भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते ॥ MS_२,१.१ ॥
प्रथमे ऽध्याये प्रमाणलक्षणं वृत्तम्, तत्र विध्यर्थवादमन्त्रस्मृतयस् तत्त्वतो निर्णीताः, गुणविधिर् नामधेयं च परीक्षितम्, सन्दिग्धानाम् अर्थानां वाक्यशेषाद् अर्थाध्यवसानम् उक्तम्। तन् न प्रस्मर्तव्यम्। अनन्तरं प्रधानाप्रधानानि1 परीक्षिष्यन्ते, भिन्नान्य् अभिन्नानि चेति, एष एवार्थो वर्णनीयो नान्यः, एष एव चाध्यायसंबन्धः। तद् इह षड्विधः कर्मभेदो वक्ष्यते - शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयम् इति वक्ष्यमानम् अनुसंकीर्त्यते। प्रदर्शितम् उच्यमानं सुखं ग्राहयिष्यत इति श्रोतुश् च बुद्धिः समाधीयते, तद् एतन् नानाकर्मलक्षणम् इत्य् अध्यायम् आचक्षते, एतत् तात्पर्येण, अतो ऽन्यद् उपोद्घातप्रसक्तानुप्रसक्तं2 चेति। तत्र प्रथमं तावद् इदं चिन्त्यते - प्रथमे ऽध्याय इदम् उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति 3, चोदना च क्रियाया अभिधायकं वाक्यम्, वाक्ये च पदानाम् अर्थाः, तत्र किं पदेन पदेन धर्म उच्यते4, उत सर्वैर् एक एवेति। किं तावत् प्राप्तम्? प्रति पदं धर्म इति। एवं प्राप्त उच्यते - यदैकस्माद् अपूर्वम्, तदान्यत् तदर्थं [१०९]5 भविष्यति, एवम् अल्पीयस्य् अदृष्टानुमानप्रसण्गकल्पना भविष्यति। तस्माद् एकम् अपूर्वम्। यदैकम्, तदा सन्देहः - किम्, भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति?. कः पुनर् भावः? के ते पुनर् भावशब्दा इति? यजति ददाति जुहोतीत्येवमादयः। ननु यागदानहोमशब्दा एते, न भावशब्दाः। नैतद् एवम्। यागादिशब्दाश् चैते भावशब्दाश् च, यज्याद्यर्थश् चातो ऽवगम्यते, भावयेद् इति च। तथा यतेत, यथा किंचिद् भवतीति। तेनैते भावशब्दाः, द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः। अतस् ते न भावशब्दा इति। किं तावत् प्राप्तम्? अविशेषेणेति। तत उच्यते - भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः। कुतः? भावार्थत्वाद् एव। य आहुः - किम् अपि भावयेद् इति, ते स्वर्गकामपदसंबन्धात् स्वर्गं भावयेद् इति ब्रूयुः। तस्मात् तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिर् इति। ते च यागदानहोमसंबद्धाः स्वर्गस्योत्पत्तिं वदन्ति। कुतः? एष ह्य् अर्थो विधीयते, यथा - यागादिना स्वर्गकामः केन भावयेत् स्वर्गम्? यागादिनेति। यस्य च शब्दस्यार्थेन फलं साध्यते, तेनापूर्वं कृत्वा, नान्यथेति, ततो ऽपूर्वं गम्यते, अतो यः तस्य वाचकः शब्दः, ततो ऽपूर्वं प्रतीयत इति। तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः। न तु कश्चिच् छब्दः साक्षाद् अपूर्वस्य वाचको ऽस्ति। भावार्थैः किम् अपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति, तयोर् नष्टाश्वदग्ध-रथवत् संप्रयोगः, यजेतेत्येवमादयः साकाङ्क्षाः, यजेत किं केन कथम् इति। स्वर्गकाम इत्य् अनेन प्रयोजनेन निराकाङ्क्षाः। नैवं द्रव्यगुणशब्दाः। तस्माद् भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति। अथ कस्माद् उभयं [११०]6 सूत्रितम्7 - भावार्थाः कर्मशब्दा इति। उच्यते - भवन्ति केचित् कर्मशब्दा न भावार्थाः, यथा श्येनैकत्रिकादयः8। केचिद् भावार्था न कर्मशब्दाः, यथा भवनं भावो भूतिर् इति। किं पुनर् इहोदाहरणम्? श्येनेनाभिचरन् यजेत9, चित्रया यजेत पशुकाम इति10। किं श्येनेनाभिचरन्न् उत यजेताभिचरन्न् इति? तथा चित्रया पशुकामः, उत पशुकामो यजेतेति स्थिते एतस्मिन्न् अधिकरणे गुणविधिः, नामधेयम् इति विचारो भविष्यति। तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति, दर्शः कालः, पूर्णमास इति च, किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति, दर्शपूर्णमासाभ्याम् इति च श्येनेनेति च चित्रयेति च नैते भाववचनाः। न च एषाम् अर्थिना कश्चित् संबन्धो ऽस्ति, विविभक्तिकत्वात्। तस्मान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति।
सर्वेषां भावो ऽर्थ इति चेत् ॥ MS_२,१.२ ॥
एवं चेद् भावन् पश्यति, अभावशब्दत्वान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावो ऽर्थः, स्वर्गकामो दर्शपूर्णमासाभ्याम् इत्य् एतयोः संबन्धं यजेतेति वक्ष्यति, श्येनेनाभिचरन्न् इत्य् एतयोश् च, तथा चित्रया पशुकाम इति। तस्माद् एते ऽपि साकाङ्क्षत्वाद् भाववचनाः। सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्मशब्दा एवापूर्वस्य विधायकाः, न द्रव्यगुणशब्दा इति।
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि, तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगे ॥ MS_२,१.३ ॥
येषां शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयुज्यमानानां रूप[१११]11म् उपलभ्यते, यत् सकृद् उत्पन्नं कालान्तरन् तिष्ठति, न क्रियेवोत्पन्नमात्रं विनश्यतीत्य् अर्थः, तानि नामानि, ते द्रव्यगुणशब्दाः, ईदृशो द्रव्यगुणशब्दानाम् अर्थः। ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्, अतो नामानीति एषां पर्यायशब्दः। कथं गम्यते? यत एषां विभक्तयो नामिक्य उच्यन्ते। कतमास्ताः? वृक्षः12 वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः। तस्मात् सम्यक् सूत्रितम्। यत एषां न क्षणिको ऽर्थः, ततः तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यत - इति नैषाम् उत्पत्तिः कर्तव्या, भूतत्वात् स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वाद् इत्य् अर्थः।
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते, तान्य् आख्यातानि। तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य ॥ MS_२,१.४ ॥
येषां तु शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयोगो न विद्यते। प्रयोगकाले येषाम् अर्थो नोपलभ्यत इत्य् अर्थः, तन्य् आख्यातानीति भावशब्दान् पर्यायशब्देनोपदिशति। कथं पर्यायशब्दता भावशब्दानाम्। यत एषां विभक्तय आख्यातिक्य इत्य् उच्यन्ते। कतमास्ताः? पचति पचतः पचन्तीत्येवमाद्यः। तस्मात् तेभ्यो ऽपूर्वं प्रतीयेत। भव्यार्थास् ते भूतार्थैः समुच्चरिताः। भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनयत उत्पत्तिर् अर्थवती, सा च भूतेन क्रियत इति दृष्टो ऽर्थः। भव्यस्य पुनर् भूतार्थतायां न किञ्चिद् दृश्यते, कल्प्यते चादृष्टम्। तस्मान् न यागो द्रव्यार्थः। किं च - आश्रितत्वात् प्रयोगस्यैतेषां प्रयोगः पुरुषेणाश्रितो भवति, पुरुषसंबद्धा भावनोच्यते, पुरुषं हि वदति, भावयेद् इति, तेन स्वर्गकामो यजेतेति पुरुषो ऽपि प्रतीयते[११२]13, यागो ऽपि संबन्धो ऽपि। स्वर्गकामो द्रव्येणेति द्रव्ये14 प्रतीयते पुरुषश् च, न तु संबन्धः।
