अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा ॥ MS_४,१.१ ॥
तृतीये ऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणम् उक्तम्। इहेदानीं क्रत्वर्थपुरुषार्थौ जिज्ञास्येते, कः क्रत्वर्थः, कः पुरुषार्थ इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव। कथम्? अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः। फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः। प्रयोजकः कश्चित् पुरुषार्थो ऽप्रयोजकः क्रत्वर्थः। तस्मात् क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति सूत्रितम्। तत्राथातः शब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ। अथेति प्रकृतं1 शेषविनियोगलक्षणम् अपेक्षते। अत इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते। क्रतवे यः स क्रत्वर्थः, पुरुषाय यः स पुरुषार्थः। जिज्ञासाशब्दो ऽपि तत्रैव समधिगतः - ज्ञातुम् इच्छा जिज्ञासेति। तद् एतत् प्रतिज्ञासूत्रम्, क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति।
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तवात् ॥ MS_४,१.२ ॥
अथ2 किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषार्थ इति लक्षणं [४३६]3 वाच्यम्, तथा हि लघीयसी प्रतिपत्तिः, पृष्टाकोटेनोपदेशे गरीयसी। तद् उच्यते - यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर् भवति4 स पुरुषार्थः पदार्थः। कुतः? तस्य लिप्सार्थेन च भवति5, न शास्त्रेण, क्रत्वर्थो हि शास्त्राद् अवगम्यते, नान्यथा। अविभक्तो हि पुरुषार्थः प्रीत्या। यो यः प्रीतिसाधनः स पुरुषार्थः। पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थ इति क्रत्वर्थस्य लक्षणं सिद्धम्।
एवं वा सूत्रं वर्ण्यते - दर्शपूर्णमासयोर् आम्नायते - अनतिदृश्यं स्तृणाति, अनतिदृश्यम् एवैनं प्रजया पशुभिः करोतीति6, तथा - आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुं पशुकामस्य वेदं कुर्यात्, गोदोहनेन पशुकामस्य प्रणयेद् इत्येवमादीनि। तत्र संशयः - किम् एवंजातीयकाः क्रत्वर्था उत पुरुषार्था इति। किं प्राप्तम्? क्रत्वर्थ इति। कुतः? प्रत्यक्ष उपकारस् तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तद् उक्तम् - द्रव्यगुणसंस्कारेषु बादरिर्7 इति8। तस्मात् क्रत्वर्था इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - यस्मिन् प्रीतिः पुरुषस्य स पुरुषार्थ एवेति, प्रीतिस् तेभ्यो निर्वर्तते, तस्माद् एते पुरुषार्था इति। ननु प्रत्यक्ष उपकारः क्रतोर् दृश्यत इत्य् उक्तम्। उच्यते - सत्यं दृश्यते, न तु क्रतोर् उपकारायैभ्यः9 संकीर्ति तेभ्यः, फलेभ्य एते श्रूयन्ते। न च, य उपकरोति स शेषः। यस् तु यदर्थः श्रूयते, स तस्य शेष इत्य् उक्तम्10 - शेषः परार्थत्वाद् इति11।
एवं वा, द्रव्यार्जनम् उदाहरणम्। इह द्रव्यार्जनं तैस् तैर् नियमैः [४३७]12 श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना। तत्र संदेहः - किं क्रत्वर्थो द्रव्यपरिग्रह उत पुरुषार्थ इति। किं प्राप्तम्? क्रत्वर्थो नियमात्। यद्य् एष पुरुषार्थः स्यात्, नियमो ऽनर्थको भवेत्। प्रत्यक्षेणैतद् अवगम्यते, नियमाद् अनियमाच् चार्जितं द्रव्यं पुरुषं प्रीणयतीति। तस्मात् क्रत्वर्थः। कामश्रुतिभिश् चास्य सहैकवाक्यता दृष्टा। इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात्। लिङ्गं चापि भवति - अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेत्13, यस्य हिरण्यं नश्येद् आग्नेयादीनि निर्वपेद्14 इत्येवमादि। तद् धि द्रव्योपघाते चोद्यते, यदि द्रव्यपरिग्रहः कर्मार्थः, तत एतद् अपि सति संबन्धे कर्मार्थम् इत्य् उच्यते, इतरर्थासति संबन्धे कर्मार्थम् इत्य् अनुमीयते, फलं चास्य कल्प्येत। तस्माद् यजतिश्रुतिगृहीतं द्रव्यार्जनं येन विना योगो न निर्वर्तते, स यागस्य श्रुत्या परिगृहीत इति गम्यते। तस्मात् क्रत्वर्थ इति। एवं प्राप्ते ब्रूमः - पुरुषार्थ इति। एतस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति, तस्माद् अस्य लिप्सार्थलक्षणा शरीरधारणार्था, यस्य शरीरं ध्रियते, व्यक्तं तस्यास्ति द्रव्यम्। शरीरिणश् च यागः श्रूयते, तस्माद् विद्यमानद्रव्यस्य विनियोग उच्यते। न द्रव्यार्जनं श्रुतिगृहीतम्15, विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य, यागो निर्वर्तत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः। अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनम्, तन् नान्यत्र विनियुज्येत तथार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात्। अपि च, उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्रैतन् नोपपद्यते। अपि वा एष सुवर्गाल्16 लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी [४३८]17 सन्न् अमावास्यां वा पौर्णमासीं वातिपातयेद्18 इति। एवं च सति, प्रयोगकालाद् वहिर्19 एतद् अङ्गं सद् अनुपकारकं स्यात्। न च, आधानवद् भवितुम् अर्हति, तत्र हि वचनम् - वसन्ते ऽग्निम् आदधीतेति, न चैतद् अङ्गम्। अथ यद् उक्तम् - नियमवचनम् अनर्थकम्, पुरुषार्थे द्रव्यपरिग्रहे सतीति। उच्यते, नैतावता पुरुषार्थता व्यावर्तते। प्रत्यक्षा हि सा, त्वया च परोक्षं युक्तिबुद्ध्या व्यपदिश्यते, न च, परोक्षं प्रत्यक्षस्य बाधकं भवति। तस्मान् नियमवचनात् कामम् अपरम् अदृष्टं कल्प्येत, न तु दृष्टहानम्। तस्माद् यत् पुरुषस्य प्रयोजनं प्रीतिः, तद् अर्थं धनस्यार्जनम् इत्य् एवं च सति, व्रीहिणा यागः कर्तव्यः, प्रीत्यर्थम् अर्जितेन वा क्रत्वर्थम् अर्जितेन वा, नात्र कश्चिद् विशेषः। प्रीत्यर्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव, कर्मार्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव। तस्मान्20 न प्रयोगचोदनागृहीतं द्रव्यार्जनम्। अथ यद् उक्तम्, अनुमेयेनाप्रकृतेन वा शब्देन युष्मत्पक्षे नियमस्यैकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगवचनेनेति। नैष दोषः, अस्मत्पक्षे ऽपि दृष्टेन भुजिना, न फलवचनेन। कथं तर्हि? नियमाद् अदृष्टं भवतीति गम्यते। यथैव भवदीये पक्षे। आह, अस्मत्पक्षे फलवत एकवाक्यभावात्21 फलवत उपकरोतीति गम्यते। उच्यते, अस्मत्पक्षे ऽपि फलवत एवैकवाक्यभावः22, एतावांस् तु विशेषः, तव श्रुतं फलम्, मम तु दृष्टम् इति। अथ यल् लिङ्गम् उक्तम् - गृहदाहादिषु कर्म श्रूयत इति। तत्रोच्यते, यद्य् अपि न क्रत्वर्थं द्रव्यार्जनम्, तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा जामवत्यादीनां23 विधानम् उपपद्यत एव। तस्मात् पुरुषार्थं द्रव्यार्जनम्, प्रीत्या हि तदविभक्तम् इति।
