अर्थभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसंबन्धो ऽर्थेन नित्यसंयोगात् ॥ MS_३,२.१ ॥
इह मन्त्रा उदाहरणम् - बहिर्देवसदनं दामीत्येवमादयः। किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणे ऽपीति। कः पुनर् मुख्यः को वा गौण इति। उच्यते - यः शब्दाद् एवावगम्यते, स प्रथमो ऽर्थो मुख्यः, मुखम् इव भवतीति मुख्य इत्य् उच्यते। यस् तु खलु प्रतीताद् अर्थात् केनचित् संबन्धेन गम्यते, स पश्चाद् भावाज् जघनम् इव भवतीति जघन्यः, गुणसंबन्धाच् च गौण इति। यद्य् एवं सर्व एव मुख्यः, सर्वो हि शब्दाद् गम्यते, यथैव ह्य् अग्निर् ज्वलतीत्य् उक्ते ज्वलने संप्रत्ययः1, एवम् एवाग्निर् माणवक इति शब्द एवोच्चारिते माणवके संप्रत्ययः। अथोच्यते, यस्मिन् निरुपपदाच् छब्दात् संप्रत्ययः स मुख्यः, यस्मिन् सोपपदात् स गौण इति। नैतद् युक्तम्। यस्य हि शब्दस्य रूपं कस्यचिद् अर्थस्य निमित्तम्, सोपपदस्यापि तद् एव रूपम्, निरुपपदस्यापि। न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम्। किम् अतः? यद्य् एवम्, इदं न शक्यते वदितुम् - उपपदाद् ऋते न सो ऽर्थो भवति, उपपदे तु संजाते सो ऽर्थः संजनिष्यत इति। न चासौ समुदायार्थः शक्यते विज्ञातुम्। अन्वयव्यतिरेकाभ्यां हि विभागो ऽवगम्यते। अथ, वाक्-यार्थो ऽयम् इत्य् उच्यते। नैवं शक्यम्, न ह्य् अनन्वितः पदार्थो भवति [२४४]2 वाक्यार्थः। तद् एवं दृश्यताम् - अग्निशब्द एवायं ज्वलनवचनः, अग्निशब्द एव माणवकस्याभिधातेति। तस्मान् न गौणो मुख्य इति कश्चिद् विशेषः। अथोच्यते, यः सुष्ठु प्रसिद्धः स मुख्यः, यो मनाग् इव स गौण इति। इदम् अपि नोपपद्यते, प्रसिद्धिर् नाम प्रज्ञानम्, न च प्रज्ञाने कश्चिद् विशेषो ऽस्ति। अथोच्यते, यस्य बहुशः प्रयोगो ऽस्ति स मुख्यः, अल्पशः प्रयुज्यमानो गौण इति। नैतद् एवम्, अल्पशो ऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत्। अतः सो ऽपि शब्दात् प्रतीयत इति मुख्य एव।
अत्रोच्यते - अस्त्य् अत्र विशेषः, माणवको नाग्निशब्दात् प्रतीयते। कथम् अवगम्यते? उक्तम् - अन्यायश् चानेकार्थत्वम् इति। कथं न विपर्ययः? उच्यते - अनादृत्यैव माणवकप्रत्ययं ज्वलनम् अग्निशब्दात् प्रतियन्तो दृश्यन्ते। न त्व् अनादृत्य ज्वलनम्3, मानवकम् अग्निशब्दात् प्रतियन्ति। कुत एतत्? यो यो ऽग्निसदृशो विवक्ष्यते, तत्र तत्राग्निशब्दो नियत इति। अत एव विगतसादृश्याद् अयं तु दृश्यते। अतो ऽग्निसादृश्यम् अस्य प्रवृत्तौ निमित्तं न च ज्वलने ऽप्रतीते तत्साद्रृश्यं प्रतीयते। तस्माज् ज्वलनस्याग्निशब्दो निमित्तम्, न माणवकस्य। तस्माज् ज्वलने मुख्यो न माणवके। एवम् एव तृणप्रत्ययस्य बर्हिःशब्दो निमित्तम्, न तृणसदृशप्रत्ययस्य। तद् एवं द्वैते सति मुख्यपरता शब्दस्य, उत गौणपरतापीति युक्तो विचारः। किं तावत् प्राप्तम्? मुख्ये गौणे च विनियोगः। कुतः? उभयस्य शक्यत्वाद् उभयम् अपि बर्हिःशब्देन शक्यते प्रत्याययितुम्, तृणं च तृणसदृशं च, तृणं साक्षात्, तृणसदृशं तृणप्रत्ययेन। यच् च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिःशब्देन शक्यते प्रत्याययितुम्, तत् सर्वं प्रत्याययितव्यम्, विनिगमनायां हेत्वभावात्। [२४५]4 अपि चैवम् आश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमासाभ्यां नोत्कृष्यन्ते5, तत्रैव गौणेनाभिधानेन प्रकृतां देवताम् अभिवदिष्यन्ति। एवं प्राप्ते ब्रूमः - मुख्य एव विनियोक्तव्यो मन्त्रो न गौण इति। कुतः? उभयाशक्यत्वात्, प्रकरणे हि समाम्नानात् प्रधानेनैकवाक्यताम् उपैति। तत्रैतद् आपतति यच् छक्नुयाद् अनेन मन्त्रेण साधयितुम्, तथा साधयेद् इति। स चासाव् अर्थाभिधानसंयोगाच् छक्नोत्य् उपकर्तुम्, न गौणम् अर्थं शक्योत्य् अभिधातुम्, तस्मान् न गौणे विनियोगः। ननु मुख्यप्रत्ययाच् छक्यते गौणः प्रत्याययितुम्। सत्यम् एतत्, मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निर्वृत्तेति न गौणं प्रति विनियोगे किंचित् प्रमाणम् अस्ति। मुख्ये विनियोगेन त्व् आनर्थक्यं परिह्रियते, परिहृत आनर्थक्ये न गौणाभिधानम् आपतति। न ह्य् अनभिधाय मुख्यम्, गौणम् अभिवदति शब्दः। अतः प्रमाणाभावान् न गौणे विनियुज्येत। अपि च गौणस्य प्रत्यायने सामर्थ्याद् बहवो ऽभ्युपायाः प्राप्नुवन्ति, सामर्थ्यं च शब्दैकदेश इत्य् उक्तम् - अर्थाद् वा कल्पनैकदेशात्वाद् इति6, तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमान उपायान्तरम्, विना प्रमाणेन बाध्येत। मन्त्राम्नानं प्रमाणम् इति चेत्। न तस्योपायान्तरनिवृत्तौ सामर्थ्यम् अस्ति। ननु मुख्ये ऽपि विनियुज्यमान्स्यैष एव दोषः। नेत्य् उच्यते - यदि मुख्ये ऽपि न विनियुज्येत, नैव प्रधानस्योपकुर्यात् तत्र चास्योत्पत्तिर् अनर्थिकैव स्यात्। तस्माद् अस्ति गौणे मुख्ये च विशेषः। अपि च यो गौणे मन्त्रं विनियुङ्क्ते, स वक्तव्यः - किम् अर्थं मुख्यं प्रत्याययसि [२४६]7 इति। स चेद् ब्रूयात् - नान्यथा गौणप्रत्ययो ऽस्तीति, प्रतिब्रूयाद् एनम् - अन्ये ऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति। अथ स एवम् अभियुक्तः प्रतिब्रूयात् -मुख्यप्रत्ययो ऽपि पाक्षिको ऽभ्युपाय इति, ब्रूयाद् एनम् - न तर्हि नियोगतो गौणे विनियोजनीयः, यदा गौणप्रत्ययाय मुखम् उपादत्ते, तदैतद् आपतितं भवति, मुख्य एव विनियोग इति। अर्थेन च प्रतीतेन प्रयोजनम्, न प्रत्यायकेन मन्त्रेण, अतो ऽन्येनाप्य् उपायेन गौणः प्रत्य्-आययितव्यः, न स एव मन्त्र आदर्तव्यः। अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्, तथापि मुख्यप्रत्यायनेनैव निर्वृत्तं प्रयोजनम् इति नतरां गौणे विनियुज्येत। तस्मान् मुख्यगौणयोर् मुख्ये कार्यसंप्रत्यय इति सिद्धम्।
संस्कारकत्वाद् अचोदिते न स्यात् ॥ MS_३,२.२ ॥
अथ यद् उक्तम् - पूषाद्यनुमन्त्रणादीनाम् उत्कर्षो न भविष्यतीति, युक्तस् तेषाम् उत्कर्षः, संस्कारको हि मन्त्रः, सो ऽसति संस्कार्ये ऽनर्थक इति यत्रार्थवांस् तत्र नाययिष्यते। न च कश्चिद् दोषो भविष्यति।
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् ॥ MS_३,२.३ ॥
अग्नौ श्रूयते - निवेशनः संगमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति8। तत्र संदेहः - किम् इन्द्रस्योपस्थानं कर्तव्यम्, उत गार्हपत्यस्येति। कुतः पुनर् गार्हपत्यम् उपतिष्ठत इत्य् एवं विस्पष्टे वचने संशय इति। उच्यते, [२४७]9 यद् धि10 वाक्येनोपस्थानं11 तत् स्तुतिवचनेन संस्करणं न समीपस्थानमात्रम्, न च, ऐन्द्रेण मन्त्रेणाग्नेर् अभिधानं शक्यते कर्तुम्। अतो गार्हपत्यम् उपतिष्ठत इति न गार्हपत्यार्थम् उपस्थानम् एतद् इति जायेत शङ्का - गार्हपत्य उपस्थानार्थो भवेद् इति, तादृशश् च शब्दो नास्ति, तृतीयान्तः सप्तम्यन्तो वा। तस्माद् विचारः - कथम् उपपन्नं भवतीति। किं तावत् प्राप्तम्? सामर्थ्याद् इन्द्रोपस्थानम्, अशक्यत्वाच् च गार्हप्त्योपस्थानस्य। कथं द्वितीया विभक्तिर् इति चेत्। अविवक्सितेप्सितार्था वा संबन्धमात्रप्रधाना। यद् वोपस्थानविशेषणं संबन्धाद् गार्हपत्यशब्दः। तस्माद् गार्हपत्यविशिष्टम् उपस्थानम् इन्द्रार्थं कर्तव्यम् इति। गार्हपत्यश् च देशेन विशिंष्यान् मुख्यम् एव कार्यं मन्त्राणाम्। एवं प्राप्ते ब्रूमः - वचनात् त्व् अयथार्थम् ऐन्द्री स्यात्। नैतद् अस्तीन्द्रार्थम् उपस्थानम् इति, अयथार्थम् ऐन्द्री स्यात्। कुतः? वचनसामर्थ्यात्, वचनम् इदं भवति, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, गार्हपत्ये द्वितीया विभक्तिः प्राधान्यम् आह, किम् इव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः। तस्माद् गार्हपत्यार्थम् उपस्थानम्।
गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वात् ॥ MS_३,२.४ ॥
अत्राह नन्व् एतद् उक्तम् - नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति। उच्यते, वचनाद् भविष्यति। आह - न वचनशतेनापि शक्यम् एतत्, इन्द्रशब्देनाग्निनं प्रत्याययेद् इति ब्रुवन् विहन्येत, यथाग्निना सिञ्चेद् इति12, उदकेन दीपयेद् इति, न हि शास्त्रहेतुकः शब्दार्थयोः संबन्धो भवति। नित्यौ ऽसौ लोकतो ऽवगम्यत इत्य् उक्तम् - औत्प[२४८]13त्तिकस् तु शब्दस्यार्थेन संबन्ध इति14। ननु शब्दलक्षणो ऽपि भवति शब्दार्थयोः संबन्धः कृत्रिमः, यथा देवदत्तो यज्ञदत्त इति। भवति कश्चित्, यत्र संबन्धस्य विधायकं वाक्यं भवति, न त्व् एतद् वाक्यं शब्दार्थयोः संबन्धस्य विधायकम्, गार्हपत्यस्येन्द्रशब्दो नामेति, कथं तर्हि सिद्धसंबन्धेनेन्द्रशब्देन गार्हपत्यम् उपतिष्ठत इति। न च शक्यते परशब्देन परो वदितुम्। किम् अत्र वचनं करिष्यति? अत्रोच्यते - गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वाद् इति, यद्य् अपि नेदं वाक्यं शब्दार्थसंबन्धस्य विधाने हेतुभूतम्, तथाप्य् अनेनेन्द्रशब्देन शक्यं कर्तुम् - गार्हपत्याभिधानम्। कुतः? गुणसंयोगाद् गौणम् इदम् अभिधानं भविष्यति, भवति हि गुणाद् अप्य् अभिधानम्, यथा सिंहो देवदत्तः, अग्निर् माणवक इति। एवम् इहाप्य् अनिन्द्रे गार्हपत्य इन्द्रशब्दो भविष्यति, अस्ति चास्येन्द्रसादृश्यम्15, यथैवेन्द्रो यज्ञसाधनम्, एवं गार्हपत्ये ऽपीति। अथवा इन्द्रतेर् ऐश्वर्यकर्मण इन्द्रो भवति, भवति च गार्हपत्यस्यापि स्वस्मिन् कार्य ईश्वरत्वम्। तस्माद् इन्द्रशब्देन यः प्रत्यायते ऽर्थः स प्रतीतः सादृश्याद् गार्हपत्यं प्रत्याययिष्यति, ऐश्वर्याद् वा प्रत्याययिष्यतीति न दोषः।
तथाह्वानम् अपीति चेत् ॥ MS_३,२.५ ॥
स्तो दर्शपूर्णमासौ, तत्रेदं समाम्नायते - हविष्कृद् एहि [२४९]16 इति त्रिर् अवघ्नन्न् आह्वयतीति। तत्र संदेहः - किम् एष मन्त्रो ऽवहन्तिं प्रत्युपदिश्यते, उत हन्तिर् अस्य कालं लक्षयतीति। कथं हन्तिं प्रत्युपदिश्यते? कथं वा कालं लक्षयेत्? यद्य् एवं संबन्धः क्रियेत - हविष्कृद् एहीत्य् अवघ्नन्न् इति, ततो हन्तिं प्रत्युपदिश्यते, अथावघ्नन्न् आह्वयतीति, ततो ऽस्य कालं लक्ष्यतीति। किं तावत् प्राप्तम्? तथाह्वानम् अपि, यथैन्द्री गार्हपत्यं प्रत्युपदिश्यते, एवम् एष मन्त्रो हन्तिं प्रत्युपदिश्यते। एवं श्रुतिर् अनुगृहीता भवति, इतरथा लक्षणा स्यात्, हन्तिकालस्य मन्त्रस्य च संबन्धो भवेत्, न हन्तेर् मन्त्रस्य। एवं च सत्याह्वयतीत्य् अयम् अनुवादः, आह्वानं करोति, यो ह्य् एहीति ब्रूते स आह्वयति, तत्र केनचिद् गुणेन मन्त्रो हन्तिं प्रत्याययिष्यति, तस्मान् नाह्वाने विनियोक्तव्यः।
न कालविधिश् चोदितत्वात् ॥ MS_३,२.६ ॥
नैतद् अस्ति - हन्तिं प्रत्युपदिश्यत इति। किं तर्हि? काललक्षणा स्यात्। कुतः? त्रिर् आह्वयतीति त्रित्वम् अत्र विधीयते, यद्य् अस्मिन्न् एव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद् वाक्यं भिद्येत। तस्मान् नैवम् अभिसंबन्ध एवम् अवघ्नन्न् इति। कथं तर्हि, अवघ्नन्न् आह्वयतीति। नन्व् अस्मिन्न् अपि पक्षे मन्त्रो विधीयते कालश् च, तत्र स एव दोषो भवेत्। नेति ब्रूमः, अवहननकाल एवार्थेन हविष्कृद् आह्वातव्या, तत्रायम् एव संबन्धो ऽनूद्यते। केवला तु त्रिर् आवृत्तिर् विधीयते। यत् तु काललक्षणार्थः शब्द इति। नैष दोषः, लौकिकी हि लक्षणा। मन्त्रो ऽपि च रूपाद् एवाह्वाने प्राप्तः, सो ऽप्य् अनूद्यत एव, चोदितश् च वाक्यान्तरेणावघातः शक्नोति कालं लक्षयितुम्। तस्माद् आह्वाने विनियोक्तव्य इति।
[२५०]17
गुणाभावात् ॥ MS_३,२.७ ॥
इदं पदोत्तरं सूत्रम्18। अथ कस्मान् न गुणाद् अवहन्तिं ब्रूते? हविष्करोति ह्य् अवहन्तिः, तस्माद् धविष्कृत्। किम् एवं भविष्यति? रूपाद् एवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिर् आवृत्तिम् एव वक्ष्यति न भविष्यति वाक्यभेद इति। अत्रोच्यते - गुणाभावाद् गौणम् अभिधानम् अवहन्तौ न संभवतीति। न ह्य् असाव् आहूतो ऽस्मीत्य् अवगच्छति, तत्रादृष्टार्थम् आह्वानं स्यात्। यजमानस्य पत्न्यां हविष्कृति दृष्टार्थम् आह्वानम्। तस्मान् न हन्तिमन्त्र इति।
लिङ्गाच् च ॥ MS_३,२.८ ॥
लिङ्गं च भवति - वाग् वै हविष्कृद् वाचम् एवैतद् आह्वयतीति19, न च वाचो ऽवहन्तिना सादृश्यम् अस्ति, अस्ति तु यजमानस्य पत्न्या, सा हि स्त्री, वाग् इति च स्त्रीलिङ्गः शब्दः, अवहन्तिस् तु न स्त्री न पुमान् न नपुंसकम् इति। नन्व् अवहन्तेर् अपि स्त्रीलिङ्गः शब्दो ऽस्ति, क्रियेति। अत्र ब्रूमः - न नियोगतो ऽवहन्तेः स्त्रीलिङ्गः शब्दः, पुंलिङ्गो ऽपि तस्यास्ति, अवघात इति। नपुंसकसिङ्गो ऽपि, कर्मेति। अपि च, पत्न्याः स्वरूपेण सादृश्यम्, अवहन्तेः पररूपेण शब्देन। तस्मात् पत्न्यां हविष्कृति लिङ्गम् अनुरूपतरं भवति।
विधिकोपश् चोपदेशे स्यात् ॥ MS_३,२.९ ॥
अवहन्तिमन्त्रे सत्य् अस्मिन् मन्त्रे विध्यन्तरकोपः स्यात्। अपहतं रक्ष इत्य् अवहन्त्य् अपहता यातुधाना इत्य् अवहन्तीति। तत्र पक्षे ऽभावान् नित्यवच् छ्रूतिर् उपध्येत। तस्माद् अवघ्नन्न् [२५१]20 इति काललक्षणार्थ इति। मन्त्रो ऽप्य् अह्वानार्थ इति21।
तथोत्थानविसर्जने ॥ MS_३,२.१० ॥
ज्योतिष्टोमे श्रूयते - उत्तिष्ठन्न् अन्वाह, अग्नीद् अग्नीन् विहर इति। तथा - व्रतं कृणुतेति वाचं विसृजतीति22। तत्र संदेहः - किम् उत्थानं वाग्विसर्जनं च प्रति मन्त्रयोर् उपदेशः, उत कालार्थः संयोग इति। अत्र पूर्वाधिकरण्यायो ऽतिदिश्यते। यस् तत्र पूर्वः पक्षः, स इह पूर्वः पक्षः। यस् तत्र सिद्धान्तः, स इह सिद्धाण्तः। अग्नीद् अग्नीन् इत्य् एवम् उत्तिष्ठन्न् अन्वाहेति, व्रतं कृणुतेत्य् एवं वाचं विसृजतीति पूर्वः पक्षः। लक्षणाभावात्, उत्तिष्ठन्न् अन्वाहेति सिद्धान्ते संबन्धः। व्रतं कृणुतेत्य् उच्यमाने वाचं विसृजतीति। वाक्येन पूर्वः पक्षः, लिङ्गेन सिद्धान्तः। यद्य् अपि च शक्यते, उत्थानक्रियाग्नीद् अग्नीन् विहरेति वक्तुम्, उत्थानेनाग्निर् इध्यते, वह्निश् च विह्रियत इति। व्रतं कृणुतेति च वागभिधानम्। तथाप्य् अदृष्टार्थं वचनं भवतीति न मन्त्रयोर् उत्थानविसर्जनार्थता कल्प्येत। कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत - याः पशूनाम् ऋषभो वाच इति। अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानाव् अदृष्टार्थौ स्याताम्, प्रेषणे तु दृष्ठार्थौ। तल्23 लक्षणैवात्र न्याय्या।
[२५२]24
सूक्तवाके व कालविधिः परार्थत्वात् ॥ MS_३,२.११ ॥
