A Commentary on Jaimini Sutra. ( Is & 2 nd Padas, in 1 st Adhyaya.)
BY
SRI-VEDANTACHARYA.
शास्त्रमुक्तावली-१६ -
-
सेश्वर मीमांसा । कवितार्किक सिंहेन- सर्वतन्त्र स्वतन्त्रेण श्रीमद्वेदान्ताचार्या परनाम्ना
श्रीमदेङ्कटमाथेन
विरचिता।
धर्म मीमांसा व्याख्यान रूपा (प्रथमाध्याय प्रथम द्वितीयपादौ )
श्रीकांची प्रतिवादि भयंकर
अनन्ताचार्येण
परिशोधिता,
श्री सुदर्शनमुद्राक्षरशालायां
अमुद्यत ।
१९०२ ॥ श्रीकांची ॥
इकानी मेतन्मूल्यम् - १-८-०________________
॥ पूर्वमीमांसा सूत्र सूची ॥ प्रथमाध्याय प्रथमपादस्थ सूत्राणि ।
दितःसूत्रसंख्या पृष्ठांकाः
२०
पादादितः।
अधिकरणासूत्राणि। सूत्र संख्या
धर्मजिज्ञासाधिकरणम् ॥१॥ अथातो धर्मजिज्ञासा ।
धर्मलक्षणाधिकरणम ॥२॥ चोदना लक्षणोर्थों धर्मः ।
धर्मप्रमाणपरीक्षणाधिकरणम् ॥३॥ ३ तस्प निमित्त परीष्टिः ।
अन्यप्रमाणकत्वनिरासाधिकरणम् ॥४॥ सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां
बुद्धिजन्म तत्प्रत्यक्षमनिमित्तंविद्यमानोपलम्भनत्वात् ।
वेदप्रमाणकत्वाधिकरणम् ॥ ५॥ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ।
शब्दनित्यत्वाधिकरणम् ॥१॥ कमैके तत्रदर्शनात् । अस्थानात् । करोतिशब्दात् । सत्त्वान्तरेच योगपद्यात् । प्रकृतिविकृस्योश्च । वृद्धिश्च कर्तृभूम्नास्य । समन्तु तत्र दर्शनम् । सतःपरमदर्शनं विषयानागमनात् । प्रयोगस्यपरम् ।
CAUN________________
आदित्यवद्योगपद्यम् । शब्दान्तरमविकारः। नादवृद्धिपरा। नित्यस्नुस्यादर्शनस्य परार्थत्वात् । सर्वत्रयोगपद्यात् । संरूपाभावात् । अनपेक्षत्वात् ।
प्रख्याभावाच्चयोगस्य । २३ लिंगदर्शनाच्च।
0 वेदस्यार्थप्रत्यायकताधिकरणम् ॥ ७॥ २४ उत्पत्तीचावचनास्स्यु रर्थस्या
तनिमित्तत्वात् । २५ तद्भूतानांक्रियार्थेनसमाम्नायोर्थस्य- Map
तनिमित्तत्वात् । २६ लोकेसनियमात्प्रयोगसन्निकर्षस्स्यात् । ३
वेदापौरुषेयताधिकरणम् ॥ ८॥ वेदांश्चैकं सत्रिकर्ष पुरुषाख्या । २८ अनित्यदर्शनाच्चमा २९ उक्तन्तु शम्दपूर्वत्वम् ।
आख्याप्रवचनात् । ३१ परन्तु श्रुतिसामान्यमात्रम्। ५
७४ ३३ कृतेचाविनियोगस्स्यारकर्मणस्तमत्वात् । ६
॥ प्रथमाध्याय द्वितीयपादस्थ सूत्राणि ||
अर्थवादप्रामाण्याधिकरणम् ॥१॥ आम्नायस्यक्रियार्थत्वा दानर्थक्य
मतदर्थानां तस्मा दनित्य मुच्यते। शास्त्रदृष्ट विरोधाश्च ॥ तथा फला भावात् । अन्यानर्यक्यात ।
१________________
V
१०
१४
१०३ १०३
२६ १७
अभागिप्रतिषेधात। अनित्यसंपोगात। विधिनात्वेकवाक्यत्वा स्तुत्यर्थेन
विधीनांस्युः। नुल्यश्च साम्प्रदायिकम् । अप्राप्ताचानुपपत्तिः प्रयोगेहिविरोधस्या च्छन्दार्थस्त्वप्रयोग
भूत स्तस्मा दुपपद्येत। गुणवादस्तु। रूपात्मायात् । दूरभूयस्त्वाव। ख्यपराधाकर्तुश्च पुत्रदर्शनम् । आकल्पिकेप्सा। विद्यामशंसा। सर्वत्व माधिकारिकम् ॥ फलस्यकर्मनिष्पत्ते स्तेषां लोकव
त्परिमाणतः फलविशेषस्स्यात् । १७ अन्त्ययो यथोक्तम्।
विधिवनिगदाधिकरणम् ॥२॥ विधिर्वास्या दपूर्वत्वा द्वादमा
ह्यनर्थकम् । लोकवदितिचेन पूर्वत्वात् । वेदे व्यक्तमसंवादः। उक्तन्तु वाक्यशेषत्वम् । विधिश्वानर्थकः क्वचित्तस्मात्स्तुति:
प्रतीयेतवसामान्यादितरेषुतथात्वम् । ५ प्रकरणेच सम्भवन्नपकर्षों न___ कल्प्येत विध्यानर्थवयं हि ते प्रति । ६ विधौच वाक्यभेदस्स्यात् ।
हेतुवन्निगदाधिकरणम् ॥३॥ हेतु स्यादर्थवत्त्वोपपत्तिभ्यां ।
१०४ १०५
२०
CAUN
१०७ १०८ १०९ ११०
२२
२३
१११
२४
११२ ११२
२६________________
२७ २८
२९
११६ ११७
११७
३३
३५
१२१
३६
१२३
to
स्तुतिस्तु शब्दपूर्वस्वादचोदनातस्य ॥ व्यर्थे स्तुतिरन्याय्यतिचे दर्थस्तु
विधिशेषत्वावधालोके । यदिव हेतुरवतिष्ठेत निर्देशात् । सामान्यादितिचे दव्यवस्थाविधीनांस्यात् ।
मन्त्राधिकरणम् ॥ ४ ॥ तदर्थशास्त्रात् । वाक्यनियमाव । बुद्धशाखात । अविद्यमानवचनात् । अचेतनेर्थबन्धनात् । स्वाध्यायवदवचनात् । अविज्ञेयात् । अनित्यसंयोगात् ॥ अविशिष्टस्तु वाक्यार्थः । गुणार्थेन पुनस्स्तुतिः । परिसंख्या । अर्थवादोवा । अविरुद्ध परम् । सम्प्रेषे कर्मगहानुपलम्भ:
संस्कारत्वात् । अभिधानेर्थवादः । गुणादविप्रतिषेधस्स्यात् । विद्यावचनमसंयोगात । सतः परमविज्ञानम् । उक्तश्चा नित्यसंयोगः । लिंगोपदेशश्च तदर्थवत् । उद्दः । विधिशब्दाच्च ।
.१२३
१२४ १२५ १२६ १२६ ২৬
४४
१२८
१३१
U ANAU AU AU AVU CAUNO
१३४________________
श्रीः ॥ शास्त्रमुकावली ॥
श्रीहयग्रीवायनमः। श्रीमतेरामानुजायनमः । ॥सेश्वरमीमांसा॥
300
विहितमनवमर्थ यः पुमर्थश्चतुर्भि स्तफलयति वदान्य स्वप्रसाहन देवः । निखिलनि गमवेद्य सिध्यतु श्रीसखेस्मिन् भग वति निरवद्ये भक्तिरात्यन्तिकीनः ॥
स जयति जैमिनि रादौ जयति पुनः काशकृत्स्नोपि । नारायणावतारो जयति परं बादरायणःश्रीमान् ॥ निमत्सरा निशमयन्निवदमादरेण कर्माधिकारनयसूत्रगति समीचीम् । शारीरकेण घटयत्ययमस्मदुत्या देवस्तुरंगवदनो जगदन्तरात्मा ।
" अथातोधर्मजिज्ञासा " इत्यारभ्य “ अनावृत्तिश्शब्दादनावृत्तिश उदात्" इत्येवमन्तं विशतिलक्षण ममीमांसारख्य मेकं शास्त्रं । साहि मीमांसा वेदवाक्यार्थविचारात्मिका तद्विशेषनिर्णयार्थी सांगाध्ययनसं. गृहीत स्वाध्यायशब्दवाच्य वेदाण्याक्षरराश्यापातप्रतीतिविषय सप्रया जनार्थ विशेष विविदिपारित पुरुषाधिकर्तव्याच । एवमेकरूपप्रयोजन विशेषोदेशप्रवृत्त पुरुषव्यापार गोचर न्यायसंघातनिवन्धनामिकायाः त्रिकाण्डया सामान्यतो विषयप्रयोजनप्रवृत्तिभकारविशेष विशेषिता. धिकार्यक्या देकविद्यास्थानत्वमिति न.तिप्रसंगः । प्रतिविद्यास्थान मवान्तरोपकारादिभेदस्य व्यवस्थितत्वात् , नतथाऽपि भेदो दर श्पते । काण्डभेदस्तु स्यात , षटकादिभेदन्यायात् । स्मृतिपुराणव महर्षिभिः पृथगपरिसंख्यानाच । ऐकायमध्यंतु संगतिविशेष विशि एक्रमत्वादिति भगवता भाष्यकारेणैवाभाषि । नच निरुप्यविशेषरू द्राचे________________
शास्त्रमुक्तावली । समीक्ष्य सङ्कर्षारम्भः , वैयासिकोवा शारीरकप्रणयनप्रयासः । “सं हितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणनेति शास्बैकत्वसिद्धिः" इति वृत्तिग्रन्थश्च प्रतिबन्धादियुक्तिगर्भः । अर्थविरोधस्तु नसौत्रः , आन्य पर्यात्सूत्राणाम् । उक्तह्यागमप्रामाण्ये -
“भगवतो जैमिनेः कर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनाय" इति ।
वेदार्थसंग्रहेपि - " अशुतवेदान्तानां कर्मण्यश्रद्धा माभूदिति देवताधिकरणे : तिवादाःकृताः, कर्ममात्रे यथा श्रद्धास्यात् श्रद्धां कुर्यादित सर्वमेकंशास्त्रमिति वेदवित्सिद्धान्तः” इति ।
द्रव्यदेवतासामान्ये द्रव्यबलीयस्वश्च प्रमाणमुखेन , नपुनर्वस्तुप्त दसत्त्वाभ्यां, तच्चस्वावसरे निर्वक्ष्यामः । अन्यदपिसर्वमाविरुद्धवेन निर्णेतव्यम् ।
अध्यस्त स्य] व्याक्रियादोषं [पान्] येसूत्रमपि तत्यजुः ।
प्रायः स्फटिकमप्येते जहारेव जपाभ्रमात् ॥ तेन नारायणाय स्सूत्राणा मन्यथाकरणं प्रौढिप्रकाशनमात्रमेव । वयन्तु सामगार्चायसूत्राणां व्याख्यादोषं प्रतिक्षिप्य सम्यश्चमेवार्थ प्रतिपादयिष्यामः ।
दर्शयतिच भगवान् बादरायणो जैमिनेरपि ब्रह्मतत्गुणाभ्युपगमं “साक्षादप्यविरोधं- जैमिनिः ।” " सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति” “ मध्वादिष्वसम्भवादनधिकारं जैमिनिः " “अन्यातु जेमिनिः प्रश्नव्याख्यानाभ्या मपिचैव मेके” “परं जैमिनि मुंरख्यत्वात " “ब्राह्मण जैमिनि रुपन्यासादिभ्यः” इत्यादिषु । धर्मजैमिनि रत एव” " शेषत्वा पुरुषार्थवादो यथान्येष्विति जमिानः " इत्यादिषु काचित्क विसंवादानुवादस्वन्यपरोक्तिमूलकमंदमति माहशा त्यर्थः । अथवा परकलितसौधादि शेषपूरणवत विरुदै कदेशोद्धारेण संहितवपक्षेपि नाक्यविरोधः । कर्ड भेदस्तु न शास्त्रं भिन्द्यात् ।________________
सेश्वरमीमांसा । तदभेदश्च न तदेकीकुर्यात् । एककर्तृकानेकवदनेक कर्तृकैकदृष्टे लोंकसिद्धत्वात । परस्परसम्मत्या कृतशेषपूरणेनवा तात्पर्य परिशोधनपूर्वक तदेकदेश प्रवृत्युपपत्तेश्च । अतो विद्यास्थानान्तराननुवृत्ताव्यवहिता विरुद्ध परस्परसापेक्षांशव द्विषयायैक्या प्रबन्धैक्यंच सिद्धम् । कर्मादिकाण्डभेद व्यपदेशश्च तदैक्यं व्यनक्ति । एतौ राहुकच न्धमीमांसक पक्षौ प्रतिचिक्षिपाते । काण्डक्रमोप्यध्यायादि क्रमव दर्थ प्राप्तः । वेदप्रामाण्यमन्तरेण हि विचार स्सॉपि नसेत्स्यतीति प्रमाणलक्षणेन प्रागेव भाव्यम् । अथच कीपक्रमतया प्रायो वेदानां तदितिकर्तव्यताभागयोरपि सारस्वतांगन्यायेन मुख्पक्रमानुसारात् , अनाद्यभ्यस्तत्रिवर्गप्रथमप्रावण्यरूपार्थक्रमात् , अनन्तस्थिरफलापातप्रतीत्यादेचाभयत्रा विशेषात् , कर्ममात्रेणचामृतत्व सम्भावनायां “अकॅचेन्मधुविन्दत” इति न्यायात्, पदार्थवाक्यार्थभाव दृष्टान्तदाटीन्तिकभावादेच, पौर्वापर्य नियामकप्रमाणविशेषात् कर्मविचारः पूर्वभावी । तत्र भेदांगप्रयुक्ति क्रम कर्तृभिः सामान्यातिदेश विशेषाति देश तदनुबन्ध्यूहबाध तन्त्र प्रसक्तिभिश्च प्रकृतिविकृतिरूप कर्मचि न्तानुक्रमे नान्यावकाशः । तदुद्देश्यदेवताविषयतयातु संकर्षानन्तर्यसमुचितमेव । अथतु सर्वकर्मसमाराध्यं सर्वदेवतान्तर्यामि परदेवतं चिन्तयिष्यते।
विभूतिशक्तिमन्त्राख्या गुणाकारादि चिवितैः ।
देवताकंचुकभिन्नं यदेकं ब्रह्म चक्षते ॥ किंच यदि कर्मत एवामृतत्वं स्यात् किं तदंगकेनोपासनेन, अथन, तदा तादर्थेनापि स्वरूपतः कोपभुज्यतेत्यापातधीमत स्सन्दिहानस्यापि कर्मणि विचिचारयिषा दुर्वारा । तावन्मात्रात्तदसिद्धिनिश्च येतु निष्प्रत्यूहः शारीरकारम्भ इति ॥ विशतिलक्षण्यांवक्ष्यमाणं कृत्स्न वेदार्थविचारं सहेतुकं प्रति जानाति
अथातो धर्मजिज्ञासा ॥ १-१-१॥ अथ शब्दोत्राय मानन्तर्यार्थ एव, प्रसिद्धिप्रकर्षस्यानपवादत्वात् ।________________
शास्त्र मुक्तावली । मनकावं त्वथधर्मशब्दयो रन्यार्थत्वपि प्रदीपादिवत्स्यात् । यद्यप्य त्र पूर्व म किश्चिदपि निर्दिष्टं, तथाप्यतःपदोपादानेन स्वरसत स्लामा न्येन कस्यचिद् वृत्तस्य हेतुतोक्ते स्तस्य धर्मजिज्ञासापद समभिध्याहारखामाा तदपेक्षिततया विशेष्यमाणत्वाच्च सांगवेदाध्ययनरूप वृतविशेषसिद्धिः । नहि वेदाध्ययना पूर्व मन्यस्मादा नियतपूर्वतृलादनन्तरं वेदार्थविचार स्तदुक्तिर्वावकल्पते ॥
अतएवात्रातःशब्दोषि वृत्तस्य हेतभावार्थ एव । धर्मस्यजिज्ञासा धर्मजिज्ञासा, कर्मण्यत्र षष्ठी, सम्बन्धसामान्यषष्ठी मंगीकृत्य तेन तत्र कर्मसापेक्ष जिज्ञासा सामर्थ्यतः कर्मार्थत्वकलते विम्बितत्वात, " कर्तृकर्मगोः कृति” इति विशेष विधानात , कतर्थताया इहानन्वयात , कर्मणश्चेप्सिततयाऽभ्यहितत्वात , अन्यपरोपि सूत्रे विषयायोजन सूचनोपयोगात, आनुषंगिकविवक्षान्तरस्याबादोष. त्वात्, प्रतिपदविधानषष्ठीसमासनिषेधस्य कृद्योगषष्ठयां प्रतिप्रसवेन “जीविदर्थस्थकरणे” इत्यादि सूत्रविषयत्वस्थापनाच्च ।
यद्यपि सर्पिषोज्ञान मित्यत्र कृद्योगोप्यस्ति, तथापि नकृयोगजेवं ठी, अपितु ‘झोविदधस्य करण’ इति जानाते र्धातो रविदर्थस्य प्रवृत्यर्थत्वे सर्पिरादे पष्ठयन्तस्य करणार्थत्वेच विधीयते । सर्पियो जानीते, मधुनो जा नीत इत्यादिषु कृद्योगमन्तरेणापि षष्ठीमयोगदर्शनात् । तेन तवनसमासः।
धर्मशब्दोत्र चोदनालक्षण श्रेयस्करवाची, तेनाजहदभीप्सित स्वार्थनाधादिरपि वृत्तो वेदार्थों लक्ष्यते । अत एवच सिद्धपरभा गार्थस्यापि संग्रहः । कोपाप्लनात्मकस्य धर्मस्य स्वरूपसाधनाधिका राराध्यसाध्यादिकंतथा । तद्गोचरजिज्ञासासामर्थ्याडा कृत्स्नसिद्धिः । उक्तंच शारीरकाये वेदस्य कार्यार्थत्वमन्वारुह्य भाष्यकारैः- “ उपास नविषयकार्याधिकृतफलस्वेन ब्रह्मविदाप्नोतिपर’ मित्यादिभि ब्रह्म प्राप्तिश्यत इति ब्रह्मस्वरूप तद्विशेषणानां दुःखासंभिन्न देशविशेषस्वगादिवरात्रिसवप्रतिष्ठादिव दपगोरणशतयातनासाध्यसाधनभावबच्च का पोगितयैव सिद्धेः " इति । तथा तत्रैव- " धात्वर्थस्यच यागा________________
सेश्वरमीमांसा।
दे रनचादिदेवतान्तयामि परमपुरुष समाराधनरूपता , समाराधिता स्परमपुरुषा फलसिद्धिश्चेति फलमत उपपत्ते ’ रित्यत्र प्रतिपादपि प्यत” इति ।
ननु " फलमतउपपत्तेः " " शूतत्वाच्च ” इतिसूत्राभ्यां परमपुरु पस्यैच विवर्गापवर्गरूपफलप्रदत्व मुपक्षिप्य, “ धर्मजैमिनिरतएव " इति तद्विरुद्धतया जमिनिमतमद्य," पूर्वतु बादरायणो हेतुव्यपदेशात्" इति पुनः परमपुरुषस्पैच फलप्रदत्वे स्वमततया सवितम् । एवमर्थमेवच तत्र भाष्यम् । अतः कथमिह “धर्मजिज्ञासे” ति जैमिनि बाक्ये जिज्ञासासामर्थ्यादिना धर्माराध्यत्वाद्याकारेण प्रमादिसिद्धि विवक्षितेत्युन्नीयते । मेवं , तत्रताव जैमिने ब्रह्मतगणाद्यभ्युपगम स्तोत्री दर्शितः । इयन कृत्रवेदार्थविचारप्रतिक्षा, अन्यथा ‘अत’ इति हेत्वनन्वयात । नहि बंदेकदेशार्थजिज्ञासायां कृत्ववेदाध्ययनं हेतुत योपादीयते । नचैकदेशाध्ययनं वृत्तं , साइसशिरस्कस्वाध्यायाध्ययनस्य विहितत्वात् । अतएव शास्त्रान्तरात् ब्रह्मभागविचार इति पक्षी पि निरस्तः । एवं च सति “धर्म जैमिनि रत एव" इत्यस्यायमभिप्रायः - क्षणिकक्रियायाः कालान्तरभाविस्वर्गसाधनत्व मनुषपनमिति वदतो नास्तिकस्य गूडाभिप्रायेण जेमिनिना मुखमापिहितम् । न तावत् कर्मणामव्यवधानेन फलप्रदत्वनियमः, लोके मर्दनादिषुकृप्यादिषुच साक्षादा परम्परयावा स्वयमेव फलप्रदत्वदर्शनात् , एवंच वपि यागादीनां साक्षात्फलसाधनत्वाभावेपि यत्किंचिदपूर्व द्वारीक स्य परम्परया फलसाधनत्वमुपपद्यते , तथासति यजेतस्वर्गकामद त्यादिशास्त्रं स्वर्गकामस्य कर्तव्यतया यागाद्यभिदध तदन्यथा नुपपत्या पूर्वद्वारेणेव फललाधनत्व मवगमयति , तच्चापूर्वमत्तीन्द्रिय रवानाध्यक्षबोध्यम् , अतो न शास्त्रप्रामाण्यविरोधइति । तदेतदनूद्यतस्पापि हगतस्वमतवमसरे दर्शयन् भगवान् चादरायण स्तदुक्तमा
दवतानुग्रहक प्राचीनशत् । अतो नविरोधइति । अन्न धर्ममुखेन समारम्भो विधिवाक्यानां क्रियाप्रधानत्वात । यष्टपानान्तु देवता________________
शास्त्रमुक्तावली । नां राजश्व सेवाविधिवाक्ये प्राधान्यमार्थ , तसूजात्मकत्वा यागादेः । ततश्च शब्दतो यत्प्रधानं शास्त्रं प्रतीमः , तत्र प्रथमं विचा रोऽवतरति , पश्चा त्तत्तदाराध्ये , ततः परं तत्पर्यवसानभूमाविति मातीतिकोयं पर्वक्रमावतारः ।
यद्यपि ब्रह्मस्वरूपपरवाक्यानि सिद्धप्रधानानि समन्वयसूत्रे समर्थयिष्यन्ते , तथाप्यन्ततो निधिसत्तादिवाक्येष्विव पुरुषस्य बुभुत्सा क्रमेणोपायविधायि वाक्यावधिविश्रमो भाष्योक्तः - “एवंभूतं ब्रह्म क थं प्राप्यत इत्यपेक्षायां " ब्रह्मविदाप्नोतिपरं " " आस्मानमेव लोकमु पासीत ” इति वेदनादिशब्दै रुपासनं ब्रह्मप्राप्युपायतया विधीयते । यथा स्ववेश्मनि निधिरस्तीति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने प्रयतत” इति । अतः पूर्वोत्तरभागयो रनुवृत्तं कर्तव्यस्य शान्दं प्राधान्यं, सिद्धस्यतु पूर्वार्थसिद्धमिति सर्वभागानुवृत्तशाब्द प्राधान्यशालि कर्तव्य मुखेनोपलक्षण माक्षेपोवायुक्तः । देवतानांच फ लप्रदत्वं सिद्ध तासां द्रव्यक्रियागुणादिव धर्मतयव संग्रहः , चोदितरूपेण श्रयस्साधनत्वाविशेषात् । भगवद्गणदर्पणेहि फलोपायं प्रस्तुत्यो तं-“सच सिद्ध स्साध्यालम्बनरूपश्च । सिद्धस्त्वाराध्यमानतया फलप्रदादेवता” इत्यादि । एवमपि विंशतिलक्षण्यर्थसंग्रहः । यद्धा संगति विशेषवशा स्प्रथमप्राप्त विशेषप्रतिज्ञायामेव सामान्यप्रतिज्ञान मर्थसिद्धम् । तदनुगुणश्च सारग्रन्थः - “ अधीतवेदस्यहि पुरुषस्य कर्मप्रति पादनोपकमा वेदानां कर्मविचारः प्रथमं कर्तव्य इत्यथातो धर्मजिज्ञा से युक्तम् । कर्मणांच प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थ साधनतानिश्चयः " प्रभुत्वादाविज्ग" मित्यन्तेन सूत्रकलापेन सङ्कर्षण कृत" इति । तत्पूर्वग्रन्थेतु कृत्स्नवेदार्थविषयोविचारप्रारम्भ स्सूचितः - " आरिप्सितस्य ब्रह्मज्ञानस्य वेदार्थविचारैकदेशत्वा" दिति । तथाभा प्येपि “ अध्ययनगृहीतस्ये” त्यारभ्य “ वेदवाक्यविचाररूपमीमांसाश्रवणे ऽ धीतवेदः पुरुष स्वयमेवप्रवर्तत" इति । यद्यपि ज्ञातुमिच्छा - जिज्ञासा , तथापिच पुरुषतन्त्रत्वा व स्वयं विधेया , ततश्वेष्यमाणं ज्ञान मर्थतः प्रधानमिति विचारारम्भसूत्रे तदेव विधयम् । तस्य________________
[२-अ, २पा
सेश्वरमीमांसा । विचाररूपस्य रागप्राप्तत्व ज्ञापनाय सन्प्रयोगः । सांगाध्ययना दापा तधीस्थ स्वोपयुक्त वेदार्थस्या ध्येतु स्तनिर्णिनीषया स्वतएव जातस्य मीमांसौन्मुख्यस्य पूर्वपक्षनयेन जातां प्रतिहति मपाकुर्वता : ध्ययनानन्तरं ततएव हेतो दार्थविचारः कर्तव्यतयासूत्रितः । अब मीमांसाशास्त्रमेव विषयः । तत्किमारम्भणीय मुतानारम्भणीयमिति संशयः, तदर्थ विचार्यते, मीमांसावसरो ऽस्ति नवेति । यदा नास्ति तदा नारम्भणीयम् । यदास्ति तदारम्भणीयमिति ।
अत्रैवं पूर्वपक्षः - अधीतसांगवेदस्यैव भीमांसाधिकारइति न ततः पूर्व तदवसरः । अतएव न सह । पश्चात्त- “ अधीत्य नाया” दिति स्नानविध्यवरोधान्नावसरः ।
नच “समानकर्तृकयोः पूर्वकाल" इत्यनुशासनात् पूर्वतामात्रो क्तिरिति वाच्यम् , व्यवधायकादशने स्वारसिकनरन्तर्यस्यानपवादात् । प्राणिधमैं य॑वधानन्तु न सर्वव्यवधान मनुजानाति । नचार्थज्ञा नार्थाध्ययनविध्याक्षिप्ते मीमांसाशास्त्रे श्रुतिबलादेव स्मृतिबाध इति यु क्तम् , प्रत्यक्षश्रुतिविरुद्धाया अपि स्मृते र्मूलान्तर मिच्छतां तदयोगात् । अनिच्छतामंपि प्रत्यक्षश्रन्यव मूलवत्त्वे का तस्याः क्षतिः । तथाचामनन्ति छन्दोगाः - " आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषणाभिसमावृत्य कुटुम्चे शुचौ समे देशे स्वाध्यायमधी यानी धार्मिकान्विदधाती" त्यादि । नचायमनुवादः, अप्राप्तेः । प्राप्ता वपि प्रापकेन मूलवत्त्वसिद्धेः । नच त्या स्मृत्यानुवादः, वैपरीत्या पातात् । तदनुमतेरेवच स्मृतिबाधायोगात् । नच न्याय स्तमावृत्ति श्रु तिस्मृतिभ्यामनूद्यते , वचनविरोधे न्यायश्च न प्रभवतीति वाच्यम्, तद्विरोधिनो वचनस्यैवात्रासिद्धेः । यदिह्यसौ विधि रर्थज्ञानपर्यन्तस्यात् , तदा तद्वैशद्याय स्यादेव मीमांसापेक्षा, नचैतदस्ति, सह्यक्षरग्रहणपर्यन्तः, तावतापि जपायुपयोगात् तस्यैव होमाद्यभिव्याप्तेः । प्रथमभावितया शीघ्रबुद्धिस्थत्वाच्च । नचास्या पुरुषार्थत्वा दफलतेति वाच्यम, अर्थज्ञानेपि तुल्यत्वात् । तन्मूलानुष्ठानत स्वर्गादिसि________________
शास्त्रमुक्तावली । या परम्परया तस्य प्रयोजनवत्त्वमिति चेत्तल्यम् । तथाप्यर्थज्ञानमन्तभवनीय मापनमिति चेन्नः जपाध्यापनस्वरूपधारणादिनापि पु रुषार्थपर्यवसानात । तदन्तभावपि तस्यैव कुतः प्रयोजनता, यावतास्वर्गादेरिति तस्यैव कल्प्यतां, तस्यैव साक्षात्प्रयोजनत्वात् । व्यवधा नान्नैवमिति चेत्, आगतोसि पन्थानं, एवंचाव्यवहित मक्षरग्रहणमेव प्रयोजनमनुमन्यस्व । नचाक्षरग्रहणस्य लौकिकेऽध्यापनादौ अलौकिके जपादौन साधारण्पान्नाध्ययनरूप संस्कारफलतेति वाच्यम् । अर्थज्ञानस्यापि लौकिके प्रवचनादावलौकिके यागाद्यनष्ठानेच साधार ण्याविशेषात् । अनध्ययनसिद्धेनापि डानेनार्थप्रवचनं शक्यमितिचेत - अध्यापनमपि तथैव । तत्तथा निषिद्धमिति चेत् । अन्यदपि तथैव । अ. तोध्ययनविधे रक्षरग्रहणपर्यन्तत्वा न ततोर्थतानाय मीमांसाक्षेपः । नवाध्ययनशब्दे न तव्यप्रत्ययेन स्वाध्यायशब्देनच मीमांसापि गुह्यते, येन विधिस्पर्शसम्भवः ।
“ नचाष्टवर्ष ब्राह्मण अपनयीत तमध्यापये " दिति तदपेक्षितविधायिन्यां श्रुती " श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । यु क्तश्छन्दास्पधीपीत मासान्विनोधपंचमान् ॥ अत ऊर्ध्वन्तु छन्दांसिशुक्रेषु नियत पठेत । वेदांगानिच सर्वाणि कृष्णपक्षेषु संपठेदि" स्या दिस्मृतीवा व्याकरणादिवत् मीमांसायाः प्रसंगः ।
अतः सपरिकराध्ययनविधिनिरूपणे “सत्सन्तानप्रसूत सदाचार निष्ठात्मगुणोपेत वेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्या चायोच्चारणानूच्चारण रूपाध्ययनविधि मन्त्रव नियमवदक्षरराशिग्रहणमात्र पर्यवस्वती ति यथाभाप्यं न वैधी मीमांसा।
ननु - रागादेव भवतु मीमांसारम्भः, तथाच भवनाथेन पराभिमतसूत्रार्थ प्रतिक्षिपतोक्तम् - “सांगवेदाध्येतु स्स्वोपयुक्तमानार्थधीमनागिति तत्सम्यन्वेच्छो स्तदुपायोन्मुखस्या नर्थपरत्वधिया विनुखतापत्ता वर्थप्परत्वोक्त्या तनिवृत्त्यर्थ विषयप्रयोजनज्ञानं प्रत्येव सूत्रं, नत्वाद्यप्रवृत्यर्थ” मिति ।________________
सेश्वरमीमांसा ।
तन्न, रागोहि तब प्रतिघातान प्रवर्तयितुं क्षमः, नानात्पश्चात रागोऽनुवृत्तीपि निरन्तरविहित नित्यादिकर्मनिरूढ़ावसरतया पुर्ववदे वा अतोऽध्ययनांग समस्तब्रह्मचारि धर्मनिवृत्तावपि गुरूपसदनादिमात्रात् पूर्ववन्मीमांसता मित्यपि दत्तोत्तरम् ॥
नच “ यश्चन्याकुरुते वाचं यश्च मीमांसतेश्वरम् । तावुभौपुरु पो लोके पङ्गिपावनपाघनौ ॥” इति पावनार्थ मीमांसाविधानात कदाचिन्मीमांसाया भवितव्यत्वे कश्चि दवश्यं विधि निरुध्यत इति प्रथमातिक्रमे कारणाभावात स्नानविधिरेवनिरोप्दु मुचित इति वाच्यम् तत्र विधे रश्रवणात् , स्मृतिमावतयापि साधनतोक्तिसम्भवात् । काम्यस्य चानुष्ठेयत्वनियमासिद्धेः । नचाकामोपनिबन्ध विधिप्रत्ययवती वाविधिस्मृतिर्मीमांसां विधत्ते, अदर्शनात् । दर्शनपि तस्या स्मृते न्या यमूलत्वश्रुति मूलत्वसन्देहे तन्निबन्धनावसरक्लुप्तच योगात् । “अ. धीत्यवेदान् सांगांस्तुयोविचारमुपक्षते । स्वप्रयासश्चविस्मृत्यमधष्टस्स्यात्प्रयोजनात ॥” इतिह्मत्रन्यायोमूलंभवति । नचानेनैवन्यायेनावसरकल्टप्ति श्शक्या, वचन विरोधे न न्यायस्यानवतारात् ।
अतो वेदाध्ययना पूर्व मनधिकारात् पश्चा हुरुकुलवासादि निवर्तकस्नानविध्यवरोधात् ततः परमपि तत्तद्धर्मनैरन्तर्यात् , सर्वदानवसरतया, सांगाध्ययनादेवापेक्षितज्ञानाञ्च , मीमांसाशास्त्रमनारंभणीयमिति ॥ * ॥
सिद्धान्तस्तु - अमीमांसितेऽधंतावत् संशयादिसम्भवान्न य थावदर्थनिश्चयसिद्धिः, ततश्चयद्यपि रागपाप्तामीमांसा, तथापि नस्नानविधिनातदवसरोपरोधः, क्त्वाश्रुतावव्यवहितनरन्तर्यस्या शाब्दत्वात्, स्वारस्य मात्रस्य मीमांसाश्रवणजन्यज्ञानसापोत्तरकालभावित तद्विध्यनुज्ञातरागादेवनिरासात् । विधिर्हिस्वोपयोगिद्रव्यार्जनादेरिवमीमांसाश्रवणपाप्यववसरं दातुमर्हति , तदभावेऽर्थज्ञानासिद्धेस्तेन विनाचानुष्ठानासम्भवात । ॥ * ॥ वैधेप्यधीत बेदस्य गुरुगेहानि वर्तने ।________________
शास्त्र मुक्तावली । इत्थं विधिरसौमोक्तो मीमांसावसरप्रदः ॥ यदातुन्यायतः प्राप्तासमावृत्तिस्तदातुनः । न्यायेन प्ररलेनाय समुत्कृभ्येतदुर्बलः ॥ * ॥
भतोरागएबाध्ययन विधिनाप्यनुज्ञातस्सन् पूर्वसिद्धां गुरुकुलस्थिति धारयति । ततएवनस्थित्यन्तरप्रयुक्ति प्रसंगः । यद्यपिपूर्ववस्थितिरनुवर्तते , तथापि तदनुवृत्तेरध्ययन प्रयुक्तत्वाकारापगमेनार्थप्राप्तस्थित्याद्यतिरिक्तधर्मान्तरनिवृत्तिः । अध्ययन विधेरक्षरग्रहणोपायनियमार्थत्वात्तदनुबन्धिधर्मनियमानांचतद्गुणावधिकत्वात् । भधी तादेदात्स्वयमेव जायमानस्यार्थज्ञानस्याध्ययनानन्तभांविन स्तद्धर्मन योजकत्ये प्रमाणाभावात् । उदकाहरणादिनिवृत्तावाप ख्यातिष्ठाभा थे गुरोः प्रवृत्त्युपपत्तेश्च । एवंच नातस्यापि स्थितिःसम्भवत्येव । नचनातस्यानन्तरमेव दारक्रियाविधानादनवसर इतिवाच्यम् , अ लब्धदाराणां केवाञ्चित्केवलस्थितिसम्भवात् । कृतदारमप्यविचारित कर्माण मविद्वत्वेनानधिकारिण मग्निहोत्रादिविधयोनसहसाधिकुर्वन्ति , अपितुस्वसिद्धयर्थम् द्रध्यार्जनादिकमिव कर्मविचारमप्यनुमन्यन्ते । यस्तु दारक्रियातः पूर्वमेव विचारितकी पुरुषस्तमधिकृत्यैव " दशमेहन्यादधीत " इत्यादिनियमः । यथा दृष्टसामग्रयन्तररहि ते नायं नियमः, तद्वदवापि । यद्धा ब्रह्मचारिधर्मवद्धितैषिवाक्यानुसारेण भवत्वविचारितकर्मणोपि प्रथममग्रिहोत्रादिप्रवृत्तिः । हितैषिवाक्यादनुष्ठाने ऽ पशूद्रनयविरोधइतिचेन्न ; अगृहीतमन्त्रादे रनधिकागत तत्परियहस्यच चणिकविषयोपनयनांग काध्ययनसाथ्यत्वात् । ‘नशूद्रायमतिन्दद्यात्’ इत्यादि निषेधाच्च। सूत्रितंच शारीरके " श्रवणा ध्ययनार्थ प्रतिषेधात्" इत्यादि । अन्योक्त्याऽनुष्ठानेपि न मीमांसानार म्भः ; उत्तरोत्तरानुष्ठानषु परनरपेक्ष्य श्रद्धया ख्यात्यायर्थ प्रवचनादिरागंणच पवादपि विचारोपपत्तेः , आवयित्वञ्चतस्याप्यवसरसम्भवात । नहि ब्रह्मचारिण श्रावकत्वं, तस्य श्रोतृदशापनत्वात् , अन्यस्यतुयदिश्रवणावसरः, कस्तस्यश्रवणेविरोधः । तृत्यर्थ तस्याध्यापनाधिकं विहितमिति चेत् ? तर्हि श्रोतुरपिपरछाल________________
सेश्वरमीमांसा ।
धैः कुल कमागवा धनादिभिलब्धवृत्तेस्सएवावसर इतिनकश्चिदि रोधः । आतस्खाांगवेदाध्येतुः नानात्पूर्व , नातमात्रस्य , कृतदाररूप , भाहितब यथायोग मवतरसम्भवादारम्भणीया मीमांसेति ।
चतुर्वर्गफलोपाय विचारोऽध्ययनादनु । ततएवबुभुत्सातः प्राप्तोऽवसरलाभतः ॥ विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः । अतोऽनधीतवेदस्य विचारशास्त्रबाधितः । कमविशतिलक्षण्यां नवैधः किंतुलौकिकः ॥
अतोव्युत्क्रमचिन्ताया मनौचित्यं प्रशिष्यते ॥ येपुनराहुः । स्वाध्यायोपेतव्य’ इति विधेस्स्ववाक्ये फलादर्श नात , कामाधिकारत्वेच प्रवृत्तिशैत्रयेण कस्यचि त्फलस्यावश्यम्भा वा दपुरुषार्थस्याध्ययनस्य विध्यावरुद्धया भावनया भाव्यत्वेनान्वया नुपपत्ते स्स्वाध्यायार्थ बोधयोस्तु भाव्यत्वे विध्यानर्थक्यप्रसंगा दि. श्वजित्रयायेन स्वर्गवा भाव्यं परिकल्प्य शब्दभावनायाः स्तुतिरूपो पकारजनकतया ऽध्ययनचोदनालिंगकातिदेशागत जपाध्ययनार्थवादो क्तपितृदेव तृप्तिद्वारकं सार्वकाम्यं फलमुपादाय फलभावनाकरणा ध्ययनार्थस्य स्वाध्यायस्यार्थपरत्वासम्भवेन विषयप्रयोजनाभावा दना रभ्यं शाखमिति पूर्वपक्षं कृत्या, व्युत्पन्नाथांविरोधेन खव्यात्ययावग त कर्मभावस्य स्वाध्यायस्येव भाव्यताप्रतीते रर्थज्ञाने दृष्टेसभ्भवत्य हटकल्पनायोगानस्य क्रत्वनप्रवेशकल्पनया विधिवयाभावाञ्चस्वाध्यायस्वार्थपरत्वे निश्चितेसति विषयप्रयोजनसद्भावादारम्भणीयं. शाखमिति । तान् प्रति ब्रमः, यदि फलभावनाकरणाध्ययनार्थ स्वाध्यायः कथातायामात्रेणा विवक्षितार्थता स्यात् । नान्यत्र विनियोगेन स्व. शक्तिरपैति, अन्यथा कृत्स्नस्यापि वेदस्याथज्ञानव्यतिरिक्त फलान्त रायें जगदी विनि पुक्तस्य कथमर्थपरता लिदा सयिष्यसि । किंच._____________
शास्त्रमुक्तावली । अयं पूर्वपक्षी किमध्ययनविधि विवक्षितार्थ मन्यतेऽविवक्षितार्थवा ? न प्रथमः - स्ववचनविरोधात , तदविशेषेण कृत्स्नस्थापि विधक्षितार्थत्व प्रसंगाग्छ । नापि द्वितीयः फलभावनाकरणाध्यन विद्धयसिद्ध रेव मूलाभावेन पूर्व पक्षानुत्थानात् । ननु पूर्वपक्षिणएवायमाशयः - अध्यनविधेर्विवक्षितार्थत्वे कृरत्नस्यापि विवक्षितार्थत्वप्रसंगः, अविवक्षितार्थ स्खे त्वध्ययनाभावादेव तन्मूलसमस्सासिद्धिरिति, तन्न, दत्तारत्वात - नहि फलार्थमन्यध्ययनं वस्तुशक्तिं प्रतिरुणद्धि । मंगलार्थमारोपितस्वापिहि दीपस्व न प्रकाशकत्वमपैति । तथाच भाष्य - " अध्ययनगृ हीतस्य स्वाध्यायस्य स्वभावतएव प्रयोजनवदीवये धित्वदर्शनात " इति । अन्यथा प्रसन्नकमसननीययो व्याघातस्तद्विपर्ययश्च । नन्वयम नुयोगस्तवापि समानः, अमीमांतितस्यानुष्ठानस्या सम्भवातू, तद2 मीमांसापेक्षायांच तदनारम्भरक्षानुत्थानादिति ; मैवं - आपातमसीत्वैवावसरोपेतस्य स्फुटतरप्रतीतेः तत्र मीमांसानपेक्षणादिति ।
यज्ञ सिद्वान्तर्थलानमध्ययन फलस्वेनोपादाप विवक्षितार्थत्वं - साधितम् , तदप्यध्ययनविध रक्षरग्रहणपर्यवसायित्व स्थापनेन निरस्तम्।
यत्त " स्वाध्यायस्थार्थपरत्वेनाधीत वेदः पुरुषः प्रयोजनवदर्था चोधित्व दर्शनातनिर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य मानत्वात् ” इति भाष्यम् , तदपि नानपरत्व पूर्वपक्षाभिप्रायम् , छानिनु अर्थपरत्वं सिद्धं कृत्वा श्रवणस्य पूर्वपक्षसिद्धान्त साधारणविषिनिरपेक्षत्वज्ञापनपरम् । यदिच व्याघातमवधीर्यार्थविवक्षाभ्यां - विवादस्ते रोचते, तदापि विधेरक्षरग्रहणपर्यवसायितया विवक्षा पूर्व पक्ष प्रक्षिप्य विधिनिरपेक्षया स्वशक्यवार्थपरत्वं सिद्धान्तयि– राध्यम् । एतेन गुरुमतमपि लघुकृतम्। अपिचाचार्यकरणार्थाच्यापन विधियुक्तिमुपजीव्यहितदर्थतया स्वाध्यायस्यार्थ परत्याभावः - एवं पक्षितः, राबाध्यापनविध्यसम्भवादेव तदनुत्थानम् । तथाहि - अ पप ब्राहाण मुपनांत तमायाएये" दित्यत्र " द्वादशादेन प्रजाकामं या________________
१३
सेश्वरमीमांसा । जये " दिति, यजनविधिवदत्याद्यर्थप्राप्ताध्यापना नुवादेनाध्ययनविधावेव तात्पर्यात् । नच कामपदश्रत्यभावा द्विशेषः, ‘निषादस्थपति - याजये। दित्यत्र तदभावेपि यजन परतयेव योजनात । तेनाष्टवर्षों ब्राह्मण उपनीताधीयीत , इति विधीयते । उपनयनंच “ब्राह्मण” मितिद्वितीयाश्रुत्या माणवकसंस्कारइत्युभयसम्मतम् । अत स्तच्छेषभूत मुपनयन मन्तरंगलिंगा त्तद्गताध्ययनांगमिति युक्तम् ।
" उपनीयतु यश्शिष्यं वेदमध्यापयेद्विजः ।
सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥" इतित्वाश्रुत्यालिंगबाधइतिचेन्न । अनुवादसरूपतया स्मृतिगततयाच विलम्बद्रयसहितया क्तवाश्रुत्या श्रुतिगतलिंगवाधायोगात ।
किंच ॥ * ॥ नवाश्रत्यातुल्यकर्तृत्व , तेनचैकप्रयोगता।
तयात्वंगांगिभावः स्या दित्यपिस्या द्विलम्बनम् ॥ * ॥ नहि क्वाश्रुतिरंगांगिभावं साक्षादाचष्टे , द्वितीयाश्रुतिस्तु माण यकस्योप्नयनं प्रति प्राधान्यं साक्षादेवाभिदधाति । साच द्वितीया अतिर्न केवलं श्रतिगता, ‘उपनीयतुयरिशष्य’ मिति स्मृतावपि दृष्ट स्वात् । तेन भवदुक्तास्मृतिरप्यस्माकं पक्ष मुलभ्भपति , द्रव्यनिष्ठ रूप भावार्थस्य द्रव्यशेषत्वस्यैव न्याय्यत्वात् । नचोपनयीते त्यात्म नेपदं कर्षभिमापार्थ, येनोपनयनमुपनेतृगता ध्यापनांगं स्यात् । अक चभिमा गर्थेन “ सम्मानन" इत्यादि सूत्रेण होतदात्मनेपदं । नच - वाच्यम् कर्वभिप्रायत्वं कर्तवफलान्वयः नियमनिवृत्त्यर्थतु, सम्मान नादिसूत्र , अतः कर्तर्यकतरिच फलान्वयसम्भवेनापनपनस्पोपनेतृगतत्व सम्भवादुपनपन मुपनेतृगताध्यापनांगमिति । " अग्नीनादधीत " इत्यादौ " स्वरिते ” त्यादिसूत्रविहितेप्यात्मनेपदे फलस्य कर्तर्यक तरिचान्यपदर्शनेन तस्य नियमार्थ बायोगात् । चेतनांतरे फलान्व यनिवृत्यों नियमइतिचेलन “ ऋधिजोवृणीत ” इत्यादी वार्तर्य________________
१३
शास्त्रमुक्ताबली।
कतरिच चेतने फलान्वयदर्शनात् ।
। यत्तु भवनाथनोक्तं - क्रियाफलं तदुच्यते याकारकावस्थायां जातमीप्सितंच , नचोपनयना कारकावस्थाया माचार्यकरूपफलोत्प तिः, उपनयेतु कारकावस्थायामेव संस्कारः, ईप्सितश्वासाविति कर्मगतमेवात्र फलमित्यकाभिप्रायतेवेति । तदप्यसत - “ अमीनादधी ते" त्यत्र कारकावस्थायां जातस्येप्सितस्यच संस्कारस्पामिगतत्वेन " स्वरित " त्यादिनैवात्मनेपददर्शनात् । अतो व्यवहितमन्य वहितंवा फलं यत्र कत्रभिप्रायं तत्र स्वरितेत्यात्मनेपदं, तदुभयनिवृत्ताव सम्माननेत्यादिना । उद्देश्यस्य प्रधानफलस्य कर्तृगामि त्वे कभिप्रायत्वं , तस्याकर्तृगामित्वे पुनरकर्षभिप्रायत्वमिति वचन म् परेषामेव विपरीतफलं , सम्माननादि सूत्रविहितात्मनेपदविषयोपनयनफलस्य कर्तृनिष्ठस्य स्वयमेव साधनात् , इत्येषादिक ॥