[४३९]24
तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं विकीर्ष्यते25 तेनार्थेनाभिसंबन्धात् क्रियायां पुरुषश्रुतिः ॥ MS_४,१.३ ॥
इह प्रजापतिव्रतान्य् उदाहरणम् - नोद्यन्तम् आदित्यम् ईक्षेत नास्तंयन्तम् इत्यादीनि। तत्र संदेहः - किं क्रत्वर्थानि प्रजापतिव्रतान्य् उत पुरुषार्थानीति। किं प्राप्तम्? क्रत्वर्थानीति। कुतः? एवं हि, फलं न कल्पयितव्यं भविष्यतीति। ननु श्रूयत एवैतेषां फलम्, एतावता हैनसायुक्तो भवतीति। उच्यते - नैतत् फलपरं वचनम्, वर्तमानापदेश एवैष शब्द इति। तेन यत्रादित्य ईक्षितव्यः प्राप्तः, तत्रायं प्रतिषेध उद्यतो ऽस्तंयतश् च नियमो वा स्यात् कश्चित् कर्माङ्गभूतः। एवं प्राप्ते ब्रूमः - तद् उत्सर्गे प्रीत्युत्सर्गो ऽपि26, कर्माणि पुरुषार्थाय भवेयुः, एवंजातीयकानि। कर्तुर् एतान्य् उपदिश्यन्ते, न कर्मणः। अर्थप्राप्तेन कर्त्रा संबन्धो यः, स विधित्सितः, न कर्मसंबन्धो ऽविद्यमान एव। शास्त्रं चानतिशङ्क्यं पितृमातृवचनाद् अपि प्रमाणतरम्, स्वयं हि तेन प्रत्येति, इन्द्रियस्थानीयं हि तत्। न चैवम् आदिभिर् द्रव्यस्य कश्चिद् दृष्ट उपकारः साध्यते। तस्मात् तेन पुरुषार्थेनाभिसंयोगात् क्रियायाम् एवंजातीयकायां पुरुषः श्रूयते। अपि च, पुरुषप्रयत्नः पदार्थविधिमात्रं लक्षयितुम् उच्चार्येत, स्वयम् अविवक्षितः स्यात्। अथ यद् उक्तम् - यत्रादित्यस्येक्षणं प्राप्तम्, तत्रोद्यतो ऽस्तंयतश् च पर्तिषेध इति, सत्यं प्रतिषेधो न्याय्यः, तथा श्रुतिर् अनुगह्येत27, [४४०]28 इतरथा नियमो लक्ष्येतेति। किं त्व् इह नियमः शब्देन श्रूयते, तस्य व्रतम् इति, तेन नियम एषः, नोद्यन्न् आदित्य ईक्षितव्य इति। अपि च, एतावता हैनसायुक्तो भवतीति पुरुषसंबद्धो दोषः कीर्त्यते, न कर्मसंबद्धः। तस्मात् पुरुषार्थानि प्रजापतिव्रतानीति। गोलक्षणान्य् अप्य् एवम् एव कर्तरीकर्ण्यः कर्तव्या इत्येवमादीनि।
अविशेषात् तु शास्त्रस्य यथाश्रुतिफलानि स्युः ॥ MS_४,१.४ ॥
उच्यते - यद्य् एवम्, इमान्य् अपि पुरुषार्थानि स्युः - समिधो यजति, तनूनपातं यजति29, नानृतं वदेद्30 इत्येवमादीनि। अत्रापि पुरुषप्रयत्नसंकीर्तनम्, अत्रापि न द्रव्यं चिकीर्ष्यत इति।
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसंबन्धात् ॥ MS_४,१.५ ॥
अपि वा नैतद्31 अस्ति, समिदादीन्य् अपि पुरुषार्थानि प्राप्नुवन्तीति, कारणाग्रहणे पुरुषार्थानि प्रजापतिव्रतानि भवेयुः। न तत्र श्रुत्यादिकं किंचित् कारणं गृह्यते, येन कर्मणाम् अङ्गभूतानीति गम्यते, तस्मात् तानि पुरुषार्थानि। अर्थस्य कर्मणो32 नाभिसंबन्धः प्रजापतिव्रतैः। इह तु समिदादीनां प्रकरणं नाम कारणं गृह्यते, येन कर्मार्थानीति विज्ञायन्ते33। तस्माद् विषम उपन्यासः, पुरुषप्रयत्नश् चैवं सत्य् अनुवादः।
तथा च लोकभूतेषु ॥ MS_४,१.६ ॥
लोके ऽपि, निष्पन्नकार्यादिषु प्रयोजनवत्सु यद् असंयुक्तं फलेन श्रूयते, तत् तदङ्गं विज्ञायत इति मन्यमाना उपवासं जपं वा [४४१]34 उपदिश्यैव कृतिनो मन्यन्ते, न ब्रुतवे, इदम् अस्य प्रयोजनवतो ऽङ्गम् इति, तथा चापरे ऽपि मन्यमाना न दुरुक्तं मन्यन्ते। तस्मात् समिदादीनि कर्माङ्गानि, न प्रजापतिव्रतानीति सिद्धम्।
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् ॥ MS_४,१.७ ॥
स्तो दर्शपूर्णमासौ, तत्राम्नायते - स्फ्यश् च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानीति35। तत्र संशयः। किम् एतानि द्रव्याणि प्रदातव्यानि, उत स्वेन स्वेनार्थेन संबन्धनीयानि? तद् एतत् सिद्ध्यर्थम् इदं चिन्तनीयम्, किम् एष विधिर् उतानुवाद इति। विधौ सति प्रदानम् अनुवादे सति यथार्थसंबन्धः। किं प्राप्तम्? विधिर् इति, तथा हि प्रवृत्तौ विशेषः, इतरथा वादमात्रम् अनर्थकम्। प्रदाने चैषां यज्ञायुधशब्दो ऽनुगृहीतः, यज्ञस्यायुधानि, यज्ञस्य साधनानीति। इतरथोद्धननादीनाम् आयुधानि भवेयुः श्रवणेन, लक्षणया यज्ञस्य। संख्या चैवम् अवकल्पते, यागेनैकेन संबन्धात्, इतरथा नानार्थसंबन्धाद् दशेति संख्या नावकल्पते। तस्मात् प्रदीयेरन्, अविशेषेण विहितं प्रकरणेन प्रधानस्य भवितुम् अर्हति।
स्वेन त्व् अर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद् यथाश्रुति स्युः ॥ MS_४,१.८ ॥
न चैतद् अस्ति विधिः, प्रदेयानीति, अनुवादः, प्राप्त[४४२]36त्वात्। स्फ्येनोद्धन्ति37, कपालेषु श्रपयति3839, अग्निहोत्रहवन्यां40 निर्वपति, शूर्पेण विविनक्ति, कृषाजिनम् उलूखलस्याधस्ताद् अवस्तृणाति, शम्यायां दृषदम् उपदधाति, प्रोक्षिताभ्याम् उलूखलमुसलाभ्याम् अवहन्ति, प्रोक्षिताभ्यां दृषदुपलाभ्यां पिनष्टीत्य् एवं स्वेन स्वेन वाक्येनोद्धननादिषु प्राप्नुवन्ति, प्राप्तानां वचनम् अनुवादः। प्रकरणम् अपि वाक्येन बाध्यते, यज्ञायुधशब्दश् चानुवादपक्षे न्याय्यः, न विधिपक्षे, गौणो हि स आयुधशब्दः स्फ्यादिषु, संख्यापि पाठाभिप्राया भविष्यति, विस्पष्टं चैतद् उद्धननादिभिः स्फ्यादीनि प्रयुक्तानीति। भवति हि तत्र विधिः - स्फ्येनोद्धन्तीत्येवमादिः, न तु यज्ञायुधानि कर्तव्यानीति। तस्माद् उद्धननादिषु वाक्येन प्राप्तानाम् अनुवाद इति।
चोद्यन्ते चार्थकर्मसु ॥ MS_४,१.९ ॥
अर्थकर्मसु चोद्यन्ते पुरोडाशादीनि, तान्य् अपि विकल्पेरन्। तत्र पक्षे बाधः, न समुच्चयः। पुरोडाशादीनां निरपेक्षाणां यजिसंबधात्, स्फ्यादीनां च। एवं वा चोद्यन्ते चार्थकर्मसु, चोद्यन्ते, परिधानीये कर्मणि - आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति। यदि प्रदीयेरंस् तत्र न भवेयुः, तस्माद् अपि न प्रदातव्यानीति।
लिङ्गदर्शनाच् च ॥ MS_४,१.१० ॥
लिङ्गदर्शनेन च - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशाम् आवास्यायाम् इति। तस्माद् अप्य् अनुवाद इति।
