आज्याच् च सर्वसंयोगात् ॥ MS_३,५.१ ॥
स्तो दर्शपूर्णमासौ, तत्र श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति1, तथा - इडाम् उपह्वयतीति2, तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि3। तत्र संदेहः - किम् आज्याद् उपांशुयाजद्रव्यात् स्विष्टकृद् इडम् अवदातव्यम्, उत नेति। किं प्राप्तम्? अवदातव्यम् इति। कुतः? सर्वसंयोगात्, साधारणप्रकरणसमाम्नातात् सर्वेषां शेषकार्याणि। अपि च सर्वसंयोगो भवति, तद् यत्4 सर्वेभ्यो हविर्भ्यः समवद्यतीति। तस्माद् आज्याद् अपि शेषकार्याणि क्रियन्ते।
कारणाच् च ॥ MS_३,५.२ ॥
कारणं श्रूयते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेत्य् अब्रुवन्5, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति, तुल्यं कारणम् अन्येषाम् आज्यस्य चार्थवादे संकीर्त्यते। तस्माद् अप्य् आज्याद् अवदातव्यम् इति।
एकस्मिन् समवत्तशब्दात् ॥ MS_३,५.३ ॥
आदित्ये चरौ प्रायणीये श्रूयते - अग्नये स्विष्टकृते समवद्यतीति6, आज्याद् एकस्माच् च हविषो ऽवद्यतीति, मिश्रस्यान्येन हविषा समवद्यतीति। यदि चाज्याद् अपि स्विष्टकृते ऽवदीयेत, ततश् चोदकेन प्रापणीय7 आज्यावदाने क्रियमाणे [३४३]8 समवद्यतीत्य् उपपद्यते। इतरथा चरोर् एकस्माद् अवद्यतीत्य् अभविष्यत्।
आज्ये च दर्शनात् स्विष्टकृद् अर्थवादस्य ॥ MS_३,५.४ ॥
ध्रौवे चाज्ये स्विष्टकृद् अर्थवादो भवति - अवदायावदाय ध्रुवां प्रत्यभिधारयति, स्विष्टकृते ऽवदाय न ध्रुवां प्रत्यभिधारयति। न हि ततः परामाहुतिं यक्ष्यन् भवतीति, प्रत्यभिधारणस्यैतत् प्रयोजनं दर्शयति - ततः पत्रामाहुतिं होष्यतीति। सौविष्टकृते वृत्ते9 ततः पराहुतिर् नास्तीति न प्रत्यभिधार्येत। स्विष्टकृद् अर्थे ध्रुवायां भवति प्रत्यभिधारणम् इति दर्शयति।
अशेषात्वात् तु नैवं स्यात् सर्वादानाद् अशेषता ॥ MS_३,५.५ ॥
नैवम्, ध्रौवाज्यात् स्विष्टकृद् इडम् अवदातव्यम् इति। कस्मात्? अशेषत्वात्। कुतो नास्य शेषः? सर्वादानात्।
साधारण्यान् न ध्रुवायां स्यात् ॥ MS_३,५.६ ॥
ननूपांशुयाजार्थं गृहीते यद् ध्रुवायां शिष्टम्, तत् शेषभूतम्। नैतत्, साधारणं हि तत्, उपांशुयाजाय, अन्येभ्यश् च प्रयोजनेभ्यः। यावद् आज्येन यष्टव्यम्, तत् तद् आज्यं प्रयोजयति। यस्य यस्याज्यम्, तस्य तस्यैवं ग्रहीतव्यं संस्कर्तव्यं चेति, तस्मात् साधारणं ध्रौवम् आज्यम्। दर्शयति च - सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति10। किम् अतो यद्य् एवम् इति। यत् साधारणम् उपांशुयाजायावत्तं ध्रुवायाम् आज्यम्, तेनान्यानि प्रयोजनानि कार्याणि, न [३४४]11 तु तत् प्रतिपाद्यम्, यद् धि कृतप्रयोजनम् आकीर्णकरम् अवतिष्ठते, तत् प्रतिपादयितव्यम् इति। क्वचिच् च, यत् प्रतिपादयितव्यम् तत्, एवं प्रतिपादयितव्यम् इति। यत् तु प्रयोजनवद् उपात्तं तन् न प्रतिपादयितव्यम्। तस्मान् न ध्रुवायाम् उपांशुयाजस्य12 सौविष्टकृतश् च13 कश्चिच् छेषः प्रतिपादनीयः, यथा यत्रैकस्यामुख्यायां बहूनाम् ओदनः शृतो भवति, तत्रैकस्मिन् भुक्तवति, न तस्य शिष्टं भृत्येभ्यः प्रतिपादनीयमुखायाम् अस्तीति गम्यते, प्रयोजनवद् धि तत्। एवम् उपांशुयाजाज्ये ऽपि द्रष्टव्यम्14 इति। आह - जुह्वां तर्ह्य् आज्यस्य शेषो भविष्यति, चमसवत्, यथा चमसेषु ग्रहेषु च सोमस्य चोदनयेति। तत्र प्रत्याह -
अवत्तत्वाच् च जुह्वाम्, तस्य च होमसंयोगात् ॥ MS_३,५.७ ॥
ध्रुवायां तावन् नास्ति शेषः, उपांशुयाजस्य साधारणत्वाद् इत्य् उक्तम्। अथ कस्मान् न जुह्वां यच् छिष्टम्, तेन शेषकार्यम्, यथा होमार्थे चमसे शेष इति। उच्यते - यज् जुह्वाम् अवत्तम्, तत् सर्वं होमेन संबद्धम्, तस्मान् न जुह्वां शेषः।
चमसवद् इति चेत् ॥ MS_३,५.८ ॥
इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्।
न चोदनाविरोधाद् धविःप्रकल्पनत्वाच् च ॥ MS_३,५.९ ॥
नैतद् एवम्। कुतः? चोदनाविरोधात्, सोमस्याग्नेर्15 वीहीत्य्16 अनुवषट्करोतीति17 तत्र चोदना। अपि च, तत्रैन्द्रवायवं गृह्णातीत्येवमादीनि ग्रहणानि न सोमसंयुक्तानि18, [३४५]19 हविःप्रकल्पनान्य् एव, इह पुनर् होमसंयोगः, चतुर्गृहीतं जुहोतीति20।
उत्पन्नाधिकारात् सति सर्ववचनम् ॥ MS_३,५.१० ॥
