिद्धान्तः ।
पुनश्चिन्त्यते दशरात्राऽनन्तरमियमिष्टिः, उताऽमावस्यादिकालप्रतीक्षा ? इति । तत्राऽत्यन्तव्यवधाने सति निमित्तस्य निमित्तभावः श्रुत एकान्ततो बाधितः स्यादिति दशरात्राऽनन्तरमेवेति प्राप्तेऽभिधीयते । कालप्रतीक्षेति । तदवच्छिन्नस्य निमित्तस्य निमित्तभावान्न जात्वतिक्रान्ते दशरात्रे दर्शपूर्णमासकालावच्छिन्नसद्भावो जातपुत्रो जातपुत्रतामतिवर्त्तते । तदेवं जातेष्टिन्यायेन निमित्तानन्तर्यस्याऽशाब्दत्वात् पञ्चम्यामिष्टिमप्रयुञ्जानोऽपि नाऽधिकारमतिपततीत्याह—अथाऽधिकृतो जातपुत्र इव कालशौचे कालं च शौचं च निमित्ते पुत्रजन्मन्युपसंहृत्य यथा जातपुत्रो दशरात्रस्य परस्तादमावास्यायां पौर्ण्णमास्यां वा जातेष्टिं कुर्वन्नाऽतिपतत्यधिकारं तथा जीवनवानपि निमित्ते जीवने दर्शपूर्ण्णमासकालमुपसंहृत्य कुर्वन्नाऽधिकारमतिक्रामति, निमित्तानन्तर्यस्याऽशब्दार्थत्वात् । अत्रोत्तरम्—कालसम्पत्तावन्याङ्गसम्पत्तिमपेक्ष्य कुर्वस्तथा स्यात् । नाऽधिकारमतिक्रामेदित्यर्थः ।
सम्पत्तिमपेक्ष्य कुर्वस्तथा स्यात् । अथाङ्गभूतकालावच्छिन्नमेव जीवनमधिकारहेतुः, अन्याङ्गेष्वपि तुल्यम् । अपि च परिपूर्णाङ्गोऽधिकृतः किमङ्गविकलं प्रयुङ्क्ते ? असम्भवादिति चेन्न । कल्पनात्रयोपप्लुतेः513 । तथा हि । कर्म्मपर्य्यन्तापेक्षित्वाद्वा नियोगस्याऽधिकरानिर्वृत्तेरप्रयोगः, अधिकारवशाद्वा यथासम्भवमधिकाङ्गोपदेशाऽनुरोधाद्वा । यदा तादृशस्य सम्भवः
अथाङ्गमपि कालो निमित्तमवच्छिन्दन्नङ्गतामुपयाति, नाऽनवच्छिन्दन्निति निमित्ते कालोपसंहारो नाङ्गोपसंहार इत्याह—अथाऽङ्गभूतकालावच्छिन्नमेव जीवनमधिकारहेतुः । अत्रोत्तरम्—अन्याङ्गेष्वपि तुल्यम् । मा नाम भूवन्नङ्गानि साक्षान्निमित्तावच्छेदकानि, अङ्गोपदेशवलसमासादितनिर्णयं तु सर्वाङ्गोपसंहारसामर्थ्यमुद्भूतं निमित्तमवच्छेत्तुं पारयतीति तुल्यताऽङ्गान्तराणां कालेनेत्यभिप्रायः ।
एवं तावदितराङ्गविरहवच्चोदितकालविरहेऽप्यनुष्ठानप्रसङ्गमापाद्य सम्प्रति किञ्चिदङ्गवैगुण्येऽपि प्रयोगप्रत्यभिज्ञानं यदुक्तं तदपि दूषयन्नाह— अपि च परिपूर्णाङ्गोऽधिकृतः किमङ्गविकलं प्रयुङ्क्ते ? विधिगम्योऽयमर्थो नात्र प्रमाणान्तरं क्रमते । विधिना च यावदङ्गग्रामसहितः प्रयोगोऽवबोधितस्तत्राऽङ्गतुषत्यागेऽपि तत्प्रयोगत्वमनवबोधितं विधिना । पुरुषस्य प्रतिभामात्रं न प्रामाणिकमिति भावः ।
अत्र शङ्कते—असम्भवादिति चेत् । शङ्कां निराकर्तुमसम्भवशब्दार्थं विकल्पयति—न । कल्पनात्रयपरिप्लुतेः । तिस्रः खल्विह कल्पनाः परिप्लवन्ते । परिप्लुतिरुपपत्तिः । सह वैकग्रन्थेन स्वाऽनुगुणां तावत्कल्पनामादितो दर्शयति—तथा हि । क्रमपर्यन्तापेक्षित्वाद्वा नियोगस्याऽधिकाराऽनिर्वृत्तेरप्रयोगः । विनियोगोपादानाऽवगतशेषभावं पदार्थाऽवगमे शब्दाभिहितं च तत्क्रममनङ्गमप्यपेक्षमाणः स्वोत्पत्तौ नियोगो यावज्जीविको नाऽङ्गहानावुत्पत्तुमर्हतीति । सर्वथैव प्रयोगाऽभावोऽसम्भवशब्दार्थ इति चोदकाऽनुगुणां कल्पनामाह—अधिकारवशाद्वा यथासम्भवम् । अयमर्थः । यद्यप्ययं परिपूर्ण्णाङ्गोऽप्यधिकृतस्तथापि तदधिकारप्रतीतिसामर्थ्यात्तत्प्रवृत्तौ हीनाङ्गमपि समापयति । क्वचिदङ्गकरणे सामर्थ्याऽभावे सम्पूर्णाङ्गप्रयोगकरणादिति । सोऽयमसम्भवः । कल्पनां तृतीयामाह—अधिकाङ्गोपदेशाऽनुरोधाद्वा यदा तादृशस्य सम्भवः अधिकं तत्कालशक्याङ्गापेक्षया यदशक्यमङ्गं तदुच्यतेः । यदा साङ्गमुपसंहर्तुं शक्यते तदा तस्य सम्भवः ।
तत्रोभयाऽनुग्रहादानन्तऽर्यस्याऽशब्दार्थत्वाज्जातपुत्रेष्टिवद्यदेति युक्तम् । अङ्ग514 शक्त्या वा कालवदधिकारावच्छेदादप्रयोगः । न चैक एव विधिस्तेषामेव प्रयोजकश्चाऽप्रयोजकश्च । अपि च किमर्थं विकलाङ्गे प्रवर्त्तते ? अधिकारनिर्वृत्तय इति ब्रूमः । किमधिकारनिर्वृत्तिर्नाङ्गापेक्षा फलनिर्वृत्तिरिव ? यद्येवमनङ्गत्वमेव । सापेक्षा चेद्यथाशक्त्यङ्गसाध्यैवेति वैकल्ये
तत्राऽनन्तराऽभिहितां तावत्कल्पनामुपपादयति—तत्रोभयाऽनुग्रहादानन्तर्यस्याऽशब्दार्थत्वाज्जातेष्टिवद्यदेति युक्तम् । अस्यार्थः । अधिकारप्रतीतेरधिकाङ्गोपदेशस्य चाऽनुग्रहाद्यदेति युक्तम् । नन्वेवं निमित्ताऽनन्तरमकरणान्निमित्तत्वव्याहतिरित्याशङ्क्याह—आनन्तर्यस्याऽशब्दार्थत्वाज्जातपुत्रेष्टिवदिति । व्याकृतमेतद्युक्तम् । ननु यथासम्भवमङ्गानुष्ठानं तथा काम्यनैमित्तिकयोरविशेष इति दूषणम् । यदि पुनरङ्गोपसंहारसामर्थ्यस्याऽनुपादेयतया कालवदधिकारावच्छेदकत्वान्नाङ्गवैगुण्ये कालाऽभावैव क्रिया, न चाऽवैगुण्यं यावज्जीवं कस्यचिदपि सम्भवति । ततश्च यावज्जीवसर्वाङ्गसमवेतं प्रयोक्तव्यमित्ययमर्थो विरुद्धत्वान्न सम्भवति । ततोऽशक्यार्थविधानात् ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवदप्रामाणिकत्वं शास्त्रस्येति सर्वदैवाऽप्रयोग इत्याह—अङ्गशक्त्या च कालवदधिकारावच्छेदादप्रयोगः । ननु यावज्जीवमुपदेशसामर्थ्यात्किमिति विगुणः प्रयोगोऽपि न कल्पते ? इत्याशङ्क्याह—न चैक एव विधिस्तेषामेव प्रयोजकश्चाऽप्रयोजकश्च । एवं हि स एवैकोपि विधिस्तान्येवाऽङ्गान्याक्षिपति प्रतिक्षिपति चेति व्याहतमापद्यते । तस्मादात्यन्तिक एव प्रयोगाऽसम्भवोऽसम्भववादिनाऽभिहितः । सोऽयमात्मीय एव बाणो भवन्तं प्रहरतीत्यागतमित्यर्थः ।
एवं तावद्यावदधिकारप्रधानं निखिलाङ्गग्रामसहितं प्रयोज्यतयाऽवगतं तावदेव प्रयोक्तव्यम् । न चाऽन्यूनप्रयोगस्तु प्रातिभ इत्युक्तम् । सम्प्रति न्यूनप्रयोगस्य निष्प्रयोजनवत्तामपि प्रतिपादयति—अपि च किमर्थ विकलाङ्गे प्रवर्त्तते । प्रेक्षावतां हि प्रवृत्तिः प्रयोजनवत्ताव्याप्ता प्रयोजनवत्ताभावे न भवति, शिंशपावत्त्वमिव तरुत्वाऽभाव इत्यर्थः ।
अत्रैकदेशी प्रयोजनमाह—अधिकाराऽनिर्वृत्तये इति ब्रूमः । एतदुक्तं भवति । यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयोजनं प्रयुज्यतेऽनेनेति व्युत्पत्त्या, कार्यं चाऽधिकृत्य लोकः प्रवर्त्तते, कार्य चाऽधिकारः, तदयं विकलाङ्गेऽपि कर्मणि कार्यनिर्वृत्तये प्रवर्त्तते इति । तदेतद् दूषयति—किमधिकारनिर्वृत्तिर्नाङ्गापेक्षा, फलनिवृत्तिरिव । ननु मा भूदधिकारनिर्वृत्तिरङ्गापेक्षा, को दोष ? इत्याशङ्क्याह—यद्येवमनङ्गत्वमेवाङ्गैर्विनापि करणोपकारस्य
वृथा चेष्टा स्यात् । अथ यथाशक्त्यङ्गसाध्येति । न कार्य्यनिष्ठता विशेषायालम् । अपि चाऽधिकारात्फलनिर्वृत्तिः, तत्र यथाशक्त्यङ्गोपेतेऽधिकृतस्य तादृशादेवाऽधिकारनिर्वृत्तिमुखेन तन्निमित्तमिव । अथ न तादृशे ? अधिकारनिर्वृत्तिरपि न स्यात् । परिपूर्णाङ्गेऽधिकृतस्य विकलाङ्ग-
कार्यसिद्धेरिति भावः । सापेक्षा चेद्यथाम्नाताङ्गसाध्यैवेति वैकल्ये वृथा चेष्टा स्यात् । शङ्कते—अथ यथाशक्त्यङ्गसाध्येति । निराकरोति—न कार्यनिष्ठता विशेषायाऽलम् । एतदुक्तं भवति । कार्यनिष्ठतायां सत्यां काम्येऽप्युपकरणीभूतभावार्थस्य विषयत्वात्सकलाङ्गग्रामजनितोपकारस्य च भावार्थस्य करणभावादेकाङ्गवैकल्ये च तदनुपपत्तेर्विषयाऽभावादधिकारप्रविलयः । नैमित्तिकेषु तु भावार्थमात्रस्य विषयभावाद्वैकल्येऽपि च विषयभावोपपत्तेरप्रलीनोऽधिकार इति काम्यनैमित्तिकयोर्यो विशेषः स नोपपद्यते । यथाशक्त्यङ्गसाध्येऽधिकारेऽधिकारश्चेदङ्गविकलादपि प्रधानाद्भवति नूनमङ्गहीनमपि करणमकरणादनुपपत्तेः । करणं चेत्कथमविषयः, विषयश्चेत्कथमनधिकारः, अनधिकारश्चेत्कथं काम्यनित्ययोर्विशेषः ? इति । यद्युच्येत नैमित्तिके भावार्थमात्रस्य विषयभावादङ्गवैकल्येऽपि तदस्तीत्यनपेतोऽधिकारः स्वसिद्ध्यर्थ यथाशक्त्यङ्गजनितोपकारमेव स्वकारणमाक्षिपति अङ्गबाधायामिवाऽवाधिताङ्गमात्राहितोपकारमिति । तदसत् । अधिकारप्रविलयात् । न हि विषयमात्रमयमधिकारस्य व्यवस्थापनायाऽपेक्षते, अपि त्वधिकारिविशेषणमपि । आविर्भूतसर्वाङ्गकरणसामर्थ्यश्चाधिकारी नाङ्गसामर्थ्याऽभिभवेऽधिकारवानित्युक्तमित्युपरम्यते ।
एवं पुरुषप्रवृत्तिं पर्यनुयुज्याऽधिकारोत्पत्तिं प्रति पर्यनुयोगमाह—अपि चाऽधिकारात् फलनिर्वृत्तिः काम्येऽपि कर्मणीति भवन्मते सिद्धम् । अस्तु वा को दोषः ? इत्याशङ्क्याह—तत्र यथाशक्त्यङ्गोपेतेऽधिकृतस्य तादृशादेव यथाशक्त्यङ्गोपेतादेवाधिकारनिर्वृत्तिमुखेन तत्फलं सम्पद्यते । अत्रैव दृष्टान्तमाह—निमित्तमिव । यथा निमित्तं विकलाङ्गमपि नैमित्तिकं प्रयोजयेदधिकारनिर्वृत्तिमुखेन निमित्तभावेन सम्पाद्यते तथा फलमपीत्यर्थः । अथ न तादृशेऽङ्गहीने काम्येऽधिकारः । एवं तर्हि काम्यवन्नैमित्तिके विकलाङ्गेऽनधिकारनिर्वृत्तिरपि न स्यात् । यतः परिपूर्ण्णाङ्गाऽधिकृतस्य विकलाङ्गप्रयोगे कर्मान्तरप्रयोग इव । यथैव खल्वग्निहोत्रेऽधिकृतश्चैत्यवन्दनां कुर्वन्नाऽधिकारं सम्पादयति एवं साङ्गे तस्मिन्नधिकृतोऽङ्गहीनं निर्वर्त्तयन्न कृताधिकार इत्यर्थः ।
स्यादेतत् । अग्निहोत्रेऽधिकृतश्चैत्यं वन्दमानो नाऽधिकारं सम्पादयति । अधिकारविषयकरणस्य होमस्याऽननुष्ठानात् । जुह्वत्युत्तराङ्गहीनमप्यधिकार
प्रयोगे कर्म्मान्तरप्रयोग इव अङ्गप्रधानभेदोऽप्यत्राऽनुपकारकोऽधिकारविधिविषयत्वेनाऽभेदात् । भेदे चाऽनङ्गत्वप्रसङ्गः । अङ्गप्रधानभावस्य चासम्प्रधार्य्यत्वात् ।
विषयसम्पत्तेस्तथाभूतस्यैव होमस्याऽधिकारेण करणभावाऽऽक्षेपादधिकारं सम्पादयतीत्ययमङ्गप्रधानयोर्विशेषो यत्प्रधानाऽभावे नाऽधिकारो भवति अङ्गाभावे च सति प्रधानं भवतीत्याशङ्क्याह—अङ्गप्रधानभेदोऽप्यत्राऽनुपकारकः । कुतः ? इत्याह—अधिकारविधिविषयत्वेनाऽभेदात् । यद्यपि नियोगस्य भावार्थ एव प्रतिपत्त्यनुबन्धित्वाद्विषयस्तथापि साङ्गप्रधाने प्रयोजकत्वादङ्गानां प्रधानस्य च नियोगस्य विषयत्वेनाऽभेद युक्तः । यदि पुनरेतद्भयादधिकारनियोगस्याऽङ्गेषु प्रयोजकत्वं नाऽऽस्थीयेत ततो भेदे चाऽप्रधानस्य प्रयोज्यत्वेनाऽङ्गानां चाऽप्रयोज्यत्वेन विषयत्वाऽविषयत्वलक्षणेऽङ्गीक्रियमाणेऽनङ्गत्वप्रसङ्गः । येन येन विनाऽयं कार्यस्वभावोऽधिकारो नोत्पद्यते तत्तदात्मोपपत्तिनान्तरीयकत्वादाक्षिपति, नाक्षिपति चेदङ्गानि तर्हि तैरपि नोत्पद्येत, ततश्चाऽनङ्गत्वप्रसङ्ग इति भावः ।
किं चाऽस्यैकदेशिनो मतेऽङ्गप्रधानभावस्य चासम्प्रधार्यत्पादनुपकारक इति सम्बन्धः । इदमत्राऽऽकूतम् । कार्यरूपमपूर्व प्रत्ययार्थः । कार्यं च कृतिं पुरुषप्रयत्नं प्रति यदुद्देश्यं प्रधानम्, तच्च यथा ऽदर्शपूर्ण्णमासाभ्यां स्वर्गकामो यजेतेत्येतस्मिन्प्रतीयते515 तथा समिदादिवाक्येष्वपीति कार्यान्तरविषयकारणानां समिदादीनामधिकारं प्रत्यैदमर्थ्याऽनुपपत्तेः516 कार्यस्य च समिदादिविषयस्य कार्यमेव हि तन्न स्याद्यदन्यार्थमिति न्यायादधिकारकार्य प्रति तादर्थ्याऽभावादङ्गप्रधानभावाऽनुपपत्तिः ।
स्यान्मतम्, न हि कार्यमित्येव नाऽन्यार्थमपि तु यदनुष्ठेयम् । अनुष्ठेयं तदुच्यते यत्पुरुषेण ममेदं कार्यमिति निरपेक्षं कार्यमवगम्यते । परमाऽपूर्व च तन्न जातु तस्याऽन्यार्थप्रवृत्तेः कृतिव्याप्यताप्रतीतिः । अन्यस्य516 प्रधानस्याऽनवगमात् । ननु फलमीप्सितमवगम्यते न प्रथमतः प्रतीतेन कार्येण नियोज्यं विना पर्यवस्यता विशिष्टनियोज्याऽपेक्षिणा स्वर्गकाम इति नियोज्यविशेषणतया ग्रहणान्न फलप्रतिपादनपरं तत्पदं तदेव तु निरपेक्षं कार्यमवगतं साध्यस्वर्गविशिष्टेन नाऽनुत्पादयत्स्वर्गमुत्पद्यत इति स्वर्गोपायतामश्नुत इति निरपेक्षमपरकार्याऽपगमे सति फलाऽवगतिर्न पुनः फलाऽवगतौ सत्यां कार्याऽवगतिः । यतः साऽपेक्षत्वेन परमाऽपूर्वमनुष्ठेयं स्यात् । तदेव तु निरपेक्षं प्रयोजनं सत्परमाऽपूर्वमभिदधाति लिङ् स्वसन्निधिसमाम्नानैः स्वयं प्रयोजनीभूतैरवघातादिभिः समिदादिभिश्च प्रयोजनिभिरन्वितमभिधते इति
सत्यपि चोदनार्थाऽनिर्वृत्तेर्वृथा चेष्टाप्रसङ्ग इत्युक्तम् ।
कश्चायभधिकारो यस्य निर्वृत्तिः ? नियोगश्चेत् न निर्वृत्तिर्वि- तदिदं ग्राहकग्रहणमभिधीयते । तदेवं साऽधिकारविधिसन्निधिसमाम्नातेषु समिदादिविधिषु तदुपगृहीतविषयेषु517 ततः परमाऽपूर्वलक्षणकार्यप्रत्यभिज्ञानान्न द्रागित्येव कार्यान्तरबुद्धिरुदयमासादयति । पश्चात्तु कथमपि समिदादयः क्रियारूपतया विशरारवः परस्परमसम्भवन्तः प्रोक्षणादिवदपूर्वसाधनीभूतद्रव्यसंस्कारादिद्वारेणाऽपूर्वविषयाऽननुप्रवेशिनः परमाऽपूर्वेण ग्रहीष्यन्ते इति प्रसिद्धतरैदमर्थ्यानामवान्तराऽपूर्व कार्य समिदादीनामवकल्प्यमानं समिदादिगताऽऽख्याताऽभिधेयमपि परमाऽपूर्वपारतन्त्र्येणाऽभिधीयमानत्वात्कार्यमप्यननुष्ठेयमित्युपपन्नोऽङ्गभावः कार्यविषयाणामपि समिदादीनाम् ।
अत्रोच्यते । अधिकारवाक्येषु तावदमी लिङादयो निरपेक्षकार्याऽभिधानविदितशक्तयो न समिदादिवाक्येष्वन्यनिष्ठं कार्यमभिधातुमीशते । यदि परमवहन्त्यादिवत्किमाधिकाराऽपूर्वस्यैतेऽनुवादा, उताऽपूर्वान्तराऽभिध्यायिनः ? इति पदान्तरमवशिष्यते न पुनर्लिङ्गाद्यभिधेयस्य स्वप्रधानस्य कार्यस्य प्राधान्यपरित्यागो युक्तः । ननूक्तमधिकारसमाम्नाताः खल्वमी समिदादयस्तेनैवाऽधिकारविधिनाऽभिधानत एवाऽऽपादितैदमर्थ्या न स्वनिष्ठकार्यविषयतां प्रतिपत्तुमर्हन्ति, प्रकृताऽपूर्वैदमर्थ्यविरोधात् । न चाऽवहन्त्यादिवत्प्रकृताऽपूर्वविषयाऽनुप्रवेशिनः, ततश्च नाऽनुवादाः । न च स्वनिष्ठकार्याऽभिधायीनि तत्पदानीत्यभिधेयशून्यतया प्रमत्तगीतानि प्रसज्येरन्निति वरं प्राधान्यमात्रत्यागेन कार्याऽभिधायित्वमस्तीति ।
सत्यमुक्तम् । अयुक्तं तु तत् । न हि साऽधिकारो विधिः सन्निधिसमाम्नातमात्रमेव गृह्णातिमात्रं ही ? ज्योतिष्टोमविधिर्द्वादशोपसत्ताम् अपि तु यद्ग्रहणार्हम् । न च स्वनिष्ठकार्यविषयाः समिदादयो ग्रहणमर्हन्ति । ननु ग्राहकविरोधात्प्राधान्यं समिदादिविषयस्य नियोगस्य नास्ति । अथ प्राधान्यप्रतीतिविरोधाद् ग्राहक एव किमिति न परिह्रियते ? तत्र श्रुतिमात्रादेव नियोगप्राधान्यप्रतीतेर्निरपेक्षत्वाद्वाक्यान्तराऽऽलोचनया ग्राहकगृहीतेः साऽपेक्षतया प्राधान्यप्रतीतेर्बलीयस्त्वेन रात्त्रिसत्रादिवत्स्वतन्त्राऽधिकारकल्पनायां सत्यां नाऽङ्गभावः प्रयाजादीनां प्रधानभावश्च दर्शपूर्ण्णमासादीनामुपपद्येत इति सुष्ठूक्तमङ्गप्रधानभावस्य चासम्प्रधार्यत्वादिति ।
अभ्युपेत्याङ्गप्रधानभावं दूषणान्तरमाह—सत्यङ्गप्रधानभावे नैमित्तिकस्याऽनङ्त्वेऽस्य प्रयोगे चोदनार्थाऽनिर्वृत्तेर्वृथा चेष्टाप्रसङ्ग इत्युक्तम् । किं
चारिता । नियोज्यता चेत् सापि नियोगादेव निर्वृत्ता । स्वामिता चेत् न तत्कृतं518 किञ्चिदभुञ्जानः स्वामी, इत्युभावप्यधिकारौ कार्य्यनिष्ठौ स्याताम् । तस्मान्न कार्य्यनिष्ठत्वप्रयोगनिष्ठत्वाभ्यां काम्यनैमित्तिकाऽधिकारयोर्भेदः शक्यः समाधातुमित्यन्यथा समाधेयः ।
तदुच्यते—
जीवनादेर्न्निमित्तस्य साम्यात्कालो विशेषकः ।
निमित्तार्थस्तत्र जाते कर्म्मणोऽवश्यकार्य्यता ॥
चाऽयमधिकारो विवारं न सहते यस्य निर्वृत्तिरङ्गविकलेऽपि नैमित्तिकस्य प्रयोगे त्वयोच्यत इत्याह—कश्चाऽयमधिकारो यस्य निर्वृत्तिः ? त्वयोच्यतइति शेषः । एकदेशी स्वपरिभाषयाऽऽह—नियोगश्चेत् । दूषयति— तन्निर्वृत्तिर्विचारिता । उक्तं हि नियोगस्य न कार्यतेत्यत्र विषयः कार्यो न नियोज्यस्य नियोक्तृत्वप्रसङ्गादिति । भाषान्तरेणाऽऽह—नियोज्यता चेत् परिहरति—सापि नियोगादेव निर्वृत्ता भावार्थविषयं नियोगमवबुद्ध्यमान एवायमधिगतनियोज्यभावो न तदधिगमायाऽनुष्ठानं यावद्गच्छेदिति । व्यर्थीकृतपरिभाषो लौकिकमधिकारपदस्यार्थमाह—स्वामिता चेत् । ईश्वरवचनो ह्ययमधिकृतशब्दो लोके प्रसिद्ध इति भावः । एतद्दूषयति—न तत्कृतं किञ्चिदभुञ्जानः स्वामी, एवं हि नैमित्तिकं कर्म सम्भवति पुरुषस्य स्वामिनः, यदि तत्कर्म तस्योपकारे वर्त्तते । द्वयी चेयमुपकारजातिहिन्तप्राप्तिरहिन्तनिवृत्तिश्च । न च हिताऽहितप्राप्तिपरिहाराऽनुयायि त्वन्मते नैमित्तिकं कर्म कल्पते । यदुच्यते नैमित्तिकादन्यपूर्वपुरुषगुणो जायते, जायतां नाम न पुनरयमधिकारः519 स्वयमसुखरूपत्वादतद्धेतुत्वाच्च । यदि त्वेतद्भयान्नैमित्तिकस्यापि पुरुषोपकारकत्वमङ्गीक्रियेत तत उभावप्यधिकारौ520 कार्यनिष्ठौ स्याताम् । इतिशब्दस्तस्मादर्थे । प्रकृतमुपसंहरति—तस्मान्न कार्यनिष्ठत्वप्रयोगनिष्ठत्वाभ्यां काम्यनैमित्तिकाधिकारयोर्भेदः शक्याऽध्यवसानः521 ।
स्वमतपातनिकां करोति—तस्मादन्यथा समाधेयः । तदुच्यते ।
जीवनादेर्निमित्तस्य साम्यात्कालो विशेषकः ।
निमित्तार्थस्तत्र जाते कर्मणोऽवश्यकार्यता ॥
यदि श्रुतिमात्राऽपेक्षोऽधिकारो भवेत् ततोऽन्धशूद्रादीनां काम्ये नैमित्तिके चाऽविशेषेण प्रसज्येत, त्रैवर्ण्णिकानां चाऽग्निहोत्रं सततमकुर्वतामधिकाराऽतिक्रान्तिः स्यात् । न त्वस्माकं श्रुत्यपेक्षोऽधिकारः किं त्वङ्गो पदेशाऽनुरोधेन शक्त्यपेक्षः । तथा चाऽशक्तानामन्धशूद्रादीनां त्रैवर्ण्णिकानां च मध्यन्दिने सायमादिसमयमुपसंहर्तुमसमर्थानां नाऽधिकारः । नन्वेवं काम्यवन्नैमित्तिकेष्वप्यङ्गोपदेशाऽनुरोधेन यदेत्युपपद्येत ।
तत्रोच्यते । इदं तावदत्र भवान् पृष्टो व्याचष्टाम्, यदेतत्काम्ये सर्वाङ्गोपसंहारसमर्थोऽधिकारीति, तत्किं स्वर्गकामवत्साक्षाच्छब्दाऽवगतम्, उताङ्गोपदेशाऽनुरोधात् ? तत्र न तावत्स्वर्गकामपदमिव सर्वाङ्गोपसंहारसमर्थपदमधीयते522 समाम्नातारः । अथाङ्गोपदेशाऽनुरोधादसमर्थ प्रति तदुपदेशाऽनुपपत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति । यथा “स्रुवेणाऽवद्यती”त्यत्राऽश्रुतमपि द्रव्यादि यच्छक्यत इत्युपबन्धात्सम्बन्ध्यते एवमश्रुतमपि सर्वाङ्गोपसंहारसामर्थ्यमनुपादेयं सदधिकृतविशेषणतया सम्भन्त्स्यते । युक्तं काम्ये तत्र सर्वाङ्गोपसंहारसामर्थ्यविषयाया अर्थापत्तेः परिपन्थ्यभावेनाऽप्रत्यूहमुपपत्तेः अर्थिपदस्य च समर्थेऽपि सम्भवादविरोधात् । न खलु समर्थः स्वर्गकाम इत्युक्तम् । इह तु निमित्तश्रुतिविरोधः । तथा हि । “यावज्जीवं जुहुयादि”ति यावदुपसम्बद्धं जीवनं कर्त्तव्यतायां निमित्तम् । यस्मिन् सति नैमित्तिकं भवत्येव भाक्तमितरदित्युपरिष्टादुपपादयिष्यते । तेन जीवने सति कर्त्तव्यमेव न न कर्त्तव्यमिति प्रतीतेर्निमित्तेसम्बन्धाऽवश्यकर्त्तव्यताऽऽपत्तिः,523 निमित्तवदङ्गोपदेशाऽनुरोधात् । तदुपसंहारसामर्थ्यविशेष उद्भवसमाधौ ख्यातः प्रतीयते । स चाऽनित्य इति तन्नान्तरीयकत्वादवश्यकर्त्तव्यताऽऽपतति । न चास्ति कश्चिदपि पुरुषधौरेयस्तथापि524 विधौ दैवसम्पन्नो यो यावज्जीवं सायम्प्रातरप्रत्यूहमविकलाङ्गमग्निहोत्रमपि प्रयोक्तुं समर्थः । अन्तरायाणां व्याधितोदप्रमादादीनामवश्यम्भावनियमात् । तत्सहभुवां च दुःखदौर्मनस्यादीनाम् । तदनयार्निमित्तोपदेशसर्वाङ्गोपसंहारसामर्थ्ययोर्विरोधान्निमित्तस्य च श्रौतत्वेन तदनुगुणं सामर्थ्यमुपवर्णनीयम् । नन्वङ्गान्यपि श्रुतान्येव किमतस्तान्यपि नित्यवच्छ्रुतानीति बहूनां श्रुतीनामनुरोधेन वरमेका निमित्तश्रुतिः “त्यजेदेकं कुलस्याऽर्थे” इतिवत्परित्यज्यताम् । तत्किमियं निमित्तश्रुतिस्तपस्विनी प्रमत्तगीतमेव अपि तु मुख्यं परित्यज्य गौणं निमित्तभावं यस्मिन्सत्येव नाऽसतीत्येवं भूतमबलम्बते ?
अत्रोच्यते । न तावत्साक्षादङ्गश्रुतयो निमित्तश्रुतिविरोधिन्यः । न हि तस्य तस्याङ्गस्य क्रिया निमित्ते सति न सम्भवति । ननु नित्यवच्छ्रुतानि न चाङ्गानीति विरोधः । सत्यं नित्यवच्छ्रुतानि न त्वङ्गविधयः प्रधानविधिनिरपेक्षा अङ्गानुष्ठानं प्रयोक्तुमीशते । तथा ह्यङ्गभावना
यस्तावद्यथोक्ताय प्रयोगायैकान्ततोऽसमर्थः स दूरपर्य्युदस्त एवाऽधिकारात् । न त्वसौ525 तादृशे नियोज्यतया प्रत्येतुं पार्य्यते । तेन शक्त्यङ्गो-
भाव्याऽऽकाङ्घा स्ववाक्ये भाव्यमपश्यन्ती विध्यापादितत्वेन चाऽपुरुषार्थाद्वाच्यार्थात्प्रच्याविता पुरुषार्थात्मकं भाव्यमपेक्षते, प्रधानभावना च निमित्तवत्यवश्यकर्त्तव्यतागोचरो लब्धनित्यसमीहितसाध्यतत्साधना स्वसाधनोपकारहेतुमपेक्षते । तदियमङ्गभावना करणोपकारलक्षणं भाव्यमासाद्य प्रधानभावना च करणोपकारं प्राप्य निर्वृणुतः । ततश्च प्रधानविध्याकाङ्घितोपकारसाधनेष्वङ्गेषु प्रधानाऽधिकृताऽधिकारप्राप्तिलब्धानुष्ठानेऽप्यप्रधानानुरोधेन निवृत्तिर्व्यवस्थापनीया । तद्विरोधे तु तदधिकृताऽधिकारभावेनाऽनुष्ठानाऽनुपपत्तेरङ्गविधीनां तत्त्वं हीयेत । न च निमित्तसम्बन्धादवश्यङ्कर्त्तव्यं प्रधानं कादाचित्केनाङ्गसाकल्येन सम्बन्धार्हम्, नित्याऽनित्यसम्बन्धविरोधात् । ननु प्रधानमपि कथं निमित्तेन सम्भन्त्स्यते ? न ह्यग्निहोत्रमङ्गहीनमपि यावज्जीवं शवयसम्पादम् । अन्तरायाणामपि सम्भवात् । यद्युच्येत विधिसामर्थ्यादनुष्ठात्रा निपुणेन भवितव्यम् । तदङ्गसाकल्येऽपि तुल्यम् । मैवम् । यस्य हि निमित्तसम्बन्धस्तदवश्यकर्त्तव्यम्, स च प्रधानस्येति तदेव तथा । तत्र च स्वरूपेणाऽन्याऽसत्त्वादनुष्ठातुर्नैपुण्यमपि सम्भवति न त्वङ्गेषु निमित्तश्रुतिः । यतस्तेषामप्यवश्यकर्त्तव्यता स्यात् । प्रधानसम्बन्धात्तेषामप्यवश्यम्भाव इति चेत्, नाऽवश्यकर्त्तव्यतोपहितमर्यादेन प्रधानविधिना वास्तवमङ्गसाकल्यस्यावश्यम्भावमननुरुध्यमानेन यदा526 यावन्त्यङ्गानीत्युपबन्धात् । तदेवं निमित्तश्रुतिः प्रधानवाक्यस्था प्रथममेव स्वविषयं प्रधानेन सहैकलोलीभावमुपनयन्ती भूयसीरप्यङ्गश्रुतीः स्वाऽनुगुणतया व्यवस्थापयन्ती नैताभिर्जधन्यवृत्तितामापाद्यते । न चैवमितराङ्गवैकल्यवत्कालापगमेऽपि प्रधानप्रयोगसम्भवान्न तस्य हि गुणत्वेऽपि निमित्ताऽनुप्रवेशोऽपि वक्ष्यते । न चान्धशूद्रादीनामधिकारः । यतो “यावज्जीवमग्निहोत्रं जुहुयात्” इति भावनालब्धसाध्यतत्साधना527 कथमिति स्वकरणोपकारजनकाकाङ्क्षा अङ्गोपदेशैर्निराकाङ्क्षीक्रियते । तत्र सर्वाङ्गोपदेशानुरोधादसमर्थस्यानुष्ठानाऽसम्भवात् समर्थस्यापि चाऽनुभूततद्भावस्य तदनुपपत्तेः सर्वाङ्गोपेतप्रधानाऽनुष्ठानगोचरसामर्थ्योद्भूतिरधिकारी काम्यवदिति सामर्थ्य तदुद्भूतिश्चाऽधिकृतविशेषणतयाऽवगम्यते । तत्र निमित्तश्रुतिविरोध इति तदविरोधायाऽवश्याऽबहेयेऽन्यतरस्याऽनुद्भवमात्रं हीयतां नाङ्गसामर्थ्यम्, उभयहानिप्रसङ्गादिति नाऽन्धशूद्रादीनामधिकारो नापि शक्यप्रतिकारव्याधीनामनधिकारो नैमित्तिक इति सिद्धम् ।
पदेशावपेक्ष्य समर्थस्य तावदधिकारप्रतीतिः । सा चेयमधिकारप्रतीतिर्न्नेति पर्य्यवसिता अनित्यत्वात्सामर्थ्यस्यअन्यथाऽधिकृतस्य सर्वाङ्गोपसंहाराऽभावे नाऽनुष्ठानं यथासम्भवम् अन्यथाऽन्यादृशेऽधिकारात्तादृशप्रयोगस्याऽशास्त्रीयत्वान्नानुष्ठानमनधिकारात् । अतः पुनरपि शक्त्यपेक्षाऽधिकारप्रतिपत्तिपर्य्यवसानाय । शक्तिर्हि प्रमाणैकदेश इत्युक्तम् । न प्रयोगनिश्च-
तदिदमाह—यस्तावत् यथोक्ताय प्रयोगायैकान्ततोऽसमर्थः शूद्रपङ्ग्वादिः स दूरपर्युदस्त एवाधिकारात्528 । कुतः ? इत्याह—त त्वसौ तादृशे529 नियोज्यतया प्रत्येतुं पार्यते । तेन शक्त्यङ्गोपदेशावपेक्ष्य समर्थस्य तावदधिकारप्रतीतिस्तावदिति । स्फोटयति—साचेयमधिकारप्रतिपत्तिर्नैमित्तिके नेति पर्यवसिता अनित्यत्वात्सामर्थ्यस्याऽनैमित्तिकस्य चाऽवश्यकार्यत्वात् अवश्यमनवश्यम्भावयोश्च विप्रतिषेधादिति भावः । ननु भवतु सर्वाङ्गोपसंहारसामर्थ्यमनित्यं तथापि तेनैवाऽधिकारप्रतिपत्तिः पर्यवस्यतु, समर्थस्त्वधिकृतः कुतश्चित्प्रतिबन्धात्किञ्चिदङ्गमुपसंहर्तुं तदानीमशक्तोऽपि यथाकथञ्चित्प्रयोक्ष्यत इत्येतन्निराकर्त्तुमाह—अन्यथाऽधिकृतस्य सर्वाङ्गोपसंहाराभावे सति नाऽनुष्ठानं यथासम्भवमन्यथेति । यद्येतावत्यधिकारप्रत्ययः पर्यवस्येदित्यर्थः । कस्मादित्याह—अन्यादृशेऽधिकारात्सर्वाङ्गोपपन्ने तत्समर्थस्याऽधिकारात् तादृशप्रयोगस्य न्यूनाङ्गस्य प्रयोगस्याऽशास्त्रीयत्वान्नानुष्ठानम्, न्यूनाङ्गस्याऽनधिकारात् ।
एतदुक्तं भवति । अधिकारप्रतीत्या सह प्रवृत्तेः सम्प्रतिपत्तौ सत्यां शास्त्रीयत्वम्, इह त्वङ्गसाकल्यवैकल्यलक्षणे विरुद्धधर्मसंसर्गाद्विषयभेदेऽपि प्रतिपत्तौ सत्यां प्रातिभत्वं प्रयोगस्येत्युपसंहरति—अतः पुनरपि शक्त्यपेक्षाऽधिकारप्रतीतिपर्यवसानाय । शक्त्यपेक्षेति याऽसावङ्गोपदेशासामर्थ्यलब्धा ऽशक्तिश्रुतिस्तस्या यदेत्युपबन्धस्य नित्यश्रुतिविरोधादुपबन्धान्तरापेक्षोपबन्धावशक्तिरिति शक्त्यपेक्षेत्युक्तम् । शक्त्या च विषयेण विषयिणीं शक्तिश्रुतिं लक्षयति । यथा धूमादग्निः प्रतीयते इति धूमेन धूमज्ञानलक्षणा । अथ कस्मादधिकारप्रतिपत्तिपर्यवसानाय शक्तिश्रुतिरपेक्ष्यते । यावतोपबन्धविशेषशून्यायामधिकारप्रतिपत्तौ पर्यवसितायां पश्चाद्यथाशक्तिप्रयोगं शक्तिरेव निश्चाययिष्यतीत्यत आह—शक्तिः शक्तिश्रुतिः प्रमाणैकदेशश्चोदनैकदेश इत्युक्तमाचार्यैः । तथा च तदन्तर्भावेनैवाऽधिकारप्रतीतिपर्यवसानमित्यर्थः । यदि तु न चोदनैकदेशः स्यात्प्रमेयमात्रं शक्तिर्न प्रयोगनिश्चयाय कल्पेतेति शेषः । इदमत्राकूतम् । तत्त्वनिश्चयो हि प्रमाणस्य, कार्यप्रमेया
याय, अनन्यप्रमाणकत्वात्तस्य । सा कालतोऽङ्गतो वाऽऽश्रीयेत । तत्राङ्गतः संश्रये शब्दाऽवगतानामङ्गान्तराणां हानाच्छब्दविरोधः । कालतस्तु कालान्तराणामशब्दार्थत्वान्न कश्चिद्विरोधः । स चाऽयमविरोधो निर्न्निमित्तेऽधिकारे इदमनेनेदृशेनेत्येतावन्मात्रस्य शब्दार्थत्वात् । सन्निमित्ते तु निमित्तश्रुतिविरोधः । सम्प्राप्ते च तस्मिन्कार्य्यस्य तन्निमित्तत्वव्याघातात् । इतरत्रापि स्वर्गकामश्रुतिविरोध इति चेत् । उक्तम् । न च पुरुषविशेषनिर्द्देशो-
च शक्तिरिति कारणविरुधोपलब्ध्या प्रयोगनिश्चयो निवर्त्तत इति । अथ शक्तिज्ञानमेव प्रमाणं सत्प्रयोगं निश्चाययेत् । किं चोदनैकदेशत्वेन शक्तिश्रुतेः ? इत्याह—अनन्यप्रमाणकत्वात्तस्य प्रयोगस्य न530 शक्तिज्ञानं प्रमाणमिति ।
सम्प्रति पूर्वपक्षी यस्मिन्सत्येव नाऽसतीति नित्यवदङ्गोपदेशाऽनुरोधान्निमित्तभावं मन्यमानो विमृशति—सा च शक्तिःकालतो वाऽङ्गतो वाऽऽश्रीयते कालाद्वेति । सर्वाङ्गोपसंहारसामर्थ्यमपेक्ष्य यदा शक्नुयादिति यावत् । एवं विमृश्याङ्गत इति प्रतिपक्षनिराकरणपूर्वकं कालादिति पक्षमवधारयति— तत्राङ्गतः संश्रये शब्दाऽवगतानामङ्गान्तराणां हानाच्छब्दविरोधः । कालतस्तु कालान्तराणामशब्दार्थत्वान्न विरोधः । नित्यवदङ्गानामुपदेशादन्यतमत्यागे तद्विरोधः । यदेत्युपबन्धे तु कालान्तराणामनुपदिष्टत्वान्नोपदेशविरोध इति काम्ये नैमित्तिके च यदेत्येव युक्तम् ।
परिहरति—स चाऽयमविरोधो निर्निमित्तेऽधिकारे531 । कुतः ? इदं भाव्यमनेन करणेनेदृशेनेतिकर्त्तव्यताविशेषवतेत्येतावन्मात्रस्य शब्दार्थत्वान्नावश्यकर्त्तव्यता प्रतीयत इत्यर्थः । सन्निमित्ते तु निमित्तश्रुतिविरोधे कस्मात्सम्प्राप्ते च तस्मिन्न कार्यस्य तन्निमितत्वव्याघातात्सम्प्राप्त इति प्रकृतिप्रत्ययाभ्यामनुपादेयतां निमित्ततां च कथयति । चशब्दोऽपेरर्थे विरोधद्योतनः । सति भवत्येव न भवतीति निमित्तार्थो न भवदुक्त इति वक्ष्यते । न चाङ्गविधिविरोध इति प्रपञ्चितम् इति भावः532 ।
पार्श्वस्थः सिद्धान्तिनं पर्यनुयुङ्क्ते—इतरत्रापि स्वर्गकामश्रुतिविरोध इति चेत् । समर्थमसमर्थं चाऽर्थिमात्रं प्रत्यसङ्कुञ्चितवृत्तिरर्थिश्रुतिः समर्थ प्रति नियम्यमाना पीड्यतैत्यर्थः । समाधत्ते—उक्तमिति । केवलपदार्थव्यवहाराऽभावादित्यादिना प्राक् । अर्थिपदस्य चाऽधिकारिवचनतामभ्युपेत्येदमुक्तम् । परमार्थतस्तु नेदमधिकारिप्रतिपादनपरम्, अपि तु भावनाकाङ्क्षितभाव्यविशेषपरम् । अर्थात्त्वधिकारिप्रतिपत्तिरित्युपरिष्टादिहैव वक्ष्यते
ऽत्र विवक्षितः, साध्यत्वात् । न च सातत्येन प्रयोगः533 । निमित्ते कालविशेषवतः कर्त्तव्यताऽवगमात् । कालविशेषेण तस्याऽर्थाद्विशेषणात् । तस्या निमित्ताऽनुप्रवेशित्वात् । तदुक्तं न कालो गुणो निमित्तं ह्येतदिति । न गुण एवेत्यर्थः । नत्वङ्गान्तराण्येवम्, असाम्याद्वचनव्यक्तिभेदात् ।
उक्तं च भावनाविवेके, ततोऽधिकारिपदाऽभावात्कुतस्तद्विरोधितेति इति दर्शयति—न च पुरुषनिर्देशोऽत्र विवक्षितः, साध्यपरत्वात् ।
एवमुक्तां कारिकामुक्त्वा कारिकार्थपातनिकां करोति च किञ्चित्—न च सातत्येन प्रयोगः । अत्रैव शङ्कते—यदि निमित्तश्रुतिवशादङ्गहीनमपि यथाशक्ति प्रयुज्येत ततः कालस्यापि सायमादेरङ्गत्वेन विधानात्तदभावे मध्यन्दिनादौ जीवनस्य निमित्तस्य विद्यमानत्वादग्निहोत्रप्रयोगप्रसङ्गः । सायमाद्यङ्गापगमेन वा534 तदा तदप्रयोगेऽङ्गान्तराभावेप्यप्रयोग535 इति काम्यवद्यदेवेत्येवं प्राप्तमिति । तदनेन निराक्रियते—न च सातत्येन प्रयोग इति । निमित्ते कालविशेषवतः कर्त्तव्यतावगमात् । एतदुक्तं भवति । प्रयोगाङ्गमप्ययं कालोऽनुपादेयत्वादङ्गोपसंहारसामर्थ्यमिव नियोज्यं विशिनष्टि । तेन तदभावान्मध्यन्दिनादौ नाऽधिकारे विष्णुक्रमणादिसामर्थ्याऽभावादिव पङ्ग्वादीनामिति । नन्वङ्गतया कालः श्रूयते नाधिकृतविशेषणतया । तथा हि । अप्रवृत्तप्रवर्तन्तात्मको विधिः प्रवर्त्यपुरुषविशेषसमधिगतसाङ्गप्रधानतया, तत्कथं तद्वतोऽधिकारावगमः ? इत्यत आह— कालविशेषेण तस्यार्थाद्विशेषणात् । यद्यप्यङ्गत्वेन श्रूयते कालस्तथाप्यधिकृतविशेषणम् । तथा ह्यप्रवर्तप्रवर्तनात्मको विधिः प्रवर्त्यपुरुषसमधिगतसाङ्गप्रधानविषयोऽनुपादेयवस्त्ववच्छिन्नं प्रवर्त्यपुरुषविशेषं कल्पयितुमुद्यतः तस्य विषयं चाऽनुपादेयत्वविधेयत्वलक्षणयोः प्राप्त्याप्तिभ्यां विरोधाद्विशेषणतया स्वीकर्तुमसमर्थो यथाविनियोगमधिकारावगमाच्च तन्नान्तरीयकसाङ्गप्रधानोपसंहारसामर्थ्यमनुरुध्यमानोऽनुपादेयाङ्गसामर्थ्यं च निमित्तं चाङ्गमपि प्रवर्त्यपुरुषविशेषणतया गृह्णाति । न च कालस्येतराङ्गग्रामवत्स्वक्रियोपसंहारसामर्थ्यमपि सम्भवति कार्याङ्गत्वात्सामर्थ्यस्य कार्यस्योपसंहारलक्षणस्य तदनुपादेयाऽनुपपत्तेः । काले हि कर्म क्रियते न कर्मणि कालः । तस्मात्कालविशेषेणाङ्गेनापि सता विधिः प्रवर्त्यपुरुषविशेषाऽपेक्षायामर्थात्तद्विशेषणात्तद्वतः कर्त्तव्यताऽवगमः । ततश्च न सातत्येन प्रयोग इति । कुतः ? इत्यत आह—तस्यापि निमित्ताऽनुप्रवेशित्वान्निमित्तसम्बन्धश्चैकं नियोज्याऽवच्छेदलक्षणो यथा सामान्यगुणयोरेकव्यक्तिसमवायः
उपादेयानि ह्यङ्गान्तण्यनुपादेयं निमित्तम् । एभिरेतानि वा कुर्य्यादित्यङ्गेषु वचनव्यक्तिः । अस्मिन् सतीति निमित्ते । ततोऽङ्गान्तराणि नालं निमित्तमनुप्रवेष्टुम् । कालस्त्वनुपादेयः समानवचनव्यक्तिरङ्गमपि सन्निमित्तमनुप्रविशतीति युक्तम् । अथ निमित्तोपसंहार एव किं नेष्यते ? काम्येऽपि तत्कालेच्छया । ननु प्रयोजनमेतत् ? सत्यम् ।
सम्बन्धो गौः शुक्ल इति सामानाधिकरण्यहेतुः । आचार्यस्यापि तत्रभवत एतदभिमतमित्याह—तदुक्तं “न कालो गुणो निमित्तं ह्येतदि”ति । ननु प्रयोगाङ्गं काल इति स्वतन्त्रसिद्धान्तभङ्गः प्रसक्त इत्याशङ्क्याव्याचष्टे—न गुण एवेत्यर्थः । निगित्तत्वं536 च निमित्तसम्बन्धाद् भाक्तं न पुनस्तत्त्वमेव, तत्कल्पनायां प्रमाणाऽभावात् । ननु यद्यङ्गमपि कालो निमित्ताऽनुप्रवेशी कस्मान्नाङ्गान्तराण्यप्येवम् ? अत आह—न त्वङ्गान्तराण्येवम् । कुतः ? असाम्यान्निमित्तेन । तदेव कुतः ? वचनव्यक्तिभेदात् । किं पुनः कारणं वचनव्यक्तिभेदे ? इत्यत आह—उपादेयानि ह्यङ्गान्तराणि कालात् अनुपादेयं निमित्तम्, ततो वचनव्यक्तिभेदः । तद्दर्शयति—एभिरेतानि वा कुर्यादिति अङ्गेषु वचनव्यक्तिः । अङ्गैः खलु करणोपकारे क्रियमाणेऽकृतानि न सन्तीति तान्यपि कियन्तएव । तदिदमुपादेयत्वमङ्गानाम् । तेन तत्रोभयी वचनव्यक्तिरुपपन्ना । एतैरेतानि पुरुषप्रयत्नाऽगोचरे त्वस्मिन्सतीति निमित्ते वचनव्यक्तिः । ततो वचनव्यक्तिभेदादङ्गान्तराणि नाऽलं निमित्तमनुप्रवेष्टुम् । कालस्त्वनुपादेयो यतस्तस्मान्निमित्तसमानवचनव्यक्तिः कालोऽङ्गमपि सन्निमित्तमनुप्रविशतीति युक्तम् । यथा अनुपादेये निमित्ते कर्म विधीयते तथा कालेऽपि न त्वङ्गान्तरेष्विति निमित्तवत्कालोऽधिकृतविशेषणं नाङ्गान्तराणीति सिद्धम् ।
अत्र पार्श्वस्थश्चोदयति—अथ निमित्तोपसंहार एव किं नेष्यते ? प्रथमङ्गत्वेन सम्बध्यते कालः पश्चात्त्वर्थान्निमित्तमनुप्रविशतीति किमनया परम्परया ? यत्सामान्येन यावज्जीवमिति श्रुतेः प्रसृतं जीवनं श्रुत्यैवाऽयं कालविधिः कालविशेषे उपसंहरिष्यति । नेयं कालश्रुतिरङ्गश्रुतिरपि तु निमित्तश्रुतिरेवास्त्वित्यर्थः ।
पार्श्वस्थान्तरं परिहरति—काम्येऽपि तत्कालेच्छया । अयमर्थः । यदीयं पौर्ण्णमास्याममावास्याममावास्यायामिति निमित्तश्रुतिः स्यात् तत्काम्येन न सम्बध्येत, न चैकमेव वाक्यं तस्यैव निमित्ततामङ्गतां च बोधयितुं पारयति वैरूप्यात् । निमित्ततया चोभयसम्बन्धे काम्येऽपि यथाशक्ति प्रयोगप्रसङ्गः । असम्बन्धे वा काम्यस्याऽनियतकालत्वाऽऽपत्तिरिति ।
हेतुस्तु यावज्जीवश्रुतेरनतिरिक्तार्थत्वम् । प्रकरणिनोऽप्यङ्गार्थत्वं च । तदेवमविरोधादनिमित्ते कालतः शक्त्याश्रयो यदेति, निमित्तवति तु निमित्तविरोधात्कालवत एवाङ्गतो यथेति ।
तदेतद् दूषयति—ननु प्रयोजनमेतत् । अयमभिसन्धिः । यदि प्रमाणप्रत्यालोचनया काम्यस्याऽनियतकालत्वं भवति भवतु का नः पीडा प्रामाणिकानाम् ? न जातु प्रयोजनाऽनुवर्ति प्रमाणम्, प्रमाणवशवर्त्तित्वात्तस्येति ।
परमसिद्धान्ती ब्रूते—सत्यम्, न प्रयोजनाधीनं प्रमाणमित्यर्थः । हेतुस्तु यावज्जीवश्रुतेरनतिरिक्तार्थत्वम् इदमत्राकूतम् । तत्र नाम सामान्यश्रुतिर्विशेषे उपसंह्रियते यत्र सा विशेषशास्त्रादतिरिक्ताऽर्था भवति, तद्यथा पुरोडाशं चतुर्धा करोतीति सामान्यश्रुतिराग्नेये उपसंह्रियते “आग्नेयं चतुर्धा करोती”त्यनेन, तत्र यद्याग्नेयं चतुर्धा करोतीत्येतावन्मात्रं न श्रूयते अनाग्नेयस्यापि प्रसज्येत तदुभयमर्थवत् । यदि तु पौर्ण्णमास्याममावास्यायां वा निमित्ते कर्म क्रियमाणं तर्हि नाऽजीवतो नाप्ययावज्जीवं स्यात् । निमित्ते सत्यवश्यकर्त्तव्यत्वात् नैमित्तिकस्येति यावज्जीवश्रुतेरनतिरिक्तार्थत्वप्रसङ्गः । अथोच्येत यदि यावज्जीवं दर्शपूर्णमासाभ्यामिति न पठ्यते ततः समुदायद्वयस्य प्रत्येकं निमित्तसम्बन्धात्प्रत्येकमधिकारविषयत्वं प्रपद्येत537 । तन्माऽत्र प्रसाङ्क्षीदिति यावज्जीवं दर्शपूर्ण्णमासाभ्यामिति वाक्यार्थः । अनेन हि यागषट्कस्यैकाऽधिकारविषयत्वमापाद्यत इति । तथापि यावज्जीवमिति व्यर्थम्, दर्शपूर्ण्णमासाभ्यां यजेतेत्येतावन्मात्रमेव पठितव्यम् । न चात्र स स्वर्गः स्यादिति स्वर्गकामाऽधिकारः । स्वर्गकामो यजेतेत्यनेनैव तस्याऽवगतेः । न च यावज्जीवमग्निहोत्रमित्यत्रायं परिहारः सम्भवति । अग्निहोत्रं जुहोतीत्युत्पन्नस्याऽग्निहोत्रस्य सायम्प्रातरग्निहोत्रं जुहोतीति सायम्प्रातर्लक्षणनिमित्तविधाने सति यावज्जीवमग्निहोत्रं जुहुयादिति वाक्यस्य वैयर्थ्यप्रसङ्गादिति । हेत्वन्तरं समुच्चिनोति—प्रकरणिनोऽप्यङ्गार्थत्वं च । संसाध्यसाधना खल्वियं प्रधानभावना स्वसाधनाऽनुग्रहाऽपेक्षा यद्यदङ्गे सन्निध्यानुपतितं तत्स्वसाधनाऽनुग्राहकतया गृह्णातीति । तत्प्रकरणे च कालविधिवाक्यं श्रुतं स्वगोचरस्याङ्गतामवगमयति न निमित्तभावम्, प्रकरणिनोऽङ्गाऽनपेक्षितत्वात् । तस्मात्कालविधिवाक्यं प्रकरणसहायं कालस्याङ्गतायां प्रमाणं न निमित्ततायामिति रमणीयम् ।
किं पुनरिदं यद्विरुणद्धि ? कालतः शक्त्याश्रयम् । कस्य चेति कुतो गम्यते निमित्तनैमित्तिकभावः ? कथं चाऽस्य नैमित्तिकसम्बन्धः ? यदि तावद्यस्मिन् सति । को विरोधः ? न हि कालतोऽपि शक्त्याश्रये तस्मिन्नसति तत्क्रिया सत्येव । अथ तस्मिन् सति क्रियते एव । स्याद् विरोधः । न त्वीदृशो निमित्तार्थः । हेतुर्हि निमित्तम् । न चाऽवश्यं हेतवः कार्य्यवन्तः । कार्य्यन्तु नाऽसति हेतौ । तस्मान्न विरोधः ।
सहेतुकं प्रकृतमुपसंहरति—तदेवमविरोधादनिमित्ते कालतः शक्त्याश्रयो यदेति, निमित्तवति तु निमित्तविरोधात् कालवत एवाङ्गतो यथेति । सुगमम् ।
