०३ १,३

धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् ॥ MS_१,३.१ ॥

एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यम् उक्तम्। अथेदानीं यत्र न वैदिकं शब्दम् उपलभेमहि, अथ च स्मरन्ति - एवम् अयम् अर्थो ऽनुष्ठातव्यः, एतस्मै च प्रयोजनायेति। किम् असौ तथैव स्यान् न वेति। यथा - अष्टकाः कर्तव्याः; गुरुर् अनुगन्तव्यः; तडागं खनितव्यम्; प्रभा प्रवर्तयितव्या; शिखाकर्म कर्तव्यम् इत्येवमादयः। तद् उच्यते - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति। शब्दलक्षणो धर्म इत्य् उक्तम्1 - चोदनालक्षणो ऽर्थो धर्मः इति। अतो निर्मूलत्वान् नापेक्षितव्यम् इति। ननु ये विदुर् इत्थम् असौ पदार्थः कर्तव्य इति, कथम् इव ते वदिष्यन्त्य् अकर्तव्य एवायम् इति। स्मरणानुपपत्त्या, न2 ह्य् अननुभूतो ऽश्रुतो वार्थः स्मर्यते। न चास्यावैदिकस्यालौकिकस्य च स्मरणम् उपपद्यते, पूर्वविज्ञानकारणाभावाद् इति। या हि बन्ध्या स्मरेत - इदं मे दौहित्रकृतम् इति, न मे दुहितास्तीति मत्वा, न जातुचिद् असौ प्रतीयात् - सम्यग् एतज् ज्ञानम् इति। एवम् अपि यथैव पारम्पर्येणाविच्छेदाद् अयं वेद इति प्रमाणम् एषां स्मृतिः, एवम् इयम् अपि प्रमाणं भविष्यतीति। नैतद् एवम्। प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम्। अष्टकादिषु त्व् अदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिर् एव गम्यते। तद् यथा कश्चिज् जात्यन्धो वदेत् - स्मराम्य् अहम् अस्य रूपविशेषस्येति। कुतस् ते पूर्वविज्ञानम् इति च पर्यनुयुक्तो जात्यन्धम् एवापरं विनिर्दिशेत। तस्य [६५]3 कुतः? जात्यन्धान्तरात्। एवं जात्यन्धपरम्परायाम् अपि सत्यां नैव जातुचित् संप्रतीयुर् विद्वांसः सम्यग्दर्शनम् एतद् इति। अतो नादर्तव्यम् एवंजातीयकम् अनपेक्षं स्याद् इति।


अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् ॥ MS_१,३.२ ॥

अपि वेति पक्षो व्यावर्त्यते। प्रमाणं स्मृतिः, विज्ञानं हि तत्। किम् इत्य् अन्यथा भविष्यति। पूर्वविज्ञानम् अस्य नास्ति, कारणाभावाद् इति चेत्। अस्या एव स्मृतेर् द्रढिम्नः कारणम् अनुमास्यामहे। तत् तु नानुभवनम्, अनुपपत्त्या। न हि मनुष्या इहैव जन्मन्य् एवंजातीयकम् अर्थम् अनुभवितुं शक्नुवन्ति। जन्मान्तरानुभूतं च न स्मर्यते। ग्रन्थस् त्व् अनुमीयेत, कर्तृसामान्यात् स्मृति-वैदिकपदार्थयोः। तेनोपपन्नो वेदसंयोगस् त्रैवर्णिकानाम्। ननु नोपलभन्त एवंजातीयकं ग्रन्थम्। अनुपलभमाना अप्य् अनुमिमीरन्, विस्मरणम् अप्य् उपपद्यत इति। तद् उपपन्नत्वात् पूर्वविज्ञानस्य तरिवर्णिकानां स्मरताम्, विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानम् उपपद्यत इति प्रमाणं स्मृतिः। अष्टकालिङ्गाश् च मन्त्रा वेदे दृश्यन्ते - याञ् जनाः प्रतिनन्दन्तीत्येवमादयः4। तथा प्रत्युपस्थितनियमानाम् आचाराणां दृष्टार्थत्वाद् एव प्रामाण्यम् - गुरोर् अनुगमात् प्रीतो गुरुर् अध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश् च न्यायान् परितुष्टो वक्ष्यतीति। तथा च दर्शयति - तस्माच् छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेतीति5। प्रपास्तडागानि च परोपकाराय, न धर्मायेत्य् एवावगम्यते। तथा च दर्शनम् - धन्वन्न् इव प्रपा [६६]6 असीति7। तथा - स्थलयोदकं परिगृह्णन्तीति च। गोत्रचिह्नं शिखाकर्म, दर्शनं च - यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति8। तेन ये दृष्टार्थाः, ते तत एव प्रमाणम्। ये त्व् अदृष्टार्थाः, तेषु वैदिकशब्दानुमानम् इति।