ननु एतद् उक्तं भवति, अर्थिनश् च द्रव्यस्य च संबन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेद् इति। अतो द्रव्येणार्थस्य भावना गम्येत, आकाङ्क्षा चेति। सत्यं गम्यते, द्रव्येण भावयेद् इति तु वाक्येन, यागेन भावयेद् इति तु श्रुत्या। यदा तु, यागेन भावायेद् इति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेद् इति द्रव्यसंबन्धः। न च द्रव्यसंबन्धे विधीयमाने यजेतेत्य् अनेन संबन्धः। अनूद्यमाने तु संभवति, न च, यौगपाद्येन विध्यनुवादौ संभवतः। तस्माच् छ्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिबलीयसी, तेनार्थिना न द्रव्यसंबन्धः। तत्र द्रव्यम् असति स्वर्गकामसंबन्धे स्वर्गार्थं भविष्यतीत्य् अनुपपन्नम्, एष विनिगमनायां हेतुः, येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति, यदा यागेन कुर्याद् इति, तदा15 यागवचनम् एव भवति। दर्शपूर्णमासाभ्याम् इति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति।
कथं पुनर् इदम् अवगम्यते, अस्ति तद् अपूर्वम् इति। उच्यते -
चोदना पुनर् आरम्भः ॥ MS_२,१.५ ॥
चोदनेत्य् अपूर्वं ब्रूमः, अपूर्वं पुनर् अस्ति, यत आरम्भः शिष्यते - स्वर्गकामो यजेतेति, इतरथा हि विधानम् अनर्थकं स्यात्, भङ्गित्वाद् यागस्य, यद्य् अन्यद् अनुत्पाद्य यागो विनश्येत्[११३]16, फलम् असति निमित्ते न स्यात्। तस्माद् उत्पादयतीति। यदि पुनः फलवचनसामर्थ्यात् तद् एव न विनिश्यतीति कल्प्यते। नैवं शक्यम्। न हि कर्मणो ऽन्यद् रूपम् उपलभामहे, यद् आश्रयं देशान्तरं प्रापयति, तत्17 कर्मेत्य् उच्यते, न तद् आत्मनि समवेतम्, सर्वगतत्वाद् आत्मनः, सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्, न तु18 तद् एव देशान्तराद् आगमनस्य, न ह्य् असत्य् आगमने किंचिद् विरुद्धं दृश्यते। यत्र समवेतम् आसीत्, तद् विनष्टं द्रव्यम्, तस्य विनाशात् तद् अपि विनष्टम् इत्य् अवगम्यते। आश्रयो ऽप्य् अविनष्ट इति चेत्। न, भस्मोपलम्भनात्। सत्य् अपि बस्मन्य् अस्तीति चेत्। न विद्यमानोपलम्भने ऽप्य् अदर्शनात्। फलक्रिया लिङ्गम् इति चेत्। एवं सत्य् अदर्शने समाधिर् वक्तव्यः। सौक्ष्मादीनाम् अन्यतमद् भविष्यतीति यदि चिन्त्यते, कल्पितम् एवं सति किंचिद् भवतीति। तत्रापूर्वं वा कल्प्येत तद् वेति। अविशेषकल्पनायाम् अस्ति हेतुः, न विशिष्टकल्पनायाम्। अनाश्रितं कर्म भविष्यतीति चेत्। तद् अपि तादृशम् एव। स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति। तादृशम् एव। तस्माद् भङ्गी यजिः, तस्य भङ्गित्वाद् अपूर्वम् अस्तीति। किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्य् अपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिर् उपादातव्यः, यथा तर्हि पूर्वः पक्षः। यथा तर्हि सिद्धान्तः, द्रव्यं गुणं वा प्रतिनिधाय प्रयोगो ऽनुष्ठातव्य इति
तानि द्वैधं गुणप्रधानभूतानि ॥ MS_२,१.६ ॥
अवगतम् एतत्, भावशब्दाः कर्मणो वाचका इति, बहुप्रकाराश् च भावशब्दाः, यजति, जुहोति, ददातीति, एव[११४]19ंप्रकाराः, दोग्धि, पिनष्टि, विलापयतीत्येवमादयश् च। तेषु सन्देहः - किं सर्वे प्रधानकर्मणो विधायकाः, उत केचित् संस्कारकर्मण इति। भावार्थत्वाविशेषात् सर्वे प्रधानकर्मणो वाचका इति प्राप्तम्। ततो ब्रूमः - तानि द्वैधं भवितुम् अर्हन्तीति द्विप्रकाराणि, कानिचित् प्रधानकर्मणो वाचकानि, कानिचित् संस्कारकर्मणः। एवम् अपि सर्वाण्य् अर्थवन्ति, अर्थवत्त्वे सति सर्वेभ्यः न शक्यम् अपूर्वं कल्पयितुम्। अतो न सर्वाणि प्रधानकर्मणो वाचकानि।
यैर् द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् ॥ MS_२,१.७ ॥
एवं सत्य् अल्पीयस्य् अडृष्टकल्पना न्याय्या, न तु20 विनिगमनायां हेतुर्21 अवगच्छामः, कुतो22 ऽपूर्वम्, कुतो नेति। तद् उच्यते - यैर् भावकर्मभिर् न द्रव्यं संस्कर्तुम् इष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्। द्रव्यं हि गुणभूतम्, कर्मनिर्वृत्तेर् ईप्सिततमत्वात्।
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् ॥ MS_२,१.८ ॥
यैस् तु द्रव्यं चिकीर्ष्यते, गुणस् तत्र प्रतीयेत कर्म। कुतः? तस्य द्रव्यप्रधानत्वात्। प्रत्यक्षं यजेतेत्येवमादिभिर् द्रव्यं न चिकीर्ष्यते, तस्मात् [११५]23 तानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्। पिनष्टि - इत्येवमादिभिर् द्रव्यं संस्क्रियते, तस्मात् तानि गुणकर्मवचनानि। एष एव विनिगमनायां हेतुः। प्रयोजनं तु पूर्वस्मिन् पक्षे प्रैयङ्गवे ऽपि चरौ व्रीहय उत्पाद्या अवधातार्थत्वेन। सिद्धान्ते नोत्पाद्याः।
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् ॥ MS_२,१.९ ॥
स्रुचः24 संमार्ष्टि, अग्निं संमार्ष्टि, परिधिं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति25 श्रूयते। तत्र सन्देहः - किं पर्यग्निकरणम्, संआर्जनं च प्रधानकर्म, उत गुणकर्मेति। किं तावत् प्राप्तम्। तत26 उच्यते - कर्ममात्रम् एवंजातीयकम् अपर्याप्तं यत् प्रयोजनस्य दृष्टस्य, तद् धर्ममात्रम् इति ब्रूमः, तत्र प्रधानकर्मत्वं स्यात्। कस्मात्? अनिर्वृत्तेर् उपकारस्य, न ह्य् एवंजातीयकं द्रव्यस्योपकारकम्, द्रव्यं त्व् एवंजातीयकम् अभिनिर्वर्तयद्27 गुणभूतम्। तस्य गुणभूतत्वाद् इदं प्रधानभूतम्।
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् ॥ MS_२,१.१० ॥
वाशब्दः पक्षं व्यावर्तयति। इतरैर् गुणकर्मभिः सधर्मः स्याद् एवंजातीयकः, यथा व्रीहीन् अवहन्ति, तथा। कुतः? तुल्यश्रुतित्वात्, तुल्या हि द्वितीया श्रुतिर् एषां द्रव्येषु, यथा व्रीहीन् अवहन्तीति28, एवम् अग्निं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति। किं गुणकर्मणि द्रव्ये द्वितीया दृष्टेति यतो द्वितीयादर्शनाद् इहापि सामान्यतो दृष्टेन गुणकर्मता। नेति ब्रूमः - द्वितीया विभक्तिः कर्तुर् ईप्सिततमे स्मर्यते, सा चेह द्वितीया विभक्तिः, तत एव तदीप्सिततमम् इति गम्यते, तच् चेद् ईप्सिततमम्, कर्म गुणभूतम्। यद्य् अपि प्रत्यक्षादिभिर् गुणभावो न गम्यते, [११६]29 प्रमाणान्तरेण शब्देन गम्यते, तस्माद् गुणभूतम् एवंजातीयकम् इति।
द्रव्योपदेश इति चेत् ॥ MS_२,१.११ ॥
इति चेत् पश्यसि - द्वितीयादर्शनात् प्रधानभूतम् अत्र द्रव्यम् इति। नैतद् एवम्, गुणभूते ऽपि द्वितीया भवति, तथा हि दृश्यते - सक्तूञ् जुहोति30, मारुतं जुहोति, एककपालं जुहोतीति।
न, तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् ॥ MS_२,१.१२ ॥