दर्शपूर्णमासयोः श्रूयते - सूक्तवाकेन प्रस्तरं प्रहरतीति25। तत्र संदेहः - किं सूक्तवाकः प्रस्तरप्रकरणं प्रत्युपदिश्यते, उतेयं काललक्षणेति। तद् उच्यते - काललक्षणेति। कुतः? सूक्तवाकस्य देवतासंकीर्तनार्थत्वात्, प्रस्तरप्रकरणं च प्रत्यशक्तेः, प्रस्तरस्य च स्रुग्धारणार्थत्वात्।
उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥ MS_३,२.१२ ॥
उपदेशो वा प्रस्तरप्रकरणं प्रति मन्त्रस्य स्यात्, एवं श्रुतिविहितो ऽर्थो भवति, सूक्तवाकेनेति करणविभक्तिसंयोगात्, इतरथा लक्षणा स्यात्, सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेद् इति। एवं च कृत्वा याज्या शब्द उपपन्नो भवति, सूक्तवाक एव याज्या, प्रस्तर आहुतिर् इति।
स देवतार्थस् तत्संयोगात् ॥ MS_३,२.१३ ॥
यद् उक्तम् - देवतासंकीर्तने सूक्तवाकः समर्थः, न प्रस्तरप्रकरण इति। उच्यते - न26, देवतावचनः27 पर्करणेन संबध्यते, प्रकरणं हि यजिः, मान्त्रवर्णिको देवताविधिः, एवम् अभिसंबन्धः। अग्निर् इदं हविर् अजुषतावीवृधत इत्य्28 एवं देवताम् अनुक्रम्य, आशास्ते ऽयं यजमान इत्य्29 उक्त्वा, इदम् इदम् आशास्त इति च यद् अनेन हविषाशास्ते तद् अस्य स्याद् [२५३]30 इति31 प्रस्तरं हविर् निर्दिशति, अग्न्यादींश् च देवताविशेषान्, तेन प्रहरतिर् यजतिः। एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते, यदि प्रहरतिर् यजतिः, अग्न्यादिदेवताकश् च। तस्मात् सूक्तवाकस्य हरतिसंयोगो ऽपि देवतार्थता घटत एव। यद्य् अग्निर् इदं हविर् अजुषतावी वृधत इत्येवमाद्य् एव श्रूयेत। न, आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि, ततो ऽग्न्यादय एवेष्टा नान्तरिता इत्य् एव पर्यवसितं वाक्यं भवेत्। यतस् तु खल्व् आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि श्रूयन्ते, तेनेह पर्यवसानम्, अग्न्यादयः पुरोडाशादिभिर् इष्टाः, अपरं तु यजमान आशास्ते। तद् अनेन प्रस्तरेण प्राप्नुयाद् इति। ननु सत्स्व् अप्य् एतेषु देवतासंकीर्तन एव पर्यवस्येत्, पुरोडाशादिभिर् इष्टा अग्न्यादयः, तत एव यजमान आयुर् आदीन्य् अप्य् आशासानः प्राप्नुयाद् इति। उच्यते - उभयथा संबन्धे सति प्रहरणे विनियोक्तव्यः, लिङं च न बाधितं भविष्यति, वाक्यं चानुग्रहीष्यत इति। अथवाग्निर् इदं हविर् अजुषतेति प्रस्तर एव हविर् निदिश्यते। एवम् इदम् इति संनिहितवचनम् उपपन्नं भविष्यतीति।
प्रतिपत्तिर् इति चेत्, स्विष्टकृद्वद् उभयसंस्कारः स्यात् ॥ MS_३,२.१४ ॥[^3/158]
अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते। तत्र प्रतिवचनम् -स्विष्टकृद्वद् एतत् स्याद् इति, यथा, इज्यार्थात् पुरोडाशात्, वचनप्रामाण्यात् स्विष्टकृद् इज्यते, यागश् च स भवति, प्रतिपाद्यते च पुरोडाशः, एवं [२५४]32 प्रतिपाद्येतैव हि प्रस्तरः, यागश् च निर्वर्त्यत इति न दोषः। प्रतिपाद्यमानो ऽपि हि त्यज्यते। प्रत्यक्षतः प्रतिपाद्यते, वचनाद् इज्यां साधयतीत्य् एवं गम्यते। तस्मात् सूक्तवाकः प्रहरतिमन्त्र इति।
अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते। स्विष्टकृद्वद् उभयसंस्कारः स्यात् ॥ MS_३,२.१५ ॥ तत्र प्रतिवचनं।.}*
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् ॥ MS_३,२.१५ ॥33
दर्शपूर्णमासयोः सूक्तवाकेन प्रस्तरं प्रहरतीति श्रूयते। तत्र संदेहः - किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः, कृत्स्नो ऽमावास्यायाम्, उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति। तद् उच्यते - उभयत्र सर्ववचनम् इति। कुतह्? कृत्स्नो हि मन्त्रः सूक्तवाक इत्य् उच्यते, स पदेनापि विना, सूक्तवाको न स्यात्, तत्र सूक्तवाकेन न प्रहृतं भवेत्। तस्माद् उभयत्र कृत्स्नः सूक्तवाको वदितव्यः।
यथार्थं वा शेषभूतसंस्कारात् ॥ MS_३,२.१६ ॥
ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम्। ये ऽमावास्यादेवतावाचिनः, ते ऽमावास्यायाम्, न पौर्णमास्यां। शेषभूतम् अर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्य् उक्तम्। तस्माद् ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश् चामावास्यायाम् इति।
वचनाद् इति चेत् ॥ MS_३,२.१७ ॥
अथ यद् उक्तम् - वचनम् इदं भविष्यति, सूक्तवाकेन प्रहरति [२५५]34 इति। तत्र पदेनाप्य् ऊनेन न सूक्तवाकेन प्रहृतं भवेत्, कृत्स्नस्य हि सूक्तवाकस्योपदेश इति।
तद् उच्यते -
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः ॥ MS_३,२.१८ ॥
उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः, उभयोः प्रकरणात्, उभयोर् असौ कृत्स्न उच्यते, अवयवे ऽवयव इति। नैतद् एवम्, न हि सापेक्षाणाम् इतिकर्तव्यतया संबन्धः। न हीतिकर्तव्यतैतद् विशिष्टा श्रूयते, इतिकर्तव्यताविशिष्टास् त्व् एते गम्यते। कुतः? न हीतिकर्तव्यतां प्रति कर्मणि विधीयण्ते, फलं प्रति तेषां विधिः, इतिकर्तव्यता तु कर्मणां विधीयते, तत्र संनिधानाविशेषात्, कस्य किं विधीयते, कस्य नेति न गम्यते विशेषः। साधनत्वेन च सर्वेषां निर्देशाद् इतिकर्तव्यतायाः संनिधानाच् च, वचनाच् चास्य35, प्रकरणलिङ्गस्याविशेषात्, एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य, न सहायम् अपेक्षमाणस्य। तस्माद् एकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते। स विभागे ऽपि प्रधानानाम्, कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि, तान्य् अपि तत्र प्रयोक्तव्यान्य् अदृष्टाय भविष्यन्ति, सूक्तवाकेन प्रहरतीति वचनात्, नास्ति वचनस्यातिभारः, गुणेन वा केनचिद् अभिधानं तासां देवतानां निर्वर्तयिष्यन्तीति। अत्रोच्यते, नैतद् एवम्। उक्तम् - मुख्यम् एव कार्यं मन्त्राणाम्, न गौणम् इति36, संस्कारार्थत्वाद् वोत्कर्षो37 न्याय्यः, न गौणम् अभिधानम् इति। कस् तर्हि कृत्स्नसंयोगस्य समाधिर् उच्यत इति। एष समाधिः, न ह्य् एतद् एकं वाक्यम्, यः [२५६]38 कृत्स्नः सूक्तवाकः, बहून्य् एतानि वाक्यानि, येषां प्रधानदेवताभिधायीनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुरस्ताद् उच्चार्यन्ते, तथा परस्तात्। यथा - अग्निर् इदं हविर् अजुषतावी वृधत महोज्यायोकृताग्नीषोमाविदं हविर् अजुषेताम् अवी वृधेताम् इत्येवमादीनि39। तेषां पुरस्तात् तन्त्रम् - यथा, इदं द्यावापृथिवीति, परस्ताद् अपि यथा, अस्यामृधेद् इति। तान्य् एतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभ्यन्ते। न च तेषां समुदायः किंचिद् अर्थं वदति। तस्मान् न समुदायः सूक्तवाकः, न च साक्षात् साधनम्, सूक्तवाकसामान्यस्यैकत्वात्, सूक्तवाको वर्तत इत्य् एकवचनं भवति। सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित् सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति। तस्मात् समुदायः सूक्तवाकः। यत् त्व् अमावास्यादेवतावाचीनि पदानि, न पौर्णमास्यां प्रयुज्यन्ते, न तत्र सूक्तवाकशब्दो बाध्यते, प्रकरणं तत्र लिङ्गेन बाधितम्, तच् च न्याय्यम् एव। तस्मात् पौर्णमास्याम् अमावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति।