विरोधे त्व् अनपेक्षं स्यात्, असति ह्य् अनुमानम् ॥ MS_१,३.३ ॥

अथ यत्र श्रुतिविरोधः, तत्र कथम्। यथौदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्। अष्टाचत्वारिंशद् वऋषाणि वेदब्रह्मचरणम्, जातपुत्रः कृष्णकेशो ऽग्नीन् आदधीतेत्य् अनेन विरुद्धम्। क्रीतराजको भोज्यान् न इति, तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यम् इत्य् अनेन विरुद्धम्। तत् प्रमाणम्, कर्तृसामान्याद् इत्येवं प्राप्ते ब्रूमः - अशक्यत्वाद् व्यमोह इत्य् अवगम्यते। कथम् अशक्यता। स्पर्शविधानान् न सर्वा शक्या वेष्टयितुम् उद्गायता स्प्रष्टुं च। ताम् उद्गायता स्प्रष्टव्याम् अवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः। ननु निर्मूलत्वाद् व्यामोहस् तत् स्मरणम् इति वैदिकं वचनं मूलं भविष्यतीति। भवेद् वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः। अव्यामोहे त्व् अशक्यत्वाद् अनुपपन्नम्। यथानुभवनम् अनुपपन्नम् इति न कल्प्यते, तथा वैदिकम् अपि वचनम्। कथं तर्हि सर्ववेष्टनस्मरणम्। व्यामोहः। कथं व्यामोहकल्पना। श्रौतविज्ञानविरोधात्। अथ किम् अर्थं नेमौ विधी विकल्प्ये[६७]9ते व्रीहियववद् बृहद्रथन्तरवद् वा। नासति व्यामोहविज्ञाने विकल्पो भवति। यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः। यदि स्पर्शनं प्रमाणम्, स्मृतिर् व्यामोहः। विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत् प्रामाण्यम् अनुमन्यते। तस्य च मूलं श्रुतिः। सा चेत् प्रमाणम् अनुमता, न पाक्षिकी। पाक्षिकं च सर्ववेष्टनस्मरणम्, पक्षे तावन् न शक्नोति श्रुतिं परिकल्पयितुम्, स्पर्शविज्ञानेन बाधितत्वात्। ततश् चाव्यामोहे च तस्मिन्न् अशक्या श्रुतिः कल्पयितुम्। न चासाव् अव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति। यद् एव हि तस्यैकस्मिन् पक्षे मूलम्, तद् एवेतरस्मिन्न् अपि। एकस्मिंश् चेत् पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वाद् इतरत्राप्य् अव्यामोहः। न चासाव् एकस्मिन् पक्षे श्रुतिः, निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम्। तेन नैतत् पक्षे विज्ञानं व्यामोहात् पक्षान्तरं संक्रान्तम् इत्य् अवगम्यते। तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं त सर्ववेष्टनस्येति विरोधात् कल्प्यते। न हि तस्य सति विरोधे प्रामाण्यम् अभ्युपगन्तव्यम् इति किंचिद् अस्ति प्रमाणम्। तस्माद् यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवम् अपरस्मिन् पक्षे, तुल्यकारणत्वात्। अपि चेतरेतराश्रये ऽन्यतः परिच्छेदात्। केयम् इतरेतराश्रयता। प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर् व्यामोहः, तद् एतद् इतरेत्राश्रयं भवति। तत्र स्पर्शनस्य कॢप्तं मूलं कल्प्यं स्मृतेः, सो ऽसाव् अन्यतः परिच्छेदः। कल्प्यमूलत्वात् स्मृतिप्रामाण्यम् अनवकॢप्तं। तद् अप्रामाण्यात् स्पर्शनं न व्यामोहः। तद् अव्यामोहात् स्मार्तश्रुतिकल्पनानुपपन्ना प्रमाणाभावात्। नन्व् एवं सति व्रीहिसाधनत्वविज्ञानस्याप्य् अव्यामोहाद् यवश्रुतिर् नोपपद्येत। सत्यं नोपपद्यते, यद्य् अप्रत्यक्षा स्यात्। प्रत्यक्षा त्व् एषा। न हि प्रत्यक्षम् अनुपपन्नं नामास्ति। द्वयोस् तु श्रुत्योर् भावात्। द्वे ह्य् एते वाक्ये। तत्रैकेन केवलयवसाधनता गम्यते, [६८]10 एकेन केवलव्रीहिसाधनता। न च वाक्येनावगतो ऽर्थो ऽपह्नूयते। तस्माद् व्रीहियवयोर् उपपन्नो विकल्पो बृहद्रथन्तरयोश् च। तस्माद् उक्तं श्रुतिविरुद्धा स्मृतिर् अप्रमाणम् इति। अतश् च सर्ववेष्टनादि नादरणीयम्।


हेतुदर्शनाच् च ॥ MS_१,३.४ ॥

लोभाद् वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित्। तत् स्मृतेर् बीजम्। बुभुक्षमाणाः केचित् क्रीतराजकस्य भोजनम् आचरितवन्तः। अपुंस्त्वं प्रच्छादयन्तश् चाष्टाचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरितवन्तः। तत एषा स्मृतिर् इत्य् अवगम्यते। अधिकरणान्तरं वा। वैसर्जनहोमीयं वासो ऽध्वर्युर् गृह्णातीति, यूपहस्तिनो दानम् आचरन्तीति। तत्कर्तृसामान्यात् प्रमाणम् इति प्राप्ते11। अप्रमाणं स्मृतिः। अत्रान्यन् मूलम्। लोभाद् आचरितवन्तः केचित्, तत एषा स्मृतिः। उपपन्नतरं चैतद् वैदिकवचनकल्पनात्।


शिष्टाकोपे ऽविरुद्धम् इति चेत् ॥ MS_१,३.५ ॥

आचान्तेन कर्तव्यम्; यज्ञोपवीतिना कर्तव्यम्; दक्षिणाचारेण कर्तव्यम् इत्येवंलक्षणान्य् उदाहरणानि। किम् एतानि श्रुतिविरुद्धानि न कर्तव्यानि उताविरुद्धानि कार्याणीति। [६९]12 इति13 चेत् पश्यसि, तैर् अप्य् अनुष्ठीयमानैर् वैदीकं किंचिन् न कुप्यति, तस्माद् अविरुद्धानीति।


न शास्त्रपरिमाणत्वात् ॥ MS_१,३.६ ॥

नैतद् एवम्। शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन्। कथम्। वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिम् उपरुन्ध्याद् अन्तरा वेदं वेदिं चानुष्ट्ःईयमानम् आचमनादि। दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित् प्रधानं स्वकालम् अतिक्रामेत। उभाभ्यां हस्ताभ्यां अनुतिष्ठन् प्रधानकालं संभावयिष्यति।


अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ MS_१,३.७ ॥

अपि वेति पक्षव्यावृत्तिः। अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम्। ननु क्रमकालौ विरुन्धन्ति14। विरुध्नन्तु15। नैष दोषः। आचमनं पदार्थः पदार्थानां च गुणः क्रमः। न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति। अपि च प्राप्तानां पदार्थानाम् उत्तरकालं क्रम आपतति। यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यतीति। तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीद् इति, तत्र कालानुरोधेन पदार्थो नान्यथात्वम् अभ्युपगच्छेत्। प्रयोगाङ्गं हि कालः पदार्थानाम् उपकारकः। अतो न कालानुरोधेन व्यथयितव्यः पदार्थः। अपि च शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवंजातीयका अर्था व्यवधातारो न भवन्ति। सर्वपदार्थानां [७०]16 शेषभूतत्वात्। तस्माद् आचमनादीनां प्रामाण्यम्।


तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् ॥ MS_१,३.८ ॥

यवमयश् चरुः; वाराही उपानहौ17; वैतसे कटे प्राजापत्यान् संचिनोतीति यववराहवेतसशब्दान् समामनन्ति। तत्र केचिद् दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित् प्रियङ्गुषु। वराहशब्दं केचित् शूकरे18, केचित् कृष्णशकुनौ। वेतसशब्दं केचिद् वञ्जुलके, केचिज् जम्ब्वाम्। तत्रोभयथा पदार्थावगमाद् विकल्पः।


शास्त्रस्था वा तन्निमित्तत्वात् ॥ MS_१,३.९ ॥

वाशब्दः पक्षं व्यावर्तयति। यवशब्दो यदि दीर्घशूकेषु सादृश्यात् प्रियङ्गुषु भविष्यति। यदि प्रियङ्गुषु, सादृश्याद् यवेषु। किं सादृश्यम्। पूर्वसश्ये19 क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश् चैतत् तयोः सादृश्यम्। कः पुनर् अत्र निश्चयः। य शास्त्रस्थानां स शब्दार्थः। के शास्त्रस्थाः। शिष्टाः। तेषाम् अविच्छिन्ना स्मृतिः शब्देषु वेदेषु च। तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे। ते ह्य् एवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषम् - यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति20 दीर्घशूकान् यवान् दर्शयति वेदः। वेदे दर्शनाद् अविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते। तस्मात् प्रियङ्गुषु गौणः। तस्माद् दीर्घशूकानां पुरोडाशः कर्तव्यः। तस्माद् वराहं गावो ऽनुधावन्तीति21 शूकरे22 वराहशब्दं दर्शयति। अप्सुजो वेतस इति23 वञ्जुले वेतसशब्दम्। [७१]24 शूकरं25 हि गावो ऽनुधावन्ति। वञ्जुलो ऽप्सु जायते। जम्बूवृक्ष स्थले गिरिनदीषु वा।


चोदितं तु प्रतीयेताविरोधात् प्रमाणेन ॥ MS_१,३.१० ॥

अथ याञ् छब्दान् आर्या न कस्मिंश्चिद् अर्थे आचरन्ति, म्लेच्छास् तु कस्मिंश्चित् प्रयुञ्जते, यथा पिकनेमसततामरसादिशब्दाः26। तेषु संदेहः - किं निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति। शिष्टाचारस्य प्रामाण्यम् उक्तं नाशिष्टस्मृतेः। तस्मान् निगमादिवशेनार्थकल्पना। निगमादीनां चैवम् अर्थवत्ता भविष्यति। अनभियोगश् च शब्दार्थेष्व् अशिष्टानाम् अभियोगश् चेतरेषाम्। तस्माद् धातुतो ऽर्थः कल्पयितव्य इत्येवं प्राप्ते ब्रूमः - चोदितम् अशिष्टैर् अपि शिष्टानवगतं प्रतीयेत, यत् प्रमाणेनाविरुद्धम्, तद् अवगम्यमानम्, न न्याय्यं त्यक्तुम्। यत् तु शिष्टाचारः प्रमाणम् इति, तत् प्रत्यक्षानवगते ऽर्थे। यत् त्व् अभियुक्ताः शब्दार्थेषु शिष्टा इति। तत्रोच्यते - अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः। यत् तु निगमनिरुक्तव्याकरणानाम् अर्थवत्तेति, तत्रैषाम् अर्थवत्ता भविष्यति, न यत्र म्लेच्छैर् अप्य् अवगतः शब्दार्थः। अपि च - निगमादिभिर् अर्थे कल्पयमाने ऽव्यवस्थितः शब्दार्थो भवेत्, तत्रानिश्चयः स्यात्। तस्मात् पिक इति कोकिलो ग्राह्यः, नेमो ऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रम् परिमण्डलं शतछिद्रम्।

[७२]27


प्रयोगशास्त्रम् इति चेत् ॥ MS_१,३.११ ॥

इह कल्पसूत्राण्य् उदाहरणम् - माशकम्, हास्तिकम्, कौण्डिन्यकम् इत्येवंलक्षणकानि किं प्रमाणम् अप्रमाणं वेति संदिग्धानि। किं प्राप्तम्। प्रयोगस्य शास्त्रं प्रमाणम् एवंजातीयकम् इति ब्रूमः। सत्यवाचाम् एतानि वचनानि। कथम् अवगम्यते। वैदिकैर् एषां संवादो भवति। य एव हि वेदे ग्रहाः, त एवेह, या एव वेदे इष्टकाः28, ता एवेह। तस्मात् सत्यवाच आचार्याः। आचार्यवचः प्रमाणम् इति च श्रुतिः। प्रत्यक्षतः प्रामाण्यम् अनवगतम् इति यद्य् उच्येत, प्रमाणान्तरेण वचनेनावगतम् इति न दोषः। वेदवाक्यैश् चैषां तुल्य आदरः। तस्मात् प्रमाणम्।


नासन्नियमात् ॥ MS_१,३.१२ ॥

नैतद् एवम्, असन्नियमात्। नैतत् सम्यङ्निबन्धनम्, स्वराभावात्।


अवाक्यशेषा29च् च ॥ MS_१,३.१३ ॥

ऋत्विजो वृणीते; वृता यजन्ति30; देवयजनम् अध्यवस्यन्तीति31। नात्र विधिर् गम्यते वर्तमानकालप्रत्ययनिर्देशात्। न चात्र वाक्यशेषः स्तावको ऽस्ति। तस्माद्32 अप्रमाणम्। यश् चादर उक्तः, स नान्तरीयकत्वाद् वेदवाक्यमिश्रसमाम्नानात्। यत् तु श्रुतिर् इति नैतत्, अर्थवादत्वात्33। कथम् अर्थवादः। विध्यन्तरं ह्य् अस्ति - आग्नेयो ऽष्टाकपाल इति। अत्राचार्यो वेदो ऽभिप्रेतः, आचिनोत्य् अस्य बुद्धिम् इति। यद् वाचार्यवचनं [७३]34 प्रमाणं तदपेक्षम्। कतरतत्। यत् प्रमाणगम्यम्।

