इतिकर्तव्यताविधेर् यजतेः पूर्ववत्त्वम् ॥ MS_७,४.१ ॥
अनारभ्य किंचिच् छ्रूयते, सौर्यं चरुं1 निर्वपेद् ब्रह्मवर्चसकाम2 इति। तत्रैषो ऽर्थः समधिगतः, यागो ऽयं चोद्यत3 इति, यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एषां4 कर्मसंबन्धाद्5 इति। तथेदम् अप्य् उक्तम्, कर्मफलयोः संबन्धे कर्म गुणतः, फलं प्रधानत इति, प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धः, तस्मात् कर्मोपदेशः स्याद् इति। इदम् अपि चोक्तम्, यजिर् अपूर्वं साधयति। ततश् चापूर्वात् कालान्तरे फलं भवतीति, चोदना पुनर् आरम्भ इत्य् अत्र। एवम् एतस्मिन् सति सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम6 इत्य् अत्र सौर्ययागेनापूर्वं कृत्वा ब्रह्मवर्चसं साधयेद् ब्रह्मवर्चसकाम इत्य् एवं विज्ञायते। आह, यत्र तृतीयायुक्तो यजिः, तत्र युक्तो गुणभावाभ्युपगमः। यथा, ज्योतिष्टोमेन स्वर्गकामो यजेति7 इति। इह त्व् असत्यां तृतीयायां कथं तृतीयार्थो गम्यत इति। उच्यते, किम् अत्र तृतीयानिर्दिष्टेन यजिना कार्यम्। यदा स्वभावसिद्धः कर्मणां फलं प्रति गुणभावः। यत्राप्य् असौ श्रुतः, तत्राप्य् अकिंचित्कर एव, गतार्थत्वात्। तथा, यत्रापि द्वितीया श्रुतिः, यथाग्निहोत्रं जुहुयाद् इति, तत्रापि विभक्तिव्यत्ययो वा, ईप्सितत्वस्य8 वाविवक्षा कामं वानर्थक्यं स्यात्। न तु कथंचिद् अपि कर्मणः प्रति गुणभावः शक्यो ऽपह्नोतुम्। तस्माद् यागेनापूर्वसाधनम् अत्रोच्यते। तत्र यागो विज्ञायते। [५४]9 लौकिको ऽसौ पदार्थः। तेन तु कथम् अपूर्वं साध्यत इत्य् एतन् न विज्ञायते। इह तु यागेनापूर्वं साधयेद् इत्य् एतावद् एवोक्तम्। कथं साधयेद् इतीतिकर्तव्यता नोक्ता। येषां चार्थानां ज्ञायत एवेतिकर्तव्यता, तेषां कर्तव्यत्वमात्रम् उपदिश्यते, यथा, ओदनं पचेद् इति। येषां तु न ज्ञायते, ते सहेतिकर्तव्यतयैवोपदिश्यन्ते। यथा दर्शपूर्णमासौ। एवं चेन् नूनं ज्ञायते, यागेनापूर्वनिर्वृत्ताव् इतिकर्तव्यता यस्माद् उक्ता10 तस्मान् नूनम् असाव् अस्तीति। आह, यद्य् अस्ति लोके, ततो ज्ञायेतैव। अथ नास्त्य् एव, कथं शक्या ज्ञातुम् इति। उच्यते, बाढम् अस्ति, लौकिकी वैदिकी च। लौकिकी तावत् पार्वणस्थालीपाकादिषु, वैदिकी दर्शपूर्णमासादिषु। यदि तत्पूर्वा एताश् चोदनास् तदपेक्षाः, सौर्ययागेनापूर्वं साधयेत्, यथाज्ञातयेतिकर्तव्यतयेति, ततो युक्त इतिकर्तव्यताया अविधिः। न च विधीयते। अत इतिकर्तव्यताया अविधेर् यजतेः पूर्ववत्त्वं, विहितेतिकर्तव्यताकत्वम् इति।
अथ य आहुः, यजेत यागं कुर्याद् इति। जुहुयाद् होमं कुर्याद् इति। तेषां किं नैव धर्माकाङ्क्षा भवति। भवतीति ब्रूमः। यद्य् अपि प्रज्ञातेतिकर्तव्यतो11 यजिर् द्रव्यं देवतां प्रत्युत्सृज्यत इति। तथापि यदा फलार्थः क्रियते, तदा धर्मान् आकाङ्क्षति। न ह्य् अधर्मात्12 फलं भवति। कथं ज्ञायते। यो ह्य् अमेध्यं द्रव्यम् उच्छिष्टः शयानो वा प्रौढपादो वामेन हस्तेन वा पादेन यथाकथंचिद्13 देवतायै14 उत्सृजति, तस्य फलं न भवतीति शिष्टाः स्मरन्ति। यस् तु मेध्यं द्रव्यं शुचौ देशे प्रयतः प्राङ्मुखो दक्षिणेन हस्तेन समाहितमना [५५]15 मन्त्रवन् नियमवच् च देवतायै16 उत्सृजति, तस्य फलं भवतीति स्मरन्ति। तस्माद् यावान् यजतिः फलायाम्नायते, स सर्वो धर्मान् आकाङ्क्षति। अतस् तेषाम् अप्य् अस्ति धर्माकाङ्क्षा। सत्याम् आकाङ्क्षायां सन्निहितैर् धर्मैर् अविप्रतिषिद्धः संबन्धः प्रकृतौ, विकृतौ17 त्व् आनुमानिकैः।
