अथातः शेषलक्षणम् ॥ MS_३,१.१ ॥
नानाकर्मलक्षणं वृत्तम्, अनन्तरं शेषलक्षणं वर्तयिष्यामः। कः शेषः? केन हेतुना शेषः? कथं च विनियुज्यते? इति, श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते, तेषां च बलवदबलवत्ता, एतत् तात्पर्येणान्यद् अप्य् उपोद्धातादिना।
शेषः परार्थत्वात् ॥ MS_३,१.२ ॥
इह सूत्रे शेषस्य लक्षणम्,
येन च हेतुना शेष इत्य् उच्यते,
तद् उभयम् आख्यायते।
यः परस्योपकारे वर्तते, स शेष इत्य् उच्यते।
तद् यथा, ये परार्थाः, ते वक्तारो भवन्ति “शेषभूता वयम् इहे"ति। ननु
यो ऽपि प्रधानभूतः, सो ऽपि कदाचित् परार्थे वर्तते,
यथोपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्तते।
सत्यं वर्तते।
यस् त्व् अत्यन्तं परार्थः,
तं वयं शेष इति ब्रूमः।
यथा, गर्भदासः कर्मार्थ एव, स्वामिनो ऽनड्वांश् च क्रीयते, वक्ष्यतीत्य् एव।
ननु गर्भदासस्यापि स्वामी संविदधानो गुणभावम् आयात्?
नेति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति,
नान्तरीयकत्वाद् गर्भ-दासस्योपकरोति [२०९]1, अनडुहो वा।
यस् त्व् अत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः।
अथ तत्र किं वृत्तम्?
यैस् तु द्रव्यं चिकीर्ष्यते
गुणस् तत्र प्रतीयेत2 इति3।
तत्रापूर्वार्थता व्यावर्तिता, दृष्ट-प्रयोजनानाम् आख्यातानाम्।
इह तु सर्वेषाम् एव शेषाणां लक्षणम् उच्यते।
द्रव्यगुणसंस्कारेषु वादरिः4 ॥ MS_३,१.३ ॥
वादरिर्5 आचार्यो ऽत्र द्रव्यगुणसंस्कारेष्व् एव शेषशब्द इति मने6, न यागफलपुरुषेषु। द्रव्यं क्रियार्थम्, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्तयितव्या7, तस्या निर्वृत्तिर् द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यम् एषितव्यं भवति। तस्मात् क्रियार्थं द्रव्यम्। गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात्। तस्मात् सो ऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति8 क्रियार्थ एव। संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो भवति योग्यः कस्यचिद् अर्थस्य, तेनापि क्रियायां कर्तव्यायां प्रयोजनम् इति सो ऽपि परार्थः। तस्माद् द्रव्यगुणसंस्काराः परार्थत्वाच् छेषभूताः। न तु यागफलपुरुषाः। यागस् तावत् कर्तव्यः पुरुषस्य। न हि, तस्मिन् निर्वर्तिते किंचिद् अपरम् अस्ति कर्तव्यम्। स हि पुरुषार्थः, यद् अन्यद् द्रव्यादि, तत् तदर्थं तस्य शेषभूतम्। स तु न किंचिद् अभिनिर्वर्तयितुं क्रियते। फलम् अपि न तेन क्रियते, तस्मिंस् तु कृते स्वयम् एव तद् भवति। तस्मिन् कृते फलम् अस्य भवतीत्य् एतावद् गम्यते। नास्ति शब्दो यागेन क्रियते [२१०]9 फलम् इति। तस्माद् यागो न शेषभूतः कस्यचिद् अर्थस्य। फलम् अपि न पुरुषं प्रत्युपदिश्यते। यः स्वर्गं कामयते, स यागं कुर्याद् इत्य् एतावच् छब्देनोदिश्यते, नात्मनः परस्य वेति। स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवति। तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः। तस्मात् सो ऽपि न शेषभूतः। न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूतो भवति। प्रत्यक्षश् चास्य द्रव्यत्वात् कर्म प्रति गुणभावः। तस्माद् द्रव्यगुणसंस्कारेष्व् एव शेषभावं वादरिर्10 मेन इति।
कर्माण्य् अपि जैमिनिः, फलार्थत्वात् ॥ MS_३,१.४ ॥
जैमिनिस् तु खल्व् आचार्यः कर्माण्य् अपि शेषभूतानि मन्यते स्म, न वादरिर्11 इवावधारणाम् अनुमेने। स हि ददर्श, न यागः कर्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपायत्वेनेति। एवं श्रुतो ऽर्थः परिगृहीतो भविष्यति। अर्थवांश् चोपदेशः। एनम् एवार्थं षष्ठे ऽध्याये सूत्रैर् एव साधयिष्यति। इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म। तस्माद् अनवधारणा द्रव्यगुणसंकाराः शेषभूताः, यागो ऽपि शेषभूतः फलं प्रतीति।
फलं च पुरुषार्थत्वात् ॥ MS_३,१.५ ॥
फलम् अपि पुरुषं प्रत्युपदिश्यते। यः स्वर्गो मे भवेद् इत्य् एवं कामयते, तस्य यागः। न यः स्वर्गः, स आत्मानं लभेतेति। कुतः। आत्मनेपदप्रयोगात्, कर्त्रभिप्राय एतद् भवति। क्रियाफलम् अनुभवेत् कथं पुरुष इति यागः प्रयुज्यते। तस्मात् फलं पुरुषार्थं यागाच् छ्रूयते, नात्म-निर्वृत्त्यर्थम्। तस्माच् छेषभूतम् इति।
[२११]12
पुरुषश् च कर्मार्थत्वात् ॥ MS_३,१.६ ॥
पुरुषो ऽप्य् औदुम्बरीसंमानादिषु गुणभूतः श्रूयते। तस्माद् अनवधारणैषा, द्रव्यगुणसंस्-कारेषु शेषत्वं वादरिर्13 मेन इति। अथेदानीम् अत्र भगवान् वृत्तिकारः परिनिश्चिकाय - द्रव्यगुणसंस्कारेष्व् एव नियतो यजिं प्रति शेषभावः, आपेक्षिक इतरेषाम्। यागस्य द्रव्यं प्रति प्रधानभावः, फलम् प्रति गुणभावः, फलस्य यागं प्रति प्राधान्यम्, पुरुषं प्रति गुणता, पुरुषस्य फलं प्रति प्रधानता, औदुम्बरीसंमानादि प्रति गुणत्वम्। तस्मात् संमतावधारणा, द्रव्यगुणसंस्कारा यागं प्रति नियोगतो गुणभूतैवेति।
तेषाम् अर्थेन संबन्धः ॥ MS_३,१.७ ॥
स्तो दर्शपूर्णमासौ, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति। तत्र श्रूयन्ते धर्माः, निर्-वपणम्, प्रोक्षणम्, अवहननम् इत्येवमादय औषधधर्माः। तथा, उत्पवनविलापनयहणा-सादनादय14 आज्यधर्माः। तथा, शाखाहरणम्, गवां प्रस्थापनम्, गवां प्रस्तावनम्15 इत्येवमादयो ऽपि सान्ताय्यस्य16। तेषु संदेहः - किं सर्वे, औषधे आज्ये सान्नाय्ये च कर्तव्याः, उत ये यत्र क्रियमाणा अर्थवन्तः, ते तत्र कर्तव्या इति। ननु संयुक्ता एव17 श्रूयन्ते, यथा, व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति। बाढं संयुक्ताः, अवघातादयस् तु पदार्था विधीयन्ते श्रुत्या, वाक्येनैषां व्रीह्यादिसंयोगः। अतो ऽस्ति संशयः। [२१२]18 किं तावत् प्राप्तम्? तेषाम् अर्थेन संबन्धः। अर्थेन प्रयोजनेन, ये यत्र क्रियमाणाः प्रयोजनवन्तः, ते तत्र कर्तव्याः। प्रथनादय आज्यसान्ताय्ययोर्19 अनुपकारका इति न तत्र करणीयाः। एवम् उत्पवनादय औषधसान्नाय्ययोः, शाखाहरणादय आज्यौषधयोः। ननु श्रूयन्ते सर्वे सर्वत्र। एतद् एव न जानीमः, श्रूयन्ते न श्रूयन्त इति, तद् विचारायितव्यम्। यद्य् अपि श्रूयरन्20, तथाप्य् अनुपकारकत्वान् नैव कर्तव्या भवेयुः।
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च ॥ MS_३,१.८ ॥
उच्यते - यो ऽर्थात् प्राप्तः स्यात्, स यत्र प्रयोजनं तत्रैव क्रियेत। शब्देन तु सर्वे ऽमी पदार्था विहिताः, तेन न, यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते, तत्रैव कर्तव्याह्। क्व तर्हि? यत्र यत्र विहिताः, ते चामी सर्वत्र विहिताः गम्यन्ते। कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च। सर्वेषां तावद् आज्यौषधसान्नाय्यानाम् अपूर्वेण साध्यसाधनसंयोगो ऽविशिष्टः, यत्र क्रियमाणा अपूर्वस्य कृता भवतीति विज्ञायते। तथा प्रकरणम् अविशिष्टम्, यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते। अतः सर्वे सर्वत्र कर्तव्याः, यत् त्व् अमी न सर्वत्रोपकुर्वन्तीति, विधानसामर्थ्यात् सर्वत्रोपकारका इति गम्यते। स चायम् अदृष्ट उपकारो भविष्यति।
अर्थलोपाद् अकर्म स्यात् ॥ MS_३,१.९ ॥
नैतत्, सर्वे सर्वत्र करणीया इति, ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियाम् अर्हन्तीत्य् उक्तम् एव। ननु विधानसामर्थ्यात् सर्वे सर्वत्रोप्करिष्यन्ति। नेति ब्रूमः।
[२१३]21
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् ॥ MS_३,१.१० ॥
