द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् ॥ MS_४,३.१ ॥
यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति। यस्य पर्णमयी जुहूर् भवति, न स पापं श्लोकं शृणोतीति। यस्याश्वत्थ्य् उपभृद् भवति, ब्रह्मणैवास्यान्नम् अवरुन्धे, यस्य वैकङ्कती ध्रुवा भवति, प्रत्य् एवास्याहुतयस् तिष्ठन्ति। अथो प्रैव जायते, यस्यैवंरूपाः स्रुवा1 भवन्ति, सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्ते, नास्यापरूपम् आत्मन् जायत इति2। तथा ज्योतिष्टोमसंस्कारे3 फलश्रुतिः, यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते4, तथा, केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तति, स्नाति, मृता वा एषा त्वग् अमेध्यं वास्यैतद् आत्मनि शमलं तद् एवोपहते मेध्य एव मेधम् एवम् उपैति5। कर्मणि फलं श्रूयते, अभीषू वा एतौ यज्ञस्य यद् आधारौ, चक्षुषी वा एतौ यज्ञस्य यद् आज्यभागौ6, यत् प्रयाजानुयाजा इज्यन्ते, वर्म वा एतद् यज्ञस्य क्रियते, वर्म यजमानस्य भार्तृव्यस्याभिभूत्यै, इति7। अत्र संदेहः, किम् इमे फलविधयः, उतार्थवादा इति। किं प्राप्तम्? फलविधयः, प्रवृत्तिविशेषकरत्वात् फल[४८८]8विधेः, यथा खादिरं वीर्यकामस्य यूपं कूर्यात्, पालाशं ब्रह्मवर्चस्कामस्य, बैल्वम् अन्नाद्यकामस्येति9। यथैते फलविधयः, एवम् इहापि द्रष्टव्यम्। एवं प्राप्ते ब्रूमः। फलार्थवादा इति। कुतः? परार्थत्वात्, क्रत्वर्थान्य् एतानि। जुहूः प्रदाने गुणभूताः, उपभृद् उपधारणे, स्रुवा10 आज्यधारणे, अञ्जनवपनादि च यजमाने, आघाराव् आज्यभागौ प्रयाजानुयाजाश् चाग्नेयादिषु। यदि फले ऽपि गुणभावः स्यात्, अन्यत्रोपदिष्टानाम् अन्यत्र पुनर् गुणभाव उपदिष्ट इति प्रतिज्ञायेत। न चैतन् न्याय्यम्, परार्थता हि गुणभावः, क्रत्वर्था चैषां शब्देन, जुह्वा जुहोति जुह्वा होमम् अभिनिर्वर्तयतीति11, एवं सर्वत्र। तस्मान् नैते पुरुषार्थाः।
उत्पत्तेश् चातत्प्रधानत्वात् ॥ MS_४,३.२ ॥
अथोच्येत - पुरुषम् अपि प्रति गुणभाव उपदिष्टः, यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्येवमादिभिर् वाक्यैर् इति। तच् च न। कस्मात्? उत्पत्तेर् अतत्प्रधानत्वात्, तत्र12, पालाश्या जुह्वापापश्लोकश्रवणं13 क्रियत इति न14 कश्चिच् छब्द आह, एतावच् छ्रूयते, यस्यासौ भवति, न स पापं श्लोकं शृणोतीति, एतावद् अत्र शब्देन गम्यते, यस्यैवंलक्षणा15 जुहूः, तस्यापापश्लोकश्रवणम् इति। तत्र जुह्वा तत् क्रियते, जुहूर् वा तदर्थेति, नैतच् छब्द आह। नन्व् अनुमानाद् एतद् गम्यते, ध्रुवं पालाश्या जुह्वा तत् क्रियते, यतस् तस्यां सत्यां तद् भवतीति। अत्रोच्यते, न, एवंजातीयकं कार्यकारणत्वे ऽनुमानं भवति, कार्यकारणसंबन्धो नाम स भवति, यस्मिन् सति यद् भवति, यस्मिंश् चासति यन् न भवति, तत्रैव कार्यकारणसंबन्धः। इह तु तद्भावे [४८९]16 भावो ज्ञातः, नाभावे ऽभावः। यस्य पालाशी न भवति तस्यापापश्लोकश्रवणं नास्तीति, न, एवंजातीयकः शब्दो ऽस्ति, तेन न, नियोगतो ऽवगम्यते, तेनेदं क्रियत इति, लक्षणम् एतत् पुरुषस्य गम्यते, तस्मान् नानुमानम्। अपि च, यस्यापि जुहूः पालाशी भवति, तस्यापि पापश्लोकश्रवणं भवति। कथम् अवगम्यते? प्रत्यक्षतः। नन्व् एवं सत्य् अग्निहोत्रेणापि फलं न साध्येत। न17 हुतामात्रेण फलं दृश्यत इति। नैष दोषः, न हि तत्रोच्यते, तावतैव फलं भवतीति। इह तु वर्तमानायां जुहूसत्तायां वर्तमानस्य पापश्लोकश्रवणस्य प्रतिषेधः। तस्मान् न तत्रानुमानम्, इदं कार्यम्, इदं कारणम् इति। अग्निहोत्रादिषु तु शब्देनैव कार्यकारणसंबन्ध उच्यते। तस्मात् तत्र तत्काले ऽदृश्यमाने ऽपि फले, कालान्तरे फलं भविष्यतीति गम्यते, न त्व् एवंजातीयकेषु, तस्मान् नैवंजातीयकेभ्यः फलम् अस्तीति। ननु यस्य पालाशी जुहूर् भवति, न स पापं श्लोकं शृणोतीत्य् एवम् उक्ते तत् एव तत् फलं भवतीति गम्यते, तस्माद् इहापि कालान्तरे फलं भविष्यतीति। उच्यते, सत्यं गम्यते, प्रमाणं तत्र किम् इति विचारयामः। न तावत् प्रत्यक्षम्, नानुमानम्, नेतरद् दृष्टविषयम् उपमानादि, नो खल्व् अपि शब्द इत्य् एतद् उक्तम्, वाक्यार्थो ऽपि पदार्थोपजनितो भवति, नान्यथा, तद् उक्तम् - तद्भूतानाम् क्रियार्थेन समाम्नाय इति1819। तस्माद् अप्रमाणमूलत्वान् मिथ्याविज्ञानम् एतत्। लौकिकेषु तु वाक्येष्व् अथैवं20 गम्यते, तानि हि विज्ञाते ऽर्थे प्रयुज्यमानान्य् अध्याहार्यपदानि गौणानि विपरिणतव्यवहितार्थानि च प्रयुज्यन्ते। तस्मात् तत्सादृश्याद् वचनावगम्येष्व् अप्य् अर्थेषु भवति तत्त्वरूपो मिथ्याप्रत्ययः, यथा मृगतृष्णादिषु। [४९०]21 अपि च, वर्तमानापदेशो ऽयम्, न च, अयम् अर्थो वर्तमानः, तस्मान् न खादिरस्रुवादिसद्भावे तत्फलं भवेत्। तद् एवम् आपतति, खादिरादौ सति भवति तत्फलं नापि भवति, असत्य् अपि भवति वा न वेति। नैवं विज्ञायते, कुतस् तत्फलम् इति। तस्माद् एवंजातीयकेषूच्चरितेषु न क्वचित् प्रवृत्तिर् न कुतश्चिन् निवृत्तिर् इत्य् आनर्थक्यम् अक्रियार्थत्वात्। अर्थवादे तु सति भवति प्रयोजनं खदिरादेः, स्रुवादिषु कर्मार्थेषु प्रयोजनवत्सु। यद्य् एषां क्रतुं प्रति प्रयोजनवत्ता न स्यात्, तत एतद् एव फलं कस्याचिच् छब्दवृत्त्या भवेद् वा न वेति विचार्येत। सति तु पारार्थ्ये नैव काचिच् छब्दप्रवृत्तिर् आश्रयितुं शक्यते। कैमर्थ्ये हि सा कल्प्येत। तस्माद् एवंजातीयका अर्थवादाः, अर्थवादत्वे चावर्तमाने लक्षणया वर्तमानशब्दः प्रशंसार्थ उपपत्स्यते।
फलं तु तत्प्रधानायाम् ॥ MS_४,३.३ ॥
अथ यद् उक्तम्, यथा, खादिरं वीर्यकामस्य यूपं कुर्यात्, बैल्वम् अन्नाद्यकामस्य पालाशं ब्रह्मवर्चसकामस्येति, युक्तं तेषु, विधिविभक्तिः कुर्याद् इति वीर्यखादिरसंबन्धस्य विधात्री, न च वर्तमानापदेशिनी। तस्मात् तत्राविरोध इति। एवं हि पदवाक्यार्थन्यायविदः श्लोकम् आमनन्ति - कुर्यात्, क्रियेत, कर्तव्यम्, भवेत्, स्याद् इति पञ्चमम्/ एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम्//इति।
विधिविभक्तिं हि विधायिकां लिङ्गं मन्यमानाः श्लोकम् इमं समामनन्ति22। अस्ति चात्र विधिविभक्तिः। तस्माद् अनुपवर्णनम् एतद् इति।
[४९१]23
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् ॥ MS_४,३.४ ॥
अस्ति ज्योतिष्टोमे नैमित्तिकम्, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुर् अश्मां24 राजन्यस्य, रायोवाजीयं वैश्यस्येति, तथाग्नौ नैमित्तिकम्, साहस्रं प्रथमं चिन्वानश् चिन्वीत, द्विसाहस्रं द्वितीयम्, त्रिसाहस्रं तृतीयम् इति25, तथा दर्शपूर्णमासयोः श्रूयते, गोदोहनेन पशुकामस्य प्रणयेत्, कांस्येन ब्रह्मवर्चसकामस्य, मार्तिकेन प्रतिष्ठाकामस्येत्य् एतानि नैमित्तिकानि। तेषु संदेहः, किम् एतान्य् एव नैमित्तिकानि नित्यार्थे, उतान्यत् तत्र तत्र26 नित्यार्थ इति। किं प्राप्तम् एतान्य् एवेति। कुतः? अत्र ब्रह्मसामादिभिर् अवश्यं भवितव्यम्, चोदितानि हि तानि, संनिहितानि साधनान्य् आकाङ्क्षन्ति। न च, एषां सन्ति विहितानि साधनानि, समीपतश् च नैमित्तिकान्य् उपनिपतन्ति, तैः प्रकृतैः संनिहितैर् एतानि निराकाङ्क्षीक्रियन्त इत्य् एतन् न्याय्यम्। कथम्? नैमित्तिकं हि संनिहितम्, वाक्याद् अवगम्यते नान्यच् छ्रूयते, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् एवाश्रुतकल्पनायाम्। आह, ननु निमित्तार्थानि तानि प्रकृतानि। उच्यते, नैष दोषः, अन्यार्थम् अपि प्रकृतम् अन्येन संबध्यते, यथा, शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयते, उपस्पृश्यते च। एवम् इहापि द्रष्टव्यम्। अथवा, अस्त्य् एवात्रावान्तरवाक्यम्, यथा, गोदोहनेन प्रणयेद् इति, तद् अकामसंबद्धं गोदोहनेन प्रणयनं प्रापयति। न च शक्यं श्रुतम् उत्स्रष्टुम्। यो ऽप्य् अयम्, [४९२]27 पशुकामस्येति शब्दः, स पशुकामसंबन्धं शक्नुयात् कर्तुम्, नावान्तरवाक्यस्यार्थं निवारयितुम्, न च गम्यमानम्, विना कारणेन, अविवक्षितम् इति शक्यं वदितुम्। भवन्ति च द्विष्ठानि28 वाक्यानि, यथा, श्वेतो धावति, अलम्बुसानां यातेति। तस्मान् नैमित्तिकान्य् एव नित्यार्थे भवितुम् अर्हन्तीति। एवं प्राप्ते ब्रूमः, नैमित्तिके श्रूयमाणे क्रत्वर्थम् अन्यत् स्याद् इति। कुतः? विकारत्वाद् विशेषे श्रुतत्वाद् इत्य् अर्थः29। विशेषे हि तत्र नैमित्तिकं श्रूयते, तद् असति तस्मिन् विशेषे न भवितुम् अर्हति। यद् उक्तम्, अवश्यकर्तव्यानीति। नैष दोषः, अवश्यं कर्तव्यत्वात् करिष्यन्ते। यत् तु नान्यद् एषां विहितं साधनम् इति, सामान्यविहितं भविष्यतीति न दोषः। किं तत्? अभीवर्तो ब्रह्मसाम, अष्टादशमन्त्रगतो ऽग्निः, वारणं प्रणयनपात्रम्। अथ यद् उक्तम्, संनिहितैः प्रकृतैर् नैमित्तिकैर् ब्रह्मसामादीनि संभत्स्यन्त इति। नेति ब्रूमः, न हि बार्हद्गिरादीनां प्रकरणम्। अथोच्येत, प्रकृतैः स्तोत्रादिभिः संबध्यन्त इति, एतद् अपि नोपपद्यते। यद्य् अपि प्रकृतानि नित्यानि स्तोत्रादीनि, तथापि वाक्येन निमित्तसंयोगे श्रूयन्ते बार्हद्गिरादीनि, वाक्यं च प्रकरणाद् बलीयः। यद् उक्तम्, संनिधानाद् वाक्याद् अवगतो ऽयम् अर्थ इति। न, एवंजातीयको वाक्यार्थः सामान्यं पदार्थं30 बाधितुम् अर्हति। निमित्तसंयोगे हि बार्हद्गिरादीनाम् अर्थवत्ता। तस्मात् तत्र तत्रान्यन् नैमित्तिकाद् इति। अथ यद् उक्तम्, अवान्तरवाक्येन गोदोहनम् अपि प्रापितं न शक्यम् उत्स्रष्टुम्, ऋते कारणात्, अविवक्षितं कल्पयितुम्31, [४९३]32 द्विष्ठं हि तद् भवतीति। उच्यते, कारणाद् अविवक्षितम्। किं कारणम्? न हि, इदं युगपद् भवति, परिपूर्णेन चार्थाभिधानम् अवान्तरवाक्येन चेति। कथम्? प्रणयतीति प्रपूर्वे नयतौ विधिविभक्तिः स्वपदगतम् अर्थं श्रुत्या विदधाति, प्रणयनादिसंबद्धम् अपि गोदोहनादि श्रुत्या, वाक्येन च। वस्तु फलस्य गोदोहनादेश् च संबन्धः। स हित्वा श्रुत्यर्थम्, केवलेन वाक्येन। अथ प्रणयनस्य गोदोहनादिसंबन्धम्, गोदोहनादेश् च फलेन संबन्धं वदतीत्य् उच्यते। न33, द्व्यर्थाभिधानाद् भिद्येत नितरां वाक्यम्, न चैतन् न्याय्यम्। यत् तु, श्वेतो धावतीत्येवमादि, भवेत् तत्र विशेषानवगमाद् उभयार्थावगतिः। इह तु गम्यते विशेषः कमिपदोच्चारणम्, स इह श्रौतो ऽर्थः। मन्येत, यदि गोदोहनादेः क्रियासंबन्धो विवक्ष्यते, कमिपदं प्रमादो भवेत्। न चायं प्रमादः, नैवावान्तरवाक्यार्थे विवक्षिते कमिपदसंबन्धो ऽवकल्पते। तस्मान् न द्विष्ठं वाक्यम्, गोदोहनादिकमिसंबन्ध एवात्राभिधीयते, न नित्यकार्ये भवितुम् अर्हतीति, एवं सर्वत्र।
एकस्य तूभयत्वे संयोगपृथक्त्वम् ॥ MS_४,३.५ ॥
अग्निहोत्रे श्रूयते, दध्ना जुहोतीति, पुनश् च, दध्नेन्द्रियकामस्य जुहुयाद् इति। तथाग्नीषोमीये पशाव् आम्नायते, खादिरे बध्नातीति, पुनश् च, खादिरं वीर्यकामस्य यूपं कुर्याद् इति। तत्र संदेहः, किम् अत्राप्य् अन्यन् नित्यार्थम्, [४९४]34 उत नैमित्तिकम् एवेति। किं प्राप्तम्? पूर्वेण न्यायेनान्यद् इति। एवं प्राप्ते ब्रूमः - एकस्योभयत्वे नित्यत्वे नैमित्तिकत्वे च35 संयोगपृथक्त्वं कारणम्। तद् इह संयोगपृथक्त्वम् अस्ति, एकः संयोगो दध्ना जुहोतीति, एको दध्नेन्द्रियकामस्येति, तथैकः, खादिरे बध्नातीति, अपरः, खादिरं वीर्यकामस्येति। तस्मान् नित्यार्थे कामाय च दधिखादिरादीति।
शेष इति चेत् ॥ MS_४,३.६ ॥
इति चेत् पश्यसि, कस्मान् न पूर्वस्यायम् अपि शेषो भवति? यद् एतद् उक्तम्, दध्ना जुहोति, खादिरे बध्नातीति, तस्यैव तु दध्नः फलम् इन्द्रियम्, तथा खादिरस्य वीर्यम्। तच् चेदं चैकं वाक्यम् इति।
नार्थपृथक्त्वात् ॥ MS_४,३.७ ॥
नैतद् एवम्, पृथग् एताव् अर्थौ, यश् च दधिहोमसंयोगः, यश् च दधीन्द्रियसंयोगः, तथा खादिरस्य बध्नातिना संयोगो वीर्येण च। द्वाव् एताव् अर्थौ, द्वाव् अपि च विधित्सितौ, अर्थैकत्वाच् चैकं वाक्यं समधिगतम्। इहार्थद्वयेन भिद्येत वाक्यम्। कथम्? जुहोतिसमभि[४९५]36व्याहृता विधिविभक्तिः, असंभवे श्रौतस्य होमविधानस्य37, गुणं समभिव्याहृतं विधातुम् अर्हति, तद् असंभवे गुणफलसंबन्धम्। तत्र ह्य् अत्यन्ताय श्रुतिर् उत्सृष्टा वाक्यानुरोधेन स्यात्, न च युगपत् संभवासंभवौ संभवतः। तस्माद् यद् एव नैमित्तिकं तद् एव नित्यार्थम् इति।
द्रव्याणां तु क्रियार्थानाम् संस्कारः क्रतुधर्मः स्यात् ॥ MS_४,३.८ ॥
ज्योतिष्टोमे समामनन्ति - पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति38। तत्र संदेहः, किम् अयं पुरुषधर्मः, उत क्रतोर् इति। प्रकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्येति। एवं प्राप्ते ब्रूमः, पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश् चायं संस्कारो व्रतं नाम, स क्रतुधर्मो भवितुम् अर्हति, प्रकरणानुग्रहाय। ननु वाक्यात् पुरुषधर्म इति। नेति ब्रूमः, तथा सति फलं कल्प्यम्, कॣप्तम् इतरत्र। प्रयोगवचनेनोपसंहृतं हि तत्प्रधानस्य। तस्मात् क्रतुधर्मः।
पृथक्त्वाद् व्यवतिष्ठेत39 ॥ MS_४,३.९ ॥
अथ पुरुषसंयोगः किम् अर्थः? व्यवस्थापनार्थ इति ब्रूमः, पयोव्रतं ज्योतिष्टोमस्य भवति, तत् तु ब्राह्मणकर्तृकस्यैव, नान्यकर्तृकस्येति। एवं सर्वत्र।
[४९६]40
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते ॥ MS_४,३.१० ॥
इदम् आमनन्ति, तस्मात् पितृभ्यः पूर्वेद्युः करोतीति41, तथा, सर्वेभ्यो वा एष देवेभ्यः सर्वेभ्यश् छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते, यः सत्रायागुरते, स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेतेत्य्42 एवंलक्षणके श्रुते, भवति संदेहः, किं निष्फलम् एतत् कर्ममात्रम्, उत सफलम् इति। किं प्राप्तम्? निष्फलम् इति। कुतः? फलाश्रुतेः, शब्दप्रमाणके कर्मण्य् एवंजातीयके। न ह्य् अशब्दं प्रतीयते। ननु वैदिकानि कर्माणि फलवन्ति भवन्तीत्य् एवम् उक्तम्। उच्यते, फलदर्शनात् तानि फलवन्तीत्य् उक्तम्, न वैदिकत्वात्। एवं तर्हि कर्तव्यतावगमात् फलवन्तीत्य् अध्यवस्यामः, सुखफलं हि कर्तव्यं भवतीति। उच्यते, प्रत्यक्षविरुद्धम् एवंजातियकस्य कर्तव्यत्वम्, साक्षाद् धि तद् दुःखफलम् अगच्छामः। न चैवंजातीयकं प्रत्यक्षविरुद्धं वचनं प्रमाणं भवति, यथाम्बुनि मज्जन्त्य् अलाबूनि, शिलाः प्लवन्ते, पावकः शीत इति। अपि च, अनुमानाद् अत्र सुखफलता, यस्मात् कर्तव्यम् अतः सुखफलम् इति, प्रत्यक्षं चानुमानाद् बलीयः। तस्मान् निष्फलम् एवंजातीयकम् इति। एवं ह्य् अत्र फलं कल्प्येत, यद्य् एतत् फलवत्, एवम् उपदेशो ऽर्थवान् भवतीति। उच्यते, कामं वाक्यम् अनर्थकम् इति न्याय्यं वचनं भवेत्, भवन्ति ह्य् अनर्थकान्य् अपि वचनानि, [४९७]43 दश दाडिमानि, षडपूया44 इत्य् एवंजातीयकानि। ननु विश्वजिद्व्यापारः सुखफल इति। उत्तरम्45, सुखफलं हि भवत्य् अपूर्वम्, न व्यापारः, न चायम् अपूर्वस्य कर्तव्यताम् आह, फलकर्तव्यतायां हि सत्यां तद् अवगम्यते, वाक्यार्थश् च फलस्य कर्तव्यताम् आह, न पदार्थः। न चात्र फलसंबद्धं वाक्यम् अस्ति। तस्मान् नायम् अपूर्वस्य विधायकः शब्दः, व्यापारमात्रम् एव46 विदधाति, स च व्यापारो न तदात्वे सुखफलः, नाप्य् आयत्याम्, भङ्गित्वात्। तत्रापूर्वं कल्पयित्वा फलम् अवगम्येत, फलं च कल्पयित्वापूर्वम्। एवम् इतरेतराश्रयं भवति, इतरेतराश्रयाणि च न47 प्रकल्पन्ते। तस्मान् निष्फलम् एवंजातीयकम् इति। आह, अध्याहरिष्यामहे फलवचनम्48। उच्यते, न शक्यं परिपूर्णे वाक्ये ऽध्याहर्तुम्, परिपूर्णं हीदं वाक्यम्, विश्वजिद्यागः कर्तव्य इति। न, किंचित् पदम् अस्ति साकाङ्क्षम्, येनाध्याहृत्य फलं संबध्येत, यथाक्षेमे ऽपि पथि49, भवति विप्रलम्भकोपदेशः50, क्षेमो ऽयम्, यथा गच्छतु भवान् अनेनेति। परिपूर्णम् एवेदं वाक्यम्, नाध्याहारम् अर्हति विप्रलम्भककर्तृकम्51, एवम् इदम् अपि परिपूर्णं वाक्यं नाध्याहारम् अर्हति। अपि च, अध्याह्रियमाणेनैवेदं वाक्यं संबध्येत, विश्वजिद्यागः कर्तव्यः, इदं च फलं भवतीति, द्वाव् इमाव् अर्थौ, एकार्थं च वाक्यं समधिगतम्। तस्माद् अनर्थकम् एवंजातीयकं कर्मेति।
