०४ १,४

उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् ॥ MS_१,४.१ ॥

उद्भिदा यजेत1; बलभिदा यजेत2; अभिजिता यजेत3; विश्वजिता यजेतेति4 समामनन्ति5। तत्र संदेहः - किम् उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानीति। कुतः संशयः? उभयथापि प्रतिभातो वाक्यात् - उद्भिदेत्य् एष शब्दो यजेतेत्य् अनेन संबध्यते। स किं वैयधिकरण्येन संबन्धम् उपैति6 - उद्भिदा द्रव्येण यागम् अभिनिर्वर्तयेद् इति, उत सामानाधिकरण्येन - उद्भिदा यागेन यजेतेति। द्वेधाप्य् एतस्मिन् प्रतिभाति वाक्ये, संभवति संशयः। किं तावत् प्राप्तम्? उक्तम् अस्माभिः समाम्नायस्यैदम् अर्थ्यम्। कश्चिद् अस्य भागो विधिः, यो ऽविदितम् अर्थं वेदयति, यथा - सोमेन यजेतेति। कश्चिद् अर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा - वायुर् वै क्षेपिष्ठा देवता इति7। कश्चिन् मन्त्रः, यो विहितम् अर्थं प्रयोगकाले प्रकाशयति, यथा - बर्हिर् देवसदनं दामीत्येवमादिः8। तस्माद् उद्भिदादयो ऽमीषां प्रयोजनानाम् अन्यतमाय प्रयोजनाय भवेयुः। तत्र तावन् नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य। न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्याभावात्। पारिशेष्याद् गुणविधिः - उद्भिद्गुणता यागस्य विधीयते। कुतः। प्रसिद्धेर् अनुग्रहात्, गुणविधेर् अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च। न चैषां यागार्थता लोके ऽवगम्यते। न च वेदेन परिभाष्यते। अतो गुणविधयः। यदि गुणविधिः, न तर्हि कर्म विधीयते। अविहिते च कर्मणि तत्र गुणविधान[८६]9म् अनर्थकम्। नेति ब्रूमः। प्रकृतौ ज्योतिष्टोमे गुणविधानम् अर्थवद् भविष्यति। यदि नामधेयं स्याद्, यावद् एव यजेतेति, तावद् एव उद्भिदा यजेतेति, न प्रवृत्तौ कश्चिद् गुणविशेषः स्यात्। गुणविधौ च गुणसंयोगाद् अभ्यधिकम् अर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति। तस्माद् गुणविधय इत्य् एवं प्राप्तम्।

एवं प्राप्ते ब्रूमः -


अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात् ॥ MS_१,४.२ ॥

अपि वेति पक्षो विपरिवर्तते। नामधेयं स्याद् इति प्रतिजानीमहे एवम् अविहितम् अर्थं विधास्यति - ज्योतिष्टोमाद् यागान्तरम्। श्रुतिश् चैवं यागम् अभिधास्यति। इतरथा श्रुतिर् उद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत्। उद्भिद्वता यागेन कुर्याद् इति। यागेन कुर्याद् इति यजेतेत्य् अस्यार्थः। करणं हि यागः, उद्भिदाद्य् अपि तृतीयानिर्देशात् करणम्, तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यम्। द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्। श्रुतिलक्षणाविशये च श्रुतिर् ज्यायसी। तस्मात् कर्मनामधेयम्। ननु प्रसिद्धं द्रव्यवचनत्वम् अपह्नूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत। उच्यते - तृतीयानिर्देशात् कर्मवचनता। कुतः? करणवाचिनो हि प्रातिपादिकात् तृतीया भवति, करणं च यागः। तेन यागवचनम् इमम् अनुमास्यामहे। नैतद् युक्तम्। यदि तृतीयानिर्देशे सत्य् उद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिर् उत्पद्येत स्याद् एतद् एवम्। न हि नो बुद्धिर् उत्पद्यते, तस्माद् अयुक्तम्। तृतीयावचनम् अन्यथा नोपपद्यत इति चेत्। कामं नोपपादि10, न जातुचिद् अनवगम्यमाने [८७]11 ऽपि यागवचनो भविष्यति, तस्माद् गुणविधयः। लक्षणेति चेत्। वरं लक्षणा कल्पिता, न यागाभिधानम्। लौकिकी हि लक्षणा, हठो ऽप्रसिद्धकल्पनेति। अपि च - यदि नामधेयं विधीयते, न यागः। अथ यागः, न नामधेयम्। उभयविधाने वाक्यभेद इति। उच्यते - न नामधेयं विधायिष्यते। अनुवादा ह्य् उद्भिदादयः। कुतः प्राप्तिर् इति चेत्। ततो ऽभिधीयते - उच्छब्दसामर्थ्याद् भिच्छब्दसामर्थ्याच् चोद्भिच्छब्दः क्रियावचनः - उद्भेदनं प्रकाशनं पशूनाम् अनेन क्रियत इत्य् उद्भिद् यागः। एवम् आभिमुख्येन जयाद् अभिजित्, विश्वजयाद् विश्वजित्। एवं सर्वत्र। अतः कर्मनामधेयम्। यत् त्व् अप्रवृत्तिविशेषकरो ऽनर्थक इति, नामधेयम् अपि गुणफलोपबन्धेनार्थवत्। तस्मात् कर्मनामधेयान्य् एवंजातीयकानीति सिद्धम्।


यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्धः ॥ MS_१,४.३ ॥

चित्रया यजेत पशुकामः12; त्रिवृद् बहिष् पवमानम्13; पञ्चदशान्य् आज्यानि14; सप्तदशपृष्ठानीत्य्1516 उदाहरणम्। किं चित्राशब्दः, पवमानशब्दः, आज्यशब्दः पृष्ठशब्दश् च गुणविधय उत कर्मनामधेयानीति संशयः। प्रसिद्धेः, अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च गुणविधयः। न चैते कर्माणि प्रसिद्धाः। न चामी यौगिकाः। जातिशब्दा ह्य् एते, चित्रेति च गुणशब्दः। चित्रया यजेति च यागानुवादः, विज्ञातत्वान् न यागविधिः। गुणे फलकल्पनायां यजतेर् न विवक्षा। तथाज्यानि भवन्ति, पृष्ठानि भवन्तीति च। गुणविधिकल्पनायाम् अपि न लक्षणा। तस्माद् गुणविधय इत्य् एवं प्राप्तम्। [८८]17 एवं प्राप्ते ब्रूमः - यस्मिन् गुणविधिर् नामधेयम् इति संदिग्धे गुणो ऽपर उपदिश्यते, प्रधानेन कर्मणा तस्य संबन्धः, कर्मनामधेयम् इत्य् अर्थः। गुणविधौ हि सति वाक्यं भिद्येत। पुंपशौ18 प्राप्ते स्त्रीपशुः, पशवः फलम्, चित्रो गुण इति न शक्यम् एकेन वाक्येन विधातुम्। चित्रो गुणो विधीयमानः स्त्रियां विधीयेत, नासाव् अग्नीषोमीये पशुकामे च विधीयेत, सो ऽपि नाग्नीषोमीये। तथा पञ्चदशान्य् आज्यानि भवन्तीत्य् आज्येषु पञ्चदशता। न चाविहितानि स्तोत्रेष्व् आज्यानि भवन्ति, न चान्यद् विधायकं वाक्यम्, तच् चैतद् आज्यानि विदध्याद् विहितेषु च पञ्चदशताम्। गम्यते च पञ्चदशताया आज्यानां च संबन्धः। स्तोत्रसंबन्धश् चाज्यानाम् अविज्ञातः पञ्चदशतासंबन्धश् च। द्वाव् एताव् अर्थाव् एकवाक्यस्याशक्यौ विधातुम्। अथ नु19 कर्मनामधेयम्, नैष विरोधो भवति। केवलं संख्यासंबन्धस् तदानीं विधीयते। अपि च, आज्यानि स्तोत्राणीत्य् अनेन शब्देन लक्षणयैव गुणो विधीयेत। अतः कर्मणां नामधेयानि वाक्यान्तरैर् आज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर् विहितानाम्। यत् त्व् अप्रसिद्धं कर्मणां नामधेयम् इति20। अवयवप्रसिद्ध्या21, आजिगमनाद् आज्यानि। कथम् आजिगमनम् इति। अर्थवादवचनात्। यद् आजिमीयुस् तद् आज्यानाम् आज्यत्वम् इति। स्पर्शवचनात् पृष्ठानि। पवमानार्थमन्त्रकत्वाद् बहिःसंबन्धाच् च बहिष्पवमानम्। दधि मधु पयो घृतं धानास् तण्डुला उदकम् इति22 नानाविधद्रव्यत्वाच्23 चित्रा। तस्माद् एवंजातीयकानि कर्मनामधेयानीति। अथ कस्मान् न पञ्चदशसंख्याविशिष्टान्य् आज्यानि स्तोत्रकर्मसु विधीयन्ते। विशिष्टानां वाचकस्य शब्दस्याभावात्। ननु पदद्वयम् इदं वाचकं भविष्यति, पञ्चदशान्य् आज्यानि [८९]24 इति विशिष्टानाम्, तद् एतेषु स्तोत्रेषु विधास्यति। नैतत् पदद्वयम् अपि विधायकम्। एकम् अत्र विधायकम्, एकम् उद्देशकम्। उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात्। अविधायके स्तोत्रसंबन्धो न विधीयते। न चात्रैकं पदं विशेषणं प्रत्य् उद्देशकम्, स्तोत्रं प्रति विधायकं भवितुम् अर्हति। वचनव्यक्तिभेदाद् अतो ऽयम् असमाधिः।


तत्प्रख्यं चान्यशास्त्रम् ॥ MS_१,४.४ ॥

अग्निहोत्रं जुहोति स्वर्गकाम इति25; आघारम् आघारयतीति26 च समामनन्ति। तत्र संशयः -किम् अग्निहोत्रशब्द आधारशब्दश् च गुणविधी, उत कर्मनामधेय इति। गुणविधी इति ब्रूमः। कुतः? गम्यते हि अग्नये होत्रम् अस्मिन्न् इति। तथा क्षरणसमर्थं द्रव्यं घृतादि, आघारम् आघारयतीति। प्रसिद्धिर् एवम् अनुग्रहीष्यते। गुणविधिश् च दर्विहोमे, आघारश् चोपांशुयाजे। तत्रैतयोर् अर्थवत्ता प्रवृत्तिविशेषकरत्वं च। न च गुणविधिपक्षे लक्षणा भवति यथोद्भिदा यजेत इति। अग्निहोत्रे समासेनावगतं गुणविधानम्। आघारे ऽपि आघारं निर्वर्तयतीति श्रुत्यैव गुणो विधीयते। तस्माद् गुणविधीत्य् एवं प्राप्ते। ब्रूमह् - तत्प्रख्यं चान्यशास्त्रम्। यौ गुणाव् एताभ्यां विधीयेत इत्य् आशङ्क्यते, ताव् अन्यत एवावगतौ। यद् अग्नये च प्रजापतये च सायं जुहोतीति27 देवताविधानम्। चतुर्गृहीतं वा एतद् अभूत् तस्याधारम् आधार्या इत्य्28 आधारे च द्रव्यविधिः। अविदितवेदनं च विधिर् इत्य् उच्यते। विदितं चात्रान्यतो गुणविधानम्। तस्मान् न गुणविधी। कर्मनामधेये तु संभवतः। यस्मिन्न् अग्नये होत्रं [९०]29 होमो भवति, तद् अग्निहोत्रम्। दीर्घधारा क्षरणक्रिया प्रसिद्ध एवाघारः। तस्मात् कर्मनामधेये। प्रसिद्ध्यादयश् चोक्तोत्तराः। प्रजापतिनिवृत्त्यर्थम् अग्निविधानं भविष्यतीति चेन्। नैतद् एवम्। अग्निं ह्य् एष विधातुं शक्नोति, न पर्जापतिं प्रतिषेद्धुं। प्रतिषिध्यमानस्य च प्रजापतेर् विधानम् अनर्थकं स्यात्, प्रजापतिर् देवतेति गम्यते। गम्यमानं च न शक्यं मिथ्येति कल्पयितुम्। अतो ऽयम् असमाधिः। उच्यते - आघारम् आघारयतीति द्रव्यपरा चोदना। यैस् तु द्रव्यं चिकीर्ष्यत इति30, द्रव्यं ह्य् अनया क्रियया क्षार्यते। क्षारितं च यागं साधयति। तत् कस्य प्रधानस्य कर्मणो नामधेयम् इति। उच्यते - एतद् एवाघारणं प्रधानकर्म। नन्व् अस्य द्रव्यदेवतण् नास्ति। अस्तीति ब्रूमः। तस्याघारम् आघार्येत्य् आज्यं द्रव्यम्; मान्त्रवर्णिकी देवता - इन्द्र ऊर्ध्वोद्धर इत्य् आघारम् आघारयतीति31 मन्त्रो ह्य् अभिदधत् कर्म, तत्साधनं वा कर्मणि समवैति। एष च मन्त्र इन्द्रम् अभिधातुं शक्नोति। स यदीन्द्रस् तत्साधनं भवेत्, एवम् अनेन मन्त्रेणाघारः शक्यते कर्तुम्। तस्माद् इन्द्रो देवता, द्रव्यदेवतासंयुक्तम् आघारणम्। तस्माद् यजतिः, तस्य यजतेर् नामधेयम् इति।