नास्ति विधानम्, येन सर्वे सर्वत्रोपकुर्वन्ति। न च प्रत्यक्षादिभिर् उपकारम् अवगच्छामः। अर्थापत्तिर् अपि नियोगतस् तत्रैव भवेत्, यत्रैव शबेन चोदना भवति, नान्यथा। यदि च प्रथनादीनाम् आज्यसान्नाय्ययोर् अनुपकुर्वताम् अपि तत्प्रकरणे समाम्नायो ऽनुपपन्नो भवेत्, ततो ऽर्थाद् अदृष्ट उपकारः कल्प्येत, ते त्व् अवश्यं समाम्नानीया औषधार्थम्। फलं हि सह चेष्टयावहननादिकयावगम्यते तुषविमोचनादि, प्रयोजनं च तेन, न तस्माद् ऋते पुरोडाशः सिध्यति, सति चास्मिन्न् अर्थवान् प्रकरणे समाम्नायः। अर्थवति च तस्मिन् नादृष्टकल्पनायां प्रमाणम् अस्तीत्य् अतो न शक्यं कल्पयितुम्। यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत्, ततो विप्रयोगे तण्डुलादीनाम् अभावाद् उपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्तव्यम् इत्य् आज्यसान्नाय्ययोर् अपि क्रियमाणानाम् अदृष्टम् अभविष्यत्। तस्मान् न प्रथनादयः सर्वत्र। एवम् उत्पवनादयः शाखाहरणादयश् च। तस्मान् न, सर्वे सर्व्त्र कर्तव्याः, प्रथनादयो नाज्यसान्नायय्योः, औषधे एव ते, उत्पवनादय आज्यस्य, नौषधसान्नाय्ययोः, शाखाहरणादयश् च सान्नाय्यस्य, नाज्यौषधयोर् इति सिद्धम्।
द्रव्यं चोत्पत्तिसंयोगात् तदर्थम्22 एव चोद्येत ॥ MS_३,१.११ ॥
स्तो दर्शपूर्णमासौ, तत्र समामनन्ति - स्फ्यश् च कपालानि च [२१४]23 अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृष्टच् चोपला चैतानि वै दश यज्ञायुधानीति24। तत्र संदिह्यते - किं यो य इह शक्यत एभिः कर्तुम्, तस्मै तस्मै पदार्थायैतानि समाम्नातानि, उत यद् येन संयुक्तम्, तस्मा एवेति। किं तावत् प्राप्तम्? यद् येन शक्यम् इति। कुतः? एवं विधयो भविष्यन्ति तथार्थन्वतः25, इतरथा ते ऽनुवादा निष्प्रयोजनाः, प्रकरणाविशेषश् च सर्वपदार्थान् प्रति, यज्ञायुधानीति च यज्ञसंयोगो ऽविशिष्टः। तस्मात् सर्वे सर्वत्रेत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - द्रव्यं चोत्पत्तिसंयोगात् तदर्थम् एव चोद्येत, यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थः तेनैव कर्तव्यः, यथा स्फ्येनोद्धन्तीत्य् उद्धनार्थता स्फ्यस्य वाक्येन, तद् उद्धणनं न स्फ्याद् अन्येन कर्तव्यम्। यदा चैवम्, तदा प्राप्त एव स्फ्यः, तस्यायम् अनुवादो भवितुम् अर्हति, एतानि वै दशयज्ञायुधानीति। एवम् एकैस्यानुवादः, तेन तेन वचनेन प्राप्तस्य। यथा - कपालेषु श्रपयति, अग्निहोत्रहवण्या हवींषि निर्वपति, शूर्पेण विविनक्ति, कृष्णाजिनम् अधस्ताद् उलूखलस्यावस्तृणाति, शम्यायां26 दृषद्य्27 उपदधाति, उलूखल-मुसलाभ्याम् अवहन्ति, दृषद् उपलाभ्यां पिनष्टीति। प्रकरणात् सर्वाणि सर्वत्र प्राप्नुयुः, वचनात् तु यथावचनम्, यज्ञायुधशब्दो ऽपि सामान्येन प्रयोजनं विदधत् तद् वाध्येतैव28, परोक्षं हि सामान्यवचनेन विशेषविधानं भवति, प्रत्यक्षं तु विशेषवचनेन विशेषविधानम्। तस्माद् यद् येनोत्पत्त्या संयुक्तम्, तत् तत्रैव विनियुज्यत इति सिद्धम्।
[२१५]29
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् ॥ MS_३,१.१२ ॥
ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या30 सोमं क्रीणातीति31। तत्र संदेहः - किम् अरुणिमा कृत्स्नप्रकरणे निविशेते, उत क्रय एवैकहायन्याम् इति। कथं पुनः अरुणया क्रीणातीत्य् एवं विस्पष्टे क्रयसंबन्धे गम्यमाने संशय इति। उच्यते - इह हि गुणम् अरुणिमानम् अमूर्तं सन्तं क्रियायाः करणम् इति शब्द उपदिशति, यत् करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति - अरुणयेति, न चामूर्तो ऽर्थः क्रियायाः साधनं भवितुम् अर्हति, अतो ऽसं-बन्धं क्रीणातिनारुणगुणस्यावगच्छामः। न चाशङ्कनीयम् अर्थं प्रमाणभूतः शब्दो ऽभिधास्यतीत्य् एवं प्रकल्पना कदाचिद् उपपद्येतापि। केनचित् प्रकारेण संबन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर् भवति, तद् यदि परम्, विचारयन्तः क्रियासंबन्धसामर्थ्यम् अवगमिष्यामः, एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः। अथ त्व् अप्रमाद्यद्भिर् अन्विष्यमाणो न कथंचन संबन्ध उपपत्स्यते, ततो वाक्यभेदम् अभ्युपगम्य प्रकरणधर्मम् एनम् अध्यवसास्यामः32। तस्माद् अवश्यं विचारणीयम् एतद् इति। किं तावत् प्राप्तम्? कृत्स्ने प्रकरणे निवेशः। कस्मात्? संयोगतो ऽविशेषात्, प्रकरणाविशेषाच् च। ननु प्रकरणाद् वाक्यं बलीयो भवतीत्य् एकवाक्यत्वाद् अरुणिमा क्रयेण संभन्त्स्यत इति। नैतद् एवम् अवगम्यते, न हि वचनशतेनाप्य् अनार[२१३]33भ्यो ऽर्थः शक्यो विधातुम्, यो हि ब्रूयात् - उदकेन दग्धव्यम् अग्निना क्लेदयितव्यम् इति, किं स वचनप्रयोजनसामञ्जस्यम् अश्नुवीत? न चामूर्तो ऽर्थः क्रियायाः साधनम् उपपद्यते। तस्माद् अरुणया क्रीणातीति संबन्धाभावाद् एकवाक्यता न भवतीति। ननु नैवायं गुणवचनः, किं तर्हि द्रव्यवचनः। कुतः? स्त्रीलिङ्गसंबन्धात्। द्रव्यविशेषा ह्य् एते स्त्री पुमान् नपुंसकम् इति, स्त्रीयां यत् प्रातिपदिकं वर्तते, तस्मात् स्त्रीप्रत्ययो भवतीति, स्त्रीप्रत्ययं चारुणयेत्य् उपलभामहे। तस्माद् द्रव्यवचनः, अरुणशब्द34 इति। तद् एतद् अपेश-लम्, तद् एव हि द्रव्यम् अरुणिम्ना परिछिद्यमानम् अरुणशब्दाभिधानीयतां35 लभते, तद् एवान्यगुणकं नारुणशब्दः36 शक्नोत्य् अभिवदितुम्, अरुणिमानम् एष शब्दो न व्यभिचरति, व्य्-अभिचरति पुनर् द्रव्यम्, अव्यभिचारि च कारणं कारणवताम् इष्टम्। अतो ऽस्य गुणः स्वार्थ इति गम्यते, तद् अस्य प्रत्यक्षतो गुणवचनता गम्यते, स्त्रीप्रत्ययदर्शनात् तु नूनम् अरुणाप्रातिपदिकं द्रव्यवचनम् इत्य् अनुमानम्। प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् गुणवचनः। कथं तर्हि स्त्रीप्रत्ययसंबन्धः? भवति हि गुणवचनस्यापि स्त्रीलिङ्गता, यथा चारुणा37 बुद्धिः, एवम् अरुणेति। गुणवचनश् चेत् क्रीणातिना न संबध्यते। तस्माद् वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्न् एव संनिवेश इति। अथ यदि क्रीणातिना न संबध्यते, तस्मिन् एव वाक्ये एकहायनीशब्देन संभन्त्स्यते, न भविष्यति वाक्यभेद इति। तन् न, केवलं हि गुणम् अरुणशाब्दो38 ऽभिदधाति, न द्रव्यगुणौ। केवलं च द्रव्यम् एकहायनीशब्दः, न गुणसहितम् इति तयोः संबन्धस्य वाचिकां षष्ठीम् अन्तरेण कथं संबन्धो गम्यते? आह - अन्तरेणापि षष्ठीम्, एकविभक्तिनिर्देशात् सामानाधिकरण्यम् [२१७]39 अवगमिष्यामः, यथा नीलम् उत्पलम् इति। तद् अनुपपन्नम्, रूपाद् अरुणशब्दस्य40 गुणवचनता, कल्पनीयं त्व् एकविभक्तिसंयोगाद् एकहायनीशब्दसंनिधानाच् च तद् एकवाक्यताम् अभ्युपगम्यैकहायनीशब्दसामानाधिकरण्यम्, न च लिङ्गाद् वाक्यं बलीयः। तस्माद् असद् एतत्। तत्रोच्यते - यदा केवलगुणवचनतायां शब्दः प्रवर्तमानो नान्येन संबन्धं लभते, तदानुपदेशकत्वाद् आनर्थक्यं मा भूद् इति द्रव्यपरताम् आपद्यते, तस्याम् अवस्थायाम् एकविभक्तियुक्तेनैकहायनीशब्देन संनिहितेनैकवाक्यताम् आपद्यमानः समानाधिकरणो भवति, तथा च कृत्वा, नीलम् उत्पलम् इत्य् उपपद्यते। स चायम् अरुणाशब्दस् तस्याम् अवस्थायां वर्तते, न ह्य् अस्य स्वार्थम् अभिदधत इतो विच्छिन्नस्य प्रकरणे ऽप्य् अर्थवत्ता। कुतः? येनैव हेतुना संबध्यते41 क्रीणातिना न, नामूर्तो42 ऽर्थः क्रियायाः साधनं भवतीति। न च क्रियासाधनैर् द्रव्यैः, न हि केवलगुणवचनः शक्नोति द्रव्यम् अभिधातुम् इति स एव हेतुः प्रकरणसंबन्धाभावे ऽपि, तत्रापि संबध्यमानः क्रियाभिर् वा संबध्येत, तत्साधनैर् वा द्रव्यैः, तच् चोभयम् अप्य् अनुपपन्नम्। अतो ऽनर्थकत्वपरिजिहीर्षया संनिहितेनैकहायनीशब्देनारुणाशब्दः संबध्यते। नास्ति वाक्यभेदः। नैतद् एवम्, न ह्य् अयम् अरुणाशब्द एकहायनीविशेषणं भवितुम् अर्हति। किं कारणम्? करणविभक्त्या तृतीयया समुच्चरितो ऽयम्, तेनैतेन तृतीयाश्रुतिसामर्थ्यात् क्रियाविशेषणेन भवितव्यम्, कारकाणां हि क्रियया संबन्धो न द्रव्येणेति। स एष श्रुतिसामर्थ्यात् क्रियाविशेषणम्, एकवाक्यत्वाद्43 एकहायनीविशेषणम्। श्रुतिश् च वाक्याद् बलीयसी, तस्मान् नास्यैकहायनीसंबन्ध इति।
