स्वामिकर्म परिक्रयः कर्मणस् तदर्थत्वात् ॥ MS_३,८.१ ॥
अस्ति परिक्रयः, ज्योतिष्टोमे द्वादशशतम्, दर्शपूर्णमासयोर् अन्वाहार्यम्1। तत्र संदेहः - किम् अध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिनेति। किं प्राप्तम्? समाख्यानाद् अध्वर्युणेति प्राप्ते ब्रूमः - स्वामिकर्म परिक्रयः। स्वयं करोतीति गम्यते। कस्मात्?2 कर्मणस् तदर्थत्वात्, फलकामो हि यजमानः, यश् च फलकामः, तेन स्वयं कर्तव्यम्। स यदि परिक्रीणीते, ततः स्वयं सर्वं करोतीति गम्यते। अथ न परिक्रीणीते न सर्वं कुर्यात्। तस्मात् स्वामी परिक्रीणीतेति।
वचनाद् इतरेषां स्यात् ॥ MS_३,८.२ ॥
किम् एष एवोत्सर्गः? नेत्य् उच्यते - वचनाद् इतरेषां स्यात्। यत्र वचनं भवति, तत्र वचनप्रामाण्याद् भवति परिक्रयः। य एताम् इष्टकाम् उपदध्यात् स त्रीन् वरान् दद्याद् इति3।
[४१३]4
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद् व्यवतिष्ठेरन् ॥ MS_३,८.३ ॥
ज्योतिष्टोमे श्रूयते - केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तते, स्नातीति5। तत्र संदेहः - किम् एवंजातीयका अध्वर्युणा कर्तव्याः, उत यजमानेनेति। किं प्राप्तम्? अध्वर्युणा कर्तव्याः, संस्कारा यथावेदं व्यवतिष्ठेरन् समाख्यानात् पुरुषेण कर्मवत्, यथा - अन्ये पदार्था यस्मिन् वेद आम्नाताः, तत्समाख्यातेन पुरुषेण क्रियन्ते, एवम् एते ऽपीति।
याजमानास् तु तत्प्रधानत्वात् कर्मवत् ॥ MS_३,८.४ ॥
यजमानेन वा कर्तव्याः। कुतः? पुरुषप्रधानत्वात्। कथं पुरुषप्राधान्यम्? कर्त्रभिप्रायं क्रियाफलं गम्यते, तस्मात् पुरुषस्य कर्मकरणसामर्थ्यम् उपजनयन्ति। न च कश्चिद् येन कर्मकरणेन सामर्थ्यम् उपजन्यते6 तद् अर्थं पुरुषान् क्रीणातीति, ईप्सितेभ्यः पदार्थेभ्यः क्रीणाति, येन यस्य सामर्थ्यं भवति, तत् तेनैव कर्तव्यम्, कर्मवत्, यथा - प्रधानकर्मणि पुरुषार्थानि यजमानस्य भवन्ति, एवम् एतद् अपीति।
व्यपदेशाच् च ॥ MS_३,८.५ ॥
परस्मैपदव्यपदेशश् च भवति - तम् अभ्यनक्ति, शरेषीकयानक्तीति च। अन्यो यजमानस्याञ्जनम् अभ्यञ्जनं करोतीति गम्यते।
गुणत्वे तस्य निर्देशः ॥ MS_३,८.६ ॥
यद् उक्तम् - समाख्यानाद् यथावेदम् इति, नैतद् एवम्, गुणत्वे [४१४]7 तस्य निर्देशः, तत्र वयं समाख्यां नियामिकाम् इच्छामः, यत्र कर्मणः प्राधान्यम्, यद् अर्थं क्रेतव्याः पुरुषाः प्राप्ताः, तत्र समाख्यया नियमः। कल्प्यो हि संबन्धो वपनादिभिः, पुरुषाणाम्, अदृष्टार्थत्वात्, कॢप्त आराद् उपकारकैः। न च कॢप्त उपपद्यमाने कल्प्यः शक्यः कल्पयितुम्। तस्मान् न पुरुषप्राधान्ये समाख्या नियामिका स्यात्।
चोदनां प्रति भावाच् च ॥ MS_३,८.७ ॥
चोदनेत्य् अपूर्वं ब्रूमः - अपूर्वं प्रति संस्कारा विधीयन्ते। ते ह्य् असंभवाद् द्रव्येषु कल्प्यन्ते, संनिकृष्टद्रव्याभावे च विप्रकृष्टेषु भवेयुः, यदा तु संनिकृष्टे द्रव्ये संभवन्ति, तदा न विप्रकृष्टेषु प्रयोक्तव्याः, कृतार्थत्वात्। तस्माद् याजमाना इति।
अतुल्यत्वाद् असमानविधानाः स्युः ॥ MS_३,८.८ ॥
इदं पदोत्तरं सूत्रम्8। अथ कस्मान् न समानविधाना भवन्ति? अविशेषविधानाद् धि पुरुषमात्रस्य प्राप्नुवन्ति। तद् उच्यते - नैतत् समानं सर्वपुरुषाणां विधानम्। कुतः? अतुल्यत्वात्, अतुल्या एत एतद्विधानं प्रति। कातुल्यता? यत्, यजमानस्य विहिता नर्त्विजाम्। कथं यजमानस्य विहिता इत्य् अगम्यते? अर्थात् स्वयं प्रयोगे स्याद् इति। नन्व् अविशेषाद् ऋत्विजाम् अपि विहिताः। प्रयोजनाभावाद् अविहिता इति पश्यामः। कथं प्रयोजनाभावः? ऋत्विग्भिः क्रियमाणा न यजमानेन कृता न कारिताः, अतदर्थत्वात् परिक्रयस्य। स्वयंकृताश् च नार्थिन उपकुर्वन्ति। तस्माद् अप्र्योजनाः, अत ऋत्विजाम् अविहिताः, एतद् अतुल्यत्वम्। तस्मान् न समानविधाना इति।
[४१५]9
तपश् च फलसिद्धित्वाल् लोकवत् ॥ MS_३,८.९ ॥