भवतुवाध्यापनविधिसम्भवः, तथाप्याचार्यकार्थत्वे प्यध्ययनस्य ना थंपरता स्वाध्यायस्य भज्यते, प्रागुक्तन्यायेन स्वशक्तेरनपायात् । अचाधितप्रत्ययोत्पत्तावनपेक्षत्वलक्षणप्रामाण्यस्य वक्ष्यमाणत्वाञ्च ।
यच सिद्धान्तेध्यापनविधिप्रयुक्तावप्यध्ययनस्य तदंगत्वं प्रतिक्षि प्यापूर्वार्थत्वोपपादनेनार्थज्ञानमपि विधिना 5 नुज्ञाप्य विवक्षितार्थत्वमुक्त तदप्यपूर्ववादस्य निराकरिष्यमाणत्वादपास्तम् ।
किंच अध्ययनसाध्यमपूर्व किंस्वतः पुरुषार्थभूतं , उतान्यसाधनम् । नायः अर्थज्ञानकटाक्षणासम्भवात् । भथ स्वसिद्धयर्थमेवार्थज्ञा नमनुजानीयात् । तन्न-स्वाध्यायस्यार्थज्ञापनशक्त्यभावे तदनुज्ञायाएवा सम्भवात् । स्वतश्शक्तोसत्यां किमन्यानुज्ञया । नहि विधिमन्त रेणादित्योविश्वं नप्रकाशयति । नचान्यार्थविनियोगोऽन्यविषयांव स्तुशक्तिंप्रतिरुणद्धीत्युक्तम् । नापिद्वितीयः- अध्ययनसाध्यापूर्वस्य स्वर्गादिफलान्तरसाधनत्वेन त्वदनभ्युपगमात् । अर्थज्ञानादेस्तु दृष्ट फलस्यापूर्वमन्तरेण स्वसामग्रवोत्पत्तेः, विषयफलत्वेन भवद्भिपि स्वीकारादिति ।
विवक्षितार्थदा युक्तिः परेषां कल्पितापरम् । अथेत्यवसरोद्देशात् सौत्रमस्मदभीप्सितम् ॥________________
शाबमुक्तावली । स्तिश्रुतिः, तदनुविधानात स्मृतिरपि तदन्तर्गतैव, नित्यं अतिमखैनैवेश्वरो नियुकइति नित्यापि अतिस्तदाज्ञा । श्रत्यर्थों पदेशरूप तया गीतादेपि प्रवृतिः । लक्ष्यते प्रमीयते येन तहक्षणम् , प्रमाण मित्यर्थः । चोदनालक्षणंयस्य स चोदनालक्षणः प्रवृत्तिनिवृत्यात्मकः उभयमपि चोदनयैव कर्तव्यतया बोध्यते । अर्थग्रहण मनानुबन्धव्यवच्छेदार्थम् । ततश्च प्रभूतानानुबन्धि श्ये नादिव्यवच्छेदः ।
यद्यपि-श्येनादयोपि चोदिनाएव , ततएवार्थसाधकाच, तथापि क्वचिद्विषये प्रयुज्यमानानां तेषां प्रभूतानर्थहेतुतयानर्थत्वमित्येके ।
अन्ये त्याहुः . कथं विहित स्या नर्थत्व मिति ! निषिद्ध संपादिाते चेत्र , तदसिद्धेः , नतावत्तदंगपशुहिंसानिषेधः, अनिषोमीयतुल्यत्वात् । अग्निषोमीयादेश्व सांख्यापादिताशुद्धियोगः ’ अशुद्धमितिचेन्न शब्दात् " इति शारीरके परिहरिप्यते । नच श्यनादिस्वरूपनिषेधः, श्येनादिनकुर्यादित्यश्रवणात् । नचाभिचारनिषेधा सामान्यत स्तनिषेधः , अभिचारमात्रस्य निषिद्धवाभावात् . " षट्स्वनभिचरन्पतेत् ” इतिहि तदकरणे पतनं स्मरन्ति , महि तत्करणेतदकरणेच पतनमिति शास्त्रार्थस्सम्पद्यते । नच श्येनादि रभिचारशब्दार्थः , श्येनेनाभिचरन्य जेतेति तत्फलत्वेन तन्निर्देशात । नच फलद्धारानिषेधः , फलस्य निषेधादधर्मत्वेपि स्वरूपस्य विहित तया धर्मत्वात् । अतो ऽर्थशब्दो नश्येनादिव्यवच्छेदार्थः । अपितु निषिद्धहिंसादिव्यवच्छेदार्थः । निषिद्धानां चोदनालक्षणत्वमस्त्येव, निषेधचोदनया नर्थसाधनत्वेनलक्षितत्वात् । नाह निषिध्यमानस्या नर्थसाधनत्वमन्तरेण निषेधचोदना प्रबत , तेन श्येनादिबपि फल मात्र व्यवच्छियते । नच प्रभूतानर्थसाधनभूतस्य फलस्योपायोपदेशो रक्षाकूतविरोधीतिवाच्यम् , अन्यथा तदर्थिन स्तदुपायेषु दृष्टेषु स्वतः प्रवृत्तेस्तेषां चातिशयितानर्थपर्यवसानात् । श्येनादिनातु पर हिंसायां प्रत्यवायलाघवात् । लघुप्रायश्चित्तोपदेशात् । अभिचारानुव्यवहारा वपतनीयावित्यपि हि केषांचिन्मत महर्षयः________________
सेश्वरमीमांसा । पूर्वपक्षयन्ति । अतश्श्येनादिषु धर्मलक्षणाक्रान्तेष्वपि फलतः प्रभूतानथं पर्यवसाना दधर्मत्वोपचारः। मुमुक्षु प्रतितु पुण्यविशेषाणामपि पापानामिवा लौकिकानिष्टफलसाधनत्वाविशेषादधर्मत्वं, यथोक्तं भाध्ये " ज्ञानविरोधिच कर्म पुण्यपापरूपं, ब्रह्मज्ञानोत्पत्ति विरोधित्वे. ना निष्टफलतयो भयोरपि पापशब्दाभिधेयत्वं ” इति । धृतिः- प्रीतिः, तत्साधन मिष्टसाधनं, धर्म इत्यर्थः । नचातिप्रसंगः, शास्त्रैकवेद्ये श्रेय स्साधने रूढ़त्वात । तदभिव्यक्त्यर्थमेव हि सुनितम् चोदनालक्षणस्य सतोर्थस्य धर्मत्वमिति । इहचार्या चोदनालक्षणइति समासेन धर्मे चोदनैव प्रमाणं प्रमाणमेव चोदनेति प्रतिज्ञादयमन्तर्गतं । स. ति सामध्ये तस्यचात्र विशेषणविशेष्यभावमुखेन परस्परव्यवच्छेद पर्यवसानात् । तत्र चोदनैवेति प्रतिज्ञा प्रत्यक्षसूत्रे समर्थयिष्यते । प्रमाणवेति त्वौत्पत्तिकसूत्रादौ । नचात्र चोदनैवेति प्रतिज्ञया अर्थबादादीनामपि व्यवच्छेदस्स्यादिति भ्रमितव्यम् । तेषां चोदनाांगतया तन्मूलतयाच धर्म प्रामाण्यस्य वक्ष्यमाणत्वात् । इहचावधारणस्य नुत्यजातीयविषयतया चोदनाव त्स्वातन्त्र्येण धर्मे प्रमाणीभूषतां प्रत्यक्षादीनामेव व्यवच्छेदात । नहि देवदत्तएवात्र तिष्ठती त्युक्ते व. सनाभरणादे व्यवच्छेदः, अपितु तत्तुल्यस्य पुरुषान्तरस्य । एतत्सूत्रं प्रतिक्षामात्रपर मित्येके, तत्त मन्दं, न्यायनिबन्धनात्मके शास्त्रे सर्वत्र कस्यचिन्नघायस्यावश्यं सूचनीयत्वात् । येतु कार्यमात्र व्युत्पत्तिसमर्थन पुरस्कृत्य कार्यरूपो वेदार्थइति सूत्रवाक्यार्थमाहुः, तेषान्तु सूत्राक्षरवैघव्यं, अव्याप्तिश्च । सिद्धार्थव्युत्पत्त्या तत्र तात्पर्यसम्भवेन सिद्धरूपस्पाप ब्रह्मणो वेदार्थत्वस्य शारीरके समर्थयिष्यमाणत्वात् ।
तदिहचार्य विचारः। योलौ कृत्स्नवेदार्थानुबन्धी जिज्ञास्यतयोदिशधर्मः, तस्यच केनचि लक्षणेन विविक्तप्रतिपत्तौ सत्यामेवदि परीक्षाघटेत, नासा विक्षुक्षीरादिवनिर्विवादस्फुटप्रतीतिविषयः, येनाधर्मव्यवच्छेदे लक्षणान्तरापेक्षा न स्यात् । प्रतिसमय मन्यमन्यमेवच________________
शास्त्रमुक्तावली । स्तिश्रुतिः , तदनुविधानानु स्मृतिरपि तदन्तर्गतैव, नित्यं अतिमुखैनैवेश्वरो नियुकइति नित्यापि अतिस्तदाज्ञा । श्रत्यर्थों पदेशरूप तया गीतादेपि प्रवृतिः । लक्ष्यते प्रमीयते येन तहक्षणम् , प्रमाण मित्यर्थः । चोदनालक्षणंयस्य स चोदनालक्षणः प्रवृत्तिनिवृत्त्यात्मकः उभयमपि चोदनयैव कर्तव्यतया बोध्यते । अर्थग्रहण मनानुबन्धव्यवच्छेदार्थम् । ततश्च प्रभूतानानुबन्धि श्येनादिव्यवच्छेदः ।
यद्यपि-श्येनादयोपि चोदिनाएव , ततएवार्थसाधकाच, तथापि क्वचिद्विषये प्रयुज्यमानानां तेषां प्रभूतानर्थहेतुतयानर्थत्वमित्येके ।
अन्ये त्याहुः . कथं विहित स्या नर्थत्व मिति ! निषिद्ध संपादिाते वेन , तदखिद्वेः , नतावत्तदंगपशुहिंसानिषेधः, भनिषोमीयतुल्यत्वात् । अग्निषोमीयादश्च सांख्यापादिताशुद्धियोगः " अशुद्धमितिचेन्न शब्दात् ” इति शारीरके परिहरिप्यते । नव श्यनादिस्वरूपनिषेधः, श्येनादिनकुर्यादित्यश्रवणात् । नचाभिचारनिषेधा रसामान्यत स्तन्निषेधः, अभिचारमात्रस्य निषिद्धयाभावात् , " षट्स्वनभिचरम्पतेत् ” इतिहि तदकरणे पतनं स्मरन्ति , महि तत्करणेतदकरणेच पतनमिति शास्त्रार्थस्तम्पद्यते । नच श्येनादि रभिचारशब्दार्थः , श्येनेनाभिचरन्य जेतेति तत्फलत्वेन तन्निर्देशात । नच फलद्धारानिषेधः , फलस्य निषेधादधर्मत्वेपि स्वरूपस्य विहित तया धर्मत्वात् । अतो ऽर्थशब्दो नश्येनादिव्यवच्छेदार्थः । अपितु निषिद्धहिंसादिव्यवच्छेदार्थः । निषिद्धानां चोदनालक्षणत्वमस्येव, निषेधचोदनया नर्थसाधनत्वेनलक्षितत्वात् । नाह निषिध्यमानस्या नर्थसाधनत्वमन्तरेण निषेधचोदना प्रवर्तेत , तेन श्येनादिष्वपि फल मात्र व्यवच्छियते । नच प्रभूतानर्थसाधनभूतस्य फलस्योपायोपदेशो रक्षाकूतविरोधीतिवाच्यम् , अन्यथा तदर्थन स्तदुपायेषु दृष्टेषु स्वतः प्रवृत्तेस्तेषां चातिशयितानर्थपर्यवसानात् । श्येनादिनातु पर हिंसापां प्रत्यवायलाघवात् । लघुप्रायश्चित्तोपदेशात् । अभिचारानुव्यवहारा वपतनीयावित्यपि हि केषांचिन्मत महर्षयः________________
सेश्वरमीमांसा । पूर्वपक्षयन्ति । अतश्येनादिषु धर्मलक्षणाक्रान्तेष्वपि फलतः प्रभूतानथं पर्यवसाना दधर्मत्वोपचारः। मुमुखं प्रतितु पुण्यविशेषाणामपि पापानामिवा लौकिकानिष्टफलसाधनत्वाविशेषादधर्मत्वं, यथोक्तं भाध्ये “ज्ञानविरोधिच कर्म पुण्यपापरूपं, ब्रह्मज्ञानोत्पत्ति विरोधित्वे. ना निष्टफलतयो भयोरपि पापशब्दाभिधेयत्वं ” इति । धृतिः- प्रीतिः, तत्साधन मिष्टसाधनं, धर्म इत्यर्थः । नचातिप्रसंगः, शाखैकवेद्ये श्रेय स्साधने रूढत्वात । तदभिव्यक्त्यर्थमेव हि सूचितम् चोदनालक्षणस्य सतीर्थस्य धर्मत्वमिति । इहचार्या चोदनालक्षणइति समासेन धर्मे चोदनैव प्रमाणं प्रमाणमेव चोदनेति प्रतिज्ञाद्वयमन्तर्गतं । स. ति सामथ्र्य तस्य चात्र विशेषणविशेष्यभावमुखेन परस्परव्यवच्छेद पर्यवसानात् । तब चोदनैवेति प्रतिज्ञा प्रत्यक्षसूत्रे समर्थयिष्यते । प्रमाणमेवेति स्वीत्पत्तिकसूत्रादौ । नचात्र चोदनैवेति प्रतिज्ञया अर्थवादादीनामपि व्यवच्छेदस्स्यादिति भ्रमितव्यम् । तेषां चोदनाांगतया तन्मूलत याच धर्म प्रामाण्यस्य वक्ष्यमाणत्वात् । इहचावधारणस्य तुल्यजातीयविषयतया चोदनाव त्स्वातन्त्र्येण धर्म प्रमाणीचुभूषतां प्रत्यक्षादीनामेव व्यवच्छेदात । नहि देवदत्तएवात्र तिष्ठती त्युक्ते वसनाभरणादे य॑वच्छेदः, अपितु तत्तल्यस्य पुरुषान्तरस्य । एतत्सूत्रं प्रतिक्षामात्रपर मित्येके, तत्त मन्दं, न्यायनिबन्धनात्मके शास्त्रे सर्वत्र कस्यचिन्नचायस्यावश्यं सूचनीयत्वात् । येनु कार्यमात्र थ्युत्पत्तिसमर्थन पुरस्कृत्य कार्यरूपो वेदार्थइति सूत्रवाक्यार्थमाहुः, तेषान्तु सूत्राक्षरवैपठ्यं, अव्याप्तिश्च । सिद्धार्थव्युत्पत्त्या तत्र तात्पर्यसम्भवेन सिद्धरूपस्यापि प्राणो वेदार्थत्वस्य शारीरके समर्थयिष्यमाणत्वात ।
तदिहचायं विचारः। योलो कृत्स्नवेदार्थानुबन्धी जिज्ञास्यतयोदिष्टोधर्मः, तस्यच केनचि लक्षणेन विविक्तप्रतिपत्ती सत्यामेवहि प. रीक्षाघटेत, नासा विक्षुक्षीरादिवन्निविवादस्फुटप्रतीतिविषयः, येनाधर्मव्यवच्छेदे लक्षणान्तरापेक्षा न स्यात् । प्रतिसमय मन्यमन्यमेवच________________
शाबमुक्तावली । धर्ममभिलपन्ति । यथा अन्तःकरणवृत्तिविशेष इति सांख्याः। शुभाचित्तवासनेति सौगताः । पुण्याः पुद्गलाइत्याहताः, गतिमतां गतिभूतोजगद्व्यापीति वा । विहितक्रिया साध्यः पुंगुणविशेष इति वैशोषिकाः । धर्मशब्दश्च चैत्यवन्दनादावपि तत्तत्सामयिकः प्रयुक्तोदृष्टः । अत सामान्येन धर्मजिज्ञासायां प्रतिज्ञातयां कस्य परीक्षावर्तिष्यत इति न विद्मः । अथा ध्ययनान्तरं तत एव हेतो धर्मजिज्ञासा कर्तव्योत प्रतिज्ञाते ऽर्थाज्योतिष्टोमादीनामेव विचार्यत्व मापतितमिति मन्यसे ? तन्न, धर्मशब्दार्थ निश्चिते सति तदपेक्षपूर्वपक्षनिष्कर्षः, तेनच तन्निकर्षइत्पन्योन्याश्रयणात् । अतो धर्मविवेकार्थ तल्लक्षणं वक्तव्यम् । ततश्च धर्मो लक्षणेन व्यावृत्ततया वगन्तुं शक्यते नवेति संशयः । तदर्थ विचार्यते, धर्मशब्दस्य निरुक्त्या रूढ़या न्यतो वा किंचित्तल्लक्षणं सम्भवति नवेति । किं प्राप्तं? न सम्भवतीति । तथाहि - यदि धृतिसाधनं धर्म इयुच्येत, तदा लौकिकानां प्रीतिसाधनानामपि धमत्वं स्यात ; तथाचानुत्थानं निषेधशास्त्रस्य । अथानर्थपर्यवसाना तेषामधर्मतेति मन्यसे ? तन्नः अविहिताप्रतिषिद्धेषु तदभावात् , श्येनादेः स्वरूपतो प्यधर्मवप्रसंगाच्च । नचायमिष्टप्रसंगः, अधर्मस्य विध्यसम्भवात् । अथ चोदनालक्षणत्वेसति धृतिसाधनं धर्म इति रूढ़ि राश्रीयेत ; तन्न , रूढ़ेः प्रयोग शरणत्वात् । प्रयोगस्यचा - सम्सार मनुवर्तमानै स्तत्त सिद्धान्ते विंगानात् । स्मृत्या - चारप्राप्तश्रेयस्साधने ध्वीश्वरप्रत्यक्षमूलपंचरात्रधर्मादि प्वव्याप्तेश्च । नच पंचरात्रादिषु चोदनाशब्दमुपचरन्ति । एवं “वेदोखिलोधर्ममूलं स्मृतिशीलेच तद्भिदा” मित्यादि महर्षिवाक्यैरपि न धर्मस्य लक्षणं किंचित्पतीमः। अतो धर्मस्य लक्षणासम्भवा न व्यावृत्तप्रतीसिरिति ।
तवेदमुत्तरम् - ‘चोदनालक्षणो ऽर्थोधर्म’ इति । अयमभिप्रायःचोदनालक्षणत्व विशेषितमेवार्थसाधनत्वं धर्मलक्षणम् , तत्रैवव धर्मशब्दस्य रूढिः। नचान्यत्र बाझैः प्रयोग स्तब रूदि विदन्ति, नाह________________
१९
सेश्वरमीमांसा । भ्रान्तैश्शुक्यादिषु रजतादिशब्दः प्रयुक्त इति रजतादौ तस्य रूढ़िबिहन्येत । अयंचार्थोऽन्यप्रमाणकत्वव्युदासेनसेत्स्यति । स्मृत्यादिकन्तु मूलश्रुत्यनुमानेन धर्मप्रमाणमिति तत्रापि बोदनालक्षणत्व सत्वान्नाव्याप्तिः । येपुनरीधर प्रत्यक्षमूल पंचरामधमाः, तेपि श्रुत्यथतया चोदनालक्षणाएव । यथाभगवान् व्यासः - " इदम्महोपनि. पदं चतुर्वेद समन्वितम् । सांख्ययोगकृतान्तेन पंचरावानुशब्दितम् । इदश्रेयइदंब्रह्म इदहितमनुत्तमं । ऋग्यजुस्सामभिर्जुष्ट मथर्वागिरसे स्तथा ॥ भविष्यति प्रमाणंवा एतदेवानुशासनं । ” इति । तथा वेद पाठेषु पठितं व्रतमेतत्सुदुश्चर ” मिति । तथा - “ महतोवेदवृक्षस्य मूलभूतोमहानय ” मिति । किंच “यवाकेष्वनुषाकेषु निषत्सुपनिषत्सुच । गृणन्ति सत्यकर्माणम् सत्यं सत्येषुसामसु ” इति वदन पाथकालिकधर्मासाधारण निषद्धाकसहित निगमभाग मन्वस्त । तथाच “ अलाभे वेदमन्त्राणां पंचरावोदितेनवा " इति स्मृतिः अतिमू. कैवाभ्युपगन्तव्या, ततएव च धर्मोपि श्रौतएव फलितः । तत्र शास्त्रे श्रत्यर्थतेवोच्यते , यथा - “वेदान्तेषु यथासारं संगृह्य भगवान् हरिः। भक्तानुकंपया विद्वान् संचिक्षेपयथासुखम् " इति अखिमूलमिदं तन्त्र प्रमाणं कल्पसूत्रवत् ” इतिच । आगमान्तरोक्तधर्मास्तु श्रुतिमूलतया न तस्कर्तृभि रुच्यन्ते, न तत्सैद्धान्तिकैः, नापि महर्षिभिारति विशेषः । सांख्यादिधर्मच प्यविरुद्धांशश्चोदनार्थ एव । अतो नाव्याप्तिः ।
तदेवं धर्मस्य लक्षणसिद्धे स्तस्य व्यावृत्तिप्रतीति सिद्ध्यतीति । एवमुपादेयस्य धर्मस्य लक्षणकथनेन हेयस्याधर्मस्यापि लक्षणं सूत्रितं भवति, अर्थपदस्य व्यवच्छेद्यतया तत्प्रतीतेः शाकवेद्य मनर्थसाधन मनर्थ इत्युक्तं भवति ।
॥ * ॥ सूचितश्चोदका, कश्चिञ्चोदनापदसूत्रणात् । यदभिप्रायभेदेन धर्माधर्मों फलिथ्यतः ॥ प्रमाणेलक्षणपदं प्रयुजानन सूचितम् । विशेषणमुपादाय लक्षणंच तदेवनः ॥________________
शास्त्रमुक्तावली। अर्थसाधनमत्रार्थ शब्देनप्रतिपादयन् । फलतुल्यमुपायंच नैश्रेयस मसूचयत् ॥ चतुर्वर्ग फलोपाय विषयैश्चान्यदीदृशम् । धृतिसाधनशब्देन मोक्षेपि प्रीतिमक्षताम् ॥ * ॥ ॥३॥ सू - तस्य निमित्तपरीष्टिः ।१ - १-३॥
प्रस्तुतयो स्स्वरूपप्रमाणयो स्स्वरूपं प्रमाणमुखेनैवा वेष्टव्यम् , तदर्थ मिद मध्यायार्थविभजनं । यथा वक्ष्यमाणे प्वध्यायेषु पृथक्पृथक तत्तदध्यायार्थ प्रतिज्ञा क्रियते, तद्भदवापि अन्यथा कस्यांशस्य सदादिसूत्रै हेतु क्ष्यित इति नज्ञायेत । तस्य - धर्मस्य, निमित्तं - प्रमाणं, तत्प्रमानिमित्तत्वा निमित्त मित्युपचर्यते ; परंपरयावा तन्निमितत्वम् । परीष्टिः - पर्येषणा । ‘इषु ’ गतावित्यस्माद्धातोः ‘इषरनिच्छार्थस्य ’ इति युचि · परेर्वा ’ इति परिपूर्वा तस्मात् क्तिन्युचो विकल्पोऽनुशिष्यते । तेन युचिपर्यषणेति रूपं, क्तिनितुपरीष्टि रिति । धर्मप्रमाणस्य परीक्षण मस्मि नध्याये कर्तव्य मित्यर्थः । इदमपि सूत्र नकेवलं प्रतिज्ञापरं, अपितु प्रमाणस्या परीक्षणीयत्व पूर्वपक्षप्रतिक्षेपार्थम् । तथाहि - किं धर्म प्रमाण परीक्षणीयम् , उ. त स्वरूपमेवेति संशयः, तदर्थ विचार्यते-किं प्रमाणनिरूपण मन्त रेण धर्मस्वरूपनिरूपणं युज्यते नवेति । तत्र युज्यतइति प्राप्तम् । लोके ताव त्प्रत्यक्षादि प्रमाणनिरूपण मन्तरेण मधुराम्त सित रक्त शीतोष्णादि विभाग मवधार्य हानोपादानादि व्यवहाराः पुंसां प्रवर्तन्ते । तद्ध दिदापि शब्दान्तराभ्यासअतिलिंगादिभि अंदांगांगिभावादि निरूपणमुखेन धर्मस्वरूपमेवा नुः ष्ठानार्थम् निरूपणीयम् , किं सदर्थेन प्रमाणपरीक्षणेनेति ।
तत्र प्रतिपद्यते ‘तस्य निमित्तपरीष्टि’ रिति । प्रकृतपरमशोब हेत्वभि प्रायः । तस्य -धर्मस्य । प्रमाणपरीक्षणं कर्तव्यम् , अलौकिका________________
सेश्वरमीमांसा ।
२१ र्थत्वात्तस्य । नहि मधुराम्लादि विभागव ज्योतिष्टोमादे श्चैत्यवन्दनादेश विभागमुपलभामहे । येनेतरप्रहाणेनेतरमुपाददीमहि । भतो यावद्धमे चोदनानां प्रामाण्य मितरेषांचाप्रामाण्यम् नावधारितभवति, न तावद्धर्मविशेषोपादानं युज्यते । प्रमाणमाचार्यचेत्प्रवर्तेत, अन्धवदनर्थे पते दर्थवा नविन्देत् । अतोवेदस्यैव धर्मप्रामा’ ण्यमवधार्य तदर्थस्यैव धर्मत्वे निश्चितेसति तद्भेदाभेदतदाराध्यादिचिंसावकाश इति विंशतिलक्षण्यां द्वितीयाध्यायमारभ्य क्रमशो यद्यत्मतिपाद्यम् कर्मदेवताब्रह्मतदनुबन्धिभेदभिन्नम्, तत्सर्व प्रमाणेनव निरूपणीयतया स्वायत्तसार्थ प्रमाणलक्षणमेव प्रथम प्रवर्तते ।
एवंच [चै] तत्परीक्षाक्रमः । लोकायत मतेन-धर्म न किंचित्प्रमाण मस्तीति , सत्वेपि सांख्याद्यक्तविषयानुरूपफलप्रदानरूपालोचन विकल्पाभिमानाध्यवसायादि नयन न्यायोक्तसंप्लव वादेनच किंचौदनाऽन्यञ्चेतिसमुच्चयो ऽस्ति नवेति, असमुच्चयपि संशयसारसंवित्तेरन्वयादलौकिकार्थेषु कालभेदेनवा तद्भेदमन्तरेणापि प्रमाणभेदप्रवृत्तिदर्शमनवा किंचौदना ऽन्यद्धति विकल्पोस्ति नवेति, अविकल्पेपि सौगतादिमतेन किं प्रत्यक्षादिकमेव उतचोदनैवेति ।
तदेवं नियमविकल्पसमुच्चयोभयापलापेषु प्रत्यक्षसूत्रेतु चोदनाव्यतिरिक्तानां धर्मप्रामाण्यनिरासा समुच्चय विकल्प चोदनतरनियमानां प्रतिक्षेपः , ओत्पत्तिकसूत्रादिनातुपादशेषेण चोदनाप्रामाण्यसमर्थनादुभयापलापपक्षाः प्रतिक्षिप्यते । विपाद्यात्वर्थवादपादेन मन्त्रार्थवादानां विध्युपयोगेन प्रामाण्यप्रकारकथनम् । स्मृतिपादचाप्त स्मृतिशिष्टाचारमात्र प्राप्ताष्टकादि कर्तव्यतामूलभूत देशकालान्तराधीतवेदोपपादनम् , नामधेयपादे तूद्भिदादिनामधेयानां नामधेयतयेबस्थित्वा विशेषसमर्पणमुखेन चाटुना राजानंप्रीणये दितिव धजिनिर्दिटदेवताराधानसामान्यस्य विशेषतोबच्छेदाद्विध्युपयोगस्तमर्थ्यत, इति करनेनाध्यायेन धर्म प्रमाणमेव परीक्ष्यते ।________________
शास्त्रमुक्तावली । एव मयोगान्ययोगव्यवच्छेदेन धर्मेचोदनैवप्रमाण मित्युपदिष्टेतदर्थस्यैव धर्मस्य निरूपणं भेदलक्षणादिषु वक्ष्यति । अतोध प्रमाणं परीक्षणीयमिति स्थितम् ।
यत्तूएवर्षवृत्तौ - तस्य निमित्तपरीष्टि ने कर्तव्येति नजमध्याहत्यातिमहताक्लेशेन व्याख्यातम् , तदप्यनेन निरस्तम् , निमितपरीक्षाभावे प्रत्यवायस्य दर्शितत्वात् । यच्चापरीक्षणीयत्वे प्रमाणस्य प्रसिद्धत्वं हेतुरुक्तः, तदपि संशयविपर्ययाक्रांतत्व प्रदर्शनेन निरस्तम् । अतो यद्यपि प्रमाणस्य स्वतएवविषयोपस्थापनसामर्थ्य, तथाप्यपवादशंका निराकरणाय कारणदोषबाधकप्रत्यय निरासः कर्तव्यइति युक्तंतस्य परीक्षणीयत्वमेव ।
यत्त प्रमाणपरीक्षाया मनवस्थानमुक्तम् - प्रमाण परीक्ष्यमाण मन्येन परीक्ष्येत, तञ्चान्य ततोन्येनति । तदपि मन्दं, सन्दिग्धविषये परीक्षाप्रवृत्तेः, उत्तरोत्तरेषु च सन्देहनियमानभ्युपगमात् । आशंकाया श्व व्यापातावधिकत्वा द्यावदा शंकमेव च तर्कप्रततेः। स्वपरनिवाहकवा कस्मिंश्चि प्रमाणादौ विश्रमात् । नचात्र प्रथमे पर्वणि निस्सन्देहत्वे तयक्तं । अन्यथा सौगतादयोपि वैयात्या दिमामेवानवस्थां पुरस्कृत्य यदि स्वाभिमत ग्रन्थै रपरीक्षितप्रामाण्यै श्चैत्यवन्दनादिकं धर्ममेव परीक्षणीय मुपक्षिपेयु स्तदा कस्ते निस्तारः । अतो भगवानप्युपवर्षों परीक्षणीयत्व पूर्वपक्ष मन्वारोह । भक्त्या चोदनाप्रामाण्ये प्रसिद्धिमनुसृत्य प्रसंगा च्छिप्यशिक्षणार्थ प्रत्यक्षतदभासादेरपि प्रसिद्धि दर्शयं स्तल्लक्षणादिकमपि व्याचकारेति मन्यामहे । अन्यथा कथ मपरीक्षणीयत्वमपि केनचित्प्रमाणेन समर्थयेत् ? तस्या प्यपरीक्ष्यत्वाय प्रमाणान्तरापेक्षया नवस्थाप्रसंगात । अथ यदि प्रसिद्धत्वेन स्वपरनिर्वाहकणा नवस्था प्रतिविभत्ससि, तदा प्रमाणपरीक्षणे प्येवंविधमिदं प्रमाणं भवितु महतीति साधयतः प्रमाणस्याप्येवं विधत्वोपाध्याक्रान्ततया तद्वदेव समाधि कटाक्षय [सि]। यदि तस्य तदुपाधिज्ञानाया न्यापेक्षा, तदाप्रसिद्धत्वस्यापि प्रसिद्धत्वपरामर्शाया न्या. पेक्षेति तुल्यम् । किंच यदि मसिद्धत्वा दपरक्षिणीयत्वमेवात्र विवक्षितं________________
२४
शास्त्रमुक्ताबली । प्रत्यक्षा थिय मुत्पादयितुमलम् । काकोलूकगृधादिषु चेन्द्रिय प्रकर्षतारतम्यं दृश्यते । तारतम्यवतांच काष्ठाप्राप्ति रुपलब्धा । ततच, प्रकर्षतारतम्यं क्वचि द्विश्रान्तं, तारतम्परूपत्वात् परिमाणतारतम्यव दित्येवं प्रतीन्द्रियंवा, प्रत्यक्षप्रकर्षतारतम्यमिति सामान्ये. नवा, प्रयोक्तव्यम् । एवं स्थिते तद्विश्रमस्य सर्वविषयता मन्तरेणानुपपले रतीन्द्रियं सर्व कस्यचि देन्द्रियिकमिति सिद्धचति । प्रकृते विशेषतच तदेवा नुमान शक्यम् । धर्मादयः कस्पचि दिन्द्रियग्राह्याः, प्रमेयत्वाव, करतलवदिति, तस्यामेववा प्रविज्ञायां मीमांसकाना प्रत्यक्षत्वा दस्म सुखादिवदिति । महर्षीणां योगिनांच धर्मवीर्यप्रसूतं प्रत्यक्षं महर्षिभि रेबीयते । " तत्सर्व धर्मवीर्येण यथाव सम्प्रपश्यती " त्यादि । अतः प्रत्यक्ष ग्राह्यत्वं धर्मस्य युक्तं, एवं मानुमानिकत्वमपि । सेवाद्धययनादिदृष्ट हेत्वविशेषे फलभेदो ननिमित्तान्तर मन्तरेण घटेत । तदेवं प्रत्यक्षानुमानगम्य एवं धर्म 5 र्थशास्त्रायुर्वेदादिव पौरुषेय गमापि [हि] स. म्भवत्येव । अतो यद्येभिः प्रमाणे श्चोदनार्थ एव धर्मतयो पस्थाप्येत, तदा बहायास ग्राह्यचोदनानष्फल्यम् , चोदनैवेत्यवधारणानुपपत्तिश्च । अथ चोदनानुक्तः कश्चि तदविरुद्धार्थः, तदा चोदनैवेति प्रतिज्ञा नस्पात । यदि पुन स्सौगताद्यर्थष तद्विरुद्ध एव कश्चित् , तदापि तद्धाधा च्चोदना प्रमाणमेवेत्यवधारणानुपपत्तिरिति सर्वधा " चोदनालक्षणार्थी धर्म” इत्येतत दुर्वचमिति ।
तदेत त्परिहरति । सत्संप्रयोग इत्यादिना । अत्राय मन्वयक्रमः । धर्म प्रत्यक्ष मनिमित्तं, कुतः “विद्यमानोपलम्भनत्वात् " वर्तमानाथंग्राहकवादित्यर्थः । एतदपि कुत इत्याकांक्षाया मुख्यते । तत्ख. ल्विन्द्रियाणां प्रयोगः । तद्भवतुप्रत्यक्षं ततः कथं धर्म नापि निमित्तम् । विद्यतेहि धर्मः क्रियमाणः कृतश्च याव (फलं, तत स्तदुपलंभनं प्रत्यक्षं भवतु । मैवं, यदि ताव दयं घट इतिव दयं धर्म इति द्रव्यादिस्वरूपं धर्मतया प्रत्यक्षेण दृश्यते । तत्रच यत्फलसाधनतया यार्थों निर्दिष्ट स्तदनन्तरमेव तस्योत्पत्तिं यदि नियमेनो पलभेमहि, तदा भूयो दर्शनसहकृतेन प्रत्यक्षेण श्रेयस्ताधन मिदमिति निश्चिनुमः ।________________
२६
सेश्वरमीमांसा । स्वगांदः फलस्य देहान्तरभावितये दानी मुपलम्भायोग्यत्वा न तसाधनमिति गृहीतुं शक्यम् । नच यावत्फलानुभवं क्रिया तिष्ठति । क्रियासाध्य मपूर्व स्थिरमपि नास्मदादिप्रत्यक्ष, तद्धि देवतानुग्रहात्मकम् । नहि पराभिप्रायः परस्य प्रत्यक्षतामियात् । अतः फलदशायां कर्मणो 5 भावात् कर्मदशायां फलस्याभावा दुभयनिठस्य साध्यसाधनभाव सम्बन्धस्यास्माभि गृहीतुमशक्यत्वात् , प्रत्यक्षस्य धर्मवाहित्वाभावे विद्यमानोपलम्भनत्वं हेतु रिति साधीयः ।
एतेन - रत्नतत्वदृष्टान्तोपि निरस्तः, नहि सहनशशीलितेपि रत्नतत्वे गुरुत्वं चक्षुषा गृह्यते । वर्णादिवैषम्यन्तुं पूर्व सादृश्यतिर स्कृत मैन्द्रियकतया पश्चा निपुण निरूपणेन प्रकाशत इति युक्तम् ॥
यत्त - भावनाप्रकर्षएव प्रत्यक्षयतीति । तदसत् , नहिभाव. नया प्रत्यक्ष जायते, अपितु स्मृतिवेशद्यमात्र मेव । संस्कारोपचयो हि स्मृतावेव पाटवमादधीत । कामातुराकामिनी सन्दर्शनादिवपि न पूर्वगृहीताभ्यधिक किञ्चित्प्रकाशते । यच्च - " वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिवान्त कम् ॥” इत्यादिप्यधिक प्रकाशते, तत्त्वन्यथा वभासा न प्रत्य क्ष, अपितु तदाभासः।
यत्त - इन्द्रियप्रकर्षतारतम्यादै विश्रान्तिसाधनम् । न तेनाप्ये कस्येन्द्रियस्य सर्वविषयता सिध्यति, किन्तु तदिन्द्रियग्राह्यजातीयत्वे सति तत्सम्प्रयुक्तसर्व विषयत्वं । नहि लोके प्रकृष्यमाणमिन्द्रिय पाटय मिन्द्रियान्तरविषयेषु मात्रयापि प्रवर्तमानं दृष्टं, स्वविषये वा भूते भविष्यतिवा । असनिकृष्टस्यच नैन्द्रियकत्व मित्युक्तम् । यच्च प्रमेय स्वादिनाधमांदीना मन्द्रियकत्वसाधनं तदपि वाधकाभावेन निरस्तम् । अन्यथा- धर्मादयो रूपादयश्च कस्यचिद्माणग्राह्याः, प्रमेयत्वात , गन्धवदित्यपि किं नसाध्येत विषयविशेषनियततया तच्छक्तिनि________________
शाखमुकावलो । अयादिति चेत् ? प्रकृते प्येतदनुसन्धत्स्व । ब्राणादेरपि क्वचित्सर्वविधयत्व मिच्छाम इतिचेन्न; • उक्तोत्तरत्वात् । इच्छामात्रेणच तदसिद्धेः।
यत्तु - धर्मवीर्यप्रसृत मृषीणां योगिनांच प्रत्यक्ष शास्त्रयला द. भ्युपगतं, त नतेषा मनुष्ठानार्थम् , आगमावधारितानुष्ठानजन्यत्वात् , भागमार्थतयैव धर्मादिप्रत्यक्षीकरणात । नाप्यस्मदादीना मनुष्ठानार्थम् , परप्रत्यक्षस्य परानुष्ठानानुपकारित्वात् । तदुपदेशस्य स्वागमायमानस्यापि पौरुषेयतया श्रोतृणा म्मूलपरामर्शसापेक्षत्वेन धर्मवीर्यप्रसृत प्रत्यक्षमूलत्वपरिशेषे तस्मिन् धर्म प्रमाणान्तर मन्वेषणीयम् , तच्च नान्यच्छास्त्रात् । यद्यपीश्वरनित्यप्रत्यक्षमूले पंचरात्रशास्त्रे श्रुत्यर्थविषयेपि नमूलश्रुत्यपेक्षा, तथापि नित्यप्रत्यक्षविशिष्टोय मीश्वरइति तत्स्वरूप सिद्धा तन्मूलवक्तृदोषनिराकरणेच अतिरेव शरणमिति श्रुतिप्रामाण्यमुपजीव्यैव तत्प्रामाण्य निरुपपादि । चोदनार्थाय मित्येवच भगव ता तदर्थ उपदिश्यत इति श्रीविष्णुस्मृतिगीतादिन्यायेन तदुक्तापि चोदनाप्रामाण्य मायातम् ।
सदेव मस्मदादिभि धर्मस्य श्रेयस्साधनरूपेणा ध्यक्षयितु मा क्यत्वा दन्वयव्यतिरेकसापेक्षमनुमानमपि धर्म मप्रमाणमिति सिद्धम् ।
यत्त सेवाध्ययनादितुल्यत्वेपि फलभेददर्शना दतीन्द्रियनिमित्त भेदकल्पनमिति । तदपिन, सूक्ष्मस्य सेवाध्ययनादिभेदस्य दृष्टस्यैव सम्भवेन निमित्तान्तरनरपेक्ष्यात् । सामान्यतश्च कल्पिते निमित्तभेद किंतदर्शनादिसिद्ध मुत चोदनादिसिद्धमिति विवेकासिद्धे रनुष्ठान प्रत्यनुपकारित्वात् । ततश्च सेतिकर्तव्यताक धर्मानुष्ठाने श्रुतिरेवशरणम्।
तदेवम् - प्रत्यक्षानुमानयो धर्मप्रमाणत्वनिरासेन तन्मूललौकिकागमस्यापि नधर्मप्रमाणतासिद्धिः । उपमानार्थापत्तिसम्भवादीनितु प्रमाणान्तराणि नसन्त्येव, यथायथं विष्वन्तीवादिति न्यायपरिशुद्धौ तत्वमुक्ताकलापेच समर्थित मस्माभिः । बहिर्भावेपि तुल्यन्यायवया धर्मविषयत्वाभाव एव ।________________
सेश्वरमीमांसा । तदेवम् चोदनाव्यतिरिक्तैः प्रमाणैः कैश्चिदपि सनिरपेक्षवादमोक्तस्य तदन्यस्य तद्विरुद्धस्यवा कस्यचिद्धर्मत्वेना ग्रहणा चोदनवस्पवधारण मुपपन्नमिति ।
अनुष्ठावदशापन्न पुरुषापेक्षया विदम् । सस्तम्प्रयोगजन्यत्व मैशाध्यक्षांदि सुस्थितम् ॥ प्रत्यक्षमस्मदादीनां पक्षोऽत्राभिमत स्ततः। न भागासिद्धता नापि बाधो हेत्वोरिहोक्तयोः॥ पुरुषस्यै न्द्रियाणामि त्येका नेकत्वकीर्तनाव । देहेन्द्रियादि संघातादन्य आत्मा प्रदर्शितः ॥ अरपयनै र्वार्था नुपलब्धान्पृथक्पृथक् । य एकः प्रतिसन्धत्ते सतान्येवेति दुर्वचम् ॥ संघातिनीधिकं तत्वं संघातो नामनेष्यते : नचावयवसंघाता दन्योस्त्यवपनी पुनः ॥ नचान ग्रामवद्धोद्ध नानात्वमुपलभ्यते । मच पाणिरहं चक्षु रहमित्यभिजलप्यते ॥ प्राणाख्या स्पवनस्कन्धा दृप्यन्यत्व मवस्थितम् । प्रत्येकसमुदायादि विकल्पानुपपत्तितः॥ व्यतिरिक्ता मतिश्चास्ति कायमाणेन्द्रियादिषु । पुरुषस्येति सन्बन्ध कथना तच्च सूचितम् ॥ बुद्धितो व्यतिरिक्तत्व मतएव च सूचितम् । समित्वेन सकलैः प्रमाणै रुपलम्भनात ॥ बुद्धिजन्मेत्यनेनैव बुद्ध जन्मप्रदर्शनाद । अजातः प्रतिबन्धाता प्रोक्तः पुरुष शब्दतः ॥ श्रुत्याधीनित्यभावपि सूचितैवा व तद्भिदा । नामान्तराभिलापाई विकार सदसत्त्वतः ॥ देहादिभ्यो तिरिक्तस्य परलोकफलार्थिनः । बेदितुः स्थापने धर्म प्रमाणान्वेषणं धामम् ॥________________
शस्तमुक्तावली । अतोऽन्यपर वाक्येपि कृत्स्नशास्रोपयोगिनम् । अधिकारिण मात्मान मादावेष न्यवीविशत् ॥ स्वर्गयागादि वाक्येपि परीचिक्षिषिते पुनः । प्रत्यक्षप्रतिरुद्धत्वं परिहर्तु मिहेप्सितम् ॥ पारलौकिकता मात्र मिह ताव दपेक्षितम् । शारीरकेतु नित्यत्वं वाच्यं नित्यफलार्थिनः ॥ प्रत्यक्षलक्षणाद्यन्तु वक्तव्यं न्याय विस्तरे । इहतत्सूच्यता म्मावा पारम्पर्योपयोगतः ॥ प्रत्यक्षमनिमित्तञ्चे दनुमानादिकं तथा ।
इतिपश्यन्नुपारंस्त किमतत्कीर्तन श्रमात् ॥ ( ५ ) सू - औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदे शोव्यतिरेकश्चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् ॥
(१-१-६॥) धर्मस्पान्य प्रमाणकत्वं निराकृतम् , अथा प्रमाणकत्व माशक्य निराक्रियते पादशेषेण । तत्रास्मिन्नधिकरणे चोदनानामप्रामाण्य द्वाराणि बहूनि विकल्प्य कश्चिदंशो निराक्रियते । तदयं विचारः॥ किचोदनानां धर्म प्रामाण्यं सम्भवति नवेति ? तदर्थ च किं तासां प्रामाण्यं प्रमाणान्तर सापेक्ष नवेति ? सापेक्षत्वे सदभाषस्योक्तत्वाद प्रामाण्यं । निरपेक्षत्वे तदभावस्या किंचित्करत्वात् प्रामाण्यमिति ।
तत्रैवं पूर्वपक्षी मन्यते-यदि प्रमाणान्तराणि धर्म नप्रमाणं कथं तत्र श ब्दः प्रमाण भविष्यति , सहि नियमेन स्वप्रामाण्ये प्रमाणान्तरसापे क्षः, तथा दर्शनात् । अन्यथा बालोन्मत्ता प्रबुद्धादिवाक्यानामपि प्रामाण्यप्रसंगात् । प्रमाणान्तरसापेक्षत्वाभ्युपगमे तदभावस्योक्तत्वाकथं तदधीनं प्रमाण्यम् । निरपेक्षत्वाभ्युपगमस्तु दृष्टव्याप्ति विरोधादशक्यः । अतो धर्मे चोदनानां प्रामाण्यं न सम्भवतीति ।________________
सेश्वरमीमांसा ।
राद्धांतस्तु - असामा दधीदृष्टे बर्बाधना दफलत्वतः ।
परतन्त्रतयावास्या दप्रामाण्य श्रुते तत् ॥ तथाहि - चोदनाना मप्रामाण्यं वदतः प्रमाणान्तरासम्भवे पदानां पदाथन सम्बन्धायोगा कि बोधनसामर्थ्यमेव नस्यादित्यभिप्रेतम् , उत सामान्यत स्तत्सद्भावेपि प्रकृतार्थे चौदनवाक्या प्रत्ययो नजायतइति, जातोपि बाध्यतइति, अबाधितोपिवा निरर्थक इति, सार्थत्वेपिषा प्रामाण्यहेतुरहित इति ? तत्र प्रथमं दृपयति । (औ. त्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति ) अय मर्थः - पदस्य स्ववाच्येन सह वाच्यवाचकसम्बन्धः, औत्पत्तिकः - नित्यः । उत्पत्तिः - स्वभावः, औत्पत्तिकः । स्वाभाविकः । अतः पदपदार्थयो र्वाच्या वाचकसम्बन्धस्यैव स्वाभाविकत्वा नसम्बन्धान्तरबिरहेणा समर्थत्व मित्यभिप्रायः । यदा • शब्दार्थयो रुत्पत्तिदशासिद्ध इत्योत्पसिक स्संबन्धः, नहासावसंबन्धतयो त्पन्नयोः पश्चादीश्वरादिभिः संकेतान्त्रिवर्त्यत इति शब्दाधिकरणे समर्थयिष्यते ।
द्वितीयं दूषयति । ( तस्य ज्ञान मुपदेश इति ), तस्य प्रत्यक्षाबगोचरस्य । उपदेशः-हिताहितप्राप्तिपरिहारो पायविषय चोदनात्मा नित्यः परमात्मोपदेशोयः । ज्ञानं - ज्ञायते ऽ नेनेति व्युत्पत्त्या ज्ञानकरण मित्यर्थः । ज्योतिष्टोमादिवाक्यपाठे प्रत्ययोत्पत्ति र्दुरपहवा, अन्यथा प्रत्यक्षादिष्वपि धाया प्रतिपत्त्यपद्धवप्रसंग इति ।
तृतीयं दूषयति ( अव्यतिरेकश्चेति ) प्रमाणान्तरेणास्या र्थस्य, व्यतिरेकश्च, नास्ति । व्यतिरेकोन्यत्वं, प्रतीयमानादाकारा च्छुक्तिकारजतादिव द्विरुद्धाकारान्तरयोगित्व मित्यर्थः । यद्धा अव्यतिरेक श्वेत्युपदेशो विशेष्यते । व्यतिरेकः स्वार्थानत्वयः, प्रमाणान्वरेणापहत विषयत्वं, तद्रहितइत्यर्थः।________________
