०५ २,४

यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् ॥ MS_२,४.१ ॥

बह्वृचब्राह्मणे श्रूयते - यावज्जीवम् अग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्याम् यजेतेति। अत्र सन्देहेः - किं कर्मधर्मो ऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश् चोद्यते यावज्जीविकतेति। कथं कर्मधर्मो ऽभ्यासः, कथं वा कर्तृधर्मो नियम इति। यदि जुहोतिर् अनुवादः, यावज्जीवम् इति विधिः। ततः कर्मधर्मो ऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति। किं तावत् प्राप्तम्, कर्मधर्मो ऽभ्यासः। कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दाव् अनुवादौ, यावज्जीवम् इति च विधिः, ततः प्रकरणम् अनुगृह्यते, तस्माद् अभ्यासः। एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात्। तस्माद् अभ्यासः।


कर्तुर् वा श्रुतिसंयोगात् ॥ MS_२,४.२ ॥

अत्र ब्रूमः - यावज्जीविको ऽभ्यासो न स्यात्, कर्तुर् धर्मो नियमश् चोद्यत इति। कुतः? श्रुतिसंयोगात्। एवं श्रुतिपरिच्छिन्नो ऽर्थो भविष्यति, इतरथा लक्षणा स्यात्। कथम्? यावज्जीवनम्, तावता कालेन कुर्याद् इति, तद् एतत् प्रदोषपरिसमाप्तम् अग्निहोत्रम् अनभ्यस्य, न शक्यते यावज्जीवनकालेन कर्तुम्, पौर्णमास्यम् आवास्यापरिसमाप्तौ च दर्शपूर्णमासौ। यद्य् उच्येत - जीवनकालस्यैकदेशे ऽपि कृतं तेन कालेन कृतं भवतीति। नैतद् एवम्, [१९५]1 अर्थप्राप्तं हि तन् न विधातव्यं शब्देन, जीवनपरिमितः कालो यः, तेन परिसमापयितव्यम् इत्य् अर्थाद् अभ्यासः, स हि कर्तव्यतया श्रूयते, न चासाव् जुहोतियजतिभ्याम् उच्यते, लक्षणया तु गम्यते। यावज्जीवं जुहुयात्, यावज्जीवम् अभ्यस्येद् इति, श्रुतिश् च प्रकरणाद् बलीयसी। यदीयं वचनव्यक्तिर् अस्य वाक्यस्य, यावज्जीवम् इत्य् अनुवादो जुहोति यजतीति च विधानम्, इत्य् एवं यजतिजुहोतिशब्दौ स्वार्थाव् एव भविष्यतः, यावज्जीवशब्दो ऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवने निमित्ते कर्म विधीयते, जीवंश् चेद् धोतव्यम् इति, जीवनं निमित्तम्, न कालः, नियतनिमित्तत्वान् नियतं कर्म तेनोच्यते, कर्तुर् धर्मो नियमश् चोद्यत इति।


लिङ्गदर्शनाच् च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकम् अन्यत् स्यात् ॥ MS_२,४.३ ॥

लिङ्गं च भवत्य् अपि ह वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीम् अमावास्यां वातिपातयेतेति। कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात्। तत्र चानर्थकम् अन्यत् स्यात् प्रायश्चित्तादि विधीयमानम्।


व्यपवर्गं च दर्शयति, कालश् चेत् कर्मभेदः स्यात् ॥ MS_२,४.४ ॥

व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति। यदि दर्शपूर्णमासाभ्याम् इष्ट्वा सोमस्य कालो ऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते। अथ जीवनं निमित्तम्, उपपद्यते कर्मभेदः, दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्याद् इति। [१९६]2 अपि चाहिताग्निर् वा एष यो ऽग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोतीत्य् अनुध्यायिनीवचनं भवति, नियतो य आहुतिभागः, तस्मिन् अदीयमाने ऽनुध्यायिनीवचनं भवति। यस् त्व् अनियत आहुतिभागस् तम्3 अनुध्यायन्ति, इदं नो भविष्यतीति, नियतश् च भागो नियमपक्षे भवति, न काम्यपक्षे, कर्मधर्मे च काम्यम् अग्निहोत्रं च दर्शपूर्णमासौ च, तस्मान् नियमपक्षः। अपि च श्रूयते, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ च, जरया ह वैताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्ष उपपद्यते। काम्यपक्षे ह्य् अप्रयोगाद् अपि मुच्येत।