ननु च गुणस्य क्रियासंबन्धाभावाद् अविवक्षिता कारक[२१८]44शक्तिर्45 इत्य् एकहायनीसंबन्धो ऽयम् अध्यवसितः। एवम् अपि नोपपद्यते, यदि कारकाभिधानम् अविवक्षितम् इति गुणशब्देनैतेन द्रव्यम् अभिधातुम् इष्यते, तदा प्रातिपदिकार्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति। न हि तृतीयान्तस् तम् अभिसंबन्धं शक्नोति वक्तुम्, न चान्यथानुपपत्तिर् इत्य् अन्यो ऽस्यानुपपद्यमानो ऽर्थः शक्यते कल्पयितुम्, यथाग्नौ तिष्ठति माणवक इत्य् उक्ते ज्वलने ऽनुपपद्यमानो नाश्वे गवि वा कल्प्यते, अग्निसमीपवचन एवाध्यवसीयते। तद्वद् इहाप्य् अप्रथमान्तः शब्दो न कथंचिद् अप्य् अव्यतिरिक्ते प्रातिपदिकार्थे भवितुम् अर्हतीति। तस्मात् कामम् अनर्थको ऽवगम्यतां नास्यैकहायनीसंबन्धो ऽध्यवसातव्यः। आह - न ब्रूमः, न कारकम् अरुणाशब्देनाभिधीयत इति, व्यक्तम् अरुणगुणविशिष्टम् एतेन कारकम् अभिधीयते। कदाचित् तु किंचिद् विधित्सितं भवति, कदाचिद् उपसर्जनीभूतो ऽर्थो विधित्सितः, प्रधानीभूतो ऽनुवादः। तद् यथा, दण्डीत्य् उपसर्जनीभूतदण्डकपुरुषप्रधानकः शब्दो ऽवगम्यते, कदाचित् तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थम् उच्चार्यते - दण्डी प्रैषानन्वाहेति। तथा46 लोहितेष्णीषा ऋत्विजः प्रचरन्तीति। एवम् इहापि यद्य् अनुपसर्जनभूतो47 ऽरुणो गुणः, प्रधानभूतं कारकम्। तथाप्य् अनूदिते कारके ऽरुणगुणविधानार्थं वचनं युज्यते। तस्माद् एकहायनीसंबन्ध उपपद्यते, नास्ति वाक्यभेद इति। नैतत् सारम्, अत्र ह्य् एकहायनीक्रीणात्योर् अनवबुद्धं संबन्धं बोधयितुम् अयम् एकहायनीशब्द उच्चरितः, स एष कथम् इवारुणाशबेन संबध्य्ते, तद् एतद् अभिहितम् अपि पुनः पुनः पर्यनुयुज्ज्यते। [२१९]48 कथं पुनर् एकहायनीशब्दस्य क्रीणातिना, अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना संबन्धो ऽभ्युपगमनीयः, न पुनर् आरुण्येनेति। शब्दप्रामाण्यात्, भवति हि क्रियासंबन्धस्य वाचिका विभक्तिर् एकहायनीशब्दम् अनुनिविष्टा, न तु गुणसंबन्धस्य वाचिका। का पुनः क्रियासंबन्धस्य वाचिका, का वा गुणसंबन्धस्येति। कारकलक्षणा क्रियासंबन्धे विवक्षिते भवति द्वितीयादिः, अविवक्षिते पुनः कारके, संबन्धमात्रविवक्षायां षष्ठी। न चात्र षष्टीं पश्यामः, पश्यामस् तु खलु तृतीयाम्। अतः क्रीणातिना संबन्धम् अभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाशब्देनेति। कथं तर्हि भवत्य् अत्र संबन्धः, नीलम् उतपलम् इति। उच्यते - भवति, न तु श्रुतिलक्षणः, किं तु वाक्यलक्षणः, उत्पलशब्दसंनिधाने तदपेक्षी नीलशब्दस् तेनैकवाक्यताम् अभ्युपगच्छन् नाजहत् स्वार्थवृत्तिर् उपलविशेषाभिधानपर उच्चार्यमाणः संबन्धम् अभ्युपैति।
नन्व् इहापि वाक्यलक्षणस् तद्वद् एवारुणिम्ना समं संबन्ध एकहायन्या युज्यते। नेति ब्रूमः, श्रुतिर् हि वाक्याद् बलीयसी, श्रुतिश् चास्याः क्रियासंबन्धम् आह, न गुणसंबन्धम्। यदि पुनः श्रुतिसामर्थ्यात्, क्रियासंबन्धो ऽभ्युपगम्येत, एकवाक्यतवद् अपि गुणसंबन्धः। नैवं शक्यम्, यो ह्य् अन्येन सह संबन्धुम् उच्चार्यते, न तत्समीपगतो ऽप्य् अन्यस् तेन सह संबन्द्धुम् अर्हति। यथा भार्या राज्ञः, पुरुषो49 देवदत्तस्येति भार्याविशेषणार्थम् उच्चार्यमाणो राजशब्दो न पुरुषेण संबध्यते, तद्वद् इह क्रयाविशेषणार्थम् उच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन संबन्धम् अर्हति। आह - सत्यम् एवम् एतत्, असत्याम् आकाङ्क्षायाम् आनन्तर्यम् अकारणम्, सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते, नान्यथा, सामान्यवृत्ति हि पदम्, विशेषवृत्ति वाक्यम्, सामान्येनाभिप्रवृत्तानां [२२०]50 पदार्थानां यद् विशेषे ऽवस्थानम्, स वाक्यार्थः, तद् एतद् उक्तम् - तद्भूतानां क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वाद् इति51, तत्र प्रत्यक्षतः52 पदार्थः, वाक्यार्थः पुनर् आनुमानिकः, तद् एतद् अवगम्यताम्, केवलस्वार्थवृत्ति पदम् अनुपदेशकम् इति पदान्तरेण संनिहितेनैकवाक्यत्वम् अभ्युपैति, नान्यथेति। तद् इह यद्य् अप्य् एकहायनीशब्दः क्रीणातिना संबन्ध्यमानः कृतार्थो न पदान्तरेण संबन्धम् आकाङ्क्षति, अरुणाशब्दस् तु पदान्तरेण संबन्धम् अलभमानो ऽनर्थक इत्य् एकहायनीशब्देनैकवाक्यताम् अभ्युपैति। ननूक्तम् - क्रियासंबन्धार्थः, नारुणासंबन्धार्थ इति।
आह - अरुणाशब्दस्यानर्थक्यपरिहारायोभयसंबन्धार्थ इति वदामः, अन्यार्थम् अपि कृतम् अन्यार्थम् अपि शक्नोति कर्तुम्, तद् यथा शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयत उपस्पृश्यते च। एवम् इहापि क्रयसंबन्धार्थम् एकहायनीशब्द उच्चार्यमाणो ऽरुणाशब्देन सह संभन्त्यते, न किंचिद् दुष्यति। तस्मान् न वाक्यभेद इति। नैतद् अस्ति, यद्य् अप्य् अयम् अरुणाशब्दो ऽनर्थको मा भूद् इत्य् एकहायन्या संबध्येत, तथापि सर्वस्मिन् प्रकरणे निवेष्टुम् अर्हति। न चैनं सोमं क्रीणातीत्य् एष शब्दः शक्नोति विशेष्टुम्। न ह्य् अयं विशेषणत्वेनोचार्यते, किं तर्हि अपूर्वो ऽयं विधीयते। नन्व् अपूर्वो ऽपि विधीयमान एकहायनीशब्दवद् इतरेण संभन्त्स्यते। कथम्? प्रयोजनाय ह्य् उच्चार्यमाणः शब्दो येनार्थः, तस्मै तावत् प्रयोजनायावकल्प्यते, संनिहित्श् च बुद्धौ भवति, तेन बुद्धौ संनिहितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुम् इति। नैतद् एवम्, यो ह्य् असंबध्यमानो ऽनर्थको भवति, स संबध्यते नान्यः। कुत एतत्? संबध्यमाने हि सामान्यं विशेषे ऽवस्थाप्येत, तत्र वाक्येन श्रुतिः पीडिता स्यात्। न चायम् [२२१]53 असंबध्यमानः क्रीणातिनानर्थको भवति, प्रकरणगताभिः54 एकहायनीभिर्55 अभिसंभन्त्स्यते। नन्व् एतद् उक्तम् - प्रकरणे ऽप्य् अस्य संबन्धो ऽनुपपन्न इति। नानुपपन्नः, एकस्मिन् वाक्ये ऽन्यो ऽर्थो विधीयमानो नान्येन संबध्यते, वचनव्यक्तिभेदात्, अन्या हि वचनव्यक्तिर् विधीयमानस्य, अन्या गुणेन संबध्यमानस्य। अज्ञातवज् ज्ञाप्यते विधीयमानो ऽर्थः, ज्ञातवद् अनूद्यते गुणसंबन्धार्थम्, न च सकृद् उच्चार्यमाणो ज्ञातवद् अज्ञातवच् च भवितुम् अर्हति, एकहायनीशब्दः क्रये विधीयमानो ऽज्ञातवत् स्यात्, अरुणाशब्देन संबध्यमानश् च ज्ञतवत्। वाक्यभेदे पुनर् न दोषो भवति, प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणी च प्राप्तानि। तैर् इदं वाक्यान्तरविहितं संबध्यते, तत्रान्यस्मिन् विधीयते, अन्यस्मिन् वाक्ये ऽनूद्यत इत्य् उप-पन्नं भवति। तस्मात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च56 सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति। एवं प्राप्ते ब्रूमः - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति, यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोः, तत्र द्रव्यगुणाव् एकस्मिन् पदार्थे नियम्येयाताम्। कुतः? ऐककर्म्याद् एककार्यत्वात्, एकं हि कार्यं द्रव्यगुणयोः श्रूयते क्रयसंबन्धः। कथम् एतद् अवगम्यते? एकवाक्यत्वात्। कथम् एकवाक्यत्वम्? अरुणया पिङ्गाक्ष्यैकहायन्येत्य् अपर्यवसितो ऽर्थः साकाङ्क्षत्वाद् अभिधातृप्रतिपत्रोः, सोमं क्रीणातीति तु पर्यवस्यति, तयोर् एवं नैरुत्सुक्यात्। यद्य् एककार्यता किम् इति विकल्पो न भवति? नैतद्57 एवम्। एकार्थास् तु विकल्पेरन्न् इति विकल्पधर्माणौ प्राप्नुत इत्य् अयुक्तो ऽयं पर्यनुयोगः। कथम्? पर्यनुयोगो नाम स भवति, यः