गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् ॥ MS_२,३.१ ॥
अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति, तं प्रकृत्य श्रूयते, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि गजत्सामा1, आग्रयणाग्रान् इति। तत्र सन्दिह्यते - किं ग्रहाग्रताविशेषो ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति। यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन च ज्योतिष्टोमो ऽभिधीयते, ततस् तस्य ग्रहाग्रताविशेषः, अथ नाभिधीयते, ततः कर्मान्तरस्येति। किं तावत् प्राप्तम्? प्रकरणात्, ज्योतिष्टोमस्य। इति प्राप्ते उच्यते - गुणस् तु क्रतुसंयोगाद् इति, तुशब्दः पक्षं व्यावर्तयति, नैतद् अस्ति, ज्योतिष्टोमस्येति। कुतः? क्रतुसंयोगात्। कथं तर्हि? कर्मान्तरस्येति। ननु ज्योतिष्टोमक्रतोर् एवैष एवंजातीयको वादः, रथन्तरसामा बृहत्सामेति। नेति ब्रूमः - यदि न कृत्स्नक्रतुसंयोगो भवेत्, ज्योतिष्टोमस्य वादः, कृत्स्नक्रतुसंयोगस् तु एषः। कथं कृत्स्नक्रतुसंयोगो भवति? कथं वा न कृत्स्नक्रतुसंयोग इति। यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः, रथन्तरं बृहद् वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुक्राग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः। अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न [१६९]2 निमित्तम्, ततः कृत्स्नक्रतुसंयोगः। यदि रथन्तरसामेति को ऽर्थः? अयम् अर्थः, यदि रथन्तरसाम अस्य विशेषणं क्रतोर् इति। कुत एतत्? समासपदसामर्थ्यात्, समर्थानां हि पदानां समासो भवति, सामर्थ्यं च भवति विशेषणविशेष्यभावे, असाधारणं च भवति विशेषणम्, तत्रायम् अर्थः, यदि रथन्तरम् एव साम, बृहद् एव वा नान्यद् इति। ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि। तस्मान् न ज्योतिष्टोमस्य वाचकाव् एतौ शब्दाव् इति। तेन यद्य् अपि प्रकरणाज् ज्योतिष्टोमस्य गुणविधिर् इति गम्यते, तथापि तद् बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश् च भवितुम् अर्हति। ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवम् अन्यो ऽपि न रथन्तरसामा कश्चिद् अस्ति। उच्यते - कर्मान्तरं रथन्तरसामकं कल्पयिष्यत्य् एतद् वाक्यम्, यदि रथन्तरसामा सोमः स्याद् इति। ननु नास्त्य् अत्र विधायकः शब्दः। उच्यते - अस्ति य एषः स्याद् इति। आह - नैष विधातुं शक्नोति, यदिशब्दसंबन्धाद् विद्यमानस्य निमित्तार्थेनैवंजातीयकः शब्दो भवति, न विधानार्थेनेति। अत्र ब्रूमः - यद् एतत् सयदिकं वाक्यम्, यदि रथनतरसामा सोमः स्याद् इति, अत्रावान्तरवाक्यम् अस्ति, रथन्तरसामा सोमः स्याद् इति, यद् अवान्तरवाक्यं तस्यान्यो ऽर्थः, अन्यश् च सयदिकस्य, सयदिको न शक्नोति विधातुम्, यत अवान्तरवाक्यम्, तद्विधास्यति। न च, रथन्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणो ऽप्य् अर्थवान् भवति। तस्माद् अविवक्षितो यदिसंबन्धः, तस्मिंश् चाविवक्षिते पदद्वयम् इदं रथन्तरसामा सोमः स्याद् इति शक्नोति रथन्तरसामानं क्रतुं विधातुम्, यदीत्य् अनर्थकम्। अथ वा यदि रोचेतेत्य् अध्याहारः। अथ वा यथैतद् भवति, पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चेद् [१७०]3 इति। एवंजातीयकेन वाक्येन शालिभोजनं विहितं भवति, एवम् अत्रापि विहितं द्रष्टव्यम्, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति। कथं पुनः शालिभोजनं तेन वाक्येन विहितं भवतीति। उच्यते - व्यत्यासेन संबन्धः कल्प्येत, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति। ननु न खल्व् इच्छतेः परां लिङ्विभक्तिम् उपलभामहे, सिञ्चतेर् हि तां परां समाम्नन्तीति। सिञ्चतेः खलु सा परा समुच्चरन्ती कमेर् अर्थं गमयति, कामप्रवेदने हि तां मन्यामह इति, एवम् इहापि यद्य् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति ग्रहीतुम् इच्छेद् इत्य् अर्थः, ततो रथनतरसामानं क्रतुं कुर्याद् इति। नन्व् एवं सत्य् इच्छामात्रं भवेत्, न ग्रहाग्रत्विशेषविधानम्। उच्यते - यथास्मिन् लौकिके वाक्ये, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति दध्युपसेचनसंकीर्तनाद् दध्युपसिक्तं शालिं भुञ्जीतेति तेनैकवाक्यत्वाद् गम्यते, एवम् अत्रापि ग्रहाग्रताविशेषसङ्कीर्तनात् तेनैकवाक्यत्वाद् ग्रहाग्रताविशिष्टो रथन्तरसामा गम्यते। अथ वात्र हेतुहेतुमतोर् लिङ्, रथन्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्तव्य इति। तस्मात् कृत्स्नक्रतुसंयोगाद् गुणः कर्मान्तरं प्रयोजयेत्, एवं कृत्स्नक्रतुसंयोगो ऽर्थवान् भविष्यति। अपि च पूर्वेण निमित्तेन भवितव्यम्, परेण नैमित्तिकेन। कथम्? सति हि निमित्ते नैमित्तिकं भवितुम् अर्हति, नासति, यच् च भविष्यत् तन् न सत्, भविष्यच् च रथन्तरसाम, तत् कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति। अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरम्, तत्सामान्याद् इतरद् अपि कर्मान्तरम् इति गम्यते। तस्मान् न ज्योतिष्टोमस्य गुणविधानम् इति।
[१७१]4
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् ॥ MS_२,३.२ ॥