तद्व्यपदेशं च ॥ MS_१,४.५ ॥

अथैष श्येनेनाभिचरन् यजेत32; अथैष संदंशेनाभिचरन् यजेत33; अथैष गवाभिचरन् यजेतेति34 समाम्नायन्ते। तत्र गुणविधिः कर्मनामधेयम् इति संदेहः। प्रसिद्ध्यादिभिः पूर्वपक्षः, उद्भिदादीनाम् इव। ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम्। इमे पुनर् जातिनिमित्ता न शक्नुवन्ति, [९१]35 तेन गुणविधय इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - तद्व्यपदेशं च। तेन श्येनादीना प्रसिद्धेन यस्य व्यपदेशः, तच् च कर्मनामधेयम्। श्रुतिर् हि नामधेयत्वे, लक्षणा गुणविधौ। यत् तु जातिशब्दाः, इमे न यागम् अभिवदन्तीति। सादृश्यव्यपदेशाद् अभिवदिष्यन्ति। एवं हि व्यपदेशो भवति - यथा वै श्येनो निपत्यादत्ते, एवम् अयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते, यम् अभिचरन्ति श्येनेनेति36। निपत्यादत्त इत्य् अनेन सादृश्येन श्येनशब्दो यागे, यथा सिंहो देवदत्त इति। तस्मात् कर्मनामधेयम्। संदंशे, संदंशेन यथा दुरादानम् आदत्त इति। गवि यथा गावो गोपायन्तीति। तस्मात् संदंशशब्दो ऽपि कर्मनामधेयं गोशब्दो ऽपि।


नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् ॥ MS_१,४.६ ॥

वाजपेयेन स्वाराज्यकामो यजेतेति37 श्रूयते। तत्र किं गुणविधिः, कर्मनामधेयम् इति संदेहः। एवं चेत् संदेहः, दृश्यते गुणविधिः। न संदेहः, श्रूयते हि गुणः। सो ऽवगम्यमानो न शक्यो नास्तीति वदितुम्। तस्माद् गुणविधिः।


तुल्यत्वात् क्रिययोर् न ॥ MS_१,४.७ ॥

नैतद् एवम्, तुल्ये हीमे क्रिये स्याताम्। या च वाज्य्पेयक्रिया, या च दर्शपुर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात्। तथा च दीक्षाणाम् उपसदां च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति। अथ वा तुल्यत्वात् क्रिययोर् नेति। यदि न गुणविधिः, ततस् तुल्यैषा वाजपेयक्रिया ज्योतिष्टोमक्रियया। तत्र38 दीक्षाणा[९२]39म् उपसदां च दर्शनम् उपपन्नम्। तस्मात् कर्मनामधेयम् इति। लिङ्गं त्व् एतत्, प्राप्तिः पुनर् उत्तरसूत्रेण।


एकशब्द्ये परार्थवत् ॥ MS_१,४.८ ॥

यदि गुणविधिः स्यात्, स्वार्थवत् परार्थवच् चाभिधानं विप्रतिषिध्येत40 यजेतेत्य् अस्य शब्दस्य। यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थम् उच्यते, न तर्हि वाजपेयेन गुणेन संबद्धुं परार्थम् अनूद्येत यागेन वाजपेयगुणकेनेति। भिद्येत हि तथा वाक्यम्। ननु द्वे एवैते वाक्ये प्रत्यक्षम् उपलभामहे - स्वाराज्यकामो41 यजेतेत्य्42 एतद् एकं प्रत्यक्षं पदद्वयम्। यजेत वाजपेयेनेत्य् एतद् अपि प्रत्यक्षम् एव। नैतद् एवम्। एवं सति चत्वारि पदान्य् उपलभेमहि, त्रीणि चैतान्य् उपलभ्यन्ते। उच्यते - यजेतेत्य् एतद् उभाभ्यां संभन्त्स्यते। कथं सकृद् उच्चारितं संबन्धम् उभाभ्याम् एष्यतीति। रूपाभेदात्। ईदृशम् एवास्य रूपं स्वाराज्यकामेन संबध्यमानस्या, ईदृशम् एव वाजपेयेन। अतस् तन्त्रेणोभाभ्यां संभन्त्स्यत इति। नैतद् अस्तीदृशेनैव रूपेणेति। यद्य् अज्ञातः, ततो43 विधिः। यदि ज्ञातः, ततो ऽनुवादः। न च ज्ञातो ऽज्ञातश् च युगपत् संभवतीति। आह - यद् इदम् उक्तम्, गुणविधिपक्षे ऽनुवादो यजेतेति। यद्य् अयम् अनुवादः, केनेदानीं गुणो विधीयते। वाजपेयशब्देनेति मा वोचः। न ह्य् आख्यातम् अन्तरेण कृत्यं वा, नामशब्दार्थस्य व्यापारो44 विधीयते। यश् चात्राख्यातशब्दो यजेतेति, सो ऽनुवाद इत्य् उक्तम्। केनेदानीं तस्य व्यापारो विधीयते। अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः। तस्माद् उभाभ्यां संबध्यत इति। यद्य् उभयत्र विधिः, वाजपेयो न स्वाराज्यकामस्य यागेन संबध्येत। द्वे ह्य् एते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधेर् एकवाक्यता।[९३]45 प्रकरणात् संबन्धः स्वाराज्यकामस्य यागेनेति चेत्, न, वाक्येन यागमात्रे विधानात्। अस्तु यागमात्रेण संबन्ध इति चेत्, न, स्वाराज्यकामस्य यागेन सहैकवाक्यताया गम्यमानत्वात्। तद् एवं प्रकरणस्य वाक्यस्य च बाधो46 युज्यते, यदि कर्मनामधेयम्। गुणविधिपक्षे हि सर्व इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः। तस्मात् कर्मनामधेयं वाजपेयशब्द इति सिद्धम्।


तद्गुणास् तु विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः ॥ MS_१,४.९ ॥

यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः47 श्रूयन्ते। तत्र संदेहः - किम् आग्नेयो ऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति। किं तावत् प्राप्तम्। गुणविधौ सत्य् अनेको गुणो विधीयेत - अग्निपुरोडाशाष्टाकपाला इति। तस्मान् न गुणविधय इति। एवं प्राप्ते ब्रूमः - तच् च कर्मं गुणाश् चास्य विधीयेरन्। अविभक्ता हि ते कर्मणो विधानार्थे तद् धितान्ते शब्दे। तत्र ह्य् अष्टाकपालस्याग्नेयता विधीयते। स एष एवम् आग्नेयो भवति, यद्य् अग्नये संकल्प्य दीयते, तेनायम् अनेन प्रकारेण यागो विहितो भवति। स एवं विधीयमानो न शक्यो ऽग्निम् अष्टाकपालं चाविधाय विधातुम्, संबन्धो हि विधीयमानो न शक्यते संबन्धिनाव् अविधाय विहित इति वक्तुम्। तस्माद् गुणविधयः। अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाश एव भवति। सो ऽनुवादः। सिद्धश् चात्राष्टाकपाल उच्यते कपालेषु श्रययतीति48 वच[९४]49नाद् नान्येन श्रपितं गृह्णन्ति। तेनास्मिन् पक्षे न वाक्यभेदो भवति। न चेद् अन्येन शिष्टाः। यत्र पुनर् अन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम्। यथा - अग्निहोत्रं जुहोतीति।