स्वपक्षं साधयति, विपक्षस्य च प्रतीपम् आचरति, न च [२२२]58 विकल्पो ऽस्मत्पक्षस्य प्रतीपम् आचरति, क्रयेणारुणिम् आसंबन्ध59 इत्य् एष नः पक्षः। न च विकल्पो नानाकार्यत्वात्। नन्व् इदानीम् एवोक्तम् - एकं कार्यम् इति, तच् चापि विरुद्धम्, एवं हि पूर्वम् अभिहितम्, अमूर्त-त्वाद् गुणो न क्रियया संबध्यत इति, इदानीं विपरीतम् अभिधीयते - उभाव् अपि द्रव्यगुणाव् एकार्थौ क्रयम् अभिनिर्वर्तयत इति। उच्यते, नैतद् विरुद्धम्, न च विकल्पः, एकं कार्यम्, सामर्थ्यभेदस् तु, साक्षाद् धि द्रव्यं क्रियां प्रत्युपकरोति। गुणस् तु विशिष्टानां साधनम्। यद्य् एवम्, न तर्हि गुणः क्रियाम् अभिनिर्वर्तयति, साधनस्यासौ विशेषक इति। नैतद् एवम्, गुणस्य क्रियाम् अभिनिर्वर्तयत एतद् एव सामर्थ्यम्, यत् साधनं विशिष्यात्। आकाङ्क्षति च क्रिया साधनविशेषणम्, चिह्नभूतो हि गुणः साधनं लक्षयति। असति चिह्ने न लक्ष्येत, कतमत् साधनं क्रियाया इति। ततः क्रिया नाध्यवस्येम कर्तुम् इति भवति क्रियासाधनं गुनः। न चैव सति विकल्पो भवति, यथाधिकरणस्य कर्त्रादीनां च, अधिकरणं हि कर्त्रादीनि धारयति, तान्य् अधार्यमाणानि न शक्नुवन्ति क्रियाम् अभिनिर्वर्तयितुम्, तथा60 कर्ता करणादीनि समाधत्ते, तान्य् असमाहितानि न शक्नुवन्ति स्वं स्वम् अर्थम् अभिनिर्वर्तयितुम्। यस्मिंस् तु साधनोपकारे कार्ये तस्मिन्न् एवोपकारे ऽन्यत् साधनं विधीयते, तत्र विकल्पः, यथा व्रीहिम् इर्यजेत, यवैर् यजेतेति, उभये ऽपि तण्डुलनिर्वृत्यर्थाः। एवं तर्हि तद् एवेदं संजातं भवति, एकहायनीविधनम्, तद्विशेषणं चारुणो गुणः, तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति। न ब्रूमः - अरुणाशब्द एकहायनीशब्देन संबध्यत इति, किं तर्हि क्रीणातिनैव संबध्यते। एवं हि श्रूयते ऽरुणगुणेन क्रयम् अभिनिर्वर्तयेद् इति, यथा च तेन निर्वर्त्यते, तथा यतितव्य भवति। न चाविशिंषन् साधनम्, गुणः क्रिया[२२३]61म् अभिनिवर्तयतीत्य् अर्थात् साधनविशेषणतां प्रतिपद्यते, यथा स्थाल्यां पचेद् इति क्रियासाधनत्वेन निर्दिष्टे ऽर्थात् संभवने धारणे च स्यालीं62 व्यापारयति तद्वद् इहापि द्रष्टव्यम्। तस्मान् नास्ति वाक्यभेदप्रसङ्ग इति। नन्व् एवम् अपि वाक्यं भिद्येत। कथम्? प्रत्येकं वाक्यपरिसमाप्तिर् दृष्टेति, यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम् इति प्रत्येकं भुजिः समाप्यते, यथा च यस्य पिता पितामहः सोमं न पिवेद् इति। एवम् इहाप्य् अरुणया क्रीणाति, एकहायन्या क्रीणातीति। नैतद् अस्मत्पक्षस्य बाधकम्, एवम् अपि क्रय एवारुणिमा निवेक्ष्यति, न सर्वस्मिन् प्रकरण इति। सत्यम् एष दोषो न भवति, किं त्व् अनरुणयाप्य् एकहायन्या क्रयः प्राप्नोति, अरुणया चानेकहायन्या, तत्र यद् उक्तं द्रव्यगुणयोर् नियम इति, सा प्रतिज्ञा हीयते। न तर्हि ब्रूमः - वाक्यभेद इति। कथम्? क्रयस्य हि द्रव्यारुणिमानाव् उपदिश्येते, न क्रयस् तयोः। न च, प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यत इति, अस्ति चायं दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिर् इति, यथा गर्गाः शतं दण्ड्यन्ताम् इति, तथा अभिषुत्य हुत्वा भक्षायन्तीति। तस्माद् उभयविशेषणविशिष्टः क्रयो विधीयते। कथं पुनस् तस्मिंश् चेतरिंश् च दृष्टान्ते सत्य् एकान्तेनावधार्यते, समुदाय एव वाक्यपरिसमाप्तिर् न प्रत्यवयवम् इति। अत्र ब्रूमः - इह द्रव्यारुणिमानाव् उभाव् अपि क्रियासंबद्धाव् उपलभ्येते परस्परेणासंबद्धौ, क्रयो ऽपि द्रव्यारुणिमाभ्यां विशिष्ट उपलभ्यते नान्ययतरेण, तत्र यदि द्रव्यपरम् अरुणिम् अपरं च भवति वचनम् इदम्, ततः प्रत्यवयवम् असंशयं क्रयसंबन्धः। अथ क्रयविधित्सयाभिधीयते, ततो यथैवायम् एकहायनीवि[२२४]63शिष्टः, एवम् अरुणिम् अविशिष्ट इति नियमत उभयसंबन्धो ऽभ्युपगमनीयः। न चात्र द्रव्यारुणिमानाव् ईप्सितौ, ईप्सितस् तु क्रयः, तेन हि ज्योतिष्टोमद्रव्यं सोमः परिप्राप्यते, द्रव्यारुणिमानौ क्रयार्थौ सन्ताव् ईप्सितौ स्याताम्, नान्यथा। तस्मात् क्रयो विधीयते, स च नान्यतरविशिष्टः प्रतीयत इति समुदाये वाक्यपरिसमाप्तिर् इह निश्चीयते। यदा चैवम्, तदा न, एकहायनीं मुक्त्वान्यद् द्रव्यं क्रयसाधनम् अस्ति, न चारुणाद् अन्यः साधनस्य विशेषको गुण इति, नियमः सिद्धो भवति। अत्र वदामः - यदि क्रयस्य साधने गुणो ऽभिसंबन्धुम् उपैति, तदा वाक्ये भिन्ने ऽपि क्रयसाधनत्वाद् अरुणिमास्मिन् द्रव्ये न निवेक्ष्यते, किम् अर्थम् एकवाक्यता प्रयत्नेन साध्यत इति। तद् एतद् अभिधीयते - भिन्ने हि वाक्य एकाहायनीसाधनकः क्रयो ऽवबुद्धो भवति, अरुणासाधनम् अपि क्रयान्तरम्, न तस्मिन्न् एवैकहायनीसाधने क्रये ऽरुणिमा विहितो भवति, तत्र यत् क्रयान्तरम् अरुणगुणविशिष्टम्, तत्रार्थात् प्राप्तम् अन्यद् अपि साधनं भवति। तद् अपि विशिंषन् अरुणो गुणस् तेन संबध्येत। एकवाक्यत्वे तु तत् परिहृतं भवति। तस्मात् साध्व् अभिधीयते - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति।
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् ॥ MS_३,१.१३ ॥
अस्ति ज्योतिष्टोमः - य एवं विद्वान् सोमेन यजत इति64। [२२५]65 तत्र श्रूयते - दशापवित्रेण ग्रहं संआर्ष्टीति, तथाग्निहोत्रे स्रूयते - अग्नेस् तृणान्य् अपचिनोतीति, तथा दर्शपूर्णमासयोः श्रूयते - पुरोडाशं पर्यग्निकरोतीति66। तत्र संदेहः - किम् एकस्य ग्रहस्य, एकस्याग्नेः, एकस्य पुरोडाशस्य च संमार्जनादि कर्तव्यम्, उत सर्वेषां ग्रहाणां सर्वेषाम् अग्नीनां सर्वेषां पुरोडाशानाम् इति। किं प्राप्तम्? एको ग्रहः, एको ऽग्निः, एकः पुरोडाश इह ग्रहीतव्यः। कुतः? श्रुतिसंयोगात्, एकत्वश्रुतिसंयुक्ता एते पदार्थाः, एकं हि द्रव्यम् एष श्रूयते, शब्दलक्षणे च हि कर्मणि यच् छब्द आह, तद् अस्माकं प्रमाणम्, यथा पशुम् आलभेत इत्य् उक्त एक एव पशुः पुमांश् चालभ्यते। एवम् अत्राप्य् एको ग्रहः संमार्जनीयः, एकस्याग्नेस् तृणान्य् अपचेयानि, एकः पुरोडाशः पर्यग्निकर्तव्य इति।
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् ॥ MS_३,१.१४ ॥
नैतद् अस्ति - यद् उक्तं ग्रहादिष्व्67 एकत्वयुक्तेष्व् अमी पदार्थाः कर्तव्या इति, सर्वे ग्रहाः संमार्ष्टव्याः, सर्वेभ्यो ऽग्निभ्यस् तृणान्य् अपचेयानि, पुरोडाशमात्रं च पर्यग्निकर्तव्यम् इति। कुतः? ग्रहजात्या द्रव्यं लक्षयित्वा संमार्गादि विधीयते, अविशिष्टं च लक्षणं सर्वद्रव्येषु, तत्र न गम्यते विशेषः, को ग्रहः संमार्ष्टव्यः, को नेति, सामान्यावगमाद् विशेषान् अवगमाच् च सर्वप्रत्ययः। तथाग्निपुरोडाशानाम् अपि। नन्व् एकवचनं श्रूयते, तद् विशेक्ष्यति। नैतद् अस्ति, एकत्वं हि श्रूयमाणं ग्रहादिष्व् एकत्वं ब्रूयात्, न द्वितीयादीन् प्रतिषेधेत्, एकत्वस्यासौ वाचको न द्वितीयादेः [२२६]68 प्रतिषेधकः। तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं संमार्जनादि किम् इति न क्रियेत। तत्रैतत् स्यात्, एकवचनम् इह श्रूयमाणं प्राप्त एवैकस्मिन् द्रव्ये, द्वितीयादिषु च, किम् अन्यत् कुर्याद् अन्यतः परिसंख्यायाः, न चेद् एकवचनं परिसंचक्षीत द्वितीयादीन्, अनर्थकम् एव स्यात्, शक्नोति च द्वितीयादीन् निवर्तयितुम्, यथाश्वाभिधानीम् आदत्त इति गर्दभाभिधानं69 परिसंचष्टे, एवम् अत्रापि द्रष्टव्यम् इति। नैतद् एवम्, तत्र मन्त्रस्याभिधान्याश् च यः संबन्धः, तद् अभिधानपरं वचनम्, इमाम् अगृभ्णान् इत्य् अश्वाभिधानीम् इति70, नानेन मन्त्रेण, आदत्त इति लिङ्गेनैवादाने प्राप्तत्वान् मन्त्रस्य परिसंख्या युक्ता। इह पुनर् यद् एकवचनं द्रव्ये