अथ यद् उक्तम् - तद् यत्21 सर्वेभ्यः हविर्भ्यः समवद्यतीति। उच्यते - उत्पन्नं शेषम् अधिकृत्यैतद् उच्यते, नाविशेषणम्, तस्माद् य22 इह शेषास् तेभ्यः सर्वेभ्य इति, यथा सर्व ओदनो भुक्तः, सर्वे ब्राह्मणा भुक्तवन्त इति प्रकृतापेक्षः सर्वशब्द एवम् अत्रापीति।
जातिविशेषात् परम् ॥ MS_३,५.११ ॥
अथ यद् उक्तम् - प्रापणीये23 केवले चरौ समवत्तशब्दो नावकल्पते, यदि न तत्र चोदकेनाज्याद् अपि स्विष्टृअकृद् अवदानम् इति। उच्यते - असत्य् अप्य् आज्याच् छेषकार्ये समवत्तशब्दो जातिविशेषापेक्ष उपपद्यते, ओदनजातिम् आज्यजातिं24 चापेक्ष्य। अनुवादो हि सः, यथासंभवं चानुवादः कल्प्येत।
अन्त्यम् अरेकार्थे ॥ MS_३,५.१२ ॥
अथ यद् उक्तम् - स्विष्टकृद् अर्थं ध्रुवायाम् अभिधारणं दर्शयतीति। न तत् स्विष्टकृद् अर्थम्, शेषाभावाद् इत्य् उक्तम्। तस्माद् अयं तस्यार्थः। न हि तत आहुतिं यक्ष्यन् भवतीति न रेक्ष्यते, ध्रुवातो यद्य् आहुतिर् अपरा होतव्या भवेत्, न च प्रत्यभिधार्येत। धुवातः किल25 रिच्येत, न रक्ष्यते, अपरस्या आहुतेर् अभावात्, किं प्रत्यभिधारणेनेति।
[३४६]26
साकं प्रस्थायीये27 स्विष्टकृद् इडं च तद्वत् ॥ MS_३,५.१३ ॥
दर्शपूर्णमासयोः श्रूयते - साकं प्रस्थायीयेन यजेतेति28। तत्र संदेहः - किं स्विष्टकृद् इडम् अस्ति, नास्तीति। अस्तीति ब्रूमह्। कुतः? दर्शपूर्णमासविकारो हि साकं प्रस्थायीयम् इति। एवं प्राप्ते ब्रूमः - नास्तीति। कुतः? अशेषत्वात्, सर्वादानाच् चाशेषता। कथम्? एवं तत्र श्रूयते - आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीध्रे स्रुचौ प्रदाय सह कुम्भीभिर् अभिक्रामन्न् आहेति। तस्मान् न ततः शेषकार्यद् इति।
सौत्रामण्यां च ग्रहेषु ॥ MS_३,५.१४ ॥
अस्ति सौत्रामणी, तत्र ग्रहाः29 श्रूयन्ते, आश्विनसारस्वतैन्द्राः, तत्र चोदकेन स्विष्टकृद् इडं प्राप्तम्। अथेदानीं संदेहः - किं निवर्तते, उत नेति। किं प्राप्तम्? चोदकानुग्रहाय कर्तव्यम् इति। एवं प्राप्ते ब्रूमः - सौत्रामण्यां च ग्रहेषु न30 कर्तव्यम् इति चशब्देनातिदिश्यते31। कुतः? अशेषत्वात्, सर्वादानाद् शेषता। तत्रापि हि ग्रहैर् एवं होतुं प्रतिष्ठन्ते, यत् पयोग्रहाश् च सुरग्रहाश् च गृह्यन्त इति। ग्रहस्थं खल्व् अपि तद् द्रव्यम् अभिगृहीतम् अभ्यनुक्रमम् अभ्याश्रावितं देवतां प्रति। यथा - गृहीतान् ग्रहान् ऋत्विज आददते, आश्विनम् अध्वर्युः, सारस्वतं ब्रह्मा, ऐन्द्रं प्रतिप्रस्थातेति, होमार्थम् [३४७]32 अशेषादानं भवति। होमसंयोगश् चैषां श्रुयते - उत्तरे ऽग्नौ पयोग्रहाज् जुह्वति दक्षिणे ऽग्नौ सुरग्रहाज् जुह्वतीति।
तद्वच् च शेषवचनम् ॥ MS_३,५.१५ ॥
एतम् एव न्यायम्, शेषवचनम् उपोद्बलयति। उच्छिनष्टि, न सर्वं जुहोतीति33, सर्वहोमे प्राप्ते, प्रतिषेधो ऽवकल्प्यते। वाचनिकत्वाच् च स्विष्टकृद् इडं न भवति, तस्यान्यत्रोपयोगवचनात्, ब्राह्मणं परिक्रीणीयाद् उच्छेषणस्य पातारम् इति, अपरस्यापि शेषस्य वाचनिको विनियोगः, शतातृणायां विक्षारयन्तीति।
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् ॥ MS_३,५.१६ ॥
अस्ति सर्वपृष्ठेष्टिः - इन्द्राय राथन्तराय, इन्द्राय बार्हताय34, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्नरायेति। तत्र पुरोडाशो बहूनां कर्मणां साधारणः। तत्र संदेहः - किं प्रतिकर्म, स्विष्टकृद् इडं कर्तव्यम्, सकृद् एव वेति। किं प्राप्तम्? चोदनानुग्रहात् प्रतिकर्म, कर्तव्यम्, एकस्मिन्न् अपि द्रव्ये बहुत्वात् कर्मणाम्।
अविभागाच् च शेषस्य, सर्वान् प्रत्य् अविशिष्टत्वात् ॥ MS_३,५.१७ ॥
सकृद् एव कर्तव्यम् इति ब्रूमः, अविभागाच् छेषस्य। न [३४८]35 अत्र विभागः सर्वेषां कर्मणां पुरोडाशस्य, उत्तरार्धात् स्विष्टकृद् अवदातव्यम्, एकश् चासौ उत्तरार्धः, ततो ऽवदीयमाने न गम्यते विशेषः। कस्यावत्तम्, कस्य नेति, एवम् इडायाम् अपि। तस्मात् सकृद् अवदातव्यम् इति।
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् ॥ MS_३,५.१८ ॥
अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति। तत्रैन्द्रवायवे ग्रहे संदेहः - किं सकृद् भक्षणम्, उत द्विर् इति। सोमसंस्कारार्थत्वात् सकृद् इति प्राप्ते ब्रूमः - ऐन्द्रवायवे द्विर् भक्षयितव्यम् इति। कुतः? वचनात्, वचनम् इदं भवति, द्विर् ऐन्द्रवायवस्य भक्षयति, द्विर् ह्य् एतस्य वषट्करोतीति, नास्ति वचनस्यातिभारः।