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् ॥ MS_७,४.२ ॥
अधुनैवं चिन्त्यते, किम् अनियमो लौकिकी वैदिकी वेतिकर्तव्यता, उत लौकिक्य् एव, आहोस्विद् वैदिकीति18। अत्र विशेषाभावाद् अनियमे प्राप्ते। उच्यते, स लौकिकः स्यात्। स खलु कर्तव्यतोपायो लौकिकः स्यात्। कुतः। दृष्टप्रवृत्तित्वात्। दृष्टा ह्य् अस्य तत्र तत्र प्रवृत्तिः, यथा पार्वणस्थालीपाके, अष्टकाचरौ, आग्रहायणीयकर्मणि19, इत्य् एवं यत्र यत्र यागेनापूर्वं साध्यते, तत्र तत्रास्य प्रवृत्तिर् दृष्टा। अतो ऽन्वयाद् विज्ञायते, यागस्यापूर्वं साधयतो ऽयम् अभ्युपाय इति। अयं चापि यागः। तस्माद् अस्यापि स एवाभ्युपायः।
वचनात् तु ततो ऽन्यत्वम् ॥ MS_७,४.३ ॥
आह, किम् एष एवोत्सर्गः, सर्वत्र लोकिकीतिकर्तव्यतेति। एवं खलु प्राप्तम्। एवं प्राप्ते ब्रूमः, वचनात् तु ततो ऽन्यत्वम् इति। यत्र प्रत्यक्षं वचनं वैदिक्याः, तत्र न लौकिकी स्यात्, वचनसामर्थ्याद् वैदिकी एव स्यात्, यथोपसत्सु गृहमेधीये च।
[५६]20
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् ॥ MS_७,४.४ ॥
लिङ्गेन वेतिकर्तव्यता नियम्येत। कतरा। यस्या लिङ्गम्, वैदिक्याश् च लिङ्गम्। तस्माद् वैदिकी। किं पुनर् लिङ्गम्। सौर्ये तावच् चरौ श्रूयते, प्रयाजे21 कृष्णलं जुहोति22 इति। तथा, ऐन्द्रबार्हस्पत्ये, अर्धं बर्हिषो लुनाति, अर्धं न स्वयं दितम् अर्धं वेद्यां करोत्य् अर्धं न23 इति। तथा पितृयज्ञेन होतारं24 वृणीते नार्षेयम् इति। एतैर् लिङ्गैर् ज्ञायते वैदिकीतिकर्तव्यतेति। कथम्। तद्गुणत्वात्25। एते हि प्रयाजादयो वैदिकस्यापूर्वस्य गुणाः। यदि च तदीयेतिकर्तव्यता प्रवर्तिता, तत एतेषु कर्मस्व् एते सन्ति। तत्रैतानि वचनान्य् उपपद्यन्ते, प्रयाजे प्रयाजे कृष्णलं जुहोतीत्येवमादीनि। तस्माद् वैदिकीतिकर्तव्यता नियम्येत।
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः ॥ MS_७,४.५ ॥
अपि वा नैवं स्यात्, वैदिकीतिकर्तव्यतेति। यत् कारणम् एतैर् लिङ्गैर् न शक्यते वैदिकी नियन्तुम्। कुतः। अन्यायपूर्वत्वात्। न्यायपूर्वकं हि वचनं तत्साधकं भवति। न चैतानि न्यायपूर्वाणि। न हि वैदिक्याः प्रवृत्तिर् युक्ता, निबद्धा हि सा प्रकरणादिभिः कारणैर् दर्शपूर्णमासादिषु। कथं तर्ह्य् एतानि लिङ्गानि। उच्यते, यत्र नित्यानुवादवचनानि स्युः। इह तावद् अर्धं बर्हिषो लुनात्य् अर्धं नेति, बर्हिर् यत्रैव26 भवैष्यति। यत् कारणम्, सतो बर्हिष उच्यते27। न चेहास्ति बर्हिः। न होतारं वृणीते नार्षेयम् इति नित्यानुवादो भविष्यति। [५७]28 ननु नित्यानुवादः सन्न् अनर्थको भवति। किं क्रियताम्, यस्यार्थो नास्ति। प्रयाजे प्रयाजे कृष्णलं जुहोतीतिवचनं प्रयाजानां भविष्यति। कथं पुनर् अत्र प्रयाजाश् च कृष्णलहोमश् च शक्यो वक्तुम्29। भिद्यते हि तथा वाक्यम्। एवं तर्हि न प्रयाजान् वक्ष्यति। प्रयाजे कृष्णलहोमं विधास्यति। न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यते कर्तुम् इत्य् अर्थात् प्रायाजान् करिष्यति। तस्मान् न लिङ्गेन वैदिक्या नियमः। यथोक्तेन न्यायेन लौकिकीतिकर्तव्यतेति।
मिथो विप्रतिषेधाच् च गुणानां यथार्थकल्पना स्यात् ॥ MS_७,४.६ ॥