न गुणभूते ऽपि द्वितीया, एवं ह्य् अभियुक्ता उपदिशन्ति - कर्मणि द्वितीया31, कर्तुर् ईप्सिततमं कर्मेति32, न च लोके गुणभूते क्वचिद् द्वितीयां पश्यामः। यद् अपि च तण्डुलान् ओदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्व् इतीप्सिता एव तण्डुलाः। बल्वजान् शिखण्डकान् कुर्व् इति, बल्व्जा एव तेना-कारेण संबद्धा ईप्सिता इति तत्राभिप्रायः। लौकिकश् च प्रयोगः शब्दार्थपरिच्छेदे हेतुर् न वैदिकः। यत् तु लौकिके33 जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुम् ईप्सिततम एव स प्रयोग इति, तण्डुलान् अद्य जुहुधि, तण्डुलान् अद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा। अन्यायश् चानेकार्थत्वम्, तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत। वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति। द्वितीयानिर्देशात् प्रधान्यम् एवावगच्छामः, एवम् अवगते प्रधान्ये बलीयसा हेतुना नास्ति प्राधान्यम् इत्य् अवगम्यते। कुतः? न होमस्य केचित् प्रकारेण सक्त्वर्थतावकल्प्यते कुतः? सक्तूनां [११७]34 निष्प्रयोजनत्वात्, न सक्तूनाम् अन्यत् प्रयोजनं दृश्यते श्रूयते35 वा, यदि वा होमस् तदर्थो होमो ऽपि निष्प्रयोजनः, अथाराद् उपकारको होमः, ततः प्रयोजनवान्, ज्योतिष्टोमप्रकरणे पाठाद् गम्यते प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्, प्रयोगवचनेन हि स आकाङ्क्ष्यते। ननु सक्तूनाम् अपि प्रकरणपाठात् प्रयोजनवत्त्वं भविष्यति। को वा ब्रूते - नेति, प्रयोजनवत्तैव, प्रयोजनवत्त्वन् तु होमम् अभिनिर्वर्तयताम्, नान्येन प्रकारेण। ननु ते ऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते। तद् उच्यते - न द्रव्यं तेनाकाङ्क्ष्यते, इतिकर्तव्यतां हि स आकाङ्क्षति, होमश् चेतिकर्तव्यता, न द्रव्यम्। ननु होमे कृते सक्तुभ्यो ऽदृष्टं निष्पत्स्यते। नास्त्य् अत्र प्रमाणम्। ननु द्वितीया विभक्तिः प्रमाणम्। न हि द्वितीया विभक्तिर् होमस्य सक्त्वर्थतां ज्ञापयति। न सक्तवः प्रयोजनवन्त इति भवेद् धोमः सक्त्वर्थः, होमसंबद्धाः सक्तवः स्युर् इति, भवन्ति होमे कृते सक्तवो होमसंबद्धाः। न होमस्य सक्त्वर्थता निष्प्रयोजनेषु सक्तुषु घटते, सक्त्व्-अर्थतावचनं तु न पुरुषस्योपकारकं न क्रतोः, तदनर्थकम् एव स्यात्। यतो न36 तद्वचनाच् छक्यम् अन्यतरत्37 कल्पयितुम्। स एष द्वितीयान्तः सक्तूनां होमस्य च संबन्धं करोति, संबन्धे च सति द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति भूतत्वात्, गुणभावे च तृतीया, तेनोच्यते - तृतीयायाः स्थाने द्वितीयेति, तेन तदर्थत्वाद् धोमार्थत्वात् सक्तूनां न प्रधान्यं द्वितीयासंयोगे ऽपि। एवम् सत्य् अर्थवद् वचनम्, न चार्थवत्त्वे सत्य् आनार्थक्यम् इत्य् उच्यते। तस्य च पुरोडाशादेर् यागादिषु शेषभावः, तेन प्रयोजनवन्तः, तत्र संस्कारो नानर्थकः। न स दृष्टोपकारायेति चेत्। अदृष्टार्थो भविष्यति, अदृष्टो ऽपि संस्कारो ऽस्तीत्य् अवगम्यते लोके, यथा ग्रामान्तराद् आगतानां पुरुषानां पर्यग्निकरेणादृष्ट उपकारः क्रियत इत्य् उच्यते। लोके च नानुपपत्तिः। [११८]38 प्रयोजनं च वरुणप्रघासेषु श्रूयते, शमीमयः स्रुचो भवन्ति हिरण्मयो39 वेति, प्रकृतौ नानावृक्षस्रुक्संमार्गसाध्यम् अपूर्वम् इति, नानावृक्षस्रुच उत्पादयितव्याः संमार्गार्थत्वेन यथा पूर्वपक्षः। यथा तर्हि सिद्धान्तः, शमीमय एव हि हिरण्मयो वा संमार्ष्टव्याः। तथा यत्र बाणवन्तः परिधयस् तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे। सिद्धान्ते बाणवन्त एव संमार्ष्टव्याः। अवभृथे च पूर्वपक्ष उत्पादयितव्यो ऽग्निः संमार्गाय, सिद्धान्ते चापः संमार्जनीयाः। तथा40 षट्त्रिंशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया41 इति श्रूयते। तत्रापि पिष्टमयः पुरोडाश उत्पादयितवयः पर्यग्निकरणार्थत्वेन पूर्वपक्षे, सिद्धान्ते मांसमया एव पर्यग्निकर्तव्या इति।
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् ॥ MS_२,१.१३ ॥
प्रौगं शंसति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्टैः स्तुवते - इति गुणवचनं स्तवनं शंसनं च, यथा - इन्द्रस्य तु वीर्याणि प्रवोचम् इति42, यद् एतद् गुणवचनं श्रूयते, किम् एतद् गुणभूतं देवतां प्रति, उत प्रधानम् इति। तत्रोच्यते - स्तुतशस्त्रे संस्कारकर्मणीति। कुतः? देवताभिधानत्वात्, गुणवचने निर्वर्त्यमाने गुणिनी देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति, तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशनेन च प्रत्यक्ष [११९]43 उपकारो यागसिद्धिः। तस्मात् संस्कारकर्मणी याज्यावत्, यथा याज्याम् अनाह, पुरो ऽनुवाक्याम् अन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत्, तद्वद् एतद् अपीति।
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् ॥ MS_२,१.१४ ॥
यदि संस्कारकर्मणी एव44 स्तोत्रशस्त्रे, अर्थेनापकृष्येत देवतानाम् नश् चोदनार्थस्य गुणभूतत्वात्, देवतार्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत, तत्र क्रमसन्निधी उपरुध्येयाताम्। तस्माद् एष दुष्टः पक्षः - इति पर्युदसितव्यः। कतमः पुनर् असौ मन्त्रः। अभि त्वा शूरेत्य्45 ऐन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधाव् आम्नातो यत्रेन्द्रस् तत्रापकृष्येत।
वशावद् वा गुणार्थं स्यात् ॥ MS_२,१.१५ ॥
न पर्युदसिष्याम इमं पक्षम्, संस्कारकर्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वाद् एव, यद् उक्तम्46 - प्रगाथस्योत्कर्ष इति, तन् न, इन्द्रशब्देन महेन्द्रो ऽभिधायिष्यते, स एवेन्द्रो महत्त्वेन गुणेन महेन्द्र इत्य् उच्यते, प्रत्यक्षं हीन्द्रशब्दं देवतावचनम् उपलभामहे, महत्त्ववचनं च महच्छब्दम्, यथा राजा महाराजः, ब्राह्मणो महाब्राह्मण इति, वशावत्, यथा सा वा एषा सर्वदेवत्या यद् अजा वशा, वायव्याम् आलभेतेत्य्47 अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्ति, तद्वत् सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति। तेन न48 भविष्यत्य् उत्कर्ष इति।
न, श्रूतिसमवायित्वात् ॥ MS_२,१.१६ ॥
नैतद् एवम्, इन्द्रो ऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत49, [१२०]50 न चास्य महत्त्वम् अपेक्षमाणस्य तद्धितसंयोग उपपद्यते, तद्धितसंयोगापेक्षस्य वा महत्त्वसंबन्धात् समासकल्पना। न च तद्धितार्थे वृत्तस्य महत्त्वसंबन्धः, न च समासार्थे वृत्तस्य तद्धितसंबन्धः। न चास्मिन्न् एव प्रयोगे समासार्थे वृत्तिर् इष्यते, एतस्मिन्न् एव तद्धितार्थे। न चायम् इन्द्रशब्दो ऽविहितवत् स्वार्थं तद्धितार्थेन संबध्येत, विहितवच् च परार्थं महत्त्वेन संबद्धम् अनूद्येत। विस्पष्टश् चायम् अन्यो ऽर्थो महेन्द्रो भवति, महान् इन्द्रो भवतीति महेन्द्रः, अन्यश् चेन्द्रो हविषो देवता भवतीति सकृद् उच्चारणे च नोभयं शक्येत। तस्मान् नेन्द्रो देवता महत्त्वविशिष्टः, महेन्द्रशब्दात् तु तद्धित उत्पन्नः, तस्मात् तद्प्रातिपदिकम् अर्थवद् इति गम्यते, न त्व् अवयवसंबन्धेन। तस्माद् देवतान्तरम् इन्द्रान् महेन्द्रः, तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति, अतः पर्युदस्तितव्यः एष पक्षः। यद् अप्य् उच्यते - इन्द्रस्य वृत्रवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वायम् अभूद् यो वृत्रम् अवधीद् इति51, तथा वेदस्यादिमत्तादोषः प्रसज्येत, अतो ऽन्य इन्द्रो महेन्द्रात्।
