क्रमको यो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च ॥ MS_५,४.१ ॥

इह पाठक्रमस्य श्रुत्यर्थक्रमाभ्यां सह बाधां प्रति विचारणम्1। किं पाठक्रमस् ताभ्यां तुल्यः, उत बाध्यत इति। किं प्राप्तम्? तुल्यबलाव् एतौ, पाठो ऽपि हि कारणं श्रुत्यर्थाव् अपि। न च प्रामाण्ये कश्चिद् विशेषो ऽस्ति, तस्माद् अनियम इति। एवं प्राप्ते ब्रूमः, पाठक्रमो हि बाध्यते श्रुत्या, अर्थेन च। कुतः? श्रुतिविशेषात्, अर्थपरत्वाच् च। श्रुतिविशेषः कः? यत्र श्रवणं तत्र प्रत्यक्षं कारणम्, पाठक्रमस् त्व् आनुमानिकः, पाठक्रमेण स्मरणम्, एवम् अभिनिर्वर्तयितव्यम् इत्य् अवगम्यते। तस्यार्थवत्त्वेनैकयोपपत्त्या तस्यैवानुष्ठानम्2। श्रुत्या पुनर् अनुष्ठानम् एव, एवं भवतीति प्रत्यक्षाद् अवगम्यते। तथार्थेन। कुतः? अर्थपरत्वात्, अर्थार्थं हि सर्वं प्रधानार्थम्3, प्रधानम् अभिनिर्वर्तयतीति सर्वं क्रियते। तस्मात् पाठस् ताभ्यां बाध्यते। किम् उदाहरणं प्रयोजनं च? श्रुत्याम्4 आश्विनो दशमो गृह्यते, तं तृतीयं जुहोति, अत्र पाठक्रमस्य बलीयस्त्वे तृतीयस्य ग्रहणम्, सिद्धान्ते तु दशमस्य। अर्थे, अग्निहोत्रहोमः पूर्वम् आम्नायते, पश्चाच् छ्रपणम्। एवं कर्तव्यम्, यदि पाठो बलवान्। सिद्धान्ते श्रपणं पूर्वम्, ततो होमः।

[५८७]5


अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्त्या स्यात् ॥ MS_५,४.२ ॥

स्तो दर्शपूर्णमासौ, तत्र पूर्वं दध्नो धर्माः समाम्नाताः, पश्चाद् आग्नेयस्य, प्रदानं चाग्नेयस्य पूर्वम्। तत्र संदेहः, किं प्रावृत्तिकेन क्रमेण पूर्वं दध्नो ऽवदानाभिघारणासादनानि, उत मुख्यक्रमेण पूर्वम् आग्नेयस्येति। किं प्राप्तम्? अनियम इत्य्। एवं प्राप्ते ब्रूमः, अवदानादिषु प्रावृत्तिकेन पूर्वं दध्न इति। कुतः? एवम् अनुज्ञातेभ्यो व्यवधायकेभ्यो नाभ्यधिको ऽन्यो वा व्यवधायकः कल्पितो भविष्यति, दर्शयति च दध्नः पूर्वम् एव देयम्6 इति।


यथाप्रदानं वा तदर्थत्वात् ॥ MS_५,४.३ ॥

यथाप्रदानं वा कर्तव्यानि, यस्य प्रदानं पूर्वम्, तस्यावदानानि पूर्वम्, तस्माद् आग्नेयस्य। कुतः? प्रदानचोदनागृहीतत्वाद्7 अवदानादीनाम्, प्रदानोपक्रमा एते न पृथक्पदार्था एते8 इत्य् उक्तम्। अभिघारणम् अवदानं च तस्य प्रदानचिकीर्षयैव क्रियते। आसादनम् अपि प्रदानार्थम् एवासन्न् अकरणम्9, एवं दृष्टार्थता भवति। तस्मान् मुख्यक्रमेणाङ्गानां प्रयोग इति। यत् तु, दध्नः पूर्वं प्रवृत्तिर् इति। अर्थात् पूर्वं प्रवृत्तिः, न पाठात्। प्रावृत्तिकाच् च मुख्यक्रमो बलीयान्, मुख्यक्रमे गृह्यमाणे प्रथम एकः पदार्थो विप्रकृष्टकालः स्यात्, प्रावृत्तिके पुनर् गृह्यमाणे सर्वेषां विप्रकर्षः। तस्मान् मुख्यक्रमो बलीयान् इति। अथ यल् लिङ्गम् उक्तम्, दध्नः पूर्वम् अवदेयम् [५८८]10 इति। अत्रोच्यते, शृताभिप्रायम्11 एतद् भविष्यति। तस्माद् अदोषः।


लिङ्गदर्शनाच् च ॥ MS_५,४.४ ॥

लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, स वै ध्रुवाम् एवाग्रे ऽभिघारयति, ततो हि प्रथमाव् आज्यभागौ यक्ष्यन् भवतीति। तस्माद् अपि मुख्यक्रमेण नियम इति।


वचनाद् इष्टिपूर्वत्वम् ॥ MS_५,४.५ ॥

इष्टिपूर्वत्वं समानातम्। तत्र संदेहः, किम् इष्टिपूर्वत्वम्, सोमपूर्वत्वं वा विकल्पः12, अथवेष्टिपूर्वत्वम् एवेति। किं प्राप्तम्? इष्टिपूर्वत्वम् एव स्यात्। कुतः? वचनात्, वचनम् इदं भवति, एष वै देवरथो यद् दर्शपूर्णमासौ, यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति13, नास्ति वचनस्यातिभारः। तस्माद् इष्टिपूर्वत्वम् एवेति।


सोमश् चैकेषाम् अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् ॥ MS_५,४.६ ॥

इष्टिपूर्वत्वम् इत्य् एतद् गृह्णीमः, किं तु सोमश् चैकेषां14 पूरो15 दर्शपूर्णमासयोः स्यात्। कुतः? अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्। यः सोमेन यक्ष्यमाणो ऽग्नीन् आदधीत, नर्तुं स16 प्रतीक्षेन् न नक्षत्रम् इति। यः सोमयागं कर्तुम् आदधीत्, स न प्रतीक्षेत नक्षत्रं नाप्य् ऋतुं तावत्य् एवादधीतेत्य् आनन्तर्यम् उच्यते। इतरथा, ऋतुनक्षत्रातिक्रमवचनम् अनर्थकं स्यात् [५८९]17, आनन्तर्ये ऽनपेक्ष्यमाणे यस्यैवर्तुनक्षत्रे उक्ते तस्यैव तयोर् अनादरः कीर्तितः स्यात्, तस्माद् अस्ति सोमाधानयोर् आनन्तर्यम् इति। अपि च विस्पष्टा चाद्यतनी विभक्तिः, सोमेन यक्ष्यमाण इति, सा च नेष्टिपूर्वत्वम्18 अनुज्ञाय विवक्ष्यते, न तदाद्यतनकालविवक्षा, तत्रायं शब्दो विप्रतिषिध्येत। तस्माद् आनन्तर्यविवक्षेत्य् अवगम्यते।


तदर्थवचनाच् च नाविशेषात् तदर्थत्वम् ॥ MS_५,४.७ ॥

इतश् च सोमाधानयोर् आनन्तर्यम्। कुतः? तदर्थवचनात्, यः सोमेन यजेत स अग्निम् आदधीतेति च। सर्वैर् अप्य् असौ यक्ष्यमाणो ऽग्निम् आधत्ते सोमेनाग्निहोत्रादिभिश् च, नासति सोमस्य विशेषे सोमार्थता स्यात्। अयम् असौ विशेषः स्यात्, यद् आनन्तर्यं सोमाधानयोर् इति।


अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् ॥ MS_५,४.८ ॥

सोमेनायक्ष्यमाणस्य च पवमानहविषां कालो निर्दिश्यते, यः सोमेनायक्ष्यंआणो ऽग्निम् आदधीत, स पुरा संवत्सराद् धवींषि निर्वपेद् इति, न खलु कश्चिद् अयक्ष्यमाणः, सर्वस्य विहितत्वात्। तस्माद् अनन्तरम् अयक्ष्यमाण इति गम्यते।


इष्टिर् अयक्ष्यमाणस्य, तादर्थ्ये सोमपूर्वत्वम् ॥ MS_५,४.९ ॥

इदं प्रयोजनसूत्रं वर्ण्यते। क्षीणम् अधिकरणम्। किं प्रयोजनं चिन्तायाः? इष्टिर् अयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने। तदर्थत्वे तु सोमपूर्वत्वम्19, सोमार्थतायां त्व् आधानस्य सोमपूर्वत्वं स्यात्।

[५९०]20


उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् ॥ MS_५,४.१० ॥

अस्त्य् आधानम्, तत्रैषो ऽर्हः समधिगतः, इष्टिपूर्वत्वं सोमपूर्वत्वं चेति। इदानीं संदेहः, किं त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा, उत ब्राह्मणस्य सोमपूर्वत्वम् एव, उत केवला पौर्णमास्य् उत्कृष्यते, ब्राह्मणस्योभौ कल्पाव् इति। अथ वा कर्मान्तरम् इदम्, यद् ऊर्ध्वं सोमात्, अथ वैकं हविर् उत्कृष्यते, ब्राह्मणस्योभाव् एव कल्पाव् इति। किं प्राप्तम्? त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा। कुतः? अविषेशात्। न किंचिद् विशेषम् अवगच्छामः। एवं प्राप्ते ब्रूमः, ब्राह्मणस्य सोमपूर्वत्वं स्यात्। कस्मात्? उत्कर्षात्, उत्कर्षो हि श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीसोमीयो भवति। यद् एवादः पौर्णमासं हविः, तत्र ह्य्21 अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति। किम् इव हि वचनं न कुर्यात्। तस्माद् ब्राह्मणस्य सोमपूर्वत्वम् एवेति।


पौर्णमासी वा श्रुतिसंयोगात् ॥ MS_५,४.११ ॥

यद् उक्तम्, ब्राह्मणस्य सोमपूर्वत्वम् एवेति, तन् न, तस्याप्य् उभौ कल्पौ। कुतः? अविशेषात्, न हि कल्पयोर् ब्राह्मणस्य कश्चिद् विशेष आम्नायते। नन्व् इदानीम् एवोक्तम्, ब्राह्मणस्योत्कर्ष इति। नेति ब्रूमः, पौर्णमासीमात्रस्य तत्रोत्कर्षः। श्रुतिसंयोगः पौर्णमास्यास् तत्र, यद् एवादः पौर्णमासं हविर् इति, यावद् वचनं वाचनिकम्, तत्र न न्यायः क्रमते। तुल्ययोर् एकदेश उत्कृष्टे नूनम् अपरो ऽप्य् एकदेश उत्कृष्यत इति।

[५९१]22


सर्वस्य वैककर्म्यात् ॥ MS_५,४.१२ ॥

यद् उच्यते, केवला पौर्णमास्य् उत्कृष्यत इति। तन् न, कृत्स्नस्य दर्शपूर्णमासकर्मण उत्कर्षः, एवं फलेन संबन्धः, इतरथा न स्यात् फलम्। एकदेशत्वात् पौर्णमास्याः, केवलायाम् उत्कृष्यमाणायाम् अवशिष्टस्य पूर्वत्र क्रियमाणस्य न फलं स्यात्, एकदेशत्वात्, अफलत्वाच् चोक्तम् अपि न क्रियेत। समुदाये चोत्कृष्यमाणे भवति फलम्। तस्माद् अर्थात् समुदायस्योत्कर्षः, एवं कृत्स्नोपदेशो ऽर्थवान् भविष्यतीति। तस्मात् सर्वस्योत्कर्षः, सोमपूर्वत्वम् एव ब्राह्मणस्येति।


स्याद् वा विधिस् तदर्थेन ॥ MS_५,४.१३ ॥

नैतद् अस्ति23, यद् एवं समुदायस्यासति वचन उत्कर्षः परिकल्प्येत, तस्माद् अन्यद् एवैवं नामकं कर्म, ऊर्ध्वं सोमात् स्यात्। एवम् एकदेशस्याश्रुतं फलं न कल्पयितव्यं भविष्यति। नामधेयं तु द्वयोः कर्मणोर् एकम्, अक्षाः पादाः माषा इति यथा। पौर्णमासधर्मकं वा कर्मान्तरं चोद्यत इति कर्मविधानम्, श्रुतेर् एतद् भवति, तद् वाक्यस्य बाधकम्। तस्मात् कर्मान्तरम् इति।


प्रकरणात् तु कालः स्यात् ॥ MS_५,४.१४ ॥

कर्मान्तरस्यैतद्वाचकम् इति प्रमाणाभावः। प्रकृतस्य कर्मणो वाचकम् इति प्रत्यक्षम्, यच् च सप्रमाणकम्, तद् ग्राह्यम्, अन्यायश् चानेकार्थत्वम्। धर्मग्रहणे लक्षणाशब्दः श्रुतिसंभवे कल्प्यः स्यात्। अपि चास्य रूपं न गम्यते, रूपावचनान् न कर्मान्तरम्। तस्मात् प्रसिद्धेन नाम्ना प्रकृतस्य कर्मणो ग्रहणं कालविधानार्थं स्यात्। फलवत्त्वाच् च कृत्स्नस्योत्कर्षः, ब्राह्मणस्य [५९२]24 च तथैव। यत् तु, श्रुतिर् वाक्याद् बलीयसीति, अत्रोच्यते, यत्र फलं न श्रूयते, वाक्यार्थो ऽपि तावत् तत्र गृह्यते। न च, इह फलस्य श्रवणम् अस्ति। कल्प्यं फलम् इति यद् उच्यते, न तत्, फलवचनम्25 अन्तरेण। तत्र फलवचनः शब्दः कल्प्येत, तेन च सहैकवाक्यता। कालवचनेन तु सह प्रत्यक्षेणैकवाक्यतेति। तस्मान् न कर्मान्तरम्। स्थितं तावद् अपर्यवसितम् अधिकरणम्26


स्वकाले स्याद् अविप्रतिषेधात् ॥ MS_५,४.१५ ॥

यः सोमेन यक्ष्यमाणो ऽग्निम् आदधीत, नर्तुं स27 प्रतीक्षेन्28 न नक्षत्रम् इति। अत्र संदेहः, किम् आधानस्यायं कालविशेषबाधः, उत सोमस्येति। किं प्राप्तम्? आधानस्य कालबाधः, स्वकाले स्यात् सोमः। कुतः? अविप्रतिषेधात्, अङ्गम् आधानम्, तस्य कालबाधो न्याय्यः, न प्रधानस्य। अङ्गगुणविरोधे च तादर्थ्याद् इति वक्ष्यते29


अपनयो वाधानस्य सर्वकालत्वात् ॥ MS_५,४.१६ ॥

अपनयो वाधानात्30 सोमकालस्य स्यात्। कुतः? आधानस्य सर्वकालत्वात्, नैवाधाने कश्चित् कालनियमो ऽस्ति, यद् अहर् एवैनं श्रद्धोपनमेत्31 तद् अहर् आदधीतेति32। अप्राप्तम् एव तद् आधानस्य, यत् प्रतिषिध्यते। तस्मात् सोमस्य कालबाध इति।

[५९३]33


पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् ॥ MS_५,४.१७ ॥

स्थिताद् उत्तरम्। न वैतद्34 अस्ति, कृत्स्नौ दर्शपूर्णमासाव् उत्कृष्येते, ऊर्ध्वं सोमात्, केवला पौर्णमास्य् उत्कृष्यते। कुतः? वचनात्, वचनम् इदम्, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेद् इति, नास्ति वचनस्यातिभारः। तस्मात् पौर्णमासीमात्रम् उत्कृष्येत। यत् तु फलं नास्तीति, समुदायाद् एव फलं भविष्यतीति, वचनाद् एवं विज्ञानात्। तस्माद् अदोषः।


एकं35 शब्दसामर्थ्यात् प्राक् कृत्स्नविधानात् ॥ MS_५,४.१८ ॥

एकं वा हविर् उत्कृष्येत, न कृत्स्ना पौर्णमासी। कुतः? शब्दसामर्थ्यात्, एकं हविर् उत्क्रष्टुं शब्दः समर्थः, यद् एवादः पौर्णमासं हविर् इति श्रूयते, यावद् वचनं वाचनिकम्, तावद् वचनेनोत्क्रष्टुं शक्यते, नान्यद् अपि। प्राक् सोमात् कृत्स्नं विधीयते। ततो यद् वचनेनोत्कृष्यते, तद् ऊर्ध्वं सोमात्, यन् नोत्कृष्यते, तत् प्राग् भवितुम् अर्हति। तस्माद् एकं हविर् उत्क्रष्टव्यम्, ब्राह्मणस्योभौ कल्पाव् इति।


पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् ॥ MS_५,४.१९ ॥

इदं श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीषोमीयो भवति, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति। यस्मात् तस्मिन् काले सो [५९४]36 ऽग्नीषोमीयो भवति, न प्राचीने काले तस्माद् अदो हविर् अनुनिर्वपेद् इति, अग्नीषोमीयत्वं विधाय द्विदेवताकत्वं हेतुत्वेन निर्दिश्यते। तस्माद् अग्नीषोमीयं हविर् हेतुमत् स्यात्, नान्यदेवताकम्, तदासाव् अग्नीषोमौ यष्टुम् अर्हति, न प्राक् सास्य देवतेति भवति पुरुषस्यापि यष्टुर् देवताभिसंबन्धः। तस्मात् पुरोडाशो ऽग्नीषोमीयो नान्यद् धविर् इति सिद्धम्।


आज्यम् अपीति चेत् ॥ MS_५,४.२० ॥

इति चेत् पश्यस्य् अग्नीषोमीयत्वात् पुरोडाश इति, आज्यम् अपि ह्य् अग्नीषोमीयम्। तस्मात् तद् अप्य् उत्कृष्येत।


न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् ॥ MS_५,४.२१ ॥

मिश्रदेवतं ह्य् आज्यम्, अग्नीषोमीयम्, प्राजापत्यम्, वैष्णवम् इति च। पुरोडाशस् त्व् अग्नीषोमीय एव। न त्व् अत्र मिश्रदेवतस्य वादः, मिश्रदेवतस्य हि प्राग् अपि भावो ऽवकल्प्यते। यद् अपि तदानीं यजमानो नाग्निषोमीयस् तद्देवतार्हः, तथाप्य् आज्यं हविः करिष्यत्य् एव, प्रजापतिं यक्ष्यति, विष्णुं वा। तस्मात् तस्योर्ध्वभावे न एष हेतुर् अग्नीषोमीयत्वं नाम। यथा चतुर्धाकरणं मिश्रदेवतत्वाद् ऐन्द्राग्नेन भवति, तद्वत् तत्राग्नेय इति, ऐन्द्राग्नो न शक्यते वदितुम्, तद् धितः साकाङ्क्षान् नोत्पद्यत इति। एवम् इहाग्नीषोमीयशब्देन न शक्यम् आज्यं वदितुम् अग्नीषोमीयो हि असौ37। तस्माच् छक्यं प्राग् यजमानेन कर्तुम् इति। तस्मान् न तस्योत्कर्षे ऽग्नीषोमीयता यजमानस्य हेतुर् इति, मिश्रदेवतस्य ग्रहणसामान्याद्38 ऐन्द्राग्नवद् इत्य् उक्तम्।

[५९५]39


विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् ॥ MS_५,४.२२ ॥

इह वैकृतानि कर्माण्य् उदाहरणम्, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् इत्येवमादीनि। तत्र संदेहः, किम् एता विकृतयः सद्यस्कालाः, उत द्व्यहकाला इति। किं प्राप्तम्? विकृतिः प्राकृतान् धर्मांश् चोदकेन गृह्णाति, अतस् ते धर्मा आनुमानिकाः, पौर्णमासी चान्यः कालः। स यदि वा प्रकृत्या गृह्येत, यदि वा विकृत्या, असंभवे ऽन्यतरस्याः कालस् त्यक्तव्यः, तत्रानुमानिको वैकृतस्य त्यज्यताम्, न प्रत्यक्षश्रुतः प्राकृतस्येति न्याय्यम्। तस्मात् सद्यस्काला एता विकृतयो भवेयुर् इति।


द्वैयहकाल्ये तु यथान्यायम् ॥ MS_५,४.२३ ॥

द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति, तस्माद् द्वैयहकाल्यं स्यात्। चोदकस् तथानुगृहीतो भवति, प्रकृतौ हि श्रूयते, पूर्वेद्युर् अग्निं गृह्णाति, उत्तरम् अहर् देवतां यजतीति। तस्माद् द्व्यहकालम् एकम् अभिनिर्वर्त्यम्, तदहर् एवोपक्रम्यापरेद्युः परिसमापयेत्।


वचनाद् वैककाल्यं स्यात् ॥ MS_५,४.२४ ॥

नैतद् एवम्, द्व्यहकाला विकृतयो भवेयुर् इति, सद्यस्कालाः स्युः। कस्मात्? वचनम् इदं भवति, इष्ट्या40 पशुना सोमेनाग्रयणेन वा यक्ष्यमाणः स पौर्णमास्याम् अमावास्यायां वा यजेतेति, साङ्गस्यैतद् वचनम्। तस्मात् साङ्गं पौर्ण[५९६]41मास्याम् अमावास्यायां वा कुर्वीतेति गम्यते, तेन सद्यस्काला विकृतयः।


सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात् प्रकृतिवत् ॥ MS_५,४.२५ ॥

इह सांनाय्यविकाराश् चाग्नीषोमीयविकाराश् चोदाहरणम्, सांनाय्यविकारास् तावद् यथा, आमिक्षा42 पशुर् इति, अग्नीषोमीयम्43 एकादशकपालं निर्वपेच् छ्यामाकम्, ब्राह्मणो वसन्ते ब्रह्मवर्चस्काम इत्य्44एवमाद्यः। तत्र संदेहः, किम् एते प्राग् ऊर्ध्वं च सोमात्, उतोर्ध्वम् इति। किं प्राप्तम्? प्राग् ऊर्ध्वं च, विशेषानवगमात्। एवं प्राप्ते ब्रूमः, ऊर्ध्वं सोमाद् स्युर् इति, प्रकृतिर् ह्य् एषाम् ऊर्ध्वं सोमात्, चोदकेन एभिर् अपि ऊर्ध्वं सोमात् भवितव्यम्। सान्नाय्यस्य ऊर्ध्वं सोमात्, वचनेन, असोमयाजी संनयेद् इति। अग्नीसोमीयस्यापि, आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वा भवति45, यद् एवादः पौर्णमासं हविः, तत् तर्ह्य् अनुनिर्वपेद् इति, तर्हि स उभयदेवत्यो भवतीति, तद्विकृतिर् अपि सोमाद् ऊर्ध्वं भवितुम् अर्हति।


तथा सोमविकारा दर्शपूर्णमासाभ्याम् ॥ MS_५,४.२६ ॥

सोमविकारा गवादय एकाहाः। तेषु संदेहः, किं दर्शपूर्णमासात् प्राग् ऊर्ध्वं च प्रयोक्तव्याः, उतोर्ध्वम् इति। किं प्राप्तम्? अनियमः, अविशेषात्। एवं प्राप्ते ब्रूमः, तथा [५९७]46 सोमविकाराः, दर्शपूर्णमासाभ्याम् ऊर्ध्वं स्युः, ज्योतिष्टोमो दर्शपूर्णमासाभ्याम् ऊर्ध्वं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति47। चोदकेनैष धर्मो गवादिष्व् अप्य् एकाहेषु प्राप्नोति। तस्मात् ते ऽपि दर्शपूर्णमासाभ्याम् ऊर्ध्वं कर्तव्या इति।