अनित्यत्वात् तु नैवं स्यात् ॥ MS_२,४.५ ॥

तुशब्दो ऽन्वाचये, इतरश् च पश्यामः, कर्तुर् धर्मो नियमश् चोद्यत इति। यदि पूर्वस्य होमस्य गुणविधिर् भवेत् स एकैकः पूर्वो ऽग्निहोत्रहोमो ऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन् नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति। कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षे ऽप्रयोगाद् अपि मुच्येत।


विरोधश् चापि पूर्ववत् ॥ MS_२,४.६ ॥

इतश् च पश्यामो न पूर्वाभ्यासो गुणश् चोद्यत इति। कुतह्? विरोधात्, विरोधो भवति, दर्शपूर्णमासविकाराः सौर्यादयो ऽपि यावज्जीवम् अभ्यसितव्या भवेयुः। सो ऽनारभ्यार्थः प्रतिज्ञातः स्यात्। अतो ऽपि पश्यामो नियम इति सत्रसंस्तवश् च सन्ततभावम् उपपत्स्यते।

[१९७]4


कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् ॥ MS_२,४.७ ॥

यदि कर्तुर् धर्मो नियमश् चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते। तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनम् अकॢप्तं भवति, तस्मात् कर्तृधर्मो नियमश् चोद्यत इति सिद्धं भवति।


नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् ॥ MS_२,४.८ ॥

इह शाखान्तराण्य् उदाहरणम्, काठकं कालापकं पैप्पलादकम् इत्येवमादीनि। तत्र सन्देहः, किम् एकस्यां शाखायां यत् कर्माग्निहोत्रादि श्रूयते, तच् छाखान्तरे पुनः श्रूयमाणम् भिद्येत तस्मात्, उत न भिद्येत? भिद्येतेति पश्यामः। कुतः? नामभेदात्, एकं काठकं नाम, अन्यत् कालापकं नाम, एवं नामभेदाद् भेदः। ननु ग्रन्थनामैतत्। सत्यम्, कर्मणाम् अपीति ब्रूमः, कर्मभिर् अप्य् एवमादीनां सामानाधिकरण्यम् एकविभक्तित्वं चेति। रूपभेदाच् च, एकस्यां शाखायाम् अग्नीषोमीयम् एकादशकपालम् आमनन्ति, एकस्यां द्वादशकपालम्, एवं भिन्नं रूपम्5, कथम् इव न कर्मान्तरं भविष्यति। धर्मविशेषाच् च, कारीरीवाक्यान्य् अधीयानास् तैत्तिरीया भूमौ भोजनम् आचरन्ति, अपरे शाखिनो नाचरन्ति, तथाग्निम् अधी[१९८]6यानाः केचिद् उपाध्यायस्योदकुम्भानाहरन्ति, अपरे न, अश्वमेधम् अधीयानाः केचिद् अश्वस्य घासम् आहरन्ति, अपरे न, परे ऽन्यं धर्मम् आचरन्ति, अश्वघासादेर् एकेषाम् उपकारम् आकाङ्क्षत्य् अश्वमेधादिः, एकेषां नाकाङ्क्षति, स एवैकः कथं नाकाङ्क्षेत कथं वान्यद् आकाङ्क्षितुम् अर्हति, अतो गम्यत अन्यद् इति। पुनरुक्तिप्रसङ्गाच् च, यदि सर्वशाखाप्रत्ययम् एकं कर्म, एकस्यां शाखायां विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तम् अनर्थकं स्यात्। न तु भेदपक्ष एष दोषो ऽस्ति, तस्माद् अपि कर्मभेदः। निन्दावचनाच् च प्रातः प्रातरनृतं ते वदन्ति पुरोदया7 जुह्वति ये ऽग्निहोत्रं दिवाकीर्त्यम् आदिवा कीर्तयन्तः सूर्यो ज्योतिर् न तदा ज्योतिर् एषाम् इति केचिच् छाखिनो ऽनुदितहोमं निन्दन्ति, अपरे पुनर् उदितहोमं निन्दन्ति, यथातिथये प्रद्रुतायान्नम् आहरेयुस् तादृक् तद् यद्य् उदिते जुह्वतीति8, सर्वशाख्याप्रत्यये विरुद्धम्, न तु कर्मभेदे, तस्माद् अपि भेद इति। अशक्तेश् च, न शक्नुयुः खल्व् अपि सर्वशाखाप्रत्ययम् उपसंहर्तुम्, तत्रानारभ्यो ऽर्थो विधीयत इति प्रतिज्ञातं भवेत्, शक्यं तु कर्मभेदे, अतः कर्मभेद इति। समाप्तिवचनाच् च, असमाप्ते ऽपि समाप्तेर् वचनं भवति, केचिद् आहुः, अत्रास्माकम् अग्निः परिसमाप्यत इति, अपरे ऽन्यपरिसमाप्तिं व्यपदिशन्ति, तद् एककर्मत्वे नोपपद्यते, न हि तत्र च9 परिसमाप्येत, अन्यत्र न। भेदे तु युक्तम्, तस्माद् भेद इति। प्रायश्चित्तविधानाच् च, केचिद् अनुदितहोमव्यतिक्रमे प्रायश्चित्तम् आमनन्ति, केचिद् उदितहोमव्यतिक्रमे वृद्धे च प्रायश्चित्तम्, न च कर्मैकत्व उभयथा वृद्धिः संभवति, कर्मभेदे तु यद् अनुदिते होमकर्म, तद् उदिते वृद्धम्, इतरद् अप्य् उदिते, तस्माद् अपि भेदः। अन्यार्थदर्शनाच् च, इदं श्रूयते, यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिर् गृहपतेर् वानुसत्रिण इति, त एनम् एव [१९९]10 बृहत्सामानं क्रतुम् उपेयुर् उपेतं ह्य् एषां रथन्तरम्, अथ यद्य् अदिदीक्षाणा इतीष्टवताम् अनिष्टपूर्वाणां च द्वादशाहे दर्शनम् उपपद्यते यदि कर्मभेदः, एककर्मत्वे नावकल्प्यते। कथम्? ताण्डके11 श्रूयते, एष वाव प्रथमो यज्ञो यज्ञानाम्, यज् ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यम् एव तज् जायेत प्रवाम् ईयत इति12, तत् सर्वत्र स्यात्, तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः। अथापरं लिङ्गदर्शनम्, यत् पक्षसमितां पिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रज्ञां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसंमित्या मिनोतीति13 पक्षसमाने प्रतिषिद्धे वेदिसंमानस्य दर्शनं भवति, तत् तु कर्मभेद उपपद्यते, पाक्षिकस्य वेदिसंमानस्य दर्शनम् एककर्मत्वे नोपपद्यते। कथम्? एके हि समामनन्ति, रथाक्षमात्राणि यूपान्तरालानि भवन्तीति14, तत् सर्वत्र स्यात्, तत्र च नो पक्षसंमानं नो वेदिसंमानं स्यात्, वेदिसंमानदर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः। अपरं च लिङ्गदर्शनम्, केषांचिज् ज्योतिष्टोमे श्रूयते, द्वे संस्तुतानां विराजम् अतिरिच्येत इति, परेषां तिस्रः संस्तुतानां विराजम् अतिरिच्यन्त इत्य् एककर्मत्वे विरोधः, नानाकर्मत्वे कस्मिंश्चिज् ज्योतिष्टोमे द्वे, कस्मिंश्चित् तिस्रः, तस्मात् कर्मभेद इति। अपि च सारस्वते श्रूयते, ये पुरोडाशिनस् ते उपविशन्ति ये सान्नायिनस् ते वत्सान् वारयन्ति। सान्नायिन इष्टप्रथमयज्ञाः, पुरोडाशिनो विपरीताः, उभयेषां सारस्वते दर्शनम् अवकल्पते कर्मभेदे, एककर्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्, तत्र दर्शनं नोपपद्यते। अपि च श्रूयते - उपहव्यो निरुक्तः15, अग्निष्टोमो यज्ञः रथन्तर[२००]16सामा, अश्वः श्यावो दक्षिणा, परेषां श्रूयते, उपहव्यो ऽनिरुक्तः, उक्थो17 यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति, कर्मैकत्वे रथन्तरवचनं बृहद्वचनं चानर्थकम्, शाखाद्वयप्रत्ययत्वाद् बृहत्सामा रथन्तरसामा वा स्यात्, स चायं प्रकृतित एवंलक्षणकः प्राप्तः, नानाकर्मत्वे त्व् अन्यो बृहत्सामान्यो रथन्तरसामेति युक्तं भवति, तस्माच् छाखान्तरे कर्मभेदो भवितुम् अर्हति।