सोमे ऽवचनाद् भक्षो न विद्यते ॥ MS_३,५.१९ ॥
ज्योतिष्टोमे समामनन्ति सोमान्। तेषु संदेहः - किं36 तेषां शेषो भक्षयितव्यः, उत नेति। किं प्राप्तम्? सोमे भक्षो न विद्यते। कस्मात्? अवचनात्, न शक्यम् असति वचने ऽध्यवसातुं भक्षणम्। तस्मात् सोमशेषो न भक्षयितव्य इति।
स्याद् वान्यार्थदर्शनात् ॥ MS_३,५.२० ॥
भवेद् वा भक्षः, अन्यार्थं हि वचनं भक्षं दर्शयति - सर्वतः परिहारम् आश्विनं भक्षयति, भक्षिताप्य् आयितांश् चमसान् [३४९]37 दक्षिणस्यानसो ऽवलम्बे सादयन्तीति38। नासति भक्षण एवंजातीयका भक्षविशेषाः संभवन्ति।
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः ॥ MS_३,५.२१ ॥
ननु दर्शनम् इदम्, प्राप्तिर् वक्तव्या। उच्यते - वचनानि तर्हि भविष्यन्ति। सर्वतः परिहारम् आश्विनं भक्षयति39। तस्मात् सर्वा दिशः शृणोतीति विशिष्टं भक्षणं विधीयते। अपूर्वत्वाद् भक्षानुवादो नावकल्पते। अपि च, एवम् अपूर्वम् अर्थं विदधतो ऽर्थवत्ता भविष्यति। तस्माद् यत्रैव विशिष्टं भक्षणं श्रूयते, तत्रैव भवति, नातिप्रसज्यते।
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्वात् ॥ MS_३,५.२२ ॥
ज्योतिष्टोम एव श्रुयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्रयन्तु सदस्यानाम् इति। तत्र संदेहः - किं चमसिनाम् अस्ति भक्षः, नेति। किं प्राप्तम्? नेति ब्रूमः, नातिप्रसज्यत40 इत्य् उक्तम्। एवं प्राप्ते ब्रूमः - चमसेष्व् अस्ति भक्ष इति। कुतः? समाख्यानात्, होतुश् चमसो ब्रह्मणश् चमस उद्गातुश् चमस इति समाख्यया निर्दिश्यते, होता यत्र चमति चमिष्यति, अचमीद् वा स होतुश् चमसः। यद्य् अत्र होता न चमेन् न होतुश् चमसो भवेत्। तस्माच् चमतीति। आह, कास्य लिङ्गस्य प्राप्तिर् इति। सामर्थ्यम् इति ब्रूमः - होतुश् चमसेन प्रैतव्यम्। यदि चात्र होता न [३५०]41 चमेत्, न शक्यं भवेद् धोतुश् चमसेन प्रैतुम्। न चात्रान्यद् धोता, ओदनादि चमिष्यति, सोमचमस इति हि तं समाचक्षते। अपि च, न तद् धोतुर् द्रव्यं यजमानस्य तद् द्रव्यम्, होतुस् तत्र चमनं कर्तव्यम्। सोमे च भक्ष्यमाणे तेन होमो ऽवकल्पते। पवित्रं हि सोमः, न तस्मिन् भक्षिते पात्रं व्यापद्यते। तत्र चमसेन शक्यते होतुम्। वचनप्रामाण्याद् उच्छिष्टेन होष्यतीति चेत्। नैतद् एवम्, असति अवकाशे वचनं बाधकं भवति, अस्ति चावकाशः सोमभक्षणम्, तस्माच् चमसिभिर् भक्षयितव्यः सोमः इति। अथ तक्षणादीन्य् आश्रीयेरन्। तथा संबन्धापह्नवाद् अतच्चमसतैव स्यात्, द्रव्यान्तरं स्यात्। तस्माच् चाब्राह्मणस्य सोमं प्रतिषेधति, स यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्य् उन्मृज42 तस्मै भक्षं प्रयच्छेत्, न सोमम् इति43 भक्षानिवृत्तिं44 दर्शयति। सैष भक्षाशङ्कैवं सत्य् उपपद्यते, यदि चमसिनो ऽस्ति भक्षः, तस्माद् अस्तीति मन्यामहे।
उद्गातृचमसम् एकः श्रुतिसंयोगात् ॥ MS_३,५.२३ ॥
अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति। तत्रास्ति - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति। तत्रास्ति45 समाख्यानाद् भक्ष इत्य् उक्तम्। तत्र संदेहः - किम् एक एवैनं चमसम् उद्गाता भक्षयेत्, उत सर्वे [३५१]46 भक्षयेयुः? अथ सुब्रह्मण्यवर्जिताश् छन्दोगा भक्षयेयुः, अथवा सह सुब्रह्मण्येनेति। किं तावत् प्राप्तम्? एको भक्षयेद् उद्गातैव। कुतः? श्रुतिसंयोगात्, उद्गातैकः श्रुत्या संयुज्यते - चमसेन प्रोद्गातॄणाम् इति। ननु बहुवचनं श्रूयते - तेन बहवो भक्षयेयुः। उच्यते, श्रूयते बहुवचनम्, तद् उद्गातृप्रातिपदिकगतम्, तद् विवक्षितं सद् उद्गातृबहुत्वं ब्रूयात्, एकश् चोगाता, तत्र बहुत्वं श्रूयमाणम् अपि न शक्नुयाद् उद्गातृभेदं कर्तुम्। तस्माद् अविवक्षितं बहुवचनम्, अनुमानं ह्य् एतत्, बहूनां चमस इति। कथम्? यद् बहुषु प्रातिपदिकं वर्तते, ततो बहुवचनं भवति, बहुवचनं तु ततो दृश्यते, प्रोद्गातॄणाम् इति। तस्मान् नूनं बहूनां चमस इत्य् अनुमानम्। प्रत्यक्षं त्व् एक उद्गाता, न द्वितीयः, न तृतीयः। अनुमानाच् च प्रत्यक्षं कारणं बलवद् भवेत्। तस्माद् एकस्य चमसः, स चोद्गातुर् इति।
सर्वे वा सर्वसंयोगात् ॥ MS_३,५.२४ ॥