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नानम् ॥ MS_३,२.१९ ॥
इह काम्ययाज्यानुवाक्याकाण्डम् उदाहरणम् - इन्द्राग्नी रोचना दिवः40, प्रवर्षणिभ्यः41, इन्द्राग्नी नवतिं पुरः42, श्लथद् वृत्रम्43 इत्येवमाद्या ऋचः। अपरा अपि काम्या इष्टयः - ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजाता वियायुः, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् भ्रातृव्यवान्, अग्नये वैश्वानराय द्वादशकपालं [२५७]44 निर्वपेद् रुक्कामः, अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सपत्नम् अभिद्रोष्यन्न् इत्येवमाद्याः। तद् एता याज्यानुवाक्याः प्रति संदेहः - किं यावत् किंचिद् ऐन्द्राग्नं कर्म, तत्र सर्वत्रानेनैन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्, उतैतस्याम् एवैन्द्राग्न्याम् इष्टौ काम्यायाम् इति। एवं वैश्वानरीययोर् याज्यानुवाक्ययोः, एवं सर्वत्र। किं तावत् प्राप्तम्? यावत् किंचिद् ऐन्द्राग्नं वैश्वावरीयम् अग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः। कुतः? लिङ्गात्। ननु क्रमसमाख्याने विशेषके भविष्यतः। सत्यम्, तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुम् इति। एवं प्राप्ते ब्रूमः - लिङ्गक्रमसमाख्यानात् तास्व् एव काम्यास्व् एता याज्यानुवाक्या इति गम्यते, य एव हि लिङ्गक्रम एषां कर्मणाम्, स एवासां याज्यानुवाक्यानाम्, तेन तासाम् एव ताः शेषभूता इति। ननु लिङ्गं बलवत्तरम् इत्य् उक्तम्। सत्यम् एतत्, इह तु समाख्या बलीयसी, न ह्य् एताः समाख्यानाद् ऋत एषां काम्यानां कर्मणां प्राप्नुवन्ति, न भिन्नदेशानां कर्मणाम्। कुतः? समाख्याम् अन्तरेणासाम् ऋतां याज्यानुवाक्यात्वम् एव न विज्ञायते, कुतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति, या चैषां समाख्या, सा काम्यानाम् एव याज्यानुवाक्यात्वम् आचष्टे न सर्वेषाम्। यदि समाख्या नाद्रियते, याज्यानुवाक्यात्वम् एवैषां न भवति, यद्य् आद्रियते, तदा काम्यानाम् एव। एवं हि तत् समाख्यायते - काम्ययाज्यानुवाक्याकाण्डम् इति। अथ किम् अर्थम् उभयम् उपदिश्यते - लिङ्गक्रमाद् इति, समाख्यानाद् इति च। अस्ति तत्र पाथिकृतीयं व्रातपतीयं च कर्म, सामिधेनीकार्यम् अप्य् अस्ति, याज्यानुवाक्याकार्यम् अपि। यदि लिङ्गक्रमाद् इत्य् एतावद् एवोच्यते, सामिधेनीकार्ये ऽपि लिङ्गेन [२५८]45 तासां विनियोगः स्यात्। अथ किम् अर्थं लिङ्गक्रमौ व्यपदिश्येते? सर्वा याज्यानुवाक्याकार्य एव विनियुज्येरन्, सामिधेनीषु विनियोगो न स्यात्। अथ पुनः समाख्यानाल् लिङ्गक्रमाच् च निर्वृत्ते याज्यानुवाक्याकार्ये, सामिधेनीषु विनियोगः सिद्धो भवति, यथाग्निवारुण्या इष्टेः क्रमे ऽतीते सौमारौद्रीणाम् अनागते, मनोर् ऋचस् ताः सामिधेनीषु धाय्या इत्य् उच्यन्ते, तथा - पृथुयाजास् तम् संबाध इति द्वे धाय्ये कल्प्येते। तस्माद् उभयं व्यपदेष्टव्यम् इति।
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् ॥ MS_३,२.२० ॥
ज्योतिष्टोमे श्रूयते - आग्नेय्या अग्नीध्रम्46 उपतिष्ठते47, ऐन्द्र्या सदः, वैष्णव्या हविर् धानम्48 इति। तत्र संदेहः - किं प्रकृताभिर् एवंलिङ्गवतीभिर् उपस्थातव्यम्, उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति। किं तावत् प्राप्तम्। प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः, आग्नेयीत्येवमादिभिर् हि शक्या दाशतयो ऽभिवदितुम्। यश् चायं प्रकृतः, स कार्यान्तरे विनियुक्तः, नेहाप्य् उपदेशम् अर्हति। उपदिष्टोपदेशो हि न न्याय्य एवंजातीयकस्य। कथं जातीयकस्य? यः कस्मिंश्चिद् विशेषेणोपदिष्टः, नासौ सामान्येन लिङ्गेनान्यात्रोपदेशम् अर्हति। कथम्? यदि तल् लिङ्गं तस्य लक्षणत्वेन, ततः स विशिष्टो लक्ष्येत [२५९]49 येनानेनैवंलिङ्गेनैतत् करोतीति, ततो नोपदिष्टो भवति। अथोपदिश्यते - एवंलिङ्गेन करोतीति, ततो न लक्ष्यते, तेनोपदिष्टस्यैवंजातीयकस्यैवंजातीयकः पुनर् उपदेशो न न्याय्यः। तस्माद् दाशतया लिङ्गवन्तो मन्त्रा ग्रहीतव्याः। ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः। नेत्य् उच्यते, लिङ्गं हि प्रकरणाद् बलीयः। आह, विरोधे सति लिङ्गेन प्रकरणं बाध्येत, न चैतयोर् विरोधः, न वयं प्रकरणम् अनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तम् उपाददाना लिङ्गम् उपबाधेमहि50। यदि तु प्रकृतं विलिङ्गम् उपददेमहि51, ततो बाधेमहि लिङ्गम्। उभयं संपादयिष्यामः प्रकरणं लिङ्गं च। नैतद् एवम्, लिङ्गेन प्रत्ययो भवति, दाशतयेनापि कर्तव्यम् इति, दाशतयो ऽपि ह्य् आग्नेयीशब्देन शक्यन्ते वदितुम्, स प्रत्ययो लिङ्गजनितो यन् मिथ्येति कल्प्यते, तत् प्रकरणानुरोधात्। स चेत् प्रकरणम् अनुरुध्यते, मिथ्येति कल्प्यते, अथ नानुरुध्यते सम्यग् इति, तस्माद् विरोधः। विरोधे च प्रकरणदौर्बल्यम्। उच्यते - तल् लिङ्गवत्तानेनोपस्थानेनानुग्रहीतव्या, न दाशतयी मन्त्रव्याक्तिः, सा च प्रकृते मन्त्र उपादीयमाने निरवशेषा उपात्ता भवति, दाशतयां पुनर् मन्त्रव्यक्ताव् उपादीयमानायां प्रकरणाद् या मन्त्रव्यक्तिः प्राप्नोति, सा बाधिता भवति, असति विरोधे। न च, इह लिङ्गप्रकरणयोर् विरोधः, प्रकरणाद् व्याक्तिः प्रतीयते, लिङ्गात् सामान्यम्, अन्या च व्यक्तिः, अन्यत् सामान्यम्। तस्मात् प्रकृतो लिङ्गवान् उपादेय इति। उच्यते, सत्यम् एवम् एतत् प्रकृत उपादीयमाने प्रकरणं न बाधितं भवति, लिङ्गम् अप्य् अनुगृहीतम्, लिङ्गजनितस् तु प्रत्ययः कश्चिन् मिथ्येति कल्पितो भवति। ननु व्यक्तिर् अपदार्थः, कथं52 व्यक्ताव् अनुपादीयमानायां प्रत्ययो बाध्येत? उच्यते - एतद् एव न [२६०]53 विजानीमो लिङ्गवत्तात्राङ्गं न वेति। किं तु तद् धितर्निर्देशो ऽयम्, तत्र देवताया मन्त्रो लक्ष्यते, मन्त्रव्यक्तिर् हि साधनम्, न सामान्यं नाम किंचिद् अपरम्, देवतैवात्र सामान्यम्, ययासाधनं54 लक्षयितव्यम्। न च गम्यते विशेषः - अयम् असौ मन्त्रो नायम् असाव् इति, अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति, दाशतयाम् अपि मन्त्रव्यक्तौ भवति प्रत्ययः, स प्रकरणानुरोधेन बाध्येतेत्य् अन्याय्यम्। एवं सति न दाशतय एवोपादातव्या भवन्ति, प्रकृतम् अप्य् उपाददीरन्। नन्व् एतद् उक्तम्, कार्यान्तरे प्रकृतस्योपदेशो नासाव् अर्थान्तर उपदेक्ष्यत इति। उच्यते, न नियोगतः स एवार्थान्तरे वर्तते, स चान्यश् च सामान्येन लिङ्गेन। नैवं सति किंचिद् दुष्यति। नन्व् एतद् दुष्यति - नोभयम् अनुगृहीतं भवति लिङ्गं प्रकरणं च। सत्यम्, नानुगृहीतं भवति, किं त्व् अननुग्राह्यम् एव प्रकरणं लिङ्गप्रत्ययविरुद्धत्वात्। अपि च न लिङ्गं प्रकरणं चानुग्रहीतव्यम् इति, तत्परिच्छिन्ने प्रवृत्तिर् भवति, यद् अवगम्यते - एतत् फलवद् इति। तत्र प्रवर्तते। किम् अतो यद्य् एवम्? एतद् अतो भवति, न लिङ्गम् अनुगृहीतं क्वचिद् इत्य् अपरस्मिंस् तत्परिच्छिन्ने न प्रवृत्तिर् भवितुम् अर्हति। तस्माद् दाशतयो ग्रहीतव्या इति गम्यते।
तदाख्यो वा प्रकरणोपपत्तिभ्यां ॥ MS_३,२.२१ ॥