व्यपदेशभेदाच् च ॥ MS_२,१.१७ ॥
व्यपदेशभेदश् च भवति, बहु दुग्धीन्द्राय देवेभ्यो हविर् इति52, बहु दुग्धि महेन्द्राय देवेभ्यो हविर् इति53, अतो ऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्पः स्यात्।
गुणश् चानर्थकः स्यात् ॥ MS_२,१.१८ ॥
यदा विधिशब्दाद् अवगतम् एतद् भवति - इन्द्रो देवतेति, तदास्य गुणान्वाख्याने किं प्रयोजनम्, महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम्। कथं तस्यै देवतायै दीयत इति। [१२१]54 गुणे ऽपि हि विहिते सति तस्या एव देवतायै दीयते, अविहिते ऽपि। तस्माद् गुणविधानम् अनर्थकम्। अथोच्यते - यो ऽस्मिन् ग्रहे इन्द्रः स महान् इति। नैवं ग्रहसंबन्धस्याप्रसिद्धत्वाद् विशेषणं नात्र कल्प्यते, गुणसंबन्धस्य चाप्रसिद्धत्वाद् गुणेन विशेषणम् अनवकॢप्तम्। तस्माद् अपि देवतान्तरम्।
तथा याज्यापुरोरुचोः ॥ MS_२,१.१९ ॥
एवं सति याज्यापुरोनुवाक्ययोर् भेदेन दर्शनम् उपपद्यते, एन्द्र55 सानसिं रयिम् इत्य्56 ऐन्द्रयाज्यापुरोनुवाक्याद् वयम्, महान् इन्द्रो य ओजसा - इति57 भेदेन माहेन्द्रं दर्शयति, तदेकत्वे विकल्प्येत। तत्र, पक्षे बाधः स्यात्।
वशायाम् अर्थसमवायात् ॥ MS_२,१.२० ॥
यद् उक्तम् - अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्तीति, तद् युक्तम्, वशायाम् अर्थसमवायित्वं वयं प्रत्यक्षम् अवगच्छामः, छागस्य वपाया मेदसो ऽनुब्रूहीति58 यैव वशा सैव छागेति। तस्मात् प्रगाथस्योत्कर्षः संस्कारपक्षे, अतः प्रधानकर्मणी इति।
यत्रेति वार्थवत्त्वात् स्यात् ॥ MS_२,१.२१ ॥
वाशब्दः पक्षं व्यावर्तयति, संस्कारकर्मणी एव स्तोत्रशस्त्रे, यच् चैतत्, प्रघाथस्योत्कर्ष इति, उत्कृष्यतां यत्रेन्द्रस् तत्र प्रघाथः, लिङ्गेन हि क्रमसन्निधी बाधितव्याव् एव।
न त्व् आम्नातेषु ॥ MS_२,१.२२ ॥
अपरेषां मन्त्राणाम् उत्कृष्टानाम् अन्यत्रार्थवत्ता नास्ति, तेषाम् आनर्थक्यं स्यात्, यथा याम् याः शंसन्ति59, शिपिविष्टवतीं60 पित[१२२]61देवत्याम्62 आग्निमारुते63, कुषुम्भकसूक्तम्, अक्षसूक्तम्, मूषिकासूक्तम् इत्येवमादीनाम्।
दृश्यते ॥ MS_२,१.२३ ॥
तद् उच्यते - सर्वेषाम् अर्थवत्तास्ति, मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्याम्, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे, पारिप्लवम् अश्वमेधे64 शंसतीति, तथा यस्याश्विने शस्यमाने सूर्यो नोदियाद् अपि सर्वा दाशतयीर् अनुब्रूयाद् इति, तस्माद् अस्त्य् अर्थवत्तोत्कृष्टानाम्। अतः संस्कारकर्मणी स्तोत्रशस्त्रे इति।
अपि वा श्रुतिसंयोगात् प्रकारणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् ॥ MS_२,१.२४ ॥
अपि वा प्रधानकर्मणी स्तोत्रशस्त्रे स्याताम्। कुतः? श्रुतिसंयोगात्, सप्तमी श्रुतिसंयोगो हि भवति, कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते - इति65, यदि स्तुतिः, ततः कवत्यक्षरेष्व् आहिता। यदि प्रकाशनम्, ततो देवतायाम्, तत्र करणं कवत्यस्66 तृतीययाश्रोष्यम्67, न सप्तम्या। अपि च - श्रुतिसंयोगो भवति, प्रौगं शंसति, निष्केवल्यं शंसतीति। अतः स्तुतिर् अभिनिर्वर्तयितव्या तेन मन्त्रेण, गुणवचनः शब्दः स्तुतिनिर्वर्तनार्थो ऽदृष्टम्68 अर्थं करिष्यति। तस्मात् प्रधानकर्मणी। [१२३]69 अपि च, श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः, यथेन्द्रस्य तु वीर्याणि प्रवोचम् इति70। तेन देवताशब्दः स्तुतिसंबन्धार्थ इत्य् उच्यते, देवताभिधानार्थे प्रातिपदिकार्थत्वात् प्रथमा स्यात्। अथ यत् प्रथमान्तम्, तद् देवतार्थं भवितुम् अर्हति, यथा - इन्द्रो यातो वसितस्य71 राजेति72। नेत्य् उच्यते, तद् अपि वाक्यसंयोगात् स्तुत्यर्थम् एव। ननु वाक्याल् लिङ्गं बलीयः। सत्यम्, एतद् अपि लिङ्गम्, यत् स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम्। तथाप्य् उभयथा लिङ्गे ऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषाद् एव न देवताभिधानार्थ इति। देवताभिधानार्थ इत्य् एतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षवचनम् अनर्थकम् एव स्यात्। तस्माद् अदृष्टार्थत्वात् स्तुतिवचनस्य प्रधानकर्मणी स्तोत्रशस्त्रे। अपि च - स्तौतिशंसतीति साक्षाद् गुणवचनौ लक्षणयाभिधानार्थौ स्याताम्, तस्मात् क्रियोत्पत्तिम् अपूर्वोत्पत्तिं विदध्याताम् इति।
शब्दपृथक्त्वाच् च ॥ MS_२,१.२५ ॥
शब्देन पृथक्त्वम् एव गम्यते, द्वादशस्तोत्रशस्त्रो ऽग्निष्टोमः, इतरथा हि द्वादशत्वं न स्यात्। स्तोत्राणां शस्त्राणां च एकम् एव शंसनं स्तवनं च, अथ भेद आश्रीयते, ततो न द्वादशत्वे ऽवतिष्ठते।
अनर्थकं च तद् वचनम् ॥ MS_२,१.२६ ॥
अग्निष्टुति73 श्रूयते - आग्नेया ग्रहा भवन्तीति, तत्र पुनर् उच्यते - आग्नेयीषु शंसन्तीति, तन् न विधातव्यम् एव यदि संस्कारकर्म74। तस्माद् अपि प्रधानकर्मणी इति।
[१२४]75
अन्यश् चार्थः प्रतीयते ॥ MS_२,१.२७ ॥
संबद्धे वै स्तोत्रशस्त्रे वेति, यद्य् अन्यत् स्तोत्रम् अन्यच् छस्त्रम्, ततस् तयोः संबन्धः। यदि वापूर्ववचने ततो ऽन्यत् स्तोत्रम् अन्यच् छस्त्रम्, इतरथा यद् एव स्तोत्रं तद् एव शस्त्रं स्यात्।
अभिधानं च कर्मवत् ॥ MS_२,१.२८ ॥
प्रधानकर्मण इव चाभिधानं भवति द्वितीयासंयोगेन, प्रौगं शंसतीति76 निष्केवल्यं शंसतीति।
फलनिर्वृत्तिश् च ॥ MS_२,१.२९ ॥
फलनिर्वृत्तिदर्शनं च भवति, स्तुतस्य स्तुतमसीत्येवमादि77, इन्द्रवन्तो मनेमहि भक्षीमहि78 प्रजाम् इषं सा मे सत्य् आशीर्यज्ञस्य भूयाद् इति79 स्तोत्रफलम् अनूद्यते, न देवतायाः। तस्मात् प्रधानकर्मणी स्तोत्रशस्त्रे। अन्यत्र सूत्रबद्धं प्रयोजनम्, दशमे ऽध्याये80 ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वाद् अधिकारः स्यात्।
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् ॥ MS_२,१.३० ॥
इदं समाम्नायते - न ता नशन्ति, न दभाति, तस्करो नासाम् आ मित्रो81 व्यथिर् आ दधर्षति। देवांश् च याभिर्यजते, ददाति च ज्योग् इत्ताभिः स च ते गोपतिः सहेति82। यजते ददातीत्य् उदाहरणम्, किं यद्वद् ब्राह्मणे भावशब्दो विधायकस् तद्वन् मन्त्रे ऽपि, उत मन्त्रे ऽभिधायक83 इति। किं तावत् प्राप्तम्, विधौ मत्रे चाम्नायमानस्य भावशब्दस्य एक एवार्थः स्यात्, ऐक[१२५]84शब्द्यात्, स एवायम् एकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुम् इत्य् अनुपपन्नम्, तस्माद् विधायकः।
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् ॥ MS_२,१.३१ ॥
अपि वेति पक्षो व्यावर्त्यते, एवंजातीयको मन्त्रो ऽभिधानवचनः स्यात्, प्रयोगसामर्थ्यात्, प्रयोगे क्रियमाणे ऽस्य सामर्थ्यं विद्यते, गोदानं गोयागं च प्रत्याययितुम्, न विधातुम्। कुतः? विहितत्वाद् गोदानस्य दक्षिणाविधाने, गोयागस्य त्व् अनुबन्ध्यायाम्। कर्मान्तरं भविष्यतीति चेत्। न, असकृद् अप्य् उच्यमाने तत्प्रत्ययाद् एव। स्तुत्यर्थकल्पनायाम् अप्य् आनर्थक्यम्, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वाद् यागस्य। तस्मान् न मन्त्रगतो भावशब्द एवंजातीयको विधायक इति।