शाश्वमुक्ताबली। तथाहि · प्रत्यक्षं तापज्जयोतिष्टोमादीनां देहान्तरानुभाव्य स्वर्गादिश्रेयस्साधनत्वं नास्तीति न प्रतिपादपति, अलोकिके फले - साध्यसाधनभाव ग्रहणवत्तभावग्रहणस्याप्यशक्यत्वात् । नाप्यनुमानं, तस्किम् साक्षाजयोतिष्टोमादीनां - श्रेयस्लाधनत्वं प्रतिषेधति? यथा विगीतं नश्रेयस्साधनं क्रियात्वात् गमनक्रियावत् , इति; विप्रतिपन्नाहिंखा न धर्मः, हिंसात्वात् ब्राह्मणहिंसावदित्यादि , अथवा - चोदनाप्रामाण्य प्रतिपेधद्वारेण ? यथा - विगीतं न प्रमाण, प्रत्यक्षाद्य वगतार्थवाक्यत्वात , बुद्धादिवाक्यवत् ; आताप्रणीतवाक्यत्वात , बालोन्मत्तादि बाक्यच, दित्यादि । तत्र तावजयोतिष्टोमादीनां किं लौकिकशेयोऽपेक्षया साधनत्वनिषिध्यते, अलौकिकापेक्षयावा, सामान्यतोचा? नाद्यः, सिद्धसाधनत्वात् । न द्वितीयः, अलोकिकश्रेयसिद्ध्यसिद्धिभ्या तत्वाधनत्वनिषेधस्थाशक्यत्वात् । न तृतीयः, भोजनक्रियादिभिरनैकान्त्यात । यच्च हिंसात्वादधर्मत्व साधनम् । तदापन, अधर्मत्वस्यहि ध्यापकस्यग्रहणं धर्मतयाकस्यचिद्हणमन्तरेण न घटते, तहणश्च प्रागुक्तरीत्या नचोदनातोऽन्यदस्सिद्धयतीति व्यामिग्राहकप्रमाणवाधः । ततश्च चोदितत्वं धर्मत्वे प्रयोजकं पाप्मत्वे निषिद्धत्वमिति सोपाधिकताच ।
यत्त . सांख्पैरुच्यते - हिंसाविधिनिषेधयो नास्तिविरोधः, आलम्भनवाक्यहि हिंसायाः ऋतूपकारकत्वं बोधयति, नि. पंधवाक्यन्तु हिंसायाः प्रत्यवायसाधनत्वं , अतो वैधीहिंसा पुरुषस्य दोष मावक्ष्यति, कतोश्चोपकरिष्यति । नच प्रत्यवायदेतो विधानानुपपत्तिः, दुःखस्पर्शस्य भेषजादेरिव प्रभूतसुखसाधनतया विध्युपपत्तेः । उक्तंच पंचशिखाचार्यः - " स्वल्प स्संकर स्सुपरिहर स्सप्रत्यवमशः ।” इति । निषिद्धत्वं साधनव्यापकमिति । तदसत , शाबैकवेद्ये सुखे दुःखेच किं प्रभूतमिति नियामकाभावात् । विधिः मला मुखाधिक्यं कल्प्यत इतिचेत् ? निषेधबला दुःखाधिक्यं कि________________
सेश्वरमीमांसा । नकल्प्येत । अल्पदुःखसाधनोप सुखाधिक्या ठोके विधि ईश्पत इति चेत् ? अल्पसुखसाधनेपि दुःखाधिक्या निषेधोपि । अतो या. वनिषेधाविषयवं नसाध्यते नवावदयं विधि र्जीवति । तदविषयत्वं. च चिकित्सकशल्यादिप्रयोगन्यायेन यथाश्रुतिहिंसालक्षणानाकान्तत्वादा, तल्लक्षणयोगेपि - " अहिंसन् सर्वभूतान्यन्यत्र तीर्येभ्य " इति संकोचादा । अतो नास्थ व्यापकत्वम् ।
यच प्रमाणस्वमविषेधायोक्तं प्रत्यक्षाद्यवगतार्थविषयवाक्यावा दाताप्रणीतवाक्यत्वादिति । तदपि कारणदोषस्योपाधित्वा पिरस्तम् । नहि बुद्धादे कन्मत्तादेर्वा वाक्यं दोषमन्तरेणान्यतः कुतश्चि दममार्ण जारी, स्वभावादा । नचात्र कारणदोष इति यक्ष्यते । मत ईशान्यनुमानान्यसन्दिग्धा विपर्यस्त ज्ञानजनकेनाननेवागमेन बाध महन्ति, नतु से स्तद्धाधः, अन्यथा प्रत्यक्षस्यापि कैश्चि दाभासै बोधप्रसङ्गात् ।
अस्त्वेवं, तथापि योगा-चारमाध्यमिकादिभि रभ्युपगम्यते, एवमपि चोदनानां नमामायं सिद्ध्यतीतिचेत? तदपिन, बाविषयप्रती त्युदयस्य स्थारसिकवाधाभावस्पच दुरपयवाद । स्तम्भादिशत्पयो निरालम्पनः, प्रत्य यत्वात् , स्वप्नादिप्रत्ययवन , इत्यादीनां स्ववचनविरोधवाधानकात्प सोपाधिकत्व साध्यविकलत्व वादानधिकारमसंगादिभि निर्मलत्वात् । तदत दविरोधलक्षणे तर्कपादे प्रपंचयिष्यते । म्यायविस्तरे प्रत्यक्षादे रागमस्यच सामान्यतः प्रामाण्यसिद्धे रिहो दास्महे ।
एषमागमेनापि न चोदनानां बाधः, बौद्धाद्यागमानां सहेतुकपरिग्रहाणां सम्भवद्भक्तदोषाणां चोदनाभिः स्पर्धित मशक्तेः । चोदना मूलानान्तु मन्वाधागमानां तदविरोधात् । विरुद्धांशे च दुर्बलतया तत एव याधात् । स्मृत्पागमयोस्तु कार्यविषययो मीमांसाविरोधे [ सकसम्मितत्वे ] विकल्पात । तत्वविषययोस्तु तात्पर्यभेदेन निर्वाहाद। एवमोपनिषद सर्वज्ञानुभव मूलागमस्यापि श्रुत्यैकार्थ्य स्थापना________________
शास्त्रमुक्तावली त। प्रमाणान्तरैस्तु सद्भिरपि तुल्यन्यायतया न बाधः । अम्द्धि स्तु नतरां । तदेव मव्यतिरेक स्सिद्धः।
चतुर्थ दूषयति ( अर्थेनुपलब्धे तत्प्रमाणमिति ) श्रेयस्साधन तया प्रत्यक्षादिभिः प्रागुक्तन्यायेना नुपलब्धे, अर्थे - धर्मे । यदिति - प्रमाणशब्दानुसारेण नपुंसक निर्देशः । ज्ञानशब्दनिर्दिष्टं शास्त्रंबा परामृश्यते । तदेवं तत्र प्रमाणान्तरज्ञातविषयत्वाधीनं नैष्फल्यं नास्तीत्यभिप्रायः “ अर्थे 5 नुपलब्ध " इत्येतावतैववा प्रकृतपरिहारः ।
पंचमं दूषयति (अनपेक्षत्वादिति) अयमभिप्रायः - व्युत्पत्त्याहि शब्दानां बोधकत्वं गृह्यते । नच प्रमाणान्तरदृष्टत्वमपि वाच्य सया व्युत्पनिसिद्धम् , येन तदपेक्षा स्यात् । नच प्रमाणान्तरमेतज्ज्ञप्तयत्पत्त्योः कारणमिति । अत्रैवाधिकरणस्य निर्भरः । शिष्टन्तु पूर्वोत्तराधिकरण सामान्यतो न्यायविस्तरेणच सिद्ध प्रतिपत्तिसौ कर्यायोपस्थापित मिति मन्तव्यम् ।
नन्वत्र - प्रमाणान्तरानपेक्षत्वं प्रामाण्यस्यासिद्धं । तद्धि लोके कारणगुणादेव जायते, संवादकारण गुणार्थक्रियाज्ञानैश्च ज्ञायते । भत उत्पत्तिज्ञप्तयोः पराधीनं प्रामाण्यम् । नित्येतु वेदकर्तृगुणस्ता वनष्टः । प्रमाणान्तरागोचरार्थ विषयतया च न संवादः । नच - कालान्तरभावि स्वर्गादिसाधने वर्थक्रियाज्ञानम् । नच कारी र्यादि दृष्टान्तेनाश्वासः, तेष्वपि फलनियमादर्शनात । कर्मकर्तृसा’ धन वैगुण्या त्कदाचित्फलानुत्पत्तिरिति चेत् ? को जानाति फलोत्पत्तिर्यदृच्छया वा फलानुत्पत्ति वैगुण्याद्वेति । किंच - चित्रादीना मवहितै रनुष्ठितानामपि मर्दनादिजन्यसुखव समनन्तरमेव न पश्वादिकं फलं पश्यामः । नच चित्रादिफलं कालान्तरेपि सम्भवतीति वाच्यम् , लोके क्रियाफलस्या नन्तरभावित्व नियमदर्शनात् । नापि राजसेवादिव दाराध्यदेवताप्रीत्यादिद्वारा कालान्तरे फलं________________
२३
सेश्वरमीमांसा । भविष्यतीतिवाच्य, तथात्वस्य शास्त्रप्रामाप समर्थनारपूर्व वक्तुमशअपस्यात् । पश्चादीनांच दृष्टफलानां तदानीमेव सम्भावितानां साधनस्वेन चोदिता श्चित्रादय शास्त्रार्थ निश्चयदशायामेव देवताप्रीत्याय पूर्व प्रणाडी। समाश्रयणे कारणाभावा स्वरूपेणैव साधनतया शास्त्रेण समयन्त इति निश्चीयते । यच्च कालान्तरे पश्चादिफलं जायते, तत्र प्रतिग्रहादि दृष्ट कारण दर्शने कथं चित्रादिसाध्यस्व मध्यवस्येम । अतो दृष्टफलार्थ चोदनान वि संवादे स्वर्गादिफलार्थ चोदनास्वपि सुगमं । न केवलं चित्रादिश्वर्थ क्रिया. विरहमात्रा रतुल्यन्यायता, अपितु “सएप यज्ञायुधी यजमानान सास्वर्ग लोकयाती” त्याद्यर्थवाद पर्या लोचन या विरुद्धार्थ क्रियेवो पलभ्यते । “सएष यज्ञायुधी यजमान” इति यज्ञायुध संयोगि शरीरमेव ह्यच्यते ; नत्वात्मा । नच धर्म निष्प्रमाण मातिष्ठमानैः कार्य कारणसंघाताति रिक्तः कश्चिदात्मा भ्युपगम्यते । यद्यपि यजमानशब्द शेतनपर्यन्तः, तथाप्यत्र “राचणो निहतशेत” इत्यादाविव त स्पर्यन्तत्वा सम्भवाच्छरीरमात्र वचनः । नपत्रात्मनि यज्ञायुधसंयोगः ॥ नच - तरस्वामित्वमा विवक्षितं, पाचचयन स्तुत्यर्थवा द्वाक्यस्य । नहि प्रागपिसिद्धेन स्वामित्वेन पावचयनं स्तुतम्भवति । अतस्संयोग. वचन एवायं यज्ञायुधिशब्दः । सचसंयोग शरीरस्थएव । तच्च शरीरं तदानी नस्वर्ग गच्छत्पपामः । नच पश्चाद्धागमिष्यति, तदि रुद्ध भस्मसाद्भाच दर्शनात् । यास्यतीत्य निर्देशाच्च । अतोनकेवलं चोदनानां संवादाभावमात्र, योग्यत्वे सत्यनुपरम्भा द्विपरीतोपलम्भाच्च विसंवादएवेत्य पौरुषेयीणां चित्रादिचोदनानाम प्रामाण्ये तुल्यन्यायतया स्वर्गाद्यलौकिक फलसाधन चोदनास्व प्यनाश्वासः । अतः प्रामाण्यस्यों स्पत्ती ज्ञप्तीच कारणाभावा द्विपरीतदर्शनाच्च कथं चोदनाः प्रमाणम्भवेयु रिति । अत्राप्युत्तरं (अनपेक्षवादिति ) प्रामाण्योत्पत्ति ज्ञप्स्पोर्नपरापेक्षा ।
इह तावत्प्रामाण्य ममामाण्यं चेत्युभयं स्वतइतिसांख्याः । उभयं परतइति वैशेषिकादयः । अप्रामाण्यं स्वतः, प्रामाण्यं परत इति________________
शास्त्रमुक्तावली ।
बौद्धाः । तद्विपर्ययेण मीमांसकाइति चत्वारः पक्षाः । तत्रोभयं स्व तइति पक्षस्ताववसम्भवति, विरोधात् । नहि विरुद्धमुभयं एकस्य स्वभावस्स्यात् । तथासति प्रमाणाप्रमाणविभागो नस्यात् । अथवि ज्ञानभेदेन प्रमाणाप्रमाण व्यवस्थेति ब्रयात् , तदा कस्यां विज्ञानव्य क्ती प्रामाण्यं, कस्यां चेतरदिति दुर्निरूपं, ज्ञानस्वभावव्यतिरिक्तस्या न्यस्य नियामकस्याभावात । भावेवा पराधीनस्व प्रसक्तेः । स्वतोऽसतः कर्य साध्यत्वमितिचेत ? स्वतस्ततोवा कथं । सत्यमेव हि साध्यत्व विरुद्धं । अभिव्यक्तिमात्रं चत्रेतिचेत् ? साप्यभिव्यक्ति स्वतस्सतीचेन्न साध्या । असतीचे रकान्यत्रवस्सती । अखतश्शशविषाणादे स्लाध्यत्वं नदृष्टमितिचेत् ? सतोया त्मनः किं दृष्टम् । अतः पूर्वमसत एवं मृदादिषु घटत्वपटत्वाद्यवस्थाविशेषस्य दण्डचक्रादिभि स्साध्यत्व दर्शनात , दृष्टेचानुपपत्त्पभावात् , अन्यथा स्वपचनविरोधादि दोषन संगात् , प्रागसता केपाश्चि व्यावस्थाविशेषाणां हेतुबशा स्पश्चात तेति दुष्परित्यजीयमर्थः । सख्यवैशेषिकाभिहितो सदसत्कार्ययादा घारम्भणाधिकरणादिषु विस्तरेण निराकरिष्यते । अस्तु तभियंपरतः द्वयोरपि कारणगुणदोषान्वय व्यतिरेकानुविधान दर्शनात् । तथाच प्रयोगः - विगीता प्रमा सम्यमिथ्यावबोध साधारण कारणा दति रिक्तसाहिताजायते, कार्यत्वेसति तद्विशेषत्वात् , अपमावत, यदि ज्ञानकारणादेव प्रमास्यात् अप्रमापि प्रमैव भवेदिति । तदप्यसत, कार्यत्व इति विशेषणं प्रयुञानेनेश्वरज्ञानस्य प्रमात्यमभ्युपगतम् । तच तस्यस्वाभाविक, अन्यथा कथमममात्वं तस्यनस्यात् । दुष्टकारण प्रसूतत्वाभावादिति चेत् ? तर्हि गुणवत्कारण प्रसूतत्वाभावा प्रमारव मपिनस्यात् । उभयपरित्यागे - ‘परस्परविरोधेहि नप्रकारान्तरस्थिति रितियायेन निस्स्वभावत्व प्रसंग इति चेत् ? तद्विरुद्धोभय परिग्रहे पा किस्वभावस्थात । किं विशेषाभावे सत्यन्यतरस्वभाव पारग्रह शक्यः । धर्मिग्राहक त्तस्य नित्यस्य प्रमात्वेनैव सिद्धिरिति चेत् ?________________
सेश्वरमीमांसा । सहिसिद्धं तस्यस्वाभाविक प्रमात्वं । ततश्चत दृष्टान्ते नेतरास्वपि म मात्वं स्वाभाविकमनमीयतां । अतस्तपतिलाधनस्तद्धेतुः । एतेन प्रमा सम्याथ्यानबोध साधारण कारणातिरिक्त जन्या, कार्यत्वात, घटव दिति प्रयुआनोपि प्रत्याख्यायि । सेश्वरस्य सर्वप्रमापक्षीकारेण प्रयोगे भागासिद्धेः । विगीतत्वेन विशेषणेप्रत्यनुमानादे वीरत्वात् । एवं निरीश्वरस्थापि मुक्तधीपक्षीकार वहिष्कारयोरक्त दोषानति वृत्तिः । विपक्षेबाधक सदसद्भावाभ्यां विशेषः ।
यल - ताव मात्राधीनत्वाभाव स्योभय सम्मतत्वा दप्रामाण्यम्बत कत्व स्पच स्वयापि निरासात् , तावत एवनिमित्तांतर सम्भेदेन विजातीया रम्भकत्वस्यानापि सिद्धिरिति । तत-निमित्तान्तरानिर्वचनादयुक्तम् । अमामाण्य निमित्ताभावो निमित्तमस्त्विति चन्नः कार्यान्तर हेत्व भावस्य कार्या स्तरेण हेतु तथाऽपेक्षणऽतिप्रसंगात् । व्यभिचारादर्शनात तुत्वाभ्युपगमेपि चोदनाजनितबुद्धौकारणदोषाभावपत्रेण प्रमात्वस्य दुस्त्यजत्वात ।कार णगुणनिरपेक्ष तत्प्रामाण्य समर्थनार्थोद्ययं संरंभः, दोपाभावोपि भावान्तरं भवतः, अभावाभावादभावान्तराणामपि विरोधिभावान्तरमात्रत्व स्वीका रादितिचत ? सत्य, तथापि कारणदोषाभावस्य कारणगुणेकरूपत्वायुक्त रवक्तृपिवदेदोषाभावस्सिद्धः। यथा कारणाभावदशापां कारणदोपाभावे कारणगुणस्याप्यभाचा गुणव्यतिरिक्त भावान्तरात्मा, नपुनः कारणदो पात्मा । श्रद्धयं चैतन्नित्यप्रमायामिति । चार्वाकादेः प्रकृतप्रयोगेकावा तैतिचत ? एव, विपक्षे बाधफाभावादिमयी ।
किश्च भवत्यक्षपक्षपातिना वाचस्पतिना न्यायवार्तिक शात्पर्य टीकादिषु प्रामाण्यस्थापकानुमाने स्वपरनिर्वाहकसमाधि स्वीकागत स्वतः माण्यमाश्रित, तञ्च “ वाचस्पतेर्वचसि नस्खलतेयएक " इति वदता तात्पर्य शुद्धि कारणापि स्वीकार्य, गत्यन्तराभावात् , स्वपर निवोदगते सर्वविद्हरिदीवत्वाच । भन्यथा प्रमाणलक्षण तका________________
शामुक्तावली । दिव्यवहाराणां कर्क शवृत्तित्वेन विश्वापल्लाप प्रसंगादिति । तेन का रणदोषाभाव देविना प्रामाण्यमिति भयताप्यंगीकार्य । तर्हि गुणान्ययव्यतिरेको कथमितिचेन्न; - दोषनिराकरणार्थत्वात् । यथानिस्य कारणा भावाद्दोषनिरासः , तथा कारणगुणादप्यनित्ये तन्निरासएव, अनुवू तस्य दोषाभावस्यैव प्रामाण्यप्रयोजकत्वदृष्टः, अन्यथासिद्धसन्निधेश्च हेतुत्वायोगात् । अतएव न विपरिवर्तप्रसंग शक्यः ।
ननु स्वर्गयागादि साध्यसाधनभावपमा ननित्या जन्यत्वात , अतस्तत्र दोषनिराकरणाय गुणापेक्षेतिचेन्न:- अवक्तृकत्वेनैव वक्तृदो पनि वृत्तेः, तदतिरिक्तस्य गुणनिराकरणीयस्य दोषस्यात्रा सम्भवात् । अवक्तृकरवस्यच वक्ष्यमाणावात । ईश्वरस्येव जीवानामपि नित्यं ज्ञानं स्वतश्च सविषयं प्रमात्मकंच , तत्त त्कर्मादिदोषवशात संकुचित विषयं, संशपविपर्यया यवस्थायोगिच भवति, सर्वत्र दोषनिवृत्तौतु स्वाभाविकेन सर्वविषयप्रमावेनावतिष्ठत इत्योपनिषदोयं घण्टापथः । अतोन्यथा सिद्धान्वयव्यतिरेकाणां गुणानां न प्रामाण्यप्रति कारणत्वं । यथा पाकजावयविनि :रसस्योत्पत्तावन्वयव्यतिरेकवतोप्यवयवरूपस्याका रणत्वं युप्माभिरेवोक्तमिति ।
भवतु चात्रगुणाधीनं प्रमाण्यं । देतु नस्यात । यथा हीश्वर झाने कारणाभावा प्रामाण्यस्य न कारणगुणापेक्षा, एवं वेदेपि वक्तर भावादेव वक्तृगुणानपेक्षास्यात् । तावतैव वक्तृदोपनिवृत्ते रिन्द्रिया दिगत काचादिवच्छन्दस्वरूपगत दोषासम्भवाच्च । तथापि दोषामा चोगुणएवेति गुणाधीना प्रामाण्यसिद्धिरिति चेत ? किमतः, नद्येताव ता वेदस्याप्रामाण्यस्यात् । प्रामाण्यार्थश्चेदानी विवादः । गुणाभायोपि दोषएवस्यादिति नित्यममाऽममैवस्यात् । अहेतोरपि गुणनित्यत्वस्याश्रय नित्यतावनियामकरवोपपत्तिरिति ।________________
सेश्वरमीमांसा । अतएभाप्रामाण्यं स्वतइति पक्षोपि निरस्तः । अवस्तुस्वादनामा पये नहेतुसाध्यमिति स्वाभाविकत्वमितिचेन्न- भवस्तुस्वमिति किम भावत्व मभिप्रेतं, उततुच्छत्वं ? नाद्यः, प्रध्व से यभिचारात् । भद्दे तुकविनाशस्यच तपादे परिहरिष्यमाणत्वात । नद्वितीयः, अखिद्धः । मामामाण्यमप्रमाणेतुच्छं, अपितु प्रामाण्यं । यनिष्ठाभाव प्रतियोगी य स्ससत्र तुच्छइति तत्वं । निरुपाधिनिषेधश्च तत्रैवपरिहरिष्यते । बेदा तुत्पनेच ज्ञानेनिश्चयात्मकेच दृश्यमाने विपर्ययत्व साधनार्थहि स्वतामा माण्यं सिसाधयिषसि । नच विर्ययत्वं [ में ] वस्तु, अयथार्थप्रका शनिरूपितत्वातस्य । नच यथावत्प्रकाशनाभावो विपर्ययत्वं, घटादिषु तरप्रयोगाभावात , घटज्ञानस्यच पटप्रतिविपर्ययत्वा पाताच्च । अतो विपर्ययत्वसंशयत्ययो भवत्वेना हेतुसाध्यत्वं स्वापि वक्तुंन शक्यं, ज्ञानोत्पादनशक्त्यभावस्तु तदर्दशनादेव निरस्त इति । तस्याहत खाध्य स्वेपि नावविरोधः, “ तस्यज्ञानमुपदेश" इतिह्यक्तं । किंच संविदा स्वात्माकारे स्वाभाविक प्रमात्वं तैरेवाभ्युपगम्यते, नहि त दधिपति सहकार्यालम्बनादि कारणगुणेन जन्यते तदोषेण चापोद्यतइतिम्रयते । अतएवापवर्गदशायां स्वात्ममात्राभास शुद्धसंविल्सन्तानानुवृत्तिरिष्यने । समनन्तरप्रत्ययगुणा तसिद्धिरितिचेन्न:- स्वरूपातिरिक्तगुणानभ्युपग मात । स्परूपस्यच कारणमावत्वात् । उक्तश्च चाहोरेव - " अनु पप्लवभूतार्थ स्वभावस्यविपर्ययैः । नबाधोयत्नवत्वेप बुद्धेस्तस्पक्षपा तत " इति । अतोऽप्रामाण्यं स्वतइतिनतैरभ्युपगन्तुं शक्यं । अतः पक्षान्तरासम्भवात्परिशेषात्रामाण्यं स्वतइति सिद्धयति ।
किच यस्य य आकारः प्रचुरतयोपलभ्यते सतस्यस्वभावः, यस्तु तद्विरुद्धः क्वाचिकस्सत्वोपाधिकइति सार्वलोकिकापक्षः । यथा मल्लि कापुष्पादेः धेशद्यादिकंस्वभावः, किंशुकसंसर्ग विशेषाद्यपाधिनातु ‘रागादिकमिति । एवमिहापि ज्ञानानांमधुरं प्रमात्वस्वभावः, इतर________________
शास्त्रमुक्तावली ।
चौपाधिकमितियुक्तं । प्राचुर्य व प्रमावस्याप्रमास्वप्यधिष्ठानार्थशे याधार्यदर्शनेन सिद्धं । निधिष्ठाननमायसम्भवस्तु तर्क गादेवक्ष्यते । भता प्रामापस्य कारणगुणानपेक्षत्वा दपौरुषेये वेदे प्रमाजननाय वक्तगुणापेक्षा नास्तीतिसिद्धम् ।
यत्त प्रामाण्यज्ञप्ती संवादाद्यपेक्षति । तदसत, तथाहि-प्रामाज्यनिश्चये संवादादिविकं किं सर्वत्रापेक्षितं, उत्त नियमेनान्यतमत् ? नायः, अलम्भवात् । नहि मामायनिश्चये संवादस्य सार्वभौमत्वं , स्वात्ममात्र साक्षिकसुखादौ तदसम्भवात् । संवादज्ञानेषु संवादान्तरापेक्षया नवस्थानाच्च । नच परस्परसंवाददाश्चासः, टुक्तिकारजतधारावाहिकबुद्ध्यादा वयावासप्रसंगात् । चोदनावाक्येच बहुशः पठ्यमाने जायमानानां वाहीनां संविदा मिथ संवादस्य सुलभत्वात् । कारणान्तरजनितसंवित्संवादस्तु न गन्धादी सुखादीच शक्यः । पुरुषान्तरधीसंवाद चोदनास्वपि सिद्धः । एवं कारणगु गज्ञान व्याप्त चिरज्ञानस्य नित्यरूप प्रमावनिश्चये, कारणगुणज्ञाने तद्धती कारणस्य निपताज्ञानार्थाने, निदोपताज्ञानमावणा प्रामाण्पशंकानवकाशेन प्रत ते
थायसिद्धी किं गुणै विदितै रन्यत्कार्यम् । अत्रच कारणस्य वेदस्य वक्तृदोषासम्भव उक्तः । अर्थक्रियाच न व्याप्ता, अशक्या थक्रियेच्वनादरपदेषु व प्रतीतेचु पुरुषप्रवृत्त्यभावेन तन्मूलाक्रिया भावात् । अर्थक्रियाज्ञानस्य वा प्रामाण्यनिश्चयार्थार्थक्रियाज्ञानान्तरा पेक्षासंगात् । क्वचि रस्वतः प्रमाणत्वे सर्वत्राप्युपगन्तव्यत्वाव । अविदिताप्रामाण्यन चा ऽभिमतसिद्धा प्रकृताप चौदनाध्यामाण्यज्ञापकाभावमात्रेणा भिमतसिद्धेः । सतत एव नापि द्वितीयः, कारणदेषबाधकमाययाभावमात्रेणा प्रामाण्यनिराकरणे तेवन्यतमस्याप्पनपक्षणात् ।
ननु भावान्तराभाववादिनां भवतां दोषाभावो गुण एवेति घेत्र - अनुष्णाशीतस्पशंवद्दोषगुणविरहात्मक भावान्तरसद्भावात् ।________________
सेश्वरगीमांसा । देच दोषासम्भवस्योक्तत्वात् । तथाप्यपामाण्यस्या भावः प्रामाप मेव, परस्परविरोधे प्रकारान्तरस्थित्पभावात् , अतो ऽ प्रामाण्यनिराकरणार्थ मन्यापेक्षणे प्रामाण्यसिद्धयर्थ मन्यांपेक्षत्युक्तं भवतीति चेत् ? सत्यं, तथापि कारणदोषवाधक प्रत्य याभाघातिरिक्तं संवादा दिकं नापक्षित मित्येतावता स्वत स्त्वं ममः ।
किञ्च यथा यथावत्प्रतीयमाने सम्पनजते कस्पचि कदाचि [व] द रजतत्वशंका जायते, साच कारणदोषाद्यभावपरामर्शन निराक्रियते, तथापि पूर्वप्रतिपन्नं रजतमेव स्थितं भवति, एव मिहापि स्वतः प्रतीयमानेपि प्रामाण्ये कस्यचि दप्राण्यशंकायां कारणदोषायभावेन तन्निराले पूर्वप्रतीतमेव प्रामाण्यं प्रतिष्ठितं भवति ।
ननु - कथै ? स्वतः प्रामाण्यप्रतीतिः , नहायं घट इति वा . घट मई जानामीति वा प्रतियद्भिः पुरुष स्तदानीभव ज्ञानं प्रमाणे मित्यपि प्रतीयते, इति चेन्न; - ज्ञानं हि स्वतः परतो वा प्रकाशमानं प्रथममेव घटादिसद्धावप्रकाशात्मकं दृश्यते, घटोस्तीति विषयावच्छेद मन्तरेण तत्प्रकाशासिद्धे, पश्चादारोपितेना नारोपिते नवा : र्थवेनावच्छिन्नं भासते, तवारोपितत्वशंकादोषाधभा बेन निक्रियत इति स्थिते - चोदनाजनितसंविदपि श्रेयस्साधनार्थप्रकाशामिका का. रणदोषबाधकप्रत्ययाभावा दनपोदितप्रामाण्या कतिष्ठत इति । )
मनु- यद्यपि कारणगुणाद्यनपेक्षा, यद्यपि बेदे कारणदोपो न दृष्टः , तथापि दर्शितो बाधकप्रत्यय विवादिवाक्ये, अत स्सापवाद चोदनाप्रामाण्य मिति । तत्रापीद मुत्तरं सूत्रकृतवोच्यते ( अव्यति रेकश्चति ) चित्रादिचोदनास्वपि न व्यतिरेकः , चित्रायाः फलसाधनत्वमात्रवचनेना नन्तर्यत्या चोदितत्वात | दृष्टफलार्थराजसेवादि घदेव कालान्तरेपि फलसम्भधात् ।________________
पानमुक्तानी ननु साध्यसाधनभावे गृहीते कालान्तरे कर्माभावात , पश्वादि फलस्यच तत्कालेपि सम्भवोपपत्ते रदृष्टद्वारकल्पने प्रमाणाभावात् , लोकेच मर्दनादि क्रियानन्तरमेव फलदर्शनेन सामांदनन्तरमेव फलेनभवितव्यमिति स्यादिति चेत ? मैवं, लोके तावक्रियानन्तरमेव फलमिति ननियमः, शरमयोग कृष्यादिषु राजोपकारक राजद्विष्टयो श्वावान्तर व्यापारद्वारा द्राधीयसाकालेन फलाविना भावात । अत: कालान्तरे कर्माभावेपि फलस्प तदानीमेव सम्भवेपि श्रुतसाध्यसाधन भावानुगुण्याय द्वारकल्पनमविरुद्धं ।
ननु-शस्त्रार्थावधारण पूर्वक मनुष्ठानं, अनुष्ठानानन्तरं फलानुपलब्धे रिकल्पया शास्त्रार्थावधारण मिति चेन्न:- परानुष्ठानानन्तरं फला नुपलम्भा स्वयं शास्त्रार्थ निश्चयदशायां द्वारकल्पनोपपतेः, साक्षात्साध
नत्व भ्रमेणवानुष्ठाय पश्चाफलविलम्बेन द्वारं कल्पयिष्यती, ति नतावता . शास्त्रमामाण्यस्यापायः; तत्स्वातन्त्रवस्य दर्शितत्वात । अव्यवहितत्वमात्रंत स्वभ्रमसिद्धं बाध्यते ।
किंच - चित्रा ताव ब्रक्षणमात्रभाविन्धका क्रिया, किंतु सांगत धानकर्म क्षणनिचयात्मिका क्रिया । क्षणानांच क्रमेणचोदितानां नयोगपर्ध । तस्माददृष्टद्धारं मन्तरेण [योगपद्यंनसम्भवति । नच क्रियायां क्षणेक्षणे पश्चादिक्रमेणो त्पाद्यते । अपि तर्हिस्वापभोगार्थ । स चोपभोगश्चिरकालः । अतो याव दुत्पन्नकालं । नच क्रिया समुदा. थानन्तरं चावयच रचनादि दृष्टकारण मन्तरेण ] न पश्वायत्पत्ति सम्भवः । नच पश्चादे रुत्पत्तिमाचं फल मभिसन्धायोपाय उपदिश्यते, अपि तर्हिस्वोष भोगार्थ । सचोपगंग श्चिरकालतः । भतो याव दुपभोगकालं स्थास्नुना राजप्रीत्यादि चक्रियातिरिक्तेन केनचिद्भवितव्यमिति शास्त्रार्थ श्रवणवेलाया मेवानुष्ठाताध्यवस्पति । नचात्र किंचिद्वारं कल्पनीयं, द्वारस्यदेवताप्रीत्यादे शब्देनैवोप स्थापितत्वात् । तथाच शारीरके वक्ष्यते - फलमत उपपत्तेः " " श्रुतत्वाच्चे" ति ।________________
सेश्वरमीमांसा । अतस्सपरिकर विधिवाक्यं परामर्श एव प्रत्यक्षमिव विसंवाद प्रशम यति । नच देवताप्रीत्यादिरपि तदानीमेवफलं जनयस्वितिवाच्यं । राजप्रीत्यादिवदेव देशकालावस्थादि नियत फलप्रदानोपपत्तेः । यदाच प्रतिबन्ध रहितं सगुणं कर्मभवति, तदाऽ नन्तरमेव फलंदृश्यत एव । यथा कार्यादौ, यथाचाभिचारादौ । नच तत्रयादृच्छिकं फलमिति वक्तुं शक्यं, भूयसादर्शनात् । अतस्तेनैवान्यत्र कर्मकर्तृसाधनवैगुण्य माश्रीयते ।
यच्च कालान्तरे प्रतिग्रहादि कारणान्तरं दृश्यत इति; नताव मात्रेणा दृष्टस्य फलहेतुताभंगः, उभयोरपि हेतुतायाः प्रमाणद्वय सिद्धत्वेनान्यतर परित्यागायोगात्, सर्वसामयया मनेककारणसन्निपातात् । क्षुच्छान्तिकामोदेवदत्तगृहं गच्छेदित्यत्र भोजनादिवत् । यत्र चायतोत्कटमष्ट, तत्रत्वंतरोपनयन मन्तरेण स्वयमेवफलति । इदंच महर्षि प्रभृतीनां वृत्तान्तेषु सुगमं ।
यत्त यज्ञायुधिवाक्ये प्रत्यक्षविरोध इति । तदपिन, अपरेष्वर्थवाद वाक्येष्विवात्रापि मुख्यार्थबाधस्या दोषत्वात् । तात्पर्यविषय भूतस्य स्वस्याविरुद्धत्वात् । स्वर्गकामो हिचेतनविशेषो यजमानः, तस्यस्वर्गाख्य फलसिद्धिरिह विधिवाक्यसिद्धोनू द्यते, नतु निष्प्राणस्या चेतनस्य शरीरस्य । नचात्मनोऽकर्तृत्वा द्यजमान शब्दवाच्यत्वं नास्तीतिवक्तुं शक्यं । नहिवयं वदाम आत्मनोत्यन्ताकर्तृत्वं, “कर्ताशास्त्रार्थवत्वात् " “परात्वि” तिच शारीरके तत्कर्तृत्वव्यवस्थापनात् । अतोविशेष्यवाचिनि यज मानशब्दे चेतन मभिदधाने यज्ञायुधिशब्द शरीरविषयो । पि चेतना धिष्ठित परित्यक्तसंघात मेवाभिप्रेति । अतएव “ एष ” इत्य परोक्ष निर्देशोपि नविरुद्धः ।
एवं यत्रार्थवादेषु प्रत्यक्षादिविरोध स्तत्र सर्वत्राप्यौपचारिकार्थ ग्रहणेन समाधानं वक्ष्यते ॥________________
शास्त्रमुक्तावली । यत्न धर्मे प्रमाण मनिच्छद्भि देहातिरिक्त आत्मापि नेप्यत इति न तन्मूलं समाधानं शक्य मिति । तत् कि मनिच्छामात्रेणात्मा न.. स्यात ? सतु प्रत्यक्षानुमानागमे रद्धयवसीयमानो नापतोतुं शक्यः । तथाहि - प्रत्यक्षं तावत देहेन्द्रियमनः प्राणधीभ्योन्यमेव प्रत्यगात्मानं प्रकाशयति । योसौ प्रतिक्षेत्र मह मित्युपलभ्यते स न ताव देहः, प्रत्येकसमुदायविकल्पानुपपत्तेः । नपत्र पाणिपादादयः प्रत्येक मह मर्थः , पाणि रह पादोह मित्यादि सामानाधिकरण्यादृष्टेः । पादे में वेदना शिरसि मे सुख मिति व्यतिरेकप्रत्ययदाढ़ाच । नापि समु दायः, अह मर्थस्य चेतनत्वा पाण्यादिसमुदायस्य शरीरस्य चैतन्यसमचायायोगात् । नहि प्रत्येक मसत चैतन्यस्य समुदाये सम्भकः, तन्वादिष्वसतो रूपादे स्तत्समुदाये प्यदर्शनात् । नचावयवाः प्र. त्येकं चेतयन्ते, प्रत्येक मह म्बुद्धयभावस्योक्तत्वात् । अनेकचेतनोपलम्भाभावात् । एकस्यैवसर्वावयवावच्छिन्नस्य सुखादिप्रतिसन्धानात् । परस्परपीडाद्यनभिज्ञतया परस्परोपकारभंगप्रसंगात् ॥ एकैकावयवच्छेदे तत्तदनुभूतप्रतिसन्धानानुपपत्तेः । नापदेशादि रख हेतुः । नापि वासनासंक्रमः, अन्य गुणस्या न्यत्र संक्रमणायोगात् । नच संसर्गा सजातीयवासनोत्पत्तिः, मातु सिनया ग.पि तदुत्पत्तिप्रसंगात् । नच प्रत्येकं [म सत संयोगस्यैव समुदाये । सम्भवः, अनेकाश्रितत्वानुपलम्भात । नचैकोवयवी चेतयतामिति । युक्तं, व्यविषंगविशेषव दवयवसंघातातिरिक्तावयव्यसम्भवस्यारम्भणाधिकरणे वक्ष्यमाणत्वात् । तत्सम्भवे प्यवयवगतविशेषगुण | मन्तरेणा चयवविनिविशेषगुणोत्पत्त्ययोगात् । नचात्र चित्रन्यायः, तत्रापि प्रत्येकावयवगतानां सितरक्तपीतादीनां विशेषगुणानामेव चि। बारम्भकत्वात् । सितादीनां चित्रस्य चावान्तरबैजात्येपि रूपत्वेन । गुणावान्तरजान्या समजातीयत्वात् । इह चायवेषु तथा विधविशेष । गुणासम्भवात । नच चूर्णहरिद्रासंसर्गजरागवत प्रत्येक मसतोपि ।________________
सेश्वरमीमांसा ।
संसर्गवशा दुत्पत्तिरिति वाच्यम् , चूर्णहरिद्वाद्योः प्रत्येक मविद्य मानस्यापि संसर्गवशा प्रत्यवयवं पाकजरागोत्पत्तेः । इह चावयवे चैतन्या सम्भवस्थोक्तत्वात् । अतो यदुक्तं लोकायते - " पृथिव्य मजोवायच स्तत्त्वानि, तेभ्य श्चैतन्यं किण्वादिभ्यो मदशक्तिवदि " ति । तदपि प्रत्युक्तं, किण्वादिभ्योपि प्रत्यवयवं परिणामविशेषवशा न्मदशक्त्युत्पतेः । भूयस्त्वाल्पत्वादिभि विकारंतारतम्योपपत्तेश्च । अतोयोसो प्रतिक्षेत्रमहमित्युलभ्यते सएवात्मा पाण्याने स्तरसंघाताच विल क्षणः । एवंस्थिते देवाहं मनुष्योई कृशोहमित्यादि देहधर्मोपष्टम्भेन योसा यह म्प्रत्ययः सपीतशंखादिनयेन निर्वाचः, संसर्मिणि गृह्यमा णे देहे कर्मादिदोषविशेषेण भेदकधांग्रहा तद्धमारोपोपपत्तेः । स्व प्नादि पुन्चात्मानं व्याघ्रादिरूप मभिमन्यन्ते । एवमत्यन्तदवीयस्स्मर्यमा णारोपसम्भवे प्रथक्सियनह प्रत्यक्षीक्रियमाण प्रातिस्विकदेहारोप स्प कहवासम्भव म्मन्यते । गृहादिष्विव मम देहइतिच व्यतिरेकप्रत्य यः सार्बलौकिकः । नवासौ ममात्मेतिवत् रूपविषयः, भात्मशब्दस्य तत्र स्वरूपपर्यायत्वात् , देहशब्दस्य तदभावात । शिलापुत्रकस्प शरीरमिति वत्स्यात् , यदि गत्यन्तरं न स्यात ; इतु देहे चैतन्यास म्भवेन गत्यन्तरं दर्शितम् । एव मप मस्मदादीनामपि देहाव्यतिरेके णरे पलभ्यमाम आत्मा निरुद्धवाह्य करणार्थस्य प्रत्यक्षकर्तृत्वेनो पलम्भा मनसोप्यन्यः। मनसा स्मरामातिच समनस्कार प्रतिपद्यन्ते । एवं धियो प्यतिरिक्तभात्मा, प्रत्यक्ष जनानामिति धर्मधर्मितया प्रतीतेः । क्षणिक ज्ञानसन्तत्यात्मत्वपक्षम्य ज्ञानस्यातिरिक्त मिथ्यावादेव तर्क पदि निराकरिष्यमाणत्वात् । ततएवाह मर्थात्मकल्या बाधितप्रत्यक्षा दिसिद्धस्य दुरपदवरवात् । तदेतत्सर्वमभिप्रेत्य सूत्रितमित्यभ्यधिष्महिपूर्वस्मिन्सूत्रे “पुरुषस्यन्द्रियाणां बुद्धिजन्मे " ति।
एवं प्रत्यक्षेणास्यात्मनो देहातिरेकसिद्धे, रनुमानरप्यसम्भव द्वि रोधैः प्रागुक्त्तनयेन विपक्षे बाधकवद्भिः, असम्भवदुपाधिगन्धै व्यति________________
शास्त्रमुक्तावली । रेक स्सुसाधः। यथा शरीरं न चेतनं, भूतत्वात् , नश्वरत्वात् , सावयवत्वात, घटवदित्यादि । नापि मनः प्रभृतीनान्द्रियाणि, करणवात, कुठारादिवत् । नच बुद्धिः, क्रियात्वात् । प्रमाणा रूपा दिवत् । सांख्यैरपि संगृहीतम् -
“संघातपरार्थत्वात् त्रिगुणादिविपर्यया दधिष्ठानात् ।
पुरुषोस्ति भोक्तृभावा कैवल्यार्थिप्रवृत्तेश्च ॥” इति । वीतराग दर्शना चात्मनो भावान्तरं सिद्धम् ।
तदेवं विसंवादाभावा, संवादकारणगुणादेचा नपेक्षितत्वा, चो दनानां स्वतः प्राप्तं प्रामाण्य मनपोदितमिति ॥
एवमनेनैव सूत्रेण चोदनापामाण्यस्य स्वल्पावशेषितो भारः । अत्र स्वोक्तस्य सकलस्यार्थस्य साम्प्रदायिकता सिद्धान्ततांच ज्ञापयितुं स्वाचार्याभिमति दर्शयति ( बादरायणस्पेति) नहोतन्मतान्तर द्योतनाथ, उक्तस्य प्रामाणिकत्वात, स्वमतस्यावचनाच्च । जैमिनेव्यासशिष्यत्वं, चादरायणस्यच मीमांसामधानभूत शारीरक सूत्रकृत्त्वेन न्यायसिद्धार्थनुविधेयवचनत्वंच महाभारतादि प्रसिद्धम् ।
" सुमन्तु जैमिनि चल्वं शुकंचैव स्वमात्मजम् । प्रभु र्वसिष्ठो वरदो वैशम्पायन मेवच ॥ वेदा नध्यापयामास महाभारत पंचमान् ।
संहिता स्तैः पृथक्त्वेन भारतस्य प्रकीर्तिताः ॥” इत्यादिना जैमिने व्यासशिष्यत्वं प्रसिद्धम् ।
“द्वीपे बदरिकामिश्रे बादरायण मच्युतम् ।
पराशरा त्सत्यवती पुत्र लेभे परन्तपम् ॥” इति बादरायणत्वं सहेतुकमुक्तं ।’ बादरायणस्य शारीरकशासकृत्त्वं सर्वसम्मतम् । तदेवं जैमिनिबादरायणयो रेकाशयत्वस्योप________________
सेश्वरमीमांसा।
४५ कमादि सिद्धत्वा द्वादरायणमतविरुद्ध र जैमिनिसूत्राण्युपवर्णयन्तः अत्युदताः।
उभयाभिप्रायवेदी भगवान् बोधायनो विशति लक्षणी म्मीमांसा परस्परसंगमार्थ विस्तरेण व्याख्यादिति वृद्धा विदामासुः । तथाचस्वयमेवाह- " संहित मेतच्छारीरकं जैमिनीवेन षोडशलक्षणनेति शास्बैकत्व सिद्धि” रिति ।
यत्पुनराहुः " कार्यव्युत्पत्तिस्तु पूर्वाधिकरणे, इदतु मानान्तरद्यार्थता प्रत्युक्तितो घेद स्वार्थे प्रमाणमित्युक्तम् । अतो वेदो घे. दार्थे । पूर्व प्रमाणं नान्यदि" ति । तानिह भौतकल्पान् दूषयितु मप्यपत्रपामहे, चोदनासूत्रस्या न्यपरवस्थापनात , अपूर्वाधिकरणेच पूर्व व्युत्पत्ते निराकरिष्यमाणत्वात् । अतएव प्राभाकरशिरश्चंगायमाणे परहितापूर्वे वेदस्य परानपेक्ष प्रामाण्यवर्णनस्या शक्यत्वादिति ।
" अनुभूतित्वमात्रच प्रामाण्यं वदता मिह । व्यर्थ वेदप्रमाणेच स्वतः प्रामाण्यसाधनम् ॥ विपर्ययत्व शंकाया मनुभूतित्वसाधने । अनुस्मृतित्वा दद्धया किं वाक्यजा धीनिरस्यते । सर्वानुभूति मनिंचे तत्तल्य विषया मतिः । पधार्थं वं भवेत्सर्वा सा किमर्थं निरस्यते ॥ स्वतो विशिष्टधी प्राप्ता दोषा द्वेदाग्रहो यदि । कथं तत्रोपकुर्वात त्वदुक्तं मानलक्षणम् ॥ इहचानुपलब्धे ऽथ प्रामाण्यं यदसूत्रयत् । तन्नापूर्वकविषय मोश्वरादों समत्वतः ॥ अतीन्द्रियेथे प्रामाण्य मनुमित्येव चिन्त्यते । शारीरकेतु सिद्धार्थ विशेषे मानता गिराम्॥
वेदप्रामाण्याधिकरणम् ॥ ५॥________________
शास्त्रमुक्तावली 1
शब्दनित्यताधिकरणम् ॥
san
॥१॥ सू - कमैके तत्र दर्शनात ॥ १-१-६॥ (पू -१)
" औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध" इति शब्दार्थसम्बन्ध स्था नादित्वमुपक्षिप्तम् । तपच न कश्चिद्धेतुरुक्तः। तुशब्दाप्यवधा रणं बैलक्षण्यं पूर्वपक्षव्यवच्छेदं च द्योतयेत, नतु हेतुं । अनपेक्षत्वा दिति तु हेतु स्वतः प्रामाण्यार्थः । नचानेकं तत्र साध्यम्, अधि. करणभेदप्रसंगात् । नच कथंचि तदर्थविचारानुप्रवेशः, वेदाधिकरणादे रप्येकीकरणप्रसंगात् । अत एतदधिकरण सिद्धस्य तवानुवाद मात्र मेध ।