तपः श्रूयते - द्व्य् अहं नाश्नाति, त्र्य् अहं नाश्नातीति। तत्र संदेहः - किम् आर्त्विजं तपः, याजमानम् इति। किं प्राप्तम्? समाख्यानाद् आर्त्विजं तप इति प्राप्तम्। एवं प्राप्ते ब्रूमः - याजमानं तप इति। कुतः? फलसिद्धित्वात्, फलसिद्ध्यर्थं तपः। तपःसिद्धस्य यागफलं सिद्ध्यति। कथम् एतद् अवगम्यते? दुःखं हि तपः, दुःखं चाधर्मफलम्, अधर्मो यागफलस्य प्रतिबन्धको भवति। अश्रेयस्करो हि सः, तस्मिन् सति न श्रेयो भवितुम् अर्हति, तस्मात् सो ऽपनेतव्यः, फलभोगेन च विरुध्येते धर्माधर्मौ। तस्माद् दुःखफलभोगाय धर्मः10 श्रूयते। यत् तेन दुःखम् उत्पाद्यैतव्यम्, इदं तद् इति। एवं दृष्टार्थं भवति, नादृष्टं कल्पयितव्यम्, तेन फलोपभोगेन क्षीणो ऽधर्मे ऽप्रतिबद्धो यागः फलं दास्यतीति, फलसिद्धिश् च यजमानस्य कर्तव्या नर्त्विजाम्। तस्माद् याजमानं तप इति।
वाक्यशेषश् च तद्वत् ॥ MS_३,८.१० ॥
एतम् एवार्थं वाक्यशेषो ऽपि द्योतयति - यदा वै पुरुषे न किंचिन् आन्तर्भवति, यदास्य कृष्णं चक्षुषो नश्यति, अथ मेध्यतम इति। यदानशनम्11, तदा मेधार्ह इति। मेधश् च यज्ञः, यज्ञश् च त्यागः, त्यागं कर्तुम् अर्हस् तपसा क्रियत इति वाक्यशेषो भवति, त्यागी च यजमानः। तस्माद् याजमानं तप इति।
वचनाद् इतरेषां स्यात् ॥ MS_३,८.११ ॥
किम् एष एवोत्सर्गः? सर्वं तपो याजमानम् इति। न12, [४१६]13 वचनाद् इतरेषाम्, यत्र वचनम्, तत्रर्त्विजाम्, यथा - सर्व ऋत्विज उपवसन्तीति।
गुणत्वाच् च वेदेन न व्यवस्था स्यात् ॥ MS_३,८.१२ ॥
अथ यद् उक्तम् - समाख्यानाद् अर्त्विजं तप इति, गुणत्वान् न समाख्यया गृह्यते, यत्र पुरुषस्य गुणभावः, तत्र समाख्या नियामिका। एवं वा श्येने श्रूयते - लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्तीति। तथा वाजपेये श्रूयते - हिरण्यमालिन ऋत्विजः प्रचरन्तीति। तत्र संदेहः - किं श्येन उद्गातृभिर् लोहितोष्णीषता कर्तव्या, वाजपेये चाध्वर्युभिर् हिरण्यमालित्वम्, उतोभयम् अपि सर्वर्त्विजाम् इति। किं तावत् प्राप्तम्? समाख्यानात् श्येन उद्गातृभिर् वाजपेये ऽध्वर्युभिर् इति। एवं प्राप्ते ब्रूमः - गुणत्वाच् च वेदेन न व्यवस्था स्यात्, गुणो लोहितोष्णीषता हिरण्यमालित्वं च, पुरुषः प्रधानम्, अतो लोहितम् उष्णीषं हिरण्यमाला च पुरुषविशेषणत्वेन श्रूयते, न कर्तव्यतया, तस्मात् पुरुषप्राधान्यम्। किम् अतः? यद्य् एवम्, पुरुषाणां प्रधानभावे समाख्या न नियामिकेत्य् एतद् उक्तम्। अपि च - गुणत्वश्रवणात् सर्वपुरुषाणाम् एतद् विधानम् इति गम्यते, प्रधानसंनिधौ हि गुणः शिष्यमानः प्रतिप्रधानम् उपदिष्टो भवति। तत्र वचनेन प्राप्तं कथं समाख्यया विद्यमानयापि नियन्तुं शक्येत? तस्माद् उभयत्र सर्वर्त्विग्भिर् एवंजातीयको धर्मः क्रियेतेति।
[४१७]14
तथा कामो ऽर्थसंयोगात् ॥ MS_३,८.१३ ॥
ज्योतिष्टोमे समामनन्ति - यदि कामयेत वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति। तत्र संदेहः - किम् आर्त्विजः कामः, अथ याजमान इति। किम् एवम्? यदि कामयेताध्वर्युर् इति, उत यजमान इति, एवं संशयः। किं प्राप्तम्? आर्त्विजः कामः, समाख्यानात्। अर्थी प्रकृतो ऽध्वर्युः, स वाक्येन संबध्यते, मिनुयाद् इति। तस्माद् आर्त्विजः काम इति। एवं प्राप्ते ब्रूमः - तथा कामः स्यात्, यथा तपः, याजमानः काम इत्य् अर्थः15। कुतः? अर्थसंयोगात्, अर्थेन यागस्य साङ्गस्य, यजमानः फलेन संबध्यत इति गम्यते। उपग्रहविशेषात्, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्य् उपग्रहविशेषाश् च मिनुयाद् इत्य् अध्वर्युः परार्थम् इति गम्यते। अथ यद् उक्तम् - प्रकृतेनार्थिना सहैकवाक्यत्वाद् इति। उच्यते, एवम् अपि प्रकृतेन वाक्येन16 सहैकवाक्यता, यजमाने कामयमाने मिनुयाद् इति।
व्यपदेशाद् इतरेषां स्यात् ॥ MS_३,८.१४ ॥
यत्र भवति व्यपदेशः, तत्रार्त्विजः कामो भवति, यथा - उद्गातात्मने वा यजमानाय वा यं कामं कामयते, तम् आगायतीति, यद्य् आत्मन इति यजमानायेति परिकल्प्येत, यजमानग्रहणं वाशब्दश् च न समर्थितौ स्याताम्। तस्माद् यजमानव्यपदेशाद् आत्मानम् एवोद्गाता प्रतिनिर्दिशतीति गम्यते।
[४१८]17
मन्त्राश् चाकर्मकरणास् तद्वत् ॥ MS_३,८.१५ ॥
