स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् ॥ MS_४,२.१ ॥

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति1, तत्रेदम् आम्नातम् - खादिरे बध्नाति, पालाशे बध्नाति, रोहिते बध्नातीति। तत् संनिधाव् इदम् अपरम् आम्नायते, स्वरुणा पशुम् अनक्ति यूपस्य स्वरुं करोतीति। अथेदानीम् इदं संदिह्यते, किं भेदेन यूपात् स्वरुर् उत्पादयितव्यः, उत यूपं क्रियमाणम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति। तत्रेदं तावन् नः परीक्ष्यम्, किं छेदनाद्युत्पत्तेः प्रयोजकः स्वरुः, उताप्रयोजकः2? प्रयोजकश् चेत्, भेदेन यूपान् निष्पाद्येत। न चेत् प्रयोजकः, यूपं निष्पद्यमानम् अनुनिष्पन्नः शकलो ग्रहीष्यत इति। स कथं प्रयोजकः स्यात्? कथं वा न प्रयोजक इति। यद्य् एषा वचनव्यक्तिः, स्वरुशब्दवाच्यं भाव्यते। कथं? जोषणादिनेतिकर्तव्यताविशेषेणेति। ततः, स्वरुणा पशुम् अनक्तीति, स स्वरुर् इत्य् अवगतो ग्रहीष्यते, ततः प्रयोजकः। अथैवं विज्ञायते, स्वरुणा पशुम् अनक्तीत्य् अनवगतः स्वरुः। एतावद् अस्य3 विज्ञायते ऽञ्जनं तेन क्रियत इति, इदम् अपि, यूपस्य स्वरुं करोतीति यूपैकदेशं स्वरुकार्ये ऽञ्जने विनियुङ्क्त इति ततो ऽप्रयोजकः। किं तावत् प्राप्तम्? स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात्, स्वरुर् न यूपेनैकनिष्पत्तिः स्यात्, यूपम् अनपेक्षमाणस्य स्वरोर् जो[४६७]4षणादिनोत्पत्तिः। कुतः? स्वकर्मशब्दत्वात्। स्वो ह्य् अस्य कर्मशब्दः स्वरुताया विधायको भवति, स्वरुं करोतीति। एवं च यूपकाष्टावयवस्य स्वरुत्वं क्रियत इति, यूपस्य स्वरुं करोतीति लक्षणया यूपशब्दः, खदिराद्यवयवस्येत्य् अर्थः। कुतः? स्वरुत्वभावना हि श्रुत्या गम्यते, स्वरुं करोतीति स्वरुम् उत्पादयतीति। यूपावयवोपादानं वाक्येन, वाक्याच् च श्रुतिर् बलीयसीति। तस्माद् एवं सति न नियोगतो यूपकाष्ठाद् एव स्वरुर् उत्पादयितव्यः, निरपेक्षाद् अन्यस्माद् अपि वृक्षात् कर्तव्यो भेदेनेति।


जात्यन्तराच् च शङ्कते ॥ MS_४,२.२ ॥

इतश् च निरपेक्षस्य स्वरोर् उत्पत्तिर् इति गम्यते। कुतः? जात्यन्तराद् अप्य् आशङ्का भवति, वृक्षान्तरात्5। कथम्? नान्यस्य स्वरुं कुर्यात्, यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति। न हि यूपम् अनुनिष्पन्नस्य गर्हणे जात्यन्तराशङ्कावकल्पते, यूपशकलो हि स्वरुकार्ये तदानीं विनियुज्यते। तस्माद् अपि भेदेन यूपात् स्वरुर् उत्पादयितव्य इति।


तद् एकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् ॥ MS_४,२.३ ॥

वाशब्दः पक्षं व्यावर्तयति। यूपैकदेशो हि यूपम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति। कस्मात्? एवम् आम्नायते - यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति। न चात्रायम् अर्थो विधीयते, स्वरुम् उत्पादयतीति। किं तर्हि? स्वरुकार्यं कर्तुं यम् उपादत्ते, तं यूपाद् इति। कुतः? स्वरुत्वस्य तन्निमित्तत्वात्, स्वरुत्वम् अत्र श्रूयते स्वरोः, यूपस्य स्वरुं करोति [४६८]6 इति। कस्यात्मीयम्? यूपस्येति, आत्मीयश् च समुदायस्यैकदेशो भवति, तस्माद् इदम् उच्यते, अप्राणिनः षष्ठी पञ्चम्य् अर्थे भवति, यथा शाकस्य देहि, शाकाद् देहीति, तथा क्वचित् तृतीयार्थे, घृतस्य यजति, घृतेन यजति। पञ्चम्य् अर्थे, घृताद् यजति, घृतस्य यजतीति। द्वितीयार्थे वा, सोमस्य पिबति, सोमं पिबति, सोमात् पिबतीति। ननूक्तम्, यूपावयवो ऽत्र वाक्येन विधीयते, श्रुत्या स्वरोर् उत्पत्तिः, श्रुतिश् च वाक्याद् बलीयसीति। उच्यते, सत्यम्, एवम्, यूपस्येति तु शब्दो ऽविवक्षितार्थो भवति। तत्र श्रुतिर् अपि बाध्यते, वाक्यम् अपि। न त्व् अस्मत्पक्षे किंचिद् अविवक्षितार्थम्, स्वरुं करोतीति स्वार्थ एवानुवादो भविष्यतीति, यूपशकलो विधायिष्यते। स्वरुशब्दश् चाञ्जनार्थेन शकले उपचरित इति गम्यते, अवयवप्रसिद्धिश् चैतम् अर्थं गमयिष्यति। भवति हि ब्राह्मणम् - अथ कस्मात् स्वरुर् नाम? एतस्माद् वेषो7 ऽवच्छिद्यते, तद् अस्यैतत् स्वम् इवारुर् भवति, तस्मात् स्वरुर् नामेति8