[५९८]48


द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः//६.१.१//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि समाम्नायते। तत्र संदेहः, किं स्वर्गो गुणतः, कर्म प्रधानतः, उत कर्म गुणतः, स्वर्गः प्रधानत इति। कुतः संशयः? इह स्वर्गकामो ऽपि निर्दिश्यते, यजेतेत्य् अपि। अत्र स्वर्गकामयागयोः संबन्धो गम्यते। तस्मिंश् च संबन्धे किं यागः साधनत्वेन संबध्यते, उत साध्यत्वेनेति भवति विचारणा। तत्र यदि स्वर्गकामस्य पुरुषस्य यागः कर्तव्यतया चोद्यते, स्वर्गकामेन यागः कर्तव्य इति, स्वर्गेच्छाविशिष्टस्य स सिध्यतीति गम्यते। स्वर्गेच्छा तत्र पुरुषस्य यागं प्रत्युपदिश्यते, तेन तस्य स सिध्यति नान्यस्येति। यः स्वर्गकामः, स शक्नोति पुरुषो यागं साधयितुम्। अथ स्वर्गकामस्य कामः कर्तव्यतया चोद्यते, ततो यागविशिष्टा कर्तव्यतेति यागः साधको ऽभ्युपगम्यते। स चायम् उभयोर् अप्य् अर्थ एकस्माद् उच्चरिताद् वाक्याद् गम्यते49, यागो वा कर्तव्यः कामो वेति। न चैतद् यौगपद्येन संभवति, यदा कामः, न तदा यागः, यदा यागः, न तदा कामः, वचनव्यक्तिभेदात्। उपपन्नः संशयः। [५९९]50 तथेदम् अपरं संदिग्धम्। किं प्रीतिः स्वर्गः, उत द्रव्यम् इति। यदि द्रव्यं स्वर्गः, ततः प्रधानं कर्म, द्रव्यं गुणभूतम्। अथ प्रीतिः स्वर्गः, ततो यागो गुणभूतः, स्वर्गः प्रधानम् इति। कुतः संशयः? नास्त्य् अत्र कामस्य गुणत्वेन प्राधान्येन वा श्रुतिः, संबन्धमात्रं त्व् अस्य यागेन गम्यते, द्रव्यस्य तु कर्मार्थता स्वभावतः, पुरुषप्रयत्नस्य च फलार्थता। किं तावत् प्राप्तम्? स्वर्गो गुणतः, कर्म प्रधानत इति। तत्र तावद्51 वर्णयन्ति, द्रव्यं स्वर्ग इति। कथम् अवगम्यते? सर्वेषाम् एव शब्दानाम् अर्थज्ञाने लौकिकः प्रयोगो ऽभ्युपायः, तस्मिंश् च लौकिके प्रयोगे द्रव्यवचनः स्वर्गशब्दो लक्ष्यते, कौशिकानि52 सूक्ष्माणि वासांसि स्वर्गः, चन्दनानि स्वर्गः, द्व्यष्टवर्षाः स्त्रियः स्वर्ग इति। यद् यत् प्रीतिमद् द्रव्यम्, तत् तत् स्वर्गशब्देनोच्यते। तेन सामानाधिकरण्यात् प्रीतिमद् द्रव्यं स्वर्ग इति मान्यामहे, उपमानाच् छब्दप्रवृत्तिर् इति चेत्। न हि कस्मिंश्चिद् अनुपमिते53 लोके प्रसिद्धः, यस्यैतद् उपमानं स्यात्, तस्मान् नोपमानम्। अतो द्रव्यं स्वर्ग इति। नेत्याह, प्रीतिः स्वर्ग इति, न द्रव्यम्, व्यभिचारात्, तद् एव हि द्रव्यं कस्यांचिद् अवस्थायां न स्वर्गशब्दो ऽभिधाति। प्रीतिं तु न कस्यांचिद् अवस्थायां न54, नाभिदधाति। तस्माद् अन्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, प्रीतौ स्वर्गशब्दो वर्तत इति। नैतद् अस्ति, प्रीतेर् अभिधायकः स्वर्गशब्द इति। कुतः? विशेषणत्वात्55। यद् विशेषणम्, न तच् छब्देनोच्यते। तद् यथा, दण्डीति दण्डनिमित्तः पुरुषवचनः, दण्डो ऽस्य [६००]56 निमित्तम्, नाभिधेयः। एवम् एष न प्रीतिवचनः प्रीतिसाधनवचनस् त्व् एष स्वर्गशब्द इति। ननु स्वर्गशब्दो लोके प्रसिद्धो विशिष्टे देशे। यास्मिन् नोष्णम्, न शीतम्, न क्षुत्, न तृष्णा, नारतिः, न ग्लानिः, पुण्यकृत एव प्रेत्य तत्र गच्छन्ति, नान्ये। अत्रोच्यते, यदि तत्र केचिद् अमृत्वा गच्छन्ति57, तत आगच्छन्त्य् अजनित्वा, न तर्हि स प्रत्यक्षो देश एवंजातीयकः, न त्व् अनुमानाद् गम्यते58। ननु59 चान्ये सिद्धाः केचिद् दृष्टवन्तः, ते चाख्यातवन्त इति चेत्। न तत्र प्रमाणम् अस्ति, सिद्धा एवंजातीयकाः सन्ति, ते च दृष्ट्वाचक्षीरन्न् इति। तस्माद् एवंजातीयको देश एव नास्ति। ननु च लोकाद् आख्यानेभ्यो वेदाच् चावगम्यते, देश एवंजातीयकः स्वर्ग इति। तन् न, पुरुषाणाम् एवंविधेन देशेनासंबन्धाद् अप्रमाणं वचः। आख्यानम् अपि पुरुषप्रणीतत्वाद् अनादरणीयम्। वैदिकम् अपि स्वर्गाख्यानं विधिपरं नास्त्य् एव, भवति तु विध्यन्तरेणैकवाक्यभूतं स्तुतिपरम्। यद्य् अपि केवलसुखश्रवणार्थापत्त्या तादृशो देशः स्यात्, तथाप्य् अस्मत्पक्षस्याविरोधः, प्रीतिसाधने स्वर्गशब्द इति। तेन देशेन व्यवहाराभावात्, कुतस् तस्याभिधायकः स्वर्गशब्दो भविष्यतीति60। यदा प्रीतिमद् द्रव्यं स्वर्गः, तदा ब्रूमः, द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति, यागो ऽत्र कर्तव्य इति श्रूयते स्वर्गकामस्य। तत्रावश्यं स्वर्गस्य यागस्य च संबन्धः, तत्र भूतं द्रव्यम्, भव्यं कर्म। भूतस्य च भव्यार्थता न्याय्या, दृष्टार्थत्वात्। न तु भव्यस्य भूतार्थता, तत्र दृष्ट उपकारस् त्यज्येत। कथं पुनर् अवगम्यते, यागः कर्तव्यतया चोद्यत इति, [६०१]61 यदा कामस्यापि कर्तव्यतास्माद् वाक्याद् अवगम्यते। उच्यते, कामस्य कर्तव्यता वाक्यात्, यज्यर्थस्य कर्तव्यता श्रुतेः, श्रुतिश् च वाक्याद् बलीयसी। तस्माद् अयम् अर्थः, स्वर्गकामो यागं कुर्याद् इति स्वर्गकामस्य यागः कर्तव्य इति। कर्तव्यश् च सुखवान्, अकर्तव्यो दुःखवान्। कर्तव्य इति चैनं ब्रूते। तस्मात् सुखफलो यागो भविष्यति, स तु यस्येच्छा, तस्य सिध्यति नान्यस्येति गम्यते। तेन स्वर्गेच्छा यागस्य गुणभूता, सर्वस्यापि कर्मणो द्रव्येच्छा भवति गुणभूता, तया द्रव्यम् आनेतुं यतते, दृष्टेनैव द्वारेण। इह तु स्वर्गसंज्ञकद्रव्येच्छैव नियम्यते, यथैव सा गुणभूता प्राप्ता। तथैव सति नियम्यते, दृष्टेनैव द्वारेण, नादृष्टेनोपकारेण। तेन स्वर्गेछया गुणभूतया स्वर्गद्रव्यं प्रति यतिष्यते यागं साधयितुम्। अथाप्य् अदृष्टेन, तथापि न दोषः।


असाधकं तु तादर्थ्यात्//६.१.२//

तुशब्देन पक्षो व्यावर्त्यते। तत एतावत्62 तावद् वर्णयन्ति, प्रीतिः स्वर्ग इति। कुतः? एवम् उक्तं भवता, प्रीतिविशिष्टे द्रव्ये स्वर्गशब्दो वर्तत इति। यद्य् एवम्, पूर्वं तर्हि प्रीतौ वर्तितुम् अर्हति। तां हि स न व्यभिचरति। व्यभिचरति पुनर् द्रव्यम्। यस्यैव प्रीतिसाधनस्य द्रव्यस्य वक्ता स्वर्गशबः, तद् एव यदा न प्रीतिसाधनं भवति, तदा न स्वर्गशब्देनाभिधीयते। तस्मात् प्रीतिवचनो ऽयम्। यत् तूक्तम्, दण्डिशब्दवद् इति, सो ऽपि प्रीते शब्दाद् दण्डे, दण्डिनि प्रत्ययम् आदधाति, अन्तर्गतस् तत्र दण्डशब्दः, स दण्डस्य वाचकः। इह पुनः स्वर्गशब्दः एव प्रीतेर् अभिधाता। प्रीतिवचनश् चेत्, यागो गुणभूतः प्रीतिः प्रधानम्। कुतः? तादर्थ्यात् पुरुषप्रयत्नस्य, प्रीत्यर्थं हि पुरुषो यतते, तेन न [६०२]63 प्रीतिर् यागसाधनम् इति विज्ञायते। द्रव्यं हि यागसाधनम्, नर्ते द्रव्याद् यागो भवति, यस्माद् द्रव्यदेवताक्रिये यजतिशब्दो वर्तते। असत्याम् अपि प्रीत्यां भवति यागः। यदि च यागो न प्रीत्यर्थो भवेत्, असाधकं कर्म भवेत्, साधयितारं नाधिगच्छेत्। यो हि प्रीत्यर्थः, स शध्यते, नान्यः। ननु कर्तव्यतया यागः श्रूयते। उच्यते, सत्यं कर्तव्यतया श्रूयते, कामो ऽपि कर्तव्यतयावगम्यते। आह, श्रुत्या यागस्य, वाक्येन कामस्य। न चोभयोः, वाक्यभेदः प्रसङ्गात्64। उच्यते, यद्य् अपि यागः कर्तव्यः श्रूयते, तथापि न कर्तव्यः, सुखदः कर्तव्यो भवति, दुःखदो यागः। तस्मात् प्रत्यक्षेणाकर्तव्यः, प्रत्यक्षेण च दुःखदः। कर्तव्यतावचनाद् अनुमानेन सुखदो भवतीति। उच्यते, अनुमानं च प्रत्यक्षविरोधान् न प्रमाणम्। तस्माद् अकर्तव्यो यागः, यदि न प्रीत्यर्थः। अथान्येन65 फलवचनेन संभन्त्स्यत इति। उच्यते, संबध्यमानो66 ऽप्य् अविधीयमानो न समीपवचनमात्रेण फलवान् विज्ञायते। तस्माद् अनर्थको मा भूद् इति स्वर्गस्य कर्तव्यता गम्यते, पुरुषप्रयत्नश् च यागविशिष्ट इति यागस् तस्य करणं स्यात्। तस्मात् सुष्ठूक्तं यागो गुणभूतः, स्वर्गः प्रधानभूत इति।


प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धस् तस्मात् कर्मोपदेशः स्यात्//६.१.३//

न केवलम् आनर्थक्यभयाद् यागस्य गुणभावं ब्रूमः। किं तर्हि? स्वर्गसंज्ञकम् अर्थं प्रति करणत्वेन यागो विधीयते। ननु यागः कर्तव्यतया श्रुत्या विधीयते। सत्यम् एवम्, आनर्थक्यं तु तथा भवति, स्वर्गं प्रत्यविहिते यागे, स्वर्गकामः, तस्मिन् निष्फले विधीयमानो ऽपि निष्प्रयोजनः स्यात्। तत्रास्य [६०३]67 उपदेशवैयर्थ्यम्, द्वयोश् च विधीयमानयोः परस्परेणासंबद्धयोर् वाक्यभेदः प्रसङ्गः68। अतो न स्वर्गकामपदेन स्वार्थो विधीयते। किं तर्हि? उद्दिश्यते। तत्र वाक्याद् अवगतस्य कामस्य कर्तव्यतावगम्यते, यागस्य च करणता। एवं च यागकर्तव्यतायां69 न प्रत्यक्षविरोधो भविष्यति। तस्मात् कर्मोपदेशः स्यात्, कर्म स्वर्गं प्रत्य् उपदिश्यते, न स्वर्गः कर्म प्रति। किम् अतो यदि स्वर्गो नोपदिश्यते? एतद् अतो भवति। न ह्य् अनुपदिष्टो ऽर्थप्राप्तश् च गुणो भवति। तस्मात् स्वर्गः प्रधानतः, कर्म गुणत इति। अपि च, यस्य स्वर्ग इष्टः स्यात्, स यागं निर्वर्त्येद् इत्य् असंबद्धम् इव, अन्यद् इच्छति, अन्यत् करोतीति70। अथ मतम्, ततः स्वर्गो भवतीति संबन्धाद् इदं गम्यत71 इति। न शब्दप्रमाणकामाम् अन्तरेण शब्दम् अवगतिर् न्याय्या। वाक्याद् एवास्माद् इमं संबन्धम् अवगच्छामः, यथा काष्ठान्य् आहर्तुकामो ऽरण्यं गच्छेद् इति यदि ब्रूयात्, ब्रूयाद् एतत्, दृष्टं तत्र प्रमाणान्तरेणारण्यागमनस्य काष्ठाहरणसामर्थ्यं विद्यत इति। अथ मन्यते72, उपदेशानर्थक्यं मा भूद् इत्य् अर्थापत्तिर् भविष्यतीति। उच्यते, नोपदेशानर्थक्यस्यैतत् सामर्थ्यम्, यद् अन्तरेण फलवचनम्, यागस्य प्रीतिः फलम् अवगम्येत। कामम् अस्यानर्थक्यं भवतु73, न जातुचित् सामर्थ्यम् अस्य जायते। न हि दग्धुकामस्योदकोपादानम् असति दाहे ऽनर्थकम् इति दहनशक्तिम् अस्य जनयेत्। अथ वा, स्वर्गकामस्य यागो विधीयत इति पक्षान्तरावलम्बेनास्यार्थवत्ता भविष्यति। नन्व् इतरस्मिन्न् अपि पक्षे स्वर्गकामस्य यागो विधीयते, न यागात् स्वर्गः। नैतद् एवम्। तस्मिन् खलु पक्षे स्वर्गं प्रार्थयमानस्यानुष्ठानम् अनूद्य यागस् तस्योपायत्वेन विधीयत इति न [६०४]74 दोषः। तद् अनुष्ठानं स्वर्गं प्रतीति नास्ति वचनम् इति चेत्। इष्टम् अर्थं प्रत्य् अनुष्ठानं भवति, स्वर्गकामस्य च स्वर्ग इष्टः, तदनुष्ठानविशेषग्रहणार्थम् एव स्वर्गकामविशेषणग्रहणम् इति निरवद्यम्। तस्मात् स्वर्गकामस्य यागकर्मोपदेशः स्यात्, अतः स्वर्गः प्रधानतः, कर्म गुणत इति स्वर्गकामम् अधिकृत्य, यजेतेति वचनम्। इत्य् अधिकारलक्षणम् इदं सिद्धं भवति।


फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्//६.१.४//

इदम् आम्ननन्ति, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि। तत्र संदेहः, किं यावत् किंचित् सत्त्वम्, तत् सर्वम् अधिकृत्यैतद् उच्यते, उत समर्थम् अधिकृत्येति। किं प्राप्तम्? सर्वाधिकारः, अविशेषात्। ननु वृक्षादयो न किंचित् कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूद् अचेतनानाम्, तिरश्चस् त्व् अधिकृत्य यजेतेति ब्रूयात्। ननु तिर्यंचो ऽपि न किंचित् कामयन्ते। नेति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, धर्मोपतप्ताश् छायाम् उपसर्पन्ति, शीतेन पीडिता आतपम्। आह, ननु तिर्यंच आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च वैदिकानि कर्माणि। उच्यते, कालान्तरे ऽपि फलं कामयमाना लक्ष्यन्ते, शुनश् चतुर्दश्याम् उपवसतः पश्यामः, श्येनांश् चाष्टम्याम्। न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, नानाहाराणाम् अपि तस्मिन् काले दर्शनात्, [६०५]75 समानाहाराणाम् अप्य् अन्यस्मिन् काले ऽदर्शनात्। लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासतेत्य्76एवमादीनि देवतानाम् ऋषीणां वनस्पतीनाम् अधिकारं दर्शयन्ति। ननु कार्त्स्न्येन विधिम् उपसंहर्तुं न शक्नुवन्तीत्य् अनधिकृताः। उच्यते, यागं कर्तुं शक्नुवन्ति केचित्, तस्मात् यजेतेत्येवमादीन्य् अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादिवचनानि77 त्व् अशक्तान् नाधिकरिष्यन्ति। तत्र यो ऽनुपदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कस् तस्य दोषः? द्रव्यपरिग्रहो ऽपि देवग्रामः, हस्तिग्रामः, ऋषभस्य ग्राम इत्य् उपचाराद् अस्त्य् एवेति। तस्माद् अमनुष्याणाम् अपि शक्नुवताम् अधिकार इति।


कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते//६.१.५//

वाशब्दः पक्षं व्यावर्तयति। न चैतद् अस्ति, तिर्यगादीनाम् अप्य् अधिकार इति। कस्य तर्हि? यः समर्थः कृत्स्नं कर्माभिनिर्वर्तयितुम्। न चैते शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्माद् एषां न सुखस्याभ्युपायः कर्मेति। कथं यो न शक्यते कर्तुम्, सो ऽभ्युपायः स्याद् इति। न देवानाम्, देवतान्तराभावात्, न ह्य् आत्मानम् उपदिश्य त्यागः संभवति, त्याग एवासौ न स्यात्, नर्षीणाम्, आर्षेयाभावात्। न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम्। [६०६]78 अपि च निर्यञ्चो न कालान्तरफलेनार्थिनः, आसन्नं हि ते कामयन्ते। ननु चोक्तम्, कालान्तरफलार्थिनस् तिरश्चः पश्यामः, शुनः श्येनांश् चतुर्दश्याम् अष्टभ्यां चोपवसत इति। उच्यते, न जन्मान्तरफलार्थिन उपवसन्ति। कथम् अवगम्यते? वेदाध्ययनाभावात्, ये वेदम् अधीयते त एतद् विदुः, इदं कर्म कृत्वा, इदं फलम् अमुत्र प्राप्नोतीति। न चैते वेदम् अधीयते, नापि स्मृतिशास्त्राणि, नाप्य् अन्येभ्यो ऽवगच्छन्ति। तस्मान् न विदन्ति धर्मम्। अविद्वांसः कथम् अनुतिष्ठेयुः? तस्मान् न धर्मायोपवसन्तीति। किम् अर्थं तर्ह्य् एषाम् उपवासः? उच्यते, रोगाद् अरुचिर् एषाम्। कथं पुनर् नियते काले रोगो भवति? उच्यते, नियतकाला अपि रोगा भवन्ति, यथा तृतीयकाश् चातुर्थकाश् चेति। तस्मान् मनुष्याणाम् अधिकार इति। न च तिरश्चां द्रव्यपरिग्रहः, न ह्य् एते द्रव्यं स्वेच्छयोपयुञ्जाना दृश्यन्ते। तस्माद् अनीशाना धनस्य। यत् तु, देवग्रामो हस्तिग्राम इति, उपचारमात्रं तत्। तस्माद् अपि न तिरश्चाम् अधिकार इति। यानि पुनर् लिङ्गानि, देवा वै सत्रम् आसतेत्येवमादीनि, अर्थवादास् ते विधिप्ररोचनार्थाः, विद्यते हि विधिर् अन्यस् तेषु सर्वेषु। न च विधेर् विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात्। स्तुतिस् तु सा, इत्थं नाम सत्राण्य् आसितव्यानि, यत् कृतकृत्या अप्य् आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किम् अङ्ग पुनर् विद्वांसो मनुष्या इति। ननु विष्णुक्रमादिष्व् अनधिकृताः केवलं यागं करिष्यन्ति। [६०७]79 नैवम्, गुणा यागं प्रत्य् उपदिश्यन्ते, न कर्तारं प्रति, तेन यागमात्रे क्रियमाणे वैगुण्यम् इति न फलसंबन्धः स्यात्। कथं पुनर् यागं प्रत्य् उपदिश्यन्त इति चेत्। इतिकर्तव्यताकाङ्क्षस्य यागवचनस्यान्तिकाद् उपनिपतिताः शक्नुवन्ति तं निराकाङ्क्षीकर्तुम्, इतरथा हि कर्तॄन् अधिकुर्वत्सु गुणवचनेष्व् अनिवृत्ताकाङ्क्षं फलवचनम् अनर्थकम् एव स्यात्, अनुषङ्गश्80 च फलवचनम् अभिविष्यत्, तत्र साकाङ्क्षत्वाद् वाक्यम् उपरोत्स्यते। अथैतद् एव वाक्यं समर्थानां सगुणं कर्म विधास्यति, असमर्थानां विगुणम् इति। तन् न, सकृद् उच्चारण उभयशक्तिविरोधाद् वाक्यं भिद्येत, साकाङ्क्षं हि तद् इतिकर्तव्यतां प्रति। तस्मात् साङ्गयागोपदेशः स इति निरङ्गयागोपदेशाभावः। तस्मान् मनुष्याणाम् एवाधिकार इति। प्रयोजनं पक्षोक्तम्, केचिद् आहुः सहस्रसंवत्सरं कर्म न नियोगतो दिवसेषु कल्पयितव्यम्, पूर्वपक्षे81 तदायुषां देवतादीनां संभवातीति82, सिद्धान्ते तत्र संभवद् अपि83 दिवसेष्व् एव कल्पयितव्यम् इति। तत् तूपरिष्टाद्84 व्याख्यास्यामः।


लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः//६.१.६//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादि समाम्नायते। तत्र संदेहः, किं स्वर्गकामं पुमांसम् अधिकृत्य यजेतेत्य् एष शब्द उच्चरितः, अथ वानियमः, स्त्रियं पुमांसं चेति85। किं प्राप्तम्? पुंलिङ्गम् अधिकृतं मेने ऐतिशायनः। कुतः? लिङ्गविशेषनिर्देशात्। पुंलिङ्गेन विशेषेण निर्देशो [६०८]86 भवति स्वर्गकामो यजेतेति87। तस्मात् पुमान् उक्तो यजेतेति, न स्त्री।


तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते//६.१.७//

अविज्ञाते गर्भे हते भ्रूणहत्यानुवादो भवति, तस्माद् अविज्ञातेन गर्भेण हतेन भ्रूणहा भवतीति। भ्रूणहा पापकृत्तमः, यश् चोभयोर् लोकयोर् उपकरोति, तस्य हन्ता भ्रूणाहा, यज्ञहन्ता भ्रूणहा, स यज्ञसाधनबधकारी88। तस्माद् यज्ञं भ्रूणशब्देनाभिदधाति। स हि बिभर्ति वा सर्वम्, भूतिं वानयति। अतो भ्रूणहा यज्ञबधकारी89, स पुंयुक्तत्वाद् अनुवादो ऽवकल्पते। अविज्ञाते गर्भे हन्यमाने कदाचित् पुमान् हन्येत, तत्र यज्ञाधिकृतस्य हतत्वाद् यज्ञबधो90 भ्रूणहत्या स्यात्। इतरथा, यद्य् उभयोर् अधिकारः, ततो विज्ञाते चाविज्ञाते च यज्ञवधः91 स्यात्। तत्राविज्ञातग्रहणम् अतन्त्रम् इति कल्प्येत। तस्माद् विवक्षिता पुंलिङ्गस्य वाचिका विभक्तिर् इति। तथा, आत्रेयीं हत्वा भ्रूणहा भवति, आत्रेयीम् आपन्नगर्भाम् आहुः, अत्र कुक्षाव्92 अस्या विद्यत इत्य् आत्रेयी। तस्माद् अपि पुंसो ऽधिकारो गम्यते। यथा, पशुम् आलभेतेति93 पुंपशुर् एवालभ्यते, लिङ्गविशेषनिर्देशात्94। एवम् इहापि द्रष्टव्यम् इति। एवं प्राप्ते ब्रूमः,


जातिं तु बादरायणो ऽविशेषात्, तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्//६.१.८//

तुशबः पक्षं व्यावर्तयति। नैतद् अस्ति, पुंसो एवाधिकार इति95, जातिं तु भगवान् बादरायणो96 ऽधिकृतां मन्यते स्म। आह, किम् अयं [६०९]97 स्वर्गकाम इति जातिशब्दः समधिगतः? नेत्य् आह। कथं तर्हि? यौगिकः, स्वर्गेच्छायोगेन वर्तते। केन तर्हि शब्देन जातिर् उक्ता, याधिकृतेति गम्यते? नैव च98 वयं ब्रूमः, जातिवचन इह शब्दो ऽधिकारक इति। किं तर्हि, स्वर्गकामशब्देनोभाव् अपि स्त्रीपुंसाव् अधिक्रियेते इति, अतो न विवक्षितं पुंलिङ्गम् इति। कुतः? अविशेषात्, न हि शक्नोत्य् एषा विभक्तिः स्वर्गकामं लिङ्गेन विशेष्टुम्। कथम्? लक्षणत्वेन श्रवणात्, स्वर्गे कामो यस्य, तम् एष लक्षयति शब्दः, तेन लक्षणेनाधिकृतो यजेतेति शब्देनोच्यते। तच् च लक्षणम् अविशिष्टं स्त्रियां पुंसि च। तस्माच् छब्देनोभाव् अपि स्त्रीपुंसाव् अधिकृताव् इति गम्यते। तत्र केनाधिकारः स्त्रिया निवर्त्यते। विभक्त्येति चेत्। तन् न। कस्मात्? पुंवचनत्वात् स्त्रीनिवृत्ताव् अशक्तिः। पुंसो विभक्त्या पुनर्वचनम् अनर्थकम् इति चेन्। न, आनर्थक्ये ऽपि स्त्रीनिवृत्तेर् अभावः, परिसंख्यायां स्वार्थहानिः परार्थकल्पना प्राप्तबाधश् च। न चानर्थक्यम्, निर्देशार्थत्वात्। तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्।