इहैवंजातीयका मन्त्रा उदाहरणम्, आयुर्दा अग्न आयुर्18 मे देहीति, वर्चोदा अग्ने ऽसि वर्चो मे देहीति19। एषु संदेहः - किम् आर्त्विजा उत याजमाना इति। समाख्यानाद् आर्त्विजा इति प्राप्तम्। एवं प्राप्ते ब्रूमः - मन्त्राश् चैते तद्वद् भवेयुः, यथा कामः, एवम् आत्माभिधायिपदं युक्तं भवति। आयुर् मे वर्चो म इति, आयुर् वर्च इत्येवमादिभिः कर्मफलम् अभिधीयते, अग्ने त्वं कर्मफलं मे साधयेति। तद् इह कर्मफलम् उत्साहार्थं संकीर्त्यते, यजमानश् च तेनोत्सहते, नान्यः। यद् ऋत्विजः क्रमफलम्, न तद् अर्थो ऽग्निः, सिद्धं हि तत्। यद् यजमानस्य, तद् अर्थो ऽग्निः, तच् चासिद्धं सद् आशासितव्यम्, यद् उत्साहं जनयत्य् अवैगुण्याय। ऋत्विग् अपि सिद्धे यद् उत्सहते, तद् यजमानस्यैव कर्मफलायोत्सहते। तत्रात्माभिधायिपदं नावकल्पते, यजमाने चात्माभिधायिपदं कल्प्यमानम् अगौणं भवति, तस्माद् याजमानाः।
विप्रयोगे च दर्शनात् ॥ MS_३,८.१६ ॥
विप्रयोगे चाग्नीनां प्रवास उपस्थानम् अस्ति, इह एव सन् तत्र सन्तं त्वाग्न इति। न च प्रोषितो ऽग्निभ्य ऋत्विग् भवति, कर्म कुर्वत एष वाचकः शब्दः। भवति तु यजमानो ऽग्निभ्यः प्रोषितो ऽपि यजमानः, संविधाय सो ऽग्निहोत्राय प्रवसति, शक्यते च विदेशस्थेनापि त्यागः कर्तुम्। स एव प्रोषितस्योपस्थानविशेषं ब्रुवन् यजमानस्योपस्थानं दर्शयति, तेनैवैवंजातीयका यजमानस्य भवेयुर् इति।
[४१९]20
द्व्य् आम्नातेषूभौ द्व्य् आम्नस्यार्थवत्त्वात् ॥ MS_३,८.१७ ॥
स्तो दर्शपूर्णमासौ, तत्र द्व्य् आम्नाता मन्त्रा आध्वर्यवे काण्डे याजमाने च। आज्यं यैर् गृह्यते, पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामीत्य्21एवमादयः, तथा स्रुग्व्यूहनमन्त्राः, स्रुचौ व्यूहति वाजस्य मा प्रसवेनेति22। तत्र संदेहः - किं त उभाभ्याम् अपि कर्तव्या उताध्वर्युणैवेति। किं प्राप्तम्? समाख्यानाद् आध्वर्यवा इति। इति प्राप्त उच्यते23 - उभाव् अपि तान् प्रयुञ्जीयाताम् इति। कुतः? द्व्य् आम्नातस्यार्थवत्त्वात्, द्वाभ्यां समाख्यानाद् द्वाव् अपि कर्तारौ गम्येते, तस्माद् द्वौ ब्रूयाताम्। अध्वर्युर् एतेन प्रकाशितम् अनुष्ठास्यामीति, यजमानो न प्रमदिष्यामीति।
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति ॥ MS_३,८.१८ ॥
वाजपेये श्रूयते - कॢप्तीर् यजमानं वाचयत्य् उज्जिसतीर्24 यजमानं वाचयतीति25। अत्र संदेहः - किं ज्ञश् चाज्ञश् च सर्वो वाचयितव्य उत ज्ञ एवेति। किं प्राप्तम्? अविशेषाज् ज्ञश् चाज्ञश् चेति। इति26 प्राप्ते ब्रूमः - ज्ञ एवेति। कुतः? न ह्य् अविद्वान् विहितो ऽस्ति, यो ह्य् अविद्वान् नासाव् अधिकृतः सामर्थ्याभावात्। ननु प्रयोगकाले शिक्षित्वा प्रयोक्ष्यते, सामर्थ्याद् [४२०]27 अधिक्रियेतेति। नेति ब्रूमः - वेदाध्ययनाद् उत्तरकाले प्रयोगः श्रूयते, न प्रयोगश्रुतिगृहीतं वेदाध्ययनम्। कुतः? अनारभ्यकर्मणि वेदे28 श्रूयते - तस्मात् स्वाध्ययो ऽध्येतव्य इति। सत्य् एतस्मिन् वचने, अग्निहोत्रं जुहुयाद् इत्येवमादिभिर् वेदो ऽध्येतव्य इत्य् एतद् उक्तं भवतीति न शक्यते कल्पयितुम्। तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्य् अधिक्रियते, नाविद्वान्। कियता पुनर् विदितेन विद्वान् अधिक्रियत इति। यावता विदितेन शक्तो भवति, यथोक्तं क्रतुम् अभिनिर्वर्तयितुम्। तस्मात्29 तावद् यो वेद स तेन क्रतुनाधिक्रियते। ननु वेदम् अधीयीतेति वचनात् कृत्स्नो वेदो ऽध्येतव्य इति भवति, न वेदावयवेनाधीक्रियत इति। उच्यते - क्रतूनां ज्ञानार्थं वेदाध्ययनं कार्यम्। तत्रान्यस्मिन् क्रतौ कर्तव्ये ऽन्यक्रतुज्ञानं न दृष्टाय भवति, तस्मात् क्रत्वन्तरज्ञानम् अधिकारे नादर्तव्यम्, क्रत्वन्तरज्ञानाय क्रत्वन्तरग्रन्थः, सर्वे क्रतवः कथं ज्ञायेरन्? पृथक् पृथग् इति कृत्स्नस्य वेदस्याध्ययनं श्रूयते, तस्मात् स्वपदार्थज्ञो ऽधिक्रियेतेति। तेनास्वपदार्थज्ञस्य कर्मैव नास्ति, कथम असौ वाच्येत। तस्मात् साध्व् अभिधीयते, ज्ञ एव वाचयितव्य इति।
याजमाने समाख्यानात् कर्माणि याजमानं स्युः ॥ MS_३,८.१९ ॥
स्तो दर्शपूर्णमासौ, तत्र कर्माण्य्30 आम्नातानि द्वादश, वत्सं चोपावसृजति, उखां चाधिश्रयति, अव च हन्ति, दृषदुपले च समाहन्ति, अधि च वपते, कपालानि चोपदधाति, [४२१]31 पुरोडाशं चाधिश्रयते, आज्यं च, स्तम्बयजुश् च हरति, अभि च गृह्णाति, वेदं च परिगृह्णाति, पत्नीं च32 संनह्यति, प्रोक्षणीश् चासादयति, आज्यं च, तानि33 द्वादश34 द्वान्द्वानि दर्शपूर्णमासयोर् इति35। अत्र संदेहः - किम् एतान्य् अध्वर्योः कर्माणि, उत यजमानस्येति। किं प्राप्तम्? यजमाने समाख्यानात् कर्माणि याजमानं स्युः। विशेषसमाख्यानाद् याजमानानीति गम्यते, यथा पोत्रीयं नेष्ट्रीयम् इति।
