[[बृहती Source: EB]]
[
?R?0अधिकरणार्थसङ्ग्रहः
?R?0तृतीयाध्याये प्रथमः पादः
?R ?R?0अथातः ।?R?0 अधिकरणं 1-2 । पदानां कार्यान्विते शक्तिग्रहात् अन्वितपदार्थात्मकत्वेन । परस्परक्रियाकारकभावादिमात्रत्वाद्वाक्यार्थस्य पदार्थानां शेषत्वे हेतुर्नास्तीति शेषलक्षणं नारम्भणीयं इति पूर्वः पक्षः । सिद्धान्तस्तु गुणप्रधानभावेन हि सर्वत्र शाब्दान्वयःगुणत्वमेव च शेषत्वं कार्यं च प्रधानम् । ततश्च शेषत्वं विना पदार्थानां कार्यसम्बन्धस्यैवानुपपत्तेः शेषलक्षणं चारम्भणीयमिति सिद्धम् ।
?R ?R?03. द्रव्यगुण । ?R?0लोकव्युत्पत्त्यनुसारेण यजेतेत्यादिभिः याग एव कार्यतयाऽवगम्यते । न च कार्यमन्यार्थ भवतीति नास्ति यागस्य शेषभावः । अतः फले नियोगो नास्ति यागेन फलं साधयेदिति । तथा पुरुषेपि, फलेन पुरुषं सम्बध्नीयादिति पुरुषविशेषणमात्रतयैव स्वर्गादेः श्रवणात् न पुरुषविशेषणस्य क्रियया साध्यसाधनभावः । अतः यागनिर्वृत्तिमात्रेण कृतः शास्त्रार्थः - इति बादरिमतेन पूर्वः पक्षः । सिद्धान्तस्तु षष्ठाद्ये कर्तृत्वातिरिक्तं नियोज्यत्वमपि पुरुषस्यास्तीति स्थास्यति । नियोज्यश्च ममेदं कार्यमिति नियोगबोद्धा । स्वर्गकामवाक्ये च कामी नियोज्यः । ततश्च कामिनः यागे नियुक्तिः यागस्य फले साधनतामनापादयन्ती न सिद्ध्यतीति नियोज्यविशेषान्वयबलेन याग स्वर्गयोः साध्यसाधनभावः । एवं आत्मार्थमेव यः स्वर्गं कामयते तस्य नियोगः । तेन स्वार्थमेव स्वर्गं यागेन कुर्यादिति शास्त्रार्थः । तेन कामिनं प्रति फलस्य शेषता । पुरुषश्च स्वर्गकामः स च यजमानसम्मितौदुम्बरी भवतीत्येवमादिषु कर्तृत्वात् फलभागितया कर्मशेषः इति सिद्धान्तः ।
?R ?R?04. कर्माण्यपि । ?R?0व्रीहीन् अवहन्ति इत्यादौ साधिकारकार्यसहितं अनधिकारं अवघातादि श्रूयते । तच्च कार्येऽन्वेति । यदि व्रीहीन् इति
?Rद्वितीयाश्रुत्या अवघातस्य पदार्थान्वयाधीनतुषविमोकः कार्यं तदा तत् व्रीहिस्वरूपगतं नापूर्वसाधनरूपान्बपयी इति नापूर्वानुगुणमवान्तरकार्यं स्यात् । अतः अधिकारानुप्रवेशाय अवघातादेः व्रीहीनिति द्वितीयाश्रुतिं भङ्क्त्वा प्रयाजतुल्यत्वाश्रयणात् प्रकरणविनियोज्यत्वात् आज्यौषधसान्नाय्यद्रव्यकसर्वयागार्थत्वात् आज्यादावपि अवघातादिकं कार्यमिति पूर्वः पक्षः । सिद्धान्तस्तु व्रीहीनवहन्ति इति न दर्शपूर्णमासनियोगात् नियोगान्तरमवगम्यते । अपि तु प्रयाजादाविव स एव नियोगः प्रधानार्थव्रीहिद्वारेणानुप्रविशति । अतश्च वाक्यान्तरगतनियोगानुप्रवेशाय तत्सम्बन्धावस्थव्रीह्यादिसंस्कारः तदपेक्षित एवायं प्रतीयते इति तत्कर्यानुप्रवेशात् कार्यान्तरमपीदं न विरोधमावहति । इयांस्तु प्रयाजादेर्विशेषः दृष्टकार्यद्वारकस्त्वयं;?R तच्च दृष्टं कार्यं तुषविमोकः स च आज्यादौ नास्तीति न तत्रापघातप्रसक्तिः ।
?R?0 5. द्रव्यं च ।?R?0 ‘?Rसफूयश्च कपालानि च’ ?Rइति सन्निधापनविधयः । ते किं संयोगाविशेषात् । प्रकरणाविशेषाच्च सर्वशक्यक्रियार्थाः उत स्फूयेनोद्धन्तीत्यादिविधिभिः उपसंह्रियेरन् इति संशये सन्निधापनविधिबलेन एते कार्यविशेषनिरपेक्षा एव नियोगार्था अवगम्यन्ते । तत्र केन द्वारेणेत्यपेक्षायां दृष्टमेव द्वारं नियोगोऽनुमन्यते नादृष्टम् । न पुनः दृष्टत्वेपि द्वारविशेषम् । इति पूर्वपक्षः । सिद्धान्तस्तु सम्बन्धविधिना हि शेषिणः सम्बन्धे आपादिते पश्चात् सन्निधापनविधिभिः विनियोगः । अतः यथा शेषिणः सन्निधानापादकस्य सम्बन्धविधेः सन्निधापनविधिः न प्रतिपक्षः तथा स्फ्येनोद्धन्तीत्यस्यापि न प्रतिपक्षः अविशेषादिति सिद्धा अत्रापि व्यवस्था ।
?R ?R?06. अर्थैकत्वे ।?R?0 अरुणया एकहायन्या सोमं क्रीणातीत्यत्र आरुण्यस्य न एकहायन्यां वा नियोगे वान्वयसंभवः । एकहायन्यां तावत् नान्वयः आरुण्यैकहायन्योः क्रियार्थयोः परस्परान्वयाभावात् । नापि नियोगेऽन्वयः ।
?Rयुक्तमाकृतेः अभूर्ताया अपि द्रव्यविशेषाध्यवसायहेतुतया क्रियां प्रति साधनभावः । गुणस्य तु न कथञ्चित् साधनत्वं ;?R न च गुणस्यापि द्रव्योपादानेऽवच्छेदकतया उपयोगोऽस्ति अनवच्छिन्नस्योपादानासम्भवादिति वाच्यम् । यथा गुणविनियोगाभावेऽपि यत्किञ्चिद्द्रव्यमुपादाय प्रयोगस्सिद्ध्यति तथाऽत्रापि किं न सिद्ध्यतीति नास्ति साधनभावः । अतः वाक्यं भित्वा प्रकरणे सर्वपदार्थेषु आरुण्यनिवेश इति पूर्वपक्षः । सिद्धान्तस्तु क्रयसम्बन्धादारुण्यस्य तत्रैव विनियोगः । क्रयसाधनता च तस्य सम्भवति द्रव्यविशेषणत्वेनारुण्यविनियोगात् - यत्रारुण्यं समवेतं तेन क्रयः कर्तव्य इति । न च एकहायनीद्रव्यस्य आरुण्येनाविशिष्टस्योपादानं सम्भवति । न चानुपात्तेन क्रिया निर्वर्त्यते हत्यस्ति क्रियासाधनभावः आरुण्यस्येति सिद्धः क्रये विनियोगः ।
?R ?R?07. एकत्व ।?R?0 द्रव्यादिविनियोगे चिन्तिते विनियोज्यस्य ये विषयः शेषी तद्गता चिन्ता क्रियते । किं विवक्षितसङ्ख्याकशेषिपर्यन्तो विनियोगः उत नेति । ग्रहं सम्मार्ष्टि इत्यत्र ग्रहगतमेकत्वं विवक्षितं, श्रुतेः यथा शेषिणि ग्रहत्वमाद्रियते तथा एकत्वश्रुतेः एकत्वमाद्रियतां अपेक्षाभावेपि श्रुतिबलेनैवापेक्षा कल्प्यते रक्तपटवत्- इति पूर्वः पक्षः । सिद्धान्तस्तु- यस्य व्यापारान्तरोगः तस्य संस्कारः ग्रहमात्रं तु व्यापारान्तरयोगि तस्मात् तावन्मात्रस्य संस्कारः । कार्यार्थत्वात् संस्कारस्य । न च ऐन्द्रवायवादिवाक्येषु च एकत्वसंङ्ख्यायुक्ता एव ग्रहाः श्रूयन्ते । यथाभूतः विवक्षितलिङ्गसङ्ख्याकः स्वय्यापारे शेषभूतः तथाभूतस्यैव संस्कारे संबन्धः शेषत्वेन श्रूयते । अतः तेषां शेषित्वेपि सङ्ख्या विवक्षितेति वाच्यम् । सत्यं, शेषिभूतस्य संस्कारः तथापि सङ्ख्यादयः न संस्कारेण संबध्यन्ते । कुतः ??R यतः पदार्थान्तरसम्बन्धः प्रधानस्यैव भवति न तद्विशेषणस्य राजपुरुषमानयेत्यादिवत् विशेषणस्योपलक्षणमात्रत्वात् इति ।
?R?0 8. संस्काराद्वा ।?R?0 यदि यस्य कार्यमस्ति तस्योपादानं उद्देशकेन पदेन,
?Rउपात्तं तु उपलक्षणतया, तदा ग्रहप्रातिपदिकमपि सोमधारकपात्रमात्रोपलक्षणार्थं सोमवसेकनिर्हरणप्रयोजनस्य चमसेष्वविशिष्टत्वात् इति चमसानामपि सम्मार्गः कार्यः । तथा च ग्रहसम्बन्धाविवक्षणात् । विधिलाघवं इति पूर्वपक्षः । सिद्धान्तस्तु श्रुतितः उपात्तपरिज्ञानं, ग्रहं सम्मार्ष्टीति श्रूयते । तत्र ग्रहेषु सम्मार्गस्य किं प्रयोजनं भवत्विति चिन्तायां सोमावसेकनिर्हरणं दृष्टमिति नान्यत् कल्प्यते । तेन श्रुतबललब्धसत्ताकं कार्यं न श्रुतिमेवान्यथायितुं समर्थम् । प्रोक्षणादिधर्माणां तु अपूर्वप्रयुक्तत्वात् व्रीहिशब्दः तत्साधनविशेषलक्षणार्थ इति यवेष्वपि प्रोक्षणं युज्यते । इह तु ग्रहेषु चमसेषु च अभ्यासापूर्वभेदात् न तुल्यः साधनभावः ।
?R ?R?09. आनर्थक्यात् ।?R?0 सप्तदशारत्निर्वाजपेयस्य यूप इत्यत्र किं वाजपेयस्य सप्तदशेत्यन्वयः उत यूपस्य सप्तदशेति । यदि यूपस्येति तदा वाजपेयपदमनन्वितार्थकं स्यात् यूपेन वाजपेयस्यानन्वयात् तस्माद्वाजपेयत्यैवोद्देश्यत्वात् तदर्थतया सप्तदशारत्नित्वविधिः । तत्राश्रयापेक्षायां यूपशब्दः वाजपेयसंबन्धिनं गुणयोगादूर्ध्वषात्रं लक्षयतीति पूर्वपक्षः । सिद्धान्तस्तु चैत्रस्य नप्तेत्यादाविव षष्ठ्याः सम्बन्धिसम्बन्धवाचित्वसम्भवात् । वाजपेस्य परंपरया यूपसंबन्धात् यूपेनैव संबन्धः सप्तदशारत्नितायाः इति ।
?R ?R?010. कर्तृगुणे ।?R?0 अभिक्रामं जुहोतीति किं कर्मणः कर्मान्वयो विद्यते उत नेति चिन्त्यते । पूर्वपक्षस्तु ‘?Rकर्म कर्मसाध्यं न भवति’ ?Rइति काश्यपोक्तेः अभिक्रमणस्य न जुहोतावन्वयः । अतः वाक्यं भित्वा योग्ये दर्शपूर्णमासकर्तरि अन्वयः । ततश्च प्राकरणिकसर्वक्रियासु कर्तुः अभिक्रमणमिति । सिद्धान्तस्तु णमुलन्तत्वात् । अभिक्रामं इत्यस्य जुहोतीत्यनेन संबन्धः प्रतीयते । स च कर्तृद्वारेण निर्वहति । कर्ता च प्रयाजकर्ता सन्निहित एवेति तत्रैवाभिक्रमणमिति ।
?R?0 11. सन्दिग्धे । ?R?0उपव्ययत इत्यत्र उपव्यानं किं सामिधेन्यनुवचनेन सम्बध्यते उत कृत्स्नप्रकरणे इति सन्देहे, इदं पदं अन्विताभिधानाय कर्तारमपेक्षते
?Rसामिधेनीकर्ता च सन्निहितः - आकाङ्क्षापूरणसमर्थः इति तत्रैवान्वयः इति पूर्वपक्षः । सिद्धान्तस्तु अनुवादोऽयमनुवचनस्य । न चानुवादेऽनुवाद्यसन्निधिः । ज्ञानान्तरोपस्थापितकालदेशं वस्तु पुनर्वदत्यनुवादः न स्वयं वस्तूपस्थापयति इति असन्निहितमनुवचनं न स्वकर्तारमुपस्थापयति इति प्रकरणात् कृत्स्नप्रकरणे उपवीतनिवेशः इति ।
?R ?R?012. गुणानां च । ?R?0आधानप्रकरणे वारणो यज्ञावचरः इति यज्ञसंबन्धित्वेन श्रूयमाणवारणादिकं आधानाङ्गपवमानेष्टिषु । निविशते आनर्थक्यात्तदङ्गेषु इति न्यायात् इति प्राप्ते सिद्धान्तः नैवाधानप्रकरणे पवमानहवींषि श्रूयन्ते । किन्तु प्रकृतितः अग्नयः तेषु प्राप्यन्ते । पवमानेष्टीनां च साध्यभूताग्निसन्निधौ पठितानां अवश्यंभावितादर्थ्यानां गुणभावेन सम्बन्धासम्भवे साक्षात् संबन्धेनैवाग्न्यर्थत्वं ;?R स च संबन्धः प्राधान्यरूपः । तस्मादनङ्गत्वात् ?Rतन्मुखेनाप्याधानानुप्रवेशासंभवात् प्रकरणादुत्कृष्टस्य सतः सर्वार्थता वारणादेर्युक्तेति ।
?R?0 13. मिथश्च ।?R?0 सप्तदशारत्निर्वाजपेयस्य यूप इत्यत्र यूपपदश्रवणात् संबन्धिसंबन्धिनि विधानं युक्तं, इह तु वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती अमावास्यायां इत्यत्र पौर्णमास्यादिपदं प्रधानवाचकम् । आज्यभागपदं च नास्ति । ततश्च ऋग्द्वयं पौर्णमास्यङ्गत्वेन विधेयं न पौर्णमासीकालिकाज्यभागयोः मन्त्रव्यवस्था इति पूर्वपक्षः । न वाजपेयवाक्ये यूपशब्दश्रवणात् सप्तदशारत्नित्वस्य विधेयस्याङ्गसंबन्धयोग्यता । अपि तु योग्यतयाप्यन्वयो वाजपेयस्य संभवति इत्येव हेतुः । अत्रापि विधेयमन्त्रयोग्यतानुसारेण व्यवधानेन संबन्धो युक्तः पौर्णमास्यङ्गभूताज्यभागयोः वार्त्रध्न्यौ इति । तस्मादाज्यभागयोरेव मन्त्रविधानम् ।
?R ?R?014. आनन्तर्यम् ।?R?0 हस्ताववनेनिक्ते मुष्टीकरोति वाचं यच्छतीत्यादावुक्तं हस्तावनेजनादिकं पुरुषसंस्कारः संस्कृतस्य च कर्मान्तरे योग्यता । ततश्च तेषां सन्निहोतोलपराजिस्तरणार्थतेति पूर्वः पक्षः । सत्यं यद्यत्रैव योग्यता कर्तुः । अपि
?Rतु कृत्स्नेपि प्राकरणिके कर्मणि । आख्यातयोश्च तुमुन्ण्वुलाद्यभावे नैकवाक्यतासंभवः तथा च दर्शपूर्णमासाद्यर्थतेति सिद्धान्तः ।
?R ?R?014. शेषस्तु ।?R?0 आग्नेयं चतुर्धाकरोति इत्यत्र अनपेक्षितदेवताभावस्य पदार्थमात्रस्योपलक्षणत्वात् न विशेषः उपलक्षणस्याग्नेरपेक्षणीयः विधेये तु यद्युक्तम् । तस्मादाग्नेयपदेनाग्नीषोमीयैन्द्राग्नयोरपि अग्निसंबन्धित्वेन ग्रहणसंभवात् तयोररपि चतुर्धाकरणमिति पूर्वपक्षः । सिद्धान्तस्तु सत्यं यथाभिधेयं लक्षणसंभवे नायथार्थावगतिर्युक्तेति आग्नेयस्यैव चतुर्धाकरणम् ।
?R—–
?R?0अथ द्वितीयः पादः
?R ?R?0अर्थाभिधानसंयोगात् । ?R?0मुख्य एवाभिधेये मन्त्राणां विनियोगः उत गौणेऽपीति विचारः । पूर्वपक्षस्तु अविशेषादुभयाभिधानम् उभयत्र शब्दप्रयोगात् इति । सिद्धान्तस्तु मुख्याभिधानशून्यं गौणाभिधानं नास्ति । तस्मान्मुख्य एव शब्दस्य व्यापारः । गौणेत्वर्थादवगतिः । अभिधानेन च मन्त्रा उपकुर्वन्ति । मुख्ये चाभिधानम् न गौणे । अतो न तत्र मन्त्र उपकुर्वन्ति । मुख्ये चाभिधानम् न गौणे अतो न तत्र मन्त्रविनियोगः ।
?R ?R?0 2. वचनात्तु । ?R?0ऐन्द्र्या गार्हपत्यमुपतिष्ठते इत्यत्र किमैन्द्रीमन्त्रेण इन्द्राभिधानं कर्तव्यं उत गार्हपत्याभिधानमिति संशये मुख्यार्थे मन्त्रविनियोगो न्याय्यः । न च मुख्यासंभवात् गौणार्थे विनियोगः । विनियोज्यसामर्थ्यानुसारेण विनियोग इति अनीप्सितार्था द्वितीया, अथ वा गार्हपत्यमुपेत्याभिधत्त इत्यर्थो भवतु इति पूर्वपक्षः । सिद्धान्तस्तु- उपदेशनिबन्धनं कार्यम् । न कार्येऽवगतेऽन्यतः उपदेशवर्णनम् । ऐन्द्र्या गार्हपत्यं- इत्युपदेशः अतः उपदेशात् गार्हपत्याभिधानम् । अनीप्सितद्वितीयाङ्गीकारेपि क्रियाफलभागित्वावश्यंभाव एव । अध्याहारस्तु जघन्यः ।
?R ?R?0 तथाह्वानमपीति चेत् ।?R?0 त्रिरवघ्नन्नाह्वयतीत्यत्र किं अवघातकाले इति काललक्षणाभयात् त्रिः इति पाक्षिकोऽनुवादः उत नित्यवदन्वितत्रिरभ्यासबलेन काललक्षणा आश्रीयतामिति संशये त्रिरभ्यासः क्वचित्, द्विरभ्यासः अन्यत्र शाखासु दृश्यते । ततश्च पक्षे परं शब्दार्थहानात् त्रिरिति पाक्षिकानुवादः न पुनर्लक्षणेति पूर्वपक्षः । नित्यवदन्वितस्य त्रिरभ्यासस्य पक्षेऽन्वयबाधः प्राप्नोति । तस्माद्वरं लक्षणेति सिद्धान्तः ।
?R ?R?0तथोत्थानविसर्जने । ?R?0पूर्ववदेवात्र पूर्वपक्षसिद्धान्तौ । अधिकाशङ्का तु पूर्वत्र त्रिः इत्येतावद्विधीयते अन्यत्सर्वमनूद्यते इति अवघ्नन्नित्यत्र काललक्षण युक्ता । इह तु कालसंयोगो न प्राप्तः स विधातव्यः । न च विधौ लक्षणेति ऐन्द्रीमन्त्रवत् लक्षणया प्रैषस्यान्यार्थत्वं इति पूर्वपक्षः । सिद्धान्तस्तु- पूर्वत्र प्रैषार्थानन्वयवत् अत्रापि अचेतनत्वात् उत्थानविसर्जनयोः प्रैषार्थानन्वयः अतः काललक्षणैवेयम् । विधिवाक्ये लक्षणयापि अशेषपदार्थान्वयात् इति ।
?R?0 5. सूक्तवाकेच ।?R?0 सूक्तवाकेन प्रस्तरं प्रहरति इत्यत्र सूक्तवाकस्य हरणे साधकत्वानुपपत्तेः प्रहरणेन होमात्मको यागो लक्षयितव्यः । न चासौ युक्तः आख्यातार्थे प्रधाने लक्षणाप्रसङ्गात् । वरं सूक्तवाकेन काल एव लक्ष्यतामिति पूर्वः पक्षः । सिद्धान्तस्तु न हरणेन यागो लक्षणीयः यागे सति हरत्यर्थस्य प्राप्तेः । प्रक्षेपो हरणं होमरूपे यागे उपाधिभूतो हरतिः अर्थप्राप्त इति ।
?R ?R?0कृत्स्नोपदेशात् । ?R?0स च सूक्तवाकः कृत्स्न एव दर्शेपूर्णमासे प्रयोक्तव्यः सूक्तवाको वर्तते इति सकले मन्त्रे पठ्यमाने लोके व्यपदेशात् । स चाभिन्नवाक्याभिप्रायेण । अन्यथा बहुवचनप्रसङ्गात् । एवं च सूक्तवाकेन प्रस्तरं प्रहरतीत्यत्र कृत्स्न एवोभयत्र प्रयोज्य इति प्राप्ते सूक्तमनेनोच्यते इति व्युत्पत्तेः सूक्तवाकशब्देन वाक्यमुच्यते । न तत्समूहः वाक्येन हि सूक्तमुच्यते यतः । भिन्नानि चैतानि वाक्यानि । तस्मात् न सकलस्य विनियोगः ।
?Rएककार्यनिबन्धनस्तु एकवचनप्रयोगः ।
?R?0 लिङ्गक्रम ।?R?0 लिङ्गमपि श्रुत्यादिवत् प्रमाणान्तरनिरपेक्षं विनियोजकं उत सापेक्षमिति संशये पूर्वपक्षः निरपेक्षं लिङ्गं विनियोजकमिति । ततश्च काम्ययाज्यानूवाक्ययुगलानां न क्रमात् काम्येष्टिमात्रे विनियोगः अपि तु लिङ्गात् सर्वत्रेति प्राप्ते ब्रूमः । समान्यसबन्धे सति शेषिविशेषे लिङ्गं विनियोजकं काम्येष्टिकाण्डं काम्ययाज्यानूवाक्याकाण्डमिति समाख्याभ्यां परस्परसंबन्धे सति लिङ्गं याज्याकार्ये मन्त्रं विनियोजयति ।
?R ?R?0अधिकारे च ।?R?0 ज्योतिष्टोमे आग्नेय्या आग्नीध्रमुपतिष्ठत इत्यत्र किं यावल्लिङ्गा मन्त्रा ग्रहीतव्या उत प्रकृता एवेति संशये विधेयस्य प्रकृताभिधानसामर्थ्यं न संभवति इति यावल्लिङ्गग्रहणम् । सिद्धान्तस्तु प्रकृतेऽपि विधेयप्रत्ययो भवत्येव । अतः प्रकृतत्यागे प्रमाणाभावात् प्रकृतस्यैव ग्रहणम् । कार्यान्तरविनियुक्तत्वे तु प्रकृतत्वं बाधकं, नेह तथा । नीलोत्पलं, गामानय इत्यादौ सन्निहितप्रतीतेर्दर्शनात्।
?R ?R?0लिङ्गसमाख्यानाभ्याम् ।?R?0 भक्षे हि माविशेत्यादेः भक्षानुवाकस्य कृत्स्नस्य भक्षणे विनियोगः उत तत्तद्भागस्य ग्रहणसम्यग्जरणादिषु इति संशये समाख्यया समान्यसंबन्धे सति लिङ्गस्य विनियोजकत्वात् भक्षानुवाकसमाख्या लिङ्गं नियमयतीति कृत्स्नस्य भक्षणे विनियोगः । ग्रहणादिलिङ्गान्तरं तु विशेषणप्रकाशकं न विरुध्यते । ग्रहणादिविशिष्टभक्षणे विनियोगः कृत्स्नस्येति । सिद्धान्तस्तु- भक्षानुवाकसमाख्या भक्षणद्वारेण प्रवर्तमानापि क्रतुसंबन्धितामनुवाकस्यापादयत्येव, सिद्धे च क्रतुसंबन्धे यथालिङ्गं सिद्धो विनियोगः । ग्रहणाद्यपि चोदितं अर्थाक्षिप्तं वा भवतु अनुष्ठेयत्वात् स्मरणीयमेव । न चात्र ग्रहणादिप्रकाशकानां अन्यपरत्वे प्रमाणमस्ति ।
?R ?R?0गुणाभिधानात् । ?R?0पूर्ववत् मन्द्राभिभूतिः केतुर्यज्ञानां वाक् जुषाणा सोमस्य तृप्य तु इति अननुष्ठानार्थकर्तृप्त्यभिधानो मन्त्रः तृप्तिप्रकाशने विनियुज्यतां
?Rपूर्ववत् इति पूर्वः पक्षः । अननुष्ठेयस्य स्मरणानर्हत्वात् तत्र तात्पर्याभावात् समाख्यया भक्षण एवास्य विनियोगः न च तृप्तिस्मरणं अदृष्टकल्पनापेक्षया लक्षणाया एव युक्तत्वात् ।