बर्हिराज्योर् असंस्कारे शब्दलाभाद् अतच्छब्दः ॥ MS_१,४.१० ॥

बर्हिराज्ययोः पुरोडाशे च संदेहः - किम् एते संस्कारशब्दा उत जातिशब्दा50 इति। संस्कारशब्दा इति ब्रूमः। संस्कृतेषु तृणेषु बर्हिःशब्दम् उपचरन्ति सर्वत्र, नासंस्कृतेषु। संस्कृते च घृते आज्यशब्दम्। तथा संस्कृते पिष्टे पुरोडाशशब्दम्। नन्व् असंस्कृते ऽपि कस्मिंश्चिद् देश उपचर्यते। यथा बर्हिर् आदाय गावो गता इति भवन्ति वक्तारः। तथा - आज्यं क्रयम् इति। पुरोडाशेन मे माता प्रहेलकं ददातीति। सादृश्यात् तेषु प्रयोगः। यथोपशये यूपशब्दः। कुत एतत्? यत एकदेशे हि शब्दप्रयोगः, तस्मात् संस्कारशब्दा इत्य् एवं प्राप्तम्। एवं प्राप्ते ब्रूमः - बर्हिरादिष्व् असंस्कृतेष्व् अपि शब्दलाभान् न संस्कारशब्दाः। ननूक्तं सादृश्याद् एकदेशे भविष्यन्ति। तन् न, प्रसिद्धे हि संस्कारशब्दत्वे, सादृश्याद् इति शक्यते वक्तुम्। तच् चाप्रसिद्धम्। कथम्? बर्हिरादिशब्दैर् उद्दिश्य संस्कारा विधीयन्ते। तेन सत्सु शब्देषु संस्कारैर् भवितव्यम्, सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति। न चाविहिताः संस्कारा भवन्ति, यान् आलोच्य लोकः प्रयुञ्जीत। तस्मान् न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते। तत एकदेशे ऽपि जाति[९५]51निमित्ता दृष्टाः, सर्वत्र जातिनिमित्ता भवितुम् अर्हन्ति। न चालौकिकानां सतां वेदाद् एव पूर्वोत्तरपदसंबन्धम् अनपेक्ष्य शक्यते ऽर्थो ऽध्यवसातुम्। पूर्वोत्तरपदे अनर्थके मा भूताम् इत्य् एवं स परिकल्प्येत। अशक्यस् त्व् अनवगम्यमानः परिकल्पयितुम्, अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः। तस्माज् जातिशब्दा एवंजातीयकाः। प्रयोजनम् - बर्हिषा यूपावटम् अवस्तृणातीति संस्कृतैर् एव स्तरितव्यम्, यदि पूर्वः पक्षः, विपरीतं सिद्धान्ते।


प्रोक्षणीष्व् अर्थसंयोगात् ॥ MS_१,४.११ ॥

प्रोक्षणीर् आसादय इति52 श्रूयते। तत्र प्रोक्षणीशब्दं प्रति संदेहः - किं संस्कारनिमित्त उत जातिनिमित्त उत यौगिक इति। तत्र संस्कारेषु सत्सु दर्शनात् संस्कारशब्दतायाम् अवगम्यमानायाम् असंस्कृते शब्दलाभाज् जातिशब्दः। असंस्कृतास्व् एवाप्सु प्रोक्षणीभिर् उद्वेजिताः स्म इति कस्मिंश्चिद् देशे भवन्ति वक्तारः। तेन जातिशब्द इति प्राप्ते। यौगिक इत्य् उच्यते। कुतः? अर्थसंयोगात्। प्रोक्षण्य इत्य् उपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगाद् अनुमीयते। सेचनसंयोगात् तूपसर्गधातुकरणप्रत्ययसहितो ऽप्सु प्रवतत इति प्रसिद्धिर् अनुगृहीता भविष्यति। यदान्यद् अपि सेचनं प्रोक्षणशब्देनोच्यते तदा तत्संयोगाद् एवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते। तस्माद् यौगिकः। प्रयोजनं घृतं प्रोक्षणं भवतीति, यदि संस्कारशब्दाः प्रोक्षणीरासादयेति प्रैषः। यदि जातिशब्दः, घृतम् आसादयेति। यदि यौगिकः प्रोक्षणम् इति।

[९६]53


तथा निर्मन्थ्ये ॥ MS_१,४.१२ ॥

निर्मन्थ्येनेष्टकाः पचन्तीति। संस्कृते दर्शनात् संस्कारशब्दो निर्मन्थ्य इति। असंस्कारे ऽपि दृश्यते। निर्मन्थ्यमानयादैनं पक्ष्याम इति। निर्मन्थनयोगात् पूर्ववद् यौगिक इति संस्थितम्। प्रयोजनं संस्कारनिमित्ते संस्कृतेनेष्टकाः पक्तव्याः। जातिशब्दे यथोपपन्नेन। यौगिके ऽचिरनिर्मथिते यथा नावनीतेन भुङ्क्त इत्य् अचिरनिर्दग्धेनेति गम्यते।


वैश्वदेवे विकल्प इति चेत् ॥ MS_१,४.१३ ॥

चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे संदेहः - वैश्वदेवेन यजेत इति54। किं वैश्वदेवशब्दो गुणविधिर् उत कर्मनामधेयम् इति। यदि संदेहो न संदेहः। वैश्वदेवे विकल्पः। गुणविधिर् वैश्वदेवशब्दः। गम्यते हि गुणविधानम्। विश्वेदेवा विधीयन्त आग्नेयादिषु यागेषु। तत्राग्न्यादीनां विश्वैर् देवैर् विकल्पः। एवं प्रसिद्धिर् अर्थवती भविष्यति।


न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य ॥ MS_१,४.१४ ॥

नैतद् एवम्। प्रत्यक्षश्रुतिविहिता अग्न्यादयस् तेषां यागानाम्, विश्वेदेवा वाक्येन प्रकरणात् तेनैव नान्येनेति गम्यते। न चायं विषमशिष्ठो विकल्पो भवितुम् अर्हति। न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम्। तस्मात् कर्मनामधेयम्।

[९७]55


मिथश् चानर्थसंबन्धः ॥ MS_१,४.१५ ॥

अथोच्यते वैश्वदेव इत्य् अनेन शब्देन प्रत्यक्षम् अग्न्यादिगुणविशिष्टो यागगुणो लक्ष्यते। वैश्वदेवी हि तत्रामिक्षा समवैति। यदि वैश्वदेवशब्देन यागगुणो लक्ष्यते न तर्हि विश्वेदेवा विधीयन्ते कथं सकृद् उच्चरितो वैश्वदेवशब्दो यागगुणं लक्षयिष्यति विश्वांश् च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर् देवैर् मिथः संबन्धो घटते। तस्मात् कर्मनामधेयम् एव गुणविधिर् इति।