[४४३]41
तत्रैकत्वम् अयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् ॥ MS_४,१.११ ॥
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुं आलभत इति42। तथा, अनड्वाहौ युनक्तीति, तथा, अश्वमेधे, वसन्ताय कपिञ्जलान् आलभत इति43। तत्र संदेहः - किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उताविवक्षितम् इति। तत्रैकत्वम् अयज्ञाङ्गभूतं न विवक्षितम् इत्य् अर्थः, अर्थस्य गुणभूतत्वात्, नालम्भस्य गुणभूता संख्या नियोजनस्य वा। कस्य तर्हि? पशोर् अनडुहोः कपिञ्जलानां च। विभक्तिर् हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच् च श्रुतिर् बलीयसी। तस्मान् न यज्ञाङ्गं विवक्षितम् इति। आह, मा भूद् यज्ञाङ्गम्, पश्वदीनाम् अङ्गं विवक्षितं तथापीति। उच्यते, न, पश्वादीनाम् अङ्गेनोक्तेनानुक्तेन वा किंचित् प्रयोजनम् अस्ति, यज्ञाङ्गेन ह्य् अविपन्नेन प्रयोजनम्। विपन्ने ऽपि हि पश्वाद्यङ्गे ऽविगुण एव क्रतुर् भवति, यज्ञाच् च फलं न पश्वादेः। तस्मात् पश्वादेर् गुणेनाज्ञातेन ज्ञातेन वा न किंचित् प्रयोजनम् अस्तीति, न तद् विवक्षितम्, यद् धि प्रयोजनवत् तद् विवक्षितम् इत्य् उच्यते।
एकश्रुतित्वाच् च ॥ MS_४,१.१२ ॥
भवति च किंचिद् वचनम्, येन विज्ञायते न तद् विवक्षितम् इति, यदि सोमम् अपहरेयुर् एकां गां दक्षिणां दद्याद् इति44। यदि विवक्षितं भवेत्, नैकाम् इति ब्रूयात्, गाम् इत्य् एकवचनस्य विवक्षितत्वात्। तथा, अवी द्वे, धेनू द्व इत्य्45 अत्रापि द्व इति वचनं ज्ञापकम्, अविवक्षितम् अवीति द्वित्वम् [४४४]46 इति। त्रीन् ललामान् इत्य्47 अत्रापि त्रीन् इति वचनं लिङ्गम्, ललामान् इति बहुवचनम् अविवक्षितम् इति।
प्रतीयत इति चेत् ॥ MS_४,१.१३ ॥
एवं चेत् पश्यसि - अविवक्षिता संख्येति, तन् न, प्रतीयते हि संख्याख्यातवचनस्याङ्गभूता, यथा पशुम् आनयेत्य् उक्ते, एक एवानीयते, पशू इति, द्वौ। पशून् इति बहव आनीयन्ते, यश् च प्रतीयते स शब्दार्थः, तस्माद् यज्ञस्याङ्गभूता संख्येति शब्दाद् गम्यते, न च शब्दाद् गम्यमानम् ऋते कारणात्, अविवक्षितं भवति।
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् ॥ MS_४,१.१४ ॥
नैतद् एवम्, सत्यं प्रतीयते, न त्व् अयं शब्दार्थो व्यामोहादोषा प्रतीतिः। कुत एतत्? वाक्याद् धि यज्ञाङ्गम् इत्य् अवगम्यते, वाक्यं च श्रुत्या बाध्यते। तस्माद् अशब्दार्थो ऽयं यज्ञ एकत्वाद् इति। शब्दार्थो ऽपि हि प्रतीयते, यथा, पूर्वो धावतीति। स पूर्व इत्य् उच्यते, यस्यापरो ऽस्ति, तेन पूर्व इत्य् उक्ते, अपरो गम्यते। न त्व् अपरो धावतीति श्रवणात् प्रतीयते। एवम् इहापि पशुम् इत्य् एकत्वं गम्यते, न तु यज्ञे। यथैव हि पूर्वम् इत्य् उक्ते ऽपरो गम्यत एव केवलं, न तु स विधीयते कस्मिंश्चिद् अर्थे। एवम् इहापि संख्या प्रतीयते एव केवलम्, न तु कर्तव्यतया यज्ञे विधीयते न पशौ। कथं न पशौ विधीयत इति चेत्। विधायकस्याभावात्। आख्यातशब्दो विधायको भविष्यतीत्य् एतद् अपि नोपपद्यते, द्रव्यदेवतासंबन्धस्य स विधायकः सन्न् आलभत इति न संख्यासंख्येयसंबन्धं विधातुम् अर्हतीति। भिद्येत हि तथा वाक्यम्। तस्माद् अविवक्षिता संख्येति।
[४४५]48
शब्दवत् तूपलभ्यते तदागमे हि तद् दृश्यते तस्य ज्ञानं यथान्येषाम् ॥ MS_४,१.१५ ॥
तुशब्दः पक्षं व्यावर्तयति। नैतद् अस्ति, न यज्ञे संख्या शब्देन श्रूयत इति, आख्यातवाच्ये ह्य् अर्थ उपलभ्यते, लोके पशुम् आनयेत्य् एकवचने सति एकत्वपशुविशिष्टम् आनयनं प्रतीयते, पश्व् आनयेति द्वित्वविशिष्टं गम्यते, तत्र ह्य् एकत्वम् अपैति, द्वित्वम् उपजायते। यस्य चागमे यद् उपजायते, स तस्यार्थ इति गम्यते। तस्य ज्ञानं, यथान्येषां शब्दानाम्, अश्वम् आनयेत्य् उक्ते ऽश्वानयनं प्रतीयते, गाम् आनयेति गवानयनम्, तत्राश्वो ऽपैति गौश् चोपजायते, तेन ज्ञायते, अश्वशब्दस्याश्वो ऽर्थो गोशब्दस्य गौर् इति। यद् उक्तम् - श्रुत्या वाक्यार्थो बाध्यत इति, उच्यते, न श्रुतिर् ब्रूते - वाक्यार्थो नास्तीति, केवलं तु प्रातिपदिकार्थगतां संख्याम् आह, नादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो ह्य् आख्यातवाच्येन संबध्यते, विभक्त्यर्थो ऽपि। तथा हि, तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्रैकार्थत्वाद् एकवाक्यम् अवकल्पते। पशौ हि संख्यायां विधीयमानायाम् एक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधातुम्, संख्यासंख्येयसंबन्धं च। तस्माद् यज्ञे विवक्षिता संख्येति।
तद्वच् च लिङ्गदर्शनम् ॥ MS_४,१.१६ ॥
किम् इति। कर्णा याम्याः, अवलिप्ता रौद्राः, नभोरूपाः पार्जन्याः, तेषाम् ऐन्द्राग्नो दशम इति49। यदि त्रित्वं विवक्षितं तदैन्द्राग्नो दशमो भवति। तथा कृष्णा भौमाः, धूम्रा आन्तरिक्षाः, वृहन्तो50 दिव्याः, शवला51 वैद्युताः, सिद्धास् तारका इति52 प्रकृत्य आह - अर्धमासानां वैतद् रूपं यत् पञ्च[४४६]53दशिन इति54। तस्माद् अपि पश्यामः, विवक्षिता संख्येति। यत् तूक्तम् - एकां गाम् इत्य् अविवक्षां दर्शयतीति। अत्रोच्यते, गोसंख्यासंबन्धं विधातुम्, एतद् उच्यते, इतरथा हि, गोदक्षिणासंबन्धो विहितो गम्येत। तस्माद् विवक्षिते ऽपि वाच्यम् एतत्। अवी द्वे धेनू द्वे त्रीन् ललामान् इति चानुवादाः।
तथा च लिङ्गम् ॥ MS_४,१.१७ ॥
एवं च कृत्वा समानश्रुतिकं लिङ्गम् अपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, वसन्ते प्रातर् आग्नेयीं कृष्णग्रीवाम् आलभते, ग्रीष्मे माध्यंदिने सिंहीम् ऐन्द्रीं शरद्य् अपराह्णे श्वेतां बार्हस्पत्याम् इति55। तत्र श्रूयते - गर्भिण्यो भव्तीति56, गर्भः स्त्रीणां गुणः, तेन स्त्रियो दर्शयतीति भविष्यति। तथा अश्व ऋषभो वृष्णिर् वस्तः57 पुरुष इति ते प्राजापत्या इति58। तत्र श्रूयते - मुष्करा59 भवन्ति सेन्द्रियत्वायेति60। मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयतीति।