तत्राह, अथ कस्मान् नोभे अपीतिकर्तव्यते सह प्रवर्तेते इति। किम् एवं भविष्यति। एवं तुल्यापेक्षा कर्मणाम् अन्यतरतो न बाधिता भवति। उच्यते, सहप्रवृत्ताव् एकया चेत् कर्म निरपेक्षं कृतम्, द्वितीयस्याः प्रवृत्तिर् विप्रतिषिद्धा। अतो मिथः प्रवृत्तेर् विप्रतिषेधाद् यथार्थकल्पना स्यात्। एकस्याः प्रवृत्तिः स्याद् इति अर्थः। कथम् एकस्याः प्रवृत्तेर् धर्माणां यथार्थकल्पना भवति। ये धर्मा येषु कार्येषु प्रवृत्ताव् उत्पन्नाः, त इहापि तेष्व् एव भवन्ति। इतरथा द्वितीयस्या धर्मा अयथार्था भवेयुः पूर्वैर् धर्मैः, तेषां कार्याणां निर्वर्तितत्वात्। एवम् एकस्याः प्रवृत्तेर् यथार्थकल्पना भवति। अतो यथार्थकल्पना स्याद् इत्य् अनेनैकस्याः प्रवृत्तिर् इत्य् उक्तं भवेत्। एकस्याः प्रवृत्तौ यथोक्तेनैव न्यायेन लौकिक्याः प्रवृत्तिर् इति।
[५८]30
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात्, संबन्धाद् अभिधानवद् यथा धेनुः किशोरेण ॥ MS_७,४.७ ॥31
तुशब्दः पक्षनिवृत्तौ। न त्व् एवं स्यात्, लौकिकीतिकर्तव्यतेति। किं तर्हि। वैदिकी नियम्येत। कुतः। भागित्वात्। वैदिक्य् अपि भागिनी प्रवृत्तेः। सापि ह्य् अपूर्वस्येतिकर्तव्यता। समाने च भागित्व उभयोर् वैदिक्य् एव स्यात्। गुणानाम् अभिधानत्वात्। गुणा एते प्रयाजादयः सौर्यादिषु दृश्यमाना अभिधायका भवन्त्य् एतस्यार्थस्य। यथा वैदिक्य् अत्रेतिकर्तव्यतेति बोधका भवन्तीत्य् अर्थः। कस्मात्। संबन्धात्। एते हि तयेतिकर्तव्यतया संबद्धाः। अतः साहचर्यात् तां गमयन्ति। अभिधानवत्। यथा कौण्डपायिनामयन अग्निहोत्रम् इत्य् अभिधानं कर्मणो वाचकम्, तत्कर्मसहचरितान् धर्मान् आनयति, तेष्व् असत्स्व् एतद् अभिधानम् इह न युज्यत इति तेषां धर्माणां तत्र भावो विज्ञायते। एवम् इहापि प्रयाजादीनां दर्शनम् असत्यं वैदिक्यां न युज्यत इति, तस्या अपीह भावो विज्ञास्यते। नन्व् असति न्याये लिङ्गम् अकारणम्। सत्यम् एवम्, उक्तस् तु न्यायो भागित्वाद् इति। यत् तु दृष्टप्रवृत्तिर् लौकिकीति। तत्र ब्रूमः, यद्य् अपि दृष्टप्रवृत्तिः स्यात्, तथापि वैदिक्य् एव नियम्येत। कथम्। यथा धेनुः किशोरेण, तद् यथा, कृष्णकिशोरा धेनुर्32 इति। यद्य् अपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिः, तथाप्य् अभिधानसामान्याद् अश्वधेन्वाम् अपि भागीति किशोरेण लिङ्गेनाश्वधेन्वां विज्ञायते। एवम् इहापि यद्य् अपि लौकिकी दृष्टप्रवृत्तिः, तथापीतिकर्तव्यतासामान्येन भागित्वाल् लिङ्गेन वैदिकी विज्ञेया।
[५९]33
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् ॥ MS_७,४.८ ॥
अथ वा नैव लिङ्गेन नियम इति। कुतः। उत्पत्तीनां समत्वात्। धर्माणां प्रयाजादीनाम् उत्पत्तयः समाः सर्वेषाम् आग्नेयाद्यङ्गभावेन, न परस्पराङ्गत्वेन। किम् अतः। यदि प्रयाजादीनाम् अनुयाजादयो ऽङ्गानि स्युः, ततो यत्र प्रधानम्, तत्राङ्गानीति प्रयाजदर्शनेनानुयाजादयो ऽनुमीयेरन्, यदा तु समप्रधाना एते, तदा प्रयाजदर्शनेन कामं प्रयाजा अनुमीयेरन्, प्रयाजधर्मा वा। न त्व् अनुयाजादयः। तस्माल् लिङ्गम् अनियामकम्। यत् त्व् अभिधानवद् इति। अत्र ब्रूमः, युक्तं तत्र। तत्र34 हि परशब्दः परत्र प्रयुक्तः सन् धर्मान्35 अतिदिशतीत्य् उक्तम्। अपि च, विधिर् असौ। अग्निहोत्रवद् धोतव्यम् इति। अयं पुनर् अनुवादः। तेनात्र