शकलश्रुतेश् च ॥ MS_४,२.४ ॥

इतश् च यूपम् अनुनिष्पन्नस्य ग्रहणम्। कुतः? शकलश्रुतेः, शकलश्रुतिर् भवति स्वरोः, यः प्रथमः शकलः परापतेत्, स स्वरुः कार्य इति। शकलश् चैकदेशः, एकदेशश् चाप्रयोजकः, संबन्धिशब्दत्वात्। तावता च व्यवहारात् समुदायापेक्षिणः। तत्र प्रकरणाद् अन्यार्थेन खदिरादिना जोषणादिकर्मविशिष्टेन यागार्थेन प्रकृतेनास्यैकवाक्यता, यूपाय खदिरादि जोषयते, छिनत्ति, तक्षति च। तत्र यः शकलः प्रथमः पराप्तितस् तं च स्वरुम् अञ्जनार्थं करोतीति। स्वरुशब्दं च तत्रानुवदन्न् एवोपचरति। तस्मान् नैतद् अस्ति, पृथङ्निष्पत्तिः स्वरुर् इति, [४६९]9 येनान्यस्माद् अपि वृक्षाद् इति शङ्क्यते। तस्माज् जात्यन्तराशङ्कावचनं नित्यानुवादो यूपशकलस्तुत्यर्थः।


प्रतियूपं च दर्शनात् ॥ MS_४,२.५ ॥

इतश् च न पृथङ्निष्पत्तिः स्वरुः। कुतः? एकादशिन्याम्, प्रतियूपं च दर्शनात्, यथा, अनुपूर्वं स्वरुभिः पशून् समज्य10 मध्यमे रशनागुणे स्वे स्वे11 स्वं स्वं यूपशकलम् उपगूहतीति स्वरुबहुत्वं दर्शयति, यदि च स्वरुः पृथङ्निष्पत्तिः स्यात्, एक एवैकादशिन्यां तन्त्रेण कार्यं साधयेत्। यूपम् अनुनिष्पन्नस्य तु ग्रहणे प्रकृतौ स्वयूपशकलेनाञ्जनं कृतम् इत्य् एकादशिन्याम् अपि चोदकः स्वयूपशकलम् एव प्रापयतीति बहुत्वम् उपपन्नं भवति। स्वयूपशकलग्रहणं च प्राकृतस्य ग्रहणाद् अध्यवसीयते, यादृशो ऽसौ प्राकृतः, तादृशो ऽसौ गर्हीतव्यः, न विशिष्ट इति। तस्मात् स्वरुर् उत्पत्तेर् न प्रयोजक इति।


आदाने करोतिशब्दः ॥ MS_४,२.६ ॥

अथ यद् उक्तम्, उत्पत्तिर् अस्य शब्देनोच्यते, स्वरुं करोतीति, एवं च करोतिशब्दो ऽवकल्पिष्यत इति। उच्यते, आदाने करोतिशब्दो भविष्यति, स्वरुं करोति, स्वरुम् आदत्त इति। यथा काष्ठानि करोति, गोमयानि करोतीत्य् आदाने करोतिशब्दो भवति, एवम् इहापि द्रष्टव्यम्12


शाखायां तत्प्रधानत्वात् ॥ MS_४,२.७ ॥

दर्शपूर्णमासयोः श्रूयते, शाखाम् अधिकृत्य, प्राचीम् आहरत्य् उदीचीम् आहरति प्रागुदीचीम् आहरतीति13। तत्र संदेहः - किम् अयं दिग्वादः, उत शाखावाद इति। दिग्वाद इति प्राप्तम्, तथा श्रुतिशब्दः, शाखावादे लक्षणेति। तस्माद् दिग्वाद इति। एवं प्राप्ते ब्रूमः, शाखावाद इति। कुतः? यदि तावद् अयम् अर्थः, प्राची दिग् आहर्तव्येति, ततो ऽशक्यो ऽर्थः, अथ प्राचीं दिशं प्रत्याहरणीयेति, ततः काहर्तव्येति, वाक्ये शाखाशब्दस्याभावाद् अनुपपन्नो ऽयं संबन्धः। अथ प्रकृता शाखेति, ततः प्राचीशब्देन तस्या एवाभिसंबन्धो न्याय्यः। कुतः? प्रत्यक्षा हि प्राचीशब्देन हरतेर् एकवाक्यता, प्रकरणाच् छाखाशब्देन भवेत्। उभयथात्र प्राचीशब्दो लक्षणया प्रकृतां वा शाखां लक्षयेत्, दिशो वानीप्सितत्वात्, विहारदेशम् ईप्सिततमं अयुक्तम्14। अपि च, प्राचीति संबन्धिशब्दो ऽयम्, संबन्धिशब्दाश् च सर्वे सापेक्षाः, विना पदान्तरेण, न परिपूर्णम् अर्थम् अभिवदन्ति, सामान्यपदार्थसंबन्धे च संव्यवहारानुपपत्तिः, सर्वस्यैव देशस्य कुतश्चित् प्राग्भावात्। तथा शाखाशब्दो ऽपि संबन्धिशब्दः, वृक्षस्येत्य् एतद् अपेक्षते। यदा वृक्षस्येत्य् एतद् अपेक्षते, तदा वृक्षस्य शाखा प्राची, उदीची, प्रागुदीची वेति भवति संबन्धः, तथा च संव्यवहारो ऽवकल्पते। यत् तु शाखावादे [४७३]15 लक्षणेति। उच्यते, भवति लक्षणयापि शब्दार्थः। तस्माच् छाखावाद इति।


शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् ॥ MS_४,२.८ ॥

दर्शपूर्णमासयोः समाम्नायते, मूलतः शाखां परिवास्योपवेषं करोतीति। तत्रायम् अर्थः सांशयिकः, किं शाखाछेदनस्योभयं16 प्रयोजकम्, शाखा उपवेषश् च, उत शाखा प्रयोजका, उपवेषो ऽनुनिष्पादीति। किं प्राप्तम्? उभयं छेदनान् निष्पद्यते, शाखा शाखामूलं च, उभयं च प्रयोजनवत्। अग्रेण वत्सापाकरणादि करिष्यते, मूलत उपवेषः, तेन विशेषाभावाद् उभयं प्रयोजकम्। इति प्राप्ते, उच्यते, शाखायां ब्रूमः, तत्प्रधानत्वात्, शाखाप्रधानत्वाद्17 उपवेषेण विभागो भवेत्। शाखाम् अनुनिष्पन्नो गृह्यते। कथं तत्प्राधान्यम्? शाखां परिवास्येति द्वितीयानिर्देशात्। ननूपवेषं करोतीत्य् अपि द्वितीया। उच्यते, नासौ परिवासयतेः कर्म। कस्य तर्हि? करोतेः। आह, कस्माद् एवम् अभिसंबन्धो न भवति, शाखां परिवास्य मूलत उपवेषं करोतीति, शाखाशब्दश् च यथैवाग्रे तथा मूले ऽपि। तत्रायम् अर्थः, छेदेनाग्रमूले विभजेत्। [४७४]18 किं प्रयोजनम्? विभज्य मूलम्, उपवेषं करिष्यामीति19। उच्यते, नैवम्, व्यवहितकल्पना ह्य् एवं भवेत्, अवयवधानेन शाखार्थं परिवासनम्, वृत्ते तस्मिन्न् उपवेषकरणम्। ननु प्रकृतत्वान् मूलम् उपवेषशब्देन संबध्यते। उच्यते, उभयसंबन्धे विरोधः। विरोधे च प्रकरणाद् वाक्यं बलीयः। अथ संनिहितेन संबध्यते, तथापि शाखाप्रयुक्तेनेत्य् आपतति। अतः20 सिद्धम् एव, उववेषो21 न प्रयोजयति छेदनम् इति। एतद् अत्र वैषम्यम्।


श्रुत्यपायाच् च ॥ MS_४,२.९ ॥

शाखया वत्सान् अपाकरोति22, शाखया गाः प्रापयति, शाखया दोहयतीत्य्23एवमादिषु शाखाग्रहणेषु नोपवेषस्य व्यापारस् ततः शाखाशब्दो ऽपैति। न हि तन्मूलं शाखेत्य् आचक्षते। किम् अतः? यत्रैवं24 यत्र शाखाशब्दः, तदर्थं छेदनम्, द्वितीयानिर्देशात्। अथापि मूले शाखाशब्दो भवेत्, एवम् अपि शाखाशब्दोपदिष्टेषु न मूलम्, अमूलपरिवासितत्वात्। यच् चैवं संस्कृतया शाखया क्रियते, तदर्थं छेदनम्। न चोपधानं मूलपरिवासितया क्रियते। तस्मान् न तदर्थं छेदनम्। किं भवति प्रयोजनम्? पौर्णमास्याम् अपि शाखोत्पाद्या, यथा पूर्वः पक्षः। यथा सिद्धान्तः, तथा नोत्पादयितव्येति।


हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् ॥ MS_४,२.१० ॥

दर्शपूर्णमासयोर् आमनन्ति - सह शाखया प्रस्तरं प्रहरतीति। तत्र संदेहः, किं शाखाप्रहरणं प्रतिपत्तिकर्म, उत [४७५]25 अर्थकर्मेति। किं प्राप्तम्? हरणे तु जुहोतिः स्यात्, अर्थकर्मेत्य् अर्थः। कुतः? योगसामान्यात्, योगो ऽस्याः समानः प्रस्तरेण, सह शाखया प्रस्तरं प्रहरतीति। सहयोगे यत्र तृतीया, तस्य गुणभावः, यत्र द्वितीया तस्य प्राधान्यम्। प्रस्तरे च विस्पष्टो यजिः, शाखापि तस्मिन्न् एव यजौ प्रस्तरस्य विशेषणम्, समानयोगित्वात्। आह, ननु तत्र तत्र गुणभूता शाखा, तस्याः प्रतिपत्तिर् न्याय्याः, इतरथानेकगुणभावः प्रसज्येतेति। उच्यते, द्रव्याणां चार्थशेषत्वाद् उत्पत्त्या चिकीर्षितस्य शेषभूतान्य् एव द्रव्याण्य् उपदिश्यन्ते, भूतं भव्यायोपदिश्यत इति। तस्माद् अनेकगुणतैव द्रव्यानां न्याय्येति।