चोदितत्वाद् यथाश्रुति//६.१.९//

अथ यद् उक्तम्, पशुम् आलभेतेति99 पुंपशुर् आलभ्यते पुंलिङ्गवचनसामर्थ्यात्, एवम् इहापि पुंलिङ्गवचनसामर्थ्यात् पुमान् अधिक्रियते यागवचनेनेति। तत् परिहर्तव्यम्। अत्रोच्यते, नात्र जातिर् द्रव्यस्य लक्षणत्वेन श्रूयते, यदि हि लक्षणत्वेन श्रूयते, ततः स्त्रिया अपि याग उक्तो न पुंवचनेन निवर्त्येत, इदं तु पशुत्वं यागस्य विशेषणात्वेन श्रूयते। तत्र पशुत्वस्य यागस्य च संबन्धो न द्रव्ययागयोः, यथा पशुत्वं यागसंबद्धम्, [६१०]100 एवं पुंस्त्वम् एकत्वं च, सो ऽयम् अनेकविशेषणविशिष्टो यागः श्रूयते। स यथाश्रुत्य् एव कर्तव्यः, उपादेयत्वेन चोदितत्वात्। यच् च, दोषश्रुतिर् अविज्ञाते गर्भे हते, आत्रेयां च पुंयुक्तत्वेनेति, तत् परिहर्तव्यम्। अत्रोच्यते, अविज्ञातेन गर्भेणेत्य् अनुवादः प्रशंसार्थः, आत्रेयी च न हन्तव्येति। इत्थं गर्भो न हन्तव्यः, यद् अव्यक्तेनाप्य् एनस्वी भवति। पुंलिङ्गविभक्तिः श्रूयमाणा न शक्नोति स्त्रियं निवर्तयितुम्। किम् अङ्ग पुनर् अविज्ञातगर्भवचनं लिङ्गम्। तथा गोत्रप्रशंसार्थम् आत्रेया अबधसंकीर्तनम्101। न चापन्नसत्त्वा आत्रेयी, गोत्रं ह्य् एतत्। न ह्य् अत्रशब्दादयं तद्धित उत्पन्नः, समर्थानां हि तद्धित उत्पद्यते। न चात्रशब्दस्य सामर्थ्यम् अस्ति।


द्रव्यवत्त्वात् तु पुंसां स्यात्, द्रव्यसंयुक्तम्, क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्//६.१.१०//

पुंसां तु स्याद् अधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्तं चैतत् कर्म, व्रीहिभिर् यजेत, यवैर् यजेतेत्येवमादि। कथम्? अद्रव्यत्वं स्त्रीणाम्, क्रयविक्रयाभ्याम्, क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्रा क्रीयन्ते, विक्रीतत्वाच् च पितृधनानाम् अनीशियः। क्रीतत्वाच् च भर्तृधनानाम्। विक्रयो हि श्रूयते, शतम् अधिरथं दुहितृमते102 दद्यात्, आर्षे गोमिथुनम्103 इति। न च, एतद् दृष्टार्थे सत्य् आनमने ऽदृष्टार्थं भवितुम् अर्हति। एवं द्रव्यैः समानयोगित्वं स्त्रीणाम्।


तथा चान्यार्थदर्शनम्//६.१.११//

या पत्या क्रीता सत्य् अथान्यैश् चरतीति क्रीततां दर्शयति।

[६११]104


तादर्थ्यात् कर्मतादर्थ्यम्//३.१.१२//

आह, यद् अनया भक्तोत्सर्पणेन वा कर्तनेन वा धनम् उपार्जितम्, तेन यक्ष्यत इति। उच्यते, तद् अप्य् अस्या न स्वम्, यदा हि सान्यस्य स्वभूता, तदा यत् तदीयम्, तद् अपि तस्यैव। अपि च, स्वामिनस् तया कर्म कर्तव्यम्, न तत् परित्यज्य स्वकर्मार्हति कर्तुम्। यत् तयान्येन प्रकारेणोपार्ज्यते, तत् पत्युर् एव स्वं भवितुम् अर्हतीति। एवं स्मरति -

भार्या दासश् च पुत्रश् च निर्धनाः सर्व एव ते/ यत् ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम् इति//105


फलोत्साहाविशेषात् तु//६.१.१३//

तुशब्दः पक्षं व्यावर्तयति। न चैतद् अस्ति, निर्धना स्त्रीति, द्रव्यवती हि सा, फलोत्साहाविशेषात्, स्मृतिप्रामाण्याद् अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्, फलार्थिन्या यष्टव्यम्। यदि स्मृतिम् अनुरुध्यमाना परवशा निर्धना च स्यात्, यजेतेत्य् उक्ते सति न यजेत। तत्र स्मृत्या श्रुतिर् बाध्येत। न चैतन् न्याय्यम्। तस्मात् फलार्थिनी सती स्मृतिम् अप्रमाणीकृत्य द्रव्यं परिगृह्णीयाद् यजेत चेति।


अर्थेन च समवेतत्वात्//३.१.१४//

अर्थेन चास्याः समवेतत्वं भवति। एवं दानकाले संवादः क्रियते, धर्मे चार्थे च कामे च नातिचरितव्येति। यत् तूच्यते106, भार्यादयो निर्धना इति, स्मर्यमाणम् अपि निर्धनत्वम् अन्याय्यम् एव, श्रुतिविरोधात्। तस्माद् अस्वातन्त्र्यम् अनेन प्रकारेणोच्यते, संव्यवहारप्रसिद्ध्यर्थम्।

[६१२]107


क्रयस्य धर्ममात्रत्वम्//६.१.१५//

यत् तु क्रयः श्रूयते, धर्ममात्रं तु तत्, नासौ क्रय इति। क्रयो हि उच्चनीचपण्यपणो108 भवति। नियतं त्व् इदं दानं शतम् अतिरथम्109, शोभनाम् अशोभनां च कन्यां प्रति। स्मार्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते। तस्माद् अविक्रयो ऽयम् इति।


स्ववत्ताम् अपि दर्शयति//६.१.१६//

पत्नी वै पारिणय्यस्येष्टे पत्यैव गतम् अनुमतं110 क्रियते111। तथा, भसदा पत्नीः112 संयाजयन्ति113, भसद्वीर्या हि पत्नयः, भासदा वा एताः परगृहाणाम् ऐश्वर्यम् अवरुन्धत इति।


स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्//६.१.१७//

स्ववन्ताव् उभाव् अपि दंपती इत्य् एवं तावत् स्थितम्। तत्र संदेहः, किं पृथक् पत्नी यजेत, पृथग् यजमानः, उत संभूय यजेयाताम् इति। किं प्राप्तम्? पृथक्त्वेन114। कुतः? एकवचनस्य विवक्षितत्वात्। उपादेयत्वेन कर्ता यजेतेति श्रूयते115। तस्माद् एकवचनं विवक्ष्यते, यथा न द्वौ पुरुषौ संभूय यजेयाताम्, तथात्रापि द्रष्टव्यम्। एवं प्राप्ते ब्रूमः, स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्, वचनात् तयोः सहक्रिया। एवं हि स्मरन्ति, धर्मे चार्थे च कामे च [६१३]116 नातिचरितव्येति, तथा सहधर्मश् चरितव्यः, सहापत्यम् उत्पादयितव्यम् इति। उच्यते, स्मृतिवचनेन न श्रुतिवचनं युक्तं बाधितुम्। नेति ब्रूमः, इह किंचित् कर्म स्त्रीपुंसकर्तृकम् एव, यथा दर्शपूर्णमासौ ज्योतिष्टोम इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन चाज्येन होम उच्यते, तत्रान्यतराभावे वैगुण्यम्। ननु पुंसो यजमानस्य यजमानावेक्षितम् आज्यम्, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यतीति। नेत्य् आह, नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात्। आज्यसंस्कारश् चायम्, गुणभूताव् ईक्षितारौ, तत्रान्यतरापाये नियतं वैगुण्यम्, सर्वाङ्गोपसंहारी च प्रयोगवचनः। तत्रैतत् स्यात्, स्त्री यजमाना पुमांसं परिक्रेष्यत्य् आज्यस्येक्षितारम्, पुमांश् च स्त्रियं त्व् अवेक्षित्रीम् इति। तच् च न, पत्नीति हि यज्ञस्य स्वामिनीत्य् उच्यते, न क्रीता। पत्नीति संबन्धिशब्दो ऽयम्, यजमान इति च स्वामी, न क्रीतः। तस्मात् स्त्रीपुंसयोर् एकम् एवंजातीयकं कर्मेति। तत्र श्रुतिसामर्थ्याद् यः कश्चित्, यया कयाचित् सह117 संभूय यजेतेति प्राप्ते, इदम् उच्यते, यस् त्वया कश्चिद् धर्मः कयाचित् सह कर्तव्यः, सो ऽनया सहेति, तेन न श्रुतिविरोधः स्मृतेर् इति गम्यते। अथ यद् उक्तम्, केवलस्य पुंसो ऽधिकारः, केवलायाश् च स्त्रिया यजेतेत्य् एकवचनस्य विवक्षितत्वाद् इति, तत् परिहर्तव्यम्। इदं तावद् अयं प्रष्टव्यः, यजेतेत्य् एकवचने विवक्षिते, कथं षोडशभिर् ऋत्विग्भिः सह यागो भवतीति। एवम् उच्यते, प्रति[६१४]118कारकं क्रियाभेदः, यजमानान् एव पदार्थान् परिक्रयादीन् कुर्वन्, यजत इत्य् उच्यते यजमानः, आध्वर्यवान् एव कुर्वन् अध्वर्युर् यजतीत्य् एवम् उच्यते, यथा संभरणम् एव कुर्वती स्थाली पक्तिं करोतीत्य् उच्यते, यस्य च कारकस्य य आत्मीयो व्यापारः, स एकवचने विवक्षित एकेन कर्तव्यो भवतीति। एवं चेद् यावान् व्यापारो यजमानस्य स119 तावात्, न संभूय कर्तव्यः, एकेनैको याजमानो ऽपरेणापरः। द्वादशो वा शत एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशद् इति। इह तु पत्नीव्यापारो ऽन्य एव, न तत्र पत्नी प्रवर्तमाना यजमानस्यैकत्वं विहन्ति, यथाध्वर्युर् आध्वर्यवेषु प्रवर्तमानः। अवश्यं च सह पत्न्या यष्टव्यम्, मध्यकं हीदं दंपत्योर् धनम्, तत्र यागो ऽवश्यं सह पत्न्या कर्तव्यः, इतरथान्यतरानिच्छायां त्याग एव न संवर्तेत, तथा हि द्वितीयया पत्न्या विना त्यागो नैवावकल्पते, यस्य द्वितीया पत्न्य् अस्ति, तत्र क्रत्वर्थान् एका करिष्यति। कर्तृसंस्कारार्थेषु नैव दोषः, संभवन्ति हि तानि सर्वत्रेति।


लिङ्गदर्शनाच् च//६.१.१८//

लिङ्गं खल्व् अपि दृश्यते, योक्त्रेण पत्नीं संनह्यति, मेखलया यजमानं मिथुनत्वायेति120। यदि स्त्रीपुंसाव् एकत्र, योक्त्रस्य मेखलायाश् च विभागो वाक्याद् गम्यते, मिथुनसंस्तवश् च, तद् एतत् स्त्रीपुंससाधनके कर्मण्य् उपपद्यते, नान्यथा।


क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते//६.१.१९//

स्थिताद् उत्तरम् उच्यते। तुशब्दः पक्षं व्यावर्तयति। नैतद् अस्ति, यद् उक्तं स्ववती स्त्रीति, क्रीता हि सा, दृष्टार्थत्वाद् अधिरथशतदानस्य121, अतो यद् अस्याः स्वामित्वम् उच्यते, तद् भक्त्या, [६१५]122 यथा पूर्णको ऽस्माकं बलीवर्दानाम् ईष्ट इति, एवं पत्न्य् अपि पारिणय्यस्येष्ट इति।


फलार्थित्वात् तु स्वामित्वेनाभिसंबन्धः//६.१.२०//

नैतद् अस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति, फलार्थिनी हि सा, स्मृतिर् नादरिष्यते, स्मृत्यनुरोधाद् अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्।


फलवत्तां च दर्शयति//६.१.२१//

सं पत्नी पत्न्या सुकृतेन गच्छतां यज्ञस्य धुर्यायुक्ताव् अभूताम्। संजानानौ विजहीताम् अरातीर् दिवि ज्योतिर् अजरमारम् एताम् इति123 दंपत्योः फलं दर्शयति। तस्माद् अप्य् उभाव् अधिकृताव् इति सिद्धम्।


द्व्याधानं च द्वियज्ञवत्//६.१.२२//

अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति। तत्रेदम् आमनन्ति, क्षौमे वसानाव् अग्निम् आदधीयाताम् इति। तत्रैषो ऽर्थः सांशयिकः, किं द्वौ पुरुषाव् आदधीयाताम् उतैकः पुरुष इति। कथं संशयः? उच्यते, इहैतच् छ्रूयते, वसानाव् आदधीयाताम् इति। तत्र वचनम् अर्थप्राप्तं पुनः श्रूयते, तत् किं पुंलिङ्गसंबन्धार्थम्, उत क्षौमविध्यर्थम् इति। उभयोर् विद्यमानत्वाद् भवति संशयः, यदि लिङ्गसंबन्धार्थम्, उभौ पुरुषाव् आधास्येते। अथ क्षौमसंबन्धार्थं तत एकः। किं प्राप्तम्? द्व्याधानं तु द्वियज्ञवत् स्यात्, यथा, एतेन द्वौ [६१६]124 राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति द्वयोः पुरुषयोर् द्वियज्ञो भवति, एवं द्व्याधानं द्वयोः पुरुषयोः स्यात्, ततो ऽविशेषात्, वसानाव् इति श्रवणाद् एव पुरुषौ गम्येते। न पदान्तरगतेन क्षौमेणास्य संबन्धः, श्रुत्यवगतं हि श्रवणाद् अवगतम्, पदान्तरसंबन्धं वाक्याद् अवगतम्, श्रुतिश् च वाक्याद् बलीयसी। वसानशब्दगतश् चार्थ आधानेन संबध्यते, न क्षौमशब्दगतः। आह, वसानाव् इति नायं केवलं पुंलिङ्ग एव, स्त्रीपुंसयोर् अप्य् अभिधायको भवति, यथा कुक्कुटश् च कुक्कुटी च कुक्कुटौ, शूकरश् च शूकरी च शूकराव् इति। एवं वसानश् च वसाना च वसानौ स्याताम् इति। अत्रोच्यते, यत्र नार्थः, प्रकरणं वा विशेषकम्, विधायकश् च शब्दः, नास्त्य् अनुवादस्125। तत्र द्वौ पुमांसौ गम्येते, यथा द्वाव् आनयेत्य् उक्तः पुमांसाव् आनयति। द्वे आनयेति स्त्रियौ, तेन स्त्रियो वाचकम् एकारान्तं द्विवचनम् इति गम्यते, औकारान्तम् अपि द्वयोः पुंसोर् वाचकम् इति। यत्रेदानीं स्त्रीपुंसयोः प्रयुज्यमानम् औकारान्तं दृश्यते, तत्र किं पुमान् सद्वितीयस् तस्य निमित्तम्, उत स्त्री सद्वितीया इति126। उच्यते, पुंसि सद्वितीये दृष्टः, यथा ब्राह्मणाव् आनयेति, इहापि पुमान् सद्वितीयो ऽर्थः। तस्मात् पुंनिमित्तम् इति गम्यते। अत्राह, प्रयोगो यदि दृस्टं प्रमाणं द्वयोः पुंसोर् दृष्टः, कथम् एकस्मिन् स्यात्? अत्रोच्यते, पुंसि च द्वित्वे च दृष्ट इति शक्यते वदितुम्, न द्वयोर् द्रव्ययोर् इति, पुंभावं द्वित्वं चैष शब्दो न व्यभिचरति, द्रव्यं पुनर् व्यभिचरति। अपि च युगपदधिकरणवचनाया127 द्वंद्वस्मृतेर् द्विवचनबहुवचनोपपत्तेश् च, [६१७]128 प्र मित्रयोर् वरुणयोर् इति च दर्शनात्। इतरेतरयोगे चार्थे समासविधानाद् द्वन्द्वापवादत्वाच् चैकशेषस्य, यथैव खदिरौ च धवलौ129 चेति निर्दर्शनं क्रियते, एवम् अत्रापि द्रष्टव्यम्। तस्मात् पुंसि द्वित्वे च वर्तत इति गम्यते। न च स्त्रीद्वित्वे दृष्टः। अत्राह, नन्व् अत्रैव दर्शनात्, स्त्रीपुंसयोर् वाचक इति गम्यते। अत्रोच्यते, उक्तम् एतत्, अन्यायश् चोनेकार्थत्वम् इति पुमान् सद्वितीयो ऽस्यार्थो भविष्यति, स्त्रीपुंसौ चेत्य् अन्याय्यम्। अथेदानीं सद्वितीयस्य पुंसो विधौ को ऽन्यः सहाय130 इति। स्त्रिया अनभिधेयत्वात्, अवश्यं भावित्वाच् च द्वितीयस्य, अपरः सद्वितीयः पुमान्, एवम् इतरो ऽपीतरेण सद्वितीयः, इतरो ऽपीतरेणेति द्वाव् एव पुमांसाव् उपादीयेते। तस्माद् इह द्वौ पुमांसाव् आधाने विधीयेत इत्य् उच्यते। ननु स्त्रीपुंसयोर् वाचकम् औकारान्तं द्विवचनं स्मरन्ति। नैषा स्मृतिर् अस्तीति ब्रूमः। आह, भगवतः पाणिनेर् वचनात् स्मृतिम् अनुमास्यामहे, पुमान् स्त्रिया131 इति। उच्यते, न पाणिनेर् वचनम् कुक्कुटाव् इत्य् औकारः स्त्रीपुंसयोर् वाचक इति। कथं तर्हि? यत्र स्त्रीपुंसयोः सहवचनम्, तत्र सद्वितीयो वा पुमान् इति कृत्वाकारान्तस्यौकारः प्राप्नोति, सद्वितीया वा स्त्रीति कृत्वैकारः। पुंशब्दस् तत्र साधुर् न स्त्रीशब्द इति पाणिनेर् वचनम्। पुमान् शिष्यत इति च ब्रूते, तेन सुतरां गम्यते, पुंसोर् वाचक औकार इति। तस्माद् द्वयोः पुंसोर् अधिकार इति। ननु क्षौमविधानपरम् एतद् वाक्यम् स्यात्, क्षौमसंबन्धस्य [६१८]132 अर्थवत्त्वात्133, इतरथा क्षौमवचनम् अनर्थकं स्यात्। अत्रोच्यते, वसानाव् आदधीयाताम् इत्य् अस्ति संबन्धः, न क्षौमे आदधीयाताम् इति। तस्मात् संनिकृष्टम् अपि न तत्संबद्धम् आधानेन। आह, वसानशब्देन सह संबध्यमानम् अर्थवद् भविष्यति। वसानसंनिकृष्टे अपि क्षौमे न विधीयते, विधायकस्य शब्दस्याभावात्। न हि वसानशब्दो विधायकः, न क्षौमशब्दः, नानयोः समुदायः। कस् तर्हि विधातुं शक्नोति? आदधीयाताम् इत्य् अत्र या लिङ्। आह, सा खलु विधास्यति? उच्यते, सा स्वशब्दगतम् आधानं शक्नोति विधातुम्, श्रवणात् विहितत्वाद् आधानस्य, आनर्थक्ये, वसानाव् इति शक्नोति वाक्येन विधातुम्, भवति हि वसानयोर् आधानसंबन्धः, तत्र नात्यन्ताय स्वार्थः परित्यक्तो भवति, क्षौमवसानसंबन्धे तु विधातव्ये, आदधीयाताम् इत्य् आधानम् उत्सृज्य विदधानो ऽत्यन्ताय श्रुतिं जह्यात्। आधानसंनिकृष्टे च लिङ्गे विधातव्ये श्रुतिर् विप्रकृष्टं न क्षौमवसानसंबन्धं विधातुम् उत्सहते, अर्थविप्रकर्षात्। अपि चोत्सृज्य श्रुतिम्, क्षौमवसानसंबन्धे विधीयमाने क्षौमं वसानस्याङ्गं स्यान् नाधानस्य। तत्र क्षौमाभावे ऽपि नाधानं विगुणम् इति क्षौमाभावे ऽप्य् आधानं स्यात्। आह, वसानगुणतायां तर्हि को ऽर्थो विवक्ष्यते? उच्यते, न कश्चित्, अत एवास्य पक्षस्य परित्यागः। आह, क्षौमवसानश्रवणम् इदानीं कथम्134 इति। उच्यते, न शक्यत उभयं विधातुं क्षौमं लिङ्गं च, भिद्येत हि तथा वाक्यम्। तस्मात् अक्षौमयोः135 क्षौमशब्दो ऽनुवादः, अर्थप्राप्ते च वसने, वसानौ पुमांसाव् इत्य् अर्थः। ते च प्रायेण विचेष्टमानस्य मलिने क्षौमसदृशे भवतः, विचेष्टमानस्य वा वसने शब्दवती भवत इति। तस्माद् द्वयोः पुंसोर् अधिकार इति।

[६१९]136


गुणस्य तु विधानत्वात् पत्न्या137 द्वितीयशब्दः स्यात्//६.१.२३//

तुशब्दः पक्षं व्यावर्तयति। नैतद् अस्ति, यद् उक्तं द्वौ पुरुषाव् आदधीयाताम् इति, एक एवादधीत। वसन्ते ब्राह्मणो ऽग्निम्138 आदधीतेति139, एकवचनं हि विवक्षितम्। तस्माद् एक एवादधीत। नन्व् इदं वचनं द्वौ पुमांसाव् आदधीयाताम् इति। नेत्य् आह, गुणस्य तु विधानत्वात्, क्षौमविधानम् अस्मिन् वाक्ये न्याय्यम्, तथा ह्य् अपूर्वो ऽर्थो विहितो भवति, गम्यते हि विशेषनियमः। इतरथा क्षौमवचनम् अनुवादमात्रं स्यात्, वादमात्रं चानर्थकम्। पक्षे चानुवादः, न चैकपक्षवचन एष शब्दः। गौणत्वे च साधारणं सादृश्यम्। तस्मात् प्रमादाध्ययनम्140 अवगम्येत विनैव हेतुना। आह, ननु पुमांसौ विधेयौ, तद्विधाने च न क्षौमविधानम्, वाक्यभेदो हि तथा स्यात्, श्रुतिगम्यौ च पुमांसौ, वाक्यगम्यं च क्षौमं बाधेयाताम् इति। अत्रोच्यते, न पुमांसौ विधेयौ, प्राप्त एवात्र सद्वितीयः पुमान् सो ऽनूद्यते। कथम्? एको ऽत्र पुमान् श्रूयते, तस्य पत्न्या द्वितीयशब्दः स्यात्। न च, यत् प्राग् वचनाद् गम्यते, तद् विधेयं भवति। तस्मात् क्षौमविधानम्, न वाक्यभेदो भवति। यद् उच्यते, न क्षौमस्य विधायको ऽस्तीति। तद् उच्यते, आदधीयाताम् इति तद् विधास्यति। नन्व् एतद् आधानं श्रुत्या विधातुं समर्थम्, नान्यद् इति। उच्यते, शब्दान्तरेण विहितत्वाद् आधानस्य न विधायकम्, विहितत्वाच् च पुंसः स[६२०]141द्वितीयस्य, तस्यापि न विधायकम्, अतस् तदसंभवात् क्षौमस्य विधायिका लिङ् भविष्यति, वाक्यसामर्थ्यात्। यत् त्व् अस्मिन् पक्षे ऽत्यन्ताय स्वार्थं जहातीति। नात्यन्ताय हास्यति, आधाने वासः क्षौमं कुर्याद् इति। अस्मिन् पक्षे पुंशब्दः स्त्रीपुंसयोर् वृत्त इति गम्यते। अस्ति हि तत्र तस्य निमित्तं पुमान् सद्वितीयः, एवमादि च दृष्ट्वा भगवता पाणिनिना सूत्रं प्रणीतम्, पुमान् स्त्रिया142 इति, तस्य विषयः पुंशब्दः शिष्यमाणः साधुर् भवति, न स्त्रीशब्द इति। तस्माद् एकः पुमान् आदधीत न द्वाव् इति।


तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात्//६.१.२४//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादिष्व् एतद् उक्तं स्त्रीपुंसयोः सहाधिकार इति। अथेदानीं संदिह्यते, किं सर्वं याजमानं पत्न्या कर्तव्यम्, उत यावद् उक्तम् आशीर् ब्रह्मचर्यं चेति। किं प्राप्तम्? सर्वं याजमानं पत्न्याः स्यात्, सापि हि यजमाना, तुल्यत्वात्। तस्मात् सर्वं तस्या इति। एवं प्राप्ते ब्रूमः, तस्या यावद् उक्तं स्यात्, वचनप्रामाण्यात्, आशीः ब्रह्मचर्यं च स्यात्। कस्मात्? अतुल्यत्वात्, अतुल्या हि स्त्रीपुंसाः, यजमानः पुमान् विद्वांश् च, पत्नी स्त्री चाविद्या च। किम् अतः? यद्य् एवं ह्य् एतद्143 अतुल्यत्वम्। एतद् अतो भवति, [६२१]144 क्रत्वर्थेषु यानि याजमानानि श्रवणानि, तेषूपादेयत्वेन श्रवणाद् विवक्षितं लिङ्गम्, तेन तेषु पत्नी न स्यात्, यानि च क्रत्वर्थानि समन्त्रकाणि तेष्व् अविद्यत्वात् पत्नी न स्यात्। तत् पत्न्या अध्ययनस्य प्रयोजकं स्याद् इति यद्य् उच्येत। तन् न, असत्य् अपि प्रयोजकत्वे तस्य निर्वृत्तिर् भविष्यति। अस्ति हि तस्य पुमान् निर्वर्तकः, यच् च कर्त्वर्थम्, तद् एकेन येन केनचिन् निर्वर्तयितव्यम्। तस्मात् प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनः प्रसवे, न किंचिद् अस्ति प्रमाणम्। अतस् तद् अपि पत्नी न कुर्यात्, यास् त्व् आशिषः, यच् च ब्रह्मचर्यम्, तत् पुरुषं प्रति गुणभूतम्, न तत्रान्यतरेण कृते सिध्यति, अन्यतरस्य हि संस्कारो हीयेत। न च तत्रोपादेयत्वेन यजमानस्य श्रवणम्। तस्माल् लिङ्गम् अप्य् अविवक्षितम्। अत आशीर् ब्रह्मचर्यं चोभयोर् अपि स्यात्। यच् चाहत्योच्यते, यथा, पत्न्याज्यम् अवेक्षत इति। तस्माद् अतुल्यत्वाद् असमानविधाना पत्नी यजमानेन भवितुम् अर्हतीति।


चातुर्वर्ण्यम् अविशेषात्//६.१.२५//

आग्निहोत्रादीनि कर्माण्य् उदाहरणम्, तेषु संदेहः, किं चतुर्णां वर्णानां तानि भवेयुः, उतापशूद्राणां त्रयाणां वर्णानाम् इति। किं तावत् प्राप्तम्? चातुर्वर्ण्यम् अधिकृत्य, यजेत, जुहुयाद् इत्येवमादि शब्दम् उच्चरति वेदः। कुतः? अविशेषात्, न हि कश्चिद् विशेष उपादीयते। तस्माच् छूद्रो न निवर्तते।

[६२२]145


निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ह्य् असंबन्धः क्रतुषु, ब्राह्मणश्रुतिर् इत्य् आत्रेयः//६.१.२६//

वाशब्दः पक्षं व्यावर्तयति, त्रयाणाम् अधिकारः स्यात्। कुतः? अग्न्याधेये निर्देशात्, अग्न्याधेये त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणो ऽग्नीन्146 आदधीत, ग्रीष्मे राजन्यः, शरदि वैश्य इति147, शूद्रस्याधाने श्रुतिर् नास्तीत्य् अनग्निः शूद्रो ऽसमर्थो ऽग्निहोत्रादि निर्वर्तयितुम्। तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादिषु शूद्रस्य प्रापिका श्रुतिर् नास्ति। ब्राह्मणादीन् एवाधिकृत्य सा प्रवर्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शूद्रस्य, अविधानात्, संस्कारशब्दत्वाच् चाहवनीयादीनाम्। तस्माद् अनधिकृतो ऽग्निहोत्रादिषु शूद्र इत्य् आत्रेयो मन्यते148 स्म।


निमित्तार्थेन बादरिस् तस्मात् सर्वाधिकारं स्यात्//६.१.२७//

यद् उक्तम्, अनधिकारः शूद्रस्येति, तन् न, सर्वं ह्य् अर्थिनम् अधिकृत्य यजेतेत्य् उच्यते, सो ऽसति प्रतिषेधवचने शूद्रान् न व्यावर्तेत। यत् त्व् असमर्थो ऽग्न्यभावाद् इति, स्याद् एवास्याग्निर् अर्थप्राप्तः, कामश्रुतिपरिगृहीतत्वात्। अत्राह, नन्व् अग्न्याधेयचोदना ब्राह्मणादिसंयुक्ता न शूद्रस्येति। उच्यते, निमित्तार्थेन ताः श्रुतयो न प्रापिकाः। कथम्? निमित्तस्वभावा एते शब्दाः, ब्राह्मण आदधानो वसन्ते, राज्यन्यो149 ग्रीष्मे, वैष्यः शरदीति ब्राह्मणादीनां वसन्तादिभिः संबन्धो गम्यते, तेन वसन्तादिसंबन्धार्था ब्राह्मणादय [६२३]150 इत्य् एव गम्यते, तथा चादधातिर् न वाक्येन शूद्राद् व्यावर्तितो भविष्यति। तस्माद् बादरिः सर्वाधिकारं शास्त्रं मन्यते स्मेति गम्यते।


अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत//६.१.२८//

अपि वेति पक्षो व्यावर्त्यते। यथाश्रुत्य् एव प्रतीयेत, ब्राह्मणादयो ह्य् आधाने श्रूयन्ते, तेन ब्राह्मणादिकर्तृकम् आधानम्, वसन्तादिश्रवणाच् च वसन्तादिकालकम्। तथा च, इदं शूद्रवर्जितानाम् एवानुक्रमणं भवति, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं राजन्यस्य, रायोवाजीयं वैश्यस्येति, शूद्रस्य साम नामनन्ति। तथा पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति, तथाधाने ऽष्टसु प्रक्रमेषु ब्राह्मणो ऽग्निम् आदधीत, एकादशसु राजन्यः, द्वादशसु वैश्य इति। एवम् अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य प्रयुक्तम् अपि कर्म निष्फलं स्यात्। तस्मान् न शूद्रो जुहुयाद् यजेत वा।


निर्देशात् तु पक्षे स्यात्//६.१.२९//

नैतद् एवम्, शूद्रस्याग्न्यभावाद् अनधिकारो ऽग्निहोत्रादिष्व् इति। अस्ति हि शूद्रस्याधानम्, य एवं विद्वान् अग्निम् आधत्त इति शास्त्रं सामान्येन। इदम् अपि निमित्तार्थं भविष्यति, तस्मात् सर्वाधिकारं शास्त्रं भवितुम् अर्हतीति।


वैगुण्यान् नेति चेत्//६.१.३०//

अथ यद् उक्तम्151, अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य कर्म प्रयुक्तम् अपि फलं न साधयेद् विगुणम् इति, तत् परिहर्तव्यम्।

[६२४]152


न काम्यत्वात्//६.१.३१//

स एष परिहारः, क्राम्यत्वात्, कामयिष्यते शूद्रः, अभीवर्तं नाम ब्रह्मसाम153, तद् धि अनारभ्य किंचिद् आम्नातम् अविशेषेण, चक्षुर्विमित आदध्याद् इति154, अनियतप्रक्रमेषु शूद्रस्य नियम्यते। व्रते ऽपि, मस्तु शूद्रस्येति संबन्धदर्शनाद् अध्यवसीयते, मस्त्व् एव शूद्रस्य। तस्माच् चातुर्वर्ण्यम् अधिक्रियेत।


संस्कारे च तत्प्रधानत्वात्//३.१.३२//

व्रते च विशेषो ऽवगम्यते तत्प्राधान्यं पुरुषप्राधान्यं हि व्रते155। किम् अतः, यत् पुरुषप्रधानता? एतद् अतो भवति, पुरुषप्रधानः संस्कारो न शक्नोत्य् अनुपसंह्रियमाणः, तस्याधिकारं व्यावर्तयितुम्। तत् कथम् इति। यजेतेति हि स्वर्गकामे ऽभिधीयमाने तत्कामः शूद्रो नाभिहित इति कथं गम्यते? किं हि स यागस्य पुरुषनिर्वर्त्यं न निर्वर्तयति। व्रतम् इति चेत्। न, सामर्थ्योपजननाय हि तद् यस्यैवोच्येत, तस्यैव तेन विना न सामर्थ्यम्, नान्यस्य। एष156 एव हि व्रतस्याङ्गभावो यत्, कर्तारं समर्थं करोति। यस्य तु तेन प्रयोजनम्, स तदनपेक्ष्यैव यागम् अभिनिर्वर्तयति। तस्माद् अपि न शूद्रवर्जनम्।


अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत//६.१.३३//

एवं न प्रापकाणि श्रवणानीत्य् उक्तम्, शक्यते तु वक्तुं प्रापकाणीति, न च सूत्रकारेण तद् व्यपदिष्टम्। नैमित्तिकेष्व् अपि तेषु सत्सु शक्य एव शूद्रपर्युदासो वक्तुम् इति, न तदादृतम्, हेत्वन्तरं व्यपदिष्टम्। अपि वेति पक्षव्यावर्तनम्। [६२५]157 एवम् अपि सति नैमित्तिके ऽपि ब्राह्मणादिश्रवणे सत्य् अपशूद्राणाम् एवाधिकारः। कुतः? वेदनिर्देशात्, वेदे हि त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम् इति, वेदाभावाद् असमर्थः शूद्रो यष्टुम्। तस्मान् नाधिक्रियेत।


गुणार्थित्वान् नेति चेत्//६.१.३४//

गुणेनाध्ययनेनार्थः158, शूद्रो ऽनुपनीतः स्वयम् उपेत्याध्येष्यते, तथास्य सामर्थ्यं जनिष्यत इति।


संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः//६.१.३५//

उच्यते, विद्यायाम् एवैषा पुरुषश्रुतिः, उपनयनस्य संस्कारस्य तदर्थत्वात्, विद्यार्थम् उपाध्यायस्य समीपम् आनीयते, नादृष्टार्थम्, कुड्यं159 वा कर्तुम्, सैषा160 विद्यायां पुरुषश्रुतिः। कथम् अवगम्यते? आचार्यकरणम् एतद् अभिधीयते। कुतः? आत्मनेपददर्शनात्, नयतिर्161 आचार्यकरणे वर्तते, तदर्थसंबन्धाद् उपनयनम् आचार्यकरणप्रयुक्तम्, वेदाध्यापनेन चाचार्यो भवति। तस्माद् वेदाध्ययने ब्राह्मणादयः श्रुताः, शूद्रस्य न श्रुतं वेदाध्ययनम्, अतो ऽवेदात्वाद् असमर्थः शूद्रो नाभिक्रियत इति।


विद्यानिर्देशान् नेति चेत्//६.१.३६//

इति चेत् पश्यसि, अवैद्यत्वाद्162 असामर्थ्याद् अनधिकृतः [६२६]163 शूद्र इति। नैष दोषः, विद्यानिर्देशात्, विद्यां निर्देक्ष्यति, अनुक्ताम् अप्य् अध्येष्यत इति, शक्यते ह्य् अनुक्तम्164 अप्य् अध्येतुम्। तस्माच् चातुर्वर्ण्यस्याप्य् अधिकारः//


अवैद्यत्वाद्165 अभावः कर्मणि स्यात्//६.१.३७//

न चैतद् अस्ति, शूद्रो ऽध्येष्यत इति, प्रतिषिद्धम् अस्याध्ययनम्, शूद्रेण नाध्येतव्यम् इति, अधीयानस्याप्य् अध्ययनं सफलं166 न भवति, दोषश् च जायते। अतो ऽवैद्यः शूद्रः, अस्याभावः कर्मणीति सिद्धम्। अथापि वैद्यत्वेन167 सिध्येत्, तथाप्य् अनग्नित्वाद् अभावः कर्मणि स्यात्। अथ कथम् अनग्नितेति। प्रापकाणि हि ब्राह्मणादीनाम् आधाने वाक्यानि। ननु य एवं विद्वान् अग्निम् आधत्त इत्य् आधानस्य विधायकम्। तत्र ब्राह्मणस्य168, वसन्ते ऽग्निम् आदधीतेति निमित्तार्थानि वचनानीति गम्यते। अत्रोच्यते, ब्राह्मणो ऽग्निम् आदधीतेति श्रुत्या विधानं गम्यते। य एवं विद्वान् अग्निम् आधत्त इति स्तुत्या, तद् आनुमानिकं प्रत्यक्षश्रुताद् दुर्बलम्। तस्मात् प्रापकाणि वचनानि, अतः शूद्रस्यानधिकारः।


तथा चान्यार्थदर्शनम्//६.१.३८//

अन्यार्थदर्शनं च भवति, यथा न शूद्रस्याध्ययनम् इति। किं लिङ्गं भवति? यद्यु वा एतत् श्मशानम्, यच् छूद्रः, तस्माच् छूद्रसमीपे नाध्येयम् इत्य् अनध्ययनं शूद्रस्य दर्शयति। तस्माद् अपशूद्राणाम् अधिकारः। नन्व् आहवनीयाद् विनापि, यागो वचनप्रामाण्याच् छूद्रस्य विधीयते। [६२७]169 उच्यते, नात्र यागसद्भावो विधीयते स्वर्गकामस्य, किं तर्हि स्वर्गफलता विशिष्टस्य यागस्य। तस्माद् असंभवः शूद्रस्याग्निहोत्रादिषु।


त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात्//६.१.३९//

अग्निहोत्रादिष्व् एव संदेहः, किम् अद्रव्यस्याधिकारो नेति। उच्यते, त्रयाणां द्रव्यसंपन्नो ऽधिक्रियेत, नाद्रव्यः। कुतः? न हि शक्नोत्य् अद्रव्यो द्रव्यसंयुक्तं कर्मानुष्ठातुम्। तस्माद् अद्रव्यस्यानधिकारः।


अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः//६.१.४०//

नैवं स्यात्, यद् उक्तम्, अद्रव्यस्यानधिकार इति। कुतः? अनित्यत्वात्, अनित्यो ऽद्रव्यसंयोगः170, न हि कश्चिज् जात्याद्रव्य एव पुरुषः। अस्त्य् उपायो येन द्रव्यवान् भवति। यः शक्नोति यष्टुम्, तस्य यजेतेति वाचको भवति, यो न कथंचिद् अपि शक्नोति यागम् अभिनिर्वर्तयितुम्, तं नाधिकरोति यजेत शबदः171। यस् तु केनचित् प्रकारेण शक्नोति, न तं वर्जयित्वा प्रवर्तते। अर्थाच् च द्रव्यसंयोगो भविष्यति, जीविष्यति विना धनेनेत्य् एतद् अनुपपन्नम्। तस्माद्172 अर्थाद् एव द्रव्यसंयोगः173

[६२८]174


अङ्गहीनश् च तद्धर्मा//६.१.४१//

अग्निहोत्रादिष्व् एवाङ्गहीनं प्रति संदेहः, किम् असाव् अधिक्रियते, उत नेति। तत्राप्य् अधिकरणातिदेशः। असमर्थ इति कृत्वा पूर्वः पक्षः, शक्तेर् विद्यमानत्वाद् उत्तरः। तद्175 इदम् अभिधीयते, अङ्गहीनश् च तद्धर्मा176। किंधर्मा? अद्रव्यधर्मेति।


उत्पत्तौ नित्यसंयोगात्//६.१.४२//

यस्य त्व् अप्रतिसमाधेयम् अङ्गवैकल्यम्, तं प्रति विचारः, किम् अधिक्रियते, नेति, पूर्वाधिकरणेनाधिक्रियत इति प्राप्ते ब्रूमः, नाधिक्रियत इति। कुतः? शक्त्यभावात्, नासौ केनचिद् अपि प्रकारेण शक्नोति यष्टुम्, तस्मात् तस्याधिकारो न गम्यते। ननु यच् छक्नोति, तत्राधिक्रियत इति, चक्षुर् विकलो विनाज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनाम् अनधिकार इति। नेत्य् उच्यते, नाज्यावेक्षणादि पुरुषं प्रति निर्दिश्यते, यदि हि तं प्रति निर्देश्येत, ततो विकलो ऽप्य् अधिक्रियेत, क्रतुं प्रत्य् एषाम् उपदेशः, प्रकरणाविशेषात्, पुरुषस्य चाख्यातेनानभिधानाद् इति। उक्तम्177 एतद् विधिर् वा संयोगान्तराद्178 इत्य् अत्र। तैश् च [६२९]179 विना विगुणं कर्म प्रयुक्तम् अपि न फलं साधयेत्। तस्मात् तस्यानधिकारः।


अत्र्यार्षेयस्य हानं स्यात्//६.१.४३//

दर्शपूर्णमासयोः श्रूयते, आर्षेयं वृणीते, एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चाति वृणीत इति। तत्र संदेहः, किम् अत्र्यार्षेयस्याधिकार उत नेति। किं प्राप्तम्? अत्र्यार्षेयो ऽप्य् अधिक्रियत इति। कुतः? आर्षेयं वृणीत इति सामान्यवचनम्, तस्माद् एकं वरिष्यति द्वौ वा, तच् च दर्शयति, एकं वृणीते द्वौ वृणीत इति, तथा प्रतिषेधति, न चतुरो वृणीत इति180, न पञ्चाति वृणीत इति। न ह्य् अप्राप्तस्य प्रतिषेधो ऽवकल्पते। तस्माद् अत्र्यार्षेयो ऽप्य् अधिक्रियेत181। एवं प्राप्ते ब्रूमः, यो न त्र्यार्षेयः, स नाधिक्रियेत। कुतः? त्रीन् वृणीत इति विशेषवचनात्, विधिश् चाप्राप्तत्वात्। नन्व् एकं वृणीत इत्य् अपि विशेषवचनम् अस्ति। नेत्य् उच्यते, विधायिकाया विभक्तेर् अभावात्। ननु स्तुत्या विधास्यन्ते, यथा, त्रीन् वृणीत इति। उच्यते, त्रयाणाम् एव स्तुतिः, सा त्रित्वं विधास्येति। एकं वृणीत इत्य् अवयुत्यवादो182 ऽयं त्रयाणाम् एव। तत्रापि त्रित्वम् एव स्तूयते विधातुम्। एकम् एकवाक्येन विधानं भविष्यतीति। न चतुरो वृणीते, न पञ्चातिवृणीत [६३०]183 इति नित्यानुवादो भविष्यति। तस्मात् त्र्यार्षेयस्याधिकारो नान्यस्येति।


वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात्//६.१.४४//

आधाने श्रूयते, वर्षासु रथकार आदधीतेति। तत्र संदेहः, किं त्रैवर्णिकानाम् अन्यतमो रथकारः, आहोस्विद् अत्रैवर्णिक इति। किं प्राप्तम्? रथकारस्यात्रैवर्णिकस्याधानम् एतत्। कुतः? वचनात्, न184 हि वचनस्य किंचिद् अकृत्यम् अस्ति185, सर्वशेषश् चात्रैवर्णिक आधाने, ब्राह्मणराज्यन्यविशाम्186 उक्तम् आधानम्, परिशेषाद् अत्रैवर्णिको रथकार स्यात्।


न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धत्वात्//६.१.४५//

न्याय्यो वा स्यात्, त्रैवर्णिको रथकारः रथकर्मणा विशेषेणोच्यते, शूद्रो ह्य् असमर्थत्वात् प्रतिषिद्धः। तस्मात् त्रैवर्णिको रथकारः स्यात्।


अकर्मत्वात् तु नैवं स्यात्//६.१.४६//

नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धं हि तस्य शिल्पोपजीवित्वम्, अत्रैवर्णिकस् त्व् अस्ति। तस्माद् वचनप्रामाण्यात् स आधास्यते187

[६३१]188


आनर्थक्यं च संयोगात्//६.१.४७//

ब्राह्मणादिषु वसन्तादयो नियताः, तान् प्रति वर्षा उच्यमाना अप्य् असंबन्धाद् आनर्थक्यं प्राप्नुयुः। तस्माद् अत्रैवर्णिको रथकार इति।


गुणार्थेनेति चेत्//६.१.४८//

एवं चेत् पश्यसि, नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धत्वाच् छिल्पोपजीवित्वस्येति। गुणार्थेन कश्चिद् भविष्यति रथकारो वैतथ्येन, तस्येदम्189 आधानं विज्ञायते।


उक्तम् अनिमित्तत्वम्//६.१.४९//

उक्तम्, एतद् अस्माभिः, न निमित्तार्थान्य् एतानि श्रवणानीति। किम् अतो यदि न निमित्तार्थानि। एतद् अतो भवति, प्रापकाणीति, प्राप्तित्वात् तेषाम् आधानस्य, पुनः प्रापकम् अनर्थकम्, तेन यस्याप्राप्तम्, तस्य भविष्यतीति। अथोच्येत, एतद् एकं निमित्तार्थं भविष्यतीति। नैतद् एवम् अवकल्पते, वसन्तादिसंयुक्तं तत् कथम् इव वर्षाभिः संबध्येत। अपि च, प्रापकपक्ष आधानं विधीयते श्रुत्या, निमित्तपक्षे पुनर् वर्षा विधातव्या वाक्येन, श्रुतिश् च वाक्याद् बलीयसीति। तस्माद् अत्रैवर्णिकस्येदम् आधानम् इति।


सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन्//६.१.५०//

न तु सर्व एवात्रैवर्णिको रथकारः, सौधन्वना इत्य् एष [६३२]190 जातिवचनः शब्दः। सौधन्वना नाम जातिर् अभिधीयते, हीनास् तु किंचित् त्रैवर्णिकेभ्यः, जात्यन्तरम्, न तु शूद्राः, न वैश्याः, न क्षत्रियाः, तेषाम् इदम् आधानम्। कथम् अवगम्यते? प्रसिद्धेर् मन्त्रवर्णाच् च, मन्त्रवर्णो हि भवति, सौधन्वना ऋभवः सूरचक्षस191 इति, ऋभूणां त्व् इति रथकारस्याधानमन्त्रः। तस्मात् सौधन्वना ऋभव इति, ऋभवश् च रथकाराः। अपि च, नेमिं नयन्त्य् ऋभवो यथेति192 ये नेमिं नयन्ति त ऋभव इत्य् उच्यन्ते। रथकाराश् च नेमिं नयन्ति। तस्माद् अत्रैवर्णिकानाम् अशूद्राणाम् एतद् आधानम् इति।


स्थपतिर् निषादः स्याच् छब्दसामर्थ्यात्//६.१.५१//

वास्तुमध्ये रौद्रं चरुं निर्वपेत्, यत्र रुद्रः प्रजाः शमयेद् इत्य् एताम् इष्टिं प्रकृत्योच्यते, एतया निषादस्थपतिं याजयेद् इति। निषादस्थपतिं प्रति संदेहः, किम् अधिकृतानाम् अन्यतमः, उतान्य एवेति। अन्यतम इति ब्रूमः, स हि समर्थः, विद्वत्त्वाद् अग्निमत्त्वाच् च, अन्यो ऽविद्वत्त्वाद् अनग्नित्वाद् असमर्थ इति। ननु निषादस्थपतिशब्दस् तत्र नोपपद्यते। उच्यते, न, नोपपद्यते, निषादानां स्थपतिर् इति षष्ठीसमासो भविष्यति, श्रेष्ठो निषादानाम्। तस्माद् अधिकृताधिकारम् एतच् छास्त्रम् इति। एवं प्राप्ते ब्रूमः, स्थपतिर् निषादः स्यात्, शब्दसामर्थ्यात्193, निषाद194 एव स्थपतिर् भवितुम् अर्हति। कस्मात्? शब्दसामर्थ्यात्, निषादं हि निषादशब्दः195 शक्नोति वदितुं196 श्रवणेनैव, निषादानां तु स्थपतिं लक्षणया ब्रूयात्। श्रुतिलक्षणा[६३३]197विशये च श्रुतिर् न्याय्या, न लक्षणा। अथोच्यते, नैष दोषः, निषादशब्दो निषादवचन एव, षष्ठी संबन्धस्य वाचिकेति। तन् न, षष्ठ्यश्रवणात्। नात्र षष्ठीं शृणुमः। आह, लोपसामर्थ्यात् षष्ठ्यर्थो ऽवगम्यत इति। सत्यम् अवगम्यते, न तु लोपेन। केन तर्हि? निषदशब्दलक्षणया, तस्याश् च दौर्बल्यम् इत्य् उक्तम्। समानाधिकरणसमासस् तु बलीयान्। तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः। द्वितीया च विभक्तिस् तन्त्रेणोभाभ्यां संबध्यते, तेन द्वितीयानिर्दिष्टो निषादो गम्यते। तत्र षष्ठ्यर्थं कल्पयन्न् अश्रुतं गृहणीयात्। तस्मान् निषाद एव स्थपतिः स्यात्।