प्रयाजादीनाम् एव नास्ति प्राप्तिः, कुतो ऽनुयाजादीनाम्। तस्माद् विषम उपन्यासः, अभिधानवद् इति। अतो यथाधिकारं भावः स्यात्। ये धर्मा यस्यापूर्वस्याधिकार आम्नातास् ते तत्रैव भवेयुः। एवं तर्हि, सौर्यं चरुं निर्वपेद्36 इत्य् अनेनाख्यातेन प्रधानस्य विधानोत्पत्तिः, शेषाणां च वचनं भवतु। कथं कृत्वा। नानङ्गं प्रधानम् उच्यमानं कस्मैचित् प्रयोजनाय कल्पत इति। तेन च प्रापितानाम् अङ्गानाम् एतेभ्यो लिङ्गेभ्यो विशेषावधारणं भविष्यति। तत्रेदम् उच्यते,
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् ॥ MS_७,४.९ ॥
एकस्मिञ् शब्दे प्रधानस्योत्पत्तिर् अङ्गानां च वचनं न [६०]37 संभवति। किं कारणम्। उत्पन्नं हि प्रधानम् अङ्गान् अपेक्षते। अपेक्षया च तानि गृह्यन्ते। तस्मान् नैतद् अपि युक्तम्। यदि च निर्वपेद् इत्य् अनेन शब्देनाङ्गान्य् अपि विधीयेरन्, ततस् तेषाम् अपि फलसंबन्धः स्यात्। तथाङ्गत्वम् एव व्याहन्येत। ततो ऽयम् अपि वादो न घटते। तस्माद् यथोक्तो लौकिक एवाभ्युपायः।
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत, तथा हि लिङ्गदर्शनम् ॥ MS_७,४.१० ॥
विध्यन्तो वा सौर्यादिकायां चोदनायां प्रवर्तेत, न धर्मा लौकिकाः। कः पुनर् अयं विध्यन्तो नाम। विधेर् अन्तो विध्यन्तः। अथ विधिः कः। यद् वाक्यम् उपलभ्य पुरुषः कस्मिंश्चिद् अर्थे प्रवर्तते, कुतश्चिद् वा निवर्तते, स विधिः। विधीयते ह्य् अनेनार्थः। यथा लोके देवदत्त गाम् अभ्याज शुक्लाम्38 इति, तस्याभ्याजेत्यादिः39। इतरो ऽन्तः। वेदे ऽपि दर्शपूर्णमासाभ्यां यजेतेति विध्यादिः। विध्यन्तो ऽपि प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्। तेन समेतो ऽयं विध्यादिर् विशिष्टापूर्वनिर्वृत्तिं प्रति पुरुषं प्रवर्तयति। तस्मात् सो ऽस्यान्तः। तथा सोमेन यजेत40 इति विध्यादिः। सौमिकम् अपि ब्राह्मणं विध्यन्तः। एष विध्यन्तो नाम। एतेषु च सौर्यादिषु विध्यादिर् अस्ति, विध्यन्तो नास्ति। एतेष्व् अपि स विध्यन्तः कल्प्येत। कथं कृत्वा। अपरिपूर्णं यद् वाक्यम्, तद् अध्याहारेण वा पूर्येत, व्यवहितकल्पनया वा। तत्राध्याहाराद् व्यवहितकल्पना ज्यायसी। अध्याहारे ह्य् अश्रुतः कल्प्येत41। इतरत्र श्रुतेन संबन्धः। तस्माद् व्यवहितो ब्राह्मणावयवो ऽस्य परिपूरकः कल्प्यते। यथा वसन्ताय कपिञ्जलान् आलभते42, ग्रीष्माय कलविङ्कान् आलभत43 इति। तेन वैदिकीतिकर्तव्यता प्राप्यते। यदि44 तद् ब्राह्मणम् अस्यान्तः कल्प्यते, तत्र न भवति। तद् एतन्मयूरनृत्यम् आपद्यते। तद् यथा, मयूरस्य नृत्यतो ऽन्यदपाव्रियते ऽन्यत् संव्रियते। एवम् इहापीदं संव्रियते तदपाव्रियते। नैष दोषः। प्रत्यक्षस् तस्य तत्र भावः। इह पुनर् आनुमानिकः। न चानुमानिकं प्रत्यक्षं बाधते। इह तर्हि न प्राप्नोति, प्रत्यक्षविरोधात्। स्याद् एवम्, यदि विरोधः स्यात्। न त्व् अस्ति विरोधः। तत्रापि भविष्यति, इहापि तद् एतद् उक्तम्, विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेतेति। उच्यते, प्रकृतिवद् इति किम्। आह, अष्टमे प्रकृतिनियमं करिष्यति। इयम् अस्य प्रकृतिर् इति। तद् उच्यते, विध्यन्तो वा प्रकृतेर् इव प्रवर्तेत। या या तस्य कर्मणः45 प्रकृतिर् इति यस्याग्नेयः प्रकृतिः, तस्याग्नेयाद् एव। यस्याग्नीषोमीयः, तस्याग्नीषोमीयाद् इत्य् एवं सर्वत्र। अथ कस्मान् न लौकिको विध्यन्तः कल्प्यते। उच्यते, लौकिकस्य विधेर् अभावाद् विध्यन्त एव नास्ति। कुतस् तत् कल्पनेति। आह, लौकिकीतिकर्तव्यता प्राप्यताम्, किं विध्यन्तकल्पनयेति। उच्यते, वैदिकी ह्य् अत्रेतिकर्तव्यता न लौकिकी। कस्मात्। तथा हि लिङ्गदर्शनं प्रयाजादि समर्थितं भवति।