यच् चोक्तम् - सत्यवाचाम् एतानि वचनानीति, तन् न -


सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च ॥ MS_१,३.१४ ॥

आचार्यवचनं हि भवति पूर्वपक्षे - सर्वासु तिथिष्व् अमावास्येति35। संनिहितं च शास्त्रम् - पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावस्यया यजेद् इति36। तेन श्रुतिविरुद्धवचनान् न सत्यवाचः, तस्माद् अप्रमाणम्।


अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् ॥ MS_१,३.१५ ॥

अनुमानात् स्मृतेर् आचाराणां च प्रामाण्यम् इष्यते। येनैव हेतुना ते प्रमाणम्, तेनैव व्यवस्थिताः37 प्रामाण्यम् अर्हन्ति। तस्माद् होलाकादयः38 प्राच्यैर् एव कर्तव्याः; आह्नीनैबुकादयो दाक्षिणात्यैर्39 एव; उद्वृषभयज्ञादय उदीच्यैर् एव। यथा शिखाकल्पो व्यवतिष्ठते केचित् त्रिशिखाः, केचित् पञ्चशिखा इति।


अपि वा सर्वधर्मः स्यात्, तन्न्यायत्वाद् विधानस्य ॥ MS_१,३.१६ ॥

अपि वेति पक्षव्यावृत्तिः। एवंजातीयकः सर्वधर्मः स्यात्। कुतः। तन्न्यायत्वाद् विधानस्य। विधीयते ऽनेनेति विधानं शब्दः। सो ऽनुमीयते स्मृत्याः। न च तस्याकृतिवचनता न्याय्या। न च व्यक्तिवचनता, न सर्वेषाम् अनुष्ठातॄणां यद् एकं [७४]40 सामान्यं, तस्य वाचकः कश्चित् शब्दो ऽस्ति, यो ऽनुमीयेत। तस्मात् सर्वधर्मता विधेर् न्याय्या। कुतः। पदार्थाः कर्तव्या इति प्रमाणम् अस्ति, व्यवस्थायां तु न किञ्चित् प्रमाणम् अस्ति।

अथ यद् उक्तम्, यथा शिखाकल्पो व्यवतिष्ठत इति -


दर्शनाद् विनियोगः स्यात् ॥ MS_१,३.१७ ॥

गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम्।


लिङ्गाभावाच् च नित्यस्य ॥ MS_१,३.१८ ॥

इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्। कानि तानि पदानि। अथ किम् अर्थं न लिङ्गाद् व्यवस्था। यथा - शुक्लो होता इति। नास्ति तन् नित्यम् एषां लिङ्गम्, यद् यथादर्शनम् अनुवर्तते। ये ऽपि श्यामा बृहन्तो लोहिताक्षाः, ते ऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते। अनेवंलिङ्गा अपि चानुतिष्ठन्ति। तस्मान् न व्यवस्था। शुक्लो होतेति प्रत्यक्षा श्रुतिः।


आख्या हि देशसंयोगात् ॥ MS_१,३.१९ ॥

अथ कस्मान् न समाख्यया नियमः। ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति। य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन्। ये प्राच्या इति, ते होलाकादीन्। यथा - राजा राजसूयेनेति। नैतद् एवम्। देशसंयोगाद् आख्या भवति। दाक्षिणदेशान् निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्य् एव। उदीच्याश् च देशान्तर उद्वृषभयज्ञादीन्41, प्राच्याश् च होलाकादीन्। अन्यदेशश् च देशान्तरगतो न नियोगतः परपदार्थान्42 करोति। तस्मान् न व्यवस्था43। राजा राजसूयेनेति तु नियता जातिः।

[७५]44


न स्याद् देशान्तरेष्व् इति चेत् ॥ MS_१,३.२० ॥

इति चेत् पश्यसि - यदि देशसंयोगाद् आख्या भवेत्, देशान्तरस्थस्य न भवेत्। भवति च देशानतरस्थस्य माथुर इत्य् असंबद्धस्यापि मथुरया। तस्मान् न देशसंयोगाद् आख्या।


स्याद् योगाख्या हि माथुरवत् ॥ MS_१,३.२१ ॥

देशसंयोगनिमित्तायाम् अप्य् आख्यायां देशान् निर्गतस्य तदाख्या न विरुद्धा। यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्संबन्धापेक्षा। यतो दृश्यते - मथुराम् अभिप्रस्थितो माथुर इति, मथुरायां वसन् मथुराया निर्गतश् च। यस्य त्व् अतो ऽन्यतमः संबन्धो नास्ति, न स माथुरः। तस्मान् न समाख्यया व्यवस्था।


कर्मधर्मो वा प्रवणवत् ॥ MS_१,३.२२ ॥

अथ कस्मान् न कर्माङ्गं देशः। यः कृष्णमृतिकाप्रायः, स आह्नीनैबुकादीनाम्। यथा - प्राचीनप्रवणे वैश्वदेवेन यजेतेति45


तुल्यं तु कर्तृधर्मेण ॥ MS_१,३.२३ ॥

यथा कर्तर्य् अव्यवस्थितं लिङ्गं श्यामादि46 न पदार्थैः संवादम् उपैति, तद्वद् देशलिङ्गम् अव्यवस्थितम्47। कृष्णमृतिकाप्राये ऽप्य् अन्ये न कुर्वन्ति, तथान्यलिङ्गे ऽपि कुर्वन्ति। तस्मान् न देशतो व्यवस्था। प्राचीनप्रवणं तु श्रुत्या नियतं वैश्वदेवस्य।

[७६]48


प्रयोगोत्पत्त्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् ॥ MS_१,३.२४ ॥