लिङ्गदर्शनाच् च//६.१.५२//

लिङ्गं दृश्यते, कूटं दक्षिणेति198 निषादस्य द्रव्यं दर्शयति। कूटं हि निषादानाम् एवोपकारकम्, नार्याणाम्, एवं स्वम् एव तन् निषादानाम् इति।

[६३४]199


पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात्//६.२.१//

द्वादशाहेन प्रजाकामं याजयेत्, ऋद्धिकामा उपेयुः। तथा, तत्र तत्रैवंकामाः सत्रम् उपेयुः, सप्तदशावराश् चतुर्विंशतिपरमाः सत्रम् आसीरन्न् इति। तेषु संदेहः, किं तस्य तस्य कृत्स्नेन फलेनार्थिनः सत्रे ऽधिकारः, उत पर्षदो ऽर्थिन्या अधिकार इति। आह, नन्व् अर्थिनो बहुसंख्याविशिष्टा निर्दिश्यन्ते, कथम् एषाम् एकशो200 ऽधिकारो भविष्यतीति। उच्यते, ऋद्धिकामा इत्येवमादि विधीयमानम् ऋद्धिलक्षितेषु समस्तेषु व्यस्तेषु च प्राप्तम्, न शक्यं बहुवचनेन विशेषे ऽवस्थापयितुम्, तेन तं तम् अधिकुर्यात् पर्षदं वेति भवति संदेहः। किं तावत् प्राप्तम्? एकैको न समर्थो बहुकर्तृकं सत्रं रचयितुम्, पर्षदं तु कर्त्रीम् अर्थिनीम् अवगच्छामः। न चाकर्तुः फलं भवति, न चैकः कर्तोच्यते, तस्मात् समस्तानां फलम्। एकैकस्य फलावययः, मध्यकं स्यात् कृत्स्नं फलम् इति। एवं प्राप्ते ब्रूमः, तस्य तस्यार्थिनः कृत्स्नं फलं सत्रान् निर्वर्तते। कुतः? पुरुषार्थस्यैकैकस्य सिद्धिर् यतो भवति, सहक्रियमाणे सर्व एकैकः पुरुषार्थं साधयति तन्त्रेण, कर्तॄणां फलं च भवति, एकैकश् चात्र कर्ता। [६३५]201 आह, नन्व् एतद् उक्तम्, एकैको न शक्नोति बहुकर्तृकं कर्तुं इति। उच्यते, शक्नोत्य् एकैकस्य स्वातन्त्र्यविवक्षायाम्, यदैकैकः स्वातन्त्र्येण प्रवर्तते, तदान्यान् संख्यानिर्वृत्त्यर्थं सामादिभिः प्रयोक्ष्यते। एकम् एकः पुरुषार्थं साधयति, इतर इतरश् च, तेन सर्वे कर्तारः सव्यपेक्षा भविष्यन्ति। सर्वे चेत् कर्तारः, पृथक् पृथग् एव फलेन संभन्त्स्यन्ते।


अपि चोत्पत्तिसंयोगाद् यथा स्यात् सत्त्वदर्शनम्, तथा भावो ऽविभागे202 स्यात्//६.२.२//

अपि च, नैतद् विरुद्धम्, यद् एकं कर्म बहुभिः क्रियत इति। यद्य् उच्यते, विरुद्धम्, एकेन कर्मणि कृते द्वितीयः किं कुर्याद् इति। अत्रोच्यते, पर्यायेण क्रियायाम् एवं दोषः, तन्त्रेण तु क्रियायां भवति क्वचित् संभवः, यथा स्यात् सत्त्वदर्शनं तथा भावो ऽविभागे203 स्यात्, यथैकैकस्य सत्त्वस्य हस्तिनो ऽश्वस्य वा दर्शनम् एकैकेन कृत्स्नम् अभिनिर्वर्त्यते। एवम् एव सत्रे तन्त्रभावो भवेत्, सर्वेषां मध्यकं द्रव्यम्, मध्यकस्याहवनीयस्योपर्य् अध्वर्युर् अपविध्यति204। तत्र सर्वे कर्तारस् तन्त्रेण भवन्ति। न चात्रोत्पन्नसंयोगः, उत्पत्त्यैव तु संख्यया कर्म संयुज्यते। यदि ह्य् उत्पन्नं संयुज्येत, ततो ऽनेकसंबन्धार्थम् इति वचनं गम्येत, उत्पत्तिसंयोगे त्व् एतन् नास्ति। तस्माद् एकैकस्य कृत्स्नेन फलेनाभिसंबन्ध इति।


प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात्//६.२.३//

दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्ग[६३६]205कामो यजेतेति श्रूयते। अत्र संदेहः, किम् अनियमेन, एको द्वौ बहवो वा यजेरन्, अथवैक एव यजेतेति। ननु तृतीय उक्तम्206, शास्त्रफलं प्रयोक्तरीति। यदा प्रयोक्तरि, तदा विवक्षितम् एकत्वं यथा, तथा वक्ष्यामः, इह तु तद् एवाक्षिप्यते, पुनश् च निर्णेष्यत इति। किं प्राप्तम्? यथाकामी प्रयोगे स्यात्। कुतः? पुरुषश्रुतेः, पुरुषः श्रूयते, पुरुषे यागं श्रावयित्वा कृतार्थः शब्द एकस्य द्वयोर् बहूनां वा यागं न वारयति। नासौ पुरुषो यागे श्रूयते, यागम् अभिनिर्वर्तयेत्, यागेन वा फलम् अभिनिर्वर्तयेद् इति। कथं तर्हि? यागेन फलं प्राप्नुयाद् इति। यागस्य वा फलनिर्वृत्तेर् वा नाङ्गं पुरुषः। यदि ह्य् अङ्गम् अभविष्यद् यागे फलनिर्वृत्तौ वा, तदा संख्या गुणभूता तदङ्गं पुरुषं परिच्छिन्द्यात्। अथ पुनर् अङ्गभूतं पुरुषं207 प्रकाशयन् लक्षणत्वेनैव पुरुषे ऽभिसंबध्येत208, न गुणवचनतया। तत्र चाविवक्षितं संख्यावचनम्, यावान् अर्थी समर्थश् च तावन्तं सर्वम् अधिकृत्यैतद् उच्यमानं न शक्यते एकेन वचनेन विशेषयितुम्। कथं च पुरुषप्राधान्यम्? न फलोत्पत्त्या किंचित् प्रयोजनम् अस्ति, न यागोत्पत्त्या, आत्मा तु फलसंबद्धः सर्वस्येष्टः, तदर्थं कर्म कर्तव्यम्, इतरथोच्यमानम् अपि न क्रियेत, तत्र वचनार्थक्यं स्यात्, तस्माद् याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति। तथा च दर्शयति, युवं हि स्थः स्वर्पती209 इति द्वयोर् यजमानयोः प्रतिपदं कुर्याद् इति, एते210 असृग्रम् इन्दव211 इति बहुभ्यो यजमानेभ्य इति द्वयोर् बहूनां च यागं प्रदर्शयति।



प्रत्यर्थं श्रुतिभाव इति चेत्//६.२.४//

इति चेत्, इदं212 चेत् पश्यसि, प्रत्यर्थं213 श्रुतिभावः स्यात्, [६३७]214 यागम् अभिनिर्वर्तयेत्, ततश् च फलं प्राप्नुयाद् इति। कुतः? एतद् उभयं ह्य् एतस्माद् अवगम्यते, कतरद् अत्र जहीम इति नाध्यवस्यामः। तस्माद् उभयम् अपि प्रत्येतव्यम्। आह, नन्व् एकार्थवचनता न न्याय्येति। उच्यते, यद् अवगम्यते तन् न्याय्यम्, उभयं च प्रतीयते। तस्माद् उभयार्थवचनतैव न्याय्या। यागं प्रति च गुणभावाद् विवक्षितम् एकवचनम्।


तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात्//६.२.५//

नैतद् एवम्, तादर्थ्ये पुरुषे प्रधानभूते सति नाङ्गभूतः पुरुषः प्रतीयते, अनुक्ते हि न्याये न प्रतीमः, अर्थान्तरं यतो गुणभावात् प्रधानभावः, प्रधानभूतश् चात्र कर्ता, वचनस्यार्थवत्त्वात्। अतो न गुणभावः कर्तुर् अवकल्पते, चोदनैकत्वात्। एका हि विधायिका चोदना, सा यदि फलोत्पत्तिं यागोत्पत्तिं वा विधत्ते, तदा कर्ता न स्वार्थेन, यदा पुनः स्वार्थेन, तदा यागः फलं वा तादर्थ्येन। न चैतद् यौगपद्येन भवति, स्वार्थ एकः, तदर्थ इतरो वैपरीत्येन वेति, यथोभाभ्यां बाहुभ्याम् इषून् अस्यति देवदत्त इति गम्यते, न च यौगपद्येन, यदा दक्षिणेनास्यति, तदा सव्येन धनुःपृष्ठं नमयति, न तेनाप्य् अस्यतीति गम्यते, तत्र व्यापृतत्वात्। एवं यदा पुरुषप्राधान्यम्, तदा यागस्य फलस्य वा गुणभावो गम्यते। तत्र व्यापृतत्वान् न तयोः प्राधान्यम् अपि गम्यते। तस्मान् न यागे फले वा पुरुषस्य गुणभावः। अतो याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति।

[६३८]215


अपि वा कामसंयोगे संबन्धात् प्रयोगायोपदिश्येत, प्रत्यर्थं हि विधिश्रुतिर् विषाणावत्216//६.२.६//

अपि वेति पक्षव्यावृत्तिः, प्रयोगायोपदिश्येत कर्ता, न स्वार्थेन। कथम्? यजेतेत्य् अस्यार्थः यागं कुर्यात्, यागेन वा कुर्याद् इति, सत्ताभिव्यक्तिमात्रं गम्यते, न फलस्य कर्ता धाता217 वा, स्वर्गकामशब्दश् च स्वर्गकाममात्रे वर्तते, न विशेषम् अवलम्बते, आत्मनः परस्य वेति, शब्दप्रमाणकाश् च वयम् ईदृशेष्व् अर्थेषु। कथं तर्हि कामस्यात्मसंबन्धो ऽवगम्यते? संबन्धात्, फलकामो ऽनुक्ते ऽपि शब्देन, आत्मन एव फलं कामयते, न परस्य। यत्र तूभाव् अर्थौ वक्तव्यौ भवतः, प्रत्यर्थं तत्र विधिः श्रूयते, यथा, कृष्णविषाणया कण्डूयति, चात्वाले कृष्णविषाणां प्रास्यतीति218। यत्रैवं द्वे श्रुती विधात्र्यौ भवतः, तत्र गुणभावः प्राधान्यं च गम्यते। न त्व् अत्रैवं द्वे विधायिके श्रुती विद्येते। गुणभूतस् तु पुरुषः श्रूयते भावयेद् इति, तत्र यज्यर्थः करणं, कर्म वा। संबन्धात् तु पुरुषप्राधान्यम्, न कस्यचित् सुखेनोत्पन्नेन प्रयोजनम्, सुखसंबन्धेनात्मनस् तु कृत्यम्। तस्मात् संबन्धात् पुरुषप्राधान्यं गम्यते, न श्रुतेः। अतो गुणभूतस्य पुरुषस्य संख्या विवक्षितेति।


अन्यस्य स्याद् इति चेत्//६.२.७//

इति चेद् भवान् पश्यति, एवं सति यदि स्वर्गकामो ऽन्यस्यापि स्वर्गं कामयमानो भवति, अन्यस्य स्वर्गं कामयमानो ऽप्य् अन्यो यजेत। तत्र पूर्वोक्तो न्यायः प्रत्युद्धृतो भवति, शास्त्रफलं प्रयोक्तरीति219

[६३९]220


अन्यार्थेनाभिसंबन्धः//६.२.८//

न परस्य स्वर्गकाम इत्य्221 एवं न यजेत, न, अन्यस्य222 स्वर्गकामशब्दो न वाचक इति। कथं तर्हि? फलम् असौ न प्राप्नोतीति। कथं पुनः फलस्याप्राप्तिः? उपग्रहविशेषश्रवणात्, यजेतेति। यद् वाधाने, ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति, तदा तु कामश्रुताव् उपग्रहो ऽनुवाद एव।


फलकामो निमित्तम् इति चेत्//६.२.९//

एवं चेद् भवान् मन्यते, न स्वर्गकामशब्दो न वाचक इति, अन्यो न यजेत फलाभावात्, नास्य याग इति, सूक्तवाकफलार्थितया223 तर्हि यजेत, आशास्ते ऽयं यजमानः आयुर् आशास्त इति224 प्रयोजयितारं निर्देक्ष्यति होता, फलविधिश् च सूक्तवाकेन प्रस्तरं प्रहरतीति विधानात्, यदि फलविधिर् अयं मान्त्रवर्णिकः, तर्हि225 सूक्तवाकेन प्रस्तरः प्रहृतो भवति, इतरथादृष्टं कल्प्येत। तस्माद् आनुषङ्गिकफलार्थम् अन्यस्य स्वर्गकामो ऽन्यो यजेतेति।


न नित्यत्वात्//६.२.१०//

नैतद् अस्ति, यस्यैव प्रधानकर्मफलम्, तस्यैवानुषङ्गिकम् अपि भवितुम् अर्हति, एवं स्वार्थेनाधानं कृतं भवति। न ह्य् आधानस्य स्वार्थतायाम् अस्ति विशेषः, प्रधानफलं वानुषङ्गिकं वा सर्वम् एवाधातरि समवेतुम् अर्हति, नित्यकाम्यता च विरुध्येत, यद्य् आयुरादिकामो226 यजेत, न तर्हि नित्यम्, यदि नित्यं नायुरादिकामः। तस्मान् नावस्थितो न्यायः प्रत्युद्ध्रियेत227, न228 च पुरुषः प्रधानभूतश् चोद्यते गुणभावात् त्व् अस्य विवक्षितम् एकत्वम्। तस्माद् एक एव यजेत।

[६४०]229


कर्म तथेति चेत्//६.२.११//

अथ यद् उक्तम्, द्वयोर् बहूनां च यागं दर्शयति, युवं हि स्थः स्वःपती230 इति231 द्वयोर् यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रम् इन्दव इति232 बहुभ्यो यजमानेभ्यः प्रतिपदं कुर्याद् इति, द्वियजमानके बहुयजमानके च कर्मणि प्रतिपद् विधाने कर्म तथा युक्तं233 स्याद् इति, तत् परिहर्तव्यम्।


न समवायात्//६.२.१२//

नैतद् एवम्, समवेतं हि कर्म विद्यते द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैः, वचनेन, यथाहीनाः, तेषु प्रतिपद् विधानम् अर्थवद् भविष्यति। तस्माद् एको यजेतेति।


प्रक्रमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्234//६.२.१३//

प्रजाकामो यजेत, ग्रामकामो यजेतेत्येवमादि कर्म समाम्नायते। तत्र संदेहः, किं प्रक्रान्तं नियोगतः समापनीयम् उतेच्छया कार्यं हेयं वेति। किं प्राप्तम्? नियोगतः परिसमापयितव्यम् इति। कुतः? एवं हि श्रूयते, इदं कामो यजेतेति, एवं तस्याख्यातस्यार्थम् उपदिशन्ति, उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आहेति, उपक्रमाद् आरभ्य यावत् परिसमाप्तिर् इत्य् एतावान् व्यापारविशेषस् तस्यार्थः, न यथा पाकस् त्याग इति। तत्र हि पाकसत्तामात्रं निर्दिश्यते, नारभ्य परिसमापयितव्यम् [६४१]235 इति। एवं चाख्यातार्थं लौकिका अपि प्रतिपद्यन्ते, तत्र नारम्भे पुरुषप्रयत्नश् चोद्यत इति गम्यते। यतश् चोदितं न नियोगत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती236 शब्दार्थः। किं तर्हि? परिसमाप्तिः शब्दार्थः, परिसमाप्त्याम् अर्थप्राप्तत्वाद् आरम्भस्य। तस्मात् परिसमाप्तिः शब्दार्थ इति गम्यते। सा चेच् छब्दार्थः, सा कर्तव्यतया चोद्यते, आरम्भे नास्ति कर्तव्यतावचनम्। तेन न नियोगत आरम्भः, नियोगतस् तु परिसमाप्तिः। तेनोपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलम्, तस्याम् अप्य् अवस्थायाम्, कर्तव्यम् एवोपक्रान्तस्य परिसमापनम्।

नन्व्237 अर्थिनो यो ऽर्थः, सो ऽत्र कर्तव्यतयोच्यते। नैतद् एवम्, वाक्यार्थो हि स भवति, यागस्य तु कर्तव्यता श्रुत्या गम्यते। तस्माद् ग्रामकामेन238 याग आरब्धः परिसमापनीयः। ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति, निमित्ते चोत्पन्ने यत् कर्तव्यम् इत्य् उच्यते, तद्विनष्टे ऽपि निमित्ते कर्तव्यम् एव, उपक्रान्तस्य समापनं कर्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति। उत्पत्तिश् च निमित्तम्, न भावः। तस्माद् वीतायाम् अपि फलेच्छायाम् उपक्रान्तं परिसमापयितव्यम्। क्रियाया हि निमित्तम् आरम्भः, सो ऽपि परिसमाप्तेर् इति।


फलार्थित्वाद् वानियमो यथानुपक्रान्ते//६.२.१४//

वाशब्दः पक्षं व्यावर्तयति। अनियमो वा। कस्मात्? फलार्थित्वात् फलार्थिनः फलं चिकीर्षमाणस्योपायो239 ऽयं विधीयते, न कर्तव्यता, सा हि विधीयमाना फलस्य वा यागस्य वा स्यात्। फलस्य न तावद् वक्तव्या, न हि यो यत् कामयते तस्य तत् कर्तव्यतोपदेष्टव्या, वेदैवासौ240 मयैवैतत् कर्तव्यम्241 [६४२]242 इति, उपायं तु न वेद, तम् आकाङ्क्षते। इदम् उपदिश्यते, याग उपाय इति, यागेन क्रियत इति। न च यागस्य कर्तव्यता, प्रत्यक्षविरोधात्, प्रत्यक्षस् तु क्लेशो यागः, यदि यागेनान्यस्य कर्तव्यता, तदा न विरोधः। यागकर्तव्यतायां फलं कल्प्यम्, न च कल्प्यमानस्य प्रमाणम् अस्ति। कर्तव्योपदेशश् च शक्यादिष्व् अर्थेषु भवति, तस्मान् न यागः कर्तव्यः। फलकामस्य यद् इष्टं तत् कर्तव्यम् अनूद्य यथाप्राप्तं यागस्य साधनता विधीयते, तेन नावश्यं समापनीयं भवति, यथानुक्रान्तं नावश्योपक्रमितव्यम्, एवम् उपक्रान्तं नावश्यं समापयितव्यम्। यत् तु वाक्यार्थः श्रुत्या बाध्यत इति, यत्र श्रुत्यर्थो न संभवति, तत्र वाक्यार्थो गृह्यत इत्य् उक्तम् एव। तस्माद् अनियमः।


नियमो वा तन्निमित्तत्वात् कर्तुस् तत् कारणं स्यात्//६.२.१५//

आरम्भो हि निमित्तं समाप्तेः। कथम्? तत् कर्तुः कारणं स्यात्। किं कारणम्? सत्यसंकल्पता यो ह्य् आरब्धम् एवंजातीयकं समापयति, न तं243 शिष्टा विगर्हन्ते, प्राक्रमिको ऽयम् असंव्यवहार्य इति, शिष्टविगर्हणा च दोषः। तस्माद् आरभ्य समापयितव्यम्। आह, शिष्टाः पुनः किम् अर्थं विगर्हन्त इति। उच्यते, विगर्हन्ते तावत्, किं नो विदितेन कारणेनेति।

[६४३]244


लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम्//६.२.१६//

केनचिद् गृहम् उपक्रान्तं भवति शकटं रथो वा, वीतास्य फलेच्छा, अवाप्नोति वा फलम्। तत्र संदेहः, किं तेन नियोगतः परिसमापयितव्यम्, उतेच्छयोत्स्रष्टव्यम् अपीति। किं प्राप्तम्? लोके कर्माण्य् एवंजातीयकान्य् उपक्रम्य परिसमापयितव्यानि, यथैव वैदिकानि तथैव तानि नियोगतः परिसमापयीयानि। कुतः? ततो ऽधिपुरुषज्ञानम्, ततस् तत्पुरुषज्ञानं भवितुम् अर्हति। कुतः? शास्त्रात्, आम्नायते हि तक्ष्णां शास्त्रम्, तत्रापि देवताव्यापारो ऽङ्गीक्रियते, पूर्वस्यां दिश्य् एता देवता इतरास्व् एता इति, यदि245 शास्त्रकृते देवताव्यापार उपकम्यापरिसमाप्यमाने शिष्टविगर्हणम्, एवम् इहापि भवितुम् अर्हति।


अपराधे ऽपि च तैः शास्त्रम्//३.२.१७//

तेषां च लौकिकानाम् अपराधे तैस् तक्षभिः प्रायश्चित्तशास्त्रम् आम्नायते, आरे भग्न इन्द्रबाहुर् बद्धव्यः पायसं च ब्राह्मणो भोजयितव्य इति। प्रायश्चित्तं च यद्य् अदृष्टार्थम्, न शास्त्रादृते। अथ प्रसङ्गपरिहारार्थम्, ततो ऽप्य् अदृतम् एव तद् इति गम्यते।

[६४४]246


अशास्त्रा तूपसंप्राप्तिः247 शास्त्रं स्यान् न प्रकल्पकम्, तस्माद् अर्थेन गम्येताप्राप्ते वा शास्त्रम्248 अर्थवत्//६.२.१८//

तुशब्दः पक्षं व्यावर्तयति। अशास्त्रा त्व् एषाम् उपसंप्राप्तिर् इति ब्रूमः। स्मृतेर् अस्याः शास्त्रं भवतानुमीयते, न शास्त्रम् अन्तरेण स्मृतिः, न च स्मृतिम् अन्तरेण तक्ष्णां ग्रन्थ उपपद्यत इति। अत उच्यते, भवत्य् अत्र स्मृतिः, एवम् इदं गृहादि कर्म रमणीयं भवतीति, नास्मात् कर्मणो ऽदृष्टं किंचिद् इति। या चासौ रमणीयता सान्तरेणापि शास्त्रम्, शक्या ज्ञातुम्, ज्ञात्वा च स्मर्यते। तस्मात् नास्याः स्मृतेः शास्त्रं प्रकल्प्यम्। यद्य् अन्तरेण शास्त्रम्, न प्राप्येत, ततः शास्त्रम् अत्रार्थवद् इति प्रकल्प्येत। तस्मान् नेदं शास्त्रोक्तम्, शास्त्रोक्ते च सामिकृते त्यक्ते ऽत्यन्तं शिष्टा गर्हन्ते, देवताश्रये च। नन्व् अत्रापि देवताः परिगृहीताः, अस्यां दिशीयं देवता यक्ष्यते ऽस्याम् इयम् इति। उच्यते, पुरुषम् अनु देवताः शिष्टाः स्मर्यन्ते, न ग्रहम् अनु, तस्माद् अदोष इति।