?R ?R?0लिङ्गविशेष । ?R?0इन्द्रपीतस्येति किं तृतीयासमासः उत बहुव्रीहिः ??R आद्ये ऐन्द्र एव समन्त्रकं भक्षणं इतरेषां तु उपदेशतः मन्त्रो नास्ति । सर्वप्रदानानां समानविधानत्वात् ऊहस्याप्यसंभवः । तथापि अनुष्टुप्छन्दस इति षोडशिनि नमनदर्शनात् ऐन्द्रः सोमो गृह्यते मीयते च इति वचनाच्च इतरप्रदानानां विकृतित्वं अङ्गीकृत्य चिन्ता । तथा च यथादेवतमूह इति ।
?R ?R?0पुनरभ्युन्नीतेषु । ?R?0सशेषे चमसे पुनस्सोमे देवतान्तरार्थं गृहीते यदाश्रावणं कृतं तेन पूर्वदेवताशेषस्यापि देवतान्तरार्थमुपादानात् पूर्वदेवतापनयात् न सा देवतोपलक्षणीयेति पूर्वः पक्षः । राद्धान्तस्तु- ग्रहणेन हि देवतासंबन्धो द्रव्यस्यापद्यते । तदुद्देशेनाग्रहणात् तच्छेषः चमसस्थः देवतान्तरोद्देशेन न गृह्यते । यच्च गृहीतं तावन्मात्रस्यैवाश्रावणमिति पूर्वदेवता उपलक्षणीया ।
?R ?R?0पात्नीवते ।?R?0 पूर्वाधिकरणव्यतिरेकमात्रमिदम् । योऽसौ आग्रयणे द्विदेवत्यशेषः सोऽप्याग्रयणाद्रसात् । यक्ष्यमाणदेवतोद्देशेन गृहीतः इति पूर्वदेवतापनयात् तद्भक्षणे इन्द्रवाय्वादयो नोपलक्षणीयाः ।
?R ?R?0त्वष्टारम् । ?R?0सजूर्देवेन त्वष्ट्रा सोमं इति सहार्थकसजूश्शब्दश्रवणात् पाने त्वष्टुरनुप्रवेशात् त्वष्टापि देवता । अतस्सोप्युपलक्षणीय इति पूर्वपक्षः । नोपलक्षणीयः, अचोदितत्वात् । चोदिता हि देवता भवति । न च मन्त्रश्चोदितुं प्रभवति । अतः नोपलक्षणम् इति सिद्धान्तः ।
?R ?R?0त्रिंशच्च । ?R?0त्रयस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व इति मन्त्रवर्णात् त्रयस्त्रिंशद्देवताः अग्निदत्तेन हविषा माद्यन्तीति पातृत्वदर्शनात् तासामपि देवतात्वमिति पूर्वपक्षः । मादयितृत्वेनैव अग्नेः प्राधान्यात् स एव देवता न
?Rत्रयस्त्रिंशदिति राद्धान्तः ।
?R ?R?0वषट्कारश्च । ?R?0देवतात्वात् अनुवषट्कारदेवताप्युपलक्षणीयेति पूर्वपक्षः । सत्यं देवता, तथापि यदुद्देशेन सोमो गृहीतः सा देवतोपलक्षणीया । नानुवषट्कारदेवता तथा इति सिद्धान्तः ।
?R ?R?0छन्दः प्रतिषेधस्तु । ?R?0स्थितादुत्तरं पूर्वपक्षिणः- एकयागत्वात्तु समानविधानं स्यात् तस्मादैन्द्र एव समन्त्रकं भक्षणं इतरत्तु अमन्त्रकमेवेति ।
?R ?R?0ऐन्द्राग्ने तु । ?R?0ऐन्द्राग्ने अभ्यासे इन्द्रपीतस्येति समन्त्रकं भक्षणम् । आग्नेये देवतातद्धितत्वात् केवलाग्निदेवताको गृह्यते ततश्च नाग्नीषोमीये चतुर्धाकरणमित्युक्तम् । इह तु न देवतात्वेनोपलक्षणं अपि तु पानेन, यत्तु उभाभ्यां पीयते तत् एकेनापि पीतं इति शक्यते वक्तुं- इति पूर्वपक्षः । पाने प्रमाणाभावात् देवतात्वेनैवोपलक्षणम् । अतः ऐन्द्राग्नस्यैन्द्रत्वाभावात् अमन्त्रकं भक्षणम् ।
?R ?R?0छन्दश्च । ?R?0देवतया तुल्यं छन्दः । ततश्च अनेकछन्दस्के ज्योतिष्टोमे गायत्रछन्दस इत्यस्यानन्वयात् उत्कर्षो मन्त्रस्येति पूर्वः पक्षः । सोमस्य एकछन्दसोऽभावात् गायत्रछन्दस इति अयोगव्यावृत्त्या विशेषणम् । ततश्च नोत्कर्षः इति सिद्धान्तः ।
?R ?R?0सर्वेषाम् । ?R?0स्थितादुत्तरम् । इन्द्रपीतस्येति ब्रहुव्रीह्याश्रयणेन सवनविशेषणत्वात् सर्वे सोमाः समन्त्रकाः । न च तत्पुरुषप्राबल्यम् । तृतीयासमास एव न संभवति । न हि इन्द्राय दत्तः तेन पीयते- इति ।
?R?0तृतीयः पादः
?R?0 श्रुतेर्जाताधिकारः स्यात् ।?R?0 उच्चैर्ऋचा क्रियते इत्यस्य किं यदृचा ऋग्वेदेन ऋक्प्रायशाखाधीतेन विधिना क्रियते येत्तनानुष्ठेयत्वेन ज्ञाप्यते तदुच्चैः
?Rकर्तव्यमित्यर्थः उत यदृ चा मन्त्रेण क्रियते तदुच्चैरिति । ऋक्पदस्य ऋचि मुख्यत्वात् मन्त्रधर्मोऽयम् । उपक्रमस्थ वेदपदमपि वेदनसाधनत्वेन ऋक्परमस्तु इति पूर्वपक्षः । राद्धान्तस्तु उपक्रमे यः पदार्थो ज्ञातो भवति तद्विशेषप्रतिपत्तिरेवोपसंहाराद्भवति न पुनस्तद्विरोध्यर्थान्तरम् । ऋक्शब्दस्तु लक्षणया वेदमनुवदति ।
?R ?R?0गुणमुष्यव्यतिक्रमे ।?R?0 याजुर्वैदिकमाधानं तत्र ‘?Rय एवं विद्वान् वारवन्तीयं गायति’ ?Rइति सामवैदिकमङ्गं विधीयते । तत्र अङ्गविधिः आत्मीयं विधेयं विधाय पञ्चात् प्रधानेन एकवाक्यतां भजते ततश्च तत्र सामवैदिकः स्वरः, उत प्रधानेनैकीभूतस्यैव विधेयत्वात् तत्र याजुर्वैदिकमुपांशुत्वं इति संशये पूर्वपक्षः- वाक्यान्तरानपेक्षेण स्ववाक्येनैव स्वार्थो विधेयः अतः सामवैदिकः स्वर इति । सिद्धान्तस्तु सत्यं विहितस्वार्थ एव प्रधानेन एकीभवति न पुनः अङ्गतामपि विधाय । प्रधानविधिरेवाङ्गतां विधत्ते । अङ्गतया च वारवन्तीयस्य प्रयोगः न स्वरूपज्ञानादङ्गानामनुष्ठानम् दुःस्वरूपत्वात् । अतः अङ्गविधिः प्रयोगविधिनिबन्धनं उच्चैष्ट्वं न बाधितुमर्हतीति ।
?R ?R?03. भूयस्तवेनोभयश्रुति । ?R?0यत्रोभयत्र प्रधानश्रुतिः तत्र क्व प्रधानचोदनेति संशयः अगृह्यमाणविशेषत्वादुभयत्र प्रधानविधिरिति पूर्वपक्षे सिद्धान्तः प्रयोगः प्रमेयः प्रयोगविधिः प्रमाणं, सर्वत्र च प्रमेयेऽवगते प्रमाणमवगम्यते तेन भूयोङ्गानि यत्रावगम्यन्ते तत्रैव प्रयोगविधिः अल्पाङ्गावगमे तु प्रयोगानवगमात् प्रमाणानवगतिरिति ।
?R ?R?0असंयुक्तं प्रकरणात् । ?R?0श्रुतेरेव प्रयाजादेरङ्गतासिद्धेः प्रकरणाख्यं प्रमाणान्तरं मास्तु । अधिकारनियोगेन प्रयाजाद्यन्वयात् समिधो यजतीत्येवमादिभिः परमापूर्वमन्वितमेवाभिवीयते इति श्रौतीयं शेषता- इति पूर्वपक्षः । प्रथमं सामान्येन अपूर्वैदमर्थ्यमात्रेणान्वयसंभवात् न करणोपकारकतया
?Rविशेषान्वयसंभव इति विशेषान्वयाभिधानार्थं प्रकरणं नाम प्रमाणान्तरमभ्युपेयमिति सिद्धान्तः ।
?R ?R?0क्रमश्च । ?R?0क्रमो नाम न प्रमाणान्तरं युक्तम् । यतः ऐदमर्थ्येनान्वयः शाब्दः सोऽविशेषतः सर्वप्रधानार्थताहेतुः न तु क्रमभेदादन्वयभेदः इति दब्धिर्नामासीति मन्त्रः अनुमन्त्रणशक्तः यावत्प्रधानदेवतानुमन्त्रणार्थः न तु क्रमात् उपांशुयाजनिवेशीति पूर्वपक्षः । सिद्धान्तस्तु नियोगैदम्पर्येणान्वयः शाब्दः । स एव स्थानाख्यमन्निधिभेदात् व्यवस्थाप्यते केवलम् अन्यथा विकल्पाद्यापत्तेः ।
?R ?R?0आख्या चैवम् । ?R?0न समाख्यायाः वेदार्थावगमहेतुत्वं संभवति लौकिकत्वात् । अन्यथा पचतीत्यादेरपि वेदार्थाङ्गभूतपाकविधायकत्वं स्यात् इति पूर्वपक्षः । समाख्याया लौकिकत्वेपि वेदार्थावगमहेतुत्वम् । यद्यपि समाख्या लौकिकी तथापि वैदिकपदार्थस्याभिधायिकी । पचतीत्यादिकं तु न वैदिकार्थसंबद्धम् । अतः कर्मसु कर्तृविशेषाश्रवणात् कर्तृविशेषापेक्षायां समाख्यया होत्रादयः कर्तृत्वेन विज्ञायन्ते- इति सिद्धान्तः ।
?R ?R?0श्रुतिलिङ्गं । ?R?0श्रुत्या तावत् एन्द्री गार्हपत्योपस्थाने विनियुज्यते लिङ्गेन च इन्द्रोपस्थाने । न च विरोधः । प्रमाणद्वयेन उभयत्र विनियोगाविरोधात् प्रतिप्रधानं गुणावृत्तेः द्विरयं मन्त्रः प्रयोक्तव्य इति पूर्वपक्षः । सिद्धान्तस्तु- अधिकारनियोगसन्निधौ पठितस्य मन्त्रस्य ग्राहकेण गृहीतस्य श्रुत्या प्रथममेव अवगतशेषभावस्य कार्यान्तराकाङ्क्षाभावात् लिङ्गेन विनियोगानुपपत्तिः । न च श्रौतलिङ्गविनियोगयोः तुल्यकालता । शीघ्रप्रवृत्तत्वाच्छ्रुतेः इति ।
?R?0 लिङ्गवाक्ययोर्विरोधे । ?R?0पूर्वपक्षः - यावन्ति पदानि प्रयुज्यन्ते तावन्ति संभूय एकमर्थं प्रतिपादयन्ति शक्नुवन्ति चैतान्येकमर्थं प्रतिपादयितुं इति प्रथममेकवाक्यता, पश्चाल्लिङ्गेन विनियोगः । अतो वाक्यमेव प्रथमतरं विनियोगहेतुः इति लिङ्गात् प्रबलमिति । सिद्धान्तस्तु- न पाठमात्रात् यजुः पदानां
?Rसंभूय बोधकता । किन्तु अनुष्ठेयैकार्थतयैव अनुष्ठेयार्थधीश्च लिङ्गादिति लिङ्गस्यैव प्राबल्यम् ।
?R ?R?0वाक्यप्रकरणयोर्विरोधे । ?R?0कार्यार्थः सकलपदार्थानामन्वयः अतो वाक्येनापि यस्य विनियोगः तस्यापि कार्येणैव, प्रकरणेनापि यस्यान्वयः तस्यापि कार्येणेति तुल्यबलत्वं प्रकरणवाक्ययोः । यद्वा इतिकर्तव्यताकाङ्क्षा हि कार्यम् । तदेव प्रकरणं तद्विरोधे वाक्येनान्वयो बाध्यत इति पूर्वपक्षः । सिद्धान्तस्तु वाक्येन क्लृप्तान्वयस्य विनियोज्यस्य प्रकरणात् अन्वयान्तरं कल्पयितुं शक्यते विनियुक्तस्य विनियोगाभावात् । ततः वाक्यमेव प्रबलमिति ।
?R ?R?0क्रमप्रकरणयोर्विरोधे । ?R?0प्रकरणेन प्रमाणेन सर्वकरणसंबन्धे कर्तव्ये अवश्यं सर्वैः सह सन्निधिः कल्प्यः असन्निहितसंबन्धानुपपत्तेः आकाङ्क्षादीनां संबन्धे हेतुत्वात् । न च क्लृप्तं सन्निधिमनादृत्य सन्निधानकल्पना युक्ता । अतः क्रम एव बलीयान् इति पूर्वपक्षः । सिद्धान्तस्तु क्रमात् प्रकरणं बलीयः । नह्यनाकाङ्क्षितस्य क्रमः संबन्धहेतुः । न च सन्निधानमात्रात्सम्बन्धः भार्या राज्ञः पुरुषो देवदत्तस्येत्यादावपि तदापत्तेः । आकाङ्क्षास्वीकारे च तदेव प्रकरणं इति प्रकरणात् विदेवनादीनां सर्वत्रान्वयः ।
?R ?R?0क्रमसमाख्याविरोधे । ?R?0शुन्धध्वं इति मन्त्रः स्वसन्निहितसान्नाय्यषात्रशोधनार्थः सन्निधिपाठात् ;?R समाख्यया च पौरोडाशिकमित्यनया पुरोडाशपात्रशोधनार्थः । ततश्च उभयोः विशेषविषयत्वात् उभयत्र विनियोगः इति पूर्वपक्षः । सिद्धान्तस्तु क्रमो बलीयान् । वैदिको ह्यसौ समाख्या पुनः लौकिकी । समाख्या संबन्धनिमित्ता सती सन्निधानमवगमयति लौकिकत्वेन न वेदार्थे साक्षात्सम्बन्धं विदधाति । क्रमः पुनः स्वयमेव सन्निधिः । न च प्रत्यक्षसन्निधाने सति सन्निधानान्तरकल्पना घटते इति ।
?R ?R?0अहीनो वा । ?R?0द्वादशाहीनस्येति द्वादशोपसत्ता किं ज्योतिष्टोमस्य उत
?Rआहीनस्य विधीयत इति सन्देहे कार्यार्थत्वान्नियोगस्य प्रकृतनियोगसम्बन्ध एव न्याय्यः । न च प्रकरणस्य वाक्यात् प्राबल्यम् । सन्निधानाविशेषे हि वाक्यं बलीयः । अत्र तु अहीनकार्यसन्निधिरेव नास्तीति प्रकरणप्राबल्यमिति पूर्वपक्षः । सिद्धान्तस्तु पदार्थान्वयः ऐदमर्थ्यसंबन्धे कारणम् । न च वाक्यात् अन्वयावगमे सति प्रकरणात् अन्वयानुमानं युक्तम् । ततश्च अहीनार्थतेति ।
?R ?R?0द्विबहुत्वयुक्तम् । ?R?0पूर्ववदेव पूर्वोत्तरपक्षौ । अधिकशङ्का तु प्रकृतेऽपि ज्योतिष्टोमे द्विबहुयजमानकत्वान्वयोऽस्तु एककर्तृकेपि यथाशक्तिप्रयोगे सहायस्वीकारात् पत्नीसंबन्धापेक्षया वा अनेकयजमानकत्वं इति पूर्वपक्षः । सिद्धान्तस्तु- अधिकारस्तावदेकस्यैव ज्योतिष्टोमे । अतो यथाशक्त्यनुष्ठानेपि एकस्यैवाधिकारपूर्वककर्तृत्वं न द्वयोः । न च पत्न्यभिप्रायं बहुवचनं यस्मादेकशेषे केवलायाः स्त्रियः ग्रहणं नास्ति स्त्रीमात्रस्य क्वचिदप्यधिकाराभावात् एव शेषे अवश्यंभावी द्वितीयोऽपि पुमानेवावगम्यते । न पत्न्यभिप्रायः इतरेतरयोगः । आधाने तु श्रोतासम्भवाल्लक्षणाङ्गीकारः ।
?R ?R?0जाघनी । ?R?0किं जाघन्युद्देशेन पत्नीसंयाजा विधीयन्ते उत विपरीतमिति संशयः । पूर्वपक्षस्तु जाघन्युद्देशेन पत्नीसंयाजा विधीयन्ते समानपदोपात्तं पत्नीसंयाजाख्य कर्म परित्यज्य पदान्तरोपात्तविप्रकृष्टद्रव्यविधानं न सम्भवति । तथा च यत्र जाघनी पशुयागे तत्र पत्नीसंयाजाः प्रतिपत्तितया विधीयन्ते इति अप्रयोजकत्वं, पत्नीसंयाजे जाघनीविधौ प्रकरण एव निवेशात् जाघनी उपादेयेति पूर्वपक्षः । सिद्धान्तस्तु जाघन्येव पत्नीसंयाजेषु विधीयते । पशुयागे जाघनीविधानं पत्न्यर्थोऽपरो विधेयः स्यात् । कर्मविधौ प्रकरणान्तरात् कर्मान्तरविधानं च स्यात् । अतः दर्शपूर्णमासयोः पत्नीसंयाजेषु जाघनीविधिः इति ।
?R ?R?0सन्तर्दनम् । ?R?0दीर्घसोमे सन्तृद्ये धृत्यै इति विहितं सन्तर्दनं प्रकृतावेव निविशते । तस्यापि यजमानदैर्ध्येण लतादैर्ध्येण वा तदुपपत्तेः इति पूर्वपक्षः ।
?Rसिद्धान्तस्तु सोमापेक्षयैव दीर्घता मन्तव्या समानाधिकरणसमासप्राबल्यात् । धृत्यै इति च सोमातिरेकं विना दारणाशङ्काभावात् नार्थवाद उपपद्यते । अतः संस्थासु विवेश इति सिद्धान्तः ।
?R ?R?0सङ्ख्यायुक्तम् । ?R?0न प्रथमयज्ञे प्रवृञ्ज्यात् इत्यत्र प्रथमशब्दः ज्योतिष्टोमपरः उत तदीयप्रथमप्रयोगपर इति सन्देहे एष वाव प्रथमो यज्ञ इति यज्ञशब्दसामानाधिकरण्यात् ज्योतिष्टोमवचनता । अतस्सर्वस्मिन्नपि ज्योतिष्टोमे न प्रवर्ग्यः इति पूर्वः पक्षः । सिद्धान्तस्तु य एतेनानिष्ट्वा अथान्येन यजेत इत्युक्तेः प्रयोगस्यैव प्रथमत्वमवगम्यते । कथं ??R यः इति कर्तृसम्बन्धितया प्रतीयमानत्वात् । कर्तृश्च प्रयोगेण सम्बन्धः न प्रयोज्येन यागेन । तेन प्रथमप्रयोग एव प्रतिषेधः । इति ।
?R ?R?0पौष्णं पेषणम् । तत्सर्वार्थम् । ?R?0पूषाप्रपिष्टभागः इति श्रुतं पेषणं पौष्णे चरौ पुरोडाशे पशौ च सर्वत्र स्यात् वाक्यसङ्कोचे हेत्वभावात् । यद्यपि पुरोडाशे प्राप्तमेव । पशौ चाकृतिनाशापत्तिः, तथापि आद्ये पौष्णतया अप्राप्तं ;?R पशौ च वचनान्नायुक्तता इति पूर्वपक्षः । सिद्धान्तस्तु- चरावेव पेषणम् । पुरोडाशे पौष्णतया प्राप्तेरनुपयोगात् कार्यत एव प्राप्तेरिष्यमाणत्वात् । पशौ आकृतिनाशात् । चरौ तु पिष्टकृतेपि चरुताव्यवहारात् ।
?R ?R?0एसस्मिन् । ?R?0तदिदं पेषणं किं केवले पौष्णे विधीयते उत अन्यसहितेपि इति सन्देहे द्विदेवताकेपि पेषणं स्यात् अन्यथा प्रपिष्टभागो न स्यात् पूषा । अदन्तकवचनं च देवतानिमित्तकं पेषणं दर्शयति । इति पूर्वपक्षः । सिद्धान्तस्तु कार्यप्रयुक्ता धर्माः कार्ये असम्भवन्तः तत्सम्बद्धे यागेऽवकल्पन्ते । ततश्च पूषदेवताके यागे पेषणविधिः । न च द्विदेवताके पूष्णो देवताभावः सम्भवति । अतः केवलपूषदेवताके विधिरिति ।
?R—–
?R?0तृतीयस्य चतुर्थः पादः
?R?0 विवीतम् । ?R?0यद्यपि वधिवन्निगदाधिकरणेनैव निवीतवाक्यस्यार्थवादत्वं प्राप्तं तथापि प्रकरणाङ्गतया पक्षेप्यप्राप्तेर्विधिरस्तु निवीतादीनामिति अधिकाशङ्का । प्रायेणार्थवादानां न प्रकरणाङ्गयोग्यार्थकत्वमित्यभिप्रायः । सिद्धान्तस्तु प्रकरणाङ्गत्वमशक्यम् मनुष्याणामिति श्रवणात् स्वतन्त्राधिकारापत्तेः । किन्तु पुरुषधर्मता । पुरुषधर्मश्चेत् ‘?Rप्रायादि’ ?Rत्यनेन अर्थवाद इति ।
?R ?R?0दिग्विभागः । ?R?0निवीतं प्रायादित्यनेन स्तुत्यर्थ युक्तम् । प्रतीच्यभिमुखत्वमुदीच्यभिमुखत्वं वा न तथेत्यधिकाशङ्का तद्वदित्यनेन निरस्यते । प्रत्यङ्मुखतया प्रातः, उदङ्मुखतया मध्यान्हे च सुखं मनुष्याश्चेष्टन्ते इति अत्रापि तत्प्राप्तिर्वर्तत एवेत्यर्थवादता ।
?R?0 परुषिदिति । ?R?0परुषि दिनादिषु मूलाग्रयोरन्तराले बर्हिरादिलवनं सौकर्यप्राप्तम् । अश्रृतः रोगप्रदत्वात् रौद्रः, मलिनवर्णः निर्ऋत्यर्हः इति प्राप्तिः प्रदर्शनीया ।
?R?0 अकर्मक्रतुसंयुक्तम् । ?R?0दर्शपूर्णमासगतः नानृतं वदेदिति प्रतिषेधः पुरुषार्थतया प्राप्तस्य स्मार्तस्यानृतवदननिषेधस्यैवानुवादः न तु प्रकरणात् क्रत्वर्थः । यदि क्रत्वर्था यामेव प्राप्तौ प्रतिषेधः तदा सः क्रत्वर्थः स्यात् । न चैतदस्ति । तस्मात् प्राप्तिमात्रात् प्रतिषेधः इति पुरुषार्थ इति पूर्वपक्षः । सिद्धान्तस्तु- नेदं स्मृतिवाक्यस्य मूल प्रकरणपठितत्वात् प्रकरणाङ्गभूतप्रतिषेधसमर्पकमेव । एवं चेत् अन्तरङ्गकत्वर्थतां परित्यज्य अनुवादत्वं न युज्यते । लाघवात् क्रत्वर्थतया अनृतवदने या प्रवृत्तिः तदाश्रयमेवेदं प्रतिषेधशास्त्रम् । तदतिक्रमे च क्रतुवैगुण्यात् श्रौतं प्रायश्चित्तम् ।
?R?0 अहीनवत् । ?R?0दर्शपूर्णमासयोः ‘?Rमलवद्वाससा न संवदेत’ ?Rइति क्रत्वर्थः प्रतिषेधः उत पुरुषार्थ इति संशये पूर्ववत् क्रत्वर्थ इति पूर्वपक्षः ‘?Rतामपरुध्य यजेत’
?Rइति तस्या अपरोधविधेः संवादस्याप्राप्तत्वात् पुरुषार्थो निषेध इति सिद्धान्तः । इदं चाधिकरणं न संवदेत इति संवादप्रतिषेध इति कृत्वाचिन्तितम् । वस्तुतस्तु उपगमनप्रतिषेध एवायमिति ।
?R ?R?0अप्रकरणे तु । ?R?0हिरण्यं भार्यमिति द्वितीयानिर्देशात् धारणसंस्कृतस्य हिरण्यस्य क्रतौ उपयोगकल्पनात् क्रत्वर्थं हिरण्यधारणमिति पूर्वपक्षः । सिद्धान्तस्तु प्रकृतकर्माभावात् न कर्मार्थता । तस्मात् द्रव्यसंस्कारानर्थक्यात् पुरुषधर्मोऽयम् इति । फलं तु अदृष्टमेव ।
?R ?R?0शेषोऽप्रकरणे । ?R?0येन कर्मणेर्त्सेत् तत्र जयान् जुहुयात् इत्युक्तजयादयः स्मार्तश्रौतसर्वकर्माङ्गम् उत वैदिकस्यैवेति शेष सन्देहः । अविशेषात् सर्वार्थतेति । तत्र अष्टकादौ आहवनीयाभावेपि गुणलोपे न मुख्यस्येति न्यायेन आहवनीयं परित्यज्यापि अन्यत्र जयाहोम इति पूर्वपक्षः । सिद्धान्तस्तु यस्मिन्नङ्गिनि आश्रीयमाणे विनियोज्यस्वरूपं न बाध्यते तस्यैव शेषित्वं युक्तं आहवनीययुक्तं चाङ्गिस्वरूपं ;?R तदनुरोधेन वैदिकेष्वेव विनियोगः तत्राहवनीयसम्भवात्, स्मार्ते तदभावात् ।
?R ?R?0दोषात्तु । ?R?0किं लौकिकेऽश्वप्रतिग्रहे प्रतिग्रहीतुरिष्टि उत वैदिके दाने दातुः इति संशये स्मार्ते अश्वप्रतिग्रहे इयमिष्टिः केवललौकिके प्रीतिदानादौ प्रतिग्रहशब्दाप्रयोगात् । इति पूर्वपक्षः । सिद्धान्तस्तु यथाश्रुतजलोदरव्याधिः नाश्वप्रतिग्रहात् लोकसिद्धः । नाप्येतद्वचनात्, वाक्यभेदापत्तेः । तस्मात् उपक्रमगतं पदजातं अश्वरक्षणपोषणादिक्लेशपरं व्याख्येयम् । तच्च वैदिकेप्युपपद्यते । तस्मात् वैदिके दाने इति सिद्धान्तः ।