श्रूयते, तच् छ्रूयमाणम् अप्य् अविधीयमानत्वेन न निवर्तकं भवितुम् अर्हति, यथा कश्चिद् ओदनं निर्दिश्य ब्रूयात् - य एनं भक्षयेत् कश्चिच् छ्वा मार्जारो वा, स निवारयितव्य इति, तत्र यदि भक्षणं निमित्तत्वेन विधीयते, न, श्वमार्जारसंबन्धः, ततः काको ऽप्य् आगच्छन् निवार्यते। श्रूयमाणे ऽपि शुनि मार्जारे वा श्वमार्जारसंबन्धस्य निमित्तत्वेनाविधीयमानत्वात्। एवम् इहाप्य् एकत्वसंबन्धस्याविधीयमानत्वाच् छ्रूयमाणे ऽप्य् एकत्वे ग्रहमात्रं संमृज्येतेति। न चात्र द्रव्यैकत्वसंबन्धविधायकः कश्चिच् छब्दो ऽस्ति। ननु संमार्ष्टीति। न ह्य् एतद् द्रव्यैकत्वसंबन्धस्य विधायकम्। कस्य तर्हि? द्रव्यसंमार्गसंबन्धस्य विधायकम्, एवं श्रुत्या स्वपदार्थो विहितो भवति, इतरथा वाक्येन परपदार्थो विधीयते। श्रुत्यसंभवे च वाक्यं क्रमते, न संभवन्त्यां श्रुतौ। अतो ऽविधीयमानं विशेषणत्वेन, एकत्वं न द्वितीयादीन् प्रतिषेद्धुम् अर्हति। एवं सति न द्वितीयादौ संमार्गादि क्रियमाणम् [२२७]71 अचोदितं भवति, प्रतिषिद्धं वा, यथैव हि तद् एकस्य श्रुतम् अवगम्यते, तथा द्वितीयादेर् अपि। अयं चापरो दोषः, न तद् एकत्वं द्रव्यस्य संमार्गादौ विषये नियम्येत, न हि संमार्गादिः, यस्मिन् द्रव्य एकत्वं नियम्येत, तस्य विशेषणत्वेन भवति, विधीयते ह्य् अत्र संमार्गादिः, न प्राप्तो लक्षणत्वेन द्रव्यस्याम्नायते, न हि यौगपद्येन विधातुं शक्यते, लक्षणत्वेन चोच्-चारयितुम्। प्रसिद्धसंबन्धो हि शक्नोति लक्षयितुम्, न चाविहित एवंजातीयकः शब्दावगम्यः प्रसिद्धसंबन्धो भवति। विधीयते च संमार्गादिः, तस्मान् न विशेषकः, न चेद् विशेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यम् आश्रयितुम्। अथैकत्वं संमार्ग उच्यते। तत्रापि द्वयी गतिः स्यात्, एकत्वं प्रधानम्, संमार्गो वा, तच् चोभयम् अप्य् अनुपपन्नम्। न तावद् एकत्वस्य संमार्गः शाक्यते कर्तुम्। न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित् प्रकरणम्। न चैकत्वस्योपकृतेन किंचित् प्रयोजनम् अस्ति, न हि तद् गुणभूतं श्रुतम्। अथैकत्वं संमार्गं प्रति गुणभूतम् इति। तद् अपि न। कथम्? अमूर्तत्वात्, न हि तत् संमार्गं निष्पादयति। यद्य् अप्य् अन्यद् अमूर्तं क्रियां निष्पादयति साधनं विशिंषत्, तथाप्य् एतन् न भवितुम् अर्हति, न ह्य् अत्र ग्रहः संमार्गार्थः, संमार्गो ऽत्र ग्रहाय चोद्यते, स हि प्रयोजनवान्, कल्प्यप्रयोजनः संमार्गः। यदि ग्रहः संमार्गस्योपकुर्यात्, तद् उपकारिण72 उपकरोतीति संमार्गस्योपकारकम् एकत्वं भवेत्। न त्व् एतद् एवम्। तस्माद् एकत्वसंमार्गयोर् असंबन्धः। ननु प्रधानभुतम् अपि ग्रहादि संमार्गं निष्पादयत्य् एव, अतस् तत्साधनं तच् च विशिंषत् तद् उपकरिष्यति, यथा इज्यार्थे दधनि पयसि च प्रणीता धर्माः पाक उपकुर्वन्ति। परिधानार्थे च [२२८]73 परिदौ यूपधर्मा बन्धने। तस्माद् अयम् असमाधिर् इति। अत्रोच्यते - न ब्रूमः, अतदर्थे साधके न शक्नुवन्त्य् उपकर्तुम् इति। किं तर्हि? यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते, न तदैकत्वस्य ग्रहादिना संबन्धः, न संमार्गादिनेति। कथम्? यावद् इह लक्षणत्वेन किंचिद् उच्यते, संवादस् तत्र भवति, न तु तद्विधीयते विज्ञानाय। किम् अर्थं तर्ह्य् उच्चार्यते? अन्यत् तस्य किंचिद् विधायिष्यत इति, तद् एतद् ग्रहादि लक्षयित्वा तस्य संमार्गादि विधीयते। तद् यद्य् एकत्वसंबन्धो ऽपरो ग्रहद्रव्ये74 संमार्गादौ वा पदार्थे75 विधीयेत, द्वयोः संबन्धयोर् विधानाद् भिद्येत वाक्यम्। अथोच्येत - ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते, न संमार्गादिसंबन्ध इति, तथा च संमार्गादीनाम् अध्ययनं प्रमाद इत्य् अभ्युपगतं स्यात्। न चैतद् एवम्। तस्माद् उभाभ्याम् एकवचनस्यासंबन्ध इति। एवम् एतद् एकत्वं ग्रहस्य न किंचिद् उपकारं करोति, न संमार्गस्य, एवम् एव सदनूद्यते। तस्मान् नैतत् किंचिद् अपि कर्तुं विवक्ष्यत इति सर्वेषां ग्रहादीनां संमार्गादि कर्तव्यम् इति। कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च76। यद्य् अविवक्षितम् एकत्वम्, कथं त्रह्य् एकवचनम् उच्चार्यते? ननु बहुषु विवक्षितेषु बहुवचनेन भवितव्यम्। उच्यते - न वयम् एतद् विचारयामः, एकवचनम् उच्चारयितव्यम्, नोच्चारयितव्यम् इति, उच्चार्यमाणे सति किं प्रतिपत्तव्यम्? एकस्मिन्न् एव संमार्गादि, उत सर्वेष्व् इति, तच् च सर्वेष्व् इति स्थापितम्। अपि च न विभक्तेर् वचनम् एवैकं प्रयोजनम्। किं तर्हि? कारकसंबन्धो ऽपि, अविवक्षित एकत्वे कारकसंबन्धार्थम् अस्योच्चारणं भविष्यति। तस्मान् नानर्थकम्। अपि च ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः। किम् अतो [२२९]77 यद्य् एवम्। एतद् अतो भवति - प्रातिपदिकार्थगतं हि विभक्तिः स्वम् अर्थं श्रुत्यैव वदति। अथैवं सति किम् न, संमार्गेण संभन्त्स्यत इति। तेन हि संबध्यमानं वाक्येन संबध्येत, न च श्रुत्या, अन्येन संबध्यमानं वाक्येनाच्छिद्यान्येन संबन्धम् अर्हति। असंबध्यमानस् त्व् एकत्वेन संमार्गः, यदि नैकत्वविशिष्टः क्रियते, न किंचिद् विपन्नं भवति, न चैकत्वविशिष्टः संमार्गादिः, ग्रहादिमात्रस्य च विधीयत इति किम् इति द्वितीयस्य तृतीयस्य च न क्रियेतेति।
चोदिते तु परार्थत्वाद् यथाश्रुति पतीयेत ॥ MS_३,१.१५ ॥
अथ यद् उक्तम् - यथा पशुम् आलभेतेत्य् एक एव पशुः पुंपशुश् चालभ्यते, एवम् इदम् अपीति, अस्त्य् अत्र वैपरीत्यम् इह ग्रहार्थः संमार्गः, तत्र पुनर् यागार्थः पशुः। किम् एवं सति भवति? यो यागार्थं परिच्छिनति78, स यागस्योपकरोति, अपरिच्छिन्नेन न शक्यो यागः कर्तुम् इति। न तु ग्रहेण केनचिद् विशिष्टेन संमार्गः कर्तव्यः, यद् ग्रहं विशिंषत् संमार्गस्योप्कुर्यात्, पशोश् चैतद् एकत्वं यागं प्रत्युपदिश्यते। ननूक्तम् - प्रातिपदिकार्थगतं स्वम् अर्थं विभक्तिः श्रुत्यैवाभिवदतीति79, याग एतद् वाक्येन विधास्यति, तत्र वाक्याच् छ्रुतिर् बलीयसीत्य् उक्तम्। सत्यम्, यत्र श्रौतो ऽभिसंबन्धो विवक्ष्यते, अविवक्ष्यमाणे च वाक्यावगतः सन् अपर्युदसितव्यो80 भवति, तस्माद् एकः पुंपशुश् चालभ्यत इति, ग्रहैकत्वं न संमार्गस्योपकरोतीति न ग्रहं शक्नोति विशेष्टुम्। तस्माद् अविवक्षितम् इति।
[२३०]81
संस्काराद् वा गुणानाम् अव्यवस्था स्यात् ॥ MS_३,१.१६ ॥
अस्ति ज्योतिष्टोमः, तत्र श्रूयते - दशापवित्रेण ग्रहं संमार्ष्टीति। तत्रैषो ऽर्थो ऽधिगतः - सर्वे ग्रहाः संमार्जितव्या इति। इदम् इदानीं संदिह्यते - किं चमसापि संमार्ष्टव्या उत नेति। किं तावत् प्राप्तम्? चमसाद्य् अपि सर्वं संमार्ज्यम् इति। कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति82, यथैव हि ग्रहाणाम् अपूर्वसंबन्धः, एवं चमसानाम् अपि, यथैव च ग्रहा अस्मिन् प्रकरणे, एवं चमसापि। तस्मात् सर्वत्र संमार्गः। ननु ग्रहाः श्रूयन्ते, ते चमसानां निर्वर्तका भविष्यन्ति। उच्यते - प्रदर्शनार्थं ग्रहग्रहणं भविष्यति, ग्रहादि सोमपात्रम्, यस्मिन् गृह्यमाणः सोमो व्यवसिच्येत, इत्य् एवम् आशङ्क्यते, तत् सर्वं संमार्जितव्यम्। यथा भोजनकालो वर्तते, स्थालानि संमृज्यन्ताम् इत्य् उक्ते, यानि यानि भोजन उपयोगम् अर्हन्ति, तानि तानि सर्वाणि संमृज्यन्ते, स्थालग्रहणं लक्षणार्थम् इति गम्यते। एवम् इहापि द्रष्टव्यम् इति। उच्यते - लोके ऽर्थलक्षणः संव्यवहारः, येन येनार्थः संमृष्टेन, उक्तो ऽनुक्तो वा स स83 संमृज्येतैव। इह तु वेदे शब्दलक्षणः, शब्दश् च ग्रहस्य संमार्गम् आह, तत्र किम् अर्थं श्रुतौ संभवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते। उच्यते - संमार्ष्टीति संमार्गे पुरुषप्रयत्नं विधातुम् एष शब्दः शक्नोति श्रवणेनैव, ग्रहसंबन्धे तु वाक्येन, श्रुतिश् च वाक्याद् बलीयसी। तस्माल् लक्षणया ग्रहशब्दो वर्ण्यते, न, यथाश्रुत इति, तेन, यो यः संमार्जनसंस्कारार्हः स स संमार्जितव्यः, नेति84 ग्रहेष्व् एव व्यवतिष्ठेतैवंजातीयको गुण इति।