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् ॥ MS_७,४.११ ॥
यदि लिङ्गाद् वैदिको ऽभ्युपायो भवति, तेन तर्ह्य् अलिङ्गे लौकिकं स्यात्। यत्र कर्मणि किंचिल् लिङ्गं नास्ति, तत्र लौकिकं स्याद् विधानम्। यथा, ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजातावीयुर् इति।
[६२]46
लिङ्गस्य पूर्ववत्त्वाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलोकेन ॥ MS_७,४.१२ ॥
अत्रोच्यते, स्याद् एवम्, यदि लिङ्गहेतुको वैदिक उपायः स्यात्। न त्व् असौ लिङ्गहेतुकः। किंहेतुकस् तु। विध्यन्तहेतुकः। विध्यन्तो ऽपि न्यायपूर्वः, स च न्यायस् तुल्यः सर्वेषां कर्मणां वैकृतानां लिङ्गवताम्47 च। कुतः। चोदनाशब्दसामान्यात्। कर्मचोदनायां शाब्दः समानः। सर्वत्र विध्यादिर् अस्ति, न विध्यन्तः। तुल्यश् चापेक्षयान्यत्र श्रुतेन विध्यन्तेन संबन्धः। तद् एतन् न्यायपूर्वकं लिङ्गम् एकत्रापि दृश्यमानम्, तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति। यथा स्थाल्यां तुल्यपाकानां पुलाकानाम् एकम् उपमृद्यान्य् एषाम् अपि सिद्धतां जानाति, तुल्यो हेतुर् अस्य चान्येषां च सिद्धत्वस्येति। तस्मात् सर्वत्र वैदिकीतिकर्तव्यता। अथ यद् उक्तम्, दृष्टप्रवृत्तिर् लौकिकीतिकर्तव्यतेति। अत्र ब्रूमः, सामान्यतोदृष्टम् एतद् उपदिश्यते। सामान्यतोदृष्टं च यद् अव्यभिचारि, तत् प्रमाणम्। सव्यभिचारं चैतत्। दृष्टा हि गणयागादयो ऽनेवमितिकर्तव्यताकाः। तस्माद् दृष्टप्रवृत्तित्वाद् इत्य् अहेतुः। यत् तु वैदिक्या भागित्वात् तत्पूर्वकाणि लिङ्गानि भविष्यन्तीति। अत्र ब्रूमः, भागित्वस्यापूर्वेतिकर्तव्यताकत्वं48 किल हेतुः। तद् भावश् च तस्याः शब्दपूर्वः। शब्देन च दर्शपूर्णमासयोर् असौ विज्ञायते49, न सर्वत्रेति। तस्मान् न भागित्वम्। अतो विध्यन्तेनैवेतिकर्तव्यता प्राप्यते, नान्यथा। अथ कस्माद् एतानि वैकृतानि वाक्यानि न्यूनान्य् एव नानुमन्यन्ते, किम् एभिः पूरितैः। न्यूनान्य् अनर्थकानि भवन्ति। भवन्तु, को [६३]50 दोषः। शिष्टैर् एषां संपरिग्रहो न युज्यते। प्रमादाद् भविष्यतीति। नास्त्य् अक्षरे मात्रायां वा प्रमादः। कुतो एतावति ग्रन्थे भविष्यति। कथम्। तुल्यं च सांप्रदायिकम्51 इत्य् उक्तम्। व्यामोहो ऽपि विदुषां युगसहस्राणि बहूनि नानुवर्तेत। युज्यते चैषाम् अपेक्षया पूरणम्। तस्माद् ऊनानि नानुमन्यन्ते। अतो वैदिकीतिकर्तव्यतेति सिद्धम्।
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् ॥ MS_७,४.१३ ॥
प्रजाकामा गवामयनम् उपेयुर्52 इति सत्रं विधायाम्नायते, ज्योतिर् गौर् आयुर्53 इति, गवामयने द्वादशाहिको विध्यन्त इति वक्ष्यति54, गणेषु द्वादशाहस्य55 इति। तत्र चोदकेन द्वादशाहिका धर्माः प्राप्यन्ते। एकाहानाम् अपि यथा स्वं नामभिः प्रातिस्विकाः। ये तत्र द्वादशाहिका ऐकाहिकैर् अविरुद्धाः, ते यथाप्राप्तं क्रियन्ते। विरुद्धेषु संशयः। किं द्वादशाहिको धर्मः कर्तव्यः, उतैकाहिक इति। किं प्राप्तम्। तत्र