?R ?R?0अचोदितं च । ?R?0एवं दातुरधिकारे स्थिते किं दातृकर्तृकेयमिष्टिः उत प्रतिग्रहीतृकर्तृकेति संशये पूर्वपक्षः - पोषणादिदोषस्य प्रतिग्रहीतृगतत्वात् विपरिणामे चावश्यके यो गृह्णाति तं निर्वापयेदिति विपरिणामो युक्तः दात्रुपक्रमात्
?Rदातैवाधिकारी सः ऋत्विजं निर्वापयेदित्यर्थः इति । सिद्धान्तस्तु- दातृपरत्वादुपक्रमस्य निर्वापयेदिति कल्पनापेक्षया उपसंहारे प्रतिग्राहयेदिति विपरिणामो युक्तः, उपक्रमानुरोधादिति ।
?R ?R?0पानव्यापच्च । ?R?0पूर्वाधिकरणपूर्वपक्षवत् अत्रापि लौकिके सोमवमने इदं प्रायश्चित्तं पूर्वत्र दोषे मानाभाव उक्तः अत्र तु सोमवमने इन्द्रियग्लानिः प्रत्यक्षं दृश्यते इति अधिकाशङ्का । सिद्धान्तस्तु न लौकिके सोमपाने ग्लामेर्दोषता तस्य वमनार्थत्वात् । ऋतुशेषभक्षणं तु न वमनार्थं सम्यग्जरणादिश्रुतेः । अतः क्रतुगतवमने इदं प्रायश्चित्तमिति ।
?R ?R?0तत्सर्वत्र । ?R?0किं यावन्तः सोमवामिनः तेषां सर्वेषामपि इदं प्रायश्चित्तं उत यजमानवमने इति सन्देहे अविशेषात् सर्वार्थमिति प्राप्ते स्वामिन एवेदं प्रायश्चित्तं ऋत्विजामप्यङ्गीकारे यः सोमं वमिति सः सोमेन्द्रं चरुं निर्वषेत्, इति यजमानपक्षे, ऋत्विक्पक्षे तु तं याजयेदित्येवं वाक्यभेदकल्पनापत्तिः । इति सिद्धान्तः ।
?R ?R?0सर्वप्रदानम् । ?R?0आग्नेयोऽष्टाकपाल इत्यादौ सर्वस्य हविषस्त्यागः उत द्व्यवदानमात्रस्येति संशये सर्वस्येति पूर्वपक्षः । स्विष्टकृदादयस्तु आग्नेयचोदनानुरोधात् हविर्धर्मकं द्रव्यान्तरमुत्पाद्य कर्तव्याः । अथ वा गौणः यज्यर्थो जुहोत्यर्थश्च ग्राह्य इति पूर्वपक्षः । सिद्धान्तस्तु आग्नेय इत्यादौ द्रव्यदेवतासंबन्धमात्रमवगम्यते ।स च सम्बन्धः एकदेशत्यागेनापि । ततश्च स्विष्टकृदादिदर्शनमुपपद्यते । द्व्यवदानस्यैव त्यागः ।
?R ?R?0अप्रयोजकत्वात् । ?R?0किमेकस्माच्छेषात् शेषकार्यं कर्तव्यं उत सर्वेभ्यः शेषेभ्यः प्रत्येकं शेषकार्याणि कार्याणीति संशये एकस्माच्छेषात् कृते शेषकार्ये शास्त्रार्थः कृत इति पूर्वपक्षः, सिद्धान्तस्तु यावच्छेषं शेषकार्यावृत्तिः । शेषसंस्कारद्वारं हि प्रधानस्योपकार्यत्वं न च शेषे विशेषोऽवगम्यते अतोऽगृह्यमाणविशेषात् प्रतिप्रधानमावृत्तिः ।
?R ?R?0एकस्माच्चेत् । ?R?0तच्च शेषकार्यमविशेषाद्यतः कुतश्चिदादाय कर्तव्यमिति पूर्वपक्षे प्रधाने एव निमित्ते सम्भवति तेनैव नैमित्तिकस्य कृतत्वात् नेतरेषां निमित्ततेति सिद्धान्तः ।
?R ?R?0भक्षाश्रवणात् । ?R?0यागं प्रति द्रव्यस्य द्व्यवदानमात्रेणोपसंहारात् शेषस्य अन्यत्राविनियोगात् इदं ब्रह्मणे इति चतुर्थीश्रवणाच्च शेषेण ब्रह्मादीनां परिक्रय इति पूर्वपक्षे ; ?Rसिद्धान्तः शेषस्यापि द्रव्यस्य द्व्यवदानार्थतयोत्पत्तेः यागार्थत्वं, तेन नान्यत्र विनियोगमर्हति इति नानेन परिग्रह इति ।
?R—–
?R?0पञ्चमः पादः
?R?0 आज्याच्च । ?R?0उपांशुयाजे संशयः किं ध्रुवास्थादपि आज्यशेषात् अङ्गप्रधानसाधारणत्वात् नावदेयं उत अङ्गप्रधानशेषमपि प्रधानशेषमित्यवदेयमिति संशये, साधारणत्वेपि शेषत्वाविशेषादवदेयमिति प्राप्ते ;?R सिद्धान्तः - न साधारणेऽवदेयं, केवलप्रधानशेषत्वाभावात् केवलप्रधानशेषादेव हि स्विष्टकृदवदानं पुरोडाशादिषु । जुह्वादौ तु सर्वहोमात् न शेषः । चमसे तु शेषे प्रमाणमस्तीति ।?R?0
?R ?R?0साकं प्रस्थाय्ये । ?R?0युक्तमुपांशुयाजे शेषो नास्तीति । साकं प्रस्थाय्यस्य तु विकृतिभूतत्वात् शेषकार्याणि स्युरिति पूर्वपक्षे कुम्भीभिरभिक्रमणस्य दृष्टार्थत्वात् सर्वहोमः । ततश्च शेषाभावान्न शेषकार्याणि ।
?R ?R?0सौत्रामण्यां । ?R?0सौत्रामण्यां उच्छिनष्टि न सर्वहुतं जुहोतीति शेषसद्भावश्रवणात् शेषकार्याणि स्युः इति पूर्वपक्षः । तस्य शेषस्य परिक्रीतेन ब्राह्मणेन भक्षणविधानात् शेषाभावान्न शेषकार्याणि ।
?R ?R?0द्रव्यैकत्वे । ?R?0सर्वपृष्ठायामिष्टौ पट्कर्माणि । पुरोडाशश्चैकः । तत्र प्रतिप्रधानं शेषकार्यप्राप्तेः शेषकार्यावृत्तिरिति प्राप्ते अगृह्यमाणविशेषतया य एव शेषसंस्कारः कृतः स एव सर्वेषां शेषाणामित्यनावृत्तिः ।
?R ?R?0ऐन्द्रवायवे । ?R?0द्विरैन्द्रवायवस्य भक्षयति इत्यत्र भक्षणेन सोमसंस्कारः स च सकृद्भक्षणेनैव कृत इति न द्विः भक्षणोपपत्तिः । तस्मात् प्रयोगान्तरापेक्षया द्विरित्यनुवाद इति प्राप्ते, सत्यं भक्षणेन सोमः संस्क्रियते तथापि वचनात् द्विर्भक्षणमेव कर्तव्यमिति सिद्धान्तः ।
?R ?R?0चमसेषु समाख्यानात् । ?R?0चमसेषु वचनाभावान्नास्ति भक्ष इति पूर्वपक्षः । यदि भक्षणं न स्यात् चमसत्वमेवैषां न स्यात् । तस्मात् होतुश्चमस इत्यादिवचनानि भक्षविधायकानि । ?R?0 ?R?0
?R ?R?0उद्गातृचमसम् । ?R?0प्रोद्गातृणां इत्यत्र किमेकस्योद्गातुश्चमसः, उत सर्वेषां ऋत्विजां उत असुब्रह्मण्यानां उद्गातृगणप्रविष्टानां उत ससुब्रह्मण्यानां तेषां इति सशये, बहुवचनस्य पाशवल्लक्षणया प्रथमः पक्षः, द्वितीयस्तु वचानार्थस्याविवक्षापेक्षया प्रातिपदिकस्य ऋत्विङ्मात्रपरत्वं न्याय्यमिति, तृतीयस्तु उच्चैर्गायन्तीति योगेन त्रयाणामिति । राद्धान्तस्तु योगापेक्षयारूढेः प्राबल्यात् एकोद्गातृप्रवचनाध्येतृत्वात् उद्गातृशब्देन चतुर्णां लक्षणेति ।
?R ?R?0ग्रावस्तुतः । ?R?0सर्वे हारियोजनस्य भक्षयन्तीत्यत्र यथाचमसमन्यान् इति चमसिप्रस्तावात् चमसिनामेव भक्षः ग्रावस्तुतः अतथात्वान्न भक्ष इति पूर्वपक्षे सर्वे इति निस्सन्दिग्धप्रकृतसकलर्त्विक्परस्य सर्वशब्दस्य वाक्यशेषाच्चमसिष्ववस्थापनमयुक्तम् । तस्मात्सर्वे भक्षयेयुः इति सिद्धान्तः ।
?R ?R?0वषटकाराच्च । ?R?0वषट्कर्तुः प्रथमभक्ष इत्यत्र प्राथम्यस्य अकारकत्वात् न भक्षविशेषणत्वं, ततश्च विशिष्टविधानासम्भव इति पूर्वपक्षः । सिद्धान्तस्तु सत्यं तथापि पदद्वयेन एकविशिष्टार्थविधानोपपत्तिः विशिष्टार्थस्य पदार्थान्तरेण पश्चात्सम्बन्धः । समासे नीलोत्पलमानयेत्यत्र नीलोत्पलस्येव । प्राथम्यभक्षयोश्च गुणगुणिभावेन सम्बद्धयोः पश्चात् करोत्युपात्तेन विधिना सम्बन्धः ।
?R ?R?0होमाभिषवाभ्यां च । ?R?0अभिषुत्य हुत्वा भक्षयति इति भक्षविधानम् । नात्र
?Rपूर्वः पक्षः । प्रकारान्तरासम्भवात् भक्षस्यैव विधानात् ।
?R ?R?0प्रत्यक्षोपदेशात् । ?R?0होतृचमस इत्यादिमसाख्याभिः होत्रादीनां चमससम्बन्धावगतेः तेषामेव तत्र भक्षः । होमाभिषवनिमित्तभक्षणं तु ग्रहादौ इति पूर्वपक्षे ;?R अभिषवनिमित्तकोऽपि भक्षः चमसेषु स्यात् एकभक्षणेनेतरस्य बाधायोगात् । न च विरोधः, यदि समाख्यया बाधः तर्हि विरोधः स्यात् । इह तु वचनात् प्राप्तिः वचनानां च वचनान्तराविरोधेन कल्पना ।
?R ?R?0एकपात्रे । ?R?0कः प्रथमं भक्षयेदिति विचारे अध्वर्युहस्तगतत्वात् सोमपात्रस्य स एव प्रथमं भक्षयेदिदिति शङ्का । वषट्कर्तुः प्रथमभक्ष इति तु न प्राथम्यविधायकः तस्य न्यायप्राप्तप्राथम्यानुवादकत्वादिति प्राप्ते वचनाच्चेति सूत्रं कृत्वाचिन्तोद्धाटनपरम् ।
?R ?R?0वचनात् ।?R?0 अननुज्ञातेन भक्षणीयं उतानुज्ञातेनेति संशये असति वचनेऽनियमः । इह तु वचनसत्त्वात् तत्र च मन्त्राम्नानात् वैदिकेनैवेति सिद्धान्तः । इदमधिकरणद्वयं उत्तरचिन्ताशेषः ।
?R ?R?0तत्रार्थात् । ?R?0प्रतिवचनं तु किं लौकिकवाक्येन उत मन्त्राम्नानात् मन्त्रेणेति संशये लौकिकेन वाक्येनेति पूर्वपक्षः । मन्त्राम्नानस्य उपहूत इत्यस्य उपव्हयस्वेत्येतत्पूर्वभावित्वात् तच्छेषत्वमेव न तु स्वातन्त्र्येण अनुज्ञाने विनियोगः इति प्राप्ते, लिङ्गेन विनियोगे कृते पूर्वतैवात्र बाध्यत इति सिद्धान्तः ।
?R ?R?0तदेकपात्राणाम् ।?R?0 अनुज्ञापनं प्रतिवचनं च अविशेषेण एकपात्राणां भिन्नपात्राणां च भवेदिति पूर्वपक्षे । दृष्टार्थत्वानुरोधेन एकपात्रे भक्षणकाल एवेदमनुज्ञानमिति सिद्धान्तः ।
?R ?R?0याज्यापनयनेन । ?R?0यजमानस्य याज्येत्यादौ यत्र यजमानेन याज्यापाठः तत्र वषट्कारः तन्निमित्तकं भक्षणं च होतुरेव इति प्राप्ते यत्रैव होता प्राप्तः तत्रैव यजमानोऽपि नियुज्यते सवषट्कारे च स प्राप्त इति तत्रैव यजमानः इति
?Rतन्निमित्तकभक्षोऽपि तस्यैवेति राद्धान्तः ।
?R ?R?0फलचमसः ।?R?0 फलचमसः भक्षविकारमात्रं उत यागविकारोऽपीति संशयः । पूर्वपक्षस्तु भक्षविकार एव तत्रैव विकारश्रवणात् तमस्मै भक्षं प्रयच्छेत् इति । सिद्धान्तस्तु फलचमसः यागविकारोऽपि । यागीयद्रव्यसंस्कारसंस्कार्यत्वात् स च संस्कारः भक्षणमिति यागकारणत्वं विना फलचमसस्य भक्षणाङ्गत्वमेवानुपपन्नमिति ।
?R ?R?0अनुप्रसर्पिषु । ?R?0राजसूये राज्ञोऽधिकारात् यजमानचमसे किं दश ब्राह्मणा भक्षयेयुः ततश्च शतं ब्राह्मणास्सोमं पिबन्तीति विधिः, उत दश राजन्या भक्षयेयुः शतमिति तु सृष्टिन्यायेनानुवाद इति । तत्र चोदकप्राप्तभक्षानुवादेन शतं ब्राह्मणाः इत्यनेकगुणविधौ वाक्यभेदः स्यात् इति प्राप्ते राजन्यानिवृत्तौ ब्राह्मणशब्दस्य अयथार्थानुवादत्वप्रसङ्गात् । न च लक्षणा विध्यङ्गीकारेण यथार्थत्वसम्भवे लक्षणायोगात् ।
?R—–
?R?0अथ षष्टः पादः
?R?0 सर्वार्थमप्रकरणात् । ?R?0अनारभ्याधीति पर्णता किं प्रकृतिविकृत्योर्निविशते उत प्रकृतावेवेति संशये चोदकादनारभ्य विधिर्बलीयान् ततश्च प्रकृतावुपदेशप्राप्तां विकृतावतिदेशप्राप्तां स्रुचमुद्दिश्य अनारभ्यवाक्येन पर्णताविधिरिति प्राप्ते विकृतौ स्रुक्सम्भवार्थं चोदकापेक्षत्वे अनारभ्यविधिना पूर्वं प्रकृतौ उपदेशेन पर्णताविधानमङ्गीकार्यं सकलाङ्गसम्पाद्यत्वादितिकर्तव्यतायाः । ततश्च पुनः उभयसाधारण्येन पर्णताविधाने द्विरुक्ततापत्तिरिति प्रकृतावेव निवेशः ।
?R ?R?0प्रकरणविशेषात्तु । ?R?0सामिधेनीषु पाञ्चदश्यं प्राकरणिकं साप्तदश्यं अनारभ्याधीतं तदुभयमपि श्रुत्या विनियुज्यते । पदार्थसम्बन्धमुखेनाङ्गग्रहणात् न तु सन्निधानमात्रेणेति पूर्वः पक्षः । सिद्धान्तस्तु सन्निधानमात्रेणैव पदार्थानां ग्रहणात्
?Rपाञ्चदश्यस्य प्राबल्यमिति ।
?R ?R?0नैमित्तिकम् । ?R?0काम्यं गोदोहनादि विकृतौ निविशते प्रकृतौ चमसबाधकत्वे उपदेशबाधः स्यात्, ततश्च क्रतोर्वैगुण्यं ;?R विकृतौ पुनः कार्यत एव साद्गुण्यावगतिर्भवति तत्र पुरुषार्थेनापि कार्यनिर्वृत्तौ नास्ति वैगुण्यावगतिः इति प्राप्ते उपदेशस्य दृष्टार्थत्वात् पुरुषार्थेन कृते कार्ये चमसो बाध्यते ततश्च न क्रतुवैगुण्यम् ।
?R ?R?0इष्ट्यर्थम् । ?R?0किं पवमानेष्टिषु अधिकारः कल्प्यतां ता एव प्रधानं, उत आधानेऽधिकारकल्पना तदेव प्रधानमिति । तत्राङ्गबाहुल्यात् भूयस्त्वेनोभयश्रुतीति न्यायेन इष्टयः प्रधानं आधानं तदङ्गमिति प्राप्ते सिद्धान्तः द्वयोरप्यधिकाराभावात् अग्नीनां क्रतुद्वारा सप्रयोजनत्वात् द्वयोरग्न्यर्थत्वमिति ।
?R ?R?0तत्प्रकृत्यर्थं । ?R?0किं क्रत्वर्थानामग्नीनामाधानं उत आहितानां क्रत्वर्थतेति संशयः प्रथमपक्षे पर्णतादिवत् प्रकृतिक्रत्वर्थमाधानं स्यात् द्वितीयपक्षे अग्न्यर्थमेवाधानं अग्नीनां तु सर्वक्रतुषूपयोगः । पूर्वपक्षस्तु क्रत्वर्थानामाधानं भवितुमर्हतीति । सिद्धान्तस्तु आहिताग्नेरधिकारात् अग्निस्वरूपे अदृष्टरूपे वैयर्थ्याभावाच्च अग्न्यर्थमाधानमिति ।
?R ?R?0तासामग्निः । ?R?0इदमत्र चिन्त्यते- योऽयमतिदेशः स किं यावदुपकारकं अङ्गं अनङ्गं वा तत्सर्वमतिदिशति उत अङ्गमेवेति । उपकारकमात्रमतिदिश्यते, ततश्च पवमानेष्टिषु अग्निसद्भावात् तत्साधनानां पवमानेष्टीनामतिदेशः इति पूर्वपक्षः । सिद्धान्तस्तु यावदुपकारजनकमङ्गभूतं तावदतिदिश्यते यत्तु उपकारजनकपदार्थजनकं तत् अनङ्गभूतं नातिदिश्यते इति पवमानेष्टीनामग्न्यर्थानां नातिदेशः पवमानेष्टिषु ।
?R ?R?0तुल्यः सर्वेषाम् । ?R?0पशुधर्माणां विशसनादीनां ज्योतिष्टोमे पशुत्रयसाधारण्यं उत पशुद्वयसाधारण्यं उताग्नीषोमीयार्थता इतरयोः अतिदेशात्प्राप्तिरिति सन्देहे
?Rज्योतिष्टोमगतानां धर्माणां आनर्थाक्यात्तदङ्गेष्विति न्यायेन पशुत्रयेष्यवतार इति प्रथमः पक्षः । द्वितीयस्तु औपवसथ्येऽहनि तेषां विधानं अग्नीषोमीयः तत्रानुष्ठीयते सवनीयस्तु तस्मिन् दिने विधीयत इति तस्यापि सन्निहितत्वात् द्वयार्थतेति । सिद्धान्तस्तु सवनीयस्यौपवसथ्ये गुणमात्रविधेः न सन्निधिः अतः क्रमाख्यसन्निधेः अग्नीषोमीयमात्रार्थता ।
?R ?R?0दोहयोः । ?R?0यथा पशुधर्माः सन्निधानादग्नीषोमीयार्थाः तथा दोहधर्माः सायं दोहार्थाः इति पूर्वपक्षः । सिद्धान्तस्तु दधिपयसोर्नैव कालभेदेन विधानं किन्तु एककालेनैव । स्थानं तावत् सायंदोहस्य विद्यते तत्तु प्रकरणाद्दुर्बलम् । अतः दोहधर्माः उभयार्था इति ।
?R ?R?0तद्वत्सवनान्तरे । ?R?0ग्रहधर्माणामपि प्रातस्सवनविशेषे सन्निहितत्वात् प्रातस्सवनिकग्रहाणामेवेति पूर्वपक्षे सुत्याकाले धर्मविधिः न सवनविशेषे । सुत्याहः प्रचार एव सवनत्रयविभागेनोपदिश्यते । न पुनः प्रातरादिकालमाश्रित्य धर्मविधय इति सर्वग्रहार्था एव ग्रहधर्मा इति ।
?R ?R?0रशवाच । ?R?0अस्तु ग्रहधर्माणां सवनभेदेन सर्वग्रहार्थता । रशना तद्धर्माश्च दैक्षसन्निधौ श्रुतत्वात् तदर्था इति पूर्वपक्षे । उच्यते- यद्यपि अग्नीषोमीयसन्निधानं रशनायाः तथापि सर्वपशूनां यूपस्य तन्त्रत्वात् एकयूपसंबन्धेन सर्वपशुष्वेव रशनायाः शेषत्वं तन्मुखेन तद्धर्माणां च ।
?R ?R?0आराच्छिष्टम् । ?R?0ग्रहधर्माः सन्निहिता ये प्रकरणपठिताः ग्रहाः तेष्वेव निविशन्ते न तु अनारभ्याधीतयोः अंश्वदाभ्यग्रहयोः इति पूर्वपक्षे न सन्निहितमात्रं उद्देशकेन शब्देनोच्यते । अपि तु प्रयोजनवान् यस्य धर्मविधिः सः । ततश्च यत्सौमिकं ग्रहजातमुपात्तं तत्सर्वं प्रयोजनवदिति उद्देश्यत्वात् तत्रापि ग्रहधर्माः ।
?R ?R?0अग्न्यर्थम् । ?R?0इष्टकाधर्माः अकृष्णत्वादयः स्थूलरूपचितिभेदात् यच्चितिसन्निधौ धर्माः श्रुताः तच्चितिशेषभूतेष्टकासु स्युरिति अधिकाशङ्का ।
?Rसिद्धान्तस्तु यद्यपि चितिभेदः सर्वचितुषु अपूर्वैक्यात् अपूर्वसम्बन्धित्वेन धर्मविधानात् अनारभ्याधीतास्वपि धर्माः स्युरिति ।
?R ?R?0नैमित्तिकम् । ?R?0सोमधर्मविधयः फलचमसेषु तथा चमसधर्माः गोदोहने समानविधाना उत नेति सन्देहे तुल्यबलत्वात् प्रकरणस्य समानविधाना इति पूर्वपक्षे, सत्यं प्रकरणं तुल्यं धर्मवन्तस्तु चमसादयः नित्याः गोदोहनादयस्तु नैमित्तिकाः नित्यवदधिकारविधिना गृहीता धर्माः नित्यद्वारका एवेति युक्तम् आनुगुण्यात् । नैमित्तिकेषु तु स्थानापत्तेः धर्मप्राप्तिर्भवतीति सिद्धान्तः ।
?R ?R?0प्रतिनिधिश्च । ?R?0मुख्यधर्माः प्रतिनिधौ कार्यतः प्राप्यन्ते फलचमसादाविवेति पूर्वपक्षे व्रीह्याद्यपचारे नीवाराः न कार्यसाधनतया प्राप्यन्ते, किन्तु स्वरूपेण व्री?Rह्युपदेशसपत्त्यर्थम् । तेन व्रीहय एव किञ्चिद्विकृता नीवारा इति औपदेशिका एव धर्माः तेषु ।
?R ?R?0नियमार्था । ?R?0यत्र पुनः प्रतिनिधिः श्रूयते सोमाभावे पूतीकादिः तत्र न समानविधानं सोमधर्माणाम् । यदि प्रतिनिधिरयं तदा कार्यत एव प्राप्तेः विधिवैयर्थ्यं अतः रसान्तरमेवेदं साधनत्वेन विधीयत इति पूर्वपक्षे अत्र प्रतिनिधिर्नियम्यत इति नास्ति विध्यानर्थक्यं इति पूर्वपक्षे अत्र प्रतिनिधिर्नियम्यत इति नास्ति विध्यानर्थक्यं इति सामानविध्यमेव ।
?R ?R?0संस्थास्तु । ?R?0दीक्षणीयादिधर्माणां उक्थ्यादिसंस्थासु अग्निष्टोमे च सामानविध्यं उत नेति सन्देहे य एव सोमेन यजेतेति यागश्चोदितः स एवोक्थ्यादिष्वपि ;?R ग्रहविशेषाणामेव च फलाय चोदना । ततश्च यागैक्यात् सामानविध्यमिति पूर्वपक्षे ;?R अग्निष्टोमान्ता ये ग्रहणाख्यास्संस्काराः तत्पर्यन्तैव यागस्यानुष्ठानचोदना अत ऊर्ध्वं काम्यग्रहाः यागावृत्तिमाक्षिपन्ति । ततश्च उक्थ्यादिषु न यागचोदनया धर्मा ग्रहीतुं शक्यन्ते- कार्यतश्च तेषु धर्मप्राप्तिः इति सिद्धान्तः ।
?R?0सप्तमः पादः
?R?0 प्रकरणाविशेषात् । ?R?0बर्हिर्धर्माः प्रकणात् प्रधानार्था इति पूर्वपक्षे सिद्धान्तः श्रुत्यादिभिरेवाङ्गप्रधानार्था इथि ज्ञायते बर्हिषि हर्वीष्यासादयतीति । न च वाक्येन पिण्डपितृजज्ञवर्तिनि बर्हिष्यपि स्यादिति साम्प्रतम् । ग्राहकेण गृहीतं विनियुज्यते ग्राहकश्च दर्शपूर्णमासप्रयोगविधिः तत्सन्निधानाद्धर्माणामिति नान्यत्र प्राप्तिः ।