तदिहैव मुन्थानम् । अकारणत्वेनहि वेदस्य - स्वतः प्रामाण्या पवादशंकानिराखः । अकारणत्वंचासम्भावितम, शब्दार्थ स. म्बन्धस्य सांकेतिकत्वेन सांकेतिकशब्द समुदायस्य वेदस्य सङ्केता पूर्व सद्भावायोगात् । तदेतदभिप्रेत्याह ( कमैके तत्रदर्शना दिति ) एके - वाहिनः । शब्दस्य अर्थेन सम्बन्धं, शब्दस्येति निदिष्टं वाचकत्वमेवबा । कर्म - कार्य, सांकेतिकम् । आहुः । तत्र दर्शनात् - तत्र - संकेते सति, वाचकत्वदर्शनात् । यदि गवादि छान्दानां सामादिमपिण्डादिभि स्सम्बन्ध स्स्वाभाविक स्स्यात् तदा तेषामेव शब्दानां वस्त्वन्तरेषु संकेता द्वाचकत्वं न पश्येम । नहि दाहकस्वभावो बाहः पुरुषेच्छया सेचनक्रियायां विनियुज्येत । नच रूपग्रहणे शक्तं चक्षुः शब्दग्रहणसाधनतया संकेत्येत, तथा सत्य न्धपधिराद्यभावप्रसंगात, तत्तचिकित्सानेरपेक्ष्यप्रसंगात्, अपनत स्सर्वेषां सायप्रसंगाञ्च । अतोन्यबोधकस्वभाव चे च्छब्दो न तदन्यबोधकतया कल्पयितुं शक्यः । अतो न शब्दानां स्वतः केनाप्यन सम्बन्धः । तथापि संकेत एव तत्र तत्रायें धिय मादधाति ।________________
सेश्वरमीमांसा महि दृष्टे नुपपन्नं नाम । आर्यम्लेच्छादिभाषादिषु चैकस्यैव शब्द. स्थानियति दृश्यते । किश्च - यदि शब्दार्थयो स्वाभाविक स्सम्बन्धः, तदा व्युत्पत्तेः पूर्वमपि शब्दो 2 गमयेत् । सम्बन्धज्ञानाभावा सस्यपि सम्बन्धे धूमादिव नगमयिष्यतीति चेत् ? तत्र कोसौ सम्बन्धः? न ताव कार्यकारणभावादिकं, असम्भवात् । नाप्युपश्लेष लक्षणः, अदर्शनात् । नच तुल्यवद्वयपदेशेन तदवगमः, प्रत्यक्षतो वर्णायात्मना सास्नादिमदात्मनाच भेदावगमेन तदसम्भवात् । यदि च शब्दार्थयो रुपलेष इष्यते, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटन पूरणे स्याताम् । नापि स्फोटाख्य शब्दो वर्णाद्यात्मनाच विवर्तत इति तादात्म्यं सम्बन्धः, वातिरिक्ते त्वदभिमते शब्दे प्रमाणाभावात् । न ताव गौरिति शब्दोच्चारणे गकारौकारविसर्जनीयातिरिक्त कंचन शब्द शृणुमः । शब्दा दर्थ प्रतीम इत्येकवचननिर्देशा देक पदमिति कण्ठोक्ते रनेकेभ्यो गकारादिभ्यो ऽधिकं शब्द मुपलब्ध वन्तो व्यवहार इति चेत् ? तन्त्र परिषदासम्भाविताएं - एकेयं परिषदित्यादिष्वपि पुरुषाद्यतिरिक्त परिषदादितत्वपरिकल्पनप्रसंगात् । योग्यानुपलब्ध्या तद्बाध इति चेत् ? तुल्यम् । अयोग्य स्तीसाव स्विति चेत् ? तर्हि परिषदादितत्व मपि तथाविधं कल्पय । कथं वा ऽयोग्य मुपलब्धम् । प्रत्येकसमुदाययोगप द्यादिविकल्पानुपपत्त्या वर्णानां वाचकत्वासिद्धौ गल्यभावा तदतिरिक्तः कश्चि दर्थप्रत्यय हेतुः कल्प्य इति चेत् ? तत्रार्थ प्रत्याययिष्यन् किमिति वर्णा नुचारयसि । अर्थप्रत्यायक स्फोटाभिव्यक्त्यर्थ मिति चेत् ? स्फोटमभि व्यञ्जयन्तो वर्णाः किमेकैकश स्समुदायतो वा क्रमेण युगपद्धति परावृत्य पश्य । अतो यादृशे वर्ण स्फोट स्ते अभिव्यक्तु मिष्टः, तादृशै रर्थ एवाभिव्यज्यता, किमन्तर्गडुनास्फोटेन । तदेतन्मन्दाकिनी मनादृत्य मरीचिकानुधावनं, यत्सकललोकप्रत्यक्षां वात्मिकां वाचं विहाय भत्यन्ता परिदृष्टस्या नुपयुक्तस्या अंतुल्ययोगक्षेमस्फोटाख्य शब्दस्य कल्पनम् ।________________
१८
शास्त्रमुक्तावली । यद्यपि वैखयतिरिक्त मवस्थात्रय माप्तग्रन्थे प्वभ्यधायि, तथापि वाचकत्वे तन्नोपयुज्यते । भावनादिभेदे तदुपयोगात् ॥
यत्त " स्फोटत्वं [वर्णसमुदाय ] वर्णसंघस्थः " इति महाभारतवचनं, तेनापि न प्रत्यक्षविरुद्धं प्रत्यस्तमितसमस्तवाचकविकल्पो पप्लव स्त्वदभिमत स्फोटाभिहित अपितर्हि वर्णाश्रयार्थस्फुटीकरण शक्तिः । अन्यथा वणाध्यायाधिष्ठानभूतो निर्विशेष स्स्फोट इत्युक्ते कथं देवता त मात्मान मभिमन्येत । वर्णानां वाचकत्वशक्तिः स्वदधीनेति तु समक्षसम् ।
अत एकेन चका क्रमनियमेन समुच्चार्यमाणा वी एष पदम् । नच तदा तदर्थों वा छाचि ध्यस्तः, अबाधितरवात् । मच तयो स्संकेत मन्तरेण सम्बन्धं पश्यामः । नच बोध्ययोधकभाव एव सम्बन्धः , तनिमिराभूत सम्बन्धप्रश्ने सएवेत्युक्तावात्माश्रयप्रसंगात् । प्रत्यक्षानुमानयोश्च बोधकयो योधकत्वातिरिक्तस्य सम्बन्धस्य दर्शनात् । भतः परिशेषात् संकेत एव देवदत्तादिशब्देषु बोधनौपाधिकतया दृष्टो न्यत्रापि स्वीकर्तव्य इति । अतएव तद्हणा पूर्व मर्थप्रत्यायकत्वासम्भवा दस्य शब्दस्या य मर्थ इति व्युत्पादय देवदन इति सकतमेव पुरस्कुर्वन्ति । प्रयोगश्च भवत्ति-विप्रतिपन्नाः शब्दा स्साकतिकाः, वाचकत्वात, ढित्यादिशब्दवदित्यादिः । यद्धा तत्र दर्शना दित्यस्या य मर्थः, तत्र-कर्मत्वे । दर्शनात्-श्रुतेः । तथाह्यत्पनास्था र्थस्य पचा नामकर्म समामनन्ति । यथा- “अनपहतपाप्मा वा अहमग्यना हितनामा नाम मे धेही” ति । अतः पदपदार्थसम्बन्धः पौरुषयः ॥
इतश्व
॥२॥ सू - अस्थानात् ॥ १.१.७॥ (पू-२)
" तद्धेदं तव्याकृत माखीद तन्नामरूपाभ्यां व्याक्रियत " इति रूपाणामिव नाम्नामपि, अस्थानं प्रलयः,- श्रयते । नत्र वर्ण________________
सेश्वरमीमांसा । स्वरूप प्रलय उच्यते, नामशब्दस्य वाचकाकारकढ़त्वात । तदाका र [क] शब्दस्यच प्रलयो वाचकत्वप्रलयएव । नवात्र घाच्यप्रलया द्वा चकमलयोक्तिः, घटादिषु विनष्टेषु तन्नाम प्रध्वंसादर्शनात् । विनष्टेषु नरेषु नामशेषत्वप्रसिद्धेः । अविनष्टेच पुरुषे नामान्तरकरणेन पूर्वस्य नामधेयस्प गतत्वव्यपदेशात। अतो नाम्नः प्रलय स्तस्य पूर्वाभिधे य परित्यागएव । इतश्च
३ ॥ सू - करोति शब्दात् ॥ १-१-८॥(पू. ३) " नामानिकृत्वे " ति करोतिशब्दश्च दृश्यते । नचैप प्राक्तनस्य नाम्नः प्रयोगमात्रे घटादिषु दृष्टः; अपितु देवदत्तादीनां संकेतकरणे । सथोपबृंहणेपि “नापरूपंच भूतानां कृत्यानांच प्रपंचनम् । वेदशब्दे भ्य एवादी देवादीनां चकार सः॥” इति रुपनाम्नोरविशेषेण क रोतिशब्दः प्रयुक्तः । उपबृंहणान्तरेपि “ निर्मम " इत्यकरो दित्यर्थकम् । ततश्च यथारूपेषु जगत्कर्नुः स्वातन्त्र तथा नाम स्वपीति सकृदुचारिता स्करोतिशब्दा निश्चिनुमहे । भपिच " सर्वाणि रूपाणि विचित्य नामानिकृत्वे" ति त्वाप्रत्ययवलेन समानकर्तृत्वं पौर्वापर्यपहायते । तस्मा दौत्पत्तिक स्सम्बन्ध इत्ययुक्तम् ।
इसश्च
॥ ४ ॥ सू - सत्वान्तरेच योगपद्यात् ॥ १.१-९॥ (पू - ४)
सत्वं - जन्तुः । गौरित्येवैकःशब्दः सानादिमध्ये ससो न्यस्मिश्च वागादौ युगपद्धद्धिं जनयति। यद्यपि पदान्तरसमभिव्याहारे प्रतिनियतविषया धी र्जायते, तथाप्येकपदोच्चारणदशायां तावन्मान श्रवणदशायां वा न विशेषो निर्धार्यते, तत्कस्य हेतो रथस्य सम्बन्ध नियम स्तस्यास्तीति । नन्वेकं पदं शृण्वन्ननेकार्थी व्रप्रतिपद्यत पवे ति चेव । तकि वर्णकं भनिर्देशव मन्यते, अनेकपदश्रवणेवा न्य.. खोर्थ सगलति । स्मरत्यर्थमिति बेत ? किमदेतुकं स्मरति । में________________
शाखामुक्तात्रको । तोभिधत्तेषा स्मारपति वा ने काने वार्था नेकपदं । संकेतोपाधेश्च नियमो दृष्टः । तस्मा सर्वत्र भवितव्यं संकेतेन । अथवा सकृदुचारित शब्दः पदान्तरसमभिव्याहारपरामर्श युगपदने कार्य मभिवते । यथा - “शर्करी पादजिह्वाभ्या मक्षिरोगी विवर्जये " दित्यादि । कथमन्यधा लेपकाव्यं कवयितारः परिष्कुर्युः। यदा - यदा गान्दोग्धीति कश्चिस्प्रयुक्त तदेवान्यो गां कृषतीति, तदयमेकपब गोशब्दो युगप स्परस्प रं विरुद्धे ध्वर्थेषु प्रयुज्यते । यद्येकेन सत्वेनास्य प्रबोधकावल क्षणस्तम्बन्ध स्स्वाभाविकस्या न तद्विरुद्ध प्रयुम्पेत, अस्वाभाषिकत्वेतु एकत्र बहुषु वा यत्र यत्र संके जस्तावत्सु प्रयोगो युक्तः । एकमेवच नामा कर संकायमान मन्पदपि परयामः । आर्यम्लेच्यभाषामुच नि मम्।
॥५॥ स - प्रकृतिविकृत्योच ॥ १-१-१०॥ -१)
दधिशब्दस्थ इकारो दध्यवेत्ति विकिपत इस्यन्धशिष्यत । ततो दधिशब्दस्य वर्णविकारेणा न्यथाकरणं दृष्टम् । अन्यथाकरणंच नाम्नः पौषयावं । नचात्र गावीगोण्यादिव द्विकृतिरबाचिकेति वाच्यम् । प्रकृतिविकृत्यो ईयोरपि यौपद्यात् । अभियुक्ताएवहि केचि दबदधी ति प्रकृति प्रयुंजते, तत्रैवाथें दध्यत्रे स्पपरे तदानीमेव विकृतिम् । तव संस्कृतयोनीनां प्राकृतादिभाषाणा मिव दधिशब्दप्रकृतीनां दध्यादिशब्दाना मनादित्वं दुर्थचम्।
इतश्च॥६॥ सू - वृद्धिश्च कर्तृभूम्नास्य ॥ १.१.११॥ (-६) नकैवलं वर्णान्तरभावलक्षणं वैकृत, भपि [ प्रकृतितयाभिमतस्य ] अस्य - विकृतिशब्दस्य, कर्टभूम्ना, वृद्धिलक्षणोपि विकारो र. श्यते । बहुभिः प्रचलेन बा केनचितुच्चार्यमाणः प्रकृतित्वेनाभिमत________________
सेश्वरमी मौसhot roads……
शब्द उपचिताकार उपलब्धः । ततश्च व्यापारेणो पचिसोय स्लोनुप चिता द्भिन्नइति सता धी ने शक्तिहेतुताका, गाव्यादिवत्साहपमा श्रेणा प्युपपत्तेः । तत्तन्नयावेनचाचापि न स्वाभाविक स्सम्बन्धइति । पण्णां क्रमात पाभिः परिहारमाह ।
॥७॥ स् - समन्तु तत्र दर्शनम् ॥ १-१-१२ ॥ (सि-१) तुशब्दः परिहारपरः पक्षस्य व्यावृत्त्यर्थः । “ सत्र " - संकेते । यद्यथाभिमतार्थ वाचकत्व दर्शनं, सत् - कस्मिंश्चिदथै स्वाभाविक सम्बन्ध सदसद्भाबयोस्लमं । नहि सहकारि विशेषादापद्यमान मर्थक्रियान्तरं सहकारिनिरपक्षा मन्यत्र शब्दशक्ति प्रतिरुणद्धि । यथा रेखाविशेषस्य संकेतादविशेष बोधकत्वेपि स्वतः परज्ञापनशक्ति नावति तथेदापि । तेन नदहनदृष्टान्तः । प्रकृतेच यथोपलंभ स्वभावसह कार्यादिति नियमात् । भत पव भार्यम्लेच्छादिभाषासु वाचानियति रिति नियूंढ़ा ।
यापुनरुक्तं - शब्दार्थ सम्बन्धस्व स्वाभाविकरवे व्युत्पत्तेः पूर्व मपि बोधकत्व प्रसंग इति । तदसत, सम्बन्धज्ञानस्य सहकारिस्यात् । भन्यथा सांकेतिकस्वेपि कल्टमसंकेतशब्द संकेतज्ञाना पूर्वमेवार्थ गमयेत । अन्वष व्यतिरेकाभ्यां न ज्ञानस्य सहकारित्वं निश्चितमिति वचनं तुल्यं । कोबसम्बन्धः, कथंचात्रज्ञानस्यान्चय व्यतिरेकाविति घेत ? बोध्यबोधकभावएव सम्बन्धः, तज्ज्ञानस्य सहकारित्वं व्युत्पत्ति पर्यालोचनया सिद्धं । सा व्युत्पत्तिः कार्यार्थ सिद्धार्थवा। प्रथमं ताद ज्ज्ञा यमानशब्दस्था विशेषबोधकत्वज्ञाना पूर्वमर्थ विशेषप्रतीति ने जायते, यांधकत्व ग्रहणात् पश्चादुपदशादिनाया अय शब्दोऽस्पार्थस्प बोधक इत्येवंरूपेण तज्ज्ञान समनन्तर व्यत्पन्नस्य परमयुक्ता तस्मा देनशब्दा तदर्थप्रतीतिजायते, इन्द्रिय लिंगयोरिव सम्बन्ध तरंच किचिन्न दृश्यते, अतो बोधकत्व ग्रहणमेव अर्थज्ञानापयिक________________
शास्त्र मुक्तावली । मन्वयव्यतिरेकावसितं । सांकेतिकेष्व सांकेतिकेषुवा शब्देषु भस्य शब्दस्या य मर्थ इति व्युत्पादयद्भि रपि न संकेतः क्रियते, ज्ञाप्यते घा, अपि स्वयं शब्दो स्य चोधक इति व्यपदिश्पते । अन्यथा स्वेच्छया संकेतकरणे सर्वस्य शब्दस्य सर्वत्र प्रयोगप्रसंगात् । तस्य च लोके निवार्यमाणत्वात् । बहुनां च यथा यथं संकेते लोकस्य परस्परवातीनभिज्ञत्वप्रसंगाच्च । तथा - भयं गोशब्दवाच्य इति वदन्तः पूर्व ममुकेन संकेतित इत्यपि न वदन्ति, तथाविधस्य कस्यचित्संकेतयित्वाप्रसिद्धः । स्वयं चापरि ज्ञानात् । सांकेतिकेष्वपि भाषाशब्देषु वृद्धप्रयोगमात्रमेव व्युत्पाद्यम् । नतु सन्नपि संकेतः, तज्ज्ञान मन्तरेणापि उत्तरोत्तरेषां व्युत्पित्सूना मर्थप्रतीतिदर्शना दविरोधाच्च । तदेव मादिमां द्वितीयां च व्युत्पत्ति पोलोचयद्भि चाँधकत्वग्रहणमेव शब्दस्य स्वार्थप्रत्यायने सहकारी ति निश्चीयत इति ततः पूर्व मानवगतिः परस्ता रुचावगति रुपपद्यते ।
यत्पुन स्सशब्दानां सांकेतिकत्वसाधन मनुमान; तम्कि प्रत्यु च्चारणं संकेतं साधयति, उत प्रतिमय, यद्धा साधारणेनादौ कदाचि स्केनचि त्पुरुषेण संकेतः कृत इति । नाद्यः, अशक्पाबात । संकेतकरणार्थशब्दप्रयोगस्यापि संकेतापेक्षत्वात । अत एव म द्वितीयः, भाषाणां चहुपुरुषसाधारणत्वभंगप्रसंगाच्च । नापि तृतीपः, जगदादिसद्भावे प्रत्यक्षानुमानयो रप्रवृत्तेः । शास्त्रत स्तसिद्धौ सत एव शब्दार्थसम्बन्धानादित्वस्यापि सिद्धेः । नन्वेवं सति म्लेच्छादिभाषासु का वार्ता, नहि तत्रापि प्रत्युच्चारणप्रतिमादिसम्भवः, अत स्सर्वभाषानादित्वं सर्वसांकेतिकत्वं वाप्रसक्त मिति चेन्न; - सर्वभाषागादित्वे ऽ स्मदिष्टस्य साधु भावात्, परेष्टस्य वा पौरुषेय बुद्ध यादिप्रामाण्यस्या सिद्धेः। पैशाचमागधादिभाषाभवत्वनादि रादि मतीवा, तन्मयस्तु बौद्धाहताद्यपदेशग्रन्थ स्तत्तत्वकृत इति तैरेवोक्तं, प्रसिद्धं च । नचेह सथेति वक्ष्यते ।________________
सेश्वरमौमांसा। वस्तुतस्तु विशेष ब्रमः । संस्कृतयोनितयैव तावत्माकृतादी भ्यभियुक्त रनुशिष्यन्ते । नचैवं संस्कृतस्य काचि योनि ईश्यते । प्रादेशिकानि पामरपरिगृहीतानि च तानि । इदन्तु सार्वत्रिकं सत्प रिगृहीतं च । अपभ्रंश इत्येव तेषां व्यवहारः, अस्यतु संस्कृत मित्येव । तदा [था ] हुः- " शास्त्रेषु संस्कृतादन्यदपत्रंशतयोक्त” मिति । नचात्र कश्चित्संकेतयिता स्मर्यते । तेषुतु सन्नपि न स्मये तां, अवान्तरापभ्रंशपारम्पर्यण स्वरूपनिष्पत्ति रुपपद्यते । इहत यदि खंकेतपिता स्यात्, तन्मयस्य वेदसन्दर्भस्यापि स एवान्यो वा कश्चित्कर्तावश्यंभावी, सच स्मर्तव्यत्वे सत्यस्मरणा नास्तीति वक्ष्यामः । एवमनादी संस्कृते वर्तमाने अन्यासां उदयविलयभाजां भाषाणां सम्भवः । नचैव मिदापि तत्तत्पदविशेषाणा मुदयन विलयन सद्भावा त्कालक मेण वेदसन्दर्भस्वापि विप्लवइति शंकनीय; सर्वत सम्प्रदाया बिच्छेदात , व्याकरणाद्यंगोपांगैस्सुरक्षितत्वाच्च । अन्तिमयुगवैयाकुलीच न वैदमत्यन्ता या स्कन्दति । विशिष्टदेशवासिभिश्च महर्षिभि युगान्तरे पुनर्यथावद्वेदः प्रवर्त्यत इति न कश्चिद्दोषः । अतोन्यत्र संकेतेन बोधकत्व दर्शनेपि वृद्धव्यवहार पारम्पर्य व्युत्पन्नस्य संकेतपितृ पुरुषसम्भावना रहितस्य संस्कृतशब्दराशे न सांकेतिकव मुत्प्रेक्षणीयामिति ।
यच्च नाम्नः कर्तृदर्शन मुदाहारिः तदपि न तन्नामादिमत्त्वानादित्वयो म्समं, नत्वादिमत्वैकान्तम् । यथाभूतसंस्थानविशिष्टस्य पू’ वस्मिन् कल्पे यन्नाम, उत्तरस्मिन्नपि कल्पे तथाभूतसंस्थानविशिष्टस्प तदेव नाम क्रियते । तत्र यद्यपि संस्थानादिनि बन्धना स्ते ते शब्दाः, तथापि शोधन (?) संस्कार (रेपि ] विशेषलाभात “अनपढ़तपाप्मावा अहमस्म्यनाहित नामा नाममेघेही” त्याम्नातम् । सच संस्कारः पूर्वपूर्व रुद्रादिप्रयुक्तेनैव नाम्ना निर्वत्यतइति नापूर्व नामकरणम् । स्मृतिरपि वेदशब्दभ्य एव नामरूपव्याकरणं व्याचष्टे -________________
शास्त्र मुक्ताब छौं। “सर्वेषान्तु सनामानि कर्माणिच पृथक्पृथक् ॥
वेदशब्देभ्य एबादौ पृथक्संस्थाश्च निर्ममे ॥ " इति । वाचकानुसन्धानपूर्विकाच वाच्यसृष्टि राम्नायते . " सभूरिति पाहरत, सभूमिमसुजत ।" इति । मत श्रोतं नामकरणदर्शनमपि तजन्नाम्ना प्रवाहानादितया प्युपपद्यमानं कान्तत सांकेतिकर्ता स्थापयितु मलम् ।
यत नाम्नः प्रलय अयतइति, तबाह -
॥८॥ स् - सतः परमदर्शनं विषयानागमात् ॥ १-१-१३॥(सि-३)
प्रलयदशाया मपि तजातीयवाचकतये श्वरबुद्धौ सतएव नाम्नः केवल मदर्शनं, घाच्यस्य तदानी मनारम्भात , यदातु - कल्पान्तरे पुन स्तजातीयं वाच्य मारभ्यते, तदा तस्यैव नाम्नः पुन देशनं स्यात् । यथा कुण्डले विलीने कुण्डलनाम न दृश्यते पुनः कुण्डले कृते सदेव नामा गच्छति, एवमिहापि । यत्त घट (यावं] ध्वंसइति तरिक घटनाम तदानी तस्मिन् द्रव्ये वर्तते । निमित्तव्यावृत्या तदपि व्यावृत्तमिति चेत् ? किं तावतातिरिक्त मधीमहे। रूपविभागेहि नामविभाग स्तदभावे तब तन्त्र प्रयुज्यतइत्पभिप्रेत्य " स दन्त व्या कृतमासी तन्नामरूपाभ्यां व्याक्रियत" इत्याम्नातम् ।
करोतिशब्दं निर्वहति -
॥९॥ स . प्रयोगस्य परम् ॥१.
१.१४॥ (सि-३)
केवलं प्रयोगस्य वाचकोयं “ नामानिकृत्वे " त्यादौ करोतिशब्दः । वेदशब्देभ्यो नामानि चकारे’ त्युपदणात् । वाचकप्रतिसन्धानपूर्वक वाच्यसृष्टयाम्नान स्योदाहतत्वाच्च । नचामुख्यः स्यात , स्वतन्त्रस्य यथापूर्वकरणेपि कर्तृत्ववाचो युक्तं रनपायात् ।________________
सेश्वरमीमांसा
पत्त्वनेकार्थशब्दानां नानार्थ प्रत्यायनादियोगपद्यं तबाद -
॥१०॥ सू · आदित्यव द्योगपद्यम् ॥ १-१-१५ ॥ (सि ४ )
यथैकस्या दित्यस्य प्रभारूपशक्त्या युगपदेव तत्सम्बन्धि नाना यंप्रकाशनं, तथैकस्यैव गोशब्दस्य सम्बन्धसादृश्य पुरस्काराभावेनानन्यथा सिद्धप्रयोगवशा दनेकेष्वर्थेषु शक्तिभेदसिद्धे यथाविव तत्त दर्थेष चोधजननं न विरुद्धम् । न कस्य युगपदनेक सम्बन्धमात्रं वि. बद्धं , सर्वत्र दर्शनात् । नचानेकसम्बन्धनियमः, आन्धनदहनादिभि रनेके धूमादे स्सम्बन्धनियमोपलम्भाव । अतएव नाप्यने कबोधनम् , धूमादे रादित्यचक्षुरादेश्च युगपदनेक बोधकत्वप्रसिद्धेः। तद्धदेव विसद्धानेकबोधकत्वमपि न विरुद्धम् ।
ननु - सामग्रीभेदा त्तत्र स्यात्, अत्रतु न तदिति चेन्नः - अत्रा पि तत्तद्विवर्तिपदान्तर समभिव्याहारादि सामग्रीविशेष मुपजीव्य तत्तदर्थ विशेषबोधनात् । यदात्वकं पदं श्रयते तदानेकार्थे शब्दे विवक्षित विशेषानिश्चया त्सन्देग्धि पुरुषः । नहि वह्निमुपाददाने क. स्मिश्चित्पार्श्वस्थः प्रथम पाकार्थ प्रकाशार्थ भशकार्थ घेति सन्देग्धीति तावता बस्स्वाभाविक्यस्तास्ताश्शक्तयः पराधीनास्युः । विष्फारिता क्षाश्च युगपदेकयैव सामग्रथा प्रदेशभेद नियतान्घट तदभावादीन विरुद्धान् जानन्ति । नच तंत्र सामग्रीभेदः, तदसिद्धेः; युगपदनेकेपां ज्ञानानामनुत्पत्तेश्च । सम्बन्धग्रहणा ग्रहणाभ्याथ पुरुषभेदेन नियतानेक बोधनमनुमा नेपिटं । अतो नसाइतिकत्व निबन्धनमिदं योगपद्यम् ।
यत्त विकृतिपदानामनादित्वं नोपपत्रमिति तबाह ।
॥ ११ ॥ सू- शब्दा [ वर्णा] न्तरमविकारः॥३-१-१६ (सि५)________________
शानामुक्तावली। यो विकारत्वेन निर्दिष्टो दध्यादिशब्दः, सतु दधिशब्दा मछब्दान्तरम् । एत दुक्तं भवति । दधिशब्दो दध्यशब्दश्चो [ दधिदध्य शब्दावु] भावप्पनादी, तत्प्रयोगश्च प्रतिनियतविषयः, तत श्वानन्ता नां प्रतिपदोपादानस्य दुश्शकत्वा त्सोकर्यायौल निकापवादकल्पनया प्रकृतिविकृतिवदनुशिष्टं । एवं पदान्तरेष्वपि । अत एव व्याकरणा न्तरेण प्रकृतिविकृतिवैपरीत्यमपि न शंकनीयम् । सोकोपायभेदेन हि नानाव्याकरणोत्थानम् । नच सादृश्या प्रकृतिविकृतिभाव रश
यः, वैपरीत्यस्यापि प्रसंगात् । सदृशेष्वपि दधिकुन्दादिषु सद भावात, असदृशेष्वपि गोमयवृश्चिकादिषु तत्सद्भावात् ।
यत्त वृद्धिरूपविकारदर्शनं, तबाह ।
॥ १२ ॥ सू- नादवृद्धि [:] परा ॥ १-१-१७॥ (सि ६ )
अय मभिप्रायः, नात्र वाचकस्वरूपान्यथाभावलक्षणा वृद्धिः प्रत्यक्षेणोपलभ्यते, अपितु रसादिष्विव तीव्रत्वादिलक्षणा, साथ नादशब्दाभिधेया वर्णेष्वेव सामग्रीविशेषा भवति । नच तावता बोधकाकारे कश्चि द्विशेषः, मन्दतीव्रादिभावानादरेण वर्णविशेषक्रम नियमादिभिरेव वाचकाकारव्यवस्थापनात् । इति ।
सदेवं षण्णां पभि इत्तरं दत्तम् । अथ वाचकापौरुषेयत्वे हेतव उपन्यस्यन्ते ।
॥ १३॥ सू - नित्यस्तु स्या दर्शनत्य परार्थत्वात् ॥ १-१-१८॥(सि-७)
वाचक शब्दो नित्य स्स्यात् , नतु सांकेतिकः । कुतः १ दर्श नस्य परार्थत्वात् । दर्शनं - प्रयोगः । वाचकप्रयोगस्य परप्रत्यपार्थत्वा दित्यर्थः ।
एत दुक्तं भवति । पुरुषोहि समयं कुर्व अस्मि वयं शब्दो अया संकेतित इति परं प्रत्याययेत् । तत्र संकेत्यमानशब्दव्यति________________
सेश्वरमीमांसा रिक्तै सधै शब्दैः प्रागेर संकेतिता भवितव्यं, संकेत्यानामिव वेषामपि चोधकस्वात; एवं तद्ध्यत्पादनार्थशब्दान्तरे वपीत्यनवस्था । भतो न कदाचिदपि परप्रत्ययो जायेत । अत्र [ तो] वृद्धव्यवहारे व्युत्पन्नशब्दान्तरं पुरुष प्रति कश्चि च्छन्द स्संक्येत्येत, कथं तत्र विवदेत, भविरोधात् । नच वृद्धव्यवहारे संकेतग्रहः, चोधकत्व ग्रहणमात्ररूपत्वा दित्युक्तम् । एवं पूर्ववृद्धाना मपीति पाचको न सांकेतिकः ।
भवतु के पांचि पलदाना मनादि व्यवहारः, केषांचि संकेत स्सम्भवति, तदुभयसंबलनंच चंदे शंकितुं शक्पं, तबाह -
॥ १४ ॥ स - सर्वत्र योगपद्यात् ॥ १-१-१९ ॥ (सि - ८)
सर्वत्र - देशेकालेच, सर्वेषां शब्दानां । नद्येतस्मात् कालारपर मांशब्दः प्रवृत्तइति घयमनुस्मरामः । नच केनचि संकेतितस्यैक स्य शब्दस्य सर्वदेशवर्तिभि ग्रहणमुपपद्यते, येन सर्वत्र प्रयुज्येत ।
भयस्यात , सांकेतिकेधु शब्देषु लिंगवचनविभक्तिकृत्तद्धितसमा खादयोनुशिष्यन्ते प्रयुज्यन्तेचवृद्धः, भवस्म्गकतिका सांकेतिक संव लनं शक्यमिति, तबाह
॥ १५ ॥ म् - संख्याभावात् ॥ १-१.२० ॥ (सि-९)
नोते शब्दानित्या एतेतु सांकेतिकाइति लौकिकैः परीक्षकैः पाणिनि कात्यायनपतअलिप्रभृतिभिर्वा शब्दमनुशासद्भि स्संख्यानं क्रियते । यच्च सांकेतिकेम्वपि शब्देवप्रकृतिभूतेषु प्रत्ययानुशा सनं, तदपि तथैव वृद्धव्यवहार पारम्पर्य मुपजीव्य । तच्च यथादर्शनं टोकमात्रएव द्रष्टव्यम्।
ननु पाणिन्यादय एवाचार्यामतभेदेन देशभेदेनशब्दान् कांविद्धि कल्पयन्ति, “कोपश्शाकल्पस्य”" पडूपाचांदेशे " इत्यादिषु ।________________
शानमुक्तावली
जतः केषांचिच्छन्दामा पुरुष मतिभेदमूलत्वात्काचित्करवा त्सांकेतिकरख पुनयामः, ततश्च सर्वानाश्वास इत्यत्राह -
॥ १६ ॥ सू - अनपेक्षात् ॥ १ - १ - २१॥ (सि १०) विकल्पानुशासनस्य संकेतानपेक्षत्वात् । नक्षत्र शाकल्यादे स्स वेत उपदिश्यते, अपितु मतम्, सञ्चानादिपेपि वैकल्पिकेषु केषुचि. दभिमते रुपपद्यते । पूजार्थच कचिदाचार्यान्तरकीर्तनम् । देशभेदो पाधिकोपि प्रयोगोऽनादिरेव ज्ञाप्यते, विपर्यये प्रमाणाभावात् । प्राचा देशाभिधानस्य यस्य पदस्या चामादिङ् भवति, तद्धसंज्ञं भवति, तत्र “वृद्धाच्छ” इति छप्रत्ययः, तेनच भोजकटीय इत्यादि पद निष्पत्तिः। तच्च पदं तदर्थविवक्षया सर्वत्र प्रयुज्यन्ते, न केवलं प्राचा देशे । एष मितरबापि । अतो नानन सांकेतिकसंघकन शंका।
अथ स्यात् , योगिनां नानाशरीरपरिग्रहः कीर्यते - “ भात्मनो मै शरीराणि बहूनि मनुजेश्वर । प्राप्ययोगवल कुर्या तैश्च सवा मही चरेत" इत्यादिभिः। ततश्च कश्चिद्योगीवा महायोगेश्वरी हरिरेव वा ऽनन्तानि शरीराणि परिगृह्या द्यतनप्रयोज्यप्रयोजक वृद्धादिवत्स्वयं - व्याजहार, व्यवजदारच । तत्राद्यतना बालाइव जगदादिसम्भवा स्तवीः प्रजाव्युत्पाद्यन्ते । एवमयमीश्वरोपई प्रवृत्त स्सर्वशब्द व्यवहास। तेच न्यायाचार्यमायाव समयादय इति । तबाह -
॥१७॥ सू - प्रख्याभावाच्च योगस्य ॥ १-१.२२ ॥ (सि. ११) इंशस्य, योगस्य, प्रख्याभावात् , प्रकृष्टा ख्यातिः- प्रख्या , प्रत्यक्षादिभिः प्रसिद्धिरित्यर्थः । नावांचीनेषु नानादेहपरिग्रहपर्यवसि तं कशिद्योगं पश्यामः । अनुमानंच योगिना मीश्वरस्य च नास्तीत्युक्तं, समर्थयिष्यतेच शारीरके । अतः परिशेषा तथाविधातिशये शास्त्र मेय प्रमाणं स्यात् । तच्चेच्छास्त्रं प्रमाण, कृतं प्रामाण्यान सांकेतिकत्व________________
सेश्वरमीमांसा । संरम्भेण । भयाप्रमाणं, कृतं प्रत्यक्षाद्यगोचरा सम्भावित साहशा तिशयः मूलसांकेविकत्वात्यानेन । यस्तु परमास्तिक परिग्रहादेव वेदप्रामाण्य तन्मूलंच पारमेश्वर यो गातिशयं पुरस्कृत्य सर्वशब्दानां सांकेतिकत्वं व्यात , न ताव लेन खह वेदप्रामाण्पादौ विवादः । सांकेतिकत्वन्तु प्रमाणाभावाद्विपर्यये प्रमाणसद्भाचाच प्रतिषेधामः ।
इतश्च -
। १८ ॥ सू - लिंगदर्शनाच ॥ १-१-२३ ॥ (सि- १२) साझानित्यत्वे दिगदर्शनात । “ तस्मैनून मभिद्यवे वाचा वि. नित्ययः। वृष्णेचोदस्वरुष्टतिम् । " इत्यन्यपरमपि नित्यत्व मनु यदति । तदेतत्संकेताभाचे लिंग भवति। नहि वर्णमात्रं वाक्छब्दे. नोच्यते । कचटतपादिनिर्देशस्या प्रत्याय कावाभावात, तेनरूपेण बाचकत्वाभावे वाक्दावाच्यत्वात् , अनन्वयमसंगाच । अतो। धंप्रत्ययजन के पदंवा वाक्यंवा वाचेति परामृश्यते । तत्रायपक्षे सिद्धस्सं केताभावः। द्वितीयेतु पदस्य सांकेतिक वे वाक्यनित्यत्वा सम्भवा दाक्षिप्तः ।
ननु - श्रुतिप्रामाण्ये सिद्धे तदर्थवाधात्म्पनिवन्धन पूर्वपक्षोत्थानं, ततश्च तदप्रामाण्पसाधनमिति व्याघातः । श्रुतिप्रामाण्य मनभ्युपगच्छत वायवोत्तरं दीयतहत्यारमाश्रयश्च । मेवं, युक्तिविशे पस्थ] मूले पूर्वपक्षे प्रमाणतया सिद्धान्त्यभ्युपता श्रखिराप संवादि नीत्यनुग्राहकतया श्रुत्युदाहरणात् । सत्परिहारार्थच सिद्धान्ते श्रुत्पुप पादनात । एव मन्यत्रापि द्रष्टव्यं । नचात्मनिवाह विशेषः, बेदाधि करण पूर्व पक्षे एत दधिकरण सिद्धान्तेच परैरपि अत्यनु प्रवेश
भाषणादिति ।________________
शास्त्रमुक्तावली । येतु वर्णनित्यतापर मिदमधिकरणं वर्णयन्तिः तेषां निरर्थकमिदमधि करणम् , वर्णानाम नित्यत्वेपि पूर्व पूर्व पुरुषोच्चारित क्रम सजातीय क्रमेणैवो तरोतरेषा मुच्चारणमिति पुरुषस्वातन्त्रवाहितानादिव्यवहार उपपद्यते । यथा वाच्यस्य घटादेरनित्यत्वे.पि तज्जातिसंगीताकारणा नम्यव्यभिचारपरिहारः, तथावाचकेपि तत्तद्वर्णादिजातीय संगृहीताकारण उपुत्पत्ति रविरुद्धा । ननु-वाच्य वाचकेच संस्थानातिरिक्ता जाति भवद्भि नभ्युपगम्यते, तत्कथं दृष्टान्तो दाष्टन्ति के गति रिति । उच्यते, यादृशेन संस्थानादिना परेषां जाति रभिव्यज्यते, तादृशेनैव सांवृष्टिकेन तत्तद्वयवहार इति किमत्र दुष्पति । यस्य तु जाति संस्थानाति रेकिणी स कथं तयैव [ संग्र] वर्णनित्यता मभिनिविशते । तत्त जातिकविशेषोच्चारितानां तु तत्तजातीयवर्णानां यथाव्युत्पत्ति तदर्थ बोधकरवमिति नार्थप्रत्ययेपि वर्णनित्यतोपकरिष्यति । सिद्धान्तेच वर्णस्वरूपनित्यत्वोपपादनमपि न वाचकानादित्वोपपादकम् । म्लेच्छा. दिभाषा स्वद्यतनश्च यथारूचि क्रियमाणेषु सांकेतिकेषु शब्देषु वर्णा गादित्व मिच्छतामपि पुरुषस्वातन्ययानुप्रवेशस्या भ्युपगमात । शडदस्वरूपोत्पत्तिविनाशयोश्च सृष्टिप्रलयप्रकरणादिषु बहुशः प्रपंचिपवन दुस्यजत्वात् ।
यचेदं परेषा मापेक्षवार्तिकं - " यद्यनित्यत्वपक्षोपि शब्दादेवा वगम्यते । भन दिव्यवहारश्च नित्यत्वं किं न साध्यते ॥” इति । न तस्यापि सम्यश्चं समाधि पश्यामः, “क्रमः क्रमवता” मित्यादेः प्रतारणायमानत्वात् ।
ननु महापलयेन वेदानित्यतां परिचोद्य, परिहतं शारीरके - " समाननामरूपत्वा चावृत्तावप्पविरोधो दर्शना त्स्मृतेश्च" इति । वत्र कथं न वर्णानित्यतां परिहरिष्यतीति मस्यते । उच्यते, नहि तव वर्णानित्यतामात्रेण वेदानित्यत्वं शंकितं, अपि ताई प्रवर्तकस्य________________
सेश्वरगीमांसा । प्रजापतेः प्रलया प्रवर्तनीयस्या चित्परिणामविशेषगुणभूतस्य वेदाख्य शब्दराशे. स्वाधार परिणतिविशेषविलयेन प्रवर्तयितु मशक्यत्याच बेदानित्यावं परिचोदितम् । ईश्वरेण पुन स्तजातीयताव दियष्टया समाहित मिति ।
संकेता दर्शना दन्य काले न्यत्रापि सम्भवात् । धातु यथापुरं सान्न सांकेतिकतागिरी ॥ सजातीयेषु वर्णेषु विजातीय क्रमान्धयात ॥ व्युत्पत्ति दृश्यते तत्र नित्यानित्यकथा वृथा ॥ सांकेतिकेषु शन्देष वेदानां पौरुषेयहा । नान्तरीयकसिद्धेति तंनिरासो य मर्थवान् ॥ पदनियतया बदनित्यत्वं न प्रशास्महे । सदनित्यतया प्राप्ता निषेद्धव्या त्वनित्यता ॥ १६ ॥ इति शब्दनित्यताधिकरणम् ॥६॥
अथ वेदस्या र्थप्रत्यायकताधिकरणम् ।
१॥ सू - उत्पत्ती चावचना स्यु रर्थस्या तन्निमित्तत्वात् ॥
॥१-१-२४ ॥ (पू. १) पदपदार्थसम्बन्धे पुरुषापेक्षानिराकृता, पदसमुदाय रूपसन्दभेतु सदपेक्षा निराकरिष्यते । इहतु पदानां पदार्थेषु स्वाभाविकशक्ति सद्भावेपि लोके दृष्टविजातीयेथें प्रमित्युत्पादनशक्ति स्तिीत्याशंक्य परिद्वियते । यद्यपि पदपदार्थयो रोत्पत्तिकस्सम्बन्धः, सच वृद्धव्य वहारे व्यवसितः, शब्दप्रामाण्यंच सामान्येन प्रतिष्ठितं, नच प्रामा ध्ये संघादाद्यपेक्षा, अतएवच घदे पदपदार्थज्ञानंच जायतएव, नच बादादाधादिकमपि दृष्टं; तथापि वेदवाक्यानां लोकोत्तरेष्वर्थेषु प्रामाण्यं________________
६२
शानमुक्तावको।
नसम्भवति, विवक्षित विपरीत व्याश्यपहतत्वात् । तथाहि- यम पि कर्बादे शरीरादिमत्त्वदर्शना दशरीरकर्बनुमानपि विशेषविरो धादिदोषः, तथापि कर्मणां साध्यसाधनभाष भानंत]गवा दृष्टेनवा के नबिहारणेति नियमसिहो नापूर्वद्धार फलसाधनत्वं युक्तं । यथाशश स्य निर्षिषाणत यवोपलम्भा द्विन्ध्याटव्यां शशाशृंगवंत इति वाक्यं सा क्षारप्रत्यक्षादिवाधा दर्शनेपि विपरीतव्याप्त्या [नास्पदंभवति, तथात्रापि । न हि विम्याटव्या म्मद मुदितो मातंगगण स्तिष्ठतीति वाइपमिव तत्र शृंगवन्त शशास्संचरन्तीति वाक्यं विश्वसिमः । भथ राजसेवादिनपेन देवतामीतिद्वारा फलप्रदत्वं सम्भावितमापि वषे, तत्राप्युक्तन्यापेन देवता शब्दितानां चेतनविशेषाण.मलौकिकमतिशयंशब्दःप्रतिपादयितुं न शदना ति। न हि शशविशेषस्य विषाणवत्त्वादी पुरुषविशेषस्य सहस्रनेत्रत्वादी सर्वज्ञत्वादौवा कंचन विशेष पयानः। नहि शुक्ति विशेषेषु मुक्तासम्भव इव पौश्चि दृटपू यमर्थः, येन तत्प्रत्ययादाश्चाए सस्पात । तस्मा दयोग्यपदसमभिव्पाहार रूपाणि वेदवाक्यानी स्पनपेक्षत्व लक्षणम्प्रामाण्य मनुभवितुंनाई नीति पूर्वः पक्षः । तदेत दभिनयाद (उत्पत्तीचा वचना स्स्यु पर्थस्या तन्निमित्तत्वादिति) " उत्पनाच" - सम्बन्धोत्पत्तिकत्वा दोसत्यपि । यद्धा - ज्ञानोत्पत्ती सत्यामपि । “अवचनास्स्यु:"-शदास्तएवसातोपि वेदवाक्यरूप समुदाये लोकोत्तरस्यास्प न प्रमा पकास्म्युः । “हथेस्पा तन्निमित्तत्वात् " - शब्दार्थस्य शब्दमाव निमित्तावाभावा दित्यर्थः । यदि शब्दार्थस्य शब्दमानमेभ निमित्तं स्पालदा शृंगवन्तःशशाइति [वाश्यम्] शब्दोपि शश शृङ्गलत्ता निमित्तं स्यात् । अथ तत्र शशान्तरदृष्टव्याप्ति रनुसरणीये स्पटाकिको तशेषो न वक्तुंशक्यः? तर्हि शब्दस्य दृष्टानुसारो पपेक्षणीय इत्पमपे क्षत्व लक्ष गप्रामाण्यासम्भवा दयुश्ते बादनालक्षणोर्थो धर्मइति ।
तत्र राद्धान्तमाद
|| २ ॥ सू - तद्भतानां क्रियार्थेन समानायोर्थस्य तन्निमित्तत्वात् ॥________________
सेश्वरमीमांसा।
ना तद्भूतानां " - तस्मिन्नर्थ भूतानां, संकेतासम्भवा दोधकतयैव लब्धप्तत्ताकानां । “क्रियाथैन” - अलौकिक चतुर्वर्ग रूप श्रेयस्सा. धन क्रियार्थेन । “समाम्नायः”- समुच्चारणं, सपरिकर क्रियारू. पार्थ चोधनार्थमेव समुच्चारणं । उच्चार्यमाणाई घेदिकाक्षान्दा अली किक चतुर्वर्ग रूप श्रेयस्साधन रूपक्रिया बचना उपलभ्यन्ते । " अर्थस्य तनिमित्तत्वात् " - विलक्षणस्य वाक्पार्थस्य शकनिमित्तत्वातं, व्याप्ति परामर्श निरपेक्षत्वा दित्यर्थः ।
तथादि- वाक्या दर्थप्रत्यये व्याप्ति परामशापेक्षा स्तीति घदता कि तदभावे बोध एवनोत्पद्यत इत्यभिप्रेत, उतरेत्पन्नापि व्यापक निवृत्त्या बाधित विषय इति । नाथः, दिनकर विम्यचौर्यवद श क्यत्वात । स्वदुक्तं वाक्यमपि न किंचिद्दषण बोधयतीति वैयात्य स्प दुर्वारत्व प्रसंगाच्च । शशविषाण वाक्यादाप बोधो जायत एव । नापि द्वितीयः, भसम्भाषित कारणदोषस्य हारपत्रस्प ज्ञानस्य व स्त्वंतर दृष्टासाधारण स्वभावाभाववस्तु विषयतामात्रेण बाधे पाप कोष्ण्प प्रत्ययस्यापि भंगप्रसंगात् । सर्वभावानामपिहि शक्तयः प्रा तिस्विक प्रमाण सामथ्र्य सिद्धा ना पनवमईन्ति । शशविषाण वाक्ये तहिकावार्ता ? वद्विशत्यवाक्य इच दृचाधः । भदृष्टेतु यदिवक्ता नातः, तदाकारणदोष शंकाग्रस्ततया दृष्टव्याप्तया बाध्यतेव । यदित वक्ताप्रत्ययितः, तदाकस्तत्र यात्तद्विषयाप्तवचन[]भावादेव तत्परि त्यागं । अन्यथा मुक्ताशुक्ति वृत्तान्तमपि दूरस्थो बाधेतैष । पर्व ताशरीरकर्तृता विषयं सामान्यतोदृष्टमाप जीवेदिति चन्नव्याप्तिपरामर्श मूलत्वा दनुमानस्य, न्याप्तेश्च वैपरीत्यग्रस्तत्वात । वाक्येत्वाकांक्षा सन्निधि योग्यतानामेव परामर्शनीयत्वात् , तावतैव विशिष्ट ज्ञानोत्पत्ती बहिरंगेनानुमानेन बाधायोगात् । अन्यथा प्रत्य क्षेपि बाधप्रसंगस्य दर्शितत्वात् । ज्वालैक्य प्रत्यक्षादिकन्तु सम्भव दोपजातीयतया बाध्यते ।________________