परार्थत्वाद् गुणानाम् ॥ MS_१,४.१६ ॥

परार्थाश् च गुणाः। ते न शक्नुवन्ति प्रधानम् आवर्तयितुम्। तेन सकृद् याग कर्तव्यो न गुणानुरोधेनावर्तितुम् अर्हति। संप्रतिपन्नदेवतत्वाच् च न विरोधः। तत्रैकस्यां प्रधानाहुतौ त्रिंशदाहुतयो हूयन्त इति त्रिंशत्संख्यासंपत्तिर् आहवनीयाहुतीनां नावकल्पते। तस्मात् कर्मनामधेयम् इति सिद्धम्।


पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये ॥ MS_१,४.१७ ॥

वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति56 श्रूयते। तत्र यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते तेषु संदेहः किम् अष्टत्वादयो गुणविधय उतार्थवादा इति। तत्र गुणविधय इत्य् एवं ब्रूमः - कथम्? ये हि पूर्ववन्तो (विदितपूर्वम्57 अर्थ[९८]58म् अभिवदन्ति)59 ते ऽविधानार्थाः तद् एतद् अस्य वाक्यस्य समाम्नाये सामर्थ्यं यदविहितपूर्वकाभिधानम्। किं तत्, विधानसामर्थ्यम्। एवम् अविहितम् अर्थं विधास्यति। इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः। न च द्वदशकपालस्य शेषभावम् उपगन्तुम् अर्हति। प्रत्यक्षा ह्य् अष्टानां कपालानां स्तुतिः परोक्षा द्वादशानाम्। प्रत्यक्षाभावे च परोक्षा स्यात्। तस्माद् गुणविधयः।


गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवतास्ति ॥ MS_१,४.१८ ॥

नैतद् अस्ति गुणविधय इति। गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्या विदध्युः। न शक्नुवन्ति यागप्रयोगस्य विधातुम्। द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरेण। तेन ते यागे न भविष्यन्ति। अपि चाष्टत्वादयः पुरोडाशेनैकवाक्यभूताः प्रकरणं बाधित्वा, न यागस्य भविष्यन्ति। यागासंबन्धे चानर्थकाः पुरोडाशसंबन्धे फलाभावात्। अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिर् उपपद्यते। तस्माद् अर्थवादा इति।


तच्छेषो नोपपद्यते ॥ MS_१,४.१९ ॥

इति यद् उक्तं तत् परिहर्तव्यम् इत्य् आभाषान्तं सूत्रम्।


अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् ॥ MS_१,४.२० ॥

यदा त्व् अष्टाकपालादिप्ररोचनार्था अनर्थका इत्य् अवगतं तदा लक्षणया द्वादशकपालस्य स्तुतिर् वैश्वानरयागप्ररोचनार्था भविष्यति। सन्ति हि द्वादशसंख्यायाम् अष्टत्वादयः संख्याविशेषा [९९]60 अविभक्ताः। अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिर् उपपद्यते। यथा शोभनम् अस्य चक्रस्य नेमितुम्बारम्, शोभनम् अस्याः सेनाया हस्त्यश्वरथपादातम् इति। तस्माद् उपपन्ना स्तुतिर् इति।


कारणं स्याद् इति चेत् ॥ MS_१,४.२१ ॥

इति चेद् भवान् पश्यत्य् अर्थवादा इति, कारणम् अष्टत्वादीनां ब्रह्मवर्चसादि कस्मान् न भवति। ब्रह्मवर्चसकामस्याष्टाकपालः। एवम् उत्तरेषु यथाकामम्। किम् एवं भविष्यति। पुरोडाशस्य गुणविधाने ऽप्य् आनर्थक्यं न भविष्यति न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति। तस्मात् कामेभ्यो विधयो बविष्यन्ति।


आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते ॥ MS_१,४.२२ ॥

यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः। एकं चेदं वाक्यम्, वैश्वानरं द्वादश-कपालं निर्वपेत् पुत्रे जात इत्य् एदमपक्रान्तं यद् द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति यस्मिञ् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व् यन् नाद इन्द्रियावी पशुमान् भवतीत्य्61 एवम् अन्तम्। तस्य मध्ये ऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस् ततो वाक्यान्तराणि भवेयुः। [१००]62 कर्तुर् हि कारणानि पूतत्वादीनि भवेयुः। स एष गुणार्थो ऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः। तेन चैते ऽष्टत्वादयः साक्षाद् धेतुत्वेन संबध्यन्ते यस्माद् गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः, यस्मात् त्रिवृतैवास्मिंस् तेजो दधाति तेन तेजस्वी। यस्माद् विराजैवास्मिन्न् अन्नाद्यं दधाति तेनान्नादः। यस्मात् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति तेनेन्द्रियावी। यस्माज् जगत्य् ऐवास्मिन् पशून दधाति तेन पशुमान् इति। ततः कामाय विधयो ऽसंभवन्तो यद्य् अर्थवादा अपि न भवेयुर् आनर्थक्यम् एवैषां स्यात्। तस्माद् अकारणं ब्रह्मवर्चस्त्वाद् यो ऽष्टत्वादीनाम्। तस्माद् अष्टत्वादयो ऽर्थवादा इति।