सूत्रेणैवोपक्रमः। द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वात्। द्वादशाहप्रकृतित्वाद् विध्यन्तेनैव प्राप्यन्ते। नन्व् एवं नामधेयं बाध्यते। न बाधिष्यते नामधेयं ज्योतिर् आदि। अधिकागमाद् भविष्यति। ये ज्यौतिष्टौमिकेभ्यो ऽधिकाः स्तोत्रशस्त्रविकाराः, तदागमात्, एकाहवत्। यथा तस्मिन्न् एव ज्योतिष्य् एकाहे ज्योतिःशब्दो ऽधिकागमाद् भवति। सत्सु ज्यौतिष्टौमिकेषु ज्योतिष्टोमे ऽभावात्। अधिकधर्मार्थो ऽयं शब्दः, [६४]56 न चाधिकानां द्वादशाहिकैर् विरोधो ऽस्ति। तस्माद् द्वादशाहिकं धर्मजातं विरुद्धं कर्तव्यम् इति। अधिकागमात् तदाख्यं स्याद् एकाहवद् इत्य् एतस्यापरा व्याख्या। ये द्वादशाहे ऽधिका ऐकाहिकेभ्यः केचिद् धर्मा उच्यन्ते। अभिप्लवो ऽन्वहं भवति57, गोरिवीतम्58 अन्वहं भवतीति। तेषाम् अधिकानाम् आगमात् तदाख्यं स्यात्। एतद् द्वादशाहिकम् अहर्ज्योतिराख्यम् आयुराख्यं वा59। कथम्। एकाहवत्। यथा तस्मिन्न् एवैकाहे ऽयं ज्योतिरादिशब्दो ज्यौतिष्टौमिकेभ्यो ऽधिकेषु वैशेषिकेषु धर्मेष्व् आगतेषु भवति, एवम् इहाप्य् अधिकागमसामान्याद् गौणो भविष्यति। यथा षाडहिकानां पृष्ठानां भावाद् एकाहो विश्वजित् षडह60 इत्य् उक्तम्। तम् एकाहं षडह इत्य् आचक्षत61 इति। एवम् इहापि। गौणश् चेन् न प्रापकः। तस्मान् नास्ति नामधेयाद् धर्मप्राप्तिर् इति।
लिङ्गाच् च ॥ MS_७,४.१४ ॥
लिङ्गाच् चैतज् ज्ञायते, यथा द्वादशाहिकं कर्तव्यम् इति। किं लिङ्गं भवति। द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्याम् असृग् द्वाभ्यां मांसम्62 इति। एवं षड्द्विकान् अनुक्रम्याह, यद् द्वादशोपसदो भवन्ति, आत्मानम् एतन् निर्वद्यत इति द्वादशाहिकं धर्मं द्वादशोपसत्त्वं दर्शयति। तद् उपपद्यते, यदि द्वादशाहिकं धर्मजातं विरोधि कर्तव्यम्। इतरथा चैकाहिकं षडुपसत्त्वं63 स्यात्64। तस्मात् पश्यामः, द्वादशाहिकं कर्तव्यम् इति। तथेदम् अपरं लिङ्गम्। यस्यातिरिक्तम् एकादशिन्याम् आलभेरन् न प्रियं65 भ्रातृव्यम् अतिरिच्येत। अथ यद् द्वौ पशू समस्येयुः, कनीय आयुः कुर्वीरन्66। यद्य् एते ब्राह्मणवन्तः पशव आलम्भन्ते नाप्रियं भ्रातृव्यम् अत्यतिरिच्यते [६५]67 न कनीय आयुः कुर्वीतेति68, एकादशिन्यां विहारं द्वादशाहिकं धर्मं दर्शयति। कथम्। विहारे सत्य् अतिरेकः पशूनाम् आपद्यते। अतिरेकभयाच् च द्वयोर् द्वयोः समासः। एकाहधर्मप्राप्तौ विहारो न स्यात्। तत्रैतद्दर्शनं न युज्यते। तस्माद् द्वादशाहिकं कार्यम्।
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् ॥ MS_७,४.१५ ॥
न वा द्वादशाहिकं कार्यम्। किं तर्हि। एकाहिकम्। किं कारणम्। चोदकेन द्वादशाहिकं प्राप्नोति, नामधेयेनैकाहिकम्। नामधेयं च चोदकाद् बलीयः। कुतः। प्रत्यक्षत्वात्। प्रत्यक्षं नामधेयम्, चोदकं त्व् आनुमानिकम्। ननु विध्यन्तो ऽपि प्रत्यक्षः। सत्यं प्रकृतौ प्रत्यक्षो विध्यन्तः, विकृतौ त्व् आनुमानिकः, नामधेयं पुनर् विकृताव् अपि प्रत्यक्षम्, प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् ऐकाहिकं कार्यम्। नन्व् अधिकार्यं नामधेयम् इत्य् उक्तम्। अत्रोच्यते, अधिकानाम् अशब्दत्वम्। अधिकानां शब्दो नास्ति। इमे ज्योतिरादयः शब्दाः कर्मनामधेयानीत्य् उक्तम्। अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वाद्69 इति। यत् तु, अधिकागमात् तदाख्यं स्याद् इति। तत्र