सर्वे वा भक्षयेयुः, एकस्मिन्न् उद्गातरि भक्षयति बहुवचनं प्रमादाधीतम्47 इति गम्यते। न हि तद् अनूद्यते, न विधीयत इति। ननु सर्वेष्व् अपि भक्षयत्सूद्गातृशब्दः प्रमादो गम्यते। उच्यते - लक्षणार्थो ऽपि तावत् संभविष्यति, उद्गातृप्रभृतय इति।
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः ॥ MS_३,५.२५ ॥
उच्यते - नैतद् अस्ति, बहूनां चमस इति। कुतः? [३५२]48 उद्गातृशब्दस्य चमसेन संबन्धः प्रत्यक्षेण वाक्येन, बहुवचनस्य पुनर् उद्गातृशब्देन श्रुत्या संबन्धः। अन्येन ऋत्विजा तु बहुवचनस्य नैव कश्चिद् अस्ति संबन्धः। तस्माद् बहूनां चमस इत्य् अनुपपन्नम् इति। अत्रोच्यते - शक्नोत्य् अयम् उद्गातृशब्दो बहुत्वं वदितुम्, क्रियायोगेन, उद्नायन्तीत्य् उद्गातारः। के ते? प्रस्तोता, उद्गाता, प्रतिहर्तेति, तद् एतेन बहुवचननिर्देशेनानुमानिकक्रियायोगनिमित्त उद्गातृशब्दो विवक्षित इत्य् अवगमिष्यामः। बहुवचनं ह्य् एवम् अवकॢप्तं भविष्यति, उद्गातृशब्दश् च। तस्मात् स्तोत्रकारिणां चमस इति।
सर्वे तु वेदसंयोगात् कारणाद् एकदेशो स्यात् ॥ MS_३,५.२६ ॥
सर्वे छन्दोगाः सहसुब्रह्मण्या भक्षयेयुः। किम् इति? गानसंयोगाद् इति नायं पक्ष उपपद्यते। कथम्? एकस् तत्रोद्गानेन संबन्धः49, इतरो गानेन, अन्यद् धि गानम्, अन्यद् उद्गानम्, गीतिमात्रं गानं लौकिकं वैदिकं च। द्वितीयं साम्नः पर्व, उत्पूर्वस्य गायतेर् अभिधेयं प्रसिद्धम्। तत्रैक एवोद्गीथं करोतीत्य् एक एवोद्गाता, न बहवः। तस्माद् गानसंयोगाद् बहवो भविष्यन्तीत्य् एतद् अपि नोपपद्यते। कथं तर्हि? वेदसंयोगात्, औद्गात्रं नाम प्रवचनम्, तथा - औद्गात्राणि कर्माणि, औद्गात्रस्य कर्ता वाध्येता वोद्गातेत्य् उच्यते। कथम्? उद्गातुः कर्म, औद्गात्रम् इति प्रसिद्धम्। एवं चेद् व्यक्तम् औद्गात्रस्य कर्ता, उद्गातेति गम्यते। यस्योद्गाता प्रसिद्धः, तद् विशिष्टं कर्मानाख्यातम् अप्य् औद्गात्रम् इति वदति। शब्दश् च यस्यौद्गात्रं प्रसिद्धम्, स तस्य कर्तारम् उद्गातेति वदति, अनाख्यातम् अपि, यथा यस्योदमेघः प्रसिद्धः, स तस्यानाख्या-तम् अप्य् अपत्यम् औदमेघिर् इति ब्रूते, यस्यौदमेघिः, स तस्य [३५३]50 पितरम् अनाख्यातम् अप्य् उदमेघं प्रतिपद्यते। एवम् औद्गात्रसंबन्धाद् उपपद्यत उद्गातृशब्दः, प्रस्तोताप्य् उद्गातापि प्रतिहर्तापि सुब्रह्मण्यो ऽपि। एवं बहुवचनम् उद्गातृशब्दश् चोभयम् अप्य् उपपन्नं भविष्यति, न चान्यः कश्चिद् दोषः। तस्माद् औद्गात्रेण संबद्धाश्वत्वार उद्गातृचमसं भक्षयेयुर् इति। यत्र कारणम् अस्ति, तत्रापि सुब्रह्मण्या उद्गातारः, यथा - उद्गातृशब्दो विनिषद्योद्गातारः साम्ना स्तुवत इति स्तोत्रकारिषु, तथेदम्51 अपि वचनम्, उद्गातारो नापव्याहरेयुर् उत्तमायाम् एषोत्तमा इत्य् अपसुब्रह्मण्यानाम् एव।
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् ॥ MS_३,५.२७ ॥
ज्योतिष्टोमे ग्रावस्तुन् नाम होतृपुरुषः। तत्र संदेहः - किं स सोमं भक्षयेत्, नेति। उच्यते - ग्रावस्तुन् न बक्षयेत्। कुतः? यतो ऽस्य भक्षं नामनन्ति। हारियोजने चमसिनाम् अधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष52 इति।
हारियोजने वा सर्वसंयोगात् ॥ MS_३,५.२८ ॥
हारियोजनस्य वा ग्रावस्तुतं भक्षयितारं मन्यामहे, एवं ह्य् आमनन्ति - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्ति। [३५४]53 अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति। यदा हारियोजनस्य सर्वे लिप्सन्ते, तदा ग्रावस्तुद् अपीति।
चमसिनां वा संनिधानात् ॥ MS_३,५.२९ ॥
वाशब्दः पक्षं व्यावर्तयति। नैतद् अस्ति ग्रावस्तुतो हारियोजने भक्ष इति, चमसिनां तत्राधिकारो न सर्वेषाम्। कथम्? चमसिनाम् एष विभागः, चमसिनो ऽन्यांश् चमसान्, यथा - चमसं भक्षयन्तीत्य् अनूद्य, चमसिन एव वदति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति। एकं हीदं वाक्यम्, अथैतस्येत्य् अथशब्दप्रयोगात्, अनन्तरवृत्तम् अपेक्षते। अथ54 सर्व एवेत्य् एवशब्दः, सामर्थ्यात् सर्वान् पूर्वप्रकृतान् अपेक्षते, अतो मन्यामहे - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनेन पूर्वेण, अथैतस्य हारियोजनस्येत्य् एतस्यैकवाक्यता भवतीति। तेन चमसिनां संनिहितानाम् एष विभागः, यथा चमसम् अन्यत्र, हारियोजने तु सर्व एवेति।