प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् ॥ MS_४,२.११ ॥

प्रतिपत्तिर् वा शाखाप्रहरणम्, शब्दस्य तत्प्रधानत्वात्। शब्दो ऽत्र शाखाप्रधानः। कथम्? द्वितीयाश्रवणात्। नन्व् अन्यत्रैव सा द्वितीया, प्रस्तरे, न शाखायाम्। उच्यते, प्रस्तरे द्वितीयार्थः शाखायाम् अपि। कथम्? तुल्ययोगात् सह शाखया, एवं प्रस्तरः प्रहृतो भवति, यदि शाखापि प्रह्रियते। तेन तुल्ययोगे सहशब्दो ऽयम्। यदि प्रस्तरः प्रहरणे प्रधानम्, शाखापि प्रस्तरविशेषणम्, न तर्हि26 तुल्ययोगः। तस्माद् यः प्रस्तरे द्वितीयार्थः, स शाखायाम् अपि, अतः शाखा प्रधानम्। अपि च, तत्र तत्र शाखा गुणभूता, तस्याम् अन्यत्रोपदिश्यमानायाम् अनेकगुणभावः27। तत्र को दोषः? दृष्टं कार्यं हित्वादृष्टं कल्प्येत। कृतप्रयोजनायाः शाखाया अपनयनेन वेदिविवेचनात् सुखप्रचारो दृष्टं कार्यम्, न तु प्रहरेण किंचित् सूक्ष्मम् अपि दृष्टम् अस्ति, तस्मात् प्रतिपत्तिर् न्याय्या। [४७६]28 आह, ननु तृतीयाश्रवणात् परार्थेन शाखोच्चारणेन भवितुं न्याय्यम्। उच्यते, भवेद् एतन् न्याय्यम्, यदि निर्ज्ञातकाला शाखा स्यात्, ततः प्रस्तरस्य कालपरिच्छेदाय कीर्त्यमाना परार्था उच्चार्येत, इह पुनर् एतद् विपरीतम्, निर्ज्ञातकालः प्रस्तरो ऽनिर्ज्ञातकाला शाखा। तस्मात् सत्य् अपि तृतीयाश्रवणे प्रस्तर एव शाखायाः कालं परिच्छेत्स्यति। यथा द्वितीयानिर्दिष्टः29, तथा शाखा द्रष्टव्या, यथा तृतीयानिर्दिष्टा30, तथा प्रस्तरः। सामर्थ्यं हि बलवत्तरम् इति।


अर्थे ऽपीति चेत् ॥ MS_४,२.१२ ॥

आह, ननु गुणभावे ऽपि द्वितीया भवति31, यथा सक्तु मारुतैककपालेषु32


न, तस्यानधिकाराद् अर्थस्य च कृतत्वात् ॥ MS_४,२.१३ ॥

नैतत् सक्त्वादिभिस् तुल्यम्, तस्य सक्त्वादेर् अन्यत्रानधिकारात्, इह च शाखयान्यस्यार्थस्य कृतत्वाद् वत्सापाकरणादेः। आह, ननु पुनरुक्तम् एतत् सक्त्वादीनां प्रदर्शनं समाधिश् चेति। उच्यते, न पुनरुक्तता महान् दोषः, बहुकृत्वो ऽपि पथ्यं वेदितव्यं भवति, ग्रन्थभयेन33 पुनरुक्तं नेच्छन्ति। अर्थाग्रहणात् तु34 बिभ्यतः पुनर्35 पुनर् अभिधीयमानं बहु मन्यन्त एव। किं चिन्तायाः प्रयोजनम्? यद्य् अर्थकर्म, पौर्णमास्याम् अपि शाखोत्पाद्या, अथ प्रतिपत्तिर् नोत्पादयितव्येति।

[४७७]36


उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् ॥ MS_४,२.१४ ॥

दर्शपूर्णमासयोर् आम्नायते - अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत इति37, उभयत्र च प्रणीतानां व्यापारः, प्रणीताभिर्38 हवींषि संयौतीति, तथा, अन्तर्वेदि प्रणीता निनयतीति। अत्र39 संदेहः, किम् उभयम् आसां प्रयोजकं संयवनं निनयनं च, उत संयवनार्थानां निनयनं प्रतिपत्तिर् इति। किं प्राप्तम्? उत्पत्तिसंयोगो नासां केनचित् प्रयोजनेन, उभाभ्याम् उत्पन्नानां संयोगः। तस्मान् न गम्यते विशेषः, अगम्यमाने विशेषे उभयार्थानां विभागो ऽयम्, कश्चिद् यागः40 संयवने कश्चिन् निनयन इति, आज्यवत्, यथा सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति41


संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् ॥ MS_४,२.१५ ॥

संयवनार्थाः प्रणीताः। कुतः? तृतीयानिर्देशात्, संयवने ऽपां गुणभावः, द्वितीयानिर्देशाच् च निनयने प्राधान्यम्। चिन्तायाः प्रयोजनम्, पुरोडाशाभावे प्रणीतानाम् अभावः, यथा पयस्यायाम्।

[४७८]42


प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् ॥ MS_४,२.१६ ॥

ज्योतिष्टोमे श्रूयते - वाग् वै देवेभ्यो ऽपाक्रामत् यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत् सैषा वाग् वनस्पतिषु वदति। या दुन्दुभौ या च43 तूणवे या च44 वीणायाम्, यद् दीक्षिताय दण्डं45 प्रयच्छति वाचम् एवावरुन्धे, क्रीते46 सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति47। मैत्रावरुणाय दण्डं प्रयच्छतीत्य् एतद् उदाहरणम्। तत्र संशयः, किं दीक्षितधारणे शेषभूतस्य दण्डस्य मैत्रावरुणधारणं प्रतिपत्तिः, अथवार्थकर्मेति। किं प्राप्तम्? मैत्रावरुणाय दण्डदानं प्रतिपत्तिः। कुतः? दीक्षितधारणे कृतार्थत्वात्। दण्डेन दीक्षयन्तीति48 शेषभूतस्यान्यत्र व्यापारः49 प्रतिपत्तिर् न्याय्या, यथा चात्वाले कृष्णविषाणां प्रास्यतीति कण्डूयने शेषभूतायाः प्रासनं प्रतिपत्तिः, एवम् अत्रापि द्रष्टव्यम्। द्वितीया च दण्डे विभक्तिः। तस्मात् प्राधान्यम् इति।


अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् ॥ MS_४,२.१७ ॥

अर्थकर्म वा स्यात्। कुतः? कर्तृसंयोगात्, कर्तृसंयोगो भवति। मैत्रावरुणाय दण्डम् इति कर्तृदण्डसंयोगो भवति50, तस्मिंश् च दण्डो गुणभूतः, पुरुषः प्रधानभूतः। पुरुषं हि स प्रचरितुं समर्थं करोति। कथम्? यथा पूर्वं51 तमो ऽवगाहते ऽपः सर्पति52 गां च सर्पं च वारयति, अवलम्बनं च भवति। अतः पुरुषप्राधान्यान् न प्रतिपत्तिः। स्रग्वच् च द्रष्टव्यम्, यथा स्रजम् उद्गात्रे ददाति [४७९]53 इत्य्54 असत्य् अप्य् उपकारे पुरुषस्य प्रयोजनवत्त्वात्, निष्प्रयोजनत्वाच् च स्रजः, भवति पुरुषप्राधान्यम्, एवम् इहापि द्रष्टव्यम्। तस्मान् न प्रतिपत्तिर् इति। अथ यद् उक्तम् - द्वितीयाश्रवणाद् दण्डप्राधान्यम् इति। उच्यते, तथा युक्तं55 चानीप्सितम् इति द्वितीया द्रष्टव्या। कुतः? मैत्रावरुणे चतुर्थीनिर्देशात्। संप्रदाने हि चतुर्थी भवति, संप्रदानं च कर्मणाभिप्रेयते। तत्र दण्डाद् अभिप्रेततरो मैत्रावरुण इति गम्यते।


कर्मयुक्ते च दर्शनात् ॥ MS_४,२.१८ ॥

दण्डी प्रैषान् अन्वाहेत्य् अनूद्यते, तेन प्रचरतो दण्डं प्रदर्शयति। तद् अर्थकरमणि सत्य् उपपद्यते। प्रतिपत्तौ तु दण्डो मैत्रावरुणाय दत्तस् ततो ऽपवृज्येत, कृतं च कर्तव्यम् इति न56 तेन प्रयोजम् इति न धार्येत। तत्रैतद्दर्शनं नोपपद्यते, तथा, अहिस् त्वां दशतीति मैत्रावरुणं ब्रूयाद् अहिर् इव ह्य् एष इति, तथा57, मुशल्यन् वाहेति। मुशलशब्दश् च दण्डे प्रसिद्धः, यथा क्व नु खलु58 मुशलिनो माणवका गङ्गां अवतरेयुर्59 इति। तस्माद् अप्य् अर्थकर्म।


उत्पत्तौ येन संयुक्तं तदर्थं तच् छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् ॥ MS_४,२.१९ ॥

यद् उक्तम्, यथा कृष्णविषाणाप्रासनम् इति। तत्रोच्यते, युक्तं तत्रोत्पद्यमानं यत्, येन प्रयोजनेन संबद्धम् उत्पद्यते, [४८०]60 तत् तदर्थम् एव न्याय्यम्। तस्यान्यत्र गमने प्रतिपत्तिर् इत्य् एतद् उपपद्यते, यदि न दृष्टं प्रयोजनं भवति। इह तु दृष्टं प्रयोजनं मैत्रावरुणस्य धारणए61, तस्माद् विषमम् एतत्। अथवा - अधिकरणान्तरम्, विषाणायाः कण्डूयनं प्रासनं चोभयम् अपि प्रयोजकम् इति पूर्वः पक्षः, एकनिष्पत्तेः सर्वं समं स्याद् इति। उत्त्तरः पक्षः, कण्डूयने तृतीयानिर्देशाद् विषाणाया गुणभावः। प्रासने च द्वितीयानिर्देशात्, अन्यत्र च कृतार्थत्वात् प्राधान्यम् इति।


सौमिके च कृतार्थत्वात् ॥ MS_४,२.२० ॥

अस्ति ज्योतिष्टोमे ऽवभृथः, वारुणेनैककपालेनावभृथम् अभ्यवपन्तीति6263। तत्राम्नायते, वरुणगृहीतं वैतद् यज्ञस्य यदृजीषं यद्ग्रावाण यदौन्दुवरी64 यदभिषवणफलके, तस्माद् यत्किंचित् सोमलिप्तं द्रव्यं तेनावभृथं यन्तीति65। तत्र संशयः, किं सोमलिप्तानां द्रव्याणाम् अवभृथगमनं प्रतिपत्तिः, अथवार्थकर्मेति। किं तावत् प्राप्तम्? प्रतिपत्तिर् इति। कुतः? कृतार्थत्वात्, कृतार्थान्य् एतानि द्रव्याणि तत्र तत्र, तेषाम् अवभृथगमनं प्रतिपत्तिर् न्याय्या।


अर्थकर्म वाभिधानसंयोगात् ॥ MS_४,२.२१ ॥

अर्थकर्म वा, अभिधानेन संयोगात्, तेनावभृथं यन्तीति। तेनावभृथसंज्ञकं निष्पादयन्तीति, तृतीया तेन [४८१] इति, द्वितीयावभृथम् इति। तस्मात् सोमलिप्तं गुणभूतम्, अवभृथः प्रधानभूत इति।