ब्रूमः, वचनाद् अधिकागमो न नामधेयेन। यत् तु, तेष्व् असत्सु शब्दस्याभावाद् इति। नैते कदाचिद् आयुरादिषु न सन्ति। कथं तेषाम् अभावे शब्दस्याभावो दृष्टः। यत् तु, ज्योतिष्टोमे नास्ति ज्योतिरादिः शब्द इति। कर्मान्तरत्वात्। ज्योतिष्टोम आयुरादिः शब्दो नास्ति, न धर्माभावात्। तस्माद् ऐकाहिकं विरुद्धं धर्मजातं कर्तव्यम् इति। अधिकागमात् तदाख्यं स्यात्। एकाहवद् इत्य् एतस्य द्वितीयव्याख्यापरिहारः। गौणः सन्न् अनु[६६]70वादमात्रम् अनर्थकं स्यात्। तस्मात् पूर्वोक्तेन न्यायेन नामधेयं धर्माणां प्रापकम् इति।
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् ॥ MS_७,४.१६ ॥
अथ यल् लिङ्गम् उपदिष्टम्, द्वादशोपसत्त्वदर्शनम्, तस्य परिहार उच्यते। लिङ्गं संघातधर्मः स्यात्। लिङ्गम् एतत्संघातधर्मः स्यात्। द्वादशाहो ऽहःसंघातः। स फलाय चोद्यते। द्वादशाहम् ऋद्धिकामा उपेयुर् इति। गवामयनम् अपि अहःसंघातान्तरम्। तस्मिन्न् एव कार्ये फलसिद्धौ विधीयते। तस्य तत्कार्यापत्त्या द्वादशाहधर्मान् गृह्णाति, न चोदकेन, द्रव्यवत्। यथा द्रव्ये व्रीहौ धर्माः श्रुतास् ते तत्कार्यापन्नेषु प्रतिनिधिभूतेषु71 प्राप्यन्ते, न चोदकेन तद्वत्।
न वार्थधर्मत्वात् संघातस्य गुणत्वात् ॥ MS_७,४.१७ ॥
नैतद् युक्तम्। कुतः। अर्थधर्मत्वात्। अपूर्वधर्मत्वाद् इत्य् अर्थः। अपूर्वधर्मो द्वादशोपसत्त्वं न संघातधर्मः। कस्मात्। संघातस्य गुणत्वात्। अहान्य् अत्र प्रधानानि। द्वादशाहेनेति द्वादशत्वं72 तेषां गुणः। विशेषणम् इत्य् अर्थः। विशिष्य एव कार्यं प्रतीयते, न विशेषणे। यथा राजपुरुष आनीयताम् इत्य् उक्ते पुरुष आनीयते, न राजा। यथा च, मृष्टं भुङ्क्ते देवदत्त इत्य् उक्ते, न शाकं सूपो वा प्रतीयते। यद् एव प्रधानं तत् प्रतीयते। किम् अतः। अतो ऽहानि फलवन्ति, न संघातः। फलवतश् च धर्माः। तस्मान् न द्वादशोपसत्त्वं संघातधर्मः। एवं [६७]73 चेन् न गवामयने कार्यापत्तितो धर्माः प्राप्यन्ते। अतो ऽपरिहारो ऽयम्।
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात्//६.४.१८//
यद् उक्तम्74, द्रव्यवद् इति। युक्तं द्रव्येषु। तत्र हि व्रीहिकार्यापन्ना नीवाराः कार्यापत्तितस् तद्धर्मांल् लभन्ते। इह पुनर् द्वादशोपसत्त्वं नैव संघातधर्म इत्य् अपदिष्टो हेतुः। तस्माद् अदृष्टान्तो द्रव्यवद् इति। आह, कथं तर्हि इदं लिङ्गदर्शनम्। अत्रोच्यते,
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् ॥ MS_७,४.१९ ॥
गवामयने द्वादशाहिकं प्रथमम् अहः, प्रायणीयो ऽतिरात्रः। तस्य धर्मो द्वादशोपसत्त्वम्। तदुपादाने मुख्यस्यानुग्रहः। षडुपसत्त्वोपादाने जघन्यानां ज्योतिरादीनाम्, मुख्यस्य प्राप्तकालम् अनुग्रहम् अतिक्रमितुम् किंचित् कार्यं75 नास्ति। अतस् तदनुग्रहार्थं द्वादशोपसत्त्वं भवति। तथा मुख्यया76 प्रवृत्त्या नियतस्यैतद्दर्शनम्, न चोदकप्राप्त्या। यस्माच् चोदको नामधेयाद् अबलः। वक्ष्यति च, विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वम्77। मुख्यं वापूर्वचोदनाल् लोकवद्78 इति। अथ यद् द्वितीयं लिङ्गदर्शनम् उक्तम्, एकादशिन्यां विहारदर्शनम्। तत्रोच्यते,
[६८]79
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात् ॥ MS_७,४.२० ॥