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः ॥ MS_३,५.३० ॥
तुशब्दः पक्षं व्यावर्तयति। नैतद् अस्ति - चमसिन एव हारियोजने लिप्सन्त इति, सर्वे तु विधीयन्ते हारियोजने, सर्वे भक्षयन्तीति, न पुनश् चमसिन इति संबन्धः शक्यते विधातुम्। द्वौ हि संबन्धाव् अस्मिन् वाक्ये ऽपूर्वौ न शक्येते विधातुम्। तस्माद् अन्या वचनव्यक्तिः। [३५५]55 का पुनर् असौ? यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनुवादः, चमसिनश् चमसान् भक्षयन्त्य् एव, ते भक्षयन्तो यथा चमसम् एव, अथैतस्य हारियोजनस्य न केवलं चमसिनः, सर्व एवेति। किम् एवं भविष्यति? सर्वशब्दश् च सर्वान् वदन् नैकदेशे कल्पितो भविष्यति। न च, द्वौ संबन्धाव् अपूर्वाव् एकस्मिन् वाक्ये भविष्यतः। तस्माद् एष पक्षो ज्यायान् इति तदर्था ह्य् एषा चमसिश्रुतिः, हारियोजनस्य प्रशांसार्था56 चमसिनः कीर्त्यन्ते हारियोजनं प्रशंसितुम्। कथम्? महाभागो हि हारियोजनः, यस्मात् तत्र सर्वे लिप्सन्ते, अन्यांश् चमसान् एकैकः, न ते महाभागाः, न्यूना हारियोजनाद् इति।
वषट्काराच् च भक्षयेत् ॥ MS_३,५.३१ ॥
अथ किं समाख्यैवैका भक्षकारणम्? नेति ब्रूमह्, वषट्काराच् च भक्षयेत्, वषट्कारश् च भक्षणे निमित्तम्। कथम्? वचनात्, एवं हि श्रूयते - वषट्कर्तुः प्रथमभक्ष इति, भक्षणस्याप्राप्तत्वात्, न प्राथम्य् अविधानार्थ एष शब्दः, प्राथम्य् अविशिष्टं भक्षणम् एव विदधातीति।
होमाभिषवाभ्यां च ॥ MS_३,५.३२ ॥
अपरम् अपि कारणं होमाभिषवौ। कथम्? हविर्धाने [३५६]57 ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य् सदसि भक्षान् भक्षयन्तीति58। न तावत्, एष क्रमो विधीयते, होमे निर्वृत्ते ततो भक्षणस्याप्राप्तत्वात्59। द्वयोश् च क्रमयोर् विधानात्, अभिषुत्य हुत्वेति वाक्यं भिद्येत। अर्थेन च प्राप्तत्वाद् अस्य क्रमस्य। न ह्य् अकृते प्रयोजने कश्चित् प्रतिपादनम् अर्हति। न च, भक्षणाङ्गभावेन होमाभिषवौ चोद्येते। अभिषवस्य होमार्थत्वात्, होमस्य च फलार्थत्वात्। तस्माद् धोमाभिषवयोः कर्तॄणां भक्षणं विधीयते। ये ऽभिषुण्वन्ति जुह्वति च, ते भक्षयन्तीति।
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे ॥ MS_३,५.३३ ॥
इदं श्रूयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति। तत्र संदेहः - चमसेषु होमाभिषवयोः कर्तारो वषट्कर्तारश् च किं भक्षयेयुः, उत नेति। किं प्राप्तम्? न भक्षयेयुः, प्रत्यक्षोपदेशाच् चमसानां चमसिनः प्रति। प्रैतु होतुश् चमस इत्येवमादिभिर् विशेषवचनैः, होमाभिषवकारिणां60 सामान्यवाक्येन, यः सोमो भक्षणेन संस्कर्तव्यः, स चमसेषु चमसिभिर् इति, अथेदानीम् अन्यन् निमित्तं क्व भविष्यति? अव्यक्तः सामान्यनिमित्तः क्व? शेषे भविष्यति, यत्र न चमसिनः।
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् ॥ MS_३,५.३४ ॥
स्याद् वा चमसेषु वषट्कर्त्रादीनां भक्षः, प्राप्यते हि तेषां तत्र कारणम्, न च प्रतिषिध्यते। ननु चमसिनां प्रत्यक्षो[३५७]61पदेशान् निवर्तेरन्। उच्यते - अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात्, प्रैतु होतुश् चमस इत्येवमादयः शब्दाः न शक्नुवन्ति वषट्कर्त्रादीन् प्रतिषेद्धुम्, उपदेष्टारो हि ते, न प्रतिषेद्धारः, तस्माद् वषट्कर्त्रादयो ऽपि चमसेषु भक्षयेयुः।
चमसे चान्यदर्शनात् ॥ MS_३,५.३५ ॥
चमसे चान्यांश् चमसिनो दर्शयति - चमसांश् चमसाध्वर्यवे प्रयच्छति। तान् स वषट्कर्त्रे हरतीति। एको हि स्वश् चमसो वषट्कर्त्रे ह्रियते, तेन बहुहरणदर्शनं नावकल्पते, यदि वषट्कर्त्रादयो न चमसेषु भक्षयेयुः। तस्माद् भक्षयन्तीति।
अथ यत्रैकस्मिन् पात्रे बहवो भक्षयन्ति, कस् तत्र क्रम इति। उच्यते -
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् ॥ MS_३,५.३६ ॥
तस्य हि क्रमो भक्षयितुम्, यस्य हस्ते सोमः।
होता वा मन्त्रवर्णात् ॥ MS_३,५.३७ ॥
होता वा पूर्वो भक्षयेत्, मन्त्रवर्णात्, मन्त्रवर्णो हि तथा - होतुश् चित् पूर्वे हविरद्यम् आशतेति62, तथा - होतेव नः प्रथमः पाहीति63।
वचनाच् च ॥ MS_३,५.३८ ॥
वचनम् इदं भवति - वषट्कर्तुः प्रथमभक्ष इति। वचन[३५८]64म् एवेदम्, न मन्तव्यम्, अनेकगुणविधानाद् अविवक्षितं प्राथम्यम् इति। अप्राप्तत्वात् प्राथम्यस्य, नायम् अनुवादः, विधिर् एव। समासेन च विदधतो नानेकगुणविधानं दुष्करम्।