[२३१]85
व्यवस्था वार्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् ॥ MS_३,१.१७ ॥
व्यवतिष्ठेत वा ग्रहेष्व् एव संमार्गः, न चमसेष्व् अपि प्रसज्येतेति। कुतः? अर्थस्य श्रुतिसंयोगात्, श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः, उत्सृज्यमाने श्रुतिर् एव बाध्यते ग्रहम् इति, प्रमत्तगीतं तत्र भवताम् इत्य् अवगम्यते, न चैतन् न्याय्यम्। तस्माद् ग्रहशब्देन ग्रहं लक्षयित्वा तस्य संमार्गसंबन्धो विधीयते। न चाविदधत् संमार्गम्, शक्नोति तत्संबन्धं विधातुम्, अतो विदधात्य् एवैष शब्दः संमार्गम्। न च श्रुतिर् बाधिष्यते। कुतः? संमार्ष्टीति संमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम्। न86 तत्र कश्चिद् विशेषः, उत्पाद्यमाने वा संमृजौ87, परेण वा संबध्यमान इति। तेन न ग्रहसंबन्धे ऽपि श्रुतिर् बाधिता भवति, अतो ग्रहेष्व् एव संमार्गो व्यवस्थातुम् अर्हतीति। नन्व् अपूर्वसंयोगाविशेषात् प्रकरणाविशेषाच् च चमसेष्व् अपि प्रसज्यते, न ग्रहेष्व् एवास्य विधानम् इत्य् उक्तम्। अत्रोच्यते - प्रकरणवद्भिर् एकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्, नाकृत्वैकवाक्यताम्। सा च प्रकरणाद् अनुमीयते, इयं पुनर् ग्रहशब्देन सह प्रत्यक्षा, तस्मान् न प्रकरणे विधानम्, ग्रहैकत्वसंबन्धे पुनर् उत्सृज्य स्वार्थम्, न शक्नोति विधातुम्। तस्माद् वैषम्यम् अस्य88, ग्रहैकत्वविधानेन89। यद् उक्तम् - यथा स्थालानि संमृज्यन्ताम् इति लक्षणा, तद्वद् इहापीति, परिहृतम् एतल् लोके कर्मार्थं लक्षणम्90, शब्दलक्षणं पुनर् वेद इति।
[२३२]91
आनर्थक्यात् तदङ्गेषु ॥ MS_३,१.१८ ॥
वाजपेये श्रूयते - सप्तदशारत्निर् वाजपेयस्य यूपो भवतीति। तत्र संदेहः - किं सप्तदशारत्निता वाजपेयस्योर्ध्वपात्रे निविशते, उत पशोर् यूपे निविशत इति। किं तावत् प्राप्तम्? ऊर्ध्वपात्र इति। कुतः? वाजपेयस्य यूपाभावात्, यद् वाजपेयस्यास्ति पात्रं यूपसदृशम्, तत्र भवितुम् अर्हति, अस्ति च षोडशिपात्रम्, तच् च खादिरत्वाद् ऊर्ध्वत्वाच् च यूपसदृशम्, तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति, इतरथा वाजपेयाङ्गपशुयागे92 लक्षणया वाजपेयशब्दो वृत्त इति गम्यते। ननु त्वत्पक्षे ऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे। उच्यते, सर्वथा वयं लक्षणाशब्दान् न मुच्यामहे। मत्पक्षे तु वाजपेयप्रकरणम् अनुगृह्यते, तस्माद् ऊर्ध्वपात्रे निवेश इति। एवं प्राप्ते ब्रूमः - आनर्थक्यात् तदङ्गेषु, वाजपेयशब्दस् तावत् सोमयागविशेषवचनः, तस्य साक्षाद् यूपेन न प्रयोजनम्, अस्ति तु तस्याङ्गं पशुयागः, तस्य तु पशुं बन्धुं यूपेन कार्यम्। साक्षाद् वाजपेययूपस्य यदि सप्तदशारत्निता विधीयते, तस्याभावाद् अनर्थकम् एव वचनं प्राप्नोति, तद् अनर्थकं मा भूद् इति यो ऽस्य पशुयागे यूपः, तत्र निवेशम् अर्हति। ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात्। नन्व् इतरस्मिन्न् अपि पक्षे वाजपेयशब्दो लक्षणयेति। नेति ब्रूमः, वाजपेय एव वाजपेयशब्दो भविष्यति, शक्ष्यति च स पशुयूपं विशेष्टुम्, सो ऽस्याङ्गस्योपकारकः, यश् च यस्योपकारिण उपकरोति, भवति स तस्य संबद्धो मुख्येनैव संबन्धेन। न चैकान्तरितम् इति कृत्वासंबद्धो भवति, यथा देवदत्तस्य नप्तेति, पुत्रेण चासाव् अन्तरितः, अथ च देवदत्तेन मुख्येनैव संबन्धेन संबद्धः। तस्माद् एष एव [२३३]93 पक्ष आश्रयणीयः, न ह्य् एतस्मिन् पक्षे कश्चिद् अपि लक्षणशब्दो भवतीति।
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् ॥ MS_३,१.१९ ॥
दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते - अभिक्रामं जुहोत्य् अभिजित्येति94। तत्र संदेहः - किम् अभिक्रमणं प्रयाजेष्व् एव निविशत उत कृत्स्ने प्रकरण इति। किं तावत् प्राप्तम्? कर्तृगुणे ऽभिक्रमणे ब्रूमः - वाक्यभेदः स्याद् इति, कर्मणा कर्मणो ऽसमवायात्। अभिक्रमणं कर्मामूर्तम्, न तत् कर्म हवनं साधयितुं शक्नोति, तस्मान् न तेनैकवाक्यतां याति। अतः सर्वस्मिन् प्रकरणे निविशते, संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति95। नन्व् अनेनैव हेतुनान्यस्मिन्न् अपि न निवेक्ष्यते। उच्यते - अन्यत्र पुरुषैः संभन्त्स्यते। ननु प्रयाजेष्व् अपि पुरुषैः संबध्येत। नैतद् एवम्, जुह्ःतीति हवन एष शब्दः पुरुषप्रयत्नं विधातुं शक्नोति, न पुरुषाभिक्रमणासंबन्धम्। नन्व् अन्यत्रापि पुरुषाभिक्रमणसंबन्धस्याविधानम्। नैष दोषः, अन्यत्र प्रकरणाम्नानाद् अङ्गभावे निर्ज्ञाते प्रयोगवचनो ऽस्य कर्तव्यतां वक्ष्यति। तस्मात् सर्वस्मिन् प्रकरणे ऽभिक्रमणस्य निवेश इति।
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण ॥ MS_३,१.२० ॥
नैतद् अस्ति - यद् उक्तम् अभिक्रमणं प्रकरणे निविशत इति। प्रया[२३४]96जेष्व् एव भवितुम् अर्हति। कुतः? तैः सहास्यैकवाक्यता, यतः साकाङ्क्षम् एतत् पूर्वेण पदेनासमाप्तं वाक्यम्, अभिक्रामं जुहोतीत्य् अत्र पर्यवस्यति, प्रकरणाच् च वाक्यं बलवद् इति प्रयाजेष्व् एवाभिक्रमणं निविशते। नन्व् अभिक्रमणम् अमूर्तत्वाद् धोमनिर्वृत्ताव् असमर्थम् इत्य् उक्तम्। उच्यते, साक्षाद् असमर्थम्, कर्त्रा संबध्यमानं शक्ष्यति निर्वर्तयितुम्। कथम्? अभिक्रमणेन समासीदत्य् आहवनीयं कर्ता, द्वयम् अभ्युपायभूतं होमस्य, दूराद् वाभिप्रसार्य हस्तम्, जुहुयात्, समासीदेद् अन्वाभिक्रमणेन। तस्माद् अभिक्रमणम् उपकरोति होमस्येत्य् अवगम्यते। अतः प्रयाजेष्व् एव निवेश इति।
संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् ॥ MS_३,१.२१ ॥
दर्शपूर्णमासयोः सप्तमाष्टमयोर् ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, दशमे काम्याः सामिधेनीकल्पाः, इदं कामस्यैतावतीर् अनुब्रूयात्, इदं कामस्यैतावतीर् इति, एकादशे च यज्ञोपवीतम् आम्नातम् - उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति97। तत्र संदेहः - किं सामिधेनीर् एवानुब्रुवाण उपव्ययेत, उत प्रकरणे सर्वान् एव पदार्थान् अनुतिष्ठता उपव्यातव्यम् इति। कुतः संशयः? उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्, अथ निवृत्ते वा तासां प्रकरण इति न ज्ञायते। ननु दर्शपूर्णमासयोर् एव प्रकरणम् इदम्, परप्रकरणे सामिधेन्यः श्रूयन्ते। सत्यं परप्रकरणे श्रूयन्ते। तथापि तासाम् अवान्तरप्रकरणम् अपरम्, भवति हि, सामिधेनीर् अनुब्रूयाद् इति विशेषाकाङ्क्षं वचनम्, येन तत्संनिधाव् अभिधीयमानं तस्येति ज्ञायते। कथं पुनर् निवृत्तं तासां प्रकरणम् इत्य् आशङ्क्यते? [२३५]98 निवित्पदानि तासां प्रकरणं व्यवदधतीति। यद्य् एवम्, कथम् अनुवर्तते प्रकरणम् इत्य् आशङ्का? परस्तान् निविदाम्, साद्मिधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते, यद् अनन्तरं यज्ञोपवीतम् आम्नातम्, तेनानिवृत्तं सामिधेनीनां प्रकरणम् इति भवति मतिः। अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति। यथा