?R ?R?0फलसंयोगात्तु । ?R?0किं वपनादयः कर्त्रवस्थस्य पुरुषस्य संस्कारा उत अधिकृतावस्थस्येति संशये कर्तुः कर्माङ्गत्वात् तत्संस्कारा अपि तद्द्वारा कर्माङ्गं भवेयुः अधिकृतसंस्कारत्वे न कर्माङ्गत्वोपपत्तिः तस्य प्राधान्यात् । तस्मात् कर्तृसंस्कारा इति पूर्वः पक्षः । सिद्धान्तस्तु यदर्थः कर्तृभावः तदर्थः संस्कारोऽपीति युक्तम् अधिकारसिद्ध्यर्थं कर्तृत्वम् ।
?R ?R?0चिकीर्षया च संयोगात् । तथाभिधानेन । ?R?0प्रधानहविष एव वेद्यामासादनं युक्तम् प्रधानस्यैव चिकीतंर्षितत्वात् । यदेव चिकीर्षित तदर्थान्येवाङ्गानीत्येव युक्तम् । तथा चतुर्होत्रा पौर्णमासीमभिमृशेदिति विहिताभिमर्शनं प्रधानहविष एव । पौर्णमासीशब्दस्य प्रधानमात्रवाचित्वात् । अतः नाङ्गहविषामभिमर्शनं मन्त्रणेति पूर्वपक्षे सिद्धान्तः ;?R को ब्रूते प्रधानं न चिकार्ष्यत इति । अधिकारनिर्वृत्त्यर्थं तस्य चिकीर्षा साङ्गं च प्रधानमधिकारं निर्वर्तयति । अतः वेद्यभिमर्शनयोः अङ्गप्रधानार्थता ।
?R ?R?0दीक्षादक्षिणम् । ?R?0सोमे दीक्षा दक्षिणा च साङ्गादधिकारर्निर्वृत्तेः साङ्गस्य सोमस्येति पूर्वपक्षः । दोक्षा सोमस्य दक्षिणास्सोमस्येति वचनात् प्रधानार्थेति सिद्धान्तः ।
?R ?R?0तथा युपस्य । ?R?0अर्धमन्तर्वेदि इति विहिता वेदिः यूपाङ्गं उत नेति संशयः । क्षुतेरङ्गमिति पूर्वपक्षे बहिर्वेदिपदेनैकवाक्यत्वात् न श्रुत्यर्थविधानं एकवाक्यताभङ्गात्; ?Rकिन्तु देशविशेषलक्षणेति सिद्धान्तः ।
?R ?R?0सामिधेनी । ?R?0अत्र हविर्धानाङ्गता सामिधेनीनां विपरीतं वा युक्तं न तु पूर्ववत् देशविशेषलक्षणा, पूर्ववत् बहिर्वेदिपदसंबन्धाभावात् इति पूर्वपक्षे हविर्दानमिति हविरसम्बन्धस्य सामिधेनीरिति समिन्धनसम्बन्धस्य प्रतीतेः श्रौतार्थान्वयानुपपत्तेः देशविशेषलक्षणा ।
?R ?R?0शास्त्रफलम् । ?R?0अधिकारविधिसामर्थ्यात् अधिकारिणः कर्तृत्वं श्रूयते । यदि परः पदार्थान् कुर्यात् कर्तृत्वमेव हीयेत । अतः जयमान एव यागीयसर्वपदार्थेषु कर्ता । परिक्रयस्तु गौणः इति प्रथमः पक्षः । स्वयं वा अन्यो वा कुर्यादिति द्विदीयपक्षः । तत्रापि द्रव्योत्सर्गं स्वयं कुर्यात् शिष्टं तु स्वयं वा अन्यो वेत्यनियमः इति । सिद्धान्तस्तु उत्सर्गं स्वयं कुर्याद्यजमानः । शेषः अन्यैरेव कर्तव्य इति यतः श्रुतिः परिक्रयं नित्यतया ब्रूते ।
?R ?R?0तत्रार्थात् । ?R?0उत्सर्गभिन्नविषयेषु परिक्रीतकर्तृत्वे परेषां सङ्ख्याया अनियमः एकस्मिन्नपि बह्वीनां समाख्यानां वरणानां चाविरोधात् इति पूर्वपक्षः । सिद्धान्तस्तु आध्वयवादिसमाख्याभेदात् संज्ञिनामपि भेदः चोदनावगतत्वात्तेषाम् । एकस्यानेकसंज्ञास्तु लोके यत्र दृश्यन्ते तत्र भवतु नाम, वेदे तु संज्ञयैव संज्ञिभेदावगमात् न विप्रतिपत्तिः ।
?R ?R?0चमसाध्वर्यवश्च । ?R?0चमसाध्वर्यवः किं ऋत्विगन्तर्भूताः उतान्ये इति संशये अन्तभूता एव, होतृकाणां चमसाध्वर्यव इति षष्ठीनिर्देशस्तु सर्व एव ऋत्विजः षष्ठ्यन्तेन निर्दिश्यन्ते अतः तद्भिन्ना एव ते । उत्पत्तिविधावेव च संज्ञाभेदादिति ।
?R ?R?0उत्पत्तौ । ?R?0ते किं अनियता उत बहव एवेति संशये अनियमः एको वा बहवो वेति पूर्वपक्षः । नित्यवत् चमसाध्वर्यून् वृणीते इति बहुवचनश्रवणात् नियतसङ्ख्याका इति सिद्धान्तः ।
?R ?R?0दशत्वं च । ?R?0स्थिते बहुत्वे किं अनियमः उत कपिञ्जलवत् त्रित्वं उत दशैव इति संशये- अनियमे त्रित्वे वा प्राप्ते, दशपेये दशत्वदर्शनात् दशैवेति
?Rसिद्धान्तः ।
?R ?R?0शमिता च । ?R?0शमिता च संज्ञाभेदात् भिन्न एव इति प्राप्ते नात्र भेदः उत्पत्तिनिबन्धनो हि भेदः उक्तः अत्र च नोत्पत्तिः, संज्ञान्यत्वं तु यौगिकत्वादुपपन्नम् ।
?R ?R?0उपगाश्च । ?R?0होतृकाणां चमसाध्वर्यव इतिवत् उपगा इति ऋत्विगन्तरसम्बन्धश्रवणात् इमे ऋत्विग्भ्योऽन्ये इति पूर्वपक्षः । उत्पत्तेरश्रवणात् अर्थान्तराभावात् उपगाः गानोपचयकारिणः ऋत्विगन्तभूताः ।
?R ?R?0विक्रयी त्वन्यः । ?R?0सोमविक्रयी तु ऋत्विगेव । विक्रयस्याचोदितत्वेपि क्रयोपादानशेषतया विक्रयोऽप्यङ्गं ततश्च ऋत्विक्कर्तृकतेति पूर्वः पक्षः । सिद्धान्तस्तु लोभादेव विक्रेतुराक्षेपतः सिद्धेः द्रव्यार्जनवत् नाङ्गत्वम् । ततश्चान्य एव कर्तेति ।
?R ?R?0कर्मकार्यात् । ?R?0सर्वेषां ऋतुयजननिमित्तोपत्तेः चमसाध्वर्यूणामपि ऋत्विक्त्वमिति प्राप्ते, सौम्यस्य यज्ञक्रतोः सप्तदश ऋत्विजः इत्यत्र उत्पत्तावेव ऋत्विक्शब्दप्रयोगात् यथाश्रुति सप्तदशानामेवर्त्विक्त्वम् न परिसङ्ख्या दोषः ऋतुयजननिमित्तत्वे सर्वेषामापत्तेः इति सिद्धान्तः ।
?R ?R?0नियमस्तु । ?R?0के ते ऋत्विज इति संशये ऋत्विग्भ्यो दक्षिणां ददाति इति येभ्यो दक्षिणा निर्दिष्टा त एव नान्ये इति सिद्धान्तः ।
?R ?R?0स्वामिसप्तदशाः । ?R?0किं यजमानेन सह सप्तदशर्त्विजः उत अन्ये सप्तदशेति संशये यजमानादन्ये ;?R तेषामेव कर्मकरत्वात् न स्वामी कर्मकरः भृत्यवत् एकधर्मयुक्तानां चाबान्तरसङ्ख्या युक्तेति पूर्वपक्षे ;?R स्वामी यजमान एव सप्तदशः यद्यपि स न भृत्यः तथापि यागकर्तृत्वेन यागीकर्मकरत्वमस्ति इति अवान्तरसङ्ख्योपपत्तिः न च अधिकारित्वेन यजमानः सप्तदश इति सिद्धान्तः ।
?R ?R?0ते सर्वार्थाः । ?R?0किं यावत्पुरुषकार्यं तावत् तैः कर्तव्यं उत यावद्वचनं इति, अग्नयश्च यावत्कार्यं कर्तुं शक्यते तावत्कार्यार्थाः उत यावद्वचनमिति सन्देहे
?Rयावत्कार्यमिति पूर्वपक्षे;?R सिद्धान्तः यदि वचनानि नित्यानुवादतया कल्प्येरन् तदा सर्वपुरुषकार्यार्थता ऋत्विजां तथा अग्नीनां भवेत् न तु तथा । तस्माद्यावद्वचनमेव कार्यमृत्विग्भिरिति ।
?R ?R?0तस्योपदेश । ?R?0यद्येन समाख्यायते तत्तेन कर्तव्यमित्युत्सर्गः वचनात् विशेषसमाख्यानाच्च तस्यापवादः ।
?R ?R?0प्रैषानुवचनम् । ?R?0प्रैषमात्रे अनुवचनमात्रे मैत्रावरुणः कत्रेति पूर्वपक्षे सहचरितासहचरितयोः सहचरितप्रत्ययः इति प्रसिद्धेः प्रेष्यति चानुचाह इति द्वयोः सहचारात् प्रैणानुवचने मैत्रावरुणः कर्तेति सिद्धान्तः ।
?R ?R?0चमसान् । ?R?0चमसैः चमसाध्वर्यवो जुहुयः नाध्वर्युः । तथा सति तेषां चमसाध्वर्युसमाख्यानुपपत्तेरिति पूर्वपक्षे;?R अध्वर्युशब्दस्योत्पत्तिनिमित्तत्वादनेकार्थत्वमन्याय्यमिति चमसेषु अध्वर्युरिव इति विग्रहात् मुख्याध्वर्युणैव होमः कार्यः । तस्यान्यत्र व्यापृतत्वे एते जुहुयुः अत एव समाख्योपपत्तिः इति सिद्धान्तः ।
?R ?R?0वेदेपदेशात् । ?R?0किं श्येनः साङ्गः उद्गात्रा कर्तव्यः अध्वर्युणा च वाजयेयः उत षोडशभिरपीति संशये, औद्भात्रं आध्वर्यवं इति समाख्यानात् आद्यपक्षे प्राप्ते- सिद्धान्तः - प्रकृतौ येन पदार्थाः कृताः तेनैव विकृतौ कार्याः इति षोडशभिरेव कार्यम् । विकृतिगतविशेषसमाख्या तु कल्प्यत्वात् दुर्बलः ।
?R—–
?R?0अथाष्टमः पादः
?R?0 स्वामिकर्म ।?R?0 आध्वर्यवसमाख्याते ब्राह्मणे पठितः परिक्रयः आध्वर्यव एव समाख्याबलादिति प्राप्ते ;?R अधिकारश्रुतेर्यजमानस्य सर्वत्र कर्तृत्वावगमात् प्रधानभूताया विरोधात् समाख्याबाधेन याजमान एव परिक्रयः ।
?Rअध्वर्युपरिक्रीतऋत्विक्कृतपदार्थेषु यजमानस्य कारयितृत्वस्याप्यसम्भवात् ।
?R ?R?0संस्कारास्तु । ?R?0वपनादीनां फलिसंस्काराणामाध्वर्यवत्त्वात् अध्वर्युणैव करणम् इति पूर्वपक्षे सिद्धान्तः- एते पुरुषसंस्काराः । न संस्कर्तुं पुरुषाः परिक्रीयन्ते अपि तु कारयितुम् । अतः तादर्थ्याभावात्
न परिक्रयद्वारेण यजमानस्य वपनादिकर्तृत्वमिति अधिकारश्रुतिबिरोधात् समाख्याबाधः ।
?R ?R?0तपश्च । ?R?0परिक्रयस्य क्लेशापनुत्त्यर्थत्वात् तपसश्च क्लेशरूपत्वात् तस्य ऋत्विक्कर्तृकता इति प्राप्ते ब्रूमः संस्काररूपत्वसामान्यात् वपनादिवत् तपोऽपि याजमानमेव ।
?R ?R?0गुणत्वाच्च । ?R?0हिरण्यमालित्वादिषु तत्तद्वेदपठितेषु न समाख्यया कर्तृनियमः इति प्रतिप्रधानावृत्त्या सर्वैः ऋत्विग्भिः कर्तव्या एव ।
?R ?R?0तथा कामः । ?0’?Rयदि वर्षुकः पर्जन्यः स्यात्’ ?Rइत्युक्तः कामः आर्त्विज एव य एव माता तस्यैव काम इति प्रतीतेरिति प्राप्ते यजमान एव साङ्गे कर्मण्यधिक्रियते । अतः गुण फलमपि यजमानस्यैव । ऋत्विक् तु गुणभावेन सम्बद्ध इति न तस्य फलम् ।
?R ?R?0मन्त्राश्च । ?R?0आयुर्दा अग्नेस्यायुर्मे देहि- इत्यादयः आशीर्मन्त्राः ऋत्विजा प्रयोज्याः तत्फलं च तस्यैव समाख्याबलादिति प्राप्ते प्रबललिङ्गाद्याजमानाः, यजमानस्य हि फलमाशासितव्यमिति ।
?R ?R?0द्व्याम्नातेषु । ?R?0ये मन्त्राः यजमाने चाध्वर्यवे चाम्नाताः ते एकेनैव प्रयोज्याः एककार्यत्वान्मन्त्राणामिति प्राप्ते एकस्यानुष्ठानस्मरणं अन्यस्य प्रत्यवेक्षणमिति प्रयोजनवत्त्वात् द्वाभ्यामपि प्रयोक्तव्या इति सिद्धान्तः ।
?R ?R?0ज्ञाते च वचनम् । ?R?0क्लृप्तीर्यजमानं वाचयतीत्यत्र किं विदुषोऽधिकारः उताविदुषः इति सन्देहे अविदुषः अधिकारे विधेः दृष्टार्थत्वं स्यात् । अतः अविदुषोऽधिकार इति प्राप्ते ब्रुवन्तमेव हि वाचयतीति शब्दो ब्रवीति नाब्रुवतः
?Rप्रवृत्तिमाह । दृष्टार्थत्वं च उक्तस्योच्चारणे नापि भवति । अतः विदुष एवाधिकारः।
?R ?R?0याजमाने । ?R?0द्वन्द्वानि किमाध्वर्यवे पदार्थकर्त्रा यजमानेन कार्याणि उत यजमाने समभ्याशीकरणात् यजमानेन कार्याणीति संशये आध्वर्यवमिति सामान्य समाख्यायाः याजमानमिति विशेषसमाख्यया बाधात् याजमानानि । पदार्था अपि याजमाना एव इति प्राप्ते; ?Rपदार्थास्तावत् आध्वर्यवा एव अक्रियमाणे पदार्थे न यजमानेन समभ्याशः कर्तुं शक्यत इति पदार्था अप्याध्वर्यवा एवेति सिद्धान्तः ।
?R ?R?0विप्रतिषेधे । ?R?0यो होता सोऽध्वर्युः इत्यादौ एकस्य ऋत्विगन्तरकार्योपदेशे प्रत्यक्षविहितेनैककार्यकारिणां आतिदेशिकस्य बाधः प्रत्यक्षविहितस्यानन्यगतित्वात् आतिदेशिकस्य प्रकृतावर्थवत्तेति सिद्धान्तः ।
?R ?R?0प्रैषेषु । ?R?0प्रैषप्रैषार्थौ किमेकेन कर्तव्यौ उत द्वाभ्यामिति संशये अग्नीदग्नीन् विहर इति प्राप्तकालार्थमादाय उभयमध्वर्युणा कर्तव्यमिति पूर्वपक्षे मध्यमपुरुषाविवक्षाप्रसङ्गात् न प्राप्तकाले लोट् किन्तु प्रैष एवेति अशक्यत्वात् द्वाभ्यामिति सिद्धान्तः ।
?R ?R?0अध्वर्युस्तु । ?R?0किमध्वर्युः प्रैषरूपमर्थं करोतु उतान्य इति संशये यदन्वञ्चं स्फ्यं धारयेदिति अर्थवादात् अन्यः प्रैषं करोतीति प्राप्ते अग्नीदग्नीन् विहर इति मन्त्रलिङ्गात् अध्वर्युरेव प्रैषकर्ता । अर्थवादात् मन्त्रस्य अनुष्ठानबोधकत्वेन बलीयस्त्वात् । अर्थवादस्तु गुणवादेन द्रष्टव्यः ।
?R ?R?0ऋत्विक्फलम् । ?R?0ममाग्ने वर्चः इति मन्त्रः अध्वर्युणा प्रयोज्यः तत्फलं अध्वर्युगतं लिङ्गादिति प्राप्ते न यशः चोदनातः कर्मफलतयाऽवगम्यते । किन्तु अर्थात् यश्चार्थादथे न स चोदनार्थः । चोदितं च फलं मन्त्रेण प्रकाशनीयम् । अतः यजमानसम्बद्धमेव फलं वर्चः शब्देन प्रकाश्यते ।
?R ?R?0कर्मार्थं तु । ?R?0यत्र पुनः दृष्टमेव फलं ‘?Rमा मा सन्ताप्तं’ ?Rइत्यादौ असन्तापरूपं
?Rतत्र किमृत्विजां उत अत्रापि कर्मफलमेवेति संशये उक्तन्यायेन कर्मफलमेवेति पूर्वः पक्षः । यद्यपि कर्मानुपकारकं फलं न ऋत्विक्सम्बन्धि तथापि असन्तापः कर्मोपकारकः कर्मार्थ इति तत्फलं ऋत्विग्गतमेवेति ।
?R ?R?0व्यपदेशाच्च । ?R?0एतच्चापवादमात्रम् । यत्र तन्नौ सह इति उभयमामित्वं श्रूयते तत्र ऋत्विजोऽपि फलमस्ति ।
?R ?R?0द्रव्यसंस्कारः । निर्देशात्तु । ?R?0किं विकृतौ अङ्गप्रधानार्थे बर्हिषि प्राकृतकार्यापन्ने अप्राकृतकार्यापन्ने च धर्मा भवन्ति उत प्राकृतकार्यप्रयुक्त एवेति सन्देहे अङ्गप्रधानसम्बन्धितामात्रेण धर्माः विकृतौ कार्याः इति पूर्वपक्षे; ?Rविकृतौ उपकारलक्षणकार्याकाङ्क्षायां प्राकृत उपकारः प्राप्यते । स च पदार्थैर्विना न ज्ञायत इति पदार्थावच्छिन्नः प्राप्यते यूपावटास्तरणबर्हिषि च अपूर्वे प्राकृतोपकाराभावात् न बर्हिर्धर्मप्राप्तिः ।
?R ?R?0विरोधे च । ?R?0अप्रच्छिन्नाग्नौ दर्भौ पवित्रे करोति इति विहितपवित्रार्थं दर्भौ स्तरणार्थदर्भाद्ग्राह्यौ इति पूर्वपक्षे अन्यत्र शेषभूतस्य व्यापृतस्यैव सतोऽन्यत्र कारकत्वाभावात् परिभोजनीयाद्ग्राह्यौ इति सिद्धान्तः ।
?R ?R?0अयनयस्त्वेकदेशस्य । ?R?0पूर्वाधिकरणन्यायेन पुरोडाशकपालादीनां यागे ऐन्द्रवायवपात्रनिधाने च शेषभावो न न्याय्य इति नूत्नानामुपादानमिति पूर्वपक्षे द्व्यवदानमात्रेण यागोपसंहारात् परिशिष्टस्य अनेकत्र व्यापारोपपत्तिः ।
?R ?R?0विकृतौ । ?R?0विकृतौ उपांशुत्वादिधर्माः औपदेशिकाः किमङ्गप्रधानार्थाः उत केवलप्रधानार्ता इति संशये प्रकृतिवदङ्गप्रधानार्था इति पूर्वपक्षे आतिदेशिकानामङ्गानां औपदेशिकप्रधानस्य च न तुल्यता । प्रधानोपदेशमपेक्ष्य अङ्गातिदेशः । ततश्च प्रधानमात्रमालम्ब्य उपांशुत्वविधौ नाङ्गातिदेशपर्यन्तं तत्प्रतीक्षा ।
?R ?R?0सन्निधानविशेषात् । ?R?0दृतिनवनीतमाज्यं भवति इत्युक्तं दृतिनवनीतं तु न
?Rपूर्वाधिकरणन्यायेन प्रधानगामि प्रधानस्य सोमयागत्वेनाज्याभावात् अपि तु आतिदेशिकाङ्गसम्बन्धीति ।
?R ?R?0तत्काले वा । ?R?0तच्च दृतिनवनीतत्वं प्रधानप्रत्यास्त्तेः सुत्याकालीनानामङ्गानामेवेति प्राप्ते प्रत्यासन्नानां अप्रत्यासन्नानां च प्रधानसम्बन्धाविशेषात् सर्वत्र नवनीतविधिरिति राद्धान्तः ।
?R ?R?0मांसं तु ।?R?0 तरसास्सवनीयाः पुरोडाशा भवन्ति इत्यत्र सवनीयपदं सवनीयासवनीयलक्षक उत परोडाशपदं पुरोडाशापुरोडाशलक्षकमिति विचारे पुरोडाशपदस्य जघन्यत्वात् दृष्टव्यभिचारत्वाच्च पुरोडाशापुरोडाशलक्षकत्वमिति सिद्धान्तः ।
?R—–
?R?0इति तृतीयाध्याये अष्टमः पादः
?R?0चतुर्थाध्याये प्रथमः पादः
?R?0
?R?0 अथातः । ?R?0अत्राधिकरणे उपादानलक्षणे विधिव्यापारः श्रुत्यादिभ्यः प्रमाणान्तरभूतः क्वचिदैदमर्थ्ये क्वचिदनुष्ठाने क्वचिदधिकारे क्वचिदुत्पत्तौ विद्यत इति प्रतिपाद्यते यथा प्रोक्षणादीनां यागार्थत्वं निमित्तपर्यन्तेऽधिकारे प्रयोगः विश्वजिदादिषु अधिकारः सौर्यं चरुमित्यधिकारविधौ उत्पत्तिः इत्यादिकं औपादानिकम् । उपादानं नाम नियोगाक्षेपः वेदे नियोगश्शब्देन प्रतिपादितः । सन् स्वनिर्वाहायार्थान्तरं कल्पयति । तदिदमुपादाननामकं प्रमाणान्तरम् ।
?R ?R?0यस्मिन् प्रीतिः । ?R?0अस्मिन्नधिकरणे क्रत्वर्थपुरुषार्थयोर्लक्षणमुच्यते । विनियोगेन विना औपादानिकं यस्य शेषत्वं स पुरुषार्थ इति तल्लक्षणम् । विनियोगे सति यस्यौपादानिकं शेषत्वं स क्रत्वर्थ इति तल्लक्षणम् ।
?R ?R?0एवं वा । ?R?0किं नियोगः दृष्टेन द्वारेणोपादत्ते उतादृष्टेन द्वारेणेति चिन्तायां
?Rदृष्टस्य शीघ्रभावित्वात् तेनैव द्वारेणोपादत्ते । ततश्च गोदोहनेन पशुक्रामस्य प्रणयेदित्यत्र गोदोहनं दृष्टप्रणयनार्थं न तु अदृष्टपश्वादिफलकं ततश्च क्रत्वर्थमिति पूर्वपक्षे, विनियोगानुसारेण द्वारकार्यावगमात् पश्वर्थत्वेन विनियोगात् अदृष्टकल्पना नान्तरीयकीति सिद्धान्तः ।
?R ?R?0एवं वा । ?R?0द्रव्यार्जननियमाः क्रत्वर्था उत पुरुषार्था इति संशये, क्रत्वर्थाः तत्साध्यत्वेन क्रतुनियोगस्य ज्ञापनात् तत्रैव प्रवृत्तेः फलतो नियमः सिद्ध्यति । पुरुषार्थत्वे तु नियमानर्थक्यमिति । एवं च प्रतिग्रहाद्यार्जितद्रव्यस्य क्रत्वर्थत्वात् तद्व्यापत्तिमान् क्रत्वनधिकृत इति प्राप्ते । न धनार्जनविधयः अधिकारशून्याः धनाद्यर्थप्रवृत्तस्यैवाधिकारात् विहितोपायातिक्रमे च प्रत्यवायात् । ततश्च विहितोपायार्जितस्य स्वत्वाविशेषात् सर्वपुरुषार्थनिर्वृत्तौ न विशेषः । अतः पुरुषार्था इति सिद्धान्तः ।
?R ?R?0तदुत्सर्गे । ?R?0नेक्षेतोद्यन्तमादित्यं इत्यादिप्रजापतिव्रतेषु अधिकारिविशेषणस्य स्वर्गादेरश्रवणात् अर्थतश्चानवगमात् अधिकाराभावात् क्रतुसंबन्धीक्षणस्यायं प्रतिषेध इति क्रत्वर्थता इति प्राप्ते, अधिकाराश्रवणेप्यधिकारो युक्तः कल्पयितुं न तु क्रतुसंबन्धकल्पना । अत्र क्रियाक्षेपेण गम्यमानकर्त्रवगमात् अधिकारकल्पनैव न्याय्या । अधिकारिविशेषणं च एतावता हैनसा वियुक्तो भवति इत्युक्तेः एनोवियोगः । अतः नित्यः जीवनानुपालनीयो नियमः ।
?R ?R?0द्रव्याणि तु । ?R?0एतानि वै दश यज्ञायुधानीति किमिदं स्फ्येनीद्धन्तीत्येवमादिभ्यः शास्त्रान्तरं उत तेषामेवानुवादः इति संशये यज्ञायुधानीति षष्ठी साक्षात्सम्बन्धे संभवति परम्परायां न युक्ता । अतः आग्नेयादिषु पृथक् द्रव्यविधिरयं अपूर्वत्वात् । गुणान्तरावरुद्धत्वेन कर्मान्तरं वेति पूर्वपक्षः । सिद्धान्तस्तु यज्ञायुधानीति लक्षणा । तत्र च साक्षात्परम्परायां वा य कश्चिद्विशेषः । विधिशून्यं चेदं वाक्यं विधिकल्पना च
?Rउद्धननादिद्वारकव्यवहितसम्बन्धाश्रयणेनोपपत्तौ न युक्ता । आग्नेयादिषु विकल्पश्च परिहृतो भवति ।