कारणानुपूर्व्याच् च ॥ MS_३,५.३९ ॥
प्रथं हि वषट्करणं निमित्तं होतुः, ततो होमो ऽध्वर्योर् निमित्तम्। निमित्तानुपूर्व्याच् च नैमित्तिकानुपूर्व्ये क्रमानुरोधः।
वचनाद् अनुज्ञातभक्षणम्65 ॥ MS_३,५.४० ॥
अथ य एकपात्रे सोमो ऽनेकेन भक्ष्यते, किं तत्रानुज्ञाप्य, अननुज्ञाप्य वा भक्षयितव्यम्, उतानुज्ञाप्यैवेति। लाघवाद् अनियमो प्राप्त उच्यते - अनुज्ञाप्य भक्षयितव्यम् इति। कस्मात्? वचनात्, इदं वचनं भवति - तस्मात् सोमो नानुपहूतेन पेय इति। उपह्वानं चानुज्ञापनम्। प्राप्तिसूत्रम् एतत्66।
अथानुज्ञातेन भक्षयितव्यम् इति स्थिते, किं लौकिकेन वचनेनानुज्ञापयितव्यम्, उत वैदिकेनेति। अनियमाल् लौकिकेनेति प्राप्त उच्यते -
तदुपहूत उपहूयस्वेत्य्67 अनेनानुज्ञापयेल् लिङ्गात् ॥ MS_३,५.४१ ॥
अनुज्ञापनलिङ्गो ऽयं मन्त्रः, लिङ्गात्, अनुज्ञापने समाम्नातः, [३५९]68 सामर्थ्याद् विनिजुज्यते, तत्र कृते ऽर्थे लौकिको निवर्तते।
तत्रार्थात् प्रतिवचनम् ॥ MS_३,५.४२ ॥
एतद् अवगतम् - तदुपहूत उपहूयस्वेत्य्69 अनेनानुज्ञापयेद्70 इति। अथ प्रतिवचने संदेहः - किं लौकिकं प्रतिवचनम् उतैतद् एवेति। किं प्राप्तम्? एतद् वैदिकम्, प्रश्ने विनियुक्तम्। लौकिकम् अन्यत् प्रतिवचनं भवितौम् अर्हति। एवं प्राप्ते ब्रूमः - तत्रैतद् एव प्रतिवचनम् इति। ननु प्रश्नलिङ्गम् एतद् उपहूयस्वेति71। उच्यते - यद् अस्य पूर्वम्, उपहूत इति प्रतिवचनस्य समर्थम्, तत् प्रतिवचनकार्ये बविष्यति। आह - विपरीतम् एतत् समाम्नानम्, पूर्वं हि प्रश्नेन भवितव्यम्, ततः प्रतिवचनेन। उच्यते - अर्थात्, पूर्वं प्रतिवचनकार्ये भविष्यति, अर्थो हि क्रमाद् बलीयान् इति।
तदेकपात्राणां समवायात् ॥ MS_३,५.४३ ॥
इदं संदिह्यते - किं यः कश्चिद् अनुज्ञापयितव्यः, उत समानपात्र इति। अविशेषाभिधानाद् यः कश्चिद् इति प्राप्त उच्यते - तत् खल्व् अनुज्ञापनम् एकपात्राणां स्यात्। कुतः? अनुज्ञापनम् इहाङ्गम्, अनुज्ञापनस्य चैतद् रूपम्, यत्रान्येन कर्तव्यम् अन्यश् चिकीर्षेत्, सो ऽनुमन्यस्वेति ब्रूते, सहभोज[३६०]72नादि वाचरितुकामश् चित्तम् अन्यस्यानुकूलयति। तद् एतन् नानापात्रेषु नैव संभवति। न हि तत्रान्येन कर्तव्यम्, अन्यो वा चिकीर्षतीति73। सहभोजनादौ वा पदार्थे74 संमानयति। एकपात्रे तु सोमे साधारणे संस्कर्तव्ये न्यायेन समो विभागः प्राप्नोति, तत्राविभज्य पीयमाने कदाचिद् अन्येन पातव्यम् अन्यः पिबेत्, तत्रानुज्ञापनं संभवति, त्वयार्धं पातव्यम्, मयार्-धम्। कदाचिद् अहम् अभ्याधिकं न्यूनं वा पिबेयम्, तदनुज्ञातुम् अर्हसीति, एकपात्रे वा पानं त्वया सहाचरन्न् अहं तव चित्तप्रसादानं व्याहन्याम् इति संभवत्य् अनुज्ञापना। तस्माद् एक-पात्रेष्व् एवैतत् स्याद् इति।
याज्यापनयेनापनीतो भक्षः प्रवरवत् ॥ MS_३,५.४४ ॥
अस्ति ज्योतिष्टोमः, तत्र ऋतुयागेषु श्रूयते - यजमानस्य याज्या सो ऽभिप्रेष्यति होतर् एतद् यजेति स्वयं या निष्पद्य यजतीति। यदा स्वयं यजति, तदा संदेहः - किम् अस्य भक्षो ऽस्ति, नास्तीति। तद् उच्यते - याज्यायाम् अपनीयमानायां नापनीयेत भक्षणम्, होतुर् एव तु भक्षणं स्यात्, न यजमानस्येति। कुतः? अन्या हि याज्या, अन्यद् भक्षणम्, न चान्यस्मिन्न् अपनीयमाने ऽन्यद् अपनीयते। यथा तस्याम् एव याज्यायाम् अपनीयमानायां प्रवरो नापनीयते, तद्वद् एतद् अपीति। ननु75 याज्याया अधि वषट्करोतीति, यत्र याज्या, तत्र वषट्कारः, यत्र वषट्कारः, तत्र भक्षणम् अपीति। न [३५१]76 इत्य् उच्यते, न तावद् याज्यायाम् अवयवभूतो वषट्कारः, येन याज्याग्रहणेनासौ गृह्येत77। यत् तु तस्या अधि वषट्करोतीति, अन्येनापि प्रयुज्यमानाया उपरि होता वषट्करिष्यति, याज्यापनयो हि वचनात्, न वषट्कारापनयः। यावद् वचनम्, वाचनिकं भवत्य् एव, वचनं हि तद्विषयम् एव।
यष्टुर् वा कारणागमात् ॥ MS_३,५.४५ ॥
यष्टुर् वा भक्षः स्यात्। कुतः? कारणागमात्, भक्षस्य कारणं वषट्कारः, स च याज्यायाम् आगच्छन्त्याम् आगच्छति। एवं हि श्रूयते - याज्याया अधि वषट्करोतीति। नन्व् एतद् उक्तम् - यजमानेनापि प्रयुज्यमानायां होता78 अधि79 वषट्करोतीति। नैष समाधिः, अनवानता यष्टव्यम्, वषट्कारेण यागः क्रियते, न याज्यामत्रेण। तस्माद् आ वषट्कारान् नावानितव्यं यजमानेन, अन्यश् चेद् वषट्कुर्याद् अवान्याद् यजमानः। न च यजेत। यष्टव्ये चासौ चोद्यते, न याज्यामात्रवचने, स्वयं निपद्य यजतीति साङ्गस्य निषद्ययागे विधानात्।