[४९८]52
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते ऽर्थतो ह्य् असमार्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः सः ॥ MS_४,३.११ ॥
अपि वेति पक्षव्यावृत्तिः। न चैतद् अस्ति, अफलम् इति, फलचोदना, अर्थेन गम्येत। कतमेनार्थेन? कर्तव्यतावचनेन। आह, ननु व्यापारस्य प्रत्यक्षविरुद्धा कर्तव्यता। न व्यापारस्योच्यते। कस्य तर्हि? व्यापारेणान्यस्य कस्यचिद् इति, भवति तेनेदानीं वाक्यं साकाङ्क्षम्। तत्राध्याहारो ऽवकल्पते, भवति चाध्याहारेणापि कल्पना, यथा द्वारं द्वारम् इत्य् उक्ते, संव्रियताम् अपाव्रियताम् इति53। कथं पुनर् अवगम्यते, इहाध्याहारेण कल्पयितव्यम् इति। आम्नानसामर्थ्यात्, एवम् इदम् आम्नानम् अर्थवद् भविष्यति, शक्नोति चार्थम् अवगमयितुम्। तस्मान् नानर्थकम्। ननु यत् पदम् अध्याह्रियते, तत् पौरुषेयम्, तेनावगतं चाप्रमाणम्। उच्यते, नापूर्वम् अध्याहरिष्यामः, वैदिकेनैवास्य, सहान्यत्र समाम्नातेन, एकवाक्यताम् अध्यवसामः। आह, नैवं शक्यम्, अन्तिकाद् उपनिपतितं हि पदम्54, वाक्यार्थम् उपजनयितुम् अलं भवति, न दूराद् अवतिष्ठमानम्। अत्रोच्यते, व्यवहितम् अपि हि, पराणुद्य व्यवधायकम्, आनन्तर्येण मनसि विपरिवर्तमानम् अलम् एव भवति विशेषम् उपजनयितुम्। यथा - इतः पश्यसि धावन्तं दूरे जातं वनस्पतिम्/ त्वां ब्रवीमि विशालाक्षि या पिनक्षि जरद् गवम्// [४९९]55 इति, इतः56 पश्यसीति शब्दो बुद्धौ भवति, सः दूरे जातं वनस्पतिम्57, एतैः पदैर् व्यवहितेन जरद् गवम् इत्य् अनेन शब्देन व्यवधायकान्य् अपोद्य संबध्यमानः संबध्यते, अर्थानां ह्य् अर्थवत्त्वेन हेतुना व्यवहितान्य् अपि वचनानि संबध्यन्ते। यानि पुनर् अर्थतो ह्य् असमर्थानि, तान्य् आनन्तर्ये ऽपि सति न परस्परेण संबन्धम् अर्हन्ति, यथा या पिनक्षि जरद् गवम् इत्येवमादीनि। तस्मान् न पौरुषेयता भविष्यति। आह, नन्व् अत्राप्य् अपेक्षा पौरुषेयी। उच्यते, नापेक्षा वेदे, वेदार्थप्रतिपत्ताव् अभ्युपाय एष भवति, अननतरापेक्षायाम् असंभवन्त्याम् आम्नानसामर्थ्याद् इतरापेक्षावृत्तिर् आश्रीयते। तस्माच् छ्रुत्य् एकदेशः सः, फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः58।
वाक्यार्थश् च गुणार्थवत् ॥ MS_४,३.१२ ॥
इन्द्राय राज्ञे शूकर59 इति60 यथा वाक्यान्तरस्थेन विधिशब्देन गुणविधानं भवति, एवं फलविधानम् अपि भवितुम् अर्हतीति, यथा वरुणो वैतम् अग्रे प्रत्यगृह्णाद् इति61 व्यवधारणकल्पना। एवम्62 इदम् अपि द्रष्टव्यम्।
तत् सर्वार्थम् अनादेशात् ॥ MS_४,३.१३ ॥
तस्मात् पितृभ्यः पूर्वेद्युः करोतीति63। विश्वजिता यजेतेति फलवद् एवंविधं कर्मेत्य् एतत् समधिगतम्। इदं तु संदिह्यते, किं सर्वफलम् एतत् कर्म, उतैकफलम् इति। किं प्राप्तम्? तत् सर्वार्थम् इति। कुतः? अनादेशात्, [५००]64 न किंचिद् इहातिदिश्यते, इदं नाम फलम् इति। अस्ति चेत्, विज्ञायेत। तस्मात् सर्वार्थम् अविशेषात्।
एकं वा चोदनैकत्वात् ॥ MS_४,३.१४ ॥
एकं फलं65 स्यात्, न वा सर्वार्थम्। कुतः? चोदनैकत्वात्, सकाङ्क्षत्वाद् एतद् अर्थिपदेन संबध्यत इत्य् उक्तम्, यच् चानेकेनापि संबद्धुं शक्नोति, तद् एकेन संबध्यते, एकेन संबद्धं सन् निराकाङ्क्षं भवति, न तद् अपरेणापि संबन्धम् अर्हति। तस्माद् एकैव कर्तव्यताचोदना66 न्याय्या, तस्माद् एकफलतेति।
स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात् ॥ MS_४,३.१५ ॥
एवंजातीयकेष्व् एवोदाहारणेष्व्67 एतत् समधिगतम्, एकं फलम् इति। इदम् इदानीं संदिह्यते, किं यत्किंचित्, उत स्वर्ग इति। यत्किंचिद् इति प्राप्तम्, विशेषानभिधानात्, तत उच्यते, स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात्, सर्वे हि पुरुषाः स्वर्गकामाः। कुत एतत्? प्रीतिर् हि स्वर्गः, सर्वश् च प्रीतिं प्रार्थयते। किम् अतः? यद्य् एवम्, अविशेषवचनः शब्दो न विशेषे व्यवस्थापितो भविष्यति, यजेत कुर्याद् इति। तस्मात् स्वर्गफलम् एवंजातीयकम् इति।
प्रत्ययाच् च ॥ MS_४,३.१६ ॥
भवति च, अनादिष्टफले कर्मणि स्वर्गः फलम् इति प्रत्ययो लोके, एवम् उच्यते, आरामकृद् देवदत्तः, नियतो ऽस्य स्वर्गः। [५०१]68 तडागकृद् देवदत्तः, नियतो ऽस्य स्वर्ग इति। किम् अतः? यद्य् एवम्, इत्थम् अनेन न्यायेन स्वर्गे संप्रत्ययो भवति, यस्मात् स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति, गम्यत एवेति। तस्माद् अप्य् अवगच्छामः, एवंजातीयकेषु स्वर्गः फलम् इति।
क्रतौ फलार्थवादम् अङ्गवत् कार्ष्णाजिनिः ॥ MS_४,३.१७ ॥
रात्रीः प्रकृत्य श्रूयते, प्रतितिष्ठन्ति ह वैते, य एता उपयन्ति69। ब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तीति। तत्र संदेहः, किं ते फलार्थवादाः, उत फलविधय इति। किं प्राप्तम्? फलार्थवादा इति कार्षाजिनिर् मेने। कुतः? फलार्थवादसरूपा एते शब्दा इति। किं सारूप्यम्? विधिविभक्तेर् अभावः, अङ्गवत्70, यथा यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यतीत्येवमादिषु71।
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् ॥ MS_४,३.१८ ॥
आत्रेयः पुनर् आचार्य एवंजातीयकेभ्यः, फलम् अस्तीति मेने, न फलार्थवाद इति। कुतः? अश्रुतफलत्वे ऽप्य् अमीषाम्, फलचोदनया वाक्यशेषभूतया भवितव्यम्। तस्माद् अन्या व्यवहिता सती, अव्यवहिता कल्पनीया, इयं त्व् अव्यवहिता कॣप्तैव, प्रतिष्ठया ब्रह्मवर्चससत्तया च समभिव्याहार आसां प्रत्यक्षः, विधिविभक्तिमात्रम् अन्यतो ऽपेक्ष्यम्। [५०२]72 आह, कथं केवलं विधिविभक्तिमात्रम् अन्यतो भविष्यति? यद् अनेन प्रतिष्ठादिना धात्वर्थेन संभन्त्स्यत इति। उच्यते, सह धात्वर्थेन भविष्यति, न केवलम्। तस्माद् अदोषः। अथवा रात्रीणां या विधायिका विभक्तिः, सा इमम् अपि प्रतिष्ठादिविशेषं विधास्यति प्रयोगवचनेन, स्तुतिर् वा सह प्रतिष्ठादिभिर् विधात्री भविष्यतीति।
अङ्गेषु स्तुतिः परार्थत्वात् ॥ MS_४,३.१९ ॥
अथ यद् उक्तम्, यथा यस्य खादिरः स्रुवो भवतीत्येवमादिषु73 फलश्रुतिर् अर्थवादो भवति, एवम् इहापि स्याद् इति, युक्तं तत्र फलार्थवादः, फलविध्यसंभवात्, फलार्थवादसंबवाच् च। तद् उक्तम्, द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इति74।
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः ॥ MS_४,३.२० ॥
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्येवमादीनीति7576। तत्र संदेहः, किम् एषां स्वर्गः फलं कामश् च, उत काम एवेति। किं प्राप्तम्? काम्ये कर्मणि नित्यः स्वर्गः स्यात्। कथम्? सर्वपुरुषार्थाभिधायी सामान्यवचनः शब्दो न विशेषे ऽवस्थापितो भवति, शक्यते ह्य् अस्य दूरस्थेनापि स्वर्गकामशब्देन संबन्धः। आह, ननु विशेषकः शब्दः श्रूयते, ब्रह्मवर्चसकाम इति। नैष विशेषकः, उपाधिकर एषः, यथा काष्ठान्य् आहर्तुं प्रस्थित उच्यते, भवता शाकम् अप्य् आहर्तव्यम् इति, काष्ठाहरणे [५०३]77 शाकाहरणम् उपाधिः क्रियत इति। किम् इदम् उपाधिः क्रियत इति। काष्ठाहरणाधिकारसमीपे द्वितीयं कर्मोपधीयते, सति काष्ठाहरणे, इदम् अपरं कर्तव्यम् इति। एवम् इहापि स्वर्गफले फलम् अपरम् उपधीयते, ब्रह्मवर्चसकामो यागेन स्वर्गम् अभिनिर्वर्तयेद् इति। न हि तत्र ब्रह्मवर्चसफलवचनं स्वर्गफलस्य प्रतिषेधकम्, यथा यज्ञाङ्गे क्रत्वर्थः, गोदोहनेन पशुकामस्य प्रणयेद् इति। यः पशुकामः स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति।
वीते च कारणे नियमात् ॥ MS_४,३.२१ ॥
वीते च कारणे, वीतायां फलेच्छायाम् अवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत् तावत्य् एव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयाद् इति78। यदि न स्वर्गः, किम् अर्थः समाप्तिनियमो भवेत्। तस्मान् नित्यः स्वर्ग इति।
कामो वा तत्संयोगेन चोद्यते ॥ MS_४,३.२२ ॥
कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिको ऽस्य स्वर्गकामेनैकवाक्यभावः। प्रत्यक्षस् तु कामवचनेन, प्रत्यक्षं चानुमानाद् बलीयः। तस्मात् काम एव फलम् इति।
अङ्गे गुणत्वात् ॥ MS_४,३.२३ ॥
अथ यद् उक्तम्, यथा यज्ञाङ्ग79 इति, युक्तम् अङ्गे गुणत्वात्। प्रत्यक्षस् तत्र ऋतुना संयोगः, कामेन च। यः पशुकामः स्यात्, स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति। न त्व् अत्र प्रत्यक्षः शब्दो ऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [५०४]80 स्वर्गम् अभिनिर्वर्तयेद् इति। कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद् यागेन निर्वर्तयेद् इति। तस्मान् नाङ्गवद् भवितुम् अर्हतीति।
वीते च नियमस् तदर्थम् ॥ MS_४,३.२४ ॥
अथ यद् उक्तम्, वीतायां फलेच्छायाम्, अवाप्ते वा फले समाप्तिनियमो दृश्यत इति। तत्र ब्रूमः, वीते नियमस् तदर्थम्, वीते नियमो भवति, तस्मै प्रयोजनाय। कस्मै? शिष्टाविगर्हणाय। उपक्रम्यापरिसमापयतः, तदनन्तरम् एवैनं शिष्टा विगर्हयेयः, प्राक्रमिको ऽयं कापुरुष इति वदन्तः। ये हि देवेभ्यः संकल्प्य हविः, न यागम् अभिनिर्वर्तयन्ति, तान् शिष्टा विगर्हन्ते, तस्माद् अवश्यं समापयितव्यम्। तत्रैतद् दर्शनं युक्तं भविष्यति, यदि वर्षेत् तावत्य् एव जुहुयाद् इति81। तस्मात् काम्यानां काम एव फलम् इति।
सार्वकाम्यम् अङ्गकामैः प्रकरणात् ॥ MS_४,३.२५ ॥
इदम् आम्नायते, एकस्मै वान्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति। तत्र संदेहः, किम् अङ्गकामैर् अङ्गाङ्गकामैश् च सह, अस्यानुवादः, अथवा विधिर् इति। किं प्राप्तम्? अनुवाद इति, यद् एतत् सार्वकाम्यम्, तद् अनूद्यते, अङ्गकामैश् चाङ्गाङ्गकामैश् च सह, सन्ति ह्य् अङ्गकामाश् चाङ्गाङ्गकामाश् च, यथा, आहार्यपुरीषां पशुकामस्य [५०५]82 वेदिं कुर्यात्, खननपुरीषां प्रतिष्ठाकामस्येत्येवमादयः। तथा, यदि कामयेत, वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति, तद् विहितम् एवेदम् अभिधीयत इत्य् अनुवादं न्याय्यं मन्यामहे।
फलोपदेशो वा प्रधानशब्दसंप्रयोगात् ॥ MS_४,३.२६ ॥
फलविधिर् वा। कुतः? प्रधानशब्देन फलसंयोगो भवति, सर्वेभ्यो दर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम इति च, प्रधानाभिधानेन च प्रधानस्य सर्वफलवत्ता विहिता। तस्मान् नानुवादः। अथाङ्गकामान् अङ्गाङ्गकामांश् चापेक्षते, तथा लक्षणाशब्दः स्यात्, श्रुतिश् च लक्षणाया गरीयसी। तस्मात् प्रयोगवचनेन विधिर् इति।
तत्र सर्वे ऽविशेषात् ॥ MS_४,३.२७ ॥
एवंजातीयकेष्व् एवोदाहरणेष्व् एतद् उक्तम्, प्रधाने सर्वकामानां विधिर् इति। इदम् इदानीं संदिह्यते, किं सकृत् प्रयोगे सर्वे कामाः, उत पर्यायेणेति। किं प्राप्तम्? सकृत् प्रयोगे सर्वे कामा इति। कथम्? सर्वेषां कामानां दर्शपूर्णमासौ निमित्तम्, ज्योतिष्टोमश् चेति, निमित्तं चेत् सर्वेषां कामानाम्, को ऽत्र खलु कामो न भविष्यतीति। तस्माद् यौगपद्येन सर्वे कामा इति।
[५०६]83
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् ॥ MS_४,३.२८ ॥
न चैतद् अस्ति, सर्वे युगपत् कामा इति, पर्यायो योगसिद्धिः, पर्यायेण भवेयुः कामा इति। कुतः? अर्थस्योत्पत्त्यसंयोगित्वात्, अर्था इमे कामा नाम, न सर्व एव युगपद् उत्पद्यन्ते, असंभवो युगपद् उत्पत्तेः सर्वेषाम्, विरोधात्। अथवा, उत्पत्त्यसंयोगित्वाद् इति, न, कामानाम् एतद् उत्पत्तिवचनम्, उत्पन्नानां लक्षणत्वेन वचनम्, ये सर्वे कामास् तेभ्यो दर्शपूर्णमासौ ज्योतिष्टोमश् चेति। न सर्वे कामाः कर्मणः श्रूवन्ते, ये सर्वे कामास् तेभ्यो हि कर्म विधीयते। तस्मान् न कामानां साहित्यं गम्यत इति।
तत्र सर्वे ऽविशेषात् ॥ MS_४,३.२७ ॥84
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः85, ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः86, चित्रया यजेत पसूकामः87, वैश्वदेवीं सांग्रहायणीं88 निर्वपेद् ग्रामकाम इति89। तेषु संदेहः, किम् इह लोके कामाः, उतामुष्मिल् लोक इति। किं प्राप्तम्? तत्रामुष्मिल् लोके90 कामाः, अविशेषात्, यथा स्वर्गः, एवम् इमे ऽपि, न ह्य् अनन्तरनिर्वृत्ते91 कर्मणि फलम् उपलभ्यते पश्वादि, यच् चानन्तरम् उपलभ्यते, तत् तत इति विज्ञायते, यथा यत्कालं मर्दनम्, तत्कालं मर्दन[५०७]92सुखम्। यच् च कालान्तर उपलभ्यते, तस्याप्य् अन्यद् एव कारणम् अस्ति प्रत्यक्षम्93, शरीरग्रहणस्य तु नादृष्टादृते किंचित् कारणम् अस्ति। तस्माद् विशिष्टेन्द्रियशरीरादि फलं पशुसंबन्धसमर्थं पशुफलात् कर्मणो भवतीत्य् एवं बोद्धव्यम्। तद् धि दर्शयति, कैकयो यज्ञं विवित्सन् दाल्भ्यम् उवाच, अनया मा राष्ट्रप्रतिपादनीययेष्ट्या94 याजयेति। सो ऽब्रवीत्, न वै सौम्य राष्ट्रप्रतिपादनीयां95 वेत्थ, अमुष्मै कामाय यज्ञा आह्रियन्त इति जन्मान्तरफलतां दर्शयति। तस्माज् जन्मान्तरफलानि काम्यानीति।
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् ॥ MS_४,३.२८ ॥96
इहैवैषां सिद्धिर् योगस्य, उत्पत्त्या योगो न संभवति, यः पशुभ्यः97 कामयते, स एतेन यागेन कुर्याद् इति, नात्रैतद् गम्यते, इह जन्मनि न संभवतीति। यच् चानन्तरं नोपलभ्यत इति। तन् न, प्रत्यक्षानुमानाभ्यां न गम्यते, शब्देन त्व् अस्ति गतिः98। यत् तु कालान्तरे ऽन्यत् कारणम् इति। नैष दोषः, अन्यद् अपि भविष्यति, एतद् अपि। यच् चामुष्मै कामाय यज्ञा आह्रियन्त इति। अत्रोच्यते, एवम् अस्य ऋषेर् मतम्, इह यस्य फलं तेन त्वां न याजयामि, यस्यामुत्र फलं तेन च याजयिष्यामीति। तस्माद् एतत् परिहृतम् इति।
समवाये चोदनासंयोगस्यार्थवत्त्वात् ॥ MS_४,३.२९ ॥
अग्निं चित्वा सौत्रामण्या यजेत99, वाजपेयेनेष्ट्वा बृहस्पति[५०८]100सवेन यजेतेति101। तत्र संदेहः, किम् अङ्गप्रयोजनसंबन्ध एषः, उत कालार्थः संयोग इति। अङ्गप्रयोजनसंबन्ध इति ब्रूमः, एवं हि श्रुतिविनियुक्तो ऽर्थः, इतरथा कालो लक्ष्येत, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा। तस्माद् अग्न्यङ्गं सौत्रामणी, वाजपेयाङ्गं बृहस्पतिसव इति।