तदाख्यो ज्योतिष्टोमसमाख्यातः55 एव ग्रहीतव्यः। कुतः? प्रकरणोपपत्तिभ्याम्, प्रकृतो ह्य् असौ, प्रकृतप्रत्ययश् च न्याय्यः। कथम्? न ज्योतिष्टोमं प्रति मन्त्रस्य व्यापारविधानम् उपपद्यते, प्राप्तत्वाद् एव। व्यापारविशेषविधानं तूपपद्यते, अप्राप्तत्वाद् व्यापारविशेषस्य, अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत। उपस्थानं च कुर्यात्। तच् चैवं लिङ्गेनेति।
[२६१]56
अनर्थकश् चोपदेशः स्याद् असंबन्धात् फलवता, न ह्य् उपस्थानं फलवत् ॥ MS_३,२.२२ ॥
ननु च प्रकरणाज् ज्योतिष्टोमस्योपकारकं स्यात्। यद्य् उपस्थानज्योतिष्ट्मसंबन्धो विवक्ष्येत, तदोपस्थानं ज्योतिष्टोमे उपदिश्येत, प्रकरणात् तेनैकवाक्यताम् इयात्। यदा तु खलूपस्थानस्य मन्त्रसंबन्धो विवक्ष्यते सर्वोपस्थानेषु,तदा मन्त्रः प्राप्नोति, प्रकरणं बाधित्वा। न प्रकरणं विशेषकं भवितुम् अर्हति, उभयसंबन्धे वाक्यभेदः। अस्मत्पक्षे न पुनर् अयं दोषः, येनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते, तेन उपस्थानव्यापारविशेषः तदा ज्योतिष्टोमिको विधीयते, अन्यत् सर्वम् अनूद्यत इति न दोषो भवति। अथवा, अग्नीध्रहविर्57 धानसदः संबन्धमात्रं विधीयते, उपतिष्ठत इत्य् अयम् अनुवादः, अनेन मन्त्रेणाग्नीध्रम्58 उपतिष्ठत इति समासीदतीत्य् अर्थः। तस्मात् प्रकृता मन्त्रा एवंजातीयका उपादातव्या इति।
सर्वेषां चोपदिष्टत्वात् ॥ MS_३,२.२३ ॥
यद् अप्य् उक्तम् उपदिष्टा हि ते प्रकृताः कार्यन्तर इति। तद् उच्यते, उक्तोत्तरम् एतत्। अपि च न केनचिन् नोपदिष्टाः59, सर्वे वाचास्तोम आश्विने शस्यमाने सूर्ये ऽनुद्यति, तेन न प्रकृते कश्चिद् विषेशः। तस्मात् प्रकृतस्यैव ग्रहणम्।
[२६२]60
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य ॥ MS_३,२.२४ ॥
भक्षमन्त्रः श्रूयते - भक्षे हि मा विश दीर्घायुत्वाय शंतनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाय। एहि वसो पुरोवसो प्रियो मे हृदो ऽस्य् अश्विनोस् त्वा बाहुभ्यां सध्यासम्। नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम्। हिन्व मे गात्रा हरिवो गणान् मे मा वितीतृषः, शिवो मे सप्तर्षीन् उपतिष्ठस्व मा मे ऽवाङ् नाभिमतिगाः मन्द्राभिभूतिः केतुर् यज्ञानं वाग् जुषाणा सोमस्य तृप्यतु, वसुमद् गणस्य रुद्रमद् गणस्यादित्यवद् गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यंदिनस्य सवनस्य तृतीयसवनस्य गायत्रच्छन्दसस् त्रिष्टुप्छन्दसो जगच्छन्दसो ऽग्निहुत61 इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येवमादिः62। तत्र संदेहः - किं कृत्स्न एषो ऽनुवाको भक्षणे विनियोजनीयः, उत कश्चिद् अस्यावयवो ऽन्यत्रापीति। किं प्राप्तम्? लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य, सर्वो ऽनुवाको भक्षणे विनियोजनीयः। कुतः? भक्षयामीत्य् एष शब्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणम् एष शक्नोति वदितुम्, नान्यत् किंचित्। अन्यानि चास्य पदानि भक्षणविशेषणवचनान्य् एव, यत्र यत्र भक्षयामीति, तत्र तत्र प्रयुज्यन्ते। ननु एहि वसो इत्येवमादि सध्यासम् इत्य् एवम् अन्तं ग्रहणार्थम्, स्वेन पदसमूहेन परस्पराकाङ्क्षिणैकार्थम्, विभिन्नं भक्षणवाक्यात्। नृचक्षसम् इत्येवमाद्य् अवख्येषम् इत्य् एवम् अन्तम् अवेक्षणवचनम्। हिन्व मे गात्रा हरिव इत्येवमादि च [२६३]63 मा मे वाङ् नाभिमतिगा इत्य् एवम् अन्तं सम्यग् जरणार्थम्। तद् बहुत्वाद् अर्थानाम्, बहूनि वाक्यानि। कथम् एतच् छक्यं वदितुं सर्वम् इदम् एकं वाक्यं भक्षणे विनियुज्यत इति। उच्यते - सर्वाण्य् एतानि भक्षणविशेषविशेषणानीत्य् उक्तम्। आह, एवम् अपि भिद्येत वाक्यं विशेषणविशेष्याणां युगपद् वचनासंभवात्। उच्यते - न विशेषणानि विवक्षिष्यामः, विशेषणैर् ग्रहणावेक्षणादिभिर् विशिष्ट एको ऽर्थो विवक्ष्यते। नैवं सम्यग् भवति, विशेषणवचनानाम् अविवक्षितस्वार्थवचनता, भक्षणविशेषणपरता चेति, लक्षणया तु गम्यते। श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा, तस्मान् नैकं वाक्यम् इति। अत्रोच्यते - यद्य् अप्य् अमी ग्रहणादयो बहवो ऽर्था गम्यन्ते, न तु सर्व ईप्सिता इति, भक्षणम् एवैकं प्रत्याययितव्यम्। तद् धि श्रुतम्, विशेषणान्य् अश्रुतानि, न तैः प्रतीतैः प्रयोजनम्, प्रयोजनं च यावतः पदसमूहस्यैकम्, तावद् एकं वाक्यम्। तस्माद् विशिष्टभक्षणार्थम् एतद् एकं वाक्यम् इति भक्षणे विनियोक्तव्यम्। समाख्यानं च भवति - भक्षानुवाक इति, कृत्स्नश् चानुवाको नावयवः। ननु च समाख्या लौकिकः शब्दः कथं वैदिकम् अङ्गं नियंस्यतीति। यद्य् अपि लौकिकः, तथाप्य् अनादिः तस्यानुवाकेन संबन्धः। किम् अतो यद्य् एवम्? एतद् अतो भवति, भक्षणसमभिव्याहृतम् अनुवाकं ब्रूते, समभिव्याहारश् च सति संबन्धे भवति, यथा पाचको लावक इति समभिव्याहारात् संबन्धम् अनुमास्यामहे। आह नानुमानगम्य एवंजातीयकेष्व् अङ्गभावः, विधानाद् एवावगम्यते, नान्यथा, न च समाख्या विधात्री। अत्रोच्यते - समाख्या संबन्धिनौ बुद्धौ संनिधिम् उपनेष्यति, प्रयोगवचनो विधास्यतीति। तस्मात् कृत्स्नो ऽनुवाको भक्षणे विनियोक्तव्य इति।
[२६४]64
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् ॥ MS_३,२.२५ ॥
नैतद् एवं कृत्स्नो ऽनुवाको भक्षणे विनियुज्यत इति। रूपाद् ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासम् इत्य् एवम् अन्तम्। नृचक्षसम् इत्येवमादि चावख्येषम् इत्य् एवम् अन्तं दर्शने। कुतः? मुख्यार्थम् एवं तद् वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता। उच्यते - विशेषणानाम् अभिधाने, न किंचिद् अस्ति प्रयोजनम् इत्य् उक्तम्। अत्रोच्यते - नैवैतानि विशेषणानि, पृथग् एवैतानि ग्रहणादीनि स्वैः स्वैर् वाक्यैर् उच्यन्त इति। कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित् तु पृथग्वाक्यैः, कानिचिद् अर्थप्राप्तानि, तान्य् अवश्यं प्रकाशयितव्यानि। तानि प्रकाशयिष्यन्त्य् एतानि वाक्यानि। रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान् नैकं वाक्यम् उच्यते। ननु भक्षणवाक्यशेषी भवितुम् अप्य् एषां रूपम् इति। उच्यते - बाढम् अस्ति रूपम्, न तु तद्विशेषणान्य् एतानि कल्प्यन्ते। कस्य हेतोर् अदृष्टार्थानि तथा भवन्ति? उक्तैर् अनुक्तैर् वा विशेषणैस् तावान् एव सो ऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति। तस्माद् रूपोपदेशाभ्याम् अपक्र्षो भवेत् केषांचिद् अत्रेति।
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् ॥ MS_३,२.२६ ॥