अध्वर्युर् वा तदर्थो हि न्यायपूर्वं समाख्यानम् ॥ MS_३,८.२० ॥
अध्वर्युर् वा कुर्याद् एतानि, तद् अर्थो ह्य् अध्वर्युः परिक्रीत इति समाख्यानाद् अवगम्यते। अध्वर्यव एव सर्व इमे पदार्थाः समाम्नाताः, याजमान एषां द्वन्द्वतोच्यते, द्वन्द्वता च समभ्याशक्रिया36। तत्राध्वर्युः पदार्थान् करिष्यति, यजमानेनापि समभ्याशीकरणम्37 इत्य् एतद् अशक्यम्। तत्राङ्गगुणविरोधे च, तादर्थ्याद् इति द्वन्द्वतागुणो बाधितव्यः। तस्माद् आध्वर्यवा एते पदार्था इति। यद् उक्तं समाख्यानाद् इति, तत् परिहर्तव्यम्, उच्यते - न्यायपूर्वं समाख्यानम्, समाख्यानाद् यजमानेन द्वन्द्वता संपादयितव्या, इदं चेदं च संपादयेति यजमानो ब्रूयात्। केषुचिच् चात्र पदार्थेषु यजमानस्यानुमन्तरणम्, तन्निमित्ता समाख्या भविष्यति, अपूर्वं त्व् अपकृष्येत। तद् उक्तम् - यथा पोत्रीयम्, नेष्ट्रीयम् इति, एवम् अत्रापीति। तद् उच्यते - युक्तं तत्र विशेष[४२२]38समाख्यानात्। इह तु द्वन्द्वता याजमानीया, पदार्थास् त्व् आध्वर्यवा एव। तस्माद् अदोषः।
विप्रतिषेधे करणः, समवायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् ॥ MS_३,८.२१ ॥
अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, तस्य यूपस्य परिव्याणे मन्त्रौ, एकः - अध्वर्योः परिवीरसीति39 करणः, अपरो होतुर् युवा सुवासा इति40 क्रियमाणानुवादी। तयोश् चोदकपरम्परया कुण्डपायिनाम् अयनं प्राप्तयोर् भवति संदेहः - कः पुनर् असौ? तत्र ऋत्विक्समास आम्नातः - यो होता सो ऽध्वर्युर् इति, किं करणम् आध्वर्यवं होता कुर्यात्? किं हौत्रं क्रियमाणानुवादिनम् इति। किं प्राप्तम्? अनियम इति। इति प्राप्त उच्च्यते - विप्रतिषेधे करणः स्यात्, आध्वर्यवः परिवीरसीति, न क्रियमाणानुवादी होतुर् युवा सुवासा इति। कुतः? समवायविशेषात्। द्वौ तत्र समवायौ, होतुश् चोदकेन हौत्रेषु, प्रत्यक्षश्रवणेनाध्वर्यवेषु - यो होता सो ऽध्वर्युर् इति। एवं प्रत्यक्षम् अध्वर्योः कार्ये चोद्यते, प्रत्यक्षं चानुमानाद् बलीयः। तस्माद् आध्वर्यवं करणं परिवीरसीति होता कुर्यात्। अथ हौत्रं विरुद्धं कः कुर्यात्? इतरम् अन्यः, तेषां यतो विशेषः स्यात्, अन्यो होतृपुरुष एव स्यात्, यस्याव्यापृतता, प्राधान्यविशेषो वा।
[४२३]
प्रैषेषु च पराधिकारात् ॥ MS_३,८.२२ ॥
स्तो दर्शपूर्णमासौ, तत्र प्रैषाः समानाताः, प्रोक्षणीर् आसादयेध्मा बर्हिर् उपसाधय स्रुचश् संमृड्ढि41 पत्नीं संनह्याज्येनोदेहीति। तत्र संदेहः - किं य एव प्रैषे, स एव प्रैषार्थे, उतान्यश् च प्रैषे, अन्यश् च प्रैषार्थ इति। किं प्राप्तम्? एक एव प्रैषप्रैषार्थयोर् इति। कुतः? समाख्यानात्, अन्य इति चाश्रूतत्वात्। नन्व् आत्मनः प्रैषो विप्रतिषिध्यते। उच्यते, न प्रैषो भविष्यति, प्राप्तकाले लोटं वक्ष्यामः। आह, प्राप्तकाले ऽपि सति युष्मदादिष्व् एवोपपदेषु मध्यमादयो व्यवस्थिताः, न पुरुषसंस्करो भवति। उच्यते - सत्यां विवक्षायां युष्मदादिषु मध्यमादयः, यदा तव प्राप्तः काल इति विवक्ष्यते, तदा युष्मद् एव मध्यमो नास्मदि शेषे वा। यदा खलु क्रियायाः प्राप्तः काल इत्य् एतावद् विवक्ष्यते, न तव, मम वेति, न तदा युष्मदादीनाम् अनुरोधेन मध्यमादयो भवितुम् अर्हन्ति। न च, इदं युगपद् विवक्षितुं शक्यते, पदार्थस्य प्राप्तः कालः, तव चेति, भिद्येत हि तथा वाक्यम्। तेन, यदि वा निर्ज्ञाते पदार्थकाले तव काल इति शक्यते वदितुम्, यदि वा तवेति निर्ज्ञाते पदार्थस्य काल इति। तत्र पदार्थस्य कालो वदितव्यः, न तु यौष्मदर्थस्य, तेन हि स्मृतेन प्रयोजनम्, स हि कर्तव्य इत्य् अवगतः, न तु युष्मदर्थः तथा, तस्मात् समाख्यायाद् अध्वर्योर् एव प्रैषप्रैषार्थाव् इति। इति42 प्राप्ते ब्रूमः - प्रैषेष्व् अन्यो ऽन्यस् तदर्थेष्व् इति। कुतः? पराधिकारात्, परस्मिन् हि प्रैष उपपद्यते, नात्मनीति। आह, ननूक्तं प्राप्तकाले भविष्यतीति। उच्यते, [४२४]43 न, संभवति प्रैष, प्राप्तकालता न्याय्या। तस्य हि युष्मदर्थो44 गम्यमानो न विवक्षित इत्य् उच्यते, संभवति चात्र प्रैषार्थः। तस्मात् प्रैषः, प्रैषश् चेत्, अन्यः प्रैषार्थ इति सिद्धम्।