प्रवृत्तत्वात् प्रवरस्यानपायः ॥ MS_३,५.४६ ॥
अथ यद् उक्तम् - यथा प्रवरो नापनीयते, एवं भक्षो ऽपीति। उच्यते - अशक्यत्वात् प्रवरो नापनीयते, अतिक्रान्तो हि स कथम् अपनीयेत होतुः? भ्रष्टे चावसरे, अनुष्ठीयमानो यजमानस्य विगुणः स्यात्। न च विगुणः कथंचिद् अर्थं साधयेत्। नात्र चोदकेन प्राप्नोति। अथोच्यते - यच् छक्यं तच् चोदकेन प्रापितम्, यन् न शक्यम्, न तत् प्रापितम् इति। प्रकृतिर् इयम्, [३६२]80 अपूर्वस्यात्र विधानम्, यादृशम् उक्तम्, तादृशं यदि शक्यते कर्तव्यम्। यदि न शक्यते, यत्रैव शक्यते, तत्रैव कार्यम्। न यत्र विगुणम् इति। तस्मात् प्रवरस्यानपायो युक्तो न भक्षस्येति।
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् ॥ MS_३,५.४७ ॥
ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा81 वैष्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति। तत्र संदेहः - किं फलचमसो भक्षविकारः, उतेज्याविकार इति। किं फलचमसं भक्षयेद् इत्य् अर्थः, उत फलचमसेन यजेतेति82। किं प्राप्तम्? फलचमसो नैमित्तिको भक्षविकारः, भक्षणेन हि श्रुतेनैकवाक्यता भवतीति, तस्मै भक्षं प्रयच्छेद् इति, न, तेन यजेतेतिशब्दो ऽस्ति, तस्माद् भक्षविकारः।
इज्याविकारो वा संस्कारस्य तदर्थत्वात् ॥ MS_३,५.४८ ॥
इज्याविकारो वा फलचमसः फलचमसेन यजेतेत्य् अर्थः83। कथम्? यद् एतद् भक्षणम्, एतत् सोमसंस्कारार्थम्, फलचमस्यापि यदि भक्षणं फलचमससंस्कारार्थम्, फलचमसस्यान्यत्रानुपयोगाद् अनर्थकम्। अथ भक्षणं प्रधानम्। तथा - न सोमम् [३६३]84 इत्य् अनुवादो नावकल्पते। यदि त्व् इज्याविकारो85 भवेत्, ततः फलचमससंस्कारो ऽवकल्पते। तस्माद् इज्याविकारः। आह - कथं यजिसंबन्धे ऽसति, इज्याविकारो भविष्यतीति। उच्यते - अस्ति यजिसंबन्धः। कथम् इति। यदि राजन्यं वा86 वैष्यं वा याजयेत्, न्यग्रोधस्तिभीः संपिष्य तम् अस्मै भक्षं प्रयच्छेत्, याजयितुम् इति गम्यते। भक्षसंबन्धे हि न पूर्वम् उत्तरेण संबध्यते, यदि सोमं भक्षणेन संस्कर्तुम् इच्छेन् न्यग्रोधस्तिभीः संस्कुर्याद् इति। तस्मान् न भक्षणसंबन्धः। यागो हि प्रकृतो ऽस्ति, तेन सह संभन्त्स्यते, न दोषो भविष्यति। ननु तस्मै भक्षं प्रयच्छेद् इतिवचनाद् भक्षसाधनम् इति गम्यते, न, यागसाधनम् इति, भक्षशब्दानन्तर्यात्। उच्यते - श्रूयमाणे संबन्धे ऽनर्थकम् इति कृत्वा प्रकृतसंअब्ध इत्य् उच्यते। कथं तु भक्षसंबन्ध इति। यद् धि87 यागद्रव्यं भक्षयितव्यम्, तच् चोदकेन भवति, तस्माद् भक्षसंबन्धं लभते, भक्षसंबन्धेन च यागसंबन्ध एव लक्ष्यते, यदि तेनेज्यते, ततः स भक्षो भवति, तस्माद् भक्षवचनात् सुतरां तेनेज्यत इति गम्यते, सैषा व्यवधारणकल्पना। तस्मै भक्सं प्रयच्छेत्, तम् अस्मै भक्षं कुर्याद् इत्य् अर्थः, यथा स भक्षो भवति, तथा कुर्याद् इति, यदि च तेनेज्यते, ततो ऽयं भक्षो भवति। तस्मात् तेन यष्टव्यम् इति।
होमात् ॥ MS_३,५.४९ ॥
होमविशेषवचनं भवति - यदान्यांश् चमसाञ्88 जुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोतीति। इज्याविकारे सति दर्भतरुणकेनेति जुहोतौ गुणवचनम् अवकल्पते। तस्माद् अपीज्याविकारः।
[३६४]89
चमसैश् च तुल्यकालत्वात् ॥ MS_३,५.५० ॥
यदान्यांश् चामसान् उन्नयन्ति, अथैनं चमसम् उन्नयन्तीति। इज्याविकारे सत्य् उन्नयनदर्शनं युज्यते, न भक्षविकारे। तस्माद् अपीज्याविकारः।
लिङ्गदर्शनाच् च ॥ MS_३,५.५१ ॥
इतश् च पश्यामः - इज्याविकार इति। कुतः? लिङ्गदर्शनात्। किं लिङ्गं भवति? सोमप्रतिषेधानुवादः, तस्मै भक्षं प्रयच्छेत्, न सोमम् इति, इज्याविकारे सति सोमो न भक्ष्यते। तस्मात् पश्यामः - इज्याविकार इति।
अनुप्रसर्पिषु सामान्यात् ॥ MS_३,५.५२ ॥