गौर् गावी गोणी गोपोतलिका इत्येवमादयः49 शब्दा उदाहरणम्। गोशब्दो यथा सास्नादिम् इति प्रमाणम्, किं तथा गाव्यादयो ऽप्य् उत नेति संदेहः। किम् अत्रैकः शब्दो ऽविच्छिन्नपारम्पर्यो ऽर्थाभिधायी, इतरे ऽपभ्रंशाः, उत सर्वे ऽनादयः। सर्व इति ब्रूमः। कुतः। प्रत्ययात्। प्रतीयते हि गाव्यादिभ्यः सास्नादिमान् अर्थः। तस्माद् इतो वर्षशते ऽप्य् अस्यार्थस्य संबन्ध आसीद् एव, ततः परेण, ततश् च परतरेणेत्य् अनादिता। कर्ता चास्य संबन्धस्य नास्तीति व्यवस्थितम् एव। तस्मात् सर्वे साधवः, सर्वैर् भाषितव्यम्। सर्वे हि साधयन्त्य् अर्थम्। यथा - हस्तः, करः, पाणिर् इति। अर्थाय ह्य् एत उच्चार्यन्ते, नादृष्टाय। न ह्य् एषाम् उच्चारणे शास्त्रम् अस्ति। तस्मान् न व्यवतिष्ठेत कश्चिद् एक एव साधुर् इतरे ऽसाधव इति।


शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् ॥ MS_१,३.२५ ॥

महता प्रयत्नेन शब्दम् उच्चरन्ति - वायुर् नाभेर् उत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्धानम् आहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दान् अभिव्यनक्ति। तत्रापराध्येताप्य् उच्चारयिता, यथा - शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्प्रक्ष्यामीति द्विर् उपस्पृशति। ततो ऽपराधात् प्रवृत्ता गाव्यादयो भवेयुः, न नियोगतो ऽविच्छिन्नपारम्पर्या एवेति।

[७७]50


अन्यायश् चानेकशब्दत्वम् ॥ MS_१,३.२६ ॥

न चैष न्यायः यत् सदृशाः शब्दा एकम् अर्थम् अभिनिविशमानाः, सर्वे ऽविछिन्नपारम्पर्या एवेति। प्रत्ययमात्रदर्शनाद् अभ्युपगम्यते, सादृश्यात् साधुशब्दे ऽप्य् अवगते प्रत्ययो ऽवकल्प्यते। तस्माद् अमीषाम् एको ऽनादिर् अन्ये ऽपभ्रंशाः। हस्तः, करः, पाणिर् इत्येवमादिषु त्व् अभियुक्तोपदेशाद् अनादिर् अमीषाम् अर्थेन संबन्ध इति।


तत्र तत्त्वम् अभियोगविशेषात् स्यात् ॥ MS_१,३.२७ ॥

कथं पुनस् तत्र51 तत्त्वं शक्यं विज्ञातुम्। शक्यम् इत्य् आह। अर्थिनो ह्य् अभियुक्ता भवन्ति। दृश्यते चाभियुक्तानां गुणयताम् अविस्मरणम् उपपन्नम्। प्रत्यक्षं चैतद् गुण्यमानं न भ्रश्यत इति। तस्माद् यम् अभियुक्ता उपदिशन्ति, एष एव साधुर् इत्य् अवगन्तव्यः52


तदशक्तिश् चानुरूपत्वात् ॥ MS_१,३.२८ ॥

अथ यद् उक्तम् - अर्थो ऽवगम्यते गाव्यादिभ्यः, अत एषाम् अप्य् अनादिअर्थेन संबन्ध इति। तदशक्तिर् एषां गम्यते। गोशब्दम् उच्चारयितुकामेन केनचिद् अशक्त्या गावीत्य् उच्चारितम्। अपरेण ज्ञातं सास्नादिमान् अस्य विवक्षितः, तद् अर्थं गौर् इत्य् उच्चारयितुकामो गावीत्य् उच्चारयति। [७८]53 ततः शिक्षित्वापरे ऽपि सास्नादिम् इति विवक्षिते गावीत्य् उच्चारयन्ति। तेन गाव्यादिभ्यः सास्नादिमान् अवगम्यते। अनुरूपो हि गाव्यादिगोशब्दस्य।


एकदेशत्वाच् च विभक्तिव्यत्यये स्यात् ॥ MS_१,३.२९ ॥

अत एव हि विभक्तिव्यत्यये ऽपि प्रत्ययो भवति। अश्मकैर् आगच्छामीत्य् अश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्य् एव शब्दः स्मर्यते। ततो ऽश्मकेभ्य इत्य् एषो ऽर्थ उपलभ्यत इति। एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्, ततः सास्नादिमान् अवगम्यते।