अधिकरणान्तरं वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिकरणे ऽतिदृश्यते61। लिङ्गम् अविवक्षितम्, श्रुत्या वाक्यस्य बाधितत्वात्, न च, विवक्षितम् इव श्रुयत इति, भवति लिङ्गम्। स्त्री गौः सोमक्रयणीति, स्त्रीवचनात् सोमक्रयणीत्य् अविवक्षितम् एव लिङ्गं प्रतीयते। ननु कथं मृगीम् आनयेति न मृग आनीयते? नैवम्, अशाब्दं तु तत्, पूर्वो धावतीति यथा। लिङ्गं विवक्षितं वा62 वाक्यार्थस्य श्रुत्याप्रतिषिद्धत्वात्। तथा च लिङ्गम्, गर्भिण्यो भवन्तीति, तथा च मुष्करा भवन्ति [४४७]63 इति। यद् उक्तम् - स्त्री गौः सोमक्रयणीति, तत्र स्त्रीत्य् अविवक्षितम्, तथा प्रजापतये पुरुषान् हस्तिन आलभत इति पुरुषग्रहणम् अविवक्षितम्, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम्। तस्माद् विवक्षितं लिङ्गम् इति।
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत ॥ MS_४,१.१८ ॥
अत्राश्रयिणः पदार्था उदाहरणम् उत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृद् इत्य् एते यागा उदाहरणम्64। एषु संदेहः। किं यजिमात्रं संस्कारो देवतायाः, उत यजिनादृष्टं देवतायां क्रियत इति। किं प्राप्तम्? आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयत65 इत्य्66 आश्रयिष्व् एवंजातीयकेष्व् अपूर्वस्य भावो ऽर्थः प्रत्येतव्यो ऽविशेषाद् अन्यैर् आख्यातशब्दैः, यजति ददाति जुहोतीति, उक्तम् एतद् भूतं भव्यावोपदिश्यत इति।
चोदनायां त्व् अनारम्भो विभक्तत्वान् न ह्य् अन्येन विधीयते ॥ MS_४,१.१९ ॥
अस्यां तु चोदनायाम् अनारम्भो ऽपूर्वस्य, विभक्तो ऽयम् आख्यातशब्दः, यो दृष्टार्थः, ततो नापूर्वम्, यः खल्व् अदृष्टार्थः, ततो ऽपूर्वम् इति, दृष्टार्थश् चायम्। अस्मिन् हि यागे क्रियमाणे देवता [४४८]67 स्मर्यते, स्विष्टकृत्य् अपि द्रव्यं प्रतिपाद्यते। न चान्येन शब्देनात्रापूर्वं विधीयते। तस्माद् यजिमात्रं संस्कार इति।
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः ॥ MS_४,१.२० ॥
स्याद् वापूर्वमतः सत्याम् अपि देवताचिकीर्षायाम्, तस्मिन् देवतासंस्कारार्थे गुणभूतता यागस्य, द्रव्यप्रतिपादनेन च, मन्त्रेण तत्र देवता स्मर्यते। तस्मिन् मन्त्रेण दृष्टे ऽर्थे क्रियमाणे त्यागो ऽपरो ऽदृष्टार्थः श्रूयते, तस्य न किंचिद् दृष्टम् अस्ति, देवताश्रयात् तु देवतागतं तद् अपूर्वम् इति गम्यते।
अर्थे समवैषम्यम् अतो द्रव्यकर्मणाम् ॥ MS_४,१.२१ ॥
अतिक्रान्तस् तृतीयविषयः, अतः प्रभृति द्रव्याणां कर्मणां चार्थे प्रयोजने68 समवैषम्यं वक्ष्यते। क्वचित् साम्यम्, क्वचिद् वैषम्यम्, आमिक्षावाजिनयोर् वैषम्यम्, क्रयपांसूनां वैषम्यम्, दण्डस्य मैत्रावरुणधारणे यजमानधारणे च साम्यम्, एवं तत्र तत्र द्रष्टव्यम्, साम्यं वैषम्यं चेति।
[४४९]69
एकनिष्पत्तेः सर्वं समं स्यात् ॥ MS_४,१.२२ ॥
चातुर्मास्येषु वैश्वदेवे श्रूयते - तप्ते पयसि दध्य् आनयति, सा वैश्वदेव्य् आमिक्षा वाचिभ्यो70 वाजिनम् इति। तत्र संदेहः - किं तप्ते पयसि दध्यानयनम् आमिक्षा प्रयोजयति, न वाजिनम्, उतोभयम् इति। किं प्राप्तम्? उभयम् इति। कुतः? यस्मिन् कृते, यन् निष्पद्यते प्रयोजनवत्, तत् तस्य प्रयोजकम् इति गम्यते, दध्यानयने च कृत उभयं निष्पद्यते। आमिक्षापि, तत एव याजिनम् अपि71 तत्रान्यतरार्थं क्रियेत, यदि विनिगमनायां हेतुर् भवेत्। अगम्यमाने विशेष उभयार्थम् आनयनम् इति गम्यते। तस्माद् एकासाव् उभाभ्याम् अपि प्रयोजिता निष्पत्तिर् इति।
संसर्गरसनिष्पत्तेर् आमिक्षा वा प्रधानं स्यात् ॥ MS_४,१.२३ ॥
नैतद् अस्ति, उभयं प्रयोजकम् इति, आमिक्षा प्रयोक्त्री। कुतः? नात्र यद् दधिपयोभ्यः निर्वर्त्यते, तद् धविः। यदि तद् धविः स्यात्, उभयं ताभ्याम् एव निष्पद्यत इति गम्यत72 विशेषः। किं तर्हि हविर् इति। पयो दधिसंसृष्टम्। कुत एतत्? सा वैश्वदेवीत्य् उच्यते, न ततो यन् निष्पद्यत इति। ननु स्त्रीलिङ्गनिर्देशात्, आमिक्षा हविः, सा च ततो निष्पद्यते, वाजिनं च हविः, तद् अपि निष्पद्यत इति। न, इत्य् उच्यते - तद् एव हि पयस् तप्तं दधिसंयुक्तम्, आमिक्षा भवति। तस्मात् स्त्रीलिङ्गम् अदोषः। आह - यदि पयो दधिसंसृष्टं हविः, किं तर्ह्य् उच्यते, आमिक्षा प्रयोजिकेति। उच्यते [४५०]73 - आमिक्षायां दधिपयसी विद्येते, न वार्जिने। कथम् अवगम्यते? संसर्गसनिष्पत्तेः, तत्र हि दधिपयसोः संसृष्टयो रस उपलभ्यते, तेन तत्र दधिपयसी इत्य् अनुमानं भवति, वाजिने तिक्तकटुको रसः। आह, तप्ते पयसि दधन्य् आनीयमान उभयं भवति, दध्ना च पयः संसृज्यते वाजिनाच् च विविच्यते। तत्र संसर्गश् चिकीर्षितः, न विवेक इति। कुत एतत्? उच्यते - शाब्दः संसर्गो दध्ना, अशाब्दो वाजिनेन विवेकः पयस इति, सर्वनाम च पूर्वोक्तेन शब्देनैकवाक्यतां याति। इतरस्मिन् पक्षे पयसि दध्यानयनं वाजिनविवेकलक्षणार्थं स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या। तस्माद् आमिक्षार्थं दध्यानयनम्, आमिक्षाशब्दश् चात्रानुवादः, आमिक्षैव सा भवति, यत्र तप्ते पयसि दध्यानीयते। तस्माद् आमिक्षिका प्रयोक्त्री, वाजिनम् अप्रयोजकम् इति।
मुख्यशब्दाभिसंस्तवाच् च ॥ MS_४,१.२४ ॥
न च, उभयं प्रयोजकं न्याय्यम्, नात्र वचनम् अस्ति, इदं प्रयोजकम् इदं नेति, असति प्रयोजके ऽनर्थकं भवतीति प्रयोजकं कल्प्यते। तत्रैकस्मिन्न् अपि प्रयोजके सिद्धे ऽर्थवत्य् उपदेशे नान्यद् अपि प्रयोजकं भवितुम् अर्हति। न च, न गम्यते विशेषः। कथं गम्यते? मुख्यशब्दाभिसंस्तवात्, मुख्यशब्दः संस्तोतुं न्याय्य इति, प्राथम्यात् तु तस्य तावत् प्रयोजकत्वज्ञानम्74, तस्मिन् सति प्रयोजके, परिक्षतत्वाद्75 आनर्थक्यस्य, न द्वितीयम् अपि प्रयोजकम्, प्रथमा चामिक्षा, द्वितीयं वाजिनम्, तस्माद् आमिक्षा प्रयोक्त्री। अपि च मुख्यशब्देन च, आमिक्षा स्तूयते - मिथुनं वै दधि च शृतं च, अथ यत् संसृष्टं मण्डम् इव मस्त्व्76 इव परि च ददृशे77 [४५१]78 गर्भ एव स इति, गर्भस्तुतामिक्षा79, मिथुनस्य च गर्भः प्रयोजकः, न गर्भोदकम्। तस्माद् अप्य् आमिक्षा प्रयोजिकेति मन्यामहे। किं भवति प्रयोजनम्? यद्य् उभयं प्रयोजकम्, वाजिने नष्टे, पुनस् तप्ते पयसि दध्य् आनेतव्यम्, अथ वाजिनम् अप्रयोजकम्, नष्टे वाजिने लोपो दध्यानयनस्य।
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् ॥ MS_४,१.२५ ॥