एवं पूर्वार्द्ध कारिकाया व्याख्याय पश्चार्ध विवरीतुकामस्तदवतारयितुं निमित्तमाक्षिपति—कि पुनरित्यादिना । किमाक्षेपे । तत्र किं पुनरिदं तन्निमितं यद्विरुणद्धि कालतः शक्त्याश्रयमिति स्परूपाक्षेपः, कस्य चेति सम्बन्ध्यन्तराक्षेपः कुतो गम्यते । निमित्तनैमित्तिकभाव इति प्रमाणाक्षेपः कथमिति । तत्र स्वरूपाक्षेपं विभजते—यदि तावद्यस्मिन् सति । को विरोधः कालतः । शक्त्याश्रयेणेति शेषः । अविरोधं दर्शयति—न हि कालतोऽपि शक्त्याश्रये तस्मिन्नसति तत्क्रिया, अपि तु सत्येव सा । अथोच्यते । तस्मिन् सत्येव क्रियते नाऽसतीति नाऽवधार्यते, अपि तु क्रियते एव न न क्रियते इति भवत्यक्रियायां निमित्तविरोध इत्याह—अथ तस्मिन् सति क्रियतएवेति । दूषयति—स्याद्विरोधो न त्वीदृशो निमित्तशब्दस्यार्थः । हेतुर्हि निमित्तम् । ततः किम् ? न चावश्यं हेतवः कार्यवन्तः, ततश्च पूर्व एव निमित्तार्थः सत्येव नाऽसतीति । तथा च न विरोध इत्याह—कार्यं तु नाऽसति हेतौ, तस्मान्न विरोधः । इदमभिसंहितम् । लोकप्रयोगाऽवधारणाधीनो हि शब्दार्थसम्बन्धः । हेतुशब्दश्चाऽविवादं यस्मिन् सत्येव नाऽसति कार्य तस्मिन् प्रयुज्यते । न खलु कुसूलस्थं बीजमजनयदङ्कुरं हेतुतया न प्रतियन्ति लौकिकाः । तेन यथा व्याप्यव्यापकभाव उभयाश्रयोपि व्यापकसम्बन्धितया व्याप्ये भाव एवऽनाभाव इति व्याप्तसम्बन्धितया च नाऽन्यत्रेति निरूप्यते तथा कार्यकारणभावोऽपि कार्यस्य कारणे सत्येव नाऽसति भाव इति कारणस्यापि कार्यात्प्राग्भावो नाभाव इति निरूपणीयः । ततश्चायं निमित्तशब्दः । तस्मात्सोऽतदर्थ इति । कस्येत्याक्षिप्तं विभजते—यदि कर्मणो निमित्तं ततः कर्मप्रवृत्तेर्विधिवैयर्थ्यम्, सकलवचोवैयर्थ्यं च ।
यदि कर्मणो निमित्तं तत एव कर्म्मप्रवृत्तेर्विधिवैयर्थ्यम् । अनिरूपितादपि निमित्तान्निमित्तवद्दर्शनात् पुरुषकाराऽभावात् । न तस्य निमित्तादुत्पत्तिः । नित्यत्वात् । तस्य तस्मिन् सति न बोधः । वाक्यादेव तत्सिद्धेः । कर्मवैयर्थ्यम् । सति भवत्येवेति । सत्येव तस्मिन् कर्म्मणः फलमिति चेत् । विरोधाभावः सर्वाङ्गोपसंहारेण । अथाऽधिकारस्य । न, नियोगादधिकारः । स एव नियोगसम्बन्धस्तन्निमित्तः । यदि तर्हि
ननु किमिति वचोवैयर्थ्यम् ? यावता वचो निमित्तमवगमयिष्यति ततो निमित्तावगमात्पुरुषः कर्मणे घटिष्यते इत्याशङ्क्याह—अनिरूपितादपि निमितान्निमित्तवद्दर्शनात्पुरुषकाराऽभावात् । अयमभिप्रायः । तन्नाम हेतुभूतमपिशब्देन ज्ञायतां यदज्ञानमनुपात्तं सत्कार्यायाऽपर्याप्तम् । यथा यथास्वमुपादेयानि द्रव्यगुणकर्माणि कर्मणः न चेदमुपादेयं जीवनादि । तस्मात्सत्तामात्रेणैव कर्मणो हेतुरिति न पुरुषकारस्तन्निरूपणं चाऽर्थवदिति । अथ विधेर्निमित्तमित्यनुषज्यते । दूषयति—न तस्य निमित्तादुत्पत्तिः । कुतः ? नित्यत्वात्स्वाभाविकत्वात् । श्रेयः साधनता हि कर्मणो विधिः । न चाऽसौ निमित्तेन जीवनादिना कर्मण्याधीयते, अपि तु स्वकारणादेव श्रेयः साधनमुत्पद्यते कर्मणः । न च जीवनादि कर्मनिमित्तमित्युक्तमित्यभिप्रायः । ननु मा भूद्विधेस्तद्वोधस्य भविष्यतीत्यत आह—तस्य तस्मिन् सति न बोधः । कुतः ? वाक्यादेव तत्सिद्धेः । अथ फलस्य निमित्तमित्यनुषज्यते । दूषयति—कर्मवैयर्थ्यम् । यतः सति निमित्ते फलं भवत्येवेति । पुनः शङ्कते—सत्येव तस्मिन्निमित्ते कर्मणः फलमिति चेत् । न कर्माऽपेक्षा निमित्तभावं विहन्ति, मोपघानि तथा सर्वत्रेति भावः । सत्यमेवम्, अभिमतं तु नास्तीत्याह—विरोधाभावः सर्वाङ्गोपसंहारेण । निगदव्याख्यातम् । अथाऽधिकारस्य निमित्तमिति सम्बन्धः । एतदुक्तं भवति । येयं कर्मणि स्वामिता कर्मैतदस्य तदभिमतस्य जनकमिति पुरुषस्य प्रतीतिरसौ निमित्तादिति । निराकरोति—निमित्तात्किं तु नियोगादधिकारः । नियोगमवगच्छत् कार्ये भावार्थे विषये तिरश्चीनमात्मानं नियोज्यं प्रतिपद्यमानः पुरुषो नियोगविषये भावार्थे स्वामितामात्मनो नियोगसामर्थ्यादेव विजानातीति किं निमितेन ? इत्यर्थः । सत्यम्, नियोज्यता भावार्थविषयां स्वामितामाक्षिपति, सैव तु नियोज्यता नियोगसम्बन्धः पुंसो न निमित्तमन्तरेण भवति, तत्र निमित्तस्य सद्भावो भविष्यतीत्याशङ्कते—स एव नियोगसम्बन्धस्तन्निमित्तः । दूषयति—यदि तर्हि तन्निमित्तको नियोगो न नियोगान्निमित्ताऽवगतिः । अयमभिसन्धिः । जीवनादि निमित्तं नियोगसम्बन्धं पुंसो वदंस्त
तन्निमित्तको नियोगो न नियोगान्निमित्ताऽवगतिः । प्राक्सिद्धनिमित्तापेक्षः स शब्देनोच्यत इति सापेक्षत्वम् ।
अथ नियोज्यविशेषणस्याऽर्थान्निमित्तभावस्तस्मिन् सत्यधिकारात् । न चात्र प्रत्यक्षादि क्रमते । नापि शब्दः । विधिप्रधानत्वात् । तस्य च भावविषयत्वात् । तस्य चांशत्रयाऽतिरेकात् । तत्र विधीयमानस्य कर्म्मणः फले विधानात् तत्र विधौ निमित्ते उभयविधौ वाक्यभेद इति । न्निमित्तं नियोगमेव ब्रूते । न हि कार्यमित्येवाऽवगम्यते, अपि तु ममेदं कार्यमिति । एवं च स्वसम्बन्धिकार्यप्रतिपत्तिरेव नियोगप्रतीतिः । अतो निमित्ताऽवगतिपुरःसरं नियोगसम्बन्धं ब्रुवाणो नियोगमेव तत्पुरःसरमाह । ततश्च न नियोगान्निमिताऽवगतिः स्यादिति । मा भूत्को दोषः ? इत्यत आह—प्राक्सिद्धनिमित्तापेक्षः स शब्देनोच्यते इति सापेक्षत्वम् । निमित्तं हि नियोगस्य कारकं वा स्याद् ज्ञापकं वेति तृतीयस्य प्रकारस्य निमित्ततायामभावात् तत्कारकत्वे कर्मानुष्ठानवैयर्थ्याद् ज्ञापकत्वमवशिष्यते । तथा च प्राक्सिद्धेनैव निमित्तेन नियोगस्याऽवगमितत्वात्तदपेक्षमभिधानं शब्दस्येत्यप्रामाण्यप्रसङ्गः ।
अथोच्येत न वयं निमित्ताऽवगमान्नियोगाऽवगतिं ब्रूमहे, यदेवमुपालभ्येमहि । किं तु शब्द एव निरपेक्षो जीवनवतो नियोगमवगमयति । नियोगेन नियोज्यविशेषणस्यैव प्रथममपेक्षितत्वात् जीवनादेस्तदवच्छेदकत्वेन सम्बन्धः । नियोज्यविशेषणमेव तु जीवनादि निमित्तमित्युच्यते । तन्नियोज्यविशेषणे सत्येवाऽऽत्मसम्बन्धितया नियोगप्रतीतेः कर्मणि च स्वामिताऽवगमात् कर्तुरधिकारसिद्धेरित्याह—अथ नियोज्यविशेषणस्यार्थान्निमितभावस्तस्मिन्538 सत्यधिकारात् । अर्थान्निनित्तत्वं स्वर्गकामनाया अपि सम्भवति । न च सर्वाङ्गोपसंहारेण विरोधस्तथा यावज्जीवमित्यत्रापि स्यादित्यर्थः ।
एवं कस्य चेति विभज्य कुतो वेति विभजते—न चाऽत्र निमित्तभावे जीवनादेः प्रत्यक्षादि क्रमते । ननु मा नाम क्रमन्तां539 प्रत्यक्षादीनि, शब्दस्तु क्रंस्यते इत्यह आह—नापि शब्दः । कुतः ? विधिप्रधानत्वात् । तथापि कुतो न निमित्तविषयत्वम् ? इत्यत आह—तस्य च विधेर्भावविषयत्वाद्भावशब्दश्च ण्यन्ताद्भवतेरेरजित्यचिव्युत्पत्तेर्भावनामाह । यद्युच्येत भवतु भावनाविषयो विधिस्तत्सम्बन्धात्तु निमित्तमपि गोचरयन् तत्र शब्दं प्रमाण
उच्यते । यत्र जाते कर्म्मणोऽवश्यकर्त्तव्यता तन्निमित्तम् । कथम् ? यस्मिन् सति भवत्येव स हेतुर्मुख्यः, इतरस्तु भक्त्या । तदवस्थाभेदसम्बन्धात् । गौणमुख्ययोश्च मुख्ये सम्प्रत्यय इत्यावश्यकसिद्धिः । तन्निमित्त-
यिष्यतीत्यत आह—तस्य चांशत्रयाऽतिरेकात् । भावनासम्बन्धे सिद्धे निमित्तस्य चोदनार्थत्वम् स एव तु साध्यसाधनेतिकर्त्तव्यताऽतिरेकादसिद्ध इत्यर्थः ।
कथं चास्येति विभजते—तत्र निमित्ते विधीयमानस्य कर्मणः फले नित्यसमीहिते विधानात्तत्र फले विधौ निमित्ते विधानादित्यनुषङ्गः । उभयविधौ तूभयस्मिन् फले निमित्ते च कर्मविधौ वाक्यभेद इति । इतिश्चाऽऽक्षेपपरिसमाप्तौ ।
एवमाक्षिप्योत्तरतयोत्तरार्ध कारिकाया अवतारयति—उच्यते । यत्र जाते कर्मणोऽवश्यकर्त्तव्यता तन्निमित्तम् । जाते इत्यनुपादेयतां निमित्तभावोपयोगिनीं सूचयति । कर्त्तव्यतायां निमित्तमित्याह कर्मणां कर्त्तव्यतेति । यस्मिन् सति भवत्येव न न भवति तन्निमित्तमित्यवश्यग्रहणेन दर्शयति । एवं च वदता कर्त्तव्यतारूपविधिविशेषणतया निमित्तं सम्बध्यत इति वाक्यार्थाऽन्वयप्रकारोऽपि निमित्तस्यार्थात्सूचित इति । पूर्वोक्तानि प्रायेण पृच्छति— कथम् ? उत्तरम्—यस्मिन् सति भवत्येव स हेतुर्मुख्यः । ननु कार्यमकुर्वाणो सत्येव नाऽसतीति विवक्षित्वा हेतुशब्दं लौकिकाः प्रयुञ्जते, तत्र कथमसौ मुख्यो हेतुः ? इत्यत आह—इतरस्तु भक्त्या लक्षणया । सत्यमकुर्वत्यपि कार्य धूमादिलक्षणं वह्न्यादौ हेतुशब्दः प्रयुज्यते । न त्वेतावताऽसौ मुख्याऽर्थः । न खल्वयं हेतुशब्दो यद्यत् कार्यं जनयति तत्र सर्वत्र विशेषेण प्रवर्त्तमानो जनयति प्रवर्तितुमर्हति । न जातु दण्डविशेषणाऽधीनप्रवृत्ति दण्डिपदं दण्डविरहिणि चैत्रादौ वर्त्तते जनयतीति स एवोच्यते यस्मिन् सति कार्यं भवत्येव न तु यस्मिन्सत्येव तद्धि करोति न करोति च । करणं चोपाधिः प्रवृत्तौ हेतुशब्दस्य कथम् ? यत् करिष्यत्यकार्षीद्वा न तत्र हेतुशब्दः प्रवर्त्तते, अवर्त्तमानस्योपाधेरसत्त्वात् । असतश्च प्रवृत्तिनिमित्तत्वेऽतिप्रसङ्गात् । तस्माद्यस्मिन् सति भवत्येवेति तत्राऽयं निमित्तशब्दो मुख्यो भाक्त इतरत्रेति साम्प्रतम् । लक्षणायां बीजमाह—तदवस्थाभेदसम्बन्धात् । बीजादय एव हि परस्परसमवधानसमासादिताऽवस्थाविशेषा नियमेन कार्यशालिनः । यदाहुर्बाह्या अपि न किञ्चिदेकमेकस्मात्सामग्र्या540 सर्वसम्भव इति । तस्मादवस्थाविशेषा वाऽवस्थाविशेषशालिनो541 वा निमित्तपदाऽ
सामर्थ्यादेव । निमित्तमेव हि तन्न स्याद् यस्मिन् सति न क्रियेत ।
अवश्यकर्त्तव्यता च कर्म्मणः प्रतीता नोपसंहार्य्यनिखिलाङ्गस्य कल्पते, न कदाचिदहितोपायस्येत्यतो यथाशक्त्यङ्गसमवेतं सदा समभिलषितोपायं कर्म्मेति गम्यते । निमित्तता च कर्त्तव्यताया विधिरूपायाः । तस्मिन् सति तत्कुर्वतो यथाकथञ्चित्सदा समीहितमेनःक्षयं साधयत्येव । भिधेयाः । यत्र तु सोऽवस्थाविशेषो न वर्त्तमानस्तत्र सोऽभूद्भविष्यति वेति कथञ्चिदवस्थाभेदसम्बन्धाल्लाक्षणिक इत्यर्थः । ननु भवतु भाक्तम्, तथापि स एव हेतुः किमिति न ? इत्यत आह—गौणमुख्ययोश्च मुख्ये सम्प्रत्यय इति । तस्मादावश्यकसिद्धिः कर्त्तव्यतायाः । कुतः ? निमित्तसामर्थ्यादेव । सामर्थ्यमेव व्यतिरेकमुखेन दर्शयति—निमित्तमेव हि तन्न स्याद् यस्मिन् सति न क्रियेत । ततश्च सिद्धः सर्वाङ्गोपसंहारविरोधान्नैमित्तिके यथाशक्तिप्रयोगः । सदा समीहितोपायता चेत्याह—अवश्यकर्त्तव्यता च कर्मणः प्रतीता नोपसंहार्याऽखिलाङ्गस्य कल्पते । न कदाचिदीहितोपायस्येत्यर्थाद्यथाशक्त्यङ्गसमवेतं सदा समभिलषितोपायं कर्म नैमित्तिकमिति गम्यते । कस्य निमित्तमिति यदुक्तं तत्रोत्तरमाह—निमित्तता च कर्त्तव्यतायाः फलकर्त्तव्यताया व्यवच्छिनत्ति विधिरूपाया इति ।
ननु तस्य नित्यत्वादित्युक्तम्, तत्राह—तस्मिन्सति कुर्वतो यथा कथञ्चित्सदा समीहितमेनःक्षयं साधयत्येव । इदमाकूतम् । सत्यं कर्तृसमीहितोपायता कर्मधर्मो विधिः । स च स्वकारणादुत्पत्स्यमानस्य स्वाभाविकस्तथापि निमित्ते सत्यवश्यकर्त्तव्यत्वाद्यथा कथञ्चित् क्रियमाणं कर्तुः समीहितमुपात्तदुरितक्षयलक्षणं फलं साधयत्येव । एतदुक्तं भवति । निमित्ते सति स्वकारणेभ्यः कर्मोपजायमानमविकलाङ्मितरथा कर्त्तुः समीहितोपायतां कर्त्तव्यतामासादयति । नाऽसतीति भवति कर्त्तव्यतायाः कर्तृसमीहितसाधनताया विधेर्निमित्त542 श्रवणादिति ।
यदुक्तं निमित्तभावे प्रमाणाभाव इति, तत्र शब्दव्यतिरिक्तानामभावम्मृष्यामहे, न तु शब्दस्य । ननु विधिप्रधानः शब्दो विधौ तद्गोचरभावनायां तदङ्गेषु वा तत्सम्बन्धात्प्रमाणम् । न च निमित्तमेषामन्यतमम्, कथं तत्र चोदनात्वेन शब्दः प्रमाणम् ? इत्यत आह—भावव्यतिरेकेऽपि च चोदनाभूतशब्दप्रमेयत्वं निमित्तस्येति सम्बन्धः । भावशब्देनांशत्रयोपेतां भावनामाह ।
ननु निमित्तस्याऽनुपादेयत्वादविधेयस्य वाक्यभेदप्रसङ्गाच्चाऽनु543
भावव्यतिरेकेऽपि च शब्दप्रमेयत्वम् । अविधेयस्यापि विधिवद्विध्यनुप्रवेशाद्विधिविशेषणत्वात्544 । अत एव चास्य कर्म्मणा सह सम्बन्धे विकल्पोऽनवकाश इति चतुरस्रम् ।
ननु नियोज्यविशेषणं जीवनादि स्वर्गादिवन्मन्यन्ते, नियोगेन नियोज्यस्य प्रथममपेक्षितत्वात् । न ह्यनाश्रितनियोज्यविशेषो नियोगो लोके द्देश्यस्य कथं चोदनाभूतशब्दविषयत्वम् ? इत्यत आह—अविधेयस्यापि विधिवत् । अयमभिसन्धिः । नास्त्ययं नियमो यद्विधेयमेव सोद्देश्यं चोदनार्थ इति । विधेरविधेयस्य चाऽनुद्देश्यस्य चाऽचोदनार्थत्वप्रसङ्गात्, अपि तु यच्चोदना बोधयति निमित्तमिति विधिवत्तदपि तदर्थः । ननु विधि विधेयं वा बोधयन् शब्दश्चोदनात्वेन प्रमाणम्, न च निमित्तं विधिर्विधेयं वा, तत्कथं तत्र चोदनात्वेन शब्दः प्रमाणम् ? इत्यत आह—विध्यनुप्रवेशात् । स एवाऽविधेयस्य कुतः ? इत्यत आह—विधिविशेषणत्वात् । अयमभिसन्धिः । वैश्वानरं द्वादशकपालकर्म्म, तत्कर्त्तव्यता पुत्रजन्मनि सत्यसति चाऽविशेषेण प्रसक्ता न चाऽवश्यभाविनी स्यात् । अनेन त पुत्रजन्मना निमित्तेन जाते एव नाऽजाते कर्त्तव्यतैव नाऽकर्त्तव्यतेति व्यवस्थाप्यमाना निमित्तमविधेयमप्यनुद्देश्यमपि स्वयमनुद्देश्या वाऽविधेया च विशेषणतया गृह्णातीति विशेषणाऽभिधाने चोपपन्नं शब्दस्य चोदनात्वमिति ।
कथं चाऽस्य नैमित्तिकसम्बन्ध इति यदुक्तं तत्रोत्तरमाह—अत एव चास्य545545 कर्मणा सह सम्बन्धे विकल्पोऽनवकाशः । यत एवाऽविधेयस्य विशेषणतया विध्यनुप्रवेशित्वेन शब्दप्रमेयतया विधिसम्बन्धः546 अत एव विधेयेन कर्मणा सह निमित्तस्य सम्बन्धे यो विकल्पः कि निमित्तोद्देशेन कर्म विधीयते, आहोस्वित्कर्मोद्देशेन निमित्तमिति, तत्र यो दोषः प्रसञ्जितः स सर्वोऽनवकाशः । विधेयसम्बन्धनिबन्धनो विकल्पप्रसङ्गो नाऽविधेयसम्बन्धे भवितुमर्हतीत्यर्थ इति । तस्माच्चतुरस्रम् ।
यदुक्तं प्रथमत एव जीवनादिर्निमित्ततया सम्बध्यत इति, तत्प्रत्याचक्षाण आह—ननु नियोज्यविशेषणं जीवनादि स्वर्गादिवन्मन्यन्ते । न मननमात्राद्वस्तुसिद्धिरिति हेतुमुपन्यस्यति—नियोगेन नियोज्यस्य प्रथममपेक्षितत्वात् । अयमर्थः । कार्यं हि कृत्यधीनसत्त्वमननुष्ठीयमानं न तत्त्वे पर्यवस्यति, अनुष्ठानं च न कर्त्तारमन्तरेण, कर्त्तृता च नाधिकारं विना, अधिकारश्च
दृश्यते । तदभावे प्रतिपत्तिरेव न स्यात् । तद्विशेषणमेव तु स तस्मिन् सत्यधिकारान्निमित्तत्वेनाऽवतिष्ठते । स्वर्गादि तु साध्यतया काम्यत्वेन ।
नैतत्सारम् । विशेषणाऽनुपपत्तेः । न हि यावज्जीवनं तावता विशिष्टः कश्चित्कदाचिद्वा यो नियुज्यते नानावसन्तकालविशिष्टो वा । ममेदं कार्यमिति बोद्धारं नियोज्यमपेक्ष्य भवतीति कार्यबोद्धा नियोज्यभेदो न नियोगेन कार्येणाऽनन्यप्रयुक्ताऽनुष्ठानेनान्तरङ्गतया547 निमित्तान्नियोज्यस्यैव प्रथमपेक्षितत्वाद्विशेषणमन्तरेण च नियोज्यभेदाऽसिद्धिर्निमित्तस्याऽनुपादेयतया तदुपपत्तेर्नियोज्यविशेषणतयैव तावत्प्रथमं सङ्गतिर्न तु निमित्तत येति । लोकेऽपि चैतत् सिद्धमिति तत्पूर्वकत्वाद्वेदे न कथं सा सेत्स्यति ? इत्याशयवानाह—न ह्यानाश्रितनियोज्यविशेषो नियोगो लोके दृश्यते । निमित्तमन्तरेण पुनर्लोके वेदे च यथायथं नियोगो दृश्यते एवेत्यर्थः । ननु नाऽदर्शनमात्राद्व्यावृत्तिरित्यत आह—तदभावे नियोज्यविशेषस्य प्रतिपत्तुरभावे प्रतिपत्तिरेव न स्यात् । तदुक्तमाचार्येण “न हि देवदत्तं यज्ञदत्तं वाऽनुद्दिश्य लिङादयः प्रवर्त्तन्त”इति । ननु यदि निमित्तमप्यधिकृतविशेषणं ततो निमित्तत्वेनाऽसम्बन्धान्न नैमित्तिकत्वं कर्मण इति स्वसिद्धान्तव्याकोपः प्राप्त इत्यत आह—तद्विशेषणमेव तु स तस्मिन् सत्यधिकारान्निमित्तत्वेन अवतिष्ठते । जीवनादेरधिकृतविशेषणस्यापि सतस्तस्मिन् सत्यधिकारादर्थान्निमित्तत्वमस्तीति तद्योगान्नैमित्तिकं कर्मेति कुतः सिद्धान्तव्याकोप इत्यर्थः । नन्वीदृशं स्वर्गादेरपि निमित्तत्वमिति काम्यस्यापि नैमित्तिकत्वप्रसङ्ग इत्यत आह— स्वर्गादि तु साध्यतया काम्यत्वेनाऽवतिष्ठत इत्यनुषङ्गः । अयमभिसधिः । सत्यप्यधिकृतविशेषणत्वे स्वर्गादेर्न निमित्तभावः । कमियोगाऽऽपादितेन साध्याभावेन विरोधान्निमित्तत्वस्य च सिद्धतया सहैकार्थसमवायनियमाद्व्यापकविरुद्धोपलब्ध्या विनिवृत्तेः । जीवनादेस्तु सिद्धत्वे निमित्तत्वमविहितमिति सिद्धः काम्यनैमित्तिकविवेक इति ।
तदेकदेशिमतं सिद्धान्ती दूषयति—नैतत्सारम् । कुतः ? विशेषणाऽनुपपत्तेः । तामेवाह—न हि यावज्जीवनं तावता विशिष्टः कश्चित्कदाचिद्वा यो नियुज्यते548 नानावसन्तकालविशिष्टो वा । अयमर्थः । जीवनं नाम प्राणधारणमुच्यते । तत्पदं चेह यावच्छब्दसमभिव्याहृतं यावतां वा प्राणिनां जीवनानि यावन्ति वा यावत्कालं वा पुंस एकस्य जीवनमभिदधीत । तत्र प्रथममध्यमयोः कल्पयोर्दूषणं—न हि यावतां पुंसां यावन्ति वा जीवनानि
न जीवनमात्रं वसन्तमात्रं वा विशेषणम् । अवाच्यत्वाज्जीवनस्य । यावद्वीप्सयोरनन्वयाच्च । न च प्राप्तयोरनुवादः । जीवतोऽपि स्वर्गकामस्यैवाऽधिकारे यदा शक्नुयादित्युपबन्धाद्विरोधाऽभावात् । क्रमपर्यन्ताऽपेक्षित्वान्नियौगस्य नाऽङ्गहानम् । तस्माद्यावद्वीप्सार्थाऽनन्वयाद्यथा न कर्तृविशेषणं जीवनम-
सम्भवन्ति, जात्यभिप्रायमेकवचनम्, तावता विशिष्टः कश्चिदेकः पुरुषः सम्भवति । तृतीयकल्पदूषणाम्—कदाचिदिति । न हि कालत्रयविप्रकीर्ण्णजीवनवानेकदा पुरुषः सम्भवी, सम्भवे व्यभिचारे वाऽर्थवद्विशेषणम् असम्भवे कथं भवेत् ? इति नानावसन्तकालविशिष्टो वा । कदाचिदिति वाक्यान्तरेण हि ज्योतिष्टोमस्य कालसम्बन्धे विहिते वसन्ते ज्योतिषा यजेतेति निमित्तार्था श्रुतिरित्याशयः । अथोच्येत न यावद्वीप्से अधिकृतविशेषणे अपि तु जीवनवसन्तौ, तयोश्चाऽस्ति सम्भव इत्यत आह—न जीवनमात्रं वा वसन्तमात्रं वा विशेषणम् । तत्र जीवनमात्रस्याऽविशेषणत्वे हेतुमाह— अवाच्यत्वाज्जीवनस्य । सत्यमस्ति सम्भवो न तु व्यभिचारः । नो खल्वजीवतो नियोज्यता सम्भवति, या जीवनेन व्यवच्छिद्येत, ततश्चास्य व्यवच्छेद्याऽभावाद्विशेषणत्वेनाऽवाच्यत्वं जीवनस्येत्यर्थः । जीवनवसन्तसाधारणं च हेत्वन्तरं समुच्चिनोति—यावद्वीप्सयोरनन्वयाच्चैकपुरुषसम्बन्धितया एकदाऽधस्तादसम्भव उक्तः ततोऽनन्वयाद्यावद्वीप्सयोः प्रमत्तगीतत्वप्रसङ्गादित्यर्थः ।
स्यादेतत् । यद्यपि शाब्दमधिकृतविशेषणत्वं जीवनवसन्तयोः तथाप्यर्थ निमित्तत्वमप्यस्ति । यदा यदा निमित्तसद्भावस्तदा तदा भाव्यं नैमित्तिकेनेति प्राप्तावेव यावद्वीप्सार्थावनूद्येते इति कुतोऽनन्वयः ? इत्यत आह—न च प्राप्तयोरनुवादः । कुतः ? जीवतोऽपि स्वर्गकामस्येवाऽधिकारे यदा शक्नुयादित्युपबन्धात् । नन्वार्थेनापि निमित्तत्वेनाऽवश्यकर्त्तव्यताप्रतीतेर्यदा शक्नुयादित्युपबन्धो विरोधादनुपपन्न इत्यत आह—विरोधाऽभावात् । एतदुक्तं भवति । अधिकारिविशेषणदशायां तावज्जीवनादीनां यदेत्युपबन्धेन न विरोधोऽस्ति, यदि परमार्थेन निमित्तभावेन वक्तव्यः । स च नित्यवदाम्नातनानाङ्गोपदेशबललब्धनिखिलाङ्गोपसंहारसामर्थ्य549विरोधात्550 आत्मानमेव तावदासादयितुं नार्हति किमङ्ग पुनर्विरोधम् ? अतस्तदनुगुणतया व्यवतिष्ठते । न चाऽधिकारवाक्यविरोधः । न हि तन्निमित्तश्रुत्यनपेक्षमवश्यकर्त्तव्यतामवगमयति । न च तामन्तरेण नोपपद्यते येनादावेवं कल्पयेत् । तस्माद्धिरोधाऽभावात्क्रमपर्यन्ताऽपेक्षित्वमप्रतिहतं नियोगस्येति यदा शक्नु
वाच्यत्वात्, वसन्ते वसन्ते इति च न कालार्थसंयोगस्तथा नाऽधिकारविशेषणे अपि । अतो निमित्तमेव तन्निमित्तम् । तथा हि—
तयोरनन्वयः । निमित्तमेव हि तन्न स्याद्यदि तस्मिन्सति न क्रियेत । निमित्तवांश्च नियोगो यस्य तस्येत्यधिकारिविशेषसिद्धेर्नाऽप्रतिपत्तिः । तेन निमित्तं सदधिकारिविशेषणं नाऽधिकारिविशेषणं सन्निमित्तम् । शाब्दत्वाच्च निमित्तभावस्य । लिङ्गादयो हि “दहेद्भिन्ने आरभमाण” इति तत्र तत्र स्मृतेस्तदभिदधति । तत्र शब्दार्थ परित्यज्याऽन्यपरः551 शब्दसामर्थ्या- यादित्युपबन्धान्नाङ्गहानम् । तदिदमुक्तम्—क्रमपर्यन्तापेक्षित्वान्नियोगस्य नाङ्गहानम् ।
अपि च । त्वयाऽप्येतदवश्याङ्गीकरणीयमित्युपसंहारमुखेनाह—तस्माद्यावद्वीप्सार्थाऽनन्वयाद्यथा न कर्तृविशेषणं जीवनमवाच्यत्वात् वसन्ते वसन्ते इति च न कालार्थसंयोगस्तथा नाऽधिकारिविशेषणे अपि । यथा जीवनं तवापि न कर्तृविशेषणं यावच्छब्दाऽनन्वयाद्व्यवच्छेत्तव्याऽभावेनाऽवाच्यत्वाच्च तथा वसन्ते वसन्ते इति न कार्यः संयोगः, वीप्साया अनन्वयादित्यर्थः ।
स्वमतमुपसंहरति—अतो निमित्तमेव निमित्तं नाऽधिकारिविशेषणं प्रथममित्यर्थः । कस्मात् ? तथा हि । तयोर्यावद्वीप्सयोरनन्वयः । कस्मात्पुनर्निमित्तत्वे सत्यनन्वयः ? इत्यत आह—निमित्तमेव हि तन्न स्याद्यस्मिन्सति न क्रियेतेति । उक्तमेतत्प्राक् । ननूक्तं नियोगेन नियोज्यस्य प्रथममपेक्षणादिति, तत्राह—निमिक्तवांश्च नियोगो यस्य पुंसस्तन्निमित्तमस्ति तस्य कर्मकर्त्तव्यतेत्यधिकारिविशेषणसिद्धेर्नाऽप्रतिपत्तिः । अस्ति तावन्न प्रथममित्युपरिष्टादिहैव वक्ष्यामः । निमित्तश्रुतेरेवार्थादधिकारविशेषणलाभ इति प्रतिपत्तिप्रतिलम्भान्नाऽप्रतिपत्तिः कर्त्तव्यताया इत्यर्थः । तेनैतदुक्तं भवतीत्याह—तेन निमित्तं प्रथममवगतं सदधिकारिविशेषणं नाऽधिकारिविशेषणं प्रथममवगतं सदर्थान्निमित्तमिति ।
ननु यावद्वीप्सार्थयोरनन्वयाज्जीवनवसन्तयोरस्तु निमित्तभावः, न तु गृहदाहादिप्वेतदस्ति प्रमाणमित्यत आह—शाब्दत्वाच्च निमित्तभावस्य । श्रुतिरेव मूलं निमित्तत्वाऽवगम्यस्य, सौकर्यमात्रेण तु यावद्वीप्से अप्युपन्यस्ते इत्याशयः । शाब्दत्वं दर्शयति—लिङादयो हि “दहेद्भिन्ने आरभमाण” इति तत्र निमित्तस्मृतेस्तन्निमित्तमभिदधति । दहेदिति लिङ्, भिन्ने इति निमित्त
त्तत्पर इतरोऽर्थादिति शब्दवृत्त्यनुसारोऽन्याय्यः552 । यथा च निमित्तं सदधिकारिविशेषणमेवं फलं सदधिकारिविशेषणं नाऽधिकारिविशेषणं सत् फलमित्युक्तं भावनाविवेके ।
सप्तमी । दर्शपूर्ण्णमासावारभमाण इति लक्षणहेत्वोः क्रियाया इति हेतौ लकारः । यावज्जीवमित्यत्रापि यावति विन्दजीवोरिति णमुल्प्रत्ययो यद्यपि साक्षान्निमित्तेस्मृतस्तथापि समानकर्तृकधात्वर्थान्तरसम्बन्धे स्मरणाज्जीवनस्य होमादिधात्वर्थान्तरसम्बन्धमाह । न चासौ निमित्तनैमित्तकभावादन्य इति णमुलो निमित्तभावः । तथापि किमति नाऽधिकरणविशेषणपरता निमित्तशब्दस्य ? न खल्वभिधीयमानपरतैव सर्वत्रेत्यत आह—तत्र शब्दार्थनिमित्तभावं परित्यज्याऽन्यपरशब्दार्थभूताऽधिकारिविशेषणपरो निमित्तशब्दः, स च शब्दार्थभूतो निमित्तभावोऽर्थादनेनायुक्तपक्षस्वीकारो553 दर्शितः ।
युक्तपरित्यागं दर्शयति—न पुनस्तत्परः शब्दार्थीभूतनिमित्तभावपरः । अधिकारिविशेषणपरस्त्वर्थादिति । अनेन प्रकारेण शब्दवृत्त्यनुसारोऽन्याय्यतयाऽनर्ह इत्यर्थः । क्वचित्पाठः—तत्र शब्दार्थ परित्यज्याऽन्यपरः शब्दसामर्थ्यात्तत्पर इतरोऽर्थादिति । तस्यार्थः । विमर्श एव विमृश्यते—किं शब्दार्थनिमित्तभावं परित्यज्याऽन्यपरोऽधिकारिविशेषपरः सामर्थ्यात्तु तत्परो निमित्तपर उताऽधिकारविशेषोऽर्थान्निमित्तपरस्तु शब्दः ? इति विमृश्य निमित्तमवधारयति—शब्दवृत्त्यनुसारो न्याय्यः । नाभिधेयपरत्वे सम्भवत्यन्यपरता न्याय्या । अभिधेयता च निमित्तस्य वर्ण्णिता । तस्मान्निमित्तपरतैव साध्वीत्यर्थः । नन्वेवं सति स्वर्गकामपदमधिकारिविशेषणप्रतिपादनपरं प्रसज्येत, न ह्येतद्भाव्यतया स्वर्ग बोधयति, अपि तु पुरुषविशेषणतयेत्यत आह—यथा च निमित्तं सदधिकारिविशेषणमेवं फलं सदधिकारिविशेषणं नाधिकारिविशेषणं सत् फलमित्युक्तं भावनाविवेके । भावना हि कस्यचिदुत्पादना, तेनासावपि किञ्चिदुत्पाद्यं भावमन्तरेणाशक्या निरूपयितुम् । न च समानपदोपात्तं धात्वर्थ भाव्यतया स्वीकर्तुमर्हति । विध्यापादितत्वेन पुरुषार्थभाव्यापेक्षणात् । धात्वर्थस्य च दुःखतया तद्वैपरीत्यात्ततः प्रच्याविता प्रथमतरमपेक्षितत्वाद्भाव्यस्य स्वर्गकामपदस्य “दण्डी प्रैषानन्वाहे”तिवद्विशेषणप्रधानतामापादयतीत्युपपादितं भावनाविवेके ।
यद्यपि स पूर्वमपेक्षितः, प्रतिपत्तित्वस्य पश्चादेव, अनुष्ठानापेक्षत्वात्, तथा च क्रमपर्य्यन्तात्परा निरूपणेति ।
नन्वेवं विधिमति सर्वत्रेष्टाऽनुबन्धादुत्पत्तिचोदनाऽभावः । तथा च
स्यादेतत् । यथा प्रथममपेक्षितत्वाद्भाव्यस्य स्वर्गकामपदं तत्परमेवं नियोगेन नियोज्यस्य प्रथमपेक्षितत्वान्निमित्तश्रुतयोऽपि नियोज्यपराः प्रसज्येरन्, वक्तव्यो वा विशेष इत्यत आह—यद्यपि सोऽधिकारी नियोज्यः पूर्वमपेक्षितः प्रतिपत्तिस्त्वस्याऽधिकारिणः साङ्गप्रधानप्रतीतेः पश्चादेव । इदमत्राकूतम् । न हि प्रथममपेक्षित इत्येव प्रथमं प्रतीयते । अपि तु यच्छक्यप्रतिपत्ति । शक्यप्रतिपत्ति च भाव्यं, न च सा तादृशाऽधिकारिविशेषणमिति । कुतः ? अनुष्ठेयज्ञानाऽपेक्षित्वादधिकारविशेषस्य । नो खल्वर्थिमात्रं निमित्तमात्रं वाऽधिकारिविशेषणतां प्रतिपद्यते । मा भूत् पङ्गुशूद्रादीनामधिकारः, किं तु यथाविनियोगमधिकारव्यवस्थितेर्निखिलाङ्गोपेतप्रधानोपसंहारसमर्थोऽधिकारिविशेषः । तथा च पङ्गुशूद्रादीनामनधिकारः । सामर्थ्यं च तद्गोचराऽधीननिरूपणक्रमपर्यन्ताङ्गग्रामोपेतं च प्रधानं तद्गोचर इति तज्ज्ञानमपेक्षते । ततश्च प्रथममपेक्षितोऽपि नियोज्यो न द्रागित्येवाऽवगन्तुं शक्यत इति भावनाकर्त्तव्यता निमित्तफलं करणेति कर्त्तव्यतां परिज्ञाय पश्चान्निरूप्यत इति युक्तम् । महर्षेरपि क्रमलक्षणाऽनन्तरमधिकारलक्षणं प्रणयत एतदेव सम्मतमित्याह—तथा चाऽस्याधिकारविशेषस्य क्रमपर्यन्तात्प्रधानाङ्गग्रामगोचरविचारात्परा विचारणापि । एतेन ज्ञाप्यज्ञापकभावसम्बन्धान्निरूप्यस्याऽवसरलक्षणं सम्बन्धं ये नाऽधिकारलक्षणस्याचक्षते ते निरस्ता वेदितव्याः । पूर्वेषामधिकारगोचरविचारद्वारेण ज्ञापकत्वादेतस्य ज्ञाप्यत्वात् । न चैकेनैव लक्षणार्थेन ज्ञापकेन भवितव्यमिति कश्चिन्नियमहेतुरस्ति । तदाहुरत्रभवन्तो वार्त्तिककारमिश्राः “कार्ये ज्ञानेऽधिकारः स्यात्” । क्रमपर्यन्ताङ्गग्रामसहितं च प्रधानं कार्यमुक्तमिति सर्वं रमणीयं स्थितं तावत् । समीहितसाधनतायामपि विधौ यदा शक्नुयादित्युपबन्धः काम्ये यथा शक्नुयादिति तु नैमित्तिक इति समीहितसाधनतैव तत्र विधिरिति ।
तत्र चोदयति—नन्वेवं विधिमति सर्वत्रेष्टाऽनुबन्धादुत्पत्तिचोदनाभावः । अयमर्थः । समीहितसाधनता चेद्विधिः स च लिङाद्यर्थ इति “यदाग्नेयोऽष्टाकपाल” इत्यादिषूत्पत्तिचोदनास्वपि विधिप्रतिपत्तेस्तस्य च समीहितसाधनात्मकत्वात्तत एव फलाऽवगतेर्द्दर्शपूर्ण्णमासाभ्यां स्वर्गकाम इतिवदधिकारचोदनात्वादुत्पत्तिचोदनाऽभावप्रसङ्ग इति ।
परस्पराऽनपेक्षत्वात्सन्निधावपि न फलार्येन पुनः श्रुतिरिति सर्वत्र कर्म्मभेदः स्यात् । क्रत्वर्थश्च न स्यात । दध्ना जुहोतीति च न गुणफलसम्बन्धः स्यात् । न चाऽन्यत् सुखादिष्टम्, तच्च स्वर्ग इति स्वर्गाऽवरोधात्पश्वाद्यवकाशो दुर्लभः । उपादानाद्वा तेऽपि स्युः । नित्यस्तु स्वर्गः स्यात् ।
भवतूत्पत्तिचोदनाभावः, किमेतावता ? इत्यत आह—तथा च परस्पराऽनपेक्षत्वात्सन्निधावपि न फलार्थेन पुनः श्रुतिरिति सर्वत्र कर्मभेदः स्यात् । अयमर्थः । उत्पत्तिवाक्यानां खलु कर्मस्वरूपप्रतिपादनपराणां तद्रूपस्याऽन्योत्पादे स्वाभाव्यादुत्पाद्यमाकाङ्क्षितम्, कर्मफलसम्बन्धप्रतिपादनपराणां च वाक्यानां स्वरूपप्रज्ञापनमपेक्षमाणानां परस्परसम्बन्धसम्भवादुत्पत्तिवाक्यविहितकर्मसन्निधौ तस्यैव कर्मणः फलसम्बन्धार्थेन पुनः श्रुतिः फलवाक्य उपपद्यत इति न कर्मान्तरं कल्प्येत । यदा तु समीहितोपायतैव विधिस्तदा तत एवोत्पाद्यप्रतिलम्भान्न तस्य फल्वाक्याऽपेक्षाऽस्ति । फलवाक्यमपि च तद्वाक्योपात्तफलाऽवरुद्धं कर्मफलान्तरसम्बन्धायनाऽपेक्षितुं क्षमत इति कर्मान्तरमेव फलसम्बन्धाय कल्पयतीति सर्वत्र कर्मभेदप्रसङ्ग इति । प्रसङ्गान्तरमाह— क्रत्वर्थश्च न स्यात्प्रयाजादि । न जातु श्रुत्युपात्तसमीहितफलप्रतिलम्भे प्रकरणलब्धकरणोपकारलक्षणफलसम्बन्धसम्भवः । श्रुतेः प्रकरणाद् बलीयस्त्वादिति भावः ।
प्रसङ्गान्तरं समुच्चिनोति—दध्ना जुहोतीति च गुणस्य दध्नः समीहितेन फलेन सम्बन्धः स्यात् । इह हि प्राप्ताऽप्राप्तविवेकेन दध्नेन्द्रियकामस्येत्यत्र नैतावता होमो निष्फलस्तस्यापि स्ववाक्यसमधिगतफलत्वेन तद्वत्त्वात् । न च प्रकृतात्कर्मान्तरं दधि फलविशिष्टं विधीयत इति साम्प्रतम् । न खलु तदानीमेव तस्यैव कर्मणः फलोद्देशेन विधेयता दधिविधौ चोद्देश्यता सम्भवति । तस्मात्प्रकरणलब्धहोमाश्रयस्य दध्नः फलसम्बन्धप्रसङ्ग इति युक्तम् । किं च समीहितसाधनता चेद्विधिः समीहितं च पुंसां सुखमेव न दुःखं नाप्यसुखं द्वेषणादुपेक्षणाच्च । तच्चाऽनवच्छिन्नं स्वर्ग एव । अवच्छेदे लौकिकं स्यात् । न च “चित्रया यजेत पशुकाम” इत्यत्र यजेतेति श्रुतेरेवाऽवऽच्छिन्नं पश्वादिभिः समीहितमवगम्यते । न च पशुकामपदसम्बन्धादवच्छेदस्तस्य पदान्तरपर्यालोचनया वाक्यसमधिगम्यत्वात्स्वर्गस्य च श्रुतिमात्रात्प्रतीतेर्बलीयस्त्वात् । स्वपदोपात्तसमीहितरूपभाव्यलाभेन च भावनयाऽनपेक्षितत्वात् । यथाश्रुतपुरुषविशेषणत्वेन व्यवस्थानं न भाव्यपरत्वमिति स्वर्गावरोधात्पश्वादीनां चित्रादिष्वसम्बन्धप्रसङ्ग इत्याह—न चाऽन्यत्सुखादिष्टम् । ततः किं ? तच्च स्वर्ग इति स्वर्गाऽवरोधात्पश्वाद्यवकाश दुर्लभः । अथाऽन्यदिच्छत्यन्यत्करोतीति विरोधः । न तावत्पुरुषविशेषणपरतामात्रपरेण पशु
तस्मात्किमित्यवशिष्टं भावनायाः ? पुरुषार्थतैव विशेषणम् । तथाऽपि च निमित्ते कर्म्मैव साध्यम् । अन्यथा निमित्तफलयोरुपादेये वाक्यभेदः । जीवनेन होमो होमेन फलमिति वैरूप्यात् । द्वयोरुद्देश्ययोरेकवाक्याऽस-
कामपदेनास्याऽन्वयः । तत्र यदि फलतया नाऽन्वियात् प्रमत्तगीतं प्रसज्येत । तस्मात्फलपरमेतदित्याह—उपादानाद्वा तेऽपि पश्वादयः स्युः । नित्यस्त्ववश्यम्भावी तु स्वर्गः स्यात्तथापि समुच्चयोऽनिष्टस्ते प्रसज्यत इति भावः । स्वपक्षमुपसंहरति—तस्मात्किमित्यविशिष्टं भावनायाः ? किमिति भावनाभाव्यमुपलक्षयति । तद्यदा समीहितसाधनता न विधिर्न पुरुषार्थतैव विशेषणं न पुरुषार्थेनैव विशेष्यते अपि त्वन्येनाऽपीत्यर्थः । क्वचित्पाठः—पुरुषार्थतैव विशेषणमिति । तत्र केभ्यश्चित्पदेभ्य उत्तरम् । ननु भवत्पक्षेऽपि भावनैव विधिवद्भाव्यमुपस्थापयति पश्वाद्यवकाशो दुर्लभ इति पदानि तेभ्य उत्तरं पुरुषार्थेनैव विशेषणम् । अयमर्थः । अस्मन्मते हि भावनास्वाभाव्याद्भाव्यमात्रमेवाऽवगतमिति तद्विशेषापेक्षायामणुगुणतया पुरुषार्थेनैव पश्वादिनैव किमंशो विशेष्यत इति युक्तम् । त्वन्मते तु भाव्यविशेषणाऽपेक्षैव नास्ति । स्वर्गस्यैव तद्विशेषस्य प्रतीतिरिति । तथा च यदुक्तं नित्यसममीहितोपायो नैमित्तिककर्मेति तदपि निरस्तमित्याह—तथापि च किमंशस्याऽविशिष्टत्वे निमित्ते कर्मैव साध्यं न पुरुषार्थः । नैमित्तिककर्मभावना हि भाव्याकाङ्क्षा पुरुषार्थ च भाव्यमादातुमशक्ता धात्वर्थमेव स्वपदोपात्तमादाय निर्वृणोतीत्यर्थः । यदि पुनः पुरुषार्थोऽस्या भाव्यो भवति ततः को दोषः ? इत्यत आह—अन्यथा नित्यत्वसमीहितसाधनत्वे निमित्तफलयोरुपादेये च कर्मणि वाक्यभेदौ । वचनव्यक्तिभेदात् । तमेव दर्शयति—निमित्ते सति कर्मैव विधेयं भावनाभाव्यतयाऽवसीयते इति । ईदृशं हि तत्र वचनं व्यज्यते, जीवत्वे हि सति निमित्ते होमः कर्त्तव्य इति । यदा तु फले कर्म विधीयते तदा फलस्य निमित्तवदसिद्धत्वात्साध्यत्वेन प्रतीतेः, तत्र कर्म चेत्साध्यं तदोभयोरसम्बन्धादेकस्य त्वितरार्थत्वान्नेष्टं परनिष्पत्तय इति कर्मणः फलं प्रति करणत्वेन सम्बन्धादीदृग्वचनं व्यज्यते होमेन फलमिति । तदिदं वैरूप्यम् । अतो वाक्यभेदः स्यात् । एतन्मा भूद्वैरूप्यम्, यता फलमुद्दिश्य कर्म विधास्यत इत्यत आह—द्वयोरुद्देश्ययोरेकवाक्यासमवायात् । लोकाऽधीनाऽवधारणा हि वाक्यगतिः । लोके च प्रत्युद्देश्यं विधिवाक्यपरिसमाप्तिः । न खलु येनैव प्रयत्नेनैकमर्थं विधातुमेकमुद्दिशामस्तेनैवाऽपरमप्युद्देष्टुमीश्मह इति स्वाऽनुभवसिद्धमेतत् । तस्माद् द्वयोरुद्देश्ययोर्नैकवाक्य-समवायसम्भव554 इत्यर्थः ।
मवायात् । न ह्येकस्मादशुभक्षयोऽक्रियायामपायश्च सुलभः । एवं चाऽनङ्गत्वमेव प्रज्ञातत्वात्कर्म्मरूपस्य, न यथाशक्त्युपादानमिति ।
उच्यते—
उत्पत्तिविनियोगार्थप्रयोगाऽधिक्रियात्मकः ।
सर्वो विधिस्तत्परताविशेषान्न विभज्यते ॥
एकस्यैव ज्ञापकत्वविरोधात् निमित्तस्य विधिविशेषणत्वमपि न सम्भवतीत्यभिमान आक्षेप्तुरिति मन्तव्यम् । न चैवं वाक्यभेदप्रसक्तिः । इदं चाऽपरं प्रसज्यत इत्याह—न ह्येकस्मादशुभक्षयोऽक्रियायामपायश्च सुलभः555 । यदा निमित्ते कर्म विधीयते न तदा फले विधातुं शक्यते । न च तत्स्वरूपमात्रविधानं प्रेक्षावत्प्रवृत्तिहेतुरिति तदक्रियायामपायः कल्पनीयः, तद्भयात्प्रवृत्तिसिद्धेः । यदा तु फले विधीयते तदा तदेव दुरितं क्षिणोतीति तदर्थमनेककल्पनागौरवप्रसक्तिरिति निमित्तेन कर्मैव भावनाभाव्यं न समीहितमपि इत्याक्षेपः । एष चाक्षेपान्तरमपि प्रसूत इत्याह—एवं चाऽनङ्गत्वमेव नैमित्तिकस्य नाऽङ्गसम्बन्ध इत्यर्थः । कुतः ? प्रज्ञातत्वात्कर्मस्वरूपस्य । उपकारकतया खल्वङ्गता व्याप्ता, सा चोपकारता स्वरूपे कार्ये वा स्यात् । न तावत्कार्ये क्रियाया उपकारकत्वे नैमित्तिकस्य कर्मणः कार्याऽभावादित्युक्तम्, पारिशेष्यात्कर्मस्वरूपजनकत्वमङ्गत्वं वाच्यम्, न च तत्सम्भवति, प्रज्ञातत्वात्कर्मणः । उपायतो रूपतश्चोपकारकताव्याप्ताऽङ्गता तदभावे न भविष्यतीत्यर्थः । न केवलमनङ्गत्वमिदं चाऽपरमापतितमित्याह—न यथाशक्त्यङ्गोपादानं नैमित्तिककार्येऽस्तीति । परिहरति—
उत्पत्तिविनियोगार्थप्रयोगाधिक्रियात्मकः ।
सर्वो विधिस्तत्परताविशेषान्न विभज्यते ॥
नापेक्षितोपायतायामपि विधौ उत्पत्त्याद्यभावः, सहसम्भवे नाऽविरोधात् । सर्वस्यैव विधेरुत्पत्त्यर्थविनियोगार्थप्रयोगाधिक्रियात्मकत्वात् । नन्वस्मिन्पक्षे प्रयोगात्मकत्वमनुपपन्नम्, कर्त्तव्यताऽवगमो ह्यनुष्ठापयति, नेष्टसाधनतावगमः । न चेष्टसाधनतैव कर्त्तव्यता, कृतिसाध्यता हि सोच्यते । साधनतात्र सिद्धता, न च स्वभावविरुद्धयोर्दहनतुहिनयोरिव सिद्धतासाध्यतयोरेकत्वं शक्यसाधनम्, त्रैलोक्यस्यैक्यप्रसङ्गात् । अपि च कर्त्तव्यता चेदभिमतसाधनता अभिमतमपि कर्त्तव्यत्वमविवादमित्यभिमतसाधनं स्यात् । निदाघसमयसम्बन्धिमध्यन्दिनाऽर्कविकीर्णखरतरकरनिकर
नेष्टसाधनतामात्रं विधिरपि तु कर्त्तुः । एवङ्कारं च प्रवर्त्तनाप्रत्ययः ।
निपाताऽऽहितदुःसहसन्तापदूनतनवो हि पिहितगगनमण्डलां बलाहकोन्नतिमाकस्मिकीमम्भःसंसारगम्भीरामभिनवतमालमालाभामतिरुचिरां रोचयन्ते, न च कर्त्तव्यतामस्या मन्यन्ते । न चाऽवग्रहविशोषितसस्य सीमानः कृषीबला यजमानसमापितामभिमतवर्षोपायभूतामपि कारीरीं कर्त्तव्यतयाऽवगच्छन्ति । तस्माद्विरोधाद् व्यभिचाराच्च नाऽभिमतोपायता कर्त्तव्यता ।
न चेत्कर्त्तव्यता कथमनुष्ठापयति ? इति न प्रयोगात्मको विधिरित्यत आह—नेष्टसाधनतामात्रं विधिः, अपि तु कर्तुः । असमर्थः । न वयमिष्टसाधनतामात्रं कार्यतां ब्रूमहे, यदेवमुपालभ्येमहि, किं तु कर्तुर्यदिष्टसाधनं यत्तस्य कर्त्तव्यम्, अकर्त्तव्ये कर्त्तुस्तत्त्वाऽनुपपत्तेः । न च साध्यतासिद्धतयोर्विरोधः, भिन्नकालत्वात् । न खलु प्रवृत्तेः पूर्वं कर्मणः कृतता क्रियमाणता वा, किं तूपरितनस्य क्रियमाणता तदनन्तरस्य कृतता । शब्दश्च त्रैकाल्यवस्तुविषयत्वेन शक्नोति तस्य सिद्धतासमयवर्त्तिनीं साधनतां तत्पूर्वकालभाविनीं च कृतिव्याप्यतामिदानीमसतीमप्यभिधातुम् । यदेव च कृतिव्याप्यं तदेव च कृतिसाधनम्, इतिकर्त्तव्यतासाधनतयोः सामानाधिकरण्यमिष्टसाधनं कर्त्तव्यमिति । तदेवं कर्तुरिष्टसाधनतां विधिं वदतां कर्त्तव्यतैकार्थसमवायिसमीहितसाधनत्वमुक्तं भवति, न कर्त्तव्यतामात्रम्, फलेऽपि कर्त्तव्यताया अविशेषेण विधित्वप्रसङ्गात् । न च फलकर्त्तव्यता शब्दगोचरः । स्वयमेव हि जानन्ति कर्त्तव्यं पुरुषाः फलम्, न च शब्दः फले पुरुषस्योत्साहमुत्पादयेत्, न च तदीहागोचरस्तत्साधनं तु स्यात्, न च तद्भावेनाऽज्ञानं प्रवृत्तिहेतुरिति तज्ज्ञानमेव विधिः ।
किं कारणं पुनरेवमभ्युपेयत ? इत्यत आह—एवङ्कारं प्रवर्त्तनाप्रत्ययः556 । इदमाकूतम् । ओदनकामः पचेत्, न सर्पायाऽङ्गलिं दद्यादित्युपदेशश्रवणसमनन्तरमुपदेष्टव्यस्य पुंसः पाके प्रवृत्तिमुरगाङ्गुलिदानोद्यतस्य च ततो निवृत्तिमुपलभ्य बाला एवमवधारयन्ति नूनमस्य प्रवृतिहेतुगोचरः प्रत्यय उपजात इति । तथा हि । प्रवृत्तिरियमस्य पुंसः कारणवती प्रवृत्तित्वात्प्रवृत्तिवत् । प्रत्ययपूर्विका चेयं स्वतन्त्रप्रवृत्तित्वादस्मत्प्रवृत्तिवत् । कर्त्तव्यताकर्त्तव्यत्वैकार्थसमवायिहिताऽहितसाधनत्वगोचरश्च विवादाध्यासितः प्रत्ययः प्रवृत्तिहेतुप्रत्ययत्वात् अस्मत्प्रवृत्तिहेतुप्रत्ययवत् । तथा हि । स्तनपानादौ कर्त्तव्यतैकार्थसमवायिनीं हितसाधनतामवगम्य प्रवृत्तोस्मि, दहनसम्पर्काच्चाऽकर्त्तव्यतैकार्थसमवायिनीमहितसाधनतामवेत्य निवृत्तोस्मीति