तत्सिद्धिः ॥ MS_१,४.२३ ॥

यजमानः प्रस्तरः63; यजमान एककपाल इत्यादि64 समाम्नायते। तत्र संदेहः। किं यजमानः प्रस्तर इत्य् एष गुणविधिः, किम् अर्थवाद इति। तथा यजमान एककपाल इति। किं तावत् प्राप्तम्। गुणविधिर् इति। किम् एवं भविष्यति एवम् अपूर्वम् अर्थं विधास्यति। इतरथार्थवादो ऽनर्थकः स्यात्। अर्थवत्त्वं च न्याय्यम्। तस्माद् विधिः। नैतद् एवम्, यदि विधिः स्यात्, ततः प्रस्तरकार्ये65 यजमानो नियम्येत। यजमानकार्ये वा प्रस्तरः। प्रस्तरे जुहूम् आसादयति, सर्वा वा स्रुव66 इति यजमाने जुहूर् आसाद्येत। सर्वा वा स्रुव67 इति। तथासति68 न याजमानं शक्यते कर्तुम्, दीक्षणतो ब्रह्मयजमानाव् आसाते कर्मण क्रियमाणस्य इति69। न च प्रस्तरो याजमानं शक्नोति कर्तुम्। तथा यदि यजमान एककपालकार्ये विनियुज्येत सर्वहुतः क्रियेत। तत्र सर्वतन्त्रपरिलोपः [१०१]70 स्यात्। न चैककपालो याजमानं शक्नोति कर्तुम्। तस्मान् न विधिः। विध्यन्तरं चास्ति प्रस्तरम् उत्तरं बर्हिषः सादयति, एककपालं सर्वहतं करोति, इति। तस्माद् अपि न विधिः। किं हि अर्थवादः। यजमानो ज्ञायत एव प्रस्तर एककपाल इति च। कथं पुनर् अनयोः सामानाधिकरण्यं ज्ञायते। न हि प्रस्तर एककपालो वा यजमानः। न च यजमान एकस्मिन् कपाले संस्कृतः पुरोडाशः प्रथमो वा कशम् ष्टिर् लूनः। कथं परशब्दः परत्र वर्तते, किम् अर्थं वा ज्ञायमानस्व संकीर्तनम् इति। उच्यते - ज्ञायमानः संकीर्त्यते स्तोतुम्। प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात्। तथा यजमान एककपालः सर्वहुतः कर्तव्यः स्वर्ग आहवनीयस् तत्र प्रतिष्ठापितो भवतीति। कथं परत्र वर्तते परशब्द इति। गुणवादस् तु। गुणाद् एष वादः। कथम् अगुणवचनो गुणं ब्रूयात्। स्वार्थाभिधाननेति ब्रूमः। सर्व एवैते गौणाः शब्दा न स्वार्थं हित्वा गुणेषु वर्तन्ते। प्रसिद्धहानिर् हि तथा स्याद् अप्रसिद्धकल्पना च। न च सर्वे गुणसमुदायवचनाः। गुणहीने ऽपि दर्शनात्। अप्रसह्यकार्य् अपि हि कदाचिद् रोगेणोपहतः सिंह्याः पुत्रः सिंह एव। समुदायवाची च नावयवे प्रवर्तितुम् अर्हति। सर्वसिंहव्याक्तिषु यत् सामान्यं तद् वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत। न चासति सिंहो परिकल्पनया प्रवर्तेत। कल्पनाया अशक्यत्वात्। कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्थेति चेत्। अर्थसंबन्धात्। सिंह इति निर्ज्ञायते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्यकारीति गम्यते, अर्थं प्रत्ययसामर्थ्यात्। यो हि मन्यते प्रसह्यकारिणं प्रत्याययेयम् इति स यदि सिंहशब्दम् उच्चारयति सिध्यत्य् अस्याभिप्रेतम्। सिंहार्थः प्रतीतः प्रसह्य[१०२]71कारीति संबन्धाद् इतरम् अर्थं प्रत्याययति। एवं स्वार्थाभिधानेन तद्गुणसंबन्धः प्रतीयते। इह तु यजमानः प्रस्तरः यजमान एककपाल इति कीदृशो गुण संबन्धः प्रतीयते। तत्सिद्धिकर इति। सर्वो ह्य् आत्मनह् कार्यसिद्धिं करोति। अन्यो ऽपि यस् तस्य कार्यसिद्धिं करोति स तस्मिन्न् उच्चरिते हृदयम् आगच्छति। यथा राजा पत्तिगणक इति। पत्तिगणको राज्ञः कार्यं साधयति। स राजशब्द उच्चरिते प्रतीयते। एवम् इहापि यजमानकार्यं प्रस्तरैककपालौ साधयतः, तौ यजमाने प्रतीते प्रतीयेते। तस्मात् तौ यजमानशब्देन प्रत्यायेते। कथं? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति। तस्माद् एवंजातीयका अर्थवादा न विधय इति।


जातिः ॥ MS_१,४.२४ ॥

आग्नेयो वै ब्राह्मणः72; ऐन्द्रो राजन्यः73; वैश्यो वैश्वदेव इत्येवमादयः74 श्रूयन्ते। तत्र गुणविधयः आर्थवादा इति संदेहः। गुणविधय इति ब्रूमः। एवम् अपूर्वम् अर्थं विधास्यन्ति, इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः। न विधिर् विध्यन्तरस्य भावात्। तस्मात् संवादः। तस्य संकीर्तनं विधिस्तुत्यर्थम्। अनाग्नेयादिष्व् आग्नेयादिशब्दाः केन प्रकारेण। गुणवादेन। को गुणवादः। अग्निसंबन्धः। कथम्? एकजातीयकत्वात्। किम् एकजातीयकत्वम्। प्रजापतिर् अकामयत, प्रजाः सृजेयम् इति। स मुखतस् त्रिवृतं निरभिमीत, तम् अग्निर् देवतान्वसृज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम् अजः पशूनाम्। तस्मात् ते मुख्याः, मुखतो ह्य् असृज्यन्त। उरसो [१०३]75 बाहुभ्यां पञ्चदशं निर्मिमीत, तम् इन्द्रो देवतानसृज्यत, त्रिष्टुप् छन्दः, बृहत् साम, राजन्यो मनुष्याणाम्, अविः पशूनाम्। तस्मात् ते वीर्यवन्तः, वीर्याद् धि असृज्यन्त। ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत, तं विश्वेदेवा देवता अन्वसृज्यन्त, जगती छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्76। एवम् उक्ते सत्य् एकस्मिन्न् एवंजातीयके विज्ञाते ऽन्यो ऽपि तज्जातीयको हृदयम् आगच्छति। तस्माद् अर्थवादशब्दाः77


सारूप्यम् ॥ MS_१,४.२५ ॥

यजमानो यूपः; आदित्ये यूप इत्यादि78 श्रूयते। तत्र गुणविधिः, अर्थवादः, इति संदेहः। अर्थवत्त्वाद् गुणविधि। अशक्यत्वाद् यूपकार्यसाधने यजमानस्य, यजमानकार्यसाधने वा यूपस्य विध्यन्तरभावाच् च न विधिः। विधिस्तुत्यर्थं संवादः। गुणवादात् सामानाधिकरण्यम्। को गुणः? सारूप्यम्। किं सारूप्यम्? ऊर्ध्वता तेजस्विता च। तस्माद् एवंजातीयका अर्थवादाः।


प्रशंसा ॥ MS_१,४.२६ ॥

अपशवो वा अन्ये गो ऽश्वेभ्यः, पशवो गो ऽश्वाः79। अयज्ञो वा एष यो ऽसामा80। असत्रं वा एतद् यद् अछन्दोमम् इति81 श्रूयते। तत्र विध्यर्थ वादसंदेहे, अर्थवत्त्वाद् विधय इति प्राप्ते। अभिधीयते - यदि विधयो भवेयुः, गो ऽश्वा एव पशवः स्युः, सामवान् एव यज्ञः, छन्दोमवद् एव सत्रम्। अन्येषां पशूनाम्, यज्ञानाम्, [१०४]82 सत्राणां चोत्पत्तिर् अनर्थिका स्यात्। विध्यन्तरं च नावकल्पेत। अतः स्तुत्यर्थं संवादः। गो ऽश्वान् प्रशंसितुम् अन्येषां पशूनां निन्दा। सामवतः प्रशंसितुम् असाम्नां निन्दा। छन्दोमवन्ति प्रशंसितुम् अच्छन्दोमकानि निद्यन्ते। यथा - यद् अघृतम्, अभोजनं तत्। यन् मलिनम्, अवासस् तद् इति।