तुशब्दात् पक्षो ऽन्यथा भवति, नैतद् अस्ति, यद् उक्तम्, क्रत्वन्तरम् इति। कथं तर्हि? ज्योतिष्टोमस्यैव ग्रहाग्रताविशेष इति। कुतः? प्रकरणसामर्थ्यात्। नन्व् एतद् उक्तम् - वाक्यसामर्थ्यात् क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति। परिहृतम् एतज् ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति। पुनर् दूषितम् अनेकसामत्वाज् ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पत इति। तद् उच्यते - प्रकल्पते विशेषणम्, बृहद्रथन्तरयोर् वैकल्पिकत्वात्, भवति स प्रयोगः, यत्र रथन्तरं नास्ति। भवति च स प्रयोगः, विद्यमानरथन्तरसामकः, तद् एतत् रथन्तरं सत्तयैवासाधारणत्वाद् विशेषकम्। तस्माज् ज्योतिष्टोम एव रथनतरसामा बृहत्सामा चेति। अथ यद् उक्तम् - पूर्वेण निमित्तेन भवितव्यम्, उत्तरेण नैमित्तिकेनेति। नैतत्, नियोगतो भवति हि भविष्यद् अपि निमित्तम्, यथा वर्षिष्यतीति कृषिगृहकर्मानुष्ठानम्, अपि च तद् दृष्टम्, इदं च वाचनिकं निमित्तम्, तद् यथावचनं भवितुम् अर्हति। स्याद् इति चेयं लिङ् त्रिष्व् अपि कालेषु भवति। तस्माद् भविष्यद् अपि निमित्तम्। यत् तु जगत्सामेति कर्मान्तरम्, तत्सामान्याद् रथन्तरसामापि कर्मान्तरम् इति। जगत्साम, असंभवात् कर्मान्तरं संभवति, रथन्तरसाम्नो बृहत्साम्नश् च ज्योतिष्टोमस्याभिधानम्, तस्मान् न कर्मान्तरम् इति।
[१७२]5
अवेष्टाव् यज्ञसंयोगात् क्रतुप्रधानम् उच्यते ॥ MS_२,३.३ ॥
सति राजसूयः, राजा राजसूयेन स्वाराज्यकामो यजेतेति। तं प्रकृत्यामनन्त्य् अवेष्टिं नामेष्टिम्, आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि। तां प्रकृत्य विधीयते, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिम् आहुतिं हुत्वाभिघारयेत्, यदि राजन्य ऐन्द्रम्, यदि वैश्यो वैश्वदेवम् इति। तत्र सन्दिह्यते, किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनाम् अयं यागो विधीयत इति। कथं निमित्तार्थता भवेत्? कथं वा यागविधानम् इति। यदि राजशब्दो ब्राह्मणादिष्व् अपि केनचित् प्रकारेण, ततो निमित्तार्थता। अथ क्षत्रिय एव, ततः प्रापकाण्य् एवंजातीयकानि श्रवणानि। किं तावत् प्राप्तम्? निमित्तार्थतेति, तत एवं तावद् उपवर्ण्यते, यौगिको राजशब्द इति, राज्यं यस्य कर्म, स राजा। किं पुना राजकर्म? जनपदपुरपरिरक्षणे, ततश् चोद्धरणे राज्यशब्दम् आर्यावर्तनिवासिनः प्रयुञ्जन्ते। राज्ञः कर्म राज्यम् इति चाभियुक्ता उपदिशन्ति। तेन मन्यामहे, यस्यैतत् कर्म स राजेति, यथा य उदमेघं नाम कंचित् पुरुषं नावेदिषुः, तस्य तु पुत्रम् औदमेघिर् इत्य् एवं विदुः, शक्नुयुस् ते यस् तस्य पिता, स उदमेघ इति कल्पयितुम्, उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति। एवं राज्ययोगाद् राजशब्द इति विज्ञायते। ननु जनपदपुरपरिरक्षणवृत्तिम् अनुपजीवत्य् अपि क्षत्रिये राजशब्दम् आन्ध्राः प्रयुञ्जन्ते प्रयोक्तारः। न ब्रूमः, न प्रयुञ्जत इति, किं तर्हि कर्मविशेषनिमित्तत्वाद् राजशब्दस्य, तद्योगाद् अपि [१७३]6 राजशब्दो भवतीत्य् एतद् उपपादयामः। प्रयुञ्जते च तद् युक्ते राजशब्दम् अक्षत्रिये ऽपि, तद् अस्मिन्न् उपपन्ने प्रकरणवशात्, यदिशब्दसमभिव्याहाराच् च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्मान्तरं विधायिष्यतीति। अथ वासार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन प्रयोगेण विरुध्यमानस्याप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः, सार्वभौमं प्रयोगम्। अपि चाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति, तथार्यावर्तनिवासिनां शब्दार्थोपायेष्व् अभियुक्तानाम् अभिव्याहरतां कर्माणि चानुतिष्ठताम् अन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः समीचीनतर आचारो भवति। तस्माद् यौगिको राजशब्दः, निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर् न कर्मान्तरम् इति। एवं प्राप्ते ब्रूमः - अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणम्, ब्राह्मणादीनाम् अवेष्टियागं विधातुम्, न निमित्तार्थम्। कुतः? अप्राप्तत्वाद् ब्राह्मणवैश्ययोः। कथम् अप्राप्तिः? क्षत्रियस्य राजसूयविधानात्, राजा राजसूयेन यजेतेति। ननूक्तम् - यौगिको राजशब्द इति। एतद् अप्य् अयुक्तम्, यतः जातिवचन इति। ननूभयाभिधाने यदिशब्दसंबन्धात्, प्रकरणाच् च न कर्मान्तरविधानं न्याय्यम् इत्य् उक्तम्। अत्रोच्यते - नोभयाभिधानम् अवकल्पते। कुतः? यदि तावज् जातिशब्दो राजेति, ततः तत्कर्मत्वाज् जनपदपरिपालने राज्यशब्दो भविष्यति, तेनार्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते। अथ यदि राज्यशब्दः परिपालने नित्यसंबद्धो भविष्यति, ततस् तस्य कर्तेति राजशब्दः क्षत्रियजातौ तन्निमित्तो भविष्यति, तत्रान्ध्राणां प्रयोगो न विरोत्य्स्यते। तस्मान् न प्रयोगदर्शनाद् उभाव् अपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसंबद्धाव् इत्य् अभ्युपगन्तव्यम्। को नु खलु निर्णयः? राजजातीयस्य कर्म [१७४]7 इत्य् अतः परिपालनं राज्यशब्देनोच्यते, एवं हि स्मरन्तो ऽभियुक्ताः तस्य कर्मेति ष्यञ्प्रत्ययं विदधति, न तु तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापत्तिं वा समामनन्ति। तस्माद् राज्ञः कर्म राज्यम्, न राज्यस्य कर्ता राजा। ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देनाभिवदति। उच्यते - योगाल् लोकः प्रयुङ्क्ते, परिपालने राज्यशब्दः प्रसिद्ध इति, स तु परिपालने राज्यशब्दो राजयोगाद् इत्य् अस्माभिर् उक्तम्, तस्माद् राजशब्दः प्रसिद्धेर् मूलम्, तद्योगाद् राज्यशब्दः, तदयोगाद्8 अपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते। न त्व् एवं स्मरन्ति, राज्ययोगाद् राजेति। यत् तूक्तम् - अनुमानाद् राज्यस्य कर्ता यः स राजा, यथा औदमेघेः पितोदमेघ इति। उच्यते - अनुमानात् प्रयोगो बलवान्, राज्यस्य कर्तारं राजेत्य् अनुमिमीमहे, क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानान् उपलभामहे। तथा योगम् अप्य् अनुमिमीमहे, राज्यस्य कर्ता राजेति। राज्ञः कर्म राज्यम् इति तु स्मरन्ति। अनुमिमानाश् च स्मृतिं अनुमिमते स्म, स्मरन्तस् तु प्रत्यक्षम् उपलभन्ते, तेन तत्र स्मृतिर् बलीयसीति। आह - यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते, न यद् राज्ञः कर्म तद् राज्यम् इति, तेन मन्यामहे, राज्ययोगो राजशदप्रवृत्तौ निमित्तम्, न तु राजयोगो राज्यशब्दप्रवृत्ताव् इति। न ब्रूमः, प्रयोगाद् वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तम् अवगच्छाम इति। कथं तर्हि? स्मरणात्, प्रयोगाच् च स्मृतिर् बलीयसी, प्रयोगाद् धि स्मृतिर् अनुमीयेत। [१७५]9 अपि च राज्ययोगस्य निमित्तता व्यभिचरति, जनपदपरिपालनम् अकुर्वत्य् अपि राजेत्य् आन्ध्रा वदन्तीत्य् उक्तम्। ननु राजयोगाद् राज्यम् इत्य् एतद् अपि व्यभिचरति, न हि राज्ञः स्यन्दितं10 निमिषितं च सर्वं राज्यम् इत्य् उच्यते। यदि वयं प्रयोगान् निमित्तभावं ब्रूयाम्, तत एवम् उपालभ्येमहि। स्मृत्या तु वयं निमित्तभावं ब्रूमः, तेन यद् यद् राजजातीयस्य कर्म जात्या विशेष्यते, तद् राज्यम् इत्य् अभ्युपगच्छामः। यत् तूक्तम् - आन्ध्रा अपि राज्ययोगाद् राजानम् अभ्युप-गच्छन्तीति, परिहृतम् एतत्, प्रयोगो दुर्बलः स्मृतेर् इति। यद् उक्तम् - आर्यावर्तनिवासिनः, प्रमाणम् इतरेभ्य आचारेभ्य इति। तुल्यः शब्दप्रयोग आचारेष्व् इत्य् उक्तम्। तस्माज् जातिनिमित्तो राजशब्दः, एवं चेद् यज्ञसंयोगात् क्षत्रियस्य राजसूयेन, यागविधिर् अवेष्टिर् इति।
आधाने सर्वशेषत्वात्11 ॥ MS_२,३.४ ॥
इदं समामनन्ति, वसन्ते ब्राह्मणो अग्नीन् आदधीत, ग्रीष्मे राज्यन्यः, शरदि वैश्य इति12। तत्र सन्दिह्यते - किं ब्राह्मणादिश्रवणं निमित्तार्थम्, ब्राह्मणादय आदधाना वसन्तादिष्व् आदधीरन्न् इति, उत ब्राह्मणादीनाम् आधानं विधीयत इति। कथं निमित्तार्थता स्यात्? कथं चाधानविधानम् इति। यदि ब्राह्मणो वसन्त इति पदद्वयं परस्परं संबद्धम्, ततो निमित्तार्थं श्रवणम्। अथ ब्राह्मण आदधीतेति, आधानविधानं ब्राह्मणस्य। एवं राजन्यादिष्व् अपि। किं तावत् प्राप्तम्? निमित्तार्थं श्रवणम् इति। कुतः? निमित्तसरूपा एते शब्दाः। किं निमित्तसारूप्यम्? ब्राह्मणा[१७६]13दीनां वसन्तादिभिः समुच्चारणम्, तच् चाविदितं वेद्यत इति। ननु ब्राह्मणादीनां आदधति नाप्य् अस्ति समुच्चारणम्। वाढम्14 अस्ति समुच्चारणम्, न त्व् अमीषाम् आधानसंबन्धो न विदितः। केन प्राप्तो विदित इति। कामश्रुतिभिः। काः कामश्रुतयः? अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः। कथमाभिः श्रुतिभिर् आधानं प्राप्तम् इति। उच्यते - सामर्थ्यात्, यथाग्निहोत्रम् अभिनिर्वर्त्यते, तथा कुर्यात्। यथा दर्शपूर्णमासाव् अभिनिर्वर्त्येते, तथा कुर्यात्। न च, गार्हपत्याहवनीयान्वाहार्यपचनादिभ्यो विना, एतानि कर्माणि सिध्यन्ति, समामनन्ति हि, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादि15। तेन सामर्थ्याद् एतद् उक्तं भवति - आहवनीयादि कर्तव्यम् इति, तच् चाधानेन विना न सिध्यतीत्य् आधानम् अपि कर्तव्यम् इत्य् अवगम्यते। तत् केन कर्तव्यम्? यस्य कामश्रुतयः। ताश् चाविषेशेण ब्राह्मणादीनाम्। तस्माद् अमीषाम् आधानसंबन्धो विदित इति। अपि च, उभाभ्यां ब्राह्मणादीनां संबन्धे विधीयमाने वाक्यम् भिद्येत। न हि, तदानीम् एको ऽर्थो विधीयते। अतो निमित्तार्थाः श्रुतय इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - आधाने सर्वशेषत्वात्16 प्रापकाण्याधानस्यैतानि श्रवणानि। कुतः? सर्वकर्मणां शेषभूतम् आधानम् इति न श्रुतिलिङ्गादीनाम् अन्यतमेनोच्यते, किं तर्हि, अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच् चाधानस्य। किम् अतः? यद्य् एवम्, अग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधान्म् इति। नन्व् अग्नीनाम् अभ्युपाय आधानम् इति। उच्यते - नैतेषाम् अर्जने आधानम् एवैको ऽभ्युपायः, किं तर्हि यथान्येषां द्रव्याणाम् उत्पादने [१७७]17 क्रयणादयश् चाभ्युपायाः, एवम् अग्नीनाम् अपीति न नियोगतः उत्पादनम् एव, तेन पक्षे आधानं प्राप्नोति, पक्षे न। यतरस्मिन् पक्षे ऽप्राप्तिः, ततरः पक्ष उत्पत्तिं प्रयोजयिष्यति ब्राह्मणादीनाम् आधानस्य, ब्राह्मण आत्मार्थम् आदधीतेति यदैतद् वचनम्, तदात्मार्थम् एवाहिता आहवनीयादयो भवन्ति, नान्यथा। एवं च सति, न कृत्रिमेण याचितेन वा कर्माण्य् अग्निहोत्रादीन्य् अनुष्ठातव्यानीति गम्यते। तेनाकृत्रिम एव केवलो ऽग्निस् तेषां साधक इति निश्चीयते। कथं चात्मार्थताधानस्य गम्यत इति। कर्त्रभिप्राये हि क्रियाफल आदधीतेत्य् एतद् आत्मनेपदं संभवति। असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत्। अपि च सतीष्व् एतास्व् आधानश्रुतिषु न कामश्रुतयः शक्नुवन्त्य् अपराम् आधानश्रुतिं कल्पयितुम्, यथा प्राप्तस्याधानस्य पुनःश्रुतयः एता भवेयुः, असतीष्व् एतास्व् आधानश्रुतिम् अपरिगृह्णन्तः18 कामश्रुतयो ऽशक्यान् अग्निहोत्रादीन् वदन्तीति परिगृह्णीयुर् आधानश्रुतिम्। सतीष्व् एतासु येषाम् आधानम् उक्तम्, तान् अधिकृत्योत्तरकालाः कामश्रुतयो भवन्तीति गम्यते। अत्राह - अस्ति केवलस्याधानस्य विधायिका श्रुतिः, एवं सपत्नं19 भ्रातृव्यम् अवर्ति सहते, य एवं विद्वान् अग्निम् आधत्त इति, तया प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति। उच्यते - संभारविधानार्था पुनःश्रुतिर् एषा। नेति ब्रूमः, भिन्नं हीदं वाक्यम् संभारविधानवाक्यात्, अन्यो ह्य् अर्थ आधत्त इति, अन्य अप उपसृजतीति, एकार्थविधाने ह्य् एकं वाक्यं भवति, भिन्नौ चेमाव् अर्थौ, तस्माद् अत्र वाक्यभेद इति। उच्यते - वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् अस्यां श्रुतौ सत्यां पुनःश्रुतिः केवलस्याधानस्याविधायिका, अपाम् उपसर्जनं तु [१७८]20 विधीयते, तद् एकस्मिन्न् अर्थे विधीयमाने नानेकार्थं भवति। नन्व् आधानस्यैतद् विधानम्, गुणार्था सा पुनःश्रुतिः। नेति ब्रूमः, सा ब्राह्मणादिसंबद्धा प्रथमा श्रुतिः, इयं केवला पुनःश्रुतिः। कुतः? सा हि शब्देन विदधाति, तत्र लिङ्गम् उच्चरन्तीं पश्यामः, इयं प्रशस्तम् आधानम् इत्य् आह। ततः प्रशस्तताम् आधानस्यानुमन्यामहे। एवं च, वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् एषा विधायिका श्रुतिर् इति ब्रूमहे, नैतत् प्रशंसावचनम् अस्मत्पक्षं बाधते, शक्यते ह्य् अन्येन विहितम् अन्येन प्रशस्तम् इति वदितुम्। यदि त्व् एतद् विधायकम् इत्य् उच्यते21, ततो ऽस्मत्पक्षं विरुध्येत। कथम्? अज्ञातस्य ज्ञापनं विधानम् एतत्, यदि प्राशंसावचनेनापूर्वं विज्ञाप्येत, तदा लिङ्गा नापूर्वं ज्ञापितं भवेत्, तत्रापूर्वज्ञापनवचनः शब्दः उपरुध्येत। न तु लिङ्गा विहिते प्रशंसावचनम् उपरुध्यते, विहिते ऽपि हि वाक्यान्तरेण प्रशंसावचनम् अवकल्पते। अपि च यल् लिङ्गा विधानम्, तत् श्रुत्या, वाक्येन तु प्रशंसा गम्यते, श्रुतिश् च वाक्याद् बलीयसी। नन्व् इदम् अपि वाक्यम्, ब्राह्मणो ऽग्नीन् आदधीतेति। उच्यते - स्वपदार्थम् अत्र श्रुतिर् विदधात्य् आधानम्, ब्राह्मणादिसंबन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं22 भ्रातृव्यम् अवर्ति सहत इति। नन्व् अनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति। नैष दोषः, अगुणविधिपरे हि वाक्ये भवत्य् अनेकगुणविधानम् इत्य् उक्तम्, तद्गुणास् तु विधीयेरन्न् अविभागाद् विधार्थे न चेद् अन्येन शिष्टा इति23। तस्माद् ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः, इयम् अपि केवलस्याधानस्य पुनःश्रुतिः संभारविधानम् उपक्रमितुम् इति सिद्धम्। यद् उक्तम् - अनेकगुणविधाने वाक्यं भिद्येतेति, यदीमौ गुणविधानविशिष्टौ24 विधीयेयाताम्, भवेद् वाक्यभेदः, द्वाभ्यां तु विशेषणाभ्यां विशिष्टम् एकम् आधानं विधायिष्यते, [१७९]25 तेन न भविष्यति वाक्यभेदः। तस्माद् ब्राह्मणादीनां आधानस्य प्रापकाणि श्रवणानीति सिद्धम्।
अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥ MS_२,३.५ ॥
दर्शपूणमासौ प्रकृत्यामनन्ति, दाक्षायणयज्ञेन यजेत प्रजाकामः, साकंप्रस्थाप्येन26 यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति27। तत्र संदेहः - किं दर्शपूर्णमासयोर् एव गुणात् फलम्, उत कर्मान्तरम् एवंजातीयकम् इति? किं प्राप्तम्? कर्मान्तरम् इति। कुतः? संज्ञोपबन्धात्, यद्य् अपि प्रकरणाद् यजतिशब्दाच् च स एव पूर्वप्रकृतो याग इति गम्यते, तथापि नासाव् एवंसंज्ञक इति यागान्तरं विधेयं गम्यते।
अगुणाच् च कर्मचोदना ॥ MS_२,३.६ ॥
न च, अत्र गुण उपरुध्यते कश्चित्, यद् विधानार्था चोदना भवेत्, यदि च न यागान्तरम्, आनर्थक्यम् एव। अपि च, यदि गुण उपबध्येत, ततो यागगुणसंबन्धो गम्यत इति तद् अनुष्ठानं विधीयेतेत्य् अननुबध्यमाने28 यागमात्रं गम्यत इति तद् अनुष्ठानं विहितं गम्यते।
समाप्तं च फले वाक्यम् ॥ MS_२,३.७ ॥
इतश् च कर्मान्तरम्। कथम्? फले समाप्तं वाक्यम्, प्राजाकामो यजेतेति, प्रजाकामस्य याग उपयो विधीयते। विधीयते चेत्, कर्मान्तरम्।
[१८०]29
विकारो वा प्रकरणात् ॥ MS_२,३.८ ॥
दर्शपूर्णमासयोर् एवाधिकार एवंजातीयकः स्याद् दाक्षायणयज्ञादिः, एवं प्रकरणम् अनुगृहीतं भवति।
लिङ्गदर्शनाच् च ॥ MS_२,३.९ ॥
लिङ्गम् अप्य् एतम् अर्थं दर्शयति, त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत, यदि दाक्षायणयाजी स्यात्, अथो अपि पञ्चदशैव वर्षाणि यजेत, अत्र ह्य् एव सा संपद्यते, द्वे हि पौर्णमास्यौ यजेत द्वे अमावस्ये, अत्र हि एव खलु सा संपद् भवतीति। यदि दाक्षायणयज्ञो दर्शपूर्णमासाव् एव, एवं तर्हि त्रिंशत्संपदा प्रयोजनम्, ततस् तस्य त्रिंशत्संपदनुग्रहो युज्यते, तस्माद् अपि न कर्मान्तरम्।
गुणात् संज्ञोपबन्धः ॥ MS_२,३.१० ॥
यद् उक्तं संज्ञोपबन्धात् कर्मान्तरम् इति, यदि दाक्षायणशब्दो न केनचिद् अपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुम्, तत उच्येत कर्मान्तरम् इति। शक्नोति त्व् आवृत्तिगुणसंबन्धाद् विदितुम्, अयनम् इत्य् आवृत्तिर् उच्यते, दक्षस्य इमे दाक्षाः, तेषाम् अयनं दाक्षायणम्। कः पुनर् दक्षः? उत्साही। तथा साकंप्रस्थाप्ये30 ऽपि, सहप्रस्थानं गुणसंबन्धः, एवं सर्वत्र। शक्यते चेद् दर्शपूर्णमासयोर् गुणसंबन्धो वदितुम्, किम् इति स एव यागः प्रतीयमानो ऽन्य इत्य् उच्यते? किम् इति वा प्रकरणं बाध्यते।
समाप्तिर् अविशिष्टा ॥ MS_२,३.११ ॥
यद् उक्तम्, फले वाक्यं समाप्तम्, प्रजाकामादेर् यागानुष्ठानं विधीयत इति31। नैवम्, अविशिष्टा फले समाप्तिः, यानि [१८१]32 अन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि (यथा दध्नेन्द्रियकामस्य जुहुयात्, इत्येवमादीनि)3334, तैर् एतद् अविशिष्टम्, अत्रापि हि गुणात् फलम् उच्यते। कथं नैतद् एवं संबध्यते, प्रजाकामस्य यज्ञम् अनुतिष्ठेद् इति? कथं तर्हि प्रजाकामस्यावृत्तियज्ञम् अनुतिष्ठेद् इति, आवृत्तियज्ञ इति यज्ञावृत्ति-संबन्धो ऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः? तस्मात् प्रकृतयोर् दर्शपूर्णमासयोर् गुणात् फलम् उच्यते, न यागान्तरं विधीयत इति। एवं साकंप्रस्थाप्ये35 संक्रमयज्ञे च द्रष्टव्यम् इति।
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् ॥ MS_२,३.१२ ॥