ज्योतिष्टोमे श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति80। तत्रेदम् अपरं श्रूयते - षट् पदान्य् अनुनिष्क्रामतीति81, तथा, सप्तमं पदं गृह्णातीति। इदम् अपरम् - यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् अञ्ज्याद्82 इति83। तत्र संदेहः - किं सोमक्रयण्यानयनं पदपांस्वर्थम्, उत क्रयप्रयुक्तम् इति। किं प्राप्तम्? नयनाद् उभयं निष्पद्यते, क्रयः पदं च, तस्माद् उभयं प्रयोजकम्। न हि गम्यते विशेष इति, तद् उक्तम् - एकनिष्पत्तेः सर्वं समं स्याद् इति84। एवं प्राप्ते ब्रूमः - पदकर्माप्रयोजकम् इति। कुतः? यस्मान् नयनं क्रयार्थम्, न हि नयनम् अन्तरेण विशिष्टे देशे क्रय उपपद्यते। तस्मात् क्रयेण तावन् नयनं प्रयुक्तम् इति गम्यते। क्रयप्रयुक्तं चेत्, न पदप्रयुक्तम् अपि भवितुम् अर्हति। अपि च, एकहायन्याः पदपांसवो ग्रहीतव्या इति नास्ति शब्दः। ननु प्रकृतैकहायनी पदपांसुग्रहणवाक्येन85 [४५२]86 संभन्त्स्यते। नेति ब्रूमः - एकहायन्या क्रीणातीति विशिष्टेन वाक्येन क्रये, उपदिष्टैकहायनी प्रकृतत्वात् पदपांसुवाक्येन संबध्यते, प्रकरणाच् च वाक्यं बलीयः। अथेदानीम्, एकहायनी क्रयणार्थं संकीर्तिता सती संनिहितत्वात् प्रसङ्गम् उपजीवता पदपांसुवाक्येन संबध्येत, यासौ परार्था, एतस्याः पदं ग्राह्यम् इति। तस्मात् क्रयपयुक्तं नयनम्, अप्रयोजकं पदम् इति। किं पुनश् चिन्तायाः प्रयोजनम्? यद्य् उभयम् एकहायनीनयनस्य प्रयोजकम्, यदैकहायन्याः सप्तं पदं ग्रावणि निधीयते, तदा पुनर् एकहायनी नीयेत सप्तमाय पदाय, यदा पदं न प्रयोजकम्, तदा नैकहायनी पुनः षट् पदान्य् अनुनिष्क्रामययितव्येति।
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते ॥ MS_४,१.२६ ॥
दर्शपूर्णमासयोः श्रूयते - कपालेषु पुरोडाशं श्रपयतीति87, तथा - पुरोडाशकपालेन तुषान् उपवपतीति। तत्र संदेहः - किम् उभयं कपालानि प्रयोजयति, पुरोडाशश्रपणं तुषोपवापश् च, उत श्रपणं प्रयोजकम्, न तुषोपवाप इति। किं प्राप्तम्? विनिगमनायां हेतोर् अभावाद् उभयम्। इति प्राप्ते उच्यते, अर्थाभिधानं प्रयोजनसंबद्धम् अभिधानं यस्य, यथा पुरोडाशकपालम् इति, पुरोडाशार्थं कपालं पुरोडाशकपालम्। कथम् एतद् अवगम्यते? पुरोडाशस् तावत् तस्मिन् काले नास्ति, येन वर्तमानः संबन्धः कपालेन स्यात्। तेनैव हेतुना न भूतः, स एष कपालस्य पुरोडाशेण भविष्यता [४५३]88 संबन्धः, भविष्यता संबन्धश् च तन् निमित्तस्य भवति। तस्मात् पुरोडाशेन प्रयुक्तं यत् कपालम्, तेन तुषा उपवप्तव्या इति। एवं च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुं कपालम् उपादीयते, न तत् पुरोडाशकपालं स्यात्। न चेन् न तेन तुषा उपवप्तव्या भवन्ति। तस्मान् न तुषोपवापः कपालानां प्रयोजकः, प्रयोजल्कं तु श्रपणम् इति।
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् ॥ MS_४,१.२७ ॥
अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः। तत्र श्रूयते - हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया इत्येवमादि89। तथा, लोहितं निरस्यति, शकृत् संप्रविध्यति, स्थविमतो वर्हिरंल्क्तापास्यतीति9091। तत्र संदेहः, किं हृदयादिभिर् अवदानैर् इज्या पशोः प्रयोक्त्री, उत शकृत् संप्रव्याधो लोहितनिरसनं च तद् अपि प्रयोजकम् इति। किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद्92, उभयं प्रयोजकम् इति। एवं प्राप्ते ब्रूमः, पशौ93 शकृल्लोहितयोर् अप्रयोजकत्वम्, न हि तदर्थः पशोर् आलम्भः94, सकृत् संप्रविध्यति लोहितम् अपास्यतीत्य् उच्यते, न पशोर् अन्यस्य वेति, पशुर् अग्नीषोमीयो वाक्येन, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति95। शकृल्लोहिते पशोः प्रकरणेन भवेताम्, प्रकरणं च वाक्येन बाध्यते। नन्व् एते शकृल्लोहिते प्रतिपाद्येते, तेन यागार्थस्य पशोर् नान्यस्येति निश्चयः। एवं चेत्, अप्रयोजके शकृल्लोहित इति। किं भवति प्रयोजनम्? साम्ये सति शकृल्लोहिताभावे ऽन्यः पशुर् आलम्भनीयः, शकृल्लोहितयोर् अप्रयोजकत्वे लोपः।
[४५४]96
एकदेशद्रव्यश्97 चोत्पत्तौ विद्यमानसंयोगात् ॥ MS_४,१.२८ ॥
दर्शपूर्णमासयोः98 श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति99। तत्र संदेहः, किं पुरोडाशस्याग्नेययागः प्रयोजकः, स्विष्टकृद् अप्रयोजक उतोभयम् इति। किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद् इति100। एवं प्राप्ते ब्रुमः, एकदेशद्रव्यश्101 चैवंजातीयको ऽप्रयोजको भवेत्। कुतः? विद्यमानसंयोगात्, न, एकदेशकर्मावयविनं प्रयुङ्क्ते, विद्यमानस्यावयविन एकदेश उपादातव्य इति, तत्रार्थो भवति, नावयविनम् उपाददीतेति, यथेक्षुखण्डम् अस्मै प्रयच्छ, मोदकशकलम् अस्मै प्रयच्छेति, नेक्षुम् उपाददीतेति गम्यते, सत इक्षोः खण्डम् उपाददीत, सतो मोदकाच् छकलम् उपाददीतेति। तस्माद् अन्यार्थं द्रव्यं तस्योत्तरार्धाद् अवदेयम्, अस्ति चाग्न्यर्थः पुरोडाशः। तस्माद् विष्टकृद् अप्रयोजक इति।
निर्देशात् तस्यान्यद् अर्थाद् इति ॥ MS_४,१.२९ ॥
इति चेत् पश्यसि, अप्रयोजकः पुरोडाशस्य स्विष्टकृद् इति, नैतद् एवम्, अग्निं प्रति निर्देशात् तस्य पुरोडाशस्य102 स्विष्टकृद् अर्थम् अन्यः पुरोडाश उत्पादयितव्यः, यस्योत्तरार्धात् स्विष्टकृद् इज्यते, तस्याग्नये संकल्पितस्य नेष्टे यजमानः। कथम् असौ तद् अन्यस्यै देवतायै दद्यात्। कथम् अग्निं प्रति निर्देश इति। इदं श्रूयते - अङ्गिरसो वा इत उत्तमाः सुवर्गं लोक[४५५]103मायंस् ते यज्ञवास्त्व् अभ्यायंस् ते पुरोडाशं कूर्मं भूत्वा सर्पन्तम् अपश्यंस् तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्वादित्याय ध्रियस्व स नाध्रियत तम् अब्रुवन् अग्नये ध्रियस्वेति सो ऽध्रियत यदाग्नेयो ऽष्टाकपालो104 ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति105। तस्मात् तेन स्विष्टकृतो न संबन्धः। एवं चेत् तस्माद् अन्यद् द्रव्यम् अर्थाद् उत्पादयितव्यम्, न ह्य् अनुत्पन्नस्य द्रव्यस्योत्तरार्धो भवतीति।
न शेषसंनिधानात् ॥ MS_४,१.३० ॥
नैतद् एवं संनिहितो हि शेषः, यस्मिन्न् अनुत्पाद्यमाने ऽर्थो न सिध्यति, सो ऽर्थाद् उपाद्यते। संनिहिते च शेषे सति सिध्यत्य् उत्तरार्धाद् ग्रहणम्। तस्मान् नार्थाद् द्रव्यम् उत्पादयितव्यम्, यद् एवान्यार्थं द्रव्यं संनिहितम्, तस्यैवोत्तरार्धाद् ग्रहीतव्यम्। उत्तरार्धमात्रं हि स्विष्टकृते श्रूयते नामुष्य द्रव्यस्येति। न चैतावता व्यवहारो भवति, सर्वो हि कस्यचिद् उत्तरार्धः, स एष संनिहितम् अपेक्षते, संनिहितं च परार्थम्। तस्मात् परार्थाद् द्रव्यात् स्विष्टकृद् इज्या। अतश् चाप्रयोजिकेति। यद् उक्तम्, अनीशानेन न शक्यं दातुम् इति, तद् उच्यते, वाचनिक एष शेषप्रतिपादनार्थ उत्सर्गः, स शक्यः कर्तुम्। दानं ह्य् उत्सर्गपूर्वकः परस्य स्वत्वसंबन्धः, स न शक्यो ऽनीशानेन।