?R ?R?0तत्र चैकत्वम् । ?R?0पशुना यजेत इत्यत्र एकत्वं विनियोगाभावात् द्वारसम्बन्धाभावात् तदभावे सामान्यसंबन्धानिर्वाहात् न यज्ञाङ्गं;?R करणत्वस्य प्रातिपदिकार्थान्वये एकत्वानन्वयात् न नियोगसम्बन्धः । ततश्च कार्यान्वयितयाऽनभिधेयमिति प्राप्ते पशुस्तावत् विनियुक्तः उपादातव्यश्च । स च सङ्ख्यां विना उपादातुं न शक्यते श्रुतं चैकत्वं तदपि कार्यान्वयित्वेन श्रुतम् । तस्य चाश्रयापेक्षायां द्रव्यमेवाश्रय इति विवक्षिता सङ्ख्या । सङ्ख्या हि स्वसामर्थ्येनैव स्वसङ्ख्येयशेषभूतेति ।
?R?0 तथा च लिङ्गम् । ?R?0वसन्ता प्रातराग्नेयीं कृष्णग्रीवीमालभेत इत्यत्र श्रुतलिङ्गस्यापि पूर्ववदेव कार्यान्वयः । विशेषशङ्का तु, सङ्ख्यान्तरेषूपादीयमानेषु कारकपरिमाणान्यत्वप्रसक्तेः युक्ता तस्याः उपादानशेषता । लिङ्गस्य तु द्रव्यान्तरोपादानाभावेन अनुष्ठानविशेषानापादकत्वात् नोपादानशेषतेति प्राप्ते यथा सङ्ख्या श्रुता तथा लिङ्गमपीति श्रवणाविशषादुपादानशेषतेति ।
?R ?R?0आश्रयिषु । ?R?0उत्तमप्रयाजपशुपुरोडाशस्विष्टकृत्सु दृष्टे द्रव्यदेवतासंस्कारे नादृष्टकल्पनं न्याय्यम् । यज्यर्थोऽनुष्ठानात् दृष्टोपपत्त्यर्थो भविष्यति । अधिकारार्थं उत्पत्तिनियोगविवक्षायां अपूर्वार्थत्वेऽपि पश्वादधिकारनियोगार्थं अङ्गसंबन्धे तद्द्वारेण दृष्टसंस्कारार्थत्वमिति परमतेन पूर्वपक्षे नियोगनिष्पत्तेस्तुल्यत्वाददृष्टार्थत्वमेव समिदादिवत् । किन्तु यद्यपि नियोगसिद्धिः तथापि दृष्टत्वात् एव प्रयोजक इति द्रव्याभावे स्विष्टकृतो लोपः ।
?R ?R?0अर्थे समवैषम्यम् । ?R?0अतिक्रान्तस्तृतीयशेषः पारार्थ्यप्रतिपत्तिरूपः । इदानीं केवलमुपादानमेव चिन्त्यते इति प्रतिज्ञैषा ।
?R ?R?0एकनिष्पत्तेः । ?R?0दध्यानयनस्य आमिक्षा चोभयं प्रयोजकं उत एकमेवेति
?Rचिन्तायां उपकारकत्वमेव शेषत्वं ततश्च दध्यानयनस्योभयोपकारकत्वादुभयशेषत्वं ततश्चोभयं प्रयोजकमिति प्राप्ते । यस्य यत् शेषभूतं तदेव प्रयोजकं नान्यदिति आमिक्षायाः शेषभूतं दध्यानयन न वाजिनस्येति तदेव प्रयोजकम् । आमिक्षा च पयः मधुररसप्रत्यभिज्ञानात् ।
?R ?R?0पदकर्माप्रयोजकम् । ?R?0पूर्वत्र दध्यानयनं आमिक्षामात्रनिष्पादकं तच्छेषभूतं वाजितं तु आमिक्षानुनिष्पन्नं न दध्यानयनप्रयुक्तम् । अत्र तु ‘?Rतस्याः सप्तमं पदं’ ?Rइत्यत्र क्रयप्रयुक्तैकहायनी स्वरूपेणैव पदेन संबध्यते । तथा च क्रमः पदपांसवश्च एकहायन्याः प्रयोजकाः इति प्राप्ते यत्र संबन्ध्यन्तरं प्रतीतं नास्ति तत्राकाङ्क्षापूर्वकं संबन्धिनि प्रतीतिः । यत्र तु संबन्ध्यन्तरपूर्वक एवोपदेशः तत्र यथावगमं संबन्धावगमात् क्रयार्था एकहायनी पदेन सम्बध्यते ततश्च तस्याः क्रयप्रयक्तत्वं न पदापांसुप्रयुक्तत्वमिति ।
?R ?R?0अर्थाभिधानकर्म । ?R?0पुरोडाशकपालेन तुषानुपवपतीत्यत्र पुरोडाशस्य साक्षादेवोपादानं न प्रकृतत्वेन यथैकहायन्याः । तेन स्ववाक्ये श्रुतं पुरोडाशकपालं उपवापेपि संयुज्यत इति कपालस्योभयप्रयुक्तत्वम् । अत्र विनियोगोपलक्षितद्रव्यविनियोगात् नास्ति विनियुक्तविनियोगविरोधः । इति प्राप्ते- पुरोडाशसंबन्धित्वेन लक्ष्यमाणं कपालं तदेव लक्ष्यते यस्य पुरोडाशसंबन्धाधिष्ठानता यथा गङ्गापदेन तीरलक्षणेपि वस्तुगत्या गङ्गातीरम् । तच्च कपालं श्रपणार्थमुपात्तमिति उपात्तविषयो नियोगः तच्च कपालं भविष्यत्पुरोडाशश्रवणार्थं स्वीकृतं धारितं च तुषोपवापे विनियुज्यत इति सिद्धं तस्याप्रयोजकत्वम् ।
?R ?R?0पशावनालम्भात् । ?R?0अग्नीषोमीयं पशुमालभेत इति पशोः अवयवद्वारैव यागाङ्गता अवयवाश्च हृदयादयः लोहितादयश्चेति उभयं पशुप्रकृतिकमिति उभयं प्रयोजकम् । इति पूर्वपक्षे सत्यं न पशोः साक्षाद्यागार्थता तथापि पशुसंबन्धिनां
?Rसर्वेषां यागसाधनत्वप्राप्तौ हृदयादिषु उपसंहारः हृदयादीनामेव चावदानसंस्कार्यत्वाद्यागाङ्गतेति लोहितादीनां अप्रयोजकत्वं, प्रतिपत्तिरेवेति ।
?R ?R?0एकदेशद्रव्यं । ?R?0उत्तरार्धात्स्विष्टकृते समवद्यति इति यद्यप्युपात्तद्रव्यसंबन्ध्युत्तरार्धमिति प्रतिपत्तिकर्मेति प्रतीयते तथापि आग्नेययागार्थपुरोडाशस्य अन्यार्थत्वे शिष्टाचारविरोधात् द्रव्यान्तरे उत्तरार्धमुपादाय यागः कर्तव्यः इति पूर्वपक्षे, सत्यं यदि यागोद्रन्यत्रोत्तरार्धः विनियुज्येत इह तु यागीयद्रव्यप्रतिपत्तिः यागार्था, यथा देवदत्तधृतस्रजः शुचिदेशनिधानं देवदत्तार्थं अतो नाग्नेयचोदनाविरोधः इति पूर्ववत् अप्रयोजकत्वम् ।
?R ?R?0अभिधारणे । ?R?0प्रयाजशषेण हवींष्यभिधारयति इत्यत्र द्वितीयाश्रवणात् हविरुद्देशेन प्रयाजशेषकरणकाभिधारणमर्थकर्म विधीयते । अन्यार्थद्रव्यस्यापि हविषां प्राधान्यात् प्रयाजशेषधारणप्रयोजकत्वमिति प्राप्ते यद्यपि हवींषीति द्वितीया तथापि हविषां प्राधान्यं न युक्तं तदर्थत्वे अभिधारणस्यादृष्टार्थत्वापत्तेः । प्रयाजशेषप्राधान्ये दृष्टार्थत्वं पात्ररिक्तीकरणात् आज्यभागार्थाज्येनासंस्पर्शः दृष्टं फलम् । तस्मात् प्रतिपत्तिरेवेति । न च दृष्टार्थत्वमात्रेण विभक्तिद्वयस्यान्यार्थत्वं न युक्तम् इति वाच्यम् । अन्यार्थत्वेन अन्यशेषत्वे विनियुक्तविनियोगविरोधात् ।
?R ?R?0समानयनं तु । ?R?0बर्हिः प्रति समानयते जुह्वामौपभृतं इत्यत्र उपरितनप्रयाजद्वयार्थमिदं समानयनं प्रयाजानूयाजार्थाज्यस्य प्रयोजकं उत मिश्रीकरणार्थमेवेदं जौहवसंस्कारार्थम् । इति सन्देहे समानयनमात्रश्रवणात् मिश्रीकरणमदृष्टार्थं विधीयते अष्टावुपभृति इति सर्वप्रयाजार्थं तस्य जौहवेन विकल्पः इति प्राप्ते प्रयाजद्वयसाधनार्थं समानयनं दृष्टार्थसम्भवात् न त्वदृष्टसंस्कारः प्रमाणाभावात् । उपरितनद्वयं प्रयाजशब्दवाच्यं तदर्थमेवेदमिति सिद्धान्तः ।
?R ?R?0तत्रोत्पत्तिः । ?R?0चतुर्जुह्वां गृह्णातीति अविशेषश्रवणात् जौहवमुभयार्थम् औपभृतस्य चानूयाजार्थत्वं तत्र प्रयाजग्रहणमपि अनुवादार्थम् इति पूर्वपक्षे;?R
?Rस्यादेतदेवं यद्युपादानत एव प्राप्तिः स्यात् विनियोगानुसार्युपादानं विनियोगश्च प्रयाजार्थं एव जौहवः । औपभृतश्चोभयार्थ इति ।
?R ?R?0तदष्टसङ्ख्यम् । ?R?0अष्टावुपभृति गृह्णातीत्यत्र किमष्टगृहीतमेकं विधीयते उत चतुर्गृहीतद्वयं इति सन्देहे श्रुतत्वादष्टगृहीतमेव । समानयनस्य दृष्टार्थता चोपपद्यते जौहवाज्यस्याघारे प्राचीनप्रयाजत्रये च व्यापृतस्य स्वकार्यं प्रत्यशक्तस्यानुग्रहात् इति प्राप्ते चतुस्सङ्ख्या होमे विहिता चतुरवतं जुहोतीति अष्टसङ्ख्या च ग्रहणे इत्युभयमविरुद्धं द्वे एते चतुर्गृहीते इत्यङ्गीकारे । द्वाभ्यां चतुर्गृहीताभ्यां प्रयोजनं अष्टग्रहणेन सम्पद्यत इति ।
?R—–
?R?0अथ द्वितीयः पादः
?R?0 स्वरुस्त्वनेकनिष्पत्तिः । ?R?0यूपस्य स्वरुं करोति स्वरुणा पशुमनक्ति इत्यत्र स्वरुकरण विधिपूर्वकं पश्वञ्जनवाक्यम् प्रवर्तते । ततश्च श्रुत्या विधानं सम्पद्यते । यदि स्वरुणा पशुमनक्तीति विनियोगः पूर्वभावी तदा अञ्जनकारितयैव स्वरुशब्दो वर्तते । तथा च योऽयमञ्जनकारी स्वरुः सः यूपस्य ग्रहीतव्यः इत्यर्थे सिद्धान्तपक्षे गृहीति यूपसम्बन्धविधिपरत्वाद्वाक्यस्य वाक्येन विनियोगः स्यात् । स च दुर्बलः स्वरुकर्तव्यतैव श्रुत्या विधेयः स च स्वरुः पृथक् यूपोत्पत्तिं प्रयोजयतीति प्राप्ते अञ्जनकारितयैव प्रथमं स्वरुनिष्पत्तिः । तत्र किमीयेनाञ्जनं कर्तव्यं इत्यपेक्षायां यूपस्येति विधीयते यूप एव प्रयोजकः न स्वरुः इति सिद्धान्तः । अत्रैव द्वितीयाधिकरणे योऽय स्वरुः अञ्जने विनियुज्यते स किं उत्पाद्यः उतोपादेय इति सन्देहे पूर्वोक्तरीत्या श्रुतिविधानबलात् उत्पाद्य इति पूर्वपक्षः तत्र च यूपपदेन काष्ठलक्षणायां स एव दोषः । अतः यूपानुनिष्पन्न एोवोपादेय इति राद्धान्तः ।
?R ?R?0शाख्यायाम् । ?R?0प्राचीमाहरति इत्यत्र विहारदेशात् प्राग्देशादानयनोपादानं उत वृक्षप्राग्देशादुपादानं इति संशये प्राचीशब्दस्य दिग्वाचित्वात् शाख्यानयनमेव
?Rदिग्विशिष्टमुपादेयमिति पूर्वपक्षे लक्षणायाः पूर्वपक्षेप्यपरिहार्यत्वात् साक्षात्कर्मभूतशाखानयनमेव युक्तम् ।
?R ?R?0शाखायाम् । ?0’?Rमूलतः शाखां परिवास्योपवेषं करोति’ ?Rइत्यत्र परिवासनस्य मुलमग्रं च प्रयोजकं द्वयोरपि शाखापदाभिधेयत्वात् तथा शाखाहरणस्यापि उभयं प्रयोजकं;?R मूलस्य कपालोपधानं अग्रस्य च वत्सापाकरणं प्रयोजनम् । सिद्धान्तस्तु स्यादेतदेवं यदि मूलमुपवेषं करोतीति सम्बन्धः अपि तु मूलतः शाखा परिवासयतीति शाखापरिवासनार्थमेव मूलमुपात्तम् । ततश्च अन्यार्थमुपात्तमूलात् भवत्युपवेषः । स च स्वरुवत् प्रयोजकं इति ।
?R ?R?0हरणे तु । ?R?0सह शाखया प्रस्तरं प्रहरति इत्यत्र शाखया सहेति तृतीयाश्रवणात् पूर्वाप्रसिद्धत्वेन सहार्थेऽनुपपन्ना तृतीया कारकलक्षणा वाच्या । अतः शाखाया गुणभूतत्वादर्थकर्मत्वमिति पूर्वपक्षे सहशब्दश्रवणात् प्रस्तरेण शाखायाः तुल्ययोगित्वमबगम्यते । तस्माच्छाखापि प्रतिपाद्यैव ।
?R ?R?0उत्पत्त्यसंयोगात् । ?R?0अपः प्रणयतीत्युक्त्वा तस्य संयवनं निनयनं च द्वयं प्रयोजनमुक्तमिति द्वयोः प्रयोजकत्वं, अपो निनयतीति द्वितीया अनीप्सितकर्मणीति प्राप्ते;?R न अनीप्सितत्वे हेतुरस्ति । कृतप्रयोजनत्वादणं क्वचिद्देशे त्याग अपेक्षित एवेति निनयनं प्रतिपत्तिः । अतो न प्रयोजकत्वम् ।
?R ?R?0प्रासनवत् । ?R?0मैत्रावरुणाय दण्डं प्रयच्छतीत्यत्र द्वितीयादर्शनात् दीक्षितदण्डस्येयं प्रतिपत्तिः । मैत्रावरुणगतिप्रीत्युत्पादकत्वात् तस्य तं प्रति करणत्वमप्युपपद्यते कर्मणा यमभिप्रैतीत्युक्तेः । दण्डी प्रैषान् इति तु यदृच्छया प्राप्तस्यानुवाद इति प्राप्ते- अत्र चतुर्थ्या मैत्रावरुणस्य प्राधान्यात् दण्डस्य तदर्थं दानं तथा च दण्डी प्रैषानिति दर्शनात् अर्थकर्मैवेदम् । तस्मादनीप्सितकर्मता, दण्डे पाक्षिकत्वप्रसङ्गाच्च नेदं यदृच्छाप्राप्तानुवादः ।
?R ?R?0उत्पत्तौ येन संयुक्तम् । ?R?0नीतासुदक्षिणासु चात्वाले कृष्णविषाणां
?Rप्रास्यतीत्यत्र न प्रतिपत्तिः । किन्तु अर्थकर्म प्रयोगमध्ये पुनः कण्डूयनसम्भवात् सर्वान्त एव तस्याः कृतार्थत्वात् इति प्राप्ते;?R दक्षिणानयनात् प्रागेव कण्डूयनं कृष्णविषाणया कार्यं उत्तरं तु हस्तादिना इति द्वितीयया प्रासनं प्रतिपत्तिरेवेति ।
?R ?R?0सौमिके च । ?R?0यत्किञ्चित्सोमलिप्तं तेनावभृथं यन्तीत्यत्र अवभृथस्तावत् प्रधानकर्मत्वात् न सोमलिप्तार्थस्सम्भवति । न च गुणप्रधानभावमन्तरेण सम्बन्धः सम्भवति । तस्मात् पुरोडाशकपालवत् अधिष्ठानलक्षणया सोमलिप्तस्यैव अवभृथशेषतत्वेन विनियोगः इति प्राप्ते;?R श्रौतसोमलिप्तार्थग्रहणे तावत् अन्यशेषः सोमयागशेषः अवभृथशेषतयाऽवगन्तुं न शक्यते । तत्रापि किं सोमलिप्तशब्दः अधिष्ठानलक्षणया वर्ततां उतावभृथशब्दो देशलक्षणयेति सन्देहे श्रुत्यर्थलाभात् अवभृथशब्दः तद्देशलक्षक इति निश्चीयते । यन्तीति नयन्तीत्यर्थे । तथा च सोमलिप्तमवभृथदेशं नयन्तीति भावः ।
?R ?R?0कर्तृदेशकालानाम् । ?R?0समादिदेशानां शक्तिमद्द्रव्यत्वेन क्रियारूपत्वसम्भवात् कारकतया अन्विताभिधानोपपत्तिरिति समे यजेतेत्यादीनां विनियोगे नास्य समादेः आनर्थवयम् । किन्तु प्रयोक्तृव्यापारे उपादानपर्यालोचनया अनुवादकत्वमुच्यते इति प्राप्ते;?R यदि द्रव्यादन्यत्कारकतयाऽवगम्यते तदा त्वदुक्तं युज्यते । अत्र तु द्रव्यमेव कारकतयाऽवगम्यते । तथा हि- समादय एव क्रियाकारकतयाऽवगम्यन्ते । यदेव हि विभक्त्या द्रव्यं गुणो वा समर्प्यते तदेव कारकम् । तस्माद्विनियोगवशात् प्रयोक्तृत्वेपि नियमसम्भवान्नानर्तक्यम् इति राद्धान्तः ।
?R ?R?0तथा द्रव्येषु । ?R?0कारकविभक्तिरहिते द्रव्यविशेषणतयैव श्रुते शुक्लानां व्रीहीणामित्यादावुपात्तगुणस्य साक्षात् क्रियाङ्गत्वेनाश्रवणात् अनुवादोऽयम् । नियोगसंस्पर्शाभावान्न नियमस्याप्युपपत्तिरिति प्राप्ते भिन्नपदवाच्यतया द्रव्यं गुणक्रियाभ्यां विशेष्यते । तथा च तादृशद्रव्यसाध्यो नियोगः तदन्यगुणोपादाने
?Rतथाविधद्रव्याभावान्न सिद्ध्येदिति तयोरप्युपादानं नियमेन कार्यमिति नियमार्थो विधिः ।
?R ?R?0संस्कारे च । ?R?0यः खलु अधिकारनियोगविषयः सः अधिकारविधिना विधीयते । संस्कारक्रिया तु संस्कार्यार्थत्वात् न साक्षाद्विधेर्विषयः । तस्मादधिकारविषयत्वाभावात् नाधिकृतपुरुषार्थता संस्काराणाम् । ततश्च नियोगासंस्पर्शादत्रापि नियमानुपपत्तेरनुवाद इति प्राप्ते यद्यपि न साक्षादधिकारविधिविषयः संस्कारः तथापि संस्कारविशिष्टद्रव्यस्य अधिकारनियोगविषयतया गुणवदेव संस्कारस्यापि नियमविधिविषयत्वमिति सिद्धान्तः ।
?R ?R?0यजतिचोदना । ?R?0के पुनस्ते अधिकारनियोगविषयाः इत्याशङ्कायां यागदानहोमा इति समाधानम् । तेषां प्रत्येकस्वरूपमुच्यते- देवतोद्देशेन द्रव्यत्यागो यागः । स एव आसेचनाधिको होमः परस्वत्वापादनं दानमिति ।
?R ?R?0विधेः कर्मपवर्गित्वात् । ?R?0यदातिथ्यायां वह्रिस्तदुपसदां तदग्नीषोमीये इत्यत्र किं उपसदग्नीषोमीयप्रयुक्तं बर्हिः आतिथ्यार्थं धारणीयं उत पृथगेवोपादानं उत साधारणमुपादानमिति संशये अन्यशेषस्यान्यत्राविनियोगान्नाद्यः पक्षः । निरिष्टको पादानं शिष्टाचारविरुद्धं, पृथगुपादानपक्षे धर्मातिदेशार्थं लक्षणाश्रयणम् । अतः साधारणमुपादानमिति सिद्धान्तः ।
?R—–
?R?0तृतीयः पादः
?R ?R?0द्रव्यसंस्कारकर्मसु । ?R?0यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति इत्यत्र एवं विधाद्वाक्याल्लोके साध्यसाधनभावोऽवगम्यते तद्वद्वेदेपि स्यात् । ततश्च साध्यसाधनभावस्याधिकारिविशेषणत्वमन्तरेणासम्भवात् औपादानिकोऽधिकारिविशेषणभाव इति पूर्वपक्षे ओदनं पचतीतिवत्
?Rवर्तमानापदेशेन सिद्धवदुपदेशात् न साध्यता फलस्योपपद्यते इति सिद्धान्तः ।
?R ?R?0नैमित्तिके । ?R?0गोदोहनेन पशुकामस्य प्रणयेदित्यत्र न पशुकामपदत्यागेन वाक्यान्तरता किन्तु पदत्रयेण पुरुषार्थत्वमेव । परं तु एकस्य विनियोगस्य क्रत्वर्थपुरुषार्थात्मकप्रयोजनद्वयं सम्भवति इति क्रत्वर्थतापि युक्ता । कार्यद्वयं क्रतुपुरुषार्थौ उपादानहेतुः यस्मात् सम्बन्धानुसार्युपादानम् इति प्राप्ते, न संबन्धमात्रानुसार्युपादानं अपि तु शब्दोपपादितसंबन्धआनुसारि शब्दश्च पुरुषार्थत्वमेवावगमयति । अतः न क्रत्वर्थता;?R पुरुषार्थत्वमेव ।
?R ?R?0एकस्य तूभयत्वे । ?R?0यथा अग्निहोत्रं जुहोति अग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्यद्वयसत्वे न पृथक् प्रयोक्तृत्वम् स्वर्गकामपदान्वयेपि होमान्वयात्, ततश्च केवलपुरुषार्थता । एवं दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयसत्त्वात् इन्द्रियकामान्वयेपि दधिसाध्यहोमसंबन्धात् केवलपुरुषार्थतेति प्राप्ते;?R दध्ना जुहोतीति प्रकृतहोमानुप्रवेशात् तस्य च साधिकारत्वात् तत्प्रयुक्त्यैव प्रयुक्तिसिद्धेः न प्रयुक्त्यन्तराकाङ्क्षेति न पुरुषार्थता । दध्नेन्द्रियकामस्येत्यत्र तु केवलपुरुषार्थत्वं प्रथक् प्रयुक्तेः । अग्निहोत्रवाक्ये तु एक एवाधिकारः । अत्र तु नित्यं नैमित्तिकं चाधिकारद्वयमिति विशेषः ।
?R ?R?0द्रव्याणां तु । ?R?0पयो व्रतं ब्राह्मणस्येति ज्योतिष्टोमप्रकरणगतव्रतनियमः प्राणधारणार्थत्वात् प्रकरणमुल्लङ्ध्य सामर्थ्यात् पुरुषार्थः इति प्राप्ते । नायं नियमः पुरुषाधिकारकल्पनां सहते । साक्षाच्छ्रुताधिकारसन्निधौ यदश्रूयमाणाधिकारं तत् तदर्थमेव । अतः क्रत्वर्थ एवेति सिद्धान्तः ।
?R ?R?0चोदनायां फलाश्रुतेः । ?R?0अधिकारशून्या ये विधयः विश्वजिता यजेतेत्यादयः तत्र अधिकारकल्पना उत निरधिकारतयैव पर्यवसानमिति सन्देहे यावद्वचनं वचनमिति कर्तव्यतापर्यवसाय्येव नियोगो नाधिकारपर्यन्तो भवितुमर्हति । अधिकारदृते नानुष्ठानमिति चेन्मास्त्वनुष्ठानमिति प्राप्ते, यथा कारकं नियमेन
?Rक्रियापेक्षं तथा नियोगोऽप्यधिकारापेक्षः ततश्च अधिकाराध्याहार इति सिद्धान्तः ।
?R ?R?0तत्सर्वार्थम् । ?R?0अधिकारकल्पनस्यावश्यकत्वे कः अधिकारीत्याकाङ्क्षायां अर्थितैवाधिकारिविशेषणमस्तु इति पूर्वपक्षे सर्वान् प्रत्यविशिष्टत्वात् स्वर्गकामस्यैवाधिकारकल्पना । स्वर्ग इति सुखसामान्यम् ।
?R?0 क्रतौ फलार्थवादमङ्गवत् । ?R?0यत्र तु फलविशेषाभिधायिनोऽर्थवादाः श्रूयन्ते तत्रापि नियोगादेव स्वर्गः अधिकारहेतुः न तु अर्थवादाभिहितं फलं अर्थवादस्त्वर्थवाद एवेति प्राप्ते अर्थवादाभिहितमेव फलं युक्तम् । इह स्वर्गे कल्प्यमाने अर्थवादस्थप्रतिष्ठापदं स्तुत्यर्थं स्वर्गपरं कल्पनीयम् इति परोक्षवृत्तिः । प्रतिष्ठायां तु अधिकारिविशेषणतया कल्प्यमानायां स्तुत्यर्थः समञ्जसौ भवेदिति सिद्धान्तः ।