कालश्रुतौ काल इति चेत् ॥ MS_४,३.३० ॥
एवं चेत् पश्यसि, अङ्गप्रयोजनसंबन्ध इति, अथ कालविधानं कस्मान् न भवति? कालविधिरूपो हि शब्दः, चित्वा चयने ऽभिनिर्वृत्त102 इति।
नासमवायात् प्रयोजनेन स्यात् ॥ MS_४,३.३१ ॥
नैतद् एवम्, असमवायात्। शब्दप्रयोजनेन शब्दार्थेनेत्य् अर्थः103
. शब्दार्थश् चयनम्, तेनासमवायः स्यात् सौग्रामण्या वाजपेयेन च बृहस्पतिसवस्य। प्रकरणं च बाध्येत, अग्निप्रकरणे श्रूयमाणो ऽग्नेर् धर्मो गम्यते यागः, वाजपेयप्रकरणे च वाजपेयस्य, इतरथा तयोः प्रकरणे ऽन्यस्य धर्मः कालो गम्येत। तस्माद् अङ्गप्रयोजनसंबन्ध इति।
उभयार्थम् इति चेत्/७४.३.३२//
दर्शपूर्णमासयोर् आमनन्ति, संस्थाप्य पौर्णमासीं वैमृधम् अनुनिर्वपतीति। तत्र संदेहः, किम् उभयाङ्गं वैमृधः, कालार्थः पौर्णमासीसंयोगः, उताङ्गप्रयोजनसंबन्ध इति। किं प्राप्तम्? एवं चेद् उभयार्थो वैमृधः। कुतः? प्रकरण [५०९]104 उभयोर् आम्नानसामर्थ्यात्, कालविधिसारूप्याच् च संस्थाप्येति।
न शब्दैकत्वात् ॥ MS_४,३.३३ ॥
एकः शब्दः, अनुनिर्वपतीति, एकस्मिन्न् एव वाक्ये न द्वौ संबन्धौ शक्नोति विधातुम्। वैमृधस्य दर्शपूर्णमासाभ्याम्, पूर्णमासीकालेन च। एकार्थत्वाद् ध्य् एकं वाक्यं समधिगतम्।
प्रकरणाद् इति चेत् ॥ MS_४,३.३४ ॥
प्रकरणाद् इति यद् उक्तम्, तत् परिहर्तव्यम्।
नोत्पत्तिसंयोगात् ॥ MS_४,३.३५ ॥
नैतद् एवम्, एतद् एव वैमृधस्योत्पत्तिवाक्यम्, तद् दर्शपूर्णमासाभ्यां वा प्रकरणाद् एकवाक्यभावम् इयात्। प्रत्यक्षं वा पौर्णमास्या, तत्र प्रत्यक्षसंयोगः प्रकरणाद् बलवान्, प्रत्यक्षश् च पौर्णमास्या संयोगः, परोक्षः कालेन। तस्मात् पौर्णमास्याङ्गं वैमृध इति।
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् ॥ MS_४,३.३६ ॥
ज्योतिष्टोमे श्रूयते - आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्ति, प्रहृत्य परिधीञ् जुहोति हारियोजनम् इति। तत्र संदेहः, किम् अङ्गं विधीयते, उत काल इति। अङ्गविधाने श्रुतिः, कालविधाने लक्षणा। तस्माद् अङ्गविधानम् इति प्राप्ते [५१०]105 ब्रूमः, अनुत्पत्तिवाक्ये कालः स्यात्, आग्निमारुतं सोमाङ्गम्, अनुयाजाः पश्वङ्गम्। तत्र न तयोः परस्परेण संबन्धः। तथा परिधयः पश्वङ्गम्, हारियोजनम् अन्यद् एव प्रधानम्। अनुयाजा आग्निमारुतं च प्राप्तम्। आनन्तर्यम् एव तयोर् न प्राप्तम्, तद् विधीयते। तथा हारियोजनस्य परिधिग्रहणस्य च। एवं च सति, न हारियोजनस्य परिधिप्रहरणेन कश्चिद् उपकारः क्रियते, हारियोजनेन वा परिधिप्रहरणस्य। ननु परिधिप्रहरणस्योपरिष्टाद् भावेन तस्योपक्रियेतेति। उच्यते, न ह्य् उपरिभावार्थं परिधिप्रहरणम् अनुष्ठेयम्। विद्यत एवैतत् पश्वर्थम्। तस्मिंश् च सति तस्योपरिभावो विद्यत एवेति। तस्मात् कालार्थः संबन्ध इति।
उत्पत्तिकालविषये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् ॥ MS_४,३.३७ ॥
इदम् आम्नायते, दर्शपूर्णमासौ106 इष्ट्वा सोमेन यजेतेति107। तत्र संदेहः, किम् एतद् अङ्गस्य विधानम्, उत कालस्येति। किं प्राप्तम्? श्रुतेर् अङ्गस्य, इति प्राप्ते, उच्यते, अस्मिन् कालाङ्गविधानसंशये कालः स्यात्, वाक्यस्य तत्प्रधानत्वात्। कालप्रधानं ह्य् एतद् वाक्यम्, न यागविधानपरम्, अतत्परतास्य108, रूपावचनात्। कथं रूपावचनम्? देवताभावात्। कथम् अभावः? अश्रुतत्वात्। या हि यस्य श्रूयते, सा तस्य देवता भवति। श्रुत्या हि देवता गम्यते, न प्रत्यक्षादिभिः। तस्मान् नापूर्वस्य यागस्य विधानम्, कालार्थे ऽनुवादे नायं दोषः, विहितदेवताको ह्य् अनूद्यते। तस्माद् [५११]109 अत्र कालार्थः संबन्ध इति। तच् च दर्शयति - एष वै देवरथो यद् दर्शपूर्णमान्सौ, यद् दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति। प्रदर्शिते मार्गे रथेन यातुं110 सुखं भवति। एवं दर्शपूर्णमासाव् इष्ट्वा सोमेन यष्टुं111 सुखं भवति। दर्शपूर्णमासप्रकृतीनि तस्य दीक्षणीयादीनि स्वभ्यस् तानि भवन्ति। एवम् अर्थवादो ऽर्थवान् भवति।
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् ॥ MS_४,३.३८ ॥
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति112। तत्र113 संदेहः, किम् आत्मनिःश्रेयसाय, उत पुत्रनिःश्रेयसायेति। आत्मनिःश्रेयसायेति ब्रूमः, नेमानि फलदानि परस्य भवन्ति कर्माणि। कुतः? आधान आत्मनेपदनिर्देशात्, यथा यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यापेतः स्यात्। अथ यजमानः प्रमीयेत द्यावापृथिवीयम् एककपालं निर्वपेत्। यदि द्वे नश्येयाताम्, द्वौ मासौ संवत्सरस्यापेतौ स्याताम्। अथ यजमानः प्रमीयेत, आश्विनं द्विकपालं निर्वपेत्। संख्यायोद्वासयति यजमानस्य गोपीथायेति114, कपालनाशे निमित्त आत्मनिःश्रेयसफलं कर्म दर्शयति। एवम् इहापि द्रष्टव्यम्, तस्माद् आत्मनिःश्रेयसार्थम् इति। [५१२]115 एवं प्राप्ते ब्रूमः, फलसंयोगो न स्यात् पितुः, फलवचनं शेषभूतं पुत्रस्य, न पितुः। कथम्? एवं श्रूयते, वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते। यद् अष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन् नवकपालो भवति, त्रिवृतैवासमिंस् तेजो दधाति। यद् दशकपालो विराजैवास्मिन् अन्नाद्यं दधाति, यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति। यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति। यस्मिञ् जात एताम् इष्टिं निर्वपति, पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति116। यो जातः, तत्र फलं श्रूयते, नास्ति वचनस्यातिभारः। तस्मात् पुत्रस्य फलम् इति। यद् उक्तम्, न परस्य फलदान्य् एतानि कर्माणीति। तद् उच्यते, यत् पुत्रस्य फलम्, आत्मनः सा प्रीतिः, तस्माद् आत्मनेपदं न विरुध्यते, एताम् एवात्मनः प्रीतिम् अभिप्रेत्य भवति वचनम्, आत्मा वै पुत्र इति। अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे/ आत्मा वै पुत्रनामासि स जीव शरदः शतम्// इति।
अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ MS_४,३.३९ ॥
अथ यद् उक्तम्, यद्य् एकं कपालं नश्येद् इत्येवमादि। तत्रोच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थ उपपद्यते, नान्यथा। न हि कपाले नष्टे तद् अन्वेषणार्था इष्टिर् युक्ता। न हि काकिन्यां नष्टायां तद् अन्वेषणं कार्षापणेन क्रियते। एवं वा,
अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ MS_४,३.३९ ॥117
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति118। तत्र संदेहः, किं जातमात्रे, उत कृते जातकर्मणीति। जातमात्र इति ब्रूमः, संप्राप्ते हि निमित्ते नैमित्तिकेन भवितव्यम्। एवं प्राप्ते ब्रूमः, कृते जातकर्मणीति। कुतः? सामर्थ्यात्। कृते हि जातकर्मणि प्राशनं तस्य विधीयते। यदि प्राग् जातकर्मणः, इष्टिः क्रियते, प्राशनकालो विप्रकृष्येत। तत्रास्य शरीरधारणं न स्यात्। अथ यद् उक्तम्, संप्राप्ते निमित्ते हि नैमित्तिकेन भवितव्यम् इति। उच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थः, उपघातः पुत्रजन्म, तद् भूतं निमित्तम्। न तत्कालो ऽङ्गम्, तच् च निमित्तम्। कृते ऽपि जातकर्मणि नापैति। इतरस्मिन् पक्षे कालो ऽपेयात्, लक्षणा चास्मिन् पक्षे स्यात्। तस्मात् कृते जातकर्मणीति। अथ किम् अन्तर्दशाहे यस्मिन् कस्मिन् वाहनि, उत स्वकाल इति। किं प्राप्तम्? यस्मिन् कस्मिन् वाहनीति, एवम् अनियमः प्राप्तः। अत्रोच्यते, पौर्णमास्याम् अमावास्यायां वा। कुतः? श्रुतेः, एवं हि श्रूयते, य इष्ट्वा119 पशुना सोमेन वा यजेत, स पौर्णमास्याम् अमावास्यायां वा यजेतेति। नातिभारो वचनस्य, इतरस्मिन् पक्षे कालो ऽपेयात्। लक्षणाप्य् अस्मिन् पक्षे स्यात्। अन्यस्यां तिथावन्तर्दशाहे वा कुर्वन् सर्वाण्य् अङ्गान्य् उपसंहर्तुं न शक्नुयात्। कालं शौचं च [५१४]120 नोपसंगृह्णीयात्। तस्माद् अतीते दशाहे पौर्णमास्याम् अमावास्यायां वा कुर्याद् इति।
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् ॥ MS_४,३.४० ॥
अग्निं चित्वा सौत्रामण्या यजेत121, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति, अङ्गप्रयोजनसंबन्ध इत्य् उक्तम्। एतद् इदानीं संदिह्यते, किं चितमात्रे, तन्त्रमध्य एव कर्तव्यम्, उत स्वकाले कर्तव्यम् इति। तथा वाजपेये किं बृहस्पतिसवे, उत स्वकाल इति। मुख्यकालत्वम् अनयोः स्यात्। कुतः? प्रधानाकालत्वाद् अङ्गानाम्। एको हि कालः प्रधानानाम् अङ्गानां चेति वक्ष्यते122। अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरन्न् इति। अग्निचयनं कृत्वा न तावत्य् एव स्थातव्यम्, सौत्रामणीसंज्ञको ऽपरो यागः कर्तव्य इति। तथा वाजपेयम् अभिनिर्वर्त्य नैतावता कृती स्यात्, बृहस्पतिसवसंज्ञकं यागम् अभिनिर्वर्तयेद् इति।
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् ॥ MS_४,३.४१ ॥
अपवृत्ते यागे चोद्यते यागान्तरम् इदम्, अपवृत्तिश् च सर्वेषु यागाङ्गेष्व् अकृतेषु न भवति। न यथा भवान् मन्यते, [५१५]123 यागमात्रे निर्वृत्त इति। कुतः? करणविभक्त्या संयोगात्, वाजपेयेनेष्ट्या वाजपेयेन फलस्य व्यापारं कृत्वा124, साङ्गेन च व्यापारो गम्यते, न निरङ्गेन। भवेत् तन्त्रमध्ये प्रयोगः, वदि वाजपेयम् अभिनिर्वर्त्येतीप्सितभावो वाजपेयस्य स्यात्, ततः प्रधानमात्रं वाजपेयसंज्ञकम् अभिनिर्वर्त्येति गम्येत, न त्व् एवम् अस्ति। तस्माद् यथोक्तानि सर्वाण्य् अङ्गानि कृत्वेत्य् अर्थः। एवं चेत्, निर्वृत्ते प्रयोगे, अतिक्रान्ते वाजपेयकाले याग प्रयुज्यते। तस्य चोदनासामान्याज् ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्राप्तेन कालेन भवितव्यम्। सौत्रामण्याश् चोदनासामान्यात्, दर्शपूर्णमासकालेनेति। आह, वाजपेये तावद् इष्ट्वेतिवचनाद् यागम् अभिनिर्वर्त्येति गम्यते, अग्नौ तु नोपपद्यते। तत्र चित्वेतिवचनाच् चयनम् अभिनिर्वर्त्येत्य् अर्थः स्यात्। उच्यते, नैतद् एवम्। अग्निं चित्वेति हि श्रूयते, अग्नि चयनेन संस्कृत्येत्य् अर्थः125। अग्निर् इति ज्वलनो ऽभिधीयते। न तस्य स्थलस्थापनमात्रम् उपकारः, यदि स्थलस्थिते यागो भवति, ततश् चयनेनाग्नेर् उपकारो ऽस्ति। तम् अभिनिर्वर्त्येति स्थलस्थिते ऽग्नौ यागम् अभिनिर्वर्त्येति गम्यते। यावत् स्थलस्थिते ऽग्नौ यागो न भवति, न तावद् अग्निश् चयनेनोपक्रियते। येनाग्निर् यजमानस्योपकरोति, सो ऽग्नेर् उपकारो न स्थलस्थापनमात्रम्। तस्मात् तत्रापि यागम् अभिनिर्वर्त्येति गम्यते।
[५१६]126
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् ॥ MS_४,४.१. ॥
सन्त्य् अनुमत्यादीन्य् ऐष्टिकानि कर्माणि, मल्हादयः पशवः, पवित्रादयः सोमाः, वल्मीकवपायां होम इत्येवमादीनि दार्विहोमिकानि। तथा यष्टौहीं दीव्यति, राजन्यं जिनाति, शौनःशेफम्127 आख्यापयति, अभिषिच्यत इति, एतेषां सन्निधौ श्रूयते, राजसूयेन स्वाराज्यकामो यजेतेति, स एष रूपवतां यागानां संनिधाव्128 अरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः। तत्र संदेहः, किं सर्वेषाम् अनुमत्यादीनां समुदायस्य राजसूयशब्दो वाचकः, उत केषांचिद् वाचकः केषांचिन् नेति। किं प्राप्तम्? सर्वेषां वाचक इति। कुतः? प्रकरणशब्दसामान्यात्, प्रकरणशब्दः सर्वेषां समानो राजसूयेनेति। राजा तत्र सूयते, तस्माद् राजसूयः। राज्ञो वा यज्ञो राजसूयः। तत् प्रकरणसंनिधाने सति, विशेषाभावे च सर्वेषां वाचको भवितुम् अर्हति। यश् च राजसूयशब्दितस् ततः फलं भवति। तस्मात् सर्वाणि प्रधानानीति।
[५१७]129
अपि वाङ्गम् अनिज्याः स्युस् ततो विशिष्टत्वात् ॥ MS_४,४.२ ॥
अपि वेति पक्षव्यावृत्तिः। या अनिज्यास् ता अङ्गम्, यथा विदेवनादयः। राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्याद् इत्य् उच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन। अयागाश् च विदेवनादयः। तस्माद् अङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति।
मध्यस्थं यस्य तन्मध्ये ॥ MS_४,४.३ ॥
राजसूये ऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः। ते किम् अभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः। उच्यते, मध्याम्नानाद् अभिषेचनीयस्येति, तथानन्तर्यम् अनुग्रहीष्यत इति।
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये ॥ MS_४,४.४ ॥
सर्वासां चानुमत्यादीनां चोदनानाम् अङ्गं विदेवनादि स्यात्। कुतः? चोदनातः समत्वात्, समाना एता अनुमत्याद्याश् चोदनाः, ताः सर्वाः फलवत्यश् च प्रधानभूताः। सर्वासाम् आसां प्रकरणम्, न ह्य् अभिषेचनीयस्य केवलस्य। क्रमाद्130 अभिषेचनीयस्य प्राप्नुवन्ति, प्रकरणात् सर्वासाम्, प्रकरणं च क्रमाद् बलीयः। तस्मान् नाभिषेचनीयस्य केवलस्येति। अभिषेचनीयस्य तु मध्ये स्थानं विदेवनादीनाम्, तत्र क्रियमाणाः सर्वासाम् उपकुर्वन्तीति।
[५१८]131
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् ॥ MS_४,४.५ ॥
राजसूय उपसदः प्रकृत्य श्रूयते, पुरस्ताद् उपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद् वैष्णवेनेति132। तत्र संदेहः, किम् उपसदङ्गं सौम्यादयः, उतोपसत्काला इति। उपसदङ्गम् इति ब्रूमः। कुतः? उपसत्संयोगस्य श्रुतत्वात्, कालविधौ सति लक्षणा स्यात्। तस्माद् उपसदङ्गम् इति। ननु कालवद् अङ्गं भविष्यति, तथा सत्य् उभयम् अनुगृह्येत, उपसत्संयोगश् च, पुरस्ताद् इति च कालाभिधानम्, उपसच्छब्दसंयोगाद् उपसदङ्गता भविष्यति। पुरस्ताच्छब्दसामर्थ्याच् च पूर्वादिषु प्रयोग इति। उच्यते, विप्रतिषिद्धं ह्य् उभयम्, न शक्नोत्य् उपसदाम् इत्य् एष शब्दः, सौम्यादींश् च विशेष्टुम्, एकस्मिन् वाक्ये, पूर्वादींश् च। भिद्यते हि तथा वाक्यम्। तस्मान् न कालवद् अङ्गम्।
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेषस्य ॥ MS_४,४.६ ॥
अपि वेति पक्षव्यावृत्तिः। कालमात्रं स्यात्, नाङ्गप्रयोजनसंबन्धः। कुतः? अदर्शनाद् विशेषस्य, नान्यैः कालाभिधानैर् अस्य कश्चिद् विशेषो लक्ष्यते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्येवमादिभिः। अत्रापि हि सौम्यादयो विहिता उपसदो ऽपि। इदम् आनुपूर्व्यम् अविहितम्, तद् विधीयते। तस्मात् कालमात्रम् इति।
[५१९]133
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् ॥ MS_४,४.७ ॥
वैश्वदेवीं सांग्रहायणीं निर्वपेद् ग्रामकाम इति। तत्रामनहोमाः श्रूयन्ते, आमनस्येति134 तिस्र आहुतीर् जुहोतीति। अत्र संदेहः, किं समप्रधानभूता आमनहोमाः सांग्रहायणीष्ट्या, उताङ्गं तस्या इति। किं प्राप्तम्? समप्रधानभूता इति। कुतः? तुल्यहेतुत्वाद् इतरस्य। तुल्यं हि यजिमत्त्वम्। नन्व् अफला होमाः। उच्यते, ग्रामकाम इत्य् अत्रानुपज्यते135। तस्मात् समप्रधानभूता इति। एवं प्राप्ते ब्रूमः, फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्। न चैतद् अस्ति, समप्रधानभूता होमा इष्ट्या इति। फलवद् ध्य् अफलस्य प्रधानम्, फलवती चेष्टिः, अफला होमाः। ननूक्तम्, अनुषङ्गो भविष्यतीति। उच्यते, नानुषङ्गः प्राप्नोति। कुतः? व्यवायात्। तद् उक्तम्, व्यवायान् नानुषज्येतेति। केन व्यवायः, परिधिमन्त्रैः, उग्रो ऽस्य् उग्रस्त्वं देवेष्व् अध्युग्रो ऽहं सजातेषु भूयासं प्रियः, सजातानाम् उग्रश् चेत् ता वसुविद् इत्येवमादिभिः, एतान् अनुक्रम्य, आमनस्येति136 तिस्र आहुतीर् जुहोतीत्य् आमनन्ति। तस्मात् सांग्रहायण्या अङ्गम् आमनहोमा इति।