एकं वा संयोगरूपचोदनाख्याविशेषात् ॥ MS_२,४.९ ॥

न चैतद् अस्ति, यद् उक्तम् - शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तद् एव प्रयोजनम् उद्दिश्य तद् एव विधीयमानं प्रत्यभिजानीमः। रूपम् अप्य् अस्य तद् एव द्रव्यदेवतम्, पुरुषप्रयत्नश् च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तद् एव कर्म सर्वशाखादिष्व् इति प्रत्ययः।


न नाम्ना स्याद् अचोदनाभिधानत्वात् ॥ MS_२,४.१० ॥

यद् उक्तम् - नामभेद इति, परिहृतं तद् ग्रन्थनाम् अत इति। अथ यद् उक्तम् - कर्मणो ऽपि नामसामानाधिकरण्यदर्शनाद् इति। नैष दोषः, ग्रन्थसंयोगात् कर्म काठकादि, न कर्मसंयोगाद् ग्रन्थः काठकः। कथं गम्यते? यत् कर्म काठकादिसंयुक्तम्, तत् काठकादिशब्देनोच्यते। किम् अतो ऽपि? यद् ग्रन्थसंयोगात् काठकं कालापकं कर्मोच्यते। एकत्वे ऽपि काठकग्रन्थसंयोगात् काठकम्, कालापकग्रन्थसंयोगात् तु कालापकं भविष्यति।

[२०१]18


सर्वेषां चैककर्म्यं स्यात् ॥ MS_२,४.११ ॥

यदि शब्दभेदाद् भेदो भवेत्, शब्दैक्यात् तर्हि कर्मैक्यं भवेत्। तत्र काठकशब्दाभिधानाद् ऐक्यं भवेद् अग्निहोत्रस्य दर्शपूर्णमासयोर् ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतद् एवम्। तस्माद् अप्य् अभेदः।


कृतकं चाभिधानम् ॥ MS_२,४.१२ ॥

इदानींतनं चैतद् अभिधानं भवेत्, अस्य न पूर्वम् आसीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद् भेदः, इदानीं भेद इति विरुद्धम्।


एकत्वे ऽपि परम् ॥ MS_२,४.१३ ॥

एककर्मत्वे ऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्याम् अपि भेदबुद्धौ कर्मणो भेदो ऽभ्यवसीयेत।


विद्यायां धर्मशास्त्रम् ॥ MS_२,४.१४ ॥

अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः। कथं गम्यते? श्रुत्यादीनाम् अभावात्, विद्यासंयोगाच् च न कर्मप्रयुक्त इति।


आग्नेयवत् पुनर्वचनम् ॥ MS_२,४.१५ ॥

अथ यद् उक्तम् - यथामावास्यायाम्19 आग्नेयस्य पुनरुक्तदोषान् मध्यमः पक्षो निरस्तः, एवम् अयम् अपि तस्माद् एव दोषात् कर्मैकत्वपक्षो निरसितव्य इति, एतत् परिहर्तव्यम्। (इत्य् आभाषान्तं सूत्रम्)20

[२०२]21


अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥ MS_२,४.१६ ॥

नैव खल्व् एतत् द्विर्वचनम्, स एवायम् अर्थः पुनः श्रावितो ऽग्निहोत्रादिर् बहुकृत्वो बहुभिस् तु पुरुषैः, न चैको ऽर्थो बहुभिर् उच्यमानः पुनरुक्तो भवति। यदि भवेत्, एकस्मिन्न् एव वेदे बहुभिर् उच्यमाने भवेत्, तस्मान् न बहुकर्मसमवायो ऽयम्, एकम् एवेदं कर्मेति।


वाक्यासमवायात् ॥ MS_२,४.१६अ ॥22


अर्थासन्निधेश् च ॥ MS_२,४.१७ ॥

अर्थासन्निधेश् च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद् यथा वृक्षस्य शाखाः, एवम् इहापि वृक्षस्थानीयस्य वेदस्य शाखाः। किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवम् इहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्य् अर्थासन्निधेः शाखाशब्दोपपत्तिः। तस्माद् अप्य् एकं कर्मेति।