प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम्//६.२.१९// इदं ह्य् उपदिशन्ति, न कलञ्जं भक्षयितव्यम्, न लशुनं न गृञ्जनं चेति। तत्र संदेहः, किम् एवंजातीयकं फलकामेन न भक्षयितव्यम्, निष्कामेणाद्यम्, अथ वा नियोगतो वर्जयितव्यम् एवेति। किं प्राप्तम्? फलार्थिना न भक्षयितव्यम्, अनर्थिनो ऽनियम इति। कुतः? नियमो ह्य् अयम् उच्यते, इदं न भक्षयितव्यम् इति, एवम् उक्ते द्वयम् आपतति, [६४५]249 यदि वाभक्षणं कर्तव्यम् इति, यदि वा भक्षणं न कर्तव्यम् इति, यदि नञ्विशिष्टं भक्षणं कर्तव्यम् इत्य् अभ्युपगम्यते, ततो ऽभक्षणं श्रुत्या तव्यो विदधाति, नञ् भक्षयति विशेषणम्। तद्व्यापाराच् च कर्तव्यतया नञ् न संबध्यते250। अथ नञर्थः कर्तव्यः, ततो वाक्येन निधानम्, भक्षयतिश् च नञ्विशेषणम्, श्रुतिश् च वाक्याद् बलीयसी। तस्माद् अभक्षणं कर्तव्यम् इति गम्यते, अभक्षणं च भक्षणाभावः, न तस्य कर्तव्यतास्ति। तस्माद् यस् तत्र मानसो व्यापारः, स इहोपदिश्यते, येनोपायेन नञ्विशिष्टं भक्षणं भवति। पूर्वं नञ्भक्षयत्योः संबन्धः, ततो विधानम्। यथा, नोद्यन्तम् आदित्यम् ईक्षेतेत्येवमादिषु प्रजापतिव्रतेषु कुर्वतः फलम्, अकुर्वतो न फलं न दोषः, एवम् इहापि, विभक्तत्वाद् अकर्मणाम्, नात्र कर्म प्रतिषिध्यते, अकर्ममात्रम् उपदिश्यते, अन्यद् धि कर्म भक्षणं प्रतिषिध्यमानम्, अन्यद् अकर्म मानसः संकल्प इति।


शास्त्राणां त्व् अर्थवत्त्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः//६.२.२०//

उपवर्णनापरिहारस् तावद् उच्यते, युक्तं यत् प्रजापतिव्रतेषु शास्त्राणाम् अर्थवत्त्वेन पुरुषार्थो विधीयते। तत्र नियमः कर्तव्यतयोपदिश्यते, यश् च कर्तव्यः, स कल्याणोदयः, यो न कर्तव्यः स पापोदयः। कथं पुनः प्रजापतिव्रतेषु नियमः कर्तव्यतया चोद्यत इति। उच्यते, तस्य व्रतम् इति प्रकृत्य प्रजापतिव्रतानि समाम्नातानि, व्रतम् इति च मानसं कर्मोच्यते। इदं न करिष्यामीति यः संकल्पः। कतमत् तद् व्रतम्? नोद्यन्तम् आदित्यम् ईक्षेतेति, यथा तदीक्षणं न भवति, तथा मानसो व्यापारः कर्तव्यः, तस्य च पालनम्। तत्र तस्मात् पुरुषार्थो ऽस्तीत्य् अवगन्तव्यम्। तत्र चैतान्य् एव [६४६]251 प्रकृत्योच्यते, एतावता हैनसायुक्तो भवतीति, एतावता कृतेनायुक्त एनसा भवतीति252। अथेह तयोर् असमवायित्वम्, इह क्रिया प्रतिषिध्यते, नाक्रियोपदिश्यते, न हि कलञ्जं भक्षयन् प्रतिषेधाविधिं नातिक्रामति, इह पुनर् आदित्यं पश्यन् नातिक्रामति विधिम्, न हि तस्य दर्शनं प्रतिषिद्धम्। नियमस् तत्रोपदिष्टः, यस् तं नियमं करोति, स फलेन संबध्यते, इह तु प्रतिषिध्यते कलञ्जादि। कथम् अवगम्यते? नात्र तस्य, व्रतम् इति प्रकृत्य वचनम् अस्ति। न च, न भक्षयितव्यम् इत्य् अस्य मानसो व्यापारो ऽर्थः, भक्षयितव्यम् इति च भक्षणं कर्तव्यं शब्देनोच्यते, नेति तत् प्रतिषिध्यते श्रुत्यैव। एवं प्रसिद्धो ऽर्थो ऽनुगृहीतो भवति, इतरथा लक्षणा स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा। तस्माद् इह प्रतिषेधः। उच्यते, अस्तु प्रतिषिद्धं253 नाम, दोषो ऽत्र न श्रूयते। तस्मात् प्रतिषिद्धम् अप्य् अनुष्ठातव्यम् इति। कल्पयिष्यत इति चेत्, न, प्रमाणाभावात्। अर्थापत्तिः प्रमाणम्, उपदेशवैयर्थप्रसङ्गाद्254 इति यद्य् उच्येत। नैतद् एवम्, व्यर्थो ऽपि ह्य् उपदेशो ऽज्ञानात् संभवति। तस्मान् न कल्प्यो दोष इत्य्। उच्यते, सत्यं न कल्पनीयः, किं तु कॢप्त एव। कथम्? अनन्तरम् एवैनं शिष्टा वर्जयेयुः, पतितः कर्मफलेभ्य इति वदन्तः, महांश् चैष दोषः, यच् छिष्टा वर्जयन्ति। तस्मान् नियोगतः कलञ्जादि न भक्षयितव्यम् इति, यथा, न सर्पायाङ्गुलिं दद्यात्, तत्र दोषदर्शनान् नियोगतो न सर्पायाङ्गुलिर् दीयते, कण्टको वा न पादेनाधिष्ठीयते, एवम् इदम् अपीति।

[६४७]255


तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन्//६.२.२१//

इह स्मार्ताः पदार्था उदाहरणम्, प्रत्युपस्थितनियमाश् चाचाराः, गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति। तत्र संदेहः, किं जातमात्राणाम् इमे पदार्था उतोपनीतानाम् इति। किं प्राप्तम्? अविशेषोपदेशात् जातमात्राणाम्। कुतः? पुरुषे ते शिष्यन्ते, जातमात्रश् च पुरुषो भवति। तस्माज् जातमात्राणाम् इमे पदार्थाः, इत्य् एवं प्राप्ते ब्रूमः,


अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन्//६.२.२२//

अपि वेति पक्षव्यावृत्तिः। उपायेन प्रवर्तेरन् उपनयनेन सह प्रवर्तेरन्256, वेदतुल्यत्वात्। वेदतुल्या हि स्मृतिः, वैदिका एव पदार्थाः स्मर्यन्त इत्य् उक्तम्257। वैदिकाश् च पदार्था उपनयनोत्तरकाले समाम्नाताः, स्मार्ताश् चैते वैदिका एव, तस्माद् उपनयनोत्तरकाला एत इति।

[६४८]258


अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते//६.२.२३//

इदम् आम्ननति, यावाज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति पुरुषार्थो ऽयं यागो विधीयते259, नायम् अभ्यासः कर्मशेष इत्य् उक्तम्। इहेदानीं संदिह्यते, किं सातत्येन होतव्यम्, उत न सातत्येनेति260। किं प्राप्तम्? पुरुषं प्रत्युपदिष्टत्वात् सातत्येन, अयं पुरुषः इति सातत्येनानुष्ठातव्यम्। ननु प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति श्रूयते, पौर्णमास्यां पौर्णमास्येन261 यजेत, अमावास्यायाम् अमावास्ययेन262 यजेतेति। नैष सर्वाङ्गोपसंहारेण प्रयोगः। अतः कालमात्रे हीने न दोषः।


तस्मिन्न् असंभवन्न् अर्थात्//६.२.२४//

नैतद् अस्ति, यत्, जुहुधि जुहुधीत्य् एव होतव्यम् इति, यथा शक्नोति, तथा जुहुयाद् इत्य् उच्यते, न च सातत्येन शक्यते, अवश्यम् अनेन आहारविहाराः कर्तव्याः। तस्माद् अर्थाविरुद्धेषु कालेषु सततं होतव्यम्263 इति।


न कालेभ्य उपदिश्यन्ते//६.२.२५//

न चैतद् अस्ति, यद् उक्तम्, अर्थाविरुद्धेषु कलेषु सततं होतव्यम् इति, काल एषः श्रूयते, प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति। तथा, पौर्णमास्यां पौर्णमास्येन264 यजेत, अमावास्यायाम् अमावास्ययेन265 यजेतेति। तस्मान् न [६४९]266 सातत्यम् इति। आह, ननु विगुणस्यापि प्रयोगान् न काल आदरणीय इति। अत्रोच्यते, न कालो गुणः, निमित्तं ह्य् एतद् इत्य् उक्तम्। तस्माद् अन्येषु कालेष्व् अविहितत्वात् कृतम् अप्य् अकृतं स्यात्। तस्माद् आश्रितकालस्य यावज्जीवं प्रयोग इति।


दर्शनात् काललिङ्गानां कालविधानम्//६.२.२६//

लिङ्गं च भवति, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावस्यां वातिपातयेद् इति267। यदि सर्वस्मिन् काले होमः, तदा कस्यातिपत्तिः स्यात्। तस्माद् अपि न सततम् अभ्यासः।


तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत//६.२.२७//

प्रदोषे268 अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति, तथा, पौर्णमास्यां पौर्णमास्येन269 यजेत, अमावास्यायाम् आमावास्ययेन270 यजेतेति। तत्र संदेहः, किं सकृत् प्रदोष होतव्यम्, उत प्रदोषे प्रदोष इति, तथा सकृद् व्युष्टायां प्रातः, उत व्युष्टायां व्युष्टायाम् इति, तथा किं सकृत् पौर्णमास्याम् अमावास्यायां वा, उतागत आगते काल इति। किं प्राप्तम्? सकृत् कृत्वा कृतार्थः शब्दः, न नियमः पौनःपुन्ये। इत्य् एवं प्राप्ते ब्रूमः, आगमेन प्रवर्तेत, आगत आगते काले प्रयोगः कर्तव्य इति। कुतः? तेषाम् औत्पत्तिकत्वात्, उत्पद्यमानं कर्म कालसंयुक्तम् एवोत्पद्यते, तद् उक्तम्, निमित्तार्थाः [६५०]271 कालश्रुतय इति, निमित्ते च संप्राप्ते नैमित्तिको ऽर्थः कर्तव्यो भवति। तस्माद् आगत आगते काले प्रयोगः कर्तव्यः।


तथा हि लिङ्गदर्शनम्//६.२.२८//

अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति272, आगत आगते काले प्रयोगं दर्शयति।


तथान्तःक्रतुप्रयुक्तानि//६.२.२९//

भिन्ने जुहोति, स्कन्ने जुहोतीति दर्शपूर्णमासयोः श्रूयते। तत्र संदेहः, सकृद् भिन्ने स्कन्ने च हुत्वा कृतार्थः, उत भिन्ने भिन्ने, स्कन्ने स्कन्ने चेति। तत्राधिकरणातिदेशः, यः पूर्वत्र273 पूर्वः पक्षः, स इह पूर्वः274, य उत्तरः स इहोत्तर इति। सकृत् कृत्वा कृतार्थ इति पूर्वः पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य्275 उत्तरः।


आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात्//६.२.३०//

गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति। तत्र संदेहः, किम् आगत आगते गुरौ, वृद्धवयसि च, यद् उक्तम्, तत् कर्तव्यम्, उत सकृत् कृते कृतार्थेति। आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वाद् इत्य् अधिकरणातिदेशः। तत्र यः पूर्वः पक्षः, स इह पूर्वः276, य उत्तरः स उत्तरः, सकृत् कृत्वा कृतार्थ इति पूर्वः [६५१]277 पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य् उत्तरः।


ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवक्येन संयोगात्//६.२.३१//

इदं श्रूयते, सोमेन यजेत278, गर्भाष्टमेषु ब्राह्मणम् उपनयीत, प्रजाम् उत्पादयेद् इति। तत्र संदेहः, किं नित्यान्य् एतान्य् उतानित्यानीति। किं प्राप्तम्? कामसंयोगाद् अनित्यानि। इति प्राप्त उच्यते, ब्राह्मणादीनां सोमादीनि नित्यानीति। कुतः? ऋणवाक्येन हि संयोगो भवति, जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणवा जायते, यज्ञेन देवेभ्यो ब्रह्मचर्येण ऋषिभ्यः279 प्रजया पितृभ्य इति, स वै तर्ह्य् अनृणो यदा यज्वा ब्रह्मचारी प्रजावान् इति280, ऋणसंस्तवो ऽवश्यकर्तव्यानां भवति, तस्मान् नित्यानीति। ननु लिङ्गम् असाधकम्, न्याय उच्यताम्, यस्यैतद् द्योतकम् इति। उच्यते, अकामसंयुक्तान्य् एषां पृथग् वाक्यानि भवन्ति, वसन्ते वसन्ते ज्योतिषा यजेत, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत। तथा, विद्याम् अधीयीत। तथा, प्रजा उत्पादयितव्येति। एवं नित्यतायाः प्राप्ताया इदं लिङ्गं भवतीति।

अथ वा, अयम् अन्यो ऽर्थः, ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात्, सोमादयो नियताः किं ब्राह्मणस्यैव, [६५२]281 राजन्यवैश्ययोर् अनियताः, उत सर्वेषां नियता इति। किं प्राप्तम्? ब्राह्मणस्यैव नियता नेतरयोर् इति। कुतः? एवं श्रूयते, जायमानो ह वै ब्राह्मण इति, ब्राह्मणस्य नियमो दृश्यते, नेतरयोः, ब्राह्मणसंकीर्तनात्। एवं प्राप्ते ब्रूमः, सर्वेषां नियमः। कुतः? अविशेषेण नियमविधानं यत्, तद् अकामसंयुक्तं वचनं नियामकम्, तद् अविशिष्टं सर्वेषाम्, तस्मात् सर्वेषां नियम इति। ननु जायमानो ह वै ब्राह्मण इति ब्राह्मणस्य संकीर्तनम्। उच्यते, भवत्य् अस्मिन् वचने ब्राह्मणसंकीर्तनम्, न त्व्282 एतन्283 नियमस्य विधायकम्, एतैर् अकामसंयुक्तैर् वचनैर् विहितभ्य नियमस्यानुवादो ऽयम् अवदानस्तुत्यर्थः, तस्मान् नात्र ब्राह्मणसंकीर्तनेन राजन्यस्य वैश्यस्य वानियमो विज्ञायते। ब्राह्मणग्रहणं तु प्रदर्शनार्थम्, जायमानो284 ब्राह्मणो राजन्यो वैश्यो वेति285, तथा जायमानो जातश् चेति।

[६५३]286


सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्//६.३.१//

बह्वृचब्रह्मणे श्रूयते, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति, नित्यम् अग्निहोत्रम्, नित्यौ च दर्शपूर्णमासौ। तत्र यद् एतत् कामश्रवणाद् अन्यद् अकामश्रवणं287 द्वितीयम्, तत्र संदेहः, किं यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, तस्यैवाधिकारः, उत विगुणम् अपि तत् प्रयोक्तव्यम् इति। एकादशे288 कामसंयुक्ते प्रथमे श्रवणे चिन्तयिष्यते साङ्गे, इह नित्ये श्रवणे द्वितीय इति। किं प्राप्तम्? सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्, यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, स एवानुतिष्ठेत्, तथाभूतोपदेशात्, यथाभूतं हि तत् कामसंयुक्तं श्रुतम्, तथाभूतम् एव नित्यम् अप्य् उपदिश्यते। तस्मात् सर्वाङ्गोपहारेण प्रयोगः कर्तव्यः। दर्शपूर्णमासशब्दश् च साङ्गस्यैव वाचकः। कथम्? पौर्णमास्याम् अमावास्यायां च साङ्गं विधीयते। यच् च पौर्णमास्यां विहितम्, [६५४]289 सा च पौर्णमासी। यद् अमावास्यायां विहितम्, सा चामावास्येति, साङ्गम् अमावास्यायां विहितम्, पौर्णमास्यां च, तस्मात् साङ्गं दर्शपूर्णमासशब्देनोच्यत इति जैमिनिर् मन्यते स्म290


अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिवृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.२//

अपि वेति पक्षव्यावृत्तिः। अप्य् एकदेशे ऽङ्गानां स्याद् एव प्रयोगः, यतः साङ्गस्याप्य् अनङ्गस्यापि प्रयुज्यमानस्य प्रधानाद् एवायम् अर्थो निष्पद्यते, गुणमात्रं सर्वाङ्गप्रयोगेण भवति। को गुणः? साङ्गात् स्वर्गाभिनिर्वृत्तिः, प्रधानमात्राद् इदम् अन्यत् फलम्। तस्मात् स्वर्गप्राप्त्यर्थं संपूर्णाङ्गं करिष्यामीत्य् आरब्धम्। यदि कानिचिद् अङ्गानि न शक्नोति कर्तुम्, तथाप्य् अस्माद् एकदेशाङ्गगुणयुक्तात् प्रधानात् फलं भविष्यति। तस्मात् प्रधानमात्रस्य प्रयोगम् आह, नाङ्गानाम्। दर्शपूर्णमाशब्दको ऽग्निहोत्रशब्दकश् च प्रधानपदार्थो ऽन्यान्य् अङ्गानि तदर्थानीति।


तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसंबन्धात्//६.३.३//

प्रधानातिक्रमे दोषः श्रूयते, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति291 प्रधानातिक्रमे दोषं ब्रुवंस् तस्य नित्यतां दर्शयति।


कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति//६.३.४//

यद् उक्तम्, नास्ति भेदः, इमान्य् अङ्गानि, इमानि प्रधानानि [६५५]292 इति, प्रयोगवचनैकत्वाद् इति जैमिनिर् आह स्म। सर्वेषाम् उपदेशकः, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति।


अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु//६.३.५//

एकाङ्गप्रयोगे ऽपि स्याद् विगुणाद् अपि फलम् इत्य् अर्थः। कुतः? अर्थस्य व्यपवर्गित्वात्। व्यपवृक्तम् अङ्गेभ्यः प्रधानम्, अग्निहोत्रसंज्ञकाद् दर्शपूर्णमाससंज्ञकाच् च फलम् इह भवति। तद् धि कर्तव्यतयोपदिश्यते। यत् पौर्णमास्याम् उपदिष्टम्, सा पौर्णमासी, यद् अमावास्यायां सामावास्या, यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति293। तस्माद् अग्नये पुरोडाशो ऽग्नीषोमाभ्यां च, आज्यं चाग्नीषोमादिभ्यः पौर्णमास्याम्। आग्नेयसांन्याय्यादीनाम् अमावास्यायाम्294। यद् उक्तम्, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति साङ्गस्य विधानात् साङ्गं दर्शपूर्णमासशब्देनाभिधीयत इति। नैतद् एवम्, सिद्धे हि दर्शार्थे पूर्णमासार्थे च साङ्गं फले विधीयते। तस्मान् न साङ्गम् अग्निहोत्रपदवाच्यं दर्शपूर्णमासपदवाच्यं च295। यच् चाग्निहोत्रं तद् इह चोद्यते कर्तव्यतया, यौ च दर्शपूर्णमासौ। तस्माद् विगुणम् अपि कर्तव्यम् एवाग्निहोत्रं दर्शपूर्णमासौ च। यथा क्रत्वन्तरेषु प्रकृतिविकृतिषु परस्य धर्माः परस्य न भवन्ति, एवं न कामसंयुक्तस्य धर्मा नित्यस्य भवितुम् अर्हन्ति।


विध्यपराधे च दर्शनात् समाप्तेः//६.३.६//

विध्यपराधेषु च समाप्तिं दर्शयति, तद् एव यादृक्296 तादृग् होतव्यम् इति297 विगुणस्य समाप्तिं दर्शयति।

[६५६]298


प्रायश्चित्तविधानाच् च//६.३.७//

विध्यपराधे च प्रायश्चित्तानि विधीयन्ते, निमित्ते कर्माङ्गभूतानि, यथा भिन्ने जुहोतीति। विगुणे निष्फले सति कस्याङ्गभूतैः प्रयोजनं स्यात्? तस्मात् विगुणानाम् अपि प्रयोगः कर्तव्य इति।


काम्येषु चैवम् अर्थित्वात्//६.३.८//

ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः299, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चस्कामः300, वैश्वदेवीं सांग्राहायणीं301 निर्वपेद् ग्रामकाम302 इत्येवमादिषु संदेहः, किं विगुणम् अपि फलवत्, उताविगुणम् एव फलवद् इति। किं प्राप्तम्? काम्येषु चैवं स्यात्, विगुणम् अपि फलवद् इति। कुतः? अर्थित्वात्। यदि विगुणम् अपि फलवद् एवम् अर्थिमात्रम् अधिकृतं भविष्यति, अन्यथा सामान्यशब्दो ऽन्तरेण विशेषम्, विशेषे ऽवस्थापितो भविष्यति। असमर्थत्वान् नाधिक्रियत इति चेत्। साङ्गं न समर्थः कर्तुम्, प्रधानमात्रं तु शक्नोति, प्रधानमात्रे ऽधिकरिष्यति।


असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात्//६.३.९//

तुशब्दात् पक्षो विपरिवर्तते। नैवं स्यात्, यद् उक्तं विगुणम् अपि फलवद् इति, असंयोगात् प्रधानमात्रस्य फलेन, साङ्गाद् [६५७]303 धि फलं श्रूयते प्रधानात्, न केवलात्। तेन यद्य् अपि केवलम् उच्यते, तथापि नैवंजातीयकं तत् कुर्यात्, न केवलस्य फलेन संयोग इति, शब्दप्रमाणकश् चायम् अर्थो विधीयते। शब्दश् च साङ्गात् फलम् आहेति वक्ष्यामः304। तस्मान् न विगुणं कर्म कर्तव्यम् एवंजातीयकम् इति।


अकर्मणि चाप्रत्यवायात्//६.३.१०//

न चात्र प्रधानमात्रस्याकर्मणि प्रत्यवाय उच्यते, यथा दर्शपूर्णमासयोः। तस्माद् अपि न विगुणम् एवंलक्षणकं कर्म प्रयोक्तव्यम् इति।


क्रियाणाम् आश्रितत्वात् द्रव्यान्तरे विभागः स्यात्//६.३.११//

दर्शपूर्णमासयागः पुरोडाशेनोक्तः, स च पुरोडाशो व्रीहिमयः कर्तव्य इति श्रूयते। तत्रैतच् चिन्त्यते, यदि नीवारमयेन पुरोडाशेन यागः क्रियेत, किं स एव यागः स्यात्, उतान्य इति। किं प्राप्तम्? द्रव्यान्तरे विभागः स्यात्, अन्यो यागः305। कुतः? आश्रितत्वात्, आश्रयभेदाद् धि गम्यते विशेषः। अयम् अन्यो नीवाराश्रयो व्रीह्याश्रयाद् इति। आश्रयभेदस् तावद् विस्पष्ट एव, तद्भेदाद् रूपम् अपि भिन्नं गम्यते। तस्माद् अन्यो यागो द्रव्यान्तर इति।


अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐकर्म्यं स्यान् नामधेयं च सत्त्ववत्//६.३.१२//

अपि वेति पक्षव्यावृत्तिः। ऐककर्म्यं स्याद् द्रव्या[६५८]306न्तरे ऽपि, यदा क्रिया भवति चलनं पतनं वा, तदापि तावान् एव सो ऽर्थः, न च कश्चित् तत्र व्यतिरिक्तो विशेषो हीनो वा, नो खल्व् अप्य् अन्यद् एव रूपम्, न च शब्दान्तरं वाचकम्। नन्व् आश्रयभेदो विस्पष्टः। उच्यते, भिन्नम् एव वयम् आश्रयं प्रतिजानीमहे, न तु तद्भेदाद् आश्रितस्य भेदः, अन्यत्वत्। न हि स्रजि वासति वा भिन्ने तद्भेदात् पुरुषभेदो गम्यते। सो ऽपि तस्यात्मा भिन्न इति चेत्। नैतद् एवम्, विशेषम् उपलभमानैर् एवं शक्यं वक्तुम्। न चास्य विशेष उपलभ्यते। नन्व् अयम् एव विशेषो यत्, एको ऽपि307 विनष्टः, एको ऽपि308 वर्तते। न विनष्ट इति यद् उच्यते, तन् न, प्राग् अस्योपलम्भनात्, सत्त्वे प्रमाणं नास्ति, तस्माद् विनष्टः। न च, प्रत्यभिज्ञायते तद्द्रव्यातिरिक्तः, भेदानुपलम्भात्। कथं तर्हि चलतीति प्रत्यय इति चेत्। उच्यते, देशान्तरे संप्रतिपत्तिदर्शनात्, तद् देशान्तरं गच्छद् आगच्छच् च चलतीत्य् उच्यते, तत्र गन्तापि प्रत्यक्षः, देशानत्रम् अपि, तेन गत इति चोच्यते, आगत इति चोच्यते। सत्यम्, [६५९]309 विनष्टाद् अविनष्टो ऽन्यः, यो ऽपि त्व् असावन्यः, सो ऽपि यजतिशब्दवाच्य एव, यजतिसामान्यं न भिद्यते, न च शब्देन नोच्यते। तस्माद् यो ऽपि नीवारैर् यागं कुर्यात्, तेनापि चोदितम् एव कृतम्, चोदितं च कुर्वत ईप्सितं भवति, नापूर्वकृतम्। नामधेयं च दर्शयति, दर्श इति वा पूर्णमास इति वास्यैव सामान्यस्य, यथा सत्त्वेषु सामान्यस्य नामधेयम्310, न व्यक्तीनाम्। किं प्रयोजनं चिन्तायाः? उत्तरेणाधिकरणेनैतद् विचार्यते।