भक्षानुवाके श्रूयते - मन्द्राभिभूतिः केतुर् यज्ञानां वाग्जु[२६५]65षाणा सोमस्य तृप्यतु। वसु-मद् गुणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसो ऽग्निहुत66 इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति67। तत्र संदेहः - किं मन्द्रादिः तृप्यत्व् इत्य् एवम् अन्त एको मन्त्रः, वसुमद् गणादिर् अपरः, उत मन्द्रादिर् भक्षयाम्य् अन्त एक एव मन्त्र इति। किं तावत् प्राप्तम्? द्वौ मन्त्रौ, द्वौ ह्य् एताव् अर्थौ, अन्या तृप्तिर् अन्यद् भक्षणम्, ततो ऽर्थभेदाद् वाक्यभेदः। तद् उक्तम् - तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वाद् इति। एवं प्राप्ते ब्रूमः - गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति, तृप्तिर् भक्षणाविशेषणत्वेनाभिधीयत इति68। भक्षयामि वाक् तर्प्स्यतीति। ननु तृप्यत्व् इत्य् एषो ऽन्यः शब्दः, अन्यश् च तर्प्स्यतीति, एषा भविष्यन्ती क्रियायाम् उपपदभूतायां भवतीति, तत्र द्वयोः क्रिययोर् अस्ति संबन्धो भक्षयामि वाक् तर्प्स्यतीति। इह पुनर् भक्षयामि तृप्यत्व् इति नास्ति कश्चित् संबन्धः। उच्यते - न ह्य् अयं विधौ तृप्यत्व् इति विज्ञायते। क्व तर्हि? प्रार्थनायां वा प्राप्तकाले वा। यदि भक्षयामि वाक् तर्प्स्यतीत्य् एवम् अभिसंबन्धः क्रियते। यदि वा भक्षयांइ वाचस् तर्प्तुं प्राप्तः काल इति, तेन विशेषणविशेष्यभावाद् एकार्थतायाम् एकवाक्यत्वे मन्त्रैक्यम् उपपद्यते। ननु निराकाङ्क्ष एते वाक्ये भङ्क्त्वा रूपं साकाङ्क्षे क्रियेते। अत्रोच्यते -यद्य् अप्य् एते वाक्ये भिन्नार्थे निराकाङ्क्षे द्वाव् अर्थाव् अभिवदेयाताम्, तथापि भक्षणस्य प्रकाशनं दृष्टं प्रयोजनं न तर्पणस्य, इति कृत्वैकार्थ्यम् एव भवेत्। किम् अङ्ग पुनर् गुणभावे गम्यमान एवात्र। तस्माद् गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति।
[२६६]69
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् ॥ MS_३,२.२७ ॥
एष एव मन्त्र उदाहरणम् - इह च प्रदानान्य् ऐन्द्राण्य् अनैन्द्राणि च विद्यन्ते, तेषां भक्षणान्य् अपि सन्ति। तत्र संदेहः - किम् ऐन्द्रेष्व् अनैन्द्रेषु च मन्त्रः, उतैन्द्रेष्व् एव मन्त्रः, अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति। किं तावत् प्राप्तम्? अनैण्द्राणाम् अमन्त्रकं भक्षणम् इति। कुतः? समानविधानान्य् एतानि प्रदानानि, तेष्व् इन्द्रपीतस्येति मन्त्रो ऽनिन्द्रपीतं न शक्नोति वदितुम्, न च समानप्रकरण ऊहः संभवति, असति वचने ऽन्यार्थानभिधानात्। तस्माद् अमन्त्रकं भक्षणम् एवंजातीयकेष्व् इति।
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति ॥ MS_३,२.२८ ॥
अथवा यथादेवतम् ऊहेन लक्षयितव्यम् कस्मात्? ध्रुवचमसा हि प्रकृतिभूताः। के पुनर् ध्रुवचमसाः? ये शुक्रामन्थिप्रचारे सवनमुखीयाः, ऐन्द्रास् ते भवन्ति, तेषां प्रकृतिभूतं प्रदानम्, विकृतिभूतान्य् अन्यानि। कथम् अवगम्यते? तत्प्रकृतित्वं हि दर्शयति। कथम्? अनुष्टुप्छन्दस इति षोडशिन्य् अतिरात्रे भक्षमन्त्रं नमतीति। किम् अत्र दर्शनम्? नमतीति विपरिणामं दर्शयति। ननु वचनम् एतत् स्यात्। नेत्य् उच्यते, नैतन् नमतीति श्रूयते। कथं तर्हि एवं नमतीति, अनुष्टुप्छन्दस इति भक्षमन्त्रं नमतीति, स एष ऊहो विकारेषूपपद्यते, [२६७]70 तस्माद् एते विकाराः, अतो ऽनैन्द्रेष्व् अपि चोदकप्राप्तो मन्त्र ऊहितव्यो भवति। उच्यते - विकारा एत इति लिङ्गम् अपदिष्टम्, न्यायो ऽभिधीयताम् इति। उच्यते - ऐन्द्रः सोमो गृह्यते मीयते च, तेनैन्द्रेषु सोमो ऽनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्व् एव, अधर्मका इतरे साकाङ्क्षाः। कथं पुनर् ज्ञायते - ऐन्द्रः सोमो गृह्यते मीयते चेति? मन्त्रवर्णात्, इन्द्राय त्वा वसुमत इत्येवमादिर् मन्त्र ऐन्द्रं सोमं वदितुं शक्नोति नान्यम्। तस्माद् ऐन्द्रः सोमः, तेनैन्द्रेषु सोमधर्माः, अन्यानि तु प्रदानानि साकाङ्क्षाणि, अतो धर्मान् ग्रहीष्यन्तीति न्यायः। तस्माद् यथादेवतम् ऊहितव्यो मन्त्र इति। एवं स्थितं तावद् अपर्यवसितम्, तत एवं सति चिन्तान्तरं वर्तिष्यते।
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् ॥ MS_३,२.२९ ॥
सन्ति पुनरभ्युन्नीताः सोमाः शुक्रामन्थिप्रचार एव सवनमुखीयाः, तेषां होतुर् वषत्कारे ऽनुवषत्कारे च चतुर्भिर् मध्यतःकारिणां चमसैर् हुत्वा होत्रकाणां चमसैः सकृत् सकृद् वषट्कार एव हुत्वा पुनः सशेषेष्व् एव पात्रेषु सोमो ऽभ्युन्नीतः, एवं हि तत्राध्वर्युः संप्रेष्यति, मध्यतःकारिणां चमसाध्वर्यवो वषट्कृते ऽनुवषट्कृते जहुत, होत्रकाणां चमसाध्वर्यवः सकृद् धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् इति। तत्र होत्रका नानादेवता यजन्ति, मैत्रावरुणो मित्रावरुणौ, मित्रं वयं हवामह इति71, [२६८]72 ब्राह्मणाच् छंसी इन्द्रम्, इन्द्र त्वा वृषभं वयम् इति73, पोता मरुतः, मरुतो यस्य हि क्षय इति74। नेष्टा त्वष्टारं पत्नीश् च, अग्ने पत्नीर् इहावहेति75, आग्नीध्रो ऽग्निम् उक्षान्नाय वशान्नायेति76। तत्र तैश् चमसैः पूर्वस्मिन् वषट्कार इन्द्र इष्टः, पुनर् अभ्युन्नीय मित्रावरुणाद्या देवता इष्टाः, शेषस् तत्रेन्द्रस्य मित्रावरुणादीनां च। तत्र संदेहः - किं प्रस्थितदेवतायाश् चेन्द्रस्य मित्रावरुणादीनां चोपलक्षणम्, उतेन्द्रो नोपलक्षयितव्य इति। किं तावत् प्राप्तम्? पुनर् अभ्युन्नीतेषु सर्वेषाम् उपलक्षणम्। कस्मात्? द्विशेषत्वात्, चमसे चमसे तत्र द्वयोः शेषः, प्रकृतौ यस्यै हुतम्, तच् छेषस् तत्पीत इत्य् उक्तम्। इहापि तद्वद् एव वदितव्यम्। तस्माच् चमसे चमसे द्वयोर् उपलक्षणम्।
अपनयाद् वा पूर्वस्यानुपलक्षणम् ॥ MS_३,२.३० ॥
अपनीतं प्रस्थितदेवतायाः शेषं मन्यामहे। कुतः? मित्रावरुणादिभ्यस् तत्पात्रस्थम् अभ्याश्राव्यते। कथम् एतत्? उच्यते - मित्रावरुणादयो हीज्यन्ते, तद् यथाचार्यशेषं देवदत्तो भुञ्जानो यदि शेषं पूर्णकाय प्रयच्छति, पूर्णको देवदत्तम् उपलक्षयति, देवदत्तशेषं भुञ्ज इति, नाचार्यशेषम्। तस्मान् न प्रस्थितदेवता इन्द्र उपलक्षयितव्य इति।
ग्रहणाद्77 वापनयः78 स्यात् ॥ MS_३,२.३१ ॥
न चैतद् अस्ति, इन्द्रो नोपलक्षणीय इति, तस्यापि ह्य् असौ शेषः प्रत्यक्षम् अवगम्यते। नन्व् अपनीत इति। उच्यते - नासाव् अपनीयते। सकृद् धुतांश् चमसानभिद्रोणकलशाद् गृह्णाति, सशेषश् चमसो लक्षणम् अन्यस्योन्नीयमानस्य। ततश्79 चमसस्थो होतुम् उन्नेतव्यः प्रेषितो वा। यत् तु यक्ष्यमाणा देवताः प्रत्य् आश्रा[२६९]80वित इति। उच्यते - आश्राव्यते तत्र देवताभ्यो न त्व् इदं वा तद् वेति। तेन81 यद् धोतुं गृहीतं तद् आश्रावितम् इति गम्यते। न च, आश्रावणवेलायां देवताभिसंबन्धः, यद् यद् देवताभिसंबद्धम्, तद् आश्राव्यते, तस्माद् अस्तीन्द्रशेषः, लक्ष्यते82 च। अतः सर्वेषाम् उपलक्षणम् इति। कृत्वाचिन्तैषा, नात्र प्रयोजनं वक्तव्यम्, पूर्वाधिकरणस्यैवैतत् प्रयोजनम् अवधार्यते।
पात्नीवते तु पूर्ववत् ॥ MS_३,२.३२ ॥
अस्ति पात्नीवतो ग्रहः, यद् उपांशुपात्रेणाग्रयणात् पात्नीवतं गृह्णातीति, द्विदेवत्यानां शेषा आग्रयणस्थाल्यां उपनीताः, ततः पात्नीवतो गृह्यते। अथ हुते पात्नीवते, तच् छेषे भक्ष्यमाणे भवति संदेहः - किम् इन्द्रवाय्वादय उपलक्षयितव्या न वेति। किं तावत् प्राप्तम्? उपलक्षयितव्याः। तेषाम् अपि ह्य् असौ शेषो यथा प्रस्थितदेवताया इति।
ग्रहणाद् वापनीतं स्यात् ॥ MS_३,२.३३ ॥