न चैकं प्रति शिष्यते ॥ MS_२,४.१८ ॥

न च, यत् काठके ऽग्निहोत्रम्, तत् काठकम् एवैकं पुरुषं प्रति विधीयते। तैत्तिरीयस्यापि तद्विहितम् एव, पुरुषविशेषवचनाभावात्, यच् चाग्निहोत्रस्य किंचिद् अङ्गं विधीयते, सर्वावस्थस्य तद् अग्निहोत्रस्य, यच् च काठकस्याग्निहोत्रं, तच् च तैत्तिरीयकस्येति, विशेषवचनाभावात्, तस्मात् सर्वशाख्याभिर् एकं समाप्तं कर्मोच्यत इति।

[२०३]23


समाप्तिवच् च संप्रेक्षा ॥ MS_२,४.१९ ॥

अत्रास्माकम् अग्निः परिसमाप्यत इत्य् उत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानाम् अग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्य् अन्यद् एव मैत्रायणीयानाम्, अन्यच् च तेषाम्, कथं ते ब्रूयुर् एष्व् अस्माकं न परिसमाप्यत इति, एकत्वम् उपपन्नम्, तेषाम् अपि हि ते सन्ति।


एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥ MS_२,४.२० ॥

न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते। किं तर्हि निन्दिताद् इतरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते। किं तर्हि निन्दितादितरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते। किं त्व् इतरस्य विधिः, तत्रैकस्मिन्न् अग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते, अतो न कश्चिद् विरोधः। तथासमर्थानाम् एकस्मिन्न् अपि वेदे विहितं कृत्स्नम्24 अङ्गजातम् उपसंहर्तुम् अशक्तिः, समर्थानां तु सर्वशाखाभ्यो ऽप्य् आगमितम् अधिकं विधिम् उपसंहर्तुम् शक्तिर् अस्तीति तेनैककर्मत्वे ऽपि न विरुद्धम् इति। तथैकस्मिन्न् अपि कर्मणि किंचिद् वस्तु समाप्तम् इति कृत्वा समाप्तिशब्दः प्रयुज्यते, यथा, आध्वर्यवे समाप्ते ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति।


प्रायश्चित्तं निमित्तेन ॥ MS_२,४.२१ ॥

यद् उक्तम् - उदितहोमस्यापि प्रायश्चित्तान्ता25 नावृद्धता26 गम्यते, अनुदितहोमस्यापि, तद् एकत्वे विरुध्यते, [२०४]27 अविरुद्धं नानात्व इति, तत् परिहर्तव्यम्। (आभाषान्तं सूत्रम्)28


प्रक्रमाद् वा नियोगेन ॥ MS_२,४.२२ ॥

वाशब्दः पक्षं व्यावर्तयति। नैष दोषः, उदिते होष्यामीति प्रकान्ते ऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वे ऽपि न दोषः।


समाप्तिः पूर्वत्त्वाद् यथाज्ञाते प्रतीयेत ॥ MS_२,४.२३ ॥

पूर्ववति समाप्तिवचनं भवति, यत् प्रारब्धं तत् परिसमाप्यते, तत्रास्माकं परिसमाप्तो ऽग्निर् इति यो ऽस्माभिर् ज्ञायते, प्रारब्धश् च परिसमाप्यत इत्य् अभिप्रायः29


लिङ्गम् अविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् ॥ MS_२,४.२४ ॥

यद् उक्तम् - यदि पुरा दिदीक्साणा इति, द्वादशाह इष्टप्रथमयज्ञानाम् अनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेद उपपद्यते, न सर्वशाखाप्रत्ययैककर्मणीति। नैष दोषः, यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशशाहेनेत्य् एवं तत्, न हि सामवेदे ज्योतिष्टोमस्य विधानम्। किम् अतो ऽपि? यत्र विहितस् तत्रानूद्यते, तेन कर्मभेदे ऽपि सर्वज्योतिष्टोमानाम् एष धर्मः प्राथम्यं नाम। अतो नानाकर्मपक्षे ऽप्य् अवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस् तस्माद् अदोषः।

[२०५]30


द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यवतिष्ठेत तस्मान् नित्यानुवादः स्यात् ॥ MS_२,४.२५ ॥