अनारभ्याधीयते किंचित्, वाक्यं श्वेतम् आलभेत भूतिकामः36; सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः37; दर्शपूर्णमासयोर् अप्य् आमनन्ति - ईषाम् आलभेत; चतुरो मुष्टीन् निर्वपतीति। तत्रायम् अर्थः सांशयिकः, किं दर्शपूर्णमासिके38 आलम्भे आलम्भो गुणविधिर् दर्शपूर्णमासिके39 च निर्वापे निर्वापो गुणविधिर् उत न प्रकृतिम् अपेक्षते इतरश् चेतवरश् चेति? यदा न प्रकृतिम् अपेक्षते, तदापि किं यावद् उक्ते, उत यजिमत्य् एते कर्मणीति? किं तावत् प्राप्तम्? प्रकृतयोर् आलम्भनिर्वापयोर् गुणविधीति। कुतः? अकर्मशब्दत्वात्, नात्र कर्मणो विधायकः [१८२]40 शब्दो ऽस्ति। नन्व् आलभेत निर्वपेद् इति च। नैतौ विधाताराव् अविदितस्यार्थस्य वक्ता विधायको भवति, न चैतयोर् अविदितो ऽर्थः, आलम्भः कर्तव्यः, निर्वापः कर्तव्य इति। तस्माद् अनुवदितारौ। किम् अर्थम् अनुवदतः? आलम्भने श्वेतं विधातुम्, निर्वापे च चरुम्। तस्मान् नालम्भान्तरं निर्वापान्तरं च। प्रकृतयोर् एव गुणविधीति।
यावद् उक्तं वा, कर्मणः श्रुतिमूलत्वात् ॥ MS_२,३.१३ ॥
न चैतद् अस्ति, प्राकृतयोर् गुणविधीति, किं तर्ह्य् आलम्भान्तरं विधीयत इति निर्वापान्तरं च, यद्य् आलम्भनिर्वापौ विधीयेते, ततो न प्राकृतौ तौ विहितौ। यदि न विधीयेते, ततः प्राकृतौ लक्ष्येते, याव् आलम्भनिर्वापौ कर्तव्याव् इति, ततः तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरुश् च, तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वाव् अप्य् अथा विधेयौ स्याताम्, तत्र वाक्यम् भिद्येत। अथ वा यो ऽसौ विधायकः शब्दः, स लक्षयितव्योपयुक्त इति विधायकाभावाद् एको ऽप्य् अर्थो न शक्यते विधातुम्। अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति। न, मिथो विधानलक्षणसंबन्धो ऽवकल्पते। अथ धात्वर्थो ऽनुवादः, प्रत्ययो विधातुम् इष्यत इत्य् उच्यते, य आलम्भः स एतद्गुणः कर्तव्य इति। तथापि न प्राकृतो लक्ष्येत, लौकिको ऽपि ह्य् आलम्भो ऽस्ति, प्रत्ययार्थे ऽनूद्यमाने प्राकृतो ऽनूद्येतेति, स हि कर्तव्यो निर्ज्ञातो न लौकिकः, अतो न प्राकृतानुवादो घट इति यावद् उक्तम् आलम्भमात्रं निर्वापमात्रं41 चापूर्वं कर्तव्यम्, कर्मणः श्रुतिमूलत्वात्, श्रुतिमूलं हि कर्मेत्य् उक्तम्, चोदनालक्षणो ऽर्थो धर्म इति42। तस्मात् कर्मान्तरे। [१८३]43
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसंबन्धात् ॥ MS_२,३.१४ ॥
यद् उक्तम्, न प्राकृतयोर् गुणविधीति, एतद् गृह्णीमः। यत् तूक्तम्, आलम्भमात्रं विधीयते, निर्वापमात्रम् इति, एतद् अपजानीमहे, यजिमती एते कर्मणीति। कुतह्? द्रव्यफलभोक्तृसंयोगाद् (द्रव्यदेवतासंयोगात्)44, द्रव्यदेवतासंयोगो ऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चस्कामस्य च। कथम्? न हि, इदम् एवोच्यते, ततः श्वेतम् आलभेतेति, यदि ह्य् एतावद् एवोच्येत, ततः श्वेतालम्भसंबन्धो ऽवगम्यते, इह हि श्वेतं वायव्यम् आलभेतेत्य् उच्यते, तेन श्वेतवायव्यसंबन्धो विधीयते, यथा पटं वयेति पटवयनसंबन्धो45 विधेयो ऽवगम्यते, पटं दीर्घं वयेति पटस्य दीर्घता विधीयते, दीर्घशब्दप्रयोगात्, एवम् इहापि सौर्यवायव्यशब्दप्रयोगाद् द्रव्यदेवताभिसंबन्धो विधेय इति गम्यते, इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्यते। नन्व् अत्रापि श्वेतं वायव्यं कुर्यात्, तं चालभेतेत्य् अर्थद्वयविधानाद् भिद्येतैव वाक्यम्। नेति ब्रूमः, न ह्य् आलभेतेत्य् अस्यायम् अतिभारः, यद् द्रव्यदेवतासंबन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्य् अर्थविशिष्टम्। श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते, वाक्येन च द्रव्यदेवताश्रय इति नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्, यथा रक्तम् अश्वं योजयेति यदा गुणविधिपरं भवति वाक्यम्, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनम्, गुणद्वयविधाने। अथ शोणमानयेत्य् उच्यते, तत्र गुणविधिपरे ऽपि वाक्ये पर्यवसित एव गुणद्वयविधानम्, श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वात्, न भवत्य् एकस्य वाक्यस्यातिभारः, एवम् इहापीति। संबन्धश् च बहुभिः पदैर् विशिष्ट एक एवोच्यत इत्य् एकार्थत्वम्, विभज्य[१८४]46मानानि चात्र पदानि साकाङ्क्षाणीत्य् उपपन्नम् एकवाक्यत्वम्, न च, यागम् अन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यम्, इत्य् एष संबन्धो ऽवकल्पते। तस्माद् यजिमती एते कर्मणीति।
लिङ्गादर्शनाच् च ॥ MS_२,३.१५ ॥
लिङ्गं खल्व् अप्य् एतम् अर्थं दर्शयति, सौमारौद्रं चरुं निर्वपेद् इति47 प्रकृत्य, परिश्रिते याजयेद् इति48 परिश्रयणविधिः, एतस्य वाक्ये यजतिशब्देन सङ्कीर्तनम् अवकल्पते, यदि यजिमती एते कर्मणी। अथ प्रकृतौ गुणविधानं यावद् उक्तं वा, यजतिशब्देनानुवादो नावकल्पेत। तस्माद् अवगच्छामो यजिमतीति।
विशये प्रायदर्शनात् ॥ MS_२,३.१६ ॥
किम् इहोदाहरणम्? न तावत् शूत्रेणैव परिगृहीतम्, यथा, अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानम् उच्यत इति49। नापि च साध्यं प्रतिज्ञातम्, यथा, अयनेषु चोदनान्तरम् इति5051। केवलं विशये संशये प्रायदर्शनं हेतुर् इति निर्दिश्यते, कस्यायं हेतुर् इति न विजानीमः। प्रकृतं यजिमद् एतत् कर्मेति52, तद् अपि न संबन्ध्यमानम् इव पश्यामः, तद् एतद् अगमकं53 सूत्रम् एव तावद् अनर्थकम्। अथ कात्र प्रतिज्ञा? कश् च सन्देह इति वक्तव्यम्। वृत्तिकारवचनात्, प्रतिज्ञां संशयं चावगच्छामः। अत्र भगवान् आचार्य इदम् उदाहृत्य वत्सम् आलभेत वत्सनिकान्ता हि पशव इति54, इमं संशयम् उपन्यस्यति स्म, किं यजिमदभिधान एष आलभतिः, उतालम्भमात्रवचन इति? उपपद्यते चैतद् उदाहरणम्, [१८५]55 संशयश् च। तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमद् अभिधान