प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् ॥ MS_१,३.३० ॥

अथ गौर् इत्येवमादयः शब्दाः किम् आकृतेः प्रमाणम् उत व्यक्तेर् इति संदेहः। उच्यते। इदं तावत् परीक्ष्यताम् - किं य एव लौकिकाः शब्दाः, त एव वैदिका उतान्य इति। यदा त एव, तदापि किं त एवैषाम् अर्थाः, ये लोके, उतान्य इति संशयः। तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका अन्ये चैषाम् अर्था इति ब्रूमः। कुतः। व्यपदेशभेदाद् रूपभेदाच् च। इमे लौकिकाः, इमे वैदिका इति व्यपदेशभेदः। अग्निर् वृत्राणि जङ्घनद् इत्य्54 अन्यद् इदं रूपं लौकिकाद् अग्निशब्दात्। शब्दान्यत्वाच् च न त एवार्थाः। अपि च समामनन्ति - उत्ताना वै देवगवा वहन्तीति55। ये देवानां गावः, त उत्ताना वहन्तीत्य् उक्ते गम्यत एव - य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त [७९]56इति। तस्माद् अन्यो वैदिकगोशब्दस्यार्थः। तथा - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् इति57, हिरण्यपर्णो वै देवो58 वनस्पतिर् वेदे। एतद् वै दैव्यं मधु, यद् घृतम् इति59 वेद घृते मधुशब्दः। तस्माद् अमीषाम् अन्ये ऽर्था इति प्राप्ते ब्रूमः - य एव लौकिकाः शब्दाः, त एव वैदिकाः, त एवैषाम् अर्था इति। कुतः। प्रयोगचोदनाभावात्। एवं प्रयोगचोदना संभवति, यदि त एव शब्दाः, त एवार्थाः। इतरथा शब्दान्यत्वे ऽर्थो न प्रतीयेत। तस्माद् एकशब्दत्वम् इति। उच्यते प्रयोजनम् इदम्, हेतुर् व्यपदिश्यताम् इति। ततो हेतुर् उच्यते - अविभागाद् इति। न तेषाम् एषां च विभागम् उपलभामहे। अत एवैकशब्दत्वम्। तांश् च तांश् चार्थान् अवगच्छामः। अतो नान्यत्वं च वदामः। यच् चोक्तम् - य उत्ताना वदन्ति, ते देवगावाः; यद् घृतम्, तन् मधु; यो हिरण्य-पर्णः, स वनस्पतिर् इति। नास्ति वचनं यद् उत्तानानां वहतां गोत्वं ब्रूयात्। ये गावः, त उत्ताना वहन्तीत्य् एवं तत्। यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्तीत्य् अनुवादः स्यात्। न चोत्ताना वहन्तः प्रसिद्धाः केचित्। ते नियोगतो विधातव्याः, तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम्। भिद्यते हि तथा वाक्यम्। यदि चान्ये वैदिकाः, तत उत्तानादीनाम् अर्थो न गम्येत। तत्र नतरां शक्येताविज्ञातलक्षणं गोत्वं विज्ञातुम्। न चोत्तानवहनवचनम् अप्य् अनर्थकम्, स्तुत्यर्थेनार्थवद् भविष्यतीति। एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः। तस्मात् त एव शब्दा अर्थाश् च। यदि लौकिकास् त एवार्थाः, तदा संदेहः - किम् आकृतिः शब्दार्थो ऽथ व्यक्तिर् इति। का पुनर् आकृतिः, का व्यक्तिर् इति। द्रव्यगुणकर्मणां सामान्यमात्रम् आकृतिः, असाधारणविशेषा [८०]60 व्यक्तिः। कुतः संशयः? गौर् इत्य् उक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात्। तद् उच्यते - व्यक्तिः शब्दार्थ इति। कुतः? प्रयोगचोदनाभावात्। आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न संभवेयुः। यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः। अतो ऽन्यत्राकृतिवचन इति चेत्। उक्तम्61 - अन्यायश् चानेकार्थत्वम् इति। कथं सामान्यावगतिर् इति चेत्। व्यक्तिपदार्थस्याकृतिश् चिह्नभूता भविष्यति, य एवम् आकृतिकः, स गौर् इति। यथा यस्य दण्डो ऽस्ति, स दण्डीति, न च दण्डवचनो दण्डिशब्दः। एवम् इहापि।


द्रव्यशब्दात् ॥ MS_१,३.३१ ॥

द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो भवेत्, यद्य् आकृतिः शब्दार्थो भवेत्। षड् देया द्वादश देया62 चतुर्विंशतिर् देया इति। न ह्य् आकृतिः षडादिभिः संख्याभिर् युज्यते। तस्मान् नाकृतिवचनः।


अन्यदर्शनाच् च ॥ MS_१,३.३२ ॥

यदि पशुर् उपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसम् आलभेत इति63। यद्य् आकृतिवचनः शब्दो भवेत्, अन्यस्यालम्भो नोपपद्यते। अन्यस्वापि पशुद्रव्यस्य सैवाकृतिः। तस्माद् व्यक्तिवचन इति।