द्वादशोपसत्ताहीनधर्मो ज्योतिष्टोमप्रकरण इति। तेन भवति संदेहः। अस्मिन् संदेहे किं तावत् प्राप्तम्? सामिधेनीप्रकरणम् अनिवृत्तम्, तत्रोपवीतं समाम्नातम् इति। कुतः? काम्यानां सामिधेनीकल्पानाम् आनन्तर्यवचनात्, हृदयम् अनुविपरिवर्तमानासु सामिधेनीषु उपवीतम् आमनन्ति, कर्तुश् च वासोविन्यासमात्रं गुणो भवत्य् उपवीतं नाम। किं कुर्वता तत् कर्तव्यम् इति भवति तत्र पदार्थाकाङ्क्षा, तत्र बुद्धौ संनिहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतां उपगम्य सामिधेनीषूपवीतं उपव्ययत इत्य् एष शब्दो विदधातीति गम्यते। एवं प्राप्ते ब्रूमः - न, अस्मिन् संदेहे यस् त्व् अयोक्तः, स निर्णयः। अस्मिन् संदेहे वाक्यभेद इति निर्णय इति। कुतः? व्यवायात्, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य चोपव्ययत इति वचनस्य, निविदां विधायकेन सामिधेनीभिर् असंबद्धेन ग्रन्थेन व्यवधानं भवति, यस्य च पर्यवसिते ऽपि वचने तत्संबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्राननुवृत्तं प्रकरणम्, आगच्छति हि तत्संबद्धाभिधाने हृदयम्। यत्र तु पर्यवसिते वचने तदसंबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्र बुद्धौ पूर्वः पदार्थः संनिधीयते। न च, बुद्धाव् असंनिहितेनैकवाक्यता भवति। द्वाभ्यां हि बुद्धाभ्यां99 पदार्थाभ्यां वाक्यार्थः संजन्यते, नान्यतरेण, संनिधौ समाम्नानस्यैतद् एव प्रयोजनम्, कथम् उभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिम् उत्पादयेयुर् इति। [२३६]100 अनन्तराव् अबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्, असंबद्धपदोच्चारणे च नानन्तराव् अबुद्धो भवति। तस्माद् व्यवहितेन सह नैकवाक्यता भवतीति। अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्। अवैदिकः स पुरुषबुद्धिर् पूर्वको वाक्यार्थो भवेत्, यथा, अन्यस्माद् अनुवाकाद् आख्यातपदं गृहीत्वा, अन्यस्माच् च नामपदं यो वाक्यार्थः संजन्यते, तादृशं तद् भवेत्, यत्रान्येन ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्। तस्मान् नासंबद्धार्थव्यवधानैकवाक्यता भवतीति निश्चीयते। तस्मान् न सामिधेनीभिर् एकवाक्यतोपवीतस्येति। ननु सामिधेनीकल्पानाम् अनन्तरबुद्धानां संनिधाव् उपवीतम् आम्नायते, तेन सामिधेनीभिः संभन्त्स्यत इति। नेति ब्रूमः - अतिवृत्तम् एव हि सामिधेनीनां प्रकरणं निवित्पदैर् व्यवधानात्। वाक्येन हि सामिधेनीकल्पाः काम्याः संबन्धम् उपगच्छन्ति, न प्रकरणम् अनुवर्तते, न च, पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति। न हि, तत्र तासां वचनं कर्तव्या इति। किं तर्हि? संख्याभिः संबन्धयितव्या इति, तद् अपि वाक्येन, न प्रकरणेन। तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यता गुणस्य सामिधेनीभिर् नास्ति, न तस्य ताभिः संबन्धः। तस्मात्101 प्रकरणे102 यद् अनुष्ठेयं तद् यज्ञोपवीतिनेति सिद्धम्।
गुणानां च परार्थत्वाद् असंबन्धः समत्वात् स्यात् ॥ MS_३,१.२२ ॥
अग्न्याधेये वारणवैकङ्कतपात्राण्य् अहोमार्थानि होमार्थानि [२३७]103 च श्रूयन्ते - तस्माद् वारणो वै यज्ञावचरः स्यात्, न त्व् एतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज् जुहुयाद् एतेनेति। न च वारणवैकङ्कतानां पात्राणाम् अग्न्याधेयेन संबन्धः। कुतः? यज्ञाव् अचरवचनात्, यज्ञस्यैतानि पात्राणि, वाक्येन प्रकरणं बाधित्वा भवन्ति। तत्रैष संदेहः - किं पवम् आनेष्टिषु निविशन्ते, उत दर्शपूर्णमासादिषु सर्वयागेष्व् इति। किं तावत् प्राप्तम्? पवमानहविःष्व् इति। कुतः? उक्तम् एतत् प्रधाने ऽसंभवन् पदार्थस् तद्गुणे कल्प्यत इति, अग्न्याधेयप्रकरणे च समाम्नानात् पवमानहविषां तद्गुणता। तस्मात् पवमानहविःष्व् इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - गुणानां समत्वात्, पवमानहविषाम् अग्न्याधेयस्य च न परस्परेण संबन्धः। यथाधानम् अग्नेर् गुणः संस्कारार्थः, एवं पवमानहवींष्य् अप्य् अग्नेर् एव गुणभूतानि। कस् तत्र परस्परेण संबन्ध इति। यद् उक्तम् - आधानस्य प्रकरणे समाम्नायन्त इति, यद्य् अपि समाम्नायन्ते, तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर् भवन्ति। किम् इह वाक्यम्? यद् आहवनीये जुहोति104 तेन सो ऽस्याभीष्टः प्रीतो भवतीति। नन्व् आहवनीयो ऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते। सत्यम्, अधिकरणम् आहवनीयः, तथापि त्व् आहवनीयार्थ एव यागः, प्रयोजनवत्त्वाद् आहवनीयस्य निष्प्रयोजनत्वात् पवमानहविषाम्। कथम् एषां निष्प्रयोजनता? फलाश्रवणात्। कल्प्यं फलम् इति चेत्। सत्यं कल्प्यम्, अग्निसंस्कारस् तु तत्फलम्, न स्वर्गः, स्वर्गे कल्प्यमाने द्विर् अदृष्टं कल्प्येत, होमाच् च [२३८]105 स्वर्गो भवति, तस्य चाहवनीयेनापरो ऽदृष्टः संस्कार इति। तस्माद् अग्न्यर्थता पवमानहविषाम्, नैषाम् आधानेन संबन्धः। तस्मान् नाधाने श्रूयमाणम्, पवमानहविषां भवितुम् अर्हति। किं तर्हि सर्वयागेषु दर्शपूर्णमासप्रभृतिष्व् आधानस्य प्रधानभूतेषु निवेश इति।
मिथश् चानर्थसंबन्धात् ॥ MS_३,१.२३ ॥
दर्शपूर्णमासयोः श्रूयते - वार्त्रघ्नी पौर्णमास्याम् अनूच्येते, वृधन्वत्य् अमाव् अस्यायाम् इति106। तत्र संदेहः - किम् अनुवाक्याद्वित्वस्य प्रधाने निवेशः, उताज्यभागयोर् इति। किं तावत् प्राप्तम्? प्रधान इति। कुतः? पौर्णमासीसमभिव्याहारात्, अमाव् अस्यासमभिव्याहाराच् च। प्रधानं पौर्णमासी चामाव् अस्या च नाज्यभागौ। तस्मात् साक्षाद् वाक्यात् प्रधानस्येति प्राप्तम्। तत्र ब्रूमः - मिथः सह द्वाभ्याम् अनुवाक्याभ्यां न प्रधानस्य कार्यम् अस्ति, यत्र तु द्व अनुवाक्ये, तत्र तयोर् वार्त्रघ्नता वृधन्वत्ता च विधीयते, प्रधाने चैकानुवाक्या, तत्र द्वित्वं वार्त्रघ्नतां वृधन्वत्तां च विदधद् वाक्यं भिद्येत। आज्यभागयोस् तु द्वे प्राप्ते आग्नेयी सौमी च, तत्र वार्त्रघ्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम्। ननु प्रधानगामित्वे ऽपि द्वयोः प्रधानयोर् द्वे अनुवाक्ये, आग्नेयस्याग्नीषोमीयस्य चेति। उच्यते - एका [२३९]107 वार्त्रघ्न्य् आग्नेयी, एका सौमी, तथा वृधन्वत्यै, तत्र याग्नेयी, सा विधीयमाना संबध्येत न सौमी। अमाव् अस्यायां तावन् नास्त्य् एव108, पौर्णमास्याम् अप्य् अग्नीषोमीय एव क्रियमाणे क्रियेत, तत्राप्य् एकदेवत्या न शक्नुयाद् देवताद्वित्वे कार्यं कर्तुम्। अथोभ अग्नीषोमीये प्राप्ते इति। न, एकस्य यागस्य द्वाभ्याम् अनुवाक्याभ्यां प्रयोजनम्। उपादेयत्वेन ह्य् अनुवाक्या चोद्यते, तत्रैकत्वं विवक्षितम्, तेन तत्रापि न द्वे। तस्माद् आज्यभागयोर् निवेश इति।
आनन्तर्यम् अचोदना ॥ MS_३,१.२४ ॥
ज्योतिष्टोमे श्रूयते - मुष्टीकरोति, वाचं यच्छति, दीक्षितम् आवेदयतीति, तथा हस्ताव् अवनेनिक्ते, उलपराजिं स्तृणातीति। तत्र संदेहः - किं मुष्टीकरणं वाग्यमश् चावेदनार्थम्, उत कृत्स्नप्रकरणे निवेश इति तथा, हस्ताव् अनेजनं किम् उलपराजिं स्तरितुम्, उत प्रकरणे सर्वपदार्थान् कर्तुम् इति। किं तावत् प्राप्तम्? हस्ताव् अनेजनं हस्तसंस्कारार्थम्, वाग्यमः पुरुषसंस्कारार्थः, आमन्त्रयमाण एकाग्रो भवति, पदार्थान् अनुतिष्ठति, तेन केषां केषां पदार्थानाम् इमे109 संस्काराव् इत्य् आकाङ्क्षास्ति, सत्याम् आकाङ्क्षायाम् आनन्तर्येण निराकाङ्क्षीकरणम्। तस्माद् आनन्तर्याद् आवेदनार्थो वाग्यमो मुष्टीकरणं च, हस्ताव् अनेजनं चोलपराजिं स्तरितुम्। एवं प्राप्ते ब्रूमः - सर्वैः प्रकरणाधीतैः संबन्ध इति। [२४०]110 कुतः? वाक्यभेदात्। कथं वाक्यभेदः? अर्थद्वयस्याभिधानात्। न हि, दीक्षितम् आवेदयितुम् इत्य् अस्मिन्न् अर्थ आवेदयतीति, न च स्तरितुम् इत्य् अस्मिन्न् अर्थे स्तृणातीति। स्तरणम् अपि विधीयते ऽवनेजनं च। मुष्टीकरणं वाग्यमश् च विधीयते, आवेदनं च। न च, एषां परस्परेण कश्चित् संबन्धो ऽस्ति, न च, पदार्थाकाङ्क्षायां सत्याम् आनन्तर्यम् एकवाक्यत्वे कारणं भवति, तस्मात् प्रकरणधर्मा एवंजातीयकाः।