प्रतिपत्तिर् वा तन् न्यायत्वाद् देशार्थावभृथश्रुतिः ॥ MS_४,२.२२ ॥

प्रतिपत्तिर् वा। कुतः? तन्न्यायत्वाद् एव। एष हि न्यायः, यद् अन्यत्र कृतार्थम् अन्यत्र प्रतिपाद्यते, तद् इह यदि सोमलिप्तं द्रव्यम् अवभृथे करणं विधीयते, ततो ऽर्थकर्म। अथ सोमलिप्तेन यानं विधीयते, ततः प्रतिपत्तिः। न ह्य् अत्र सोमलिप्तं विधीयते ऽवभृथे, तथा सत्य् अवभृथसोमलिप्तसंबन्धो ऽभ्यवयन्तीत्य् अनेनाख्यातेन विधीयेत। तत्र वाक्येन विधानं स्यात्, न तु श्रुत्या, याने ऽमुना विधीयमाने66 श्रुत्या विधानम्। तत् परिगृहीतं भवति, श्रुतिश् च वाक्याद् बलीयसी, तस्मात् प्रतिपत्तिः। अथ यद् उक्तम्, अर्थकर्माभिधानेन संयोगाद् इति। तत्र ब्रूमः, एवं सति देशार्था अवभृथश्रुतिः, अवभृथं यन्तीति, अवभृथेन देशं लक्षयति, यस्मिन् देशे ऽवभृथः, तं देशं यन्तीति। तस्मात् प्रतिपत्तिर् इति।


कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् ॥ MS_४,२.२३ ॥

इदं श्रूयते - पशुबन्धस्य यज्ञक्रतोः षड् ऋत्विजः67, दर्शपूर्णमासयोर् यज्ञक्रतोश् चत्वार ऋत्विजः68, चातुर्मास्यानां यज्ञक्रतूनां69 पञ्च ऋत्विजः70, अग्निहोत्रस्य यज्ञक्रतोर् एक ऋत्विक्71, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विजः72, तथा, समे दर्शपूर्णमासाभ्यां यजेत, प्राचीनप्रवणे वैश्वदेवेन यजेत, पौर्णमास्यां पौर्णमास्या [४८२]73 यजेत, अमावास्यायाम् अमावास्ययेति74। तत्र संदेहः, किं कर्तृदेशकाला विधीयन्ते, उतानूद्यन्त इति। किं तावत् प्राप्तम्? कर्तृदेशकालानाम् अचोदनम् अनुवादः75। कुतः? प्रयोगे नित्यसमवायात्, प्रयोगे नित्यसमवेता एत इति। न, ऋते कर्तृदेशकालेभ्यः, प्रयोगः सिध्यति, तेन प्रयोगचोदनयैव प्राप्तानाम् अनुवादः। ननु विषमादिप्रतिषेधार्थम् एतद् वचनं भविष्यति। नेति ब्रूमः, उपदेशकम् एवंजातीयकं वचनम्, न प्रतिषेधकम्। तस्माद् अनुवाद इति।


नियमार्था वा श्रुतिः ॥ MS_४,२.२३ ॥

उच्यते, न चैतद् अस्त्य् अनुवाद इति, अनुवादमात्रम् अनर्थकम्। यदि विधिः, एवम् अपूर्वम् अर्थं प्रकरिष्यति, तस्माद् विधिर् इति। ननु प्रयोगाङ्गत्वात् प्राप्त एवेति। उच्यते, नियमार्था श्रुतिर् भविष्यति। को ऽयं नियमः? अनियतस्य नियतता, प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समुच्चयेन। यदा समः, अन् तदा विषमः, यदा विषमः, न तदा समः। स एष समः प्राप्तश् चाप्राप्तश् च, यदा न प्राप्तः, स पक्षो विधिं प्रयोजयति। अतो विषमचिकीर्षायाम् अपि समो विधीयते। तस्माद् विषमस्याप्राप्तिर् विधौ सति भवतीति समो विधीयते। एवम् इतरेष्व् अपि, तस्माद् विधिर् इति।


तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् ॥ MS_४,२.२५ ॥

अधिकरणप्रदेशो ऽयम्76। इदम् आममन्ति - वायव्यं श्वेतम् आलभेत भूतिकामः77। तथा, सोमारौद्रं घृते चरुं निर्वपेच् छुक्लानां व्रीहीणां ब्रह्मवर्चस्कामः78, तथा, नैरृतं चरुं निर्वपेत् कृष्णानां व्रीहीणाम् इति79। तत्र संदेहः, किं श्वेतादिवर्णो विधीयत उतानूद्यते, उतानूद्यत इति। किं प्राप्तम्? अनूद्यते, द्रव्यश्रुतिगृहीतत्वात्। विधिर् वा, पक्षे प्राप्तस्य नियमार्थ80 इति। पक्षोक्तं प्रयोजनम् उभयोर् अप्य् अधिकरणयोः।


संस्कारे च तत्प्रधानत्वात् ॥ MS_४,२.२६ ॥

अयम् अप्य् अधिकरणाप्रदेशः। दर्शपूर्णमासयोः श्रूयते - व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति, तत् किम्, इमौ विधी, उतानुवादाव् इति। संशये ऽर्थप्राप्तत्वात्, अनुवादाव् इति प्राप्ते, नियमार्थत्वाद् विधी इति।


यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् ॥ MS_४,२.२७ ॥

शेषविनियोग उक्तः, किं तत् प्रधानम्, यस्यैते शेषा इति। उच्यते, यजति ददाति जुहोतीत्य् एवंलक्षणम्। अथ किंलक्षणको यजतिजुहोतिर्81 ददातिश् चेति। यजतिचोदना, तावद् द्रव्यदेवताक्रियम्, द्रव्यं देवता च, तस्य द्रवस्य क्रिया, यया82 तयोः83 संबन्धो भवति84। समुदाये, समुदितेष्व् एषु85 यजतिशब्दो भवति। लोके, इष्टो ऽनेन पशुपतिर् इति। तेन मन्यामहे, द्रव्यदेवताक्रियस्यार्थस्य यजतिशब्देन प्रत्यायनं [४८४]86 क्रियत इति। लक्षणकर्मणि प्रयोजनं न वक्तव्यम्, ज्ञानम् एवात्र प्रयोजनम् इति।


तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् ॥ MS_४,२.२८ ॥

अथ किंलक्षणको जुहोतिर् इति। तद् उक्ते यजत्य् उक्ते ऽर्थे87 जुहोतिः श्रूयते, आसेचनाधिके। तस्माद् यजतिर् एवासेचनाधिको जुहोतिः, हुतम् अनेनेत्य् एवंजातीयके वक्तारो भवन्ति लोके। वेदे ऽपि यजतिचोदितं जुहोतिनानुवदति - संग्रामिणं चतुर्होत्रा याजयेत्, चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत, पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धम् इति। अथ ददातिः किंलक्षणक इति। आत्मनः स्वत्वव्यावृत्तिः परस्य स्वत्वेन संबन्धः। यजतिददातिजुहोतिषु सर्वेषूत्सर्गः समानः। तत्र यजतिर् देवताम् उद्दिश्योत्सर्गमात्रम्, जुहोतिर् आसेचनाधिकः, ददाति88 उत्सर्गपूर्वकः परस्वत्वेन संबन्ध इत्य् एष एषां विशेष इति।

[४८५]89


विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् ॥ MS_४,२.२९ ॥

ज्योतिष्टोमे श्रूयते - यद् आतिथ्यायां बर्हिः, तद् उपसदाम्, तद् अग्नीषोमीयस्येति। तत्र संदेहः, किं परद्रव्यस्योपदेशः, उत निरिष्टिकस्य90, अथवा धर्मविधिप्रदेशः, अथवा द्रव्यसाधारण्यम् इति। किं प्राप्तम्? परद्रव्यस्योपदेशः। कुतः? परद्रव्यस्योपदेशसदृशः शब्दः, यद् आतिथ्यायाम्, तद् उपसदाम् इति, यथा यो देवदत्तस्य गौः, स विष्णुमित्रस्य कर्तव्य इति देवदत्ताद् आच्छिद्य विष्णुमित्राय दीयत इति। अतः परद्रव्यस्योप्देश इति। न चैतद् अस्ति, तथा सत्य् आतिथ्यायां तस्य विधानं यत् पूर्वम्, तद् अनर्थकं स्यात्। एवं तर्हि निरिष्टिकस्योपदेशः91, तेनातिथ्यायां यद् विहितम्, आतिथ्यायां यद् उपात्तम् इति, तथा सत्य् अर्थवद् आतिथ्यायां तद् वचनम्। निरिष्टिकेन92 तूपसदः कर्तव्या भवन्ति93। न चैष शिष्टानाम् आचारः। न च सर्वे चोदकप्राप्ता धर्मा भवेयुः, अतो ब्रूमः - विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात्। तद् बर्हिः परिसमाप्तायाम् आतिथ्यायाम् अपवृक्तम्, पूर्वं94 तद् आतिथ्यायाः, उपसत्काले95 आतिथ्यासंबन्धस् तस्य नास्ति। भूतपूर्वेणातिथ्यया कर्मणा लक्ष्येत। लक्षणा[४८६]96शब्दश् च न न्याय्यः। तस्माद् आतिथ्याबर्हिष आञ्जस्याभावाद् यद् धर्मकमातिथ्याबर्हिः, तद् धर्मकम् उपसदाम् अग्नीषोमीयस्य चेति न्याय्यम्।


अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् ॥ MS_४,२.३० ॥

अपि वेति पक्षो व्यावर्तते। उत्पत्तिसंयोग एवैषो ऽस्य बर्हिषः। यदि ह्य् उत्पन्नम् आतिथ्यायां बर्हिर् विशिष्टं स्यात्, तस्य धर्मा औपसदे बर्हिष्य् अतिदिश्येरन्, न तु तद् अस्ति केनचिद् वाक्येन। एवं97 प्रकृत्य, बर्हिषो विशेषो वक्ष्यते। आश्ववालः प्रस्तरः, विधृती चैक्षव्याव् इति। तेन न परविहितं बर्हिर् उच्यते, न निरिष्टिकम्98, न कुतश्चिद् धर्मा प्रतिदिश्यन्ते। किं तर्हि? साधारणम् अमीषां बर्हिर् उच्यते, यद् आतिथ्यायां विधीयते, तद् एवोपसदाम्, अग्नीषोमीयस्य च विधीयत इति, अविशिष्टानां बर्हिषा संयोग एकेन सर्वेषाम्, यद् आदौ बर्हिर् लूयते, तल् लवनं सर्वेषाम् अर्थेन, साधारणो बर्हिषः प्रयोगः। एवं श्रुतिः शब्दस्य, परिगृहीता भविष्यति, इतरथा धर्मलक्षणा भवेत्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा। तस्मात् त्रयाणां साधारणं बर्हिर् इति, पक्षोक्तं प्रयोजनम्।

[४८६]99



  1. Tait.S. 6.1.11.6 ↩︎

  2. E2: utāprayojaka iti ↩︎

  3. E2: etāvad avaśyaṃ ↩︎

  4. E2: 5,37; E6: 2,22 ↩︎

  5. E2 gibt vṛkṣāntarāt in Klammern ↩︎

  6. E2: 5,38; E6: 2,22 ↩︎

  7. E2: vai yo ↩︎

  8. ŚPBr 3.7.1.24 ↩︎

  9. E2: 5,39; E6: 2,23 ↩︎

  10. E2: samañjya ↩︎

  11. So E1,6, E2 (Fn.); E2 om. sve sve ↩︎

  12. Die Ausgaben wiederholen zwischen MS 4.2.6 und 4.2.7 noch einmal MS 4.2.1-6 mit kürzerer, inhaltlich kaum abweichender Kommentierung ↩︎