श्रुतिप्रमाणत्वाच् छिष्टाभावे नागमो ऽन्यस्याशिष्टत्वात्//६.३.१३//

अग्निहोत्रादीनि नित्यानि कर्माण्य् उदाहरणम्। तेषु श्रुतद्रव्यापचारे भवति संदेहः, किं प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः, उत तदन्तं कर्मोत्स्रष्टव्यम् इति। किं प्राप्तम्? शिष्टस्याभावे नागमो ऽन्यस्य, तदन्तम् एवोत्स्रष्टव्यम्। कुतः? अशिष्टत्वात्, यद् व्रीहियवगुणकं श्रुतं फलवत्, तन् नीवारगुणकं क्रियमाणम् अफलकं भवति। तस्मात् तदन्तं एवोत्स्रष्टव्यम् इति।


क्वचिद् विधानाच् च//६.३.१४//

क्वचिद् विधीयते, यदि311 सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति। यदि च प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः स्यात्, न विधीयेत, विधीयते तु। तस्माद् यच् च न विधीयते, न तत्र प्रतिनिधिर् इति।

[६६०]312


आगमो वा चोदनार्थाविशेषात्//६.३.१५//

आगमो वा प्रतिनिधेयस्य द्रव्यस्य। कुतः? चोदनार्थाविशेषात्, यजतिचोदनाचोदितो ह्य् अर्थो न विशिष्यते वीहिभिर् नीवारैर् वा क्रियमाणः, यागश् चावश्यकर्तव्यो नित्येष्व् अनित्येषु च प्रारब्धेषु।


नियमार्थः क्वचिद् विधिः//६.३.१६//

अथ यद् उक्तम्, क्वचिद् विधानाद् इति313। उच्यते, नियमार्थः क्वचिद् विधिः, सोमाभावे बहुषु सदृशेषु प्राप्तेषु नियमः क्रियते, पूतीका314 एवाभिषोतव्या इति। तस्मात् प्रतिनिधिम् उपादाय प्रयोगः कर्तव्य इति।


तन् नित्यं तच्चिकीर्षा हि//६.३.१७//

कथं पुनर् इदम् अवगम्यते, नियमार्थम् एव तद् वचनम् इति। उच्यते, यतः प्राप्ताः पूतीकाः। कथं च ते प्राप्ताः? तच्चिकीर्षा हि, तत्र सादृश्यचिकीर्षेत्य्315 एतद् वक्ष्यामः316। तच्चिकीर्षया च प्राप्ताः पूतीकाः। तस्मात् तन् नित्यम्, वचनम् एतन् नियमाय नित्यम् इति गम्यते।


न देवताग्निशब्दक्रियम् अन्यार्थसंयोगात्//६.३.१८//

देवता आग्नेयो ऽष्टाकपाल317 इत्येवमाद्याः, अग्निः, यद् आहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतो भवतीति318। शब्दो मन्त्रः319, बर्हिर् देवसदनं दामीत्येवमादिः320, क्रियाः [६६१]321 समिधो यजति, तनूनपातं यजतीत्येवमाद्याः। तत्र संदेहः, देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिर् उपादेयः, उत नेति। किं प्राप्तम्? पूर्वाधिकरणन्यायेन प्रतिनिधायान्यत्, प्रयोगः कर्तव्य इति। एवं प्राप्ते ब्रूमः, न देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिना भवितव्यम् इति। कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् अन्यद् एतेभ्यः, अन्यच् च तेषाम् अर्थं न शक्नुयात् कर्तुम्। कश् च तेषाम् अर्थः? देवता तावद् उद्देशेनार्थं साधयति, अग्निम् उद्दिश्य, अष्टाकपालः पौर्णमास्याम् अमावास्यायां च त्यज्यते। यच् चान्येषु हविःषु विहितम्, न ततो दर्शपूर्णमासौ भवतः। तत्रान्योद्दिश्यमाना न श्रुताया उद्देश्याया अर्थं कुर्यात्। न ह्य् अन्यस्याम् उद्दिश्यमानायां दर्शपूर्णमासौ भवतः। तस्मान् न देवता प्रतिनिधीयते। तथा, यद् आहवनीये जुह्वतीत्य् आवहनीयापचारे नान्यो ऽग्निः प्रतिनिधातव्यः, अन्यद् वा द्रव्यम् इति। कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् आहवनीयकार्ये न वर्तते। कथम्? अदृष्टम् आहवनीयस्य कार्यम्, आहवनीयस्योपरि त्यज्यमाने यद् भवति, न तद् अन्यस्योपरि। न हि, यजतिशब्देन सामर्थ्यात् तद् गृह्यते, यस्योपरि त्यज्यते, न हि, उपरि यज्यमानस्य देशः किंचिद् उपकरोतीति। तस्मान् नाग्नेः322 प्रतिनिधिः। तथा, मन्त्रापचारे नान्यो मन्त्रः प्रतिनिधीयते। मन्त्रस्य323 ह्य् एतत् प्रयोजनम्, यत्, स्मारयति क्रियां साधनं वा, असति स्मरणे न क्रिया संवर्तेत, तद् अपचरिते मन्त्रे यदि तस्यार्थे [६६२]324 ऽन्यं शब्दम् उच्चारयति पूर्वं प्रतीते ऽर्थे शब्दम् उच्चारयन्, न शब्देनार्थं प्रतीयात्। अथ प्रतीतम् अपि पुनः प्रतिनिधिशब्दोच्चारणेन प्रतीयाच् छब्दात् प्रतीतिं कुर्यात्325, एवं च प्रतिनिधिशब्दोच्चारणानुरोधो ऽनर्थकः स्यात्। न हि, शब्देन प्रत्यापयितव्यम् इति किंचित् प्रमाणम् अस्ति। यद् अस्ति, तद् विशेषेणैवानेन शब्देन बर्हिरादिनेत्य् एवम्, तदभावे शब्दान्तरानुरोधो ऽनर्थकः स्यात्। तस्मान् न शब्दस्य प्रतिनिधिः। क्रियापचारे न326 क्रियान्तरम्, अन्यार्थसंयोगात्327, समिद्यजिमन्तौ दर्शपूर्णमासौ कर्तव्यौ, ताव् अन्यस्यां क्रियमाणायां न तद्वन्तौ भवतः। तस्मात् क्रियायां न प्रतिनिधिर् इति।


देवतायां च तदर्थत्वात्//६.३.१९//

देवतायाम् अपरो विशेषः, येन न प्रतिनिधीयते, देवता नाम, यद् अर्थं किंचिच् चोद्यते, सा। अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात्। चोदिता हि देवता भवति, नाचोदिता, संबन्धिशब्दश् चैषः। या यद् अर्थं चोद्यते, सा तस्यैव देवता, नान्यस्य। देवतेति संबन्धिशब्दो न जातिशब्दः। तस्माद् अपि न देवतायाः प्रतिनिधिर् इति।


प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः//६.३.२०//

अथ यत् प्रतिषिद्धम्, अयज्ञिया वै वरकाः कोद्रवाः, अयज्ञिया वै माषा इति। किं तच् छ्रुतद्रव्यापचारे प्रति[६६३]328निधातव्यम्, उत नेति। किं प्राप्तम्? प्रतिनिधेयम्329 इति, आगमो वा चोदनार्थाविशेषाद्330 इति। एवं प्राप्ते ब्रूमः, प्रतिषिद्धं च न प्रतिनिधातव्यम् इति, अविशेषेण ह्य् एतद् उच्यते, न यज्ञार्हा माषा वरकाः कोद्रवाश् चेति, यज्ञसंबन्ध एषां प्रतिषिध्यते। नैते यज्ञाङ्गभावं नेतव्या इति, प्रतिनिधीयमानाश् चाङ्गभावं नीताः स्युः। तस्मान् नैते प्रतिनिधातव्या इति।


तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात्//६.३.२१//

अग्निहोत्रादीनि कर्माण्य् उदाहरणम्। तेषु स्वामिन्य् अपचरति संदेहः, किम् अन्यः प्रतिनिधातव्यो नेति। किं प्राप्तम्? प्रतिनिधातव्य इति। कुतः? आगमो वा चोदनार्थाविशेषाद्331 इति। एवं प्राप्ते ब्रूमः, तथा स्वामिनः स्यात्। को ऽर्थः? न प्रतिनिधिः। कुतः? फलसमवायात्। यो ऽर्थी स्वत्यागेनर्त्विजः परिक्रीणीते, यश् च स्वं प्रदेयं त्यजति, स स्वामी। यदि स प्रतिनिधीयते, स्वामिना यत् कर्तव्यम्, तत् सर्वं कुर्यात्, तत् सर्वं कुर्वन्, स्वाम्य् एव स्यात्, न प्रतिनिधिः। स एव हि फलेन संबध्यते। य उत्सर्गं करोति, स फलवान् भवति। तद् उक्तम्, शास्त्रफलं प्रयोक्तरीति332। तस्मान् न स्वामिनः प्रतिनिधिर् इति।

[६६४]333


बहूनां तु प्रवृत्ते ऽन्यम् आगमयेद् अवैगुण्यात्//६.३.२२//

सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्न् इति। तेषु कस्मिंश्चित् स्वामिन्य् अपचरति संदेहः, किं तत्रान्यः प्रतिनिधातव्यः, उत नेति। किं प्राप्तम्? न स्वामिनः प्रतिनिधिर् इति। एवं प्राप्ते ब्रूमः, बहूनां यजमानानां प्रवृत्ते कर्मणि, अपचरिते कस्मिंश्चित् स्वामिन्य् अन्यम् आगमयेत्। कुतः? एवम् अवैगुण्यं भवतीति, स्वामिगता सप्तदशादिसंख्या तत्राङ्गम्, तया विना कर्म विगुणम्, तत्संपादनायान्य आगमयितव्यः। ननु स्वामिगता संख्या, न त्व् आगम्यमानः स्वामीति वक्ष्यामः। तेनाशक्यैव सा संख्योपादातुम् इति। उच्यते, स्वामिगता न हि भविष्यति। न हि सा शक्या कर्तुम् इति। इदं तु शक्यं कर्तुम्, ये स्वामिनां पदार्थाः, त इह सप्तदशावरैः कर्तव्या इत्य् एतद् उपपादितं भविष्यति। तस्मात् प्रतिनिधातव्यं तत्रेति।


स स्वामी स्यात् तत्संयोगात्//६.३.२३//

तस्मिन्न् आगम्यमान इदानीं संदेहः, किम् असौ स्वामी, उत कर्मकर इति। किं प्राप्तम्? स स्वामी स्यात्। कस्मात्? तत्संयोगात्, तेन स्वामित्वेन334 संयोगः। यो ह्य् असाव् आनीयते, स स्वामी क्रियते, स्वामिन्य् अपचरिते ऽन्यो यदि स्वामी क्रियते, ततः स प्रतिनिधिः कृतो भवति। तस्मात् स्वामीति।

[६६५]335


कर्मकरो वा भृतत्वात्//३.३.२४//

कर्मकरो वा स स्यात्। कुतः? भृतत्वत्, भृतो ह्य् असौ तैः शिष्टैः स्वामिभिः प्रयुक्तः, परिक्रीयमाणो न स्वामी भवति। यः फलं प्राप्नोति, स स्वामी, यः परस्योपकारे वर्तते, स कर्मकरः, नैवासौ फलं प्राप्नोति। कुतः? यो ह्य् आरभ्य परिसमापयति, स फलवान्, एष ह्य् आख्यातार्थः, स ह्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आह। ननु ते ऽपि तत्र विगुणं कुर्वन्ति, सप्तदशानां स्वामिनाम् अभावात्। तस्मात् ते ऽपि न स्वामिनः, नो चेत् स्वामिनः, न फलं प्राप्नुवन्ति। उच्यते, न सप्तदशावराः फलसमवाये भवेयुर् इति श्रूयते, न संख्या फलपरिग्रहे गुणभूता। किं तर्हि? पदार्थेषु, सप्तदशावरैर् याजमानाः पदार्थाः कर्तव्या इति, ते च प्रतिनिहितेन क्रियन्ते, अफलत्वे ऽपि च सत्यं संकल्पं कर्तुम् अन्यम् आनयन्ति। आनीयमानस्य च न तेन प्रयोजनम्।


तस्मिंश् च फलदर्शनात्//६.३.२५//

तस्मिंश् च दिष्टां गतिं गते फलं दर्शयति, यो दीक्षितानां प्रमीयेतापि तस्य फलम् इति। तस्मात् कर्मकर इति।


स तद्धर्मा स्यात् कर्मसंयोगात्//६.३.२६//

बहूनां कस्मिंश्चिद् अपचरिते प्रतिनिधेयो ऽन्य इत्य् एतत् [६६६]336 समधिगतम्। इदम् इदानीं तत्र संदिग्धम्, किम् असौ स्वामिधर्मा स्यात्, उतर्त्विग्धर्मा? किं प्राप्तम्? ऋत्विग्धर्मा। कुतः? परार्थं हि स यजति, यश् च परार्थं यजति, स ऋत्विग् इति। एवं प्राप्ते ब्रूमः, स तद्धर्मा स्यात्, स्वामिधर्मा337, तस्य हि कार्ये शूयते, यश् च यस्य कार्यम् अधितिष्ठति, स तद्धर्मैः संबध्यते, यथा स्रुग्धर्मैः338 स्वधितिर् इति।


सामान्यं तच्चिकीर्षा हि//६.३.२७//

श्रुते द्रव्ये ऽपचरति प्रतिनिधिम् उपादाय प्रयोक्तव्यम् इति स्थितम्। तत्र संदेहः, किं यत्किंचिद् द्रव्यम् उपादाय प्रयोगः कर्तव्यः, उत सदृशम् इति। किं प्राप्तम्? यत्किंचिद् उपादायेति। एवं प्राप्ते ब्रूमः, सामान्यं यत्र गृह्यते, तद् उपादातव्यं सदृशम् इति। कुतः? सर्वे ह्य् आकृतिवचनाः शब्दाः, आकृतिश् च यद्य् अप्य् अङ्गभावेन श्रूयते, तथापि न साक्षात् तस्याः क्रियां प्रत्यङ्गभावः। यत् तु क्रियासाधनं द्रव्यम् अर्थाद् अङ्गभूतं प्राप्तम्, तत् परिच्छिन्दती क्रियायाम् अङ्गभावं याति, व्यक्तेश् चाकृत्या विशेषाः परिच्छिद्यन्ते, ते विशेषा अङ्गभूताः। अथ तस्याम् आकृताव् अपचरितायाम् अर्थप्राप्तं द्रव्यं ग्रहीतव्यम् एव, यस्मिंश् च सदृशे गृह्यमाणे तेषां विशेषाणां केचित् संगृहीता भवन्ति, स तत्र लाभो लभ्यत इति, तत्सदृशं द्रव्यम् उपादातव्यं भवति। तस्माद् व्रीहीणाम् अपचारे नीवाराः प्रतिनिधेया इति।

[६६७]339


निर्देशात् तु विकल्पे यत्प्रवृत्तम्//६.३.२८//

अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति340, तत्र श्रूयते, खादिरे पशुं बध्नाति पालाशे बध्नाति रौहितके बध्नातीति। तत्र कदाचित् खदिरगुणके प्रयोग आरब्धे खदिरो विनष्टः, तत्र संदेहः, किं वैकल्पिकस्योपादानम् उत खदिरसदृशस्येति। किं प्राप्तम्? वैकल्पिकस्येति। कुतः? स हि श्रुतः, खदिरसदृशो न श्रूयते, तस्माद् वैकल्पिकस्योपादानम् इति। एवं प्राप्ते ब्रूमः, विकल्पे यत् प्रवृत्तम्, तत्सदृशम् उपादेयम्, यत् प्रवृत्तं यस्मिन् प्रयोगे, तन् निर्दिष्टम्, तद् अङ्गभूतम्, वैकल्पिकम् अनङ्गम्। आश्रितखदिरे प्रयोगे पलाशरौहितकाव् अनङ्गबूतौ, तौ न शक्येते यदा खदिरः, तदैव कर्तुम्, अशक्यं चाश्रुतम्। तस्माद् आश्रितखदिरे प्रयोग इतरौ नोपादेयौ, अनङ्गभूतत्वात्। खदिरस्य सदृशम् अन्वेषितव्यम् इति।


अशब्दम् इति चेत्//६.३.२९//

इति चेत् पश्यसि, खदिरसदृशम् उपादेयम् इति, अशब्दम् एवं कृतं भवति। तस्माच् छब्दवत्त्वाद् वैकल्पिकम् उपादेयम्।


नानङ्गत्वात्//६.३.३०//

नैतद् एवम्, अनङ्गं तस्मिन् प्रयोगे वैकल्पिकम्। आश्रितखदिरो [६६८]341 हि स प्रयोगः, यो निर्दिष्टः, तस्य निर्देशाद् इतराव् अश्रुतौ। ननु निर्देशाभावे ऽङ्गभावविरोधः। तेन श्रुताव् इति। किम् अतः? यद्य् एवं यदोपात्तस्याभावः, तदा श्रवणम्। नैतद् एवम्, नैमित्तिकं हि तथा प्रतिज्ञायेत, सति वचने निमित्ते, असति खदिर इतरौ श्रुताव् इति। तत्र को दोषः? स एवापेक्षितो ऽनपेक्षितश् चेति विरोधो भवेत्, संस्काराश् च खदिरे कर्तव्याः। खदिरसदृशे तद्बुद्ध्या गृह्यमाणे श्रुतबुद्ध्या कृता भवन्ति, वैकल्पिकेन तु श्रुतेनासंबद्धाः। तस्माद् उपात्तसदृशो ग्राह्य इति।


वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य//६.३.३१//

इदम् आमनन्ति, यदि न सोमं विन्देत्342 पूतीकान् अभिषुणुयाद् इति। तत्र संदेहः, किम् अयम् अभावे निमित्ते विधिः, उत प्रतिनिधिनियम इति। किं प्राप्तम्? अभावे विधिर् इति। कुतः? विधानात्, न हि प्रतिनिधिर् विधीयते, साध्यसिद्धये साधनं स्वयम् एवोपादीयते, इदं तु विधीयते, तत् कल्पान्तरपेक्षे ऽर्थवद् भवति। तस्मान् न प्रतिनिधिः। इत्य् एवं प्राप्ते ब्रूमः, प्रतिनिधिः स्यात्। कुतः? विनष्टे हि साधने साध्यसिद्ध्यर्थं साधनान्तरम् उपादीयते, श्रुतस्याभावात्। नन्व् अन्याय्याः पूतीकाः, अन्यद् धि सदृशान्तरम् अस्तीति। तद् उच्यते, वचनात्। सदृशे प्राप्ते, बहुषु वासदृशेषु पूतीका अल्पसदृशा नियम्यन्ते। कथम्? तद् धि [६६९]343 प्रक्रान्तं कर्मावश्यं कर्तव्यम्, तस्याम् अवस्थायाम् अन्तरेणैव वचनं प्रतिनिधेयं द्रव्यान्तरं प्राप्तम् एव, प्राप्ते वचनं न विधिर् इति गम्यते। प्राप्तस्यानुवादो भवितुम् अर्हति। किम् अर्थम् अनुवाद इति चेत्। उच्यते, अल्पसादृश्यम् अप्राप्तम्, तद्विधानार्थम् अनुवादः। प्रयोजनं पक्षोक्तम्, प्रतिनिधिपक्षे सोमसदृशस्योपादानं पूतीकविनाशे, द्रव्यान्तरविधौ पूतीकसदृशम् उपादेयम्।


न प्रतिनिधौ समत्वात्//६.३.३२//

इदं विचार्यते, श्रुते द्रव्य उपात्ते ऽपचरिते प्रतिनिधिम् उपादाय प्रयोगः प्राप्तः, यदा सो ऽपि विनष्टः प्रतिनिहितः, तदा किं प्रतिनिधिसदृशम् उपादेयम्, उतोपात्तस्य विनष्टस्येति। किं प्राप्तम्? प्रतिनिहिते विनष्टे तत्सदृशम् उपादेयं पूर्वेण न्यायेन344। एवं प्राप्ते ब्रूमः, प्रतिनिधौ न स्यात् प्रतिनिधिर् इति। कुतः? समत्वात्, यथैवासौ पूर्वः प्रतिनिहितः श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया, एवम् अयम् अपि श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया। तस्मान् न प्रतिनिधिसदृशम् उपादेयम् उपात्तनष्टस्यैव सदृशो ऽन्वेषितव्य इति।


स्याच् छ्रुतिलक्षणे नियतत्वात्//६.३.३३//

अथ श्रुतिलक्षणे कथम्? यथा, यदि सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति, पूतीकेषु विनष्टेषु पूतीकसदृशम् उपा[६७०]345देयम् उत सोमसदृशम् इति। किं प्राप्तम्? स्याच् छ्रुतिलक्षणे प्रतिनिधौ प्रतिनिधिसदृशस्योपादानं कर्तव्यम्, सोमाभावे पूतीकव्यक्तयो विहिताः, स चायं श्रुतः सोमाभावः346। तस्मात् पूतीकव्यक्तय उपादेया इति।


न, तदीप्सा हि//६.३.३४//

नैतद् एवम्, न हि पूतीकव्यक्तीनाम् ईप्सा, पूतीकेषु यत् सोमसादृश्यम्, तन् नियम्यते, तथा हि पूतीकविधानं दृष्टार्थम् असदृशविधाने ऽदृष्टं कल्प्येत। अतो यस्मिंस् तद् अपूतीकसदृशे ऽपि द्रव्ये भवति तद् ग्रहीतव्यम्, न पूतीकसादृश्यम् आद्रियेतेति।


मुख्याधिगमे मुख्यम् आगमो हि तदभावात्//६.३.३५//

अथ यत्र विनष्टे श्रुते प्रतिनिधिम् उपादातुं प्रस्थितो मुख्यम् एवोपलभते, तत्र किं प्रतिनिधिम् एवोपाददीत, उत तम् एव मुख्यम् इति। किं तावत् प्राप्तम्? प्रतिनिधिम् उपादातव्यः इति, एवं संकल्पितवान् असौ प्रतिनिधिम् उपाददान एव सत्यसंकल्पो भवति। तस्मात् प्रतिनिधातव्यम् इति। एवं प्राप्ते ब्रूमः, मुख्याधिगमे तम् एवोपाददीत। अभावे हि श्रुतस्य, अनुकल्पः प्रतिनिधिः, श्रुते हि सकला व्यक्तयः, प्रतिनिधौ विकलाः। अथ यद् उक्तम्, संकल्पभेददोष इति, श्रुतेष्व् असौ शिष्टविगर्हणायां वा।

[६७१]347


प्रवृत्ते ऽपीति चेत्//६.३.३६//

अथाग्निहोत्रादिषु कर्मसु श्रुतद्रव्यापचारे प्रतिनिधाव् उपात्ते कृतेषु केषुचित् संस्कारेषु यदि तद् एव श्रुतम् उपलभ्येत, किं श्रुतम् उपादीयेत, उत तेनैव प्रतिनिहितेन समापयितव्यम् इति। किं प्राप्तम्? श्रुतम् उपादीयेत प्रवृत्ते ऽपि। तद् उक्तम्, आगमो हि तदभावाद्348 इति। तस्मान् न प्रतिनिधातव्यम् इति।


नानर्थकत्वात्//६.३.३७//

नैतद् एवम्, येन हि खदिराभावे कदरे पशुर् नियुक्तो भवति, अथ खदिरम् उपलभते, प्रवृत्ते ऽर्थे किं खदिरेण कुर्यात्? अर्थार्थं हि खदिरोपादानं न खदिरोपादानार्थम् एव। तस्मान् न श्रुतम् उपादीयेत।