भूमा ॥ MS_१,४.२७ ॥

सृष्टीर् उपदधातीति83 श्रूयते। तत्र गुणविधिर् अर्थवाद इति संदेहे अपूर्वत्वाद् विधिर् इति प्राप्ते। उच्यते - यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्य् अर्थः। तत्र नेष्टकानां विशेषः कश्चिद् आश्रीयते, एवंरूपाः सृष्टिमन्त्रका नैवंरूपा इति। तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः। अन्येषाम् असंयुक्तानां मन्त्राणाम् आनर्थक्यं स्यात्। तस्माद् अनुवादो मन्त्रसमाम्नानात् प्राप्तानाम् उपधाने मन्त्राणाम्। सृष्टीनां संकीर्तनं84 सर्जनार्थवादार्थम्। अपि च विधित्वे लक्षणा, एकया स्तुवत इत्य्85 अत्र या असृष्टयस् ता लक्षयेत्। नन्व् अनुवादे ऽपि लक्षणा86। नानुवादपक्षे लक्षणायां दोषः। कथं त्व् असृष्टिषु सृष्टिषु च सृष्टिशब्द इति। भूम्ना। बहवस् तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति।

[१०५]87


लिङ्गसमवायः ॥ MS_१,४.२८ ॥88

प्राणभृत उपदधाति89; आज्यानीर् उपदधातीति90 विधित्वे प्राणभृन् मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणाम् आनर्थक्यम्/ तस्माद् अनुवादः/ लिङ्गसमवायात् परशब्दः परत्र वर्तते। यथा - छत्रिणो गच्छन्तीत्य्, एकेन छत्रिणा सर्वे लक्ष्यन्ते। न चायं प्राणभृच् छशब्दः सृष्टिशब्दश् च जहत्स्वार्थं मन्त्रगणं लक्षयेत्। यद् गणे च सृष्टिप्राणभृच् छब्दौ समवेतौ, ताव् अपि परिगृह्येते। यथा - छत्रिशब्देन स्वार्थलक्षणार्थेन सो ऽपि छत्री गृह्यत इति।


संदिग्धेषु वाक्यशेषात् ॥ MS_१,४.२९ ॥

अक्ताः शर्करा उपदधाति91; तेजो वै घृतम् इति92 श्रूयते। तत्र संदेहः। किं घृततैलवसानाम् अन्यतमेन द्रव्येणाञ्जनीयाः शर्करा उत घृतेनैवेति। कथं संदेहः। अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम्। यथोपक्रमं निगमयितव्यम् एकस्मिन् वाक्ये। तत्र यद् वा सामान्यम् आदौ विशेषोपलक्षणार्थं विवक्ष्यते। यद् वा निगमने विशेषः सामान्यलक्षणार्थः। तदारम्भनिगमनयोः किं समञ्जसम् इति संशयः। एवं संदिग्धेषूपक्रमे सामान्यवचने विरोधाभावान् न विशेषः परिकल्प्यः। निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल् लक्षणार्थं घृतवचनम्। यथा सृष्टिष्व् असृष्टिषु च सृष्टिशब्दः, एवं घृतम् अघृतं च घृतम् इत्य् उच्यते। [१०६]93 संदिग्धेष्व् एवं प्राप्ते ब्रूमः - सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य विशेषे निगमनवशेन। कुतः? न हि सामान्यं विहितम्। येन विरोधो निगमनस्य। कथम् अविहितम्। संदिग्धेषु विधानशब्दाभावात्। न हि विधानशब्दो ऽस्ति। अक्ताः शर्करा उपदधातीति वर्तमानकालनिर्देशात्। नापि सामान्यस्य साक्षात् स्तुतिः, प्रत्यक्षं तु घृतस्य स्तवनम्। श्रुत्या घृतस्य स्तुतिः, लक्षणया सामान्यस्य। श्रुतिश् च लक्षणाया ज्यायसी। तस्माद् घृतविधानम्। एवम् वासः परिधत्ते, एतद् वै सर्वदेवत्यं वासो यत् क्षौमम् इति तथा इमां स्पृष्ट्वोद्नायेत्, इमां ह्य् औदुम्बरीं विश्वाभूतान्य् उपजीवनीति।


अर्थाद् वा कल्पनैकदेशत्वात् ॥ MS_१,४.३० ॥

स्रुवेणावद्यति; स्वधितिनावद्यति; हस्तेनावद्यतीति94 श्रूयते तत्र संदेहः। किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च तथा स्वधितिना, हस्तेन च, उत सर्वेषाम् अर्थतो व्यवस्था द्रवाणां स्रुवेण, मांसानां स्वधितिना, सहतानां हस्तेनेति। अविशेषाभिधानाद् अव्यवस्थेति। एवं प्राप्ते ब्रूमः - अर्थाद् वा कल्पना, सामर्थ्यात् कल्पनेति। स्रुवेणावद्येद् यथा शक्नुयात्। तथा यस्य शक्नुया। तस्य चेति, आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी, [१०७]95 एव चेद् यथाशक्ति व्यवस्था भवितुम् अर्हति। तथा - अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति96। द्विहस्तसंयोगो ऽञ्जलिः, स व्याकोशो ऽर्थात् कर्तव्यः। तथा हि शक्यते होमो निर्वर्तयितुम्। तद् यथा - कटे भुङ्क्ते कांस्यपात्र्यां भुङ्क्त इत्य्97 अर्थात् कल्प्यते - कटे समासीनः कांस्यपात्र्यामोदनं निधाय भुङ्क्त इति।