अध्वर्युस् तु दर्शनात् ॥ MS_३,८.२३ ॥
अथैवं गते, इदं संदिह्यते - किम् अध्वर्युर् अग्नीध्रं प्रेष्येत्, उताग्नीद् अध्वर्युम् इति। अनियमो ऽविशेषाद् इति प्राप्ते ब्रूमः - अध्वर्युर् उक्तप्रैषार्थकारी स्यात्। कुतः? दर्शनात्, दर्शनं भवति - तिर्यञ् च स्फ्यं धारयेद् यद् अन्वञ्चं धारयेद् वज्रो वै स्फ्यो वज्रेणाध्वर्युं क्षिण्वीतेति45, यः प्रेष्यति, तस्य हस्ते स्फ्यः। स्फ्येनाध्वर्युं क्षिण्वीतेत्य् अन्यम् अध्वर्युं प्रेषकाद् दर्शयति। तस्माद् अग्नीद् अध्वर्युं प्रेष्येद् इति।
गौणो वा कर्मसामान्यात् ॥ MS_३,८.२४ ॥
नैतद् अस्ति, अग्नीध्रः प्रैषो ऽध्वर्योः प्रैषार्थ इति। किं खल्व् अध्वर्युर् एवाग्नीधं प्रेष्येत्, एवम् अध्वर्युणा प्रैषः प्रैषार्थश् चोभाव् अपि कृतौ भविष्यतः, तत्राध्वर्यवम् इति समाख्यानुग्रहीष्यते। तस्माद् अध्वर्युर् एव मुख्यं46 स्यात्। किम् अस्य मुख्यत्वम्? यद् अनेन सर्वं कर्तव्यं समाख्यानाद् इति। अथ यद् उक्तम् - अध्वर्युः प्रचरिता दृश्यत इति। तद् उच्यते - सत्यं दृश्यते, न त्व् अस्य प्रैषार्थकरणे प्रमाणम् अस्ति चिन्त्यमानम्। तस्माद् एतन् मिथ्यादर्शनम्, यस्य हि दर्शनस्य प्रमाणं नास्ति, व्यामोहः सः। यथा शुक्तिकायां रजतविज्ञानम्। अस्ति त्व् अग्नीध्रः प्रैषार्थकरणे प्रमाणम्। तस्माद् अग्नीध्रः प्रचरिता प्रचरितरि [४२५]47 चाध्वर्युशब्दो दृश्यते। तस्माद् गौणः, आध्वर्यवे वेदे समाम्नातान्48 पदार्थान् करोतीति कृत्वाध्वर्युर् इत्य् उच्यते, आग्नीध्र इति। तस्माद् आध्वर्यवः प्रैषः, आग्नीध्रः प्रैषार्थ इति।
ऋत्विक्फलं करनेष्व् अर्थवत्त्वात् ॥ MS_३,८.२५ ॥
दर्शपूर्णमासयोर् आमनन्ति - ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं परिगृह्णातीति49। तत्र संदेहः - किम् ऋत्विक्फलम् आशासितव्यम्, अग्ने वर्चो विहवेष्व् अस्त्व् इति, उत यजमानस्येति। किं प्राप्तम्? अध्वर्योर् एवेति। कुतः? एवं श्रुतिर् आदृता भविस्यति, इतरथा लक्षणा स्यात्, आत्मना यजमानं लक्षयेत्। तस्माद् ऋत्विक्फलम् आशासितव्यम् इति। को ऽर्थः? अनया समिधा धार्यमाणे ऽग्नौ यागः संभविष्यति। तत्र विहवेषु स्पर्धास्थानेष्व् अहं वर्चस्वी भविष्यामीत्य् अध्वर्योर् वचनम्, एवम् उत्साही भविष्यतीति।
स्वामिनो वा तदर्थत्वात् ॥ MS_३,८.२६ ॥
यजमानस्य वा वचनं तदर्थत्वात् कर्मणः, यजमानार्थं हीदं कर्म साङ्गम्, उपग्रहविशेषात्, साङ्गस्यास्य प्रयोजनं यजमानस्य फलनिष्पत्तिर् नाध्वर्योः सुप्रवरितुर्50 अपि यशः। किम् अतः? यद्य् एवम्, फलसंकीर्तनात् फलकर्तव्यता गम्यते, तद् एतद् [४२६]51 अग्न्यन्वाधानं यजमानस्य फलसंकीर्तने क्रियमाणे ऽनेन मन्त्रेण फलसंबन्धात् प्रकाशितं कृतं भवति, नाध्वर्युयशःकीर्तनेन। तस्माद् यजमानफलम् आशासितव्यम् इति। अथ कस्मान् न याजमान एष मन्त्रो भवतीति। उच्यते - अग्न्यन्वाधानं समाख्ययाध्वर्यवम्। तच् चैवं गुणो मन्त्रः करोत्य् आध्वर्यवः, स उच्यते ऽनेन मन्त्रेणेति, तस्माद् आध्वर्यवो मन्त्रः। मम वर्चो ऽस्त्व् अत्यपि यजमानस्य वर्चो ममेति व्यपदिशति लक्षणया, यथा राजनि जयं वर्तमानं सैनिका अस्माकम् इति व्यपदिशन्त्य् एवम्।
लिङ्गद्रशनाच् च ॥ MS_३,८.२७ ॥
लिङ्गम् अप्य् अमुम् अर्थं दर्शयति, एवं ह्य् आह - यां वै कांचन ऋत्विज आशिषम् आशासते, यजमानस्यैव सेत्य् आशिषो यजमानार्थकतां दर्शयति। तस्माद् अपि ब्रूमः - यजमानफलम् आशासितव्यम् इति। पक्षोक्तम् एव प्रयोजनम् इति।
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् ॥ MS_३,८.२८ ॥
इदं समधिगतम् - करणेषु मन्त्रेषु स्वामिनः फलम् आशासितव्यम् इति। किम् एष एवोत्सर्गः? नेत्य् आह, क्वचिद् ऋत्विजां अपि फलम् आशासितव्यम् इति, यत्र कर्मार्थं फलम्, यथा - [४२७]52 अग्नाविष्णू मावक्रमिषम्53 विजिहाथां मामा संताप्तम् इति54, असंतप्तो ऽध्वर्युः कर्म शक्नोति कर्तुम्, कर्मसिद्धिर् यजमानस्योपकारिकेति, ऋत्विक्फलम् आशासितव्यम् अत्रेति।
व्यपदेशाच् च ॥ MS_३,८.२९ ॥