इति। इदं तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्व-पक्षेणातीव प्रयोजनम्, तथापि पुरुषाणाम् उच्चावचबुद्धिविशेषान् आलोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्य् आशङ्का, सापि निवर्तनीया, न हि, मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित् कदापि, तत्र चिकित्सा नादरेण कर्तव्या भवेत्। अतस्तां निवर्तयितुं पूर्वपक्षम् उपन्यस्यति स्म, आलभतिर् अस्माभिः प्राणिसंयुक्तो यजिमद् अभिधानो दृष्टः, अयम् अप्य् आलभतिः प्राणिसंयुक्तः एव, तेनायम् अपि यजिमद्वचन एवेति भवति कस्यचिद् आशङ्का। अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः, तस्यायम् अनुवादो वत्सविधानार्थः, तथा च फलम् न कल्पयितव्यं भविष्यतीति। एवं प्राप्ते ब्रूमः - अस्मिन् संशये आलम्भमात्रं संस्कारः। कुतः? प्रायदर्शनात्, यत्रान्यान्य्56 अपि संस्कारकर्माणि प्रायभूतानीत्य् उच्यन्ते, तत्रैतद् अपि श्रूयते। प्रायाद् अपि चार्थनिश्चयो भवति, यथा, अग्र्यप्राये लिखितो ऽग्र्य इति गम्यते। ननु लिङ्गं प्रायदर्शनम्, कथम् अनेन सिद्धिर् इति। उच्यते - यथा प्रायदर्शनेन सिध्यति, तथा वर्णयितव्यम्। कथं च प्रायदर्शनं हेतुः? न्यायतः प्राप्तौ सत्याम्। कः पुनर् न्यायः? देवतासंबन्धाभावान् न यागवचनो ऽदृष्टार्थत्वाच् च, वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति। तस्माद् एवं न्यायप्राप्ते प्रायदर्शनं द्योतकं भवति। तस्माद् आलम्भमात्रं संस्कारः।
अर्थवादोपपत्तेश् च ॥ MS_२,३.१७ ॥
अर्थवादश् च भवति, वत्सनिकान्ता हि पशव इति57, [१८६]58 यस्माद् वत्सप्रियाः पशवः, तस्माद् वत्स आलब्धव्य इति, यदि गां प्रस्तावयितुम्59 आलभ्यते, तत्रैतद् वचनम् अवकल्पते, अथ संज्ञपयितुम्, तत्रैवंजातीयकं वचनं नोपपद्यते। तस्माद् अप्य् आलम्भमात्रं संस्कार इति सिद्धम्।
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥ MS_२,३.१८ ॥
अस्त्य् अग्निः, तत्र नैवारश् चरुर् भवति, इत्य् उक्त्वा, यद् एनं चरुम् उपदधातीति समामनन्ति। तत्र सन्दिह्यते, किं चरुर् यागार्थो यागं कृत्वावशिष्ट उपधातव्यः, उतोपधानार्थ एवेति। यागार्थ इति ब्रूमः, चरोर् हि प्रसिद्धं कार्यं यागो नोपधानम्। उच्यते - यद्य् अपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसंबन्धाभावाद् यजतिशब्दासंबन्धाच् च न यागार्थतेति गम्यते। तद् उच्यते - तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर् वा एतद् अन्नं यन् नीवारा इति, तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति। तस्माद् यागार्थश् चरुर् इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - संयुक्तस् त्व् अर्थशब्देन कार्यशब्देनोपदधातीति तद् अर्थः एव स्याद् उपधानार्थः। उपदधातिना चास्य प्रत्यक्षम् एकवाक्यत्वम्, परोक्षं देवतावचनेनानुमेयम्, चरुम् उपदधातीति हि प्रत्यक्षं वाक्यम्। बार्हस्पत्यम् उपदधातीत्य् आनुमानिकम्। तस्मात् कृत्स्नश् चरुर् उपधातव्यः, ततश् च्चेत् किंचिद् इज्यायां विनियुज्येत, तद् अन्यत्र श्रुतम् अन्यत्र कृतं भवेत्। यत् तु बार्हस्पत्या नीवारा इति, अर्थवादः स इति। यत् तूक्तम् - प्रसिद्धा चरोर् यागार्थतेति, प्रसिद्धिर् वाक्येन बाध्यते। तस्माद् उपधानार्थ इति सिद्धम्।
[१८७]60
पात्नीवते तु पूर्वत्वाद् अवच्छेदः ॥ MS_२,३.१९ ॥
त्वाष्ट्रं पात्नीवतं विधायेदम् उच्यते61, यत् पर्यग्निकृतं पात्नीवतम् उत्सृजन्तीति। तत्र सन्देहः, किं त्वाष्ट्रस्य पर्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद् यागान्तरम् इति। यदि पर्यग्निकृतम् उत्सृजन्तीति पदद्वयं परस्परेण संबद्धम्, ततस् त्वाष्ट्रस्योत्सर्गः, अथ पात्नीवतशब्द उत्सृजतिना संबध्येत, ततो यागान्तरम्। किं तावत् प्राप्तम्? यागान्तरम् इति। कुतः? पूर्वस् त्वाष्ट्रः पात्नीवतश् च, उभयविशेषणविशिष्टः कथं पात्नीवतशब्देनानूद्येत। अपि च त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्यग्निकृतम् इति विशेषणं नावकल्पेत। अतो ब्रूमः - पर्यग्निकृतस्य पात्नीवतता विधीयते, स एव याग इति। एवं प्राप्ते ब्रूमः - न कर्मान्तरम्, पूर्वस्यैवोत्सृजतिशब्देनावच्छेदो विधीयते। किम् एवं भविष्यति। यजिमत्ता तावत् कल्पयितव्या न भविष्यति, उत्सृजतिशब्दश् च श्रुत्योत्सर्गं विदधद् वाक्येन न बाधितो भविष्यति, कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायाम् अर्थात् प्राप्त उत्सर्गो धातुनानूद्येत। अपि च पर्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव, सा विधातुम् न शक्यते। तस्मात् पूर्वस्य कर्मणो ऽवच्छेदः। यत् तूक्तम्, त्वाष्ट्रस्योत्सर्गो विधीयमाने पर्यग्निकृतम् इति विशेषणं तावन् नावकल्पेतेति, नैष दोषः, अतन्त्रम् एवात्र पात्नीवतशब्दो नासौ विशेष्यते, अत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयानूद्येतेति न दोषः। तस्माद् अवच्छेद इति सिद्धम्।
[१८८]62
अद्रव्यत्वात् केवले कर्मशेषः स्यात् ॥ MS_२,३.२० ॥