तच्चोदकेषु मन्त्राख्या ॥ MS_२,१.३२ ॥
मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम्। को ऽयं मन्त्रो नामेति उच्यते। अज्ञाते मन्त्रे तद्गतो भावशब्दः कथं विचारित इति, इदम् अर्थो ऽधिकरणं पूर्वं द्रष्टव्यम्। कथं लक्षणो मन्त्र इति, तच्चोदकेषु मन्त्राख्या, अभिधानस्य चोदकेष्व् एवंजातीयकेष्व् अभियुक्ता उपदिशन्ति, मन्त्रान् अधीमहे, मन्त्रान् अध्यापयामः, मन्त्रा वर्तन्त इति। प्रायिकम् इदं लक्षणम्, अनभिधायका अपि केचिन् मन्त्रा इत्य् उच्यन्त85, यथा वसन्ताय कपिञ्जलान् आलभत इति86, न शक्यं पृष्ठाकोटेण87 तत्र तत्रोपदेष्टुम् इति लक्षणम् उक्तम् - ऋषयो ऽपि पदार्थानां नान्तं यान्ति [१२६]88 पृथक्कशः89। लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः। उदाहरणम् - मेधो ऽसीत्येवमादयो ऽस्यन्ताः, इषे त्वेत्य्90एवमादयस् त्वान्ताः, आयुर्दा असीत्य्91 आशीः, अग्निर्मूर्द्धेति92 स्तुतिः, सङ्खा93 एको ममेति94, प्रलपितम् अक्षी ते इन्द्रपिङ्गले दुलेर्95 इवेति, परिवेदनम्96 अम्बे अम्बिक इति97, प्रैष अग्नीद् अग्नीन् इति98, अन्वेषणं को ऽसि कतमो ऽसीति99, पृष्ठं100 पृष्ठामि101 त्वेति102, आख्यानम् इयं वेदिर् इति103, अनुषङ्गो ऽच्छिद्रेण पवित्रेणेति104, प्रयोगः त्रैस्वर्यं चातुस्वर्यं105 च, सामर्थ्यम् अभिधानम्, तच् चैतद् वृत्तिकारणेनोदाहरणोपदेशेनाख्यातम्106। एतद् अपि प्रायिकम् एव, असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश् चासि वन्द्यश् च वाजिन् इति107, त्वामध्याश् च तत्त्वायामीति। आशीर् ब्राह्मणम् अपि, सो ऽकामयत प्रजाः सृजेयेति, स्तुतिर् अपि वायुर् वै क्षेपिष्ठा देवतेति108, प्रलापो न चैतद् विद्मो यदि ब्राह्मणा वा स्मो ऽब्राह्मणाः स्मो वेति109, परिदेवनं ये माम् अधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैष अमुतः सोमम् आहरेति, अन्वेषणम् इह वा स इह वेति, प्रश्नः वेद कर्णवतीं सूर्मिम् इति, प्रतिवचनं विद्मो वेति, अनुषङ्गः हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया अथ वक्षसीति110, प्रयोगः त्रैस्वर्यं चातुस्वर्यं111 चेति, सामर्थ्यं स्रुवेणावद्यति द्रवेष्व् इति। लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान् न वक्तव्यम्, लघीयसी प्रतिपत्तिर् लक्षणेन। आक्षेपेष्व् अपवादेषु प्राप्त्यां लक्षणकर्मणि। प्रयोजनं न वक्तव्यं यश् च कृत्वा प्रवर्तते। आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्याम् उत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम्। अस्ति वेदे मन्त्रशब्दो यस्यायम् अर्थः परीक्षितः, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा विदुः, ऋचः सामानि यजूंषीति112
[१२७]113
शेषे ब्राह्मणशब्दः ॥ MS_२,१.३३ ॥
अथ किं लक्षणं ब्राह्मणम्? मन्त्राश् च ब्राह्मणं च वेदः, तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वाद् ब्राह्मणलक्षणम् अवचनीयम्, मन्त्रलक्षणवचनेनैव सिद्धम्, यस्यैतल् लक्षणं न भवति, तद् ब्राहमणम् इति परिशेषसिद्धं ब्राह्मणम्। वृत्तिकारस् तु शिष्यहितार्थं प्रपञ्चितवान् इतिकरणबहुलम्, इत्य् आहोपनिबद्धम्, आख्यायिकास्वरूपम्, हेतुः सूर्पेण114 जुहोति तेन ह्य् अन्नं क्रियत इति115, निर्वचनम्, तद् दध्नो दधित्वम्116, निन्दा, उपवीता वा एतस्याग्नयः, प्रशंसा, वायुर् वै क्षेपिष्ठा देवतेति117, संशयः, होतव्यं गार्हपत्ये न होतव्यम् इति, विधिः, यजमानसंमितौदम्बरी118 भवति119, परकृतिः, माषान् एव120 मह्यं121 पचतीति122, पुराकल्पः, उल्मुखैर् ह स्म पूर्वे समाजग्मुर् इति, व्यवधारणकल्पना, यावतो ऽश्वान् प्रतिगृह्नीयाद् इति। हेतुर् निर्वचनं निन्दा प्रशंसा संशयो विधिः। परक्रिया पुराकल्पो व्यवधारणकल्पना। उपमानं दशैते तु विधयो ब्राह्मणस्य तु। एतद् वै123 सर्ववेदेषु नियतं विधिलक्षणम्। एतद् अपि प्रायिकम्, इतिकरणबहुलो मन्त्रो ऽपि कश्चित्, इति वेति मे मनः124, इत्य्125 आहोपनिबद्धश् च, भगं भक्षीत्य्126 आह, आख्यायिकास्वरूपं चोग्रो ह भुज्यम् इति127, हेतुर् इदं वो128 वामुशन्ति हि129130, निर्वचनं तस्माद् आपो नु स्थना131 - इति132, निन्दा मोघम् अन्नं विन्दत अप्रचेतेति133, प्रशंसा - अग्निर् मूर्द्धेति134, संशयः - अधः खिदासीद्135 उपरि खिदासीद्136 इति137, विधिः - पृणीयादिन्न् आधमानायेति138139, परकृतिः - सहस्रम् अयुताददत्140141, पुराकल्पः - यज्ञेन यज्ञम् अयजन्त देवा इति142।
[१२८]143
अनाम्नातेष्व् अमन्त्रत्वम् आम्नातेषु हि विभागः ॥ MS_२,१.३४ ॥
ऊहप्रवरनामधेयेषु संशयः, मन्त्रा उत नेति। अभिधायकत्वान् मन्त्रा इति प्राप्ते ब्रूमः - अनाम्नातेषु मन्त्रत्वं न स्याद् अभिधायकेष्व् अपि, नाभिधायकत्वं मन्त्रत्वे हेतुः, किं तर्ह्य् अभियुक्तप्रयोगः, ये अभियुक्तैर् मन्त्रा इति नोच्यन्ते, न ते मन्त्राः, न चैवमादायो मन्त्रसमाम्नाये सन्ति, तस्माद् अमन्त्राः। प्रयोजनम्, मन्त्रे दुष्टे यत् प्रायश्चित्तम् अमन्त्रेषु तन् न।
तेषां ऋग् यत्रार्थवशेन पादव्यवस्था ॥ MS_२,१.३५ ॥
ऋच इत्य् अस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा144 विदुः ऋचो145 यजूंषि सामानीति146। कथंलक्षणिका ऋचः? तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था, यत्र पादकृता व्यवस्था स मन्त्र ऋग् नामा, यथा - अग्निम् ईल इति147, एवंजातीयकेषु मन्त्रेष्व् अभियुक्ता उपदिशन्ति, ऋचो ऽधीमहे, ऋचो ऽध्यापयामः, ऋचो वर्तन्त इति। यद्य् अर्थवशेनेत्य् उच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति, अग्निः पूर्वेभिर् ऋषिभिर् इति148, यतो नार्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थम्, किं तर्ह्य् अनुवाद एष प्रदर्शनार्थः। अवश्यं चैतद् एवं विज्ञेयम्, वृत्तादिनिर्वृत्त्यर्थे सति वाक्यं भिद्येत। तस्माद् यत्र पादकृता व्यवस्था, सा ऋग् इति।
[१२९]149
गीतिषु सामाख्या ॥ MS_२,१.३६ ॥
अथ साम्नः किं लक्षणम्? विशिष्टा काचिद् गीतिः सामेत्य् उच्यते, प्रगीते हि मन्त्रवाक्ये सामशब्दम् अभियुक्ता उपदिशन्ति, सामान्य् अधीमहि, समान्य् अध्यापयामः, सामानि वर्तन्त इति, अभियुक्तोपदेशश् च नः प्रमाणम्। यथा - अम्लं150 दधि, मधुरो गुड इति गीतिविशिष्टे तावन् मन्त्रे गीतिशब्दः, गीतिसंबन्धान् मन्त्रे संप्रत्यय इत्य् अवगन्तव्यम्।
शेषे यजुःशब्दः ॥ MS_२,१.३७ ॥
अथ यजुषः किं लक्षणम् इति। यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्याम् एव यजुर् विज्ञास्यते वैपरीत्येन, या न गीतिर् न च पादबद्धम्, तत् प्रश्लिष्टपठितं यजुर् इति।
अथ निगदो नाम किं यजूंष्य् उत यजुषो ऽन्य इति?