यत्र च व्यपदेशो भवति, तत्रार्त्विजम्, दक्षिणस्य हविर्धानस्याधस् ताच् चत्वार उपरवाः प्रावेशमुख्याः55 प्रदेशान्तरालाः, तत्र हस्तौ प्रवेश्याध्वर्युर् यजमानम् आह, किम् अत्रेति, स आह - भद्रम् इति। तन् नौ सहेत्य् अध्वर्युः प्रत्याहेति व्यपदेशो भवति, अध्वर्योर् यजमानस्य च। तन् नौ सहेत्य् उभयोर् वचनम् अध्वर्युयजमानयोः। तस्माद् अध्वर्युफलम् आशासितव्यम् अत्रेति।
द्रव्यसंस्कारः प्रकरणाविशेषात् सर्वकर्मणाम् ॥ MS_३,८.३० ॥
दर्शपूर्णमासयोर् बर्हिर्धर्मा वेदिधर्माश् च, तेषु संदेहः - किम् अङ्गप्रधानार्थाः, उत प्रधानार्था इति। प्रकरणात् प्रधानार्था इति। इति56 प्राप्त उच्यते, नैवम्, द्रव्यसंस्कारो ऽङ्गप्रधानार्थः, यथा व्याख्यातम्57 एवोत्तरविवक्षया प्राप्तिर् एषा क्रियत इति।
[४२८]58
निर्देशात् तु विकृतापूर्वस्यानधिकारः ॥ MS_३,८.३१ ॥
ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति59। तत्र श्रूयते - बर्हिषा यूपावटम् अवस्तृणात्य् आज्येन यूपम् अनक्तीति। तत्र संशयः - किं तयोर् आज्यबर्हिषोर् आज्यबर्हिर्धर्माः प्राकृताः कर्तव्याः, उत नेति। किं प्राप्तम्? कर्तव्या इति। कुतः? वाक्यं हि बर्हिर्मात्रस्याज्यमात्रस्य च धर्माणां विधायकम्, तद् इहापि वाक्यं चोदकेन प्राप्तम्। न चैतद् बर्हिर् आज्यं निष्प्रयोजनम्। तस्माद् अत्र धर्माः कियेरन्न् इति। एवं प्राप्ते ब्रूमः - निर्देशाद् विकृताव् अपूर्वस्यानधिकारः, निर्दिष्टा एते धर्माः प्रकृतौ, यत्र प्रधानस्योपकुर्वन्ति प्राकृतकार्ययोर् आज्यबर्हिषोः। ये च प्रधानस्योपकारिणो धर्माः, त इहातिदिश्यन्ते। प्रधानं हि चोदको ऽपेक्षते, न धर्मान्। प्रधानस्य हि चोदकेन सामान्यं न धर्माणाम्। अपि च, नान्यार्थ इति ज्ञातेन संनिहितेनाप्य् एकवाक्यता भवत्य् अन्यसंबन्धोपपत्तौ सत्याम्, यथा भार्या राज्ञः, पुरुषो देवदत्तस्येति। किम् अङ्ग पुनर् विप्रकृतेन, निर्ज्ञातं खल्व् अङ्गत्वं प्रधानापेक्षायां भवति, केवलम् इहातिदेशः क्रियते, पदार्थापेक्षायाम् अङ्गत्वम् अपि साधयितव्यं स्यात्। धर्माश् चापेक्ष्यमाणाः साधारणा भवेयुः, तथोहो नावकल्पेत। लिङ्गविशेषदर्शनाच् च व्यवतिष्ठेरन् धर्माः, तत्र दर्शनं नोपपद्येत, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिन इति, तथा न पिता वर्धते, न माता, न नाभिः, प्राणो हि स इति। तस्माद् यद् द्वारा प्रकृतौ कृताः, तद् द्वारैव विकृतौ, नान्यद्वाराः। न च यूपावटस् तरणं प्रकृताव् अस्ति यूपाञ्जनं [४२९]60 वा। तस्मान् न तत्र प्राकृता धर्मा भवेयुर् अपूर्वत्वात्।
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे ॥ MS_३,८.३२ ॥
दर्शपूर्णमासयोर् आमनन्ति - समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति, तथा - अरत्निमात्रे विधृती पवित्रे, उतान्यत इति। तत्र संशयः - किं वेदिस्तरणार्थाद् बर्हिषो विधृती पवित्रे, उतान्यत इति। किं तावत् प्राप्तम्? वेदिस्तरणार्थाद् बर्हिषः कार्ये। किं कारणम्? तद् धि प्रकृतम्, धर्माश् चाविशेषात् सर्वबर्हिषाम् अर्थेन, तस्मात् ततः। इति प्राप्ते ब्रूमः - अन्यतः क्रियेत। कुतः? विरोधात्। कथं विरोधः? श्रूयते हि - त्रिधा तु पञ्चधा तु वा वेदीं स्तृणातीति, तद् येनास्तीर्यते, कथं तद् विधृतिपवित्रं क्रियेत, न हि संभवत्य् एकं स्तरणाय विधृतिपवित्राय च। तद् एतद् उपदिष्टवचनम् अनेकगुणत्वं चोभे अप्य् असंभविनी प्रतिज्ञाते स्याताम्। तस्मान् न ततः क्रियेतेति। यदि न ततः, कुतस् तर्हि? अव्यक्त एवंजातीयकः शेषे, अस्ति तत्र परिभोजनीयं नाम बर्हिः, ततः कर्तव्यम्।
अपनयनस् त्व् एकदेशस्य विद्यमानसंयोगात् ॥ MS_३,८.३३ ॥
ज्योतिष्टोमे श्रूयते - पुरोडाशशकलम् ऐन्द्रवायवस्य पात्रे निदधाति, धाना आश्विनपात्रे, पयस्यां मैत्रावरुणपात्र इति। तत्र संशयः - किम् अन्यत एषां क्रियेत, उत प्रकृतेभ्य [४३०]61 इति। किं प्राप्तम्? पूर्वेण न्यायेनान्यत इति। तत्रोच्यते - तत एकदेशस्यापनयः। कुतः? विद्यमानसंयोगात्, विद्यते हि तत्र पुरोडाशो धानाः पयस्या च, तत्संयोग एव न्याय्यो नान्यसंयोग इति, पुरोडाशादीनां एव संस्कारः, नेन्द्रवायवादीनाम्62। कुतः? पुरोडाशादिषु द्वितीयादर्शनात्। प्रत्यक्षश् चैकदेशापनयेनोपकारः, नेन्द्रवायवादिसंबन्धेन63, एवं प्रकृतानुग्रहो भविष्यति, तस्मात् प्रकृतस्योपदेशेन तत् क्रियेत। न चात्रोपदिष्टोपदेश आशङ्क्यो ऽनेकगुणभावश् च, अन्येन शकलेन होमो ऽन्यश् च प्रतिपाद्यत इति64।