अपनीयते हि स शेष इह, न यथापूर्ववत्, तत्र हि पात्रलक्षणत्वेन संकीर्त्यते न सोमो ग्राह्यत्वेन, इह तु आग्रयणाद् गृह्णातीति, स्थालीस्थः सोमो निर्दिश्यते होतुम्, यक्ष्यमाणदेवतां प्रति। ननु स्थाल्याम् आग्रयणो नाग्रयणश्83 च, तत्र यस् तस्माद् आग्रयणाद् गृह्यते, स पात्नीवतः, यस् तु संपातान्न् आसौ पात्नीवत इति। उच्यते - आग्रयणो ऽपादानम्, तस्माद् यो ऽपैत्य् आग्रयणो ऽनाग्रयणो84 वा, स सर्वः पात्नीवतः, आग्रयणाच् चैष सर्वो ऽपेतः। [२७०]85 नन्व् अनाग्रयणाद् अप्य् अपेतः। नैष दोषः, आग्रयणात् तावद् अपेतः, तेनासौ पूर्वदेवताभिः पीत इति न शक्यते वक्तुम्। यो हीन्द्रार्थस्य सोमस्यावयवः शेषः स इन्द्रपीत इति प्रकृताव् उच्यते। इहापि तद्वद् एव पूर्वदेवतार्थस्यावयवो वदितव्यः। ननु यो ऽसौ पूर्वदेवतार्थः, तस्यैवायम् अवयवः। नेति ब्रूमः, न हि हुतस्यावयवो दृश्यते। ननु प्रकृताव् अपि हुतस्यावयवो न दृश्यते। उच्यते - हुताहुतस्य समुदायस्य तत्रावयव उपलक्ष्यते तद्देवतस्य। नन्व् इहापि समुदाय एवासीत् तद्देवत्यः, तस्यैवायम् अवयवः। नेत्य् उच्यते, आसीद् अयं समुदायस् तद्देवत्यः, इदानीं तस्यावयवो ऽन्यदेवत्यो जातः, तेन समुदायस् तद्देवत्यत्वाद् अपेतः। आह पूर्वदेवतापीतस्यासाव् अवयव आसीत् तेन भूतपूर्वगत्या भविष्यति। उच्यते - प्रकृतौ न भूतपूर्वगत्याभिधानं कृतम्, इहापि तद्वद् एव न कर्तव्यम् इति। अपि चेन्द्रदेवत्यस् तत्रेन्द्रपीत इत्य् उक्तम्, अनपनीता च तस्येन्द्रदेवत्यता, अस्य पुनः पूर्वदेवतासंबन्धो ऽपगतः। तस्मान् नात्र पूर्वदेवतोपलक्षणीयेति।
त्वष्टारं तूपलक्षयेत् पानात् ॥ MS_३,२.३४ ॥
अस्ति पात्नीवतः सोमः, तत्र मन्त्रः, अग्ना इ पत्नीवन् सजूर् देवेन त्वष्ट्रा सोमं पिबेति86। तत्र संदेहः - किं त्वष्टोपलक्षयितव्यो न वेति। किं प्राप्तम्? उपलक्षयितव्यः। कुतः? पानात्, पानं श्रूयते - सजूर् देवेन त्वष्ट्रा [२७१]87 सोमं पिबेति। तेनायम् अग्नये पत्नीवते सह त्वष्ट्रा दीयत इति गम्यते। यस्मै च येन सह दीयते, उभाभ्यां तद् दीयते, एवं तत् सहदानं भवति, यथा देवदत्ताय यज्ञदत्तेन सह शतं दीयताम् इत्य् उक्ते, तत्रोभाभ्याम् अपि दीयते। तस्मात् त्वाष्ट्रो ऽप्य् असौ सोम इति त्वष्टोपलक्षयितव्यः। असाव् अपीन्द्र इव88 पिबतीति।
अतुल्यत्वात् तु नैवं स्यात् ॥ MS_३,२.३५ ॥
नैतद् एवम्, शब्दप्रमाणका वयम्, यच् छब्द आह, तद् अस्माकं प्रमाणम्, शब्दश् चाग्नेः पत्नीवतः पानम् आह त्वष्टुः सहभावमात्रम्, न ह्य् अननुष्ठीयमाने सहभावः सिध्यतीति त्वष्टरि पानम् अनुमीयते। ननु त्वष्ट्रे पानं चोदितम्। सत्यम्, चोदितं मन्त्रवर्णेन, न चोदनया। चोदना हि पात्नीवतं गृह्णातीति, लोके तु कार्यं दृष्ट्वा चोदितम् अचोदितम् अप्य् अनुष्ठीयत89 एव, लोकतश् चैतत् परिच्छिन्नम्, नैवंजातीयकेन वाक्येन, त्वष्टुः सोमः कृतो भवतीति।
त्रिंशच् च परार्थत्वात् ॥ MS_३,२.३६ ॥
तस्मिन्न् एव पात्नीवते मन्त्रः - ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः। पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्वेति90। तत्र संदेहः - किं त्रयस्त्रिंशतो [२७२]91 देवानाम् उपलक्षणं कर्तव्यम्, उत नेति। किं प्राप्तम्? त्रयस्त्रिंशतं देवानुपलक्षयेत्। कथम्? दीयते हि सोमस् त्रयस्त्रिंशते देवेभ्यः। एवं ह्य् अग्निम् अग्नीद् अधीच्छति, आयाह्य् अग्नेर् ऽवाचीनम्, त्रयस्त्रिंशता देवैः सह समानं रथम् अधिष्ठाय नानारथैर् वा विभवन्ति हि ते ऽश्वाः। तद् इदम् अनुष्वधम् आवह त्रयस्त्रिंशतं पत्नीवतो देवान् आगमय तर्पय चेति। अत्र ह्य् अग्निम् अग्नीद् अधीच्छति त्रयस्त्रिंशतो देवानां तृप्तय इति गम्यते, यत् प्रधानश् चात्र मन्त्रः, तत् परः सोमः। तस्माद् उच्यते - त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति।
ननु चोदनायां पत्नीवान् केवलो ऽग्निर् देवतात्वेन श्रूयते। सत्यम्, चोदनायां पत्नीवान् देवतात्वेन श्रूयते, न तु देवतान्तरं निषिध्यते। किम् अतो यद्य् एवम्? एतद् अतो भवति, मान्त्रवर्णिकास् त्रयस्त्रिंशद् देवा अविरुद्धाश् चोदनायां प्रतीयन्त इति। एवं प्राप्ते ब्रूमः - न त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति, नात्र मन्त्रे ऽग्निर् आह्वाता परिवेष्टा वा तर्पयिता वाध्येष्यते। नात्र त्रयस्त्रिंशद् देवेष्व् इष्टेषु प्रयोजनं निर्वर्त्यते। कस् तर्हि यष्टव्यः? पत्नीवान्। कुत एतत्? स हि चोद्यते - पात्नीवतं गृह्णातीति। ननु मान्त्रवर्णिकानां त्रयस्त्रिंशतो देवानाम् अत्र संकीर्तनम्। उच्यते - परार्थत्वेन ताः संकीर्त्यन्ते। कथम्? न ह्य् अप्रत्तम् अग्नेः, तद् भवति, न च परकीयस्य दानम् अवकल्पते। तस्मात् त्वम् अमूभ्यस् त्रयस्त्रिंशद् देवताभ्यो देहीत्य् असमञ्जसं वचनम्, अग्नये त्व् अनेन दानम् उक्तं भवति। कथम्? ईशानो हि विलंभयति द्रव्यम्, तद् इह विलंभनं संकीर्तयन् त्वम् अस्य ईशान इति प्रत्यापयति। [२७३]92 ननु मादयस्वेत्य् उच्यते, न विलंभयेति। उच्यते - न हि माद्यन्ति देवताः, तस्मान् मदकरणसंकीर्तनम् अदृष्टाय स्यात्, दृष्टाय तु त्यागसंकीर्तनं लक्षणया, लक्षणा ह्य् अदृष्टकल्पनाया ज्यायसी, प्रमाणाद् धि सा भवति। ननु त्यागे ऽपि लक्ष्यमाणे ऽग्निः कर्ताधीष्यते। तद् उच्यते - अग्नेर् अप्य् अध्येषणादृष्टायैव, तस्माद् अग्नेर् ऐश्वर्यकरणम् एतद् वाक्यं लक्षयतीति न्याय्यम्। अपि च पात्नीवते सोमश् चोद्यते - पात्नीवतं गृह्णातीति। ननूक्तम्, मान्त्रवर्णिकं च प्रतिषेधति चोदनेति। उच्यते - तद् अपि मान्त्रवर्णिकं नास्तीत्य् उक्तम्। अपि च सामर्थ्यात् प्रतिषेधतीति गम्यते। न हि सापेक्षः पत्नीवच् छब्दः, तद् धितार्थेन संलक्ष्यते, तस्मात् केवलः पत्नीवान् देवतेति। एतच् चोदनावशेन मन्त्रो वर्णनीयः। तस्माद् यथैवास्माभिर् वर्णितो मन्त्रः, तथैव भवितुम् अर्हतीति, पत्नीवांश् चाग्निर् अग्ने पत्नीवन्न् इति सामानाधिकरण्येन निर्दिश्यते। तस्माद् अग्निर् उपलक्षयितव्यो न त्रयस्त्रिंशद् देवता इति।
वषट्कारश् च कर्तृवत् ॥ MS_३,२.३७ ॥
अस्त्य् अनुवषट्कारदेवता, सोमस्याग्ने वीहीत्य् अनुवषट्करोतीति93। तत्र संदेहः - किम् अनुवषट्कारदेवतोपलक्षयितव्या न वेति। किं प्राप्तम्? उपलक्षयितव्येति, न तत्र पारार्थ्यं किंचित् पूर्वद् उपलक्ष्यते। तस्माद् उपलक्षयितेव्यति। एवं प्राप्ते ब्रूमः - अनुवषट्कारदेवता नोपलक्षयितव्या, कर्तृवत्, यथा कर्ता नोपलक्ष्यते, होतृपीत[२७४]94स्याध्वर्युपीतस्येति, एवम् एवानुवषट्कारदेवतापि। न हि सा प्रकृताव् उपलक्षिता, यच् च नाम प्रकृतौ कृतम्, तद् इह करणीयम्। तस्मान् नोपलक्षयितव्येति।
छन्दःप्रतिषेधस् तु सर्वगामित्वात् ॥ MS_३,२.३८ ॥
स्थिताद् उत्तरम् उच्यते - नैतद् अस्ति, यद् उक्तम् ऊहेन मन्त्रवद् भक्षणं कर्तव्यम् इति, अमन्त्रकं भक्षणं कर्तव्यम्। कस्मात्? उच्यते - समानविधानत्वात्, नास्त्य् अत्र प्रकृतिविकृतिभावः। कथम्? प्रकरणस्य तुल्यत्वात्, यल् लिङ्गं उक्तम्95, छन्दःप्रतिषेधः स इत्य् उच्यते, तृतीयसवनत्वाज् जगतीच्छन्दस इति प्राप्ते ऽनुष्टुप्छन्दस इति षोडशिनि भक्षमन्त्रं नमतीति96 समानविधाने ऽप्य् अवकल्प्यते। यत् तूक्तम्97 - ऐन्द्रः सोमो गृह्यते मीयते चेति, नैत ऐन्द्रा अनैन्द्राश् च भिन्ना यागाः, एकस्यैवैते ऽभ्यासविशेषाः, न चाभासविशेषाणां धर्मा गुणत्वात्, सर्व एते यागधर्माः। तेन कृत्स्ना यागस्य चोद्यन्ते सोमधर्माः, सोमश् चेति। यच् च, इन्द्रो गृह्यते मीयते चेति, इन्द्रस्य मन्त्राम्नानान् मन्त्रेण ग्रहणं प्रकाशयितव्यम्, इतरासां देवतानां ध्यानादिनेति। तस्माद् अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति।