न कस्यचिद् अपि प्रकरणे श्रूयते, एष वै हविषा हविर् यजते यो ऽदाभ्यं गृहीत्वा सोमाय यजत इति, तथा परा वैतस्यायुः प्राण एति यो ऽंशुं गृह्णातीति63। तत्र सन्देहः, किं यागान्तरम् एतद् ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिर् इति। किं प्राप्तम्? यागान्तरम् इति। कुतः? अपूर्वनामधेयसंयोगात्, न प्रकृताव् एतन् नामधेयको यागो ऽस्ति, न ग्रहः कश्चिद् यो ऽभ्यस्येत। तस्माद् यागान्तरम्। ननु द्रव्यदेवतं न श्रूयते। मा भूद् द्रव्यदेवतम्, साक्षाद् एव यजतिशब्दो विद्यते। तस्मात् कर्मान्तरम् अदाभ्यसंज्ञकम्, अंशुसंज्ञकं च यागं करोतीत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - अद्रव्यदेवताके केवले नामधेये श्रूयमाणे ब्रूमः, ज्योतिष्टोमे एव ग्रहाभ्यासविशेषविधानम् इति। कुतः? एतत् तावद् ग्रहस्य नामधेयं न यागस्य, ग्रहणेन साक्षात् संबन्धात्, व्यवहितत्वाद् यागस्य। अंशुर् इति च मुक्तसंशयम् एव ग्रहनामधेयम्, न च ग्रहभेदे यागभेदो भवति, न च, द्रव्यदेवतं श्रूयते। यतो गृह्णातिर् यजिमद्वचनो भवेत्, यद् अप्य् उक्तम्, साक्षाद् अत्र यजतिशब्दो विधायक इति, नैवं शक्यं कर्मान्तरं विधातुम्, विहितयागवचनो हि सः, विशेषाभावात्। तस्माद् यजतिना ज्योतिष्टोम एवोच्यते, अंश्वदाभ्यशब्दाभ्याम् अप्य् अपरौ ग्रहाभ्यासौ विधीयेत इति सिद्धम्।
[१८९]64
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत ॥ MS_२,३.२१ ॥
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति, एवं विधाय श्रूयते, अथातो ऽग्निम् अग्निष्टोमेनैवानुयजति, तम् उक्थेन, तम् अतिरात्रेण, तं षोडशिनेत्येवमादि65। तत्र सन्देहः, किम् अयम् अग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं चिनुत इत्य् आख्यातेन विधीयते, उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानम् इति। किं प्राप्तम्? यागवचन इति। कुतः? लिङ्गदर्शनात्, लिङ्गं हि दृश्यते, अग्नेः स्तोत्रम् अग्नेः शस्त्रम् इति तथा, षडुपसद्ः ऽग्नेः चित्यस्य भवन्तीति, यस्य स्तोत्रं शस्त्रम् उपसदश् च तस्याग्निशब्दो वाचक इति गम्यते, यागस्यैतत् सर्वम्, तस्मात् यागवचन इति। ननु लिङ्गम् असाधकम्, प्राप्तिर् उच्यताम् इति। अत्रोच्यते - अथातो ऽग्निम् अग्निष्टोमेनैवानुयजतीति यागम् अभिनिवर्तयतीत्य् उच्यते, तम् अग्निम् इति विशिनष्टि। तस्माद् अग्निसंज्ञक इति गम्यते। अनुशब्दो ऽप्य् उपसर्गो यजतेर् विशेषक एवम् उपपद्यते, यद्य् अग्निर् यागः। तस्मात् क्रतुशब्दः प्रतीयेत।
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् ॥ MS_२,३.२२ ॥
द्रव्यं वाग्निशब्देनोच्येत। कतमद् द्रव्यम्? यद् एतज् ज्वलनः, अत्र ह्य् एष प्रसिद्धः। चिनुत इत्य् एषा हि चोदना चयनार्था न यजत्य् अर्थं शक्नोति वदितुम्, चयनेनैनं संस्कुरुते चितौ स्थापयतीति। अनुशब्दश् च पश्चाद् अर्थो भविष्यति, चयने निर्वृत्ते पश्चाद् अग्निष्टोमेन यागेन यजतीति।
[१९०]66
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि ॥ MS_२,३.२३ ॥
यत् तु लिङ्गदर्शनम् उक्तम्, यागवचनो ऽग्निशब्द इति, तत् तेष्व् एव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र, तेषु चित्याग्निसंयोगात्, यागे लक्षणशब्दः, तेन क्रतुवचनानि तद्धर्मविधानानीत्य् अदोषः।
प्रकरणान्तरे प्रयोजनान्यत्वम् ॥ MS_२,३.२४ ॥
कुण्डपायिनाम् अयने श्रूयते, मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजत इत्येवमादि। तत्र सन्दिह्यते, किं नियते ऽग्निहोत्रे नियतयोश् च दर्शपूर्णमासयोर् मासो विधीयते कालः, अथ किं नियताग्निहोत्रान् नियताभ्यां च दर्शपूर्णमासाभ्यां कर्मान्तरविधानम् इति। किं तावत् प्राप्तम्? नियतेषु कालविधिर् इति। कुतः? कालविधिसरूप एष शब्दो मासम् इति। कथं कालविधिसरूपता? यद् अग्निहोत्रं जुहोतीति विदितम्, मासम् इत्य् अविदितम्। एवं चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश् च नार्थान्तरवृत्तौ भविष्यतः, तस्मात् कालविधिः। ननु कुण्डपायिनाम् अयनप्रकरणं बाध्येतैवम्। कामं बाध्यताम्, वाक्यं हि बलवत्तरम्। एवं प्राप्ते ब्रूमः - प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुम् अर्हति। ननु प्रत्यक्षो ऽग्निहोत्रस्य दर्शपूर्ण[१९१]67मासयोश् च गुणविधिः। न, इत्य् उच्यते। कथम्? उपसिद्धश् चरित्वेति ह्य् उक्त्वेदम् अभिधीयते, न च, उपसदो ऽग्निहोत्रस्य दर्शपूर्णमासयोश् च सन्ति। तस्माद् अशक्यस् तत्र मासविधिः। अथोच्यते, उपसदो ऽपि विधीयन्त इति। तथा गुणविधानार्थो ऽस्मिन् वाक्ये ऽनेकगुणविधानाद् वाक्यं भिद्येत। अस्मिन् पक्षे पुनर् अतन्त्रम् अग्निहोत्रशब्दो न कर्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति। तस्मात् कर्मान्तरम् इति सिद्धम्।
फलं चाकर्मसन्निधौ ॥ MS_२,३.२५ ॥
अनारभ्य किंचिच् छ्रूयत आग्नेयम् अष्टाकपालं निर्वपेद् रुक्कामः68; अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्रह्मवर्चसकामः69; ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकाम इति70। अत्र सन्दिह्यते, किं प्राकृतेष्व् आग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्य् एतानि? किं प्राप्तम्? प्राकृतेषु फलविधिर् इति। कुतः? विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते, तस्मात् तेषाम् अनुवादः फलसंबन्धार्थ इति। एवं प्राप्ते ब्रूमः - फलं च भेदकम् अकर्मसन्निधौ श्रूयमाणम्। कथम्? अनुवादे सति न शक्येत फलं विधातुम्, विधायकस्याभावात्, न हि, अविधीयमानो ह्य् उपायो रुचो भवतीति गम्यते। अपि च रुक्कामे ऽत्र विधीयमाने कामस्य [१९२]71 अनित्यत्वात्, आग्नेयादीनां नित्यत्वात् संबन्धो नावकल्पेत। एवं सर्वत्र। तस्मात् कर्मान्तराणि।
सन्निधौ त्व् अविभागात् फलार्थेन पुनःश्रुतिः ॥ MS_२,३.२६ ॥
अस्त्य् अवेष्टिः, आग्नेयो ऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः, तां प्रकृत्योच्यते, एतयान्नाद्यकामं याजयेतेति। तत्र सन्देहः - किं कर्मान्तरम् अवेष्टेर् उतावेष्टिर् एवेति? किं प्राप्तम्, कर्मान्तरम् इति, उक्तेन न्यायेन। एवं प्राप्ते ब्रूमः - सन्निधौ फलार्थेन पुनःश्रुतिर् अवेष्टेर् एव, न कर्मान्तरम् इति। कुतः? अविभागात्, एतयेत्य् एष शब्दो न शक्नोत्य् अवेष्ट्या विभक्तं यागम् अन्यं वक्तुम्, सन्निहितस्य प्रतिनिर्देशक एष शब्दः। तस्माद् अवेष्टिर् एवान्नाद्यकामस्य विधीयत इति। किं प्रयोजनम्? यद्य् अवेष्टिः, आग्नेयादीनि हवींषि। अथ कर्मान्तरम्, अन्यहविष्को याग इति।