?R ?R?0काम्ये कर्मणि । ?R?0यत्र प्रतिष्ठाकामश्रवणमस्ति तत्र केवलस्वर्गकामाधइकारिता निषिद्धा, इह तु नियोगसामर्थ्यात् स्वर्गकामाधिकारिता, ब्रह्मवर्चसकामादिपदयोगात् । ब्रह्मवर्चसादिकमपि अधिकारिविशेषणं भवतु इति शाकमप्याहेरेतिवत् अन्वाचयरूपेणेति प्राप्ते, सत्यं ब्रह्मवर्चसादयः उपाधिकारतया अन्वाचीयेरन् यदि स्वर्गकामाधिकारः निश्चितः स्यात् । तदेव तु न विशेषश्रवणे सति नियोगाक्षेपस्यैवाभावात् तस्मात् विशेषाधिकार एवेति सिद्धान्तः ।
?R ?R?0सार्वकाम्यम् । ?R?0सर्वेभ्यो दर्शपूर्णमासौ इति न फलविधिः किन्तु अङ्गफलानामनुवाद इति प्राप्ते शब्दात् साक्षात्सम्बन्धसम्भवे परम्पराश्रयणमयुक्तम् । तस्मात् फलविधिरेवेति सिद्धान्तः ।
?R ?R?0तत्र सर्वे । ?R?0किं दर्शपूर्णमासयोः सकृत्प्रयोगे पुत्रपश्वादीनां सर्वेषां फलानां प्राप्तिः उत यावन्तः काम्यन्ते तावन्तः प्रयोगा इति सन्देहे सर्वेषां फलानां श्रुतत्वात् विशेषावधारणस्य संभवात् सकृत्प्रयोगेण सर्वफलप्राप्तिरिति पूर्वपक्षे; ?Rयावत्कामं प्रयोगभेदः । कुतः ??R कामिनोऽधिकारश्रवणात् नियोगस्य फलसाधकत्वं कल्प्यते
?R। तत्र च यदा यैव कामनोत्पन्ना तदा सैवाधिकारिविशेषणम् नान्या । तथा च तदा तदेव फलमुत्पद्यते नान्यदिति सिद्धमिति सिद्धान्तः ।
?R ?R?0एवं वा । ?R?0किं चित्रादिविधयः शरीरमाक्षिप्यैव फलमप्याक्षिपन्ति उत केवलं फलमक्षिपन्ति इति सन्देहे शरीरग्रहणपूर्वकमेव फलमाक्षिपन्ति तत्र कारणान्तरादर्शनात् । ततश्च पश्वादिकं जन्मान्तरभावी नात्रेति पूर्वपक्षे;?R केवलश्रवणावगम्यत्वात् प्रयोवतृत्वस्य विशेषाश्रवणात् अविशेषेण इह वा अमुत्र वा फलमिति सिद्धान्तः ।
?R ?R?0समवाये । ?0’?Rवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ ?Rइत्यत्र लक्षणे क्त्वाप्रत्ययात् कालार्थस्संयोग इति प्राप्ते सत्यं लक्षणे पूर्वकालता श्रूयते तथापि सा न धात्वर्थगता अपि तु प्रतीतिगता । समानकर्तृकता तु धात्वर्थगतैव सा चाङ्गाङ्गिभावं विनाऽनुपपन्नेति अङ्गाङ्गितैवेति सिद्धान्तः ।
?R ?R?0उभयार्थमिति चेत् । ?R?0संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति इत्यत्र संस्थाप्येति परिसमाप्त्युक्तेः साङ्गपौर्णमासीप्रयोगानन्तरं अनुष्ठेयः वैमृधः प्रकरणाद्दर्शपूर्णमासाङ्गमिति प्राप्ते यदि निश्शेषपौर्णमासीसमाप्तिवचनादसम्बन्धो वैमृधस्य तदा प्रकरणादप्यङ्गता न स्यात् यदि पूर्वविहिताङ्गकलापसमाप्त्यभिप्रायः संस्थाशब्दः तदा वाक्यात् पौर्णमास्यङ्गतैव वैमृधस्येति राद्धान्तः ।
?R ?R?0अनुत्पत्तौ तु । ?R?0आग्निमारुतादूर्ध्वमनूयाजैश्चरन्ति इत्यत्र येषां एकप्रयोगता प्राप्ता तेषां युगपदनुष्ठानासम्भवात् पौर्वापर्यापेक्षायां कालोपदेश इति अङ्गाङ्गित्वसम्बन्ध इति प्राप्ते निर्ज्ञातपराङ्गभावयोरेव सम्बन्धे कालार्थ एव सम्बन्ध इति राद्धान्तः ।
?R ?R?0उत्पत्तिकालविशये । ?R?0यत्र वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति वाजपेयप्रकरणगतं वाक्यं तत्र अङ्गाङ्गिभावस्सम्बन्धः इष्यते । यत्र तु दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत इति उभयमनारभ्याधीतं तत्र नाम्ना
?Rदूरस्थकर्मपरामर्शात् कालार्थस्संयोग इति सिद्धान्तः । येषां तु शाखिनां इदमेव वाक्यं दर्शपूर्णमासप्रकरणगतं तत्राङ्गाङ्गिभावो भवतु ।
?R ?R?0फलसंयोगस्त्वचोदिते । ?R?0जातेष्टेः नियोज्यस्य पितुः फलं उत पुत्रस्येति संशये अधिकारिणः फलान्वयात् पितुरेव फलं, पुत्रफलान्वयस्तु स्तुत्या नेय इति पूर्वपक्षे यस्य फलान्वयः तस्यैव फलमस्तु । पितुः अधिकारस्तु निमित्ततयापि सिद्ध्यति । कथं ??R पुत्रजन्मवतः पुत्रगतफलकामस्याधिकारित्वेन श्रवणात् । पितुः पुत्रप्रीत्याधिकारसिद्धेः ।
?R ?R?0एवं वा । ?R?0किं पुत्रजननानन्तरं नैमित्तिकी इष्टिः उत अङ्गोपसंहारमपेक्षते इति संशये निमित्तानन्तरं नैमित्तिकं कर्तव्यमित्युत्सर्गः तथासति शौचाद्यङ्गलोपात् तादृशमङ्गं त्यज्यतां उत नियोगकालस्योत्कर्ष इति विचारे नियोगस्य प्राधान्यात् नियोगार्थत्वाच्च विनियोगस्य अङ्गत्यागं विनियोगविदो मन्यन्ते । एतद्बाधनार्थं प्रथममधिकरणम् । युक्तिस्तु कुमारस्य शुचिकाले इष्टिपर्यन्तं प्राणधारणासामर्थ्यात् उत्कर्ष एव । नियोगकाल एवानुष्ठाने कुमारस्यैव लोपापत्तेः कुमारगतफलार्थत्वहानिः इति नियोगस्य वैयर्थ्यम् । द्वितीयाधिकरणं तु- उत्कृष्टा चेत् साङ्गमेवानुष्ठेयेति स्वकाले दर्शादाविष्टिरिति ।
?R ?R?0प्रधानेनाभिसंयोगात् । ?R?0वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेत्यत्र किमेको नियोगः उत नियोगद्वयमिति सन्देहे नियोगद्वित्वे भिन्नप्रयोगाभिसम्बन्धात् अङ्गाङ्गित्वं न स्यात् । अतः एको नियोग इति प्राप्ते विनियोगादङ्गाङ्गिता । अस्ति च भिन्नप्रयोगत्वेन विनियोगान्यत्वं अतः अङ्गाङ्गित्वं प्रयोगभेदश्चोपपद्यते इति सिद्धान्तः । एकशास्त्रत्वेपि प्रयोगभेद इष्यत एवेत्यर्थः ।
?R—–
?R?0चतुर्थः पादः
?R?0 ?R?0राजसूयेन स्वाराज्यकामो यजेत इत्यत्र प्रकृतानां यागानां अयागानां
?Rविदेवनादीनां च राजसूयपदं नामधेयं उत यजीनामेवेति सन्देहे यजीनां अयजीनां च प्रकृतत्वात् प्रकृतार्थको यजिः दण्डिन्यायेन अयजिष्वपि वर्तते ।तस्मात् तेषामपि इदं नामेति प्राप्ते सत्यं प्रकरणान्नियोगैक्यं तथापि तथाभूतेन नियोगेन एकदैव पदार्था गृह्यन्ते । तत्र यागानां करणतया संबन्धः यजिवाच्यत्वात् । अयागानामितिकर्तव्यतात्वमिति निर्णयः ।
?R ?R?0मध्यस्थं यस्य तन्मध्ये । ?R?0अभिषेचनीयसन्निधावाम्नाताः विदेवनादयः । तदीयप्रयुक्तिमध्यपातात् विनियोगोऽपि तत्रैवेति पूर्वपक्षे यस्याङ्गस्याधिकारविधिरेव प्रयोगं ज्ञापयति न तस्यावान्तरप्रयोगानुप्रवेशः शक्यते । अतः राजसूयार्था एव ते तदधिकारविधिप्रयुक्ताः अभिषेचनीयसन्निधौ पाठात् तत्रैवानुष्ठेयाः इति सिद्धान्तः ।
?R ?R?0प्रकरणाविभागे । ?R?0पुरस्तादुपसदां सौम्येन प्रचरन्ति इत्यत्र उपसदां सौम्येनेति सम्बन्धः । षष्ठी च शेषे । सम्बन्धश्च अङ्गाङ्गिभावः । पुरस्तादिति तु सम्बन्धापेक्षः । तस्माद्वाक्यादुपसदङ्गतेति प्राप्ते;?R साधिकारो हि नियोगः अन्विताभिधाननिर्वाहकः इति तदधिकारानुप्रवेशाय नाधिकारान्तरमपेक्षते इति उपसदां न प्रकरणम् । पुरस्तादुपसदामित्येव संबन्धः उपसदां सौम्येनेत्यन्वये पुरस्तादित्यस्यानन्वयः स्यात् । अतः कालार्थः संबन्धः ।
?R?0 फलवद्वोक्तहेतुत्वात् । ?R?0साङ्ग्रहणीष्टिसन्निधौ पठिताः आमनहोमा अपि साधिकारा एव फलपदानुषङ्गात् । अतश्च समप्रधानभूतास्ते इति प्राप्ते;?R असमानजातीयैरपि परिधिमन्त्रैर्व्यवहितत्वात् न फलपदानुषङ्गः संभवति । अतः निरधिकारत्वादङ्गानीति सिद्धान्तः ।
?R ?R?0दधिग्रहः । ?R?0अर्यवादे देवतान्तरायनिर्हरणकीर्तनात् दधिग्रहो नैमित्तिक इति पूर्वपक्षः खदिरवदुभयार्थतेति सिद्धान्तैकदेशी । सिद्धान्तस्तु नित्य एव, न नैमित्तिकः निमित्तसंयोगाभावात् । दोषनिर्हरणश्रवणं तु अर्थवादतयाप्युपपन्नत्वात् न नैमित्तिकत्वाक्षेपकम् । इति सिद्धान्तः ।
?R ?R?0वैश्वानरश्च । ?R?0यदि दोषनिर्हरणमर्थवादतयोपपद्यते तदा वैश्वानरग्रहेपि तत्संभवात् स नित्यः इति प्राप्ते;?R अत्र यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते स वैश्वानरं निर्वपेत् इति अभृतोख्यपुरुषाधिकारश्रवणात् नैमित्तिकत्वमेव युक्तम् । पूर्वत्र तु पुरुषसंयोगो नास्तीति वैषम्यम् ।
?R ?R?0षट्चितिः । ?R?0संवत्सर एवैनं प्रतिष्ठायै नुदते अथ षष्ठीं चितिं चिनुते इति पूरणार्थकप्रत्ययश्रवणात् । षष्ठ्याः नित्यत्वं निमित्तश्रुतिरर्थवाद इति प्राप्ते उपदेश विवक्षयापि पूरणप्रत्ययोपपत्तेः नानुष्ठानापेक्षा; ?Rषष्ठी इदानीमुपदिश्यत इत्यर्थः ।
?R ?R?0पितृयज्ञः स्वकालत्वात् । ?R?0अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीत्यत्र किं पिण्डपितृयज्ञस्याधिकार अध्याह्रियतां उत अमावास्यापदेन कर्म लक्षयित्वा तदङ्गं पिण्डपितृयज्ञः इति सन्देहे अध्याहारापेक्षया लाघवात् । कर्मलक्षणेति एकाधिकारानुप्रवेशादङ्गाङ्गिभाव इति प्राप्ते नैकनियोगता संभवति यदा दर्शोपदेशपूर्वकः पिण्डपितृयज्ञोपदेशः तदा दर्शस्यामावास्याकालसंबन्धावगमात् कालशब्दः लक्षणया नीयेत । यदा पुनः परस्परनिरपेक्षमुपदेशद्वयं तदा न लक्षणा न्याय्या । ततश्च कालार्थस्संयोग इति राद्धान्तः ।
?R ?R?0पश्वङ्गं रशना । ?R?0पशुमुपाकरोति इति उपाकरणस्य पश्वर्थत्वं प्रतीयते । तथा परिव्याणमपि तत्समानकर्तृकं एकप्रयोगतागमकम् । ततश्च अङ्गाङ्गिभावः इति परिव्याणां पश्वङ्गम्, यूपोऽपि पश्वर्थः इति प्राप्ते;?R समानकर्तृकत्वमात्रं क्त्वाप्रत्ययादवगम्यते न नियोगैक्यमिति द्वितीयया यूपस्यैव प्राधान्यं युक्तमिति राद्धान्तः ।
?R ?R?0स्वरुश्चाप्येकदेशत्वात् । ?R?0यूपस्य स्वरुं करोति इति तादर्थ्यमवगम्यते स्वरुमान् यूप इति प्रतीतेः । तथा च यूपार्थ एव स्वरुः । तस्य स्वरुणा यूपमनक्तीति अञ्जनेन प्रतिपत्तिः इति प्राप्ते यवमतीत्यादिषु तादर्थ्याप्रतीतेः अञ्जने
?Rवाक्येन विनियोगः । न चाञ्जनं प्रतिपत्तिः, तस्यापि पशु इति कार्यान्तरश्रवणात् इति सिद्धान्तः ।
?R ?R?0दर्शपूर्णमासयोः । ?R?0दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र प्रकृताः सर्वे यागाः दर्शपूर्णमासपदेन ग्राह्याः राजसूयपदवत् इति प्राप्ते;?R समुदायद्वयस्य प्रकृतत्वात् तदर्थकत्वमेव द्विवचनस्यार्थान्तरानुपपत्तेः इति सिद्धान्तः ।
?R ?R?0ज्योतिष्टोमे । ?R?0द्विवचनयोगात् न दर्शपूर्णमासपदस्य सर्वयागपरता, ज्योतिष्टोमे तु तदभावात् न तत्पदस्य प्राकरणिकसर्वयागपरत्वंवारयितुं शक्यते । नामधेयार्थस्तु नान्वयीत्युक्तमिति प्राप्ते;?R यद्यपि नामधेयार्थः नान्वयी तथापि यजिविशेषोपस्थापकत्वात् त्रिवृदादिस्तोमानां परम्परया येषु यागेषु संबन्धः तेषामेवोपस्थापनात् इतरेषामङ्गतेति राद्धान्तः ।
?R—–
?R?0पञ्चमाध्याये प्रथमः पादः
?R?0 श्रुतिलक्षणम् । ?R?0योऽयं श्रुत्यादिभिः प्रतिपन्नः वितानः किं तमनतिक्रम्यानुष्ठेयं कर्म उतानियमेनेति सन्देहे वितानाभिधायकशब्दाभावात् आर्थिकस्याशास्त्रार्थत्वात् प्रतीतक्रमस्यानादरः इत्यनियमेनेति पूर्वपक्षः;?R क्त्वाप्रत्ययः प्रयोगगतां पूर्वकालतां उपाधिं कृत्वा समानकर्तृकतामाह । यच्च पूर्वमवगम्यते तत्पूर्वमनुष्ठीयत इति क्रमसिद्धिः । न चात्र पाठक्रमः अध्वर्युर्गृहपतिं इत्यत्र दीक्षाणां प्राप्तत्वात् वाक्यस्य च प्रतिप्रस्थात्रादिकर्तृविधानार्थत्वात् । क्रमनिषयविधिः क्त्वाश्रुत्यैवेति श्रौत एव क्रमः इति सिद्धान्तः ।
?R ?R?0अर्थाच्च । ?R?0अनन्यपरतया अस्तु श्रुत्या क्रमावगमः अर्थे तु न किञ्चिदवगतौ प्रमाणमस्तीति प्राप्ते;?R प्रयोजनमपि अनुष्ठानकालभेदावगमद्वारेण क्रमावगतौ कारणमिति सिद्धान्तः अग्निहोत्रं जुहोति यवागूं पचतीत्युदाहरणम् ।
?R ?R?0अनियमोऽन्यत्र । ?R?0यत्र तु क्रमनियामकप्रमाणाभावः यथा शाखान्तरे
?Rउपसंहारे तत्रानियम एवेति प्रत्युदाहरणमात्रम् ।
?R ?R?0क्रमेण वा नियम्येत । ?R?0समिधो यजति तनूनपातं यजति इत्यादिषु न केवलं पाठमात्रात् क्रमावगतिः पदानां वाक्यार्थावगममात्रहेतुत्वात् क्रमवाचकपदाभावात् । तस्मात् यथेष्टमत्र क्रम इति प्राप्ते, यस्मिन् सत्येव यदवगम्यते तत् तत्र निमित्तं यत् प्रथमं पठ्यते तत्प्रथममवगम्यते प्रथममेव प्रयोगकाले स्मर्यते तथैव चानुष्ठीयते इति पाठादेव क्रमावगमात् पाठोऽपि क्रमनियमे प्रमाणमिति सिद्धान्तः ।
?R ?R?0प्रवृत्त्या तुल्यकालानाम् । ?R?0प्रथमपदार्थप्रवृत्तिवशेन
द्वितीयादिपदार्थावगम इत्यत्र इयमाशङ्का- यथा प्रवृत्त्यवस्थायां प्रथमपदार्थानुष्ठानं न क्रमनियममपेक्षते तथा द्वितीयादिपदार्थानुष्ठामपि भवतु न तत्र प्रवृत्तिक्रमापेक्षा युक्तेति पूर्वपक्षे प्रयोगचोदनया सहाङ्गैः प्रधानानां यौगपद्येनानुष्ठानस्य चोदितत्वात् पुरुषाशक्त्या यावद्व्यवधानमनुप्रविशति तावदेव विधिरनुमन्यते नाधिकम् । तत्र प्रवृत्तिक्रमेणानुष्ठाने उत्तरेषामपि पदार्थानां तुल्यं व्यवधानं भवति अन्यथा कस्यचित् अतिसन्निधानं कस्यचिदतिव्यवधानमिति वैषम्यापत्तेः तस्मात्प्रवृत्तिक्रमोऽपि अभ्युपगन्तव्यः इति राद्धान्तः ।
?R ?R?0स्थानाच्च । ?R?0साद्यस्क्रे सह पशूनालभत इति वचनेन त्रयाणामपि पशूनां सहलम्भप्राप्तौ कस्य प्राथम्यमिति विशये अवश्यंभाविनि क्रमे यदि प्रयोगान्तरवर्तित्वात् प्रवृत्तिक्रमः नेष्यते तर्हि पूर्वावगतपाठादेव नियम इति प्रथममग्नीषोमीयः ततः सवनीयः ततः आनुबन्ध्य इति प्राप्ते;?R सह पशूनालभत इति वचनेन सवनीयस्थाने सर्वेषामालम्भस्य चोदितत्वात् सवनीयस्थानमबाधितं आश्विनग्रहणोत्तरकालता तस्यैव । तस्मात् स्थानात् सवनीय एव पूर्वमालब्धव्यः इतरयोस्तु प्राकृत एव क्रम इति राद्धान्तः ।
?R ?R?0मुख्यक्रमेण । ?R?0यत्र सारस्वतौ भवतः इत्यादौ अङ्गानां क्रमे
?Rउक्तप्रमाणानामभावः तत्र यथेष्टाप्रवृत्तिः तन्त्रेणोच्चारणाच्छास्त्रस्येति प्राप्ते;?R प्रधानयाज्ययोः क्रमवत्त्वात् प्रधानयोः क्रमावगतेः यत्क्रमके प्रधाने तदङ्गान्यपि तत्क्रमकान्येव भवितुमर्हन्ति इति मुख्याख्यं प्रमाणान्तरमास्थेयमिति राद्धान्तः ।
?R ?R?0प्रकृतौ तु स्वशब्दत्वात् । ?R?0पाठमुख्यक्रमयोर्विरोधे मुख्यक्रम एव स्वीकार्यः मुख्यार्थत्वादङ्गानां, प्रयोगचादना चानुगृह्यत इति पूर्वपक्षे न प्रतीतस्य त्यागो युक्तः पाठाच्च निरपेक्षात् अवगतः अङ्गानां क्रमः नान्यापेक्षया बाधितुं युक्तः । तस्मात्पाठक्रम एव ग्राह्य इति राद्धान्तः ।
?R ?R?0मन्त्रतस्तु विरोधे । ?R?0मन्त्रब्राह्मणपाठक्रमविरोधे उभयोरपि पाठस्वरूपत्वादनियम इति पूर्वपक्षे;?R मन्त्रक्रमो बलीयान् मन्त्राणां प्रयोगार्थत्वात् यत्क्रमकाः मन्त्राः तत्क्रमका एव प्रयोक्तव्याः मन्त्रैश्च स्मृतं कर्तव्यं इति कर्माण्यपि तत्क्रमकाण्येवेति सिद्धान्तः । ब्राह्मणपाठक्रमस्तु विधिक्रमदर्शनात् विधेये कल्प्य इति व्यवहितः ।
?R ?R?0तद्वचनाद्विकृतौ । ?R?0किं विकृतौ मुख्यक्रमात् क्रमः उत यथा प्रकृतौ निर्ज्ञातः अङ्गानां क्रमः तथैव विकृतावपि इति सन्देहे यद्यपि प्रकृतौ प्रयोगान्तरे क्रमान्तरमवगतं तथापि वैकृतप्रयोगान्तरे यथाविकृति मुख्यक्रमेणैवानुष्ठानं युक्तमिति प्राप्ते;?R यद्यपि प्रयोगान्तरं तथापि प्रयोज्यानामभेदात् य एव तेषां प्रयगान्तरे क्रमो निर्ज्ञातः स एव तावद्बुद्धिस्थे भवतीति न क्रमान्तरकल्पनाऽवकाशं लभते- इति राद्धान्तः ।
?R ?R?0विकृतिः प्रकृतिधर्मत्वात् । ?R?0साकमेधे पूर्वदिनकर्तव्यासु अनीकवत्यादीष्टिषु द्व्यहकालत्वसद्यस्कालत्वसन्देहे प्राकृती सद्यस्कालता स्वीकार्या । अहरन्तरवर्तिन्यपि प्राह्णादौ प्रातरादिशब्दोपपत्तेरिति प्राप्ते वैकृतेन कालेन प्राकृतकार्यसिद्धेः न पुनः प्राकृतकालापेक्षास्तीति सद्यस्कालतैव युक्ता । सवनानि चैकाहस्सम्बन्धान्येव श्रुत्याऽवगम्यन्ते न कारणादृतेऽहरन्तरापेक्षाणि युक्तानि कर्तुं;?R
?Rतस्मात्सद्यस्कालतेति राद्धान्तः ।
?R ?R?0अङ्गानां मुख्यकालत्वात् । ?R?0आग्निमारुतादूर्ध्वमनूयाजैश्चरन्ति इत्युत्कर्षः तिष्ठन्तं पशुं प्रयजति इति प्रयाजानामपकर्षश्च तन्मात्रविषयौ न तदादितदन्तविषयौ शब्दमात्रावगम्येऽर्थे अश्रूयमाणानामुत्कर्षापकषयोः प्रमाणाभावादिति प्राप्ते । सत्यं पदार्थस्योत्कर्षः अपकर्षो वा श्रूयते न तु तदुपरितनामाधस्त्यं वा अकृत्वेति उत्कर्षमात्रश्रवणेपि प्रागवगतक्रमबलेन उपरितनान्यप्युत्कर्षणीयानि । तथाऽपकर्षेपि इति क्रमादेवोत्कर्षसिद्धिः ।
?R ?R?0प्रवृत्त्या कृतकालानाम् । ?R?0निर्वापात्पराञ्जः अलङ्करणात्प्राग्भाविनः ये पौरोडाशिकाः पदार्थाः ते किं सवनीयान्निर्वपस्व इति प्रैषोत्तरं कार्याः उत पाठावगताः सौमिकाः प्रचरणीहोमादयः इति सन्देहे यावद्वचनं वाचनिकमिति निर्वापमात्रमेव मध्ये कर्तव्यं ततः परं प्रचरणीहोमादय इति उभयथापि पाठक्रमः अतोऽनियम इति प्राप्ते अलङ्करणप्रग्भाविनः कार्याः प्रकृतौ निर्वापानन्तरं प्रोक्षणादिकमिति क्लृप्तेः तदेव कार्यमिति राद्धान्तः ।
?R ?R?0असंयोगात्तु । ?R?0दीक्षासु यूपं छिनत्तीत्यत्र तदन्तापकर्षशङ्कायां प्रकृतौ क्रमस्य क्लृप्तत्वात् प्राकृतस्योत्कर्षापकर्षयोः तदादितदन्तन्यायौ भवतः । इह तु नाद्यापि क्रमकल्पनेति न तदन्तापकर्षः अपि तु यावद्वचनम् ।
?R ?R?0प्रासङ्गिकम् । ?R?0योऽयमक्लृप्तक्रमत्वेन क्रमाभिसम्बन्धाभावः तदादिन्यायापवादकः सः प्रासङ्गिकेऽपि तुल्यः इति राद्धान्तः ।