निगदो वा चतुर्थं स्याद् धर्मविशेषात् ॥ MS_२,१.३८ ॥
निगदाः न यजूंषि। कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर् निगदेनेत्य् एष धर्मविशेषः, उच्चैर् निगदेनेत्य् अनूद्यते, यदि यजुषो निगदत्वं [१३०]151 स्यात्, न च तस्योच्चैस् त्वं धर्मो दृश्येत। दृश्यते तु। तस्माच् चतुर्थं मन्त्रजातं निगदो नाम।
व्यपदेशाच् च ॥ MS_२,१.३९ ॥
व्यपदेशो ऽपि भवति, यजूंषि वर्तन्ते, न निगदाः। निगदा वर्तन्ते, न यजुंषीति। तस्माद् अपि मन्त्रान्तरम्।
यजूंषि वा तद्रूपत्वात् ॥ MS_२,१.४० ॥
यजूंष्य् एव वा निगदाः। कुतः? तद्रूपत्वात्, तद् एवैषां रूपम्, यद् यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च।
वचनाद् धर्मविशेषः ॥ MS_२,१.४१ ॥
वचनात् प्रत्यायनसामर्थ्यात्, अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषांचिद् यजुषाम्।
अर्थाच् च ॥ MS_२,१.४२ ॥
अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनम्, नोपंशूच्चार्यमाणाः पुरुषान्तरं प्रत्याययेयुः। तस्माद् धर्मविशेषो ऽर्थवान्। यानि च यजंष्य्152 उच्चैर् उच्चार्यन्ते ते निगदाः। कुतः? निशब्द153, प्रकर्षस्य वक्ता, यथा प्रकर्षेण रक्तं नितरां रक्तम् इत्य् उच्यते। गदतिर् गदनार्थः पाठवचनः। एष एव हि प्रकर्षो यद् उच्चैस् त्वावच्छिन्नत्वं। ननु वाचनिको गुणो यजुषाम् उपांशुत्वम्। नेति ब्रूमः - गुणो नाम स भवति, यः स्वकार्यं कुर्वताम् उपकारे वर्तते, न च परसंबोधनार्थानां यजुषाम् उपांशुत्वं साहाय्ये वर्तते, तद् धि स्वकर्मक्रियाविघातं करोति, तेन पुरुषान्तरसंबोधनार्थम् उच्चैस् त्वं गुणः। इतरार्थं तु वचनं भविष्यति, इतराणि यानि [१३१]154 यजूंषि न परसंबोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते।
गुणार्थो व्यपदेशः ॥ MS_२,१.४३ ॥
अथ यद् उक्तं व्यपदेश इति, स चैकत्वे ऽपि गुणतो भवति, यथेतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति। एवम् उच्चैस्त्वेन गुणेन तान्य् एव यजूंषि व्यपदिश्यन्ते, निगदा इति।
सर्वेषाम् इति चेत् ॥ MS_२,१.४४ ॥
यदि य उच्चैर् गद्यते स निगदः, ऋग् अपि निगदः प्राप्नोति।
न, ऋग्व्यपदेशात् ॥ MS_२,१.४५ ॥
न ऋचो निगदा155 व्यपदिश्यन्ते, अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपदेशा भवन्ति। उच्यते, व्यपदेशो लिङ्गम्, प्राप्तिर् उच्यताम् इति। अपादबद्धे गदतिर् वर्तते, अपादबद्धो हि गद्य इत्य् उच्यते।
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् ॥ MS_२,१.४६ ॥
अथ प्रश्लिष्टपठितेषु यजुःषु कथम् अवगम्येत इयद् एकं यजुर् इति? यावता पदसमूहेनेज्यते, तावान् पदसमूहः एकं यजुः। कियता चेज्यते? यावता क्रियाया उपकारः प्रकाश्यते, तावद् वक्तव्यत्वाद् वाक्यम् इत्य् उच्यते। तेनाभिधीयते - [१३२]156 अर्थैकत्वाद् एकं वाक्यम् इति, एतस्माच् चेत् कारणाद् एकवाक्यता भवति। तस्माद् एकार्थः पदसमूहो वाक्यम्, यदि च विभज्यमानं साकाङ्क्षं पदं भवति। किम् उदाहरणम्? देवस्य त्वा सवितुः प्रसव इति157। ननु पदं पदम् अत्रैकार्थम्। सत्यम्, न तु तद्विभागे साकाङ्क्षं। न तर्ह्य् अर्थैकत्वम् उपपद्यते। बहुत्वात् पदार्थानाम्, पदसमुदायस्य च पृथगर्थो नास्तीत्य् उक्तम्। भेदः संसर्गो वा वाक्यार्थ इति यद्य् उच्यते, तथाप्य् एकार्थता न स्यात्, बहुपदे भेदानां संसर्गाणां च बहुत्वात्। एकप्रयोजनत्वाद् उपपन्नम्, यथा तावद् देवस्य त्वेति निर्वापप्रकाशनम्, तस्य विशिष्टस्य वाचक एतावान् पदसमूहः, तत् वाक्यम्। नन्व् अत्र देवस्य त्वा सवितुः प्रसवे निर्वपामीत्य् एकं वाक्यम्, अश्विनोर् बाहुभ्यां निर्वपामीत्य् अपरम्, एवं बहूनि वाक्यानि। यदि निर्वपामीत्य् अनुषङ्गः, ततो बहूनि वाक्यानि, न त्व् एवम् अनुषङ्गो भवति, यदि गुणभूतो निर्वपामीति, तदा प्रतिप्रधानं भिद्येत। न च निर्वापो देवस्य त्वेत्येवमादीनाम् अर्थेनोच्यते, साधनप्राधान्ये ह्य् अदृष्टार्थता वचस्य स्यात्। निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्, तत् सर्वैर् विशेषणैर् विशिष्टम् उच्यते। तस्माद् अविरोधः। यथा च पदं पदेन विशेष्यते तथोक्तं तद्भूतानाम् इति158। तस्माद् एकं वाक्यम्। अथ किं अर्थम् उभयं सूत्रितम्, अर्थैकत्वाद् इति च विभागे साकाङ्क्षत्वाद्159 इति च, उच्यते, भवति किंचिद् एकार्थम्, न तु विभागे साकाङ्क्षम्, यथा भगो वां विभजतु, अर्यमा वां विभजत्व् इत्य् एकार्थाः सर्वे विभागम् अभिदधति। ननु भगविशिष्टाद् विभागाद् अर्यम् अविशिष्टो ऽन्यो विभागः। नेत्य् उच्यते, [१३३]160 विभागसामान्येनास्य प्रयोजनम्, न विशेषेण, सामान्ये हि दृष्टो ऽर्थो भवति, न विशेषे, विभागे तु न साकाङ्क्षम्। तस्माद् भिन्नम् इदं वाक्यं विभागे विकल्प्यते। तथा स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं161 कल्ययामि162। तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान इति163 विभागे साकाङ्क्षम्, द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनं च। तस्माद् भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं164 पुरोडाशप्रतिष्ठापने। तस्मात् सम्यक् सूत्रितम्, न सूत्रोपालंभो भवति।
समेषु वाक्यभेदः स्यात् ॥ MS_२,१.४७ ॥