शासमुक्तावी । ननु- योग्यतैव विपरीतव्याप्ती नसिद्धयति, यथा - भनिना सिंचे दित्यादौ, इति चेन्न; - तत्र प्रत्यक्षेणैव बाधात । इद्दतु तद भावात् । यत्रच चाधो दृश्यते यूपादित्यादौ, तत्रचा योग्यत्वं चाधं वेच्छामः । तात्पर्यणतु प्रामापं चश्यामः । एत दुक्तम्भवति । पत्र साक्षात्प्रत्यक्षेण बाधः, यनवा भिन्नमभिन्न मियादावव भावा भावाम्मगा साक्षाद्विरोधः, न तस्यप्रमाणता । यत्रत तथाविधा योग्यत्व रहिते दिलक्षणस्वभावे सिद्धे कार्येचा वस्तुनि शब्दाद्धिजन्म, नतत्रानु मानेन बाधः । प्रत्युततेनैव तस्य बाधोयुक्तः । भतएया गमवाधित मनुमानाभासोदाहरण मिति ।
भय शशविषाणवाक्य प्रतिबन्दी मुद्भरति
॥३॥ सू- लोके सनियमाप्रयोग सनिकर्ष स्यात॥१.१.२६॥(सि-२) पोयं लोके सन्नियमा प्रयोगः - असद्भूतशशविषाणादिवर्जनेन प्रयोगः; स. सन्निकर्ष यात; सन्निकर्षमूलत्वात, निकृष्यत इति चा। [ सनिकृष्टं वस्तु ] प्रत्यक्षादिदृष्टविषयोहि लोके वाक्यप्रयोगः, शशविषाणादिकन्नु न केनचित् दृष्टं सदिति न तरिषयः प्रयोगः । एक्तु स्त्रोतु वा योग्यानुपलम्भनिराकृत विषयतया शशविषाणादि वाक्य मप्रमाणं, ननु विपरीत (मात्र ) चलनेत्यभिप्रायः।
पन - परै भर्भाषितं, पदसंघारमानो वेदाः, पदसंघाश्च पुरुष कृता दृष्टाः, यथा नीटोत्पलाद्यर्थविषयाः, अत एतेपि कृत्रिमा इति तविशेषप्रदर्शनार्थ मिद सूत्र मिति । तब ताप दस्मि प्राधिकरणे सूत्र मिद मसंगतं स्यात्, माघ पदसंघातस्य पौरुषेयत्वशंकयो स्थान पर रभ्युपगतम् । तादर्थं निवेशश्च न स्पष्टः । तथा च सति पदाधिकरण मप्पत्र निवेशितव्यम् । व्यवधान पदयविपः रिणामश्च परैरेव कण्ठोकः । तथाच काशिका - " सनियमादिति पदव्यवाहिता प्रयोगशब्दो कोक इत्यस्यानन्तरं सम्बन्धनीयः । वदय________________
सेश्वरमीमांसा। मर्थः - लोके, प्रयोगः, सनियमः - सम्यनिवन्धनात्मको युक्तः , चक्षुरादिसन्निकर्षात; नतु वेदे, अतीन्द्रियार्थत्वात् । इदंच विषरिणामध्यवदितकल्पनयो साधारण मप्युदाहरणं विपरिणाम स्पोक्तत्वात व्यवधानमाबोदाहरणत्वेनोक्तमिति बेदितव्य" मिति । अध्याहारानन्त्यगुणकल्पनादिकं कथंचि त्सहामहे । विपरिणामन्तु सूत्रान्यथाकरणरूपं कथं मध्येमहि । नच नियमशब्दो निबन्धे प्रसिद्धः । सन्निकर्षशब्दस्पच समनन्तरसूचे बच प्रयुक्तस्य विरूपार्थकल्पन मयुक्तं, तत्र - " सन्निकृष्टाः - कालार्वाचीनाः" इति व्याचख्युः, इहतु “लौषिके प्वर्थेषु प्रत्यक्षेणार्थ मुपलभ्ये " ति चक्षुरादिसत्रिकर्षविवक्षा प्रत्पविन्दन् । अस्मदुक्तयोजनाया स्तू पचारमा सद्य मिति ॥
येपुनरिह पदतत्संघातपदार्थ प्रभृतीनां वाक्यार्थप्रत्ययं प्रति हे तुक्त्वा नुपपत्या सांकेतिकोचा 5 मूलोवा वाक्यार्थप्रतीति रिति पूर्वप क्षेण बेदापामाण्य माशंक्य ; पदैरभिहिताः पदार्था वाक्यार्थ बोध यन्तीति वाक्यार्थस्य समूलतया वेदनापाण्यमाहुः । तेषामिद मधि करणं मीमांसाशास्त्रा दहिष्ठमेवस्यात् , न्याय विस्तरखाध्यस्था दस्या थस्य । तथाहि - अष्टादशतु विद्यास्थानेषु धर्मविद्यास्थानानि चतुर्दश । अवापि हादशोपदेश शास्त्राणि । मीमांसा न्यायविस्तर इत्युभे हेतुशास्त्रे । तयोरपि न्यायविस्तरस्सामान्यन लोक व्यवहार विरुजू सपरिकर प्रमाणचिन्ताया मधिकृतः । आत्मादि प्रमेयचि न्तनन्तु शारीरक कृत्यमपि शास्त्रस्य परमप्रयोजन प्रदर्शनाय क्रियते । तेनैव प्रत्यक्षादिव दागमाख्यमोप प्रमाण साधनीयम् । तदर्थ वाक्यार्थस्य समूढतापि वक्तव्या । एवं स्थिते धर्माधर्मेश्वरादि प्रमेयेषु वेदाख्यशब्दस्य प्रवृत्तिप्रकारो न्यायविस्तर सिद्धसामान्य लक्षणे स्तर्कविशेपै मीमांखया साध्यः । ततश्चास्मि प्रमाणलक्षणे सामा न्यन शब्दप्रामाण्यस्थितेपि घेदस्या प्रामाण्यं यथास्या तथैवपूर्वपक्षी________________
शास्त्रमुक्तावली। वक्तव्यः । सिद्धान्तेपि वेदप्रामाण्योपयुक्तं वक्तव्यं, नस्वनधिकृत सामान्यं शब्दप्रामाण्यादिकं । यदि परम्परोपकार मात्रेण तदप्यत्र साधनीयं स्पात , तदा पृथक्पृथक्संख्पातं न्यायविस्तरापं विद्या स्थानं निर्विषय मेवस्यात् । प्रमाण सामान्यादेरपि परम्परयोपकारिणी 5 चिन्तनीयत्वा पात्तात् । किंच कार्यकारणभावा द्यभावे श्रेयस्ता धगत्वादिकं सर्व दुर्वचनं, अतस्तदर्थ मप्पधिकरणानि कल्प्यानि स्युरिति । अत इद मधिकरणं न वाक्यमा प्रामाण्याथ । तथाचोक्तं तत्वरत्नाकरे मीमांसा प्रस्तावे-“तबच प्रथमाध्याये गदेच सर्वप्रामाण्येन अन्येषुच न्यायविस्तर प्रामाण्योपजीवनेन वैदिकेषु वाक्यविशेषात्म केष्व पौरुषेयत्व निवन्धनं प्रामाण्यं यथावर्णितं, तथाशब्दे प्रादीदृशामे” - ति। स्थापितश्चायमास्माभि ायपरिशुद्धौ।
अन्यै स्वाहुः - शब्दसम्बन्धस्य शृद्धव्यवहारसिद्धत्वेपि न घेदि. का पदसमुदायो वृद्धव्यवहारे व्युत्पन्नः, पदसमुदायान्तरस्यैव वृद्ध व्यवहारे व्युत्पन्नत्वात। नचान्यत्र व्युत्पन्नोन्यत्रार्थ बौद्ध मलम् । यपिच पदाना मावापोद्धापवशा पदार्थेषु शक्तिनिष्कर्षः, तावलेषा कांक्षादिवशा समुदायान्तर पन्वितप्रतीतेः, तथाप्याकांक्षादिनिरूपणे प्रमाणान्तर मन्वेषणीयमिति प्रमाणान्तरागोचरार्थ विषयवैदिकपद समुदायस्प विशिष्टधीजननासामर्थात् , प्रमाणान्तरगोचरस्वेच पौरु. पेपतादिशं काग्रस्तत्वा दनपेक्षवलक्षणं प्रामाण्यं न सम्भवतीति पूर्वः पक्षः । सिद्धान्तस्तु - लोकव्युत्पत्तिमूलैब वेदेपि वाक्यार्थावगतिः, पदपदार्थयो रनन्यत्वात् । यद्यपि चावापोद्धापयशा पदार्थस्वरूपमात्रे शक्तिनिश्चयः, तथाप्यन्विताभिधापिपदसमुदायान्तर्गतानां पदाना मवितैकदेशभूतपदार्थेषु शक्तिनिश्चय इति लौकिकानामेव पदानां वैदिकपि वाक्ये स्थिताना कार्यान्वितबोधन मविरुद्धमिति ।
अयमपिं पक्षो दत्तोत्तरः । तथाहि - शब्दप्रामाण्ये सामान्यतः स्थिते बेदप्रामाण्यमात्रमेव हात्र पूर्वपक्षे प्रतिक्षेप्तुं युक्तं, न च तदव________________
सेश्वरमीमांसा
१७
शक्यते । यदि व्युत्पन्नसमुदाया समुदायान्तरत्वमात्रेणा बोधकत्व मिति दांक्यते, तदा प्रतिव्यवहारं पदाना मावापोद्धापभेदेन समुदा यान्तरथसिद्धः परस्परवातानभिज्ञो लोकः स्यात् । अथ व्युत्पन्नपद समुदायैकदेशतया प्रागेवावापोद्धापवशाद्गृहीतशक्तीनां पदानां समुदायान्तरे प्यन्वितबोधकत्व मिति लोकव्यवहाराविरोधं मन्यसे, बर्दै प्ययं न्यायः केन वारितः । प्रमाणान्तरा योग्पाविषयत्वा दिति चेन्न। -लोकपि श्रोतुः प्रमाणान्तरागोचरं द्वीपान्तरविशेषं यदि कश्चि द्भयात् , अन्वितप्रतीति न स्यात् । अथ तत्र प्रमाणान्तरयोग्यत्व मस्ति, घक्तुश्च प्रमाणान्तरसिद्ध इति वषे ? तन्न, अनुपकारक वात् । नदि व्युत्पन्नानां पदानां स्वशक्यान्वितप्रतिपादने श्रीतु कतुर्वा प्रमाणा न्तरयोग्यत्वादिकं क्वचि दुपपुज्यते । अकांक्षासत्तियोग्यतार्थ लोके प्रमाणान्तरं, वदेतु तन्नास्तीति चेत् ? लोकेपि श्रोतुः प्रमाणात राप्रति पन्ने कथ माकांक्ष दिनिश्चयः । पदानां पदार्थानां च प्राचीनत्वा दिति चेत ? तुल्यं वदपि ।
अथ मतं, अलौकिक कार्य मपूर्वाख्यं वेदवाक्यप्रतिपादितं, तत्र न लोके व्युत्पत्तिः, क्रियाकार्यमावविषयत्वात्तस्याः; अतोन्विताभिधानशक्ता नामपूर्वकार्यान्वितं स्वार्थाभिधानं न लोके व्युत्पत्तिसिद्धं, इत्यबोधकत्वमेव चदस्योते । एवं तहीहशस्य पूर्वपक्षस्या नुतरमेव सिद्धान्तः देयतानुग्रहा दतिरिक्तस्पा पूर्वस्प कल्पने प्रमाणाभावात, तत्कल्पनेपि तद्राच्यत्व कलले निरर्थकत्वात , लिखादीनां च सत्र व्युत्पती पदान्त राणां तदन्वित प्रतिपादनाविरोधात । अव्युत्पत्तौ तु तदन्वितशक्तिविचारस्पानुत्था नात् । अत्रैव च तद्रयत्पत्ता बन्ये न्याश्रयणात् । अन्वपघट्यपरिहाराया पूर्वाख्यवाच्यक्लप्तिः, तत स्तद्वयत्पत्तिसमनन्तरमेव तदन्धिताभिधान मित्यपूर्वव्युत्पत्ति रपूर्वाधिकरण इति भवद्भि रेवोक्तम् ।। अतो बा स्म दुक्सावेव पूर्वपक्षसिद्धान्तौ ।________________
शास्त्रमुक्तावली। सिद्धे शब्दप्रमाणत्वे होकोत्तीर्णषु वस्तुषु । तदसम्भव माशंक्य साधिता श्रुतिमानता ॥ कृत्स्रवेदप्रमात्वाय सामान्या दिह साधितः । न्याय शारीरके क्वापि प्रतिसंस्क्रियते पुनः ॥ न्यायविस्तरसाध्यन्तु नात्र सुचयितुं क्षमम् । नच तादर्थ्य मंतेषु सुवेषु स्पष्ट मिष्यते ॥ समुदायान्तरत्वादि शंकात्यन्तलघीयसी ।
अतोस्मदुक्त एव स्या द्विचारोव समनसः ॥ . इति वेदस्यार्थ प्रत्यायकताधिकरणम् ॥ ७॥
अथ वेदापौरुषेयताधिकरणम् ।
॥१॥ सू - वेदांश्चैके सन्निकर्षे पुरुषाख्या ॥ १-१-२७ ॥ (पू.) पदानां पदार्थेषु स्वाभाविकी शक्ति मुपपाद्य पद्धारक पौह ऐयत्व शंकावेदानां निराकृता । पदानामेव यथा व्युत्पति समभि व्याहारविशेषेण वाक्पभूतानां लोकोत्तरार्थ प्रमिति जनन शक्तिः स्थापिता । इदानी वाक्यद्वारक पौरुषेयत्व शंकानिराक्रियते ।
वैवं विचार्यते-किंवेदवाक्यानि पौरुषेयाणि उतनेति । तदर्थ काठकादि समाख्या विशेषादयः किं सकरीत्वैकान्ताः, टतान्यथा सिद्धा इति।
एवमिह पूर्वपक्षः, यद्य प्यस्मदादीना म्परतन्त्रतयोच्चारणा नवेद कर्तृत्वं, यद्यपि चान्यः कश्चित् कर्तानदृष्टः । तथापि बचनान्तर सा मान्या स्कर्तातावत्सामान्यत संपवते । वेदवाक्यानि पौषयाणि, वा क्यत्वाद, रथ्या पुरुषवाक्यव, दिति । नचात्र स्मर्तव्यस्य कतुरम्मर नवाधः, कणादप्रभूतिभिः कश्चित् स्मरणेन सर्वे रस्मर्यमाणत्वासिद्धेः । स्मरन्तिके महर्षयः -“प्रतिमन्वन्तरं चैपा [पां] श्रुति रन्याविधीयते ।। इति । श्रुतयश्च-“तस्मा द्यज्ञा सर्व हुतः । ऋचस्सामानिजज्ञिरे । छन्दा सिजज्ञिरे तस्मात् । यजुस्तस्मा दजायत” " तस्य हवा एतस्य महतो________________
सेश्वरमीमांसा । भूतस्य निश्वसितमेत यदृग्वेदः, विश्वामित्र सूबतं भवति"“नमऋषिभ्यो मन्त्रकृयः " इत्यादिकाः । काठकं कालापकं पैप्पलादक मित्पादयः समाख्या विशेषादृश्यन्ते । नचैते " तेन प्रोक्त " मिति प्रवचननिमित्ताः, बहुषु प्रवक्तृचु सत्सु विशेषनिर्देशा सम्भवात् । असाधारणेनहि विशेषण युक्तं । नाप्याद्य प्रदचननिमित्ताः, नित्यत्व पक्षे तदयोगात् । ना प्यन्य शाखा प्रवचन व्यवच्छेदार्थः, महर्षीणां शाखान्तर प्रयचना भावे प्रमाणाभावात् । अद्यापि केचिदनेकशाखाप्रवचनं श्यते । अतः परिशेण ‘कृते ग्रन्ध’इति कर्तृविशेष निमित्ता इति निश्चीयन्ते । कृतेश्चासाधारण्यं युक्तं । यो यथापुरुषान्त रोच्चरित महमपि तथैवो चारयामीत्यभिसन्धिमन्तरेण स्वातन्वेचण स्वेष्टक्रमेण पदानि वाक्य तया नियध्नाति सहि वाक्येषु कर्तेत्युच्यते । नचेदृश स्वातन्त्रच मे कस्मिन्वाक्ये नेकेषांदृष्टं । यदृच्छया सम्भवदपि नमहति ग्रन्थरा शौ। अतः कर्तृविशेषणं युक्तम् ।
तदयंसूत्रार्थः । एके - वादिनोमहर्षयः । वेदान् - वेदानपि । चमत्याहुः । “ कमैके तब दर्शना “दिति दानां पौरुषेयत्व प्रक मात्समुच्चय शक्त्याचानुषंगो ज्ञायते । पुरुषाख्याच, सन्निकर्ष - पुरुषे न्द्रियादिसत्रिकर्ष, वेदार्थस्य, ज्ञापयति । सन्निकर्षमूलत्वात्सन्निकर्षःकृतकइत्यर्थः । सच काकाविनयेनोभयत्रान्वेतव्यः । सन्निकृष्यतइतिवा सन्निकर्षः । तेन अर्वाचीनत्वमर्थलब्धम् ।
॥ २ ॥ सू - अनित्यदर्शनाञ्च ॥ १-१-२८ ॥ (पू-२) अनित्याः - उत्पत्तिविनाशवन्तः, वेदार्थतया अयन्ते । तथाच - " बबरः प्रावाहणिरकामयत ” “ कुसुरुविन्द औद्दालकिरकामयत : स्पेवमादयः । प्रवाहणस्थापत्यं प्राचाहणिः, उद्दालकस्यापत्यं औद्दा लकिरिति शब्दनैवामीषा मुत्पत्तिः प्रतीयते । अतएवचा नित्यत्व मर्थकब्धम् । सदिद्दाहालकि प्रभृतीनां जन्मनःपूर्वमयं ग्रन्धो न विद्यतेचे________________
शास्त्रमुक्तावली। स्कथमयं नित्यस्स्याव । विद्यतेचे कथमयं वाक्यार्थ स्सम्पत्स्यते न हि तदुत्पत्तेः पूर्व ‘सोकामयते ’ ति निश्पिते । नचा कामयतेत्पर कामयिष्यत इत्यर्थः । तथास्वेपिवा तदुत्पत्तेः पश्चा दर्थव्यायातः । च कालभेदेन शब्दस्यार्थभेद कटतियुक्ता । तदेव मनिस्वार्थसयो श्रवणा दनित्यावेदाः ।
नन्वस्तु वदानामनित्यत्वं स कत्रकरवथ, तथापि महाजनपरिग्रह निमित्तभूताप्त प्रामाण्येन वेदाना मप्रामाण्यशंका निराक्रियतामिति चेत् ? नैवं, शास्त्रमन्तरे णाप्तप्रणीतत्वे प्रमाणाभावात् । शास्त्रप्रामाण्य निश्चयपूर्वकरवा च्चाप्तप्रामाण्या ध्यवसायस्य । नावं विधेयर्वाचीनाना मुपलम्भशक्ति रस्तीति सम्भावयामः । प्रत्युत विप्रलम्भा द्यभिप्राय मूलतबैव सम्भाव्यते । ततएव परिग्रहोषि भ्रान्तिमूलए वस्पात् । ईश्वरस्पचा नुमाना गोचरत्वं शारीर के वक्ष्यति । अतो यद्यपि वेदवाक्य वाक्यार्थप्रत्ययो जायते, यद्यपिच - प्रत्ययानां स्वतः प्रामाण्यं, तथ पि स कर्तृकेषु वेषु तत्कदोषशंकया बाध्यतइति कथं चोदना लर णार्थों धर्मइति । तत्राद
॥ ३ ॥ सू - उक्तन्तु शब्दपूर्वत्वम् ॥ १.१.२९ ।। (लि-१,
यत्ताव द्वाक्यत्वा पौरुषेयत्वा नुमानं, तद्विपक्षे बाधकाभावेत निरस्तम् । यदि वेदवाक्पान्य पौरुषेयाणि किं तवापहीयते । कतार मन्तरेणरचना कस्यादितिचत्र - अध्ययनरूपस्य पारतन्वयेण रचन स्याद्यत्वय सर्वस्पोपपत्तेः । स्वतन्त्र पुरुषबुद्धिरचनाया स्सिसाध विषितस्पेन तदभावस्य प्रसञ्जनीयत्वासम्भवात् । प्रमाणसिद्धस्य हि परित्यागः प्रसंजनीयः । महाजनपरिग्रहाभाव स्तस्पप्रखज्यत तिचे? अप्रामाण्यं विवक्षतोमहाजनपरिग्रहमूलतया कतरिसाधित्ते कथं विवक्षितं सिद्धं । यस्तु प्रामाण्यमिच्छन्नाप्तमणीतत्वमन्तरेण बहुजनपरि ग्रहोनस्यादिति मन्यते; तंप्रतित्रमः, यद्यनादितयैव वक्तृदोष शंकानि________________
सश्वरमामासा।
७१ वर्तते, ततएवच परिग्रहः सेत्स्यति? किमनेगान कल्पितेन । नहि चोदनावाक्यान्नजायते प्रत्ययः । नच संशयात्मा । नच प्रत्यक्षादि भि धितम्भवः । अतः कारणदोष शंकामात्रमेव निराकर्तव्यं । तत्र वक्तुरभावादेव यदि वक्तुदोषानस्युः, कि मनेन वपतृदोषण कल्पितेन । यथाहि कारणाभावादेवं तदोपरहिता परमेश्वरतुद्धिः प्र. मेतिवस्सिद्धान्तः, एवं वक्तुरभावादेवासम्भव दक्तृदोषावेदाः प्रमाण मिति किन पश्यसि । एनयादिशाविपक्षेचाधनास्ति, अस्तितु पक्षेवा धकं । नाखो कर्ताऽस्मदादिभिरुपलभ्यते । बुद्धादिग्रन्धेतु परम्पर पास्मयंते । नच जीर्णकूपा रामदिवदनुपयोगा स्कर्तुरस्मरण मिति चाच्यम्। प्रमाणान्तरागोचर कालान्तरभावि फलसाधन बहुवित्तव्य यकायक्लेशादि पूर्वकम वृत्तिसाध्ये वक्तृप्रत्ययमन्तरेण प्रेक्षावतामनुष्ठा नासम्भवात । जीर्णकूपाविषतु देशोच्छेदादिना पुरुषविच्छेदात्प्रयोज नाभावाच कर्वस्मरणं । इहत्वनन्तैः पुरुषैरस्खलितमाया स्वरवर्णस. न्दर्भ मध्ये परम्परया धीयमानेसति प्रयोजनवतिच कर्तुविस्मरण न युक्तं । अतोवश्यस्मर्तब्यस्प कर्तुरस्मरणादवगम्यते नासावस्तीति । यत्त शषिकादिस्मरणं, न तदनुष्ठानोपथिकमहाजनस्मरणं। [तदनुष्ठा भोपर्तमहाजनस्मरण । ] नाध्यतृ परम्परया कर्तृविशेषस्य स्मरण तेरपि वक्तुं शक्यम् , अपितु केनचिसामान्यतो दृष्टेनानुमितः कर्ता यौक्तिकैस्तदनुसारिभिश्च कैश्चिदनुम्मयते । अतएव हितेषां कर्तृविशेष विवादः प्रजापतिर्चा पशुपतिर्वा हिरण्यगर्भवेति । परम्परया सर्वत्र समयमाणोदि कर्ताबुद्धादिवन्मन्वादिवञ्च नविहीयेत । अतोत्यादर्श नचापितमेवेद मनुमानं ।
यत्त महर्षयस्स्मरन्तीत्युक्तं, तत्तविपरीतं । सबैरपि महर्षिभि वेद ८ नित्यत्वमेव घुष्यते । तदाहमनु:
" अनादिनिधना खेपा वागुत्सृष्टा स्वयंभुवा । भादौवेदमर्यादिव्या यतः सर्वाः प्रवृत्तयः ॥ " इति ।________________
शाख मुनाविची अतएव " प्रतिमन्वन्तरं चैया श्रुति रन्या विधीयत " इत्ये सुप्यनन्तपु वेदेषु ततत्कालानुरूप धर्मभेदोचित वेदांश विशेष प्रका शनाभित्रायं । धर्मश्चकालादिभेदेनमात्रयाभिद्यत इतिस्मरन्ति
“ अन्ये कृतयुगे धमा नेतायां चापर तथा । "
भन्येच दापरे धर्मा स्तथा चान्ये कलो युगे ॥” इत्यादि । अतो महर्षयोपि कारं न स्मरन्ति । किन्तु प्रतिषेधन्ति । कृतज्ञा स्लत्यवादिनश्च महर्षयः परमोपकारकं घेदवक्तारं सन्तमपि निषेधन्तीति साइस मिदम् ।
यत्पुन चंदा एव बेदानां सकर्तृकत्व माहु रित्युक्तम् । तद प्यसत् “ अजाहन्वै पृश्नी स्तपस्यमानान् अक्षा स्वयंभ्वभ्यानर्ष” दिति वेदनित्यत्वश्रुतेः । अत एव “ऋच स्वामानि जज्ञिर” इत्यादिकमपि तत्तद्वेदाभिमानिदेवतोत्पत्तिपरम् तादाविकप्रादुर्भावपरंवा । न खल्वीन्चर स्व शक्तस्यापि क्रमान्तरकल्पने प्रमाण मस्ति । प्रत्युत “ यथा पूर्व मकल्पय" दिति न्याय स्सर्वत्र सञ्चारणीयः, प्रागुक्तश्रुतिस्मृ स्पनुसारात् । अत एव ऋषीणां सूत्रकाण्डमन्त्रकृत्त्वमपि प्राचीन कर्मानुगुणं प्रजापतिप्रयुक्तशक्तिविशेषाणां तत्तदधिकारानुगुण मन धीतवेदभागसाक्षात्करणमेव ! तदेवं न वेदकति सर्वदा परतन्त्र पुरुषपरम्पराधीता एव वेदाः । तदेतत्सर्व मभिसन्धाय सूचितम् - " उक्तन्तु शब्दपूर्वस्व " मिति। तुशब्दः पक्षव्यावर्तकः । सर्वेषा मध्येतणां वेदोच्चारणप्रवाहस्य पूर्वपूर्वोच्चारणरूप शब्दपूर्वत्व मुक्तम् ।। भस्मयमाणकर्तृकरवादीनां पदस्य सांकेतिकत्वप्रतिक्षेपनयन दूषणमुक्त प्रायमित्यर्थः । अथवा मरणबाधितस्य कर्तुरनुमानासम्भवा जगत्कार मुपस्थापयन्ती श्रुतिरेव कर्तृसद्भावाप प्रमाणमितिस्यात , ततश्च बेदक। सम्भवं साधयता वेदाख्य शब्दस्य, पूर्ववं-अनादित्व मुक्तस्यादिति स्वय चन विरोधः । यदा याभिः श्रुतिभि चेदानां सकट कन्वं सिसाधयिषसि ।________________
७२
सेश्वर मीमांसा । ताभिरेवतकर्तृतया अभिमतेश्वर व्यापारस्य वेदशब्द पूर्वकत्व मुक्तं । पथा-“वदेनमामरूपे व्याकरोत्सतासती प्रजापतिः ‘सभूरिति व्याहरत्स भूमिमसृजत, स भुव इति व्याहत्सोन्तरिक्ष मसृजत” इत्यादि । तथाव सर्वेषान्तु सनामानि कर्माणिच पृथक्पृथक् ।
वेदशब्देभ्य एवादी देवादीनां चकार सः ॥” इति। यत्ततं को उकादिसमाख्याविशेषाः कर्तृनिमित्ता इति तबाह -
॥४॥से - आख्याप्रवचनात् ॥१-१-३०॥(सि-२)
‘काठकादिसमाख्या । प्रवचनात् - प्रकृष्टा द्वचनात् , निमित्ता देव । प्रकृष्ट हि वचन मद्यत्व इव कस्यचिदेव भवतीत्यसाधारण्या परेन निर्देशः । नहि योग्यानुपलब्धिनिराकृतसद्भावं कार मन्यथा प्युपपन्ना श्रुत्थाद्यपेक्षया दुर्बलाच समाख्या साधयितु मल मिति भावः । किंच कार्त युगाः पुरुषा शत्यतिशया त्सर्वा वेदानधीतवन्तः, ततः कालक्रमेणापचीयमानशक्ती न्पुरुषा नालोक्य वेदा वैदिकंच धर्म मभिरक्षितुकामेन वैयासिकी व्यक्ति मातिष्ठता भगवता वासुदेवेन व्यस्तशाखा वेदा शिध्यानध्यापिताः । एवं प्रतिद्वापरम् । ततश्व यो वेदांशो येनाधीतोध्यापितश्च स तेन विशिष्य समाख्यायत इति व्यासवृत्तान्तविदा सुगमोय मर्थः । तेनात्र शावरमपि संगतम् । पथाह - स्मयंतेचा भगवान् ] वेशम्पायनः सर्वशाखाध्यायी, कठस्त्विमा मकों [ कठः पुन रिमां केवल ] शाखा मध्यापयांबभूवे ति, [स] बहुशाखाध्यायिनां सन्निधावेकशाखाध्यायी अन्याः [न्यां ] शाखा [म ] अनधीयाना, तस्यांच प्रकृष्टरवा दसाधारण मुपपद्यत विशेषणम् ।" इति । एवंच व्यासादिवत्कठादिप्रवाही प्यनादिरिति -नित्यं तेन तेन ससोशो निर्दिश्यते ।
P
ROB यत्त कठादिशब्दा श्वरणविशेषवाचिनः, तत्तचरणः पुरुष -धीयमाना शाखाः काठकं कालापकमित्यादिसमाख्यया निर्दिश्यन्त________________
७४
शास्त्र मुक्तावली । इति कैश्चि नियूंढम् । तत्रापि तस्य चरणविशेषस्य कठादिसंज्ञकपुरुषविशेषप्रवाहविकारेण कठादिशब्दोपचार इतीतिहासपुराण प्रामाण्य मिच्छद्भि रभ्युपगन्तव्यम् ।
यत्त - समाख्यायाः कर्तृनिमित्तता मुत्तम्भयितुं प्राबाहणिरीद्दालकि रित्याद्यनित्यार्थसंयोगप्रदर्शनं, तबाह -
॥५॥ सू - परन्तु श्रुतिसामान्यमानम् ॥ १-१-३१॥ सि ३)
प्रावाहणि रित्यादय शब्दा यद्यप्यपत्यार्थाः, तथापि नानित्यार्थ संयोगः, प्रवाहणोहालक तदपत्यप्रवाहस्या प्यनादित्वात् । तत्र, पर अतिसामान्यमानं - यथा कौमुदगन्ध इत्यादय शब्दा अनि त्येच्वर्थेषु प्रयुज्यन्ते तथा प्रवाहनित्येष्वपि तेषु तेषु पुरुषेषु तत्तद पत्यविशेषात् प्रावाहणि रौद्दालकि रिति केवलं श्रुतिसामान्यमावम् । एवं अतिसिद्धेषु सर्वे वर्षे त्रु रूपेष्वपि केनाच निमित्तेन ब्रीह्यादिविवैकशब्दनिवेशोनुसन्धयः पिता
यत परै र्भाषितं - प्रव [ ह ] तीति प्राणहणिः, बबर इति शब्दानुकृतिः, तेन यो नित्योर्थः तमेवमा वदिष्यतो वायु, अत उक्तं परी अतिसामान्पमात्र’ मितीति । एषा योजना झर्धचायोकेभ्य एवं रोचते, अन्यथा कथ मकामयते त्यस्याप्यन्वयः । तत्रापि चेदा न्तरं कामते, कि सर्वत्रैवं न करप्येत । अर्थवादानामपि प्रत्यक्षाद्यविरुद्धानां गुणवाद मन्तरेण यथाश्रतार्थे प्रामाण्य मुपपादयिष्यामः ।।
किच “ भृगु वै वारुणिः वरुणं पितर मुपससार" श्वेत केतु हरुिणेय आल । तं हपितोवाचे " त्यादिवपत्यार्थ तैव स्वीकर्वव्या, कथ मन्यथा पितृपदसमभिव्याहारः, संवादोदाहरणं वा तद्वदाप्यप यार्थत्वे को दोषः । अत एकरूपं समाधि पश्यता मुभा पत्र प्रवाहनिस्पतया व सर्वार्थवादतया वा अन्यपरत्वेनवा निर्वा________________
सेश्रर मीमांसा । व इत्यपत्यार्थविवक्षाभंगो नुपपन्नः । शारीरकदेवताधिकरणेतु “श. ब्दइति चेत्रातः प्रभवा प्रत्यक्षानुमानाभ्यां” " अत एवहि नित्यत्वं"
समाननामरूपत्वाच्चा वृत्तावप्यविरोधो दर्शना स्मृतेश्च " इति सूत्रत्रयेणानित्यार्थसंयोगपरिहारः, सूत्रकाण्डमन्यकत्वाद्यविरोधः, कल्पान्तरेपि तस्यैव वेदसन्दर्भस्य प्रवर्तन चैतदधिकरणाभिप्रेतमेव प्रसंगा द्विवरिष्यत इति न किञ्चि दनुपपन्नम् । का कथं चोदना प्रामाण्य? “ वनस्पतय स्सत्रमासते" त्याद्यन्मत्त वाक्य प्राय शब्दराशि मध्यस्थत्वा चोदनानां, नहि वनस्पति शब्द निर्दिष्टा भूत संघात विशेषा सत्रमासीरन् ? तदभिमानिनोवा भव द्भि स्तथासंज्ञिताः? अतः कथं तत्संज्ञा घेतना स्सत्र मासीरनिति सम्भाव याम । अतो जरद्वादिवाक्यव दुन्मत्तादि बाक्यमिति, तत एव तदेकराशि चोदनावाक्यमपीति । तत्राह-N epal
॥६॥ -कृतेचा विनियोगस्स्यात् कर्मणः समत्वात् ॥१-१-३२।(सि-४) P
वशंकानिवृत्त्यर्थः । बालोन्मत्तादिकृते चोदनावाक्येसति, अ विनियोगस्यात् । विनियोगोत्राकांक्षा योग्यतासन्निधिभिः परस्परेण सम्बन्धः । एव मिवाह चोदनावाक्य मुपलभामहे - इदं कलय, एभिः करणैः, एतदर्थ, इति । नानामिनासिचे दित्यादिवलोकतो विरोधं पश्यामः । नचा लौकिके कालान्तरभावि फलसाधनत्वे बाध सम्भावनापि । तदेवं परस्परसमन्वितायें पदसमुदाय यद्यमत्तादि कृतत्वशंका, अय मबाधितो विनियोगानस्यात् । तदेव मान्यतार्थ चोदनावर्ग सन्निधियोगे रुमाप्रक्षिप्त काष्ठ लवणभावन्यायन " वनस्पतय स्सत्रमासते " स्यादीन्यपि प्रमाणीकृत्याग्निष्टामादिना सनकर्मणस्सम स्वात, तस्तुत्यर्थ, वनस्पतयोपि नामा चेतनास्सत्र मासत किं पु नरितरे विद्धांसोब्राह्मणा’ इत्युच्यत इति शायरस्सामाधिः।
अस्माभिस्तु बादरायणीय मभिप्राय मनुसन्दधाने रुग्यते-“ तत्तेज पेक्षत" " ता आपरेक्षन्त, " " तंपृथिव्यत्रवीत् " इत्पेवमादीना मभि________________
७६
शास्त्रमुक्ताबली मानिदेवताविषयत्वं - “ अभिमानि व्यपदेशस्तु विशेषानु गतिभ्या?" इति सूवितं । तदेवमिह " वनस्पतय स्सत्रमालते " स्यादिष्वपि वनस्पत्या उभिमानिन्यो देवता एवं सत्रकारः प्रशंसाध मुदाहियन्ते । देवताभि रप्यनुष्ठितोयमर्थः किं पुनरर्वाचीने रित्युक्तहि स्तुतिरति शयिताभवति । वनस्पतिमात्रोदाहरणंतु स्तुतीमन्दं । अपचार्थेनप्र रोचनाचायुक्ता । देवतानान्तु विग्रहादियोगः अधिवं सामर्थ्य म धिकारका शारीरके समर्थयिष्यते । अतः ‘कर्मणस्लमत्वा’ दिति सूत्रखण्डो देवताना म्मनुष्याणांच सत्रादि कर्म साम्यमाह । एवं सत्येषेवा स्मदुक्ताप्ररोचना । यद्धा तिष्ठत्वियमर्थवादाधिकरणखाध्या, पौरुषेयत्वानुमानस्य प्रतिकूल तर्क एवा नेन सूत्रेणोच्यते । वेदे, कृते, प्रेक्षावतां स्वानुष्ठान प्रमित्यंगतया तस्या विनियोगस्यात्, हेतु दर्शनशन्यै ग्रहण धारणार्थानुष्ठानादि स्यादित्यर्थः । कर्मणस्स. मत्वात् , अग्निहोत्रादिकमेव हेतुदर्शन रहितामहान्तोजनाः परिगृहन्ति । तदश्यं न कृतोबेदः । अत स्तदन्तर्गतानां चोदनानामपि वक्तृदोषा सम्भवा प्रामाण्यं सुस्थितमिति सुप्रतिज्ञातोयं चोदना लक्षणार्थों धर्म इति । छाव
आख्याया अन्यथासिद्धेः स्मर्तव्य स्मृत्यभावतः ।। श्रुतिस्मृत्यादिभिश्चात्र पौरुषेयानुमाहता ।
CATE वेदांश्च प्रहिणोतीति श्रयते परमापुमान् ॥ क्रमान्तरविनिर्माण कल्पना च गरीयसी oesmall कालभेदेच मन्त्राणां न शक्ति रपहीयते ॥ यत स्तरसंपरित्यज्य सृजे मन्त्रान्तरं प्रभुः । अत ईश्वर मिच्छद्धि रनिच्छद्भिश्च वादिभिः ॥ इदम्प्रथमता वेदे वनुमातुं न शक्यते । श्रयते नित्य मित्येव श्रुतिशब्दोत्र रूढ़िमान् ॥ साहुश्च सर्वे निगमा नकृत्रिमसरस्वतीम् ।________________
सेश्वर मीमांसा ।
अनितरपरिदृष्टे ध्वस्तवाधेषु वस्तु ध्वखिलनिगमवाचो बुद्धि मुत्पादयन्मयः । सहज मनपवादं मानभावं दधाना स्समजनिषत विष्णो श्शान्ववं शाखनं नः ॥
इति वेदापौरुषेयताधिकरणं ॥ ८ ॥
इति श्री कवि तार्किक सिहास्य सर्व वन्य स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
सेश्वरमीमांसाख्ये धर्ममीमांसाभाष्ये
प्रथमस्या ध्यायस्य
प्रथमः पादः॥ppiters
Ma
h
imiyarina________________
BY
शास्त्रमुक्तावली।
श्री रस्तु । । अथ द्वितीयः पाद: THEDIY
अर्थवाद प्रामाण्याधिकरणम् ।
यदाज्ञाव्यतिपंगेन यद्धा यस्मि समन्वयात ।
प्रामाण्य मथंवादादे स्त मीश्वर मुपास्महे ॥ ॥१॥सू – आन्नायस्य क्रियार्थत्वा दानर्थक्य मतदर्थानां तस्मा दनित्य मुच्यते ॥ १-२-१ ॥ (पू.)
सशिरस्क वेदप्रतिपाद्यकर्मोपासनात्मक धर्मसमुदाये चोदनानां प्रामाण्य मुपपादितम् । तदर्थोपक्षिप्तकारणदोषाद्यभावाविशेषणा र्थवादानामपि प्रामाण्य मुपन्यस्तम् । तदिदानी मुखान्तरेणा क्षिप्य समाधीयते । यद्धा वेदाना मप्रामाण्यं बाह्यहेतुमूलकं निरस्यते । प्रागुक्तास्तु नगमिक्यः पूर्वपक्षयुक्तयो बाह्यहेत्वनुग्राहकत्वेन प्रदर्शि ता इति मन्तव्यम् । किंच - उद्भटापराधोपेक्षायोगात् पौरुषेयत्वा दय स्पष्टतरा दोषाः पूर्व परिहताः, अथ तथैव स्पष्टास्पष्टतरशंकाः परिहियन्त इति क्रमः । तत्रास्मि पादे विध्युद्देशव्यतिरिक्तस्य। कृत्स्नस्य वेदभागस्य सनयोजनार्थबोधनेन प्रामाण्य मुपपद्यते । नामधेयानान्तु विध्युद्देशान्तर्गततया पादास्तरीयता । तत एवानित्य दर्शनादिभिः प्रस्तुतत्वा दर्थवादानाम् । विधिविश्रमेण विधिपरतयाच प्रकृतमनुबदन्त्यर्थवादाः, ता नधिकृत्य विचार्यते । किं ते प्रमाणं नवेति ।
यदव कैश्चि दुक्तं · अस्मि ब्रधिकरणेपि विध्यतिरिक्तानां स. वषा मानर्थक्षं पूर्वपक्षीक्रियते, सिद्धान्तेच स्वाध्यायविधिवशेनार्थव तया भवितव्य मित्येतावत्साधारण्येना भिधास्पते, पश्चा क्रमेण स्तुत्याद्यपयोगविशेष इति वेदितव्यं, तत्र प्रथम मर्थव देषु सिद्धा________________
सेश्वर मीमांसा ।
७९ न्तकथना ताव देवोदात्य चिन्त्यत इति तदसत, नदि सामान्यन दूषणानुयोग विशेष विषयमुत्तरं प्रक्रम्येत । विशेष विषानुपांगेतु सामान्यत समाधान सम्भवेदपि । ततश्च " अत दर्थाना मिति सामान्यनिर्देशोपि विशेषार्थ एव । अन्यथा सामान्य विशेषचिन्ताभ्या मधिकरण भेदप्रसंगात् । अध्ययनविधिबलेन सिद्धा न्तस्थापनं चारविष्यते । ततोर्थवादा एवाक्षिप्य समाधिसिताः । अ साधारणैस्तु हेतुभिः पश्चान्मन्बनाम्नो राक्षेपसमाधाने प्रवास्यतः ।
यच्चान्यैरुक्तं- योहि परमतेवेदान्तानां सिद्धार्थः, सोप्पात्मज्ञान चोदनेक वाक्यतया कार्यप्रधानक इति । तत्समन्वय सूत्रे नि राकरिष्यते ।
यत्पुनरुक्तं - न वेदान्तानां चोदनैकवाक्यता, नचास्मिन्शाने सत्प्रामाण्य प्रतिज्ञा, " अथातो ब्रह्मजिज्ञासे" ति शास्त्रान्तर एव स्थिद्धरिति । तत्प्रागेवैक शास्त्रचोपपादनेन निरस्त । अयंचकबन्ध मीमांसकपक्षो राहुमीमांसकपक्षब दुपेक्षणीयो वेदविद्भिः । आहच वेदार्थसंग्रहे " सर्वमेकं शास्त्रमिति वेदवित्सिद्धान्त " इति । अतो त्रैवलक्षणे कृत्स्नस्य वेदस्य प्रामाण्यं समर्थनीयमिति शास्त्रस्वरूपादि विषयाणामपि वाक्यानां प्रामाण्यं समर्थनीयम् गाणी निन्विवयदि तेषां प्रामाण्यं साध्यते, नभवितव्यं चतुस्त्रया, अथ किनिमित्त स्तहिशास्त्रभेद मन्तरेण प्रमाणलक्षणादीति । उच्यते, नशारीरके । वादविशेषाणां प्रामाण्य साध्यते, अपितु माणानां सतां ब्रह्मणि प्रामाण्यमात्र साधनं । अनिर्धारित विषय विशेष प्रा माण्यं कथं प्रसाधनीयमिति मावोचः सर्वधानयोग प्रसंगात् । सिद्धएव प्रामाण्ये संशय पूर्वपक्ष सिद्धान्ता स्तदर्थ विशेषेषु चर्ति ध्यन्ते । तद्यदि विषयविशेषनियतमेव प्राम.ण्यमिह साध्येत कथं पुनस्संशय सम्भवः ।गामामामगार________________
Co
शास्त्र मुक्तावली । मन्देवमपि विध्येक वाक्यतया बार्थवादानां प्रामाण्यमुपपाद्यते “विधिनात्येक वाक्याया” दित्यादिना, " तत्तसमन्वया" दिति प्रवृत्ति निवृत्ति परत्व मन्तरेण स्यरूपे विश्रमसाधयिष्यते, अतः पूर्वापर विरोधोवा सेवामिहा निकपणंदा प्राप्तमिति । मैवं, इहहिनिष्प्रयोजन मृपावाद रूपतया थंवादागा मप्रामाण्ये प्रवक्ते समयोजन सत्यार्थ विषयतया प्रामाण्यं वक्तव्यं । तबकेषां चिद्विध्यक व.क्यतया स्तु त्याद्यत्वेन केषांचि स्वतः प्रयोजनभूत ब्रह्मप्रतिपादनेनेव सार्थकत्व मिति विभज्योत्तरे वक्तव्ये गढ़ाभिप्राय स्सूत्रकारी प्रामाण्यं यावता सर्वत्र कायतुं शक्यं तदिहासूत्रयत् । विध्येक वाक्यतया तावत्केषां चित्मामाय बक्तव्यं, इतरेषांतूपासन विध्येकवाक्यतया भिन्न वाक्य तया प्रामाण्यानुवचनं, तत्रयोकहेलया वेदाप्रामाण्यवादी निराकर्नु शक्यः, किमस्य सहसा ब्रह्मणोप दिष्टेनेति मन्यानो विध्येक वाक्यत्वमुखेन सार्थकतां समर्थितवान् । अतो न विरोध इति । म तदिहवं पूर्वपक्षः- यद्यपि प्रमाणानां स्वतः प्राप्तं प्रामाण्यं, शब्दार्थ सम्बन्धश्च स्वाभाविका, पदानिच लोकोत्तरमर्थ प्रतिपादयितुं शक वन्ति, वक्तृदोषोपि चंदेदुर्लभः । तथापि तदेकदेशभूते वर्थवादेषु प्रामाण्यं दुरुपपाद, निष्प्रयोजन मृपावादप्रायवाद । तथाहि - " सो रोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं " " सआत्मनोवपा मुदखिदत् " “देवावे देवयजनमध्यवसाय दिशो न प्राजानन् " “वायुर्वेक्षेपिष्ठां देवता” इत्येवमादीन्यर्थवाद वाक्यानि कि विध्युद्देशेनैकीभवन्ति प्र माणं, उतपृथग्भवन्ति । नाद्यः, अनुपयोगात् । यदिहि विध्युद्देश एव स्वार्थ विदधीत पुरुषोपि ततएव प्रवत्स्यति, कृतमर्थवादैः । नामी करणेति कर्तव्यतादि विधेयकोटि घटितं कं चिदर्थमुपस्थापयति । न द्वितीयः, " आम्रायस्य क्रियार्थत्वात् “। यद्यपि प्रमाणान्तराणि स्वविषयावबोधपर्यवसितानि प्रवृत्तिनिवृत्त्यनुपयुक्तमपि शिलाशकलादिकं चौधयन्ति, तथाप्यागमाख्येन प्रमाणेन प्रवृत्तिनिवृत्तिपर्य________________
संवरमीमांसा।