?R ?R?0तथाऽपूर्वम् । ?R?0पूर्वेद्युरमावास्यायां वेदिं करोति इति अपकृष्टं वेदिकरणं तदन्तान् पदार्थानपकर्षेत् पाठक्रमस्य पौर्णमास्यामादृतत्वात् क्लृक्रमाया वेदेः प्रतिकर्षादिति प्राप्ते; ?Rन पौर्णमासीप्रकृतिकमामावास्यं कर्म तेन पौर्णमास्यां क्रमकल्पनामपेक्ष्य नामावास्यायां शास्त्रार्थवर्णनं न्याय्यम् । तेन वेदिमात्रापकर्षः तदुत्तरकालं तत्र क्रमकल्पनेति ।
?R ?R?0सान्तपनीया तूत्कर्षेत् । ?R?0सान्तनीयार्थमग्नौ उद्धृते सति दैवान्मानुषाद्वाऽपराधात् सान्तपनीयोत्कर्षे सायमग्निहोत्रं उत्क्रष्टव्यं द्वितीयेऽहनि सान्तपनीयं कृत्वाऽनन्तरमनुष्ठेयं न परार्थमुद्धृतेऽग्नौ तस्मिन्नेव कालेऽनुष्ठेयं अप्रासङ्गिकत्वादग्निहोत्रस्य इति प्राप्ते;?R निमित्तत्वात्कालस्य अनुत्कर्ष एवाग्निहोत्रस्य न्याय्यः । निमित्ते सति नैमित्तिकस्यावश्यंभावात् प्रासङ्गिकत्वमिति राद्धान्तः ।
?R ?R?0षोडशी च । ?R?0तं पराञ्चमुक्थ्येभ्यो गृह्णाति इति उक्थ्योत्तरकालता षोडशिनो विहिता । दैवात् उक्थ्योत्कर्षे षोडशिनः अनुत्कर्षः समयाध्युषितकालस्य षोडश्याः विहितस्य बाधापत्तेरिति प्राप्ते;?R अवश्यंभावित्वाच्छास्त्रातिक्रमस्य वरमङ्गशास्त्रातिक्रम इति उत्कर्ष एव षोडशिन इति राद्धान्तः ।
?R—–
?R?0इति प्रथमः पादः
?R?0अथ द्वितीयः पादः
?R?0 सन्निपाते प्रधानानाम् । ?R?0प्राजापत्यपशुषु अङ्गानां काण्डानुसमय एव युक्तः सहानुष्ठानस्य सकलपदार्थानुष्ठानेनापि सम्भवादिति प्राप्ते सर्वपशूनां साङ्गानां सहानुष्ठानस्य चोदितत्वात् एकैकमेवाङ्गं सह कर्तव्यम् । अनेन प्रकारेण यावत्कालव्यवधानमापतति तावदधिकारविधिरनुमन्यते । अधिकं नानुमन्यते । अतः पदार्थानुसमयः ।
?R ?R?0मुष्टिकपालावदान । ?R?0चतुरो मुष्टीन्निर्वपति इत्यत्र एकैकमुष्टिनानुसमयः सहत्वचोदनाबलात् इति प्राप्ते चोदनातः वैदिकेषु पदार्थाध्यवसानं न लोकवत् प्रमाणान्तरावसेयं एकं चेदं शास्त्रं चतुरो मुष्टीन्निर्वपति इति आवृत्तस्यैव निर्वापस्य अङ्गता प्रतिपादितेति तेनैवानुसमयः ।
?R ?R?0संयुक्तेषु । ?R?0यदि शास्त्रादनुसमयः तदा द्विर्हविषोऽवद्यति
?Rइत्येकत्वाच्छास्त्रस्य तेनैवानुसमय इति प्राप्ते नेदं पदार्थविधानं अपि तु पदार्थसङ्ख्याविधानं, अतः प्रमाणान्तरप्राप्तावदानोपक्रमप्रदानान्तेनैकपदार्थानुसमय इति ।
?R ?R?0वचनात्तु । ?R?0अञ्जनमारभ्य परिव्याणान्तं यूपधारणं प्रकृतौ यजमानेन कृतम् । यूपगणे तदतिदेशे पदार्थानुसमय एव युक्तः प्रकृतौ यजमानधारणस्यार्थिकत्वेन सौकर्यप्राप्तत्वादेशात् सहानुष्ठानस्य प्राप्तत्वादिति पूर्वपक्षः । यथा विहितानां पदार्थानामुपपत्तिः भवति तथा शास्त्रार्थो वर्णनीयः । तत्र यदि पदार्थानुसमय आश्रीयते तदा अञ्जनादिपरिव्याणान्तं यजमानेन यूपानवसर्जनं विहितं बाध्येत । अतः काण्डानुसमयः ।
?R ?R?0पशुगणे । ?R?0अग्नीषोमीये दैवतान्यवदाय न तावत्येव होतव्यं सौविष्टकृतान्यवद्यति इत्यादि श्रुतम् । तच्च प्राजापत्यपशुषु चोदकेन प्राप्तम् । तदिह दैवताद्यवदानानां काण्डानुसमयः उत दैवतैः दैवतानामित्येवं पदार्थानुसमयः इति सन्देहे पूर्ववत् शास्त्रबाधप्रसङ्गात् काण्डानुसमय इति प्राप्ते दैवतावदानानुसमये कृतेपि न शास्त्रबाधः । प्रकृतौ एकत्वात् पशोः एकस्मिन् तथा कृतम् । इह तु सह चोदितपशुबहुत्वात् एकमेवावदानं सर्वेषु कर्तव्यमिति नास्ति शास्त्रबाधः ।
?R ?R?0नानाबीजेषु । ?R?0यद्यपि कृष्णाजितास्तरणादिफलीकरणान्तस्यैकपदार्थत्वं संयुक्ते तु प्रक्रमादित्यधिकरणेन सेत्स्यति तथापि कृष्णजिनास्तरणादीनां पृथक् पृथक् विहितत्वात् पृथक्पदार्थत्वं पृथगङ्गत्वं पृथगेवानुष्ठानप्रयुक्तिरिति तावन्मात्रेणानुसमयः इति शङ्कायां व्रीहीनवहन्ति इति वाक्येन तुण्डुलीभावहेतुर्व्यापारश्चोदितः । अतः कृष्णाजिनास्तरणादिफलीकरणान्तः एकः पदार्थ इति राद्धान्तः । ततः उलूखलैक्यं फलितम् ।
?R ?R?0विकारे त्वनूयाजानाम् । ?R?0पशौ पृषदाज्यं उपभृत्येव ग्रहीतव्यं उत पात्रान्तरं सम्पाद्यमिति संशये प्रकृतिवद्ग्रहणे आज्यस्य दध्ना मिश्रीकरणेन
?Rविकारापत्तेः मर्यादाकरणे स्रुक्त्वनाशापत्तेश्च कालान्तरे पृषदाज्यग्रहणमिति प्राप्ते उक्तदोषापत्तेः पात्रान्तरमादाय तत्काल एव पृषदाज्यग्रहणं न्याय्यम् ।
?R ?R?0प्रकृतेः पूर्वोक्तत्वात् । ?R?0वैकृतानामङ्गानां पाठक्रमः प्राकृताङ्गैः व्यवधीयते उत नेति संशये प्राकृतानां नारिष्ठहोमानां विकत्यनन्तरं करणे उपहोमानां व्यवधानापत्तिः इति प्राप्ते वैकृतचोदनार्थपरिज्ञामानां विकत्यनन्तरं करणे उपहोमानां व्यवधानापत्तिः इति प्राप्ते वैकृतचोदनार्थपरिज्ञानायैव प्राकृताङ्गयुक्तप्रधानपाठात् पाठक्रमत एव वैकृतानां प्राकृतेभ्यः पश्चादेवानुष्ठानम् ।
?R ?R?0कृतदेशात्तु पूर्वेषाम् । ?R?0सर्वत्र वैकृताङ्गानि प्राकृताङ्गेभ्यः पश्चात्कार्याणीति यावन्मात्रमपकृष्यते तावन्मात्रापकर्षः न तु तदन्तापकर्षः । एवं च राजसूये अभिषेकापकर्षे न विदेवनाद्यपकर्षः इति प्राप्ते विकृतौ विदेवनादीनामभिषकस्य च क्रमः क्लृप्तोऽस्ति तत्र अभिषेकापकर्षे तत्पूर्वाणां तेषामपकर्षो न्याय्यः न त्वन्तेऽनुष्ठानम् वैकृतपाठविरोधात् ।
?R ?R?0प्राकृताच्च पुरस्ताद्यत् । ?R?0प्राकृतानां पदार्थानां प्रकृतावेव यः क्रमः क्लृप्तः तत्र मध्ये विनापचनेन वैकृतस्यानुप्रवेशो न न्याय्यः इति सचयनज्योतिष्टोमप्रकरणपठितसावित्रहोमादीनां अन्तेऽनुष्ठानमिति प्राप्ते यद्यपि क्रमो नाभिधीयते तथापि अनन्यपरपाठबलेन मध्येऽनुप्रवेशः ।
?R ?R?0सन्निपातश्चेत् । ?R?0यथा दीक्षणीयायाः पुनः पाठात् सावित्रहोमादिभिः सह क्रमकल्पना तथा रुक्मप्रतिमोचनादिभिरपीति तस्य दीक्षणीयानन्तरं कर्तव्यत्वे प्राप्ते यः पदार्थः वैकृतः दीक्षणीयायाः पूर्वं पठ्यते तत्रोक्तन्यायः । यस्तु परतः पठ्यते तस्य दीक्षासंस्कारानन्तरकरणेपि परत्वोपपत्तेः अन्त एव करणमिति ।
?R—–
?R?0इति द्वितीयः पादः
?R?0अथ तृतीयः पादः
?R ?R?0विवृद्धिः कर्मभेदात् ।?R?0 विकृतौ एकादश प्रयाजान् यजतीत्यत्र एकादशत्वं प्रत्येकं निविशते उत समुदाये इति सन्देहे प्रतिप्रधानन्यायात् प्रत्येकमिति प्राप्ते सङ्ख्या तावत्पदार्थः सा च पृथक्त्वे सति निविशते इति पदार्थस्वभावानुसारेण समुदाय एव निविशते । अभ्यासे तु न तादृशं पृथक्त्वमिति न तत्र निवेशः ।
?R ?R?0स्वस्थानात्तु । ?R?0सङ्ख्यासम्पत्त्यर्थमभ्यासे कर्तव्ये समुदायाभिसम्बन्धात् दण्डकलितवदावृत्तिः षडुपसद इत्यादौ इति प्राप्ते पूर्वप्रतीतक्रमबाधापत्तेः स्वस्थानविवृद्धिरेवेति ।
?R ?R?0समिध्यमानवतीम् । ?R?0यत्र सामिधेनीविवृद्धिः तत्रापि ऋग्वेदात् आनीय आगन्तूनामन्ते निवेश इति प्राप्ते सभिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्यासंज्ञकानामृचां निवेशः इतरेषामन्ते इति राद्धान्तः ।
?R ?R?0स्तेमविवृद्धौ । ?R?0एकविंशेनातिरात्रेण प्रजाकामं याजयेदित्यादौ विवृद्धस्तोमके क्रतौ बहिष्पवमाने आगम्यमानानां ऋचां प्रागुत्तमान्निवेशः उत अन्ते इति विशये प्राक्पर्यासात् इति प्राप्तं द्वादशाहस्थलिङ्गात् उत्तमः पर्यासो भवतीति उत्तमस्य पर्यासत्वं विधीयते उत्तम च द्वादशाहातिरिक्तक्रतुष्वपि इति तदङ्गत्वादागन्तूनां ततः पूर्वं निवेश इति पूर्वपक्षे अस्य द्वादशाहप्रकरणस्थत्वात् न क्रत्वन्तरे प्रवेशः । किञ्च द्वादशाहविकारेष्वपि नायं धर्मः किं तर्हि वृषण्वतां मध्ये य उत्तमः तस्य पर्यासत्वं धर्मः । न च ते क्रत्वन्तरेषु सन्ति । तस्मात् तेषु आगन्तूनामन्ते निवेश इति ।
?R ?R?0अन्ते तूत्तरयोः । ?R?0द्वादशाह एव’?Rत्रीणि ह वै यज्ञस्योदराणि’ ?Rइति वचनं, अत्र विशेषाग्रहणात् तद्विकारेषु भवतु अतद्विकारेषु माभूदिति पूर्वपक्षः । अत्र वचने गायत्र्यादयो यज्ञोदरत्वेन स्तूयन्ते तदुपपादनार्थमेतत् अत्र ह्येवावयन्तीत्यादि
?R। अत्र वचनानित्वपूर्वत्वादिति न्यायेन विधिकल्पनायां आवापमात्रविषयं कल्प्यं न द्वादशाहिकावापमात्रविषयं इति सर्वार्थता ।
?R ?R?0ग्रहेष्टकम् । ?R?0अनारभ्यश्रुतयोः अंश्वदाभ्यग्रहणयोः चित्रिण्याद्युपधानस्य च चितिसवननिष्पत्तिरेव कार्यं;?R यागाग्निष्पत्ती तु परम्परया । तस्माच्चितिसवनशेषमिदं द्वयमिति प्राप्ते उपदेशसिद्ध्यर्थत्वात् कार्यस्य उपदेशस्य च यागाग्निविषयत्वात् यागाग्निसिद्ध्यर्थत्वमेव तयोः न सवनचितिशेषत्वमिति न प्रतिसवनं प्रतिचिति चावृत्तिः । किन्तु अन्ते सकृदनुष्ठानम् ।
?R ?R?0अन्ते स्युः । ?R?0यद्यपि ब्राह्मणवत्त्वात् चित्रिण्यादीनां मध्यमायामुपधानं वचनसिद्धं तथापि सर्वा एव ब्राह्मणवत्यः । अतः वचनमनुवाद इति चित्रिण्यादीनामन्ते निवेश इति पूर्वपक्षे ब्राह्मणवत्यः श्रुतिविनियुक्ताः परिगृह्यन्ते । तस्मात् ब्राह्मणवत्त्वात् मध्यमायामुपधानमिति ।
?R?0 प्राग्लोकंपृणायाः । ?R?0औपानुवाक्यकाण्डपठितचित्रिण्यादयः प्राग्लोकंपृणायाः उपधेयाः अन्ते तु बादरायण इति न्यायादिति प्राप्ते ;?R लोकं पृण इति मन्त्रस्य यदेवास्योनं यच्छिद्रं तदेतया पूरयतीत्यर्थवादस्य च यथार्थत्वात् सर्वान्ते लोकंपृणाः । ततः पूर्व चित्रिण्यादय इति सिद्धान्तः ।
?R ?R?0संस्कृते कर्म । ?R?0आहिताग्नेः कर्मण्यधिकारात् आधानमात्रेणैवाग्निसिद्धेः अनन्तरमेव कर्मण्यधिकारः न तु पवमानेष्टिप्रतीक्षा । आहिताग्निव्रतानि च तत एवेति प्राप्ते ;?R आहवनीयादिमुखेनाहिताग्निः । न चेष्टिभिर्विना आहवनीयो भवति इति अकृतपवमानेष्टेः न कर्मण्यधिकारः । व्रतानां तु अग्निनिष्पत्तिमात्रेणाधिकारादनन्तरमेव प्रवृत्तिः ।
?R ?R?0सञ्चिते । ?R?0यथा आहिताग्निव्रतानि आधानानन्तरमेव कार्याणि तथा अग्निचिद्व्रतान्यपीति भूततावाचिक्तप्रत्ययबलात् प्राप्ते तत्र अग्न्यर्थमाधानमिति तत्सिद्ध्यनन्तरं व्रतान्युक्तानि । इह तु प्रकरणाम्नानात् अग्निकार्यार्थं चयनं
?Rअग्निकार्यं च क्रतुप्रयोगानन्तरमिति क्रत्वन्ते अग्निचिद्व्रतानीति ।
?R ?R?0परेणावेदनात् । ?R?0कियद्भिर्दीक्षितो भवति इति प्रश्ने यावद्भिः दीक्षासंबन्धः प्रतीयते दण्डादिभिः तैरेव दीक्षितः तदनन्तरमेव दीक्षितपदार्था इति प्राप्ते ‘?Rदीक्षिष्यमाण’ ?Rइत्यधिकारिविशेषणम् । तस्मात्तस्य दीक्षोत्पादकत्वात् अनन्तरमेव तद्धर्माः दण्डादयस्तु तत्संस्कारा इति ।
?R ?R?0अङ्गवत्क्रतूनाम् । ?R?0अनेकेषामनुष्ठानेऽवश्यंभावी क्रमः । अनेकानि च काम्यानि कुर्वतः युक्तः पाठात् क्रमनियम इति प्राप्ते यदि पुरुषेच्छायाः क्रमनियमो भवेत् तदा काम्यानां कर्मणां क्रमनियमो भवेत् । इच्छाया अनियमात्तु न क्रमनियमो युक्तः ।
?R ?R?0य एतेनेति । ?R?0उपरितनमधिकरणं क्रमचिन्तार्थम् । तदुपोद्धाततया चिन्त्यते “?Rय एतेनानिष्ट्वा अतान्येन यजते” ?Rइत्यत्र एतच्छब्धः सर्वेषां ज्योतिष्टोमसंस्थानां वादः विशेषकाभावादिति प्राप्ते नित्यत्वादग्निष्टोमसंस्थस्य प्रकरणमिति तस्यैव वाद इति राद्धान्तः ।
?R ?R?0अथान्येनेति । ?R?0य एतेनेत्यग्निष्टोसंस्थपरामर्शात् अथान्येनेति संस्थान्तरग्रहणं अन्यशब्दस्य उक्तसजातीयान्यबोधकत्वदर्शनादिति प्राप्ते एव वाव प्रथमो यज्ञो यज्ञानां इति यज्ञश्रुतेः यज्ञान्तरमेवान्यशब्देन परामृश्यते न तु संस्थान्तरमिति सिद्धान्तः ।
?R ?R?0एकस्तोमे वा ।?R?0 अन्येनेत्यनेन सजातीयक्रतूनामेव ग्रहणं एकस्तोमानां प्रकृतत्वादिति प्राप्ते सन्दिग्धे वाक्यशेषान्निर्णयो युक्तः । इह तु असन्दिग्धैव ज्योतिष्टोमान्येष्ववगतिरिति अर्थवादमात्रमेतत् “?Rयो वै त्रिवृदन्यं यज्ञक्रतुं” ?Rइत्यादि।
?R?0इति तृतीयः पादः
?R—–
?R?0अथ चतुर्थः पादः
?R?0 क्रमकोपः । ?R?0अत्र श्रुत्यर्थयोः पाठक्रमेण विरोधे बलाबलचिन्ता । ‘?Rआश्विनो दशमो गृह्यते तं तृतीयं जुहोति’ ?Rइति । अत्र अविधेयत्वात् क्रमस्य अवगतेश्च तुल्यत्वादुभयोर्विकल्प इति प्राप्ते दशमप्रातिपदिकार्थविरोधात् श्रुतेरेव प्राबल्यं;?R अर्थक्रमे तु यवाग्वा विधेयायाः पाठक्रमेण होमानन्तरं पाके साधनत्वानुपपत्तेः विरोधात् पाठक्रमवाधः ।
?R ?R?0अवदानाभिघारण । ?R?0अत्र प्रवृत्तिमुख्यक्रमयोः बलाबलचिन्ता । प्रवृत्तेः पूर्वप्रवृत्तत्वात् तत्क्रमस्य बलीयस्त्वमिति प्राप्ते यथा कार्यं निर्वर्त्यते तथा क्रमो ग्राह्यः कार्यार्थत्वात्तस्य । होमश्चावदानादीनां कार्यं, तदनुसारेण क्रम आदरणीयः इति ।
?R?0 वचनादिष्टिपूर्वत्वम् ।?R?0 दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत इति सोमेन यक्ष्यमाणो नर्तुं पृच्छेन्न नक्षत्रं इति च श्रूयते । तत्र इष्टिपूर्वत्वमेव सोमस्य । न तु आधानानन्तर्यविधिः इति प्राप्ते सोमेन यक्ष्यमाण इति अद्यतनभविष्यति प्रत्ययः अनद्यतनेऽसम्भवादाधानानन्तर्यं लक्षयति । अतः सोमपूर्वत्वेन इष्टिपूर्वत्वस्य विकल्पः ।
?R ?R?0उत्कर्षाद्वा ब्राह्मणस्य । ?R?0किं सर्वेषां त्रैवर्णिकानामयं विकल्पः उत ब्राह्मणस्य सोमपूर्वत्वमेवेति सन्देहे कल्पद्वयेपि ब्राह्मणशब्दाश्रवणात् सर्वेषामेव कल्पद्वयमिति पूर्वपक्षः इष्टिपूर्वकत्वे ब्राह्मणस्य एकप्रधानन्यूनदर्शपूर्णमासप्रयोगापत्तेः इयमपेक्षा जायते केन प्रकारेण ब्राह्मणः सम्पूर्णौ दशपूर्णमासौ कुर्यादिति तस्यापेक्षायां अपरः सोमपूर्वत्वकल्प उपदिश्यत इति अपेक्षितविधिपर्यालोचनया ब्राह्मणस्यैव सोमपूर्वत्वयिति तस्यैव कल्पद्वयम् ।
?R ?R?0पुरोडाशस्त्वनिर्देशे । ?R?0एकस्य हविष उत्कर्ष इति स्थिते विशेषावधारणार्थमिदमधिकरणम् ।
?R ?R?0विकृतेः प्रकृतिकालत्वात् । ?R?0अत्र य इष्ट्येति वचनाभावं कृत्वाचिन्ता । पूर्वपक्षः प्रकृतिविकृत्योः द्व्यहकालतायां पौर्णमासीकालस्याल्पत्वात् प्रकृतेर्द्व्यहकालतानुग्रहात् विकृतेः सद्यस्कालत्वमिति । सिद्धान्तस्तु चोदकप्राप्तद्व्यकालतानुग्रहाय विकृतीनां चतुर्दश्यामुपक्रमः पञ्चदश्यां समाप्तिरिति । वस्तुतस्तु वचनबलात् विकृतीनां सद्यस्कालतैव ।
?R ?R?0सान्नाय । तथा सोमविकाराः । ?R?0नासोमयाजी सन्नयेदिति कृतसोम एव सान्नाय्याधिकारी प्रतीयते । तथा दशपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति कृतदर्शपूर्णमास एव सोमाधिकारी । यन्त्रिते अधिकारिणि कालो नियन्तुं शक्यते नान्यथेति अधिकरणद्वयेपि तुल्यम् । द्वितीयाधिकरणे इष्ट्वेति क्त्वानिर्देशात् कर्तृनिर्देशाभावात् पुनराशङ्का । अत्रापि क्त्वाप्रत्ययेन निर्वृत्तदशपूर्णमाससमानकर्तृकता सोमस्यावगम्यमाना तथाविध एव सोमे कर्तेत्यवगमयति । विकृतीष्टिष्वप्येष एव न्यायः ।
?R —– ?R?0 ?R?0
?R
?R
?R ?R?0
?R
?R?0
?R
?R
?R
?R?0॥ विषयसूचिका ॥
?R?0॥ षष्ठाध्याये प्रथमः पादः ॥
?R?0 (1) ?R?0लोके न नियोज्यो नाम कश्चिद्वाक्यार्थेऽन्वयी प्रतीयते । नियोज्याभावेपि फलत एव प्रमाणान्तरमधिगम्य तत्कर्मणि फलार्थिनोऽधिकारावगमात् उपपन्नमनुष्ठानम् । न नियोज्यत्वे कश्चिच्छब्दोऽस्तीति प्राप्ते ब्रूमः, सत्यमेवं लोके, वेदे तु कार्यप्रतिपादकत्वाल्लिङादीनां अनुष्ठानं विना कार्यस्य कार्यत्वानुपपत्तेः अनुष्ठानसिद्ध्यर्थमधिकारोऽभ्युपगमनीयः । वैदिकं च फलं न प्रमाणान्तरावसेयम् । तस्मात् अधिकारसिद्ध्यर्थं स्वर्गकामादीनां नियोज्यत्वेनान्वयो वाच्यः । यः कार्यं स्वीयतया बुद्ध्यते स नियोज्यः । न चाकामोपायं कामी कार्यतया प्रतिपत्तुमर्हति । न च कालान्तरभाविनि फले यागः कार्यतयाऽन्वयीति यागातिरिक्तं कार्यं सिद्ध्यति यागः तत्प्रतिसाधनत्वेन सम्बन्धते । ततश्चानुष्ठानमुपपद्यत इति । अतस्सिद्धो वेदे नियोज्यः ॥ 1 ॥
?R (2) विनियोगस्याधिकारपूर्वकत्वात् यथाधिकारं व्यवस्थायां सामर्थ्यानुसारेण विनियोगः । ततश्च देवतादीनामपि यागाधिकारः इति प्राप्ते अनिर्धारितविशेषेणाप्यधिकारिणा साधिकारित्वोपपत्तौ विनियोगासिद्धेः तदनुसारेण तत्समर्थाधिकारिविशेषाश्रयणं न्याय्यम् । अतः असमर्थानां देवादीनां नाधिकार इति राद्धान्तः । अयं विचारः तिर्यक्षु पङ्ग्वादिषु देवतासु च तुल्य इत्यैकाधिकरण्यम् । - 55
?R (3) कर्तृगतमेकत्वं सङ्ख्यान्तरमिव लिङ्गमपि लिङ्गान्तरं निवर्तयतीति पुंस एवाधिकारः न स्त्रियाः, न च सहाधिकारः इति प्राप्ते, नरजात्यवच्छन्नस्याधिकारात् स्त्रिया अप्यधिकारः तत्रापि “?Rअनया सइ” ?Rइत्युक्तेः नातिचरितव्येयं इत्युक्तेः, क्षौमे
?Rवसानौ इति द्विवचनश्रुतेः सहितयोरधिकारः । - 59