[१०८]98


============================================================================


  1. Tā.Br. 19.7.2 ↩︎

  2. Tā.Br. 19.7.1 ↩︎

  3. Tā.Br. 19.8.4 ↩︎

  4. Tā.Br. 19.8.4 ↩︎

  5. E4 (Fn.): samāmnātaṃ ↩︎

  6. E4 (Fn.): saṃbaddhum arhati ↩︎

  7. Tait.S. 2.1.1.1 ↩︎

  8. Mait.S. 1.1.2.1 ↩︎

  9. E2: 2,271; E4: 2,2; E5: 2,188; E6: 1,59 ↩︎

  10. E2,4,5,6: mopapādi ↩︎

  11. E2: 2,274; E4: 2,21; E5: 2,192; E6: 1,59 ↩︎

  12. Tait.S. 2.4.6.1 ↩︎

  13. Tā.Br. 19.11.2 ↩︎

  14. Tā.Br. 19.11.2 ↩︎

  15. Tā.Br. 19.1.2 ↩︎

  16. E2,4 (richtig): saptadaśāni pṛṣṭhānīti, E5,6: saptadaśa pṛṣṭhāni ↩︎

  17. E2: 2,280; E4: 2,37; E5: 2,199; E6: 1,60 ↩︎

  18. E4 (Fn.): puṃspaśau ↩︎

  19. E4 (Fn.): tu ↩︎

  20. E4 (v.l.): nāmeti ↩︎

  21. E4 (v.l.): prasiddhyāprasiddhaṃ ↩︎

  22. E2,4,5,6 (besser): udakaṃ tatsaṃsṛṣṭaṃ prājāpatyam iti, diese Lesart hat E1 auch als Fn ↩︎

  23. E4 (v.l.): -dravyavattvāc ↩︎

  24. E2: 2,284; E4: 2,38; E5: 2,209; E6: 1,61 ↩︎

  25. Tait.S. 1.5.9 ↩︎

  26. Tait.S. 6.3.7.3., Tait. Br. 3.3.7 ↩︎

  27. Vgl. Mait.S. 1.8.7 ↩︎

  28. Quelle nicht nachgewiesen ↩︎

  29. E2: 2,286; E4: 2,66; E5: 2,214; E6: 1,61 ↩︎

  30. MS 2.1.8 ↩︎

  31. ŚPBr. 1.5.1.4, Tait.Br. 3.3.7.7, Mantra: Mādhy.S. 2.8, Tait.S. 1.1.12 ↩︎

  32. Cf. Ṣaḍ.Br. 3.8.1 ↩︎

  33. Quelle nicht nachgewiesen ↩︎

  34. Quelle nicht nachgewiesen ↩︎

  35. E2: 2,289; E4: 2,83; E5: 2,219; E6: 1,62 ↩︎

  36. Ṣaḍ.Br. 3.8.3 ↩︎

  37. Tait.Br. 1.3.6.9 ↩︎

  38. E4: tadā ca; E4 (v.l.): tatthā ↩︎

  39. E2: 2,292; E4: 2,95; E5: 2,224; E6: 1,63 ↩︎

  40. E1,5; E2,4,6: vipratiṣidhyate ↩︎

  41. E2: svarājyakāmo (sonst wie E1,4,5,6) ↩︎

  42. Ebenda ↩︎

  43. E2: yato ↩︎

  44. E1,6; E2,4,5: nāmaśabdārthavyāpāro ↩︎

  45. E2: 2,293; E4: 2,97; E5: 2,228; E6: 1,64 ↩︎

  46. E1,6; E2,4 (besser): prakaraṇasya cābādho; E5: prakaraṇasya vākyasya cābādho ↩︎

  47. Tait.S. 2.6.3.3 ↩︎

  48. Tait.S. 2.3.6.2 ↩︎

  49. E2: 2,296; E4: 2,108; E5: 2,232; E6: 1,64 ↩︎

  50. E4 (Fn.): jātinimittā ↩︎

  51. E2: 2,298; E4: 2,123; E5: 2,238; E6: 1,65 ↩︎

  52. Tait.Br. 3.2.9.14 ↩︎

  53. E2: 2,301; E4: 2,136; E5: 2,241; E6: 1,66 ↩︎

  54. Mait.S. 1.10.8, Tait.Br. 1.4.10.1, ŚPBr. 5.2.4.1 ↩︎

  55. E2: 2,305; E4: 2,151; E5: 2,245; E6: 1,67 ↩︎

  56. Tait.S. 2.2.5.3., Vāj.S. 29.60 ↩︎

  57. E4 (Fn.): vihitapūrvam ↩︎

  58. E2: 2,307; E4: 2,157; E5: 2,249; E6: 1,67 ↩︎

  59. In E1 geklammert ↩︎

  60. E2: 2,310; E4: 2,171; E5: 2,252; E6: 1,68 ↩︎

  61. Tait.S. 2.2.5.3 ↩︎

  62. E2: 2,312; E4: 2,178; E5: 2,253; E6: 1,68 ↩︎

  63. Tait.S. 2.6.5 ↩︎

  64. Tait.Br. 1.6.3.4 ↩︎

  65. E1,5; E2,4,6: syāt prastarakārye, E4 (Fn.): syāt, tataḥ prastarakārye ↩︎

  66. E1,6; E2,4,5: sruca ↩︎

  67. E1,6; E2,4,5: surca ↩︎

  68. E1,5; E2,4,6 (richtig): tathā sati ↩︎

  69. Quelle nicht nachgewiesen ↩︎

  70. E2: 2,314; E4: 2,180; E5: 2,258; E6: 1,69 ↩︎

  71. E2: 2,321; E4: 2,181; E5: 2,261; E6: 1,70 ↩︎

  72. Tait.Br. 2.7.3.1 ↩︎

  73. Tait.S. 2.4.13. ↩︎

  74. Tait.Br. 2.7.2.2 ↩︎

  75. E2: 2,322; E4: 2,190; E5: 2,264; E6: 1,71 ↩︎

  76. Tait.S. 7.1.1.4-5, vgl. schon ṚV 10.90 ↩︎

  77. E1,6; E2,4,5: tasmād arthavādāḥ ↩︎

  78. Tait.Br. 2.1.5.2 ↩︎

  79. Tait.S. 5.2.9.4 ↩︎

  80. Tait.S. 1.5.7.1 ↩︎

  81. Tait.S. 7.3.8.1 ↩︎

  82. E2: 2,324; E4: 2,192; E5: 2,265; E6: 1,71 ↩︎

  83. Tait.S. 5.3.4 ↩︎

  84. E1,5,6; E2,4: sṛṣṭīnāṃ sṛṣṭiṣu saṃkīrtanaṃ ↩︎

  85. Tait.S. 4.3.10 ↩︎

  86. E4 om. ekayā stuvata ity atra yā asṛṣṭayas tā lakṣayet/ nanv anuvāde ‘pi lakṣaṇā ↩︎

  87. E2: 2,326; E4: 2,196; E5: 2,266; E6: 1,72 ↩︎

  88. E2 hat hier MS 1.4.23, da sie ab MS 1.4.22: ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate// nicht mehr weiterzählt ↩︎

  89. Tait.S. 5.2.10/ 5.3.12 ↩︎

  90. Tait.S. 5.7.2.5 ↩︎

  91. Tait.Br. 3.12.5.12 ↩︎

  92. Ebenda ↩︎

  93. E2: 2,328; E4: 2,238; E5: 2,268; E6: 1,72 ↩︎

  94. Zitate nicht nachgewiesen ↩︎

  95. E2: 2,331; E4: 2,246; E5: 2,271; E6: 1,73 ↩︎

  96. Vgl. Tait.S. 3.3.8.4, Gop.Br. 2.4.8 ↩︎

  97. Quelle nicht nachgewiesen ↩︎

  98. E2: 2,333; E4: 2,251; E5: 2,272; E6: 1,73 ↩︎