विकृतौ सर्वार्थः शेषः प्रकृतिवत् ॥ MS_३,८.३४ ॥
इदम् आमनन्ति - यज्ञार्थवणं वै काम्या इष्टयः, ता उपांशु कर्तव्या इति। अत्र संशयः - किम् अङ्गप्रधानार्थम् उपांशुत्वम्, उत प्रधानार्थम् इति। किं प्राप्तम्? विकृतौ सर्वार्थः शेषः स्यात्, अविशेषाद् अङ्गानां प्रधानानां च प्रकृतिवत्, यथा प्रकृतौ वेदिधर्मा आज्यधर्माश् चाङ्गप्रधानार्थाः, एवम् अत्रापि।
मुख्यार्थो वाङ्गस्याचोदितत्वात् ॥ MS_३,८.३५ ॥
प्रधानार्थो वा एष विकृतिषु स्यात्। एवम् इदं सर्वार्थम् उच्येत, प्रकरणं बाधित्वा वाक्येनाङ्ग-प्रधानार्थम् इति, तद् एवेदानीं वाक्यं विशेषितम् - काम्या इष्टय इति। काम्याश् च प्रधानयागाः, अङ्गयागाः प्रधानार्थाः, तस्माद् अङ्गचोदितम्। यत् कामेन फलवच् चोद्यते, तद् एवानयोपांशुत्वेतिकर्तव्यतया [४३१]65 अनुबध्यते। तस्मात् प्रधानार्थम् उपांशुत्वम्।
संनिधानविशेषाद् असंभवे तदङ्गानाम् ॥ MS_३,८.३६ ॥
श्येने श्रूयते - दृतनवनीतम्66 आज्यम् इति। तत्र संदेहः - किं नवनीतं प्रधानस्य, उताङ्गानाम् इति। किं प्राप्तम्? प्रधानस्य, तस्य हि प्रकरणम् इति वचनप्रामाण्यान् नवनीतेन प्रधानं निर्वर्तयितव्यम् इति। एवं प्राप्ते ब्रूमः - असंभव एतस्मिंस् तदङ्गानां श्येनाङ्गानां67 स्यात्। कथं असंभवः? सोमद्रव्यकत्वात् प्रधानस्य। ननु वचनान् नवनीतं भविष्यति। न श्येने नवनीतं भवतीत्य् एष वाक्यार्थः। कस् तर्हि? श्येने नवनीतम् आज्यं भवतीति नवनीताज्यसंबन्धो विधीयते, श्येनाज्यसंबन्धो ऽनूद्यते। न च साक्षाच् छ्येनस्याज्यसंबन्धो ऽस्ति, श्येनाङ्गानां तु विद्यते। यस्यास्ति, तस्यानूद्य नवनीतं विधीयते, संनिधानविशेषात्।
आधाने ऽपि तथेति चेत् ॥ MS_३,८.३७ ॥
एवं चेद् दृश्यते - श्येनाङ्गानां नवनीतम् इति, आधाने ऽपि पवमानेष्टिषु स्यात्। ता अपि हि श्येनस्योपकुर्वन्ति, तत्संस्कृते ऽग्नौ श्येनो निर्वर्तत इति।
नाप्रकरणत्वाद् अङ्गस्य तन्निमित्तत्वात् ॥ MS_३,८.३८ ॥
न श्येनस्य प्रकरणे पवमानेष्टयो ऽग्न्याधानं वा श्रूयते। किम् अतः? यद्य् एवम्, आधानस्य च श्येनस्य च न कश्चिद् अस्ति [४३२]68 संबन्धः, अग्नीनाम् आधानम्, अग्नयश् च श्येनस्य, तस्मान् न पवमानहविःषु नवनीतम्। नैतच् छ्येनाङ्गत्वे निमित्तम्, यद् आधानम् अग्नीनाम् उपकरोति। यदि प्रकरणादीनाम् अन्यतमद्69 अस्ति, तन् निमित्तं भवेत्। तस्मान् न श्येनाग्न्याधानयोः संबन्धो ऽस्तीति।
तत्काले वा लिङ्गदर्शनात् ॥ MS_३,८.३९ ॥
इदम् इदानीं संदिह्यते - किं सुत्याकालानाम् अङ्गानां नवनीतम् उत सर्वेषां इति। सुत्याकालानां स्यात्, लिङ्गदर्शनात्। इदं श्रूयते - सह पशून् आलभत इति। तत्र पुनर् वचनम् - अग्नीषोमीयस्य स्थाने ऽग्नीषोमीयः पुरोडाशः, अनुबन्ध्यायाः स्थाने मैत्रावरुणीयस्येति70, द्वे स्थाने श्रून्ये71 दर्शयति, तेनावगम्यते श्येनस्य वचनं सुत्याकालानाम् अङ्गानां विशेषं विदधातीति।
सर्वेषां वाविशेषात् ॥ MS_३,८.४० ॥
सर्वेषाम् एव चाङ्गानां नवनीतं स्यात्। कुतः? अविशेषात्, असति विशेषे सर्वेषाम् अप्य् अङ्गानाम् इति।
न्यायोक्ते लिङ्गदर्शनम् ॥ MS_३,८.४१ ॥
यद् उक्तं लिङ्गम्, तत् परिहरणीयम्। नास्ति तावत् प्रमाणम्, यच् छ्येनस्य वचनं तत् स्तुत्याकालानाम्72 अङ्गानाम् इति। किं तु दर्शनम्? तद् अप्रमाणमूलत्वान् मिथ्यादर्शनं मृगतृष्णावत्। कथं तु मध्ये पशूनाम् आलम्भ इति। न्यायात्। को न्यायः? क्रमानुग्रहः। एवं वचनवर्जितः क्रमो ऽनुगृहीतो भवतीति73। [४३३]74 तस्मात् सर्वेषाम् अङ्गानां नवनीतम् इति।
मांसं तु सवनीयानां चोदनाविशेषात् ॥ MS_३,८.४२ ॥
शाक्यानाम् अयनं षट्त्रिंशत्संवत्सरम्। तत्रेदं समामनन्ति - संस्थिते संस्थिते ऽहानि गृहपतिर् मृगयां याति, स तत्र यान् मृगान् हन्ति, तेषां तरसाः पुरुडाशाः सवनीया भवन्तीति। तत्र संदेहः - किं सवनीयानाम् अन्येषां च संभवतां पुरोडाशानां स्थाने तरसा उत सवनीयानाम् एवेति। किं प्राप्तम्? सर्वपुरोडाशानां मांसमयता स्यात्, न शक्यते पुरोडाशानां च मांसमयता विधातुम्, सवनीयशब्देन च पुरोडाशान् विशेषयितुम्, भिद्येत हि तथा वाक्यम्। तस्मात् सर्वपुरोडाशानां मांसमयतेति। इति75 प्राप्ते उच्यते - मांसं तु सवनीयानां स्यात्, तरसाः सवनीया भवन्तीत्य् अयं त्व् अनूद्यते। कुत एतत्? सर्वपुरोडाशेषु सवनीयशब्दो ऽनुवादो न घटते, पुरोडाशशब्दस् तु सवनीयेष्व् अवकल्पते। तस्मात् पुरोडाशशब्दो ऽनुवाद इति। तस्मात् सवनीयानां धानादीनां स्थाने मांसं चोदनाशेषाद् इति।