द्रव्ये चाग्नाव् अचोदितत्वाद् एकादशिन्याः संमानपरिमाणं पर्ति नैषा व्यवस्था स्यात्, नैवाग्नाव् एकादशिनी चोद्यते, कुतः पक्षसंमानं वेदिसंमानं वा स्यात्? द्वयम् अप्य् एतत् परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्, यदि पक्षसंमिता स्याद् अयं दोषः स्यात्, वेदिसंमाने न दोषो भवेत्, क एतत् सङ्कटमध्यवसानम्31 अर्हति? एकस्मिन् यूप एकादश पशवो नियोक्तवा इति, वाचस्तोमादिषु तु यूपैकादशिन्याम् अस्य नित्यानुवादत्वाद् रथाक्षमात्राण्य् एव यूपान्तरालानि भविष्यन्ति, नित्यानुवादत्वाच् चासत्य् अपि पक्षसंमाने वेदिसंमाने वैकादशिनीविधानार्थं वचनम् उपपद्यत एवेति न दोषः।


विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् ॥ MS_२,४.२६ ॥

अतिरात्रे गृह्णाति षोडशिनम् इति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनम् इति प्रतिषिद्धः, तेन पक्षे द्वयोः स्तोत्रीययोर् अतिरेकः, पक्षे तिसॄणाम्, तस्माद् अदोषः। कथं पुनर् अयं द्वयोस् तिसॄणां वातिरेकः? त्रिवृद् बहिष्पवमानम्, तत् तावन् नवकम्। पञ्चदशान्य् आज्यानि, तानि [२०६]32 तावच् चत्वारि, तेन सा षष्टिः। पञ्चदशो माध्यंदिनः पवमानः, तया पञ्चदशसंख्यया सह, पूर्वया च नवसंख्यया चतुरशीतिः। सप्तदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः पवमानः, पञ्चसप्तदशकानि तानीति पञ्चाशीतिः। पूर्वया चतुर्शीत्या सहैकोनसप्ततिशतम्। एकविंशं यज्ञायज्ञियम्, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया33 इति ब्राह्मणवादः। अग्निष्टोममात्रम् अभिप्रेत्योच्यते, सा विराट् संपूर्णा विराड् इति दशकाख्याः34, त्रय एकविंशका उक्थपर्यायाः, सा त्रिषष्टिः। एकविंशः षोडशी, तयैकविंशत्या सह चतुरशीतिः। पञ्चदशका रात्रिपर्यायास् त्रयः, तत्रैकैकपर्यायः चतुःस्तोत्रः, तद् अशीतिशतं संपूर्णा विराट्। त्रिवृद् रथन्तरं पञ्चसाम, तन् नवकम्, ततश् चतुरशीतेर् एकं नवकम् आगच्छति, तथा तिस्रः संस्तुतानां विराजम् अतिरिच्यन्ते, यदा षोडशी न गृह्यते, तदैकविंशत्या विना द्वे संस्तुतानां विराजम् अतिरिच्येते, एवम् एककर्मत्वे ऽपि लिङ्गम् उपपद्यते।


सारस्वते विप्रतिषेधाद् यदेति स्यात् ॥ MS_२,४.२७ ॥

यद् उक्तम् - पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवतीति, ज्योतिष्टोमपूर्वकत्वात् सर्वकर्मणाम्, विप्रतिषिद्धम् एतद् इति, तेन यदा सान्नायिनः पुरोडाशिन35 इति कल्प्यते।


उपहव्ये ऽप्रतिप्रसवः ॥ MS_२,४.२८ ॥

अथम् यद् उक्तम् - उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तम् एव, एककर्मत्वे प्रतिप्रसवतयाप्य् असंभवाद् विधीयमानम् अनर्थकं स्याद् इति, तत् परिहर्तव्यम्। आभाषान्तं सूत्रम्।

[२०७]36


गुणार्था वा पुनःश्रुतिः ॥ MS_२,४.२९ ॥

यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति।


प्रत्ययं चापि दर्शयति ॥ MS_२,४.३० ॥

यदा न सर्वशाखाप्रत्ययम् एकं कर्मेति, कथम् एकस्यां शाखायां समाम्नायते ऽन्यस्यां गुणो विधीयते? यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते, ऋतवो वै प्रयाजाः समानीय होतव्या इति37। तथा येषां शाखिनां कुटरुर् असीत्य्38 अश्मादानमन्त्रो नाम्नातः, तेषाम् अपि हि दृश्यते, कुक्कुटो ऽसीत्य् अश्मानम् उपपादत्ते, कुटरुर् असीति वेति। तस्माद् एकं कर्मेति प्रतीमः।


अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत ॥ MS_२,४.३१ ॥

यो ह्य् अन्यशाखावस्थितान् विधीन् उपसंहरति, स स्वशाखाविहितं क्रमम् उपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति।


विरोधिना39 त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् ॥ MS_२,४.३२ ॥

उच्यते - नैष शाखान्तरविहितानाम् ऐककर्म्ये सति विरोधिना40 संयोगः। न हि क्रमो वाक्येन विरुध्यते, दुर्बलो हि क्रमः, बलवद् वाक्यम्, वाक्येन च शाखान्तरीयाणाम् उपसंहारः। तस्मात् सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति।


============================================================================


  1. E2: 3,210; E4: 3,451; E5: 2,609; E6: 1,134 ↩︎

  2. E2: 3,214; E4: 3,462; E5: 2,611; E6: 1,134 ↩︎

  3. E2,4,5: na tam ↩︎

  4. E2: 3,216; E4: 3,467; E5: 2,612; E6: 1,135 ↩︎

  5. E1,5; E2,4,6: bhinnarūpam ↩︎

  6. E2: 3,219; E4: 3,469; E5: 2,615; E6: 1,136 ↩︎

  7. E2,4,6: purodayāj; E5: purodayājū juhvati ↩︎

  8. Śāṅkhā.Br. 2.9; Tait.Br.2.1.2.12 ↩︎

  9. E1,6; E2,4,5: na hi tad eva tatra ↩︎

  10. E2: 3,220; E4: 3,470; E5: 2,626; E6: 1,136 ↩︎

  11. E2,4,5,6: tāṇḍyake ↩︎

  12. Tā.Br. 16.1.2 ↩︎

  13. Mait.S. 3.4.8 ↩︎

  14. Tait.S. 6.6.4.1 ↩︎

  15. E1,6; E2,4,5: ’niruktaḥ ↩︎

  16. E2: 3,221; E4: 3,471; E5: 2,617; E6: 1,137 ↩︎

  17. E1,6; E2,4,5: ukthyo ↩︎

  18. E2: 3,224; E4: 3,492; E5: 2,618; E6: 1,138 ↩︎

  19. Vgl. MS 2.3.27-29 ↩︎

  20. In E1 geklammert ↩︎

  21. E2: 3,226; E4: 3,497; E5: 2,619; E6: 1,139 ↩︎

  22. Dieses Sūtra wurde von Śabara nicht kommentiert, es findet sich jedoch bei Kumārila. In E2,4,5 ist es aufgenommen worden. Dies bedingt eine von E1,6 abweichende Zählung der folgenden Sūtras ↩︎

  23. E2: 3,229; E4: 3,505; E5: 2,620; E6: 1,139 ↩︎

  24. E2,4: vihitaṃ kṛtsnam ↩︎

  25. E2: prāyaścinnānād; E4: prāyaścitāmnānād; E5: prāyaścittāmnānād ↩︎

  26. E2,4,5: vyṛddhatā ↩︎

  27. E2: 3,231; E4: 3,509; E5: 2,621; E6: 1,140 ↩︎

  28. In E1 geklammert ↩︎

  29. E2,4,5,6: parisamāpyate. prārabdhaś cety abhiprāyaḥ ↩︎

  30. E2: 3,232; E4: 3,514; E5: 2,622; E6: 1,140 ↩︎

  31. E1,6; E2,4,5: saṅkaṭamadhyavasātum ↩︎

  32. E2: 3,234; E4: 3,517; E5: 2,623; E6: 1,241 ↩︎

  33. E2,4: stotrīyā ↩︎

  34. E2,4: daśakākhyā ↩︎

  35. E1,5; E2,4,6 om. puroḍāśina ↩︎

  36. E2: 3,235; E4: 3,521; E5: 2,624; E6: 1,142 ↩︎

  37. Mait.S. 1.4.12, vgl. ŚPBr. 1.5.31 ↩︎

  38. Mait.S. 1.1.6 ↩︎

  39. E1,6; E2,4,5: virodhināṃ ↩︎

  40. E1,6; E2,4,5: virodhināṃ ↩︎