ईषे त्वा, ऊर्जे त्वेति165, तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इति166। अत्र सन्देहः, किम् एवमादिषु भिन्नं वाक्यम् उतैकम् इति? एकम् इति ब्रूमः, ईषे त्वेत्य् एवम् उक्ते न किंचिद् दृष्टं प्रयोजनम्, तथा - ऊर्जे त्वेत्य् अपि च, वचनसामर्थ्याद् अदृष्टम्, तद् उभाभ्याम् एकं कल्पयितुं न्याय्यम्, एवम् अल्यीयस्य् अदृष्टानुमानकल्पना भविष्यति। तस्माद् एकं वाक्यम्। एवं प्राप्ते ब्रूमः - समेषु वाक्यभेदः स्यात्, समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते, ईषे त्वेत्य् अनेनैको ऽर्थः क्रियते, ऊर्जे त्वेत्य् अनेनापरः। ननु इदानीम् एवोक्तं नात्र दृष्टो ऽर्थ इति। यद्य् अपि प्रत्यक्षादिना प्रमाणेन नोपलभ्यते, श्रुत्या तु गम्यते, ईषे त्वेति छिनति, ऊर्जे त्वेत्य् अनुमार्ष्टीति167। तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इत्य् आयुःकॢप्तेर् अन्या प्राणकॢप्तिः। ननु सामान्यमात्रम् इदं तन् न विशेषणभेदाद् भेदम् अर्हतीति, यथा - अग्नये जुष्टं निर्वपामीति [१३४]168 निर्वाप एकस् तस्य विशेषाः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पुष्णो169 हस्ताभ्याम् इति, न तेषां भेदान् निर्वापस्य भेद इष्यते, एवम् इहापि कॢप्तिर् नामैको ऽर्थः, नासाव् आयुरादिभिर् विशेषैर् भिन्नो भविष्यतीति। उच्यते - इह कॢप्तीर् वाचयतीति बह्वः170 कॢप्तयः श्रूयन्ते, ताश् च वक्तव्याः, तत्रैकाम् आयुःकॢप्तिम् आयुःयज्ञेन कल्पताम् इत्य् एष मन्त्रः शक्नोति वदितुम्, प्राणो यज्ञेन कल्पताम् इत्य् अयम् अपि प्राणकॢप्तिम् अपराम्, एवं तु सर्वे कॢप्तिविशेषवचनाः, तच् च दृष्टं प्रयोजनम्। तस्माद् अनेकार्थत्वात् तत्रापि वाक्यभेद इति। ननु सामान्यवचनाद् एकत्वं यथा विभागे। नैतद् एवम्, विभागे दृष्टार्थं सामान्यम् इह न। अपि च कॢप्तीर् वाचयतीति विहितम्, आयुःयज्ञेन कल्पताम् इति चायुःकॢप्त्यभिधानम् अभिनिवर्त्यते प्रत्यक्षम्। प्राणो यज्ञेन कल्पताम् इति च प्राणकॢप्तेः। तस्माद् वाक्यभेदः।
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वत् ॥ MS_२,१.४८ ॥
या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा, उग्रं वचो अपावधीत् त्वेषं वचो अपावधीत् स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य्171 अत्र सन्देहः, तनूर्वर्षिष्ठेति किं सर्वेष्व् अनुषक्तव्यम्, आहोस्विल् लौकिको वाक्यशेषः कर्तव्य इति। किं प्राप्तम्? या ते अग्ने रजाशयेत्य् एतस्य तनूर्-वर्षिष्ठेति न वाक्यशेषः, न ह्य् अयम् अस्मात् परः प्रयुज्यते। एवं प्राप्ते ब्रूमः - अनुषङ्गो वाक्यसमाप्तिः स्यात् तनूर्वर्षिष्ठेति, यथैव ह्य् अयं या ते अग्ने ऽयाशयेत्य् एतस्यानन्तरम्, एवं या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य् एतयोर् अपि। हराशयेत्य् एतस्य व्यवहित इति चेत्। तन् न, समुदायस्याव्यवधानात्, अव्यवहितो रजाशयेति समुदायः [१३५]172 समुदायेन च वाक्यशेषस्य संबन्धाभावात् समुदायिभ्यां संबन्धः, समुदायिसंबन्धे च न गम्यते विशेषः। तस्मात् सर्वत्रानुषङ्गः। अपि च साकाङ्क्षस्य सन्निधौ परस् तात्पुरस्ताद् वा परिपूर्णसमर्थः श्रूयमाणो वाक्यशेषो भवति। कियांस् तु कालः सन्निधिर् इति? उच्यते - यावति शक्नोत्य् उभाव् अप्य् अपेक्षितुम्। कश् चासौ? आनन्तर्यं संबन्धिपदव्यवायो वा, तावति हि शक्नोत्य् उभाव् अप्य् अपेक्षितुम्, संबन्धिपदव्यवाये हि संबन्धाद् एव पूर्वसंस्कारो नापैति। यत्राप्य् अपरेण साकाङ्क्षेन व्यवायस् तत्राप्य् अस्ति संबन्धः, द्वयोर् अपि हि कार्यं वक्तव्यम् इति, परः पूर्वम् अपेक्षते, अनपेक्षमाने ऽन्यतरः प्रमादपाठः स्यात्, शक्यते चासाव् अपेक्षितुम्, तस्माद् यथैवायम् एकस्य सन्निधाव् एवम् अपरस्य, द्वयोर् अप्य् असंबद्धैः पदैर् अव्यवहितत्वात्, द्वयोर् अप्य् आकाङ्क्षतोर्173 एतावच् च वाक्यशेषसंबन्धे कारणम्, नानन्तर्यम्, अव्यवधाने विच्छेदे ऽपि भवति संबन्धः। तस्माद् अनुषङ्गः। अथेह कथं भवितव्यम्? यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते, यथा चित्पतिस् त्वा पुनातु, वाक्य्पतिस् त्वा पुनातु, देवस्य त्वा174 सविता पुनात्व् अछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिर् इति175, अत्र हि पुनात्व् अन्तानि परिपूर्णानि न किंचिद् आकाङ्क्षन्ति। नन्व् अछिद्रेणेत्य् एतद् आकाङ्क्षिष्यति176। सत्यम् आकाङ्क्षति, आकाङ्क्षद् अप्य् एतद् एकम् आकाङ्क्षेत्, एकेनैवैतन्177 निराकाङ्क्षं संपद्यत इति, एकेन हि निराकाङ्क्षीकृतो नेतराव् आकाङ्क्षिष्यति, अन्-अर्थकत्वाद् आकाङ्क्षति, एकेन च संबद्धो नानर्थको भवति। तस्मान् नेतराव् आकाङ्क्षतीति, इतराव् अपि परिपूर्णत्वान् न तम् आकाङ्क्षतः। नन्व् एतस्य वाक्यशेषस्यैकम् अप्य् आकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते, केन वा नेति। तेनानवगम्यमाने विशेषे सर्वैः सह संभन्त्स्यते। आह, नैतद् एवम्, येनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे तेन सह संभन्त्स्यत इति गम्यते विशेषः, तस्मात् तेनानन्तरेण सह संभ[१३६]178न्त्स्यत इति नास्ति सर्वत्रानुषङ्ग इति। आह - नैतद् एवम्, पुनातुशब्देनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे, पुनातुशब्दस्यापि चित्पतिस् त्वेत्येवमादिभिः, एकश् चासौ पुनातुशब्दः पुनः पुनर् उच्चरितः, तेनावगच्छामः, यत्र पुनातुशब्दः प्रयुक्तः, तत्र तेनैकवाक्यत्वाद् अछिद्रेणेत्य् अयम् अपि प्रयोक्तव्यः, तथा च सति चित्पतिस् त्वेत्येवमादयो विना पुनातुशब्देन, साकाङ्क्षाः, ते च पुनातुशब्दम् आकाङ्क्षन्ति, स च पुनातुशब्दो ऽछिद्रेणेत्य् अनेन विशिष्टः, तेन पुनातुशब्देन सानुषङ्गेण नियोगतः सर्वे निराकाङ्क्षीकर्तव्याः। तस्मात् सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिर् अनुषज्यते।
व्यवयान् नानुषज्येत ॥ MS_२,१.४९ ॥
सं ते वार्युर्179 वातेन गच्छताम्, सं जयत्रैर् अङ्गानि180, सं यज्ञपतिर् आशिषा181 इति। वार्युर्182 वातेन गच्छताम् इत्य् एष सं यजत्रैर् अङ्गानीति बहुवचनान्तन व्यवहितत्वात् संयज्ञपतिर् आशिषेत्य् अत्र नानुषज्यत183, एकेन साकाङ्क्षेण व्यवेतो184 गच्छताम् इति शेषः, ततो बहुवचनान्तेन सं यजत्रैर् अङ्गानीत्य् एतेन संबन्धम् अनुपेत्य व्यवेतत्वात् परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते। तस्माद् बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति।
[१३७]185
-
E1,4,5,6; E2 hat: pradhānāpradhānādi ↩︎
-
E1,5,6; E2,4: upoddhātaprasaktānuprasakta ↩︎
-
Vgl. MS 1.1.2 ↩︎
-
E1,5; E2,4,6 om. ucyate ↩︎
-
E2: 2,337; E4: 2,251; E5: 2,283; E6: 1,74 ↩︎
-
E2: 2,353; E4: 2,252; E5: 2,304; E6: 1,75 ↩︎
-
E4: sūcitaṃ ↩︎
-
Jhā, Ü, Bd.1, S.170 konj. śyenacitrādayaḥ ↩︎