भक्तिर् असंनिधाव् अन्याय्येति चेत् ॥ MS_३,८.४३ ॥
इति चेत् पश्यसि - सवनीयेषु पुरोडाशशब्दो ऽनुवादो भविष्यतीति, धानादिषु पुरोडाशशब्दो न वर्तते, भक्तिश् चान्याय्या मुख्ये संभवति।
[४३४]76
स्यात् प्रकृतिलिङ्गत्वाद् वैराजवत् ॥ MS_३,८.४४ ॥
प्रकृतौ ज्योतिष्टोमे धानादिष्व् अयं पुरोडाशशब्दो भाक्तः, संनिहिते77 प्रयुक्तः, इहापि भाक्त एव प्रयोक्ष्यते। अत्रापि हि सवनीयशब्देन ते संनिहिताः। प्रकृतौ लिङ्गसमवायाच् छब्दप्रवृत्तिर् विकृताव् अपि तथैव, यथा - छत्रिणो गच्छन्ति, ध्वजिनो गच्छन्तीति। यथा - उक्थ्यो वैरूपसामा, एकविंशः पोडशी वैराजसामा इति प्रकृतिलिङ्गेन सामशब्देन वैरूपपृष्ठो वैराजपृष्ठ इति गम्यते। एवम् इहापि सवनीयानां मांसमयतेति।
============================================================================
-
Vgl. Tait.S. 1.7.3.1 ↩︎
-
E2,4: svayaṃ karotīti gamyate. kasmāt? ↩︎
-
Tait.S. 5.2.8.2 ↩︎
-
E2: 4,594; E4: 4,935; E6: 1,278 ↩︎
-
Tait.S. 6.1.1.2 ↩︎
-
E1 gibt yena karmakaraṇena sāmarthyam upajanyate in Klammern ↩︎
-
E2: 4,595; E4: 4,939; E6: 1,278 ↩︎
-
E1 gibt idaṃ padottaraṃ sūtram in Klammern ↩︎
-
E2: 4,597; E4: 4,942; E6: 1,279 ↩︎
-
E2,4: duḥkhaphalabhogāyādharmaḥ ↩︎
-
E2,4: yadānaśanaḥ ↩︎
-
E2,4,6 om. na ↩︎
-
E2: 4,598; E4: 4,945; E6: 1,280 ↩︎
-
E2: 4,600; E4: 4,948; E6: 1,281 ↩︎
-
E1 gibt yājamānaḥ kāma ity arthaḥ in Klammern ↩︎
-
E2,4: prakṛtenārthinā ↩︎
-
E2: 4,601; E4: 4,951; E6: 1,281 ↩︎
-
E2,4: agne ‘syāyur ↩︎
-
Tait.S. 1.5.5.4 ↩︎
-
E2: 4,602; E4: 4,953; E6: 1,282 ↩︎
-
Tait.S. 1.6.1.2 ↩︎
-
Tait.S. 1.1.13.1 ↩︎
-
E2,4: iti. prāpte, ucyate ↩︎
-
E2,4: ujjitīr ↩︎
-
Vgl. Vāj.S. 9.21 bzw. Vāj.S. 9.31 ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,604; E4: 4,955; E6: 1,282 ↩︎
-
E2,4: vedādhyayanaṃ ↩︎
-
E2,4 om. tasmāt ↩︎
-
E2,4: tatra yajamānakāṇḍe karmāṇy ↩︎
-
E2: 4,606; E4: 4,959; E6: 1,283 ↩︎
-
E2,4 om. ca ↩︎
-
E2,4: etāni ↩︎
-
E2,4: vai dvādaśa ↩︎
-
Tait.S. 1.6.9.3-4 ↩︎
-
E2,4,6: samabhyāsakriyā ↩︎
-
E2,4,6: samabhyāsīkaraṇam ↩︎
-
E2: 4,607; E4: 4,960; E6: 1,284 ↩︎
-
Tait.S. 1.3.6.2 ↩︎
-
ṚV 3.8.4a ↩︎
-
E2,4: sruvaṃ ca srucaś ca saṃmṛḍḍhi ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,612; E4: 4,967; E6: 1,285 ↩︎
-
E2,4: tasmād yuṣmadartho ↩︎
-
Vgl. Tait.Br. 3.2.10.1 ↩︎
-
E2,4,6: mukhyaḥ ↩︎
-
E2: 4,425; E4: 4,976; E6: 1,286 ↩︎
-
E2,4: samāmnātāt ↩︎
-
Tait.S. 4.7.14.1 ↩︎
-
E2,4: supracaritur ↩︎
-
E2: 4,615; E4: 4,979; E6: 1,286 ↩︎
-
E2: 4,617; E4: 4,982; E6: 1,287 ↩︎
-
E2,4: māvām avakramiṣam ↩︎
-
Tait.S. 1.1.12.1 ↩︎
-
E2,4: prādeśamukhyāḥ ↩︎
-
E2,4 om. iti ↩︎
-
Vgl. zu MS 3.7.1ff ↩︎
-
E2: 4,618; E4: 4,986; E6: 1,288 ↩︎
-
Tait.S. 6.1.11.6 ↩︎
-
E2: 4,620; E4: 4,986; E6: 1,288 ↩︎
-
E2: 4,621; E4: 4,992; E6: 1,289 ↩︎
-
E2,4: naindravāyavādīnām ↩︎
-
E2,4: naindravāyavādisaṃbandhena ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,622; E4: 4,994; E6: 1,290 ↩︎
-
E2,4: dṛtinavanītam ↩︎
-
E1 gibt śyenāṅgānāṃ in Klammern ↩︎
-
E2: 4,623; E4: 4,997; E6: 290 ↩︎
-
E2,4: anyatamam ↩︎
-
E2,4: maitrāvaruṇī payasyā, iti ↩︎
-
E2,4,6: śūnye ↩︎
-
E2,4: vacanaṃ tat stutyākālānām ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,625; E4: 4,1000; E6: 1,291 ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,623; E4: 4,1003; E6: 1,292 ↩︎
-
E2,4: saṃnihiteṣu ↩︎