कर्मकार्यात् ॥ MS_४,१.३१ ॥
कर्मनिमित्तश् च स्विष्टकृतो भाग इति श्रूयते। कथम्? देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै [४५६]106 भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति। कर्म कुर्वतो भागो ऽयम् उत्तरार्धाद् इति स्तुतिर् भवति। यद्य् आग्नेयस्योत्तरार्धाद् इत्य् उच्यते, ततो ऽस्ति कर्मार्थेन भागेन सादृश्यम् इदम्, तदाग्नेयं हव्यं यत् किल वहसीति, तत्र सति सादृश्ये स्तुतिर् उपपद्यते, प्रयोजकत्वे चासति सादृश्ये स्तुतिसामञ्जस्यं न स्यात्। तस्माद् अप्रयोजकः पुरोडाशस्य स्विष्टकृद्याग इति।
लिङ्गदर्शनाच् च ॥ MS_४,१.३२ ॥
लिङ्गम् अपि भवति - तद् यत् सर्वेभ्यो हविर्भ्यः समवद्यति, तस्माद् इदम् उदरे विश्वरूपम् अन्नं समवधीयत इति, यदि परार्थाद् द्रव्यात् संनिहिताद् इज्यते, तदा सत्संनिधानाविशेषात् सर्वेभ्यो ऽवदीयत इत्य् उपपद्यते। प्रयोजकत्वे त्व् एकस्माद् एवावदीयेत। तस्माद् अप्य् अप्रयोजकः। तथेदम् अपरं लिङ्गम् - शेषाद् इडाम् अवद्यति, शेषात् स्विष्टकृतं यजतीति। नन्व् अयं विधिः स्यात्। नेति ब्रूमः, नात्र विधिविभक्तिर् वर्तमानापदेशो ह्य् अयम् इति।
अभिघारणे विप्रकर्षाद् अनुयाजवत् पात्रभेदः स्यात् ॥ MS_४,१.३३ ॥
अस्ति वाजपेयः, वायपेयेन स्वाराज्यकामो यजेतेति। तत्र श्रूयते - सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः प्रजापतेर् आप्त्यै, इति107, प्राजापत्यानां क्रतुपशूनां च समुच्चयो वक्ष्यते - प्रजापात्येषु चाम्नानाद् इति108। अस्ति [४५७]109 तु प्रकृतौ, प्रयाजशेषेण हवींष्य् अभिघारयतीति110। तत्र संदेहः - किं प्राजापत्यानां वपा अभिघारयितुं प्रयाजशेषस्य धारणार्थं पात्रम् अपरम् उत्पादयितव्यम्, ततस् तेन प्राजापत्यानां वपा अभिघारयितव्याः, उत न शेषो धारयितव्यः, नैव ततः प्राजापत्यानां वपा अभिघारणीया इति। किं प्राप्तम्? अभिघारणे प्रयाजशेषधारणार्थं पात्रम् उत्पाद्येत, प्रातःसवने च प्रयाजशेषो विप्रकृष्टकाले111 माध्यंदिने सवने, ब्रह्मसामकाले प्राजापत्यानाम् आलभ्यः श्रूयते - तान् पर्यग्निकृतान् उत्सृजन्ति, ब्रह्मसाम्न्य् आलभत इति112, व्यापृता च जुहूर् भवति। तस्मात् पात्रान्तरम् उत्पादनीयम् इति, यथानुयाजेषु पृषदाज्यधारणार्थं पात्रम् उत्पाद्यते, पृषदाज्येनानुयाजान् यजतीति113 वचनात्, एवम् अत्रापीति।
न वापात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् ॥ MS_४,१.३४ ॥
न वा प्राजापत्यानां वपा अभिघार्याः। कुतः? शेषाभावात्। कथं शेषाभाव इति चेत्। अपात्रत्वात्। कथम् अपात्रता? एकदेशत्वात्, प्रयाजार्थस्य हि गृहीतस्याज्यस्य स एकदेशः शेषः। किम् अतः? यद्य् एवम्, एकदेशव्यापारः श्रूयमाणो नावयविनम् उपादेयत्वेन चोदयति। आह, उत्पत्तिं न चोदयेत्, धारणम् उत्पन्नस्यार्थाद् भविष्यतीति। उच्यते, एकदेशत्वाद् अभिघारणं द्रव्यम् एव न प्रयुङ्क्त इत्य् उच्यते, कृतार्थस्य द्रव्यस्यायम् एकदेशः प्रतिपाद्यते, नाभिघारणम् अर्थकर्म। ननु हविषाम्, द्वितीयानिर्देशात् प्राधान्यं स्यात्। नेत्य् उच्यते, अदृष्टो हि हविषाम् उपकारः कल्प्येत, आज्यप्राधान्ये पुनर् जुह्वा रिक्तत्वं दृष्टं प्रयोजनम्, आज्यभागार्थेनाज्येनासंसर्गः, जुह्वा [४५८]114 रिक्तया प्रयोजनम्, नाभिघृतेन हविषा। तस्मात् प्राजापत्यानाम् अभिघारिताभिर् वपाभिः प्रयोजनम् एव नास्ति, किम् अर्थं शेषो धार्यत इति।
हेतुत्वाच् च सहप्रयोगस्य ॥ MS_४,१.३५ ॥
हेतुत्वाच् चाभिघारणस्य, सहालभत इति स्तुतिर् भवति, तीर्थं वै प्रातःसवनम्, यत् प्रातःसवने पशव आलभ्यन्ते, तीर्थ एवैतान् आलभते, सयोनित्वायार्थो वपानाम् अभिघृतत्वाय, इत्य् अर्थानतरेण वपाभिघारणम् अनुगृह्णन् नेहास्तीति दर्शयति।
अभावदर्शनाच् च ॥ MS_४,१.३६ ॥
अभावं खल्व् अप्य् अभिग्धारणस्य दर्शयति - सव्या वा एतर्हि वपा यर्ह्य् अनभिघृताः, ब्रह्म वै ब्रह्मसाम, यद् ब्रह्मसाम्न्य् आलभते तेनासव्याः, तेनाभिघृता इति। सव्यशब्दो रूक्षे भाष्यते, सव्या वपेत्य् अनभिघृततां दर्शयति।
सति सव्यवचनम् ॥ MS_४,१.३७ ॥
आह नैतद् दर्शनम्, सत्य् एव ह्य् अभिघारणे भवत्य् एतत् सव्यवचनम्, अस्ति हि वपाया अन्यद् अभिघारणम् - उपस्तृणात्य् आज्यं हिरण्यशकलम्, वपा हिरण्यशकलं ततो ऽभिघारयतीति115। तस्मिन् सति कथं सव्या भवेयुः? ब्रूते116 च, तस्मान् नैतच् छक्यम् अवगन्तुम् रूक्षास् ता वपा दृश्यन्त इति, तेन नूनम् अभिघारणं प्रयाजशेषेणास्तीति, सत्य् अस्मिन्न् अभिघारणे प्रत्यक्षे, रूक्षास् ता इति दर्शनं व्यामोह इति117।
[४५९]118
न तस्येति चेत् ॥ MS_४,१.३८ ॥
एवं चेद् दृश्यते, सत्य् अभिघारणे सव्या इति वचनम् अलिङ्गम् इति, नालिङ्गम्, तस्यैतद् वचनम्, यत् स्नेहनं करोति। कतमत् तत्? यत् प्रथमम्, प्रथमं हि स्नेहनं करोति, न द्वितीयम्। स्निग्धस्य तद् भवति, न च स्निग्धस्य स्नेहनं क्रियते, यथा भवति लोके वादः, यद् अस्माभिः कान्तारान् निर्गतैर् देवदत्तस्य गृहे स्निग्धम् भुक्तम्119, तेन वयम् अरूक्षाः कृता इति, सत्स्व् अप्य् अन्येषु स्निग्धेष्व् एव भोजनेषु, एवं तस्यारूक्षाकरणस्याभिघारणस्याभावाद् रूक्षा इति वचनम् उपपद्यते, अस्मिंस् तु सति नोपपद्यते। तस्माद् अपि प्रयाजशेषेणाभिघारणं प्राजापत्यानां नास्तीति।
स्यात् तस्य मुख्यत्वात् ॥ MS_४,१.३९ ॥
इदं पदोत्तरं सूत्रम्120। यदि प्रथमस्याभावात् सव्या इति वचनं भवत्य् अनुपपन्नम्, तर्ह्य् अन्यस्य प्रथमस्य विद्यमानत्वात्। कतमत् तत्? यच् छ्रप्यमाणाया अपरम् उद्वासितायाः। अत्रोच्यते - स्यात् तस्य मुख्यत्वात्, यत् प्रयाजशेषेणाभिघारणम्, तस्यैवाभावाद् एतद् उपपद्यते, सत्य् अपि श्रप्यमाणाया अभिघारण उद्वासितायाश् च, यत् तावच् छ्रप्यमाणायाः, तद् अग्नेर् अर्चींषि दहन्ति, यद् उद्वासितायाः, तद् अग्न्यवयवा121 ऊष्मावयवाश् च नाशयन्ति, सैषा रूक्षैव, इदं तु प्रयाजशेषेण शीतायाः क्रियते, तत् स्नेहयति, तेन स्निग्धायाः पदानकालम् अभिघारणं यत्, तन् न स्नेहयति। तद् इदं स्नेहनस्याभिघारणस्याभावात् सव्यतावचनम् उपपद्यत इत्य् उक्तम्, तस्मान् न प्रयाजशेषो धार्यत इति।