न्ताभिधायिना भावितव्यम् । अन्यथा वक्तृश्रोत्रो बचन श्रवणादि प्रवृत्तिवेयर्थप्रसंगात् । नाच गीतवच्छन्द एव स्वदत इति शृणोति । नच नाट्यच इसात्मततया बदधत्ते । अतः प्रमाणेन सता भागमेन श्रोतृप्रवृत्तिनिवृत्युपयोग्यर्थाभिधापिना भवितव्यम् । ततश्च भूतान्याख्यानमाचे वर्थवादवाक्येषु वायसरदनवाक्ये विव कवा प्रवतेत, कुतोवानिवर्तेत । अतः, “ मतदानां " - प्रवृत्तिनिवृत्त्यन्वयविरहिणां अर्थवादवाक्यानां । " आनर्थक्यं " - निष्ण योजनत्वं । तस्मा दर्थवादवाक्यं, “ अनित्य मुच्यते “। नपुंसकतया सामान्यवचनं सर्वार्थवादसंग्रहसूचनार्थम् । तन्मुखेन कृत्ववेदाक्षेप सूचनार्थं वा । एकदेशमुखेन कृनाक्षेप शारीरकत्रिपाद्यामिया बापि नानुपपन्नः । तब चोक्तं दीपे -“ द्वितीयतृतीयचतुर्थपादेषु कानिचि द्वेदान्तवाक्यानि प्रधानादिप्रतिपादनपराणीतिवन्मुखेन सर्वाक्षेप माशंक्य तान्यपि ब्रह्मपराणीत्युक्तं ” इति । नित्यत्वे वेदस्य प्रामाण्यं समस्ति, अनित्यत्वेवा पुम्प्रत्ययाभावादप्रामाण्यमिति कार्योद्दे शेन कारण मुक्तम् । इह चौपचारिकमेवानित्यत्वं परै रभ्युपगतम् । यथा भाषितं - " यद्यपि नित्यानि, तथाप्यनित्यकार्यमपि कुर्वन्ती” ति । आहच भवनाथः - “नित्यहि हेत्वनपेक्षं स्वरूपे अन्यदपि हेत्व नपेक्ष मर्थे गौणं नित्यं, तन्नेत्यनित्य " मिति । अध्याहारविपरिणामगुणकल्पनादिभि विधिपरत्व माश्रीयेत? अव्यवस्थिति स्यात् । रुद्ररोदनवाक्येहि शिष्टाचारोपन्यासा द्रवद्रोदितव्य मिति कवयेम । पदा- महतामपि तथाविधं प्रमादं प्रकाश्य प्रयत्नेन वर्जनीय मिति । भतो यथारुचि कल्पना दव्यवस्था । अशक्यविधानताच । नहीष्ट विनियोगादिक मन्तरेण विधिमावप्रेरितेन रोदितुं शक्यम् । नय प्रजापविवदात्मनो वपोखेदनं, तस्याश्च स्वय मग्नौ प्रेरणं, ततस्तूवर पशूत्थापनं, तेनच स्वयं यजन मित्यादीनीदानींतनेषु घटते; नच देव पजनाध्यवसानसमनन्तरं स्वेच्छया दिमोह स्साधयितुं शक्यः ।________________
८२
शास्त्रमुक्तावली । भत एव आतीयकानि दूरं गत्वापि नैरर्थक्या सिद्धमापर्यवसिता न्येव । तत्र यदि सिद्ध मर्थ प्रमिमीमहि ततः किम् । यदि च ज, ततोपि वा किम् । किश्च - प्रामाण्ये निश्चिते प्रयोजनवदर्थपर्यवसान कल्पनं, तत्कल्पनेन तनिश्चय इत्यन्योन्याश्रयणम् । नच सिद्धप्रति पादने निष्प्रयोजने सति अतहानेना अयमाणप्रयोजनव दर्थान्तरपरता बल्टप्ति युक्ता । यथोक्तं यामुनाचार्यैः - " नखलु काकाबलोकन मनभिमतमिति कनकावलोकनता कल्प्येते " ति । नच प्रयोजनानु गुणा प्रमाणव्यवस्था, प्रयोजनंहि प्रमाणानुगुणं, स्वविषयावबोध पर्यवसायित्वा सर्वप्रमाणानाम् । अन्यथोपेक्षादिफलेषु तृणकण्टकादिविषयेषु प्रमाणेधू पादानोचितार्थक्लप्तिप्रसंगात । नच तर्हि तृणादिप्रत्यक्षवदेव प्रामाण्य मस्त्विति वक्तुं शक्यं, पुरुषव्यापारनेरथंक्यप्रसंगस्योक्तत्वात । नच तत एव प्रसंगा स्प्रयोजनविश्रमः , भ्रात्यापि तद्भयापारोपपत्ते चीक्षदन्तेयत्तावाक्यस्येव प्रामाण्यस्थापनस्यैवा युफ्तत्वात् । नच वाच्यं, स्वाध्यायविधिना कृत्स्नस्य वेदस्य पुरुषार्थाय नियम्पमानत्वा दर्थवादेष्वपि प्रयोजनेन भवितव्य मिति । शक्यमेवहि विधिना प्रयोजन मुपादीत । नच सिद्धार्थ ज्ञानमा प्रयोजनं, वैषयिकज्ञानव स्वयं स्वादुत्वादर्शनात् । दर्शनेपि ज्ञानमात्रे प्रीत्युत्पत्ता वर्थसत्यताया मनिबन्धात् । नचात्र कार्य दर्शनं क्लप्पित शक्यत इत्युक्तम् । दृष्टार्थत्वासम्भवे चाध्ययनस्यैव वर मदृष्टार्थ कल्पयितुं, नंतु तदलेना शक्यदृष्टक्लप्तिः। अध्ययन विधिश्च नार्थज्ञानपर्यन्त इति साधित मादौ । अक्षरग्रहणस्य प्रयोज नवत्त्व मर्थवादभागाना मर्थपरत्वाभावेपि पारायणाद्यदृष्टेनापि सिद्धयेत् । नच तब प्रामाण्यापेक्षा, शुमादिसमानयोगक्षेमत्वात् । यथाच हुमादीनां स्तोभाक्षराणा मर्थज्ञान मन्तरेणापि ऋगाधभिव्याप्त सामभागपूरणेनं सप्रयोजनता वत्स्य [क्ष्य ] ते , एवं मिहाप्यर्थवादानां अर्थशानेतरप्रयोजनवत्तापा मध्ययनविधेः का हानिः । मचैव मस्त्वि________________
सेश्वरमीमांसा ।
ति वाच्यम, अपौरुषेयस्या नन्तस्य वाक्यराशेः प्रतीति मुत्पादयतो प्यविवक्षितार्थत्वे शिष्टे प्यनाश्वासप्रसंगात । भवतु वा ऽध्ययनधिधे दृष्टार्थत्वबला दसम्भवदृष्टाना मर्थवादानां स्वाध्यायबहिर्भावः । सन्ति चाख्यानरुचीना मुपाध्यायानां मन्दप्रऐचनार्थ मा [ वा ] छापाः । इदन्तनेष्विव ग्रन्थेषु परिग्राह्यतया प्रधितेन केनचि प्रक्षेपाच सदुपझं परिग्रहपारम्पर्योपपत्तिः । एतदपि सूचितं " तस्मा दनित्य मुच्यत ” इति । “ तदेषाभ्युक्ता” " तदुक्त मुषिणे " त्यादीनि चार्थवादवाक्यानि मन्त्रान् संवादयन्ति । अतोप्य वगच्छामो मन्बे. भ्यो वाचीनता मर्थवादवाक्यानाम् । अतः कृत्स्नस्य वेदस्यापौर षयत्वं प्रामाण्यश्च दुर्वच मिति । नचानर्थक्यमावा दप्रामाण्यं, अपितु वाधाञ्चेत्याह -
॥ २ ॥ सू -शास्त्रदृष्टविरोधाच ॥ १ - २ - २॥ (पू-२)
शास्त्रविरोधात दृष्टविरोधा च्छाखदृष्टविरोधाच्चेति प्रत्येक समुदाय परमिदं । द्वौशास्त्रदृष्टविरोधी परिहारसूत्रक्रमसंख्यानुरोधात ।
शास्त्रविरोधस्तावत् “ स्तनम्मनोनृतवादिनीवागि " त्यादिषु । यद्येतद्भतान्वाख्यानमात्र, तदा विद्यमानत्वेपि नैरर्थक्या, दविद्यमानत्वे मृषावादरूपत्वात , स्तेन म्मनः अनृतवादिनीवाक अतस्तेयादिकं नक तंव्यं मित्यनन्वयात , कर्तव्यमित्येवकल्प्येत । सर्वशरीरेषु चेष्टायां वा ङ्मनसयोः प्रधानत्वादितरभूदेन्द्रियैरपि तच्चरितमनुवर्तितव्यमितिवा , निमीलनोन्मीलनादिवत्स्वभावस्य दुरति कमत्वात् तत्करणिना पुरुषे णापि तत्तंबवाहिना भवितव्यमितिवासः । तथाच स्तेनानृतप्रतिषेध कशास्त्रेण विरोधः । नच पोडशिग्रहणादिव द्विकल्पः, प्रत्यक्षान्निषे धात्कल्प्यस्यविधेबलत्वेनातुल्यत्वात् । रागमाप्तमतिविध्यनुपजीवि नो निषेधस्यैव बलीयस्त्वात् । स्तेयानृनयोश्च रागमानत्वात् , तब________________
"
शास्त्रमुक्तावली । चानपक्षितत या विधेरनुदयात् । नियमादेश्चात्रासम्भवात । अतोत्र) विधिकल्पने शास्त्रविरोधस्मौवः, विध्यसम्भवस्त्वर्थसिद्धहति ।
दृष्टविरोधस्तु-“तस्माद्धमएवाग्ने दिवाददृशेनाचिः, तस्मादचिरेवा ग्रेनक्तंददृशेनधूम” इत्यादिषुस्पष्टः, दिवानिशमुभयो रुपलब्धेः । यच्चानेन समयते - अस्माल्लोकादुरक्रम्याग्निरादित्यं गत आदित्य श्च तमिति , तदपि हेत्वसिद्धे मुंषावादः । अतएव तन्मूला अग्नि सूर्ययोर्नक्तं दिवं व्यवस्थितज्योतिष्ट्रेन स्तुतिरपि मृषा, नासत्यास्तुतिरुपपद्यतइति ।
a अथ शास्त्रदृष्टविरोधः - " नचै तद्वियोमानणावा स्मोवयं ना झणावे” ति [ मचेतद्धिोधयं ब्राह्मणावास्मो ब्राह्मणावेति ] ब्राह्मण्यं विशिष्ट माता पितृ सम्बन्धविशेषरूपोपाधिः, सच क्वचि दृष्टः क्वचिदनुमेय इत्येके । मातापितृसम्बन्धविशेषसहकृत चक्षुर्मायो जातिविशेष इत्यपरे । अत उभयेषा मप्येतदृष्टविरोधोदाहरणं । चयन्तु ब्रमः शास्त्रविरोधस्यैवैतदुदाहरणमिति । नहि वयं गवादि वराह्मणक्षत्रियादिविभाग मापाततोध्यक्षयामः, नच रत्नतत्वमिवाभ्यास पाटवादिना । नच देशान्तरागतमुपदेशात्पूर्व मयं ब्राह्मणइति निश्चि नुमः । नच ब्रह्मसूत्रादिलिंगभेदान्निश्चयः, दुष्टशूद्रादिभिव्यभिचारात । अतएव न लिंगविशेष एघेवत् । एते नाचारविशेषो ब्राह्मण्यमित्यपि दत्तोत्तरं । " चण्डालमाप वृत्तस्थं” " तन्देवाब्राह्मणविदु" रित्या दितु क्रियास्तुतिपरमेव, अन्यथा सर्वसंक्षोभप्रसंगात् । किंच ब्राम ग्यादिजातिविशेषमधिकृत्य क्रियाविधिः, साचेत्तत , आत्माश्रयस्स्या त् । एते नाचारविशेषाभिव्यंग्यत्वमपि निरस्तं । अथ विशिष्ट माता पितृसम्बन्धरूपं? किं तद्वैशिष्टचं नाम? नतावदाचारादिकं, उक्तदो। पानतिक्रमणात् । नापि मातापित ब्राह्मण्यमेव, पूर्वपूर्व माता पितु ब्राण्य निरूपणोप पूर्व पूर्व माता पित ब्राह्मण्य निरूपणसापेक्षत्वादिना नवस्थानात् । माता पित ब्राह्मण्यस्योपदेश सि द्धत्वान्नानवस्थेति चेन्नः- तद्राह्मण्यमपि पदिश्यमानं ब्राह्मणेन ब्राहा________________
सेश्वरमीमांसा च्या मुत्पत्तिरूपं, ततश्चोत्पत्ति मात्रमति प्रसंगि । तदतिरिक्तंतु ब्रा हाशशब्दनिमित्तं पूर्वपूर्वेष्वपि नसिद्धयतीति निरालम्बन स्तद्वयवहारः। अथ ब्राह्मण्याख्यो जातिविशेषो मातापित्रोः प्रत्यक्षः, तत्सम्बन्धज्ञानेन पुचे तदभिव्यक्तिरिति । तदपिन, मातापित ब्राह्मण्येपि तन्मातापित ब्राह्मण्यसापेक्षत्वेना नवस्थानात । पूर्वपूर्व प्रत्यक्षमूलोपदेश परम्परया नदोष इति चेन्न:- उपदेश परम्परातिरिक्त प्रत्यक्षपरम्परायां प्रमाणा भावात् । नहिं विशिष्ट मातापितृ प्रसूतोय मित्युक्तेपि तद्वाक्यार्थ निश्चया दधिका क्षत्रियादिव्यावृत्तिधी रध्यक्षा जायते । यस्तु वि शिष्टमातापितु प्रसूतत्वा ब्राह्मणोयमिति व्यवसायः, सोपि ब्राह्मणेन ब्राह्मण्यामुत्पन्नो ब्राह्मण इति सामान्योपदेश मूल इति नाध्यक्षमूलः । संकरजातानां तूत्कर्षापकर्षाभ्यां सप्तमे पश्चमेवा न्यवर्णतापत्ति रित्य चत्वागम एवं शरणमिति सर्वैरभ्युपगतं । तथाच यथा तणारणि मणिभ्यो जायमानस्या शुशुक्षणेः कारणवैषम्या परिज्ञानेप्यवान्तर जातिर प्रत्यक्षा, एव मिदापि । तत्रापिचे जातिभेदः प्रत्यक्ष इध्येत अनयैव दिशा द्रव्यादीनां धर्मत्वं प्रत्यक्षं भविष्यति देवानां प्रियस्य । एतेन ‘नाह यद्भिरिशंगमारुह्य गृह्यते तदप्रत्यक्षं’इत्यादीनि स्त्रीपुंस्कोकिल विभागो दाहरण विषयाणि विषयवाक्यानि निरस्तानि । किंच यदि माता पित सम्बन्ध विशेष स्तदभिव्यंग्यावा जाति ब्राह्मण्यादि, ततः कथं परमपुरुष मुखबादादि जातानामन्येषांच मानसानामगस्य वाल्मीकि द्रौपदी धृष्टद्यम्नादीना मयोनिजानां जातिविशेषा व्यवतिष्ठेरन् । मन्च तेनसन्ति, प्रत्यक्षाद्यविरुद्ध विषये अर्थवादादे रितिहासाश्च भामाण्पस्या भ्युपगमात । अतोयोनिजायोनिजसाधारण मन्य देव ब्राह्मण्यादिकं । यथा गोमयप्रसूते वृश्चिकप्रसूतेच वृश्चिकत्वमविशिष्टं तथा योनिजेप्य योनिजेषुच ब्राह्मण्यादिकं । अनियत हेतुकंच ब्राम ण्यादि संकरेषु सप्तमेपंचमेवा न्यतरवोत्पत्ती दृष्टं । तञ्च ब्राह्मण्या. दिकं सर्व प्रसवितुः परस्य पुंसः प्रजापति प्रभृतीना मृषीणांच प्रत्यक्ष, इतरेषान्तु प्राक्तनप्रत्यक्षादि सिद्ध गोवप्रवरा द्यपदेश पारम्पर्य नि यत सम्बन्धावस्नेय मित्यौपदेशिकं । यथास्मरन्ति -________________
शास्त्रमुक्तावली । " वर्णाश्रमोक्त मन्त्र…नताबुद्धिसमन्विते
कर्मण्येमिथुने जातो द्विजोन्य स्संकरस्स्मृतः॥” इति . एतच्चास्मदादीनां योनिजशरीरेधु जातिविशेष ज्ञापनाय हक्षणकर्थनं, नपुनः प्रमाणशत प्राप्तमयोनिजवर्ग व्यवच्छेत्तं क्षमं ।
ननु कासी ब्राह्मण्यादिजातिः ? नतावत्संस्थानातिरिक्ता पराभिमता जातिभवद्भिर भ्युपगम्यते । यथोक्तं भाष्ये - “संस्थाना तिरेकिणो ऽ नेकेष्वेकाकार बुद्धिबोध्यस्या दर्शनात्तावतैव गोत्यादिजाति व्यवहारोपपत्ते रतिरेकवादेपि संप्रतिपन्नत्वाञ्च संस्थानमेव जाति” रिति । नचाच मनुष्यत्वातिरिक्तं क्षत्रियादिव्यावृत्तं ब्राह्मणादिष संस्थानं पश्यामः । नच निपुण निरूपणेपि दोषधातुषु रूपादिपुवा गुणेषु भयादिधुवा विकारेषु वैषम्य मुपलभ्यते । नच आयुर्वेदादिषु भेषजादि विधिभेदः । अतोऽध्यवस्यामः सांकेतिक एवायं ब्राह्म णादि विभाग इति । अपिच
अनादी खलुसंसारे दुारे मकर वजे ।
कुलेच कामिनीमूले काजाति परिकल्पना ॥ तस्मा दनुपलम्भा दनुपपत्तेश्च नास्ति ब्राह्मण्यादि जाति रिति ।
अविदितागम सिद्धान्तानामिदं चोद्यं । शरीरारम्भक द्रव्य समवेताना सत्वरजस्तमसा तारतम्य विशेष एव ब्राह्मण्यादि जाति रिति महर्षयोविभजन्ते । एतदपि गुणतारतम्यतत्तत्पुरुष कर्म तारतम्य निबन्धनत्वान्न निर्मूलं । अन्तः करणगुण तारतम्यं तद्धिरुद्धमपि नजात्यादि नियामकं । दर्शन स्पर्शना अनुज्ञापरिहारावपि शारीरगुण तारतम्य निवन्धनावेव । पुण्यापुण्य [ नियामकं ] हेतुकंवृत्त्यादि भेदनियामकं वर्णानां गुणतारतम्यं श्रीमद्गीताभाष्ये -
वर्णाश्रमादिनियत मन्त्रसंस्कृतविग्रहे। वर्णाश्रमोक्तमन्त्राधीनताबुद्धिसमन्विते ॥ [पा]________________
सेश्वरमीमांसा।
“ब्राह्मण क्षत्रियविशां शूद्राणांच परन्तप ।
कर्माणिप्रविभक्तानि स्वभावप्रभवेगुणैः ॥” इत्यत्र स्पष्टंब्या चकार ।।
ब्राह्मणक्षत्रिय विशां स्वीयोभावस्वभावः, ब्राहाणादिजन्महेतुभूतं प्राचीनं कर्मत्यर्थः । तत्प्रभवास्तत्वादयोगुणाः । ब्राह्मणस्य स्वभा वप्रभवो , रजस्तमोभिभवेनोद्भतस्सत्वगुणः, क्षत्रियस्यस्वभाव प्रभवस्त मस्सत्त्वाभिभवनोद्भतो रजोगुणः, वैश्यस्य स्वभावप्रभव स्सत्वरजोभि भवेनोद्रिक्त स्तमोगुणः, शूद्रस्य स्वभावप्रभवस्तु रजस्सत्वाभि भवेनोद्रिक्त म्तमोगुणः, एभिस्वभावप्रभवै गुणस्सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादिनानि । ब्राह्मणादयएवं गुणकाः, तेषाञ्चतानि कर्माणि, वृत्तयश्चैता, इतिहि विभज्यप्रतिपादयन्ति शास्त्राणीति ।
नचावयवसन्निवेशएव सर्वत्रजातिरित्यस्माभि रंगीकृतं? यथोक्तं भाष्यएव - “संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थान मनुसन्धेय " मिति । याच कामिनीमूलत्यादिरूपप्लवाशका; सासर्वप्रवृत्तिविघातिनी, अतिशंकाया स्सर्वत्रसुलभत्वात् , दर्शनस्य चाविशिष्टत्वात् , अनुमानस्यचागमादिविरोधे विपक्षे बाधकाभावेचा नुदयात् । नचनचपराधमात्रेण पुरुषस्यान्यप्रसूतत्वमनुमानुशक्यं, अपराधिनीनामपि भनिमित्तप्रसवस्यापि दर्शनेनाने कास्यात् । सव णेन चान्येनसंयोगेसंकराभावात् । संकरजातानामप्युत्कर्षा [ दीनां ] दिना सप्तमेपंचमेवावर्णान्तरापत्तिस्मरणाञ्च ।
किंचेदमुपप्लवचौद्यं अर्धलोकायतिकमतमिव सेश्वरमत्यन्तायना स्कन्दति । तथाहि-भगवान्पुरुषोत्तम स्थावरजंगमात्मकं सर्व जगद पसंहत्य पुनस्सृष्टिकाले तत्तत्कर्मानुरूपपरिणाममापनरचिदंशै ाझणादीन्सृजति । तत्पारम्पर्यप्रसूताश्च ब्राह्मणादयोभवन्ति । एव मनुपप्लुतएवायं विभागोयुगान्तरेषु । अद्यापिच विशिष्टदेशेष्वनुवतते । युगविपर्यासादिभिरुपप्लुतांश्च सर्वानुत्साद्य पुनः कृतयुगे महर्षि प्रभृतिभि शुद्धं जातिविभागं प्रवर्तयति । एदं सर्वोपसंद्वारे पुनः कल्पा________________
शास्त्रमुक्ताबली न्तेपीति संसारानादित्वपी श्वराभिसन्धिवशेन शुद्धसंतान प्रवर्तनात्सर्व बोपप्लवानुमानं दूरापाक्रान्तं । यश्च महर्षिप्रभृतिषु प्रमादः, सतुप्राक्तनैः पश्चात्तनैर्वा तपःप्रभृतिभि रनुपप्लुतइतिप्राचः । अत ईश्वर महर्षि प्रभृतीनां प्रत्यक्षं ब्राह्मण्यादिकम् । अस्मदादीनां चाबाधित स्मृस्युपदेशपरम्पराधीन लक्षणविशेषसिद्ध मिति ।।
अथाय मपर शास्त्रदृष्टविरोधः, “ कोहि तबैद, 4 दमुष्मि न्लोके स्ति वा नवेती " ति । अत्र प्रश्नार्थत्वे नैरर्थक्या प्रतिषेध परिशेषशास्त्रदृष्टेन परलोकादिना विरोधः । पारलौकिकप्रतिषेधे स्वर्गार्थानां चोदनाना मप्रामाण्य स्यात् , ता श्वेत्प्रमाणं तद्विरोधा दर्थवादाप्रामाण्यम् । नच विकल्पः, अतुल्यार्थत्वात् , सिद्धेच तद सम्भवादिति । शास्त्रदृष्टविरोधोपि मुखभेदन शास्त्रदृष्टविरोध एव ।
इतश्च
॥ ३ ॥ सू-तथा फलाभावात् ॥१.२-३॥ (प-३)
येष्वर्थवादेषु फलं निर्दिश्यते, न तत्तथा दृश्यते । समुच्चयार्थी वा तथा शब्दः । यदेवद्गविरात्रब्राह्मणं प्रकृत्याधीतं - “शोभते स्प मुखं य एवं वेद, आस्य प्रजायां वाजी जायते । " इति । कि तत् सिद्धसंकीर्तनं, उताध्ययनफलोक्तिः । नाद्यः, तदानी विद्यमानविषयत्वे नैरर्थक्यात् । अविद्यमानविषयत्वे मृषावादत्वात । न द्वितीयः, विध्यनुवादविकल्पानुपपत्तेः । नाब फलविधिः, द्रव्य संस्कारादिषु फलाभावस्य वक्ष्यमाणत्वात् । अत एव न तदनुवादः, असदनुवादत्वापातात् । अत एव न स्तुत्यर्थतापि ।
ना र्थवादिकफलस्या भावमात्र, केषुचि त्तदभ्युपगमे दोष श्वास्ती त्या ॥
॥४॥ सू - अन्यानर्थक्यात् ॥ १.२.४॥ (पू. ४)________________
सेश्वर मीमांसा ।
भन्यानर्थक्यासंगादित्यर्थः । “ पूर्णाहुत्या सर्वा कामा नया-1 जोति, सर्चा लोकापशुबन्धया ज्यभिजपत्ति [ पशुबन्धयाजी सर्वान् लोकानभिजयति ] तरति मृत्यू, तरति पाप्मानं, तरति ब्रह्महत्या यो श्वमेधेन यजते, य उचैनमेवं वेद " इत्यादिषु यदि पूर्णाहुत्यादिभि स्सर्वकामादिखिद्धिः, अन्येषा मनिहोबसोमाश्वमेधादीना मानर्थक्यं स्यात्, पूर्णाहुत्यादिव्यतिरेकेण तेषा मननुष्ठानात । यानि पुन रेकफलसाधनान्यपि परस्परनिरपेक्षाणि कर्मा प्युपासनानि वा तब महीधरस्थमध्वर्थ मार्गभेदेन गमनव यथारुचि परिग्रहा बानर्थक्पम् अनित्यफलेषु देशकालस्वरूपा अतिशयापेक्षया समुच्चयोपिस्यात् यथा शारीरके साधनलक्षणे वक्ष्यते । काम्यास्तु यथा काम समुच्चीयेरन्या पूर्वदेव भावादिति । इहतु न विकल्पः, पूर्णाहुत्याधकरणे तदुत्तरकर्मा नधिकारात । नापि समुचयः, प्रथमेनेघ सर्वफलसिद्धया तदुत्तर नैरर्थक्यात् । नच फल विशेषेणोत्तरेषां सार्थता, विशेषश्रवणे कर्मविशेषे ध्यप्रत्यक्षस्य सतः फलविशेषस्य कल्पने प्रमाणाभावात । असताच स्तुति सम्भवतीत्युक्तं ।
॥५॥ सू - अभागिप्रतिषेधात् ॥१-२-१॥ (पू - ५)
प्रतिषेधाभागिनः प्रतिषेधाव । प्रसक्तं हि प्रतिषेधभागिभवति । नचान्तरिक्ष दिविधा चयनं मसक्तं, येन " नपृथिव्या मग्निश्चेतव्यो नान्तरिक्ष नदिवी " ति प्रतिषिद्धयेत । तेन नैषनित्यानुवादः, अकियार्थत्वेनानर्थक्यात् । नापि पर्युदासः, पर्युदासितव्याभावादेव । नान्त रिक्षे नदिविचेति यद्विध्यर्थं पर्युदस्यते तच्च पृथिवी चयनं नित्य प्राप्तमिति नविधेयम् । विधीयमानमपि नपृथिव्या मग्निश्चेतव्य इत्येष यदिविवक्षा सदाचपनविधिनायाधः । नचानेनतद्वाधा, अरागप्राप्तः । विधिप्राप्तेतु तदुपजीविनोस्यैव दुर्वलत्वात् । मात्र विकल्पसम्भवः,
१२________________
शास्त्रमुक्तावली ।
विधेः कामसंयोगेनचाग्नेः पाक्षिकत्वं सिद्धमिति विकल्पस्य व्यर्थ स्वात । तत्स्वीकारस्यच पाक्षिकबाधगर्भतया 5ष्टदोष दुष्टत्वाच्च । नच चयनफलं तदचिन्वानस्यापि स्यादिति सम्भवति । नापि चयन निषेधेन चयन प्ररोचनाजुद्धिः । अतस्स्वात्मानं विध्यन्तरंचाकुल यद्वाक्यमिद मप्रमाणमेव IMES
इतश्च -
॥६॥ - अनित्य संयोगात् ॥ १-२ - ६॥(पू - ६) पूर्वस्मिन्नधिकरणे वेदप्रामाण्यं सिद्धं कृत्वैवानित्यसंयोगस्य श्रुतिसामान्यमानेण परिहारउक्तः, इहतूक्तैहेतुभिरर्थवादांशस्याक्षेपे तदुपष्टंभकतया पुनरुत्थाप्यते । यद्धा - प्रक्षिप्तस्य पुनरुत्थापनं मन्दं । नचार्थवादे ध्वधिकाशंकास्ति । सत्यपि तत्रैवपरिहर्तव्या। असाधारण्ये नच तत्रैव व्याख्यातमस्माभिः । अतोन्यथा व्याकुर्मः । उक्तै तुभि भंवत्वनित्य मर्थवाद वाक्यजातं, तथापि चौदनाभागे किमायातमिति यदि कश्चि या प्रत्याह " अनित्य संयोगादि” ति । उक्तप्रकारेणा नित्य लक्षणापन्नरर्थवादवाक्पैः संयोगा दन्यत्रा प्यनाश्वासइति । अथवा विध्यर्थवादयो भित्रवाक्यतापक्षेह्यानर्थक्यादि दूषणमुक्तं । अथैकवाक्य तापक्ष प्रतिक्षिपति “ अनित्यसंयोगादि" ति । नित्यसंयोगाभावो नित्यसंयोगः । नहि विध्यर्थवादयो नित्यसंयोगः, परस्पराकांक्षायांहित योस्सम्बन्धनियमस्स्यात् । नचात्रसास्ति, अर्थवादान्वय मन्तरेण विध्युदेशस्य प्रवर्तकत्वशक्तेः; यथार्थवादरहितस्य । नार्थवादस्सर्वेषु विधिषु सार्वभौमः, “बसन्तायकपिचलागलभेत " इत्यादिषु तदभावा प्रधान विधिवपि । नचांगांगिनो रन्योन्यार्थवादेनसार्थकत्वं, अन्य विषय प्ररोचनाया अन्यत्र प्रवृत्ति हेतुत्वा भावात । अर्थवादानां च भूतान्वारायान मात्र विश्रान्त्या निराकक्षित्वात् । प्रयोजनार्थ विध्य नुधाचनस्य प्राक्तनदूषणं । विध्युपयुक्तस्यच फलकरणादेरन्यत________________
सेश्वर मीमांसा । मस्या प्यनभिधानात । प्रवृत्तेश्च स्तुत्याद्यपेक्षा नियमाभावात् । भशब्दाच्चस्तुत्यादेः कल्पनेन्योन्याश्रयणात, एकवाक्यतया स्तुति निन्दात्व क्लप्तिः, स्तुतिनिन्दात्वेन चैकवाक्यता । नच प्रमाणान्त रेणान्यत्र प्रसिद्धिः, येन नान्योन्यापेक्षास्यात् । अतः प्रत्यक्षेण विध्यु देशेनेकवाक्यत्वासम्भवा दध्याहारादिभि रन्यत्र कल्प्यमानत्वे । व्यव स्थिति प्रसंगात , यथा श्रुति गृहीतेथेनरर्थक्यात, चित्प्रमाणान्तर बाधेना ऽसदर्थत्वात् , असताचस्तुत्यसम्भवात, अर्थवाद वाक्यान्यप्रमाणं।
एतदुक्तं भवति, केचिदर्थवादाः कुण्डमजाजिनं पिण्ड इत्यादिव दाकांक्षाविरहादनन्विताः, यथा “ यजमानः प्रस्तर " इत्येव माद्याः, अबोधका ते । केचित्त । अग्निरुष्णः, आपोद्रया’ इत्यादिवत् बुद्धबोधकाः, यथा - आपोवैशान्ता " इत्येवमादयः, अनपेक्षिताहोते । केचिन भ्रान्तविपलम्भक वाक्यवदिपरीत चोधकाः, यथा 5 त्मवपोखेदन पाच प्लवनादि विषयाः, बाशिता ते यथा यर्थ प्रत्यक्षाद्यैः । सर्वेप्यते विधौ नपर्यघस्यन्ति । अक्रियार्थ स्वार्थमाव प्रतिपादनेनच नोपयुज्यन्ते । तदेवमयोधनाइद्धबोधनाद्विपरीत बोधनादनुपयुक्त बोधनाचार्थवादांशस्य प्रामाण्यं दुर्वचमिति ।
तबसिद्धान्तमाह -
॥७॥सू विधिनात्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनांस्युः ॥१-२-७॥(सि-१)
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । विधिः प्रेषणात्मा लिडाद्यर्थ विशेषः । तथाचानुशिष्यते - " विधिनिमन्त्रणा 5 मन्त्रणाधीष्ठ संप्रश्न प्रार्थनेषु लिङ्" इति । “विधिः-प्रेषण" मिति च व्याचण्युः । लिङादिस्तु तत्प्रतिपादना त्परम्परयाविधिः । तेन लिङा दिना 5 वयवभूतेन समुदायो विध्युद्देशो लक्ष्यते । बेदे वक्तुरभावा कथं प्रेषणं ? इत्थं, नित्याएवहि वेदाः परमपुरुष प्रशासनरूपा इति प्रागेवस्थापितं, तत्रभेषणं शाब्दमर्थतन्धं वेत्येतावदेवचिन् ।________________
शास्त्रमुक्तावली । सत्र समभिव्याहत निमन्त्रणादि समानयोगक्षेमतया विधिशब्द निर्दिष्टस्य प्रेरणस्य शब्दवाच्यत्वं । तथाच सांख्याधिकरण भाष्य" स्वशासनावबोधिशास्त्रंच प्रदिश्ये " ति । अवशासनंहि शास्त्रेणां वोधनीयमुक्तं । शासनमेवहि प्रेषणं । अयमेवच विधिशब्दार्थों वेदानामभिमतइति, परेपि केचिदनुवदन्ति । तत्वरनाकरकारैश्चोक्तम् । एवंच प्रेषणे शाब्दे तस्य निर्विषयस्य बोधयितुमशक्यत्वात् , धारव. भंस्य कर्तव्यत्व मप्यध्यवसितमेव । अथापि प्रेषणविषयस्य धात्वर्थस्य साध्यत्वाभिधानं नकेवलस्य । तदभिप्रायेण शारीरकायेभाष्य - " विधिवाक्येषु धात्वर्थस्य कर्तृव्यापार साध्यतामात्र शब्दानुशासन सिद्धं लिङादे ाच्यमित्यध्यवसीयत" इति । एतदेवच वेदार्थसंग्रहेप्युक्तम् - " लिकादेः कोयमर्थः परिगृहीतो भवति ? यजदेवपूजायामिति देवताराधनरूपयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यता व्युत्पत्तिसिद्धां लिङादयोभिदधतीति न किश्चिदनुपपन्नम् । कवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापार सम्बन्धप्रकारोहिवाच्यः । भूतवर्तमानतादिमन्येवदन्ति । लिङादयस्तुकर्तृव्यापार साध्यतां वद
ती" ति । तत्रैव द्रविडभाष्यमुपा - " स्वशासनानुवर्तिनं शास्वाकारु [ ण्या सभगवान् वर्धयत ] ण्यस्वभावाच्च वर्धयेतविद्धाकर्मदक्षः । ” इति । अनन्तरंच भगवद्गीताया मेवायमर्थों दर्शितः " येमेमतमिदं नित्य मनुतिष्ठन्ति मानवाः । श्रद्धावन्तो नसूयन्तो मुच्यन्ते तेपि कर्मभिः । येत्वे तदभ्यसूयन्तो ना नुतिष्ठन्ति मे मतं । सर्वज्ञानविमूढां स्ता विद्धिनष्टा नचेतसः ॥” इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान्बिनिन्ध, पुनरपि स्वाज्ञानुपालनमकुर्वतामासुर प्रकृत्यन्त व मभिधायाधमागतिश्चोक्ता" इति । यत्तदीपे कर्तृधिकरणे प्रोक्तं " यजेतोपातीतेतिहि कर्तृलकारः, अतः कारमेवबोधयति । शाखं " इति । तदात्मनः कर्तृत्वं श्रुतिखिद्ध मित्येतदर्थ, मतु लि | कादिप्रत्यय वाच्यविशेषनिष्कर्षपरं । यदा-यजेत्यादी स्वव्यापार________________
सेश्वर मीमांसा ।
साध्ययागादि विशिष्टइति कर्तृप्राधान्येन चोधनमाभितम्, कर्ताचा ख्यातान्तर साधारणत्वान्न लिङादे विशेषत्तोर्थः । एवं - " स्वर्गका “मायजेत । [ इत्येवमा ] इत्यादिषु कारवाच्य [चक ] कर्तृविशे पसमर्प [ णपराणां ] काणां स्वर्गकामादिपदानां नियोज्यसमर्प [ णपर त्वं ] कत्वं शब्दानुशासन विरुद्ध” मिति वेदार्थसंग्रहोपि । इत्थं प्रेष णस्य शाब्दत्वपक्षे निर्वाहः । गम्यमानत्वपक्षे प्येषां अन्थानां नकश्चि द्विरोधः । अनुशासनं तु कथंचिन्नेयम् । अतोविधिः प्रेषणं, तदर्थ स्वा ल्लिकादिरिहविधिः । यद्वा विधीयते - कर्तव्यतया बोध्यते, विशि टोयागादि रनेनेलिचोदनावाक्यमेवविधिः । स्वर्गकामस्साध्ययागादि विशिष्ट इतिहिविध्युदेशार्थः । अतश्चोदनावाक्ये नार्थवादाना मेकवा क्यत्वात् । अर्थवादाः, विधीनां, स्तुत्यर्थेन, स्युः । स्तुत्यानिन्दाप्युप लक्षिता । विधिनेत्युपक्रम्य विधीनामिति बहुवचन विध्यन्तर्गतेन येन केनचि दंशन स्तावकतया ऽन्वयद्योतनार्थ ।।
एतदुक्तं भवति । यदुक्तं विध्युद्देशे नैकवाक्यतयाचार्थवादानां प्रामाण्यं न सिद्धयतीति । तत्रतिष्ठतु तावत्प्रादेशिकीस्वायसर साध्या भिन्नवाक्यता । सामान्येनैकवाक्यतायां तावदानर्थक्यं न पश्यामः, स्तुत्यादिमुखेन सप्रयोजनत्वात् । तत्र या न्यसम्भवत्स्वार्थानि दर्शिता नि तानि विचारयिष्यामः । यानिपुनरविरुद्धस्वार्थानि तानि तावद जहत्स्वार्थानि स्तावकतयैकवाक्यत्वंलभन्ते । यथा-“वायव्यं श्वेतमालभेत भूतिकामोचायुर्वे क्षेपिष्ठा देवता वायुमेवस्वेनभागधेयेनोपधावति स एवैनं भूतिं गमयती” त्यादि । इह किल राजसेवादिवाक्ये राज गुणवर्णनव (देवपूजाविधायिनि वाक्ये देवतास्तुति लोंक व्युत्पत्ति प्रकारानविक्रमेण समन्वतीति सांप्रत्ययिकाय पन्थाः । क्षिप्रदेवताकंच कर्म क्षिप्रफलदं भवतीति कर्म प्ररोचितं भवति । यद्यपि विधिवलादेव पुरुषः प्रवर्तते, तथाप्येव मर्थवादैः परीचितं कर्म शीव्र मनुष्ठानाय घटत इत्यपि लोकमसि.________________
९४
शाखमुक्ताबली ।
द्धम् । ततश्च यत्र सन्त्यर्थवादा स्तत्परोचितं कर्म कर्तव्यम्। यत्र न, तब विधिमात्रेणेत्यपि न दोषः । नचात्र स्तुतिपरत्वे अर्थ वादानां स्वार्थप्रहाणं, स्वार्थेषु तदुपयोगिषु तदयोगात् । यथा ‘क’ स्येयं गौः, इयहि सम्पन्नक्षीरे त्यादिषु । अबोधनं विपरीतबोधनं च सिझो देवदत्त इत्यादिव दुपचारवृत्त्या परिहतम् । लोकोत्तरेषु प्रागुक्तनयेन यथा श्रुतं, बेपरीत्याभावाच्च । बुद्धबोधनंतु प्ररोचना थांनुवादतया । इति संग्रहः ।
इदंच सर्व शारीरक देवताधिकरणे भाष्यकार रेव स्पष्ट मुक्त मिति तदेवाब लिख्यते . “ कर्मविधिशेषभून मन्त्रार्थवादेष्वपि बन हस्तः पुरन्दरः ‘‘तेनेन्द्रो वज्र मुदयच्छ’ दित्यादिभिः प्रतीयमानं विग्रहादिमत्त्वं प्रमाणान्तराविरुद्धं तत्प्रमेयमेव । नचानुष्ठेयार्थप्रकाशन स्तुतिपरत्वाभ्यां प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम् स्तुत्याद्यपयोगित्वाव, तेन विना स्तुत्याद्यनुपपत्तेश्च । गुणकथनेन हि स्तुतित्वम् । गुणाना मसद्भावे स्तुतित्यमेव हीयेत । नचासता गुणेन कथितेन प्ररोचना जायते । अतः कर्मप्ररोचयन्तो गुणसद्भाव बोधयन्त्येवार्थवादाः । मन्त्राश्च कर्मसु विनियुक्ता स्तत्र तत्र किश्चित्करस्वायानुष्ठेय मर्थ प्रकाशयन्तो देवतादिगतविग्रहादिविशेष मभिदधत एव तत्र किंचि स्कुर्वन्ति । अन्यथेन्द्रादि स्तुत्यनुपपत्तेः । नच निविशेषा देवता धिय मधिरोहति । तत्र प्रमाणान्तरा प्राप्ता न्गुणान् । स्वयमेव बोधयित्वा तेः कर्म प्ररोचयन्ति, गुणविशिष्टं वा प्रकाश यन्ति, प्राप्तांश्च नू प्रतः कर्मप्ररोचनप्रकाशने कुर्वन्ति । विरुद्धत्वे तु | तद्वाचिभि शब्दै रविरुद्धान् गुणान् लक्षयि (खोप ) त्वाकुर्वन्ति । कर्मविधेश्च देवताया ऐश्वर्य मपेक्षितमेव । कामिनः कर्तध्यतया कर्मविधीयमानं स्वयं क्षणप्रध्वंसिकालान्तरभाविनः फलस्य स्वर्गादे स्साधन मपेक्षते । मन्त्रार्थवादयोश्च वायु वैशेपिष्टा देवताधायु मेव स्वेन भागधेयेनो पधावति सएवैनं भूतिं गमयति ’ ’ यदनेन हविषा________________
सेश्रर मीमांसा । वास्ते, तदश्या सहयात् , तदस्मै देवा राधन्तां’ इत्यादिषु देव तायाः कर्मणा राधितायाः फलदायित्वं तदनुगणं चैश्वर्य प्रतीयमान अपेक्षितत्वेन वाक्याथें समन्वीयते । " इति ।
वेदार्थसंग्रहे प्युक्तं . “साह्यर्थवादभागो देवताराधनभूतया गादेः सांगस्या राध्यदेवतायाश्चा दृष्टरूपान् गुणान् सहस्रशो बदन् कर्मणि प्राशस्त्यबुद्धि मुत्पादयति । तेषा मसद्भावे प्राशस्त्यबुद्धि रेव न स्या’ दिति कर्मणि प्राशस्त्यबुद्धयर्थ गुणसद्भावमेव बोधयति , इत्यनयैव दिशा सर्वे मन्त्रार्थवादगता ह्या सिद्धा" इति ।
अथ स्यात, केचि दुपाध्याया मन्दमरोचनोत्सुक्यात् स्वयंचा ख्यानरुचित्वा दर्थवादान् प्रक्षिपयुः । तन्मूलंच पारम्पर्येण पठन स्यात् । वक्तृप्रत्ययाभावाच्च न प्रामाण्यम् । पौरुषेयापौरुषेययोश्च नैकवाक्यत्वमिति । तत्राह -
|सू - तुल्यंच साम्प्रदायिकम् ॥१-२-८॥ (सि - २) च शंकानिवृत्त्यर्थः । यद्धा विध्येकवाक्यतया सह सांप्रदापिकतुल्यत्वं समुच्चिनोति । सम्प्रदायप्रयोजकं सर्व विधिभागेन तुल्य मर्थवादानाम् । नानादिनिधनाविच्छिन्न सम्प्रदायतया ऽनन्तै रध्वतृभि रभ्यस्यमाने स्वरादिमात्राम्यथाकरणेपि बहुभि निवार्यमाणे 5र्थवादांशे प्रक्षेपसम्भवः । अन्यथा विधिष्वप्यनाश्वासः । समंचा स्मर्यमाणकर्तृकत्वं विध्यर्थवादयोः । नचार्थवादा नवधूय स्वाध्यायो ऽध्येतव्य इत्युच्यते । नच तथा प्रेक्षावद्भि रप्यनुष्ठीयते । अध्याया नध्यायाचार्योच्चारणानूच्चारण शिष्याचार्यभावादि स्तुल्य एवार्थवाद भागेपि । नच निरर्थके क्वचिदेव मादर स्तम्भवति । अविनार्था चैते नियमाः, अध्ययनसम्बन्धस्मृते स्सन्निहितप्रयोजनव दध्ययनपरि. स्यागे इत्वभावात । तत्र चाविनस्या पेक्षितत्वात् । दृष्टे सम्भवत्यदृष्ट क्लप्तवयोगात् । क्रतुसाधनस्वरूपेण नियमे चिन् रत्वापकारित्वप्रसंगा________________
शास्त्र मुक्कावली । च । नच निरर्थकेषु अविनापेक्षा, विन एव हि तब वरम् । अतो नादिभि रर्थवद्भि रर्थवादै भवितव्य मिति ।
एवं विध्यर्थवे समर्थिते विधिविरोधस्य शीघ्रपरिहरणीयत्वा सदभिप्रायेणच दृषणों द्देशक्रमात “ शास्त्रदृष्टविरोधा" दित्यन शास्त्र विरोधं ताव परिहरति
॥९॥- अप्राप्ताचानुपपत्तिः प्रयोगेहि विरोधस्स्यात्, शब्दार्थस्वप्र
योगभूत स्तस्मादुपपद्येत ॥ १.२.१॥ (सि-३) वस्तादर्थे तदविरोधं समुच्चिनोति । यासारोदनात्मवपोखे । दन स्तेयानृतवादादिषु शास्त्रविरोधात्मिकानुपपत्ति रुक्ता, सात्र प्ररोचनार्थत्वपक्षे न । स्तेयादेः, प्रयोगे अनुष्ठाने हि, अर्थवादानां विवक्षिते प्रत्यक्षया सत्तनिषेधश्रुत्या विरोध स्स्यात् । नचार्थवादरूपशब्दस्य अर्थ सवनुष्ठानात्मा दृश्यते । तस्मा दुपपद्येत, अर्थवादप्रामाण्यम् । ‘अप्राप्तां चानुपपत्ति । ‘अमाप्त चानुपपत्ति ’ मित्यन्यौ पाठी अध्याहारादिपरिग्रहक्लेशात् , “सा न प्राप्नोती" ति शाबरयोजनाननु रूपत्वात, प्रथमान्तपाठस्यापि सर्वै स्वीकृतत्वाच्चानादरणीयौ । प्रक्षे पबुद्धयैव वातिककृतापि पाठान्तरद्धयं व्याख्यातम् ।
यद्यपि विध्येकवाक्यतया स्तुतिनिन्दार्थत्वेना र्थवादप्रामाण्यं । सम्भवति, तथापि व्यधिकरणे स्तुतिनिन्दे कथं विधे रुपकरिष्यतः “वेतसशाखयावकाभि श्चानि विकर्षती" ति विधेः “आपो वै शान्ता " इत्यपां स्तुतिः क्वोपयुज्यते । नह्यश्वगुणोक्पा गौः क्रय्येति स्यात् । तत्रैव चासिद्धो गुणः कथ्यमानो न परोचनाये घटते । यदाहु ईमिडाचार्याः - “ नासता स्तुति रुपपद्यत" इति ।। नाब पयः पिव शिखा ते धधिष्यत इत्यादि बालातुराद्यपच्छन्दन________________
.