अन्यथा प्रवृत्तिहेतुत्वाभावात् । स्वतोऽन्यतो वा सिद्धे अतएवाऽनपेक्षितव्यापारे समीहितसाधनेऽप्यप्रवृत्तेः । तदुवतं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वा— दिति । प्रयोक्तृफलसाधनतालक्षणत्वाच्छास्त्रस्येति । ततश्च विधिपर्य्यायाच्छास्त्रादनुष्ठानं कर्म्मणोऽवगम्यते । अदृष्टार्थस्य च शास्त्राऽऽयत्ताऽनुष्ठानस्य स्वरूपविशेषोऽपि । प्राग्विधेरप्राप्तेः । अपेक्षिते चाऽपेक्षितसाधनत्वाद्विनियोगः । प्रवर्त्यश्च कश्चिदधिकारी स्वामी यस्य तदिष्टसाधनम् । सर्वत्रापि च प्रतीय-
कर्त्तव्यत्वं कृत्यर्हत्वं तदविरोधि चाऽकर्त्तव्यत्वम् अधर्मवत् । एवंविधे एव च हिताऽहितोपायत्वे तादर्थ्यात्प्रवर्त्तनानिवर्त्तनाज्ञाने गोचरयतः । ते च प्रागसती शब्दज्ञानानन्तरमुपजायमाने तज्ज्ञानमेव कारणतया स्वीकुरुतः । तस्मादेवं यतः प्रत्ययो भवति न त्वन्यथा, प्रवर्त्तनाप्रत्ययश्च प्रवृत्तिबीजं तस्मान्नेष्टसाधनतामात्रं विधिरपि तु कर्त्तुरिति सिद्धम् ।
अन्यथाकारं कस्मान्न भवति ? इत्याह—अन्यथा विधेः प्रवृत्तिहेतुत्वाऽभावात् । कुतः ? स्वतः पुरुषप्रयत्नमनपेक्ष्य तत्क्षणस्फुटत्कमलकुङ्मलपरिमलोद्गारिणि नासाऽग्रमधिरोहति मातरिश्वनि अन्यतो वा प्रत्यत्नवद्वैणिकवाद्यमानवल्लकीविपञ्च्यमाने पञ्चमध्वनौ नरान्तरश्रवणपथवर्त्तिनि सिद्धेऽत एवाऽनपेक्षितव्यापारे समीहितसाधनेऽप्यप्रवृत्तेः । अत्र भवतो महर्षेरप्येतदभिमतमित्याह—तदुक्तं शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वादिति । कथमिदमनेनोक्तम् ? इत्याह—प्रयोक्तृफलसाधनतालक्षणत्वाच्छास्त्रस्य । ननु शास्त्रस्य तल्लणं न विधेरित्याशङ्कामपनयन्नुपसंहरति—ततश्च विधिपर्यायाच्छास्त्रादनुष्ठानं कर्मणोऽवगम्यते, ततश्च सिद्धः प्रयोगविधिरित्यर्थः । अस्तु तर्हि प्रयोगात्मकतामात्रं किमुत्पत्त्यर्थतया ? इत्याह—अदृष्टार्थस्य शास्त्राऽऽयत्तानुऽष्ठानस्य स्वरूपविशेषोऽप्यवगम्यते । कुतः ? प्राग्विधेरप्राप्तेः । विनियोगार्थतां दर्शयति—अपेक्षिते चाऽपेक्षितसाधनत्वाद्विनियोगः । लिङादयः खलु विधौ स्मर्यन्ते, विधिः कर्तुरपेक्षितोपायता, ततश्च ते धातोः परे श्रूयमाणाः स्वार्थस्य भावनायाः समीहितं भाव्यमुपनयन्ति, धात्वर्थस्य च भावनाऽनुरञ्जनस्य समीहिताऽर्थप्रवृत्तभावनाभाव्यस्य समीहितांशसाधनत्वं समीहितभावनासाधनत्वं वा तद्रूपस्य तस्य स्वतोऽलाभात् श्रुत्यैवाऽभिदधतीति विनियोगार्थत्वम् । फलतद्भावनोपायत्वप्रतिपादनमेव हि तादर्थ्यप्रतिपादनमिति भावः । अधिक्रियात्मकतां दर्शयति—प्रवर्त्यश्च कश्चिदधिकारी स्वामी यस्य तदिष्टसाधनमिति । प्रवर्त्तनात्मको हि विधिर्विविच्यमानः कर्तुरभिमतसाधनात्मा स्थापितः । स च प्रवर्त्तनीयं कर्त्तारं यागाद्युपायजनितसमभिलाषे फलविशेषशालिनमधिकारिणं कर्मणि स्वामिनमधिकुर्वन्नधिकार इत्युच्यते । अनधिकुर्वतः कर्तुरित्यभावात् । समीहितसाधनतामात्रस्य
मानेऽस्मिंश्चतुष्टये ऐदम्पर्य्य भिद्यते । तेनोत्पत्त्यादिविधिवाक्यभेदः । तच्चैदम्पर्य्य प्राप्त्युपपदविशेषसम्बन्धात् । क्वचिच्चतुष्टयपरता; यथोद्भिदा यजेतेति । अन्यतः कस्यचिदलाभात् । फलपदसम्बन्धाच्च । क्वचित्त्रिपरता, यथा ज्योतिष्टोमवाक्ये । उत्पत्तेरन्यतो लाभात् । क्वचिद् द्विपरता, यथा
प्रवर्त्तनात्मकत्वाऽनुपपत्तेर्विधित्वव्याहृतिप्रसङ्गात् । ननु सर्वस्य विधेश्चातूरूप्यादुत्पत्त्यादीनां मा भूत्परस्परविरोधः, एकैकस्माद्वाक्यात्कार्त्स्न्येन चातूरूप्यस्य विधेरनुगमान्नोत्पत्त्यादिविधिवाक्यभेद इत्यत आह—सर्वत्र च प्रतीयमानेऽस्मिंश्चतुष्टये ऐदम्पर्य भिद्यते तेनैवोत्पत्त्यादिविधिभेदः । यद्यपि सर्वस्य विधेरेतच्चतुष्टयात्मकता तथापि वाक्यानां वैचित्र्यात्सामर्थ्याऽभेदेन चतुस्त्रिद्व्येकपरत्वादुत्पत्त्यादिविधिवाक्यभेद इत्यर्थः । तदेव वैचित्र्यमैदम्पर्यनिमित्तमादर्शयति—प्राप्त्युपपदविशेषसम्बन्धाद्भिद्यत इत्यनुषङ्गाच्चतुर्णामन्यतमस्याऽप्राप्तेः स्वर्गकामाद्युपपदविशेषसम्बन्धाच्चेत्यर्थः । तन्निमित्तानैदम्पर्यभेदानुदाहरति—क्वचिच्चतुष्टयपरता यथोद्भिदा यजेतेति । कुतः ? अन्यतश्चतुर्ण्णामपि विधिरूपाणां मध्ये कस्यचिदप्येकस्य लाभात् । ननु यजेतेति कर्मरूपस्य च समीहितसाधनतारूपविध्यभिधायिना च प्रत्ययेन समीहितं प्रति विनियोगस्य चाऽवगमादुत्पत्तिविनियोगपरत्वमुपपन्नम्, अनुपपन्नं त्वधिकारपरत्वम्, तत्स्वरूपाऽनवगमात् । न च प्रवर्त्तनात्मकेन विधिनाऽऽक्षिप्तं प्रवर्त्त्यमात्रमधिकारीति साम्प्रतम्, सामान्यमात्रस्य तद्भावाऽभावात् । उक्तं हि “देवदत्तं वाऽनुद्दिश्य लिङादयः प्रवर्त्तन्ते” इति । पशुकामपदं तद्विशेषायाऽलं भावनाऽऽक्षिप्ताभव्यपरत्वात् । न चैकस्योभयपरत्वाऽसम्भवः । तथा च तदभावे न प्रयोगात्मकता विधेरित्यत आह— फलपदसम्बन्धाच्च । पशुकाम इति फलपदम्, तच्च विध्युपहिताया भावनाया भाव्यसमर्पणमप्यधिकारिविशेषाऽपेक्षायामर्थादधिकारिणमप्युपनयति । एवं च कर्त्तृविशेषस्याऽभिमतसाधनता बुद्धिसिद्धा । तदेवं कर्त्तारमधिकारिणं प्रयोजयन्ति प्रयोगात्मकतामपि लभन्ते इति सिद्धं च चतुष्टयपरत्वम् ।
त्रिपरता यथा ज्योतिष्टोमवाक्ये । उत्पत्तेरजातकर्मरूपज्ञानस्याऽन्यतः557 सोमेन यजेतेत्यतो वाक्यात् लाभात् । क्वचिद् द्विपरता अधिकारविनियोगपरता, यथा दर्शपूर्ण्णमासवाक्ये । उत्पत्तेर्यदाग्नेयोऽष्टाकपाल इत्यादिभ्यः प्रयोगस्य च पौर्ण्णमास्यां पौर्णमास्या यजेतेत्येवमादिभ्योऽन्यतः सिद्धेः । क्वचित्त्रिपरता क्वचिद् द्विपरता वेति क्वचित्पाठः । तत्र त्रिपरतेति मतमुपन्यस्य द्विपरता वेति वाशब्देन निरस्य द्विपरता ऽस्वीकृतेत्यर्थः । क्व
दर्शपूर्णमासवाक्ये । उत्पत्तियोगयोरन्यतः सिद्धेः । क्वचिदेकपरता, यथाऽग्निहोत्रं जुहोति पौर्णमास्यां यजेतेति । न च फले विनियोगः । अनिर्द्दिष्टफलविशेषस्याऽशक्यप्रतीतित्वात् । तदनिर्द्देशेऽधिकारिविशेषाऽप्रत्ययान्नाधिकारोऽपि । अत एव न प्रयोगः । न ह्यप्रतिष्ठितेष्टसाधनभावेऽनुष्ठानप्रत्ययः प्रतितिष्ठति नाऽनिरूपिताऽनुष्ठातृकः । तस्मात्फलवाक्यादेव प्रयोगप्रत्ययः । तेनाऽग्निहोत्रं जुहोतीति कर्म्मस्वरूपपरता विधेः । इतरे त्वंशाः प्रतीता
चिदेकपरता यथाऽग्निहोत्रं जुहोतीत्यत्र उत्पत्तिपरस्य पौर्णमास्यां पौर्णमास्या यजेतेति प्रयोगपरता । ननु कथमग्निहोत्रवाक्यस्योत्पत्तिपरता ? यावता कर्तृसमीहितोपायतां विधिमभिदधता आख्यातेन समीहितं प्रति होमस्य विनियोगः कर्तुश्चाधिकारस्तन्निबन्धनश्च प्रयोग उक्त एवेत्यत आह—न फले विनियोगः । कुतः ? अनिर्द्दिष्टफलविशेषस्याऽशक्यप्रतीतित्वात् ।
इदमत्राकूतम् । सत्यं विधिस्वाभाव्यात्समीहितमात्रं फलम्, नत्वेतावता विनियोगोऽनुष्ठानाङ्गं सेद्धुमर्हति । अनेनैतदिति हि स स्यात् । न चाऽसौ समीहितभेदाऽभिधायिपदमन्तरेणेति । अत एव नाऽधिकारपरताऽपीत्याह— तदनिर्द्देशे फलविशेषाऽनिर्देशादधिकारिविशेषस्य तत्फलकामस्याऽप्रत्ययात् नाऽधिकारः । प्रयोगपरतां निषेधति—यतो न विनियोगो भूत्वाऽधिकारः अतएव न प्रयोगः । कस्मात् ? न ह्यप्रतिष्ठितेष्टसाधनभावे कर्मणि विनियोगाऽभावे सत्यनुष्ठानप्रत्ययः प्रतितिष्ठति नाऽनिरूपिताऽनुष्ठातुकः । अनिरूपिताऽधिकारिविशेषोऽनुष्ठानप्रत्ययः प्रतितिष्ठतीति पूर्वेण सम्बन्धः । तस्मात्फलवाक्यादेव प्रयोगप्रत्ययः । उपसंहरति—तेनाऽग्निहोत्रं जुहोतीति कर्मस्वरूपपरता विधेः । ननु च विधिस्वाभाव्यादितरेऽपि सामान्यतः प्रतीयमाना नाऽविवक्षामर्हन्ति किं तु तत्सामर्थ्यादेव पिण्डपितृयज्ञवद्विशिष्टतां गमयिष्यन्तीत्यत आह—त्वंशाः प्रतीता अप्यविक्षिताः । युक्तं पिण्डपितृयज्ञे विशेषाणामन्यतोऽसिद्धेस्तेषामभावे च विधेस्तत्त्वाऽनुपपत्तेः तद्विशेषाऽभिधायिशब्दकल्पनेति, इह तु सामाम्नातेभ्य एव वचनान्तरेभ्यो विनियोगाधिक्रियाप्रयोगाणां प्राप्तेर्विधिस्वाभाव्यात्प्रतीतानामविवक्षैव युक्तेति भावः । प्रयोगमात्रपरतामुदाहरति—पौर्ण्णमास्यामिति त्वनन्यपरत्वात्प्रयोगभेदपरता । न खल्वेतत् उत्पत्तिपरम्, उत्पत्तेर्यदाग्नेयोऽष्टाकपाल इत्यादिभ्योऽवगतेः । नापि विनियोगाऽधिकारिपरत्वम्, अनयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत एव सिद्धेः । प्रयोगोऽपि यद्यपि तद्वाक्यादेव सिध्यति तथापि न तद्भेदः सेद्धुमर्हति । तथा हि । दर्शपूर्ण्णमासाभ्यामिति वचनं षण्णामपि यागानामेकप्रयोगतां गमयेत्, अस्मिंश्च पौर्ण्णमास्यामिति वचने कालविशेषे पौर्णमास्यां
अप्यविवक्षिताः । पौर्णमास्यामिति त्वनन्यपरत्वात्प्रयोगभेदपरता । सम्मार्गप्रोक्षणादौ तूत्पत्तिविनियोगपरता । व्रीह्यादिमुखेन प्रकृतयजिकरणांशप्राप्तौ
पौर्ण्णमासीसञ्ज्ञककर्मत्रयविधिपरे अमावास्यायामिति चाऽमावास्याकालेऽमावास्याऽभिधानकर्मत्रयविधिपरे कालभेदतः प्रयोगभेदप्रतीतेः प्रयोगावच्छेदकत्वात् । कालस्य प्रयोगभेदपरतैवाऽनन्यलभ्यत्वात् तद्भेदस्योत्पत्तिवाक्याच्चाऽऽग्नेयादिस्वरूपमात्रत्रयाणां कालयोगोपकरणीभूतानां करणानां तु तद्योगे तदङ्गानामपि तत्सहितानां करणत्वाद्विधिपरतां प्रकारान्तरेणाह—सम्मार्गप्रोक्षणादौ तु उत्पत्तिविनियोगपरता ।
अयमभिसन्धिः । दशापवित्रेण ग्रहं सम्मार्ष्टि व्रीहीन् प्रोक्षतीति सम्मार्गः प्रोक्षणं च विधीयते, न च तत्स्वरूपमन्यतः प्राप्तमिति तत्प्रज्ञापनादुत्पत्तिपरता वाक्यस्य । न च प्रोक्षणादेरपेक्षितं प्रत्यन्यतो वाक्यादैदमर्थ्यमवगम्यते इति विनियोगपरतापि । न च सहसैव विधिदर्शनात्स्वर्गादि साक्षादपेक्षितं558 गम्यते । यच्छक्नुयादित्युपबन्धाद्धि यदपेक्षितं प्रति यस्य सामर्थ्यमुपलभ्यते तेन तत्साधनीयम् । इह व्रीहीन् प्रोक्षतीति विध्युपहिता559 प्रोक्षणभावना द्वितीयाश्रुत्यापादितप्राधान्यान् ब्रीहीनापाततः साध्यतया स्वीकर्त्तुं प्रवृत्ता सती साक्षादपेक्षितत्वं तेषामनासादयन्ती परम्परयाऽपि पुरुषार्थमर्थयते । तद्यदि परम्परयाऽपि तन्नाप्नोति ततो विपरिवृत्त्य सक्तून् जुहोतीतिवद्विनियोगभङ्गेन प्रोक्षणाद्येव560 साक्षादपेक्षितं कल्पयेत् । अस्ति तु पारम्पर्येणाऽपेक्षितप्रतिलम्भः । तथा हि । ब्रीहिभिर्यजेतेति प्रकृतयागाऽनुवादेन साधनतया ब्रीहयो विधीयन्ते । न च साक्षाद्यागसाधनत्वं तेषामुपपत्तिमत् । उत्पत्तिशिष्टपुरोडाशाऽवरोधात् । आग्नेयादीनां च सोमेन यजेतेतिवद् ब्रीहिद्रव्यविशिष्टकर्मान्तरविधिगौरवात् । तस्मात्प्रकृताऽऽग्नेयादिसाधनीभूतपुरोडाशप्रकृतितया तेषां विधानमिति साम्प्रतम् । ततश्च फलवद्यागसाधनीभूतपुरोडाशद्रव्यप्रकृतितया ब्रीहीणामपेक्षितत्वाद्विधिसामर्थ्याद् व्रीहिस्वरूपाऽतिलङ्घनेन लक्षणया फलवद्यागसम्बन्धिना रूपेण सम्बध्यमानाः प्रोक्षणादया संस्कारा ब्रीहीन् प्रोक्षतीत्येवमादिभिरेव वाक्यैरपेक्षिते विनियुज्यन्ते । एवं च यवेष्वपि प्रोक्षणादय औपदेशिका एव । फलवद्यागसाधनीभूतपुरोडाशप्रकृतित्वस्योभयत्राविशेषादिति ।
अथ प्रयोगपरतापि कस्मान्न भवति ? इत्यत आह—ब्रीह्यादिमुखेन
करणविधिनैवाऽनुष्ठानसिद्धेः । अधिकृतस्य चाऽधिकारप्रत्ययात् । समिदादिषूत्त्पत्तिपरतामेव केचिन्मन्यन्ते । प्रकरणोन्नीतश्रुतिनिबन्धनत्वाद्विनियोगस्य । श्रुतिरेव त्विह विनियोजिका प्रकरणोन्नेया । विधिस्त्वयमेव विनि-
प्रकृतयजिरूपकरणांशप्राप्तौ करणविधेरेवाऽनुष्ठानसिद्धेः । पौर्ण्णमास्यां पौर्ण्णमास्येत्यमावास्यायाममावास्यया यजेतेत्यनेन पौर्ण्णमास्येति चामावास्ययेति च करणीभूतस्य प्रयोगभेदश्चोद्यते । न चाऽनितिकर्तव्यताकस्य तद्भाव इति करणमनुष्ठापयत्येतिकर्त्तव्यताकमेवाऽनुष्ठापयति ब्रीह्या दिमुखेनेति सन्निपत्योपकारकाणां द्वारविशेषं कथयति । अथ कस्मादधिकारपता न भवति ? इत्यत आह—तदधिकृतस्य करणाऽधिकृतस्याऽधिकारप्रत्ययात् । फलवाक्यं हि फलं साधने विनियोजयत्फलार्थिनं कर्त्तारं तत्साधनेऽधिकरोति । साधनाऽनुप्रवेशिन्यश्चेतिकर्त्तव्यता इति फलविधिवाक्यसामर्थ्यादेव साधनाऽधिकृतस्याऽधिकारस्तदितिकर्त्तव्यतास्वपि तासामभावे तत्साधनताऽनवगतेरिति भावः ।
अत्रैकदेशिमतमुपन्यस्यति—समिदादिषूत्पत्तिपरतामेव केचिन्मन्यन्ते । कुतस्तर्हि तेषां विनियोगः ? इत्यत आह प्रकरणोन्नीतश्रुतिनिबन्धनत्वाद्विनियोगस्य । अयमर्थः । दर्शपूर्ण्णमासाभ्यां स्वर्गकामो यजेतेत्येतत्प्रधानभावनाया लब्धसमीहितसाध्यतत्साधनायाश्च साधनोपकाराकाङ्क्षायां वचनमुपपद्यमानं यदेव तत्सन्निधातुमुपनिपतति समिदादि अनवाप्तसमाहितभेदं तस्यैव स्वविषयसाधनोपकारकत्वादैदमर्थ्यापादकं वचनमुपकल्प्यैकवाक्यतां भजते इति प्रकरणोन्नीतैव श्रुतिश्च विनियोजिका न पुनः समिधो यजतीत्यादिका । न ह्यस्याः श्रुतेः प्रधानैदमर्थ्यवगम्यते समिदादीनाम् । तस्मादग्निहोत्रं जुहोतीतिवदुत्पत्तिमात्रपरता समिदादिवाक्यानामिति केचिन्मन्यन्ते ।
अथ प्रकरणमेव कस्मान्न साक्षाद्विनियोजकम् ? इत्यत आह—श्रुतिरेव त्विह विनियोजिका साक्षान्न प्रकरणमित्यवधारणा । इदमत्राकूतम् । कर्त्तव्यस्य हीतिकर्त्तव्यताकाङ्क्षस्य वचनं प्रकरणम्, तच्च तदैदमर्थ्यापादनात्मकम्, ऐदमर्थ्यं च विनियोगः, यत्त्वनुपपद्यमानमुपपादकं कल्पयेत्तदेकवाक्यतां च गच्छेत्तदुपपादकमिति लोकसिद्धम् । न च विनियोगनिरूपणार्थेन प्रमाणान्तरेण वा वचनमनुपपन्नार्थमेकवाक्यतामुपैत्यपि तु वचनान्तरेणैव । अत एव वचनस्य परिपूर्णार्थौचित्ये वचनमध्याहरन्तो दृश्यन्ते शाब्दा इति । यदि श्रुतिरेव विनियोजिका न प्रकरणं किमिति तर्हिं श्रुतेर्भेदेन प्रकरणाख्यं
यीगनिबन्धनः । ननु श्रुत्यादयश्च विनियोजकाः, किमत्र विधिना ? । नैतत् । तादर्थ्यं हि विनियोगस्तच्च विधेः । श्रुत्यादयस्तु सम्बन्धमात्रहेतवः । सम्बन्ध-
प्रमाणमुपन्यस्तं महर्षिणा ? इत्यत आह—प्रकरणोन्नेयायां । यद्यपि श्रुतित्वेनाऽभेदः तथापि प्रत्यक्षश्रुतिः श्रुतिरित्युच्यते, प्रकरणोन्नेयायां श्रुतौ तन्मूलत्वात्प्रकरणं विनियोजकमुच्यते इति भेदः ।
तदिदमेकदेशिमतमुपन्यस्य दूषयति—विधिस्त्वयमेव विनियोगनिबन्धनः । तुशब्दः पूर्वपक्षं व्यावर्त्तयति । न प्रकरणोन्नीतश्रुतिर्विनियोजिका समिदादीनाम्, अपि तु तद्विधिः समीहितं प्रत्यैदमर्थ्यमापादयति तेषाम् । न चाऽग्निहोत्रं जुहोतीतिवत्समीहितभेदाऽनुपादानात् अविनियोजकत्वम्, तदनुपादानेऽपि विधिस्वाभाव्यादेव समीहितं प्रत्यैदमर्थ्याऽवगमात् तस्य च प्रकरणेन विशेषणात् । असति विधौ समानपदोपादानत्वेन धात्वर्थस्यैव भावनाभाव्यत्वप्रसङ्गात्समीहितं प्रत्यैदमर्थ्याऽनुपपत्तेः । अग्निहोत्रोत्पत्तिवाक्ये तु विधिस्वाभाव्यात्सत्यपि समीहितमात्रलाभेऽन्यत एव तद्विशेषप्रतीतेर्न विनियोगपरतेत्युक्तम् । अतः समिदादिवाक्यानामुत्पत्तिविनियोगपरत्वमित्यर्थः । अत्र चोदयति—ननु श्रुत्यादय एव विनियोजकाः, किमत्र विधिना ? अथातः शेषलक्षणमित्युपक्रम्य श्रुत्यादीनामेव तल्लक्षणत्वेन निर्देशादित्यर्थः । परिहरति—नैतत् । तादर्थ्य हि विनियोगः । ततः किं ? तच्च विधेः । अकिञ्चित्करास्तर्हि श्रुत्यादय इत्याह—श्रुत्यादयस्तु सम्बन्धमात्रहेतवः । ननु चैदमर्थ्यमेव सम्बन्ध इत्यत आह—सम्बन्धश्चाश्रयाश्रयिभावादिरनेकविधः, शेषत्वलक्षणस्तु विधिगम्य एवेत्याह—पारार्थ्य तु विधेः । यद्येवं कथं तर्हि श्रुत्यादयो विनियोजका ? न जातु सम्बन्धमात्रप्रतिपादकत्वं561 विनियोजकत्वम्, अपि तु अत्यन्तपारार्थ्यप्रतिपादनमित्यर्थः562 ।
उत्तरं—विधिना प्रतिपाद्यमानपारार्थ्योऽवघातादिर्यस्य ब्रीह्यादेः श्रुत्यादिभिः सम्बन्धितयाऽवगम्यते सोऽवघातादिस्तदर्थोव्रीह्याद्यर्थ इति प्रत्ययात् । इदमत्राकूतम् । श्रुत्यादयो न पारार्थ्यमवगमयन्ति । प्रयाजशेषेण हवींष्यभिधारयतीत्यत्र मा भूत्प्रयाजशेषो गुणभूतो मा च भूवन् प्रधानहवींषि, विभक्त्योः करणकर्मत्वाऽभिधायित्वेन तदापादकत्वात् । यदा तु विध्यधीनं पारार्थ्य तदाऽभिघारयतीति विधानादभिघारणस्य समीहितं प्रति तादर्थ्यप्रतिपादनात् प्रयाजशेषस्य च प्रयाजैदमर्थ्यापन्नस्याऽत्र हविष्षु शेषभावाऽभावात् प्रतिपत्तिविरोधात् । स्वरूपलक्षणायाश्चाऽप्रधानीभूत
श्चाश्रयाश्रयिभावादिरनेकविधः । पारार्थ्यं तु विधेः । कथं तर्हि श्रुत्यादयो विनियोजकाः ? विधिना प्रतिपाद्यमानपारार्थ्यो यस्य श्रुत्यादिभिः सम्बन्धितयाऽवगम्यते तदर्थ इति प्रत्ययात् । न चोभयलक्षणमपि शेषलक्षणमुक्तम् । विधेस्तद्विषयत्वात् । या च स्वरूपपरता सा भेदलक्षणे चिन्तिता । तदायत्तत्वाद्भेदस्य । स्वरूपपरो हि विधिर्भिनत्ति कर्म्म ।
विभक्त्यर्थाऽनुरोधेन प्रधानीभूतप्रकृत्यर्थाऽन्यथाभावस्याऽन्याय्यस्य प्रसक्तेः । समापितप्रयाजस्य तु तत्रोपयुक्तस्य तच्छेषस्य होममात्राऽविरोधिनो रोचनीयत्वेन समीहितत्वाद्धविषां च वाक्यान्तरेण स्नेहनार्थोपस्तरणाऽभिघारणविधानात् पुनरभिघारणस्याऽदृष्टार्थत्वप्रसङ्गात् असमीहितत्वात् प्रयाजशेषं हविष्षु क्षारयतीति वचनार्थः सम्पद्यते । ततश्च श्रुत्यादयः स्वसामर्थ्यात्सम्बन्धं प्रतिपादयन्तो विधिप्रतिपादितं563 पारार्थ्य विशेषे व्यवस्थापयन्तः पारार्थ्य प्रति प्रमाणमुच्यन्ते इत्यर्थः । महर्षिणाप्यथाऽतः शेषलक्षणमित्युपक्रम्य “कर्माण्यपि जैमिनिः फलार्थत्वा”दिति कर्मणः शेषभावं विधिविभक्तिहेतुकं वर्णयता श्रुत्यादीनि चोपारिष्टात्पारार्थ्यप्रतिपादकान्युपपादयतोभयविधलक्षणं केवलादिविधिभक्तिः564 विधिसहितश्रुत्यादिभिरपि शेषलक्षणमुक्तम् । कथमवान्तरभेदेऽपि लक्षणैकत्वम् ? इत्याह—विधेस्तद्विषयत्वात् । यदापि श्रुत्यादिगम्यं शेषत्वं तत्रापि विहित एव तदित्युक्तमित्यर्थः । न च स्वरूपपरत्वादयोऽस्माभिरुत्प्रेक्षिताः, कि तु भगवतो महर्षेरपि सम्मताः, तद्विचारणादित्याह—या च स्वरूपपरता सा भेदलक्षणे चिन्तितेति । कुतः ? तदायत्तत्वात् स्वरूपपरत्वाद् भेदस्य । कुतस्तदायत्तत्व ?-मित्यत आह—स्वरूपपरो हि विधिर्भिनत्ति कर्मभावनाम्565 । अज्ञातस्वरूपज्ञापनं हि स्वरूपपरत्वं, न च तदन्येन ज्ञापिते सम्भवतीति ज्ञाप्यमानं ततो भिन्नं व्यवस्थाप्यते, अन्यथा भेदाऽभावादिति भावः ।
सम्प्रति स्वरूपपरताहेतुकां भावनाभेदचिन्तामादर्शयति—तत्परता चेत्यादिना, व्याप्रियत इत्यन्तेन । अस्ति ज्योतिष्टोमेन स्वर्गकामो यजेतेति । तत्रैवमाम्नायते सोमेन यजेत, दक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति । तत्रैवं चिन्त्यते, किं स्वर्गकामो यजेतेति भावनायामेकस्यां दानादयो धात्वर्था विधीयन्ते उत प्रतिधात्वर्थ भावनाभेदः ? इति । किं प्राप्तम् ? आख्यातवाच्यत्वाद्भावनायास्तस्य च सर्वत्रैकत्वाद्वाचकभेदादृते वाच्यनानत्वाऽयोगात् अतिप्रसङ्गात् धात्वर्थानां च नानाधातुवाच्यानामपि भावनातोऽन्यत्वात्
तत्परता चैकशब्दोपादानेऽपि भावनात्मनि प्रकृतिप्रत्यययोः पौर्वापर्य्यनियमात्प्रकृत्यर्थापेक्षेण प्रत्ययेनाऽर्थस्याऽभिधायाः कृताऽनुबन्धे प्रतीयमाने शब्दान्तरत्वाच्छुद्धेऽलभ्यमाने धात्वर्थविनियोगपरत्वानुपपत्तेरेकस्यां भावनायां
तद्भेदेऽपि भावनाभेदाऽनुपपत्तेः स्वर्गकामो यजेतेति भाव्यविशेषोपादानाद्यजिपरस्याऽऽख्यातस्य विशदतरभावनाऽभिधायित्वात् तद्विहितभावनाऽनुवादेन दानादयो धात्वर्था विनियुज्यन्ते । न चोत्पत्तिशिष्टयागाऽवरोधाद्दानानामविनियोग इति उक्तम्, दद्यात् जुहुयादित्यादिषु तदाख्यातप्रत्यभिज्ञानैर्भावनातद्भावस्याऽशक्याऽपह्नवत्वात् । तथा च तस्यां दानादीनां विनियोगाऽवगमात् सकलधात्वर्थविशिष्टा भावनैकैवेति प्राप्तम् ।
एवं प्राप्ते उच्यते—एकशब्दोपादानेऽपि भावनात्मनि प्रकृतिप्रत्यययोः पौर्वापर्यनियमाद्धेतोः प्रकृत्यर्थाऽपेक्षेण प्रत्ययेनाऽर्थस्य भावनाया अभिधाया येयमभिधा तस्याः । एतदुक्तं भवति । यद्यप्ययमाख्यातप्रत्यय एक एव तथापि तत्तद्धातुपरः प्रयुज्यमानः तत्तद्धात्वर्थाऽनुरक्तं स्वार्थमभिदधानो566 यजेत दद्यात् जुहुयादिति परस्परव्यावृत्ताः प्रकृत्यर्थभेदभिन्ना भावना दर्शयति । कथमन्यस्य धात्वर्थस्य भेदो भावनाभेदहेतुः ? इति चेत्, न । तस्यास्तद्विषयत्वेन तदधीननिरूपणत्वात् । औदासीन्यप्रच्युत्युपलक्ष्यमाणात्मव्यापारो हि भावना आशुतरविनाशितयाऽन्योन्यं567 च तद्भेदात्तु भिद्यमाना अपि568 न स्वरूपतो निरूप्यन्ते569 । अपि तु तद्विषयधात्वर्थोपधानेन । न च प्रकृत्यर्थनिरपेक्षः केवलः स्वाऽर्थमभिधत्ते केवलस्याऽसाधुतया प्रयोगाऽनर्हत्वात् । प्रकृतिपरस्तु स्वाऽर्थमभिधत्तदर्थोपरक्तं भिन्नमेवाऽभिदधातीति570 भावनाभेदसिद्धिः । तस्मात् कृतानुबन्धे कृताऽवच्छेदे प्रत्ययार्थे प्रतीयमाने कृतशब्दान्तरत्वादनुबन्धा हि धात्वर्था भावनायाः । ते भिन्नधातुगोचरत्वाद्भिन्नाः सन्तो भावनामपि भिन्दन्तीत्यर्थः ।
एवं हि भावना प्रतिधात्वर्थं न भिद्येत, यदि भावनाभिधायी प्रत्ययः प्रकृतिपरस्तां शुद्धामभिदध्यात्, न चैतदस्तीत्याह—शुद्धे भावनात्मन्यलभ्यमाने सति धात्वर्थविनियोगपरत्वाऽनुपपत्तेर्हेतोरेकस्यां स्वर्गभावनायां नानाधात्वर्थविनियोगाऽनुपपत्तेः । न जातु यागावच्छिन्नो भावनाभेदो दानाऽवच्छिन्नो भवितुमर्हति । ततश्च यदुक्तम् एकदेशिमतेऽपि पूर्वपक्षिणा
नानाधात्वर्थविनियोगपरत्वानुपपत्तौ नैकस्यां भावनायां नानाधात्वर्थविनियोजकाऽभावात्कृत्स्नो वेद एकं वाक्यमेकं चाऽपूर्वमिति । समिदादिषु त्वनन्यपरत्वात् ।
तिस्रं आहुतीरिति तु571 स्वरूपपरत्वेऽपि सङ्ख्यातो भेदः । अकारणं तदप्यस्मदुपन्यस्तपूर्वपक्षनिराकरणान्निरस्तं भवतीत्याह—नैकस्यां भावनायां नानाधात्वर्थविनियोगात् । कृत्स्नं चैकं वाक्यम् एवं चाऽपूर्वमिति कर्मभावनाभेदाऽनुविधायित्वादपूर्वभेदस्येति भावः ।
एवं शब्दान्तरेण कर्मभेदं प्रतिपाद्येदानीमभ्यासेनाह—तत्र समिधो यजतीत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः, तत्र किमेका कर्मभावना आहोस्वित् पञ्चैवेति ? किं प्राप्तम् ? धात्वर्थाऽनुबन्धभेदेन भावनाभेदाऽभिधानात् धात्वर्थस्य च धातुभेदं विना भेदाऽनुपपत्तेः समिधो यजतीति प्रथमभावनावचनेन विहिता भावना विपरिवर्त्तमानोपरितनैरनूद्यते । न च प्रयोजनाऽभावादननुवादः । प्रमाणसिद्धस्याऽप्रयोजनत्वस्याऽपर्यनुयोज्यत्वात् अनेकाऽपूर्वकल्पनाप्रसङ्गादेकाऽपूर्वाऽवान्तरव्यापारमेकं कर्मेति ।
एवं प्राप्तेऽभिधीयते—समिदादिषु त्वनन्यपरत्वाद् भेदः । इदमत्राकूतम् । परस्पराऽनपेक्षाणि समिदादिवाक्यानीति सर्वाण्येव प्राथम्यार्हाण्यपि युगपदध्ययनाऽनुपपत्तेः क्रमेणाऽधीतानि । न त्वयमेषां प्रयोजकः क्रमः । परस्पराऽनपेक्षाणामेकवाक्यत्वे हि स तथा स्यात् । अथ572 प्राथम्याऽभावात्प्राप्तमित्येव नास्ति, कस्याऽनुवादः ? कथञ्चित्परिवृत्तिमात्रस्यौत्सर्गिकाऽप्रवृत्तप्रवर्त्ततालक्षणविधित्वाऽपवादसामर्थ्याऽभावात् । गुणश्रवणे हि गुणविशिष्टकर्मविधिगौरवभयात्कर्माऽनुवादाऽपेक्षायां विपरिवृत्तेरुपकारः । यथा दध्ना जुहोत्यग्निहोत्रं जुहोतीति विहितहोमाऽनुवादेन दधिविधिपरे वाक्ये । न च गुणाद्भेदः । समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाऽभावात् नामधेयानां च यजिसामानाधिकरण्येन तत्त्वात्तत्पारतन्त्र्येण व्यवस्थानात् नेह कर्मभेदसाधनत्वमिति न सञ्ज्ञातो विधिभेदः । तस्मादन्यपरत्वाभावादज्ञातकर्मप्रतिपादनपरत्वात्कर्माण्ययमभ्यासो भावनाऽनुबन्धभूतानि भिन्दानो भावनामपि भिनत्तीति सिद्धम् ।
सम्प्रति सङ्ख्यातो भेदः प्रतिपाद्यते । तत्र तिस्र आहुतीर्जु होतीत्येतदुदाहरणम् । तत्राऽयं विचार । किमाहुतिभावनेकैव विधीयते उत तिस्रः ? इति ।
तर्हि तत् । न । तस्मिन्नसति सङ्ख्यायामभ्यासेनापि सम्पत्तेः ।
कि प्राप्तम् ? जुहोतीत्यस्य विधायकत्वात्तस्य चैकधात्वर्थविषयभावनाऽभिधायित्वादभ्यासस्य चाऽभावत्तिस्र इति चाऽऽहुतीरिति च बहुत्वसङ्ख्याया जुहोतीत्येतद्विहितैकहोमाभ्यासेनाऽप्युपपत्तेरनुबन्धभेदाऽभावात् एकैव भावनेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते—तिस्र आहुतीरिति स्वरूपपरत्वेऽपि सङ्ख्यातो भेदः । एतदाकूतम् । भवेदेतदेवं यदि जुहोतीत्येतावन्मात्रं विधायकं स्यात् । अपि तु वाक्यार्थस्य विधिविषयत्वात् पदार्थमात्रेण व्यवहारात् पदार्थाऽभिधानद्वारेण वाक्यमेव विधायकम् । तिस्र आहुतीर्जुहोतीत्येतच्च बहुत्वसङ्ख्यायुक्तमन्यतोऽप्रतीतं कर्मस्वरूपं विदधद् बहुत्वस्य नानात्वैकार्थसमवायनियमादेकस्मिंश्च तदनुपपत्तेरभ्यासाऽऽश्रयणे च जुहोतीति होमेनाऽभ्यासलक्षणापत्तेरनुबन्धभूतान् होमान् भिन्दत्तद्गोचरां भावनामपि भिनत्तीति सिद्धः सङ्ख्यातो भेदः ।
भाष्यकारेण तु दुरुपपादतया भीतिं मन्यमानेन सप्तदशप्राजापत्यान् पशूनित्युदाहृतमिति तदप्युपन्यस्तम् । तत्रेदं चिन्त्यते । किं प्रजापतिर्देवतैषामिति प्राजापत्या उत प्रजापतिर्द्देवताऽस्येति ? तत्र यदि कृतैकशेषस्य तद्धितोत्पत्तिर्यथा पूर्वः पक्षस्तथा सति सप्तदशपशूनामेको देवतासम्बन्ध इत्येकत्वाद्यागस्यैकैव भावना । अथ कृते तद्धिते पश्चादेकशेषः, यथा परः पक्षः, तथा सति प्रजापतिपशुसम्बन्धानां बहुत्वात्ताबन्तो यागा इति तावन्त एव भावनाभेदा भवन्ति । तत्र किं प्राप्तम् ? कृतैकशेषस्य तद्धितसम्बन्ध इति । तथा सत्येकपूर्वं कल्प्येतैकत्वात् कर्मणः । कर्मभेदे तु बहून्यपूर्वाणि कल्प्येरन्निति ।
एवं प्राप्तेऽभिधीयते—सप्तदशेति स्वरूपरत्वेऽपि सङ्ख्यातो भेदः । इदमत्राकूतम् । औत्सर्गिकत्वादेकत्वसङ्ख्यायाः प्रजापतिर्द्देवताऽस्येत्यपि स्फुरति, अनेकाऽपूर्वकल्पनाभयाच्चैषामित्यपि । तदस्मिन्संशये प्रकृतिवद्विकृतिः कर्त्तव्येत्यर्थापत्तिपरिकल्पिताद्वाक्यशेषान्निर्णये सति अस्येत्येतदेव युक्तं नैषामिति । तथा हि । प्रकृतावग्नीषोमीये पशावेकादशाऽबदानानि विहितानि, तत्र चावत्तहृदयाद्यवदानद्वारेण पशोः साधनत्वमिति स्थितम्, तदिह प्रकृतिवदिति वचनेन प्रापयितव्यम्, तत्र यदि सप्तदशपशुद्रव्यक एको यागः तदाऽयमेकादशकोऽवदानगण एकस्मिन्यदि क्रियेत स एवैको यागसाधनमिति षोडश पशवो व्यर्था भवेयुः । अथ व्याराज्य क्रियेत तथाप्येकादशकोऽवदानगण एकादशपशून् व्याप्नोतीति षट् परे व्यर्थाः स्युः । न च प्रत्येकं सर्वेषु
गुणोऽपि पूर्वसंयोगात् विनियोगमात्रपरतां निवारयंस्तत्परतामेवाऽऽवहति ।
पशुष्ववदानगण इति युक्तम् । यागसाधनीभूतस्याऽवदानविधानात् । इह च सप्तदशानां साधनत्वं न573 प्रत्येकं तदभावात् । प्रतिपशु तु यागभेदे प्रत्येकमवदानगण उपपद्यत इति तद्धितान्तस्य पश्चादेकशेष इति सङ्ख्यातोऽनुबन्धभेदाद्भावनाभेद इति सिद्धम् । ननु यदि स्वरूपपरत्वेऽपि सङ्ख्यात एव भेदः, अकारणं तर्हि स्वरूपपरत्वम्574 । उत्तरम्—न, तस्मिन् स्वरूपपरत्वे असति सङ्ख्यायाम् अभ्यासेनापि सम्पत्तेर्यत्परः शब्दः स शब्दार्थ इति स्वरूपपरत्वं चेन्न स्यात् न स्वरूपं शब्दार्थो भवेत् । ततश्चाऽभ्यासेनापि सङ्ख्या सम्पद्येत । होमावच्छिन्नभावनास्वरूपप्रतिपादनपरत्वे तु तिस्र आहुतीर्जुहोतीत्यस्य तस्यैवाऽभिधेयत्वात् तत्परत्वाच्छब्दस्य अभ्यासस्य च ततोऽन्यत्वात् तल्लक्षणायां स्वरूपपरत्वं सति सम्भवे शब्दो न जह्यात् । तस्मात्स्वरूपपरत्वस्याऽभ्यासलक्षणनिराकरणद्वारेणास्ति सङ्ख्याहेतुकेऽपि भेदे न रूपयोग इत्येवार्थः575 ।
पूर्वकर्माऽसम्भविनो गुणादपि भेद इत्याह—गुणोऽपीत्यादिनाऽऽवहतीत्यन्तेन । इदमाम्नायते । तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षेति । अत्र वैश्वदेव्यामिक्षेति च द्रव्यदेवतासम्बन्धाऽनुमितो यागो विधीयते । तदनन्तरं चेदमाम्नायते वाजिभ्यो वाजिनमिति । तत्र सन्दिह्यते । किं पूर्वस्मिन्कर्मणि वाजिनं गुणो विनियुज्यते, उत कर्मान्तरं द्रव्यदेवताविशिष्टं विधीयते ? किं प्राप्तम् ? द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात्कर्मान्तराऽपूर्वकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरम्, अपि तु पूर्वस्मिन् कर्मणि वाजिनद्रव्यनियोग इति । न चोत्पत्तिशिष्टाऽऽमिक्षागुणाऽवरोधात्तत्र वाजिनमलब्धाऽवकाशं कर्मान्तरं गोचरयतीति साम्प्रतम् । उभयोर्वाक्ययोः समसमयं प्रवृत्तेः आमिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वात् न उत्पत्तिशिष्टत्वमामिक्षायाः सम्भवति । ततः कथमेतया विरुध्यते वाजिनम् ? न च वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां वाजिभ्यो वाजिनमिति वाजिनसम्बन्धाद्वाक्यगम्याद् बलीयानिति वाच्यम् । उभयोरपि पदान्तरसापेक्षप्रतीतयोर्वाक्यगम्यत्वस्याऽविशेषात् । न खलु वैश्वदेवीत्युक्ते विनाऽऽमिक्षापदमामिक्षामध्यवस्यन्ति श्रोतारः । भवतु वा श्रौतत्वं तथापि वाजिनम् इति पदं वाजमन्नमामिक्षा तदेषामिति व्युपत्त्या तत्सम्बन्धिनो विश्वान्
सञ्ज्ञाऽपि पूर्वबुद्धिविच्छेदेन सहस्रदक्षिणत्वादिगुणविनियोगमात्रविरोधेन अपूर्वबुद्धिप्रसूता576 च तदेवानयति ।
देवानाह । ततश्चाऽऽमिक्षासम्बन्धोपजीवनेन विश्वेभ्यो देवेभ्यो वाजिनं विधीयमानं नाऽऽमिक्षया बाध्यते अपि तु तया सह समुच्चीयत इति न कर्मान्तरम्, किं तु पूर्वस्मिन्नेव वाजिनगुणविनियोग इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयते—गुणोऽपि पूर्वसंयोगात्577 विनियोगमात्रपरतां निवारयंस्तत्परतामाबहतीति । इदमत्राकूतम् । भवेदेतद् यदि वैश्वदेवोति तद्धितश्रुत्या नाऽऽमिक्षाऽभिधीयेत, तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्सन्निहितस्य च विशेषस्य सर्वनामार्थत्वात् तत्रैव तद्धितस्यापि प्रवृत्तिर्न विश्वेषु देवेषु न सत्सम्बन्धे नापि तत्सम्बन्धमात्रे । नन्वेवं तर्हि कस्माद्वेश्वदेवीशब्दमात्रादेवाऽऽमिक्षां न प्रतीमः, किमिति वाऽऽमिक्षापदमपेक्षामहे ? तद्धितान्तस्य पदस्याऽभिधानाऽपर्यवसानान्न प्रतीमः, तत्पर्यवसानाय चापेक्षामहे । अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुं सन्निहितविशेषाऽभिधायि तत्सन्निधिमपेक्षमाणं तत्सन्निधापकमामिक्षापदमपेक्षत इति । कुत आमिक्षापदादेव वैश्वदेवीपदादामिक्षाप्रत्ययप्रसङ्गः, कुतो वा तदनपेक्षा ? अतश्च सत्यामपि पदान्तराऽपेक्षायां यत्पदमेव पदान्तराऽनपेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावऽगतत्वाच्छ्रीतं बलीयश्च । यत्तु पर्यवसिताऽभिधानपदाऽभिहितपदार्थाऽवगमनं च रमप्रतीतबावयाऽबगम्यं दुर्बलं चेति तद्धितश्रुत्याऽवगतामिक्षालक्षणगुणाऽवरोधात्पूर्वकर्माऽसंयोगि बाजिनं तत्र स्वविनियोगं विनिवारयत् स्वगोचरकर्मान्तरस्वरूपविधानपरतामेवावहति । न च नित्याऽवगतनिरपेक्षसाधनभावाऽऽमिक्षा बाजिनेन सह विकल्पसमुच्चयौ सहते । न चाऽश्वत्वे निरुढवृत्तिर्वाजिशब्दः कथञ्चिद्योगेन सापेक्षवृत्तिर्विश्वेषु देवेषु व्याख्यातुमुचितः । प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्य एव न त्वविषयत्वात्प्रमाणस्येति सिद्धो गुणाद्भेदः ।
उद्देशक्रमस्याऽविवक्षित्वात् तदनुरोधेग सम्प्रति सञ्ज्ञाभेदमाह—सञ्ज्ञापीत्यादिना, नयतीत्यन्तेन । अथैष ज्योतिरथैष विश्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेति । तत्र सन्देहः । किं यजेतेति सन्निहितज्योतिष्टोमाऽनुवादोऽयं सहस्रदक्षिणलक्षणगुणविधानायाऽथ वा गुणविशिष्टं कर्मान्तरं विधीयते ? इति । किं प्राप्तम् ? ज्योतिष्टोमस्य प्रकरणाद् गुणमात्रविधौ लाघवात् ज्योतिःशब्दस्य च वसन्ते वसन्ते ज्योतिषेति ज्योतिष्टोमे प्रयोगदर्शनात् नामैकदेशेन च नामोपलक्षणस्य लोके सिद्धत्वात् भीमसेनोपलक्षणभीमशब्द
प्रकरणान्तरमपि अन्यबुद्धिविच्छेदात्तात्पर्य्यायैव व्याप्रियते ।
वत्, अथशब्दस्य चाऽऽनन्तर्यार्थत्वात् असम्बन्धे च तदनुपपत्तेर्द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टत्वात् तथा च समशिष्टतया तथा सहाऽस्य विकल्पोपपत्तेः प्रकृतस्यैव यागस्य सहस्रदक्षिणलक्षणगुणविधानार्थमनुवादोऽयं न कर्मान्तरमिति प्राप्ते उच्यते—
सञ्ज्ञाऽपि पूर्वबुद्धिविच्छेदेन सहस्रदक्षिणत्वादिगुणविनियोगमात्रविरोधेनाऽपूर्वबुद्धिप्रसूता च तदेवाऽऽनयति । अयमर्थः । भवेत्पूर्वस्मिन् गुणविनियोगो यदि तदेव प्रकरणं स्यात्, विच्छिन्नं तु तत् । तथा हि । सन्निधावपि पूर्वाऽसम्बद्धार्थ सञ्ज्ञान्तरं प्रतीयमानं पूर्वकर्म्मबुद्धिं व्यवच्छिनत्ति, अपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् । न जातु देवदत्ताय देहि गाम् अथ देवाय स्वर्णमिति देवशब्दादपि देवदत्तं स्वर्णभाजमवगच्छन्ति जनाः । तथा चोपरिष्टाद्यजेतेति श्रूयमाणमप्यसम्बद्धार्थशब्दव्यवायात् तद्बुद्धिमनादधत्तत्र गुणविनियोगमात्रासमर्थं कर्मान्तरमेव गुणविशिष्टं विधत्ते । न चैकत्राऽनुपपत्त्या कथञ्चिल्लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यत्रापि सति सम्भवे तत्रैव प्रवर्त्तनीयः । न जातु गङ्गायां घोष इत्यत्र गङ्गाशब्दो जघन्यवृत्तिरिति गङ्गायां मत्स्य इत्यत्रापि तथा । एवं चाथऽशब्दोऽधिकारार्थः प्रकरणान्तरतामेव द्योतयिष्यतीत्येषशब्दश्चाऽधिक्रियमाणपरामर्शायोपपद्यत इति सिद्धः सञ्ज्ञान्तराद्भेदः ।
सम्प्रति प्रकरणाद्भेदमाह—प्रकरणान्तरमिति । कुण्डपायिनामयने मासमग्निहोत्रं जुहुतीति समाम्नायते । तत्रैवं विचारणा, किमयं नैयमिकमग्निहोत्रमनूद्य मासलक्षणो गुणो विधीयते, उत कर्मान्तरमेव ? तत्राऽग्निहोत्रशब्दस्य नैयमिकाऽग्निहोत्रवचनत्वात्कर्मान्तरे चाऽप्रसिद्धेस्तद्वाचकत्वे चान्याय्याऽनेकार्थत्वापत्तेः लक्षणायां578 च सति सम्भवे श्रुतिपरित्यागप्रसङ्गात् जुहुतीति च होमत्वसामान्यमात्राऽनुबादसम्भवेन विशेषाकाङ्क्षायामग्निहोत्रेण विशेषणेऽपि हविषेवार्त्तेरवाक्यभेदात् जुहुतीति च कर्तृबहुत्वेऽपि कर्मणस्तादवस्थ्येन प्रत्यभिज्ञानाऽविनाशात्तत्रापि च नैयमिके यावज्जीवश्रुतिविरोधेन मासपदार्थेऽन्वयाऽनर्हतया579 सायम्प्रातर्निर्वर्त्तनीयकाम्याग्निहोत्राऽनुबादेन तदभ्यासस्य मासविधिरिति580 प्राप्ते उच्यते । प्रकरणान्तरमन्यबुद्धिव्यवच्छेदात्तात्पर्यायैव व्याप्रियते । इदमत्राकूतम् । स्यादेतदेवं यदि कर्मणि कालो
सन्निधी तु तदविच्छेदान्न तात्पर्य्यमित्यविच्छेदः । एवं च कर्म्मणो
विधीयेत । न त्वसावनुपादेयतया विधानमर्हति, किं तु काले कर्म विधेयम्, विधेयं चेत् कथं नाऽन्यत् ? अप्राप्तगोचरत्वाद्विधेः । सायम्प्रातरग्निहोत्रं जुहोतीत्यत्राप्ययं प्रसङ्ग इति चेत् न । तत्प्रकरणवर्त्तितया स्फुटतरेणाऽग्निहोत्रप्रत्यभिज्ञानेनैत्सर्गिककर्मस्वरूपपरताऽपवादेन सायमादिविनियोगमात्रपरत्वात्तस्याः । अस्य तु प्रकरणान्तरसमाम्नायेन581 तद्बुद्धिविच्छेदादपवादाऽभावेनौत्सर्गिकाऽप्राप्तेः कर्मस्वरूपविषयत्वस्याऽपनेतुमशक्यत्वात् नाम्नश्च विधिविषयाऽवच्छेदकतया582 विधीयमानबहुकर्तृकपूर्वाऽपरभूताऽख्याताऽर्थप्रत्यभिज्ञापनाऽसामर्थ्यातदनुरोधेन व्यवस्थितेर्मुख्यतया च परशब्दस्य परत्र वृत्तेरनुपपत्तेरनुरूपकर्मान्तराऽपेक्षितनैमित्तिकाऽग्निहोत्रधर्मसम्पत्त्यै जघन्याऽपि वृत्तिरुपपत्स्यते । तस्मात्प्रकरणान्तरमपि विधीयमानात् कर्मणो यदन्यद्विहितं तद्बुद्धिविच्छेदाद्धेतोस्तात्पर्याय तदेव कर्मस्वरूपं परं प्रधानं यस्य विधिवाक्यस्य तत्परं तस्य भावस्तत्त्वं तस्मै व्याप्रियते इति सिद्धं कर्मान्तरत्वमिति ।
यत्र तु न प्रकरणान्तरत्वमेवंविधे विषये तत्र न कर्मस्वरूपे तात्पर्यम्, अपि तु विधियोगमात्रपरतैवेत्याह—सन्निधौ तदविच्छेदात् प्रत्यभिज्ञानाऽविच्छेदात् न तात्पर्य न स्वरूपपरत्वमित्यविच्छेदो विनियोगमात्रपरत्वम् । तद्यथा अवेष्टिं प्रकृत्येदमाम्नायते एतयाऽन्नाद्यकामं याजयेदिति । तत्र सन्देहः । किमवेष्टिः कर्मान्तरमेतत्फलं प्रति विधीयते उत फले विनियोगमात्रमेतत् ? इति । किं प्राप्तम् ? फलस्योद्देश्यतया तद्विधानाऽनुपपत्तेस्तत्र कर्म विधातव्यम् । द्वयोरुद्देश्ययोर्मिथः सम्बन्धाऽभावात् । विधीयते चेत् कर्मान्तरमिति प्राप्तेऽभिधीयते । सत्यमप्रत्यभिज्ञायामेवमिह त्ववेष्टिसन्निधौ तत्पाठात् स्फुटतरं तत्प्रत्यभिज्ञानमपवादकमौत्सर्गिककर्मस्वरूपपरत्वं विघटयद्विनियोगमात्रपरतामापादयतीति सिद्धमस्य प्रकरणान्तरप्रत्युदाहरणत्वमिति दर्शिता षट्प्रमाणा कर्मस्वरूपपरतायाम् ।
यद्येपा कर्मस्वरूपपरत्वप्रतिपादनी कथं तर्हि भेदो लक्षणार्थः ? इत्यत आह—एवं च कर्मणो विधेयत्वं तद्भेद उपोद्धातः । यद्यपि भेद एव लक्षणार्थः, तथाप्यस्यैव स्वरूपपरत्वप्रतिपादनमन्तरेणाऽशक्या प्रतिपत्तिरित्युक्तम् । अतः प्रकृतभेदसिद्ध्यर्थमुपोद्घातः षट्प्रामाण्याः स्वरूपपरत्वं बोधयन्नधिकरणसिद्धान्तन्यायेन भेदप्रतिपाद्यत इति भेदोऽविलक्षणार्थः ।
विधेयत्वं तद्भेदोपोद्धातः । विनियोगपरता तु तृतीये वक्ष्यते । न हि श्रुत्यादि मात्रात्तादर्थ्यमित्युक्तम् । न चाऽनाश्रिताऽनुष्ठानं तत् । अनुष्ठानं च विधेः । तदपि तर्हि विवक्षितम् । सत्यम् । प्रयोगविधेस्तत्सिद्धेर्विनियोगमात्रपरमेतत् ।