आकृतिस् तु क्रियार्थत्वात् ॥ MS_१,३.३३ ॥

तुशब्दः पक्षं व्यावर्तयति। आकृति शब्दार्थः। कुतः? क्रियार्थत्वात्। श्येनचितं चिन्वीत इति64 वचनम् आकृतौ संभवति, यद्य् आकृत्यर्थः श्येनशब्दः। व्यक्तिवचने तु न चयनेन श्येनव्यक्ति[८१]65र् उत्पादयितुं शक्यत इत्य् अशक्यार्थवचनाद् अनर्थकः। तस्माद् आकृतिवचनः। ननु श्येनव्यक्तिभिश् चयनम् अनुष्ठास्यते। न साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्य् असौ श्येनशब्देन निर्दिश्यते। अतश् चयनेन श्येनो निवर्तयितव्यः, स आकृतिवचनत्वे ऽवकल्प्यते। ननूभयत्र क्रियाया असंभव एव व्यपदिश्यते। नाकृतिः शब्दार्थः। कुतः। क्रिया न संभवेद् आकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति66। तथा न व्यक्तिः शब्दार्थः, क्रियैव न संभवेद् व्यक्तेः शब्दार्थत्वे67, श्येनचितं चिन्वीत इति। यद् अप्य् उच्यते - व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्थाकृतिर् इति, शक्यम् अन्यत्रापि श्येनचितं चिन्वीत इति वदितुम् आकृतिलक्षणार्था व्यक्तिर् इति। किं पुनर् अत्र ज्यायः। आकृतिः शब्दार्थ इति। यदि व्यक्तिः शब्दार्थो भवेत्, व्यक्त्यन्तरे न प्रयुज्येत। अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः, सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिर् इत्य्। उच्यते - नैष दोषः। व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव प्रवर्तिष्यते। यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्तिष्यते, सामान्यम् एव तर्हि तत्। नेत्य् उच्यते - यो ह्य् अर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिः। व्यक्तिवचनश् च शब्दो न सामान्ये, न विशेषे वर्तते। तेषां त्व् आश्रयम् एवाभिदधाति, तेन व्यक्त्यन्तरे वृत्तिर् अदोषः। न हि तत् सामान्यम्। यदि व्यक्त्यन्तरेष्व् अपि भवति, सर्वसामान्यविशेषवियुक्तायाम् अश्वव्यक्तौ गोशब्दः किम् इति न वर्तते। आह - येष्व् एव प्रयोगो दृष्टः, तेषु वर्तिष्यते, न सर्वत्र। न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः। तस्मात् तत्र न वर्तिष्यते। यदि यत्र [८२]68 प्रयोगो दृष्टः, तत्र वृत्तिः, अद्यजातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात्। सामान्यप्रत्ययश् च न प्राप्नोति, इयम् अपि गौर् इति, इयम् अपि गौर् इति; इयं वा गौर् इति, इयं वा गौर् इति स्यात्। भवति तु सामान्यप्रत्ययो ऽदृष्टपूर्वायाम् अपि गोव्यक्तौ। तस्मान् न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत आश्रयितुम्। एवं तर्हि शक्तेः स्वभाव एषः, यत् कस्यांचित् व्यक्तौ वर्तते, कस्यांचिन् न। यथा - अग्निर् उष्णः, उदकं शीतम्, एवम् एतद् भविष्यतीति। नैवं सिध्यति। न ह्य् एतद् गम्यते कस्यांचिद् व्यक्तौ वर्तते, कस्यांचिन् नेति। सत्यम् एतत्, गोत्वं लक्षणं भविष्यतीति। यत्र गोत्वं तस्यां व्यक्ताव् इति। एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत। यदि च विशिष्टा, पूर्वतरं विशेषणम् अवगम्येत। न ह्य् अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुम् अर्हन्तीति। अस्तु, विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम्। न ह्य् आकृतिपदार्थकस्य व्यक्तिर् न पदार्थः, व्यक्तिपदार्थकस्य वा नाकृतिः। उभयम् उभयस्य पदार्थः। कस्यचित् किंचित् प्राधान्येन विवक्षितं भवति, तेनात्राकृतिर् गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यत इति। नैतद् एवम्। उभयोर् उच्यमानयोर् गुणप्रधानभावः स्यात्। यदि चात्राकृतिः प्रतीयते शब्देन, तदा व्यक्तिर् अपि पदार्थ इति न शक्यते वदितुम्। कुतः। आकृतिर् हि व्यक्त्या नित्यसंबद्धा, संबन्धिन्यां च तस्याम् अवगतायां संबन्ध्यन्तरम् अवगम्यते। तद् एतद् आत्मप्रत्यक्षम्, यच् छब्द उच्चरिते व्यक्तिः प्रतीयत इति। किं शब्दाद् उताकृतेर् इति विभागो न प्रत्यक्षः। सो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते। अन्तरेणापि शब्दम्, य आकृतिम् अवबुध्येत, अवबुध्येतेवासौ69 व्यक्तिम्। यस् तूच्चरिते ऽपि शब्दे मानसाद् अपचारात् कदाचिद् आकृतिं नोपलभेत, न जातुचिद् असाव् इमां व्यक्तिम् अवगच्छेत। ननु व्यक्तिविशिष्टायाम् आकृतौ वर्तते। [८३] व्यक्तिविशिष्टायां चेद् वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत। तस्माच् छब्द आकृतिप्रत्ययस्य निमित्तम्। आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति। ननु गुणभूता प्रतीयत इत्य् उक्तम्। न गुणभावो ऽस्मत्पक्षस्य बाधकः। सर्वथा तावत् प्रतीयते। अर्थाद् गुणभावः प्रधानभावो वा। स्वार्थं चेद् उच्चार्यते, प्रधानभूता। अथ न स्वार्थम्, परार्थम् एव, ततो गुणभूता। न तत्र शब्दव्यापारो ऽस्ति। ननु च दण्डीति, न तावद् दण्डिशब्देन दण्डो ऽभिधीयते, अथ च दण्डविशिष्टो ऽवगम्यते। एवम् इहापि न तावद् आकृतिर् अभिधीयते, अथ चाकृतिविशिष्टा व्यक्तिर् गम्येतेति। नैतत् साधु उच्यते। सत्यं दण्डिशब्देन दण्डो नाभिधीयते। न त्व् अप्रतीते दण्डे दण्डिप्रत्ययो ऽस्ति। अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दः, येन दण्डः प्रत्यायितः। तस्मात् साध्व् एतद्, यत् - प्रतीते विशेषणे विशिष्टः प्रतीयत इति। ननु70 गोशब्दावयवः कश्चिद् आकृतेः प्रत्यायकः, अन्यो व्यक्तेः, यत उच्यते तत आकृतिर् अवगता, न गोशब्द आकृतिवचन इति। न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ। तदर्थम् एव निदर्शितं केवलाकृत्यभिधानः श्येनशब्द इति। तद् एवम् अन्वयव्यतिरेकाभ्याम् असति श्येनव्यक्तिसंबन्धे श्येनशब्दोच्चारणाद् आकृतिवचन इति गम्यते। न तु व्रीह्याकृतिसंबन्धम् अन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः। तस्माद् आकृतिवचनः शब्द इत्य् एतज् ज्यायः।


न क्रिया स्याद् इति चेद् अर्थान्तरे विधानं न द्रव्यम् इति चेत् ॥ MS_१,३.३४ ॥

अथ यद् उक्तम् - न क्रिया संभवेद् व्रीहिन् प्रोक्षतीति। [८४]71 न द्रव्यशब्दः स्यात्, षड् देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं72 तद्रूपम् इति। तत् परिहर्तव्यम्।


तदर्थत्वात् प्रयोगस्याविभागः ॥ MS_१,३.३५ ॥

आकृत्यर्थत्वाच् छब्दस्य, यस्या व्यक्तेर् आकृत्या संबन्धः, तत्र प्रयोगः, प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते। कतमस्य। यद् यजति साधनम्। अपूर्वप्रयुक्तत्वात् तस्य नाकृतेः, अशक्यत्वात्। तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय। स ह्य् आकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति। तेनाकृतिवचनं न विरुध्यत इति। एवं षड् देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव इत्य् आकृतिवचनो विशेषकः। तथा - अन्यम् इति विनष्टस्य प्रतिनिधेर् अन्यत्वसंबन्धः। तत्र पशुशब्द आकृतिवचन आकृत्या विशेक्ष्यतीति। तस्माद् गौर् अश्व इत्येवमादयः शब्दा आकृतेर् अभिधायका इति सिद्धम्।