वाक्यानां च समाप्तत्वात् ॥ MS_३,१.२५ ॥
स्वेन स्वेन पदसमूहेन परिपूर्णम् एकं वाक्यम्, तथापरम्, तथा सर्वाणि यान्य् उदाहृतानि। तस्माद् विस्पष्टम् अर्थद्वयम्, विभागे च निराकाङ्क्षता, तेन वाक्यभेदः। अतः संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च111 कृत्स्ने पर्करणे निवेश इति।
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् ॥ MS_३,१.२६ ॥
दर्शपूर्णमासयोः समाम्नायते - आग्नेयं चतुर्धा करोतीति। तत्र संदेहः - किम् आग्नेये ऽग्नीषोमीये ऐन्द्राग्ने112 च सर्वत्र चतुर्धाकरणम्? किं वाग्नेय एवेति। किं प्राप्तम्? शेषश् चतुर्धाकरणम्, आग्नेयम् इति देवतागुणसंयुक्तः साधारणः प्रतीयते, अग्नीषोमीये ऽपि स्यात्, ऐन्द्राग्ने ऽपि। कुतः? ताव् अप्य् आग्नेयौ, यस्याग्निर् देवता, अन्या च भवति, असाव् आगेयः। तद् यथा, या डित्थस्य डवित्थस्य च माता, सा डवित्थस्य [२४१]113 भवति, एवम् इहापि। यद्य् आग्नेयाग्नीषोमस्य च पुरोडाशस्य मिथः संबन्धो न भवेत्, तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत, भवति तु संबन्धः, तस्माद् अव्यवस्था, यथाग्नेयस्य मस्तकं विभज्य प्राशित्रम् अवद्यतीति सर्वेभ्यः प्राशित्राव् अदानम्, एवं चतुर्धाकरणम् अपि।
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः ॥ MS_३,१.२७ ॥
वाशब्दः पक्षं व्यावर्तयति, व्यवतिष्ठेत वा चतुर्धाकरणम् आग्नेय एव, न साधारणं भवितुम् अर्हति। कुतः? अर्थसंयोगात्, अग्निना देवतयार्थेनैकदेवत्यस्य114 संयोगः, न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य115 चेति। कुतः? यस्य ह्य् अग्नीषोमौ देवता, उभयविशेषणविशिष्टः संकल्पः क्रियते, तस्याग्निः सोमम् अपेक्षमाणो देवता, न निरपेक्षः, यस्य चाग्निः सोमम् अपेक्षमाणो देवता, न तस्मात् तद्धित उत्पद्यते, समर्थानां हि स उच्यते, सापेक्षं चासमर्थम्। तस्मान् न तद्धितान्तेन निरपेक्षाग्निदैवत्येन116 द्विदेवत्यस्याभिधानम्117। अतो यत्र निरपेक्षो ऽग्निर् देवता, तत्रैव चतुर्धाकरणम् इति, देवतालिङ्गस्य हि सामर्त्येन संयोगो भवति तद्धितार्थस्य, नासति सामर्थ्ये। अथ यद् उक्तम्, यथा118 प्राशित्राव् अदानं सर्वेभ्यः क्रियते, एवं119 चतुर्धाकरणम् अपीति, युक्तं प्राशित्राव् अदानेन तत्रैव120 संबन्धः क्रियते, आग्नेयस्य प्राशित्रम् अवद्यतीति। कथं तर्हि, आग्नेयस्य मस्तकं विभज्येति। एकं ह्य् एतद् वाक्यं प्राशित्रम् अवद्यतीति, द्वितीयम् आग्नेयस्य मस्तकं विभज्येति, तत्राग्नेयस्य मस्तकाद् अवद्यतीति गम्यते, अन्यस्य मस्तकात्, अन्यस्माद् वेत्य् अनियमः। यदि तु तत्र केवलाग्निदैवत्यो121 नाभविष्यत्, तदानर्थक्यपरिहाराय द्विदैवत्यो122 ऽप्य् अग्रहिष्यत123। [२४२]124 यत् तु, डित्थस्य मातेति, युक्तं तत्राव्यासङ्गि मातृत्वम्, ततो जातो डित्थः, एतावता संबन्धेन, मातेत्य् उच्यते, नात्र किंचिद् अपेक्ष्यते। स च तावांस् तत्र संबन्धो ऽस्तीति डित्थस्य मातेति युक्तं वचनम्।
[२४३]125
-
E2: 4,15; E4: 3,532; E6: 1,143 ↩︎
-
E2: pratīyate ↩︎
-
MS 2.1.8 ↩︎
-
E2,4,6: bādariḥ ↩︎
-
E2,4,6: bādarir ↩︎
-
E2,4,6: mene ↩︎
-
E2: nirvartitavyā ↩︎
-
E2: om. iti ↩︎
-
E2: 4,17; E4: 3,539; E6: 1,144 ↩︎
-
E2,4,6: bādarir ↩︎
-
E2,4,6: bādarir ↩︎
-
E2: 4,19; E4: 3,542; E6: 1,144 ↩︎
-
E2,4,6: bādarir ↩︎
-
E2,4,6: grahaṇāsādanādaya ↩︎
-
E2,4: prasnāvanam ↩︎
-
E2: sāṃnāyyasya, E4: sānāyyasya, E6: sānnāyyasya ↩︎
-
E2,4: evaite, E6: evam ↩︎
-
E2: 4,24; E4: 3,545; E6: 1,145 ↩︎
-
E2,4: ājyasāṃnāyyayor, E6: ājyasānnāyyayor ↩︎
-
E2,4,6: śrūyeraṃs ↩︎
-
E2: 4,27; E4: 3,550; E6: 1,146 ↩︎
-
E2: artham ↩︎
-
E2: 4,30; E4: 3,553; E6: 1,147 ↩︎
-
Tait. S. 1.6.8.3 ↩︎
-
E2: yathārthanvataḥ ↩︎
-
E1,6; E1 (v.l.), E2,4: śamyāyāṃ ↩︎
-
E1,6; E2,4: dṛṣadam, E4 (v.l.): dṛṣad ↩︎
-
E2,4,6: bādhyetaiva ↩︎
-
E2: 4,33; E4: 3,556; E6: 1,147 ↩︎
-
E1 (v.l.): piṅgākṣyaikahāyinyā ↩︎
-
Vgl. Tait.S. 6.1.6.7 ↩︎
-
E2,4: adhyavasyāmaḥ ↩︎
-
E2: 4,43; E4: 3,556; E6: 1,148 ↩︎
-
E2,4: aruṇāśabda ↩︎
-
E2,4: aruṇāśabdābhidhānīyatāṃ ↩︎
-
E2,4: nāruṇāśabdaḥ ↩︎
-
E2,4,6: karuṇā ↩︎
-
E2,4: aruṇāśābdo ↩︎
-
E2: 4,49; E4: 3,557; E6: 1,149 ↩︎
-
E2,4: aruṇāśabdasya ↩︎
-
E2,4 om. saṃbadhyate ↩︎
-
E2,4: na saṃbadhyate, nāmūrto ↩︎
-
E2,4: vākyād, E6 om. ekavākyatvād ↩︎
-
E2: 4,50; E4: 3,558; E6: 1,149 ↩︎
-
E1,6; E1 (v.l.), E2,4: -vibhaktir ↩︎
-
E2,4,6: yathā ↩︎
-
E2,4: upasarjanabhūto ↩︎
-
E2: 4,51; E4: 3,558; E6: 1,150 ↩︎
-
E2: puruṣeṇa ↩︎
-
E2: 4,53; E4: 3,559; E6: 1,151 ↩︎
-
Vgl. MS 1.1.25 ↩︎
-
E1,6, E2 (v.l.); E2,4: pratyakṣataḥ ↩︎
-
E2: 4,54; E4: 3,560; E6: 1,152 ↩︎
-
E2,4: prakaraṇagatair ↩︎
-
E2,4 om ↩︎
-
Vgl. MS 3.1.8 ↩︎
-
E2,4: (yad abhidhīyate niyamyeyātām iti) naitad ↩︎
-
E2: 4,60; E4: 3,561; E6: 1,152 ↩︎
-
E2,4: krayeṇāruṇim asaṃbandha ↩︎
-
E2,4: yathā ↩︎
-
E2: 4,62; E4: 3,561; E6: 1,153 ↩︎
-
E2,4,6: sthālīṃ ↩︎
-
E2: 4,63; E4: 3,562; E6: 1,153 ↩︎
-
Tait.S. 3.2.2.3 ↩︎
-
E2: 4,65; E4: 3,583; E6: 1,154 ↩︎
-
ŚPBr 1.2.2.13 ↩︎
-
E2,4: asti - yad uktaṃ grahādiṣv ↩︎
-
E2: 4,74; E4: 3,600; E6: 1,155 ↩︎
-
E2,4: gardabhābhidhānīṃ ↩︎
-
Tait.S. 5.1.2.1 ↩︎
-
E2: 4,83; E4: 3,601; E6: 1,156 ↩︎
-
E2,4: upakāreṇa ↩︎
-
E2: 4,86; E4: 3,602; E6: 1,156 (l.Z.) ↩︎
-
E1,6, E4 (v.l.); E2,4: dravye ↩︎
-
E2,4 om ↩︎
-
Vgl. MS 3.1.8 ↩︎
-
E2: 4,95; E4: 3,602; E6: 1,157 ↩︎
-
E2,4, E1 (v.l.): paricchinnati ↩︎
-
Vgl. E1, S.229/1-2 ↩︎
-
E2,4: san na paryudasitavyo, E6: sann aparyudasitavyo ↩︎
-
E2: 4,96; E4: 3,643; E6: 1,158 ↩︎
-
Vgl. MS 3.1.8 ↩︎
-
E2,4,6: om. sa ↩︎
-
E2,4,6 om. iti ↩︎
-
E2: 4,98; E4: 3,646; E1: 1,159 ↩︎
-
E2: na ca ↩︎
-
E2: saṃmṛjā, E4: saṃmṛjām ↩︎
-
E2,4: vaiṣamyaṃ ↩︎
-
Der Satz fehlt in E6 ↩︎
-
E2,4: karmārthalakṣaṇaṃ ↩︎
-
E2: 4,98; E4: 3,649; E6: 1,159 ↩︎
-
E2,4: vājapeyāṅgapaśuyāge ↩︎
-
E2: 4,101; E4: 3,649; E6: 1,160 ↩︎
-
Tait.S. 2.6.1.4 ↩︎
-
Vgl. MS 3.1.8 ↩︎
-
E2: 4,103; E4: 3,657; E6: 1,161 ↩︎
-
Tait.S. 2.5.11.1 ↩︎
-
E2: 4,106; E4: 3,661; E6: 1,161 (vorletzte Zeile) ↩︎
-
E2,4 om. hi buddhābhyāṃ ↩︎
-
E2: 4,108; E4: 3,661; E6: 1,162 ↩︎
-
E2: yasmāt ↩︎
-
E2,4: kṛtsne prakaraṇe ↩︎
-
E2: 4,111; E4: 3,674; E6: 1,163 ↩︎
-
E2,4: juhvati ↩︎
-
E2: 4,113; E4: 3,675; E6: 1,164 ↩︎
-
Tait.S. 2.5.2.5 ↩︎
-
E2: 4,115; E4: 3,681; E6: 1,164 ↩︎
-
E2,4: eva somaḥ ↩︎
-
E1,6, E4 (v.l.); E2,4: imau ↩︎
-
E2: 4,119; E4: 3,686; E6: 1,165 ↩︎
-
Vgl. MS 3.1.8 ↩︎
-
E2,4,6: caindrāgne ↩︎
-
E2: 4,119; E4: 3,695; E6: 1,165 ↩︎
-
E2,4: devatayārthenaikadaivatyasya ↩︎
-
E2,4: dvidevatyasyāgnīṣomīyasyaindrāgnasya ↩︎
-
E2,4: nirapekṣāgnidevatyena ↩︎
-
E2,4: dvidevatyasyābhidhānam ↩︎
-
E2: yathā yathā ↩︎
-
E2 om. evaṃ ↩︎
-
E2: adāne. na tatraivaṃ, E4: adāne. tatraivaṃ ↩︎
-
E2,4: kevalāgnidevatyo ↩︎
-
E2,4: dvidevatyo ↩︎
-
E2,4: agrahīṣyata ↩︎
-
E2: 4,122; E4: 3,698; E6: 1,166 ↩︎
-
E2: 4,123; E4: 4,1; E6: 1,167 ↩︎