एवं तावदुत्पत्त्यर्थतां विधेर्द्वितीयाध्यायगोचरं दर्शयित्वा इदानीं विनियोगार्थतां तृतीयाध्यायविषयमादर्शयति—विनियोगपरता तु विधेस्तृतीयलक्षणे चिन्त्यते । ननु चिन्त्येतैवं यदि विधिर्विनियोजकः स्यात् । न त्वयं तथा, श्रुत्यादीनामेव विनियोजकत्वात् । उक्तं हि श्रुत्यादीनि च विनियोगे कारणानीत्यत आह—न हि श्रुत्यादिमात्रात्तादर्थ्यमित्युक्तम् । न खल्वत्र सम्बन्धमात्रं चिन्त्यतेऽपि तु पारार्थ्यम्, यथाह “अथातः शेषलक्षणं,” “शेषः परार्थत्वा”दिति । न च तच्छ्रुत्यादिमात्रगोचरो ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । प्रयाजशेषेण हवींष्यभिधारयतीत्यादिषु तेषां दृष्टव्यभिचारतया परार्थत्वं प्रति प्रामाण्याऽभावात् । तथा च ब्रीहीनवहन्तीत्यादावपि भावना स्वभावेन भाव्यमपेक्षमाणापि समानपदोपादानाऽवघातत्यागेन ब्रीहिरूपं गृह्णीयात् । दवीयसी त्वस्याऽपूर्वसाधनभावावस्था तपस्विनीति कर्तृसमीहितसाधनतात्मा विधिरवहन्त्यादौ प्रतीयमानः समीहितं भाव्यमुपस्थापयत्सन्निहितमप्यसमीहितत्वादवघातं हित्वा व्रीहीनुपसर्पयति । तानपि चोपसृत्य तद्रूपस्याप्यसमीहितत्वात्तन्मात्रेऽपर्यवस्यत्समीहितोपायक्रतुसाधनीभूतपुरोडाशप्रकृतित्वाऽवस्थामस्याऽवश्यमालम्बते, तत्साधनत्वं चाऽवघातस्याऽबगमयति । एवं च यवेष्वप्यौपदेशिक एवाऽवघातः सिद्धो भवति । साधनीभूतपुरोडाशप्रकृतित्वस्योभयत्राऽविशेषात् । तद्विधौ सति तादर्थ्यं न श्रुत्यादीनामित्युक्तमधस्तात् इत्यर्थः ।
ननु मा भूच्छ्रुत्यादिमात्रात्तादर्थ्यं प्रधानविधिरेवत्ववघातादिषु प्रत्यभिज्ञायमानो विनियोगसिद्ध्यन्यप्रयोजनत्वाऽभावात्साक्षाद्विध्यविषयानप्यपूर्वसाधनीभूतक्रत्वपेक्षितानन्तरादृश्यमानतुषविमोचनलक्षणकार्यतया तद्विषयाऽनुप्रवेशिनोऽवघातादीनैदमर्थ्यं नयन् तत्सिद्धार्थतयोपादीयमानतया विधास्यतीति कृतमवघातादिष्विवान्तरविधिनेति शङ्कामपनेतुमाह—न चाऽनाश्रिताऽनुष्ठानं तत्तादर्थ्यम् । न खल्ववघातादय इत्येव प्रधानार्थाः किं तु तदर्थमनुष्ठीयमानाः । कस्मात् ? तादर्थ्यमनुष्ठानमात्रं श्रिताः ।
अस्त्वेवं तथापि प्रकृते किमायातम् ? इत्याह—अनुष्ठानं च विधेः । साक्षादवहन्तिविषयाऽवान्तरविधेः । अत्रेदमाकूतम् । अपूर्वविधिपक्षे हि सर्वेषां प्रक्रिया घटितापि, न त्वपूर्वविधिरिति निवेदितमधस्तात् नियोग
यथोक्तम् एवं सत्यङ्गविधिरनुवादः, न चाऽविहितमङ्गं भवतीत्यङ्गत्वाय विधातव्यमिति ।
परीक्षायाम् । कर्तुरपेक्षितोपयतया तु विधौ सर्वमिदमिन्द्रजालप्रतिमम् । न हि प्रधानविधिप्रत्यभिज्ञानमवहन्त्यादिषु समिदादिष्विव समस्ति । न खलु य एव दर्शपूर्णमासयोः समीहितं फलं प्रति साधनताविधिः स एवाऽवहन्त्यादीनामपि समीहितं फलवत्करणोपकारं प्रति साधनता विधिः सम्भवति । परस्परपरिहारस्थितिलक्षणविरोधात् । तद्यदि प्रधानविधिरभ्युपेयेताऽवहन्त्यादिषु ततोऽवहन्त्यादीनामाग्नेयादीनामिव प्रधानभावापत्तेर्न प्रधानार्थतालक्षणं शेषत्वं स्यादिति तत्सिद्ध्यर्थमवान्तरविधिरवघातादिषु समिदादिष्विवाऽभ्युपगन्तव्यः । एवं नाऽबहन्त्यादीनामपि साक्षाद्विधिगोचरतया विधेयत्वं न पुनः कथञ्चिद्विधिसिद्ध्यर्थतयोपादीयमानतया कल्पितं भविष्यति । न च यस्य सिद्धिरेव583 प्रयोजनं स विषय इत्यपि युक्तम्, अस्मन्मते विषयैकदेशेऽप्यप्रवृत्तेः विरुद्धतयाऽस्य तल्लक्षणत्वाऽयोगात् । तथा हि । प्रधानस्यापि न विधिसिद्धिमात्रमपि प्रयोजनम्, अपूर्वाऽवान्तरव्यापारस्य तस्य फलसिद्धिप्रयोजनत्वात्प्रागेव पुनरेवकारार्थः । तस्मात् विधिविषयतया समिदादेरवघातादीनामविशेषेऽप्यपूर्वान्तरव्यापारयोगलक्षणो583 विशेषोऽवगन्तव्यः । इदमेव च विशेषमाह स्म महर्षिः “तानि द्वैध”मिति । तेनाऽनुष्ठानाऽवगमाद्विधिमन्तरेण च तदनुपपत्तेरवघातादिषु चाऽवान्तरविधिसिद्धिः ।
यद्येवं तदप्यनुष्ठानमपि तर्हि विवक्षितं, तथा च ब्रीहीनवहन्तीत्यादिषु व्यवस्थिताद्विपरीतता व्याहन्येत । उत्तरम्—सत्यम् । प्रयोगविधेः पौर्णमास्यां पौर्णमास्यां यजेतेत्यादेस्तत्सिद्धेः अनुष्ठानसिद्धेः विनियोगमात्रपरमेतत् ब्रीहीनवहन्त्यादिवाक्यम् । मात्रग्रहणं च शङ्कितत्वात् प्रयोगं व्यवच्छिनत्ति, न पुनरुत्पत्तिम् । व्यवस्था पिततद्विधिपरत्वव्याहतितादवस्थ्यात् । एददुक्तं भवति । सर्वस्यैव विधेश्चातूरूप्यान्नोत्पत्तिविनियोगपरताऽपि तु विधिवाक्यनान्तरीयकतया प्रयोगः प्रतीयमानोऽन्यतस्तत्सिद्धेरविवक्षितोऽस्ति । ननु नास्ति, अस्ति चेत्कथमवान्तरश्रुत्यादीनि च विनियोगे कारणानीत्यत आह—न हि श्रुत्यादिमात्रात्तादर्थ्यमित्यविधौ न प्रमाणमिति सिद्धाववघातादिष्ववान्तरविधिः । तत्राऽवहन्त्यादौ सत्यबान्तरविधावन्यतः प्रयोगसिद्धेः तदविवक्षेत्यत्राऽऽवार्यवचनमुपनस्यति—यथोक्तम् एवं हि सत्यङ्गविधिरनुवादः प्रयोगस्येति तस्याऽन्यतः सिद्धेरवधाताद्यङ्गविनियोगाय त्ववान्तरविधिरास्थातव्य इति ।
तत्र श्रुत्यादिनिबन्धनत्वाद्विनियोगस्य प्रवर्त्तनमात्रत्वाद्विधेर्द्रव्यादिष्वेव शेषत्वमिति विधिरविनियोजक इति पूर्वपक्षयित्वा प्रवर्त्तनारूपमप्यविनियोजकत्वे दुर्ल्लभमिति । असाधकं तु तादर्थ्यादिति वक्ष्यमाणरीत्या विनियोगशक्तिरुक्ता ।
आचार्यवचनमेव पठति—न चाऽविहितमङ्गं भवतीति अङ्गत्वाय विधातव्यमिति । तत्र भगवती महर्षेरथातः शेषलक्षणमित्युपक्रम्य प्रथममेव बादर्यधिकरणं प्रणयतो विध्यधीनमेव पारार्थ्यं लक्षणार्थश्च सम्मतमित्याह— तत्रेत्यादिनोक्तेत्यन्तेन । अत्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमाद्यमुदाहरणम् । इह हि स्वर्गस्तत्का श्च यागश्चाऽवगम्यते । तेषामन्योन्यस्य शेषशेषिभावोस्ति न वेति विचार्यते । तत्र श्रुत्यादिनिबन्धनत्वाद्विनियोगस्य । तथा हि ब्रीहीनिति द्वितीयाश्रुतिरीप्सिततमत्वं ब्रीहीणामभिदधती तादर्थ्य प्रोक्षणलक्षणस्य संस्कारस्याऽवगमयति । एवमेकहायन्येति चारुणयेति च द्रव्यगुणयोः क्रियां प्रति तादर्थ्यं करणविभक्तिरिति युज्यते द्रव्यगुणसंस्काराणां शेषत्वं प्रमाणसद्भावात् । यागस्वर्गतत्कामानां तु शेषत्वेन श्रुत्यादीनामन्यतमत्प्रमाणमस्ति ।
ननु मा भूवन्नन्यानि प्रमाणं विधिस्तु भविष्यतीत्यत आह प्रवर्त्तनामात्रत्वाद्विधेः । विधिश्रवणसमनन्तरं पुरुषप्रवृत्तिदर्शनात् । प्रवर्त्तनामात्रं विधिरित्यस्ति प्रमाणम्, न पुनरयं विनियोजक इति । तस्माद् द्रव्यादिष्वेव शेषभावो न स्वर्गयागपुरुषेष्विति विधिरविनियोजक इति पूर्वपक्षयित्वा प्रवर्त्तनारूपमपि अविनियोजकत्वे दुर्लभमित्यसाधकं तु तादर्थ्यादिति वक्ष्यमाणनीत्या विनियोगशक्तिरुक्ता विधेः । एददुक्तं भवति । सत्यं प्रवर्त्तनारूपो विधिः । तद्रूपतैव तस्य विनियोजकत्वमन्तरेण दुर्लभा । न खलु कर्त्रपेक्षितोपायत्वमन्तरेण प्रयोजकत्वमिति निवेदितमधस्तात्, वक्ष्यामश्चात्रैव व्याचक्षाणाः स्वर्गकामाधिकरणमसाधकं तु तादर्थ्यादिति । एवं चेत्स्वर्गकामो यजेतेति लिङो विध्युपरक्ता भावना गम्यमाना तदुपरागवशादेव समानपदोपादानमपि दुःखाकरं कर्मकर्तृसमीहाऽनास्पदत्वादपहाय भिन्नपदोपादानमपि पुरुषविशेषणमपि समीहिततत्वाद्भाव्यस्वर्ग गृह्णीयात् । लब्धसमीहितभाव्या चोपायमपेक्षमाणा विधिवशादेव समीहितोपायतायां कर्म निवेशयतीति कमणः फलार्थत्वं विनियोगं कोऽन्यो विधेर्विधातुमर्हति । तदिदमुक्तं कर्माण्यपि जैमिनिः फलार्थत्वादिति । स एव च कर्तृसमीहितोपायतारूपः फलगोचरां कर्तृसमीहामुद्वहन् फलस्य चाऽकर्तृतायां समीहाऽनुपपत्तेस्तादर्थ्यमवबोधयति । न जातु कश्चिच्चेतनः कामयते स्वर्ग आत्मानं लभतामिति, अपि तु मदनु
विधिश्चेद्विनियोजकोऽकारणं श्रुत्यादीनीत्याशङ्क्योत्तरत्र श्रुत्यादिसापेक्षत्वमभिहितम् ।
चतुर्थे त्वनुष्ठानाङ्गताऽङ्गपरिमाणचिन्ता ।
कथम् ? क्रतुविध्यनुष्ठानाऽधीनः584 क्रत्वर्थः, पुरुषेच्छानिबन्धनप्रवृत्तिः कूलो भवेदिति । अनुकूलवेदनीयतैव हि काम्यानां काम्यता, प्रतिकूलस्वरूपवेदनीययोर्द्विषोपेक्षाऽऽस्पदत्वात् । अतः फलस्यास्ति पुरुषं प्रति ऐदमर्थ्यम् । तदुक्तं फलं च पुरुषार्थत्वादिति । एवं स एव विधिः कर्त्रंशमुद्वहन् यस्यैव फलं प्रति प्राधान्यम् अधिकारिता पुरुषस्य तस्यैव तदुपाये कर्मणि कर्तृतया कारकतया कर्म प्रति पारार्थ्य प्रतिपादयति । तदेतदुक्तं पुरुषश्च कर्मार्थत्वादिति । तस्मान्महर्षेरपि सम्मतमेतदिति सिद्धम् ।
नन्वेवमेतेनैवाधिकरणेनाऽऽरब्धेन विनियोगस्य विचारितत्वात् लक्षणार्थपरिसमाप्तेर्व्यर्थ उत्तरः प्रपञ्च इत्याशङ्कामपनयति—विधिरित्यादिनाऽभिहितमित्यन्तेन । अयमर्थः । सत्यमनेन विधिनिबन्धनो विनियोगो विचारितो न त्वेतावता लक्षणार्थपर्यवसानम् । उपरितनस्याशङ्कोत्तरत्वात् । तथा हि । विधिश्चेत् विनियोजकः तत एव विनियोगसिद्धेः श्रुत्यादीनां च सम्बन्धमात्रहेतुत्वात्तादर्थ्य प्रति व्यभिचारादकारणं तानीति शङ्कितम् । तत्रोत्तरम् । सत्यं, विनियोजको विधिस्तथापि नाऽसहायो विनियोक्तुमुत्सहते । न जातु विनियुञ्जानोऽपि विधिः प्रोक्षतीति च ब्रीहीनिति सिद्धाऽनुगुणत्वं श्रुतिमन्तरेण ब्रीहिषु प्रोक्षणं यजेतेति च पशुकाम इति विधिः पूर्वसिद्धाऽनुगणत्वमन्तरेण पशुफलयागम् अभिघारयति च प्रयाजशेषेणेति विपरीतमपि श्रुतिमन्तरेण प्रयाजशेषेऽभिधारणं विनियोक्तुमर्हति । तस्माद्विनियोजकोऽपि श्रुत्यादीन्सहायतयाऽपेक्षत इति तदपेक्षोत्तरेण प्रपञ्चेन प्रतिपादितेति सिद्धमर्थवत्त्वम् ।
एवं तृतीये श्रुत्यादिसहायविनियोगं व्युत्पाद्य तदङ्गभावे सिद्धे चतुर्थेऽनुष्ठानगताङ्गपरिमाणचिन्ता । अयमर्थः । प्रवर्त्तनात्मकत्वाद्विधेरनुष्ठापकत्वं प्रसिद्धं लोकवेदयोरिति तत्स्वरूपमविचारणीयम् । अतोऽनुष्ठानगताऽङ्गपरिमाणचिन्ताऽधिक्रियते कियन्त्यङ्गानि विधिनाऽनुष्ठाप्यन्ते कियन्ति निमित्तान्तरादित्येतावतापि विध्यधीनमनुष्ठानं चिन्तितं भवत्येव ।
नन्वथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासेति प्रतिजानानः सूत्रकारः क्रत्वर्थपुरुषार्थचिन्तामध्यायार्थमाह नाऽनुष्ठानगताङ्गपरिमाणचिन्तामित्याशय
पुरुषार्थः । तत्र कस्य क्रतुविधितोऽनुष्ठानम्, कियत्यनुष्ठापनव्यापारः क्रतुविधेः, कस्य वाऽनपेक्षिततद्विधिनिमित्तान्तरतः पुरुषस्येति प्रयोजकाऽप्रयोजकचिन्ताऽपि क्रत्वनुष्ठानविधिव्यापारपरिमाणमवधार्य्यते ।
तथाहि । आमिक्षार्थत्वेन चातुर्म्मास्यप्रयोगविधिर्द्दध्यानयनमनुष्ठा- वानाक्षिपति—कथम् ? उत्तरम्—क्रतुविध्यधीनाऽनुष्ठानः क्रत्वर्थः । पुरुषेच्छानिबन्धनप्रवृत्तिः पुरुषार्थः । क्रतुना हि विधिविषयेण विषयी विधिरूपलक्ष्यते तेनार्थ्यमानानि अनुष्ठाप्यमानानीति तस्यार्थः । ततो विध्यधीनोऽनुष्ठानो भवति क्रत्वर्थः । एवं पुरुषेणापि स्वसम्बन्धे निमितान्तरं वा विधेरन्यदुपलक्ष्यते तेनार्थ्यमानान्यनुष्ठाप्यमानानीति तस्यार्थः । ततः पुरुषेच्छानिबन्धनप्रवृत्तिः पुरुषार्थः ।
सूत्रपदार्थ व्याख्याय चिन्तायास्तदारूढतामाह—तत्र कस्य क्रतुविधितोऽनुष्ठानम् ? । एतदेव स्फोरयति—कियत्यङ्गजातेऽनुष्ठापनव्यापारः क्रतुविधेः कस्य वाऽनपेक्षिततद्विधिनिमित्तान्तरतः पुरुषस्याऽनपेक्षितता । तद्विधिविषयं निमित्तान्तरं पुरुषसम्बन्धि तस्मात् । अतो न प्रतिज्ञासूत्रव्याधात इत्यर्थः । ननु मा भूत्प्रतिज्ञासूत्रव्याघातः, प्रयोजकाऽप्रयोजकचिन्ता त्वनुष्ठानगताङ्गपरिमाणचिन्तया कथं न विरुद्ध्यते ? इत्यत आह— प्रयोजकाऽप्रयोजकचिन्तयापि क्रत्वर्थाऽनुष्ठानविधिव्यापारपरिमाणमेवाऽवधायते । क्रत्वनुष्ठाने यो विधिः तस्येयति व्यापारो नेयतीति व्यापारपरिमाणम्, तदेवाऽवधार्यते इत्यर्थः । तदवधारणमेव सोपपत्तिकमुदाहरति— तथा हीति । चातुर्मास्येषु वैश्वदेवे समाम्नायते । तप्ते पयसि दत्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति । तत्रेते द्वे कर्मणी एकत्राऽऽमिक्षा हविर्विश्वेदेवा देवता, अन्यत्र तु हविर्वाजिनं वाजिनो देवता । इह हि दध्यानयनमवगतम्, तत्र संशयः । किमयं चातुर्मास्यप्रयोगविधिरुभयार्थमपि दध्यानयनं प्रयोजयति, आहो स्विदामिक्षार्थमिति ? तदर्थमयं कारणसंशयः किमामिक्षा दधिसंयुक्तं पय एव, किं वाऽर्थान्तरं पयसः ? इति । किं प्राप्तम् ? रूपसंस्थानव्यपदेशलिङ्गभेदात्सेति च सर्वनाम्नोऽथैष ज्योतिरितिवद्वक्ष्यमाणाऽपेक्षयाऽप्युपपत्तेर्वाजिनबदर्थान्तरमामिक्षा दधिसंयुक्तात्पयसः । दध्यानयनात्पुनरेतदुभयमपि वाजिनमामिक्षा च निष्पद्यते । द्वयमपि च चातुर्मास्यप्रयोगवचनगृहीतकर्मद्वयसाधनमिति मिथुनमपि चातुर्मास्यविधिरविशेषेण प्रयोजयतीति प्राप्तम् । एवं प्राप्तेऽभिधीयते । आमिक्षार्थत्वेन चातुर्मास्यप्रयोगविधिर्दध्यानयनमनुष्ठापयति, न वाजिनार्थतया तदर्थाऽनुनिष्पन्नस्यैव तदनुप्रवेशित्वात् । अयमभिसन्धिः । स्यादेतदेवं यद्यामिक्षा
पयति न वाजिनार्थतया, तदर्थाऽनुनिष्पन्नस्यैव तदनुप्रवेशित्वात् ।
एवं क्रयार्थानयननान्तरीयकस्य सप्तमस्य पदस्य । तथा पुरोडाश- द्रव्यं न क्षीरजातीयकं भवेत्, सत्यपि तु रूपादिभेदे रसतः पयस्त्वजातेः प्रत्यभिज्ञायमानत्वात् । आमिक्षापयोरूपसंस्थानव्यङ्ग्या हि जातिस्तद्भेदे भिद्यते । इयं पुना रसविशेषव्यङ्ग्येति तद्भेदाऽभेदानुविधायिनौ भेदाभेदौ भवितुमर्हतः । अत एव सत्यपि वारिसौवीरयो रूपाद्यभेदे रसभेदाज्जातिभेदमध्यवस्यन्ति, श्रुतयोश्च पयसोः सान्द्रसान्द्रतरयोरपि रसतः प्रत्यभिज्ञानान्नाभिन्नजातीयतामवधारतन्ति लौकिकाः । एकजातीयत्वेऽपि च लिङ्गादिभेदोपपत्तिस्तथा चाऽऽमिक्षा पय इति पयो वैश्वदेवं वैश्वदेवे पयसि च दध्यानयनं विनियुक्तमित्यामिक्षायां विनियुक्तम्, विनियोगानुसारी च प्रयोग इति चातुर्मास्यप्रयोगविधिरामिक्षार्थत्वेन दध्यानयनमनुष्ठापयति, न वाजिनार्थत्वेन । तस्य भिन्नरसतया पयः प्रत्यभिज्ञानाऽनास्पदतया जात्यन्तरस्य दध्यानयनविनियोगगोचरत्वात् । आमिक्षार्थदध्यानयनमनुनिष्पन्नस्य तस्य तदनुप्रवेशित्वात् न पृथक् प्रयुक्तिरिति चातुर्मास्यविध्यनुष्ठापनव्यापारपरिमाणमेव तेन सिद्धं भवति ।
उदाहरणान्तरं समुच्चिनोति—एवमिति । ज्योतिष्टोमे श्रूयते । अरुणयैकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति, षट्पदान्यनुनिष्क्रामति सप्तमं पदं गृह्णाति । यदि हविर्धाने प्रवर्त्तयेयुः तर्हि तेनाक्षमुपाञ्ज्युरिति । तत्र सन्देहः । सोऽयं ज्योतिष्टोमप्रयोगविधिः क्रयार्थ चाञ्जनसाधनसप्तमपदपांसुग्रहणार्थ च किमेकहायन्यानयनमनुष्ठापयति, अथ क्रयार्थमेवेति । किं प्राप्तम् ? एकहायन्यानयनादुभयनिष्पत्तेः षट्पदान्यनुनिष्क्रामतीत्यस्य क्रयवचनं पदपांसुवचनं चान्तरा समाम्नानादुभयत्र विनियोगाऽविशेषादुभयार्थः प्रयोजक इति प्राप्ते उच्यते । क्रयार्थाऽऽनयननान्तरीयकस्य सप्तमपदस्य तदनुप्रवेशित्वादिति पूर्वेण पृथगनुष्ठानमिति च परेण सम्बन्धः । एतदुक्तं भवति । सिध्येदयं मनोरथो यदि पांसुग्रहणवाक्ये निरपेक्षैकहायनी श्रूयेत । किं तु एकहायन्या सोमं क्रीणातीत्येतद्वाक्यगतायास्तस्याः सन्निधानात् बुद्धौ विपरिवर्त्तमानायाः पांसुग्रहणवाक्येन सम्बन्ध उपजीवनीयः । सन्निहिता च सोमक्रयार्थमिति तन्नान्तरीयकतया सप्तमस्य पदस्य क्रयार्थानयनाऽनुप्रवेशित्वान्न पृथगनुष्ठानं ज्योतिष्टोमविधिना प्रयुज्यते इति विध्यनुष्ठानपरिमाणसिद्धिः ।
उदाहरणान्तरमाह—तथेति । स्तो दर्शपूण्णमासौ, तत्रेदमाम्नायते कपाले श्रपयतीति, पुरोडाशकपालेन तुषानुपवपतीति । अत्र भवति विचारणा
शेषस्यैव कपालस्य तुषोपवापमुखेन तत्संस्पर्शात् उत्तरार्द्धस्य चैकदेशत्वादुपात्तौकदेश्युपादेयस्यैव तत्सम्बन्धान्न पृथगनुष्ठानमिति ।
किमयं प्रयोगविधिः पुरोडाशार्थं च तुषोपवापार्थ चाऽविशेषेण कपालस्य प्रयोजकः, उत पुरोडाशार्थस्यैव ? इति । तत्र विनियोगाऽनुसारित्वात्प्रयोजकत्वस्य विनियोगस्य च कपाले श्रपयतीत्यनेन पुरोडाशे च पुरोडाशकपालेन तुषानुपवपतीत्यनेन तुषोपवापे चाऽविशेषादुभयसाधारणस्य चैकेनापि पुरोडाशेन व्यपदेशसम्भवादुभयार्थमपि कपालं प्रयुज्यत इति प्राप्तेऽभिधीयते । पुरोडाशशेषस्यैव कपालस्य तुषोपवापमुखेन तत्संस्पर्शान्नोपवापार्थ पृथगनुष्ठानमिति परेण सम्बन्धः । इदमत्राकूतम् । उपपद्येतैतत् यद्युपवापवाक्ये श्रपणवाक्यवत् केवलकपालवचनमश्रोष्यत, पुराडाशसम्बन्धस्तु श्रूयते पुरोडाशकपालेनेति । न चास्य भविष्यता पुरोडाशेन सम्बन्धोऽन्यस्तादर्थ्यात् । एवं चेत् पुरोडाशशेषस्येव कपालस्य तुषोपवापे विनियोगः । न च विनियुक्तविनियोगलक्षणः प्रतिपत्तिविरोधः । पुरोडशकपालशब्देन कपालस्वरूपस्य लक्षणात् । न च कपालान्तरे प्रसङ्गः । तादर्थ्येन स्वाऽधिष्ठानस्यैव सम्बन्धिनो लक्ष्यमाणत्वात् । न खलु गङ्गायां घोष इत्यत्र गङ्गाशब्दः तटाकतीरं लक्षयति । अत एवाह कपालस्येति । कपालान्तरे मा प्रसाङ्क्षीदिति शङ्कया पुरोडाशशेषस्यैवेत्यवधारयति । तथा च भविष्यत्षुरोडाशार्थमेव प्रयोगविधिना कपालस्योपदापितस्य तस्यैव तुषोपवापमुखेनापि प्रधानसंस्पर्शो न पुनरपुरोडाशार्थस्यापि कपालमात्रस्य । तरमान्न पृथगनुष्ठानमित्यत्रापि प्रयोगेयत्ता सिद्धा ।
उदाहरणान्तरमाह—उत्तरार्धस्य चेति । दर्शपूर्णमासयोः श्रूयते उत्तरार्द्धास्त्विष्टकृते समवद्यतीति । तत्रेदं चिन्त्यते । किं प्रयोगविधिना स्विष्टकृदिज्यार्थमुत्तरार्थमपि प्रयुज्यते किं वाऽऽग्नेययागार्थ प्रयुक्तादेव पुरोडाशादपि सिध्यति ? इति । किं प्राप्तम् ? आग्नेयस्य पुरोडाशस्य देवतान्तरसम्बन्धाऽनुपपत्तेः शिष्टाचारविरोधात् । न खल्वन्यार्थं कल्पितमन्यस्मादुपकल्पयन्ति शिष्टाः । अर्थस्य चाऽर्थद्वयनान्तरीयकतया तदाक्षेपसामर्थ्यात् स्विष्टकृदिज्यार्थं द्रव्यान्तरं प्रयोजयन्तीति प्राप्तेऽभिधीयते—उत्तरार्द्धस्य चैकदेशत्वादुपात्तैकदेश्युपादेयस्यैव तत्सम्बन्धान्न पृथगनुष्ठानम् । अयमर्थः । उत्तरार्द्धादिति श्रुतेरवयवभागिनीयमिज्या प्रतीयते । न चाऽवयवभाजः कृतेऽवयविनमुपाददते लौकिकाः । न खलु मोदकशकलादाने प्रेषितो वटुर्मोदकाय घटते, न चाघटमानायास्मै प्रेषयिता कुप्यति । प्रधानयागार्थप्तुपात्तस्य ह्यवदानमात्रनिवर्त्तितप्रधानस्योतरार्धेऽवदानीयतयाऽपेक्षिते स्विष्टकृदिज्या
अर्थबादत्वे हि जुह्वाद्यङ्गक्रतुप्रयोगविधिनिबन्धनानुष्ठानत्वं पर्णमयीत्वादीनां फलविधौ तदभावः । अतोऽर्थबादः क्रत्वर्थः फलविधिः पुरुषार्थः । सत्यपि च विध्यधीनाऽनुष्ठानत्वे पर्णमयीत्वस्य क्रतुप्रयागविध्यविषय-
विधोयमाना तदर्था, न त्विज्यार्थमुत्तरार्धम् । अत एव तदाविनीज्या नाऽऽचारविरोधमाबहति । सत्यपि वा तद्विरोधे श्रुतिराचाराद् वतीयसीति स्थितम् । तस्मात्मधानार्थप्रयोगविधिनोपातेनैकदेशिना पुरोडाशेनोपादेयस्योत्तरार्धस्येज्यासम्बन्धान्न पृथगनुष्ठानमिति सिद्धं प्रयोगपरिमाणम् । इतिः सगाप्तौ ।
यदि प्रयोगविधिव्यापारपरिमाणाऽवधारणं लक्षणार्थो हन्ताऽसङ्गतं तर्हि फलविध्यर्थवादनिरूपणमत्रेत्यत आह—अर्थवादत्वे हि जुह्वाद्यङ्गक्रतुप्रयोगविधिनिबन्धनाऽनुष्ठानत्वं पर्णमयीत्वादीनां फलव्दिधौ तदभावः । यदि पुनर्ज्जह्वाद्याश्रयं पर्णमयीत्वं फलाय बोद्येत तस्मिन्सति तदभावः क्रतुप्रयोगविधिनिबन्धनोऽनुष्ठानत्वाऽभावः । इह खल्वप्रकरणाधीनमस्ति वचनं यस्य पर्ण्णमयी जुह्ूर्भवति न स पाकं श्लोकं शृणोतीति । तत्र सन्देहः । किं फलविधिः, उताऽर्थवादः ? इति । यथा यस्य जीर्ण्णे भोजनं भवति न तस्य रोगा जायन्ते इत्यतो जीर्ण्णे भोजनस्य रुजाऽभाववाजत्यमवगम्यते तथैतस्मादप्यपापश्लोकश्रवणं प्रति कारणत्वमवगम्यते पर्ण्णमयीत्वस्य । तच्च सर्वे रोचयन्ते । तस्माद्धिना ऽपि कर्मिसम्बन्धम् अपापश्लोकश्रवणस्य फलत्वं प्रतीयते इति फलविधिरिति प्राप्ते ऽभिधीयते । नैवङ्कातीयकस्य फलविधित्वम्, न ह्यन्वयमात्रात्कार्यकारणभावाऽवगतिः, व्यभिचारात् । किं तु यद्यस्मिन्सति सम्भवति सत्यपि तदन्ये तदभावे न भवति तत्तस्य कार्यमिति प्रामाणिकाः । जीर्ण्णभाजनादिवानयं तु प्रमाणान्तराऽनुसारात् तथा । न चेह तदप्यरित, विपरीतरयापि सम्भवात् न चाऽव्यभिचारिक्रतुपारार्थ्याय लब्धसमीहिताया जुह्वाः पर्णमयीत्वसम्बन्धविधिं प्रत्यस्ति सविशेषरूपा । सामान्यरूपा तु पुरुषेच्छयेत्येतावता पुरुषार्थः । इदमत्रार्थतत्त्वमभिसंहितमाचार्येण । उभयी हि पुंसां कामना अशातोपायविशेषा तद्विपरीता च । तत्राऽज्ञातोपायविशेषा समुद्दिष्टकाम्यमात्रमेव प्रयत्नं प्रसूयते । स च प्रयत्नः फलमात्रकामनाया निष्फलकर्त्तव्यतामात्रं तदुपायविशेषानवच्छेदात् सामान्यरूपा प्रवृत्तिरुच्यते । उद्देश्यमात्रविषयत्वात् । न चासौ निर्विषयः । एतावत्येव फले प्रवृत्तिः । न खल्वात्मकायवचनचेष्टाविशेषाः फलरूपगवगाहन्ते । यथोक्तमापार्येण ऽफलेन साक्षात्करणे कर्तुश्चेष्टा फलार्थिन, इति । तादृशश्च फलप्रमा फलानुबन्धात् तदुपायमात्रे प्रमाण
त्वात्पुरुषार्थत्वम् । तद्व्यापारपरिमाणं चैवमेव चिन्तितम् । प्रधाने तु यद्यपि विधितः प्रवृत्तिर्विशेषरूपा सामान्यरूपा तु पुरुषे सेत्येतावता पुरुषार्थः । अङ्गापेक्षा तु करणज्ञानात्पराचीना तज्ज्ञानं तद्विधिरिति सामान्यतोपि प्रवृत्तेस्तदायत्तत्वादङ्गं क्रत्वर्थः । इदं तर्हि कथम् प्रयोजकः कश्चित्पुरुषार्थो-
माधत्ते । सोऽपि चाऽनधिगतविशेषं तदुपायकर्त्तव्यतामात्रं प्रयत्नसामान्यं प्रसूयते । न च कर्त्तव्यतामात्रं कागव्यतिरिक्तं नास्तीति वक्तव्यम् । प्रतिविषयं सत्यपि कामे प्रेक्षावता कर्त्तव्यताऽनबगमात् । न च मानराप्रत्यक्षवेदनीया कामनाऽस्तीति शक्या दम्भरहितैरभिधातुम् । तद्विपरीता तूपायविशेषविषयत्वादुद्दिष्टफलविशिष्टमेव प्रयत्नं जनयति । तत्र सामान्यरूपा प्रवृत्तिरूपा प्रागेव विधेरिति फलप्रवृत्तिरिव न वैधी, विशेषरूपा तु न विधिं विनेति वैधी । स्यादेतत् । इच्छाऽऽपगास्रोतसा प्रतिक्षिप्यमाणः फले तदुपायविशेषाऽपरिज्ञानसेतुना प्रतिबद्धवृत्तिरयं चेतनस्तद्विशेषमात्रमवबोध्यताम् ततस्तदेवेच्छास्रोतः सेतुभेदादुपायविशेषे प्रवृत्तिविशेषं प्रसोष्यत इति कृतं प्रधानविधिविषयेण प्रयोगविधिना । नन्वेवं तदेव प्रधानपर्यन्तमागतमङ्गविशेषाऽपरिज्ञानाऽवरुद्धं तत्परिज्ञानमात्रादङ्गेष्वपि प्रवर्तकमित्यङ्गगोचरो ऽपि न प्रयोगविधिः स्यात् । अथ कामनया निःसामान्यरूपा ऽपि प्रवृत्तिरङ्गेषु न प्राक्सिद्धा विधेः । तत्किमियमुपाये विशेषरूपा प्रवृत्तिः सिद्धचरी ? न च सामान्यसिद्धौ विशेषसिद्धिरन्यत्वात् । तस्मात्सत्यपि फलतदुपायतदङ्गेष्विच्छाहेतुसामान्यप्रवृत्तिविषयत्वेन तुल्यत्वे फले सामान्यरूपैव प्रवृत्तिर्न प्रवृत्त्यन्तरमस्ति । सा च विधेः पूर्वमुत्पन्नेति न वैधी । तदुपाये तु सामान्यरूपेच्छा हेतुः । प्रवृत्तिर्विधेः पूर्व यद्यपि विधितस्तु विशेषरूपा तद्बोधे सति भवेत् । तदभावे तु सत्यामपीच्छायामसम्भवात् । न च विधिमात्रमपि प्रवृत्तिहेतुः । अनिच्छतो विधीनां शतेनाप्यप्रवृत्तेः । तेन पूर्वोत्पन्नेच्छासहकारी विधिः प्रधाने प्रवृत्तिविशेषहेतुरिति पूर्वोत्पन्नेच्छाऽधीनप्रवृत्तिविशेषत्वं प्रधानं पुरुषार्थः । अङ्गेषु तु यद्यपि विधिरिच्छासहकारी प्रवृत्तिविशेषहेतुः, असत्यामिच्छायां प्रयत्नाऽनुपपत्तेः । असति च तस्मिन् कायवचनचेष्टयोरनुपजननात् । हेत्वभावे कार्याऽभावात् तथाप्यङ्गजिज्ञासाचिकीर्षयोरुपायविधेः पूर्वमसम्भवात् विधिनिबन्धनत्वमिति तद्धेतुः । सामान्यरूपा प्रवृत्तिरपि तन्निबन्धनेति विध्यधोनप्रवृत्तित्वात् क्रत्वर्थमिति । सोऽयमङ्गानामुपायाद्विशेषः । तदेतदाह—अङ्गापेक्षा तु करणज्ञानात्पराचीना, तज्ज्ञानं च विधेरिति न केवलं विशेषतः सामान्यतोऽपि प्रवृत्तेस्तदायत्तत्वात् विध्यायत्तत्वादङ्गं क्रत्वर्थम् ।
ऽप्रयोजकः क्रत्वर्थ इति ? किमत्र कथम् ? प्रयोज्यौ ह्यत्र क्रत्वर्थपुरुषार्थावुक्तौ । तत्रैवं वक्तव्यम्, प्रयोज्यः कश्चित्पुरुषार्थः कश्चित् क्रत्वर्थ इति । नैष दोषः । पुरुषार्थः क्रत्वर्थ इति समानाधिकरणसमासः । पुरुषार्थ इति विग्रहात् ।
एतदुक्तं भवति । कस्यचित्कश्चित्पुरुषः किञ्चित्प्रयोज्यमित्यर्थः । क्रतुविधेरपि किञ्चित्प्रयोज्यं किं चिदप्रयोज्यम्, यथाऽऽमिक्षावाजिनद्वारेण
अत्र चोदयति—इदं तर्हि भाष्यकारोक्तं कथम् ? प्रयोजकः कश्चित्पुरुषार्थोऽप्रयोजकः क्रत्वर्थ इति । अभिप्रायमजाननः पृच्छति— किमत्र कथम् ? चोदकः स्वाऽभिप्रायं स्फोरयति—प्रधानविधितदितरनिमित्तप्रयोज्यौ ह्यत्र क्रतुपुरुषार्थावुक्तौ । तत्रैवं वक्तव्यम्, प्रयोज्यः कश्चित्पुरुषार्थ इत्यादि । परिहरति—नैष दोषः । प्रयोजकः कश्चिदित्यत्र भाष्यग्रन्थे पुरुषार्थः क्रत्वर्थश्चेति समानाधिकरणसमासः । पुरुषार्थो विषय आश्रयः कामनिमित्तयोः क्रतुरर्थः विषयः क्रतुविधेरिति विग्रहात् । तदेव प्रकटयति—एतदुक्तं भवति । कस्यचित्कर्मणः काम्यस्य नैमित्तिकस्य वा कश्चित्पुरुषः कामी वा निमित्तवान्वा प्रयोजकः । तदेव क्रियासमभिहारेण शिष्यहिताय स्फुटयति—किञ्चित्कर्म काम्यं वा नैमित्तिकं वा कस्यचित्कामिनो वा निमित्तवतो वा प्रयोज्यमित्यर्थः । अप्रयोजकः क्रत्वर्थ इति कश्चिच्छब्दमन्तर्भाव्य व्याचष्टे क्रतुविधेरपि किञ्चित् प्रयोज्यं यथा ऽऽमिक्षाद्वारेण दध्यानयनम्, किं चिदप्रयोज्यं यथा वाजिनद्वारेण दध्यानयनम् । अनेन भाष्यकारीया वचनव्यक्तिर्व्याख्याता । स तु पुरुषेच्छाऽधीनप्रवृत्तिः पुरुषार्थः, क्रतुविध्यधीनप्रवृत्तिश्च क्रत्वर्थः, इत्येतदेव स्थितम् ।
केचिदाहुः यस्यौपादानिकमेव शेषत्वं पुरुषार्थः । क्रतुविध्यधीनप्रवृत्तिश्च क्रत्वर्थः इत्येतदेव स्थितम् ।
केचिदाहुः, यस्यौपादानिकमेव शेषत्वं पुरुषार्थः यथा यागस्य फलं प्रति फलस्य वाऽधिकारिणम्प्रति । न ह्यत्र श्रुत्यादीनामन्यतममस्ति प्रमाणम् । साध्यस्वर्गविशिष्टस्य तु यागविषयो नियोगः प्रतीयमानोऽन्यथानुपपत्तेर्यागस्य स्वर्गसाधनतात्मिकां स्वर्गस्य चाऽधिकारिभोग्यतात्मिकां शेषतामाक्षिपति । तादृशशेषता पुरुषार्थता सति तु श्रुत्यादिविनियोगे यस्यौपादानिकं शेषत्वं स क्रत्वर्थः, यथैकत्वादिः । सङ्ख्या हि सङ्ख्येयमवच्छिनत्ति स्वभावत इति वस्तुसामर्थ्यलक्षणेन लिङ्गेन पशुस्वरूपसम्बद्धमेकत्वमधिकारसन्निधिसमाम्नानमात्राच्चाधिकारैदमर्थ्यमापन्नमधिकारत एव । तत आत्मैदमर्थ्यनिर्वाहायाऽधिकार एवाक्षिपति करणीभूतपशुसम्बन्धमस्येत्यौपादानिकः शेषभावः । सति च विनियोग इति क्रत्वर्थतामेवाऽऽवहति
दध्यानयनम् । तत्र यस्मिन्प्रीतिरिति फलांशेऽनुष्ठानं न विधित इति दर्शितम् । प्रयोजनश्येनादिफलस्याऽऽनर्थत्वम् । पुनः क्रत्वङ्गत्वेन तदङ्ग-
सङ्ख्यायाम् । तदेवं यस्यौपादानिकमेवैदमर्थ्य स पुरुषार्थः, सति तु विनियोगे क्रत्वर्थ इति । तयोश्च श्रुत्यर्थाभ्यां लक्षणाऽभिधित्रायेदं सूत्रं प्रवतं यस्गिन्प्रीतिरिति । तान् प्रत्याह—यस्मिन् प्रीतिरति फलांशे ऽनुष्ठानं न विधित इति दर्शितम् । न खलु न्यायलक्षणपरे शास्त्रे सति सम्भवे पदार्थमात्रलक्षणमुचितम् । न चोपपद्यते । न च स्वर्गयागयोरधिकारिस्वर्गयोश्च शेषशेषत्वमौपादानिक585 सम्भवति । नियोगाक्षेपः किलोपादानमुच्यते, अनुपपद्यमानश्चाक्षिपति यथा स्वर्गयागाधिकारिणां सङ्गतिगन्तरेणापि नियोगस्य नाऽनुपपत्तिस्तथोपपादितं586 नियोगपरीक्षायाम् । विधिश्रुतिरेव तु स्वर्गकामादिश्रुतिसहिता स्वर्गयागपुरुषाणां यथायथं विनियोगिकेति विनियोगव्यापारं विधेर्व्युत्पादयता दर्शितम् । तस्माद्यथोक्तस्माभिः587 क्रतुगुरुपार्थत्वं तदेव ज्यायः ।
सूत्रार्थ उच्यते । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र भाव्यः स्वर्ग उपनीतः, तत्र सन्देहः किं फलांशेऽपि भावनाया विधिरनुष्ठापयति पुरुषम्, किं वा न ? इति । तत्र भावनाविषयत्वाद्विधेर्भावनायाश्चांशत्रयविहीनाया अननुष्ठेयत्वाद्विधातुमशक्तेरंशत्रयसहितायां च भावनायां साधनेतिकर्त्तव्यतांशवत्साध्याशो ऽपि विधीयत इति साधनतदङ्गवत् फलेऽप्यनुष्ठापयति विधिः पुरुषमिति विध्यधीनाऽनुष्ठानत्वात् फलस्य न पुरुषार्थत्वमिति प्राप्तेऽभिधीयते । सत्यमंशत्रयोपेता भावना विधीयते । तथाप्यप्रवृत्तप्रवर्त्तनात्मको विधिः प्रवृत्तमुपनीतमपि परित्यक्ष्यति । उक्तं हि तद्गणास्तु विधीयेरन्न चेदन्येन शिष्टा इति । प्रवृत्तश्च पुरुषः फले । न खल्विच्छा हेतोः सामान्यप्रवृत्तेरन्या फले प्रवृत्तिरित्युक्तमधस्तात् । तदुपाये तु यद्यपीच्छा हेतुः सामान्यप्रवृत्तिः प्राग्विधेरस्ति तथापि विशेषरूपात्मिका कायवचनचेष्टाविशेषविधेः588 प्रागप्राप्तेति विधीयते । फले तु प्रवृत्तत्वान्न प्रवर्त्यते विधिनेति सिद्धमस्य पुरुषार्थत्वम् ।
विचारप्रयोजनमाह प्रयोजनश्येनादिफलस्याऽनर्थत्वम् । यदि हि फलांशस्याऽनुष्ठानं चोद्येत यथा पूर्वः पक्षः ततः कर्त्तव्यतया कर्तुरपेक्षितोपायतया च गम्यमानोऽभिचारो नानाऽर्थः589 । अथ पुनः फलस्य न विधीयमानत्वं यथोत्तरः पक्षः तथा सति न कर्त्तव्यताऽवगम इति न हिस्यादिति अकर्त्तव्यता निरपबाधा प्रवर्त्तते । अकर्त्तव्यं च दुःखफलमित्यनर्थत्वं श्येनादिफलस्य सिद्धं भवति ।
त्वेन च क्रतुप्रयोगविधिविषयत्वाऽविषयत्वे शेषलक्षणेन । क्रत्वर्थपुरुषार्थौ विगक्तौ क्रतुशेषत्वाऽशेषत्वविचारेण । परस्तु सिद्धएकशेषत्वे क्रतुविधिप्रयोगविधिव्यापारपरिमाणमात्रविचारात् । अत एवोक्तमतिक्रान्तस्तृतीयविषय इति ।
पञ्चमे तु किं चिन्त्यते ? ननु क्रमः केन प्रमाणेन ? श्रुत्यादिभिः ।
ननु यदि क्रतुपुरुषार्थत्वमुखेन विधिव्यापारपरिमाणमिह चिन्त्यते असङ्गता तर्हि गोदोहनादिषु विनियोगप्रधानविचारणेत्यत आह—पुनः क्रत्वगङ्गत्वेन गोदोहनद्रव्यार्जनादेस्तदङ्गत्वेन व सङ्ख्यादेः क्रतुप्रयोगविधिविषयत्वाविषयत्वे दर्शिते भवतः । यथासङ्ख्यमत्र नेष्यते ।
केचिदाहुः, श्रुत्यादिप्रमाणाऽतिरिक्तमुपादानमेवैकत्वादीनां विनियोजकमिति, तान्प्रत्याह—तदपि शेषलक्षणेन श्रुत्यादिनेत्यर्थः । तथा हि । गोदोहनद्रव्यार्जनादौ विधिविभक्तिरेव पुरुषार्थत्वश्रुतिः, एकत्वादीनां च करणाभूतपशुबन्धतृतीयाश्रुतिः । नन्वियं प्रातिपदिकादुच्चरन्ती तदर्थमात्रगतमेकत्वमभिधातुमुत्सहते न करणगतम्, तत्किमस्या न करणत्वमर्थः ? भवतु तथापि तदापि प्रातिपदिकार्थमात्रगतमेवाभिधत्ताम् । ननु किमेते असम्बद्धे एव मिथः करणैकत्वे प्राक् सत्यमिति वदतो युगपत् द्वयाभिधानपरत्वम् न खलु समर्थोप्यक्षशब्दः सकृदेव परस्परासबन्धाऽनेकार्त्यपरः प्रयुज्यते लोके । न कदाचिदक्षमानयेत्युक्ते सहसैवाऽक्षत्रयं प्रतियन्ति लौकाः । किं तु प्रकरणादिवशादेकमेव, तदभावे वा सन्दिहते । अक्षाविति वा अक्षानिति वा द्वौ त्रीनक्षान्प्रतिपद्यन्त इति चेन्न । एकशेषेण सम्बन्धाऽवगतेः । इहाप्येकप्रातिपदिकार्थसमवायलक्षणः करणैकत्वयोरस्ति सम्बन्ध इति चेत्किमयमभिधानवृत्तौ निमित्तं न वा ? नो चेत्किं तदभिधानेन ? असत्कल्पत्वान्निमित्तत्वे तु करणस्यैव तदेकत्वम् । एकस्य वा करणत्वमिति तृतीयाश्रुतिलभ्यत्वान्नौपादानिकं शेषत्वमिति सिद्धम् । तदिह साम्यवैषम्यविचारात्पूर्व क्रत्वर्थपुरुषार्थौ विभक्तौ क्रतुशेषत्वाऽशेषत्वविचारेण । परतस्तु सिद्ध एकशेषत्वे क्रतुप्रयोगविधिव्यापारपरिमाणमात्रविचाराद्दध्यानयनादौ तु क्रत्वर्थत्वपुरुषार्थत्वमुखेन प्रयोगेयत्तेति । यत एव च नौपादानिकमपि तु श्रुत्यादिलक्षणमेकत्वादेः शेषत्वम् अत एव साम्यवैषम्यविचारोपक्रमे भाष्यकार आह “अतिक्रान्तस्तृतीयविषय” इति । तार्तीयप्रमाणविषयत्वेनेति तृतीयविषयता भवति नान्यथा । यथा च तद्विषयत्वं तथोक्तमित्यर्थः ।
सम्प्रति पञ्चमाध्यायचिन्तामारिप्सुस्तद्विषयं तावदाक्षिपति—पञ्चमे
नैतत्सारम् । चोदनालक्षणोऽर्थो धर्म्मः, स च चतुरवस्थ एवेत्युक्तम् । क्रमश्च तदतिरिक्तः, न ह्येष प्रयोगविधेर्विषयोऽननुष्ठेयत्वात्590 । अशब्दार्थ-
तु किं चिन्त्यते ? चतस्रः खल्विमा विधेरवस्थास्तासां द्वितीयतृतीयचतुर्थाध्यायैस्तिस्र उत्पत्तिविनियोगरूपा निरूपिताः, षष्ठेन चाऽधिकारो निरूपयिष्यते । तत्किमपरमवशिष्यते यत्पञ्चमाध्यायगोचरः स्यादित्याशयः । समाधाता तु वक्ष्यमाणाऽभिसन्धिराह—ननु क्रमः । हन्त भोः स्थवीय एतत् क्रम इति । न पुनरयं प्रमाणगोचरः । चतसृणामपि विध्यवस्थानाऽनास्पदत्वादशाब्दत्वात्प्रत्यक्षादीनां च दवीयस्त्वात् । न च प्रमाणरहितं मीमांसायामाद्रियन्ते वृद्धा इत्याह—केन प्रमाणेन ? समाधातुर्निगूढाभिसन्धिराह—श्रुत्यादिभिः । वषट्कर्तुः प्रथमभक्ष इति प्रथमपदमैन्द्रवायवाग्रानित्यग्रहणं गृहपतिं दीक्षयित्वेति क्त्वाश्रुतिरर्थादयश्च वक्ष्यमाणलक्षणकाः प्रमाणं क्रम इत्यर्थः । आक्षेप्ता स्वाभिप्रायमाह—नैतत्सारम् । चोदनालक्षणोऽर्थो धर्मः, सा च विध्यभिधायिनीत्वाद्विधेश्च चातूरूप्याच्चतुरवस्थैवेत्युक्तमधस्तात् । सत्यमुक्तम्, किमेतावता ? इत्यत आह—क्रमश्च तदतिवृत्तात्मा । कुतः ? न ह्येष प्रयोगविधेर्विषयः । तत्र विवरणकृतो हेतुमाह—अननुष्ठेयत्वात् । अनुष्ठानं हि प्रयोगः, तद्विधिरनुष्ठानं व्यापारं तदावेशाद्वा कारकं गोचरयेत् । न च क्रमो व्यापारस्तत्कारकं वा व्यापारकारकाऽनुष्ठानप्रचयलभ्यत्वादस्य । ननु न तर्हि विधिरेकादशप्रयाजानित्येकादशसङ्ख्यायाः । इयमपि क्रमवत्पदार्थाऽनुष्ठानप्रचयलभ्यैवेति न व्यापारो न च कारकम् । नात्रैकादशसङ्ख्या विधीयते प्रयाजादीनामपि तु तल्लक्षणस्तदभ्यासः । स च पौनःपुन्येन व्यापार एव । न च पौर्ण्णमास्यामिति प्रयोगविधिः प्रयोगमनुष्ठेयं विधत्ते, किं तु तदा कर्मेति नाऽनुष्ठेयगोचरो विधिरननुष्ठेयश्चायं तार्तीयः पाञ्चमिकश्च क्रमः । तस्मान्न प्रयोगविषयः ।
निबन्धनकृतो हेतुमाह—अशब्दार्थत्वात् । इदमत्राकूतम् । यद्यपि भावार्थविषयो विधिः, तथापि न साक्षाद् गवार्थे प्रेरयति नियोज्यम्, अपि तु स्वात्मनि । इदमेव चास्य स्वात्मनि प्रेरकत्वं यत्तिरश्चीनतया तदवबोधः । पुरुषस्य तदवबोधवत्तैव चास्य नियोज्यता । स तु विधिः कार्यस्वभावो भावार्थविषयो ऽवगम्यमानो भावद्रव्यगुणसङ्ख्याक्रमादिना सर्वेण प्रयोजनेनाऽन्वितः स्वशब्देन प्रयोजनं सदभिधीयते । भावाद्यभिधायिनश्च शब्दाः स्वार्थास्तदैदमर्थ्यापन्नानेवाचक्षते । तदिदं ग्राहकग्रहणमुच्यते । ततश्चा
त्वात् क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपणात् । पदार्था हि क्रमेणाऽनुष्ठीयन्ते न तु क्रमः । नापि विनियोगविधेरुत्पत्तिविधेर्वा । अत एव नाधिकारविधेः ।
प्रेरयन्नप्ययं विधिर्भावार्थादिषु तैर्विना स्वसिद्धिमनासादयंस्तया व विना ऽऽत्मसिद्धत्वाऽभावेन साध्यत्वाऽनुपपत्तेः सर्वानेव तानाक्षिपति । तदिदमेषां विधिविषयत्वम् । यथाह यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तत्रैव व्यवहार इति । तदेव च तेन स्वसिद्ध्यर्थमाक्षेप्तव्यं यतत्सिद्ध्यर्थ तत्र तत्सिद्ध्यर्थ यद्विधिनाऽऽत्मेदमर्थ्यमापादितम्, तच्चाऽऽपादितं यत्तत्सन्निधिसमाम्नातम् । तत्र वषट्कर्तुः प्रथमभक्ष इत्येवमादेरधिकारविधिसन्निधौ स्वशब्देन समर्पितस्य पदार्थभूतस्य क्रमस्य भवतु विधेयता तार्तीयस्य, पाञ्चमिकस्य त्वशब्दार्थस्य गृहपति दीक्षयित्वेत्येवमादेस्तदैदमर्थ्याभावात्कथं तत्सिद्ध्यर्थतयोपादानम् ? न च दीक्षयित्वेति क्त्वाश्रुतिः पूर्वकालतामभिदधाति, मुखं व्यादाय स्वपितीत्यत्र व्यभिचारात् । स्वापीतरकालमेव हि मुखव्यादानम् न च ये मुखव्यादानान्निद्राणस्य पराञ्चः क्षणास्तान्विवक्षित्वा व्याख्येया लोकाधीनावधारणत्वाच्छब्दार्थसम्बन्धस्य, व्यादानस्य तु पुरस्तात्तनेष्वपि निद्राणां क्षणेषु मुखं व्यादाय स्वपितीति सोरस्ताडं क्रन्दन्तो ऽपि प्रयोगस्या591 ऽनिवृत्तेः । समानकर्तृकतैवाऽव्यभिचारिणी क्त्वार्थः । समानकर्तृके ऽर्थे वर्त्तमानाच्च धातोर्विधीयमानं य एव पूर्व प्रयुज्यते तत्रैव वत्वाप्रत्ययं प्रयुञ्जते लौकिकाः । यथाप्रयोगं चाऽर्थप्रत्ययो यथाप्रतीति चाऽनुष्ठानमिति कुतः पूर्वकालार्थताभिमानः प्रयोगोपाधिरित्यशब्दार्थोऽयं क्रमः, तथा चाऽविधेय इत्यननुष्ठेयत्वादिति युक्तम् ।