द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्//६.३.३८//

प्रवृत्ते पशुकर्मणि, यूपकाले ऽस्ति महत् कदरं द्रव्यं तक्षणादिसंस्कारक्षमम्, अस्ति खदिरद्रव्यम् अनेवंजातीयकम्। तत्र किम् उपादेयम् इति। संस्कारा न परिलोप्स्यन्त इति कदर उपादीयेतेति। एवं प्राप्ते ब्रूमः, द्रव्यसंस्कारविरोधे द्रव्यं प्रत्य् आद्रियेरन्, न संस्कारान्। कुतः? तदर्थत्वात्, संस्कारा हि द्रव्यं कर्मयोग्यं कुर्वन्ति। तत्र संस्कारपरिलोपे द्रव्यम् अपि तावद् गृह्यते, द्रव्याभावे न द्रव्यम्, न संस्काराः। द्रव्यं तेषां द्वारम्, वचनप्रामा[६७२]349ण्यात्, तदभावे नष्टद्वारं नापूर्वं गच्छेयुः। तस्मात् खदिरम् उपाददीरन्न् इति।


अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात्//६.३.३९//

अस्ति यूपकाले खदिरलता पशोर् अप्रागल्भ्ये350 न समर्थाः351, कदरद्रव्यं तु तत्समर्थम्। तत्र संदेहः, किम् उपादेयं खदिरद्रव्यम्, उत कदरद्रव्यम् इति। खदिरद्रव्यम् इत्य् आह, तद् धि श्रुतम्, तदुपादानः शास्त्रविहितं करोति, प्रतिनिधाव् अश्रुतकारी स्यात्। तस्मान् न प्रतिनिधातव्यम् इति। एवं प्राप्ते ब्रूमः, अर्थद्रव्यविरोधे ऽर्थं प्रत्य् आदर्तव्यम्, तदर्थं हि द्रव्योपादानं नियोजनात्, अप्रागलभ्यं पशोर् भविष्यतीति, न द्रव्यम् एवोपादीयेतेति, कदरम् उपाददानो द्रव्यश्रुतिं बाधते। अर्थं त्व् अनुगृह्णाति, खदिरलताम् उपाददान उभयं बाधते। तस्मात् कदरद्रव्यम् उपादेयम्, द्रव्याभावे हि तदुत्पत्तिः, प्रतिनिधेर् उत्पत्तिर्352 उक्ता, द्रव्याण्य् अर्थं प्रति शेषभूतानि।


विधिर् अप्य् एकदेशो स्यात्//६.३.४०//

सन्ति व्रीहयः, यावन्तो द्व्यवदानमात्रं निर्वर्तयन्ति, तथा सन्ति नीवाराः शेषकार्याणाम् अपि पर्याप्ताः, तत्र किम् उपादेयम् इति। किं प्राप्तम्? अप्य् एकदेशे द्व्यव[६७३]353दानमात्रे ऽपि निर्वर्त्यमाने प्रतिनिधिर् उपादेयः। किं कारणम्? शेषकार्याणां संपत्तिर् भविष्यतीति।


अपि वार्थस्य शक्यत्वाद् एकदेशेन354 निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.४१//

अपि वेति पक्षव्यावृत्तिः। एकदेशेन व्रीहीणां प्रधानमात्रं निर्वर्तयितव्यम्। कुतः? अर्थस्य शक्यत्वात्, यो ऽत्रार्थः, येन कार्यं तत् तावत् निर्वर्त्यते, शेषकार्याणि यदि न शक्यानि, नाङ्गानुरोधेन प्रधानस्य गुणो बाधितव्यः। तद् ध्य् अङ्गम्, यत् प्रधानस्योपकरोति, न यद् अपकारे वर्तते। तत्र च शेषकार्याणि क्रियमाणानि प्रधाने व्रीहित्वं गुणं विहन्युः। व्रीहित्वं च प्रधाने साक्षाद् अङ्गभूतं श्रूयते, व्रीहिभिर् यजेतेति। तस्मान् न तेष्व् अनुरोधः कार्यः, असति ह्य् अङ्गप्रधानविभाग355 एतद् एवं स्यात्, अस्ति ह्य् असौ। तस्मान् न प्रतिनिधिर् इति। तथा चान्यार्थदर्शनम् अपि भवति, तद् एव यादृक् तादृग् होतव्यम् इति।


============================================================================


  1. E2: vicāraṇā ↩︎

  2. E2: tathaivānuṣṭhānam ↩︎

  3. E1 gibt pradhānārtham in Klammern ↩︎

  4. E2: śrutau ↩︎

  5. E2: 5,163; E6: 2,97 ↩︎

  6. E2: pūrvam avadeyam ↩︎

  7. E2: pradānaṃ codanāgṛhītatvād ↩︎

  8. E2 om. ete ↩︎

  9. E1 gibt āsann akaraṇam in Klammern ↩︎

  10. E2: 5,164; E6: 2,98 ↩︎

  11. E2: śrutābhiprāyam ↩︎

  12. E2: vikalpyate ↩︎

  13. Tait.S. 2.5.6.1 ↩︎

  14. E2: caiṣāṃ ↩︎

  15. E2: pūrvo ↩︎

  16. E2 om. sa ↩︎

  17. E2: 5,165; E6: 2,98 ↩︎

  18. E2: yadā seṣṭipūrvatvam ↩︎

  19. E2: tādarthye somapūrvatvam ↩︎

  20. E2: 5,166; E6: 2,99 ↩︎

  21. E2: tat tarhy ↩︎

  22. E2: 5,167; E6: 2,100 ↩︎

  23. E2: naitad asti kṛtsnotkarṣa iti ↩︎

  24. E2: 5,186; E6: 2,100 ↩︎

  25. E2: phalaṃ vacanam ↩︎

  26. E2: adhikaraṇam. antarā cintāntaraṃ vakṣyate ↩︎

  27. E2 om. sa ↩︎

  28. E1 (v.l.): sūkṣmeta ↩︎

  29. Vgl. zu MS 12.2.25 ↩︎

  30. E2 om. ādhānāt ↩︎

  31. E1 (v.l.): yajña upanamet ↩︎

  32. ŚPBr 2.1.3.9 ↩︎

  33. E2: 5,169; E6: 2,101 ↩︎

  34. E2: caitad ↩︎

  35. E2: ekaṃ vā ↩︎

  36. E2: 5,170; E6: 2,101 ↩︎

  37. E2: anagnīṣomīyo ‘py asau ↩︎

  38. E2: miśradevatasyāgrahaṇasāmānyād ↩︎

  39. E2: 5,171; E6: 2,102 ↩︎

  40. E2: na iṣṭyā ↩︎

  41. E2: 5,172; E6: 2,103 ↩︎

  42. Vgl. Tait.S. 1.8.2.1 ↩︎

  43. E2: agnīṣomīyavikārāḥ, agnīṣomīyam ↩︎

  44. Tait.S. 2.5.5.1 ↩︎

  45. E2: someneṣṭvāgnīṣomīyo bhavati ↩︎

  46. E2: 5,173; E6: 2,104 ↩︎

  47. Tait.S. 2.5.6.1 ↩︎

  48. E2: 5,173; E6: 2,104 ↩︎

  49. E2: avagamyate ↩︎

  50. E2: 5,175; E6: 2,104 ↩︎

  51. E2: tatraivaṃ tāvad ↩︎

  52. E2: kauśeyāni ↩︎

  53. E1 (v.l.): nety āha, na hi kasmiṃścid anupamāne ↩︎

  54. E2 om. na ↩︎

  55. E2: viśeṣaṇatvāt prīteḥ ↩︎

  56. E2: 5,177; E6: 2,105 ↩︎

  57. E2: na gacchanti ↩︎

  58. E2: nāpy anumānād gamyate ↩︎

  59. E2: nānyena. nanu ↩︎

  60. E2 om. iti ↩︎

  61. E2: 5,178; E6: 2,106 ↩︎

  62. E2: etat ↩︎

  63. E2: 5,180; E6: 2,106 ↩︎

  64. E2,6: vākyabhedaprasaṅgāt ↩︎

  65. E2: athānarthakyaparihārāya kalpitenānyena ↩︎

  66. E2: tataḥ saṃbadhyamāno ↩︎

  67. E2: 5,183; E6: 2,107 ↩︎

  68. E2,6: vākyabhedaprasaṅgaḥ ↩︎

  69. Jha (2,969) schlägt mit einer HS evam ayāgakartavyatāyāṃ vor ↩︎

  70. E2 om. iti ↩︎

  71. E2 (Fn.): saṃbandhād avagamyate ↩︎

  72. E2 (Fn.): manyase ↩︎

  73. E2: bhavet ↩︎

  74. E2: 5,183; E6: 2,108 ↩︎

  75. E2: 5,185; E6: 2,109 ↩︎

  76. Tait.S. 1.6.11.3 ↩︎

  77. E2: viṣṇukramaṇādivacanāni ↩︎

  78. E2: 5,186; E6: 2,109 ↩︎

  79. E2: 5,187; E6: 2,110 ↩︎

  80. E2: anuṣaṅgataś ↩︎

  81. E2: kalpayitavyam iti. pūrvapakṣe ↩︎

  82. E2: saṃbhavād iti ↩︎

  83. E2: siddhānte tadasaṃbhavād iti ↩︎

  84. Vgl. zu MS 6.7.31-40 ↩︎

  85. E2: veti ↩︎

  86. E2: 5,188; E6: 2,111 ↩︎

  87. E1 gibt puṃliṅgena viśeṣeṇa nirdeśo bhavati svargakāmo yajeteti in Klammern ↩︎

  88. E2,6: yajñasādhanavadhakārī ↩︎

  89. E2,6: yajñavadhakārī ↩︎

  90. E2,6: yajñavadho ↩︎

  91. E2,6: yajñavadhaḥ ↩︎

  92. E1 gibt kukṣāv in Klammern ↩︎

  93. Tait.Br. 1.5.9.7 ↩︎

  94. Vgl. MS 4.1.17 ↩︎

  95. E2: puṃsa evādhikāra iti ↩︎

  96. E2: bhagavān bādarāyaṇo ↩︎

  97. E2: 5,189; E6: 2,111 ↩︎

  98. E2 om. ca ↩︎

  99. Tait.Br. 1.5.9.7 ↩︎

  100. E2: 5,189; E6: 2,112 ↩︎

  101. E2,6: avadhasaṃkīrtanam ↩︎

  102. E2: atirathaṃ duhitṛmṛte ↩︎

  103. E2: gomithunām ↩︎

  104. E2: 5,190; E6: 2,113 ↩︎

  105. Manu ↩︎

  106. E2 om. tu ↩︎

  107. E2: 5,191; E2: 2,113 ↩︎

  108. E2: uccanīcapuṇyapaṇo ↩︎

  109. E2: adhiratham ↩︎

  110. E1 (v.l.): patyaivam anumataṃ ↩︎

  111. Tait.S. 6.2.1.1 ↩︎

  112. E2: jāghanyā patnīḥ ↩︎

  113. E1 (v.l.): patyaivam anumatam ↩︎

  114. E2: kutaḥ? pṛthaktvena ↩︎

  115. E2 om. śrūyate ↩︎

  116. E2: 5,192; E6: 2,114 ↩︎

  117. E2 om. saha ↩︎

  118. E2: 5,193; E6: 2,115 ↩︎

  119. E2 om. sa ↩︎

  120. Tait.S. 6.1.3.5 ↩︎

  121. E2: atirathaśatadānasya ↩︎

  122. E2: 5,195; E6: 2,116 ↩︎

  123. Tait.Br. 3.7.5.11 ↩︎

  124. E2: 5,195; E6: 2,116 ↩︎

  125. E2: nānuvādas ↩︎

  126. E2,6: sadvitīyeti ↩︎

  127. E2: yugapadadhikaraṇavacanāyāṃ ↩︎

  128. E2: 5,197; E6: 2,117 ↩︎

  129. E2: dhavau ↩︎

  130. E2: sahāyata ↩︎

  131. Pāṇ. 1.2.67 ↩︎

  132. E2: 5,198; E6: 2,117 ↩︎

  133. E2,6: vākyam, kṣaumasaṃbandhasyārthavattvāt ↩︎

  134. E2: kim artham ↩︎

  135. E2: kṣaumākṣaumayoḥ ↩︎

  136. E2: 5,199; E6: 2,118 ↩︎

  137. E2: patnyayā; E1 (v.l.): patnyām ↩︎

  138. E2: ‘gnīn ↩︎

  139. Tait.Br. 1.1.2.6 ↩︎

  140. E2: pramādādhyayavacanam ↩︎

  141. E2: 5,200; E6: 2,119 ↩︎

  142. Pāṇ. 1.2.67 ↩︎

  143. E2: yady etad ↩︎

  144. E2: 5,201; E6: 2,119 ↩︎

  145. E2: 5,208; E6: 2,120 ↩︎

  146. E2: ‘gnīn ↩︎

  147. Tait.Br. 1.1.2.6-7 ↩︎

  148. E2: ātreyo munir manyate ↩︎

  149. E2,6: rājanyo ↩︎

  150. E2: 5,209; E6: 2,121 ↩︎

  151. Vgl. zu MS 6.1.28 ↩︎

  152. E2: 5,210; E6: 2,121 ↩︎

  153. Vgl. dazu Tait.S. 7.5.1.6 ↩︎

  154. Tait.Br. 1.1.4.1 ↩︎

  155. E1 gibt puruṣaprādhānyaṃ hi vrate in Klammern ↩︎

  156. E2,6: evam ↩︎

  157. E2: 5,212; E6: 2,122 ↩︎

  158. E2: guṇenādhyayanenārthī ↩︎

  159. E2: nāpi kaṭaṃ kuḍyaṃ ↩︎

  160. E2: dṛṣṭārtham eva saiṣā ↩︎

  161. E2: kathaṃ punar nayatir ↩︎

  162. E2: avaidhatvād ↩︎

  163. E2: 5,213; E6: 2,123 ↩︎

  164. E2: anuktām ↩︎

  165. E2: avaidhatvād ↩︎

  166. E2: adhyayanaphalaṃ ↩︎

  167. E2: vaidhatvena ↩︎

  168. E2: brāhmaṇo ↩︎

  169. E2: 5,214; E6: 2,123 ↩︎

  170. E2: ‘dravyasaṃyogaḥ ↩︎

  171. E2: yajeteti śabadaḥ ↩︎

  172. E2: vipratiṣiddham. tad idam abhidhīyate. tasmād ↩︎

  173. E2 hat noch: adhikāro ‘dravyasyāpīti ↩︎

  174. E2: 5,215; E6: 2,124 ↩︎

  175. E2: ity uttaraḥ pakṣaḥ. tad ↩︎

  176. E2: taddharmeti ↩︎

  177. Vgl. zu MS 3.4.13 ↩︎

  178. MS 3.4.13 ↩︎

  179. E2: 5,216; E6: 2,124 ↩︎

  180. E2 om. iti ↩︎

  181. E2: adhikriyetety ↩︎

  182. E2: avayutyānuvādo ↩︎

  183. E2: 5,217; E6: 2,125 ↩︎

  184. E2: vacanāt. vacanam idaṃ bhavati, varṣāsu rathakāra ādadhīteti. na ↩︎

  185. E2: alabhyaṃ nāma. sarvaśeṣaś ↩︎

  186. E2,6: brāhmaṇarājanyaviśām ↩︎

  187. E2: ādhāsyati ↩︎

  188. E2: 5,218; E6: 2,126 ↩︎

  189. E2: rathakāraḥ, āpadi jīvanaṃ caitasya. vākyena tasyedam ↩︎

  190. E2: 5,219; E6: 2,126 ↩︎

  191. ṚV 1.110.4 ↩︎

  192. ṚV 8.75.5 ↩︎

  193. E2 om. śabdasāmarthyāt ↩︎

  194. E6 om. niṣāda ↩︎

  195. E2: viṣādaśabdaḥ ↩︎

  196. E2: nadituṃ ↩︎

  197. E2: 5,220; E6: 2,127 ↩︎

  198. Tait.S. 1.8.9.1 ↩︎

  199. E2: 5,221; E6: 2,128 ↩︎

  200. E2: ekaikaśo ↩︎

  201. E2: 5,223; E6: 2,128 ↩︎

  202. E2: ‘vibhāge ↩︎

  203. E2: ‘vibhāge ↩︎

  204. E2: upavidhyati ↩︎

  205. E2: 5,224; E6: 2,129 ↩︎

  206. Vgl. zu MS 3.7.18 ↩︎

  207. E2 om. puruṣaṃ ↩︎

  208. E2: puruṣaśabdaḥ saṃbadhyeta ↩︎

  209. ṚV 9.19.2 ↩︎

  210. E2: tathaite ↩︎

  211. ṚV 9.6.2.1 ↩︎

  212. E2: evaṃ ↩︎

  213. E2: ced bhavān paśyatv avivakṣitam ekatvam iti. pratyarthaṃ ↩︎

  214. E2: 5,226; E6: 2,130 ↩︎

  215. E2: 5,227; E6: 2,130 ↩︎

  216. E2: viṣāṇavat ↩︎

  217. E2: dhāratā ↩︎

  218. Tait.S. 6.1.3.8 ↩︎

  219. MS 3.7.18 ↩︎

  220. E2: 5,229; E6: 2,131 ↩︎

  221. E2: svargakāmo nety ↩︎

  222. E2: nāpy anyasya ↩︎

  223. E2: sūktavākaphalārthaṃ ↩︎

  224. Tait.Br. 3.5.10.4 ↩︎

  225. E2: māntravarṇikī devatā, tataḥ ↩︎

  226. E2: āyuradikāmo ↩︎

  227. Vgl. zu MS 3.7.18 ↩︎

  228. E2 om. na ↩︎

  229. E2: 5,230; E6: 2,132 ↩︎

  230. E2: svarpatī ↩︎

  231. ṚV 9.19.2 ↩︎

  232. ṚV 9.52.1 ↩︎

  233. E2: tathāyuktaṃ ↩︎

  234. E2: kriyāniyamyatvāt ↩︎

  235. E2: 5,231; E6: 2,132 ↩︎

  236. E2: ārambhaparisamāpti ↩︎

  237. E2: kartavyam iti codyate yad iṣṭaphalam. nanv ↩︎

  238. E2: grāmādikāmena ↩︎

  239. E1 gibt phalaṃ cikīrṣamāṇasya in Klammern ↩︎

  240. E2: vedaivāso ↩︎

  241. E2: mayaitat kartavyam ↩︎

  242. E2: 5,232; E6: 2,133 ↩︎

  243. E2: na samāpayati, taṃ ↩︎

  244. E2: 5,233; E6: 2,134 ↩︎

  245. E2: yathā ↩︎

  246. E2: 5,233; E6: 2,134 ↩︎

  247. E2: tūpasaṃprāpti ↩︎

  248. E2,6: vā śāstram ↩︎

  249. E2: 5,234; E6: 2,135 ↩︎

  250. Jha schlägt vor, mit MS nañ saṃbadhyate zu lesen ↩︎

  251. E2: 5,236; E6: 2,136 ↩︎

  252. E1 gibt etāvatā kṛtenāyukta enasā bhavati in Klammern ↩︎

  253. E2: ucyate. āha, pratiṣiddhaṃ ↩︎

  254. E2,6: upadeśavaiyarthyaprasaṅgād ↩︎

  255. E2: 5,237; E6: 2,137 ↩︎

  256. E1 gibt upanayanena saha pravarteran in Klammern ↩︎

  257. Vgl. zu MS 1.3.1 ↩︎

  258. E2: 5,238; E6: 2,137 ↩︎

  259. Vgl. den zweiten adhyāya ↩︎

  260. E2: utāsātatyeneti ↩︎

  261. E2: paurṇamāsyā ↩︎

  262. E2: amāvāsyayā ↩︎

  263. E2: satataṃ hotavyam ↩︎

  264. E2: paurṇamāsyā ↩︎

  265. E2: amāvāsyayā ↩︎

  266. E2: 5,238; E6: 2,138 ↩︎

  267. Tait.S. 2.2.5.4 ↩︎

  268. E2: pradoṣam ↩︎

  269. E2: paurṇamāsyā ↩︎

  270. E2: āmāvāsyayā ↩︎

  271. E2: 5,239; E6: 2,138 ↩︎

  272. Tait.S. 2.2.5.4 ↩︎

  273. E2 om. pūrvatra ↩︎

  274. E2: pūrvaḥ pakṣaḥ ↩︎

  275. E2: nimittatvād āgata āgate kāla ity ↩︎

  276. E2: pūrvaḥ pakṣaḥ ↩︎

  277. E2: 5,240; E6: 2,139 ↩︎

  278. Tait.S. 2.5.6.1 ↩︎

  279. E2 hat yajñena devebhyaḥ nach ṛṣibhyaḥ ↩︎

  280. Tait.S. 6.3.10.5 ↩︎

  281. E2: 5,241; E6: 2,139 ↩︎

  282. E2: hy ↩︎

  283. E2: etad vacanaṃ ↩︎

  284. E2: yajamāno ↩︎

  285. E2: vaiśyaś ceti ↩︎

  286. E2: 5,242; E6: 2,140 ↩︎

  287. E2: anyakāmaśravaṇaṃ ↩︎

  288. Vgl. MS 11.1.11-19 ↩︎

  289. E2: 5,243; E6: 2,140 ↩︎

  290. E2 gibt jaiminir manyate sma in Klammern ↩︎

  291. Tait.S. 2.2.5.4 ↩︎

  292. E2: 5,247; E6: 2,141 ↩︎

  293. Tait.S. 2.6.3.3 ↩︎

  294. E2: amāvāsyayā ↩︎

  295. E2 om. ca ↩︎

  296. E2 om. yādṛk ↩︎

  297. Tait.Br. 1.4.3.5 ↩︎

  298. E2: 5,249; E2: 2,142 ↩︎

  299. Tait.S. 2.2.1.2 ↩︎

  300. Tait.S. 2.3.2.3 ↩︎

  301. E2: sāṃgrahaṇīṃ ↩︎

  302. Tait.S. 2.3.9.2 ↩︎

  303. E2: 5,249; E6: 2,142 ↩︎

  304. Vgl. zu MS 11.1.1.ff ↩︎

  305. E1 gibt anyo yāgaḥ in Klammern ↩︎

  306. E2: 5,250; E6: 2,143 ↩︎

  307. E2 om. ‘pi ↩︎

  308. E2 om. ‘pi ↩︎

  309. E2: 5,251; E6: 2,144 ↩︎

  310. E2,6: sāmānyasya nāmadheyam ↩︎

  311. E2: yathā, yadi ↩︎

  312. E2: 5,252; E6: 2,144 ↩︎

  313. Vgl. MS 6.3.14 ↩︎

  314. E2: pūtikā ↩︎

  315. E2: sādṛśyaṃ cikīrṣety ↩︎

  316. Vgl. zu MS 6.3.27 ↩︎

  317. Tait.S. 2.6.3.3 ↩︎

  318. Tait.Br. 1.1.106 ↩︎

  319. E1 gibt mantraḥ in Klammern ↩︎

  320. Tait.S. 2.6.1.1 ↩︎

  321. E2: 5,255; E6: 2,145 ↩︎

  322. E2: tasmānn agneḥ ↩︎

  323. E2: pratinidhīyate. kutaḥ? anyārthasaṃyogāt. mantrasya ↩︎

  324. E2: 5,256; E6: 2,145 ↩︎

  325. E1 gibt chabdāt pratītiṃ kuryāt in Klammern ↩︎

  326. E2 om. na ↩︎

  327. E2: kriyāntaram pratinidadhyāt. anyārthasaṃyogāt ↩︎

  328. E2: 5,257; E6: 2,146 ↩︎

  329. Vgl. zu MS 6.3.15 ↩︎

  330. MS 6.3.15 ↩︎

  331. MS 6.3.15 ↩︎

  332. Vgl. MS 3.7.18 ↩︎

  333. E2: 5,258; E6: 2,147 ↩︎

  334. E1 gibt svāmitvena in Klammern ↩︎

  335. E2: 5,259; E6: 2,147 ↩︎

  336. E2: 5,260; E6: 2,148 ↩︎

  337. E1 gibt svāmidharmā in Klammern ↩︎

  338. E2: sruvadharmaiḥ ↩︎

  339. E2: 5,262; E6: 2,149 ↩︎

  340. Tait.S. 6.1.11.6 ↩︎

  341. E2: 5,262; E6: 2,149 ↩︎

  342. E2: āmananti, somaṃ na vindeta ↩︎

  343. E2: 5,263; E6: 2,150 ↩︎

  344. E2: nyāyeneti ↩︎

  345. E2: 5,264; E6: 2,151 ↩︎

  346. E2: somābhāve ↩︎

  347. E2: 5,265; E6: 2,151 ↩︎

  348. MS 6.3.35 ↩︎

  349. E2: 5,266; E6: 2,152 ↩︎

  350. E2: paśoprāgalbhye ↩︎

  351. E2,6: samarthā ↩︎

  352. E1 gibt pratinidher utpattir in Klammern ↩︎

  353. E2: 5,267; E6: 2,153 ↩︎

  354. E2: ekadeśe ↩︎

  355. E2: aṅgabhūpradhānavibhāga ↩︎