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत ॥ MS_२,३.२७ ॥
दर्शपूर्णमासयोर् आग्नेयो ऽष्टाकपालो ऽमावास्याभ्यां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनर् उच्यते, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतीति। तत्र सन्देहः - किम् अमावास्यायां द्विर् आग्नेयेन यष्टव्यम्, उत सकृद् इति। किं प्राप्तम्? आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्याद् इति72।
[१९३]73
अविभागात् तु कर्मणा74 द्विर् उक्तेर् न विधीयते ॥ MS_२,३.२८ ॥
नैतद् अस्ति, पुनर् अभ्यसितव्य आग्नेय इति। कुतः? न, अभ्यासस्य वाचकः शब्दो ऽस्तीति। नन्व् आग्नेयः पुनरुच्चरितः परं कर्म विधास्यति। नेति ब्रूमः, शब्दः पुनरुच्चरितो75 न पुनर् अर्थः कर्तव्य इति शक्नोति वदितुम्, यो ऽस्य प्रथमम् उच्चरितस्यार्थः, शतकृत्वो ऽप्य् उच्चरितस्य स एवार्थो भविष्यति, नान्यः। ननु विहितम् एव पुनर् विशिष्टं विदधद् अनर्थको भवति। भवतु कामम् अनर्थकत्वम्, न त्व् अन्यं शक्नोति वदितुम्, भवेद् उपपन्नम् अनर्थकत्वम्, न त्व् अर्थान्तरवचनता। तस्मान् न द्विर् अभ्यस्येतेति।
अन्यार्था वा पुनःश्रुतिः ॥ MS_२,३.२९ ॥
अथ वा, नानर्थिका पुनःश्रुतिः, अर्थवादार्था भविष्यतीत्य् उच्यते। किम् अर्थवादेन प्रयोजनम्? यदा पूर्वेनैव वाक्येन सार्थवादकेन विहितः आग्नेयः, कमन्यम् अर्थं विधातुम् श्रुतिः76 प्रयुज्येत? श्रुतिमात्रं77 यन् न कस्यचिद् विधानार्थम्, तद् अनर्थकम्, इत्य् उक्तम्, आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानाम् इति78, श्रुतश् चाश्रुतश्79 च तावान् एव सो ऽर्थः, यथा श्रुता चाश्रुता80 च देवता अङ्गभावं साधयति, एवम् एतद् इति। तद् उच्यते - अन्यार्था वा पुनःश्रुतिः, न आग्नेयं विधातुम्, ऐन्द्राग्नविधानार्था, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवत्य् एव, न केवलेनाग्निना स साधुर् भवतीतीन्द्रसहितो ऽग्निः समीचीनतरः, तस्माद् ऐन्द्राग्नः कर्तव्य इति।
[१९४]81
-
E2,4,5,6 (richtig): jagatsāmā ↩︎
-
E2: 3,143; E4: 3,309; E5: 2,549; E6: 1,115 ↩︎
-
E2: 3,145; E4: 3,310; E5: 2,551; E6: 1,116 ↩︎
-
E2: 3,147; E4: 3,321; E5: 2,553; E6: 1,117 ↩︎
-
E2: 3,151; E4: 3,329; E5: 2,555, E6: 1,118 ↩︎
-
E2: 3,154; E4: 3,330; E5: 2,558; E6: 1,118 ↩︎
-
E2: 3,157; E4: 3,330; E5: 2,561; E6: 1,119 ↩︎
-
E2,4,5,6: tadayogād ↩︎
-
E2: 3,160; E4: 3,331; E5: 2,563; E6: 1,120 ↩︎
-
E2,4,5,6: spanditaṃ ↩︎
-
E1,6; E2,4,5: ‘sarvaśeṣatvāt ↩︎
-
Tait.Br. 1.1.2.6-7 ↩︎
-
E2: 3,164; E4: 3,353; E5: 2,564; E6: 1,120 ↩︎
-
E1,5; E2,4,6: bāḍham ↩︎
-
Tait.Br. 1.1.10.5-6 ↩︎
-
E2,4,5,6: ‘sarvaśeṣatvāt ↩︎
-
E2: 3,166; E4: 3,354; E5: 2,569; E6: 1,121 ↩︎
-
E1,6; E2,4,5: aparigṛhṇantyaḥ ↩︎
-
E2,4: saṃpannaṃ ↩︎
-
E2: 3,168; E4: 3,355; E5: 2,570; E6: 1,122 ↩︎
-
E2,4,5,6: ucyeta ↩︎
-
E2,4: saṃpannaṃ ↩︎
-
MS 1.4.9 ↩︎
-
E1,6; E2,4,5: guṇavādhānaviśiṣṭau ↩︎
-
E2: 3,170; E4: 3,355; E5: 2,571; E6: 1,123 ↩︎
-
E2,4,5,6, E1 (v.l.,Fn.): sākaṃprasthāyīyena ↩︎
-
Vgl. Tait. S. 2.5.4.3 ↩︎
-
E2,4,5,6: anupabadhyamāne ↩︎
-
E2: 3,172; E4: 3,369; E5: 2,572; E6: 1,123 ↩︎
-
E1,6; E2,4: sākaṃprasthāyīye, E5: sākaṃprasthāyye ↩︎
-
Vgl. MS 2.3.7 ↩︎
-
E2: 3,175; E4: 3,374; E5: 2,575; E6: 1,124 ↩︎
-
In E1 geklammert ↩︎
-
Vgl. Tait.Br. 2.1.5.6 ↩︎
-
E1,6; E2,4: sākaṃprasthāyīye, E5: sākaṃprasthāyye ↩︎
-
Tait.S. 2.1.1.1 ↩︎
-
Tait.S. 2.3.2.3 ↩︎
-
E1,6; E2,4,5: dārśapūrṇamāsike ↩︎
-
E1,6; E2,4,5: dārśapūrṇamāsike ↩︎
-
E2: 3,175; E4: 3,375; E2: 2,577; E6: 1,125 ↩︎
-
E2,4 om. nirvāpamātraṃ ↩︎
-
MS 1.1.2 ↩︎
-
E2: 3,178; E4: 3,383; E5: 2,579; E6: 1,125 ↩︎
-
In E1 geklammert ↩︎
-
E2,4 (v.l.): paṭavānasaṃbandho ↩︎
-
E2: 3,179; E4: 3,384; E5: 2,582; E6: 1,126 ↩︎
-
Tait.S. 2.2.10.1 ↩︎
-
Tait.S. 2.2.10.2 ↩︎
-
MS 2.3.3 ↩︎
-
E2,4,6 om iti ↩︎
-
MS 2.3.5 ↩︎
-
Vgl. MS 2.3.14 ↩︎
-
E2: gamakaṃ ↩︎
-
Vgl. Tait.S. 2.1.4.8 ↩︎
-
E2: 3,181; E4: 3,388; E4: 2,583; E6: 1,127 ↩︎
-
E2,4: atrānyāny ↩︎
-
Vgl. Tait.S. 2.1.4.8 ↩︎
-
E2: 3,183; E4: 3,393; E5: 2,585; E6: 1,128 ↩︎
-
E1,6; E2,4,5: prasnāvayitum ↩︎
-
E2: 3,186; E4: 3,398; E5: 2,587; E6: 1,128 ↩︎
-
Vgl. Kāṭha.S. 30.1 ↩︎
-
E2: 3,189; E4: 3,406; E5: 2,591; E6: 1,129 ↩︎
-
Tait.S. 3.3.4.1 ↩︎
-
E2: 3,191; E4: 3,411; E5: 2,594; E6: 1,130 ↩︎
-
Tait.S. 5.5.2.1 ↩︎
-
E2: 3,193; E4: 3,417; E5: 2,597; E6: 1,130 ↩︎
-
E2: 3,195; E4: 3,419; E5: 2,599; E6: 1,131 ↩︎
-
Vgl. Tait.S. 2.2.3.3 ↩︎
-
Tait.S. 2.3.3.3 ↩︎
-
Tait.S. 2.2.1.1 ↩︎
-
E2: 3,201; E4: 3,430; E5: 602; E6: 1,131 ↩︎
-
MS 2.2.2 ↩︎
-
E2: 3,204; E4: 3,441; E5: 2,605; E6: 1,132 ↩︎
-
E1,6; E2,4,5: karmaṇo ↩︎
-
E2,4: punaruccārito ↩︎
-
E1,6; E2,4,5: stutiḥ ↩︎
-
E1,6; E2,4,5: stutimātraṃ ↩︎
-
MS 1.2.1 ↩︎
-
E1,6; E2,4,5: stutaś cāstutaś ↩︎
-
E1,6; E2,4: stutā vāstutā vā, E5: stutā cāstutā ca ↩︎
-
E2: 3,207; E4: 3,446; E5: 2,607; E6: 1,133 ↩︎