मा नाम भूत्क्रमस्य व्यापारवत्स्वतो ऽनुष्ठेयत्वम्, अनुष्ठेयावच्छेदकतया तु भविष्यति । तथा हि । व्यापाराः क्रमेणावऽच्छिद्यन्ते तेन तदवच्छेदकतयैकत्वादिवत्क्रमोऽनुष्ठास्यत इत्यत आह—क्रमवद्वतिरेकेणेदन्तया अनिरूपणात् । अनुष्ठेयावच्छेदकमनुष्ठेयम्, तच्चाऽनुष्ठेयम् यच्चोदितम्, समुदायिनश्च पदार्थाश्चोदिता नैषां समुदायस्तवच्छेदश्च क्रमस्तदाश्रयणात्समुदायिनः पदार्थान्ननुष्ठेय इत्यर्थः । नापि तस्य स्वतो ऽनुष्ठेयतेत्याह— पदार्था हि क्रमेणाऽनुष्ठीयन्ते न क्रमः । पदार्था इति बहुवचनं बहुत्वैकार्थसमवेतसमुदायाश्रयत्वं क्रमस्य सूचयति । तेन न स्वतो नापि परतः क्रमस्याऽनुष्ठेयत्वमिति न प्रयोगविधिगोचरः क्रम इति सिद्धम् ।
ननु मा विदध्यात्प्रयोगविधिः, उत्पत्तिविधिर्नियोगविधिर्वां विधा
अनियोज्यत्दात्592 । स्याच्च तावच्छौत्रे क्रमनियमे तत्परो विधिरर्थादिषु तत्परविध्यसम्भवः । उच्यते । प्रयोगो विध्यर्थ इत्युक्तम् । क्रमभेदश्च प्रयोगविशेषः । तथा हि । क्रमेण पदार्था अनुष्ठीयन्ते इत्युच्यते ।
स्यति । न खल्वेतावनुष्ठानगोचरौ स्वरूपसम्बन्धपरत्वादित्यत आह—नापि विनियोगविधेरुत्पत्तिविधेर्वा विषय इत्यनुषज्यते । कुतः ? अत एव अननुष्ठेत्वादेव । अयमभिप्रायः । सर्व एवायं विधिश्चतूरूपः, तदभिधानमेव त्विदम्परतया भिद्यत इत्युक्तम् । अतश्चोत्पतिविनियोगयोरपि प्रयोगव्याप्तत्वात्क्रमे च प्रयोगस्याऽभावादिति व्यापकनिवृत्त्या व्याप्तयोरुत्पत्तिनिवृत्तिरिति । अथाधिकारस्य विषयः कस्मान्न भवति ? इत्यत आह—नाऽधिकारविधेः । अत्रापि विषय इत्यनुपज्यते । कुतः ? अनियोज्यत्वात्, मा नाम भूदनुष्ठेयगोचरो ऽथिकारविधिः नियोज्यं गोचरयति, चेतनश्च, नियोज्यः । क्रमस्य चैतन्यमिति च स्थवीयः । न च निमितत्वं प्रागसिद्धेः । तस्मात् अनुष्ठेयत्वादपदार्थत्वत्वादनियोज्यत्वाच्च न विधिविषयः क्रम इति । नन्वपदार्थात्वादित्यसिद्धो हेतुः, दीक्षयित्वेति क्त्वार्थात्वात्क्रमस्य । तथा च तत्परो विधिरित्यत आह स्याच्च तावच्छ्रोतक्रमनियमे तत्परो विधिः अर्थादिषु तत्परविध्यसम्भवः । अयमर्थः । व्यभिचारात् पूर्वकालता न क्त्वार्थ इत्युक्तम् । तथा चाऽपदार्थत्वादिति नाऽसिद्धो हेतुः । अभ्युपगम्याप्युच्यते । श्रौतव्यतिरिक्तः पाञ्चमिकः क्रम इति धर्मिविशेषणान्न भागासिद्धो ऽपदार्थात्वादिति हेतुः । अर्थादिषु क्रमव्यापकत्वादिति ।
एवमाक्षिप्य समाधत्ते—उच्यते । प्रयोगो विध्यर्थ इत्युक्तम् । ततः किमित्यत आह—क्रमभेदश्च प्रयोगविशेषः । अयमर्थः । क्रमेण हि प्रयोगो विशेष्यते, प्रयोगान्तराद्व्यावर्त्यते । तथा हि । त एव पदार्थाः क्रमभेदेन प्रयुज्यमानाः प्रयोगक्रमभेदधियमादधति वर्ण्णा इव तत्त्वेऽपि गवेवेगनदीदीनजराराजेतिपदभेदबुद्धिम् । अन्यथा ऽर्थधीभेदो न स्यात् । असति तु हेतुभेदे कार्यभेदस्याऽऽकस्मिकत्वप्रसङ्गात् इति ।
ननूक्तं पदार्था विधीयन्ते न तत्समुदायः । पदार्थानुष्ठानान्निष्पन्नो हि सः । तं च श्रितः क्रमो न पदार्थान्प्रत्येकं तेष्वनिरूपणादतः पदार्थविषयो विधिर्न क्रमं गोचरयति । न चायं शब्दार्थो येन कार्यैदमर्थ्यापत्त्या तत्सिद्ध्यर्थतयोपादीयमानतया विधेयः स्यादित्यत आह—तथा हि । क्रमेण पदार्था अनुष्ठीयन्त इत्युच्यते । इदगत्राकूतम् । यत्तावदुच्यते न क्रमो नाम पदार्थवृत्तिः प्रत्येकं तेष्वनिरूपणात् इति, तदयुक्तम् । संयोगविभागावयविद्वित्वादिसङ्ख्यादीनां प्रत्येकमनिरूप्यमाणानामपि पदार्थवृत्तिवर्शनात् । अथाऽनुपलम्भात् । तदयुक्तम् । संयोगादिवदेव पदार्थाश्रितस्यं तस्योपलब्धेः । तथा हि । संयोगादयः सद्वितीयं पदार्थमाश्रयन्तो नैकत्र निरूप्यन्ते न च समुदायाश्रयाः । न च भवतः समूहः संयुक्त इति प्रत्ययव्यपदेशौ, अपि त्वनेनैतत्संयुक्तमिति वा संयुक्ते एते इति वा । समुदायैकार्थसमवायस्तु संयोगादीनाम् । तेभ्योऽपि च क्रमस्य पूर्वाऽपरत्वाऽपरनाम्नः प्रत्येकपदार्थाऽऽधारताविशेषः । तथापि तु द्वितीयपदार्थज्ञानाधीनानिरूपणमात्रेण संयोगादितुल्यता क्रमस्य । तेन भवत्यपि तद्रूपतया स द्वितीयवृत्तिः पूर्वत्वाऽपरत्वरूपेण केवलपदार्थवृत्तिर्वा । उभयथाऽपि पदार्थवृत्तिरेव न समुदायवृत्तिस्तथोपलम्भात् । न हि भवति कर्मणां समूहः पूर्व इति वा पर इति वा । कर्मैकं कर्मान्तराऽपेक्षया पूर्व तदपेक्षया च कर्मान्तरमपरम् । पूर्वाऽपरत्वे एव वाऽप्यवधिमत्पदार्थनिरूपणीये तद्विततिर्वा क्रमः । तयाश्च शब्दकर्मादावुपलब्धेस्तदाश्रितत्वमिप्यते । तेन यद्यपि प्रत्येकं पदार्थेषु प्रातिस्विको विधिः, यद्यपि च प्रयोगविधिरवलम्बते । स च यौगपद्यानुष्ठानानुपपत्तेस्तद्वत्प्रयोगविधाने ज्वरहरतक्षकचूडारत्नाऽलङ्कारोपदोशवदप्रामाण्यप्रसङ्गात् यथा शक्नुयादित्युपादित्युपस्थापितक्रमभेदं समुच्चितपदार्थानुष्ठानभेदं विदवत्क्रममपि विधत्ते । न खल्वस्मिन्नविधीयमाने एतद्विशिष्टपदार्थानुष्ठानविधिसम्भवः ।
यदपि मतम् यत एव सोऽपेक्षिप्यते विधिना, अत एव न विधायिष्यते । न हि यद्यद्विधिनाऽपेक्ष्यते तत्तद्विधीयत इति कश्चिन्नियमहेतुरस्ति । अधिकारस्याप्याधयत्वात्कर्तैव तु तत्सिद्ध्यर्थ विधीयते । क्रमभेदस्य त्वपेक्षितत्वाद्विधानां प्रमातुरस्य च प्रतीतेरन्यस्य चाऽप्रतीतेःप्रतीतिपूर्वकत्वाच्चानुष्ठानस्य प्रेक्षावतामाद्रियते विधिरिति ।
अत्रोच्यते । कि पुनर्विधेयं मन्यते भवान् यदत्र नास्ति ? ननूक्तं नियागसिद्ध्यर्थतयोपादीयमानं तदिति । किमिदं तत्सिद्ध्यर्थमिति ? तत्साधनं चेत्कयमेकत्वादिनो विधंयत्वम् । न हि तत्कारकम् । कारकावच्छेदं तदिति चेत् । क्रमोऽप्यनुष्ठयवस्त्ववच्छदकतपाऽनुष्ठेयस्य च कारकतया तादृश एव । न चैष समुदायायत्त593 इत्युक्तम् । अथ न तत्सिद्ध्यर्थमिति तत्कारकं विधेयम्, अपि तु तदैदमर्थ्यापन्नं द्वैधं च तद्वि नियोगत उपादानतश्च । विनियोगतस्तार्तीयात्पशोः, उपादानतश्चतुर्थात् । तदेकत्वादीनां तूभयविधमपि शेषत्वं शब्दार्थस्य क्रमस्तु पाञ्चमिको न शब्दार्थ इत्युक्तम् । तत्किमिदानीं “विश्वजिता यजेत” इत्यशब्दार्थतैवेति चेत् । तर्हि दीक्षयित्वेत्यत्रापि पूर्वकालतामभिधेयापि शब्दार्थः कथञ्चिदिति श्रौतः क्रमो विशेषत इति तत्सिद्ध्यर्थतयोपादीयत इति विधेयः । अपि च शब्दोपात्त एव तत्सिद्ध्यर्थतयोपादीयत इत्यत्र को हेतुः ? तस्यैव तादर्थ्यावगम इति चेत् । न, तस्य तादर्थ्यं किं तत्प्रतिपादकः शब्दोऽवबोधयेत्, उतानुष्ठेयैकार्थाभिधायी शब्दः ? न तावत् पूर्वः कल्पः । न हि श्रुत्यादिमात्रात् तादर्थ्यमित्युक्तम् अनुष्ठेयकार्याभिधायी तु शब्दो यदेव तदनन्तरं बुद्धौ विपरिवर्तते येन प्रयोजनेनान्वितं स्वार्थं प्रयोजनं यदभिधत्ते तेन तत्सन्निधापनमात्रोपयोगीशब्दः सन्निधापनं वाऽन्यतोऽप्यर्थादेरिति शब्दोपात्तत्वं क्वोपयुज्यते ? तेन नास्य प्रमाणान्तरसमधिगम्यत्वादविधेयत्वम् । अर्थादिसहायस्य शब्दस्यैव प्रामाण्यात् । अन्यथा त्वनभिधेयक्रमवादिनोऽप्यचोदनालक्षणत्वेन क्रमस्य शास्त्रविचारानर्हत्वप्रसङ्गात् ।
यच्चोच्यते—विधेयत्वं प्रयुक्त्या व्याप्तम्, सा च क्रमे नास्ति तदुत्तरकालत्वात्क्रमस्य । अत एव प्रयुक्त्यनन्तरमयं विचारितः । तस्माद्विधेयत्वव्यापिका प्रयुक्तिः क्रमान्निवर्त्तमाना व्याप्यं विधेयत्वमपि निवर्त्तयति वृक्षतेव शिशम्पात्वमारादुपलभ्यमानादेकशिलामयाद् गिरिप्रदेशादिति, तदयुक्तम् । प्रयुक्त्यनन्तरकालत्वस्यासिद्धेः । विदधान एव हि प्रयोगमयं प्रयोगविधिर्येन येन विनाऽन्यतोऽप्राप्तेन प्रयोगसम्बन्धेन न निर्वहति तत्सर्वं तच्छेषतया विधत्ते । एवं लक्षणकश्च श्रुत्यादिसमर्पितः क्रम इति कथं प्रयुक्त्युत्तरकालः ? तस्माद्व्यापकानुपलब्धिरसिद्धा । न चतुर्थे स्वरूपेण प्रयुक्तिर्विचारिता, किं तर्हि प्रयुज्यमानपदार्थेयत्तयेत्युक्तम् । तद्विज्ञानं क्रमभेद नियमावगमे हेतुः । प्रयुज्यमानपदार्थेयत्तानवधारणं हीति यावत् । न च पदार्थवत्क्रमोऽवगतः । स पदार्थान्तराऽनुप्रवेशे भज्येत । क्रमावधारणेन तु विना नेयत्तावगमप्रसङ्गः । नापि हि क्रमेष्वियत्ता तादवस्यात् । तस्मान्नाऽयं प्रयोगोत्तरकालः क्रमविचारः, अपि तु तदियत्ताऽवधारणोत्तरकालः । तद्धेतुत्वात् । तस्मात्प्रयुज्यमानपदार्थाश्रयस्तच्छेषक्रमो विधेयश्चेति साम्प्रतम् । तदिदमुक्तम् । तथा हि क्रमेण पदार्था अनुष्ठीयन्त इत्युच्यते । स्वरूपेणाऽननुष्ठेयोऽप्यशब्दोपात्तोऽपि अनुष्ठेयावच्छेदकतया तद्विधौ विधेय इत्यर्थः । यथा चैवंविधस्यापि विधेयत्वं तथोपपादितमधस्तादिति बहुविस्ताराद्विभ्यतोऽपि विस्तरे पतिताः स्मः । तस्मादास्तान्तावत् ।
तथा च प्रयोगविधिविषयत्वान्न चोदनालक्षणत्वमतिवर्तते क्रमः । तत्र प्रथमं क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपितत्वात् अप्रयोज्यतामविनियोज्यतामनुत्पाद्यतां च मत्वा विधिविषयत्वमाशङ्क्य प्रयोगविधिविषयता दर्शिता । उत्तरवर्णकेन तूदाहरणशुद्धिः कृता । दीक्षापदार्थस्य प्राप्तेः ।
तथा च चतुर्विधविधिव्यापाराऽगोचरत्वाद्यच्चोदनालक्षणत्वमाक्षिप्तं तत्प्रयोगविधिव्यापारविषयतां दर्शयता परिहृतमित्याह—तथा च प्रयोगविधिविषयत्वान्न चोदनालक्षणत्वमिति वर्तते क्रमः । एवं प्रमेय परिशोध्य विचारस्वरूपमादर्शयति—तत्र प्रथमं क्रमवद्व्यतिरेकेणेदन्तयाऽनिरूपितत्वादप्रयोज्यतामविनियोज्यतामनुत्पाद्यतां च मत्वा विधिविषयत्वमाशङ्क्य प्रयोगविधिविषयता दर्शिता । प्रथमं दर्शितेति सम्बन्धः । कृतव्याख्यानमेतदाक्षेपपरिहारयोः ।
वर्णकान्तरमाह—उत्तरवर्णकेनेत्यादिना कृतेत्यन्तेन । अत्र चोत्तरवर्णकेनोदाहरणपरिशुद्धिस्तद्विधौ कृतेति प्रथममध्यमाऽवसानैः ग्रन्थप्रयोजनम् । तत्रोदाहरणम्—सत्रे ये यजमानास्ते ऋत्विजः इत्याम्नायते । अध्वर्युर्गृहपति दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वा गाथिनो दीक्षयति इत्यादि ग्रावस्तुतं होता ब्रह्मणो दीक्षयति ब्रह्मचारी वाऽऽचार्यप्रेषितः इत्यन्तम् । तत्र संशयः किं तत्तत्पदार्थविशिष्टा दीक्षा विधीयते उत क्रम इति ? तत्तत्पदार्थविशिष्टदीक्षाविधानेनैवार्थलभ्यत्वात्क्रमस्य पृथगनवगमाच्च दीक्षैव विधीयत इति प्राप्ते विधेयान्तराभावात्क्रम एव विधीयत इत्याह— दीक्षापदार्थस्य प्राप्तेः । याजमानत्वात्सूत्रे गृहपत्यादीनां चोदकत एव प्राप्ता दीक्षेति सा तावन्न विधातव्या । ननु क्रमोऽप्यशब्दार्थ इति न विधातव्यः । उक्तं हि “न क्त्वाश्रुतिः पूर्वकालतामाह” इत्यत आह— अनभिधेयस्यापि कथञ्चित्प्रतीयमानस्य विशिष्टक्रमानुष्ठानस्य विध्यर्थत्वात् । अयमर्थः । कुत एतत् क्त्वाश्रुतेर्न पूर्वकालताऽर्थ इति । तदभावेऽपि प्रयोगदर्शनादिति चेत्, नन्वेवं सति समानकर्तृकत्वमपि नार्थः स्यात् । अलं खलूपपदाद्धातोस्तदभावेऽपि प्रतिषेधमात्रे प्रयोगदर्शनात् । खलूक्त्वा, अलं भुक्त्वा इति । यद्युच्येत न व्यभिचारादशब्दार्थत्वं ब्रूमः । मा भूदक्षादिशब्दानामनेकार्थानामानर्थक्यम्, अपि त्वनन्यलभ्यः शब्दार्थ इति स्थितिः । प्रयोगोपाधिलभ्या च पूर्वापरकालतेत्युक्तम् । न त्वेवं सति समानकर्तृकतेति सैव व्यभिचरत्यपि क्त्वार्थः । कः पुनस्तर्हि प्रयोगोपाधिः ? समानकर्तृकत्वेऽपि धात्वर्थयोर्य एव पूर्वं प्रयुज्यते धातुस्तत्रैव क्त्वाप्रत्ययो
अनभिधेयस्यापि कथञ्चित्प्रती प्रमानस्य विशिष्टक्रमानुष्ठानत्व594 विध्यर्थत्वात् कर्तृ विशेषविधाध्वर्युसम्बन्धस्यानर्थपयात् । अनेकार्थविधितो वाक्यभेदात् । दीक्षापदार्थस्य तु प्रतिप्रधातावृत्तेः अनुष्ठानविशेषविधिरेकार्थत्वात् । तद्विधौ
लौकिकानां नान्यत्र । सत्यम्, प्रयोगनियमे सिद्धे स्यादेवं, न त्वयमस्ति । स खल्वन्वाख्यानाद्वा गम्यो भवेल्लोकतो वा । न तावत् क्त्वान्तं पूर्व प्रयोक्तव्यमाख्यातादिति कस्यपिदन्वाख्यानमस्ति । नापि क्त्वान्तमेव लोकः पूर्व प्रयुङ्क्ते । आख्यातादपि परस्तात्कवीनामृषीणामाम्नाये च क्त्वान्तपदप्रयोगदर्शनात् । तस्मादनन्यथासिद्धेः समानकर्तृकतावत् पूर्वकालता तदर्थ इति परमार्थः ।
माभूत्तथा, अनभिधेयाऽपि कथञ्चित्प्रतीयमानतया विधेयाऽभावात्सैव तावद्विधातव्या, तथा चाऽनर्थकोऽयं काकदन्तानामिव क्त्वः पूर्वकालताभिधानस्य विचार इति ।
अथोच्यते । मा विधायि दीक्षा, चोदकप्राप्तायां तु तस्यामध्वर्युप्रभृतयः कर्तृविशेषा विधायिष्यन्ते । ततः किं क्रमविधिनेत्यत आह— कर्तृविशेषविधावध्वर्युसम्बन्धस्यानर्थक्यात् । आध्वर्यवी हि प्रकृतौ दीक्षाऽवगतेति किमत्राऽध्वर्युसम्बन्धविधिना । प्राप्तत्वात् । इतश्च अनेकाथविधितो वाक्यभेदात् । अध्वर्युर्गृह । तिगध्वयुर्ब्रह्माणमध्वर्युर्होतारमित्यनेकेऽर्थास्तद्विधौ वाक्यं भिद्येतेति । ननु च तथापि प्रतिपदार्थ दीक्षाऽऽवृत्तौ कुतो न वाक्यभेदः ? इत्याह—दीक्षापदार्थस्य तु प्रतिप्रधानाऽऽवृत्तेः । मम दीक्षासमभिव्याहारो विधीयेते । यजमानसंस्कारो हि दीक्षा । सा गुणत्वात् प्रतियजमानमावर्तते इति न्यायप्राप्तोऽयमर्थः । इत्थं क्रमविधौ न वाक्यभदोऽर्थैङ्कत्वादित्याह—अनुष्ठानविशेषविधेरेकार्थत्वात् । विशेष्यतेऽनेनानुष्ठानमिति अनुष्ठानविशेषः क्रमः । एवं तु वदत आचार्यस्य संयोगादिवदनेकपदार्थवृत्तिकः क्रमोऽभिमत इति ।
कश्चिदाह—“अध्वर्युविधावनियमः” इति । तस्याऽर्थमेके व्याचक्षते । अत्र हि ये यजमानास्ते ऋत्विजः इति ऋत्विक्कार्यैः यजमानविधानाद् ऋत्विजो निवृत्ताः, यजमाना एव तु तत्तदृत्विक्कार्यकरणाल्लब्धर्त्विग्व्यपदेशा न पुनरिह तत्त्वतोऽध्वर्यादयः सन्ति, तेन येनव केनचित्क्वचित्कदाचिदाध्वर्यवं यजमानेन कृतं तेनाऽध्वर्युव्यपदेशभाजाऽऽध्वर्यवान्तरं कर्त्तव्य
न पूतः पावयतीति प्रतिषेधात्, इतरमन्यः, तेषां यतो विशेषः स्यादिति ।
मिति न कश्चिन्नियमहेतुरस्ति । तेनाध्वर्यवी दीक्षा गृहपतेर्येन कृता, स एव ब्रह्मादिवीक्षायागनेन वचनेन नियम्यते । एवं प्रतिपस्यात्रादिनियमोऽपीति न विधेयान्तराऽभावः । तदेतदालोचनीयम्—कथं नियमहेतुर्नास्तीति । ननु यद्यत्र नियामकं प्रमाणं नास्ति ततो ब्रह्मादयोऽप्यनियताः । तथा हि— य एव ब्रह्मकार्यकरणाद् ब्रह्मा स एव होतृनेष्ट्रादिकार्यकरणाद्धोतृनेष्ट्रादिः । एवं होत्रादिर्ब्रह्मनेष्ट्रादिकार्यकरणाद् ब्रह्मनेष्ट्रादिः । एवं नेष्ट्रादयो ब्रह्मनेष्ट्रादयस्तथा ब्रह्माऽप्यध्वर्यादिरिति नियम्यमानानां नियमविगयाणां चाऽव्यवस्थानात्किमाश्रयो नियमः कल्पयिष्यते । ब्रह्मादिष्वध्वर्युदीक्षाविधिना खल्वन्ये नेष्ट्रादयो निवर्त्तनीयाः । तत्र व्यावर्त्त्यानां ब्रह्मादिदीक्षायां नेष्ट्रादीनां विधेयस्य चाध्वर्योरव्यवस्थानात्यङ्करेण न शक्या व्यावृत्तिः प्रतिपत्तम् । न त्प्रवधाननखनिर्भेदादीनां सङ्करेण ब्रीहीनवहन्ति इति नियमः कल्प्यते । तस्माद्यस्यर्त्विजः कर्मणि प्रथमं यः प्रवृत्तो यजमानस्तेनैव तदीयं सर्वमेव समापनीयम्, न यजमानान्तरेणर्त्वित्यान्तरकारिणानौवित्यादङ्गीकर्त्तव्यम् । अव्यवस्थायामनौचित्यप्रसङ्गात् । प्रकरणसामर्थ्यादिवदौचित्यमपि हि वाक्यार्थावधारणोपायं सङ्गिरन्ते शाब्दाः । अतश्चौचित्यमेव नियमहेतुरस्तीति नियमतोऽपि न विधातव्य इति स्थवीय एतदतो न दूषितमाचार्येण ।
ये त्वन्ये मन्यन्ते—दीक्षाया आध्वर्यवीत्वाद् गृहपत्यादेश्चान्येषां च दीक्षायामध्वर्युः प्राप्त एव गृहपत्यादिषु विधानेन तदन्येभ्यः परिसङ्ख्यायते तत्परिसङ्ख्यायागेव च नियमोक्तिर्भक्त्याऽनन्यनिवृतिसाम्यं च भक्तिरिति तन्निरासायाह—न पूतः पावयतीति प्रतिषेधात् । तत्र विधिसम्भवेन दोषत्रयवती परिसङ्ख्योवितेति प्रसिद्धतरत्वादनभिधाय वचनविरोधो दर्शितः, होतृदीक्षाऽनन्तरमध्वर्युदीक्षाविधानाद्दीक्षितोऽध्वर्युपूतः कथमध्वर्युप्रभृतीन् पावयेद्दीक्षयेदिति । तस्मान्निषेधफला परिसङ्ख्या निषेधेऽनुपपन्ना, फलाऽभावादित्यर्थः । न चाऽध्वर्युदीक्षायां प्रतिप्रस्थाता न प्राप्तो येन तं प्रतिप्रस्थातेतिवचनं प्रतिप्रस्थातारं विदध्यादित्याह—इतरमध्वर्युमन्यः प्रतिप्रस्थाता पावयति विनाऽपि वचनात् । आध्वर्यते हि कर्मणि प्रकृतावेवाऽध्वर्युपुरुषाः प्रतिप्रस्थात्रादयो विहिताः । यदा खल्वध्वर्युरसमर्थः कर्मान्तरव्यासङ्गित्वात्स्वात्मनि क्रियाविरोधित्वाद्वा, तदा तदीयं कर्म तत्पुरुषाः प्रतिप्रस्थात्रादयः कुर्वन्तीति स्थितम् । तदयं स्वात्मनि क्रियाविरोधादात्मानं दीक्षयितुमसमर्थ इति स्वपुरुषेण दीक्षणीयः । स्वपुरुषश्च तस्य
अब्राह्मणस्याऽऽर्त्विज्याऽभावादुत्तराश्रमिणोश्च । ब्रह्मचारिणश्चाऽऽचार्य्यपरतन्त्रत्वात् । अर्थादिषु तु यद्यपि पदार्थपरोविधिस्तथापि तद्रूपप्रयोजनापेक्षी
प्रतिप्रस्थातेति प्राप्तत्वान्न विधातव्यः । नन्वध्वर्युपुरुषा बहव इति आह—तेषां यतो तेषां प्रतिप्रस्थातृविधये वचनं भविष्यतीत्यत विशेषः स्यादिति । तेषामध्वर्युपुरुषाणां मध्ये यतो यस्य । सार्वविभक्तिकस्तसिः । विशेषः अन्तरङ्गत्वलक्षणः स्यात्सोऽन्यः पावयति । आध्वर्यवे हि कर्मणि तदसामर्थ्ये सन्ति विहिता बहवः प्रतिप्रस्थातृप्रभृतयः उत्तरोत्तरबहिरङ्गाः । तेषामाद्यः प्रतिप्रस्थाताऽन्तरङ्ग इति तन्नियमो न विधातव्यः, प्राप्तत्वादित्यर्थः । ननु चोन्नेतृदीक्षायामध्वर्युप्रभृतीनां पूतत्वेनाऽनवकाशत्वात्पुरुषमात्रप्रसङ्गे ब्राह्मणो नियम्येतेत्यत आह—अब्राह्मणस्यार्त्विज्याभावात् । ब्राह्मणस्यैव याजनमसाधारणतया विहितमिति कुतोऽन्यत्र प्रसज्येनेत्यर्थः । अथ ब्राह्मणप्राप्तौ चातुराश्रम्यस्याऽविशेषप्रसक्तेर्ब्राह्मणेन सह ब्रह्मचारिणो विकल्प्यत्वाद्भिक्षुवानप्रस्थादिनिवृत्त्यर्थवचनमित्यत आह— उत्तराश्रमिणोश्च । आर्त्विज्याऽभावादिति चेहाऽनुकृष्यते । न वृत्त्यर्थमार्त्विज्यम्, भिक्षुवानप्रस्थयोस्तद्वृत्तिनिषेधात् । नाऽनुग्रहार्थम्, हिसाऽनुग्रहयोरनारम्भी इत्यनुग्रहनिषेधादिन्यर्थः । न च ब्रह्मचारिणः स्वातन्त्र्येण प्रवृत्तिनिषेधार्थमाचार्य्यप्रेषित इति वचनम् । वचनान्तरसिद्धं हि तस्याऽऽचार्य्यपारतन्त्र्यमित्याह—ब्रह्मचारिणश्चाऽऽचार्य्यपरतन्त्रत्वात् । तस्मादेतेभ्यो हेतुभ्यो विधेयान्तराऽभावात्क्रमस्य च विधानार्हत्वात् । उत्तरवर्णकेन तद्विधौ क्रमस्य विध्यर्थ चर्मणि द्वीपिनं हन्ति इतिवदुदाहरणपरिशुद्धिः कृतेति ग्रन्थयोजना ।
सम्प्रत्यर्थलक्षणस्य क्रमस्य विधेयतामाह—अर्थादिष्वित्यादिनाऽपेक्षितेत्यन्तेन । अत्रोदाहरणम् । अग्निहोत्रं जुहोति यवागूं पचति” इति । तत्र संशयः—किं होमपाकयोरनियतक्रमः, उत पाकाऽनन्तरं होमः ? तत्र विध्योर्होमपाकपदार्थमात्रविधानपरत्वात्पूर्ववच्च श्रुतेरभावात् होमरूपयवागूपचनप्रयोजनक्रिययोश्च प्रमेयान्तःपातितया क्रमनियमं प्रति प्रामाण्यानुपपत्तेर्द्रव्यान्तरेणापि होमस्योपपत्तेः क्रमनियमप्रमाणाऽभावादनियम इति प्राप्ते आह—अर्थादिषु यद्यपि पदार्थपरो विधिस्तथापि तद्रूपप्रयोजनाऽपेक्षी । अनुष्ठानविशेषः क्रमं प्रतिपादयति इति परेण सम्बन्धः । अयमर्थः— यद्यपि क्रमविशेषे न श्रुतिरस्ति तथापि होमविधिररूपं होमं विधातुमसमर्थस्तद्रूपभूतद्रव्यमपेक्षते—यवागूं पचतीति । निष्प्रयोजनं यवागूं प्रति गुणत्वेन पाकविधानमनुपपन्नमिति यवागूः प्रयोजनापेक्षिणी । तथा चाऽग्नि
स्वाध्यायविधिप्रत्यायितपाठक्रमनियमप्रयोजनापेक्षश्च निर्ज्ञातं च क्रममनु-
होत्रं यवाग्वा तां च पाकेनेत्ययमर्थः सिद्धो भवतीति । न च प्रागसिद्धा यवागूरग्निहोत्राय कल्पत इति पदार्थपरोऽपि विधिः पदार्थरूपप्रयोजनापेक्षी अर्थसहकारीति यावत्पौर्वापर्यविशेषमवगमयति न च नियतं प्रामाण्यम् । प्रमेयस्याऽपि प्रामाण्यदर्शनात् । यथाहुः प्रामाणिकाः—“प्रमेया च तुलाप्रामाण्यवती” इति । तस्मादार्थोऽपि क्रमो विधेय इति सिद्धम् ।
अर्थादिष्वित्यादिशब्दसूचितं क्रमप्राप्तं पाठक्रमस्य विधेयत्वमाह— स्वाध्याय इति । अत्रोदाहरणं समिधो यजति, तनूनपातं यजति इत्यादि । तत्र सन्देहः—किमेते समिदादयो नियतक्रमाः प्रयोक्तव्याः, उत पाठक्रमेणेति ? श्रुत्यर्थयोरभावात्पाठक्रमस्य प्राप्तत्वान्नान्तरीयकत्वेनाऽवर्जनीयतयाऽनुप्रवेशादप्रयोजकत्वादनियतक्रमा एव समिदादयः प्रयोक्तव्या इति प्राप्ते आह—स्वाध्यायविधिप्रत्यायितपाठक्रमनियमप्रयोजनापेक्षश्च । विधिरनुष्ठानविशेषं प्रतिपादयति इति परेण सम्बन्धः । स्वाध्यायविधिना हि क्रमवन्ति वाक्यानि उपस्थापितानि, तदेषां क्रमस्य सति प्रयोजनसम्भवेनाऽवर्जनीयतामात्रेणोपादानमङ्गीकर्तुमुचितम् । सम्भवति च प्रयोगविध्यपेक्षितसमिदादिक्रमभेदनियमः प्रयोजनम् । न चात्र पाठक्रमस्यासामर्थ्यम् । तथा हि—क्रमेण वाक्यानि पठ्यन्ते, तेनैवाऽप्रतीतचरास्तदर्था अपि प्रकाशन्ते, कारणक्रमाऽनुविधानात् कार्यक्रमस्य, वाक्यविज्ञानजनितत्वाच्च तदर्थविज्ञानस्य, यथाऽवगमं चाऽनुष्ठामात्प्रेक्षावताम् । तेनाऽयं पाठक्रमः स्वाध्यायविधिनाऽपि प्रयोजनाऽऽकाङ्क्षः सामर्थ्येन च तदसम्भवान्निराकृतः प्रयोगविधिना समिदादिक्रमनियमलक्षणप्रयोजने व्यवस्थाप्यतामिति पाठक्रमसध्रीचीनप्रयोगविधिविधेयक्रमसिद्धिः । नानाधिकारेषु तु क्रमभेदपठितेष्वप्येकप्रयोगवचनसङ्ग्रहाऽभावात् असम्बद्धेषु595 न क्रमः सम्भवतीति स्वाऽध्यायविध्युत्पादितापि प्रयोजनाऽऽकाङ्क्षा तदसम्भवात्प्रलीयते ।
अक्षरार्थस्तु स्वाध्यायविधिप्रत्यायितो यः पाठक्रमनियमस्तत्प्रयोजनं च तदपेक्षप्रयोगविधिरिति । आदिशब्दसूचितामेव प्रवृत्तिक्रमनियमस्य विधेयतामाह—निर्ज्ञातमिति । वाजपेये सप्तदश प्राजापत्यान् पशूनालभते इति श्रूयते । तत्र सप्तदशैते भागा वाजपेयाङ्गभूता बाजपेयप्रयोगविध्यापादितसहप्रयोगाश्चोदकप्राप्ताश्चैतेषु प्रोक्षणादयो धर्मास्तेऽपि च धर्मिसहभुवः सहैव प्रयोक्तव्या नैकैकशः कार्त्स्न्येन समापनीया इति समधिगतम् ।
रुध्यमानः स्वावगतं च सहभावगत्यन्तमवाधमानोऽनुष्ठानविशेषं प्रतिपादय-
तत्र प्रथमपदार्थो नियमप्रमाणाऽभावाद्यत्र क्वचन पशौ प्रयोक्तव्य इति सिद्धम् । द्वितीयादिषु च पदार्थेषु संशयः । किमेते प्रथमपदार्थपदनियमेन प्रयोक्तव्याः, उत प्रथमपदार्थक्रमेण ? इति । तत्र प्रतीतिपूर्वकत्वादनुष्ठानस्य प्रत्ययसमये च प्रथमपदार्थानुष्ठानवद् द्वितीयादिपदार्थानुष्ठानस्य क्रमनियमनि पेक्षत्वादाद्यवद् द्वितीयादयोऽपि पुरुषेच्छाधीनाऽनुष्ठानक्रम इति प्राप्ते आह—निर्ज्ञातं क्रममनुरुथ्यमानः प्रयोगविधिरनुष्ठानविशेषं प्रतिपादयतीति । कस्मादनुरुध्यते ? इत्यत आह—स्वाऽवगतं च सहभावमत्यन्तमवाधमानः । चकारो हेतौ । बाजपेयप्रयोगविधिना हि सर्वे पदार्थाः समुचिनताः बधानं प्रति प्रयुज्यमानतया सन्निधाप्यन्ते । न च तेषां युगपत्प्रयोगः सम्भवतीति, यथा शक्नुयादित्युपबन्धात् । तादृशमेनाश्रयते कर्म यादृशोऽसौ संविधिनात्यन्तं वाध्यते । न चास्ति विधेश्चोदकप्राप्तेषु प्रोक्षणादिषु किञ्चित्प्रति प्रेम द्वेषो वा, येन किञ्चित्सन्निधापयेद् व्यवधापयेद्वा । तेन तुल्यमेव सर्वेषां सन्निधापनं प्रेक्षमाणः परिहरन्नपि न व्यवधिमवर्जनीयतयाऽभिमन्यमानः पुरुषेच्छाऽधीनक्रमप्रत्ययात्पराञ्चमपि प्रथमपदार्थप्रवृत्तिक्रमं सहकारिणमासाद्य प्रयोगमध्य एव द्विनीयादिबदार्थप्रयोगं तत्तत्क्रमेणैव नियच्छति प्रधानप्रत्यासत्तिसाम्याय । अन्यथा वैषम्यं धर्माणामत्यन्तव्यवधिमदभावः596 स्यात् । तथा हि—यतः प्रभृति प्रथमपदार्थोऽनुष्ठितः, तत एव प्रभृति द्वितीयादीनायनुष्ठाने आद्यपदार्थप्रवृत्तिविषयसम्बन्धिना धर्मेण द्वितीयादिधर्मानुष्ठानानां षोडशभिः परमशुभिर्व्यबधानं स्यात् । तेनाऽवर्जनीयत्वात् प्रयोगविधिरनुमनुमन्यते एव । सप्तदशात्तु पशोरारभ्य द्वितीयादौ पदार्थे प्रतिलोमं प्रयुज्यमाने द्वाविंशता व्यवधानं स्यात् । एवमन्येष्वपि वैषम्यं द्रष्टव्यम् । तच्च सर्वत्र समः प्रयोगविधिर्नाऽनुमन्यते यतः यस्मात् स्वाऽवगतं च सहभावं प्रधानं सन्निधिर्नाऽत्यन्तं बाधते । अन्यथा वैषम्येण बाधः स्यात् । तस्मादनुष्ठानविशेषं क्रमं प्रतिपादयति प्रयोगविधिरिति प्रयोगक्रमोऽपि विधेय इति सिद्धम् ।
अपरः कल्पः—साद्यस्के श्रूयते सह पशूनालभते इति । तस्य सोमविकारत्वात्ते त्रयोऽपि पशवः सोमाङ्गभूता अग्नीपोगीयसबानीयाऽनुबन्ध्याश्चोदकप्राप्तास्तेषां त्वप्राप्तं सहत्वं विधीयते । तद्विधानाच्च प्राकृतः पाठक्रमः बाधितो भवति । सवनीयकाले च तेषां सहभावः, परिव्याणानन्तरं च सवनीयकालः त्रिवृता यूपं परिवीय इति वचनादिति सर्वमव गतम् । इदं तु सन्दिह्यते, किममी सवनीयसमये त्रयोऽपि पशवः प्रयुज्यमाना अनियमेन प्रयोक्तव्याः, आहोस्वित्सवनीयस्य परस्तादग्नीषोमीयाऽनुबन्ध्यौ ? इति । तत्र सवनीयसमये त्रयाणां सहाऽनुष्ठानश्रुतेः सहभावस्य सम्पादनादर्थादापतति क्रमः । तन्नियमे च परिव्याणाऽऽनन्तर्यमत्यन्तं बाध्यते । अनियमे तु पक्षे तदस्तीति नात्यन्तिको बाधः । तस्मान्नियमाऽनियमः क्रमस्याऽत्र ज्यायानिति प्राप्ते पुनरुपदिश्यते—निर्ज्ञातं क्रममनुरुध्यमानः । उत्पत्तावेव हि सवनीयस्य परिव्याणाऽनन्तरकालभाव इव क्रमोऽपि निर्ज्ञातः । सोऽपि बलवद्बाधकानुपनिपाते सवनीयशरीराऽबहिर्भूतोऽशक्यः परित्यक्तुम् । ननु सहभावविरोधोऽस्य बाधकः, अत आह—सवनीयस्थाने सहभावविधानात् सवनीयमुपसर्पतः पशू न तु तौ सवनीयः । तदौत्पत्तिकस्थानवता सवनीयेन सह भवन्तौ तदविरोधेन स्वसहभावं व्यवस्थापयतः, न पुनः सवनीयं स्वस्थानाच्चालयतः । तदविरोधेनाऽपि सहभावोपपत्तेः । सहभुवामेवारम्भविषयत्वात् । तदिदमवगतं सह पशूनालभव इति । विध्यवगतं सहभावगत्यन्तमबाधमान एकारम्भविषयत्वादिति स्थानप्र मस्यापि विधिविषयत्वमुक्तम् ।
तथाऽपरः कल्पः—यत्र प्रधानद्वयं युगपच्चोदितं यथा सारस्वतौ भवत एतद्वै दैव्यं मिथुनम् इति । तत्र सन्देहः—किमेतयोरङ्गान्यनियतक्रमेण प्रयोक्तव्यानि, उत प्रधानप्रयोगक्रमेण ? इति । तत्र प्रधानचोदनाऽनुविधानादङ्गचोदनानां तस्याश्च युगपत्प्रधानद्वयविधायिनीत्वेन क्रमाऽभावात् प्रधानचोदनाप्रयुक्ताऽनुष्ठानानामङ्गानामपि न क्रमनियम् इति प्राप्ते पुनरुपस्थितम्—निर्ज्ञातं क्रममनुरुध्यमानः । स्त्रीपुंसयोः सरस्वत्याः सरस्वतश्च खलु याज्यानुवाक्यायुगलयोः क्रमसमाम्नानाद्वा असमाम्नाने वा नियमाभावेऽपि यदा यादृशः प्रधानक्रमो विज्ञातस्तमनुरुध्यमानः प्रयोगविधिरङ्गानामनुष्ठानविशेषं क्रमनियमं प्रतिपादयति यत्प्रधानं प्रथमं प्रयुज्यते तदङ्गान्यपि प्रथमं प्रयोक्तव्यानीति ।
ननु प्रधानबोदना तत्तत्प्रधानद्वयविधानात्प्रधानक्रमनियमेऽप्यसमर्था किमङ्ग पुनस्तदङ्गानां क्रमनियमे, इत्यत आह—स्वाऽवगतं च सहभावमत्यन्तमबाधमानः । इदमत्राऽऽकूतम् । विधानस्य यौगपद्यमेतत् न विधेयस्य, अशक्त्यानुष्ठानोपदेशकत्वे शब्दस्याऽप्रामाण्यप्रसङ्गात् । यथा शक्नुयादित्युपबन्धात् अवश्यम्भाविनि क्रमे प्रधानयोर्द्वयोरन्योऽन्यं तदङ्गानां च प्रधानाभ्यां सहभाव प्रत्यासत्तिमात्यन्तिकीं विदधत् प्रयोगविधिर्यावानेवाऽवर्जनीयतया व्यवधिरापतति तावन्मात्रमनुमन्यते नाऽभ्यधिकं व्यवधि
तीति प्रयोगाङ्गमेव । चिन्तितोऽसौ पुरस्तात् । सत्यम् । प्रयोज्येयत्ता । अप्रयोज्यस्तुक्रमः प्रयोगविशेष एव । अतः पूर्वेणाऽसिद्धेरनुष्ठानविशेषचिन्तेयमिति भिद्यते लक्षणार्थः ।
तुषमपि । प्रधानक्रमेण चाङ्गप्रक्रमेण यावदनुज्ञातं व्यवधानं भवति । अनियमे त्वनुज्ञाताऽतिरिक्तं भवेत्तच्च प्रयोगविधिर्न मृष्यति । ततः स्वाऽवगतसहभावपीडा मा प्रमाङ्क्षीदिति मुख्यक्रमसहायप्रयोगविधेरेवाङ्गक्रमनियमप्रमाणमिति अनियमेऽपि क्रमो विधेय इति सिद्धम् ।
तस्माच्चतुर्विधव्यापारागोचरत्वात् क्रमो न चोदनालक्षण इति यदाक्षिप्तं तत्प्रयोगविशेषकत्वात् क्रमस्य परिहृतमित्युपसंहरति—तस्मात् प्रयोगाङ्गमेव क्रमः । ननु प्रयोगाङ्गं चेत् क्रमः तर्हि चतुर्थे प्रयोगचिन्तयैव चिन्तित इति नाऽध्यायान्तरं प्रयोजयतीति चोदयति—चिन्तितोऽसौ पुरस्तात् । परिहरति—सत्यम्, प्रयोगाङ्गं पिन्तितम् । किञ्चाऽसौ प्रयोज्या ये पदार्थारतेषामपीयत्तारूपः प्रयोगाङ्गपिन्तितः क्रमस्तु न तथेत्याह—अप्रयोज्यस्तु क्रमः । अव्यापारत्वाच्च यद्यप्रयोज्यः कीदृशस्तर्हि ? इत्यत आह— प्रयोगविशेष एव । यथा वाऽनेन विशिष्यते प्रयोगस्तथोपपादितं पुरस्तात् । उपसंहरति—अतः पूर्वेणासिद्धेरनुष्ठानविशेषपिन्तेयम् । न चैवमेफलक्षणत्वमित्याह—इति । प्रयोगगतेयताप्रयोगविशेषयोर्भदाद्धेतोः सत्यपि प्रयोगविधिविषयतायास्तुर्यत्वे भिद्यते लक्षणार्थः । इतरथा तु चोदनाऽर्थविधारसाम्येन शास्त्रमेकोऽध्यायः स्यादिति । तदनेन द्वितीयादिना पञ्चमान्तेनाऽध्यायव्यूहेनोत्पत्तिविनियोगप्रयोगरूपविध्यंशनिरूपणपरेण कर्त्तव्यताविषयः कर्म साङ्गमनुष्ठेयं समधिगतम् ।
अथेदानीं कस्तस्य कर्ताधिकारीति निरूप्यते—अधिकारोऽपि कर्तृसमाहितसाधनात्मिकायाः कर्त्तव्यतायाः विधेरंश इतीह षष्ठे अधिकारांशो निरूप्यते विधेः । ननु स्वर्गकामपदश्रुतेरेव लब्धा स्वर्गकामस्य पुंसः कर्तृता स्वामिता चेति किमत्र निरूपणीयम् ? इत्यत आह—सर्वाङ्गोपसंहारसमर्थ एव उताऽसमर्थोऽपीति तद्विशेषः परीक्ष्यत इत्यर्थः । ननु संशयमापन्नः परीक्षामर्हति । न चेह संशयः । सामर्थ्यरहितस्यार्थिनोऽधिकारस्य मानान्तरनिरस्तत्वात् । अनुपलब्धाव्यवस्थायां च संशयोत्पत्तिरित्यत आह— शक्तेः शास्त्रीयत्वाच्छास्त्रीयाशास्त्रीयत्वाभ्याम् । एतदुक्तं भवति । स्वर्गकामस्य कर्तुरपेक्षितोपायतामनवगमयत् कर्मणः शास्त्रं सामर्थ्यमन्तरेण कर्तृत्वाऽनुपपत्तेर्यदि सामर्थ्यमपि गमयेत् ततस्तस्याऽपि शास्त्राऽधीनज्ञानत्वा
षष्ठे त्वधिकारांशो निरूप्यते । सर्वाङ्गोपसंहारसमर्थस्येतरस्यापीति शक्तेः शास्त्रीयत्वाच्छास्त्रीयाऽशास्त्रीयत्वाभ्याम् । तत्र यथैवाऽपेक्षितसाधनत्वं प्रवृत्तिहेतुर्नेतरत्, तथा शक्यत्वमपि । शक्यताऽपि प्रवर्तनात्मविधिरूपमनुप्रविशन्तीष्टसाधनतावच्छास्त्रगम्या । तथा चाऽर्थिमात्रस्येष्टसाधनम् । शक्यं च597 शास्त्रात् प्रतीतं कर्म्म प्रमाणान्तरविरोधेन598 यथासम्भवं व्यवतिष्ठत इति सर्वाधिकार उक्तः । प्रमाणान्तरविषयत्वात् शवतेरप्राप्तेः शाल्त्रस्याऽथवत्त्वात् विधिरूपाऽनुगगताया अपि न शास्त्रार्थता । विधिस्तु
दर्थिमात्रोद्देशेन च शास्त्रप्रवृत्तेरनियमात् सर्वेषामर्थिनां तत्कर्म शक्यमभिमतसाधनं चेति शास्त्रावगमद्रढिम्ना देवर्षितिर्यगन्धवधिरशूद्रादीनामपि तत्तदंशाऽनुष्ठानसामर्थ्यबाधनाच्च यो यथा शक्नुयात्तस्य तथा कर्माभिमतसाधनमिति कल्पनायागविशेषेणाऽधिकार इति प्रतिभाति । अथ न सामर्थ्य शास्त्रगम्यमपि तु मानान्तरसिद्धमुपजीव्य कर्तुरमिगतसाधनतामात्रमवबोधयति शास्त्रम्, तवस्तन्मानान्तरं यमेवार्थिनमुपनयति तत्रैव शास्त्रं व्यवतिष्ठते, तदपेक्षं हि तदशास्त्रमिति । तदनेन क्रमेण शक्तेः शास्त्रीयत्वाऽशास्त्रीयत्वपर्यवसितो विधारः ।
पूर्वपक्षं गृह्णाति—तत्र यथैवाऽपेक्षितसाधनत्वं प्रवृत्तिहेतु नेतरत् तथा शक्यत्वमपि । लोकत एवाऽन्वयव्यतिरेकाभ्यामवगतमिति । शक्यताऽपि प्रवर्त्तनात्मविधिरूपमनुप्रविशन्तीष्टसाधनतेव शवयतायास्तदपेक्षं शास्त्रमप्रमाणं स्यादिति भावः । ननु नित्यबदङ्गाम्नानस्याऽविकल्पत्वादङ्गसाकल्यवत् प्रधानसामर्थ्यमपि विधिगोचरः । न च तत्सहस्रेणापि शास्त्रैः तिर्यगादीन् प्रति शक्यं शवयतामापादयितुम्, इत्येतन्निराकर्तुमुपसंहरति—तथा च— शास्त्रगम्यसमीहितवाधनताऽवच्छेद्यत्वे नियामकस्य प्रमाणस्याऽभावात् अर्थिमात्रस्येष्टसाधनम् । शक्यं च शास्त्रात् प्रतीतं कर्म केवलं क्वचित् प्रमाणान्तरविरोधदर्शनादप्रामाण्यभिया प्रमाणान्तरविरोधेन यथासम्भवं— यो यावन्ति शक्नोत्युपसंहर्त्तुमङ्गानि तस्य तावद्भिरेवाङ्गैस्तत्प्रधानं शक्यमभिमतसाधनमिति व्यततिष्ठते इति शब्दाऽवगताऽर्थिगात्रद्रढिम्ना सर्वाऽधिकार उक्तः ।
सिद्धान्तमुपक्रमते—प्रमाणान्तरविषयात्वात्तु शक्तेरप्राप्तेः शास्त्रस्याऽर्थवत्त्वाद्विधिरूपानुगताया अपि न शास्त्रार्थता । तु शब्दात्पूर्वपक्षं व्यावर्त्तयति
मानान्तरगम्यशक्त्यपेक्षः शब्देन प्रतीयते । न चैवं सापेक्षत्वदोषः, यथा मानान्तरगोचरपदार्थरूपाऽपेक्षित्वे । अन्यथा सर्वः सर्वाङ्गोपसंहारसमर्थः स्यात् । कुतो यथासम्भवं व्यवस्था ? प्रमाणान्तरविरो धत्वादिति चेत्, हन्त, तर्हि शब्दस्याप्रामाण्यम् । लक्षणप्रमाणान्तरसिद्धो यः पदार्थस्वरूपविशेषोपायप्रतिपत्तिरनन्यगोचरः शास्त्रविषयोऽभ्युपगमनीयः । तथा च नाशक्तस्य प्रवृत्तिहेतुरकर्तृकत्वादिति । नाऽसमथस्तत्र प्रवर्त्यो गम्यत इति समर्थाऽधिकारः सति चाऽधिकारे स कस्येति स एव पुरस्तात् प्रतिपादितः । कथं पुनस्तस्याऽभावः शङ्कितः ? इह केचित् ।
साध्यत्वात्कर्तुराख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्त्तिताः ॥
भवेदेतदेवं यदि शक्तिः शास्त्रतोऽवगम्येत, न त्वेतदस्ति । अप्राप्तप्रापणं हि शास्त्रम् । न चाऽभिमतसाधनतावत्प्रामाणान्तरेणाऽप्राप्ता शक्तिः । तस्माद्विधिरूपाऽनुगतामपि शविन्त प्राप्तत्वान्न शास्त्रं गोचरयति, किन्तु तां मानान्तरसिद्धामुपजीव्य कर्तृसमाहितसाधनतामप्राप्तामवगमयतीत्याह— विधिस्तु मानान्तरगम्यशवत्यपेक्षः शब्देन प्रतीयते । नन्वेवं सापेक्षत्वादप्रामाण्यप्रसङ्गः शास्त्रस्येत्यत आह—न चैवं साऽपेक्षत्वदोषः । यथा मानान्तरगोचरपदार्थरूपाऽपेक्षित्वे स्वविषये हि मानान्तराऽपेक्षा प्रामाण्यं व्याहन्ति न स्वसामग्र्या, अतिप्रसङ्गात् । न च शक्यता विध्यनुगताऽपि शास्त्रस्य विषय इत्युक्तमित्यर्थः । अन्यथा यदि शक्तिविषयं शास्त्रं स्यात् ततो नियामकप्रमाणाभावादर्थिपदेन सहसैव सर्वेषामर्थिनामुपस्थापनात्सर्वः सर्वाङ्गोपसंहारसमर्थः स्यात् कुतो यथासम्भवं व्यवस्था ।
पूर्वपक्षी शङ्कते—प्रमाणान्तरविरोधादिति चेत् । अर्थिपदसमभिव्याहृतेन विधिना सर्वेषां तिर्यगादीनां सामर्थ्यप्रतिपादनात् तस्य च मानान्तरविरोधात् । उत्तरम्—हन्त तर्हि शब्दस्याऽप्रामाण्यम् । लक्षणप्रमाणान्तरसिद्धो यः पदार्थस्वरूपविशेषः शक्यतालक्षणः तदुपायप्रतिपत्तिर्यस्य शास्त्रविषयस्य सोऽनन्यगोचरोऽभ्युपगमनीयः । तथा च शक्यताग्राहिणि नियामके प्रमाणे सति समर्थाधिकारसिद्धिः । यत् पुनराद्ये विचारितं किमधिकारोऽस्ति न वेति, तस्याऽत्र सङ्गतिमाह—सति चाऽधिकारे धर्मिणि कस्य समर्थस्येति तद्विशेषनिरूपणा घटते नाऽन्यथेति स एवाऽधिकारसद्भाव एव पुरस्तात् प्रतिपादितः । ननु स्वर्गकामो यजेतेत्येवमादिभ्यः स्वर्गकामादेरधिकारोऽवगम्यत इति कथं पुनस्तस्याभावः शङ्कितो येनऽसौ विचारणीयः स्यात्, तत्राह—इह केचित् ।
क्रियाप्रधानमेकार्थं वाक्यमिति । क्रियैव हि भाव्यते स्वभावसिद्धं द्रव्यं गुणमिति वदन्तः फलस्याऽसमन्वयं वाक्ये मन्यन्ते । तथा च फलाऽभावादधिकाराऽभावः । न ह्यफलेषु कर्म्मसु कश्चिन्नियोज्यः स्वामी वा । कथं पुनरसमन्वयः फलस्य ? कर्म्मणः साध्यत्वप्रतीतेर्द्वयोः साध्ययोरसमवायात् । तथा हि । यदि यागादय एव क्रियास्त एव पूर्वाऽपरीभूताः प्रधानात्मना गम्यन्ते । अथापि तदतिरेकिणी क्रिया सा च सकर्म्मिका भाव्यप्रधाना । तथापि त एव । कुतः ? पौर्वापर्य्यनियमात् । प्रत्ययस्य प्रकृत्यर्थाऽभिसम्बन्धिस्वार्थाभिधायित्वात्साध्यत्वेन प्रतीतेः । अन्यथा द्रव्य-
साध्यत्वात् कर्तुसख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाऽभिधीयन्ते फलेनापि प्रवर्त्तिताः ॥
व्याचष्टे—सर्वगेव हि क्रियाप्रथानमेकार्थमेकप्रयोजनं वाक्यं शब्दप्रवृत्त्यनुसारात् । वस्तुतोऽपि क्रियैव हि स्वभावतः साध्यरूपा भाव्यते, स्वभावसिद्धं तु द्रव्यं भूतं भव्यायेति न्यायात् तां प्रति गुणभूतं स्वर्गादीति वदन्तः फलस्याऽसमन्वयं मन्यन्ते । फलत्वेन तु सम्बन्धे स्वर्गादेस्तत्प्राधान्यात् क्रियाया न प्राधान्यम्, उभयप्राधान्ये च एकार्थत्वं लोकाऽवगतमपहीयेतेति भावः । ननु मा भूत्फलं किं नश्छिन्नम् ? इत्यत आह—तथा च फलाभावात् अधिकाराभावः । कस्मात् ? न ह्यफलेषु कर्मसु कश्चिन्नियोज्यः स्वामी वा । तदेव च तस्य स्वं भवति यद्यस्योपकारे वर्तते । न चाऽफलं तथेति कथं स्वं भवति स्वामिनः ? स्वामी चाऽधिकारीत्युच्यते । न चाऽफलं प्रयोगमपि प्रेक्षावान् प्रतिपद्यते न नियोज्योऽपीत्यर्थः ।
ननु भावनाप्रधानं वाक्यम्, भावनायाश्च भाव्याकाङ्क्षायां भाव्यत्वेन फलं सम्भन्त्स्यते इति चोदयति—कथं पुनरसमन्वयः फलस्य ? समाधत्ते— कर्मणो धात्वर्थस्य साध्यत्वप्रतीतेः । अथ फलकर्मणोः कस्मान्न साध्ये कर्मणो ? इत्यत आह—उभयोः साध्ययोरसमवायात् । एकस्माद्वाक्याद्भावयोरपि कर्मैव साध्यं युक्तं, न पुनः फलमित्यत आह—तथा हि । यदि यागादय एव क्रियाः तथापि त एव पूर्वाऽपरीभूताः प्रधानात्मना गम्यन्ते न तदा भाव्यान्तराऽपेक्षाऽस्ति । अथापि तदतिरेकिणी क्रिया सदा सकर्मिका, तस्या भाव्याऽपेक्षायां सत्यामपि भाव्यप्राधान्यात्तथापि तएव यागादयो न तु फलम् । ननूभयभाव्यसम्भवे को विशेषः ? इत्याशयवान् पृच्छति—कुतः ? पौर्वापर्यनियमात् । प्रत्ययस्य प्रकृत्यर्थाऽभिसम्बन्धिस्वार्थाऽभिधायित्वात् धात्वर्थस्य च साध्यत्वेन प्रतीतेः । सोऽयं फलाद्विशेष इत्यर्थः । अन्यथा यदि धात्वर्थो न साध्यः स्यात्ततो द्रव्यगुणशब्दादविशेषात् । सिद्धार्थत्वेन