अनारभ्यैकादशिन्यां विहारः शिष्टः। तदादिप्रभवाः पशवः80 स्युः। तथा81 तान् एवानूचीनान् अहरहर् आलभेरन्, आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्ततः। अथ पुनः पर्यावर्तेष्व्82 आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्तत इति। तद् अनारभ्यवादानां प्रकृत्यर्थत्वाज् ज्योतिष्टोमं प्रविष्टम्। तत्राह्नां बहुत्वस्याभावाद् असंभवाद् अपरां प्रकृतिं द्वादशाहम् आगतम्। तत्रापि पुनर् ज्योतिरादीनां पर्यावर्तेष्व् इत्य् एतन् न युज्यत इति तृतीयां प्रकृतिं गवामयने प्रविष्टम्83। एवम् आगतस्यैतद् दर्शनम् इति।
-
E2: carūr ↩︎
-
Vgl. Maitr.S. 2.2.2; Tait. S. 2.3.2 ↩︎
-
Vgl. ad MS 2.3.14 ↩︎
-
E2: eteṣāṃ ↩︎
-
Vgl. ad MS 6.1.3 ↩︎
-
Vgl. Maitr.S. 2.2.2; Tait. S. 2.3.2 ↩︎
-
Āpast.Ś.S. 10.2.1 ↩︎
-
E2: īpsitatamatvasya ↩︎
-
E2: 5,425; E6: 3,35 ↩︎
-
E2: yasmān noktā ↩︎
-
E2: prajñātetikartavyatāko ↩︎
-
E2: adharmakāt ↩︎
-
E2: pādena vā yathākathaṃcid ↩︎
-
E2: devatāyā ↩︎
-
E2: 5,426; E6: 3,36 ↩︎
-
E2: devatāyā ↩︎
-
E6 om. vikṛtau ↩︎
-
E2: vaidiky eveti ↩︎
-
E2: āgrahāyaṇe karmaṇi ↩︎
-
E2: 5,428; E6: 3,37 ↩︎
-
E2: prayāje paryāje ↩︎
-
Tait. S. 2.3.2 ↩︎
-
Kāṭhaka S. 15.5 ↩︎
-
E2: pitṛyajñe, na hotāraṃ ↩︎
-
E2: liṅgasya sadguṇatvāt ↩︎
-
E2: yatra barhis tatraiva ↩︎
-
E2: barhiṣa etad ucyate ↩︎
-
E2: 5,428; E6: 3,37 ↩︎
-
E2: ca yugapac chakyo vaktum ↩︎
-
E2: 5,429; E6: 3,38 ↩︎
-
E2 liest vor MS7.4.7 noch: tarhi na prayājāv anvayati. prayājeṣu kṛṣṇalahomaṃ vidhāsyati. na cāsatsu prayājeṣu kṛṣṇalahomaḥ śakyaḥ kartum ity arthāt prayājān kariṣyatīti ↩︎
-
Amara 2.8.46 ↩︎
-
E2: 5,430; E6: 3,39 ↩︎
-
E2: yatra ↩︎
-
E2: saṃs taddharmān ↩︎
-
Vgl. Maitr.S. 2.2.2; Tait. S. 2.3.2 ↩︎
-
E2: 5,431; E6: 3,39 ↩︎
-
Mahābhāṣya 1.1.3.92 ↩︎
-
E2: tasyābhyājeti vidhyādiḥ ↩︎
-
Tait. S. 3.2.2 ↩︎
-
E2: aśrutaḥ śabdaḥ kalpyeta ↩︎
-
Vāja. S. 24.20 ↩︎
-
Vāja. S. 24.20 ↩︎
-
E2: nanu yadi ↩︎
-
E2: yo yasya karmaṇaḥ ↩︎
-
E2: 5,433; E6: 3,41 ↩︎
-
E2: liṅgavatām aliṅgavatāṃ ↩︎
-
E2: bhāgitvasyāpūrvetikartavyatātvaṃ ↩︎
-
E2: asāv iti jñāyate ↩︎
-
E2: 5,434; E6: 3,42 ↩︎
-
tulyaṃ ca sāmpradāyikam (MS 1.2.8) ↩︎
-
Tāṇḍ. Br. 4.1.4,7 ↩︎
-
Ait. Br. 18.15; Tait. S. 7.4.4 ↩︎
-
Ad MS 8.1.17 ↩︎
-
MS 8.1.17 ↩︎
-
E2: 5,435; E6: 3,42 ↩︎
-
Tāṇḍ. Br. 5.8.4 ↩︎
-
E2: gaurivītam ↩︎
-
Ait. Br. 18.15 ↩︎
-
Tāṇḍ. Br. 16.5.24 ↩︎
-
Vgl. ad MS 7.3.6 ff ↩︎
-
Tait. S. 7.4.9 ↩︎
-
E2: tryupasattvaṃ ↩︎
-
Tait. S. 6.2.5 ↩︎
-
E2: apriyaṃ ↩︎
-
Tait. Br. 1.2.5.3 ↩︎
-
E2: 5,436; E6: 3,43 ↩︎
-
E2: kurvata iti ↩︎
-
MS 1.4.2 ↩︎
-
E2: 5,437; E6: 3,44 ↩︎
-
E2: tatkāryāpanneṣu nīvāreṣu pratinidhibhūteṣu ↩︎
-
E2: dvādaśāhatvaṃ ↩︎
-
E2: 5,438; E6: 3,44 ↩︎
-
E2: yac coktam ↩︎
-
E2: kāraṇaṃ ↩︎
-
E2: tasmān mukhyayā ↩︎
-
MS 12.2.24 ↩︎
-
MS 12.2.25 ↩︎
-
E2: 5,439; E6: 3,45 ↩︎
-
E2: yathā hi prabhavaḥ paśavaḥ; F2 (fn.): te yadi prabhavaḥ paśavaḥ ↩︎
-
E2 om. tathā ↩︎
-
E2: punar jyotirādīnāṃ paryāvarteṣv ↩︎
-
E2: gavāmayanam āpannam ↩︎