[५२०]137
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् ॥ MS_४,४.८ ॥
ज्योतिष्टोमे श्रूयते, यां वै कांचिद् अध्वर्युश् च यजमानश् च देवताम् अन्तरितः, तस्या आवृश्चेत, यत् प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्य् एवैनाम् इति138। तत्र संदेहः, किं नित्यो दधिग्रहः, उत नैमित्तिक इति। किं प्राप्तम्? दधिग्रहो नैमित्तिकः स्यात् श्रुतिसंयोगात्, देवतान्तराये निमित्ते श्रूयते, न च नित्यो ऽन्तरायः। तस्मान् नैमित्तिक इति।
नित्यश् च ज्येष्ठशब्दात् ॥ MS_४,४.९ ॥
यद् उक्तम्, नैमित्तिक इति, तद् गृह्यते, किं तु नित्यश् च। कुतः? ज्येष्ठशब्दात्, ज्येष्ठशब्दो भवति, ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते, ज्यैष्ठ्यम् एव गच्छतीति139। ज्येष्ठशब्दश् च प्राधान्ये प्राथम्ये वा स्यात्। एष140 प्रथमः, न प्रधानम्। यदि नित्यः, एवं प्रशस्यत्वाद् उपपद्यते, न जातु चलाचलं हि141 प्रशंसन्ति। तस्मान् नित्यश् च नैमित्तिकश् चेति, विनापि निमित्तेन ग्रहीतव्यः, निमित्तेनापि पुनर् इति।
सार्वरूप्याच् च ॥ MS_४,४.१० ॥
सर्वरूपता च श्रूयते, सर्वेषां वैतद् देवानां रूपं यद् एष ग्रहो यस्यैष गृह्यते सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्त इति142। न हि देवतारूपम् अस्माकं किंचिद् अन्यत् प्रत्यक्षम्, अन्यद् अतो नित्यत्वात्। तस्माद् अपि नित्यश् च नैमित्तिकश् चेति।
नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य ॥ MS_४,४.११ ॥
यद् उक्तम्, नित्यो नैमित्तिकश् चेति, तत्र नित्य एव स्यात्, ज्येष्ठशब्दात् सार्वरूप्याच् च। यद् उक्तम्, देवतान्तराये निमित्ते श्रूयत इति। न देवतान्तरायो निमित्तत्वेन गम्यते। तयोर् अध्वर्युयजमानयोः143 कर्मण्य् अन्तरायेण संबन्धात्। न ह्य् एतच् छ्रूयते, अध्वर्युणा देवतान्तरितव्या यजमानेन वेति, अनित्यो हि अन्तरायः। न चैवंशब्दो ऽस्ति, अन्तराये सति दधिग्रहो ग्रहीतव्य इति। विनैव संयोगेन, दधिग्रहस्य ग्रहणम्, अन्तरायसमाधानं त्व् अस्य प्रयोजनम् इति। तद् एतन् नित्यवद् ग्रहणम्, अनित्यं प्रयोजनम्। नित्यं गृह्णीयात्, अनित्यम् अन्तरायं समाधातुम् इति नावकल्पते। तत्र प्रयोजने ऽनित्यत्वाद् ग्रहणे नित्यवच् छ्रुतिर् बाध्येत, अर्थवादत्वे तु न बाध्यते। न हि तद् अन्तरायं समाधातुं गृह्यते। अन्यद् एव प्रयोजनम् अस्यास्तीति प्रशंसितुम् अभिधीयते। दधिग्रहस्य तु सोमाङ्गतैव प्रयोजनम् इति। भङ्गित्वाच् चान्तरायस्य, भङ्गी चान्तरायो ऽनित्यो नित्यप्रशंसार्थं संकीर्त्यते। तस्मान् नैष दोषः, नित्य एव दधिग्रह इति।
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात् ॥ MS_४,४.१२ ॥
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति144। तत्र श्रूयते, यो वै संवत्सरमुख्यम् अभृत्वाग्निं145 चिनुते, यथा सामिगर्भो विपद्यते, तादृग् एव तदार्तिम् आर्च्छेत्, वैश्वानरं द्वादशकपालं पुरस्तान् निर्वपेत्। संवत्सरो वाग्निर् वैश्वानरः, यथा संवत्सरम् आप्त्वा काल आगते विजायते, एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते, नार्तिम् आर्च्छेद् इति, एषा वाग्नेः प्रिया तनूर् यद् वैश्वानरः, प्रियाम् एवास्य तनूम् अवरुन्ध इति146। तत्र संदेहः, किं नित्यो वैश्वानरः, अथ नैमित्तिक इति। किं प्राप्तम्? अत्रापि नित्य एव। अर्थवादः, उख्यस्य संवत्सराभरणेन कृतो दोषः, वैश्वानरेण विहन्यत इति। नित्यैश् चास्य समानसंख्यत्वं भवति, त्रीण्य् एतानि हवींषि भवन्ति, त्रय इमे लोका एषां लोकानाम् आरोहायेति, लोकानां हविषां सामान्यं नास्ति। यदि यथा लोका नित्यास् त्रयः, एवम् इमानि हवींषि नित्यानि त्रीणि, एवं लोकैः संस्तवो घटते। तस्मान् नित्यो वैश्वानर इति।
पक्षे वोत्पन्नसंयोगात् ॥ MS_४,४.१३ ॥
उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः। नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता। तस्माद् इह न दधिग्रहवद् विरोधो ऽस्ति। तेन नार्थवादः, नैमित्तिक इति। अथ यद् उक्तम्, लोकैः समानसंख्यत्वं नित्यत्वाद् उपपद्यते, नान्यथेति। तत्र ब्रूमः, त्रित्वाल् लोकानां हविषां च सामान्याद् अर्थवादो भविष्यतीति।
षट्चितिः पूर्ववत्त्वात् ॥ MS_४,४.१४ ॥
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति147। तत्र [५२३]148 श्रूयते, संवत्सरो वैनं प्रतिष्ठायै नुदति यो ऽग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश् चितयो भवन्ति। अथ षष्ठीं चितिं चिनुत इति149। तत्र संदेहः, किं यो ऽयं नित्य एवाग्निः स एवायं षट्चितिक उच्यते, उतैकचितिको नैमित्तिक इति। किं प्राप्तम्? तस्मिन्न् एव नित्ये ऽग्नौ षष्ठी चितिर् एषा विधीयते, नित्यायाम् एव षष्ठ्याम् एषो ऽर्थवादः। यो ऽपि न प्रतिष्ठार्हः, सो ऽप्य् अनया षष्ठ्या चित्या प्रतिष्ठातुम् अर्हतीति चितिप्रशंसा। किम् अर्थम् एवं वर्ण्यते? षष्ठीशब्दश्रवणात्। षण्णां हि पूरणी षष्ठी, एकस्यां हि चितौ षष्ठीशब्दो न सामञ्जस्येन स्यात्। तस्मात् षट्चितिको ऽग्निर् नित्य इति।
ताभिश् च तुल्यसंख्यानात् ॥ MS_४,४.१५ ॥
ताभिश् च पूर्वाभिर् अस्यास् तुल्यवत् प्रसंख्यानं भवति। कथम्? इयं वाव प्रथमा चितिः, ओषधयः पुरीषम्। अन्तरीक्षं वाव द्वितीया चितिः, वयांसि पुरीषम्। असौ वाव तृतीया चितिः, नक्षत्राणि पुरीषम्। यज्ञो वाव चतुर्था150 चितिः, दक्षिणा पुरीषम्। यजमानो वाव पञ्चमी चितिः, प्रजाः पुरीषम्। संवत्सरो वाव षष्ठी चितिः, ऋतवः पुरीषम् इति151, तुल्यानां च तुल्यवद् अनुक्रमणं भवति, यथा - देवा ऋषयो गन्धर्वास् ते ऽन्यत आसन्। असुरा रक्षांसि पिशाचाः ते ऽन्यत आसन्न् इति152, तुल्यवच् चामूषां चितीनाम् अनुक्रमणम् अनया षष्ठ्या। तस्माद् एतया तत्तुल्यया भवितव्यम्। यदि च यस्मिन्न् एव क्रतौ [५२४]153 ताः, तस्मिन्न् एवैषा, तत एताभिस् तुल्या। तस्माद् अपि स एव नित्यो ऽग्निः षट्चितिक इति।
अर्थवादोपपत्तेश् च ॥ MS_४,४.१६ ॥
अर्थवादश् च भवति, षट् चितयो भवन्ति, षट् पुरीषाणि, तानि द्वादश संपद्यन्ते, द्वादशा मासाः संवत्सरः, संवत्सर एव प्रतितिष्ठतीति154, तद् एकचितिके ऽग्नौ न सामञ्जस्येन वचनं भवति। तस्मान् नित्य एव षट्चितिकः।
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन ॥ MS_४,४.१७ ॥
एकचितिर् वा नैमित्तिकः155 स्यात्। कुतः? अपवृक्ते हि यागे चोद्यते, अप्रतिष्ठया निमित्तेन। यो न प्रतितिष्ठति, तस्यैषा चितिर् उच्यते नैमित्तिकी, सा न नित्या भवितुम् अर्हति। अपि चापवृक्ते यागे चोद्यते सा, न वर्तमाने भवितुम् अर्हति। ननु चित्वेति चयने निर्वृत्ते, न यागे। उच्यते, नैतत् पदार्थे निर्वृत्ते चित्वेति। किं तर्हि? वाक्यार्थे। अग्निं चित्वेति, अग्नेश् चयनेनार्थम् अभिनिर्वर्त्येति। कृते च यागे चयनेनाग्नेर् अर्थो निर्वर्तितो भवति, नान्यथा। षष्ठीशब्दश् च, पञ्च पूर्वाश् चितय उक्ताः, ता अपेक्ष्यावकल्पिष्यते, तस्मान् निर्वृत्ते याग इत्य् उच्यते। तस्माद् वचनाद् एकचितिर् अग्निः।
विप्रतिषेधात् ताभिः समानसंख्यत्वम् ॥ MS_४,४.१८ ॥
द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, [५२५]156 अर्थवादोपपत्तेश् चेति157। ताभिर् नित्याभिः158 समानसंख्यत्वं भविष्यति, अर्थवादश् चोपपत्स्यते। पञ्च पूर्वाश् चितयो भवन्ति, याभिर् असौ चितिभिर् न प्रतितिष्ठते, अथेयं षष्ठी प्रतिष्ठार्थम् इति। ताश् च सपुरीषा अपेक्ष्य द्वादशत्वेन संस्तवो भविष्यति। विप्रतिषेधाद् एकस्य, षट्संख्याया द्वादशसंख्यायाश् चेति। अतुल्यानाम् अपि तुल्यवद् अनुक्रमणं भवति, यथा - देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् इति159।
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् ॥ MS_४,४.१९ ॥
अस्त्य् आमावास्ये कर्मणि पितृयज्ञः, अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञेन चरन्तीति160। तत्र संशयः, किम् आमावास्यस्य कर्मणः पिण्डपितृयज्ञो ऽङ्गम्, उतानङ्गम् इति। किं प्राप्तम्? अङ्गम्, फलवत् संनिधानान् निष्क्रयवचनाच् च। आह, ननु फलवत् संनिधाव् अफलं तदङ्गं भवति, फलवच् चेदं कल्प्येत स्वर्गेणेति। उच्यते, सत्यम्, अमानास्ययैकवाक्यत्वान् न शक्यः स्वर्गः कल्पयितुम् इति। आह, कालवचनत्वान् न कर्मणैकवाक्यत्वं संभवतीति। उच्यते, लक्षणयापि तावत् कर्मैकवाक्यत्वं संभवति। स्वर्गे कल्प्ये न लक्षणा, न श्रुतिः। एवं चामनन्ति, यत् पितृभ्यः पुर्वेद्युः करोति, पितृभ्य एतद् यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुत इति161, अमावास्यां प्रति निष्क्रेतुम्162 च श्रूयते, तस्मात् तदङ्गभूतम् इति। एवं प्राप्ते ब्रूमः, पितृयज्ञः स्वकालत्वाद् अनङ्गं163 स्यात्, [५२६]164 अनङ्गभूतः पिण्डपितृयज्ञः। कस्मात्? स्वकालत्वात्, स्वशब्दाभिहितेन कालेनास्य संबन्धः, न कर्मणा लक्षितेनेति, यथा - दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति165, यथा तद् एतत्166 पुरस्ताद् उपसदां सौम्येन चरन्तीति167 च, काल168 एवायं मुख्यः शब्दो न कर्मणि, कर्मणि169 लक्षणा, श्रुतिश् च लक्षणाया बलीयसी। यच् चोक्तम्, लक्सणया कर्मैकवाक्यता भविष्यतीति, तच् च न। कस्मात्? अनुवादे हि लक्षणा न्याय्या, न विधौ। विधिश् चायम्। तस्मान् नामावास्याकर्मणा संबन्धः, एकस्मिन् काले द्वे कर्मणी परस्परेणासंबद्ध इति।
तुल्यवच् च प्रसंख्यानात् ॥ MS_४,४.२० ॥
तुल्यवच् चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस् तुल्यवत् प्रसंख्यायते। कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः। तस्माद् अनङ्गम्।
प्रतिषिद्धे च दर्शनात् ॥ MS_४,४.२१ ॥
इतश् चानङ्गम्, प्रतिषिद्धे170 आमावास्ये पिण्डपितृयज्ञं दर्शयति, पौर्णमासीम् एव यजेत भ्रातृव्यवान्, नामावास्याम्, हत्वा भ्रातृव्यम् अमावास्यया यजेत, पिण्डपितृयज्ञेनैवामावास्यायां प्रीणातीति171। असत्याम् अमावास्यायां पिण्डपितृयज्ञं दर्शयति, तदनङ्गत्व उपपद्यते। तस्माद् अपि नाङ्गं पिण्डपितृयज्ञ इति। किं प्रयोजनं चिन्तायाः? यदि पौर्णमास्याम् आधानम्, ततो ऽनन्तरायाम् अमावास्यायां न क्रियते, यथा पूर्वपक्षः। यथा तर्हि सिद्धान्तः, तथा कर्तव्यः। इदम् अपरं प्रयोजनम्, कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां [५२७]172 यजेतेति, यथा पूर्वः पक्षः, तथा कर्तव्यः पिण्डपितृयज्ञः। यथा सिद्धान्तः, तथा न कर्तव्य इति। श्लोकम् अप्य् उदाहरन्ति - आधानं पौर्णमास्यां चेद् वृत्ते दर्शे करिष्यते/ अनङ्गं पितृयज्ञश् चेत् तत्रैव173 न करिष्यते// इति।
पश्वङ्गं रशना स्यात् तदागमे विधानात् ॥ MS_४,४.२२ ॥
ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति। तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गम् इति। किं प्राप्तम्? पश्वङ्गम्। कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते। पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति। एवं श्रुतिर् भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति।
यूपाङ्गं वा तत्संस्कारात् ॥ MS_४,४.२३ ॥
ज्योतिष्टोमे प्रत्यक्षो हि यूपस्य संस्कारः, रशना हि या च यावतीं च द्रढिम्नो मात्रां यूपस्य संजनयति, द्रढिम्ना च प्रयोजनं यूपस्य। तस्माद् यूपस्यैव द्रढिम्ने रशना स्यात्। द्वितीया च विभक्तिस् तत्प्राधान्य एव भवति, रशनायां च तृतीया। तृतीया च गुणत्वे तस्याः, तस्माद् यूपाङ्गम्। यत् तु, तदागमे विधानाद् इत्य् उक्तम्, तत्परिहर्तव्यम्। उच्यते, तदागमे विधानं [५२८]174 वाक्यम्175, द्वितीया च विभक्तिः श्रुतिः प्रत्यक्षं च, वाक्यं बाधेयाताम् इति। यत् तु लक्षणेति, श्रुत्यसंभवे लक्षणापि न्याय्यैव।
अर्थवादश् च तदर्थवत् ॥ MS_४,४.२४ ॥
एवं च मन्त्रार्थवादो ऽर्थवान् भविष्यति, युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति176। तस्माद् यूपाङ्गं रशनेति। किं प्रयोजनं चिन्तायाः? अग्नौ श्रूयते, एकयूप एकादश पशवो नियोज्या इति। प्रतिपशु रशना कार्या, यदि पूर्वः पक्षः। सिद्धान्ते द्वैरशन्यम् एव। श्लोकम् अप्य् उदाहरन्ति - पश्वङ्गं रशना चेत्, यद्य् एकस्मिन् बहून् नियुञ्जीत/ प्रतिपशु रशना कार्या, यूपे चेद् द्वैरशन्यं स्यात्// इति।
स्वरुश् चाप्य् एकदेशत्वात् ॥ MS_४,४.२५ ॥
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः सोमाङ्गभूतः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति177। तत्र श्रूयते, स्वरुणा स्वधितिना वा पशुम् अनक्तीति। तत्र संदेहः, किं यूपाङ्गं स्वरुः, उत पश्वङ्गम् इति। किं प्राप्तम्? यूपाङ्गम् इति ब्रूमः। कुतः? एकदेशत्वात्। एकदेशः स्वरुर् यूपस्येति श्रूयते, यूपस्य स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः178। एवं स यूपो भवतीति, यथा चषालम्।
[५२९]179
निष्क्रयश् च तदङ्गवत् ॥ MS_४,४.२६ ॥
यूपाङ्गम् इव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयम् अपश्यन्, यूपस्य स्वरुम् अयज्ञवैशसायेति, निष्क्रयश्रवणात् तदङ्गता विज्ञायते। तस्माद् यूपाङ्गम् इति।
पश्वङ्गं वार्थकर्मत्वात् ॥ MS_४,४.२७ ॥
पश्वङ्गं वा, तस्य ह्य् अञ्जनार्थेन स्वरुणा प्रयोजनम्। तथा हि श्रूयते, स्वरुणा पशुम् अनक्तीति। तद् अञ्जनं पशोः, स्वरोर् उत्पत्तिं प्रयोजयति। यदि तदर्थ एषः स्वरुः, ततो दृष्टं प्रयोजनम्। अथ यूपार्थः, अदृष्टं प्रयोजनं180 ततः कल्प्यम्। तस्मात् पश्वङ्गम् इति।
भक्त्या निष्क्रयवादः स्यात् ॥ MS_४,४.२८ ॥
कया भक्त्या? एवम् आह, यूपः किलाग्नौ पक्षेतव्यः, यत् स्वरुः प्रक्षिप्यते, तेन181 यूपः प्रक्षिप्यत इति स एष निष्कय इव भवति, अनया भक्त्या स्तुतिर् इति। किं भवति प्रयोजनम्? एकयूप एकादश पशवो यदा नियुज्यन्ते, तदैकस्यैव पशोः समञ्जनम्, पूर्वस्मिन् पक्षे। सर्वेषां सिद्धान्ते। श्लोकश् च भवति - स्वरुर् यूपाङ्गम् इति चेद् एकस्मैव समञ्जनम्/ बहूनाम् एकयूपत्वे, सर्वेषां तु समञ्जनम्// इति।
[५३०]182
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् ॥ MS_४,४.२९ ॥
स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः। तथा, आघाराव् आज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृद् इति। तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद् गुणभूता इति। किं प्राप्तम्? दर्शपूर्णमासयोर् यावत्य इज्यास् ताः सर्वाः प्रधानभूता इति। यजेत स्वर्गकाम इत्य् अविशेषेण यागेभ्यः फलं श्रूयते, फलवच् च प्रधानम्, सर्वे चामी यागाः। तस्मात् सर्वे प्रधानभूता इति।
अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः183 ॥ MS_४,४.३० ॥
अपि वा कानिचिद् अङ्गानि भवेयुः। कानि पुनस् तानि? येष्व् अङ्गत्वेन संस्तुतिः, यथा, अभीषू वा एतौ यज्ञस्य यद् आघारौ, चक्षुषी वैतौ यज्ञस्य यद् आज्यभागौ184, यत् प्रयाजानुयाजाश् चेज्यन्ते वर्म वा एतद् यज्ञस्य क्रियते, वर्म वा यजमानस्य भ्रातृव्यस्याभिभूत्यै, इति185। अभीशू रथस्याङ्गम्, चक्षुषी चक्षुष्मतः, वर्म वर्मवतः। सामान्यो ह्य् अभिसंस्तवो युक्तः। यदि चाङ्गानि तानि संस्तुतानि, ततः संस्तवो ऽर्थवान् भवति। तस्माद् अङ्गसंस्तुतान्य् अङ्गानीति।
[५३१]186
तथा चान्यार्थदर्शनम् ॥ MS_४,४.३१ ॥
एवं च कृत्वान्यार्थदर्शनम् उपपन्नं भवति, प्रयाजे प्रयाजे कृष्णलं जुहोतीति187। न च प्रयाजान् यजति, न चानुयाजान् यजतीति च।
अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् ॥ MS_४,४.३२ ॥
अविशिष्टम् एतत् कारणं संस्तवो नाम, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अस्ति, शिरो वैतद् यज्ञस्य यद् आग्नेयः, हृदयम् उपांशुयागः, पादाव् अग्नीषोमीय इति, शिरः शिरस्वतो ऽङ्गम्, हृदयं हृदयवतः, पादौ पादावत इति सर्वस्यैवाङ्गत्वेन संस्तुतिर् इति सर्वम् एवाङ्गं प्राप्नोति। तत्188 प्रधानं न स्यात्। असति प्रधाने कस्याङ्गम्? तस्मान् नैतद् अङ्गम् इति।
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् ॥ MS_४,४.३३ ॥
अथ यद् उक्तम्, अन्यार्थदर्शनं परार्थत्वात्, न तत् साधकं भवति। परार्थं हि तद् वाक्यम्, न दृश्यमानस्य प्रयाजादेः प्रापणार्थम्। तस्माद् अन्यद् अस्य प्रमाणम् अन्वेष्टव्यं श्रुत्यन्तरं न्यायो वा। तस्मिन्न् असति, मृगतृष्णादर्शनम् इव तद् भवति, संस्तुतिर् अप्य् असति न्याये, असाधिकैव।
[५३२]189
पृथक्त्वे त्व् अभिधानयोर् निवेशः, श्रुतितो व्यपदेशाच् च, तत् पुनर् मुख्यलक्षणं यत् फलवत्त्वम्, तत् संनिधाव् असंयुक्तं तदङ्गं स्यात्, भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः ॥ MS_४,४.३४ ॥
तुशब्दः पक्षं व्यावर्तयति। तद् उक्तम्, सर्वाणि समप्रधानानीति। नैतद् एवम्, दर्शपूर्णमासशब्दवाच्यानि प्रधानानि कर्माणि। कुतः? फलसंयोगात्, दर्शपूर्णमासशब्दकेभ्यः फलं श्रूयते, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति190। कानि पुनर् दर्शपूर्णमासशब्दकानि? येषां वचने पौर्णमासीशब्दो ऽमावास्याशब्दो वा, आग्नेयादीनि तानि। नन्व् अमावास्याशब्दकानां नैव फलं श्रूयते। उच्यते, पृथक्त्वे समुदाययोर् निवेश एतयोर् अभिधानयोः, पौर्णमासीति चामावास्या इति च, त्रिष्व् आग्नेयादिषु यः समुदायः, तत्र पौर्णमासीशब्दः, इतरेष्व् अमावास्याशब्दः। कथं पौर्णमास्य् अमावास्येति च द्विशब्दः श्रूयते? द्व्यर्थवद् व्यपदेशाच् च। कथं तद् व्यपदेशः? द्विवचन्निर्देशात्, दर्शपूर्णमासाभ्याम् इति, एकार्थौ च दर्शामावास्याशब्दौ। कथम्? दर्शो वा एतयोः पूर्वः, पूर्णमास उत्तरस् तयोर् अथ यत् पूर्णमासं पूर्वम् आरभते तद् अयथापूर्वं प्रक्रियते, दर्शपूर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत्, सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती, पूर्णमासः सरस्वान्। उभाव् एतौ यथापूर्वं कल्पयित्वारभत ऋद्ध्यै ऋध्नोत्य् एवार्थो मिथुनत्वायेति191। तत्र दर्शशब्देन प्रकृत्यामावास्याशब्देन ब्रुवन्न् एकार्थतां दर्शयति। शक्यते च चन्द्रस्यादर्शनेनामावास्या दर्श इति लक्षयितुम्, यथा चक्षुषोर् अभावे सति चक्षुष्मान् इति चक्षुर्भ्यां लक्ष्यते। [५३३]192 एतस्माद् व्यपदेशाच् च श्रुतितश् च लोके श्रवणाद्193 एकार्थताम् एवाध्यवस्यामः। तत् पुनर् मुख्यलक्षणम्, यत् फलवत्त्वम्, यद् अन्यत् तत् संनिधौ श्रूयते, तत् तद् अङ्गम्। कथम्? इतिकर्तव्यताकाङ्क्षस्य संनिधौ श्रूयमाणम्, इतिकर्तव्यताविशेषणत्वेन परिपूरणसमर्थं तदङ्गं भवितुम् अर्हति। अकल्प्यमाने वाक्यशेषे फलं कल्पयितव्यं स्याद् इति। आह, ननु दर्शपूर्णमासफलम् एवात्रानुषज्यते। उच्यते, शक्यम् अनुषक्तुम्, किं तु दर्शपूर्णमासवाक्यं साकाङ्क्षम् एव स्यात्। अन्यास्येतिकर्तव्यताश्रुता कल्प्येत। एषाम् अपि प्रयाजादीनाम् अन्या कल्प्येत। एतद् इतिकर्तव्यतावगम्यमानोत्सृज्येत, तेनाङ्गत्वम्, कारणं भागीति। एषां अन्येन फलेन संबन्धो ऽश्रुतः। तस्मान् न सर्वाणि समप्रधानानि, आघारादीनि गुणकर्माणीति।
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते ॥ MS_४,४.३५ ॥
नामविशेषसंयुक्ताश् च गुणविशेषा विधीयन्ते, यथा - चतुर्होत्रा पूर्णमासीम्194 अभिमृशेत्, पञ्चहोत्रामावास्याम् इति, सर्वेषु प्रधानेषु, अस्मिन् समुदाये चतुर्होत्रा, अस्मिन् पञ्चहोत्रेति विभागाविज्ञानाच् चेदं नोपपद्येत। भवति चैवंलक्षणकं गुणविधानम्। तस्माद् अस्मत्पक्ष एवेति। अपि चाङ्गत्वेनाधारादीनां संस्तुतिर् उपपन्ना भविष्यति।
[५३४]195
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः ॥ MS_४,४.३६ ॥
अथ यद् उक्तम्, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अङ्गत्वं ख्यापयेद् इति। तत् परिहर्तव्यम्।
उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात् ॥ MS_४,४.३७ ॥
नैष दोषः, प्रधानानाम्196 अप्य् एषां सताम् उत्पत्त्यपेक्षा197 शिरादिस्तुतिर् अभिविष्यतीति198। जायमानस्य199 हि पुरुषस्याग्रे शिरो जायते, मध्ये मध्यम्, पश्चात् पादौ, एवम् आग्नेयो ऽग्रतः, उपांशुयाजो मध्ये, अग्नीषोमीयः पश्चाद् इति। एतस्मात् सामान्यादोषा स्तुतिर् इति।
तथा चान्यार्थदर्शनम् ॥ MS_४,४.३८ ॥
चतुर्दश पूर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति, इतरथा न चतुर्दश पौर्णमास्याम् आहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति। तस्माद् आग्नेयादीनि प्रधानानि, आघारादीन्य् अङ्गानीति सिद्धम्।
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् ॥ MS_४,४.३९ ॥
अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति। [५३५]200 तत्र दीक्षणीयादयश् च यागा विद्यन्ते, सौत्ये चाहनि सोमयागः। तत्र संदेहः, किम् अत्र यागमात्र प्रधानम्, उत सोमयाग इति। किं प्राप्तम्? ज्योतिष्टोमे तुल्यानि सर्वाणि भवेयुः। कुतः? अविशिष्टं हि कारणम्, यागात् फलं श्रूयते, सर्वे चामी यागाः, फलवच् च प्रधानम्। तस्माज् ज्योतिष्टोमे सर्वे यागाः प्रधानम् इति।
गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् ॥ MS_४,४.४० ॥
गुणानां तूत्पत्तिवाक्येन संबन्धो भवति। केषां गुणानाम्? ज्योतिषां स्तोमानाम्। कतमेनोत्पत्तिवाक्येन संबन्धो भवति? ज्योतिष्टोमेन स्वर्गकामो यजेतेति201, ज्योतिष्टोमाद् यागात् स्वर्गः श्रूयते, न यागमात्रात्। यत्र च ज्योतींषि स्तोमाः, स ज्योतिष्टोमः। कस्य ज्योतींषि स्तोमाः? स्तोमयागस्येति ब्रूमः। एवं ह्य् आम्नायते, कतमानि वैतानि ज्योतींषि, य एते तस्य स्तोमाः, त्रिवृत् पञ्चदशसप्तदशैकविंशा एतानि वा ज्योतींषि। तान्य् एतस्य स्तोमा इति202, सोमयागस्य स्तोमा अङ्गम्, समभिव्याहारात्, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति, ते च स्तोमास् त्रिवृदादयः। कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानीत्येवमादिभिः श्रवणैः। तस्मात् त्रिवृदादिस्तोमकः सोमयागः, स ज्योतिष्टोम इति। यश् च ज्योतिष्टोमस् ततः फलम्, यतश् च फलं तद् एव प्रधानम् इति। कथं पुनस् त्रिवृदादयो ज्योतींषि? उच्यते, भवन्तु वा ज्योतींषि, मा वा भूवन्, ज्योतिःशब्देन तावद् उक्तानि। [५३६]203 वचनमात्रेणापि शब्दो भवति, विशेषतो लक्षणायाम्। अपि च द्योततेर् वा दीप्तिकर्मणो ज्योतयतेर् वा204 ज्योतिःशब्दं लभन्ते। द्योत्यते205 हि तैः शब्दैः, द्योतयन्तीति वा स्तुत्याम्206। तस्मात् सोमयागो ज्योतिष्टोमः। स च प्रधानम्, गुणभूता दीक्षणीयादय इति।
तथा चान्यार्थदर्शनम् ॥ MS_४,४.४१ ॥
शिरो वा एतद् यज्ञस्य यद् दीक्षणीयेत्येवमादि च लिङ्गं दृश्यते। तथा गुणाश् च ज्योतिष्टोमविकारे दीक्षणीयादयो दृश्यन्ते, चतुर्विंशति मानं हिरण्यं दीक्षणीयायां दद्यात्, प्रापणीयायां द्वे चतुर्विंशतिमान इति, तुल्यत्वे न प्रवर्तयिष्यन्ते दीक्षणीयादयः। तस्माद् अपि सोमयागः प्रधानम् इति।
[५३७]207
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्//५.१.१//
चतुर्थे ऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तम्, तन् न प्रस्मर्तव्यम्। इहेदानीं क्रमनियमलक्षणम् उच्यते, तच् छ्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यैर् वक्ष्यते, श्रुत्यादीनां च बलाबलम्। आदितस् तु श्रुतिक्रमश् चिन्त्यते। किं यथाश्रुति पदार्थानां क्रम आस्थेयः, उतानियमेनेति। किं प्राप्तम्? एकत्वात् कर्तुः, अनेकत्वाच् च पदार्थानाम्, अवश्यं भाविनि क्रमे लाघवात् प्रयोगप्राशुभावाच् चानियम इत्य् एवं प्राप्ते ब्रूमः। श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वाद् इति। श्रुतिर् ग्रहणम्208 अक्षराणाम्, तन् निमित्तं यस्य क्रमस्य, स साधुः क्रमः। श्रुतिप्रमाणका हि वैदिका अर्थाः, नैषाम् अन्यत् प्रमाणम् अस्तीत्य्209 उक्तम्। किम् इहोदाहरणम्? सत्रे दीक्षाक्रमः210, य ऋत्विजस् ते यजमाना इत्य्211 उक्त्वा, तेषां दीक्षाक्रमं विधत्ते, अध्व्यर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्, ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः, ततस् तं नेष्टा212 दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः, ततस् तम् उन्नेता दीक्षयित्वा पदिनो213 दीक्षयति, पोतारं [५३८]214 ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः, ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति। अनियमेन क्रमः कर्तव्यः, यथा पूर्वः पक्षः। यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्तव्य इति। तत्राह, अन्याय्यं श्रुतिवचनम् इति। उच्यते, किम् अयं215 न साधुः? न, न साधुर् इति ब्रूमः। न्याय्यं तर्हि। न ब्रूमः, न साधुः क्रम इति। किं तर्हि? उक्तस्य पुनर्वचनम् अन्याय्याम् इति। उच्यते, साधोर् वचनं बहुशो ऽप्य् उच्यमानं न्याय्यम् एव। असाधोस् तु सकृद् अप्य् अन्याय्यम्। आह, सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् अस्तीति। उच्यते, भवत्य् अप्रस्मरणम्216 अपि प्रयोजनम् इत्य् उक्तम्। वृत्तिकारेण तत् कार्यम् इति चेत्। सूत्रकारस्याप्य् अविशेषो वृत्तिकारेण। अथवा - अर्थान्तरम् एवेदम्, तत्र ह्य् अन्य एव संशयो विचारो निर्णयश् च, श्रुतिप्रमाणको धर्मः, अन्यप्रमाणक इति संशयः। प्रत्यक्षादीनाम् अधिगम्य निमित्तत्वान् न तत्प्रमाणकः, अतीन्द्रियत्वाच् चोदनालक्षण इति विचारः। चोदनालक्षण एवेति निर्णयः। इह तु सिद्धे तत्प्रामाण्ये व्यवहारक्रमस्य217 साधुत्वावधारणम्। अथवा - श्रुतिविचारो218 ऽयम्। किं पदार्थाः कर्तव्या इति विधानम्, किं वा क्रमो विधीयत इति। अनेकार्थविधानानुपपत्तेः क्रमे219 ऽनुवादः पदार्थानां220 विधिः। अवदानवाक्येष्व् इव, पदार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मान् न क्रमो विधीयत इति पूर्वः पक्षः। नन्व् अवदानवाक्येषु क्रमो विधीयते। सत्यं विधीयते, पाठेन, न श्रुत्या, य221 ऋत्विजस् ते [५३९]222 यजमाना इति तु, दीक्षायाः प्राप्तत्वात्, क्रमविधानार्था श्रुतिर् इति सिद्धान्तः। तस्माद् अपुनरुक्तम् इति।
अर्थाच् च//५.१.२//
किम् एष एवोत्सर्गः सर्वत्र श्रुतिवशेनैव भवितुम् अर्हतीति। उक्तं हि, चोदनालक्ष्णो ऽर्थो धर्म इति223। एवं प्राप्ते ब्रूमः, अर्थाच् च सामर्थ्याच् च224 क्रमो विधीयत इति, गुणभूतो हि पदार्थानां क्रमो भवति, यश् च यस्य निर्वर्त्यमानस्योपकरोति, स तस्य गुणभूतः। यस्मिंश् चाश्रीयमाणे पदार्थ एव न संपद्यते, न स गुणभूतः, विनापि तेन, न वैगुण्यम्। एवं प्रत्यक्षः क्रमस्य गुणभावो यत्र, तत्रार्थेन स एवाश्रयितव्यः, यथा जाते वरं ददाति, जातम् अञ्जलिना गृह्णाति, जातम् अभिप्राणितीति, अर्थात् पूर्वम् अभिप्राणितव्यम्, ततो ऽञ्जलिना ग्रहीतव्यः, ततो वरो देय इति। तथा विमोकः पूर्वम् आम्नातः, पश्चात् तद्योगः, अर्थाद् विपरीतः कार्यः। याज्यानुवाक्ये तु विपर्ययेणाम्नाते, विपर्ययेण कर्तव्ये। नात्र पाठक्रमो मीयते225। यतो देवतोपलक्षणार्थानुवाक्या, प्रदानार्था याज्या। अग्निहोत्रं जुहोतीति पूर्वम् आम्नातम्। ओदनं पचतीति पश्चात्। असंभवात् पूर्वम् ओदनः पक्तव्यः। प्रैषप्रैषार्थो तु विपर्ययेणाम्नातौ, तौ च विपर्ययेण कर्तव्यौ।
[५४०]226
अनियमो ऽन्यत्र//५.१.३//
अस्मिन् विषये क्रमस्य नियमो नास्ति, यथा दर्शपूर्णमासयोर् याजमानानां प्रयाजानुमन्त्रणादीनां नानाशाखान्तरसमाम्नातानां वसन्तम् ऋतूनां प्रीणामीत्येवमादीनाम्227, एको ममेत्येवमादीनां228 च।
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात्//५.१.४//
दर्शपूर्णमासयोर् आम्नातम्, समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजतीति229। तत्र संशयः, किम् अनियतेनैव क्रमेणैषाम् अनुष्ठानम्, उत यः पाठक्रमः स एव नियम्येतेति। किं प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति। एवं प्राप्ते ब्रूमः, क्रमेणैव नियम्येतैकस्मिन् क्रताव् इति। कुतः? तद्गुणत्वात्। तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा - स्नायात्, अनुलिम्पेत्, भुञ्जीतेति च क्रमेणानुष्ठानम् अवगम्यते, वाक्यात् पदार्थानाम्। यथा चादृष्टार्थेषूपदिश्यमानेषु, कश्चिद् ब्रूयात्, देवाय धूपो देयः, पुष्पाण्य् अवकरितव्यानि चन्दनेनानुलेप्तव्य उपहारो ऽस्मा उपहर्तव्यः, एवं कृते देवस् तुष्यतीति। तम् अन्यः प्रतिब्रूते, नैतद् एवम्, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाण्य् अवकरितव्यानीति। एवं मन्यते, धूपदानस्य प्राथम्यम् अनेनोक्तम् इति। तस्माद् वाचनिक एषाम् एष क्रम इति।
[५४१]230
अशाब्द इति चेत्, स्याद् वाक्यशब्दत्वात्//५.१.५//
इति चेत् पश्यसि, अथैवं गम्यमाने ऽशब्द एव क्रमः। कथम्? पदार्थपूर्वको वाक्यार्थः, पदेभ्यश् च पदार्था एवावगम्यन्ते, न क्रमः। स्याद् एतद् एवम्, यदि पदार्थानां231 समूहस्य श्रवणं प्रत्यायकम् अर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, इत्य् उक्तं तद्भूतानां क्रियार्थेन समाम्नाय इत्य्232 अत्र। तस्मात् क्रमस्य वाचकशब्दाभावाद् व्यामोह एष क्रमो ऽवगम्यते। एवं चापूर्वासत्तिर् अनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत घटीयन्त्र इव। दर्शयिष्यति च, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति। यदि नियामकः पाठक्रमः, ततो न विधातव्यम् एतत्, नियामके हि पाठक्रमे पाठक्रमाद् एव प्राप्नुयात्।
अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन संबन्धः, तस्मात् स्वशब्दम् उच्येत//५.१.६//
एकस्मिन् क्रताव् एकत्वात् क्रतुः, अनेकस्मिन् पदार्थे ऽर्थकृतत्वात् क्रमस्य, तत्रैष एव क्रमो नियम्येतानुमानेन। कुतः? परार्थत्वाद् वेदस्य, परार्थो हि वेदो यद् यद् अनेन शक्यते कर्तुम्, तस्मै तस्मै प्रयोजनायैष समाम्नायते। शक्यते चानेन पदार्थो विधातुम्, शक्यते च क्रियाकाले प्रतिपत्तुम्। तस्माद् वेदः पदार्थांश् च विधातुम् उपादेयः, क्रियाकाले च प्रतिपत्तुम्। न गम्यते233 विशेषः, विधातुम् अयं समाम्नायते, न प्रतिपत्तुम् इति। अगम्यमाने विशेष उभयार्थम् उपादीयत [५४२]234 इति गम्यते। प्रतिपत्तुं चानेन क्रमेण शक्यते, नान्येन। अत एव च कृत्वा पाठक्रमापचारे, विनष्ट इत्य् उच्यते, इतरथा हि यद् यस्य प्रयोजनम्, तस्मिन् निर्वर्तमान एव किं नष्टं स्यात्। अदृष्टं कल्प्येत, तच् चान्याय्यं दृष्टे सति। तस्मात् स्वशब्दः क्रमः, य एव पदार्थानां वाचकः शब्दः, स एव क्रमस्यापि।
तथा चान्यार्थदर्शनम्//५.१.७// एवं चान्यार्थं दर्शयति, व्यत्यस्तम् ऋतव्या उपदधाति235। व्यत्यस्तं षोडशिनं शंसति236। आश्विनो दशमो गृह्यते, तं तृतीयं जुहोतीति। यद्य् अनियमेनोपधानं शंसनं च, व्यत्यस्तवचनम् अनर्थकं स्यात्। न हि कथंचिद् अव्यत्यास इति, तथाश्विनस्य तृतीयस्य होमानुवादो नावकल्प्येत, यदि पाठक्रमेण नियम237 इति। तथा, अभिचरता प्रतिलोमं होतव्यम्, प्राणान् एवास्य प्रतीचः प्रतियौतीति238 क्वचित् प्रतिलोमं विदधद् अनुलोमं दर्शयति, तद् उपपद्यते, यदि पाठक्रमेण प्रयोगः। इतरथा, सर्वम् अनुलोमं स्यात्, प्रतिलोमदर्शनं नोपपद्येत। तथा चतुर्थोत्तमयोः प्रतिसमानयतीत्य् उक्ते सति, अतिहायेडो बर्हिः प्रतिसमानयतीत्य् उच्यते, तेन बर्हिषश् चतुर्थतां दर्शयति, सा पाठक्रमे नियामके ऽवकल्पते।
प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्//५.१.८//
वाजपेये सप्तदश प्राजापत्यान् पशून् आलभत इति श्रूयते। तेषु पशुषु चोदकप्राप्ताः प्रोक्षणादयो धर्माः। तत्र [५४३]239 प्रथमः पदार्थो यतः कुतश्चिद् आरब्धव्यः, द्वितीयादिषु भवति संशयः। किं तत एव द्वितीयो ऽपि पदार्थ आरब्धव्यः, उत द्वितीयादिष्व् अनियम इति। किं तावत् प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति। एवं प्राप्ते ब्रूमः, यतः पूर्व आरब्धः, तत एव द्वितीयादयो ऽपि पदार्था आरब्धव्या240 इति। कुत एतत्? तदुपक्रमात्, सर्वे हि पदार्थाः प्रधानकालान् न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितम्, कृतं वा तेषां241 निमित्तम्। सहवचनं हि भवति, पदार्थैः सह प्रधानं कर्तव्यम् इति, बहुपदार्थसमाम्नानात् त्व् अवश्यं भावी विप्रकर्षः, तथापि तु यावद्भिर् नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर् व्यवधानम् अवश्यं कर्तव्यम्, ततो ऽभ्यधिकेन242 न व्यवधातव्यम् इति। यदि द्वितीयं पदार्थम् अन्यत आरभेत, ततो ऽधिकैर् अपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत। ननु तथा सति कश्चिद् अल्पैर् व्यवहितो भविष्यति। उच्यते, अनुमतानां व्यवधायकानां त्यागेन कश्चिद् अभ्यधिको गुणो भवतीति, तस्माद् यतः पूर्वपदार्थ आरब्धः, तत एवोत्तर आरम्भणीय इति।
सर्वम् इति चेत्//५.१.९//
इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचनानुग्रह इति, सर्वं तर्हि गुणकाण्डम् एकस्मिन्न् अपवर्जयितव्यम्, यथा सौर्यादिषु।
नाकृतत्वात्//५.१.१०//
नैतद् एवम्, सहप्रयोग एव हि नानुष्ठितः स्यात्।
[५४४]243
क्रत्वन्तरवद् इति चेत्//५.१.११//
अथ यद् उक्तम्, यथा क्रत्वन्तरेषु सौर्यादिष्व् इति, तत् परिहर्तव्यम्।
नासमवायात्//५.१.१२//
न तेषाम् अर्थात् क्रमः प्राप्नोति, यो नियम्येत। अङ्गाश्रयो हि नियमो भवितुम् अर्हति, अनङ्गसमाश्रयस्य244 स्वयमङ्गता कल्प्येत।
स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//
एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिनवेनौजस्कामम्245, त्रयस्त्रिंशेन प्रतिष्ठाकामम्246 इत्येवमादि श्रूयते। तत्रागमेन संख्यापूरणम् इति वक्ष्यते247। तत्रागमे क्रियमाणे, किम् अनियमजक्रमाः248 सर्वा ऋच आगमयितव्याः, उत काण्डक्रमेभ्य इति249। किं प्राप्तम्? अनियमेनेति। कुतः? अतिरात्रे त्रिणवादिशब्दार्थेनैताः प्राप्नुवन्ति, तत्रैतासां प्राप्नुवतीनां पाठक्रमो नास्तीति। एवं प्राप्त उच्यते, यद् आसां समाम्नाये स्थानम्, तेनैता अत्र नियम्यन्ते। याः पूर्वं समाम्नाताः, ताः पूर्वम् एव प्रयोक्तव्याः। आनुपूर्व्यस्य हि दृष्टम् एतत् प्रयोजनम्, यद् उत्तरस्फुरणं250 तद् अपि चिकीर्षितम् एवेति। त्रिनवादिशब्दैर्251 अतिरात्रे यौगपद्येनासां प्राप्तेः पाठक्रमस्याविषय [५४५]252 इत्य् अधिकरणान्तरम् इति भवति मतिः।
समाम्नायपाठक्रमाद् एवात्र नियम इति पुनरुक्तता गम्यत इत्य् अन्यथा वर्ण्यते -
स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//
साद्यस्क्रे253 श्रूयते, सह पशून् आलभत इति। तत्रैषो ऽर्थः समधिगतः, सवनीयकाले त्रयाणाम् आलम्भ इति। अथात्र पाठक्रमात्, किम् अग्नीषोमीयः पूर्वम् आलब्धव्यः, उत स्थानक्रमात् पूर्वं सवनीय इति। किं प्राप्तम्? पूर्वम् अग्नीषोमीय इति। कुतः? पाठक्रमात्। एवं प्राप्ते ब्रूमः, सवनीयः पूर्वम्, स्थानात्। यदि पूर्वम् अग्नीषोमीयः स्यात्, सवनीयस्थानं व्याहन्येत। आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयेति। नन्व् इतरत्रापि पाठक्रमो बाध्येत। बाध्यताम्, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः254, अप्रतिषिद्धं चाश्विनग्रहस्थानम्। तन् न बाधितव्यम्।
मुख्यक्रमेण वाङ्गानां तदर्थत्वात्//५.१.१४//
सारस्वतौ भवतः, एतद् वै दैव्यं मिथुनम् इति255 श्रूयते। तत्र संदेहः, किं स्त्रीदेवत्यस्य प्रथमं धर्माः, उत पुंदेवत्यस्येति। नियमकारिणः शास्त्रस्याभावाद् अनियमः। इति प्राप्ते ब्रूमः, मुख्यक्रमेण वा नियमः स्याद् इति, स्त्रीदेवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानम्, प्रणो देवी सरस्वतीति256। तस्मात् स्त्रीदेवत्यस्य पूर्वं प्रदानेन [५४६]257 भवितव्यम्, तस्मात् स्त्रीदेवत्यस्य पूर्वं धर्माः कार्याः। तथा हि प्रधानकालता भवत्य् अङ्गानाम्, इतरथा, यैः पदार्थैर् व्यवधानं सामर्थ्याद् अनुज्ञातम्, तेभ्यो ऽधिकैर् अपि व्यवधानं स्यात्।
प्रकृतौ तु स्वशब्दत्वाद् यथाक्रमं प्रतीयेत//५.१.१५//
दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, तत आज्यस्य। तत्र संदेहः, किम् अग्नीषोमीयधर्मानाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्तव्याः, उत यथापाठम् इति। मुख्यक्रमानुग्रहेणाज्यस्य पूर्वाम्। इति प्राप्ते ब्रूमः, प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सो ऽन्यथा क्रियमाणे बाधितः स्यात्। सहत्वस्य पुनरुपसंग्राहकः प्रयोगवचनः, स्वक्रमेण पदार्थे संनिकृष्यमाणे न बाधितो भविष्यति। अपि च पाठक्रमे स्वशब्दः, स्वाध्यायो ऽध्येतव्य इति। मुख्यक्रमेण258 प्रयोगवचनैकवाक्यता सूक्ष्मा।
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः//५.१.१६//
दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य। तत्र संदेहः, कतमः259 पाठो बलीयान् इति। उच्यते, अनियमः, नियमकारिणः शास्त्रस्याभावाद् इति। [५४७]260 एवं प्राप्ते ब्रूमः, मन्त्रपाठो बलीयान्। कुतः? प्रयोगरूपसामर्थ्यात्। प्रयोगाय मन्त्रस्य रूपसामर्थ्यम्। तद् अस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति261। ननु च ब्राह्मणपाठस्यापि तद् एव प्रयोजनम्। उच्यते, उत्पत्तिदेशः सः, अपरम् अपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं भविष्यति।
तद्वचनाद् विकृतौ यथाप्रधानं स्यात्//५.१.१७//
अस्त्य् अध्वरकल्पा नामेष्टिः, आग्नावैष्णवम् एकादशकपालं निर्वपेत्, सरस्वत्य् आज्यभागो स्याद् बार्हस्पत्यश् चरुर् इति262। तत्र संदेहः, किम् आग्नेयविकारस्य बार्हस्पत्यस्य पूर्वं धर्माः कार्याः, चोदको बलवत्तरः, प्रयोगवचनात्। उतोपांशुयाजविकारस्य प्रयोगवचनो बलवत्तरः, चोदकाद् इति। किं प्राप्तम्? विकृताव् अस्याम्, यथाप्रधानं स्यात्, तद्वचनात्। तेषां साक्षाद् वचनक्रमो विकृतौ। तेन संनिहितानाम् उपसंहारकः263 प्रयोगवचनो हि प्रत्यक्षः, तद्धर्माणां चानुमानिकः, चोदकेन हि स प्राप्तः। तस्मात् प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते।
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति//५.१.१८//
मुख्याङ्गक्रमविप्रतिपत्तौ वा, यथा प्रकृतौ, तथैव विकृतौ भवितुम् अर्हतीति। कुतः? प्रकृत्यन्वयात्। यादृशाः प्रकृतौ धर्माः, तादृशा एव विकृतौ भवितुम् अर्हन्तीति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कृताः स्युः। चोदको हि प्रयोग[५४८]264वचनाद् बलवत्तरः, स ह्य् उत्पादयति प्रापयति च। प्रापितान् अभिसमीक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं265 पूर्वप्राप्तं न बाधितुम् अर्हति चोदकम्, प्रत्यक्षो ऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तान् एवोपसंहरिष्यति। तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्येति।
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथाशिष्टम्//५.१.१९//
चातुर्मास्येषु साकमेधस् तृतीयं पर्व, तस्यावयवाः, अग्नये ऽनीकवते प्रातरष्टाकपालः, मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः, मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम् इति266। तत्र संदेहः, किम् एता द्व्यहकाला इष्टयः, उत सद्यस्काला इति। किं प्राप्तम्? विकृतिस् तत्काला भवितुम् अर्हतीति, यथाशिष्टम्, यथा प्रकृतिर् उक्ता, तथा विकृतिः स्यात्। प्रकृतिधर्मा हि सा, तस्माद् या विकृतिः, सा द्व्यहकाला भवितुम् अर्हतीति267।
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात्//५.१.२०//
अह्नः कालेषु ये पदार्था उच्यन्ते, प्रातर् मध्यंदिने सायम् इति, क्रमेण त एकस्मिन्न् अहनीति प्रतीयन्ते, यथा देवदत्तः प्रातर् अपूपं भक्षयति, मध्यंदिने विविधम् अन्नम् अश्नाति, अपराह्णे [५४९]268 मोदकान् भक्षयतीत्य् एकस्मिन्न् अहनीति गम्यते। तस्मात् सद्यस्काला एवंजातीयका विकृतयः, द्व्यैहकाल्यं हि चोदकप्राप्तम् आनुमानिकम्, प्रत्यक्षरूपया सद्यस्कालतया बाध्येत।
कालोत्कर्ष इति चेत्//५.१.२१//
इति चेत् पश्यसि, प्राप्तः साङ्गं श्रूयते, तथा मध्यंदिने सायं चेति, उत्कर्षो भविष्यति, यथैतेषु कालेषु साङ्गम्। न च द्व्यहकालताया बाधः, एकस्याह्नः प्रातर् अनीकवन्तम् उपक्रंस्यते, द्वितीयस्य प्रातर् यक्ष्येत। एवं सांतपनीया269 पूर्वेद्युर् मध्यांदिन उपक्रंस्यते, अपरेद्युर् मध्यंदिने यक्ष्यते। तथा गृहमेधीये सायम् उपक्रमणं पूर्वेद्युः, सायं यागो ऽपरेद्युर् इति। ननु वाक्याद् एकम् अहर् गम्यत इत्य् उक्तम्। उच्यते, पदार्थसामर्थ्यजनितो हि वाक्यार्थो भवति। न चात्र पदार्थसामर्थ्यम् अस्ति, येनैकम् अहर् गम्येत।
न तत्संबन्धात्270//५.१.२२//
नैतद् एवम्। कस्मात्? तत्संबन्धात्, एककालसंबद्धानि प्रधानान्य् अङ्गैः सह श्रूयन्ते। कथम्? साङ्गं हि प्रधानं प्रातःकाले श्रूयते, तथा मध्यंदिने सायं च। नाङ्गानि प्रातःकालादिषु। तत्रान्यकालेष्व् अङ्गेष्व् अन्यकालेषु च प्रधानेषु, न साङ्गं तेषु कालेषु कृतं स्यात्। तस्मात् सद्यस्काला एवैता विकृतय इति। अपि च, द्व्य् अहं साकमेधैर् इति श्रूयते। तत् सद्यस्कालासूपपद्यते।
[५५०]271
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात्//५.१.२३//
ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्य् उत्कर्षः, तथाग्नीषोमीये पशौ, तिष्ठन्तं पशुं प्रयजन्तीत्य् अपकर्षः। तत्र संदेहः, किम् उत्कर्षे ऽनुयाजमात्रम् उत्कृष्यते, अपकर्षे च प्रयाजमात्रम्, उतोत्कर्षे ऽनुयाजादि, अपकर्षे च प्रयाजान्तम् इति। किं तावत् प्राप्तम्? यावद् उक्तम्, उत्कर्षापकर्षयोः स्यात्। कुतः? अङ्गानां मुख्यकालत्वात्। एवम् अन्येषां प्रधानकालता भविष्यतीति। तत्र सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यते।
तदादि वाभिसंबन्धात् तदन्तम् अपकर्षे स्यात्//५.१.२४//
तदाद्य् उत्कर्षे, तदन्तम् अपकर्षे गम्येत। कुतः? अभिसंबन्धात्। यद्272 अनुयाजानां परस्तात् समाम्नायते, तत् प्रधानाद् अन्तरं273 प्रयोगवचनेन प्राप्तं बाधित्वा पाठसामर्थ्याद् अनुयाजेभ्यः परस्तात् क्रियते, तथा यस् ततः परः, स ततः परस्तात्। एवम् एक उत्कृष्यमाणः सर्वं गुणकाण्डम् उत्कर्षति, तथापकृष्यमाणो ऽपकर्षतीति।
प्रवृत्त्या कृतकालानाम्//५.१.२५//
ज्योतिष्टोमे श्रूयते प्रातरनुवाककाले, प्रतिप्रस्थातः सवनीयान् [५५१]274 निर्वपस्वेति प्रेष्यतीति सवनीयानां निर्वापकालः। अस्ति च बहिष्पवमाने स्तुते, अग्नीद् अग्नीन् विहर, बर्हि स्तृणीहि, पुरोडाशान् अलंकुर्व् इति। तत्र संदेहः, किं प्रातरनुवाककाले सवनीयान् निरूप्य प्रचरणीहोमादयः सौमिकाः पदार्थाः, उत पौरोडाशाः275 प्राग् अलंकरणाद् इति। किं प्राप्तम्? अनियमः, नियमकारिणः शास्त्रस्याभावात्। इत्य् एवं प्राप्ते ब्रूमः, प्रवृत्त्या कृतकालानाम्, ज्ञानकालानां पदार्थानां प्रवृत्त्या नियमः स्यात्, प्रयुज्यमानम् एव हि पूर्वपदार्थम् अभिनियच्छति। स तस्य परस्तात् समाम्नातः, परस्तात् कर्तव्यः। सौमिकस्य तु पदार्थस्य प्रचरणीहोमस्य वचनात् क्रमो बाधितः। अलंकरणं च बहिष्पवमानस्य परस्तात् समाम्नातम्, तस्मात् तस्य पूर्वः पदार्थो निर्वपणादीनाम् अन्तः। तत उत्तरे सौमिकाः पदार्थाः कर्तव्या इति।
शब्दविप्रतिषेधाच् च//५.१.२६//
शब्दश् च विप्रतिषिध्यते, अलंकुर्व् इत्य् उक्तः प्रोक्षणादीन् प्रतिपद्येत। अस्मत्पक्षे तु, अलंकुर्व् इत्य् उक्ते ऽलंकरणम् एव प्रतिपत्स्यते। तत्रालंकरणे प्राप्तकाले प्राप्तकालवचनो लोडन्तो ऽनुग्रहीष्यते। तस्माद् अत्र प्रावृत्तिकः क्रम इति।
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत//५.१.२७//
अस्ति दर्शपूर्णमासप्रकृतिके पशाव् अग्नीषोमीये वैकृतं यूपकर्म, तत् प्रतिकृष्यते, दीक्षासु यूपं छिनत्तीति। तत् प्रतिकृष्यमाणम् अर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि प्रति[५५२]276कर्षति, उत नेति संशये, प्रतिकर्षति, संबन्धाद् इति गम्यते277। तथा प्राप्ते ब्रूमः, विकृताव् अभ्यधिकं यत्, तत् प्रतिकृष्यमाणं ततो ऽर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि न प्रतिक्रष्टुम् अर्हति। कथम्? असंयोगात्, पाशुकं यूपकर्म, ततः प्राचीनं सौमिकम्। न तयोः परस्परेण संबन्धः। न सौमिकः पदार्थः, पाशुकस्योपकारकः पशोर् वा। यदि हि तयोर् उपकारकः स्यात्, ततस् तस्योपकुर्वतः क्रमो ऽप्य् अस्य साहाय्यं कुर्वन् गुणभूतः स्यात्। न त्व् एतद् अस्ति, तस्मान् नैषां परस्परेण क्रमे नियमः। अतो यूपमात्रं प्रतिकृष्यते। अपि च यूपमात्रं प्रतिकृस्य कृतार्थे शब्दे सौमिकानां स्वक्रमबाधो न भविष्यतीति।