७
सेश्वर मीमांसा । म्यायोपि सम्भवति, परीक्षकादिकृतत्त्वात् । अतः प्रतारणसमाधि रेवात्र स्या दित्यत्राह -
॥१०॥ सू - गुणवादस्तु ॥१.२.१०॥ (सि-४ )
तु शब्द श्वोचं व्यावर्तयत्ति । गुणवादः - भमुख्यवाद इत्यर्थः । एतदुक्तं भवति - यत्रार्थवादे साक्षादभिधेयार्थसमन्वयेन विध्येकवाक्यता नसम्भवति, तत्र लोकव गौण्यालक्षणयावा वृत्त्या विध्यन्वययोग्यं कंचिदयमुपस्थाप्य तन्मुखेन प्ररोचना देकवाक्यत्वं भवति । एतेनैव सामान्यत स्सर्वविरोधे गमनिकोक्ता । तत्र य देतसावकयो विधीयमानयो रपां स्तुती वैयधिकरण्य मुक्तम् , तत स्तयोरेव तथास्तुतिः " तदभिजाते ह्येतेस्वाभिजनस्तुत्यास्तुते भवतः , शान्तानामपां विकारभूतेहि ते स्व प्रकृत्यानुगुण्येन शान्ति हेतुतया यजमानस्य कष्टं शमयिष्यत" इति ।
यानि रुद्ररोदनादिवाक्यानि तेश्चपि पूर्वापर परामर्शा स्परस्परसाकांक्षः पदैः स्तुतिनिन्दामुखेन विध्येकवाक्यत्वं सुव्यक्तं । तत्र रोदनाधसम्भवमात्रं परिहतव्यम् । न ताव दृद्रस्य रोदन मसम्भवि, तस्यापि शतपथब्राह्मणादिषु शतश स्तद्धेतोः प्रतिपादनात् । अत्र रुद्रशब्दनिदिष्टस्याग्ने देववर्गनिक्षिप्तधनप्रत्यर्पणनिमित्तशोकस्य रोदमहेतोः प्रामा णिकत्वात् । नचाशरीरस्य कथं रोदना पातादि रिति वाच्यम् । देवताविग्रहादे समर्थयिष्यमाणत्वात् । नच तदश्रणो रजताख्यपरि णामे काचि दनुपपत्तिः, वस्तुशक्तेः प्रतिनियतस्वात; द्रवादीनां परि णामविशेषताशा काठिन्यादियोगस्य करकादिष्यपि दृष्टेः; गोमयवृद्धि कादिनयेन विलक्षणादपि कार्योत्पत्ते नविलक्षणयाधिकरणे समर्थयि ध्यमाणत्यात तृणारणिमणिजाशिव दश्रप्रसूतानश्रप्रसूत रजताभेदस्य सम्भवात् । शब्दप्रमाणके चार्थ शब्देतरस्मा द्वाधायोगात्। द्रव्य विशेषाणां च तत्तद्धातुरूपेण परिणामस्या न्यत्रापि दृष्टः। महषिभि श्वानुमतत्वात् । रुद्रशरीरस्य तेक्ष्यविशेषा सर्वधातूपादानावं युक्तम् ।________________
शास्त्र मुक्तावली । भाहच भगवान वाल्मीकि रम्बिकापते पर्येण तान्नकार्णायसादिरूप सर्वधातूत्पत्तिम्। यथा -
" उत्ससर्ज तथा [ महा ] तेजः स्रोतोभ्यो हि तदा नघ ।। यदस्यानिर्गतं तस्मा तप्तजाम्बूनदप्रभम् ।। कांचनं धरणी प्राप्तं हिरण्य [ ममलं ] म्मंगलं शुभम् । तानं कार्णायसं चैव तैक्षण्यादेवाभ्यजायत । मलं तस्या भवत्तत्र पुसीसकमेवच ।
तदेतद्धरणींप्राप्य नानाधातुरवर्धत ॥” इति ।। एष मश्रुप्रसूतं रजतं स्वकारणानुगुण्येना अपतनहेतुर्भवती त्यदेयत्वाय निन्द्यते । यथा कृत्तिकानयाधानादेः गृहदाहायनिष्ट कारणत्वं, तथा रजतस्य बर्हिषिदानं रोदनकारणं भवती स्यनिष्ट कारणत्वं तस्मादर्हिषिनदेय" मिति निषेधस्योप युक्तमेव । यथा अपगोरणशतयातनासाध्यसाधनभावः " तस्माद्राह्मणाय नापगुरेते" ति निषेधस्य । कालनियत फलादर्शनन्तु प्रतिवन्धकबला कर्मकर्तृसाधनवैगुण्येनच समाधातव्यम् ।
एवं प्रजापते रात्मवपोत्खननं लोकोत्तरशक्ते न विरुद्धं । तथापि तस्यजीवनं, तेनैवानौ वपायाःप्रहरण मित्यादिकन शक्त्यतिशयादेव । विश्वसृजः प्रजापतेः कर्मसामथ्याच्च तथा तूबरपशूत्पत्ते नं विरोधः । सर्वचैत रकर्मस्तुत्यर्थभवति; “अग्नौमहतमात्रायां प्रजापते पाया मजातूबर उदगात, इत्थंनाम बहवोपि पशव स्समभूवन तदिदं कर्मण स्लामर्थ्य " मिति । प्राजापत्यादिक्रमेण प्राजापत्यताच प्रतिपादिताभवति । अतः ’ यः प्रजाकामः पशुकामस्स्या त्सएतं प्राजापत्यं तूबरमालभेत ’ इत्यनेन विधिनैकवाक्यतया वपोखेदनादिवाक्यं प्रमाणम् । यदपि " देवावैदेवयजनमध्यवसाय दिशोनमाजानन् ” इत्यादि , इदमपि " आदित्यः प्रायणीयश्चक रादित्य उदयनीय " इत्यस्यविधेः शेषतया। नकेवरलं वृत्तान्याख्यानपरं नापि विध्यन्तरकल्पकं, येनोक्तदोष________________
सेश्वर मीमांसा । स्यात। किन्तु दिङमोहमाप शमयत्यसाविति सर्वव्यामोहशमनत्वेने ष्टिः स्तूपते । नचेद मसदन्वाख्यान, देवताना मतिशयितज्ञानशक्तीना मपि कर्मवश्यतया कदाचि द्रजस्तमोभिभवादिदोषसम्भवेन दिक मोहादी विरोधाभावात् । नच तेषां देवयजनाध्यवसानमेव दिमोह कारणत्वेनोच्यते, येनास्मदादिष्वनुपलम्भेन विरोध शंक्येत; देवय जना ध्यवसानानन्तरं तेषां कदाचि स्वकारणेन दिनोड स्तंषर्तते, स चानेन कर्मणा शमितः, इत्थं नाम प्रशस्तमिदं कर्म, भत इदकर्तव्य मित्यस्मदादिष्व प्यस्य कर्मणो मोहनशमन हेतुतायां न विरोधः । नहि निवर्तनीयेन मोहेन तदानीन्तनेन भवितव्यमि स्वस्ति नियमः । बङ्गेषु च फलं प्रधानाविरुद्ध नात्यन्ताय परिहार्य [प्यं ], करिष्य माणेच दर्शपूर्णमासयो रनभ्यस्तसौमिके भवति कर्मकला ध्यामोहशमन मपेक्षितं । तत्राभ्यस्तचरकोपस्थानेना नभ्य स्तावधारणावकाशदायिनो प्यदितियागस्य दृष्टद्धारा प्यवधारणापाधिक खे न कश्चिद्दोषः । आदित्येनैव ज्ञापितमिति स्तुतिः । एव मेताहशेष्व वादेषु स्मुतिपरेष्वपि स्वार्थसत्यत्व मविरुद्धं । यत्रतु स्पष्टः प्रमाणविरोधः, हत्रगुणवाद इति ।
यत्त - परेषां स्वार्थम्वपि रुद्ररोदनादिवाक्यानां गुणवादाश्रयणं । तदयुक्तं, रुद्रस्य रोदनादिसम्भवस्य दर्शितत्वात् ।
यत्त " वर्णसारूप्याविन्द वनश्रप्रभवम प्यश्रप्रभवमित्याहे " ति, सत्रच यदार्तिकं “अश्रण श्शौक्लया यदिनामैतत्कठिनंभवे ततो रजत सदृशम्भवे दित्युत्प्रेक्ष्य तत्प्रभवनिन्दे " ति । इदमपि साक्षात्तत्प्रभव त्वसम्भवोपपादनेन निरस्तम् ।
यत्त " पुरास्य संवत्सरा देवदन्ती " त्यत्र " धनत्यागे दुःखदशंना रपुरास्यखंवसरावहे रोदनं भवतीत्याहे " ति, व्याख्यातंच घा तिककृता– " धनत्यागेनात्यन्तोदारस्यापि गृहजनः पीच्यतइति तरसाम।________________
१००
शाब मुक्तावली । न्यादा रोदनोपन्यास " इति । तदनेन नूनं प्रहसनकोटी निवेशितो येदः । यदिच धनत्यागे दुःखदर्शनेन रजत मदक्षिण्य मदेयमित्युस्यते; कथं ततः प्रकृष्ट मन्यदक्षिण्यं विधीयेत, तस्यापित्यागे दुःखाधिक्य सम्भवेन निन्दाधिक्यप्रसंगात् । “ रजतं हिरण्य मदक्षिण्य " मिति विशेषेणोपादानमपिपत्र हिरण्यव्यवच्छेदार्थ ।
यत्त स्तुता वाख्यानादि सत्यत्व मतं कृत्वाप्युक्तं- “शुक्तिकावत्त किश्चिदालम्बनं अतिसामान्य मात्रेण सर्वत्रयोजनीयं, यथेह महाभूतानिप्रजा इति प्रजापतिशब्दनोच्यते वायुरादित्य आकाशोवा, तेषांमध्यवर्ति नः सारा वपाशब्देनोच्यन्ते, यथासंख्यं वर्ष रश्मि पुर्वा, तादृश्याश्च वपाया भग्नौ प्रहरणं च वैद्यते वर्षस्य, तस्य तत्सम्बन्धप्रसिद्धः, लोकि के रश्मेः, ततस्य तदाप्यायकत्वात, शरीरान्तर्वतिनि [आचिषे]वानोः, तस्या न्तश्चरस्व सामान्यात, तेजोज इत्यजशब्देनान्नं चीजं वीरुदादि घोच्यते, जायमानानामपि तेषां सामान्येना नादित्वात् । तदालम्भ स्तत्प्रकाश नम् । ततः प्रजानां पशूनां चोत्पत्ति स्पर्धासां प्रजानां पशूनां च वीह्यादिपरिणामस्वात् । इत्थं काश कुशावलम्बनेन सर्वत्रालम्बन” । मिति । एतस्मा परिक्शा द्वरं चित्रकथावस्तूना मिव मिथ्यात्वमेव । नहि सम कथंचि दित्थ मालम्बनं कल्प्यते, नच तदकल्पनपि विवक्षितं रसादि न सिद्धयति । एव मिहापि स्तुत्यादि ।
कायचा नित्यसंयोगभयात् भूतान्याख्यानस्या न्यथाकरणम् । तदपि प्रवाहानादित्वा मागेव परिहतम् । वातिककारेणापि पुन स्सानु शयेनोक्तम् - यथा “ मन्त्रार्थवादेतिहासपुराणमामाण्यात् सृष्टिपलया विष्येते, तब सृष्टयादौ प्रजापति रेव योगी तस्मि काले पुण्य कोद्भवाभ्युपगमेन पशूना मभावात् स्वमाहात्म्येना स्मानमेव पशुमभिनिर्माय वपत्खिननादिकृतवान् , ततो समाप्त एवं कर्मणि तु परः पशु हस्थितः, इंडशं च कर्म प्रत्यासनफरलं, एवं च प्रजापतिना________________
सेश्रर मीमांसा ।
१.१ चरितमिति सर्व सत्यमेव, प्रतिसृष्टिच तुलिंगन्यायेन तुल्पनाममभव व्यापारवस्तूत्पत्तेः जानित्यताप्रसंग” इति । एतेन " देवा वै देव मजैन नित्यादावपि कर्मसु कौशन दीव्यन्तीति देवा ऋत्विज’ इति किष्टकल्पना निरस्ता । अत आर्थवादिकानि भाख्यानानि सत्या न्येव सन्ति स्तुत्यादिमुखन विधौ विनिविशन्त इति ।
“स्तेनं मनो नृतवादिनी वागि” त्यत्र विध्यन्तरकल्पनाभाषा च्छात्र विरोधः, सन्निहितहिरण्यविध्येकवाक्यतया च नेरर्थक्पं पहियत । असम्भवत्स्वार्थं च सामान्यतो गुणवाद इत्यभ्यचिमहि । तब ‘स्मनं मन हत्यादिना विधेयान्तरस्तुत्यर्थ मनो वाचो निन्दाहि क्रियते । नचासता स्तुतिनिन्द घठतः । नचाच मनस स्स्तेनस्वमद शि, वाचोवा ए मसत्यवादित्वम् । कथ मसता स्तेयानतभावेन निन्द्येयातां ? तबाह -
॥११॥स् - रूपा प्रायात् ॥ १-२ - ११॥ (सि-१) " रूपात्" - मनस स्स्तेनावं स्तेनसमानरूपत्वा दित्यर्थः । स्तेना अपि परकीय स्वकीयतय भिमन्यन्ते । एवं मनोपि करणे कर्तृत्वा ध्यवसापेन स्तेनगुणवादः । स्तेनव च्छन्नरूपतया तन्निर्देश इत्यके । “प्रायात " - वाचो नृतत्वबाहुल्यात् । वाहुल्येनहि साऽनृतं घक्ति, तावतैव सत्यवादतिरस्कारिणा निन्दोपपद्यते । अत स्सतैव स्वभावभेदेन उभे निन्द्यते ।
यत्न " धूम एवाने दिवा ददृश " इत्यादि दृष्टविरुद्ध मुक्तम् । तबाह
॥१२॥सू · दूरभूयस्वात् ॥ १-२ - १२ ॥ ( स -१)
दूरे न्यतरस्य भूयस्त्वेनोपलम्मा दित्यर्थः । दिवाधूगों रात्री चाचि दूरस्थै भूयस्त्वेनोपलभ्यते । तावता धूम एवा चिरेवे त्यवधारणम् । यदा - दूरस्यैव भूयस्त्वा दर्चि दिवा कदाचि नैव दृश्यते, रात्री च धूमः, अत स्ताविकीय मवधारणा । भस्त्येव मवधारणोपपत्तिः,________________
शास्त्रमुकावली ।
तथापि तेजसो मिथ संक्रमण हेतुत्व मयुक्त; नहि दूरस्थै रनुपलभ्य मानानि वस्त्वन्तरेषु संक्रामान्त । माभू संक्रमणं, असंक्रान्तेपि सं कान्तवाचोयुक्ति गौणी, अतिवादमूललोकानुपलम्भानुसारेण स्तु: स्यालम्बनात । अतएवा तीन्द्रिय देवताकार संक्रमण विवक्षायामाप नदोषः । एवञ्च " अग्निज्योतिज्योति स्सूर्यः सूर्योज्योति ज्योतिरग्नि” रिति मिश्रलिंगयोः “ अग्नि ज्योति ज्योति रग्नि स्सूर्यों ज्योतिज्योति स्सूर्य" इति केवलयोश्चा ग्निहोत्र मन्त्रयो देवताद्वय सन्निधि विवक्षया संक्रान्त्या न्यतर सन्निध्यविवक्षयाच विधानं स्तुतं मन्येमाई । भथ"नचैतद्विद्मो ऽब्राह्मणावास्मो वयं ब्राह्मणावे" त्यत्र विरोधं परिहरति
॥१३॥ सू - स्त्र्यपराधा त्कर्तुश्च पुत्रदर्शनात ॥ १-२-१३।। (सि-७)
नेदं ब्राह्मण्यप्रतिषेधार्थ, येन विरोधस्स्यात्, अपितर्हि ब्राह्मण्यस्य दुनिता प्रतिपादनार्थ, दुर्ज्ञानत्वंच स्वयपराधात् , कर्तुश्च पुत्रदर्श नात । मनपराधायां हि स्त्रियाँ क्षेत्रिणएव धर्मपुत्रइति निश्चेष्यामः, साचेदपराध्येत - तत्कर्तुरेवायंस्यात् , कर्ताच क्षेत्रीवान्योवेतिदुर्ज्ञानं, भन्योपि ब्राह्मणदतरोवति । अतएवहि श्रयते - " अप्रमत्तारक्षर्थतन्तु मेत" मिति । प्रमादेहि प्रजातन्तुच्छेदोत्र प्रतीयते । स्मरतिच" माताभखाजनयितुः पुत्र’ इति । अतएव क्वाचिक दुनिमात्रात् " नचैतद्विम" इत्याधज्ञानवचनं । अज्ञातेप्यज्ञातत्ववचनं किमर्थ? प्रवरा नुमन्त्रण प्रशंसा) । प्रवरेण द ब्रियमाणेन अब्राह्मणापि ब्राह्मणो भवेदिति प्रवरानुमन्त्रणं प्रशस्यते । साचप्रशंसा प्रसिद्ध ब्राह्मणानां ब्राह्मण्य प्रसिद्धयपदवसापेक्षेति तदर्थोप मज्ञानार्थवादः ।
अथ “कोहितदेदे " त्यादौ विरोधपरिहरति -
॥१४॥ सू - आकल्पिकप्सा ॥१-२-१४॥ (सि-४)
तादात्विक मिहा कल्पिकं न विधक्षितं । आगमिप्यति धसन्ते यद यतनं वसन्तलिंगं तदाकल्पिकमित्याहुः । आकालिकमितिपाठान्तरे________________
सेश्वर मीमांसा । प्येषेव विवक्षा । भाकालिकप्सा। भद्यसनफलश्रद्धाहि पुरुषाणां स्वरस वाहिनी । वर मद्यकाक चोमयूरादिति न्यायात । एतदुक्तम्भवति । “दिश्वतीकाशान्करोती” ति प्रवयंकाले प्राग्वंशस्य दिक्ष्वतीकास करणं धूमक्लेशानुभव निवृत्तिहेतुतया प्रत्यक्षतात्कालिकफल प्रशं सितु मामुष्मिकफल मागमैक समधिगम्य मप्रत्यक्षमात्रेणा विदित मेव भावयन्तीति ।
यत्त " तथाफलाभावा” दित्युक्तं, तत्राह -
॥१५॥ सू - विद्याप्रशंसा ॥५-२-११॥ (सि-९)
नैषफल निर्देशः, अपितु विद्याप्रशंसा । गर्गघिरानाध्ययनं ह्यत्र मुखशोभावाजिभ्यां प्रशस्यते । नचैव मसता स्तुतिः , अध्य यनदशाथा मंगनादि महनीय सौन्दर्य लावण्पादि मुख शोभाभाषेपि “ विद्यासमं नास्ति शरीरभूषण " मिति न्यायेन विद्वत्सम्भाव्य विशिष्टपद वाक्योच्चारण रूपेण परिष्कारेण शोभमान स्वात् । “अस्यप्रजायां वाजीजायत" इतिचाद्धेयतुः कुले सन्तता ध्ययन अवणेन सम्पन्नमेधा ब्रह्मवर्चसः पुत्रो वाजम् ‘अन्नवैवाजः, ‘पात्रमायान्ति सम्पद’ इत्यादि न्यायेन प्रतिग्रहा दन्नं प्राप्नोतीति ।
अन्यानर्थक्यानुयोगं प्रतिवक्ति -
॥१६॥ सू - सर्वत्वमाधिकारिकम् ॥ १-२-१६ ॥(सि-१०) पूर्णाहुत्यादिषु यः फलनिर्देशः, नेषफलविधिः, संस्कारकर्मसु फलश्रते रविधित्वस्य वक्ष्यमाणत्वात् । स्तौतित्वैवम् । तथापि नासता, परम्परयोपपत्तेः । पूर्णाहुत्यादिभि रनचादिसिद्धी तत्साध्यैः कर्मभि नानाफलैः सर्वकामावाप्तेः। ये पुन रतत्साध्याः कामाः, न तेत्र सर्वशब्देन संगृह्यन्ते । अधिकृतापेक्षं हि सर्वत्वं, तथैव लोकवदयाः प्रयोगात् ।।________________
१०४
शास्त्र मुक्तावली । नन्वंगेषु सर्वकारफल श्रुत्या माभू दन्यानर्थक्यं, यत्र पुनः पर स्परानंगभूतेषु कर्म स्वल्पस्य महतश्च कर्मण एकमेव फलं निर्दिश्यते तत्र दुष्परिहर मन्यानर्थक्यम् । यदि ह्यल्पना ग्निहोत्रादिना स्वर्ग स्लिद्धयेत्, किं गुरुतरेण ज्योतिष्टोमादिना ? यदिहि चातुर्मास्य याजिन स्सुकृत मक्षय्यं स्यात, किं कर्मान्तरेण ? यदिच कर्मणेव स्वतन्त्रेणाक्षयामृतफलसिद्धिः, किं कौगिकया यमनियमादिपरिक्लेश बहुल या दीर्घकालनरन्तर्यादरसेवनीयया ब्रह्मविद्यये ? ति । तत्राह -
॥१७||सू - फलस्य कर्मनिष्पत्ते स्तेषां लोकवत्परिमाणतः फलविशेषस्स्यात् ॥१-२.१७|| (सि.११)
यत्र फलस्य कर्मभ्योनिष्पत्ति विवक्षिता, तत्र तेषां कर्मणां लौकिक कर्मणामिव परिमाणानुसारेण फलतारतम्यं स्यात । एतदुक्तं भवति। यथा कोकेकृष्यादि कर्मणां ब्रीह्यायेक फलसाधनानामपि कर्मतारतम्पानुसारेण फलतारतम्यं, एवमिहापि । यद्यपि लोकेऽस्पेन रत्नवाणिज्यादिनामहत्तरं, महताच कृष्यादिना 5 ल्पतरं फलं, दृश्यते ; तथापि वदे नैवमुत्प्रेक्षितुं शक्यं, अधिकारे ऽविशेषे [ यविशेषात् ] लयौ स्थिते गुरौ नियमेना प्रवृत्ति प्रसंगात । अतो यथा फलाश्रवणेपि विश्वजिदादी फलंकल्पित, एवं फलविशेषाश्रवणेपि गुरतरेकर्मणि विधिवलादेव फलभूमा कल्प्यः । सम्भवतिच देशकालस्वरूपै स्वर्गादि फलेषु तारतम्यं । अनुशिष्यतेच श्र. स्यादिभिः । एवं गुरुतरोपासन विधिवेय्यर्थ्य परिहाराय " अक्षय्य हवै चातुर्मास्यपाजिन स्सुकृतम्भवति" “ अपाम सोम ममृता अभूम" इत्यादिकं “ वायुश्चान्तरिक्षंचे" त्यादिकंचा अपेक्षिकं मन्तव्यं । चातुर्मास्येवेव फलतारतम्प मधीमहे, वेदनरहितानांच सर्वेषां कर्म णां बहूनि वर्षसहस्त्रा ण्यभ्यस्तानाम प्यन्तवत्फलत्व मुपनिषदि घुम्य ते, अतो वेदनसम्बन्धदशायां भव दक्षयफलत्वं स्तुत्यर्थ मभिव्याप्तया निर्दिष्ट मित्यपि निर्वोढुं शक्यम् ।
वदेव मर्थवादप्रसंगा द्विद्धयद्देश मन्त्रैश्च प्रसक्तमन्यानर्थक्यं परिहतम् । एवंच सति पूर्णाहुत्यादिष्वपि भवतु फलविधि रेव,________________
सेश्वर मीमांसा ।
१०६
तथापि नान्यानर्थक्य पूर्णाहुत्या सर्वेषां काम्यभे [ देन ] दाना मात्रया प्रागुपपत्तेः । पशुबन्धयजनेनापि देशकालस्वरूपै रल्पीयसो भोगस्य सम्भवात, अश्वमेधनाङ्गणाध्ययनेनापि मात्रया तत्फलसिद्धयविरोधात, आवृत्तिभूयस्तयावा समफल सम्भवात् । कर्मणान्तु सर्वेषां ज्ञानरहितानां कल्पकोटि सहस्रावृत्तानामपि न ब्रह्मविद्यया फलसाम्पं समस्ति । प्रायश्चित्तादिषु च गुरुलघुविकल्पाः फल तारतम्यात, अधिकारि विकल्पा भेदावृत्त्यादिभिश्च, निर्वहणीयाइति ।
नन्वेवं यदि सर्वत्रैव कर्मणा मल्पास्थिरत्व मबधारितं, अथेदानी मुमुक्षु ब्रह्मविचार मारभता? मैवं, अद्धचायशेषमन्तरेण कृत्स्न वेदमामाण्यस्या निर्वहणात् । ततः परम प्यविदित स्वरूपाणां कर्मणां स्वतन्त्राङ्ग भेदयोः फलभेदस्य दुर्ग्रहत्वात् । स्वरूपादिकं सिद्धं कृत्वा सङ्गत्वन्तराणां शास्त्रादी दर्शितत्त्वात् । अतो निरूपितेषुकर्म स्विममेव सूत्रार्थ यथाव प्रतिसन्धाय परं निर्धेदमेष्यति, यमेनं श्रतिराह - “परीक्षचछोकान कर्मचितान ब्राह्मणो निर्वेदमाया नास्त्यकृतः कृतेने " ति । तथाच शारीरकाद्यभाष्ये - " तब कर्मविधिस्वरूपे निरूपिते कर्मणा - मल्पास्थिरफलत्वं दृष्टे ” दि । केचित् - " इदं सूत्र, कर्मा बान्तार भेदविषयं, कोपासनयोः फलविवेकस्तु शारीरका विशिष्ट शास्त्रारम्भ हेत्वेकदेशानुभवेशेन साधनीय” इति वर्णयन्ति । तमाप चपक्षं तत्रैव स्थापयिष्यामः । यैः पुन रिदं सूचं फलान्यारोहणा न्या नर्थक्यपरिहारपरमिव नीतं, तेः स्वतन्त्र कर्मफल निर्देशमूल मन्यानर्थक्यं कथं परिहतं? । निरूपितकर्मस्वरूपतारतम्यस्पतु पश्चा द्वयक्ति भवि. व्यति, अस्मिन् पक्षे ‘कर्मविधिस्वरूप’ इत्यादि भाष्यम प्पविरुखमिति । अथाभागि प्रतिषेध चोद्य स्योत्तरमाह -
॥१८॥ सू - अन्त्ययोयथोक्तं ॥१-२-१८॥ (सि-१२)
" अन्त्ययोः” - “नान्तरिक्षेनदिवी " ति प्रतिषेधयोः । आ दिमे " नपृथिव्या" मित्पत्र यथे।क्तं हिरण्यं निधायचेतव्य________________
शास्त्रमुक्तावली । मित्यस्य विध शेषत्वं, तथा तच्छषत्व मित्यर्थः । एतदुक्तं भवति ।। केवल पृथिवीचयन निषेधो हिरण्यस्तुत्यर्थ इति स्पष्टएव, अन्यथा वयनस्यैवा सम्भव प्रसङ्गात् । तद दन्तरिक्षादि चयन निषेधोपि ।। प्रसक्तेनदि प्रसक्तं सहनिषेध्यं । केवल पृथिवी चयनेन प्रस क्तेना प्रसक्तं समीकृत्य निन्दति लेन हिरण्यं स्तुतं भवतीति । “यक्ति” मित्यत्र वाङ्मनस निन्दनं यथोक्तं हिरण्यस्तुत्यर्थ मिति, तथेत्येके । अनित्यसंयोगस्तु यदा प्रागुक्तएव प्रकृतोपष्टंभकत्वेनानु पक्तः, तदा प्रकृतसमाधाने प्रागुक्तमेवोत्तरं, यदातु प्रयुक्तिभि रनित्य कोटी निशितै रर्थवादवाक्यै स्संयोगा द्विध्युदेशभागे प्यनाश्वासइति योजना. लदा प्रयुक्तीनां परिहारेणार्थवादानामनित्यत्व प्रसंगाभावा तसं योगमूला विध्युदेशस्था नित्यत्वशङ्का स्वय मेव विदीयत इति नोत्तर पृथक्सूत्रितं । यदापुन रर्थवाद विध्युद्देशयो रसम्बन्ध चोय मिदं, तदा त्यानर्थक्य परिहाराय प्रवृत्तेन सिद्धान्तायसूत्रेणेष विध्यर्थवादयो रेकवाक्यतया दत्तमुत्तरमिति तदेव प्रयोजनमिति सत्यार्थाभिधाना त्सवें 5 र्थवादाः प्रमाणमिति सिद्ध ।
प्रयोजनम्तु - क्षणिकस्य कर्मणः कालान्तरभावि फलसाशनवेपि कल्पना निरपेक्ष देवतानुग्रहादि द्वारलाभः, विश्वजि दादिव द्विध्युदेशे प्यनिर्दिष्ट फलानां राविसबादीना मार्थवादिक प्रतिष्ठादिफलपरिग्रहः, विध्युद्धेशनिर्दिष्टानाच स्वर्गादि फकानां दुःखासाभिन्न देशत्वादि स्वरूपशोधनं, यथावस्थापित स्वरूप रूप गुणविभवादिसिद्धिश्चेति ।
स्वरूपविश्रमोयत्र स्वतएवप्रयोजने । ततोन्यत्रैकवाक्यत्वं प्रतीतंपरिगृह्यते ॥ स्तुतिनिन्दादिरूपेण विध्यपेक्षित लम्भनात् । नानर्थक्यं नपार्थक्य मथवादेषु कुत्रचित् ॥ प्रत्यक्षादिविरोधस्तु मुख्यार्थयत्रहश्यते । तत्रौपचारिकीवृत्ति मनुसृत्यार्थसत्यता। असम्भव द्विरोधेतु मुख्पान्यपरचिव । स्वतःप्रामाण्य मुन्सृष्टं कोषाऽपवदितुंक्षमः ॥________________
१०७
सेश्वर मीमांसा । यत्रचस्तुतिनिन्दादौ तात्पर्य तदपेक्षणात् । मुख्योमुख्योपियाकश्चि दर्थस्सत्योविवक्षितः ॥ असतास्तुतिनिन्देत नादर्तव्येपरीक्षकैः । उपच्छन्दननीतेर प्यत्र नूनमसम्भवात ॥ अतोलोकायतिकै रसतास्तुतिकल्पना । अप्रमाणाविवर्णा महंकारायकल्पते ॥ अजैमिनीयेयर्थेषु भाषितेषु प्रतारकैः । गतानुगतिकान्मन्दान् किङ्करिण्यामहेवयं ॥१८॥ इति अर्थवादप्रामाण्याधिकरणम् ॥१॥
अथ विधिवन्निगदाधिकरणम ।
1॥१॥ सू विधि स्यादपूर्वत्वा द्वादमात्रंह्यनर्थकं ॥१.२.१९॥ पू.१)
यदुक्तं " विधिना बेकवाक्यत्वात स्तुत्यर्थेन विधिनांस्यु” रिस्पर्थवादानां प्रामाण्याय विध्येकवाक्यत्वं स्तुत्य वंच । तत केषु चि दर्थवादिषु न सम्भवती त्याशय परिहिपते । इह विध्यमि व्यक्ति रहित वाक्यान्तर संबन्धिनो र्थवादा उदाहरणं । यथा - " मोदुम्बरो यूपोभवती” त्यादिवाक्ये संवध्यमानाः “ऊवा उदुम्बर अर्क पशव ऊर्ज पानाप्नोति उजावरुथ्या"इत्यादयः । ते किस्वार्थमात्रंविदधति, उत विहित मन्य रोचयन्ती ति बिचायते । किं प्राप्त स्वार्थमेव विदधतीति । कुतः? " अपूर्वत्वात् " - तदर्थस्य प्रमाणान्तरामाप्त स्यात् , नाष मनुवादः, अपि त्वज्ञात ज्ञापनरूपो विधि रेव स्या दित्यर्थः । ततः किं ? " वादमा हानर्थक" - अक्रियार्थ वस्तुस्वरूपवादमात्रं हानर्थक मिति पूर्वाधिकरण एवो क्तम् । पदिह परै भाषितं, - " इतरधा स्तुतिवादमा अनर्थकं स्था” दिति । तत्त दर्थकशब्दप्रत्यभिज्ञानाननुरूपम् । स्तुतिचे ऽयंशत्यत्वोक्ति निधयोजनत्वोक्विच नववा, प्रागेवोभयमतिषेधात् । रवरूपविधिविषयं________________
शास्त्रमुक्तावली । चानर्थस्यं नप्रतिक्षिप्त मिति तत्प्रत्यभिज्ञान मुचितम् । यद्यपि व्यास सूत्रे स्वरूपविधाव प्यानर्थक्यं केषुचि द्वाक्येषु परिहरिष्यते, तथा प्यपवरकनिहितनिधिसत्तादिवाक्यव स्वतःपुरुषार्थभूतवस्तुविषयेषु वाक्येष्वेव तदिति प्रस्तुते प्वन्येषु चानुयोगावकाशः । ननु पश्वादि रूपोपि पुरुषार्थों लोकसिद्धः? सत्यं, न पश्वादि रूपः पुरुषार्थोस्ती त्युपदिश्यते, तल्लोकसिद्धमेव । अलौकि केपि स्वर्गादौ ब्रह्म समाधिसम्भवेन न दोषः । पश्वादिरूपं पुरुषार्थ मौदुम्चरेण प्राप्नोतीत्युक्तेतु लोकिके तदसम्भवा देदे तद्विध्यदर्शना त्पश्चादिकच औदुम्बरेण यूपेन प्राप्नोतीति वाङ्मात्रमेवस्यात्, तथानर्थकमिति सम्प गनुयोगः । सिद्धान्तिच्छायया पुनराशंक्य परिहरति -
॥२॥सू - लोकवदिति चेन्न पूर्वत्वात् ॥१-२-२०॥(पू-२)
यथा, लोके विध्येक वाक्यत्वाभावपि गुणकथना तदनुरूप विधि कल्पनेन प्रवृत्ति निवृत्ति पर्यन्तता, शालिसम्पत्तियोग्यं सुक्षेत्रमिदं. बहुक्षीरेयं गौ रित्यादिषुहि तत्प्रयोजनाभिलाषिणः केतव्यत्वादिबुद्धिर्भवति, एव मौदुम्बरादाविति चेत् ? तन, “ पूर्वत्वात् " - लौकिकस्या थंस्य प्रमाणान्तरदृष्टपूर्वत्वात् । अन्यदीयमुक्षेत्रादिसिद्धेः केतव्यत्वादिना नियमं समधिगम्य तत्प्रयोजनार्थिनां तत्र प्रवृत्ति रुपपन्ना। इह तु न विधिकल्पने प्रमाण मस्ति । तत्कल्पनहि वाक्यं भिद्यत, भौदुम्बरो यूपः कर्तव्यः उदुम्बरेण पा नाप्नोतीति । नचैवं लोके । बहुक्षीरवस्वादः प्रमाणान्तरसिद्धत्वेन वाक्यस्य तद्विधिपरस्वाभावा तत एव क्रेतव्येत्यादि विध्यनुसरणोपपत्तेः । ननु करणश्रुत्या साधनवे ऽपवसिते किं विधिना? प्रत्यक्षादिगोचरेय प्यर्थे विष्ट साधनताबुद्धिमात्रेण पुरुषाः प्रवर्तन्ते । विधिना विहितसाधनत्वं निश्चित्यैव फलार्थिनः प्रवृत्तिः । तद्यदि साक्षा स्करणस्या ध्यवसितं तापसैघ प्रवृत्तिसम्भवे विधिर प्यपेक्ष्यत इति कि मिय मीश्चराजा ।________________
सेश्वर मीमांसा । - भतो वाणिज्यादिना धनं प्राप्नोती त्युक्ते विधि मन्तरेणापि तदुपादि स्सा जायते; एव मिहापीति । एतद प्यनेनैव सूत्रेणानुभाष्य परिहतं
लोकवदिति चे न पूर्वत्वा " दिति । लौकिकवाक्यै रिष्टसाधन तया निर्दिष्टाना मर्थानां प्रमाणान्तरगोचरतया तत स्तत्प्रमाणे रेव स्वप्रयत्नाधीनसिद्धिकता मधिगम्य प्रयतन्ता, इहतु नतथा, करणत्वे अतपि विधि मन्तरेण कर्तु र्व्यापारसाध्यत्वे प्रमाणाभावात् , " ऊ. ग्वा उदम्बर" इत्यादिना “वसन्तेन सुखं प्राप्नोतीयादाविव वस्तु स्वभाववर्णनमेव शब्दा प्रतीयते, तावति चापू वस्तुनि विश्रान्ते वाक्ये व किमिति तदतिरिक्त कल्पयेमहीति ।
यत्त परे लोकवदिति च’दिति सूत्रं भिन्दन्त इति चेदिति पूर्वोक्तानुवादेन कोकवदिति सिद्धान्तिच्छायया परिहार माशशंकिरे । तदसत । स्वारस्या देकवाक्यताप्रतीतो सूत्रभेदानौचित्यात । भनुवादपरिहारयो व्युंरक्रमान्वयात् । इतिचे दित्यनुवादस्य मन्द प्रयोजनत्वाच्च । नचैवं सौत्री शैली भज्येत, शारीरके तावत् “ छन्दोभिधानान्नेतिचेन्न तथा चेतार्पणनिगमा तथाहि दर्शनं " " उपदेशभेदान्नेतिचेन्नो भयस्मि तप्यविरोधात् " “म वक्तु रात्मो पदेशादितिचे दध्यात्मसम्बन्धभूमास्मिन् " " जीवमुख्य प्राणलिङ्गान्नेतिचेन्नो पासात्रैविध्या दाश्रितत्वादिह तद्योगात्” इत्या दिषु बहुषु प्रदेशे वितिचेदित्यन्त नेत्यादिनोत्तरेणैकसूत्रतया ध्याख्यायि । नचान्यादृशी जैमिनीयसूबशैलीति शास्त्र मस्ति । उपरि चैवंविधेषूचितं व्याख्यास्यामः ।
॥३॥सू - वेदे व्यक्त मसंवादः ॥ १-२-२१ ॥(पू-३)
न केवलं वादमात्रस्या नर्थक्यमेव, संवादोपि न दृश्यते । अ. संवादो न संवादः, - विसंवाद इत्यर्थः । “ऊवा उदुम्बर ऊर्क________________
शास्त्र मुक्तावली ।
पशव " इत्यादयोहि प्रत्यक्षेण विसंवदन्ते । अत स्स्वार्थेपि न प्रामाण्यम् । कल्प्यमानविधे मुंषावादमूलत्वा प्रतारकवाक्यस्येव प्रामाण्यं दुर्वचम् । तस्मा स्पागुक्तनिष्प्रयोजन मृषावादरूपत्व मेते। विध्येकवाक्यत्वादियुक्त्यनपोदितमि त्यप्रामाण्य मेवेति ।
॥४॥स - उक्तन्तु वाक्य त्वम् ॥१.२-२२॥ (सि-१)
उक्त मस्माभिः “ विधिनात्वेकवाक्यत्वा " दिपर्थवादानां वि. धिवाक्यशेषत्वं, इहतु विधिसविधिमात्रं प्रदर्शनीयम् । तंत्र तावत् " औदुम्बरी यूपो भवती” त्यस्य वाक्यस्य शेषतया “ ऊर्धा उद्म्बर” इत्यादिकं प्रतीयत एव, अन्यथा कस्यायं फलविधि रिति शंक्येत, सौत्रान्तिकादेशव दित्थं फलं भमिष्यतीत्याह औनम्बरेण पश्चादिकमिति । । नचाविहितः कश्चि दौदुम्बरो यूपो भवति प्रशस्तः । यूपस्य ऋतुसम्बन्धा व्यभिचारा दौदुम्बरतायाश्च तद्धिशेषणत्वात् । नचायं प्रकृतानुवादः, अनुपदेशात् । अतोबगच्छामो बैंकृते प्रकृतिय प्राप्त स्यौदुम्बरताविधि रिति । अतो यद्यप्यन्न विधि प्रत्ययो न श्रयते, तथापि विधि रेव। अपूर्वत्वात्, अन्यथानुपपत्तेश्च । किये लेडिति पंचमो वा लकारो विध्यर्थः । एवं विधिसन्निधौ प्रागुक्तनयेन स्तुत्यादिमुखेने कवाक्यत्वं सुगमम् । फयत्ता साव पछाब्दी, ततः प्रशस्ति स्सिध्येत् । यथालोक मर्थवरवा लक्षणा न दोष इति चोक्तम् । यदपि च वेदे व्यक्त मसंवाद’ इत्युक्तं, तदपि गुणवादेन सामान्यतः प्रागेव परिहतम् । आलम्बनमात्रन्तु प्रदर्शनीयम् । ऊर्दू सादृश्या दूर्वा उदुम्बर इति । दृश्यते यथा तस्य प्रीतिसाधनत्वं, एव मोदुम्बरताया यूपद्वारकानुप्रवेशेन प्रीति साधनत्वं । प्रीतिसाधनान्तरे वस त्स्वन्नत्वेनोपचारोपं फलानुरूपेण पचेलिमै रंशै रुदुम्बरस्या व्रताध्यवसानार्थत्वात् । ऊपशव इत्यपि परिणामविशेषादेवोपपद्यते, अन्नविकारभूता एव हि प्राणिन अयन्ते ।________________
सेश्वर मीमांसा । एवं मौदुम्बरादिविशेषतया फलादिवन्निगदाना मर्थवादानां स्तुन्यादिमुखेनोपयोगा प्रामाण्य मिति ।।
॥५॥सू - विधि श्वानर्थकः काचेत्तस्मात् स्तुतिः प्रतीयेत तत्सामान्या दिततरेषु तथात्वम् ॥ १-२-२३ ॥(सि-२)
अपिच “विधिनात्वेकवाक्यत्वा त्स्तस्ययन विधीनां स्पु” रित्पत्रार्थवादेषु स्वार्थको विधि रनर्थक इति, तत एव हे तो स्तुतिः प्रतीयतेति साधितं पुरस्तात् । एत दुक्तं भवति, के पचि दर्थ चांदपु स्तुतिपरतया र्थपरत्वेन प्रामाण्ये भ्युपगते तदितरेष्यपि स्वार्थ विधिमात्रेणा सम्भवप्रयोजनेषु तथैव प्रामाण्य मनुवर्तितुं शक्यं, ततश्च प्ररोचनीयस्य यस्य कस्पचि परामर्श कचि पाकरणिकस्यापि कस्यचि तथात्वं सिद्धमिति ।।
यदिह परै रभाषि - “अप्ठ योनि वी अश्वो सुजो वेतस” इत्यादिषु अप्प्तु योनि रश्वः कर्तव्यः अप्सुजो वेतसः कर्तव्य इत्यादि विधे रशक्यत्वात स्वभाव सिद्धत्वाद्वा विद्ध्यानर्थक्यं, तनावश्यं स्तुतिः कल्पयितव्या, तत्सामान्या दितरेषु तथात्वम् । किं वत्सामान्यं ? विध्यसम्भव स्स्तुतिसम्भवश्चे " ति । तदिदं प्रकृतासंगतम् । तथा हि- यदि फहविधि नैवेति विचारः प्रकृत स्तदाध्याहारादिकल्पित कर्तव्यताविध्यानर्थक्यदर्शनेन स्तुतित्वकल्पन मयुक्तम् । अथ प्रकृतेपि कल्पनीयकर्तव्यविषयो विचारः, तदा विधि श्वानर्थकः । तथा तत्सामान्या दितरेविति वचन मयुक्तं, विशिष्टत्वात , फलविधिविचारविषय स्ववाक्यविरोधाच्च । तत एव विरोधा दौदुम्बरो यूपो भवतीत्यादा वविधित्वात अर्थवादत्वविचारः प्रकृत इति प्रयुक्तं, विध्यसम्भव स्तुतिसम्भव श्वेत्युक्तम प्यत्र विपरीतम् । तस्मा दस्मदुक्तेष योजनेति ।
ननु दर्शपूर्णमासप्रकरणे श्रयते “यो विदग्ध स्स नैऋतो यो श्रित स्स रौद्रः, यश्चित स्स देवत स्तस्मा दविदहता अपवितव्य________________
शास्त्रमुक्तावली । स्सदैववाये " ति । तत्र यो विदग्ध स्स नैर्ऋत इत्येत दविदहता अपयितव्य इत्यनेन नान्वेति । अतो विदग्धविधानं प्राकरणिकविधा घन्यत्र चान्वय मलभममानं निरर्थकमेवेति, कथं तत्र प्रामाण्यम् । तत्राह
॥६॥सू - प्रकरणेच सम्भवन्नपकर्षो न कल्प्यत विध्यानर्थक्यं हि तं प्रति ।। १.२.२४ ॥(सि-३)
“अविदहताश्रपयितव्य " इत्येतत्प्रकरणे व्यतिरेक बिन्दामुखेना विदग्धश्रपण स्तुतिपर्यवसायितया सम्भव विदग्धादि स्तत्प्रकरणा दपकर्षोंन कल्प्येत, अपकृष्यत इत्यपकर्षः। “ विध्यानर्थक्यहितंप्रति :विदग्धादिकं प्रति नैतादि विध्यानर्थक्यं स्यात् । नपत्रप्रकरणे f ग्धोदेशेन नैर्ऋतादि विधि स्सम्भवति, उत्पत्तिगुणावरुद्ध नयात् ।। न्यत्रोत्कर्षः, प्रकृतोपयोग सम्भवादेव प्रकरणबाधायोगात् । नचा नैर्ऋतोद्देशेन विदग्धत्वविधिः, अमकृतत्वात, प्रकृतानुपयोगाच्च । । स्तमप्रकृष्टं प्रति विध्यानर्थक्पमितिवायोजन। । यद्धा - प्रकरणेस्तुत्यादि परतयासम्भवद्गत्यन्तर मर्थ प्रत्यभ्युदितष्टयादिव नैमित्तिकविधरानर्थक्यं तबाद(विद्धयानर्थक्यमिति) आनर्थक्य परिहारायैव प्रकरणोपयुक्तस्तुत्या दिपर्यवसायित्वमेष्टव्य मिति । यद्य प्येतदुदाहरणं पूर्वस्मिन्नधिकरणे चिन्तयितुं युक्तं, तथापि वितया विध्येकवाक्यत्वा सम्भवाशंका ऽ स्पष्टत्वेन प्रकृतसारूप्या ५. विचारितमिति
॥७॥ सू ॥- विधौचबाक्यभेदरस्यात् ॥१-२-२५॥(सि-४)
अपिचात्र स्वरूपविधा वभ्युपगम्यमाने ’ औदु-बरोयूपीभवती । त्याकारक्रमेण प्रतीयमान मेकवाक्यत्वं भज्यत । नव कथंचि संम्भवन्त्या मेकवाक्यतायां तद्भेदो युक्तः । नच परस्परानुपयुक्ततयै कवाक्यता । समर्थित श्चौदुम्बरविधिः । अतो विध्येकवाक्यताया स्तुत्यादिपरत्वेन प्रामाण्यं प्रागुक्त मप्रतिहतं ।________________
सेश्वर मीमांसा ।
ननु - " खादिरं वीर्यकामस्य यूपं कुर्या “दिस्यादिविष गुण फकसम्बन्धविधि स्यात् । अत एव च न वाक्यभेददोषः। न घेवं कामशब्देन फल मुपादेय मित्यस्ति नियमः, सदभावेपि रात्रिखत्रादि वार्थवादिकफलस्वीकारात् । तत्रतु “य एता रात्री रुप यन्ति ते प्रतितिष्ठन्तीति न साक्षात् फलसाधनयो स्सम्बन्ध श्रवः , इह पुनः करणवत्यैव प्रकृतस्यौदुम्बरस्य फलेन सम्बन्ध स्वाक्षा प्रतीयत इति विशेषः । एव मपि च प्रामाण्ये सुवचे किम शाब्दस्तुत्या श्रयणे नेति चेत् ? सत्य, तथापि वैकृतत्वादेव विशेषफलाकांक्षारहिते तस्य फलखम्बन्धविध्यनुपपत्तिः । स्तुति स्तु तत्रापि युक्तेति तन्मुखेन प्रामाण्यं प्रत्यविवाद मेव।।
यत्त्वत्र कौमारिले विधित्वेन पूर्वपक्ष मुपक्षिप्य कृत्स्नोर्थवाद इत्युक्तं , तत्प्रामाण्याक्षेप समाधानयो रनुपयुक्त मिति व्यायासमात्रत्वा दखंगतं । प्रथमपादमात्र पर्यवसायिनी प्रामाण्यचिन्ते त्यभ्युपगमेपि निरर्थ कोयं विचारः, विधिपरत्वेपि प्रामाण्यानुच्छेदेनविरोधाभावात् । सिद्धान्ते प्यर्थवादोन्नेय विधिस्वीकारात् । फलविधिपूर्वपक्षे प्योदुम्बरो यूपी भवतीति विधे रखश्याभ्युपगन्तव्यवस्थापनात् । शंगेषु फकाते रर्थवाद स्वस्था पत्र व्यवसितत्वेन रात्रिसत्रनयमसंगप्रतिषेधयो रसम्भवाञ्चेति ।
यञ्च प्रभाकरप्रमुखैःप्रामाण्य मध्यायार्थ प्रतिसन्दधानरपि भोदुम्बरेण यूपः कर्तव्या, उदुम्बरेण पशू नाप्नोतीति साध्यद्वयभाना देकवाक्यत्व प्रतीतेश्च परस्परविरोधा दन्यतरपरित्यागकारणाभावाचा नध्यवसाया दमामाण्य मिति पूर्वपक्षितम् । तदतिमन्दं, उक्तम्पायन विपरीता ध्यवसायसम्भवे तेनैव पूर्वपक्षीकरणस्योचिततरवात् । अतोस्मदुक्त एव पन्थाः । तत्र पर्णमय्यधिकरणादिषु पौनरुक्त्यशंकाया एवा भावा स्परेषा मिव न विषयव्यवस्थादिपरिक्लेशः । शारीरकेपि लिंगभूयस्त्वाधिकरणादिषु विचारे ध्वेतदुपयोक्ष्यत इति ।
१५________________
शास्त्रमुक्तावठी।
अर्थवादविशेषेषु प्रामाण्यप्रतिपादनात । अस्मटुकनये स्पष्टा सापादाध्यायसंगबिः ॥ प्रकृतापेक्षित श्चात्र पूर्वपक्षसमुद्भवः । - प्रकृतस्थापनेनैव प्रसिद्ध इति संग्रहः ॥२५॥
इति विधिवन्निगदाधिकरणम् ॥२॥
अथ हेतुवन्निगदाधिकरणम् ।
॥१॥ सू - हेतु र्वा स्या दर्थवत्वोपपत्तिभ्याम् ॥ १.२.२६ ॥ (पू-१)
पुन रप्यर्थवादविशेषे वप्रामाण्यशंका परिष्टियते । तत्र पूर्व पक्षी मन्यते, भवतु सर्वत्रार्थवादानां विध्येकवाक्यता, तथापि केधुचि दर्थवादेषु प्रामाण्यं दुष्प्रतिपादम् । तथादि- ये पुन रेते हेतुन्निगदाः “शूर्पण जुहोती” त्यादी " ते नह्यन्नं कियत” इत्यादयः, कि ते प्रतिज्ञातस्य कर्तव्यस्य हेतु मभिदधति; उत्त प्रीसामिति विचारणीयम् । नताव प्रशंसन्ति, अशाब्दत्वा प्रशंसायाः। हिशब्दा दिश्रुत्यैव हेतुस्वस्य स्पष्टाभिधानात् । श्रुतहानाश्रुत कल्पत्यो श्वान्याय्यत्वात् । तदेत दुच्यते " हेतु वै” ति । ईशाना. मर्थधादानां तु रभिषय स्वात् । कुतः? " अर्थवत्योपपत्तिभ्यां - हिशब्दार्थवत्त्वान् । अन्यथा श्रुतहान मित्यर्थः ।
अथ- एवं हेतुपरत्वे परार्थानुमानप्रयोगव नागमतया प्रामापम् । नाप्यनुमानतया, तस्य व्याप्तिपरामर्शसापेक्षत्वात । यद नकरणं तद्धोमसाधन मिति व्याप्ते श्चासिद्धेः । दर्तीपिठरादिषु होमसाधनत्व मसिद्ध, प्रत्यक्षादे स्तत्र व्यापाराभावात् । शास्त्रे.________________
सेश्वर मीमांसा । णापीतः पूर्व मसिद्धत्वात् । अब हेतुनिर्देशमुखेन व्याप्तावेव तास्पर्य मुच्येत, तथाप्यश्रतकल्पना गौरवम् । वाक्यभेदश्च, “ तेन यन्नं क्रियत” इस्पेकस्यैव - यदन्न करणं तद्धोमसाधनं भन्नकरणत्या च्छूपों होमसाधन मित्यर्थद्वयविधानाशक्तेः ।
भयोच्येत - यदनकरणं तेन तेन होतव्यमित्येवविधिः कल्पते, " शूर्पणजुहोती " तिं तद्विशेषविषयोनुवादइति । तदपिन, उक्तोत्तरत्वात , करणविभक्तिनुत्यैष होममधन्धानस्य अर्पस्प कल्पनासिदै दीपिठरादिभिः कथं बाधोविकल्पः समुचयोवाकल्प्येत । श्रीतेनैव करणेन निराकांक्षा होमः कल्पनीयं करणान्तरं नापेक्षते। अपेक्षित पक्षच करणान्तरे श्रुतौ अपमाणं करण मुपथावन्हामः करमान्तरकल्पनं प्रतिवन्नीपात् । कल्पकश्च हेत्वपदेशार्थवादः स्तुनिपरत्वेना न्यथाप्युपपन्नः । शूर्पस्पतु करणता विध्युद्देशान्तगलतया स्फुटतरश्रुत्यैव प्रतिपन्ना । विशिष्टानुष्ठानेनेवदि शास्त्रा र्थव्यवस्था, नच दर्वीपीठरादिभिः जुहतीनुष्ठात पश्यामः ।
अथ दीपिठरादीनां होमकरणत्वं नास्तीत्पव्यभिचारं मन्यसे ? फर्थ तहि शूर्पस्य तत्करणत्वं मंस्षसे । परम्परयेवि चेत् ? तुल्यम् । ददेिश्व तत्करणत्वाभाधे कुत्र व्याप्ति गृहीप्यसि । न क्वचिदिति चेत् ? कथं हेतुः? नचात्रापि तन्नीतिराप सम्भवती त्यामाण्यमेवा विशिष्टमिति ॥१॥
तत्रप्रतिविधत्ते -
॥२॥ सू - स्तुतिस्तु शब्दमूर्वत्वादचेदिनीतस्य ॥ १-२-२७ ॥ (सि-१) ___तेनह्यन्नं क्रियत ” इत्यादिना स्तुतिः क्रियते । कुतः ?