[४६०]122
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् ॥ MS_४,१.४० ॥
दर्शपूर्णमासयोः श्रूयते - अतिहायेडो बर्हिः प्रति समानयतीति। तत्र संदेहः, किं समानयनम् आज्यस्य धर्माणां च प्रयोजकम्, उताप्रयोजकम् इति। किं प्राप्तम्? अप्रयोजकम् इति। कुतः? प्रयाजानुयाजार्थस्याज्यस्यायम् एकदेशः समानीयत इति, पूर्वेण न्यायेनाप्रयोजकता प्राप्ता। तद् उच्यते - मुख्यं समानयनं लिङ्गदर्शनात्। किं लिङ्गम्? चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीत्य् आतिथ्यायां श्रूयते, यदि प्रयाजार्थं समानयनम्, ततस् तत्रैकं चतुर्गृहीतं समानीयते। एकम् अप्य् अनुयाजानां भवति, ततश् चातिथ्येडां ता संतिष्ठत इत्य् अनुयाजाभाव उपभृति समानयनार्थम् एकं चतुर्गृहीतं ग्राह्यम्, न त्व् अनुयाजार्थम्। तत्र बहूनां चतुर्गृहीतानां दर्शनम् उपपद्यते, इतरथा ह्य् अनुयाजाभावे नैवोपभृति चतुर् गृह्येत, तत्र चतुर्गृहीतानीति बहुवचनं नोपपद्यते। तस्मात् प्रयोजकं समानयनम् इति। ननु लिङ्गम् उपदिश्यते, का प्राप्तिः? उच्यते - दृष्टं तत्र प्रयोजनं प्रयाजौ द्वौ यष्टव्यौ, तत्र जुह्वाम् आज्येन प्रयोजनं नोपभृति रिक्तायाम्, उपभृतो रेचनम् अदृष्टार्थं जुह्वां निधानं दृष्टार्थम् एव। तेन प्रयाजहोमार्थम् आज्यसमानयनम् औपभृतम् आज्यं [४६१]123 प्रयोजयति। तद् अपि हि प्रयाजार्थम् अनुयाजार्थं चेति वक्ष्यते।
वचने हि हेत्वसामर्थ्ये ॥ MS_४,१.४१ ॥
अथ कस्मान् न वचनम् एतत्, न चतुर्गृहीतान्य् आज्यानीति। उच्यते, वचने हि हेतुर् असमर्थितः स्यात्, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति। यदा समानयनं न प्रयाजार्थम् इति गम्यते, तदा वचनम्। यदा वचनम्, तदा नानुयाजाभावो हेतुः, असति हेतौ, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति हेतुवन् निगदो नोपपद्येत। तस्मात् प्रयाजार्थं समानयनं प्रयोजकम् औपभृतस्याज्यस्य। किं भवति प्रयोजनम्? पर्याजार्थे समानयने यावत् प्रयाजार्थम्, तावत् सर्वं समानेयम्, अर्धम् औपभृतस्य, अप्रयोजनकत्वे न नियोगतो ऽर्धं यावत् ताद्वत् वा।
तत्रोत्पत्तिर् अविभक्ता स्यात् ॥ MS_४,१.४२ ॥
दर्शपूर्णमासयोः श्रूयते - चतुर्जुह्वां गृह्णात्य् अष्टाव् उपभृति गृह्णातीति124। तत्र संदेहः, किं जौहवम् औपभृतं चोभयम् उभयार्थम्, प्रयाजेभ्यश् चानुयाजेभ्यश् च, उत जौहवं प्रयाजेभ्यः, औपभृतम् अनुयाजेभ्यः? अथवा औपभृतं प्रयाजेभ्यो ऽनुयाजेभ्यश् चेति। किं प्राप्तम्? उभयम् उभयार्थम्। कुतः? यद् यद् आज्येन क्रियते, तस्मै तस्मै भवितुम् अर्हत्य् अविशेषात्।
तत्र जौहवम् अनुयाजप्रतिषेधार्थम् ॥ MS_४,१.४३ ॥
नैवम्, उभयम् उभयार्थम् इति, जौहवं प्रयाजार्थम्, औप[४६२]125भृतम् उभयार्थम्। कथम्? यज् जुह्वां गृह्णाति, ऋतुभ्यस् तद् गृह्णाति, ऋतवो वै प्रयाजा इति जौहववचनम् अनुयाजप्रतिषेधार्थं प्रयाजान् संकीर्तयति। आह, ननु नास्त्य् अत्रानुयाजप्रतिषेधार्थं वचनम्, यद् एतत् प्रयाजेभ्यस् तद् गृह्णातीति126, प्रयाजेषूपदेशकम् एतत्, नास्त्य् अस्यानुयाजप्रतिषेधे सामर्थ्यम् इति। उच्यते - न ब्रूमः, प्रतिषेधकम् एतद् इति। किं तूत्पत्तिवाक्य आज्यानां नैव प्रयोजनाभिसंबन्धः, अनेन वचनेन प्रयाजप्रयोजनता क्रियते जौहवस्य, अनुयाजप्रयोजनतास्य वचनाभावाद् एव न गम्यत इति, अनुयाजप्रतिषेधार्थं वचनम् इत्य् उच्यते।
औपभृतं तथेति चेत् ॥ MS_४,१.४४ ॥
इति चेद् दृश्यते, जौहवम् अनुयाजेभ्यः प्रतिषिध्यते, औपभृतम् उभयार्थम् इति, भवतु जौहवं प्रयाजार्थम्, न त्व् औपभृतम् उभयार्थम्। तद् अपि तथा स्यात्, यथा जौहवम्। कथम्? एतद् अप्य् अनुयाजार्थम् एव श्रूयते, यद् उपभृति गृह्णात्य् अनुयाजेभ्यस् तद् गृह्णाति छन्दांसि ह्य् अनुयाजा इति। अनुयाजार्थतास्येति।
स्याज् जुहूप्रतिषेधान् नित्यानुवादः ॥ MS_४,१.४५ ॥
नैतद् एवम्, उभयार्थं ह्य् औपभृतम्, एवं हि श्रूयते - यद् अष्टाव् उपभृति गृह्णाति प्रयाजानुयाजेभ्यस् तद् गृह्णातीति127। ननूक्तम्, अनुयाजेभ्यस् तद् गृह्णातीत्य् अनुयाजार्थतास्येति। उच्यते, जुहूप्रतिषेधान् नित्यानुवादः। उभयस्मिन्न् औपभृते जौहवे च128 उभयार्थे प्राप्ते जौहवम् अनुयाजेभ्यः प्रतिषिद्धम्, नौपभृतम्, तद् औपभृतस्योभयार्थतायां सत्याम् अनु[४६३]129याजार्थतावचनं नित्यानुवादो भवितुम् अर्हति, न शक्नोति प्रयाजार्थतां प्रतिषेद्धुम्, प्रत्यक्षश्रुता हि सा, तस्माद् औपभृतम् उभयार्थम्। समानयनं च ततो जुह्वां श्रूयते, तस्माद् अपि प्रयाजार्थता न शक्या बाधितुम्।
तदष्टसंख्यं श्रवणात् ॥ MS_४,१.४६ ॥
अष्टाव् उपभृति गृह्णातीति130 श्रूयते। तत्र संदेहः, किं तद् औपभृतम् आज्यम् अष्टसंख्येन ग्रहणेन संस्क्रियते, उत चतुःसंख्या गुणभूता द्वयोर् ग्रहणयोर् इति। किं तावत् प्राप्तम्? अष्टसंख्या गुणभूता, न चतुःसंख्ये द्वे इति। कुतः? श्रवणाद् अष्टसंख्या श्रूयते, चतुःसंख्या अष्टसंख्यया लक्ष्यते, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या, तस्माद् अष्टसंख्यं ग्रहणम् एतद् इति।
अनुग्रहाच् च जौहवस्य ॥ MS_४,१.४७ ॥
अनुग्रहवादश् च भवति - चतुर्गृहीतं वा एतद् अभूत् तस्याघारम् आघार्य त्रिरितः131 प्राचीनं132 प्रयाजान् यजति समानयते चतुर्गृहीतत्वायेति चतुर्गृहीतानुग्रहः कथं स्याद् इति। किं चतुर्गृहीतं भवति समानयनेन? नेति ब्रूमः, चतुर्गृहीतं प्रथमम् एव तत्, आघारे ऽप्य् आघारिते, यद् अवशिष्टं चतुःसंख्यम् एव तस्य ग्रहणम् आसीत्। किं तर्हि चतुर्गृहीतत्वायेति। चतुर्गृहीतस्यानुग्रहार्थम्, अल्पं हि चतुर्गृहीतं होमायापर्याप्तम्, तत् पर्याप्तं कथं स्याद् इति। एवं चतुर्गृहीतशब्देनाल्पम् इति लक्ष्यते, अल्पत्वं च बहुत्वं कस्यचिद् अपेक्ष्य भवति, यदि ह्य् औपभृतम् अष्टसंख्यम् एवं चतुर्गृहीतम् [४६४]133 अल्पं भवति, तत्र134 चतुर्गृहीतशब्देन अल्पता शक्यते लक्षयितुम्। तस्माद् अपि पश्यामः, औपभृते ऽष्टसंख्या गुणभूतेति।
द्वयोस् तु हेतुसामर्थ्यं श्रवणं च समानयने ॥ MS_४,१.४८ ॥