-
Ṣaḍ.Br. 3.8.1 ↩︎
-
Tait.S. 2.4.6.1 ↩︎
-
E2: 2,355; E4: 2,328; E5: 2,314; E6: 1,75 ↩︎
-
E2 om. vṛkṣaḥ ↩︎
-
E2: 2,357; E4: 2,332; E5: 2,316; E6: 1,76 ↩︎
-
E2,4,5,6: dravyaṃ ↩︎
-
E6 om. tadā ↩︎
-
E2: 2,359; E4: 2,337; E5: 2,320; E6: 1,77 ↩︎
-
E2,4: yat ↩︎
-
E1,6; E2,4,5: nanu ↩︎
-
E2: 2,379; E4: 2,384; E5: 2,324; E6: 1,77 ↩︎
-
E1,6; E2,4,5: nanu ↩︎
-
E1,6; E2,4,5: hetum ↩︎
-
E2: kṛto ↩︎
-
E2: 2,381; E4: 2,389; E5: 2,329; E6: 1,78 ↩︎
-
E5: sucaḥ ↩︎
-
Tait.S. 3.3.1 ↩︎
-
E2,4,6: tad ↩︎
-
E2: abhinirvartayed ↩︎
-
Tait.Br. 3.2.5.6 ↩︎
-
E2: 2,384; E4: 2,398; E5: 2,332; E6: 1,79 ↩︎
-
Tait.S. 3.3.8.4 ↩︎
-
Pāṇ. 2.3.2 ↩︎
-
Pāṇ. 1.4.49 ↩︎
-
E1,6; E2,4: yā laukike, E5: yā tu ↩︎
-
E2: 2,387; E4: 2,402; E5: 3,335; E6: 1,79 ↩︎
-
E2 om. śrūyate ↩︎
-
E2,4: na ca ↩︎
-
E2,4: anyat ↩︎
-
E2: 2,389; E4: 2,402; E5: 2,338; E6: 1,80 ↩︎
-
E2: hiraṇmayā ↩︎
-
E2,4: yathā ↩︎
-
E2: savanīyāṃ ↩︎
-
ṚV 1.36.1 ↩︎
-
E2: 2,394; E4: 2,423; E5: 2,341; E6: 1,81 ↩︎
-
E2: evaṃ ↩︎
-
Mā.S. 27.35 ↩︎
-
E2,4,5,6: yat tūktam ↩︎
-
Tait.S. 3.4.3.2 ↩︎
-
E2 om. tena, E4: te na ↩︎
-
E1,6; E2,4,5: vijñāyate ↩︎
-
E2: 2,396; E4: 2,431; E5: 2,345; E6: 1,82 ↩︎
-
Ai.Br. 3.21 ↩︎
-
Tai.Br. 3.2.38 ↩︎
-
Mā.Sh.S. 1.1.3.29 ↩︎
-
E2: 2,406; E4: 2,450; E5: 2,348; E6: 1,82 ↩︎
-
E1,5; E2: indra, E4,6: aindra ↩︎
-
Tait.S. 3.4.11.3 ↩︎
-
ṚV 5.8.9 ↩︎
-
Vgl. Tait.Br. 3.6.8 ↩︎
-
E2,4: śaṃsati ↩︎
-
mit E6; E2,4,5: śipiviṣṭavatīḥ ↩︎
-
E2: 2,408; E4: 2,456; E5: 2,352; E6: 1,83 ↩︎
-
E2,4,5: śaṃsati pitṛdevatyāḥ, E6: pitṛdevatyāḥ ↩︎
-
mit E6; E2,4,5,: śaṃsati, āgnimārute ↩︎
-
Mit E6; E2,4 om. aśvamedhe, E5 hat es geklammert ↩︎
-
Vgl. Tait.S. 7.5.5.2 ↩︎
-
Vgl. Sām.S. 1.169 ↩︎
-
Mit E6; E2,4,5,: tṛtīyayāśroṣyanta ↩︎
-
Mit E6; E2,4,5: dṛṣṭam ↩︎
-
E2: 2,410; E4: 2,460; E5: 2,355; E6: 1,84 ↩︎
-
Tait.S. 2.5.4.1 ↩︎
-
Mit E6; E2,4,5: ‘vasitasya ↩︎
-
ṚV 1.32.15 ↩︎
-
E2: agnistutiḥ ↩︎
-
E1,6; E2,4,5: saṃskārakarmaṇī ↩︎
-
E2: 2,413; E4: 2,471; E5: 2,358; E6: 1,84 ↩︎
-
E1,6; E2,4,5 om. iti ↩︎
-
Tait.S. 3.2.7.1 ↩︎
-
E1,6; E2: vanāmaha dhukṣīmahi, E4,5: vanāmahe dhukṣīmahi ↩︎
-
Tait.S. 1.6.4.2 ↩︎
-
MS 10.4.49 ↩︎
-
E1,6; E2,4,5: amitro ↩︎
-
Tait.Br. 2.4.6.11 ↩︎
-
E1,6; E2,4,5: ‘vidhāyaka ↩︎
-
E2: 2,415; E4: 2,476; E5: 2,361; E6: 1,85 ↩︎
-
E2,4,5,6: ucyante ↩︎
-
Vāj.S. 24.20 ↩︎
-
E2,4: pṛṣṭākoṭeṇa ↩︎
-
E2: 2,419; E4: 2,486; E5: 2,368; E6: 1,86 ↩︎
-
Mit E6; E2,4,5: pṛthaktvaśaḥ ↩︎
-
Vāj.S. 1.1 ↩︎
-
Tait.S. 1.6.6 ↩︎
-
Tait.S. 4.4.4.1 ↩︎
-
E2,4,5,6: saṃkhyā ↩︎
-
ŚPBr. 1.5.5.12 ↩︎
-
E1,5,6,; E2: ḍular, E4 ḍuler ↩︎
-
E2,4: paridevanam ↩︎
-
Vāj.S. 23.18 ↩︎
-
Tait.S. 6.3.2 ↩︎
-
Vāj.S. 7.29 ↩︎
-
E2,4,5: pṛṣṭaṃ ↩︎
-
E6: ebenso, E2,4,5: pṛcchāmi ↩︎
-
Vāj.S. 23.61 ↩︎
-
Vāj.S. 23.62 ↩︎
-
Tait.S. 1.1.5.1 ↩︎
-
E2,4: catuḥsvaryaṃ ↩︎
-
E1,6; E2,4,5: vṛttikāraṇenodāharaṇāpadeśenākhyātam ↩︎
-
Vāj.S. 29.3 ↩︎
-
Tait.S. 2.1.1.1 ↩︎
-
Mait.S. 1.4.11 ↩︎
-
E2,4,5,6: vakṣasa iti ↩︎
-
E2,4,5: catuḥsvaryaṃ ↩︎
-
Tait.Br. 1.2.1.26 ↩︎
-
E2: 2,421; E4: 2,486; E5: 2,369; E6: 1,87 ↩︎
-
E2,4,5,6: śūrpeṇa ↩︎
-
ŚPBr. 2.5.2.23 ↩︎
-
Tait.S. 2.5.3.4 ↩︎
-
Tait.S. 2.1.1 ↩︎
-
E2,4,5,6: yajamānasaṃmitaudumbarī ↩︎
-
Vgl. Tait.S. 6.2.10.3 ↩︎
-
E2,4,5: me ↩︎
-
E2,4,5 om. mahyaṃ ↩︎
-
E2,4,5: pacata iti ↩︎
-
E2,4: syāt ↩︎
-
E2,4: manaḥ iti ↩︎
-
ṚV 10.119.1 ↩︎
-
ṚV 7.41.2 ↩︎
-
Tait.Ā. 1.10.2 ↩︎
-
E2,4,5,6: indavo ↩︎
-
E2,4: hīti ↩︎
-
ṚV 1.2.4 ↩︎
-
E2,4,5: stha na ↩︎
-
Tait.S. 5.6.1.3 ↩︎
-
ṚV 8.6.23 ↩︎
-
Tait.S. 4.4.4 ↩︎
-
E2,4,5,6: adhaḥ svidāsīd ↩︎
-
E2,4,5,6: upari svidāsīd ↩︎
-
ṚV 10.129.5 ↩︎
-
Mit E6; E2,4,5: ādhamānād iti ↩︎
-
ṚV 10.117.15 ↩︎
-
E2,4: ayutādadad iti ↩︎
-
ṚV 8.21.18 ↩︎
-
ṚV 10.90.16 ↩︎
-
E2: 2,422; E4: 2,492; E5: 2,369; E6: 1,87 ↩︎
-
E2: trayīvido, E4: traivido ↩︎
-
E2,4: ṛcaḥ sāmāni ↩︎
-
Tait.Br. 1.2.1.26 ↩︎
-
ṚV 1.1.1 ↩︎
-
ṚV 1.1.2 ↩︎
-
E2: 2,427; E4: 2,504; E5: 2,375; E6: 1,88 ↩︎
-
E2: pratyakṣā amlaṃ, E4: yakṣā amlaṃ ↩︎
-
E2: 2,428; E4: 2,513; E5: 2,379; E6: 1,89 ↩︎
-
E2,4,5,6: yajūṃṣi ↩︎
-
E2,4,5,6: niśabdaḥ ↩︎
-
E2: 2,430; E4: 2,517; E5: 2,380; E6: 1,89 ↩︎
-
E2,4: nigadā iti ↩︎
-
E2: 2,435; E4: 2,522; E5: 3,383; E6: 1,90 ↩︎
-
Tait.S. 1.1.4.2 ↩︎
-
Vgl. MS 1.1.25 ↩︎
-
Mit E5,6; E2,4: sākāṅkṣam ↩︎
-
E2: 2,438; E4: 2,522; E5: 2,387; E6: 1,91 ↩︎
-
E2,4: suśevaṃ, E6: suṣevam ↩︎
-
E2,4,5,6: kalpayāmi ↩︎
-
Tait.Br. 3.7.5.2-3, MānŚS ↩︎
-
E2: uttare ↩︎
-
Tait.S. 1.1.3, Vāj.S. 1.1 ↩︎
-
Tait.S. 1.7.9.1 ↩︎
-
Vgl. ŚPBr. 1.1.6.6, 1.7.1.2, 4.3.1.7 ↩︎
-
E2: 2,441; E4: 2,540; E5: 2,390; E6: 1,91 ↩︎
-
E2,4,6: pūṣṇo ↩︎
-
E2,4,5,6: bahvyaḥ ↩︎
-
Tait.S. 1.2.11.2 ↩︎
-
E2: 2,446; E4: 2,551; E5: 2,394; E6: 1,92 ↩︎
-
E2,4: ākāṅkṣāvattvāt ↩︎
-
E2,4: devas tvā ↩︎
-
Tait.S. 1.2.1.2 ↩︎
-
E2: āṅkṣati, E5: ākāṅkṣati ↩︎
-
E2,4,6: ekenaiva tannirākāṅkṣaṃ ↩︎
-
E2: 2,451; E4: 2,552; E5: 2,396; E6: 1,93 ↩︎
-
E2,4,6: vāyur ↩︎
-
E2,4,6: yajatrair aṅgāni ↩︎
-
Tait.S. 1.3.8.1 ↩︎
-
E1,5; E2,4,6: vāyur ↩︎
-
E2: nānuṣañjate, E4: nānuṣajjate, E5: nānuṣajyate, E6: nānuṣajjyate ↩︎
-
E2,4,6: sākāṅkṣeṇāvyaveto ↩︎
-
E2: 3,1; E4: 3,1; E5: 2,401; E6: 1,94 ↩︎