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात्//५.१.२८//
ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीति। अनुयाजा उत्कृष्यमाणा दाक्षिणाग्निकौ होमाव् उत्कर्षन्ति, नेति संशयः। संबन्धाद् उत्कर्षन्ति। इति प्राप्ते उच्यते, नैवाव् उत्क्रष्टुम् अर्हन्ति, ये278 तयोः स्व279 ऽनुयाजाः, संबद्धास्280 ते, न प्रयुक्ताः परकीयैः, तेषाम् अर्थो निर्वर्तित इति। पदार्थानां च क्रमो भवति, न पदार्थप्रयोजनानाम्, यौगपद्येन हि पदार्था उपकुर्वन्तीति वक्ष्यामः। पदार्थानां चोत्पत्तिः क्रमवती, पृथक्शब्दत्वाद् उत्पत्तेः, न पदार्थप्रयोजनस्य, युगपत् प्रयोगवचनेनाभिहितत्वात्। अतो ऽनुयाजोत्पत्तेर् उत्कर्षिकाया अभावाद् दाक्षिणाग्निकौ होमौ नोत्कृष्येयाताम् इति। अपि चानुयाजमात्रम् उत्कृष्य [५५३] कृतार्थे शब्दे दाक्षिणाग्निकयोर् होमयोः स्वक्रमबाधो न भविष्यतीति।
तथापूर्वम्//५.१.२९//
दर्शपूर्णमासयोर् वेदिः, हविर् अभिवासनोत्तरकाले समाम्नाता। सामावास्यायां प्रतिकृष्यते, पूर्वेद्युर् अमावास्यायां वेदिं करोतीति। सा त्व् अपकृष्यमाणा ततो ऽर्वाचीनान् पदार्थान् अपकर्षति, नेति संशयः। उच्यते, संबन्धात् प्रतिकर्षति। इत्य् एवं प्राप्ते ब्रूमः, तथापूर्वम्, अप्रकृतिर् पूर्विकायाम् अमावास्यायां वेदिकरणं पूर्वेद्युर् आम्नातम्, उभयोर् अपि श्वोभूते हविर् अभिवासनम्। अभिवासनं कृत्वामावास्यायां वेदिः कर्तव्येति न श्रुत्यादीनाम् अन्यतमत्281 कारणम् अस्ति। तस्मान् नाभिवासनान्ताः प्रतिक्रष्टव्या इति। अभिवासने चापकृष्यमाणे हवींषि भस्मीभवेयुः।
सांतपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात्//५.१.३०//
चातुर्माद्येषु साकमेधावयवः सांतपनीया नामेष्टिः, मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुं निर्वपतीति282, सा दैवान् मानुषाद् वा प्रतिबन्धाद्283 उत्कृष्यमाणा अग्निहोत्रम् उत्कर्षेत्, न वेति संशये। उच्यते, सांतपनीया तूत्कर्षेद् अग्नि[५५४]284होत्रम् सवनवद् वैगुण्यात्। यदि नोत्कर्षेत्, अग्निहोत्रसवन ऽग्निहोत्रकाल285 उद्धृते ऽग्नाव् अग्निहोत्रं विगुणं स्यात्। तस्माद् उत्क्रष्टव्यम्, सवनवत्, यथा प्रातःसवनं दैवान् मानुषाद् वा प्रतिबन्धाद्286 उत्कृष्यमाणं माध्यंदिनं सवनम् उत्कर्षतीति, एवम् अत्रापि द्रष्टव्यम्।
अव्यवायाच् च//५.१.३१//
एवं सांतपनीयम् अग्निहोत्रेण न व्यवहितं भविष्यतीति, तत्र क्रमो ऽनुग्रहीष्यते। क्रमभेदे च दोषः श्रूयते, अप वा एतद् यज्ञाच् छिद्यते287, यद् अन्यस्य तन्त्रे वितते ऽन्यस्य तन्त्रं प्रतीयत इति।
असंबन्धात् तु नोत्कर्षेत्//५.१.३२//
नाग्निहोत्रस्य सांतपनीयाङ्गम्, न सांतपनीयाया वाग्निहोत्रम्। तेन नासाव् अग्निहोत्रस्य पुरस्तात् कर्तव्या, अतो नाग्निहोत्रम् उत्क्रष्टव्यम्।
प्रापणाच् च निमित्तस्य//५.१.३३//
प्राप्तं चाग्निहोत्रस्य निमित्तम्, सायं जुहोति, प्रातर् जुहोति, उदिते जुहोति, अनुदिते जुहोति, प्रथमास्तमिते जुहोति, संधौ जुहोति, नक्षत्राणि दृष्ट्वा जुहोतीति288, तन् नातिक्रमितव्यम्, तस्माद् अपि नोत्कर्षः। यद् उक्तम्, वैगुण्यम् इति289, उत्कर्षे ऽपि वैगुण्यं कालान्यत्वात्। अङ्गाप्राप्तेर् जघन्यः कालविधिर् बाध्यताम् इति चेत्। न, कालस्य निमित्तत्वात्, [५५५]290 तद् अपाये ऽश्रुतम् एव सर्वं क्रियेत, निमित्तं च291, अनुपादेयत्वेन श्रवणात्। सप्तमी ह्य् आधारादिष्व् असंभवान् निमित्तसप्तमी द्रष्टव्या। अथ यद् उक्तम् - सवनवद् उत्क्रष्टव्यम् इति292। तद् उच्यते -
संबन्धात् सवनोत्कर्षः//५.१.३४//
संबद्धं हि सवनं सवनेन, एकक्रतुसंबन्धात्, तद् उत्कृष्यते।
षोडशी चोक्थ्यसंयोगात्//५.१.३५//
ज्योतिष्टोमे श्रूयते, षोडशिनं प्रकृत्य, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति293294। यदा दैवान् मनुषाद् वा प्रतिबन्धाद्295 उक्थ्यान्य् उत्कृष्यन्ते, किं तदा षोडश्य् उत्कृष्टव्यः296, नेति भवति संशयः। किं प्राप्तम्? नोत्क्रष्टव्यः। कुतः? एवं स्तोत्रं स्वस्मिन् काले षोडशिनः कृतं भविष्यतीति, समयाध्युषिते सूर्ये षोडशिनस्तोत्रम्297 उपकरोतीति। तस्माद् अनुत्कर्ष इति। एवं प्राप्ते ब्रूमः, षोडशी चोत्क्रष्टव्यः। कस्मात्? उक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भवति, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति298। तस्माद् उत्क्रष्टव्यः षोडशी। यद् उक्तम्, षोडशिनस्तोत्रकालेनावर्जनं299 भविष्यतीति। उच्यते, स्तोत्रक्रमम् अनुरुध्यमानस्य प्रधानक्रमो विरुध्येत। तस्मान् न स्तोत्रक्रमो ऽनुरोद्धव्यः, उभयं न शक्यम् अनुगृहीतुम्300, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति [५५६]301 श्रूयते। तस्माद् उत्क्रष्टव्यः षोडशीति।
संनिपाते प्रधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात्//५.२.१//
वाजपेये, सप्तदश प्राजापत्यान् पशून् आलभत इति302 श्रूयते, अग्नीषोमीये च पशौ पशुधर्माः समाम्नाताश् चोदकेन प्राप्ताः। तेषु संशयः, किम् एकस्यादेर् आरभ्य धर्मान् सर्वान् कृत्वा, द्वितीयस्य पुनरादित उपक्रमितव्याः, अथ प्रथमस् तावत् सर्वेषां कर्तव्यः, ततो द्वितीय इति। किं प्राप्तम्? एकैकस्य सर्वे ऽपवर्जयितव्या इति। कुतः? प्रधानासत्तेर् अनुग्रहाय, इतरथा प्रधानासत्तिर् विप्रकृष्येत। यथा बहुष्व् अश्वेषु प्रतिगृहीतेषु ये पुरोडाशाः, तेषु नैकजातीयानुसमयः, एवम् इहापीति।
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात्//५.२.२//
एकजातीयानुसमयः कर्तव्यः। किम् एवं भविष्यति? सहत्वम् अनुग्रहीष्यते, तत्सहत्वं श्रूयते, वैश्वदेवीं कृत्वा पशुभिश् चरन्तीति, एकस्मिन् काले पशूनां प्रचारः। नन्व् एवं सति पूर्वस्य पदार्थस्योत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते। नैष दोषः, एवम् अपि कृतम् एवानुपूर्व्यम्। यो ऽसौ पश्वन्तरे व्यापारः स एवासौ, न पदार्थान्तरम्, पदार्थान्तरेण व्यवधानं भवति।
[५५८]303
कारणाद् अभ्यावृत्तिः//५.२.३//
अथ यद् उक्तम्, बहुषु पुरोडाशेषु नैकजातीयानुसमय इति, तत् परिहर्तव्यम्। अत्रोच्यते, युक्तं तत्र, यत्304 कारणाद् अभ्यावृत्तिः, एकजातीयानुसमये हि क्रियमाणे सहस्रस्याधिश्रयणे कृते प्रथमः शुष्येत्, तस्य च प्रथमं न शक्येत कर्तुम्।
अथवाधिकरणान्तरम् -
कारणाद् अभ्यावृत्तिः//५.२.३//
अनेकसहस्राश्वप्रतिग्रहे तन्त्रानुष्ठानम् इति पूर्वः पक्षः। काण्डानुसमयो ऽभ्युपेतव्य इति सिद्धान्तः।
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन//५.२.४//
मुष्ट्यादिषु संशयः, किं मुष्टिनानुसमयः, उत चतुर्भिर् मुष्टिभिर् इति। किं प्राप्तम्? मुष्टिनेति। कुतः? एकमुष्टिनिर्वापो ह्य् एकः पदार्थः, न चतुर्मुष्टिनिर्वापः। कथम्? एकस्मिन् मुष्टौ निरुप्ते यतीभावः305 पर्यवस्यति। न शक्यं वदितुम्, न किंचिन् निरुप्तम् इति। न च, निरुप्ते निर्वापो न कृतः स्यात्, न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्। न ह्य् [५५९]306 एकस्मिन्न् अनिरुप्ते चत्वारः संभवन्ति, मुष्टिसमानाधिकरणो हि चतुःशब्दः, तस्मान् मुष्टिनानुसमयः कार्यः। एवम्, कपालान्न् उपदधातीति। तथा, मध्याद् अवद्यति पूर्वार्धाद् अवद्यति, तथा, अङ्क्ते ऽभ्यङ्क्ते वपति पावयतीति।
सर्वाणि त्व् एककार्यत्वाद् एषां तद्गुणत्वात्//५.२.५//
सर्वाणि तु परिसमाप्यानुसमेयात्, नैकमुष्टिनिर्वापः पदार्थः, चतुःसंख्यत्वान् निर्वापस्य। कथं चतुःसंख्यता? चतुःशब्दस्य निर्वपतिना संबन्धात्, एवं सह कर्मणा, अनेकगुणविधानं न्याय्यम्। इतरथा, मुष्टिसंबन्धे सति वाक्यभेदः प्रसज्येत। अनिर्वापाङ्गं च स्यात्। तथोपधानादिष्व् अपि, अष्टाकपालम् एकादशकपालं निर्वपतीति निर्देशात्। द्विर् अवद्यति307, त्रिर् अभ्यङ्क्ते, एकविंशत्या पावयतीति308 संख्यादीनां क्रियागुणत्वं भवति। तस्मात् समुदायेनानुसमय इति।
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात्//५.२.६//
दर्शपूर्णमासयोः श्रूयते, द्विर् हविषो ऽवद्यतीति309। तत्र संशयः, किम् अवदानेनानुसमयः, उतावदानेन प्रदानान्तेनेति। किं प्राप्तम्? अवदानेनेति ब्रूमः। कुतः? पृथक्पदार्थत्वात्, पृथक् पदार्थो ह्य् अवदानम्, यतीभावस्य पर्यवसानात्, अवद्यतिवचनात्। एवं प्राप्ते ब्रूमः, संयुक्ते तु प्रक्रमात् तदङ्गं स्यात्, इतरस्य तदर्थत्वात्। नावदानं पृथक् पदार्थः, प्रदानस्य स उपक्रमः, इतरथावद्यतेर् अदृष्टार्थता [५६०]310 स्यात्। संख्याविशेषविधानार्थं च पुनर्वचनम्। तस्मात् पदार्थावयवो ऽवदानम्, न चावयवसहत्वं प्रयोगवचनेनोच्यते, तस्मात् प्रदानान्तेनानुसमय इति।
वचनात् तु परिव्याणान्तम् अञ्जनादि स्यात्//५.२.७//
ज्योतिष्टोमे ऽग्नीषोमीयपशौ यूपस्याञ्जनाद्याः पदार्थाः श्रूयन्ते, तेषु यूपैकादशिन्यां प्राप्तेषु संशयः, किम् अञ्जनादीनाम्311 एकैकेनानुसमयः, उताञ्जनादिना परिव्याणान्तेनेति। किं प्राप्तम्? परिव्याणान्तम् अञ्जनादि स्यात्। कुतः? वचनात्, वचनम् इदं भवति, अञ्जनादि यजमानो यूपं नावमृजेद् आपरिव्याणाद् इति312। न च शक्यम्, बहुष्व् अञ्जनादिनानुसमयः कर्तुम्, न चानवस्रष्टुम्। तस्मात् परिव्याणान्तेनानुसमयः।
कारणाद् वानवसर्गः स्याद् यथा पात्रवृद्धिः//५.२.८//
सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यत इति पदार्थेनानुसमयः। अनवसर्गश् च प्रकृताव् अर्थात् कृतः, साहाय्यं यजमानेनाध्वर्योः। एवं दृष्टार्थतानवसर्गस्य, इतरथादृष्टार्थता स्यात्। न च, अर्थात् कृतं चोदकः प्रापयति। तस्माद् यूपान्तरेणोच्छ्रयितव्येन313 कारणेनावसृजेत्, यथा पृषदाज्येनानुयाजान् यजतीत्य् अर्थात् तस्य धारणार्थं पात्रं भिद्यते।
[५६१]314
न वा शब्दकृतत्वान् न्यायमात्रम् इतरद् अर्थात् पात्रविवृद्धिः315//५.२.९//
न वैतत्पदार्थेनानुसमय इति, परिव्याणान्तेन पदार्थकाण्डेनानुसमयः स्यात्। शब्दकृतं हि प्रकृताव् अनवसर्जनम्, शक्नोति ह्य् ऋते ऽपि यजमानात्, अध्वर्युर् यूपम् उच्छ्रयितुम्। सौकर्यम् इति चेत्। विधिशब्दो बाध्येत, दृष्टार्थतैवं हि नियम्येत, भोजने प्राङ्मुखतेव। अतो ऽसंभवात्, पदार्थकाण्डेनानुसमयः। प्रयोगवचनस्य च न्यायमात्रत्वम्, चोदकस् ततो बलीयान्। पात्रविवृद्धिस् त्व् अर्थात् कर्तव्या।
पशुगणे तस्य तस्यापवर्जयेत् पश्वेकत्वात्//५.२.१०//
वाजपेये प्राजापत्याः पशवः। तेषु संदेहः, किम् एकैकस्य पशोर् दैवतान्य् अवदाय ततः सौविष्टकृतानि, तत ऐडानि। अथ दैवतैर् देवतानाम् अनुसमयः, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति। किं तावत् प्राप्तम्? एकैकस्य कृत्स्नान्य् अवदाय ततो होतव्यम्, प्रकृतौ वचनात्, एतत् कृतं प्राजापत्येष्व् अपि चोदकेनैव प्राप्नोति।
दैवतैर् वैककर्म्यात्//५.२.११//
नैतद् एवम्, दैवतैर् देवतानाम्, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति। कस्मात्? ऐककर्म्यात्। एवं सहकृतं भवति, यच् च वचनात् प्रकृतौ कृत्स्नावदानम् इति, दैवतान्य् [५६२]316 अवदाय न तावत्य् एव होतव्यम्, सौविष्टकृतान्य् अवदेयानि। सौविष्टकृतान्य् अवदाय न तावत्य् एव होतव्यम्, ऐडान्य् अवदेयानीति प्रकृतौ श्रूयते। तद् इह दैवतैर् दैवतानाम् अनुसमयं कुर्वन् नैनं317 प्राकृतं धर्मं बाधेत। दैवतान्य् अवदाय नैव जुहोति, सौविष्टकृतान्य् अवद्यतीति। अथ सौविष्टकृतान्य् अवदाय नैव जुहोति, ऐडान्य् अवद्यतीति। तस्मात् पदार्थमात्रेणानुसमय इति।
मन्त्रस्य चार्थवत्त्वात्//५.२.१२//
एवं मनोतामन्त्रस्318 तन्त्रं भविष्यति, इतरथा पर्यायेणैव स्यात्। तस्माद् दैवतैर् दैवतानां सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति।
नानाबीजेष्व् एकम् उलूखलं विभवात्//५.२.१३//
अस्ति राजसूये नानाबीजेष्टिः, अग्नये गृहपतये सुतीनाम्319 अष्टाकपालं निर्वपेत्, सोमाय वनस्पतये श्यामाकं चरुम् इत्येवमादि320। अस्ति तु तत्र प्राकृतो ऽवहन्तिः। तत्र संदेहः, किं तत्रैकम् उलूखलं पर्यायेण, उत यौगपद्येन बहूनीति। कुतः संशयः? यदि कृष्णाजिनाधस्तरणादयः पृथक् पदार्थाः, ततो भेदः। अथ कृष्णाजिनास्तरणादिस् तण्डुलनिर्वृत्त्यन्त एकः पदार्थः, ततस् तन्त्रम् इति। किं तावत् प्राप्तम्? एकम् इति। कुतः? पर्यायेण विभवात्। एकस्योपादानेन सिद्धेर् द्वितीयस्योपादानम् अनर्थकं स्यात्। तस्मात् तन्त्रम् इति।
[५६३]321
विवृद्धिर् वा नियमानुपूर्व्यस्य तदर्थत्वात्//५.२.१४//
विवृद्धिर् उलूखलानां स्यात्, नियतं ह्य् आनुपूर्व्यं पाठकृतं सहत्वे सत्य् उपपद्यते, पदार्थानां चानुसमयः, पृथक्पदार्थाश् चाधस्तरणादयो यतीभावस्य पर्यवसानात्, अधस्तरणादिभिश्322 च पदैर् अभिधानात्। तस्माद् विवृद्धिर् इति।
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात्//५.२.१५//
एकं वोलूखलं पर्यायेण स्यात्, एको ह्य् अधस्तरणादिस् तण्डुलपर्यन्तः पदार्थः, स्तरणादिर् हन्तेर् उपक्रमः फलीकरणान्तश् च तस्यैव शेषः323, यतो हन्तिस् तण्डुलनिष्पत्त्यर्थः। एवं स्तरणादीनां हन्तेश् च नादृष्टार्थता भविष्यति। तस्मात् तन्त्रम् इति।
विकारे त्व् अनुयाजानां पात्रभेदो ऽर्थभेदात् स्यात्//५.२.१६//
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, तत्र श्रूयते, पृषदाज्येनानुयाजान् यजतीति324। तत्र संदेहः, किं प्रयाजानुयाजानाम् एकं पात्रम् आज्यस्य पृषदाज्यस्य च धारणार्थम्, उत भिद्यते? किं प्राप्तम्? एकम् इति। कुतः? प्रकृताव् एकम्, प्रकृतिवद् इहाप्य् एकेन भवितव्यम्। एवं प्राप्ते ब्रूमः, पात्रभेदः स्यात्। कुतः? अर्थभेदात्, शुद्धस्य प्रयाजा अर्थः, पृषतो ऽप्य् अनुयाजाः, पृषति गृह्यमाणे [५६४]325 प्रयाजानां वैगुण्यम्, शुद्धे ऽनुयाजानाम्। न चैकस्मिन् पात्रे विविक्तं शक्यं कर्तुम्। मर्यादायाम् अपि क्रियमाणायां प्रदीयमानं संसृज्येत। अपि चाकारभेदाद् उपभृत उपभृत्त्वं विहन्येत। प्राणिमात्रपुष्करा326 हि सा, एकपुष्करा च। अथोच्येत, पृषदाज्यम् अप्य् आज्यम् एवेति न मिश्रत्वं दोषायेति। नैतद् एवम्, प्रकृताव् उत्पवनावेक्षणयोः प्रयोजनम् एतत्, यद् आज्यस्यापरेण द्रव्येणासंसर्गः। एवं चेद् अनुपपन्नम्, यत् प्रयाजा पृषदाज्येनेज्येरन्न् इति। अपि च, एवं सत्य् अवश्यं हविषः काचिन् मात्रापनीयते। न च शक्यम्, प्रयाजकार्ये ऽवसिते ऽनुयाजार्थं ग्रहीतुम्, प्रकृताव् एककालं ग्रहणम्। इहाप्य् एककालम् एव कर्तव्यम्। तस्मात् पात्रभेद इति।
प्रकृते पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम्//५.२.१७//
अग्नौ327 नक्षत्रेष्ट्यां328 श्रूयते, अग्नये कृत्तिकाभ्यः पुरोडाशम् अष्टाकपालं निर्वपेद्329। सो ऽत्र जूहोति, अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहेत्येवमादि330 होमाः समाम्नाताः। सन्ति तु प्रकृतौ नारिष्टहोमाः। तत्र संदेहः, किं नारिष्टहोमाः पूर्वम्, उतोपहोमा इति संशये उच्यते, प्राकृतं पूर्वम्, वैकृतम् अन्ते स्याद् इति। कुतः? चोदितस्य परिपूर्णस्य शेष आम्नायते, यथा जातस्य पुत्रस्य क्रीडनकम्।