तुशब्दः पक्षं व्यावर्तयति, द्वे एते चतुर्गृहीते, एवं हेतुः समर्थितो भवत्य् आतिथ्यायाम्, चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति135, असत्स्व् अप्य् अनुयाजेष्व् एतद् अष्टगृहीतम् एवौपभृतं भवेत्। यदाष्टसंख्या गुणभूता, न तदा द्वयोश् चतुर्गृहीतयोः सतोश् चतुर्गृहीतान्136 आज्यानीति बहुवचनम् आज्येषूपपद्यते। तस्माच् चतुर्गृहीते द्वे इति। आह, लिङ्गम् एतत् प्राप्तिर् उच्यताम् इति। तद् अभिधीयते, अनारभ्य उच्यते, चतुर्गृहीतं जुहोतीति सर्वहोमेषु, तेन प्रयाजानुयाजेष्व् अपि न तद् अष्टगृहीतेन शक्यते बाधितुम्, नानाविषयत्वात्। अष्टगृहीतं हि ग्रहणे, चतुर्गृहीतं हि होमे, अस्ति हि संभवः, यद् अष्टगृहीतं गृह्येत, चतुर्गृहीतं हूयेत, तद् एतद् इहाष्टत्वम् ग्रहणे भवति। कथं द्वे चतुर्गृहीते होमे सम्पादयेत्? तस्माद् द्वे एते चतुर्गृहीते, अष्टगृहीते गृह्यमाणे गृह्येते। चतुर्गृहीते द्वे नागृहीत्वाष्टगृहीतं137 कश्चित् सम्पादयेत्। तस्माद् द्वे एते चतुर्गृहीते इति। अथ यद् उक्तम्, अष्टगृहीतं श्रूयते, श्रुतिश् च लक्षणाया गरीयसीति, उच्यते - उक्तम् अस्माभिर् अष्टसंख्यायाः प्रयोजनम्, कथं द्वे चतुर्गृहीते स्याताम् इति। अपि च, अष्टाव् उपभृति गृह्णातीत्य् उपभृति समानीते द्वे चतुर्गृहीते कथं स्याताम् इति। इतरथासत्य् अष्टशब्दे नानापात्रयोर् गृह्येयाताम्। तस्माद् अष्टशब्दश्रवणम् अदोषः, साध्व् एतत्, द्वे चतुर्गृहीते [४६५]138 उपभृतीति। प्रयोजनम्, द्वयोश् चतुर्गृहीतयोः सतोः समानयने ऽर्धं समानेतव्यं भवति, अष्टगृहीते सति न नियोगतो ऽर्धम्। तथा यत्रानुयाजार्थं न ग्रहणम्, तत्राप्य् अष्टगृहीतम्, यथा पूर्वः पक्षः। यथा च सिद्धान्तः, तथा चातुर्मास्येषु चतुर्गृहीतम् उपभृति भवति।
-
E2: pūrvaprakṛtaṃ ↩︎
-
E2: natha (?) ↩︎
-
E2: 5,2; E6: 2,1 ↩︎
-
E1 hat yasmin prītiḥ puruṣasya, yasmin kṛte padārthe puruṣasya pratītir bhavati in Klammern ↩︎
-
E2: tasya lipsārthalakṣaṇā. tasya lipsārthenaiva bhavati ↩︎
-
Tait.S. 2.6.5.2 ↩︎
-
E2,6: bādarir ↩︎
-
MS 3.1.3 ↩︎
-
E2: upakārāya, yata ebhyaḥ ↩︎
-
E2 om. śeṣa ity uktam ↩︎
-
MS 3.1.2 ↩︎
-
E2: 5,3; E6: 2,2 ↩︎
-
Tait.S. 2.2.2.4-5 ↩︎
-
Tait.S. 2.3.2.5 ↩︎
-
E2: kāmaśrutigṛhītaṃ ↩︎
-
E2: savargāl; E1 (Fn.): svargāl ↩︎
-
E2: 5,4; E6: 2,3 ↩︎
-
Tait.S. 2.2.5.4 ↩︎
-
E6: bahir ↩︎
-
E2: eva, karmārtham upārjito ‘pi vrīhivrīhir eva, tasmān ↩︎
-
E2: phalavataikavākyabhāvāt ↩︎
-
E2: phalavataivaikavākyabhāvaḥ ↩︎
-
E2: kṣāmavatyādīnāṃ ↩︎
-
E2: 5,7: E6: 2,3 ↩︎
-
E2,6: cikīrṣyate ↩︎
-
E2 hat prītyutsargo ‘pi in Klammern ↩︎
-
E2,6: anugṛhyeta ↩︎
-
E2: 5,7; E6: 2,4 ↩︎
-
Tait.S. 2.6.1.1 ↩︎
-
Tait.S. 2.5.5.6 ↩︎
-
E2: api veti pakṣavyāvṛttiḥ. naitad ↩︎
-
E2 hat karmaṇo in Klammern ↩︎
-
E2,6: vijñāyate ↩︎
-
E2: 5,9; E6: 2,5 ↩︎
-
Tait.S. 1.6.8.2 ↩︎
-
E2: 5,10; E6: 2,5 ↩︎
-
Tait.S. 6.6.4.1 ↩︎
-
E2: śrapayanti ↩︎
-
Tait.S. 2.3.6.2 ↩︎
-
E2: agnihotrahavaṇyā; E6: agnihotrahavaṇyāṃ ↩︎
-
E2: 5,12; E6: 2,6 ↩︎
-
Tait.S. 6.1.11.6 ↩︎
-
ŚPBr 1.5.1.13 ↩︎
-
ŚPBr 4.5.10.6 ↩︎
-
Tait.S. 5.6.21.1 ↩︎
-
E2: 5,16; E6: 2,7 ↩︎
-
Kaṭha.S. 13.7 ↩︎
-
E2: 5,14; E6: 2,8 ↩︎
-
Vāj.S. 24.3 ↩︎
-
E2,6: bṛhanto ↩︎
-
E2,6: śabalā ↩︎
-
Vāj.S. 24.3 ↩︎
-
E2: 5,446; E6: 2,9 ↩︎
-
ŚPBr 13.2.5.1 ↩︎
-
Tait.S. 2.1.2.5 ↩︎
-
Tait.S. 2.1.2.6 ↩︎
-
E2: bastaḥ ↩︎
-
Tait.S. 5.6.12.1 ↩︎
-
E2: muṣkarāṃ ↩︎
-
Tait.Br. 1.8.2.2 ↩︎
-
E2,6: ’tidiśyate ↩︎
-
E2 om. vā ↩︎
-
E2: 5,16; E6: 2,9 ↩︎
-
E1 hat uttamaḥ prayājaḥ paśupuroḍāśaḥ sviṣṭakṛd ity ete yāgā udāharaṇam in Klammern ↩︎
-
E2: pratīyeta ↩︎
-
E2 om. iti ↩︎
-
E2: 5,18; E6: 2,9 ↩︎
-
E1 hat prayojane in Klammern ↩︎
-
E2: 5,18; E6: 2,10 ↩︎
-
E2,6: vājibhyo ↩︎
-
E2 om. api ↩︎
-
E2: na gamyata ↩︎
-
E2: 5,20; E6: 2,11 ↩︎
-
E2: prayojakatvaṃ jñānam ↩︎
-
E2: parihṛtatvād ↩︎
-
E2 om. mastv ↩︎
-
E2: paridṛśyate ↩︎
-
E2: 5,21; E6: 2,11 ↩︎
-
E2: garbhasaṃstutāmikṣā ↩︎
-
Tait.S. 6.1.6.7 ↩︎
-
Tait.S. 6.1.8.1 ↩︎
-
E2: upāñjāt ↩︎
-
Tait.S. 3.1.3.1 ↩︎
-
MS 4.1.22 ↩︎
-
E2: padapāṃsugrahaṇavākye ↩︎
-
E2: 5,22; E6: 2,12 ↩︎
-
Tait.S. 2.3.6.2 ↩︎
-
E2: 5,23; E6: 2,13 ↩︎
-
Tait.S. 6.3.10.4 ↩︎
-
E2: barhiraṅktvāpāsyatīti; E6: barhiralaṅktāpāsyatīti ↩︎
-
Tait.S. 6.3.9.2 ↩︎
-
MS 4.1.22 ↩︎
-
E2 om. paśau ↩︎
-
E2 om. śakṛl lohitayor aprayojakatvam, na hi tadarthaḥ paśor ālambhaḥ ↩︎
-
Tait.S. 6.1.11.6 ↩︎
-
E2: 5,24; E6: 2,13 ↩︎
-
E2: ekadeśadravyaṃ ↩︎
-
E2: ekadeśadravyaṃ ↩︎
-
Tait.S. 2.6.6.5 ↩︎
-
MS 4.1.22 ↩︎
-
E2: ekadeśadravyaṃ ↩︎
-
E1 hat puroḍāśasya in Klammern ↩︎
-
E2: 5,25; E6: 2,14 ↩︎
-
E2: ‘ṣṭakapālo ↩︎
-
Tait.S. 2.6.3.2 ↩︎
-
E2: 5,26; E6: 2,15 ↩︎
-
Tait.Br. 1.3.4.3-4 ↩︎
-
MS 10.4.6 ↩︎
-
E2: 5,27; E6: 2,15 ↩︎
-
Tait.Br. 1.3.4.4 ↩︎
-
E2: viprakṛṣṭe kāle ↩︎
-
Tait.Br. 1.3.4.4 ↩︎
-
Tait.S. 6.3.11.6 ↩︎
-
E2: 5,28; E6: 2,16 ↩︎
-
Ait.Br. 2.14 ↩︎
-
E2: śrūyate ↩︎
-
E2: pratyakṣam arūkṣās tāḥ. ato rūkṣāvacanaṃ vyāmoha iti ↩︎
-
E2: 5,29; E6: 2,17 ↩︎
-
E2: snigdham annaṃ bhuktaṃ ↩︎
-
E1 gibt idaṃ padottaraṃ sūtram in Klammern ↩︎
-
E2: agnyam athavā ↩︎
-
E2: 5,29; E6: 2,17 ↩︎
-
E2: 5,31; E6: 2,18 ↩︎
-
Tait.Br.3.3.5.4-5 ↩︎
-
E2: 5,32; E6: 2,19 ↩︎
-
ŚPBr 1.3.2.8 ↩︎
-
ŚPBr 1.3.2.9 ↩︎
-
E1 gibt aupabhṛte jauhave ca in Klammern ↩︎
-
E2: 5,33; E6: 2,19 ↩︎
-
Tait.Br. 3.3.5.5 ↩︎
-
E2: trīnitaḥ ↩︎
-
E2: prācīnān ↩︎
-
E2: 5,34; E6: 2,20 ↩︎
-
E2 om. caturgṛhītam alpaṃ bhavati, tatra ↩︎
-
Tait.S. 5.1.1.1 ↩︎
-
E2,6: caturgṛhītāny ↩︎
-
E2: na hi dve caturgṛhīte agṛhītvāṣṭagṛhītaṃ ↩︎
-
E2: 5,36; E6: 2,21 ↩︎