गुणशब्दाऽविशेषात् प्रनभ्युपगमाच्च येषामुत्पत्ताविति । साक्षात्करणाभिसम्बन्धाच्च काष्ठैः पचतीति । ननु कर्म्मान्तराऽभिसम्बन्धान्नैवं स्यात् ? न । कर्म्मण्यपि कारकस्मृतेः कारकत्वेनैव क्रियाऽन्वयात् । शब्देन भूततयोपादानात् । ईप्सिततमत्वं तु प्रमाणान्तरविषयः । तथा दृष्टफलेष्वस्तु फलवत्ता, यागादिषु तु न फलं स्वर्गादिस्तथाऽसमन्वयान्मानान्तरस्य चाऽभावात् । एवं च तानि द्वैधमित्युक्तम् । अन्यथैकध्यमेव स्यात् ।
एवं तावद् द्रव्याणां कर्म्मसम्बन्धे599 गुणत्वेनाऽभिसम्बन्धो न फलत्वेन हि द्रव्यगुणशब्दा आख्यातात्साध्याऽभिधायिनो भिद्यन्ते । आख्यातानां महर्षिणां येषामुत्पत्तौ स्वे प्रयोगे रूपं नोपलभ्यते तान्याख्यातानीत्यनेन सूत्रेण । न च तद्भावनाऽभिप्रायं नामपदार्थस्य धात्वर्थसम्बन्धे दृष्टार्थतयाऽपेक्षितसम्बन्धप्रतिपादनार्थत्वात् । अतश्च साध्यत्वं धात्वर्थस्य साक्षात्करणाऽभिसम्बन्धात् काष्ठैः पचतीति । न खल्वसाध्यस्य साधनसम्बन्ध उपपद्यते । न चाऽऽख्यातवाच्ययां भावनायां करणत्वं काष्ठानां सम्भवति, तस्यास्त्वन्मते समानपदोपातपाककरणाऽवरोधात् । न च पाकाऽऽक्षिप्तायां सम्बन्धः । साक्षात्पाकसम्बन्धप्रतीतेः । न खलु गृदा घटः काष्ठेः पचतीति समः सम्बन्धाऽवगमः । तस्मात्काष्ठेरिति साक्षात्पाकादिगम्बन्धात् ते एव स्वरूपेण साध्या इति साम्प्रतम् ।
ननु यत्र तर्हि काष्ठेरोदनं पचतीति कर्मान्तरं प्रतीयते तत्र न धात्वर्थस्य साध्यता स्यात्, न ह्येकस्मिन्वाक्ये साध्यद्वयमुपपद्यते, इति बोदयति—ननु कर्मान्तराऽभिसम्बन्धान्नैवं स्यात् । समाधत्ते—न, कर्मण्यपि कारकत्वस्मृतेः । कारकत्वेनैव क्रियाऽन्वयात् । अयमभिसन्धिः । उभयमस्त्योदनादी कारकत्वमीप्सिततमत्वं च । तत्र कारकत्वेनाऽन्वये न क्रियासाध्यत्वहानिरिति । न च शब्दादोदनादिः पाक इव पच्यते इत्यत्र पूर्वाऽपरीभूतोऽवगम्यते, किन्तु सिद्धतयेत्याह—स्वशब्देन भूततयोपादानात् । ननु यदि न शब्दमीप्सिततमत्वं कुतस्तत्प्रतीतिः ? इत्यत आह—ईप्सिततमत्वं तु प्रमाणान्तरविषयः । तथा च दृष्टफलेषु योदनपाकादिष्वस्तु फलवता, यागादिषु पुनरशब्दार्थः फलं स्वर्गादिः कुतः ? तथा च फलत्वेनाऽसम्बन्धान्न बोदनादि तत्र भवितुमर्हति । मानान्तरस्य चाऽसम्भवात् । एवं च केषाञ्चित्कर्मणां फलानां साध्यत्वेन प्रधानत्वं ज्योतिष्टोमप्रयाजादीनाम्, केषाञ्चिच्च मानान्तरसिद्धफलानामवधातादीनां फलं प्रति गुणत्वेन तानि द्वैधं गुणप्रधानभूतानीत्युक्तं महर्षिणा । अन्यथा तु सर्वेषां फलवत्त्वेऽभ्युपगम्यमाने चैकरूपमेव स्यात्सर्वेषाम्, फलं प्रति गुणत्वादवधातादिवदिति ।
इति युक्तम् । वस्तुतश्च न600 सम्बन्धः फलत्वेन, पुरुषप्रयत्नस्य यागादिविषयत्वात्स्वर्गाद्यसम्बन्धाद्यागादेश्च व्यापारान्तराऽदर्शनात्करणत्वाऽनुपपत्तेः । भूतेरव्यापारत्वात् । शक्ये601 च पुरुषनियोगात्स्वर्ग कुर्यादित्यनुपपत्तेः । अवश्यकर्त्तव्यताप्रसङ्गाच्च । फलस्य चाऽविधेयत्वोपगमात् । यागादेश्च विधेयत्वाश्रयणात् । प्रवृत्तिविषये हि विधिर्न साक्षाद्यागे फले वा । प्रवृत्तिश्च भावना । यद्विषयायाश्च प्रवृत्तेर्हेतुः शब्दः स विधिरित्युच्यते । तत्राख्यातोपादाना भावना नास्त्येव, या विधीयेत । सत्यामपि भिन्नभावनायां
प्रमेयं परिशोध्य सूत्रमत्र योजयति—एवं तावत् द्रव्याणां कर्मसंयोगे गुणत्वेनाऽभिसम्बन्धो न फलत्वेन स्वर्गादीनां शब्दत इति युक्तम् । न केवलं शब्दतो वस्तुतश्च न सम्बन्धः फलत्वेन । कुतः ? पुरुषप्रयत्नस्य भावनाया यागादिविषयत्वाद्धेतोः स्वर्गाद्यसम्बन्धात् । न जातु पुरुषः स्वर्गे व्याप्रियमाण उपलभ्यते, अपि तु यागे । ततश्च याग एवाऽस्य साध्यो न स्वर्गः । अथ पुरुषप्रयत्नसाध्योऽपि यागः फलं प्रति करणं भविष्यति, ततः सम्बन्ध उपपत्स्यत इत्यत आह—यागादेश्च व्यापान्तराऽदर्शनात् करणत्वाऽनुपपत्तेः । करणत्वं हि क्रियायोगेन व्याप्तम्, स चाऽदर्शनाद् यागादेर्निवृत्तः करणत्वमपि निवर्त्तयतीत्यर्थः । ननु भूतिरेव भाव्यानां यागादीनां व्यापारः, ततश्च कारकत्वं करणत्वं चेत्यत आह—भूतेरव्यापारत्वात् । व्यापारो हि व्यापारवत्समवायिकारणकः, सिद्धं च समवायिकारणम्, असिद्धश्चेद्भाव्यो नाऽस्मिन् भूतिः समवेति । न खलु गगनकुसुमादयो व्यापारवन्तः । सिद्धोऽपि भविता न भवितुमर्हति । न जातु वियद्भवति । तस्मान्न भूतिर्व्यापार इति । अपि च भाव्यत्वे स्वर्गस्य तत्र पुरुषो नियोज्यः । न च तेनाऽसौ शक्य इत्याह—शक्ये च पुरुषनियोगात् स्वर्ग कुर्यादित्यनुपपत्तेः । अपि च इच्छातन्त्रत्वे स्वर्गादीनाम् । इच्छायाश्चाऽवश्यम्भावनियमाऽभावान्नावश्यकर्त्तव्यताप्रसक्तिः । विधितन्त्रत्वे त्विच्छाया अतन्त्रत्वात्तस्य च नित्यविधायकत्वात् अवश्यकर्त्तव्यता स्यादित्याह—अवश्यकर्त्तव्यताप्रसङ्गाच्च । फलस्य चाऽविधेयत्वोपगमात् । तस्य लिप्साऽर्थलक्षणेति चेदेवासौ ममैतत्कर्त्तव्यमिति । यागादेश्च विधेयत्वाऽश्रवणात् । यथाह उपायं तु न वेद । अतस्तदाकाङ्क्षात इदमुपदिश्यते यागेनेति । युक्तं चैतदित्याह—प्रवृत्तिविषयो हि विधिः प्रवर्त्तनारूपत्वान्न साक्षाद् यागे फले वा । प्रवृत्तिश्च भावना । यद्विषयायाश्च प्रवृत्तिर्हेतुः शब्दः अन्यनिमित्तत्वादिच्छानिमित्तत्वात्फले प्रवृत्तेरिति । अपि च विषयरूपाप्रवृत्तिर्विधातव्या, न चाऽसावुपायविषयाया
न भावनाकर्मणोर्यागफलयोरसमवायः, न विधिसामर्थ्यात् अन्यदपि फलम्, तस्याप्येवम602 समवायात् । वैरूप्यात्साधनभावस्य दुरवबोधत्वात् ।
नाऽर्थापत्तितः । चीदनालक्षणत्वहानेः । तस्याः साध्यत्वपर्यवसानात् । अफलस्य कर्म्मणो लोके साध्यत्वाऽदृष्टेः । साधनत्वस्य च साध्यत्वपुरःसरत्वादर्थात्तदाक्षेपायोगात् । साध्यत्वस्य पुरोभाविनः साधनत्वाऽऽक्षेपाऽसामर्थ्यात् । आक्षेपेऽपि सिद्ध्यर्थं कर्तृरूपस्य काणत्वाऽभावात् । कथं अन्या फलविषयाऽस्तीत्याह—द्वितीया च भावना नास्त्येव, या फलविषया विधीयते । भवतु वा, तथापि प्रकृतं न सिध्यतीत्यत आह—सत्यामपि द्वितीयायां भावनायां न भावनाकर्मणोर्यागफलयोरसमवायः । अथ मा भूद् भिन्नभावनाकर्मणो भूतेन फलेन सम्बन्धो यागश्च विधिसामर्थ्यात्तु विश्वजिदादिवत्कल्पितेन फलान्तरेण सम्भन्त्स्यत इत्यत आह न विधिसामर्थ्यादन्यदपि फलम् । कुतः ? तस्याप्येवं श्रुतफलपदासमवायात् । कुतः ? वैरूप्याद्धेतोः साधनभावस्य दुरवबोधत्वात् । न जातु सकृदेवश्रुतो यागः साध्यं साधनं चेत्युपपद्यते, विरोधात् । तस्मात् साधनभावो दुरवबोधः साध्यत्वेन श्रुतस्य यागस्येति ।
स्यादेतत् । चोदनातः साध्यत्वेन पतीतस्य यागादेरर्थापत्तितः फलं प्रति साधनत्वं गम्यते, मा भूद्वैरूप्यम्, इत्यत आह—नार्थापत्तितः । कुतः ? चोदनालक्षणत्वहानेः । फलसाधनता चेदर्थापत्तिगम्या चोदनालक्षणत्वं न स्यात् । ततश्च चोदनैवेति प्रतिज्ञाव्याघातः । न चाऽर्थापत्तेश्चोदनामूलतया तद्विषयश्चोदनालक्षण इति साम्प्रतम् । चोदनाया यागादिसाध्यमात्रपर्यवसितायाः फलसाधनतामन्तरेणोपपत्तेरर्थापत्तिगूलत्वाऽभावादित्याह— साध्यत्वपर्यवसानात् । अथाऽफलस्य साध्यत्वं चोदनाप्रतीतमनुपपन्नमिति चोदनैव साध्यत्वप्रतिपादिकाऽपर्यवस्यन्तो फलकल्पनाबीजमिति तत्राह— अफलस्य कर्मणो लोकसाध्यत्वेनाऽदृष्टेः । यत्किल धर्मशास्त्रकारो निषेधति “न कुर्वीत वृथाचेष्टा”मिति । ननु यथा परेषां साधनत्वेन शब्दतः प्रतिपन्ना यागादयः साध्यतामाक्षिपन्त्यात्मनः तथाऽस्मन्मतेऽपि साध्यत्वेन प्रतीताः साधनतामात्मन आक्षेप्स्यन्तीत्यत आह साधनत्वस्य यागादेः साध्यत्वपुरःसरत्वात् । अकृतस्य तत्त्वाऽनुपपत्तेः ।
अथाऽयमाक्षेपयोगः शब्दसाधनत्ववादिनो मते । शब्दसाध्यत्ववादिनां तु मते साध्यत्वस्य पुरोभाविनः साधनताक्षेपाऽसामर्थ्यात् । सुगमम् । यदि मन्येत साध्यत्वमपि सिद्धिं प्रति कारकत्वमन्तरेण नोपपद्यत इति साधनत्व
तर्हीन्दानीं विधिः ? किमत्र कथम् ? प्रवर्त्तनामात्रं विधिर्न्न पुरुषार्थानर्थौ स्पृशति । कुतः ? प्रतीतेरव्यभिचाराच्च । तथा च लिङादिभ्यः प्रेरणाऽवगमः । यद्यपि चेष्टसाधनता प्रवृत्तिहेतुः, शब्दस्त्वनामृष्टतद्रूपः प्रवृत्तिहेतुमात्रमभिनिविशते । तदाकाराऽवबोधात्प्रैषादिषु च तदभावात् । प्रवर्त्तनामात्रस्य चाऽव्यभिचारात् । अनेकार्थत्वदोषात् । न च तद्रूपबोधादेव तद्बोधः । मोहादेरपि सम्भवात् ।
नन्वेवमपि प्रवर्त्तनायाः प्रवर्त्त्यविशेषविषयत्वात्तस्यैव पूर्वमपेक्षणात् माक्षेप्स्यतीति, तत्राह—आक्षेपेऽपि सिद्ध्यर्थ कर्तृरूपस्य सिद्धः कारणत्वाऽभावात् । उपपादितमेतत् यथा न साध्यं कारकमिति ।
अभ्युपेत्योच्यते, भवतु कारकम्, अत एव चाऽऽक्षिपतु तस्य तथापि सिद्धिं प्रति कर्तृत्वात् तदेवाक्षिपेन्न करणत्वमित्यर्थः । यदि यागादीनां साध्यत्वमेव न चाऽभिमतसाधनत्वं कथं तर्हीदानी विधिः ? पूर्वपक्षी ब्रूते— किमत्र कथम् ? प्रवर्त्तनामात्रं विधिः, नाऽभिमतसाधनत्वम्, ततश्च न पुरुषार्थाऽनर्थौ संस्पृशति । कुतः ? उत्तरम्—प्रतीतेः । नन्वभिमतसाधनतापि प्रतीयत इत्यत आह—अव्यभिचाराच्च । प्रतीतेरिति विवृणोति— तथा च लिङादिभ्यः प्रेरणाऽवगमः । नन्वस्तु, किन्त्वसौ समीहितसाधनतानिबन्धन इत्यत आह—यद्यपि चेष्टसाधनत्वं प्रवृत्तिहेतुः शब्दस्त्वनामृष्टतद्रूपः प्रवृत्तिहेतुमात्रमभिनिविशते । कुतः ? तदाकाराऽवबोधात् । अव्यभिचारादिति व्यतिरेकमुखेन विवृणोति—प्रैषादिषु च तदभावात् । अभिमतसाधनत्वाऽभावात् । प्रवर्त्तनामात्रस्य चाऽव्यभिचारात् क्वचित्प्रेषणा क्वचिदध्येषणा क्वचिदभिमतफलसाधनता लिङर्थो भविष्यति, तत्र तत्र प्रतीतेरित्यत आह अनेकार्थत्वदोषात् । न खलु प्रवर्त्तनामात्रत्वे सम्भवत्यनेकार्थता युक्ता । अनेकशक्तिगौरवादित्यर्थः । ननु नाऽभिमतसाधनता व्यभिधरति । अभिमतसाधनता सर्वत्र प्रैषादिषु साक्षात्पारम्पर्येण वा विद्यत इत्यत आह—न च तत्राऽवबोधादेव अभिमतसाधनता बोधहेतुरित्यर्थः ।
अत्रान्तरे मीमांसकैकदेशी प्राह—नन्वेवमपि प्रवर्त्तनायाः प्रवर्त्त्यविशेषविषयत्वात्तस्यैव पूर्वमपेक्षणात् करणाद्यपेक्षया पूर्वत्वम् । न च स्वर्गकामादिपदमपेक्षां पूरयितुं न क्षममित्याह—स्वर्गकामादिपदानां च तत्समर्पणसामर्थ्यात् । स एव प्रवर्त्य एव तैः समर्प्यते603 न साधनाकर्मविशेषः । कर्मणः पश्चात्तु कर्तृतया सम्भन्त्स्यत इति भावः ।
स्वर्गकामादिपदानां च तत्समर्पणसामर्थ्यात् स एव तैः समर्थ्यते न साधनविशेषः । किमतः ? कामिनोऽधिकारः प्रतिपन्नो604 भवतीति । एवं नाम, न तु प्रवृत्तिसिद्धिरसति फले । प्रवृत्त्यर्थश्चाऽधिकारः । नन्वानर्थक्यमुपदेशस्यैवं स्यात् । सत्यर्थे नाऽऽनर्थक्यमसति तु किमन्यत् ? आत्मविज्ञानाधिकारसिद्धिप्रयोजनत्वाद्वा नाऽऽर्थक्यम् । एष खलु पुरुषः स्वभावतो रागाद्याविष्टो दृष्टफलैरुपायैविषयोपार्जनं प्रवर्त्तमानस्तदाप्तिमनास्तत्पक्षपाती न विगलितविषयप्रपञ्चमात्मतत्त्वमुपदिष्टं प्रत्येतुं परिभावयितुं वा अलम् । कर्म्मोपदेशैस्त्वनुशिष्टः कृतकामनिबर्हणः स्वाभाविक्याः प्रवृत्तेर्निवृत्तः शास्त्रीयायां कर्मप्रवृत्तौ व्यवस्थितो दान्तः कामैरबाधितमनाः
पूर्वपक्षी वक्ष्यमाणाऽभिसन्धिः पृच्छति—किमतः ? एकदेशिन उत्तरम्— कामिनोऽधिकारः प्रतिपन्नो भवति । ततश्च यजेत स्वर्गकाम इत्युपपन्ना सङ्गतिरित्यर्थः । पूर्वपक्षी दूषयति—न ह्यफलेऽधिकार इत्युक्तम्, अभ्युपगम्याऽप्युच्यते—एवं नाम, न तु प्रवृत्तिसिद्धिरसति फले । ननु मा भूत्प्रवृतिः, अधिकारस्तु सिध्यतीत्यत आह—प्रवृत्यर्थश्नाऽधिकारः । प्रवृत्तिश्चेन्नास्ति व्यर्थोऽधिकार इति । नन्तानर्थक्यमुपदेशस्यैवं स्यात् । उतरम्—सत्यर्थे नाऽऽनर्थक्यम् । असति तु किमस्यदानर्थक्यं स्यात् । अथवैवमप्यानर्थक्यं नास्तीत्याह—आत्मविज्ञानाधिकारसिद्धिप्रयोजनत्वाद्वा नाऽऽनर्थक्यम् । कथं पुनरेतत्प्रयोजनाः सर्वे विधयः ? इत्यत आह—एष खलु पुरुषः क्षेत्रज्ञः स्वभावतो रागाद्याविष्टः । यथाह भगवानक्षपादः “वीतरागजन्माऽदर्शनादि”ति । अतो दृष्टफलैरुपायैः सेवादिभिः यद्विषयोपार्जनस्तस्मिंस्तु प्रवर्त्तमानस्तदाक्षिप्तमनास्तत्पक्षपाती सदैव तत्प्रयुक्तः । अतो न विगलितविषयप्रपञ्चमात्मतत्त्वम् उपदिष्टमपि प्रत्येतुं निश्चेतुं परिभाषयितु समनस्कानीन्द्रियाणि प्रत्याहृत्यात्मन्येव बुद्धिधारां605 विधातुमलं, किमङ्ग पुनः साक्षात्कर्तुम् ।
भवत्वेवम्, तथापि किं कर्मपिदेशैः ? इत्यत आह—कमम्पिदेशस्त्वनुशिष्टस्त्रैवर्ण्णिको ऽष्टवर्षादिर्ब्राह्ममुहूर्त्तपिक्रमायां प्रदोषपर्यवसानायां प्रतिवासरं कर्मपद्धतौ स्थितोऽपि स्तेयद्यूतस्त्र्यभिसरणमृगयाद्याहृतहृदय आत्मजयोनिजपरिजनचिन्तायास्तदनुशासनात् कृतकामनिवर्हणः ततः स्वभाविक्याः प्रवृत्तेर्निवृत्तः परिजनचिन्तायामिव शास्त्रीयायाम् अहरहर्ब्राह्ममुहूर्त्तोपक्रम
शक्नोति तादृशमप्यात्मतत्त्वमुपदिष्टं प्रत्येतुं परिभावयितुं च । दृष्टेनैव कर्म्मविधय आत्मज्ञानाधिकारप्रयोजनाः । एवं च शास्त्रत्वं नियोज्याऽनुशासनाद्धितोपदेशाद्वा । कामे तु साध्ये रागाद्यभिव्याप्तायां स्वाभाविक्यां प्रवृत्तावुपायदर्शनेन स्वहस्तदानाच्छब्दः शास्त्रतामतिवर्त्तते । न हि तदा पुरुषोऽनुशिष्टः स्यात् । स्वच्छन्दचेष्टायां त्वनुज्ञायेत । अथापि हितमुपदिशत् शास्त्रं तथापि प्रकृत्या दुःखाऽनुषक्तेषु काम्येषूपायदर्शनेन प्रवर्तयन्न हितोपदेती शब्दः स्यात् ।
नन्वेवं ज्ञानविधिरप्यनुशासनमात्रमेव स्यात् । न । ज्ञानस्य दृष्टार्थत्वात् स्वभावतश्च गुणभूतत्वात्सम्मार्गादिवत् । इममेव चार्थममिप्रेत्य कर्त्तव्यश्च प्रदोषपर्यवसानयां कर्मपद्धवी व्यवस्थितो दान्तः कामैरवाधितमनाः शक्नोति तादृशमपि विगलितविषयप्रपञ्चमपि आत्मतत्त्वं प्रत्येतुं परिभाषयितुं च । ननु साध्या क्रिया यथा स्वर्गादिना साध्येन न सम्बध्यते तथा ऽऽत्मज्ञानाऽधिकारसिद्ध्या ऽपि, कः खल्वनयार्विशेषः ? इत्यत आह—एवं दृष्टेनैव कर्मविधय आत्मज्ञानाऽधिकारप्रयोजनाः । सत्यम्, न शाब्दः सम्बन्धः प्रमाणान्तरेण तूपनीयमानो न शब्देन प्रतिक्षिप्यते ब्रीहीनवहन्तीतिवदिति भावः । एवं च शास्त्रत्वं नियोज्याऽनुशासनात् प्रवृत्त्यन्तरोपदेशेन परिणामतापसंस्कारदुःखरूषित्ताभ्यः प्रवृत्तिभ्यो ऽर्थान्निवर्त्तनमनुशासनं तस्मादित्यर्थः ।
प्रकारान्तरमाह—हितोपदेशाद्वा । नित्यानन्दमयात्मज्ञानाऽधिकारसिद्धिप्रयोजनं कर्मज्ञानं तस्योपदेशादित्यर्थः । इतरथा तु न शास्त्रत्वमाम्नायस्य भवेदित्याह—कामे तु काम्यत इति स्वर्गादिः कामः तस्मिन्साध्ये रागाद्याक्षिप्तायां स्वाभाविक्यां प्रवृत्तावुपायदर्शनेन स्वहस्तदानाच्छब्दः शास्त्रतामतिवर्त्तते । इच्छन्नपि कथञ्चिदुपायाऽपरिज्ञानान्न प्रवर्त्तेत, उपायज्ञानादेव प्रवृत्तेः । अतस्तादृशमपि चेच्छास्त्रं किमन्यदशास्त्रं भविष्यतीत्यर्थः । शास्त्रतां कस्मादतिवर्त्तते ? इत्यत आह—न हि तदा पुरुषोऽनुशिष्टः स्यात् । स्वच्छन्दचेष्टायां त्वनुज्ञायेत । एवं तावदहितनिवर्त्तनालक्षणं शास्त्रत्वं न स्यादित्युक्तम् । अथापि हितमुपदिशच्छास्त्रं तथापि प्रवृत्त्या दुःखानुषक्तेषु काम्येषु स्वर्गादिषूपायदशनेन प्रवर्त्तयन्न हितोपदेशो शब्दः स्यात् ।
चोदयति—नन्वेवं ज्ञानविधिरप्यनुशासनमेव स्यात् । न हि तत्रापि स्वर्गदिवन्मोक्षः साध्यतया सम्बन्धुमर्हति । नापि मोक्षमाणो ऽधिकारीत्यर्थः । परिहरति—न, ज्ञानस्य दृष्टार्थत्वात् । तच्चोक्तं पुरस्तात्स्वभावतश्च
सुखवानकर्त्तव्यो दुःखवानित्याद्युक्तम् । एषो ऽर्थः । स्वगान्देः क्षणिकत्वादिदुःखानुषङ्गात्तदुपायो यागो दुःखतया न कर्त्तव्य एव स्यात् । प्रलीनाऽशेषदुःखप्रपञ्चाऽवभासप्रयोजनस्तु सुखफलः कर्त्तव्यः ।
नन्वेवं वर्णयता ऽतिसृष्ट606 एवाधिकारो भवति । सत्यम् । नान्यस्तु निरूप्यते, नाऽभ्युपगमः । न च यागं कुर्य्यादित्यर्थे यथा ऽधिकारस्तथोपरिष्टाद्वक्ष्यते ।
अत्रोच्यते—
विशेषा एव शब्दार्था दृष्टरूपान्वयेऽपि हि ।
न च प्रवर्त्तनाबोध इष्टशक्तेर्विनाऽर्थवान् ॥
गुणभूतत्वात्सम्मार्गादिवत् । यथा सम्मृज्यमानपदार्थतन्त्रः सम्मार्गः तथा ज्ञेयतन्त्रं विज्ञानमित्येतदनुभवसिद्धमेतदित्यर्थः । इममेव चार्थमभिप्रेत्य कर्त्तव्यश्च सुखवान् अकर्त्तव्यश्च दुःखवान् इत्याद्युक्तमत्रभवता । ननु स्वर्गादिनरकादिफलत्वेऽपि कर्त्तव्यताकर्तव्यतयोर्वचनमेतद् भाष्यकारीयमुपपद्यत एवेत्यत आह—एषोर्थः । स्वर्गादेः क्षणिकत्वादिदुःखानुषङ्गात्तदुपायो यागो दुःखतया न कर्त्तव्य एव स्यात् । प्रलीनाऽशेषदुःखप्रपञ्चाऽवभासप्रयोजनस्तु सुखफलः कर्त्तव्यः ।
चोदयति—नन्वेवं पारम्पर्येण फलत्वात् कर्मणि नाऽधिकाराऽभाव ऐकान्तिक इत्याह—नन्वेवं वर्ण्णयताऽतिसृष्ट एवाऽधिकारो भवति । परिहरति—सत्यम्, न्यायस्तु निरूप्यते नाऽभ्युपगमः । न वयमभ्युपगममात्रेणाऽधिकाराऽभावं ब्रूमः, अपि तु न्यायतः । स तु स्वतो निरधिकारत्वमापादयति कर्मविधीनाम्, नाधिकारान्तराऽनुप्रवेशं वारयति, तेन तदनुसारिणां तद्दृष्ट एवाभ्युपगमो युज्यत इत्यर्थः ।
एवं पूर्वपक्षाऽऽभासमुपन्यस्य प्रथममेवाऽऽनर्थक्यं स्वाऽभिमतमाह—न च यागं कुर्यादित्यचाऽऽर्थो यथाऽधिकारस्तथोपरिष्टाद्वक्ष्यते । एवं पूर्वपक्षयित्वा सिद्धान्तमाह—उच्यते ।
विशेषा एव शब्दार्था दृष्टरूपान्वयेऽपि हि ।
न च प्रवर्त्तनाबोध इष्टशक्तेर्विनाऽर्थवान् ॥
न तावत्सामान्यं लिङाद्यर्थः । प्रेषणाध्येषणाऽभ्यनुज्ञोपदेशानां तु विशेषाणामेव लोके प्रतीतेः । मोहादिभेदान्तराऽवगतेश्च । न हि प्रवृत्तिहेतुमात्राऽवबोधः क्वचिदस्ति । सामान्यशब्दाद्विशेषप्रमाणाऽभावे तन्मात्राऽवगतिः । अतो न तावन्मात्रं शब्दार्थः । विशेषाऽनुषक्तमेव तु तृन्नादीनामिव607 कर्तृत्वं ताच्छोल्याऽनुषक्तम608 । अन्यथा कर्तृप्रयोगप्रतीतिप्रसङ्गात् । नाप्युपाधयो न शब्दार्थाः । अप्रतीतानामभेदकत्वात् । अन्यस्य
प्रवर्त्तनामात्रं शब्दार्थ इति हि मन्यमानेन स्वर्गादेः साध्यत्वं निरासीति तदेव तावद् दूषयति—न तावत्सामान्यं लिङाद्यर्थः । प्रेषणाऽध्येषणाऽभ्यनुज्ञोपदेशानां विशेषणामेव लोके प्रतीतेः । न खलु लिङ उपदेशादिविशेषरहितं प्रवर्त्तनामात्रमवगच्छन्ति । न च तथा न गौः पदा स्प्रष्टव्येति गोत्वमात्रमपि तु अर्थादिशब्दादिवाऽभिधेयेषु सन्दिहते । प्रतिपद्यमानास्तु तामुपदेशाऽनुरक्तामेव नाऽवगमयन्ति । न हि ज्वरितः पथ्यमश्नीयादित्युपदेशप्रवृत्ता प्रवर्त्तनामात्राऽवगतिः तत्पूर्वा चोपदेशे प्रतिपत्तिरिति । यदि प्रवर्त्तनैव लिङर्थः तदाऽऽक्षेपेण तद्विशेषाः प्रतीयेरन्, तत उपदेशादिभेदवत्, क्त्रविन्मोहस्यापि चेत्यवन्दनादी प्रवृत्तिहेतुत्वप्रसङ्ग इत्याह—मोहादिभेदान्तराऽवगतेश्च ।
ननु प्रतीयतां नाम विशेषाऽनुरक्ता प्रवर्त्तना, तथापि कस्मान्न तन्मात्रमर्थः ? इत्यत आह—न हि प्रवृत्तिहेतुमात्राऽवबोधः क्वचिदस्ति । सामान्यशब्दत्वं हि विशेषप्रमाणाऽभावे गृहीतसम्बन्धस्य सामान्यमात्राऽऽवबोधकत्वेन व्याप्तम्, तदिहोक्तेन क्रमेण सामान्यमात्राऽवबोधकत्वं निवर्त्तमानं स्वव्याप्यं सामान्यशब्दतामपि लिङो निवर्त्तयति । तदिदमाह—सामान्यशब्दाद्विशेषप्रमाणाऽभावे तन्मात्राऽवगतिः । क्वचिच्च सामान्याऽवगतिपुरःसरैव कस्यचित् विशेषस्य बाधे सति विशेषाऽवगतिः । सर्वथा तन्मात्राऽवगतिस्तावदस्ति । उपसंहरति अतो न तन्मात्रं शब्दार्थः । विशेषानुषक्तमेव तु तृन्नादीनामिव कर्तृत्वं ताच्छील्याऽनुपक्तम् । न चायमसिद्धो दृष्टान्त इत्यत आह अन्यथा ताच्छील्यादयो भेदा यदि नोच्येरन् कर्तृत्वमेवोच्येत, तथा सति तृजकादिवत् कर्तृमात्रे प्रयोगप्रसङ्गात् । यदपि कैश्चिदुच्यते प्रैषादयो न शब्दार्था उपाधयस्ते, प्रवर्त्तकत्वं तु शब्दार्थः सर्वत्राऽपरित्यागादिति, तत्राह—नाप्युपाधयो न शब्दार्था उपदेशादयः । कुतः ? अप्रतीतानामभेदकत्वात् । उपाधित्वमेषामभ्युपगच्छद्भिरपि भेदकत्वमभ्यु
प्रत्ययहेतोरभावात् । तदन्तत्वात्तद्वाच्यः समानशब्दोऽयम् इति च स्मरणात् । गोत्दादीनामप्युपाधित्वात् । सदित्येव शब्दार्थत्वप्रसङ्गात् ।
उपेत्यापि तूच्यते । सामान्यचोदनाया विशेषपरत्वाद्विशेष एव प्रति- पगमनीयम्, तदभावे उपाधित्वाऽनुपपत्तेः । न चाऽगृहीतं भेदकं भवितुमर्हति । न ह्यगृहीतविशेषणा बुद्धिरुदीयते । ननूपहिताभिधानमुपाधिप्रतीतिमपेक्षते, न तु स्वप्रतिपाद्यतामप्यस्येत्यत आह—अन्यस्य प्रत्ययहेतोरभावात् । उपहितवाचितेवाऽर्थात्प्रतिपाद्यत इत्यर्थः । न केवलमुपपत्तिः स्मरणमपि कातीयमत्रास्तीत्याह—तदन्तत्वात्तद्वाच्यः समानशब्दोऽयम् इति स्मरणात् । द्विविधोऽप्युपाधिरुपहितसमानाधिकरणस्तद्व्यधिककरणश्च । तद्यथा । दृतिहरिः पशुः, गार्गिकया श्लाघते इति च । तत्र यः समानशब्दः स समानाधिकरणोपाधिः स तदन्तवाच्यः प्रत्ययान्तवाच्यो दृतिहरिपश्वादिः । न त्वसमानशब्दोऽसमानाधिकरणो गार्गिकया श्लाघते इत्यादिः । न हि गार्गिकयेति श्लाधाद्यधिकारविहिते बुनि तदन्तेनाऽसगानाधिकरणः, गार्गिकया श्लाधाऽभिधीयत इत्यर्थः ।
स्यादेतत् । अनन्यलभ्यः शब्दार्थ इति स्थितिः । उपाधयश्चाऽन्यतो लभ्या न वाच्या भवितुमर्हन्ति । कुतः ? प्रयोगादेव लौकिकात् । तथा हि । दृतिहरिशब्दं पशावेव प्रयुञ्जते वृद्धाः नान्यत्र । तत्प्रयोगनियम एव कुतः ? इति चेत् । न । अनादित्वेन लोकप्रयोगस्याऽपर्यनुयोज्यत्वात् । तस्मात्तटस्था एवोपाधयो न पुनरभिधाविनिवेशिन इत्यत आह—गोत्वादीनामप्युपाधिकत्वात् । सदित्येव शब्दार्थत्वप्रसङ्गात् । यद्यपर्यनुयोज्यादेव लौकिकात्प्रयोगनियमादवगतेरशब्दार्थत्वम्, हन्त गोत्वादीनामप्यशब्दार्थत्वं स्यात्, सत्तैव गवादिशब्दानामर्थः प्रसज्येत । सत्तामात्रप्रवर्त्तिनामपि तेषां प्रयोगनियमादेव गोत्वादिषूपाधिसिद्धेः । तथा चाऽन्याय्यमनेकार्थत्वं तन्न भविष्यति । न वा सत्तामप्यभिदध्युः, प्रयोगनियमादेव सापि गंस्यते, ततश्च सर्वेषामेव शब्दानामवाचकत्वप्रसङ्गः । अनादिरपि वृद्धप्रयोगोऽर्थप्रत्ययनार्थत्वात् तत्प्रयुक्तस्तदप्रत्यायने पर्यनुयोज्यः । न हि प्रयोक्तव्यः शब्द इत्येव प्रयुञ्जते वृद्धाः, अपि त्वर्थ प्रत्याययितुम् । तद् गोत्वादिषु गवादिशब्दप्रयोगनियमस्तदभिधायकत्वादुपपन्नो नाऽन्यथेति । तर्हि समानमेतत् उपाधिषु सर्वेष्वत्यत्राऽभिनिवेशात् । न च लिङादिषु प्रयोगनियमोऽप्यस्ति । एतेन पङ्कजादिषु योगरूढिरूपपादिता । न चाऽसमानाधिकरणेषूपाधिषु वाच्यत्वप्रसङ्गः । तत्र श्लाघादिवाचिनां शब्दान्तराणां सदैव प्रयोगप्रसङ्गात् । न हि गार्गिकयेत्येतावन्मात्रं प्रयुञ्जते
पाद्यः । स च यः कश्चित्सर्वो वा कश्चिदेव वा । सर्वथा तु विशेषप्रत्यस्तमयेन सामान्यबोधो ऽर्थवान् । तत्रेष्टतच्छक्त्यनपेक्षाणामभिप्रायमात्राऽनुविधायिनां तदपेक्षाणां च तदानुकूल्यमपेक्षमाणानां प्रवृत्तिहेतुवः प्रेषणाऽध्येषणाऽभ्यनुज्ञा अपुरुषबुद्धिप्रभवाया न प्रतिपाद्याः । न मोहादयो बोधविरोधात् । ते हि प्रतिपाद्यमाना अप्रवृत्तिहेतव इति प्रवर्त्तनाऽवबोधो मोहप्रतिपादनात् विहन्येत । विपर्य्यय एव स्यात् । नेष्टता कर्म्मणि, प्रत्यक्षविरोधात् । इष्टसाधनतामपि चेन्न गमयेदप्रतिपादकतैव स्यात् । सामान्यबोधस्य विशेषप्रत्यस्तमयेऽनर्थकत्वान्मिथ्यात्वापातात् । तस्य च हेतुद्वयाभावे ऽयुक्तत्वात् ।
वृद्धाः, तन्मात्राद्वा श्लाघां प्रतिपद्यन्ते । तस्मादुपदेशादयस्तच्छीलादयश्चोपाधयो वाच्याः । अन्यथातिप्रसङ्गादित्यभ्युपेत्यापि प्रवर्त्तनामात्राऽभिधानमुच्यते । सामान्यचोदनाया विशेषपरत्वाद्विशेष एत्र प्रतिपाद्यः । स च यः कश्चिद्यथा स्थाल्यामोदनं पचेदिति काचित् स्थाली सर्वो वा, अविशेषात् । यथा ब्राह्मणो न हन्तव्य इति ब्राह्मणमात्रम् । कश्चिदेव यथा पुरुषमानय, सुरा बोढव्येति शूद्रप्रतिपत्तिः । सर्वथा विशेषप्रत्यस्तमयेन सामान्यबोधो ऽर्थवान् । निर्विशेषस्य सामान्यस्याऽनुपपत्तेः । तदेवं प्रसक्ताऽऽज्ञादिव्युदासेन अन्यत्र च मोहादप्रसक्तेरुपदेशस्यैव शिष्यमाणस्य सप्रत्यय इत्याह— तत्रेष्टतच्छतत्यनपेक्षाणां प्रेषितुरध्येषितुर्बाऽभिप्रायमात्राऽनुविधायिनां प्रेष्याणाम् अध्येप्याणं वाऽवदपेक्षाणां च तदानुकूल्यमपेक्षमाणानामनुज्ञात्रमात्राभिप्रायज्ञानां प्रवृत्तिहेतवः प्रेषणाध्येषणाऽभ्यनुज्ञा अपुरुषप्रभावायाश्चोदनाया न प्रतिपाद्याः । मोहादीनामप्रसक्तिमाह—न मोहादयः प्रवृत्तिहेतवः । कुतः ? बोधविरोधात् । विरोधमाह—ते हि प्रतिपाद्यमाना अप्रवृत्तिहेतव इति प्रवर्त्तनाबोधो मोहप्रतिपादनाद्विहन्येत, विपर्यय एव स्यात् । निवृत्तिरेव प्रसज्येत, न जातु प्रामाणिकाश्चैत्यवन्दनादौ मायामोहविनिर्माणेऽवगते प्रवर्तन्ते प्रवृत्ता वा न निवर्त्तन्ते । अस्तु तर्हीष्टसाधनता प्रवृत्तिहेतुरित्यत आह—नेष्टसाधनता कर्मणि प्रवृत्तिहेतुः । कुतः ? प्रत्यक्षविरोधात् । इष्टसाधनतामपि चेन्न गमयेदप्रतिपादकतैव स्यात् । प्रत्यक्षविशेषप्रत्यस्तमये सामान्यस्याप्यभावादनर्थकत्वान्निर्विषयत्वान्मिथ्यात्वाऽऽपातात् । भवतु मिथ्यात्वम्, को विरोधः ? इत्यत आह तस्य च हेतुद्वयाऽभावे कारणदोषबाधकाप्रत्ययाभावेऽयुक्तत्वात् । अत्र च पारमर्ष सूत्रं योजयति—असाधकं तु तादर्थ्यादिति । तद्व्याचष्टे—भवेदसाधकं कर्म साधयितारं नाधिगच्छेत् । अनधिकारि स्यात् इत्यर्थः । अत्रैव हेतुमाह— तादर्थ्यात् । विवृणोति—प्रवर्त्तनामात्रार्थत्वात् विधिशब्दस्य प्रीतिसाधनत्वाऽनवगमात् । भवत्वनवगमः, तथापि किमित्यसाधकं कर्म ? इत्यत
तदुक्तम् । “असाधकं तु तादर्थ्या”दिति । भवेदसाधकं कर्म्म साधयितारं नाऽधिगच्छेदनधिकारी स्यादित्यर्थः । तादार्थ्यात्प्रवर्त्तनामात्रार्थत्वात् । शब्दस्य प्रीतिसाधनत्वाऽनवगमात् । प्रीत्यर्थत्वाच्च पुरुषप्रयत्नानाम् । अविशेषे तु प्रीतिसाधनत्वे सिद्धोऽधिकारः । सर्वविशेषप्रत्यस्तसमये चाऽसाधकं वाक्यं स्यात् अबोधकम् । अविशेषार्धत्वात्सामान्यचोदनायाः ।
ननूक्तं “प्रज्ञायते लिङादीनां व्यञ्जनीया प्रवर्त्तना प्रयोक्तृधर्म” इति । सत्यम् । आज्ञादिको नोपदेशः । ननूपदेशोऽप्यनुग्रहाऽभिप्रायात्मक इति न प्रयोक्तृधर्म्मतामतिवर्त्तते ।
नैतत्सारम् । उपदेशे प्रैषादिष्विव प्रवृत्तिहेतुत्वाभावादभिप्रायस्य । तथा हि—
आज्ञादौ कर्म्मशक्तेर्हि न ऽभिप्रायानुरोधिता ।
उपदेशे कर्म्मशक्तिमवबुध्य प्रवर्त्तते ॥
आज्ञाऽभ्यर्थनयोर्हि कर्म्मणः सामर्थ्यमनपेक्षमाणस्तद्विशेषमनाद्रिय- आह—प्रीत्यर्थत्वाच्च पुरुषप्रयत्नानाम् । प्रीत्यभावादिच्छाभावः सुखाऽनुशायित्वादिच्छायास्तदभावे प्रयत्नाऽभावः, वह्न्यभावैव धूमाभाव इति सामान्यवचनम् । अविशेषे तु प्रीतिसाधनत्वे सिद्धोऽधिकारः, सर्वविशेषप्रत्यस्तमये ऽसाधकं वाक्यं स्यादबोधकम्, अनवबोधकम् । कुतः ? अविशेषार्थत्वात् सामान्यचोदनाया निर्विशेषस्य च सामान्यस्याऽयोगान्निर्विषयत्वाऽऽपत्तेः । अत्रान्तरे पूर्वोक्तमाक्षेपं स्मारयति—ननूक्तमिति । प्रज्ञायते लिङादोनां व्यञ्जनीया प्रवर्त्तना । प्रयोक्तृधर्मो न णिचो यथानियतकर्तृकेति । प्रयोक्तुश्चोदनायामसम्भवान्नास्ति प्रवर्त्तनेत्यर्थः । तत्रांशे सिद्धसाधनतामाह—सत्यम्, आज्ञादिकः प्रयोक्तृधर्मो वेदे नास्त्येव, न तूपदेशः । चोदयति—ननूपदेशोऽप्यनुग्रहाऽभिप्रायात्मक इति न प्रयोक्तृधर्मतामतिवर्तते । तथा हि । महर्षयः स्वार्थमनपेक्षमाणाः परेषां हिताऽहितमाप्तिपरिहारलक्षणाऽनुग्रहाभिप्राया उपदेशं प्रणयन्तीत्युपदेशोऽपि प्रयोक्तृधर्म एवेत्यर्थः । परिहरति—नैतत्सारम् । कुतः ? उपदेशे प्रैषादिष्विव प्रवृत्तिहेतुत्वाऽभावात् अभिप्रायस्य । तथा हि ।
आज्ञादौ कर्मशक्तेर्हि नाऽभिप्रायाऽनुरोधिता ।
उपदेशे कर्मशक्तिमवबुध्य प्रवर्त्तते ॥
आज्ञाभ्यर्थनयोर्हि कर्म स्वसमीहितसिद्धिं प्रति सामर्थ्यमनपेक्षमाणो
त्वम् । सर्वशब्दानां ज्ञातार्थत्वप्रसङ्गात् ।
नन्वेवं प्रमेयैव स्याच्चोदना, प्रमाणं चेष्यते, चोदनालक्षणोऽर्थो धर्म इत्यभिधानात् । तस्माच्छब्देन प्रमाणात्मनाऽभिधेयः प्रवृत्तिप्रतिपत्तिकार्योन्नेयः क्रियाविषयः प्रतिपत्तृस्थः स्वयंसंवेद्यः प्रवुत्तिहेतुरथंश्चोदना । ऽत एव तद्विशेषं तस्य कर्मणः प्रयोजनविषयं विशेषमनाद्रियमाणः तदभिप्रायाऽनुरोधादेव किञ्चित्समीहमानस्तुष्टो ऽयमाज्ञापयिता किञ्चिदभिमतं मे करिष्यतीति समीहमानोऽभिप्रायानुरोधी प्रवर्तते । अनुज्ञानेऽपि यद्यपि क्रियाफलात् प्रवृत्तिः तथाप्यभिप्रायाऽऽनुकूल्यमपेक्षते । उपदेशस्याज्ञादिभ्योऽभिप्रायाननुरोधं विशेषमाह—उपपदेशे तु सत्यप्यनुग्रहाऽभिप्राये कर्मणः समीहितशक्त्याद्यभावे न प्रवर्त्तते । कर्मशक्तिं त्ववबुध्योपदेष्टुरप्रतारकत्वमात्रेण विप्रलम्भनिमित्ताऽभावमात्रेण हेतुना सत्यार्थाद्वचनादसत्यप्यनुपहाऽभिप्राये वक्तुः प्रवर्त्तते । तस्मादुपदेशप्रवृत्तेः प्रवृत्तिविषयसमीहितसाधनत्वभावानुविधानादभिप्रायाऽननुविधानाच्च नाऽनुग्रहाऽभिप्रायः शब्दार्थोऽभिमतसाधनतया तु कर्मणः शब्दार्थ इति साम्प्रतम् ।
शङ्कते—तत्प्रतिपादनमभिमतसाधनताप्रतिपादनं नाऽनुग्रहाऽभिप्रायमन्तरेण, तस्मादभिप्रायः शब्दार्थ इति चेत् । निराकरोति—न, मध्यस्थस्यापि प्रश्नादिदर्शनात् । प्रायेण खलु वरिंवसितोपसन्नो जिज्ञासुः पृच्छन्ननुग्रहाऽभिप्रायेणाऽऽचार्येणोपदिश्यते । मध्यस्थेन तु जिज्ञासुना पृष्टस्य मध्यस्यस्योपदेष्टुरुपदेशदर्शनाद् व्यभिचार इत्युपदेशो नाऽनुग्रहाऽभिप्रायः इति । मा भूद् व्यभिवारः, तथापि नाऽभिप्रायार्थता । न हि यं यं विनोपदेशो न भवति स सर्व उपदेशार्थोऽपि त्वनन्यलभ्यः । अन्यथा सर्वेषामेव शब्दानामर्थज्ञानाऽधीननिष्पतित्वात् ज्ञानर्थता स्यादित्याह—न चैव तावता शब्दार्थत्वप्रसङ्गः ।
अथ चोदयति—नन्वेवं सति समीहितसाधनतायाः प्रवर्त्तनात्वे प्रवर्त्तनैव चोदनेति तस्याः शब्दार्थत्वात्प्रमेयैव स्याच्चोदना, प्रमाणं चेष्यते, चोदनालक्षणोऽर्थो धर्म इत्यभिधानात् । उपसंहारव्याजेन पूर्वपक्षी स्वपक्षमाह— तस्माच्छब्देन प्रमाणात्मनाऽभिधेयः प्रवृत्तिप्रतिपत्तिकार्योन्नेयः क्रियाविषयः प्रतिपत्तृस्थः स्वसंवेद्यः प्रवृत्तिहेतुरर्थश्चोदना प्रमाणात्मनेति न मम पक्षे प्रतिज्ञाव्याघातः । प्रमाणात्मनैव शब्देनाऽभिधानाच्चोदनायाः प्रवृत्तौ या प्रतिपत्तिः सैव कार्यं तदुन्नेय इति सम्बन्धग्रहणसम्भवः क्रियाविषय इति क्रियायामस्य प्रवर्त्तकत्वमुपपन्नम् । प्रतिपत्तृस्थ इति । प्रतिपत्तुस्तन्निमित्तगोचरप्रवृत्तिप्रत्ययाधारत्वात् । स्वसंवेद्य इति । शब्दप्रभवायास्तदालम्ब
वार्त्तमेतत् । प्रव्त्तिहेतोर्वाक्यस्य चोदनात्वाभिधानाच्चोदनेति क्रियायाः प्रवर्त्तकं वचनमिति । यत्र चाऽस्य प्रामाण्यं शब्दस्यैव तत्रास्तु किमनेनान्तर्गडुना ? न हि तत्र शब्दस्य कश्चिद्विरोधः । पदार्थान्तरवत् प्रामाण्यमस्तु, व्यर्थ विशेषणाऽभिधानम् । क्व चाऽस्य प्रामाण्यम् ? विषये चेत् । न, प्रमाणान्तरसिद्धेः । अपूर्दस्यार्पि च संसर्गस्य लोकवत्तदभावेऽपि प्रतिपत्तेः । अदृष्टसाधनत्वे चेत् । शब्दस्यैवास्तु । शब्दकार्य्यत्वे चाऽव्युत्पन्नशब्दप्रवृत्तिः । शब्दज्ञाप्यत्वमन्यहेतुकस्याऽयुक्तमित्युक्तम् । अनुमानं च न स्वार्थप्रतिपत्त्या । तस्या
नायाः प्रतिपत्तेः स्वसंवेद्यत्वात्साऽपि तथेत्यर्थः । दूषयति—वार्त्तमेतत् । कुतः ? प्रवृत्तिहेतोर्वाक्यस्य चोदनात्वाऽभिधानात् । चोदनेति क्रियायाः प्रवर्त्तकं वचनमिति वचनाऽभिधेया चोदना वचनस्य चोदनात्वाभिधानं भाष्यकरीयं विरुध्यत इत्यर्थः । अपि च यत्र चास्य प्रामाण्यमभिधेयस्येष्यते शब्दस्यैव तत्रास्तु, किमन्तर्गडुना प्रमाणरहितेनाऽनेन ? शब्दस्यैव प्रमायां शक्तत्वात्609 । तस्य तु स्वरूपेणाप्यप्रतीयमानत्वात् । न हि तत्र शब्दस्य कश्चिद्विरोधः । यद्युच्येत प्रामाण्येन शब्दाऽभिहितस्य स्वाकाङ्क्षावशान्नियोज्या साधनेति610 कर्त्तव्यता संसर्गावऽगतिर्नाऽन्यथेति प्रमाणात्मना सा त्वभिधेय एषितव्येत्यत आह—पदार्थान्तरवत प्रामाण्यमस्तु, व्यर्थ विशेषाऽभिधानम् । तथैव हि क्रिया स्वपदेन प्रमाणत्वेनाऽनभिहिताऽप्याकाङ्क्षावशात्कारकेण योग्येन सन्निहितेनाऽऽत्मनः सम्बन्धमवगमयति एवं कारकमपि क्रियायाः स्थाल्यामोदनं पचति चैत्र इत्यादौ, तथाऽपमपि गमयिष्यतीति व्यर्थ प्रमाणत्वविशेषाऽभिधानमित्यर्थः ।
एवं तावदविचारितसिद्धं विषयं कृत्वोक्तम्, सम्प्रति विषयं विचारयति— क्व चास्य प्रामाण्यम् ? शङ्कते—विषये यागादौ चेत् । निराकरोति— न प्रमाणान्तरसिद्धेः । अथ पदार्थसंसर्गे प्रमाणान्तरादृष्टे, तत्राह— अपूर्वस्यापि संसर्गस्य तदभावे लोकवत्प्रतीतेः । लोके स्थाल्यामोदनं पचतीति क्रियाकारकसंसर्गस्य तदभावेऽपि भवदभिमतचोदनार्थाभावेऽपि प्रतिपत्तेः । अदृष्टसाधनत्वे611 यागादीनां श्रेयः साधनत्वे चेत् । निराकरोति— शब्दस्यैवास्तु । अपि चाऽर्थभेदः शब्देन क्रियते ज्ञाप्यते वा । शब्दकार्यत्वे अव्युत्पन्नशब्दप्रवृत्तिः । शब्दज्ञाप्यत्वमन्यहेतुकस्याऽन्यप्रमाणकस्याप्य
अलिङ्गत्दात् । लिङ्गफलत्वात् । अनवस्थानात् । न च विषयप्रतिपत्त्या, विषयशब्देभ्यस्तत्सिद्धेः । प्रवृत्त्याऽपि नात्मीयया । तदभावादितरेतराश्रयात् । प्रवृत्तिमेये शब्दवैयर्थ्यम् । शब्दमेये वृथा ऽनुमानम् । परप्रवृत्त्या ऽनुभिताद्विदितशब्दसङ्गतेः स्वयंशब्दादवबुध्य प्रवर्त्तत इति नोभयवैयर्थ्यमिति चेत् । न । परप्रवृत्त्या प्रवृत्तिहेतुमात्राऽवगमाद्विशेषाऽनिर्धारणात्तद-
युक्तमित्युक्तम् । अदृष्टवत्त्वे यागादीनां सम्बन्धसंवेदनाऽसम्भवात् । यद्युच्येत अनुमानचोदनाख्यमर्थभेदं गृहीत्वा तत्र शब्दस्य सम्बन्धो ग्रहीष्यत इति । तत्राह—अनुमानं च न स्वार्थप्रतिपत्त्या गृहीतसम्बन्धम् । लिङ्गदर्शनजं खल्वनुमानं भवति, ततश्च न प्रतीतिर्भवितुमर्हति । तस्या अलिङ्गत्वात् । प्रमाणफलयोश्चैकत्वाऽनुपपत्तेः । अथ स्वप्रतिपत्त्यैकया लिङ्गभूतया प्रतिपद्य प्रतिपत्त्यन्तरं चोदनाविषयं जनयिष्यति, ततो भेदाश्रये प्रमाणफलत्वे उपपत्स्येते इत्यत आह—अनवस्थानात् । लिङ्गभूतायाः प्रतिपत्तेरपि कारणान्तराऽभावात् स्वात्मप्रतिपत्त्यन्तरमेव कारणं वाच्यम् । एवं च तस्या अप्यात्मप्रतिपत्त्यन्तरमित्यनवस्थेत्यर्थः ।
यद्युच्येत भावार्थविषया प्रतिपत्तिर्लिङ्गमस्य भविष्यतीति, तत्राह— न विषयप्रतिपत्त्या चोदनानुमानम् । कुतः ? विषयशब्देभ्यस्तत्सिद्धेः । भावार्थरूपविषयप्रतिपत्तिसिद्धेः । अयमभिसन्धिः । न तावद्दृष्टस्वलक्षणमेतदनुमानम् । न हि विषयप्रतिपत्त्या क्वचिदपि चोदना दृष्टचरी । कस्मात् ? सामान्यतोदृष्टमनुमानमिन्द्रियादिवद्रूपाद्युपलब्धिलिङ्गकमेषितव्यं भवतु, तच्चाऽनुपपन्नम् । विषयशब्देभ्य एव विषयप्रतिपत्तिलक्षणस्य कार्यस्योपपत्तेरिति । प्रवृत्तेरिति चेत्, सा ऽप्यात्मीया परकीया वा स्यात्, तत्र प्रथमं कल्पमपाकरोति—प्रवृत्त्यानात्मीयया लिङ्गेन चोदनाऽनुमानम् । कुतः ? निमित्ताऽभावेन तदभावात् । चोदनाऽवगमनिमित्तत्वे वा इतरेतराश्रयात् । अथ प्रवृत्त्यनिमित्तान्तरजन्मनैव सोऽर्थोऽनुमीयते, तथा च नेतरेतराश्रयम् । तत्राह—प्रवृत्तिमेये वृथाऽनुमानम् । परप्रवृत्त्याऽनुमिताद् । विदितशब्दसङ्गतेः स्वयंशब्दादवबुध्य प्रवर्त्ततैति नोभयवैयर्थ्यमिति चेत् । शब्दस्य च प्रवृत्तिलिङ्गस्य चाऽनुमानस्य च न वैयर्थ्यमिति चेत् । निराकरोति—न, परप्रवृत्त्या कार्येण प्रवृत्तिहेतुमात्रावगमात् विशेषाऽनिर्धारणात् तन्मात्राभिधानप्रतीतेः । भवतु तन्मात्रप्रतीतिः, किं नश्छिन्नम् ? इत्यत आह—तन्मात्रप्रतीत्या प्रवृत्त्ययोगात् । यदि हि स्वात्मनि प्रवृत्तिहेतुविशेषः कश्चित्प्रतीतः स्यात् स एव प्रवृत्तिदर्शनात्परत्राप्यनुमीयते । न च विदितसङ्गतेः, शब्दात्तमवगम्य प्रवृत्तिरुपपद्येत, परमप्रवृत्तिमात्रलिङ्गके तस्मिंस्तद्धेतु
भिधानप्रतीतेः । तन्मात्रप्रतिपत्त्या प्रवृत्त्ययोगात् । न हि सर्वः सर्वस्य प्रवृत्तिहेतुः । अनन्यहेतुकस्वभावत्वाच्च । शब्दपूर्वयैव प्रवृत्त्याऽनुमानहेतुकमिति चेत् । अनुमानपूर्वकमेव शब्दात्प्रतीतेः किं नाऽनुमानप्रमाणक एव ?