अस्ति राजसूये दशपेयः, तत्र श्रूयते - शतं ब्राह्मणाः सोमान् भक्षयन्ति, दशदशैकैकचमसम् अनुप्रसर्पन्तीति। अत्र राजन्यचमसे संदेहः - किम्, तं राजन्या अनुप्रसर्पेयुः, उत ब्राह्मणा इति। किं प्राप्तम्? राज्यन्या इति। कथम्? दशदशैकैकं चमसम् अनुप्रसर्पेयुर् इत्य् अनुप्रसर्पतां संख्या विधीयते। एकस्यां राजन्यजातौ दशसंख्या विधीयते। राजन्यजातिः सैव, तेन तं दश राजन्या अनुप्रसर्पेयुर् एवं शतं ब्राह्मणा राजन्याश् च। तेषु शतशब्दो ऽनुवादः। अनुवादसरूपश् च, शतं भक्षयन्तीति। तस्माद् राजन्या राजन्यचमसम् अनुप्रसर्पेयुर् इति। केचिद् आहुः - ब्राह्मणराजन्यानाम् एकस्मिंश् चमसे भक्षणं [३६५]90 विरुध्यत इति। न स दोषः, न हि सोमेनोच्छिष्टा भवन्तीति श्रूयते।
ब्राह्मणा वा तुल्यशब्दत्वात् ॥ MS_३,५.५३ ॥
ब्राह्मणा वा राजन्यचमसम् अनुप्रसर्पेयुः। कथम्? शतं ब्राह्मणाः सोमं भक्षयन्तीति विधिः श्रुत्या ब्राह्मणगताम् एव संख्याम् आह। तस्माच् छतं ब्राह्मणाः, तेषां भक्षणार्थम् अनुप्रसर्पताम् एकैकस्मिंश् चमसे दशदशोपदिश्यन्ते। तस्माद् ब्राह्मणाशतस्य दश ब्राह्मणा राजन्यचमसम् अनुप्रसर्पेयुर् इति।
[३६६]91
-
Tait.S. 2.6.6.5 ↩︎
-
Tait.S. 2.6.7.3 ↩︎
-
E2,4: tathānyāni prāśitrāvadānādīni śeṣakāryāṇi ↩︎
-
E2,4 om. tad yat ↩︎
-
E2,4: vṛṇīṣvevy abruvan ↩︎
-
Tait.Br. 1.7.4.4 ↩︎
-
E2,4: prāyaṇīya ↩︎
-
E2: 4,441; E4: 4,712; E6: 1,232 ↩︎
-
E2,4: ‘vatte ↩︎
-
Tait.Br. 3.3.5.5 ↩︎
-
E2: 4,443; E4: 4,715; E6: 1,233 ↩︎
-
E2,4: upāṃśuyājārthasya ↩︎
-
E2,4: sauviṣṭakṛtasya ↩︎
-
E1: dravyam ↩︎
-
E2,4: somasyāgne ↩︎
-
E4: vrīhīty ↩︎
-
Ai.Br. 3.5 ↩︎
-
E2,4: homasaṃyuktāni ↩︎
-
E2: 4,445; E4: 4,718; E6: 1,234 ↩︎
-
Tait.S. 5.1.1.1 ↩︎
-
E2,4 om. tad yat ↩︎
-
E2,4: yaṃ ↩︎
-
E2,4: prāyaṇīye ↩︎
-
E2,4: odanajātibhājyajātiṃ ↩︎
-
E2,4: dhuvā tataḥ kila ↩︎
-
E2: 4,447; E4: 4,722; E6: 1,234 ↩︎
-
E1: prasthāyye ↩︎
-
Tait.S. 2.5.4.3 ↩︎
-
E2,4: prahāḥ ↩︎
-
E2,4: ca ↩︎
-
E2,4: caśabdenānvādiśyate ↩︎
-
E2: 4,448; E4: 4,723; E6: 1,235 ↩︎
-
Tait.Br. 1.8.6.2 ↩︎
-
E2,4: ābarhatāya ↩︎
-
E2: 4,450; E4: 4,726; E6: 1,235 ↩︎
-
E2,4 om. kiṃ ↩︎
-
E2: 4,453; E4: 4,729; E6: 1,236 ↩︎
-
Vgl. Tait.S. 6.4.9.4-5 ↩︎
-
Vgl. Tait.S. 6.4.9.4 ↩︎
-
E2,4: bhakṣo nātiprasajyata ↩︎
-
E2: 4,455; E4: 4,731; E6: 1,237 ↩︎
-
E2,4,6, E1 (v.l.): unmṛjya ↩︎
-
Ai.Br. 7.30 ↩︎
-
E2,4: bhakṣa nivṛttiṃ ↩︎
-
E2,4,6: tatrāsti ↩︎
-
E2: 4,456; E4: 4,733; E6: 1,237 ↩︎
-
E2,4,6: pramādād adhītam ↩︎
-
E2: 4,458; E4: 4,735; E6: 1,238 ↩︎
-
E2,4: saṃbaddhaḥ ↩︎
-
E2: 4,460; E4: 4,736; E6: 1,239 ↩︎
-
E2,4,6: yathedam ↩︎
-
E1 gibt hāriyojane camasinām adhikāra iti manyamāna evaṃ ha smāha, nāsyāmnāyate bhakṣa in Klammern ↩︎
-
E2: 4,462; E4: 4,739; E6: 1,239 ↩︎
-
E2,4 om. atha ↩︎
-
E2: 4,463; E4: 4,740; E6: 1,240 ↩︎
-
E1 gibt hāriyojanasya praśāṃsārthā in Klammern ↩︎
-
E2: 4,466; E4: 4,744; E6: 1,241 ↩︎
-
Vgl. Tait.S. 6.2.11.4 ↩︎
-
E2,4: tato bhakṣaṇam iti, bhakṣaṇasyāprāptatvāt ↩︎
-
E2,4: homābhiṣavādikāriṇāṃ ↩︎
-
E2: 4,469; E4: 4,747; E6: 1,241 ↩︎
-
ṚV 10.94.2d ↩︎
-
ṚV 5.43.3c ↩︎
-
E2: 4,470; E4: 4,749; E6: 1,242 ↩︎
-
E2,4: ajñātabhakṣaṇam ↩︎
-
E1 gibt prāptisūtram etat in Klammern ↩︎
-
E2,4: upahvayasvety ↩︎
-
E2: 4,472; E4: 4,751; E6: 1,242 ↩︎
-
E2,4: upahvayasvety ↩︎
-
E2,4: etenānujñāpayed ↩︎
-
E2,4: upahvayasveti ↩︎
-
E2: 4,473; E4: 4,753; E6: 1,243 ↩︎
-
E2,4 om. iti ↩︎
-
E2,4: padārthaṃ ↩︎
-
E2,4 om. nanu ↩︎
-
E2: 4,474; E4: 4,754; E6: 1,244 ↩︎
-
E2,4 geben yena yājyāgrahaṇenāsau gṛhyeta in Klammern ↩︎
-
E2,4: prayujyamānāyā api hotā ↩︎
-
E2,4 om. adhi ↩︎
-
E2: 4,477; E4: 4,756; E6: 1,244 ↩︎
-
E2,4 om. vā ↩︎
-
E1 gibt kiṃ phalacamasaṃ bhakṣayed ity arthaḥ, uta phalacamasena yajeteti in Klammern ↩︎
-
E1 gibt phalacamasena yajetety arthaḥ in Klammern ↩︎
-
E2: 4,478; E4: 4,759; E6: 1,245 ↩︎
-
E2,4: ijyākāro ↩︎
-
E2,4 om. vā ↩︎
-
E2,4: yadi ↩︎
-
E2,4: catamasāñ ↩︎
-
E2: 4,482; E4: 4,762; E6: 1,246 ↩︎
-
E2: 4,484; E4: 4,766; E6: 1,247 ↩︎
-
E2: 4,488; E4: 4,769; E6: 1,247 ↩︎