  13. Tait.Br. 3.2.1.3 ↩︎

  14. E2: īpsitatamaṃ yuktam; E6, E2 (Fn.): īpsitamayuktam; E2 (Fn.): īpsitatamaṃ saṃyuktam ↩︎

  15. E2: 5,43; E6: 2,25 ↩︎

  16. E2: śākhāc chedanasyobhayaṃ ↩︎

  17. E2 gibt śākhāpradhānatvād in Klammern ↩︎

  18. E2: 5,44; E6: 2,26 ↩︎

  19. E2: karotīti ↩︎

  20. E2 om. ataḥ ↩︎

  21. E2,6: upaveṣo ↩︎

  22. Tait.Br. 3.2.1.1 ↩︎

  23. Tait.Br. 3.2.1.2 ↩︎

  24. E2: yady evam ↩︎

  25. E2: 5,45; E2: 2,27 ↩︎

  26. E2: na tarhi ↩︎

  27. E2: anekaguṇabhāvaḥ syāt ↩︎

  28. E2: 5,47; E6: 2,27 ↩︎

  29. E2: dvitīyānirdiṣṭā ↩︎

  30. E2: tṛtīyānirdiṣṭas ↩︎

  31. E2 om. bhavati ↩︎

  32. Cf. Tait.S. 2.4.10.2 ↩︎

  33. E2: granthagauravabhayena ↩︎

  34. E2: arthāgrahaṇād dhi ↩︎

  35. E2: bhavet tat punar ↩︎

  36. E2: 5,48; E6: 2,28 ↩︎

  37. Tait.Br. 3.2.4.1 ↩︎

  38. E2: praṇītānām utpannānāṃ vyāpāraḥ śrūyate, praṇītābhir ↩︎

  39. E2,6: tatra ↩︎

  40. E2: vibhāgaḥ ↩︎

  41. Tait.Br. 3.3.5.5 ↩︎

  42. E2: 5,49; E6: 2,29 ↩︎

  43. E2 om. ca ↩︎

  44. E2 om. ca ↩︎

  45. E2: dīkṣitadaṇḍaṃ ↩︎

  46. E2: evāvarundha iti. tathā krīte ↩︎

  47. Tait.S. 6.1.4.1-2 ↩︎

  48. Tait.S. 6.1.3.8 ↩︎

  49. E2: vyāpāre ↩︎

  50. E1,6 und E2 (Fn.); E2 om. kartṛdaṇḍasaṃyogo bhavati ↩︎

  51. E2: yathāpūrvaṃ ↩︎

  52. E2: praviśati ↩︎

  53. E2: 5,50; E6: 2,29 ↩︎

  54. Tait. S. 1.8.18.1 ↩︎

  55. E2: tathāyuktaṃ ↩︎

  56. E2: ‘pavṛjyeta. tatkarma kartavyaṃ ca kṛtam iti na ↩︎

  57. E2: iva yena draṣṭavya iti. tathā ↩︎

  58. E2: kathaṃ na khalu ↩︎

  59. E2: nāvatareyur ↩︎

  60. E2: 5,51; E6: 2,30 ↩︎

  61. E2: dhāraṇam ↩︎

  62. E2: abhyavayantīti ↩︎

  63. Mait. S. 4.8.5 ↩︎

  64. E2: yad audumbarī; E6: yadīnduvarī ↩︎

  65. Mait.S. 4.8.5 ↩︎

  66. E2: yāne punar vidhīyamāne ↩︎

  67. Tait. Br. 2.3.6.3 ↩︎

  68. Tait. Br. 2.3.6.2 ↩︎

  69. E2: yajñakratūnāṃ ↩︎

  70. Tait. Br. 2.3.6.2 ↩︎

  71. Tait. Br. 2.3.6.1 ↩︎

  72. Tait. Br. 2.3.6.4 ↩︎

  73. E2: 5,54; E6: 2,31 ↩︎

  74. E2: amāvāsyayā yajeteti ↩︎

  75. E1 gibt anuvādaḥ in Klammern ↩︎

  76. E2: adhikaraṇātideśo ‘yam ↩︎

  77. Tait. S. 2.1.1.1 ↩︎

  78. Mait. S. 2.1.5 ↩︎

  79. Tait.S. 1.8.9.1 ↩︎

  80. E2: prāptasya varṇasya niyamārtha ↩︎

  81. E2: yajatir juhotir ↩︎

  82. E2: yathā ↩︎

  83. E2: dravyaṃ devatām uddiśya tyajyate, tasya ca kriyā, yathā kriyayā tayoḥ ↩︎

  84. E1 gibt yayā tayoḥ saṃbandho bhavati in Klammern ↩︎

  85. E1 gibt samuditeṣv eṣu in Klammern ↩︎

  86. E2: 5,56; E6: 2,33 ↩︎

  87. E1 gibt yajaty ukte ‘rthe in Klammern ↩︎

  88. E2,6: dadātir ↩︎

  89. E2: 5,56; E6: 2,33 ↩︎

  90. E2: niriṣṭakasya ↩︎

  91. E2: niriṣṭakasyopadeśaḥ ↩︎

  92. E2: niriṣṭakena ↩︎

  93. E2: bhavantīti ↩︎

  94. E2: apavṛktam āsīt, pūrvaṃ ↩︎

  95. E2: ātithyāyām āsīt, upasatkāle ↩︎

  96. E2: 5,57; E6: 2,34 ↩︎

  97. E2: vākyena. yadātithyāyām ity evaṃ ↩︎

  98. E2: niriṣṭakam ↩︎

  99. E2: 5,59; E6: 2,34 ↩︎