अपि च नाऽदृष्टातिरिक्तः प्रवृत्तिहेतुरनुमीयते । तस्य पूर्वसिद्ध्यपेक्षत्वात् प्रवृत्तेः दृष्टैरपि हेतुभिमस्तदुनपत्तेः । प्रतिपत्राश्रितैश्च यैः प्रत्ययविशेष आश्रितः तैरालम्बनं वाच्यम् । अन्यप्रमाणकत्वं च समर्थ- त्वमात्रेणाऽनुमानात् । स्वरूपाऽनवगतेर्न प्रवृत्तिहेतुता शब्दाऽवगतस्यापि भवितुमर्हतीत्यर्थः । अथ सामान्यमात्रेणाऽवगतः प्रवृत्तिहेतुः कस्मान्न भवति ? इत्यत आह—न हि सर्वस्य सर्वः प्रवृत्तिहेतुः । न खल्वाज्ञादयो विशेषाः सर्वे सर्वं प्रवर्त्तयन्ति, अपि तु कश्चिदेव तद्विशेषावसाय एव प्रवृत्तिहेतुर्न सामान्यमात्रम् । तस्य सर्वत्राऽविशेषेण सर्वेषामाज्ञादीनां सर्वान्प्रति प्रवर्त्तकत्वप्रसङ्गादित्यर्थः । अपि च सम्बन्धसंवेदनाऽधीनप्रवृत्तित्वाच्छब्दस्य मानान्तरेण च सम्बन्धग्रहणमन्तरेण तदनुपपत्ते । मनन्यहेतुकस्वभावत्त्राच्च ।
शङ्कते—शब्दपूर्वयैव प्रवृत्त्याऽनुमानात् शब्दहेतुक इति चेत् । निराकरोति—अनुमानपूर्वमेव शब्दात् प्रतीतेः किं नानुमानप्रमाणक एव । अयमभिसन्धिः । यत्रार्थे येन प्रतिपत्रा गृहीतसङ्गतिः शब्दस्तमेव प्रतिपत्तारं तमर्थमवगमयति । स च सम्बन्धाऽवधारणसमयप्रवृत्तं तदर्थविषयमात्मनः प्रमाणं पुरोधाय प्रतिपत्ता शब्दादर्थमवगच्छतीति स्मारकं मन्यते परम् । तदिह यद्यनुमानात् गृहीत्वा प्रवृत्तिहेतुं सम्बन्धिनं गृहीतवान् नूनमस्या अप्यर्थोऽनुमानमेव पुरोधाय प्रतिपत्तव्यः स्यात् । तथा च तदनुवादता लिङः । न च लिङार्थाऽवगतिनिमित्तप्रवृत्तिहेतुकमनुमानं निमित्तमवगमं पुरोधाय वर्त्तत इति साम्प्रतम् । प्रतिपत्रन्तरस्थं हि तत् । न च प्रवृत्त्यन्तरस्थवोधं तद्विषयमपि प्रतिपवन्तरप्रतिपत्तिं पुनरुक्तयति, अतिप्रसङ्गात् । अत एवाह । अनुमानप्रमाणक एवेति । नात्राऽऽगमाऽवगमगन्धोऽप्यस्तीत्येवकारार्थः । प्रवृत्तिहेतुः प्रमाणान्तरदृष्ट एव स्वात्मनि परत्राऽनुमातव्यो न पुनः शब्दैकसमधिगम्योऽप्रतीतचर इत्याह—अपि च न शब्दाददृष्टाऽतिरिक्तः प्रवृत्तिहेतुरनुमीयते । तस्य तस्य पूर्वसिद्ध्यपेक्षितत्वात्प्रवृत्तेः । तस्य शब्दनिबन्धनप्रवृत्तिलिङ्गकस्याऽनुमानस्य प्रवृत्तेरित्यर्थः । मा भूदनुमानं शब्दान्तरप्रवृत्त्यन्यथानुपपत्त्या तु प्रवृत्तिहेतुरदृष्टपूर्वः कल्पयिष्यत इति चेत्, तत्राह—दृष्टैरपि हेतुभिस्तदुपपत्तेः । यच्चोक्तं प्रतिपत्तृस्थ इति । किमयं प्रत्ययोऽभिमतः, अर्थान्तरं वा तत् । य आहुः प्रत्यय इति, तान्
नीयम् । अर्थान्तरोपगमेऽपि नित्यत्वे सर्वः सर्वदा सर्वत्राऽधिकृतः स्यात् अप्रमाणकं च तत्, शब्दात्कस्यचित् क्वचिन्नियोगप्रतीतेः । अनित्यत्वेऽपि न शब्दः कार्य्य उक्तदोषत्वात् । निमित्तात्कामाद्वोत्पत्तौ कृतप्रयोगस्यापि प्रसङ्गः । यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात् प्रवृत्तिः स्यात् । तस्मात्पूर्व एव विधिः । तत्र
यागाऽनुरक्तो व्यापारो दृष्टहेतुर्न्न युज्यते ।
तत्परत्वेन शब्देन यदा स प्रतिपादितः ॥
प्रत्याह—प्रतिपत्राश्रितश्च यैः प्रत्ययविशेषैः आश्रितः तैरालम्बनं वाच्यम् । निरालम्बनत्वाऽनुपपत्तेः न च तदन्यदीहितोपायताया इति सिद्धं नः समीहितमिति ।
अनन्यप्रमाणकत्वं च समर्थनीयम्, न च शक्यं स्वसंवेदनसिद्धत्वादनुमेयत्वाद्वा । कल्पान्तरं विकल्प्य दूषयति—अर्थान्तरोपगमेऽपि नित्यत्वे तस्याविशेषेण सकलपुरुषाधारतया समर्थतया तद्विषयसाधारणतया सदातनतया च सर्वः सर्वदा सर्वत्राधिकृतः स्यात् । समर्थहेतुसद्भावे कार्यक्षेपाऽनुपपत्तेः । अप्रमाणकं च तत् । प्रमाणाऽभिमताच्छब्दादेव कस्यचित् क्वचिन्नियोगप्रतीतेः । अनित्यत्वेऽपि तन्नान्तरीयकत्वात्कार्यत्वस्य शब्दकार्यो वा नियोगो भवेत्, कामनिमित्तकार्यो वा । तत्र न शब्दकार्यः, उक्तदोषत्वात् प्रमाणत्वादित्यादिना । निमित्तात्कामाद्वोत्पत्तौ निमित्तकारकाऽविनाशेष्पि कार्याऽविनाशात् । कृतप्रयोगस्यापि तदस्तीति प्रसङ्गः ।
अथ न कामो निमितकारणम्, अपि तु कार्यैकार्थसमवायिकारणम्, तद्विनाशाच्च कार्य विनश्यति । तन्तुव्यतिषङ्गनाशादिव पटः, तत्राह— यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात् प्रवृत्तिः स्यात् । इदमत्राकूतम् । आत्मविशेषगुणत्वादयं नियोग आत्मनः संयोगाऽसमवायिकाकारणको बुद्ध्यादिवत् । न तु कामाऽसमवयिकारणः । निमित्तं त्वस्य कामः । तथा हितसाधनतैव विधिः । तथाप्यस्ति किञ्चिन्नमित्तकरणं यद्विनाशः कार्यविनाशहेतु, अपेक्षाबुद्धिविनाश इव द्वित्वादिविनाशस्य । तत्रेदमुच्यते—यावन्निमित्तमनुवृत्तौ कृतप्रयोगस्यापि प्रागुपभोगात्प्रवृत्तिः स्यात् इति । प्रकृतमुपसंहरति—तस्मात्पूर्व एव कर्तृसमीहितसाधनर्तव विधिः । तत्र च स्थिते तदनुगुणो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादीनां वाक्यार्थो वर्णनीयः । परमते तु तद्विपरीतं स्यादित्याह—
यागाऽनुरक्तो व्यापारो दृष्टहेतुर्न युज्यते ।
तत्परत्वेन शब्देन यदा स प्रतिपादितः ॥
यदि खलु यागानुरक्ते व्यापारे यागः साध्यात्मना भावाऽनुरञ्जकत्वेन गृह्यते तदा सन्निकृष्टस्तत्परः शब्देनोक्त इति इष्टहेतुतात्मा न तत्र विध्यर्थः समवेयात् । तस्याऽनिष्टत्वात् । तत्राऽविवक्षिते विधौ सफलस्य निष्फलस्य वा लोके कथञ्चित्प्रवृत्तिः स्यात् । तदुक्तम्—“असाधकं तु तादर्थ्याद्” इति । प्रीत्यर्थत्वात्पुरुषप्रयत्नानाम् । प्रीतिहेतुता तु विध्यर्थाऽसमवाये612 साधकं नाऽधिगच्छेदिति । अथैवं विधिसामर्थ्यादिष्टनिष्ठस्तथा सति धात्वर्थः करणम्, तन्नान्तरीयकताप्तितः । यदि तु विध्यविवक्षाहेत्वभावान्नार्थव्यापार-
यदि हि व्यापारयोगपरतया प्रतिपाद्येत शब्देन कार्यादिरिति यथा प्रथमः पक्षः, तदेष्टसाधनताव्यापारस्य विधिप्रत्ययगम्यस्य व्याहन्येत । तदेतत्प्रपञ्चयति—यदि खलु यागाऽनुरक्ते व्यापारे यागः साध्यात्मना भावानुरञ्जकत्वेन यागं कुर्यादित्यनेन रूपेण गृह्येत ततः स व्यापारस्तन्निष्ठः तत्परव्याख्येयाऽनुभाषणं शब्देन लिङोक्त इति हेतोरिष्टहेतुतात्मा न613 तत्र व्यापारो विध्यर्थः समवेयात् । अथ यागेऽपि साध्यात्मके को व्यापारस्येष्टहेतुताविरोधः ? अत आह—तस्य यागादेरनिष्टत्वात् दुःखं कर्मेत्यनुभवो614 लोकस्य । नन्वसत्यामप्युपदेशविवक्षायामाज्ञादौ यथा पुरुषप्रवृत्तिर्लोके तथा वेदेऽपि विनाऽप्युपदेशविवक्षाया भविष्यतीत्यत आह—तत्राऽविवक्षिते विधौ सफलस्य निष्फलस्य वा लोके कथञ्चिदनुविधेयपुरुषाऽऽशयवशात्प्रवृत्तिः स्यात् । अपौरुषये तु वेदे पुरुषाश्ऽशयाऽभावात् । तस्याप्रवर्त्तकत्वेऽपि विध्यविवक्षायां न प्रवृत्तिः स्यादिति मन्तव्यम् । विशेषविधिर्विशेषान्तरनिषेधहेतुत्वात् । यथा वामेनाऽक्ष्णा पश्यतीति दक्षिणाऽक्षिदर्शनप्रतिषेधो गम्यते । तत्रापि पारमर्ष सूत्रं योजयति । तदुक्तम् “असाधकं तु तादर्थ्यादि”ति । तद्विवृणोति—प्रीत्यर्थत्वात्पुरुषप्रयत्मानां प्रीतिहेतुता तु विध्यर्थाऽसमपाये सावयितारं नाऽधिगच्छेदिति । सुगमम् । यजेतेति समीहितसाधनतामात्रे विधिरवगम्यते । तथा यागस्य साध्यत्वम् । तद्यदि विधिर्विवक्ष्येत साध्यत्वं यागस्य हीयेत । न च साध्यत्वपरित्यागेन न विधिर्विवक्षितव्य इति विनिगमनायां हेतुरस्ति । द्वयोः श्रुतत्वेनाऽविशेषादित्यत आह—अथैवं विधिसामर्थ्यादिष्टाऽनिष्टस्तथा सति धात्वर्थः करणं तत्र नान्तरायकताप्तितः । विधिविवक्षायामपि यागस्य साध्यत्वप्रतिपत्तिरुपपद्यते । तस्य प्रागसिद्धेः साधितस्यैव साधनत्वेन साध्यत्वाक्षेपात्तद्भावस्य तन्नान्तरीयकत्वात् ।
स्तदा यागस्यानिष्टत्वात् तदन्यपरे प्रधानात्मनोऽनवकाशो यागः । प्रकारान्तरेणापि सावकाशतया विधेश्चानवकाशतया सामर्थ्यान्नान्तरीयकतया प्रतिपाद्यमानो विषयत्वं करणात्मना ऽन्वेति ।
न हीष्टपरो व्यापारस्तत्परो यागपरो वा इष्टपरः । एवं तावद्यजेतेति विधिवशात् फलाऽभिसम्बन्धः । यतश्च—
भावनाकर्मता पूर्वमिच्छारूपाऽवगम्यते ।
स्वर्गः सिद्धोऽपि तद्योगादतोऽन्वेति फलात्मना ॥
यो हि यदिच्छति स तत् करोतीति भावनायाः प्रारम्भ इच्छा ।
कारिकां व्याचष्टे—यदि तु विध्यविवक्षाहेत्वभावात् साधकाऽभावेनाऽर्थव्यापारः इष्टाऽनिष्टः तदा यागस्याऽनिष्टत्वात् यागादन्यदिष्टं तत्परे व्यापारे प्रधानात्मना यागो ऽविकाशो न भवति । नन्वनवकारत्वादेव समीहितपरतामपोद्य615 यागः प्रधानतयैव616 सम्भत्स्यतेऽन्यथा साध्यत्वाऽनुपत्तेरित्यत आह—प्रकारान्तरेणापि यागस्य साध्यतायाः सावकाशतया विधेश्चाऽनवकाशतयेष्टपरतैव व्यापारस्य युक्तेत्यर्थः । ननूभयथा ऽप्यनवकाशे विनिगमनायां को हेतुः ? इत्यत आह—सामर्थ्यात् । अनक्काशविधिप्रतीतिसामर्थ्यात् नान्तरीयकता वृत्त्या प्रतिपाद्यमानो विषयत्वं यागः करणात्मनाऽन्वेति । यद्यपि पुरुषप्रयत्नः समीहितोद्देशेन प्रवृत्तः तथापि यागादिकमगोचरयन्न समीहिताय कल्पत इति नान्तरीपकतया समीहितार्थप्रवृत्तप्रयत्नव्याप्यतालक्षणं साध्यत्वमतत्परे व्यापारे यागादेः सिद्धमित्यर्थः । ननु समीहितपरेऽपि व्यापारे यागपरत्वं कस्मान्न612 भवति ? इत्याह— न हीष्टपरो व्यापारः तत्परो यागपरः । यागपरो वा इष्टपरः । सकृच्छुतस्योभयपरत्वाऽदर्शनाल्लोके तन्मूलत्वाच्छब्दार्थसम्बन्धप्रतीतेरिति उपसंहरति—एवं तापद्यजेतेति विधिवशात्फलाऽभिसम्बन्धः । न केवलं विधिवशात्कर्मिसम्बन्धादपि स्वर्गादेर्भाव्यतेत्याह—यतश्च ।
भावनाकर्मता पूर्वमिच्छारूपाऽपगम्यते ।
स्वर्गः सिद्धोऽपि तद्योगादतो ऽन्वेति फलात्मना ॥
भावनाकर्मतायाः पूर्वरूपत्वमिच्छायां दर्शयति—यो यदिच्छति स तत्करोतीति भावनायाः प्रारम्भ इच्छा, तया भावनाप्रयत्न आरभ्यते,
तथा च तद्भावनासाध्यमिति सिद्धोऽपि स्वर्गादिस्तत्कर्म्मतया कर्मिसम्बन्धादिवौदनादिस्तत्साध्यात्मनैव भावनायामन्वेति नान्यथा । तदुक्तम् । प्रत्यर्थं चाभिसम्बन्धादिति617 । अर्थ्यमानं प्रति पुरुषव्यापार आभिमुख्येन सम्बथ्यते । अतोऽर्थनायोगात्स्वर्गादेस्तकर्म्मतया ऽभिसम्बन्धः । अन्यथाऽनन्वयात् । अतः केवलं यजेतेति फलापेक्षत्वात्स्वर्गादेरन्यथासमवायात् । तथा च सम्बन्धात्कर्म स्वर्गं प्रति साधनत्वेन गम्यते । कथं पुनः स्वर्गस्यान्यविशेषणस्य भावनाऽभिसम्बन्धः, तत्सम्बन्धे वा ऽन्यविशेषणत्वं कथं समासो वा ? न हि तदभिसम्बन्धरहितस्याऽन्यसम्बन्धसव्यपेक्षस्य वा भावनासम्बन्धः । गुणभूतस्य न हि समासो युज्यते ।
नैष दोषः ।
अर्थाद्विशेषणपरं सम्बन्धं याति दण्डपत् ।
तद्योगाच्चाऽन्यसम्बन्धे न समासः प्रदुष्यति ॥
इच्छापूर्वकत्वात्प्रयत्नस्य तत्कर्म इच्छाकर्म भावना वध्यमिति सिद्धोऽपि स्वर्गादिस्तत्कर्मतया इच्छाकर्मतया कर्मिसम्बन्धादद्वितीयासम्बन्धादिव ओदनादिस्तत्साध्यात्मनैव भावनायामन्वेति नाऽन्यथा ऽधिकृतविशेषणतया । अत्रैव पारमर्ष सूत्रं योजयति—तदुक्तं “प्रत्यर्थ चाऽभिसम्बन्धादि”ति । तद्विवृणोति— अर्थ्यमानं प्रति पुरुषव्यापार आभिमुख्येन सम्बध्यते, अतोऽर्थनायोगात्स्वर्गादेस्तत्कर्मतयैवाऽभिसम्बन्धः । अन्यथासिद्धत्वेऽनन्वयात् । उपसंहरति— अतो न केवलं यजेतेति फलाऽपेक्षत्वाद्विध्युपहिताया भावनाया अपि तु स्वर्गादेः कर्मियोगापादितसाध्यभावस्याऽन्यथासमवायात् । उपसंहरति— तथा च साध्यत्वेन सम्बन्धात्कर्मव्यापारः । स्वर्गकाम इति हि विशेषणशब्दात्स्वर्गोऽवगम्यते, स कर्थ भावनायां प्राधान्येन सम्बन्ध्यते ? सत्सम्बन्धे वा भावनाया अन्यविशेषणत्वं कथं समासो वा ? । सापेक्षत्वेनाऽसामर्थ्यात् । असामर्थ्यमेवाह—न हि तत्सम्बन्धरहितस्य पुरुषसम्बन्धरहितस्याऽन्यसम्बन्धसव्यपेक्षस्य वा भावनासम्बन्धः । प्रधानस्य त्वन्यसम्बन्धसापेक्षस्यापि समासो दृष्ट एव, यथा राजपुरुषः शोभन इत्यत आह—गुणभूतस्य न हि समासो युज्यते । परिहरति—नैष दोषः ।
अर्थाद्विशेषणपरः सम्बन्धं याति दण्डवत् ।
तद्योगाद्वाऽन्यसम्बन्धे न समासः प्रदुष्यति ॥
न खलु स्वर्गकामाऽन्वयनिरपेक्षः स्वर्गो भावनाऽभिसम्बन्धी, किन्तु स एव विशेषणप्रधानः सम्बन्धमुपाश्नुते । यथा दण्डी प्रैषानन्वाहेति दण्डप्रधानो दण्डी । तदभिसम्बन्धी तु तत्परस्वात्मना अविवक्षित एव । एवं च समासोऽप्युपन्नः । स्वतन्त्रस्य ह्यन्यसम्बन्धे तदसम्भवात् सापेक्षत्वात् समासो न स्यात् । तदभिसम्बन्धेन तु तद्द्वारा अन्यसम्बन्धे नैकार्थ्यभावो-
यदि हि पुरुषसम्बन्धनिरपेक्ष एव स्वर्गो भावनया सम्बध्येत ततः शाब्दी पुरुषान्वयप्रतीतिर्विरुध्येत । यदि वा पुरुषपरमेव स्वर्गकामपदं स्यात् ततो भावनया न स्वर्गः सम्बध्येत । न च तदुभयमस्तीत्याह—न खलु स्वर्गकामाऽन्वयनिरपेक्षः स्वर्गो भावनासम्बन्धी, येन शाब्दी पुरुषविशेषणप्रतीतिर्व्याहन्येत । किन्तु स एव विशेषणप्रधानः सम्बन्धमुपाश्नुते भावनायाम् । विशेष्यप्रधाने हि स्वर्गकामपदे स्वर्गः पुरुषवशेन भावनायां सम्बध्यते, विशेषणपरे त्वस्मिन्नाऽयं दोषः । क्व विशेषणपरत्वं दृष्टम् ? इत्यत आह—यथा दण्डो प्रैषानन्वाहेति दण्डप्रधानो दण्डी । यथा मैत्रारुणः प्रैषानन्वाहेति प्रैषाऽनुवचने मैत्रावरुणस्य प्राप्ते दण्डी प्रैषानन्वाहेति मैत्रावरुणलक्षणविशेष्यविधानाऽनुपपत्तेर्विशेषणस्य दण्डस्य चाऽप्राप्तेर्विधेयत्वात् तत्परो दण्डिशब्दः, तथेह यजेतेति भावनाक्षेपादेव भावयितुः प्राप्तेरविधेयत्वात् भाव्यविशेषापेक्षत्वाच्च भावनायाः स्वर्गस्य च पुरुषविशेषणस्याऽप्राप्तरूपतया कमिकर्मतया च भाव्यत्वार्हत्वादन्यतश्चाऽप्राप्तेस्तत्परा स्वर्गकामश्रुतिरिति रमणीयम् ।
ननु यदि विशेषणपरा स्वर्गकामश्रुतिः ततो विशेष्यसम्बन्धः स्वर्गस्य शब्दतो न प्रथेत चेत् नाऽस्य भावनासम्बन्धः, तत्परत्वादित्यत आह— तदभिसम्बन्धी तु तत्परो भावनासम्बन्धपरः, स्वात्मना विवक्षित एव, स्वपरतया विवक्षित एव । सम्बन्धो ह्यसम्बन्धविरोधी न पुनरन्यपरताविरोधीत्यर्थः । असमासप्रसङ्गं परिहरति—एवं च समासोऽप्युपपन्नः । एवं चेति । तदेव व्यतिरेकाऽन्वयाभ्यां विवृणोति—स्वतन्त्रस्य हि पुरुषसम्बन्धनिरपेक्षस्याऽन्यसम्बन्धे तदसम्भवात् पुरुषसम्बन्धाऽसम्भवात् समासो न स्यात् । समाससमये वाऽन्यसम्बन्धरहितोऽपि भावनासम्बन्धसापेक्षः स्वर्गः तथापि साऽपेक्षत्वात्समासो न स्यात् । न त्वेतदुभयमस्तीति । अन्वयमाह—तदभिसम्बन्धेन तु पुरुषसम्बन्धेन तद्द्वाराऽन्यसम्बन्धे सति नैकार्थीभावोपरोधो न विग्रहवाक्यार्थाऽभिधानसामर्थ्योपरोध इति । तस्माद्युक्तः समासः । यदि तु विशेष्याऽभिसम्बन्धद्वारेणापि क्रियामनुप्रविशद्विशेषणं सापेक्षमसमर्थमिति न समस्येत तत्सर्वमेव विशेषणं नाऽस्मिन्समासे
परोध इति युक्तः समासः । अन्यथा सर्वमेव विशेषणसमासं स्यात् । तस्य कार्यमसंस्पृशतो वैयर्थ्यात् । संस्पर्शे वा साऽपेक्षत्वात्समासो भवेत् ।
यत्त्वाख्यातार्थे साध्ये साध्यान्तराऽसमवाय इति । भावनायां तावद्रूपादेव तत्समवायः । तस्य भाव्यप्रधानरूपत्वात् । धात्वर्थेऽपि यदि तात्पर्य्येण भावनायाः साध्यत्वं तद्विधिनाऽपास्तम् । अथ भावनाविषयत्वमात्रं तत्कारणान्तरेष्वपि समानम् । उक्तं हि “करणं खलु सर्वत्र कर्तृव्यापारगोचरमि”ति । द्रव्यगुणशब्दार्थस्दरूपतो ऽपि निष्पाद्यस्य साधनत्वात् । सिद्धस्योपादानाऽभावात् । श्रुत्यैव भावनामनुरञ्जयतो यागादेस्तद्विशेष- सम्भवेदित्याह—अन्यथा सर्वमेव विशेषणमसमासं स्यात् । ननु किमित्यसमासम् ? भविष्यति हि किञ्चिद्विशेषणं यद्विशेष्यमात्रपरम्, तद्यथा नीलोत्पलमानयेत्यत आह—तस्य विशेषणस्य नीलादेः कार्यमानयनादिकमसम्पृशतो वैयर्थ्यात् । एवं हि यावदुक्तं भवति उत्पलमानयेति तथा चऽविशेषकरत्वात् कार्यवैयर्थ्य विशेषणरपस्येति उत्पलस्य प्रसज्येतेत्यर्थः । कार्यसंस्पर्शे वा विशेषणस्य सापेक्षत्वात्समासो भवन्मते भवेदिति ।
यच्च परिचोदितम्, आख्यातार्थे साध्ये साध्यान्तरस्य स्वर्गादेरसमवाय इति । तत्रेदं विकल्पनीयं—किं भावनायां साध्यायां साध्यान्तरस्याऽसमवाय उच्यते, आहोस्वित् धात्वर्थे साध्ये यागादौ ? तत्र भावनायां तावद्रूपादेव तत्समवायः साध्यसम्बन्धः । कुतः ? तस्या भाव्यप्रधानरूपत्वात् । भावना हि साध्यरूपापि भवितारं भाव्यमन्तरेणाऽनुपपत्तेः स्वभावादेव भाव्याऽपेक्षा । न ह्यस्ति सम्भवो यदुत्पादना च न चाऽन्यदुत्पाद्यमस्तीति । तस्मात्साध्याऽपेक्षायां न साध्यसम्बन्धो घटते । अथ धात्वर्थे साध्ये न साध्यान्तरसमवायः तस्यापि साध्यत्वं भावनायां तत्परत्वाद्वा फलार्थप्रवृत्तभावनाविषयत्वाद्वा । न तावद्भावना तात्पर्यरूपेण विधिबोधविरोधादित्याह—धात्वर्थे यदि तात्पर्येण भावनाया धात्वर्थस्य साध्यत्वं तद्विधिना ऽपास्तम् । अथाऽन्यार्थप्रवृत्तभावनाविषयत्वमात्रं तत्कारणान्तरेष्वपि परश्वादिषु समानम् । भवन्ति हि ते ऽपि द्वैधीभावोद्देशप्रवृत्तोद्यमननिपातनलक्षणव्यापारविषयाः । ते च कारणम् । एवं यागादयो ऽन्यार्थप्रवृत्तभावनाविषयतया साध्या अपि कारणतया साध्यान्तरैः सम्भन्त्स्यन्ते व्रश्चनादय इव द्विधाभवद्भिः काष्ठादिभिः । एतच्च न साधितमिहाऽन्यत्र सिद्धत्वादित्याह—करणं खलु सर्वत्र कर्तृव्यापारगोचर इति भावनाविवेके ।
णस्य प्रतीतेः । द्विविधत्वं त्वपूर्वभावाऽभावकृतम् । पुरुषप्रयत्नस्य यागाविषयत्वं स्वर्गेऽपि अविरुद्धम्, वृक्ष इव च्छेद्ये परशुविषयत्वम् । न च यागादेरव्यापारत्वम् । शब्दादेव तत्प्रतीते । ज्ञानप्रदीपानां चोत्पत्तेरपि
यच्च परिचोदयाँबभूवुः, आख्यातस्य करणार्थत्वे द्रव्यगुणशब्दाभ्यामविशेषः, सिद्धार्थत्वादिति, तत्राह—द्रव्यगुणशब्दार्थविशेषस्तु धात्वर्थस्य रूपतो ऽपि निष्पाद्यस्य साधनत्वात्प्रागसिद्धेः सिद्धस्योपादानाऽभावात् गोदोहनादीनां त्वन्यतः सिद्धार्थानां सतामुपादानादिति । न केवलं वस्तुतः शब्दतोऽप्यस्य साध्यत्वेनाऽवगतिः प्रकृत्यर्थतया नियतपूर्वप्रतीतकत्वेन स्वरूपविनिवेशेन साध्यरूपभावनानुरञ्जकतया तद्विशेषणत्वात्, शाबलेयादय इव गोत्वविशेषणत्वेन गाव इत्याह—श्रुत्यैव भावनां साध्यरूपामनुरञ्जयतो यागादेस्तद्विशेषणस्य भावनाया विशेषणस्य प्रतीतेः साध्यत्वाऽवगमः । न त्वेवं द्रव्यादौ भिन्नपदोपादाने तद्विशेषणत्वं तद्विनिवेशेन तदवच्छेदकतया न पुनर्भावनात्वसामान्याश्रयेणेति मन्तव्यम् । एवं च व्यापारावेशात् साध्यरूपप्रतीतेः साक्षात्पच्यर्थे करणभावः काष्ठादेरुपपन्नः काष्ठैः पचतीत्यादाविति सूचितं भवति ।
यद्यपि चोदितम्, सर्वाऽभिमतसाधनत्वेन कर्मणो गुणभावाद् गुणप्रधानभावेन द्वैविध्यं हीयेतेति, तत्परिहरति—द्विविधत्वं त्वपूर्वभावाऽभावकृतम् । सत्यप्यपेक्षितपरत्वे यत्रापूर्वभावस्तस्य प्राधान्यमाग्नेयादेः समिदादेश्च । यत्र तदभावस्तस्य गुणकर्मताऽवघातादेः प्रोक्षणादेश्च । नियमापूर्व तु नियमादेव न कर्मण इत्युक्तं वार्त्तिककृता ।
यच्चोक्तं वस्तुतो न भाव्यता स्वर्गादेः पुरुषप्रयत्नस्य यागादिधात्वर्थविषयत्वादिति, तत्परिहरति—पुरुषप्रयत्नस्य यागादिविषयत्वं स्वर्गेऽपि साध्ये ऽविरुद्धम्, वृक्षे इव च्छेद्ये परशुविषयत्वम् । यदि हि साक्षात्पुरुषव्यापारगोचरतया भाव्यं नेदानीं लोकप्रसिद्धभाव्यत्वानां द्वैधीभावादीनामपि भाव्यत्वं भवेत् । न हि तेऽपि साक्षात्पुरुषव्यापारविषयाः । अपि तूद्यम्यमाननिपात्यमानाः परश्वादय एव । न च ते भाव्याः, अपि तु तत्साधनम् । परशुविषयस्यापि पुरुषव्यापरस्य फलांशद्वैधीभावोद्देशेन प्रवृत्तस्तस्य भाव्यत्वं स्वर्गादीनामपि समानम् । तत्रापि स्वर्गाद्युद्देशेन पुरुषव्यापारस्य यागादिविषयस्यापि प्रवृत्तेः ।
यच्चोक्तमव्यापारा यागादयो न करणम्, न च भूतिरेषां व्यापार इति, तत्राह—न च यागादेरव्यापारत्वम् । कुतः ? शब्दादेः साधनतया प्रतीतेः । अन्यथा ऽन्यथाऽनुपपत्त्या तन्निर्वाहायाऽर्थापत्या ऽपूर्वाभिधानावान्तरव्यापार
व्यापारत्वाऽभ्युपगमात् । न च स्वर्गी नित्योऽत्यन्तमसत्त्वात् येनाऽशक्यः । उपायाज्ञानादिति चेत् ? अत एव स ज्ञाप्यते । न चावश्यकर्त्तव्यता-
परिकल्पनात् । कथं तदनाश्रित उपरतेऽपि कर्मणि तस्य व्यापार इति चेत्, तर्हि किमिदानीमाग्नेयाद्युत्पत्त्यपूर्वाण्याग्नेयादिभिः करणैरधिकाराऽपूर्वे जनयितव्ये न तेषामवान्तरव्यापाराः ? न हि तान्याग्नेयादिसमानकालानि, उपरतेष्वेव तेषु तेभ्यः परमाऽपूर्वोत्पत्तेः, दर्शपूर्णमासयोश्च सहभुवोः स्वरूपतो दर्शपूर्णमासाभ्यामित्यवगतसाधनभावनिर्वाहाय तदभिधानकल्पनायां तादर्थ्यात्तदसमवायितदाश्रिततया तदवान्तरव्यापारतया चाऽसिद्धमव्यापारत्वं यागादीनामपि । प्रपञ्चितं चैतन्न्यायपरीक्षायाम् ।
न च भूर्तिर्न व्यापारो ज्ञानप्रदीपादिषु दर्शनादित्याह—ज्ञानप्रदीपादीनां चोत्पत्तेरपि व्यापारत्वाऽभ्युपगमात् “तेन जन्मैव विषये बुद्धेर्व्यापार इष्यते” इत्यादिना । नन्वसिद्धस्य कथं भवनकर्तृत्वम् ? नाऽसिद्धम् । उपादानरूपेण सिद्धत्वात् । तन्तव एव पटोत्पादनप्रवृत्ताः पूर्वाऽपरीभूतसंयोगविशेषप्रचयशालिनस्तादर्थ्यादुपचारात् पट इत्युच्यन्ते । तेषां च तदुद्देशप्रवृतानां पटीभवनव्यापारस्य भवनमिति नाऽसिद्धस्य व्यापारः । द्विविधं च भवनांशाय ? । किं चिद्भावमात्राऽधीनजन्म यथा विज्ञानस्य ज्ञेयाऽभिव्याप्तिः । किं चिच्चोत्पन्नानां सतां पश्चात्सहकारिग्रामसमवधानोत्पादनम्, यथा चक्षुरादीनां रूपादिज्ञानम् । न ह्युत्पन्नमित्येव चक्षू रूपमीक्षते किं त्वर्थाल्लोकादिसहकारिप्रत्ययसमवधानात् । न हि निर्व्यापाराणां साधनतोपलब्धा । तत्र यत्कार्य येषां नैयत्याधीनं तस्मिञ्जनयितव्ये कश्चिदुत्पत्तिमान्प्रत्यक्षः परोक्षव्यापारोऽभ्युपेतव्य इति तद्योगात्तेषां साधनता । यत्पुनः स्वभावमात्राऽऽयत्तप्रभवं कार्य न तत्र व्यापारान्तरं समस्ति । न च निर्व्यापारस्य साधनतेति जन्मैव तत्र व्यापारोऽभ्युपेयते । तत्र चाऽस्य कर्तृत्वमुपपादितम् । न चोत्पत्त्यनन्तरमेव व्यापाराः फलं जनयन्ति । उत्पन्ने व्यापारे पूर्वसंयोगे विभागेन विनाशिते सत्युत्तरसंयोगीत्पत्तिरिति सर्वमवदातम् ।
यच्चोक्तं स्वर्ग कुर्यादित्यशक्योपदेश इति । तदनुपपन्नम् । द्विधा हि भवति क्रियाऽनर्हता ऽत्यन्तसत्त्वाद् गगनवद्, अत्यन्ताऽसत्वाद्वा तत्पुष्पवत् । न चैतदुभयमपि स्वर्गादौ समस्तीत्याह—न च स्वर्गो नित्यः अत्यन्तमसत्त्वाद्येनाऽशक्यः स्यात् । ननु मा भूदस्य स्वरूपाऽयोग्यता उपायाऽज्ञानात्त्वकरणीयो भविष्यतीति चोदयति—उपायाऽज्ञानादिति चेत् । परिहरति— अत एव स ज्ञाप्यते विधिना अतश्च ज्ञातोपायः शक्यो भविष्यतीति ।
प्रसङ्गः । फलांशेऽनुवादात्करणांशोपसंहाराच्च विधेः । दध्ना जुहोतीति यथा । फलविषयाया एव च प्रवृत्तेर्य्यागविषयत्वेन शब्दो हेतुरिति यागो विधीयते । न ह्यन्या पुरुषस्य कर्म्मणि प्रवृत्तिरन्या करणे । करण एव प्रवृत्तः फलप्रवृत्तो भवति । कर्म्मण्येव प्रवर्त्तमानः करणे प्रवर्त्तते । तदेवमर्थाऽवगमान्न वैयर्थ्यम् । नाप्यन्यत् प्रयोजनम् । स्वगेकामो यागं कुर्यादिति । यागनिष्ठे शब्दे तत्समवायादप्रमाणत्वाच्छ्रुतहानादश्रुतकल्पनाच्च । न च दृष्टमेव प्रयोजनमात्मप्रतिपत्तिः कर्म्मभिः कृतकाम-
यच्चोक्तमवश्यकर्तव्यताप्रसङ्गो विध्यधीनत्वात्पुरुषस्येति, तत्राह—न चाऽवश्यकर्तव्यताप्रसङ्गः । स्वर्गादेः फलाशेऽनुवादात्करणांशोपसंहाराच्च विधेः । अप्राप्तप्रापणस्वरसो हि विधिः सत्यपि भावनाविषयत्वे तत्सम्बन्धेन तमंशमस्या विधत्ते यो न प्राप्तः । प्राप्तश्च फलांशः । तस्मात्तदनुवादेनाऽप्राप्ते साधनांशे वर्तते । अत्रैव दृष्टान्तमाह दध्ना जुहोतीति । यथा होमभावनाविषयोऽपि विधिस्तस्या होमांशमग्निहोत्रं जुहोतीत्युत्पत्तिवाक्यसमधिगतमनूद्योपपादपरो भवति तथा ऽयमपोत्यर्थः ।
यच्चोक्तं प्रवृत्तिविषयो विधिः फलविषया चेत्प्रवृत्तिः फलं विधीयेत न यागो, यागविषया चेन्न फलमिति, अत्राह न वयमाचक्ष्महे न फलविषयेति, किन्तु तदुद्देश्यत्वात्कलविषयाया एव प्रवृत्तेः फलपरतया व्याप्यत्वेन यागविषयत्वमप्राप्तत्वाच्छाब्दो हेतुः प्रमाणमिति यागो विधीयते । नन्वेवं यागप्रवृत्तौ विधीयमानायां कुतः फलसङ्गतिः ? इत्यत्राह—न ह्यन्या पुरुषस्य कर्मणि फले प्रवृतिरन्या करणे । करणप्रवृत्त्या फलप्रवृत्तो भवति, तदेवाऽनेन फलं साधितं भवति । कर्मण्येव फले प्रवर्तमानस्तस्याऽन्यथासिद्ध्यसम्भवान्नान्तरीयकतया करणे प्रवर्तते । तस्मात्फलसम्बन्धादाधिवयाऽभावाद्यदानर्थक्यमापादितं पूर्वपक्षिणा तत्फलसम्बन्धोपपादनेनाऽपास्तगित्युपसंहरति—तदेवमर्थावगमान्न वैयर्थ्यम् । पूर्वपक्षैकदेशिनो मतमनुपपन्नमित्याह—नाप्यन्यदात्मज्ञानाऽधिकाराऽनुप्रवेशः प्रयोजनम् । कुतः ? भवन्मते स्वर्गकामो यागं कुर्यादिति यागकर्तव्यतानिष्ठे शब्दे तत्रैव तात्पर्यगमवायादप्रमाणत्वादात्मज्ञानाऽधिकाराऽनुप्रवेशस्य । तत्परत्वे वा श्रुतयागकर्त्तव्यताहानादश्रुतात्मज्ञानाऽनुप्रवेशकल्पनाच्च । ननु शब्दसमधिगम्यत्वे भवेदयं दोषः, दृष्टा त्वात्मप्रतिपत्तिः, कर्मणां प्रयोजनम्, इत्यत आह—न च दृष्टमेव प्रयोजनमात्मप्रतिपत्तिः कर्मभिः कृतकामनिवर्हणेन दान्तेन कामैरनागर्धितमनसा ऽऽत्मतत्त्वस्य सुप्रतययत्वात् । कृतव्याख्यानमेतत्पूर्वपक्षे । तत्र कथं कर्मविधयः कामं निबर्हयन्ति, किं तत्कामो
निबर्हणेन दान्तेन कामैरनागर्द्धितमनसाऽऽत्मतत्त्वस्य सुप्रत्ययत्वात् । यदि खलु कामनिबर्हणानि कर्म्माणि तैश्च कृती न प्रयोजनान्तरमपेक्षते कामी । तथा च तत्पर एव कर्म्मविधिरिति नान्यपरत्वे प्रमाणम् । न चाऽशास्त्रत्वम् । श्रेयोऽभिधायकत्वात् । श्रेयसः प्रीतिरूपत्वात्, प्रीतेश्च कामेषु प्रत्यात्मसंवेद्यत्वात् । न च भोगो निबर्हणम् । न हि कामानां तृप्तिरस्ति । अथ प्रवृत्त्यन्तरनिवृत्त्या, तत्रापि यदि कामी यागेन कुर्य्यान्नाऽन्येनोपायेन कामं को विशेषः कामपक्षे चेतसः कामनिवृत्ताया प्रवृत्तौ कथं च पक्षेऽप्यप्राप्तविधावन्यनिवृत्तिः618 ? । अथ कामी यागं कुर्य्यान्न कामम् ? दुर्ल्लभमर्थद्वयम-
पहारेण तदुपभोजकतया, आहोस्वित्प्रवृत्त्यन्तरोपदेशेन स्वाभाविकीभ्यः प्रवृत्तिभ्यो निवर्तनेन ? न तावदाद्यः कल्प इत्याह—यदि खलु कामनिवर्हणानि तदुपभोजकतया तैरेव कर्मभिः कृतकामैः कृती पुरुष इति न प्रयोजनान्तरमपेक्षते । अनाकाङ्क्षितं च न विधिना स्वीक्रियत इति । तथा च तत्पर एव स्ववाक्योपातकर्मपर एव कर्मविधिरिति अन्यपरत्वे प्रमाणं कामनाऽनपेक्षित्वात् । अस्य च तद्वैपरीत्यात् ।
तदुक्तं कामनापरत्वे शास्त्रव्यापतिरिति, तत्राह—न चाऽशास्त्रत्वम् । कुतः ? श्रेयोऽभिधायकः पदसमूहः शास्त्रमिति वृद्धाः । कामविधयश्च तथेत्याह—श्रेयोऽभिधायकेत्वात् नन्वापातत एव कमनीयानामनर्थपरिणामानां केन श्रेयः स्वभावतेत्यत आह—श्रेयसः प्रीतिरूपत्वात् । श्रेयो हि पुरुषप्रतीतिरिति लौकिकी प्रतीतिस्तदुपदेशः शास्त्रमिति लौकिकमेव । न चैते पर्यनुयोगिनः, येन न कामलोभमाद्रियेरन् । कामास्तु पशुस्वर्गादयो न प्रीत्यात्मान इत्याह— प्रीतेश्च कामेषु प्रत्यात्मसंवेद्यत्वात् । न च भोगो निवर्हणं सम्भवति । न हि कामानां स्वर्गादीनां तृप्तिरस्ति पुरुषस्य । कामानामिति सुहितार्थयोगे षष्ठी । तदूक्तं “न जातु कामः कामानामुपभोगेन शाम्यती”ति । “भोगाऽभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणा”मिति च । द्वितीयं कल्पमनुभाषते—अथ प्रवृत्त्यन्तरनिवृत्त्या । दूषयति—तत्रापि यदि कामी यागेन कुर्यान्नाऽन्येनोपायेन कामं को विशेषः कामाक्षेपे चेतसः कामनिवृत्तायां प्रवृत्तौ ? कथं च पक्षेण प्राप्तविधावन्यनिवृत्तिः618 ? न तावत्कामिनो विधेः पूर्वं कामोपायान्यागादिभेदानङ्गभेदप्रचयसाधनोपरागानधिगन्तुमीशते लौकिकानिव तुषविमोकादिहेतूनवघातादीन्, येन तेषां लौकिकैः कामोपायै
विशेषतः श्रौतलाक्षणिकादिकम्619 । यागाविधिपरत्वे न कामनिषेधः । कामनिषेधपरत्वे न यागविधिः । अर्थात्कामनिवृत्तिरुभयस्यापि असमवायात्620 । सर्वदृष्टार्थप्रवृत्तिविरोधे च कर्म्मविधिकृते ऽप्यपार्थकाः स्युः । दृष्टोपायसाध्यत्वात्तदर्थस्य । स्वाभाविकत्वाच्च फलोपभोगस्य स्वभाववाद एवाऽऽम्नायार्थश्छद्मना621 ऽऽश्रितः स्यात् । तस्मान्महद्दण्डपदमिदं दृष्टेनैव कर्म्मविधय आत्मज्ञानाधिकारमारोहन्तीति । नियोज्याऽनुशासनं शास्त्रस्येति ज्ञाननियोगोऽपि नियोज्याऽनुशासनमात्रमिति न तत आत्मप्रतिपत्तिः ।