[२७५]98
ऐन्द्राग्ने तु लिङ्गभावात् स्यात् ॥ MS_३,२.३९ ॥
एवं स्थिते चिन्त्यते - अस्ति तत्रैन्द्राग्नः सोमः, ऐन्द्राग्नं गृह्णातीति99। तत्र संदेहः - किं मन्त्रवद् भक्षणम्, अमन्त्रकं वेति। किं प्राप्तम्? ऐन्द्राग्ने तु मन्त्रः स्यात्, यस्य हीन्द्राग्नी देवता तस्य नेन्द्रः100, शक्यते हि स इन्द्रपीत इति व्यपदेष्टुम्, यस्य ह्य् अवयवान्तरम् इन्द्रेण पीतम्, स इन्द्रपीतः, तस्येन्द्राग्निभ्यां पिबद्भ्यां पीतम् अवयवान्तरम् इन्द्रेण। तस्मान् मन्त्रवद् भक्षणम् इति।
एकस्मिन् वा देवतान्तराद् विभागवत् ॥ MS_३,२.४० ॥
नास्यावयवान्तरम् इन्द्रेण पीयते, न चावयवान्तरेणेन्द्रपीतेन तत् पीतं भवति, तेन पीत इति लक्षणाशब्दो ऽयम्। इन्द्रम् उद्दिश्य यः संकल्पितो इन्द्रो यस्य देवतेति, यथैव च साकाङ्क्षस्य तद् धितार्थेनासंबन्धः, एवं समासो ऽपीन्द्रपीतस्येति साकाङ्क्षस्य नावकल्पते, तद् उक्तम् - व्यवस्था वार्थसंयोगाद् इति101। आह - ननु तेनैवाधिकरणेनैतद् गतम्102। किम् अर्थं पुनश् चिन्त्यत इति। उच्यते - यत् तत्र विचारितं सिद्धम् एव तत्। कथं पुनर् विचार्यते? नैव साकाङ्क्षस्य देवतासंबन्ध इति। नैवेह देवतासंबन्ध इति पूर्वः पक्षः, पानमात्रसंबन्धो ऽत्रेति, पानमात्रसंबन्धेन यत्र द्वाभ्यां पीयते, तत्रैकेन देवतासंबन्ध इत्य् उत्तरः पक्षः, तस्मान् न पुनरुक्तम् इति।
[२७६]103
छन्दश् च देवतावत् ॥ MS_३,२.४१ ॥
अस्मिन् मन्त्रे गायत्रछन्दस इत्य् उच्यते, तत्र संदेहः - किम् एकच्छन्दसि सोमे मन्त्रः, उत नानाच्छन्दस्यपीति104। उच्यते - छन्दश् च देवतावत्, यथान्यसहितेन्द्रे न मन्त्रः, एवम् अनेकच्छन्दस्के सोमे न स्यान् मन्त्र इति। अत्रापि हि गायत्रच्छन्दस इति सविशेषणस्य समासो नावकल्पते।
सर्वेषु वाभावाद् एकच्छन्दसः ॥ MS_३,२.४२ ॥
सर्वेषु वा मन्त्रः स्यात्। कुतः? अभावाद् एकच्छन्दसः, नैव कश्चिद् एकच्छन्दसाः सोमो ऽस्ति, तेन यथाभूतो ऽयम्, तथाभूतस्य105 छन्दो विशेषणम्। तस्माद् अनेकच्छन्दस्के सोमे मन्त्रः स्याद् इति।
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि ॥ MS_३,२.४३ ॥
यद् उक्तम् - अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति, तन् न, सर्वेषां समन्त्रकं भक्षणम् इति, यथासमाम्नातश् च मन्त्रः स्यात्। नेन्द्रपीत इति सोम उच्यते। किं तर्हि? सवनम्, प्रातःसवनशब्देन सामानाधिकरण्यात्। ननु सोमे ऽपि षष्ठी। सत्यम् अस्ति षष्ठी, न तु तेन सामानाधिकरण्यम्। नासाव् इन्द्रेण सोमः पीतः, नापीन्द्राय दत्तः, अन्य एव पीतो दत्तो वा, स गत एव। न चातीतः समुदायो व्यपदिश्यते, [२७७]106 प्रत्यक्षवचनो ह्य् अयं शब्दः। सवने तु न दोषः, इन्द्रपीतं भवति सवनम्, यत्रेन्द्रेण पीतम्। तस्माद् अनैन्द्रो ऽपीतसवने ऽन्तर्भवतीति शक्यते मन्त्रेण वदितुम्। शक्यते चेत् समानविधाने कथम् इव मन्त्रो न भविष्यति। भक्त्या ह्य् अपीतः पीत इत्य् उच्यते। एवम् एव ऐतिशायन आचार्यो मन्यते स्म। अस्माकम् अप्य् एतद् एव मतम्। आचार्यग्रहणम्, तस्माद् आगतम् इति तस्य संकीर्त्यर्थम्।
-
E2,4,6: jvalanasaṃpratyayaḥ ↩︎
-
E2: 4,125; E4: 4,1; E6: 1,167 ↩︎
-
E2,4: jvalanapratyayaṃ ↩︎
-
E2: 4,127; E4: 4,2; E6: 1,168 ↩︎
-
E1 (v.l.): notsrakṣyante ↩︎
-
MS 1.4.30 ↩︎
-
E2: 4,129; E4: 4,3; E6: 1,169 ↩︎
-
Mait.S. 3.2.4 ↩︎
-
E2: 4,131; E4: 4,14; E6: 1,169 ↩︎
-
E2,4: yadi ↩︎
-
E2: vākyenopasthāne ↩︎
-
E2,4 om. iti ↩︎
-
E2: 4,166; E4: 4,21; E6: 1,170 ↩︎
-
MS 1.1.5 ↩︎
-
E2,4,6: asti tu cāsyendrasādṛśyam ↩︎
-
E2: 4,134; E4: 4,23; E6: 1,171 ↩︎
-
E2: 4,137; E4: 4,29; E6: 1,171 ↩︎
-
idaṃ padottaraṃ sūtram in E1 geklammert ↩︎
-
Vgl. ŚPBr 1.1.4.11 ↩︎
-
E2: 4,138; E4: 4,32; E6: 1,172 ↩︎
-
E2,4,6 om. mantro ‘py ahvānārtha iti ↩︎
-
Tait.S. 6.1.4.4 ↩︎
-
E2,4: tasmāl ↩︎
-
E2: 4,140; E4: 4,36; E6: 1,173 ↩︎
-
Vgl. Tait.Br. 3.4.10.1 ↩︎
-
E2,4: sa ↩︎
-
E2,4: devatāvacanaḥ ↩︎
-
Tait.Br. 3.5.10.2; ŚPBr 1.9.1.9 ↩︎
-
Tait. Br. 3.5.10.4; ŚPBr 1.3.1.12 ↩︎
-
E2: 4,144; E4: 4,44; E6: 1,173 ↩︎
-
ŚPBr 1.9.1.16 ↩︎
-
E2: 4,146; E4: 4,49; E6: 1,174 ↩︎
-
E2,4: MS 3.2.16 ↩︎
-
E2: 4,148; E4: 4,54; E6: 1,175 ↩︎
-
E2: saṃnidhānāvacanāc ca, asya, E4: saṃnidhānād avacanāc ca, asya ↩︎
-
Zu MS 3.2.1 ↩︎
-
E2,4,6: evotkarṣo ↩︎
-
E2: 4,152; E4: 4,55; E6: 1,175 ↩︎
-
- Teil: Tait.Br. 3.5.10.2
-
Mait.S. 4.10.4 ↩︎
-
Mait.S. 4.10.4 ↩︎
-
Mait.S. 4.10.5 ↩︎
-
Mait.S. 4.10.5; Kāṭha.S. 4.15 ↩︎
-
E2: 4,155; E4: 4,65; E6: 1,176 ↩︎
-
E2: 4,156; E4: 4,65; E6: 1,177 ↩︎
-
E2,4,6: āgnīdhram ↩︎
-
Vgl. Tait.S. 3.1.6.1 ↩︎
-
Tait.S. 3.1.6.1 ↩︎
-
E2: 4,160; E4: 4,71; E6: 1,177 ↩︎
-
E2,4: apabādhemahi ↩︎
-
E2,4: upādadīmahi; E6, E4 (v.l.): upādademahi ↩︎
-
E2,4 om. kathaṃ ↩︎
-
E2: 4,162; E4: 4,71; E6: 1,178 ↩︎
-
E2,4: yathā sādhanaṃ ↩︎
-
E1 gibt jyotiṣṭomasamākhyātaḥ in Klammern ↩︎
-
E2: 4,167; E4: 4,87; E6: 1,179 ↩︎
-
E2,4,6: āgnīdhrahavir ↩︎
-
E1: agnidhram ↩︎
-
E2: api ca kevalam eta evopadiṣṭāḥ, E4: api ca na kevalam eta evopadiṣṭāḥ ↩︎
-
E2: 4,169; E4: 4,91; E6: 1,180 ↩︎
-
E2,4,6: ‘gniṣṭuta ↩︎
-
Tait.S. 3.2.5.1-3 ↩︎
-
E2: 4,170; E4: 4,92; E6: 1,180 ↩︎
-
E2: 4,172; E4: 4,98; E6: 1,181 ↩︎
-
E2: 4,174; E4: 4,102; E6: 1,182 ↩︎
-
E2,4,6: ‘gniṣṭuta ↩︎
-
Tait.S. 3.2.5.1-2 ↩︎
-
E2,4,6 om. iti ↩︎
-
E2: 4,175; E4: 4,104; E6: 1,183 ↩︎
-
E2: 4,176; E4: 4,106; E6: 1,183 ↩︎
-
ṚV 1.23.4a ↩︎
-
E2: 4,178; E4: 4,110; E6: 1,184 ↩︎
-
ṚV 3.40.1a ↩︎
-
ṚV 1.86.1a ↩︎
-
ṚV 1.22.9a ↩︎
-
ṚV 8.43.11a ↩︎
-
E2,4: agrahaṇād ↩︎
-
E2,4: vānapāyaḥ ↩︎
-
E2,4: na ca ↩︎
-
E2: 4,180; E4: 4,113; E6: 1,185 ↩︎
-
E2,4: tata ↩︎
-
E2,4: bhakṣyate ↩︎
-
E2,4: ’nāgrayaṇaś ↩︎
-
E2,4: ’nāgrayaṇo ↩︎
-
E2: 4,182; E4: 4,118; E6: 1,185 ↩︎
-
Tait.S. 1.4.27.1 ↩︎
-
E2: 4,183; E4: 4,122; E6: 1,186 ↩︎
-
E2,4: eva ↩︎
-
E2,4, E1 (v.l.): coditam acoditam apy anuṣṭhīyata ↩︎
-
ṚV 3.6.9 ↩︎
-
E2: 4,185; E4: 4,125; E6: 1,186 ↩︎
-
E2: 4,187; E4: 4,126; E6: 1,187 ↩︎
-
Ai.Br. 3.5 ↩︎
-
E2: 4,189; E4: 4,131; E6: 1,188 ↩︎
-
Zu MS 3.2.28 ↩︎
-
Vgl. zu MS 3.2.28 ↩︎
-
Vgl. zu MS 3.2.28 ↩︎
-
E2: 4,191; E4: 4,138; E6: 1,188 ↩︎
-
Vgl. Tait.S. 6.5.4.1 ↩︎
-
E2,4 om. na ↩︎
-
MS 3.1.27 ↩︎
-
Vgl. MS 3.1.17 ↩︎
-
E2: 4,193; E4: 4,143; E6: 1,189 ↩︎
-
Tait.S. 3.2.5.2 ↩︎
-
E2,4: yathābhūtasya ↩︎
-
E2: 4,195; E4: 4,146; E6: 1,190 ↩︎