पोदीनां होमकरणत्वादेशब्दपूर्वत्वात् । श्रेयस्साधनस्प शब्दैक वेद्यतया हेतुसाध्यत्वाभावादित्यर्थः । अतोऽनाकांक्षितस्य, “वस्य” हेतोः, अचोदना ॥२॥________________
शास्त्र मुक्तावली । ॥३॥ सू - व्यर्थेस्तुतिरन्याय्येतिचे दर्थस्तु विधिशेषत्वा द्यथालोके ।।
॥१.२.२८॥ (सि -२) " तेनानं क्रियत” इत्यादी, " व्यर्थं - अर्थरहितेवाक्ये, स्तुतिरन्याय्या असतास्तुते रयुक्तत्वस्थापनात , होमसाधनदशायाँ क्रियतइति वर्तमानतया निर्दिष्टस्थान्न करणत्वस्या सत्त्वादिचेत ? नैवं व्यर्थत्वं, अर्थस्तुस्यादेव । कुतः? विधिशेयत्वात “। " यथालोके " । नासौविधिः, अपितु तच्छेषः, तेनपरशब्दार्थ स्वीकारोयुक्तः । हेतुविधौत्वयं दोषः, विधस्त्वत्यन्ता प्रतिपन्नविषयतया यथा श्रसान्मात्रया प्यन्यथा करणाभावात् । अन्नकरणदशायर्याच होम करणता सम्भवात् । विध्यर्थंचास्मि बनुवाद परिशेषाद्यथा प्रसिद्धयब्रकरणत्वं शब्देनैवानज्ञातमिति न व्यवहितकरणत्वादि चोयावकाशः। पाकनिष्ठंच साधकतमत्वं शर्प उपचर्यते । विवक्षातः कारकाणि भवन्ति । " तेन ह्यन्नं क्रियत” इति नेतर व्यवच्छेदार्थ, अपितु प्रकृष्टकरणत्व विवक्षया । प्रकर्षश्चापेक्षा तो निकृष्टापेक्षया मन्तव्यः । इदमपि च नलोकिकं, यथा वाणिज्येन वर्तेत तेनच धनवान्भवतीति । अत्रच भूतम्भविष्यद्धानकरणत्वं स्तुत्यर्थं वर्तमानतया ध्यपदिश्यते । अवर्तमानादपि वर्तमानस्येष्ट प्रीत्यतिशय हेतुस्वाद । शक्तेर्वा वर्व मानत्वं व्यापार निवेश्य निर्दिष्टम् । तदवस्थायां तस्यां हि पुरुषाणां भीति रतिशयिनी, न पुनस्स्वरूप सत्याम् । “घर्तमानसामीप्ये वर्तमानवहे” स्यनुशासनं वानुसतव्यमिति । इह परै“ रिति चे” दिति सूत्रं भिन्दानैः " इति पुनर्यदुक्तं तत्परिहर्तव्यं ” इत्यापभाषान्तं सूत्र मिह भाषितम् । तदयुक्तम्, एकवाक्यता प्रतीतिभंगात । अध्याहारादेव निमित्तत्वात् । एवमुत्तरयोरपि सूत्रयोः परस्परनिरपेक्षशं कोत्तरक्रमेण प्रस्पष्टविभागयो रेकतयोपादान मकारणकमनुसन्धेयं ॥ ३ ॥ एवं हेतुपरत्वं दूषितम् । अथान्वारुह्य वदति॥ ४ ॥ सू - यदिच हेतुरवतिष्ठेत निर्देशात् ॥ १.२.२९॥ (सि-३)________________
सेश्वर मीमांसा । “तेनह्यन्नक्रियते” इत्यसो यद्यपिहेतुः, तथापि निर्देशादवतिष्ठेत ।
एतदुक्तं भवति । हिन्दादे हेतुरेवार्थइति नायनियमः, नाना थंधप्रसिद्धः । अतः प्रामाण्यानुगुण एवार्थःस्वीकार्यः । प्रसिद्धि प्रकर्षमात्रात्त यपि हेतुरंगीक्रियेत, तथापि शूर्पगसमेवान्नकरणत्वं हेतुरवतिष्ठेत, “तेनह्यन्त्रक्रियत" इत्येवं निर्दिश्यमानत्वात् । शब्द प्रमाणकेचाथै यथाशब्दं व्यवस्थानात् । क्लप्तकल्प्यविरोधेच क्ल तस्वीकारस्यैवयुक्तस्यात् । नचात्र व्याप्तधादिपरामर्शापेक्षा, ज्ञापकहे तोरविधक्षितत्वात् । कारकेपिविरोधात । बीजादंकरंजन्यते तद्धिक्षिति जलादिसापेक्षमिति व्यवस्थितमितिवत् । नच तावताशिलाश कलादिष्वपि प्रसंगः, तेवदर्शनादा, प्रकृते पि क्षिति जलादेः कारणत्वं निवर्तते । एव मिहापि करणभूतस्य शूर्पस्यानकरणसा. मर्थ्य मविशेषकं भवति । नहि शूर्पस्य विशेषण मश्रतानां तद्धिशेषणयोगिनां संग्रहार्थ, अपितु शूर्पस्य तद्विशेषणयोगाव्यवच्छेदार्थम् । तथाभूते च करणे तद्विशेषणरहित शूर्पान्तरं व्यवच्छिद्यते । नच विशिष्टस्य करणत्वे विधीयमाने विशेषणहेतुत्वग्रहाय प्रमाणान्तर मन्वेषणीयं, अरुणैकहायन्यादिवत् । अतोन्नकरणसमर्थन शूर्पण होतव्य मिति विध्युद्देशान्तःपातेन केवलार्थवादता मेव प्रविक्षिपन्नयं हेतुशब्दः कथ मर्थवादतां प्रसंजयेदिति ॥४॥
हेतुविधावपि निर्देशवशात विशेष व्यवस्थानं दर्शितम् । अथ तदभ्युपगमे बाधक माह॥५॥सू - सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥
2 ॥१-२.३०॥ (सि-४) शूर्पण जुहोती" ति प्रकृतं “सेने” ति प्रत्यवमर्श चाना हत्या “नं क्रियत” इति सामान्यमात्रादनकरणभूत सर्वोपसंहार इति चेत् ? प्रमाणतयाभ्युपगतानां विधीना मव्यवस्था स्यात् -________________
११८
शाखमुक्तावली। विध्युदेशे वप्पार्थप्रकरणादिभि रापन्ना विशेषा ननात्य पदादि मात्रप्रतिपन्नखामायेति कर्तव्यता दिव्यवस्थाभंगः प्रसज्येतत्यर्थः । अतो हेतवन्निगदामा मप्यर्थवादाना मप्रामाण्यं वक्तुं नशक्यता इति सर्वे प्यर्थवादाः स्तुत्यादिमुखन सार्थका स्वन्तः प्रमाण मिति ॥५॥
असंगति रनौचित्य मानर्थक्यं गतार्यता । अस्वारस्यं च सूत्राणां अन्योक्ते विह मुग्रहम् इति हेतुवन्निगदाधिकरणम् ॥ ३ ॥
अथ मन्त्राधिकरणम् ।
॥१॥ सू - तदर्थशास्त्रात् ॥ १ - २ - ३१॥ (पू - २)
एवं साधित मर्थवादामा विध्युदेशेनेकवाक्यतया काखें वन प्रामाण्यम् । अथेदानीं तदेकवाक्यता हीना मन्त्रा विचार्यन्ते । कि ते मन्त्राः प्रमाण मुत नेति । तदर्थ च प्रतीयमानेर्थे तात्पर्य मस्ति नधेति । तदर्थ व किमेले कोपाखनरूपेषु शास्त्रेषु स्वार्थबोधनेनोपकुर्वन्ति, उतोच्चारणमात्रणेति ।
उच्चारणमात्रे विवक्षिते वर्थबोधन मानुषंगिकं, अर्थपत्यायन परत्वे प्युच्चारणं प्राप्तमिति संशयावकाशः ।
तत्रैवं पूर्वपक्षः । यद्यपि स्वतः प्रामाण्यादिकं स्थापितं, तथा प्यन्यपरत्वा दिह तदपोद्यते । नमवत्पर श्वब्द स्तत्र प्रमाणमिति प्रखंगात् । नच मन्त्राणां स्वार्थे तात्पर्य सम्भवति, तदर्थ शास्त्रादिविरोषहतत्वात् । तथाहि - " बर्हि देबसनं दामी" स्या दयो मन्त्रा यदाः तदर्थेवेव ते शास्त्रेण विनियुज्यन्ते विवक्षि________________
सेश्वर मीमांसा । तार्थत्वेहि स्वशक्त्यैब बर्हि लवनादौ विनियोग स्सिद्धः, सब कि शास्त्रेण तदर्थेन । नोषा मर्थविवक्षा शक्ति वा शास्त्रै रभिधीयते, हुम दिष्वतिप्रसंगात् । अविवक्षितार्थत्वे तदर्थशास्त्र मर्थवत । अतो वगच्छामो मन्त्राणां स्वार्थेषु न तात्पर्यमिति ॥ १॥
॥२॥ सू - वाक्यनियमात ॥ १.२.२२ ॥ (पू.२)
पदसमुदायविशेषो वाक्यं, तम्य, नियमः - पदानां नियत कमयोगित्वम् । भय मभिसन्धिः । नतावत्पदाना क्रमनियमोर्थ प्रत्यायनांगं, व्युत्क्रमेणाप्यर्थप्रवीतेः । उच्चारणार्थत्वे क्रमनियमार्थवान् । नियतक्रमै रुच्चारित रदृश्योपकारसम्भवात् । यद्यपि विध्युद्देशेपि व्युत्क्रमेप्यर्थप्रतीति स्यात, तथापि नियसक्रमस्या प्यक्षरराशेः स्वा ध्यायशब्दवाच्यत्वा तथैवाध्ययनं वैधम् । अर्थप्रतीते स्तु व्युत्क्रम भतिसंहिते रपि पदै स्साधनवं को वारयेत् । नहापितथा, व्युत्क्रमेणोच्चारणस्या शास्त्रार्थत्वात् । अनुच्च्चारणावस्थाभाविन्यार्थ प्रतीत्यानुष्ठानानुपकारात । मञ्च नियतकमार्थप्रत्यायनेना दृष्टमिति नियन्तुं युक्तं, तादृशोच्चारणेना वर्जनीयेन तत्सम्भवे तदधीनाति रिक्तोपादागौरवात् । यत्रत्वानुशासनिक प्रकृतिप्रत्ययसमासादिषु क्रमनियमः, सब क्रमभंगेपशब्दत्वान्यार्थत्व निरर्थकत्वादिप्रसंगा सथैव कमेण नियतेन भवितव्यम् । इहनु न तथानुशिष्ट मिति युरक्रमेणार्थप्रत्यायनं को निहन्ध्यात् । क्रमभंगे कथं मन्नत्वमिति खेत ? माभून्मन्त्रत्वम् । नहोतदर्थपतीते रंगम् । अर्थप्रतीतिसाधनत्वे तदपेक्षामाचमेष संरक्षणीयम् । अतो मन्नत्यपरिरक्षणायार्थ प्रत्यायकमपि व्युत्क्रमपाठं [] पौरुषेयं या पाक्यं ध्यानादिकरणान्तरं खानाहत्य क्रमविशेषवरस्वप्रकरणस्थ वाक्यनियमाय मर्था भिसन्धि प्रतिबध्नाति ॥२॥
॥ ३ ॥सू - बुद्धशास्त्रात् ॥ १-२-१३ ॥ (पू . ३१)________________
शास्त्रमुक्तावली । अपिच केचि न्मन्त्राः कर्ममध्ये प्रयुज्यमानाः परप्रेषणवन्निगदाः प्रतिपन्ना साधनरूपादृश्यन्ते:- यथा “ अग्नीदग्नीन्धिहर " इत्येव मादयः । प्रतिपन्नोह्ययमर्थः पाठमात्रेण । नानधीतवेदो ऽविद्धः न्कर्मणि नियुज्यते । अतःक्रमात्मागेव शिक्षितात्मीय पदार्थमा सीधम्प्रति प्रैषोयमनर्थकः । अथ निश्चितात्मीय पदार्थस्यानुष्ठान कास्मरणार्थः प्रैषइतिचेन्न:- सादरपटुतर शिक्षित ब्राह्मणार्थ विक्षा नाभ्यास महिमसंजनित संस्कारविशेषादेव तत्प्रसिद्धेः । संस्कारो दोधोपि निरन्तरेश्चात्मीयपदार्थेषु पूर्वसमाप्तिमात्रा ब्राह्मणवाक्यादेव सिद्धचेत । नच बुद्ध बोधन मर्थवत् । बुद्धेप्युच्चारण मदृष्ट द्वारेणोपकुरुते, बोधनन्तु दृष्टं सिद्धं चेति न साधन मर्हति ।
ननु संस्कारातिशयाय द्वितीया बुद्धि रुत्पाद्यते; यच्चाब सोपानके पादे द्वितीयोपानत्परिग्रहवदशक्यत्वं परै भौषितं, पिष्ट वेषणं च निदर्शितं, सोपि हस्तसमालोचः, वैषम्यात; शब्देहि सह स्रशः पठितेपि प्रतिपर्यायं बुद्धचन्तरोत्पत्तेः इति चेन्न; - शक्यत्वेपि कृतकरत्वस्य दुस्यजत्वात । नहि द्वितीयेन चोधन प्रथमा दधिक मुपकृतम् । अदृष्टन्तूच्चारणादेष युक्त मित्युक्तम् ॥ ३॥
|| ४ ॥ मू - अविद्यमानवचनात् ॥ १.२.२४॥ (पू-४१)
अविद्यमान मर्थ केचि मन्त्रा पदन्ति - " चत्वारि श्रृंगा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्ता सो अस्य । विधा बद्धो वृषभोरो रवीति महो देवो मायाँ आविवेश " इति । नह्येवं विधः कश्चित् वृषभ स्तम्भाव्यते । यद्यपि लोकोत्तर मथै शब्दः प्रतिपादयेदिति साधितं; तथापि यत्रासो यज्ञे मन्त्रः न तत्र प्रकृती या चतुश्रृंगत्वादिविशिष्टं कर्म तत्सम्बन्धिया किंचि दुपलभामहे, यदभिधानेन प्रमाण मसौ मन्त्रः स्यात् । यदिच यज्ञानुवन्धिनि कस्मिंश्चिदर्थे मन्त्रस्यास्य विवक्षा स्यात् । स कथं समस्त शब्दार्थषित भगवान्________________
सेश्वर मीमांसा । पतंजलि नामाख्यातोपसर्गनिपातादिरूपेण चतुगतादीन् कल्पयित्वा शब्दविषय मयोजयत् । अविवक्षितार्थत्वेनु स्वेच्छया स्वाभि मते विवक्षा कल्पयितुं शक्यते । नत्वपथा, तथा सति विष्ठा बकत्वप्रसंगात ।
एतेन संख्यासादृश्यमाबादृस्विक्सवनादिषु गपादादिरूपी गुणवाद इत्यपि प्रत्युक्तम्, अनुष्ठानानुपकारित्वाच्च । अविज्ञात प्रयोग प्रदेशस्या स्थ मन्त्रस्य पाठक्रमा प्रदेश कलमी युक्तं तत एव स्वयम्पतितोच्चारणार्थत्वम् ।
यच्च “नमस्ते अस्तु मामाहिखीः” इत्यादि मन्त्रः, सोप्य विद्यमान वचनः । नहि तत्र हिंसाप्रकान्ता, येन प्रतिषिध्येत । तस्मादप्रतिषिद्ध भागिन मर्थ प्रतिषेधन्नयं मन्त्रोपिस्या दविद्यमान वचन एव । एवमन्येपि ॥ ४॥
॥५॥ सू - अचेतनेर्थ बन्धनात् ॥१.२.१५ ॥ (पू.६)
अचेतनं बोधयितुं केचि मन्त्रा अर्थ निबध्नन्ति । यथा-“औषधेवाय स्वेन स्वधितेमैनें हिंसीः” * शृणोतग्रावाणः” इत्यादयः, अनन्तरी दाहता “मामाहिंसीः" रित्यादयश्च । मचा चेतना ओषध्यादय स्तत्प्रविष्टावा क्षेत्रज्ञा अभिमुखीकर्तु मर्थवा चोधयितुं मन्त्राणां पद बाक्यश्रवणादी नियोक्तुं वा शक्यन्ते । नाप्यत्राभिमानिदेवताविवक्षा वाक्या कल्पयितुं, प्रत्यक्षसिद्धद्रव्यविषयत्वा द्विनियोगस्य । नचा न्यस्य विनियोगेन्यः प्रकाशनीय स्स्यात् । अत उन्मत्तभाषितसमानाः कथ मेते मन्त्राः प्रमाणं स्युः ॥५॥
॥ ॥ सू - स्वाध्यायव दवचनात् ॥ १-२ - २६ ॥ (पू.६१),
" स्वाध्यायोध्येतव्य " इति विधि मनुस्मरन्तो धिकारिण स्वाध्यायव नतदर्थ प्रधान मुपदिशन्ति, अपितु स्वयं निहितार्था
१६.________________
शामुक्तावली । स्तन्तः सन्निहित मप्यर्थ मनादृत्य याव दक्षरग्रहणं स्वाध्यायस्वरू पमेव शिष्या नध्यापयन्ति । येनाकारणाय मुपयोक्ष्यते तवैवार्य संग्रह इत्युक्तम् । अत उच्चारणशिक्षण मुख्चारणार्गमव । उच्चा’ रणं च कर्मण्यपेक्षितं ज्ञानार्थत्वे प्यवर्जनीयं च । अतोर्थ मशिक्ष यद्भिः स्वाध्यायस्वरूपं शिक्षयदि शिष्टै रुच्चारणरूप उपकारो भिप्रेत इत्युत्प्रेक्षामहे ।
विध्यर्थवादयो रपि साधारण मिदं चोद्यम् । तयोरपि हाक्षरग्रहणपूर्व वृद्धाः प्रवर्तयन्ति । यदा पुन भुसिता थाना मन्ते वासिनां विध्यर्थवादयो रथं व्याकुर्वते तदापि न मन्त्र भागार्थ परिसंख्याय व्याचक्षते । ततोक्षरग्रहणदशाया मावचन मात्रेण यदि मन्त्राणा मविवक्षितार्थता, तुल्य विध्यर्थवादयोरपीति शाखार [ म्भ एवो ] म्भे त्रिपाद्यारम्भे चोपक्षिप्य परिहर्तव्य मिदं चोचं किम्मन्त्रेषु विशिष्पेदानी मभिधीयते । एकदेशद्धारा कृत्स्न वेदामामाण्य मुपपिपादयिपितमिति तदभिव्यक्त्यर्थ मिदं सूर्य [गुरु नये ] संगच्छत इति चेत् ? तथाप्येकदेशद्वारिकाणामेव पूर्वपक्ष युक्तीना मिहीपक्षप्तव्यत्वम् । तथेह न चास्ति । अध्ययनविधे रथग्रहण पर्यन्तत्वेषि स्वशक्ते रक्षरग्रहणमात्र विश्रान्तावा पूर्वमर्थानभ्यासः, नत्वर्था नादरात् । अतइदं सूत्र मसंगतम । मैवं, एकदेशद्वारिकाया एवयुक्तरिहाभिप्रेतत्त्वात् । अध्ययनदशाया मेव जप्तव्यास्तन्तिकेचिन्मन्त्राः, यथा “शन्नोमित्ररशंवरुणः” " सहनाव ववि"त्यादयः, यथाच ब्रह्मचारिकर्तव्येष्वपि धर्मेष्वनुप्रविशन्तो मन्त्राः । नाहितोप तदानीमर्थत शिक्ष्यन्ते, अपित्व स्खलितमात्रादिना स्वरूपेणैध । यदि तेषु मन्त्रषु विवक्षितार्थतयार्थोपि ते रनुसन्धेयः तदा कथं विद्धांसो वृद्धाः तत्तन्मत्र स्वरूपभिव तन्तमर्थमपि शिष्यानशिक्षयेयुः । अत आरम्भे मन्त्राणां उच्चारणार्थत्वे वसिते सर्वत्रैच मिति सूत्राभि प्रायः ।________________
सेश्वर मीमांसा।
एवंवा सूचं व्याकुर्म’, स्वा य पाध्ययनदश.यां यत्प्रकारा मन्त्रा अधीताः, नतथा प्रयोगकाले प्रयुज्यन्ते, अपित्वर्थज्ञानानुपकारिणा नीचे स्वोपांशुक स्वरमात्रत्वादिभेदेन उच्चार्यन्ते । अतोषगच्छामः, समा. नन्पायतया सर्वत्र उच्चारणविशेष नियमेनवा दृष्टमिति ॥ ६ ॥
॥ ७ ॥ सू - अविज्ञेयात् ॥ १ . २ - ३७ ॥ (पू. ७)
अविज्ञानादित्यर्थः 1 अविज्ञेयत्वादित्तिवा । अर्थस्येतिशेषः । अर्थप्रीती जायमानायां प्रमाण मप्रमाणं चेति चिन्तावकाशः, नपुनः समुद्रघोषादिषु वर्णक्रमपाठादिषु वा । कतिचन मन्त्रा नकथंचि दर्थ बोधयन्ति । यथा-" अम्पक्सात इन्द्र ऋष्टि रस्मे " इति, “सण्येव जभरी तुफरीतू " म इन्द्रस्लोमस्य कानुका " इति । एवम विदितपदार्थ वाक्पार्थाना मेषां मन्त्राणां कम्मिन्न प्रामाण्यम् , प्रतिपिपन्मदे । उच्चारणार्थत्वेतु हुमादिवदविदिदार्थैरपि ते स्तरिसद्धिः । वस्तुत स्तेषा मप्यर्थवत्तपा वर्णक्रमाद हुमादेश्च विशेषइति चेत् ? वणेवर्थ मनधिगमयासु कथं भवां स्तेषा मर्थवत्तो प्रत्यवादीः । नार्थवन्त इमे मन्त्राइत्यनु णुमः । नाप्यनुमिमि महे, योग्पानुपलम्भवाधात् । हुमादिभिरनेकान्याच्च । अत ईशानां मन्त्राणा मुच्चारणमात्रार्थत्वे तुल्यन्यायतया उन्येषामपि मंत्राणां तादर्य युक्त मिति ॥७॥
॥८॥ सू - अनियसंयोगात् ॥ १.२.१८ ॥ (पू. ८)
वेदाना मपौरुषेयत्वाप वेदानां प्रामापायच पूर्वमनित्यसंयोगा बुदाहती । इह पुनमंत्राणा मविवक्षितार्थत्वाय मांत्रर्णिकस्सएव पुनरारभ्पत इस्पेवं मन्यते । यथा - " किते कृण्वन्ति कीकटेषु गाव " इत्यादयोमंत्राः कीकटादिसंज्ञितान जनपदनगरराष्ट्र - प्रभृतीननित्या पदार्थान् कांगभूतानुपाददते । तेषाचे दर्थविषक्षा,
.________________
शास्त्रमुक्तावली । नित्येऽनित्य संयोग विरोधा द्वेदामामाण्यं प्रसज्यते । उभारणार्थत्वेतु नैवं दोषः ।
ईशार्थस्य प्रवाहयुक्त्या प्रागेव परिहतत्वात् बरं.. नारोडितमर्थ मभिदध्महे । मन्त्राणां स्व प्रतिपाचै रथैः, अनित्य संयोगात् - अनियतसंयोगादित्यर्थः । एकैक एव हि मन्त्री विनियोगभेदेन तत्त दनुरूपान्नानार्थी प्रतिपादयन्तीति निरुच्यते नरुक्तकैः । तत् कस्य हेतोः १ ऋते मन्त्राणामविवक्षितार्थत्वाव । विवक्षितार्थत्वेवा कथं स्वार्थ जह्यात् , अन्यद्धा कथं वदेत । एवं “मैंयागाईपत्यमुपतिष्ठत " इत्यादिविनियोगवला दिन्द्रादिरूपान् स्वार्थान् - परित्यज्य स्वकार्यसामयादिनिमित्त निर्वचनादिमुखेन गार्हपत्यादीना मन्त्राः प्रतिपादयन्तीतिव्याचक्षते । अतोयमनित्य संयोगप्रभेदः । तदेवं सदर्थ शास्त्रादिभि पिकैः प्रत्यायकैश्च युक्तिभेदै रविशेषा सर्वत्र मोघञ्चारणमेव विवक्षितं नार्थज्ञानमित्यविवक्षितार्थत्वा मंत्रा नप्रमाणमिति ॥ ८॥
अत्र राद्धांत मारभते -
॥९॥ सू- अविशिष्टस्तु वाक्यार्थः ॥ १ - १ - ३९ ॥ (सि-१) तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । व्युत्पन्नः पदैरवगम्यमानो वाक्या थों वेदेवोकेच समानः । तान्येवच पदानि संहत्य, लोकोत्तरमर्थनतिपादयितुं लोकवदेव वेदे व्युत्पत्त्यनुसारेण शक्नुवन्ती त्युक्तम् । स्वतः प्रामाण्यश्च मागेव साधितम् । कारणदोषाशंकाच परिहता। येपुनस्तदर्थशास्त्रादयः क्षुद्रोपद्वाः, ते कारणदोष चाधकप्रत्ययरहित प्रतीतिजन्मनैव प्रत्युक्तप्रायाः । मान्त्रवर्णिकप्रतीतिः प्रमाण, कारण दोषवाधक प्रत्ययरहित प्रतीतित्वात , आप्तवाक्यजन्य प्रतीतिवत् । विध्युद्देशादि वाक्यार्थ प्रत्ययवत् । इति । इदमप्य विशिष्ट इत्यनेनैव सूचितं । असिद्धचन्यथा सिद्धयादि परिवार स्तदर्थ शास्त्रादि प्रत्युत्तरेणैव सेत्स्यति ।________________
सेश्वर मीमांसा । एतदुक्तं भवति । तदर्थ शास्त्रेणापि कर्म सु विनियुक्त मन्त्रै स्त पछेषतया तत्र तत्र किंचि स्कर्तव्यं, कर्मणांचानुष्ठाने ऽर्थप्रकाशन मपेक्षितं, मन्त्रैश्चा बिहत स्वाभाविक शक्तिभि रर्थपकाशी जायमानो दृश्यते । अतोनुष्ठानोपयुक्तार्थ प्रकाशनेनोप कुर्वत इति युक्तमाश्रयितुं दृष्टे सम्भवस्य दृष्टकल्पनस्या न्याय्यत्वात् । नियममात्रस्य च दृष्टा विरोधेन सिद्धेः। शत्यनुसारेण च विनियोगोपपतेः । सन्निहित स्यच वाक्यार्थप्रत्ययस्या कृतार्थप्रयोगेनुप्रवेशयितुं युक्तत्वात । उच्चारण पदार्थज्ञानादे स्त्वेवमपि चरितार्थत्वात् । अचेतनसम्बोधनाद्यनुपकार्यर्थ प्रकाशनस्यच परिहरिष्यमाणत्वात् । अतो " बर्हि देव सदनं दामी" त्यादि मन्त्राणां तावद विहतार्थ प्राधान्याना मनाकुलं प्रामाण्यमिति ॥९॥
अत स्त्रिभिस्सू रुदाहरण विशेषेषु पुनःश्रीत प्रकारान्तरेण परिहरति । “चतुर्भिरादत्त"इत्यत्र चतुणी मंत्राणां रूपादेवाचयादाने विनियोगः प्राप्यत इति न पुनर्विधानमर्हति । न ह्येत संख्याविशेषार्थ पुनःश्रवणम् , चतुष्वस्यापि तेषु सिद्धत्वात् । नच निक्रियत्वा क्रियांगतया विशेष्टुमलम्। नापि समुच्चयः, चतुष्टोक्ति प्रत्येक सामयां प्राप्ते विकल्पे समुच्चयस्था न्याय्यत्वात् । समुच्चयाभिधायिन श्चशब्दस्था दर्शनाच्च । अतोर्थपरवे निरर्थकमिदं पुनर्वचनम । पक्षान्तरेत्वनवादाने प्राप्तानामेव तत्र विनि योगः प्रमाणान्तरेणा प्राप्त श्चतुष्ट्रमप्य दृष्टार्थ गमयतीति युक्तः समुच्चय इति । तत्राह
॥ १० ॥ सू - गुणार्थेन पुनश्श्रुतिः ॥ १.१-४०॥ (सि-२) स्वरूपा देवाचयादाने प्राप्तानामेषा मन्त्राणां पुनरभ्रयादाने विधानं, गुणार्थेन-चतुष्ट संख्यारूप गुणविधानार्थ । यद्यपि चतुष्टं तेषु स्वतःसिद्धं, तथाप्यभ्रयदानार्थतया न प्राप्तमिति युक्त स्तद्विधिः । सामानाधिकरण्य लब्ध गुणवैशिष्टयस्य कारकस्य क्रियाद्धय विधी न कश्चि द्विरोध इत्य रुणाधि करणे वक्ष्यते । नचात्र विकल्पमाप्तया विरोधा, लैंगिकत्वा दत्र________________
शास्त्रमुक्तावली । विकल्पमाप्तः । समुच्चयस्य श्रौतत्वात । नचात्र समुच्चयशब्दो नास्तीति वक्तुं युक्तं, क्रियावषेच चतुष्ट्रयस्य समुच्चयशब्द मन्तरेणापि सिद्धेः । अत एवं विधेषु पुन २श्रुते रप्राप्तगुणविधिपरत्वा न तदर्थ शास्त्रविरोध इत्यभंगुर मर्थपरत्वम् ॥१०॥
ननु " इमा मगृभ्णन् रशनामृतस्ये " त्यादिषु सामान्यलिंगेषु मन्वेषु यद्यर्थविवक्षा स्यात , तदा “ अश्वाभिधानी मादत्त " इति विधान मनर्थकं स्यात्, मन्त्रलिंगनवा श्वाभिधान्या अपि शनायाः प्राप्तत्वात् । अत्यन्ताप्राप्तहि विधिः प्रवर्तते । तबाह -
॥ ११ ॥ सू - परिसंख्या ॥ १.२.४१॥ (सि -३)।
सत्य मत्यन्तामाप्ते विधिः । नत्वसौ करिष्यते, अपितु परिसंख्पा । सातु सामान्यतः प्राप्ति मपेक्षेतवेति मन्त्रस्पार्थविवक्षा तदुपकारिका । अतोत्राश्वाभिधानी विधानं गर्दभरशनावर्जन रूप बोधनार्थमिति न पुन २श्रुतिः । नन्वेवं स्वार्थप्रहाणं परार्धकल्पनं प्राप्तबाध ति दोषत्रयं स्यात? किमतः, गत्यन्तराभावे सोढव्य स्वात् । अत्यन्ताप्राप्तविषयविधिवत् , अपुष्कलविष पनियमवत्, पुका कप्राप्तकदेशलक्षणायाः परिसंख्पाया अपि लोकव्युत्पत्ति सिद्धत्वात । टोकेहि विशेषविधि रेवकारादिवनिषेधं गमपति, विशेषनिषेधः शेषानुज्ञानंकिंचि प्रामाण्य मकतः, परिसंख्यादोषत्रय मेकतः, तत्र कतरधीय इति निपुणः निरूप्यताम् ॥ ११ ॥
ननु तत्र चान्यत्र च प्राप्तावन्यतरविधानं परिसंखपार्थ मिति युक्तं, यत्रतु तत्रैव प्राप्तिःशब्दा त्परिशेषा द्वा, तत्र “ उरुप्रथस्वे ति पुरोडाशं प्रथयती” त्यादौ पुन श्रति वैयर्थ्यपरिहाराय मन्त्रस्या विवक्षितार्थत्वं युक्त मास्थानुम् । तत्राह
॥ १२ ॥ सू - अर्थवादो वा ॥ १ -२ - ४२ ॥ (सि - १)________________
सेश्वर मीमांसा। वाकारों व्यवस्थितविभाषा विकल्पार्थः । पुन अतिः क्वचि दशनादानादौ परिसंख्यार्था, क्वचि पुरोडांशपथनादा वर्थवादार्था ।
एत दुक्तं भवति । अमाप्तं पुरोडाशप्रथन मेवात्र विधेयम् । नत मन्त्र स्तत्र चिनियुज्यते, सामदेिव प्राप्त स्समधनस्तुत्यर्थ पुन विधीयते । " यज्ञपति मेव प्रजया पशुभिः प्रथयती " ति प्रथनं स्तूयते । तत्रैव मा शंकेमहि - कथं पुरोडाशः प्रथन्यज भानं प्रयतीति । सेषा शंका मन्त्रलिंगप्रधानप्रकाशनेन निवय॑ते । " उरुप्रथस्वोरुते यज्ञपतिः प्रथता" मिति यज्ञपतिपथनाशिषाहि मन्त्रेण प्रथनं क्रियते । अत इदं प्रथन मनेन मन्त्रेण क्रियमाणं यज्ञपतिप्रथनकारणं भवतीति । नव मसता स्तुतिः, मन्त्रीदि तस्यहि फलस्यां [ग] शविषयस्यापि प्रधानाविरोधिन स्तुत्यर्थ पुरस्कृतस्यापि तदपेक्षितत्वेनैव परित्यागायोगात । उक्तं च भाष्य कार श्रीमद्गीताभाष्ये - " बहुशाखा ह्यनन्ताश्च बुद्धयो व्यवसायिना" मित्येतद्ध्याचक्षाणैःप्रधानाविरोधिनांमन्वोदितफलानांविधक्षितत्वम् ॥१२॥
एवं बहुधा पुन श्रुतिः परिहता । अथ क्रमनियमस्या न्यथासिद्धि माह -
॥ १३ ॥ सू • अविरुद्धं परम् ॥ १ - २ - ४३ ।। (सि..) रए यन्मन्त्रस्थानां पदानां कपनियमेनोच्चारणं, तदर्थादृष्टकल्पनं वा, तन्मन्त्रस्य विवक्षितार्थत्वे प्यविरुजम् । परं - अनन्तरोक्त मित्यर्थः । केवल मिति वा । क्रमनियमोच्चारणादिकं केवल मविरुद्धं, पक्षद्वयसाधारणं, न क्वचि पक्षे पतित मित्यर्थः । अथवा परम् - उच्चारणा दितरदर्थज्ञानं, अदृष्टार्थोच्चारणनियमेना विरुद्धम् । यद्धा उच्चारण मदृष्टार्थमिति वदता यतः परमेवं कमै रदृष्टमिति नियमितं, तदर्थमस्यायनपक्षे प्यविरुद्धम्।________________
शास्त्र मुक्त दी। एत दुक्तं भवति - दृष्ट मर्थज्ञानं ताव हरपलवं, बाधायभाव स्व सिद्धः, सोपयोगिता च दर्शिता, एवं स्थिते यथाक्रमनियमेनो च्चारण मदृष्टार्थ तथैव नियमयोगेन प्रत्यायन मदृष्टाय स्यादिति ॥१६॥ बुद्ध बोधनमपि नियमार्थतया समाधत्ते -
॥१४॥ सू-सम्प्रेषेकर्मगहीनुलम्भर संस्कारत्वात् ।। १-२-४ ४ ॥(सि-६)
" अग्नीदग्नीन्विहरे" स्यादिसम्प्रेषे बुद्ध बोधनरूपस्य कर्मणो गहों या पूर्व मुक्ता, तस्याः, भत्रानुलम्भः-पुन बाँधनगहीरूप उपलम्भी वन कर्तुं शक्पत इत्यर्थः । पुन बोधनस्य नैरर्थक्यप्रसंगेहि मन्त्रस्याविवक्षितार्थता क्लूप्तिः, तत्त सार्थकम् । तथाहि - स्वा ध्यापकाले बुद्धस्पेदानी बोधनं तावन्ननिरर्थक, तदातनधियां क्षणिकतया यावत्प्रयोगकाल मनवस्थानात । तासां संस्कार मात्राविशिष्टत्वात, प्रयोगस्य च तदानींतन प्रयोक्तव्यधीसाकांक्षरवात । अथ केनचि प्रत्ययमार्गादिना प्रयोगकाकेपि स्मृति स्तम्भवतीति पुन बाँधननैरर्थक्यं शक्येत, तदपि न, नियमार्थत्वात । अनेनोपायान्तरेण वा प्राप्ता स्मृति रनेनैवोपायेनेति नियम्यते । संस्कारत्वा दित्यस्य पुन स्स्कृतिसंस्कारार्थत्वा दित्यर्थः ॥१४॥ ( अविद्यमानवचनं परिहरति
॥१५॥ सू- अभिधानेर्थवादः ॥ १-२ - ४५ ॥ (सि - ७)
" चत्वारिश्रृंगात्रय " इत्यादिकं नाविद्यमानवचनं, " हिरण्म यः पुरुषो । ’ हिरण्यस्मा हिरण्यकेश " इत्यादाविवाजसैव विश्वसृजो रूपविशेषस्य प्रतिपादनात् । विग्रहादिमत्त्वश्च देवतानां स मर्थयिष्यते । ईदृशश्च रूपमद्यापि क्वचिदर्चयन्ति । स्मरन्तिच वैखा नससंहिताभेद कर्तारो महर्षयः । अत ईदृशस्य रूपविशेषस्य प्रति पादकेन मन्त्रेणान्याभिधानर्थवादः । मन्त्रेप्यर्थवादशब्दो व्युत्पत्तिसा________________
सश्वर मामांसा ।
।११९ स्या यथाकथंचि सारूप्या त्तद्पत्वमारोप्यार्थवाद इत्यर्थकः । अतपवाद भगवानपतंजलिस्स्वाभिमतं शब्दतत्वंस्तुबानोनामाख्यातोपसर्ग निपातादिमुखेन संख्यानिवेशा सारूप्यारोपणे नेममेषमन्त्र मनुसन्द धानः पुनरस्य विवक्षितं स्वेष्टमर्थ कल्पयामास । अस्यच मन्त्रस्या यमर्थः । “ यज्वभि यज्ञपुरुषो वासुदेवश्च सात्वते " रित्यादि प्रसिद्धो योसौ यज्ञपुरुषः, अस्यचाग्नेये पुरुरूपे चत्वारिशृंगाणि, बयः पादाः, ‘देशी, सप्तहस्ताश्च । बिधाबद्धः-अग्निवधरूपेणयायजकैद्धः । क्रियादिरूपेणवा विधावस्थितः । वृषभः - वृषभ समानावयव स्वात् । नसिंह महा वराहादिवत् । अर्थिनां पुरुषार्थान्व र्षतीतिवा। रोरवीति - श्रुतिमुखर मुख स्वात् । तथा च श्रयते - * तस्य हवा पतस्य महतोभूतस्य निश्चसितमेत पहग्वेद " इति । महाभारते यज्ञानुवन्धिरूपान्तर प्रदुर्भावे पठ्यते - “ओंकारमुदिरम्वका सावित्रींच तदन्वया” दिति । महोदेवः - महान् - सर्वातिशायी महनीय इति वा, यद्वा - मह उत्सवः - यज्ञरूप शास्त्रीयोत्सवाधि देवतत्वात् , देवः - जगद्व्यापारादिभि शास्त्रीयैश्च स्वाराधनरूपैः कर्मभि दीव्यन् । मान् - यज्ञाधिकारिणः पुरुषान् । आविवेश - “ब्र. झार्पर्ण ब्रह्महविः ब्रह्मानी ब्रह्मणाहुत " मितिन्यापेन परिकरानध्यतिष्ठदिति ।
जन्वपां सूक्ते पठितोय मन्त्रोन्दैवत्यः प्राप्तः, “ समु. दादूमि’ रित्या सूक्तमेकादशर्चक " मिति स्नाने शौनकेन विनि युक्तश्चेति नैतादृशार्थपर इतिचेन्नः- पुरुषस्यैवापाम्पतित्वात । यथोक्त खानयाचवल्क्य - प्रणवंवा त्रिरभ्यस्ये स्मरेद्धा विष्णुमव्ययम् ।
१७________________
शास्त्रमुक्तावली । विष्णोरायतनंह्याप स्वापाम्पतिरुच्यते ॥” इति । अतः सानेस्यधि नियोगोप्युपपजः । अपांचविष्णुनासनाधतया पावनतमत्वादि लक्षणा प्रशस्ति दर्शिताभवति । नचान्यस्य कस्यचिदप्स्वरूपानुबन्धिनएवं रूपमस्ति, अतोत्र रूपविशेषवत्परमात्म प्रतिपादकत्वं नानुपपन्नम् ।
यत्पुनः “ अचेतनेथ बन्धनात् " इत्युक्तं, तत्र साक्षादुत्तरस्य शारीरके समर्थनीयत्वा दुक्तन्यायेनार्थवादत्वम्य सुवचत्वाच्च न पृथ क्सूत्रेण पर्यभाषीत् । अचेतनेहि चैतन्यारोपणेन स्तुतिः । यथा चेतनेषु तत्त सामर्थ्यद्वारा तत्त स्कार्यसिद्धि रेवमचेतनेष्वपीति चंतनत्वोपचारः । साक्षादुत्तरन्तु- सर्व हि वस्तुजातं तत्त दभिमानि देवताविशेषै रधिष्ठितं तत्त दात्मकत्वेन एकया वाचा निर्दिश्यते , अत स्तत्सम्बोधनादिक मुपपन्नमिति । “ मैनँ हिंसी” रित्यादिकमपि तत्त द्व्यशरीरक चेतनपीडा हेतुत्व परिहाराभिप्रायेण ॥ १५ ॥ अर्थप्रतिषेधं परिहरति -
॥ १६ ॥ सू-गुणादविप्रतिषेधस्स्यात् ॥ १-२-४६ ॥(सि-८)
अयमर्थः, यत्र निपुण निरूपणे विरोधोनास्ति, तत्र न किंचित्कर्तव्यं, यथा - “ एक एव रुद्र " इत्यादौ । अब हि न रुद्रनानात्वं व्युदस्यता नच रुद्रेतर निषिद्धयते । नापि रुद्रतुल्यमितर नास्तीत्युच्यते । अपितहि कर्मविशेषस्यैव रुद्रदेवताकत्व मुच्यते, " आखुस्ते रुद्रपशुस्तं जुषस्व " इति वाक्यशेषानुसारात् । तथा च शाबरं - “ एकरुद्र देवत्ये [ कर्मणि ] एको रुद्रः, शतरुद्र देवत्ये शतं रुद्रा इत्यविरोध" इति । यत्रतु मुख्याविरोधः स्फुटः, यथा-“अदितिौँ रदिति रन्तरिक्ष” मित्यादौ । तत्र गुणा दघिप्रतिषेधस्स्यात् , एकस्मिन्नेव नरपतिरेष________________
सेश्वर मीमांसा। सर्वलोकः । त्वमेवमेमातापिताच ’ इत्यादावित्रोपचारा दविप्रतिषेध स्स्यात् । यत्पुनः - " पुरुषएवेसर्व" मित्यादि, तत्रविप्रतिषेधादि ‘प्रसंगाभावः स्थानेसमर्थयिष्यते । अर्थवादोक्त गुणवादसमान यांग क्षेमवेपि मन्त्रेषु पुनरभिधानं मन्दमतीनां प्रतिसन्धानार्थ ॥ १६ ॥ यदुक्तं स्वाध्यायस्वरूपवदर्थज्ञानेसंरम्भो नदृष्ट इति, तबाह -
॥ १७ ॥ सू - विद्यावचनमसंयोगात् ॥ १ - २ - ४७ ॥ (सि-९)
स्वाध्यायग्रहणकाले ऽर्थज्ञानाकरणं तदानों कर्मभिरसंयोगात् । नह्य श्ययन दशायामेव ज्योतिष्टोमादीनि कर्माण्यनुष्ठय दशापन्नानि , येन तदानीमेव तत्तन्मन्त्रै रर्थप्रकाशने प्रयतेमहि । पश्चात्त मोमांसमानैः भाष्पनुष्ठानोपकाराया र्थज्ञानं सम्पाद्यते । नच तत्पूर्व शक्यमिति शास्त्रादी दर्शितम् । अथ तदानीमपि किमर्थ मर्थज्ञानं नाभ्यस्यन्तीतिचेत् ? पटुतर ज्ञानाभावा दितिवदामः । भवादृशैस्तु पटुतर प्रज्ञ रर्थज्ञानवत् स्वायायोपि सकृदेवगृह्यत इति किं तत्र नचोदयसि ? भतो विषयानुरूप मधिकारानुरूपं च द्वयोरपि सम्भवएवेति ॥ १७॥
पत्त केषु चिन्मन्वेष्वर्थज्ञाना नुदया दप्रामाण्यमुक्तं, तबाह -
॥ १८ ॥ सू - सतः परमविज्ञानम् ॥ १-२ - ४८॥ (सि-१०)
" सृण्येच " इत्यादिमन्वेष्वपि प्रतिपाद्यत्वेन सत एवार्थस्य केवल मव्युत्पन्नाना मविज्ञानम् । नच तावता निरर्थकत्वं, पुरुषाणां प्रेक्षा व्युत्पत्त्यो स्तारतम्या दनियमेन सर्वेष्वपि वाक्ये वधिज्ञातार्थतया प्रामाण्यभंगप्रसंगात् । अत एव स्वय मपरिज्ञाना (सधैं रप्यविशेब________________
१३१
शास्त्रमुक्तावली । यत्वं कल्पयितुं न शक्य । जानन्ति ताव महर्षयः, तदुपदेशा पारम्पर्याच्च वय मपि तथा ॥ १८ ॥
॥ १९ ॥सू - उक्त श्चानित्यसंयोगः ॥१.२-४९॥ (सि-११)
प्राक्तनानित्यसंयोगविवक्षायां प्राग्वेदप्रवाहयुक्त्या परिहार उक्त इत्यर्थः । जनपदनगरादयोपि श्रुति सिद्धा स्तत्तन्नामादिविशिष्टाः प्रवाहानादयः । यदातु मन्त्राणा मनियतार्थयोगित्व मनित्यसंयोगो भिमतः, तदा विध्युक्तोय मनित्यसंयोगो विधिवलादेव स्वीकार्य इत्यभिप्रायः ।
एरा दुक्तं भवति - एकको मन्त्रो यत्रपत्रा नेके वर्थेषु विनिपुज्यते, तब सर्वत्र प्रकाशनाय प्रयततापि यत्र मुख्याओं न बाध्यते तत्र शत्या प्रवतते, तद्वाधे चोपचारतो वयवशक्त्या बेति 6म मत्र समाधान मिति ॥ १९ ॥
एव मविवक्षितार्थता हेतव स्सवें परिहताः, अथ विवक्षितार्थत्वे हेतब श्च सन्ती त्युच्यते
॥ २० ॥ सू - लिंगोपदेश च तदर्थवत् ॥ १-२-६० ॥ (सि-१२)
“ आग्नेय्याग्नीध मुपतिष्ठत " इत्यादिषु या अग्नयादिदेवता सत्यतिपादनसामयन च लिंगेन तदुपस्थानोपदेशो मन्त्रस्यार्थविध क्षायामेवोपयुज्यते । योयं तद्धितप्रत्ययोपदेशः, सोपि तदर्थवन्मन्त्रेषु सदर्थेष्वेव । नातदर्थेषु मन्त्रेषु तदैवतक स्तद्धितः, या तेनोच्यते सा देवति वा निरुरूपते । प्रधानतयोक्ति वात्र विवक्षिता ।________________
सेश्वर मीमांसा
१३१ अन्यथैकैकेषु मन्त्रेषु नानादेवताप्रसंगमात्रेण विशेषनिर्देशभंगप्रसंगात् । प्राधान्यं चार्थविवक्षा मन्तरेण न घटत इति प्रमाणतयाभ्युपगत विनियोजकवाक्यानुसारेण मन्त्राणां विवक्षितार्थत्वसिद्धि रिति ॥२०॥
॥ २१ ॥ सू - उहः ॥ १.२.११॥ (सि - १३)
ऊह व दृश्यमानो मन्त्राणा मर्थविवक्षां साधयति । प्रकृता बुद्दिष्टानः मन्त्राणां विकृती तलदुचितः प्रकृतिप्रत्यया द्यही दृश्यते । यदिच प्रकृता वविवक्षिताथी मन्त्रा उच्चारणमात्रेणा दृष्टार्था भवन्ति, विकृतावपि स्वय मविकृता स्सन्तः किमदृष्टाय न घटन्ते ? अथ प्रकृता वर्थप्रकाशनेनोपकुर्वन्ति, तदा यथोपदेश मुच्चारित विकतावर्थप्रकाशना सम्भवा द्वचनाभावे चैन्द्रीन्यायानवतारा दूहोर्थवान् ।
ननु ऊहविधायकं न किंचि द्वाक्यं दृश्यते, न्यायेन चे साध्येत? मन्त्राणां विवक्षितार्थत्वे न्यायेनोहः, न्यायसिद्धाहयला सच विवक्षितार्थते त्यन्योन्याश्रयणम् । मैवं, श्रत्येवोभयप्राप्तेः । तथाहि" न माता वर्धते न पिते" त्यूह प्रतिषधस्ताव प्रसक्ति मन्तरेण न बटते, विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात, अन्यत्रोहोवगम्यते । कथ मप मूहप्रतिषेधः? इत्थं, नाच भावादीना मर्थाना मवयवपुष्टया दिरूपा वृद्धि निषिध्यते, प्रत्यक्षविरोधात । अतः प्रकृतमन्त्रस्थानां मात्रादिशब्दानां द्विवचन बहुवचनयोः सम्भवन्ती वृद्धि रूहात्मा निषि जयते । अयंचाहो मन्त्रस्य विवक्षितार्थतया सर्ववस्तु विशेषणभूत मातापित्राद्यपादित्सायां प्रसक्तस्सन् प्रतिषेधमर्हति ।
ननु " नमातावर्धत " इत्यादी न स्वयमूहः प्रतिषिद्धयते, किन्तु परार्थेषु मातृमभृतिषु सम्बन्धिभेदात भिश्रमानेषु न्यायप्राप्तमनास्वं________________
शास्त्रमुक्तावली । सिद्धमेवानूयते, मत ऊहस्य कथं श्रातत्वमिति स्थितमितस्संश्रयणम् । तन्त्र, निष्प्रयोजनानुवादा सम्भवात । न्यायप्रामानहानुवादस्या नूहन्या या गोचरेषु स्थलेषूह्यस्य शास्त्रीयताज्ञापनमेव प्रयोजनम् । तेनच’ प्रकृती विवक्षितार्थता मध्यवस्यामः ।
किश्च “ अन्यदेवत्यः पशुराग्नेय्येव मनोताकार्ये " ति न्यायगोचरो नूहस्संकीर्त्यते । इद मपिच प्रकृतावर्थविवक्षाया मूहप्राप्तावस्यात् ॥२१॥
॥ २२ ॥ सू - विधिशब्दाच्च ॥१ - २ - ५२ ॥ (सि - १४)
इत भार्थवन्तो, मन्त्रादृश्यन्ते । अयमस्य मन्त्रस्यार्थइतिविधान बाह्मणं प्रायशो ऽधीमहे - ’ इषेत्वोजें त्वेत्याहुः, इषमेवोर्ज यजमानोदधाती" त्यादिकं । ब्राह्मणोक्तस्य चार्थस्य वैशवाय मन्त्रास्संवा द्यन्ते - " तदषाभ्युक्ता " " तदुक्तमृषिणे" स्यादिभिः । अप्रसिद्धं च मन्त्रस्थं पदं प्रसिद्धैः पर्यायै रर्थतोभिव्यक्ताः । अवयव विभागादिनाच निर्वक्ति निरुक्तं नामांग । अविवक्षितार्थत्वे मन्त्राणां कथमेतत्सर्व मुपपनीपत्स्यते ।
अय मभिप्रायः । मन्त्राणा मर्थवत्वं व्युत्पत्त्यनुगुणया श्रुत्यैव कण्ठोक्तम् । अविवक्षितार्थतातु व्युत्पत्तिमर्यादा मवधीरयदि स्तद र्थशास्त्रादिभिः कल्प्या । नार्थवत्त्ववदविवक्षितार्थत्वे कश्चि च्छब्दः । भत स्तदर्थशास्त्रादय स्सर्वे श्रुत्यैवापहतविषया इति नाविवक्षितार्थत्वं साधयितुं प्रभवन्तीति ।
तस्मा मन्त्राः प्रत्यक्षाधविरुद्धे ध्वपूर्वे ध्वथें ध्वभिधयोपचारेण वा प्रमाण मिति सिद्धम् ।
ब्राह्मणै विधिशेषैस्तु मन्त्रार्थप्रतिपादकैः । अर्थप्रणान्या मन्त्राणा मंग्यकाथुपकारिता ॥________________
सेश्वर मीमांसा ।
विध्येकवाक्यताशून्या मन्त्राः क्वचि दाप स्थिताः । तथापि स्वार्थबोधेना नष्ठानस्योपकुर्वते ॥ स्वापेक्षितार्थबोधेन प्रयोगक्षणभाविना । मन्त्रेण सहसा लब्धे नान्यो हेतु [ र्गवेष्यते ] रपेक्ष्यते ॥ अतोध्ययनसंसिद्ध मन्त्रार्थस्मृतिपूर्वकम् । अनुष्ठेयं तदह स्त दिति शास्त्रार्थनिश्चयः ॥ परापरसमाख्यात देवतावैभवेषु च । समर्थयिष्यमाणेषु सफलेय मितिक्रिया ॥ यदत्तप्रमुखै येषां विधिशक्ति न हन्यते । तेषां विधिपरत्वंच मन्त्राणा मिह सिद्धयति ॥
इति मन्त्राधिकरणम् ॥ ४ ॥
पुमर्थ शासने विभोः प्रशासना नुवर्तिनि । प्ररोचनप्रकाशन प्रकार एवं माहितः ॥
इति श्री कवितार्किक सिमस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृती सेश्वरमीमांसाख्ये धर्ममीमांसाभाष्ये
प्रथमस्या ध्यायस्प द्वितीयः पादः॥२॥
भधिकरणानि - ४ ॥ सूत्राणि - ५२ ॥