[५६५]331
मुख्यानन्तर्यम् आत्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात्//५.२.१८//
आत्रेयो मन्यते स्म, मुख्यानन्तर्यं वैकृतस्य, पश्चात् तु प्राकृतं प्रयुज्येत। प्रधानानन्तरं वैकृतस्य पाठः प्रत्यक्षः, तस्मात् पूर्वम् उपहोमास् ततो नारिष्ठहोमा इति। प्राकृतानां व्यवायः स्यात्, यतस् ते न श्रूयन्ते।
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात्//५.२.१९//
बादरायणस् त्व् आचार्यो मन्यते स्म, अन्ते वैकृतानां प्रयोग इति। कुतः? प्रधानशब्दगृहीतत्वात्, प्राकृतानाम् अङ्गानाम् प्रधानशब्दगृहीतत्वम्, तत्प्रधानशब्दगृहीतानि हि प्राकृतान्य् अङ्गानि, तस्माच् च प्रधानशब्दात् परम् एतत्, सो ऽत्र जुहोत्य् अग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्येवमादि। तस्मात् प्रत्यक्षाद् एव क्रमान् नारिष्टहोमेभ्यः परां चोपहोमा इति।
तया चान्यार्थदर्शनम्//५.२.२०//
अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, अध्वरस्य पूर्वम् अथाग्नेर् उपप्रैत्य् एतत् कर्म, यद् अग्निकर्मेति। पश्चात् समाम्नातस्य पश्चात् प्रयोगं दर्शयति।
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् न्यायमात्रम् इतरत्//५.२.२१//
राजसूये श्रूयते, अक्षैर् दीव्यति शौनःशेषम्332 आख्यापयति, अभि[५६६]333षिच्यत इति। तत्र संदेहः, किं देवनादीनाम्334 अन्ते प्रयोगः, उताभिषेकात् पूर्वम् इति। किं प्राप्तम्? अन्ते तु बादरायण इत्य् अन्ते प्रयोगः कर्तव्य इति। एवं प्राप्ते ब्रूमः, कृतदेशाद् अभिषेकात् पूर्वं तु प्रयोगः, कृतदेशो ह्य् अभिषेकः, माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति प्रत्यक्षानुग्रहायाभिषेकात् पूर्वं प्रयोक्तव्यम्। न्यायमात्रम् इतरत्, अन्ते तु बादरायण इति।
प्राकृताच् च पुरस्ताद् यत्//५.२.२२//
अस्ति अग्निः, य एवं विद्वान् अग्निं चिनुत इति335। तत्र दीक्षणीयायाः पूर्वं सावित्रहोमाः, उखासंभरणम्, इष्टकाः पशुश् चेत्य् एतद् आम्नातम्। किं तद् एव पूर्वं कर्तव्यम्, उत दीक्षणीयेति। किं प्राप्तम्? वैकृतानाम् अन्ते प्रयोगः, अन्ते तु बादरायण इति। एवं प्राप्ते ब्रूमः, पूर्वं सावित्रहोमाः, इष्टकाः, पशुर् उखासंभरणं च। कुतः? प्रत्यक्षपाठात्, पुनस् तत्र दीक्षणीयाम्नाता, तस्याश् च पुरस्तात् सावित्रहोमाः, इष्टकाः पशुर् उखासंभरणं च। तस्मात् तेषां पूर्वं प्रयोग इति।
संनिपातश् चेद् यथोक्तम् अन्ते स्यात्//५.२.२३//
अग्नौ दीक्षणीयायाः परतो रुक्मप्रतिमोचनाद्य् आम्नातम्, [५६७]336 तस्मिन्न् एव क्रमे चोदकेन दीक्षितसंस्काराः प्राप्ताः। तत्र संदेहः, किम् अनियमः, उत पूर्वं रुक्मप्रतिमोचनादि, उत दीक्षितसंस्कारा इति। किं प्राप्तम्? अनियमः। अथवा, यथा प्रत्यक्षपाठक्रमाद् दीक्षणीयायाः पुरत उखासंभरणादयः, एवं रुक्मप्रतिमोचनादीनीति। एवं प्राप्ते ब्रूमः, दीक्षितसंस्काराः पूर्वं कर्तव्या इति। कुतः? दीक्षणीयां प्रति यः पाठक्रमः, यथा च चोदकः, तथोभये ऽपि परस्ताद् दीक्षणीयायाः कार्याः। यस् तेषां परस्परापेक्षः क्रमः, तत्र न कश्चिद् उखासंभरणस्येव प्रत्यक्षः पाठक्रमः पूर्वत्वं साधयति। अस्ति तु संस्कारणां प्रकृतौ पूर्वं पाठः, विकृतौ रुक्मप्रतिमोचनस्योत्तरः, तेन यथोक्त एव क्रमः स्यात्, अन्ते वैकृतम् इति। अथ किम् अर्थं संनिपात आशङ्क्यते? नन्व् अयं संनिपात एव व्यक्तः। असंदिग्धे संदिग्धवचनम् एतत्। यथा -
ईजाना बहुभिर् यज्ञैर् ब्राह्मणा वेदपारगाः/ शास्त्राणि चेत् प्रमाणं स्युः, प्राप्तास् ते परमां गतिम्// इति।
तस्मान् न दोष इति।
============================================================================
-
E2: sruco ↩︎
-
Tait. S. 3.5.7.3 ↩︎
-
E2: jyotiṣṭome saṃskāre ↩︎
-
Tait.S. 6.1.1.2 ↩︎
-
Tait.S. 6.1.1.2 ↩︎
-
Tait. S. 2.6.2.1 ↩︎
-
Tait. S. 2.6.1.5 ↩︎
-
E2: 5,59; E6: 2,35 ↩︎
-
Ait.Br. 2.1 ↩︎
-
E2: dhruvā ↩︎
-
E2 gibt juhvā homam abhinirvartayati in Klammern ↩︎
-
E2: na tatra ↩︎
-
E2: parṇamayyā juhvāpāpaślokaśravaṇaṃ ↩︎
-
E2 om. na ↩︎
-
E2: tasyaivaṃlakṣaṇā ↩︎
-
E2: 5,61; E6: 2,36 ↩︎
-
E2 om. na ↩︎
-
E2: samāmnāyo ‘rthasya tannimitatvād iti ↩︎
-
MS 1.1.25 ↩︎
-
E2 om. atha ↩︎
-
E2: 5,61; E6: 2,36 ↩︎
-
E2: manyamānās ta evaṃ samāmananti ↩︎
-
E2: 5,63; E6: 2,37 ↩︎
-
E2: aśmaṃ; E1 (Fn.): asyam ↩︎
-
Tait.S. 5.6.8.2 ↩︎
-
E2 om. tatra ↩︎
-
E2: 5,64; E6: 2,38 ↩︎
-
E1 (Fn.): dvividhāni ↩︎
-
E1 gibt viśeṣe śrutatvād ity arthaḥ in Klammern ↩︎
-
E2: sāmānyapadārthaṃ ↩︎
-
E1 gibt avivakṣitaṃ kalpayitum in Klammern ↩︎
-
E2: 5,64; E6: 2,38 ↩︎
-
E2: tan na ↩︎
-
E2: 5,65; E6: 2,39 ↩︎
-
E1 gibt nityatve naimittikatve ca in Klammern ↩︎
-
E2: 5,66; E6: 2,39 ↩︎
-
E2: śrautahomavidhānasya ↩︎
-
Tait.S. 6.2.5.2-3 ↩︎
-
E2: vyavatiṣṭhet ↩︎
-
E2: 5,67; E6: 2,40 ↩︎
-
Tait.S. 2.5.3.6 ↩︎
-
Tait.Br. 1.4.7.7 ↩︎
-
E2: 5,68; E6: 2,41 ↩︎
-
E2,6: ṣaḍapūpā ↩︎
-
E2 om. uttaram ↩︎
-
E1 (Fn.): yāgamātram eṣa ↩︎
-
E2: ca kāryāṇi na ↩︎
-
E1 (Fn.): phalam ↩︎
-
E1 (Fn.): kṣemo ‘yaṃ panthā ↩︎
-
E2: vipralambhakāpadeśaḥ ↩︎
-
E2: vipralambhakatve ‘pi; E2 (Fn.): vipralambhakakartṛkam ↩︎
-
E2: 5,69; E6: 2,41 ↩︎
-
E2: iti vā ↩︎
-
E2 om. padam ↩︎
-
E2: 5,70; E6: 2,42 ↩︎
-
E2: atra, itaḥ ↩︎
-
E2: vanaspatim iti ↩︎
-
E1 gibt phalakāmapadaṃ dūre ‘pi sat tasya vākyasyaikadeśabhūtam ity arthaḥ in Klammern ↩︎
-
E2: sūkara ↩︎
-
Tait.S. 5.5.11.1 ↩︎
-
E2: vaitaṃ gṛhṇātīti ↩︎
-
E2: vyavadhāraṇakalpanāyām api prāmāṇyam. evam ↩︎
-
Tait.S. 2.5.3.6 ↩︎
-
E2: 5,71; E6: 2,43 ↩︎
-
E2,6: ekaphalaṃ ↩︎
-
E2: kartavyacodanā ↩︎
-
E2,6: evodāharaṇeṣv ↩︎
-
E2: 5,72; E6: 2,43 ↩︎
-
E2: vā ya etā rātrīr upayanti ↩︎
-
E2: bhaṅgavat ↩︎
-
Tait.S. 3.5.7.1 ↩︎
-
E2: 5,73; E6: 2,44 ↩︎
-
Tait.S. 3.5.7.1 ↩︎
-
MS 4.3.1 ↩︎
-
E2 om. iti ↩︎
-
Tait.S. 2.3.2.3 ↩︎
-
E2: 5,74; E6: 2,45 ↩︎
-
Tait.S. 2.4.10.1 ↩︎
-
MS 4.3.20 ↩︎
-
E2: 5,75; E6: 2,45 ↩︎
-
Tait.S. 2.4.10.1 ↩︎
-
E2: 5,36; E6: 2,46 ↩︎
-
E2: 5,77; E6: 2,47 ↩︎
-
Alternativauslegung von MS 4.3.27/28 (E1,2,6) ↩︎
-
Tait.S. 2.3.2.3 ↩︎
-
Tait.S. 2.2.1.1 ↩︎
-
Tait.S. 2.4.6.1 ↩︎
-
E1 (Fn.): sāgrahiṇīm; E2: sāṃgrahaṇīṃ ↩︎
-
Tait.S. 2.3.9.2 ↩︎
-
E1 gibt amuṣmil loke in Klammern ↩︎
-
E2: anantaraṃ nirvṛtte ↩︎
-
E2: 5,78; E6: 2,47 ↩︎
-
E2: asti pratyakṣam ↩︎
-
E2: svārāṣṭrapratipādanīyayeṣṭyā ↩︎
-
E2: rāṣṭrapratipādanaṃ; E2 (Fn.): rāṣṭrapratipādanīyāṃ ↩︎
-
Sūtra fehlt in E2 ↩︎
-
E2: paśūn ↩︎
-
E2: asty avagatiḥ ↩︎
-
Tait.S. 5.6.3.4 ↩︎
-
E2: 5,79; E6: 2,48 ↩︎
-
Tait.S. 5.6.3.4 ↩︎
-
E1 gibt cayane ‘bhinirvṛtta in Klammern ↩︎
-
E1 gibt śabdārthenety arthaḥ in Klammern ↩︎
-
E2: 5,80; E6: 2,48 ↩︎
-
E2: 5,81; E6: 2,49 ↩︎
-
E2: darśapūrṇamāsābhyām ↩︎
-
Tait.S. 2.5.6.1 ↩︎
-
E2: katham atatparatāsya; E2 (Fn.): kathaṃ vāgrūpāvacanād ↩︎
-
E2: 5,82; E6: 2,50 ↩︎
-
E2: yātuḥ ↩︎
-
E2: yaṣṭuḥ ↩︎
-
Tait.S. 2.2.5.4 ↩︎
-
E2: iti vidhāyāmnāyate, yasmiñ jāta etām iṣṭaṃ nirvapati pūta eva sa tejasvy annād indriyāvī paśumān bhavatīti. tatra ↩︎
-
Tait.S. 2.6.3.6 ↩︎
-
E2: 5,83; E6: 2,50 ↩︎
-
E2 om. iti ↩︎
-
E2 wiederholt MS 4.3.39 nicht ↩︎
-
Tait.S. 2.2.5.4 ↩︎
-
E2: iṣṭyā ↩︎
-
E2: 5,85; E6: 2,52 ↩︎
-
Tait.S. 5.6.3.4 ↩︎
-
Vgl. MS 11.2.7 ↩︎
-
E2: 5,86; E6: 2,52 ↩︎
-
E1 gibt vājapeyena phalasya vyāpāraṃ kṛtvā in Klammern ↩︎
-
E1 gibt agni cayanena saṃskṛtyety arthaḥ in Klammern ↩︎
-
E2: 5,87; E6: 2,53 ↩︎
-
E2: śaunaḥśepam ↩︎
-
E2,6: rūpavatāṃ saṃnidhāv ↩︎
-
E2: 5,88; E6: 2,53 ↩︎
-
E2: kevalasya. kāmād abhiṣecanīyasya kevalasya. kāmād; E6: kevalasya. kāmād ↩︎
-
E2: 5,89; E6: 2,54 ↩︎
-
Tait.Br. 1.8.1.2 ↩︎
-
E2: 5,90; E6: 2,55 ↩︎
-
E2, E1 (Fn.): āmanasyāmanasya devā iti ↩︎
-
E2: ity evānupajyate ↩︎
-
E2: āmanasyāmanasya devā iti ↩︎
-
E2: 5,91; E6: 2,55 ↩︎
-
Tait.S. 3.5.9.1 ↩︎
-
Tait.S. 3.5.9.1 ↩︎
-
E2: naiṣa ↩︎
-
E2 om. hi ↩︎
-
Tait.S. 3.5.9.1 ↩︎
-
E1 gibt adhvaryuyajamānayoḥ in Klammern ↩︎
-
Tait.S. 5.5.2.1 ↩︎
-
E2: abhūtvāgniṃ ↩︎
-
Tait.S. 5.5.1.7 ↩︎
-
Tait.S. 5.5.2.1 ↩︎
-
E2: 5,94; E6: 2,57 ↩︎
-
Tait.S. 5.4.2.2 ↩︎
-
E2,6: caturthī ↩︎
-
Tait.S. 5.6.10.3 ↩︎
-
Tait.S. 2.4.1.1 ↩︎
-
E2: 5,94; E6: 2,58 ↩︎
-
Tait.S. 5.6.10.3 ↩︎
-
E1 gibt naimittikaḥ in Klammern ↩︎
-
E2: 5,95; E6: 2,58 ↩︎
-
E1 gibt dvayoḥ sūtrayor idam uttaram, tābhiś ca tulyasaṃkhyānāt, arthavādopapatteś ceti in Klammern ↩︎
-
E1 gibt nityābhiḥ in Klammern ↩︎
-
Tait.S. 2.4.1.1 ↩︎
-
Tait.Br. 1.3.10.2 ↩︎
-
Tait.S. 1.3.10.2 ↩︎
-
E2: pratanituṃ ↩︎
-
E2: aṅgaṃ ↩︎
-
E2: 5,96; E6: 2,59 ↩︎
-
Tait.S. 2.5.6.1; dazu MS 4.3.37 ↩︎
-
E2 om. tad etat ↩︎
-
Tait.Br. 1.8.1.2; dazu MS 4.4.5-6 ↩︎
-
E2,6: atra kāla ↩︎
-
E2 om. karmaṇi ↩︎
-
E2: pratiṣiddhe hy ↩︎
-
Tait.S. 2.5.4.3 ↩︎
-
E2: 5,97; E6: 2,60 ↩︎
-
E2: satre ca ↩︎
-
E2: 5,98; E6: 2,60 ↩︎
-
E2: vākyāt ↩︎
-
ṚV 3.8.4 ↩︎
-
Tait.S. 6.1.11.6 ↩︎
-
E1 gibt svaruṃ karotīti svarum antaṃ yūpaṃ kuryād ity arthaḥ in Klammern ↩︎
-
E2: 5,99; E6: 2,61 ↩︎
-
E2 om. prayojanaṃ ↩︎
-
E2: tena tena ↩︎
-
E2: 5,100; E6: 2,62 ↩︎
-
E1 (Fn.): sāmānyeṣv abhisaṃstavaḥ ↩︎
-
Tait.S. 2.6.2.1 ↩︎
-
Tait.S. 2.6.1.5 ↩︎
-
E2: 5,101; E6: 2,62 ↩︎
-
Tait.S. 2.3.2.3 ↩︎
-
E1 (Fn.): tatra ↩︎
-
E2: 5,101; E6: 2,63 ↩︎
-
Tait.S. 3.5.1.4 ↩︎
-
Tait.S. 3.5.1.4 ↩︎
-
E2: 5,102; E6: 2,64 ↩︎
-
E1 gibt loke śravaṇād in Klammern ↩︎
-
E2: paurṇamāsīm ↩︎
-
E2: 5,103; E6: 2,64 ↩︎
-
E2: pradhānām ↩︎
-
E2: utpattyapekṣayā ↩︎
-
E2 om. iti ↩︎
-
E2: yathā jāyamānasya ↩︎
-
E2: 5,103; E6: 2,65 ↩︎
-
Tait.Br. 1.5.11.2 ↩︎
-
Tait.Br. 1.5.11.3 ↩︎
-
E2: 5,105; E6: 2,65 ↩︎
-
E6 om. jyotayater vā ↩︎
-
E2: dyotyante ↩︎
-
E2: stutyam ↩︎
-
E2: 5,106; E6: 2,66 ↩︎
-
E2: śravaṇam ↩︎
-
MS 1.1.2 ↩︎
-
E2: dīkṣākrame ↩︎
-
E2: ye yajamānās ta ṛtvija ity ↩︎
-
E2: neṣṭhā ↩︎
-
E2,6: pādino ↩︎
-
E2: 5,107; E6: 2,66 ↩︎
-
E2: eṣa ↩︎
-
E2: asmaraṇam; E6: apasmaraṇam ↩︎
-
E1,6, E2 (Fn.); E2: vyavahāraḥ kramasya ↩︎
-
E2: śrutikramavicāro ↩︎
-
E1 (Fn.), E2: kramo ’nuvādaḥ ↩︎
-
E2: dīkṣādīnāṃ padārthānāṃ ↩︎
-
E2 om. ya ↩︎
-
E2: 5,108; E6: 2,67 ↩︎
-
Vgl. MS 1.1.2 ↩︎
-
E1 gibt sāmarthyāc ca in Klammern ↩︎
-
E1 (Fn.): ’numīyate; E2: ’nuṣṭhīyate ↩︎
-
E2: 5,110; E6: 2,68 ↩︎
-
Tait.S. 1.6.2.3 ↩︎
-
ŚPBr 1.5.4.11 ↩︎
-
Tait.S. 2.6.1.1 ↩︎
-
E2: 5,111; E6: 2,68 ↩︎
-
E1 (Fn.), E2: padānāṃ ↩︎
-
Vgl. MS 1.1.25 ↩︎
-
E2: gamyate ↩︎
-
E2: 5,112; E6: 2,69 ↩︎
-
Tait.S. 5.3.1.1 ↩︎
-
Tait.S. 7.1.5.4 ↩︎
-
E2: pāṭhakrameṇāniyama ↩︎
-
Tait.S. 3.4.8.5 ↩︎
-
E2: 5,113; E6: 2,70 ↩︎
-
E1 (Fn.): dvitīyo ‘pi padārtha ārabdhavyaḥ ↩︎
-
E2: teṣāṃ teṣāṃ ↩︎
-
E1 (Fn.): ‘bhyadhikaiḥ ↩︎
-
E2: 5,115; E6: 2,70 ↩︎
-
E2: anaṅgasamāśritasya ↩︎
-
E2,6: triṇavenaujaskāmam ↩︎
-
Tait.S. 2.2.4.7 ↩︎
-
Vgl. MS 10.5.26 ↩︎
-
E1 (Fn.), E2: aniyatakramāḥ ↩︎
-
E2: kāṇḍakrameṇeti ↩︎
-
E1 (Fn.): yad uttarasya smaraṇaṃ ↩︎
-
E2: triṇavādiśabdair ↩︎
-
E2: 5,117; E6: 2,71 ↩︎
-
E1 (Fn.,K): sādyaskraḥ somayāgaviśeṣaḥ ↩︎
-
E2: sahaśabdasamāmnātaḥ ↩︎
-
Tait.S. 2.4.6.1 ↩︎
-
Tait.S. 1.8.22.1 ↩︎
-
E2: 5,118; E6: 2,72 ↩︎
-
E2: mukhyakrame ↩︎
-
E1 (Fn.): kasya ↩︎
-
E2: 5,119; E6: 2,72 ↩︎
-
E2: iṣṭāv abhavati ↩︎
-
Tait.S. 2.2.9.1 ↩︎
-
E2: aṅgānām upasaṃhārakaḥ ↩︎
-
E2: 5,121; E6: 2,73 ↩︎
-
E2: uttarakālaḥ ↩︎
-
Tait.S. 1.8.4.1 ↩︎
-
E1 (Fn.): yā yā vikṛtiḥ, sā sā dvyahakālā bhavitum arhatīti ↩︎
-
E2: 5,122; E6: 2,74 ↩︎
-
E1 (Fn.): sāṃtapanīyāḥ ↩︎
-
E1 (Fn.): tatsaṃbhavāt ↩︎
-
E2: 5, 123; E6: 2,74 ↩︎
-
E1 (Fn.): yadi ↩︎
-
E2: anantaraṃ ↩︎
-
E2: 5,125; E6: 2,75 ↩︎
-
E2: pauroḍāśikāḥ ↩︎
-
E2: 5,127; E6: 2,76 ↩︎
-
E2 om. gamyate ↩︎
-
E2: yena ↩︎
-
E2: tv ↩︎
-
E2: saṃbandhās ↩︎
-
E2: anyatamaṃ ↩︎
-
Tait.S. 1.8.4.1 ↩︎
-
E1 (Fn.): pratibalād ↩︎
-
E2. 5,130; E6: 2,77 ↩︎
-
E2: agnihotram anagnihotrakāla ↩︎
-
E1 (Fn.): pratibanlād ↩︎
-
E1 (Fn.), E2: yajñasya chidyate ↩︎
-
Tait.Br. 2.1.2.7 ↩︎
-
Vgl. MS 5.1.30 ↩︎
-
E2: 5,131; E6: 2,77 ↩︎
-
E2: tannimittatvaṃ ca ↩︎
-
Vgl. MS 5.1.30 ↩︎
-
E2: gṛhṇātīti ↩︎
-
Tait.S. 6.6.11.6 ↩︎
-
E1 (Fn.): pratibalād ↩︎
-
E2,6: utkraṣṭavyaḥ ↩︎
-
E2: ṣoḍaśinaḥ stotram ↩︎
-
E2: gṛhṇātīti ↩︎
-
E2: ṣoḍaśinaḥ stotrakālenāvarjanaṃ ↩︎
-
E2,6: anugrahītum ↩︎
-
E2: 5,133; E6: 2,78 ↩︎
-
Tait.Br. 1.3.4.3 ↩︎
-
E2: 5,134; E6: 2,79 ↩︎
-
E2: tat ↩︎
-
E2: nirvapatibhāvaḥ ↩︎
-
E2: 5,135; E6: 2,79 ↩︎
-
ŚPBr 4.4.3.9 ↩︎
-
Tait.S. 6.1.1.8 ↩︎
-
ŚPBr 4.4.3.9 ↩︎
-
E2: 5,137; E6: 2,80 ↩︎
-
E2: añjānādīnām ↩︎
-
Tait.Br. 3.8.19.1 ↩︎
-
E1 (Fn.): yūpāntareṇocchritavyena ↩︎
-
E2: 5,137; E6: 2,81 ↩︎
-
E2: pātraṃ vivṛddhiḥ ↩︎
-
E2: 5,139; E6: 2,81 ↩︎
-
E2: naiva ↩︎
-
Vgl. Tait.S. 3.6.10.1 ↩︎
-
E2: ‘sitānām ↩︎
-
Tait.S. 1.8.10.1 ↩︎
-
E2: 5,139; E6: 2,82 ↩︎
-
E2: adhastaraṇādeś ↩︎
-
E1 (Fn.): phalīkaraṇādayaś ca tasyaiva viśeṣāḥ ↩︎
-
Tait.S. 6.3.11.6 ↩︎
-
E2: 5,140; E6: 2,83 ↩︎
-
E2: pāṇimātrapuṣkarā ↩︎
-
E2 om. agnau ↩︎
-
E2: nakṣatreṣṭiḥ ↩︎
-
E2: nirvaped iti ↩︎
-
Tait.Br. 3.1.4.1 ↩︎
-
E2: 5,142; E6: 2,83 ↩︎
-
E1: śaunaḥśepam; E6: śaunaḥśepham ↩︎
-
E2: 5,143; E6: 2,84 ↩︎
-
E2: videvanādīnām ↩︎
-
Tait.S. 5.5.2.1 ↩︎
-
E2: 5,144; E6: 2,84 ↩︎