[८५]73



  1. Vgl. MS 1.1.2 ↩︎

  2. E2,4 om. na ↩︎

  3. E2: 2,73; E4: 1,243; E5: 2,70; E6: 1,45 ↩︎

  4. Pāra.GS 3.2.2, Āp.MP 2.20.27 ↩︎

  5. E2: anveti ↩︎

  6. E2: 2,78; E4: 1,259; E5: 2,78; E6: 1,45 ↩︎

  7. ṚV 10.4.1c ↩︎

  8. ṚV 6.75.17a ↩︎

  9. E2: 2,98; E4: 1,281; E5: 2,85; E6: 1,46 ↩︎

  10. E2: 2,102; E4: 1,281; E5: 2,89; E6: 1,47 ↩︎

  11. MS 1.3.2 ↩︎

  12. E2: 2,115; E4: 1,346; E5: 2,93; E6: 1,47 ↩︎

  13. E2,4,6 om. iti ↩︎

  14. E2,4,5,6: virundhanti ↩︎

  15. E2,4,5,6: virundhnantu ↩︎

  16. E2: 2,120; E4: 1,356; E5: 2,96; E6: 1,48 ↩︎

  17. Tait.Br. 1.7.9.4, Mait.S.4.46, cf. ŚPBr. 5.4.3.19 ↩︎

  18. E2,4,5: sūkare ↩︎

  19. E2,5,6: pūrvasasye, E4: pūrvasasyeṣe ↩︎

  20. Quelle unbekannt ↩︎

  21. ŚPBr. 4.4.3.19 ↩︎

  22. E2,4,5: sūkare ↩︎

  23. Quelle unbekannt ↩︎

  24. E2: 2,142; E4: 1,416; E5: 2,103; E6: 1,49 ↩︎

  25. E2,4,5: sūkaraṃ ↩︎

  26. Quelle nicht nachgewiesen ↩︎

  27. E2: 2,154; E4: 1,452; E5: 2,107; E6: 1,49 ↩︎

  28. E1 (Fn.): iṣṭayaḥ ↩︎

  29. E4 (Fn.): -śeṣatvāc ca ↩︎

  30. ŚānŚS. 5.1.1 ↩︎

  31. ŚānŚS. 15.14.1 ↩︎

  32. E4 (Fn.): stāvakas tasmād ↩︎

  33. E4 (Fn.): śrutir iti nārthavādatvāt ↩︎

  34. E2: 2,169; E4: 1,473; E5: 2,110; E6: 1,50 ↩︎

  35. Quelle nicht nachgewiesen ↩︎

  36. Vgl. BaudhŚS 28.12, Go.GS 1.9.13 ↩︎

  37. E4 (Fn.): hetuvyavasthitā eva ↩︎

  38. E1,5,6; E2,4: holākādiḥ, E4 (Fn.) tasmād holākādayaḥ; tad dholākādayaḥ ↩︎

  39. E4 (Fn.): āhnīnaibukā dākṣiṇātyair ↩︎

  40. E2: Lücke; E4: 1,486; E5: 2,113; E6: 1,50 ↩︎

  41. E4 (Fn.): udīcyāś codvṛṣabhayajñādīn ↩︎

  42. E4 (Fn.): niyogataḥ padārthān ↩︎

  43. E4 (Fn.): tasmād avyavasthā ↩︎

  44. E2: 2,180; E4: 1, 497; E5: 2,116; E6: 1,51 ↩︎

  45. Mān.ŚS. 1.7.1.5 ↩︎

  46. E4 (Fn.): vyavasthitaśyāmādi ↩︎

  47. E4: deśaliṅgavyavasthitam ↩︎

  48. E2: 2,182; E4: 1,505; E5: 2,117; E6: 1,52 ↩︎

  49. Vgl. Mahābhāṣya, Einltg., E1 (4th ed., 1985), Bd.1, S.5/21-22 ↩︎

  50. E2: 2,213; E4: 1,580; E5: 2,121; E6: 1,52 ↩︎

  51. E4 (Fn.): punar atra ↩︎

  52. E4 (Fn.): sādhur avagantavyaḥ ↩︎

  53. E2: 2,228; E4: 1,585; E5: 2,124; E6: 1,53 ↩︎

  54. ṚV 6.16.34a ↩︎

  55. ĀpŚS. 11.7.6 ↩︎

  56. E2: 2,231; E4: 1,618; E5: 2,148; E6: 1,54 ↩︎

  57. Tait.Br. 3.6.11.2 ↩︎

  58. E4: hiraṇyaparṇo vai devo; E2: hiraṇyaparṇo vai devavanaspatir; E4 (Fn.): hiraṇyaparṇo devavanaspatiḥ; E5,6: hiraṇyaparṇo devo ↩︎

  59. Quelle nicht nachgewiesen ↩︎

  60. E2: 2,237; E4: 1,619; E5: 2,153; E6: 1,54 ↩︎

  61. MS 1.3.26 ↩︎

  62. E2,4,6 (richtig): deyāś; E5: deyāḥ ↩︎

  63. Kāt.ŚS. 25.9.1 ↩︎

  64. Tait.S. 5.4.11 ↩︎

  65. E2: 2,246; E4: 1,664; E5: 2,160; E6: 1,55 ↩︎

  66. Tait.S. 3.2.5.4 ↩︎

  67. E4 (Fn.): vyaktau śabdārthe ↩︎

  68. E2: 2,247; E4: 2,665; E5: 2,163; E6: 1,56 ↩︎

  69. E2/4 (richtig): avabudhyetaivāsau ↩︎

  70. E1,6; E2,4,5 (besser): na tu ↩︎

  71. E2: 2,266; E4: 1,715; E5: 2,174; E6: 1,57 ↩︎

  72. E4 (Fn.): athānyaṃ ↩︎

  73. E2: 2,268; E4: 2,1; E5: 2,180; E6: 1,58 ↩︎