र्विकल्पे सत्यवघातादिवत्पक्षे प्राप्तिः स्यात् । अभ्युपेत्य पक्षे प्राप्तिमेतदुक्तमिति मन्तव्यम् । अथ तु न कामसाधनतया यागो विधीयतेऽपि तु कामेभ्यो निवर्तयितुं कामिनं यागं कुर्वादित्येतावन्मात्रमित्याह—अथ कामी यागं कुर्यान्न कामम् । उतरम्—दुर्लभमर्थद्वयं विशेषतः श्रौतलाक्षणिकादिकम् । यागं कुर्यादिति श्रौते सम्भवति, न कामनिवृतिर्लाक्षणिकी युक्ता ऽश्रयितुमित्यर्थः । अथ शक्यतागेव दर्शयति—यागविधिपरत्वे न कामनिषेधः, कामनिषेधपरत्वे न यागविधिः । पीनो दिवा न भुङ्क्ते इति भोजननिषेधपरे वाक्ये ऽर्थादस्य भोजनं दोषा विहितं भवति तथेहाप्यर्थात्कामनिवृत्तिः । कुतः ? इह द्वयस्याप्यसमवायात् । पीनस्य दिवा भोजननिषेधो रात्रावभोजने दिवा भोजननिषेधो रात्रावभोजनेन सह न सम्भवतीत्यर्थाद्दोषा भुङ्क्ते इत्यवगम्यते । न पुनर्यागादयः कामनिवृत्तायां प्रवृत्तौ न सम्भवन्तीत्यर्थः । भवतु वोभयपरत्वं तथापि यागादिविधिभिः सर्वा एव दृष्टार्थाः प्रवृत्तय उपरुद्धा इति तत्साध्यानां ब्रीह्यादीनामसम्भवाद्यागादयो ऽपि न निवर्तेरन्साधनाभावादित्याह—सर्वदृष्टार्थप्रवृत्तिनिरोधे च कर्मविधिकृते ऽप्यपार्थकाः स्युर्दृष्टोपायसाध्यत्वात्तदर्थस्य यागादेः । अपि च यागादीनामफलसाधनत्वे सेवादेश्च व्यभिचारादहेतुः622 सुखदुःखादिरेव स्वाभाविकलौकायतिकाऽभ्युपगताम्नायार्थ इति वचनव्यक्त्यन्तरेणाऽभ्युपगतं भवतीत्याह—स्वाभाविकत्वाच्च फलभोगस्य स्वभाववाद एवाऽर्थादाम्नायार्थच्छद्मनाऽऽश्रितः स्यात् । उपसंहरति—तस्मान्महद्दण्डपदमिदं दृष्टेनैव कर्मविधय आत्मज्ञानाऽधिकारमधिरोहन्तीति । अपि चाऽधिकाराऽनभ्युपगमे नियोज्याऽनुशासनं शास्त्रत्वं शास्त्रस्य यागादिविधेरिति तेनैव न्यायेन ज्ञाननियोगोऽपि नियोज्याऽनुशासनमात्मज्ञानं कर्तव्यमित्येतावन्मात्रविधानपरमिति । तस्मात्फलं नाऽऽऽत्मप्रतिपत्तिरभिव्याप्तिः स्यात् ।
ज्ञानस्वभावादिति चेत् ? । विधिवैयर्थ्यात् । अवहन्त्यादिवदिति चेत् ? न नियमार्थत्वात् । न ज्ञानविशेषनियमः । पक्षेऽप्यप्राप्तेः । समारोपेण च सम्भवात् न तत्त्वपरिच्छेदः । तस्मान्नाऽसाधने धात्वर्थे ऽविकारसिद्धिः । साधनत्वं चास्य विधिरित्यक्तम् ॥ इति श्रीमहामहोपाध्यायमण्डनमिश्रविरचितो विधिविवेकः समाप्तः ॥ शङ्कते—ज्ञानस्वभावादिति चेत् । निराकरोति—विधिवैयर्थ्यात् । पुनः शङ्कते—अवहन्त्यादिवदिति चेत् । निराचष्टे—न, नियमार्थत्वादवहन्त्यादिविधेः । यद्युच्येत इहाप्यात्माऽवगतावात्मज्ञानं नियम्यत इति, तत्राह—न ज्ञानविशेषनियमः । कुतः ? पक्षेऽप्यप्राप्तेर्ज्ञानानन्तरं न खल्वात्मज्ञानादात्मप्रतीतिसम्भवः । आत्मज्ञाने च विधेये विपरीतस्याप्यात्मज्ञानत्वात्तस्यापि विधेयत्वसम्भवान्न तत्त्वपरिच्छेदः स्यादित्याह—समारोपेण सम्भवान्न तत्त्वपरिच्छेदः । उपसंहरति—तस्मान्नाऽसाधने धात्वर्थे ऽधिकारसिद्धिः623 । भवतु फलसाधनं धात्वर्थः, सिध्यतु चाऽधिकारः, तथापि किमायातं विधावित्यत आह—साधनत्वं चाऽस्य विधिरित्युक्तम् ॥
इत्याचार्यवाचस्पतिमिश्रविरचिता विधिविवेकटीका न्यायकणिका समाप्ता ॥
-
निवृत्त्योर्व्यर्थो [का॰ वि॰] । ↩︎
-
स्तान् प्रत्याह [का॰ वि॰] । ↩︎
-
यागादिमेवेति १ [पु॰] [पा॰] , [का॰ वि॰] । ↩︎
-
वर्त्तमानापदेशे तथा नोके इति २ [पु॰] [पा॰] । ↩︎
-
सन्न॰ [का॰ वि॰] । ↩︎
-
तदिदमुच्यते॰ २ [पु॰] [पा॰] । ↩︎
-
अभिधां भावनाम्॰ २ [पु॰] [पा॰] । ↩︎
-
इति सिद्धम्॰ २ [पु॰] [पा॰] । ↩︎
-
नन्वयमप्रमायाः २ [पु॰] [पा॰] । ↩︎
-
तथा भावात् प्रवृत्तिहेतुभूतमर्थं प्रमापयत एव प्रामाण्यात् २ [पु॰] [पा॰] । ↩︎
-
स विषयः २ [पु॰] [पा॰] । ↩︎
-
प्रभेदः २ [पु॰] [पा॰] । ↩︎
-
व्यापारः शब्दस्तद्बोधने इति २ [पु॰] [पा॰] । ↩︎
-
तस्याऽन्यत्रापि २ [पु॰] [पा॰] । [का॰ वि॰] । ↩︎
-
विहिताऽकरणमिति २ [पु॰] [पा॰] । ↩︎
-
कारकं [का॰ वि॰] । ↩︎
-
कारकोपलब्धिरेव २ [पु॰] [पा॰] । ↩︎
-
इत्ययुक्त १ [पु॰] [पा॰] । ↩︎
-
च॰ [का॰ वि॰] । ↩︎
-
स्वकार्यम् ३ [पु॰] , [पा॰] । ↩︎
-
ध्वनेरेवप्रवृत्ति [पु॰] [पा॰] । ↩︎
-
तर्हि ततः [का॰ वि॰] । ↩︎
-
अनुविधेयस्य पुंसोऽभिप्राय २ [पु॰] [पा॰] । ↩︎
-
पुरुषो योऽज्ञान २ [पु॰] [पा॰] । ↩︎
-
प्रायेण हि । ↩︎
-
कारकत्वात् २ [पु॰] [पा॰] । ↩︎
-
विशेषेण १ [पु॰] [पा॰] । ↩︎
-
भावेनोक्तेति २ [पु॰] [पा॰] । ↩︎
-
प्रसङ्गादिति [मू॰] [पु॰] [पा॰] । ↩︎
-
ज्ञानं प्रति, नास्ति २ [पु॰] । ↩︎
-
ता [का॰ वि॰] । ↩︎
-
धान ↩︎
-
चा [का॰ वि॰] । ↩︎
-
स्वतो न २ [पु॰] [पा॰] । ↩︎
-
काः [का॰ वि॰] । ↩︎
-
सर्वे एव शब्दाः २ [पु॰] [पा॰] । ↩︎
-
अव्युत्पन्नव्यु [का॰ वि॰] । ↩︎
-
न पुनरभिधानतः २ [पु॰] [पा॰] । ↩︎
-
अभ्यासादिश्लोकोत्तरार्द्धमिदं पादद्वयमिति प्रतिभाति । ↩︎
-
सः का॰ ↩︎
-
नमेव चार्थप्रतिपादन [का॰ वि॰] । ↩︎
-
तमाह [का॰ वि॰] । ↩︎
-
सिद्धार्थसम्बन्धम् २ [पु॰] [पा॰] । ↩︎
-
र्व [का॰ वि॰] । ↩︎
-
क्षी [का॰ वि॰] । ↩︎
-
ज्ञानापेक्षायाः । ज्ञानाऽपेक्षावधार्यते न तु ज्ञानापेक्षेष्वेव ज्ञापकत्वम् २ [पु॰] [पा॰] । ↩︎
-
दो [का॰ वि॰] । ↩︎
-
आश्रयति २ [पु॰] [पा॰] । ↩︎
-
त्तेरर्थापत्तिपरिक्षयात् । समभिव्याहृतेरिति हेतुं विवृणोति । प्रत्ययमात्रात् प्रकृतिमात्राच्चार्थप्रतीतेरनुपपत्तेः [का॰ वि॰] । ↩︎
-
ङीप् प्रत्ययः २ [पु॰] [पा॰] । ↩︎
-
तिङके नयः २ [पु॰] [पा॰] । ↩︎
-
धायकतां [का॰ वि॰] । ↩︎
-
प्रकृत्या सह २ [पु॰] [पा॰] । ↩︎
-
त्ययं [का॰ वि॰] । ↩︎
-
विशेषः तिध्यति २ [पु॰] [पा॰] । ↩︎
-
व्यवहारप्रवृत्तिरिति विशेषः २ [पु॰] [पा॰] । ↩︎
-
कार्यता २ [पु॰] [पा॰] । ↩︎
-
एव॰ [मू॰] [पु॰] ↩︎
-
तस्त्या [का॰ वि॰] । ↩︎
-
नां [का॰ वि॰] । ↩︎
-
क्रतूपकारकत्वेन विना २ [पु॰] [पा॰] । ↩︎
-
दवगते का॰ वि । ↩︎
-
लिङादेरेव भवेदिति चेत् २ [पु॰] [पा॰] । ↩︎
-
कारकात्वेन यत् २ [पु॰] [पा॰] ↩︎
-
भावनि ↩︎
-
र्थानु [का॰ वि॰] । ↩︎
-
तः [का॰ वि॰] । ↩︎
-
अत्रागमात् किमिति २ [पु॰] [पा॰] । ↩︎
-
चासौ [का॰ वि॰] । ↩︎
-
त्तावसमर्थस्य [का॰ वि॰] । ↩︎
-
गन्स्यते [का॰ वि॰] ↩︎
-
सम्बन्धाऽपेक्षणात् २ [पु॰] [पा॰] । ↩︎
-
र्थो [का॰ वि॰] । ↩︎
-
अधीनजन्मा २ [का॰ वि॰] । ↩︎
-
कार्यकरत्वात् [मू॰] [पु॰] [पा॰] । ↩︎
-
अनपेक्षितव्यापारत्वात् [मू॰] [पु॰] [पा॰] । ↩︎
-
तद्व्या का वि॰ । ↩︎
-
सितात् [का॰ वि॰] । ↩︎
-
रूपा आप्तस्य २ [पु॰] [पा॰] । ↩︎
-
एतस्मिन्नाप्ते प्रवर्तयितरि॰ [पु॰] [पा॰] । ↩︎
-
स्यानाप्त [का॰ वि॰] । ↩︎
-
तस्याः— [मू॰] [पु॰] [पा॰] । ↩︎
-
फलप्रवेदनीयसद्भावस्य २ [पु॰] [पा॰] । ↩︎
-
व्यापारभावः २ [पु॰] [पा॰] । ↩︎
-
अभिधाभिधयाभिधेया २ [पु॰] [पा॰] । ↩︎
-
छेदः २ [पु॰] [पा॰] । ↩︎
-
श्चेति [का॰ वि॰] ↩︎
-
त्वापातः [का॰ वि॰] । ↩︎
-
अधिवेदम् १ [पु॰] [पा॰] । ↩︎
-
मी न [का॰ वि॰] । ↩︎
-
तदपि॰ [मू॰] [पु॰] [पा॰] । ↩︎
-
र्थः [का॰ वि॰] । ↩︎
-
नान्तरीपकभावाऽभावात् २ [पु॰] [पा॰] । ↩︎
-
भेदे [का॰ वि॰] । ↩︎
-
त [का॰ वि॰] । ↩︎
-
तत्साधने २ [मु॰] [पा॰] । ↩︎
-
समर्थः [का॰ वि॰] । ↩︎
-
प्रवृत्तिसमर्थम् २ [पु॰] [पा॰] । ↩︎
-
त्रं च [का॰ वि॰] । ↩︎
-
प्रवृत्तिसमर्थः २ [पु॰] [पा॰] । ↩︎
-
कर्मनिष्ठा या १ [पु॰] [पा॰] [का॰ वि॰] । ↩︎
-
प्रवृत्तिर्ना [मु॰] [पा॰] । ↩︎
-
साध्यता २ [मु॰] [पा॰] । ↩︎
-
गगन तत् कुसु [मु॰] [पा॰] । ↩︎
-
उत्पादोपयोगिनी॰ [मू॰] [पु॰] [पा॰] । ↩︎
-
व्यम् [का॰ वि॰] । ↩︎
-
गगनतत्कुसुमादेः २ [पु॰] [पा॰] । ↩︎
-
अन्यत्र [का॰ वि॰] । ↩︎
-
चेत् कार्यम् २ [मु॰] [पा॰] । ↩︎
-
वी [मु॰] [पा॰] । ↩︎
-
न [मु॰] [पा॰] । ↩︎
-
शक्तः [मु॰] [पा॰] । ↩︎
-
धनमाच॰ [का॰ वि॰] । ↩︎
-
वाद्य [का॰ वि॰] । ↩︎
-
दृशिश॰ [का॰ वि॰] । ↩︎
-
च कुतः [का॰ वि॰] । ↩︎
-
दं [मु॰] [का॰ वि॰] । ↩︎
-
इन्द्रजालकार्यम् २ [पु॰] [पा॰] । ↩︎
-
प्रत्यक्षं च येन [का॰ वि॰] । ↩︎
-
विशेषस्य १ [पु॰] [पा॰] का॰ सं॰ । ↩︎
-
तन्त्वात्मकत्वम् २ [पु॰] [पा॰] । ↩︎
-
आश्रयो भवेत् २ [पु॰] [पा॰] । ↩︎
-
इति । तस्मात् सर्वमवदातम् २ [पु॰] [पा॰] । ↩︎
-
कटम् [मू॰] [पु॰] [पा॰] । ↩︎
-
वादित्वात् २ [पु॰] [पा॰] । ↩︎
-
अयमभिमतः २ [पु॰] [प॰] । ↩︎
-
व्यवस्थापनात् [मू॰] [पु॰] [पा॰] । ↩︎
-
लङादिषु [का॰ वि॰] । ↩︎
-
यज्यादि [मु॰] [पा॰] । ↩︎
-
लङाद्यर्थ इति १ [पु॰] [पा॰] । एदमग्रेपि । ↩︎
-
यज्या [ [मु॰] ] [पा॰] ↩︎
-
आर्च्छेत् २ [पु॰] [पा॰] ↩︎
-
विभक्तां [मु॰] [पा॰] । ↩︎
-
प्रवर्तकेन कर्त्रा। २ [पु॰] [पा॰] ↩︎
-
कल्पनातश्च। २ [पु॰] [पा॰] । ↩︎
-
इतरेतराश्रयत्वात्। २ [पु॰] [पा॰] । ↩︎
-
कामः [मू॰] [पु॰] [पा॰] । ↩︎
-
लिङन्तवाक्यार्थे। २ [पु॰] [पा॰] । ↩︎
-
सम्बन्ध्यभावः २ [पु॰] [पा॰] । ↩︎
-
सद्भावे च [मू॰] [पु॰] [पा॰] । ↩︎
-
हेतौ निमित्तेः २ [पु॰] [पा॰] । ↩︎
-
सम्बन्धः २ [पु॰] [पा॰] । ↩︎
-
अप्रतीतेस्तदर्थाऽप्रतीतेः । २ [पु॰] [पा॰] । ↩︎
-
सत्तासम्बन्धश्च। २ [पु॰] [पा॰] । ↩︎
-
कतिपयश्रवणकुहरचरः—२ [पु॰] [पा॰] । ↩︎
-
औत्सर्गिक—१ [पु॰] [पा॰] । ↩︎
-
अपवादो नापि। २ [पु॰] [पा॰] । ↩︎
-
कार्यमात्राऽवगमात्। २ [पु॰] [पा॰] । ↩︎
-
संविधाने। २ [पु॰] [पा॰] । ↩︎
-
हरत्वम् २ [पु॰] [प॰] । ↩︎
-
सम्प्लवते। २ [पु॰] [पा॰] । ↩︎
-
क्रियाकर्तव्यतानान्तरीयकत्वात् । अपूर्वकर्तव्यताया असाधनत्वाऽनुपपत्तेः । २। [पु॰] [पा॰] । ↩︎
-
विषयत्वम्। २ [पु॰] [पा॰] ↩︎
-
विशिष्टेन २ [पु॰] [पा॰] । ↩︎
-
सस्याधिगम २ [पु॰] [पा॰] । ↩︎
-
समुदायानाम् २ [पु॰] [पा॰] । ↩︎
-
अधिगतकरण २ [पु॰] [पा॰] । ↩︎
-
अतस्तदवच्छेदः [पु॰] [पा॰] । ↩︎
-
याचस्व २ [पु॰] [पा॰] । ↩︎
-
उपरममश्नुते २ [पु॰] [पा॰] । ↩︎
-
आत्मास्ति २ [पु॰] [पा॰] । ↩︎
-
तथापि २ [पु॰] [पा॰] । ↩︎
-
घटादयोऽप्यव्यापाराः २ [पु॰] [पा॰] । ↩︎
-
न मानान्तरा णां [मु॰] [पा॰] । ↩︎
-
पूर्वाऽवमर्शेन विना १ [पु॰] [पा॰] । ↩︎
-
यस्मिन् प्रतियोगिनि दृश्यं भवति २ [पु॰] [पा॰] । ↩︎
-
इत्यसमीचीनम् इति नास्ति [मू॰] [पु॰] । ↩︎
-
वस्त्वन्तरेत्यादि [मू॰] [पु॰] नास्ति । ↩︎
-
उपलम्भतः २ [पु॰] [पा॰] । ↩︎
-
तस्मादन्वभविष्यत् २ [पु॰] [पा॰] । ↩︎
-
न ह्यदृश्यो दृश्यमानः २ [पु॰] [पा॰] । ↩︎
-
तद्धर्म्य॰ २ [पु॰] [पा॰] । ↩︎
-
प्रयोगिनम् [मु॰] [पा॰] । ↩︎
-
साम्प्रतं घट २ [पु॰] [पा॰] । ↩︎
-
अपरः २ [पु॰] [पा॰] । ↩︎
-
तदुपलम्भवानेव मैत्रः २ [पु॰] [पा॰] । ↩︎
-
ग्रहणादियोग्यग्रहणं २ [पु॰] [पा॰] । ↩︎
-
अभावसाधनं २ [पु॰] [पा॰] । ↩︎
-
द्रव्यस्मरण २ [पु॰] [पा॰] । ↩︎
-
अधिगमात् २ [पु॰] [पा॰] । ↩︎
-
शक्त्य [मु॰] [पा॰] । ↩︎
-
दृश्ये २ [पु॰] [पा॰] । ↩︎
-
अन्यतमदेव १ [पु॰] [पा॰] । एवमग्रोऽपि । ↩︎
-
रूपस्य तदभावे [का॰ वि॰] । ↩︎
-
उपलम्भसाधनाऽभावात् २ [पु॰] [पा॰] । ↩︎
-
कथमपि हितं २ [पु॰] [पा॰] । ↩︎
-
आत्ममनःस्तोम १ [पु॰] [पा॰] । ↩︎
-
वस्तुतत्त्वाऽसाधकत्वात् २ [पु॰] [पा॰] । ↩︎
-
धूममहिषी २ [पु॰] [पा॰] । ↩︎
-
दैर्ध्यस्यो [मु॰] [पा॰] । ↩︎
-
भ्रमणे २ [पु॰] [पा॰] । ↩︎
-
अवगुणं २ [पु॰] [पा॰] । ↩︎
-
वर्तमानार्हता १ [पु॰] [पा॰] । ↩︎
-
प्रतिव्यक्ति २ [पु॰] [पा॰] । ↩︎
-
शिलाभेदस्य २ [पु॰] [पा॰] । ↩︎
-
ग्र [मु॰] [पा॰] । ↩︎
-
सत्त्वान्न [मु॰] [पा॰] । ↩︎
-
विशिष्टतत्त्व २ [पु॰] [पा॰] । ↩︎
-
अतत्त्वे २ [पु॰] [पा॰] । ↩︎
-
अयन्त्वाम्नायः २ [पु॰] [पा॰] । ↩︎
-
व्यापारतया २ [पु॰] [पा॰] । ↩︎
-
एष नियोगः २ [प॰] [पा॰] । ↩︎
-
नियोगत्वोपाधिमिति नास्ति २ [पु॰] वा॰ । ↩︎
-
नैमित्तिकं प्रयोगनिष्ठं २ [पु॰] [पा॰] । ↩︎
-
प्रवृत्त्योः २ [पु॰] [पा॰] । ↩︎
-
न पुनरिष्टकर्मतामात्रं २ [पु॰] [पा॰] । ↩︎
-
स्वरूपव्याहतेरतिप्रसङ्गात् २ [पु॰] [पा॰] । ↩︎
-
स्वर्गोपायो मे २ [पु॰] [पा॰] । ↩︎
-
काम्य २ [पु॰] [पा॰] । ↩︎
-
तन्निमित्तः २ [पु॰] [पा॰] । ↩︎
-
फलेच्छा २ [पु॰] [पा॰] । ↩︎
-
जातिरनुपादेयापि २ [पु॰] [पा॰] । ↩︎
-
उपायभूतः २ [पु॰] [पा॰] । ↩︎
-
इष्टार्थोऽन्वयो न नियोगार्थः २ [पु॰] [पा॰] । ↩︎
-
तदलक्षणेभ्यः २ [पु॰] [पा॰] । ↩︎
-
कर्तृभावाऽन्वयात् २ [पु॰] [पा॰] । ↩︎
-
असम्भवः २ [पु॰] [पा॰] । ↩︎
-
निषेशयतीति चेत् कथं २ [पु॰] [पा॰] । ↩︎
-
सिद्धः २ [पु॰] [पा॰] । ↩︎
-
कश्चाऽस्योपकारः २ [पु॰] [पा॰] । ↩︎
-
अर्थाऽवधारणस्य २ [पु॰] [पा॰] । ↩︎
-
विरोधिप्रत्यय २ [पु॰] [पा॰] ↩︎
-
भवि॰ [पु॰] [पा॰] । ↩︎
-
स्वामीभूत २ [पु॰] [पा॰] । ↩︎
-
विप्रकृष्टेन २ [पु॰] [पा॰] । ↩︎
-
व्यापकावगम २ [पु॰] [पा॰] । ↩︎
-
लोकस्येवाभावः [पु॰] [पा॰] । ↩︎
-
माणो न तत्सन्ततिपतितलक्षणात्मोपकार २ [पु॰] [पा॰] । ↩︎
-
त्माऽदर्शनं प्र॰ [पा॰] । ↩︎
-
स प्र॰ [पा॰] । ↩︎
-
सकर्तृकताम् २ [पु॰] [पा॰] । ↩︎
-
येन तन्नि प्र॰ [पा॰] । ↩︎
-
स्यावि प्र॰ [पा॰] । ↩︎
-
तन्मात्राऽनुबन्ध २ [पु॰] [पा॰] । ↩︎
-
तस्मात् अन्यथा प्र॰ [पा॰] । ↩︎
-
विरोधात् २ [पु॰] [पा॰] । ↩︎
-
इति चेत् २ [पु॰] [पा॰] । ↩︎
-
एकशरवृश्चिकादीति [पु॰] [पा॰] । ↩︎
-
निरत प्र॰ [पा॰] । ↩︎
-
स्वदि प्र॰ [पा॰] । ↩︎
-
तदीर्न्द्रियविषयजविषयत्वात्; प्र॰ [पा॰] । तदिन्द्रियजविषयत्वात् २ [पु॰] [पा॰] । ↩︎
-
विषयजाऽनपेक्षणे २ [पु॰] [पा॰] । ↩︎
-
नियत प्र॰ [पा॰] । ↩︎
-
समय प्र॰ [पा॰] । ↩︎
-
खल्वं प्र॰ [पा॰] । ↩︎
-
विशेषविशेषस्य भावविषयत्वात् २ [पु॰] [पा॰] । ↩︎
-
इन्द्रियविषयता २ [पु॰] [पा॰] । ↩︎
-
किञ्चिदि प्र॰ [पा॰] । ↩︎
-
तत्तास्पदमस्य प्र॰ [पा॰] । ↩︎
-
न्ताऽभे प्र॰ [पा॰] । ↩︎
-
तस्मान्नाऽभेदो नापि सादृश्यं पद्मरागस्येति २ [पु॰] [पा॰] । ↩︎
-
लक्षणाद्वा नाऽसिद्धम् २ [पु॰] [पा॰] । ↩︎
-
ज्ञप्तीनामप्यपह्नवप्रसङ्गात् । ↩︎
-
जनयति २ [पु॰] [पा॰] । ↩︎
-
एकप्रत्यय २ [पु॰] [पा॰] । ↩︎
-
इन्द्रियसम्बन्धमात्र २ [पु॰] [पा॰] । ↩︎
-
अपि तत्सम्बन्धवताम् २ [पु॰] [पा॰] । ↩︎
-
प्रसङ्गात् २ [पु॰] [पा॰] । ↩︎
-
अवस्थाऽवगतेरधिकारार्थत्वात् २ [पु॰] [पा॰] । ↩︎
-
विषयीकृते सर्वकायकारण २ [पु॰] [पा॰] । ↩︎
-
तेनोपायात् २ [पु॰] [पा॰] । ↩︎
-
किं प्र॰ [पा॰] । ↩︎
-
तत्कारीभावः प्र॰ [पा॰] । ↩︎
-
त्व प्र॰ [पा॰] । ↩︎
-
तद्धेतुना उपजायमाना जायन्ते २ [पु॰] [पा॰] । ↩︎
-
चेति प्र॰ [पा॰] । ↩︎
-
तस्मादनेकस्मादेकम् प्र॰ [पा॰] । तस्मादेकम् २ [पु॰] [पा॰] । ↩︎
-
कुसूलस्याद प्र॰ [पा॰] । ↩︎
-
वर्ती २ [पु॰] [पा॰] । ↩︎
-
सहकारिप्रत्यात प्र॰ [पा॰] । ↩︎
-
अङ्कुरत्वापत्तेः । २ [पु॰] [पा॰] । ↩︎
-
क्वचिदप्यन्तरे । प्र॰ [पा॰] । ↩︎
-
अपेक्षणीयत्वंविरुद्ध । प्र॰ [पा॰] । ↩︎
-
विज्ञानमनवयवेना । प्र॰ [पा॰] । ↩︎
-
न भावनाऽभावात्…न भवेदित्यन्तः पाठः नास्ति । ↩︎
-
लम्बनमात्मनश्च २ [पु॰] [पा॰] । ↩︎
-
आदधाति । २ [पु॰] [पा॰] । ↩︎
-
तत्प्रभावभ वना । [पु॰] [पा॰] । ↩︎
-
विशदाभस्याऽचेतसो । [पु॰] [पा॰] । ↩︎
-
लोलोचने । [पु॰] [पा॰] । ↩︎
-
चरणननलिनयोः । [पु॰] [पा॰] । ↩︎
-
धूम । १ [पु॰] [पा॰] । ↩︎
-
सम्भवाद । [पु॰] [पा॰] । ↩︎
-
मनाचरणं । [पु॰] [पा॰] । ↩︎
-
व्यवस्यान्ति । [पु॰] [पा॰] । ↩︎
-
कतिवय । [पु॰] [पा॰] । ↩︎
-
पतिताऽभूतार्थैः । [पु॰] [पा॰] । ↩︎
-
अनुमित । [पु॰] [पा॰] । ↩︎
-
कालतो । [पु॰] [पा॰] । ↩︎
-
द्युनुपलब्धेः । [पु॰] [पा॰] । ↩︎
-
श्रुतानुमित । ↩︎
-
यदाकारविषयं विज्ञानम् । २ [पु॰] [पा॰] । ↩︎
-
वैकल्यात् । [पु॰] [पा॰] । ↩︎
-
वर्तमानगोचरः—१ [पु॰] [पा॰] । ↩︎
-
न शुक्तिकेयम्—२ [पु॰] [पा॰] । ↩︎
-
मामर्थ्यात्—२ [पु॰] [पा॰] । ↩︎
-
स्मृतेर्वर्तमानावभासता “युक्ता । इत्येव”पाठोऽन्यत्र । ↩︎
-
तैमिरिमस्य । [पु॰] [पा॰] । ↩︎
-
कल्पनाधिकस्यापि । [पु॰] [पा॰] । ↩︎
-
मभूय । [पु॰] [पा॰] । ↩︎
-
मनससःस्वतन्त्रता । [पु॰] [पा॰] । ↩︎
-
स्वन्त्र्यं । [पु॰] [पा॰] । ↩︎
-
तमुदाचरप्रवृत्ति [पा॰] २ [पु॰] । ↩︎
-
धूमाऽदर्शनात् । [पु॰] [पा॰] । ↩︎
-
प्रमाणकस्य १ [पु॰] [पा॰] । ↩︎
-
रोचन्ते । [पु॰] [पा॰] । ↩︎
-
पपत्तेर्विप्रतिपत्ते । [का॰ वि॰] [पा॰] । ↩︎
-
लब्धिव्यवस्था । [पु॰] [पा॰] । ↩︎
-
विशेषे न । [पु॰] [पा॰] । ↩︎
-
प्रमाण २ [पु॰] [पा॰] । ↩︎
-
पार्थ्यते २ [पु॰] [पा॰] । ↩︎
-
प्रामाण्या [पु॰] [पा॰] । ↩︎
-
लिङ्गाद्यभावात् २ [पु॰] [पा॰] । ↩︎
-
लिङ्गाद्यपेक्षं । [पु॰] [पा॰] । ↩︎
-
शरीराद्यारम्भातेन । [पु॰] [पा॰] । ↩︎
-
संस्तुतात् । [पु॰] [पा॰] । ↩︎
-
दप्याहत । [पु॰] [पा॰] । ↩︎
-
लक्षणमपि [पु॰] [पा॰] । “अत्रटीकां विलोक्य पृथगनुमनादि, इत्यादि पाठः शोधनीयः । इति निवेदनम्मम—कृपाचार्यस्य । ↩︎
-
देवदत्तपुत्रो । [पु॰] [पा॰] । ↩︎
-
भूतवर्त्तमान । [पु॰] [पा॰] । ↩︎
-
गवादि । [पु॰] [पा॰] । ↩︎
-
अर्थक्रियायोगे २ [पु॰] [पा॰] । ↩︎
-
प्रमाणाऽव्यवहार्य्यपि । [पु॰] [पा॰] । ↩︎
-
प्रतीति। [मू॰] [पा॰] । ↩︎
-
आशुतरस्याशुतरविनाशित्वेन २ [पु॰] [पा॰] । ↩︎
-
अथ व्यभिचारः २ [पु॰] [पा॰] । ↩︎
-
इति स्थूलतयाऽनभिधाय दृषणान्तरमाह २ [पु॰] [पा॰] । ↩︎
-
सन्निकर्षप्रमाण २ [पु॰] [पा॰] । ↩︎
-
लिङ्गादितरथा २ [पु॰] [पा॰] । ↩︎
-
संस्पृष्ट इति २ [पु॰] [पा॰] । ↩︎
-
अपि स्वस्य स्वस्येति २ [पु॰] [पा॰] । ↩︎
-
तत्रेति २ [पु॰] [पा॰] । ↩︎
-
विसदृशानां पशुत्वम् । २ [पु॰] [पा॰] । ↩︎
-
भिद्यमानम् २ [पु॰] [पा॰] । ↩︎
-
बिम्बाकारज्ञानवादिनाम् २ [पु॰] [पा॰] । ↩︎
-
अलीकान्यतमभेदेति २ [पु॰] [पा॰] । ↩︎
-
विजातीय २ [पु॰] [पा॰] । ↩︎
-
तस्याशक्य॰ [पु॰] [पा॰] । ↩︎
-
ज्ञानाकारं बाह्यम्। २ [पु॰] [पा॰] । ↩︎
-
सामान्यमात्रके। २ [पु॰] [पा॰] । ↩︎
-
विचारास्पादत्वात् २ [पु॰] [पा॰] । ↩︎
-
अकीर्तिः २ [पु॰] [पा॰] । ↩︎
-
र्थ्याऽजन्य [पु॰] [पा॰] । ↩︎
-
दूरान्तरस्याऽतिरोहितत्वे च २ [पु॰] [पा॰] । ↩︎
-
अतीताऽनागतां च २ [पु॰] [पा॰] । ↩︎
-
नीलादिसन्निहितदेशकालं [पु॰] [पा॰] । ↩︎
-
भासेऽर्थे [पु॰] [पा॰] । ↩︎
-
प्रवृत्तत्वात् १ [पु॰] [पा॰] । ↩︎
-
यस्त्वज्ञा [पु॰] [पा॰] ↩︎
-
सदृशस्य । २ [पु॰] [पा॰] । ↩︎
-
न चरक २ [पु॰] [पा॰] । ↩︎
-
पुरुषै [पु॰] [पा॰] । ↩︎
-
रागमाधीनः [पु॰] [पा॰] । ↩︎
-
परिमाणादीनाम्॰ [मू॰] [पु॰] [पा॰] । ↩︎
-
प्रयत्नानामिति २ [पु॰] [पा॰] । ↩︎
-
निःशेषगन्तव्य [मू॰] [पु॰] [पा॰] । ↩︎
-
निरतिशयप्राप्तानां पात २ [पु॰] [पा॰] । ↩︎
-
कार्यन्ते [पु॰] [पा॰] । ↩︎
-
अभावात् [पु॰] [पा॰] । ↩︎
-
भूतवतो [पु॰] [पा॰] । ↩︎
-
कार्स्याणा [पु॰] [पा॰] । ↩︎
-
पभोगः । क्षेत्रज्ञानाम् [पु॰] [पा॰] । ↩︎
-
दूर्षायतु । ↩︎
-
ताऽबुद्धिमत् [पु॰] [पा॰] । ↩︎
-
तथा च पूर्वोक्तदोषप्रसङ्गः [पु॰] [पा॰] । ↩︎
-
सदाकारणतया च [पु॰] [पा॰] । ↩︎
-
सदाकारणतया । ↩︎
-
तेवक्षेत्रज्ञाः [पु॰] [पा॰] । ↩︎
-
स्वधर्मागृहीतान् [पु॰] [पा॰] । ↩︎
-
नार्हतया [पु॰] [पा॰] ↩︎
-
मन्योन्यं कुतः ↩︎
-
जलञ्जलिरीश्वरस्य [पु॰] [पा॰] । ↩︎
-
अधिष्ठितान्यनधिष्ठितानि २ [पु॰] [पा॰] । ↩︎
-
राजमूर्धा २ [पु॰] [पा॰] । ↩︎
-
छविनानुमानं २ [पु॰] [पा॰] । ↩︎
-
संवति [पु॰] [पा॰] । ↩︎
-
अदृष्टपरिका [पु॰] [पा॰] । ↩︎
-
परिपाकवदेवज्ञसंयोगात् २ [पु॰] [पा॰] । ↩︎
-
बहुला २ [पु॰] [पा॰] । ↩︎
-
वैगुण्येन २ [पु॰] [पा॰] । ↩︎
-
सर्ववित्त्व २ [पु॰] [पा॰] । ↩︎
-
प्रत्यक्षविलक्षणाः १ [पु॰] [पा॰] । ↩︎
-
नेति नास्ति [मू॰] [पु॰] [पा॰] । ↩︎
-
वा—१ [पु॰] [पा॰] । ↩︎
-
एहि, इति पाठान्तरम् । ↩︎
-
कुर्वीतेत्यर्थः [मू॰] [पु॰] [पा॰] । ↩︎
-
तदुत्पाद्यत्वात् १ [पु॰] [पा॰] । ↩︎
-
परिमाणतो वा स्वरूपती वा॰ [मू॰] [पु॰] [पा॰] । ↩︎
-
भविष्यत्त्वात् [मू॰] [पु॰] । ↩︎
-
अधिकर्तृणां [मू॰] [पु॰] [पा॰] । ↩︎
-
फलायातम् २ [पु॰] [पा॰] । ↩︎
-
इप्यते १ [पु॰] [पा॰] । ↩︎
-
तत्काल इत्याह २ [पु॰] [पा॰] । ↩︎
-
विरामः २ [पु॰] [पा॰] । ↩︎
-
आत्मनि किम् २ [पु॰] [पा॰] । ↩︎
-
पदार्थकः [मू॰] [पु॰] [पा॰] । ↩︎
-
तया [पु॰] [पा॰] । ↩︎
-
प्राचेतसादिप्रणीतान्मानिषादादिवाक्यात्तत्परतश्चास्मदादिप्रणीतस्य मा निषादादिवाक्यस्याभेददर्शनेपि च स्वतन्त्रताभावात् । ↩︎
-
सम्बन्धाद्वेदः-२ [पु॰] [पा॰] । ↩︎
-
प्रस्थानुमान । २ [पु॰] [पा॰] । ↩︎
-
दितिप्रतीतिः [मू॰] [पु॰] [पा॰] । ↩︎
-
त्माख्ये [मू॰] [पु॰] [पा॰] । ↩︎
-
विशिष्टम् [पु॰] [पा॰] । ↩︎
-
प्रमादि १ [पु॰] [पा॰] । ↩︎
-
मर्माप्त [मू॰] [पु॰] [पा॰] । ↩︎
-
परिहृतम् [मू॰] [पु॰] [पा॰] । ↩︎
-
कर्माप्रस्थित । ↩︎
-
असुखदुःखे १ [पु॰] [पा॰] । ↩︎
-
संयोगस्तत एवायं धर्मः २ [पु॰] [पा॰] । ↩︎
-
यद्यप्याद्या [मू॰] [पु॰] । ↩︎
-
चक्षुषो निमील्य डिण्डिधरोगम् २। [पु॰] [पा॰] । ↩︎
-
प्रज्ञा प्रतिभा [पु॰] [पा॰] । ↩︎
-
कर्तव्यताऽनुष्ठानं २ [पु॰] [पा॰] । ↩︎
-
इत्याह [पु॰] [पा॰] । ↩︎
-
दर्थम [पु॰] [पा॰] । ↩︎
-
प्रमाणम असविषयत्वान्न [पु॰] [पा॰] । ↩︎
-
निमित्तं शब्दः २ [पु॰] [पा॰] । ↩︎
-
कारण २ [पु॰] [पा॰] । ↩︎
-
भावना विना का॰ [पा॰] । ↩︎
-
व्यापाराभावेपि [मू॰] [पु॰] [पा॰] । ↩︎
-
पूर्वपक्षैकदेशी [पु॰] [पा॰] । ↩︎
-
स्वरप्रवृत्तिं कुरुते [मू॰] [पु॰] [पा॰] । ↩︎
-
आहारप्रीत्युपश्लेषाद्भावनादि [मू॰] [पु॰] [पा॰] । ↩︎
-
प्रयुक्तासु [मू॰] [पु॰] [पा॰] । ↩︎
-
प्रत्ययः [मू॰] [पु॰] [पा॰] । ↩︎
-
पूर्वपक्षै [पु॰] [पा॰] । ↩︎
-
सत्ताया । ↩︎
-
नीला [पु॰] [पा॰] । ↩︎
-
विज्ञानम् २ [पु॰] [पा॰] । ↩︎
-
व्यतिरेकि २ [पु॰] [पा॰] । ↩︎
-
समारोपितः इत्यारभ्य…स च इत्यन्तः पाठः का॰ [पु॰] नास्ति । ↩︎
-
सन्तानेऽप्यप्रवृत्ति २ [पु॰] [पा॰] । ↩︎
-
अनुमा…इत्यारभ्य तदिदमित्यन्तः पाठः का॰ [पु॰] नास्ति । ↩︎
-
भेदाभेदाभ्यां शक्ति इति पाठः का॰ [पु॰] नास्ति । ↩︎
-
भावं साधयतीति २ [पु॰] [पा॰] । ↩︎
-
त्वं [पु॰] [पा॰] । ↩︎
-
स्थूलाऽभावः २ [पु॰] [पा॰] । ↩︎
-
विस्पष्टाकृता स्यात् २ [पु॰] [पा॰] । ↩︎
-
सम्बन्धानपरमार्थः [पु॰] [पा॰] । ↩︎
-
विस्फुरिताक्षः [पु॰] [पा॰] । ↩︎
-
प्रवणे [पु॰] [पा॰] । ↩︎
-
अनुभवावसाने [पु॰] [पा॰] । ↩︎
-
भासतुम् [पु॰] [पा॰] । ↩︎
-
भेदाश्रयत्वात इति पाठान्तरम् । ↩︎
-
प्रमित्सितस्य सापेक्षः २ [पु॰] [पा॰] । ↩︎
-
स नामेदृशः २ [पु॰] [पा॰] । ↩︎
-
विज्ञानार्थं प्रति [पु॰] [पा॰] । ↩︎
-
तदपेक्षस्य [पु॰] [पा॰] । ↩︎
-
वृत्तिनिवृत्ति [पु॰] [पा॰] । ↩︎
-
व्युत्पत्तेर्सम्भवे [पु॰] [पा॰] । ↩︎
-
सर्वाणि कर्तव्यताभेदवन्ति २ [पु॰] [पा॰] । ↩︎
-
रनुत्पत्तेः [पु॰] [पा॰] । ↩︎
-
अनपेक्षितस्य। १ [पु॰] [पा॰] । ↩︎
-
अर्थमुपलभ्य २ [पु॰] [पा॰] । ↩︎
-
नैरर्थ्यम् २ [पु॰] [पा॰] । ↩︎
-
कर्तव्य। [मू॰] [पु॰] । ↩︎
-
प्रमित्यर्थ। [मू॰] [पु॰] । ↩︎
-
कर्तव्यतेव प्रतिपत्तिस्तद्विषयम्। २ [पु॰] [पा॰] । ↩︎
-
लङादयस्तु। १ [पु॰] [पा॰] । ↩︎
-
तथापि [मू॰] [पु॰] । ↩︎
-
शाब्दं ज्ञानं विधेयमित्याह—२ [पु॰] [पा॰] । ↩︎
-
विषयो [पु॰] [पा॰] । ↩︎
-
ज्ञानविषयाइति [मू॰] [पु॰] । ↩︎
-
तुल्यमेतत् । भूतार्थ २ [पु॰] [पा॰] । ↩︎
-
दृष्ट २ [पु॰] [पा॰] । ↩︎
-
संसर्गि [पु॰] [पा॰] । ↩︎
-
विरोध्ये [पु॰] [पा॰] । ↩︎
-
संसर्गाऽपरि [पु॰] [पा॰] । ↩︎
-
एकवृत्तित्वे [पु॰] [पा॰] । ↩︎
-
त एव तर्हि [पु॰] [पा॰] । ↩︎
-
नानपि [पु॰] [पा॰] । ↩︎
-
कारणभेदः [पु॰] [पा॰] । ↩︎
-
कार्यभेद [पु॰] [पा॰] । ↩︎
-
रूपमेव प्रतीत्यरूपविज्ञाने [पु॰] [पा॰] । ↩︎
-
ग्रहाणधीन [पु॰] [पा॰] । ↩︎
-
गम्येऽनैकत्राप्येकता [पु॰] [पा॰] । ↩︎
-
यार्थस्य [पु॰] [पा॰] । ↩︎
-
कर्त्तव्यमिति [पु॰] [पा॰] । ↩︎
-
तद्विपर्ययतेतयोः [पु॰] [पा॰] । ↩︎
-
कर्तव्यफल इति २ [पु॰] [पा॰] । ↩︎
-
समीहितोपायो विश्वजिदिति [मू॰] [पु॰] [पा॰] । ↩︎
-
त्रोपक्षणः [पु॰] [पा॰] । ↩︎
-
उपबध्यते। [मू॰] [पु॰] [पा॰] । ↩︎
-
श्रुतिः— [मू॰] [पु॰] [पा॰] । ↩︎
-
स्वर्गादि। [मू॰] [पु॰] ↩︎
-
किं चिदेव रूपम् [मू॰] [पु॰] [पा॰] । ↩︎
-
अवरुध्यते [मू॰] [पु॰] [पा॰] । ↩︎
-
प्रकारोपकार १ [पु॰] [पा॰] । ↩︎
-
तमेव प्रतिविदधातीति [मू॰] [पु॰] [पा॰] । ↩︎
-
प्रागेव तु प्रति २ [पु॰] [पा॰] । ↩︎
-
करणोपकारस्य २ [पु॰] [पा॰] । ↩︎
-
निमित्तवतोऽधिकारात् २ [पु॰] [पा॰] । ↩︎
-
विषयं स्वनिष्ठमेव २ [पु॰] [पा॰] । ↩︎
-
अप्रसिद्धेः [पु॰] [पा॰] । ↩︎
-
विषयत्वाभावेन [पु॰] [पा॰] । ↩︎
-
नेति नास्ति [मू॰] [पु॰] । ↩︎
-
अत्र॰ [मू॰] [पु॰] [पा॰] । ↩︎
-
विषयस्याऽनपायात् [पु॰] [पा॰] । ↩︎
-
सर्वाङ्गोपसंहारम् [पु॰] [पा॰] । ↩︎
-
स्वाभाविकम् [पु॰] [पा॰] । ↩︎
-
विषयाभावात् [पु॰] [पा॰] । ↩︎
-
अनङ्गत्वमेव २ [पु॰] [पा॰] । ↩︎
-
नैमित्तिकस्य काम्येऽपि २ [पु॰] [पा॰] । ↩︎
-
अङ्गशक्तिवैकल्ये २ [पु॰] [पा॰] । ↩︎
-
सङ्गृह्य [मू॰] [पु॰] [पा॰] । ↩︎
-
कामनात्रयोपपत्तेः [मू॰] [पु॰] [पा॰] । ↩︎
-
श्रद्धा॰ [मू॰] [पु॰] । ↩︎
-
अधिकारनियोगं प्रति॰ २ [पु॰] [पा॰] । ↩︎
-
उपगृहीतविधिविषयेषु॰ [पु॰] [पा॰] । ↩︎
-
तत्र कॢप्तम् [मू॰] [पु॰] । ↩︎
-
उपकारः—२ [पु॰] [पा॰] । ↩︎
-
उपकारौ—२ [पु॰] [पा॰] । ↩︎
-
अध्यवसायः २ [पु॰] [पा॰] । ↩︎
-
सामर्थ्यमधीयते २ [पु॰] [पा॰] । ↩︎
-
अनैमित्तिकं २ [पु॰] [पा॰] । ↩︎
-
मुधापि २ [पु॰] [पा॰] । ↩︎
-
न ह्यसौ [मू॰] [पु॰] । ↩︎
-
अनुरुध्यमानत्वाच्च न यदा २ [पु॰] [पा॰] । ↩︎
-
साध्यसाधना॰ २ [पु॰] [पा॰] । ↩︎
-
अधिकारी २ [पु॰] [पा॰] । ↩︎
-
न चासौ तादृशे २ [पु॰] । ↩︎
-
अनन्योपायकत्वात्तस्योपायस्य न॰ २ [पु॰] [पा॰] । ↩︎
-
अधिकारः २ [पु॰] [पा॰] । ↩︎
-
विरोध इति भावः २ [पु॰] [पा॰] । ↩︎
-
प्रसङ्गः— [मू॰] [पु॰] [पा॰] । ↩︎
-
सायमाद्यनभ्युपगमेन वा॰ २ [पु॰] [पा॰] । ↩︎
-
तदा प्रयोगे १ [पु॰] [पा॰] । ↩︎
-
रेअद् निमित्तत्वं (अओ)। ↩︎
-
प्रसज्येत २ [पु॰] [पा॰] । ↩︎
-
विशेषणात् स्यान्निमित्तभावः २ [पु॰] [पा॰] । ↩︎
-
नाम क्रंसत॰ [पु॰] [पा॰] । ↩︎
-
सामग्र्यात् २ [पु॰] [पा॰] । ↩︎
-
अवस्थाविशेषा वा इति नास्ति २ [पु॰] । ↩︎
-
निमित्ते २ [पु॰] [पा॰] । ↩︎
-
वाक्यर्थभेद १ [पु॰] [पा॰] । ↩︎
-
विध्यर्थानुप्रवेशात्— [मू॰] [पु॰] [पा॰] । ↩︎
-
सम्बन्धनिबन्धनः २ [पु॰] [पा॰] । ↩︎
-
अन्याऽनायत्तप्रयुक्तः २ [पु॰] [पा॰] । ↩︎
-
नियोक्ष्यते २ [पु॰] [पा॰] । ↩︎
-
आम्नातमङ्गोपदेश २ [पु॰] [पा॰] । ↩︎
-
सामर्थ्यम् २ [पु॰] [पा॰] । ↩︎
-
अनन्यपरः— [मू॰] [पु॰] [पा॰] । ↩︎
-
क्वाचित्कोऽयं पाठ इति टीकाकारः । तन्मतेन सार्वत्रिकः पाठः—तत्र शब्दार्थं परित्यज्याऽन्यपरः शब्दः स च शब्दार्थीभूतो न पुनस्तत्परः । इतरेवाऽर्थात् इति शब्दवृत्त्यनुसारोऽन्याय्यः इति प्रतिभाति । ↩︎
-
पक्षीकारो । [मु॰] [पु॰] [पा॰] । ↩︎
-
नैकविधिवाक्य २ [पु॰] [पा॰] । ↩︎
-
अपायश्च तुल्यः २ [पु॰] [पा॰] । ↩︎
-
प्रत्ययाः २ [पु॰] [पा॰] । ↩︎
-
अज्ञातरूपकर्मज्ञानस्य २ [पु॰] [पा॰] । ↩︎
-
स्वर्गादि साध्यत्वादपेक्षितम् २ [पु॰] [पा॰] । ↩︎
-
ब्रीह्यपहिता २ [पा॰] । ↩︎
-
प्रोक्षणादेरेव १ [पु॰] [पा॰] । ↩︎
-
प्रतिपादनम् [पु॰] [पा॰] । ↩︎
-
अन्यत् २ [पु॰] [पा॰] । ↩︎
-
विध्यापादितम् २ [पु॰] [पा॰] । ↩︎
-
उभयविधं केवलादि २ [पु॰] [पा॰] । ↩︎
-
धर्मभावताम् २ [पु॰] [पा॰] । ↩︎
-
स्वस्वार्थम् २ [पु॰] [पा॰] । ↩︎
-
स चाशुतर २ [पु॰] [पा॰] । ↩︎
-
भिद्यमानोऽपि २ [पु॰] [पा॰] । ↩︎
-
निरूप्यते १ [पु॰] [पा॰] । ↩︎
-
अभिदधीत २ [पु॰] [पा॰] । ↩︎
-
य आहुतीः सप्त दशेति तु- [मू॰] [पु॰] [पा॰] । ↩︎
-
अतः २ [पु॰] [पा॰] । ↩︎
-
साधनत्वेन १ [पु॰] [पा॰] । ↩︎
-
तत्स्वरूप २ [पु॰] [पा॰] । ↩︎
-
हेतुकोऽपि भेदोपयोग इत्यर्थः २ [पु॰] [पा॰] । ↩︎
-
प्रसूत्या [मू॰] [पु॰] [पा॰] । ↩︎
-
पूर्वासंयोगी २ [पु॰] [पा॰] । ↩︎
-
लक्षणया च २ [पु॰] [पा॰] । ↩︎
-
पदार्थाऽनन्वयादन्ययार्हतया २ [पु॰] [पा॰] । ↩︎
-
विधिविधानम् २ [पु॰] [पा॰] । ↩︎
-
समाम्नानेन २ [पु॰] [पा॰] । ↩︎
-
विषयत्व २ [पु॰] [पा॰] । ↩︎
-
पृथगुपादानम् [मू॰] [पु॰] [पा॰] । ↩︎
-
रेअद् शेषिशेषत्वम् (अओ अन्द् एड़्)। ↩︎
-
रेअद् नियोगस्यानुपपत्तिः (अओ अन्द् एड़्)। ↩︎
-
रेअद् यथोक्तमस्माभिः (अओ अन्द् एड़्)। ↩︎
-
रेअद् कायवचनचेष्टा विशेषविधेः (अओ अन्द् एड़्)। ↩︎
-
रेअद् नानार्थः (अओ अन्द् एड़्)। ↩︎
-
अपदार्थत्वात्। [मू॰] [पु॰] [पा॰] । ↩︎
-
लोकप्रयोगस्य । ↩︎
-
अविनियोज्यत्वात् [मू॰] [पु॰] [पा॰] । ↩︎
-
समुदायाश्रयः २ [पु॰] [पा॰] । ↩︎
-
क्रमानुष्ठीनस्य [मू॰] [पु॰] [पा॰] । ↩︎
-
असम्बन्धेषु २ [पु॰] [पा॰] । ↩︎
-
व्यवधिमत्ता॰ [पु॰] [पा॰] । ↩︎
-
शक्तमपि [मू॰] [पु॰] [पा॰] । ↩︎
-
विधानेन [मू॰] [पु॰] [पा॰] । ↩︎
-
संयोगे इति पाठान्तरम् । ↩︎
-
सम्बन्धत्वेन, पुस्तकपाठः । ↩︎
-
अप्राप्ये [मू॰] [पु॰] । ↩︎
-
ष्येवं समवायात् [पु॰] पाठः । ↩︎
-
समर्थ्यते [पु॰] पाठः । ↩︎
-
प्रतीतः— [मू॰] [पु॰] [पा॰] । ↩︎
-
विरोधि [मू॰] [पु॰] [पा॰] । ↩︎
-
वर्णयतामिष्टः [मू॰] [पु॰] [पा॰] । ↩︎
-
शब्दादीनाम्, [मू॰] [पु॰] [पा॰] । ↩︎
-
तच्छीलानुषक्तम्, [मू॰] [पा॰] । ↩︎
-
प्रतिपन्नशक्तित्वात् २ [पु॰] [पा॰] । ↩︎
-
नियोगसाधन॰ २ [पु॰] [पा॰] । ↩︎
-
अदृष्टत्वे २ [पु॰] [पा॰] । ↩︎
-
अनिष्टत्वविमुखं कर्म २ [पु॰] [पा॰] । ↩︎
-
प्रवृत्तिहेतुता । [मू॰] [पु॰] [पा॰] । ↩︎
-
समीहितसाधनताम् २ [पु॰] [पा॰] । ↩︎
-
प्रधानपरतयैव २ [पु॰] [पा॰] । ↩︎
-
संयोगात् [मू॰] [पु॰] [पा॰] । ↩︎
-
लाक्षणिकात्मकम्— [मू॰] [पु॰] [पा॰] । ↩︎
-
उभयस्यापि असम्भवात्— [मू॰] [पु॰] [पा॰] । ↩︎
-
अर्थः शब्देन [मू॰] [पु॰] । ↩︎
-
चारहे॰ [पु॰] [पा॰] । ↩︎
-
न साधने धात्वर्थाऽधिकाराऽसिद्धिः— [मू॰] [पु॰] [पा॰] । ↩︎