?R (5) वसन्ते ब्राह्मणोऽग्नीनादधीत इति आधाने एकत्वं पुंस्त्वं च श्रूयते । पुनश्च क्षौमे वसानौ अग्नीनादधीयातां इत्यत्र द्विवचनं श्रूयते । तत्र द्वयोः पुंसोरधिकारः, न स्त्रीसहितस्य पुंसः, युगपदधिकरणे द्वन्द्वविधानात् । औकारान्तशब्देन एकः पुमान् तावदवगम्यते तस्य द्वितीयोऽपि पुमानेव न स्त्री, वाचकाभावात् । इति प्राप्ते ।
?R नायं द्वयोः पुंसोर्वाचकः अप्रवृत्तिविशेषकरतया क्षौमपदवैयर्थ्यात् वसनाधानयोश्च प्राप्तत्वात् । सद्धितीयपुंविशिष्टाधानानुवादेन क्षौमविधाने सति सद्वितीयत्वं मृग्यं किं स्त्रिया उत पुरुषेणेति तत्र पत्न्या सहधर्मचरणात् तयैव सद्वितीयत्वं युक्तम् । - 66
?R (6) स्त्रीपुंसोः सहभावेन कर्तृत्वे किं सर्वेषु याजमानपदार्थेषु सहभावः उत केषुचिदेवेति संशये सहाधिकारात् सकलेष्वेवेति प्राप्ते प्रयोग एव सहकर्तृत्वं न यागे । तत्र एकेनापि कृते पदार्थे प्रयोगः कृतो भवति इति न स्त्रियाः सकलप्रयोगकर्तृत्वम् । सहाधिकारवचनेन अन्यतरेणापि अन्यतरेणापि कृतं कृतमेव भवतीति ॥ -71
?R (7) किमुपनयनमध्ययनाङ्गं उताचार्यकरणविध्यङ्गमिति । पूर्वपक्षस्तु उपनयनमध्ययनाङ्गं, ततश्च उपनयनेन प्राप्तविद्यः विद्यासाध्यासु कामश्रुतिषु अधिक्रियते । ततश्च कामश्रुतयः विद्यां प्रयुञ्जानाः कामित्वाविशेषात् शूद्रस्यापि विद्यां तदङ्गभूते उपनयनाध्यने च प्रयुञ्जते इति भवति तस्याप्यधिकारः । सिद्धान्तस्तु अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात्
?Rआचार्यत्वसंपादकमुपनयनम् । ततश्चाचार्यकरणविधिप्रयुक्तमध्ययनं अन्यविधिप्रयुक्तविद्यालाभात् कामश्रुतयो न विद्याङ्गं प्रयुञ्जते । ततश्च अध्ययनविधिभ्यः शूद्रस्य मन्त्रवत्स्वनधिकारो विद्याविरहात् ।
-76
?R
?R (8) अद्रव्यस्य कर्मस्वनधिकारः अनाहिताग्नेरिवेति चेन्न, अद्रव्यस्यापि स्वाभाविकी द्रव्यसाध्यकर्मानुष्ठानशक्तिरस्त्येव । तथा च तस्य कदाचिद्द्रव्यं भवत्येव । अधिकृतस्य जीवनायेव कर्मार्थमपि द्रव्योपादानं भवत्येवेति । -76
?R (9) अङ्गहीनस्य न याग इति प्राप्ते, यस्य रोगश्चिकित्सितुं शक्यते तस्य स्यादेवाधिकारः यस्य पुनरचिकित्स्यरोगः न तस्याधिकारः । -79
?R (10, 11) एकं वृणीते द्वौ वृणीते त्रीन् वृणीते इत्यत्र वचनानि त्वपूर्वत्वात् इति सर्वत्र विधिकल्पना । एकवाक्यतासम्भवे तद्भेदो न युक्तः । अवगम्यते च परस्परसम्बन्धः त्रिषु विधीयमानेषु न चतुरो वृणीते इत्यादीनामनुवादोपपत्तेः तत्रैव विधि एकस्य द्वयोश्च प्राप्तत्वादनुवाद एव । -80
?R (12) त्रैवर्णिकानामेवोपनयनं येषामुपनयनं तेषामेव विद्या आचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य । येषां विद्या तेषामेवाधानं ततश्च रथकारजातीयस्याधानासम्भवात् । रथकरणे निमित्ते त्रैवर्णिकानामाधानमिति पूर्वपक्षे योगाद्रूढेर्बलीयस्त्वात् सङ्करजातीयस्यैवाधानम् । वचनबलादविदुषोऽपि आधानं तदुपयोगिविद्याकल्पनं च ।
-84
?R (13) एतया निषादस्थपतिं याजयेदित्यत्र सङ्करजातिविशेषस्य
?Rअग्निविद्याकल्पनाभिया न कर्मधारयाश्रयणं अपितु षष्ठीसमासः । ततश्च त्रैवर्णिकः कश्चित् निषादानां अधिपतिः अधिकारी । न । षष्ठीसमासे पूर्वपदे लक्षणापत्तेः । अतः श्रुतिप्राबल्यात् कर्मधारय एव । अग्निविद्याकल्पनं तु वचनमूलं भविष्यति । 89
?R
?R?0॥ द्विदीयः पादः ॥
?R (1) ऋद्धेकामाः सत्रमासीरन् इत्यत्र बहूनां सत्रे कर्तृत्वात् कर्तॄणामितरेतरयोगे फलमपि इतरेतरयुक्तानां भवति । यथाभूताफलप्राप्तिः तथाभूतैव कामना । ततः भागशः कामनया ऋद्धिकामना अधिकारिविशेषणं इति पूर्वपक्षे यादृशं स्वर्गकामादिकं तादृशी फलप्राप्तिः । स्वर्गकामपदात् कृत्स्नस्वर्गकामनाऽवगम्यते नैकदेशकामना । तेन कृत्स्नप्राप्तिरेव फलं इति कृत्स्नकामानेवाधिकारिविशेषणम् । 95
?R
?R (2) यथानियुक्तस्य सङ्ख्यासम्बन्धः । कामितामात्रतया च नियोगः न सङ्ख्यापेक्षः । ततश्च न भावगता सङ्ख्या विवक्षिता अधिकारपदगतेव । ततश्च दर्शपूर्णमासादिषु एकः बहवो वा कर्तार इत्यनियम इति प्राप्ते कर्तृसङ्ख्याविशिष्टे कर्मण्यधिकारात् कर्तृसङ्ख्या विवक्षितेति ।
99
?R
?R (3) आरब्धानां काम्यकर्मणां अवश्यं समापननियमः । 103
?R (4) लौकिककर्मणां गृहादीनामारब्धस्य समापननियमाभावः । 107
?R (5) निषेधस्थलेषु न संकल्पविधिः अपितु औदासीन्यस्य कथञ्चित्साध्यस्य विधिः । 108
?R (6) गुर्वनुगमनादेः उपनयनोत्तरं प्रवृत्तिः 112
?R (7) जीवनादिनिमित्तकाग्निहोत्रादौ शौचदेराचरणं कार्यम् । 115
?R (8) कालावछिन्नजीवनावृत्तौ अनुष्ठानावृत्तिः । 117
?R (9) क्रत्वर्थनैमित्तिकानां प्रतिनिमित्तमावृत्तिः ।
120
?R गुर्वनुमनादेरावृत्तिः ।
?R (11) ब्राह्मणस्य सोमविद्यादेरावश्यकत्वम् । 120
?R?0॥ तृतीयः पादः ॥
?R (1) नित्यकर्मसु यथाशक्तिन्यायः । 124
?R (2) काम्येषु सर्वाङ्गसमर्थस्याधिकारः । 130
?R (3) प्रतिनिध्युपादानेन नित्यानुष्ठानोपपत्तिः । 132
?R (4) व्रीहिभिर्यजेतेत्यस्य अशास्त्रान्तरत्वात् श्रुतद्रव्यपरित्यागेप्यनुष्ठानम् ।
?R (5) देवताग्निशब्दक्रियासु प्रतिनिध्यभावः । 134
?R (6) माषादीनां प्रतिनिधित्वेनाग्रहणम् । 136
?R (7) पत्नीयजमानयोरन्यतराभावे न प्रतिनिधिः । 137
?R (8) सत्रे कस्यचिद्यजमानस्य मृतौ प्रतिनिधिस्वीकारः । 138
?R (9) आगतस्य कर्तृत्वमात्रम् न फलम् । 139
?R (10) आगतस्य फलिसंस्काराणामनुष्ठानम् । 139
?R (11) सदृशस्यैव प्रतिनिधित्वेन ग्रहणम् । 140
?R (12) वैकल्पिकेषु एकमुपादाय प्रयोगारम्भोत्तरं तदपचारे
?R तत्प्रतिधिरेव ग्राह्यः न तु वैकल्पिकान्तरम् । 140
?R (13) यदि सोमं न विन्देदिति प्रतिनिधिनियमः । 141
?R (14) प्रतिनिध्यपचारे श्रुतसदृशमेवोपादेयम् न प्रतिनिधिसदृशम् । 141
?R (15) यत्रापि प्रतिनिधिनियमः वेद एव श्रूयते तत्रापि
?R पूतीकादेरपचारे सोमसदृश एवोपादेयः । 142
?R (16) श्रुते द्रव्येऽपचरिते प्रतिनिधिं संकल्प्य प्रवृत्तस्य
?R मुख्याधिगमे मुख्यमेवोपादेयम् । 143
?R (17) प्रतिनिधिमुपादाय प्रवृत्तस्य मुख्यादिगमे प्रतिनिधिनैव
?R समापनम् । 144
?R (18) संस्कारक्षमे प्रतिनिधौ मुख्ये चाक्षमेपि
?R मुख्यस्यैवोपादेयता । 144
?R (19) यत्र श्रुतद्रव्येण प्रयोजनं नोपपद्यते तत्र
?R श्रुतमप्यश्रुतमेव प्रयोजनार्थत्वाच्छ्रुतस्य । अतः
?R प्रतिनिधिरेवोपादेयः । 145
?R (20) श्रुतद्रव्ये प्रधानमात्रपर्याप्ते प्रतिनिधौ शेषकार्यपर्याप्तेपि
?R श्रुतमेवोपादेयम् । 145
?R
?R?0॥ चतुर्थः पादः ॥
?R (1) द्व्यवदाननाशे न शेषादवदेयं अपि तु आज्यादिना
?R समापनम् । 147
?R (2) स्विष्टकृदबदाननाशे स्विष्टकृतस्त्याग एव न शेषात्
?R पुनरवदानम् । 147
?R (3) शेषभक्षणे विनियुक्तकर्तॄणामेवाधिकारः नान्येषाम् । 148
?R (4) भिन्ने जुहोतीति विहितो होम एकदेशभेदे सर्वभेदे च
?R कार्यः । 149
?R (5) पुरोडाशांशस्य सर्वक्षाण एव प्रायश्चित्तं नैकदेशक्षाणे ।
150
?R (6) हविरार्तिनिमित्तप्रायश्चित्तं अन्यतरार्तावपि स्यात् ।
152
?R (7) होमाभिषवभक्षणं तु उभयकर्तुरेव नान्यतरकर्तुः । 153
?R (8) एकतराग्न्यनुगमनेपि पुनराधेयमनुष्ठेयम् । 153
?R (9) ऐन्द्रपञ्चशरावनिर्वापस्तु नैमित्तिकं कर्मान्तरं न
?R सान्नाय्यप्रतिनिधिः । 157
?R (10) तदिदं कर्मान्तरं सान्नाय्याङ्गम् । 158
?R (11) सत्रायागूर्य तदकर्तुः प्रायश्चित्तं विश्वजित् ।
158
?R (12) वत्सैरमावास्यायां व्रतमुपैति इत्यत्र वत्सापाकरणकालविधिः । 151
?R (13) वत्सापाकरणकालः असन्नयतोऽपि उपलक्षणतया ज्ञेयः । 160
?R (14) सहशाखया प्रस्तरं प्रहरति - अत्र असन्नयतोऽपि शाखां
?R विना प्रहरणमस्ति । 161
?R?0॥ पञ्चमः पादः ॥
?R (1) अभ्युदयेष्टिवाक्ये देवतापनयविधिः 163
?R (2) तत्रैव उपांशुयाजाज्यस्याप्यपनयविधिः 167
?R (3) निर्वापात् प्राक् चन्द्राभ्युदयेपि इदं प्रायश्चित्तम् ।
168
?R (4) निरुप्ते अनिरुप्ते चाभ्युदिते नैमित्तिकेभ्यो निर्वापः
169
?R (5) अर्धनिरुप्ते चन्द्राभ्युदये तुष्णीमेव निर्वापः ।
169
?R (6) सेयमभ्युदितेष्टिः असन्नयतोऽपि स्यात् । 170
?R (7) “?Rयदि सत्राय दीक्षितानां साम्युत्तिष्ठेरन्” ?Rइति विहित-
?R नैमित्तिकविश्वजित् अक्रीतराजकस्यापि स्यात् । 171
?R (8) सोमे द्वादशदीक्षापक्ष एव ;?R इतरपक्षाः विकृतिविषयाः । 172
?R (9) गवामयने पौर्णमास्यां दीक्षोक्तिः चैत्रीविषया । 172
?R (10) दीक्षाकालस्य दैवादपराधादुत्कर्षे नियमा अपि
?R दीक्षान्तमनुष्ठेयाः । 173
?R (11) दीक्षाकालीनाग्निहोत्रहोमानां प्रतिहोमाकरणम् । 174
?R (12) दीक्षोन्मोचनानन्तरं प्रमादादिष्ट्युत्कर्षेपि न प्रतिहोमः ।
174
?R (13) प्रतिहोमश्चेत् यतः प्रमादः ततःप्रत्येव कर्तव्याः ।
175
?R (14) षोडशिसंस्थे अतिपन्नानि अग्निहोत्रादीनि प्रातरग्निहोत्रमारभ्य
?R कार्याणि । 175
?R (15) भिन्ने जुहोति इत्यादौ क्रतूपकारपर्यन्तोऽधिकारः ।
175
?R (16) व्यापन्नस्याप्सु प्रहरणं यावत् कार्यकरणतया किञ्चिद्दूषितं
?R तत्सर्वं गोचरयति । 175
?R (17) उभाभ्यामपछेदेऽपि एकैकक्रियासत्वात् प्रायश्चित्तम् । 177
?R (18) अपच्छेदयोर्यौगपद्ये प्रायश्चित्तविकल्पः 178
?R (19) पौर्वापर्ये उत्तरस्य प्राबल्यम् 179
?R (20) उद्गात्रपछेदस्य पश्चात्त्वे तत्कृतपुनःप्रयोगे सर्वस्वं दक्षिणा 180
?R?0॥ षष्ठः पादः ॥
?R (1) सत्रे समानकल्पानामेवाधिकारः 184
?R (2) राजपुरोहितयोर्यागे भिन्नकल्पयोरप्यधिकारः 185
?R (3) सत्रे ब्राह्मणानामेवाधिकारः 188
?R (4) तत्रापि वैश्वमित्राणामेव सत्राधिकारः 190
?R (5) तत्रैवाहिताग्नीनामेवाधिकारः 190
?R (6) अध्वरकल्पादिषु सर्वेषामधिकारः न वैश्यमात्रस्य 191
?R?0॥ सप्तमः पादः ॥
?R (1) सर्वस्वदाने धनस्यैव दानं न पुत्रादेः 193
?R (2) सार्वभौमेन सर्वस्वदाने भूमेर्न दानं तत्र तस्य स्वत्वाभावात्
194
?R (3) अश्वादयो न देयाः प्रतिषेधात् 194
?R (4) तत्रैव विद्यमानधनस्यैव दानं न तु अर्जयिष्यमाणस्य 194
?R (5) धर्मोपनतः परिचारको न देयः 195
?R (6) तत्रापि दक्षिणाकाले वर्तमानं देयं नतु तदर्थं पूर्वमेव संचयः
?R कार्यः 195
?R (7) क्रत्वर्थदक्षिणार्थद्रव्यातिरिक्तमेवदेयम् 195
?R (8) अहर्गणे अष्टरात्रे सर्वस्वदानम् 193
?R (9) विश्वजिति द्वादशशताधिकधनस्यैवाधिकारः 193
?R (10) आधाने अपरिमितदानं बहुद्रव्यकदानम् । 196
?R (11) तच्चापरिमितं सहस्राधिकमेव । 198
?R (12) माषान्मे पचत इति स्तुत्यर्थः माषपाकः न नियोगः । 198
?R (13) “?Rसहस्रसंवत्सरं” ?Rइत्यत्र संवत्सरपदं दिनपरम् । 200
?R?0॥ अष्टमः पादः ॥
?R (1) आधाने चतुर्होतृहोमे अनाहितोग्नेरधिकारः । 201
?R (2) माणवकस्योपनयनहोमा लौकिकाग्नौ कार्याः । 203
?R (3) निषादस्थपतीष्टिः लौकिकाग्नौ कार्या । 203 (4) अवकीर्णिपशुरपि लौकिकाग्नावेव । 204
?R (5) दैवानि कर्माणि उदगयनादिषु कार्याणि । 205
?R (6) यागार्थ भृतिवननं सोमक्रयश्च विद्यमानधनेनापि सोमवतापि
?R कौर्या । 205
?R (7) पयोव्रतप्रैषादिकं सत्यपि भक्षान्तरे अवबोधे च कार्यम् ।
206
?R (8) अग्नीषोमीयपशुः छाग एव नान्यः । 207
?R?0॥ नवमाध्याये प्रथमः पादः ॥
?R (1) अग्निहोत्रादिप्रकरणपठिता धर्माः अपूर्वप्रयुक्ताः न
?R यजिप्रयुक्ताः । 211
?R (2) प्रोक्षिताभ्यामवहन्ति इत्यत्र प्रोक्षणमपूर्वप्रयुक्तं न
?R हन्तिपिष्यादिप्रयुक्तम् । 213
?R धर्माणां न परमापूर्वप्रयुक्तता अपि तु अवान्तरापूर्वप्रयुक्तता ।
216
?R (3) मन्त्रैः फलदेवताप्रयुक्ततया प्रतीयमानानामपि
?R धर्माणामपूर्वार्थतैव । 217
?R (4) धर्माणां देवताराधनार्थत्वं न, अपितु देवताया यागार्थत्वात्
?R तद्द्वारा अपूर्वार्थत्वमेव । 219
?R (5) द्रव्यसंख्यादिप्रयुक्ताः प्रोक्षणादयो न भवन्ति अपितु
?R अपूर्वप्रयुक्ताः । 220
?R (6) ‘?Rयत्किञ्चित्प्राचीनमग्नीषोमीयात्’ ?Rइति विहितं उपांशुत्वं
?R भागारंम्भकधर्मः । 223
?R उक्तोपांशुत्वं पदार्थप्रयुक्तमेवेति सिद्धान्तः । 224
?R (7) अग्निप्रोक्षणं अवयविनि कार्यं न प्रतीष्टकम् । 227
?R (8) द्वादशाहे पत्नीसंयाजान्तत्वं उत्तमाहर्वर्जमेव कार्यम् ।
228
?R (9) त्रिःप्रथमामन्वाह इति विहितं त्रित्वं स्थानधर्मो न ऋग्धर्मः । 230
?R (10) आरम्भणीयेष्टेः पुरुषसंस्कारकत्वम् । 231
?R (11) देवस्य त्वा सवितुः प्रसवे इत्यादौ सवित्रादिपदानि
?R एकवाक्यतया स्तुत्यर्थानि तेषां विकृतौ नोहः । 235
?R (12) ‘?Rअग्नये जुष्टं’ ?Rइत्यत्राग्निशब्दः समवेतार्थः ।
237
?R ‘?Rधान्यमसि’ ?Rइत्यत्र धान्यशब्दस्य समवेतार्थत्वात् विकृतावूहः ।
234
?R (13) ‘?Rये यज्ञपर्ति वर्धान्’ ?Rइत्यत्र यज्ञपतिशब्दः
?R असमवेतार्थत्वान्नोह्यः । 240
?R (14) यजमान आयुराशास्ते इत्यत्र सत्रादिषु यजमानपदोहः । 242
?R (15) हरिवदादिपदानां विकृतौ नोहः । 234
?R (16) त्रिवत्सः साण्डः सोमक्रयणः साद्यस्क्रे । तत्र तस्यै श्रुतं
?R इत्यादिषु नोहः । 244
?R (17) पशुसामानविध्ये ‘?Rप्रास्मा’ ?Rइति मन्त्रः मेष्यां नोहितव्यः । 245
?R (18) ऐरं कृत्वोद्गेयमित्यत्र इरापदस्य गिरापदस्थानापत्तिर्नियता ।
247
?R (19) इरापदं प्रगीतमेव प्रयोक्तव्यम् । 249
?R?0॥ द्वितीयः पादः ॥
?R (1) ऊहग्रन्थस्य न नित्यत्वम् । 252
?R (2) गीतिः अक्षराभिव्यक्त्यर्था न प्रधाना । 253
?R (3) सामनिर्वृत्त्यर्थं योन्युत्पन्न साम उत्तरयोरपि गेयम् ।
257
?R (4) समासु ऋक्षु गानं भवति । 261
?R (5) यद्योन्यां तदुत्तरयोरित्यत्र उत्तराग्रन्थपठितयोः ग्रहणम् ।
261
?R (एवं वा) श्यावाश्वान्धीगवे आनुष्ठुभे तृचे भवत इत्युक्तेः योन्याः
?R अनुष्टुप्त्वं कृत्वैव गानम् । 263
?R (एवं वाः) प्रगाथः कर्तव्य इति निरूपणम् । 264
?R (एवं वा) अन्या अन्या ऋचो भवन्तीत्युक्तेः पादप्रग्रथनेन
?R गेयम् । 264
?R (6) ककुभावुत्तरे इत्यत्र ककुभावुत्तराकारं कृत्वा गातव्यं,
?R उत्पत्तिककुभोर्नागमः । 264
?R (7) गीतिसंपादकानामक्षरविकारादीनां विकल्पः । 264
?R (एवं वा) ‘?Rअयं सहस्रमानवः’ ?Rइति ऋक्प्रगीता प्रयोज्या यागे ।
265
?R (एव वा) त्रैस्वर्येण चातुः स्वर्येण वा जपादिषु मन्त्राः प्रयोज्याः । 267
?R (8) गीत्युपाया अक्षराभिव्यक्त्यर्थाः । 268
?R (9) गीत्यतिदेशादेव स्तोभानामप्यतिदेशोऽस्ति । तस्मात्
?R सस्तोभं गेयम् । 261
?R (10) स्तोभलक्षणकथनम् । 271
?R (11) नीवारेषु ब्रीहिधर्माः कार्याः । 273
?R (12) परिधौ अविरुद्धाः यूपधर्माः कार्याः । 274
?R (13) अभ्युदितेष्टौ दधिपयसोः प्रणीताधर्माः कर्तव्याः । 271
?R (14) बृहद्रथन्तरयोः कार्यभेदसत्त्वात् तत्तद्धर्मा एव तत्र तत्र
?R भवन्ति । 278
?R (15) कण्वरथन्तरे बृहद्धर्माणां रथन्तरधर्माणां च समावेशः । 278
?R (16) यत्र क्रतौ वृहद्रथन्तरौ विहितौ तत्र धर्माणां व्यवस्था ।
279
?R (17) पर्वशब्दस्य कर्मवाचित्वात् तत्तत्कर्मोद्देशेन होमः ।
179
?R (18) तत्रापि अमावास्यायां अमावास्योद्देशेन कार्यः । 281
?R (19) प्रयाजादीनां तु आरादुपकारित्वमेव । 281
?R?0॥ तृतीयः पादः ॥
?R (1) प्राकृतमन्त्राणां विकृतौ पदान्तरप्रक्षेपेण ऊहः । 283
?R (2) दर्भैः स्तृणीत हरितैः इति मन्त्रे मौद्गचरौ रक्तपदप्रक्षेपेणोहः । 286
?R (3) यूपस्पर्शनिमित्तप्रायश्चित्तं लौकिकस्पर्शे एव ।
286
?R (4) पाशमन्त्रस्य द्विपाशकायामूहः । 287
?R (5) बहुवचनपाशमन्त्रस्य एकपाशकप्रकृतौ लक्षणया निवेशः । 288
?R (6) पत्नीं सन्नह्येति मन्त्रस्य द्विपत्नीकादिप्रयोगे अविकृतः प्रयोगः । 292
?R (7) एवं विकृतावपि अविकृतः प्रयोगः । 292
?R (8) पशुसामानविध्यपक्षेपि ‘?Rप्रास्मा’ ?Rइति मन्त्रे नोहः ।
292
?R (9) प्रतिनिधिना नीवारेण प्रयोगे व्रीहीणांमेव इत्यस्य नोहः ।
292
?R (10) पशुगणे सूर्यं चक्षुरिति मन्त्रस्यानूहः । 293
?R (11) एकधास्येति मन्त्रे विकृतौ पशुगणे एकधापदाभ्यासः । 294
?R (12) मेघपतिशब्दो विकृतौ देवतासंख्यानुसारेणोह्यः । 295
?R (13) बहुदेवताकपशौ एकवचनान्तः मेघपतिशब्दोऽपि
?R संसर्गित्वाद्देवताया विकल्पेन निविशते । 296
?R (14) पश्वैकादशिन्यां एकवचनान्तमेघपतिशब्दस्योहः । 297
?R?0॥ चतुर्थः पादः ॥
?R (1) षड्विंशतिमन्त्रः पशुगणे विकृतौ समस्य प्रयोक्तव्यः । 299
?R (2) न चतुस्त्रिंशदिति निषेधविधिः । 300
?R (3) उरूकशब्दस्य वपाभिधायकत्वम् । 301
?R (4) प्रशसाशब्दनास्यभिधानम् । 301
?R (5) तत्रैव श्येनादिपदं श्येनसदृशे गौणम् । 302
?R (6) अग्निहोत्रकाले दर्शार्थोद्धृताग्निनाशे न ज्योतिष्मतीष्टिः ।
303
?R (7) गतश्रीधृताग्निनाशेपि नेदं प्रायश्चित्तम् । 303
?R (8) दर्शार्थोद्धृताग्नौ अग्निहोत्रकरणे उद्धरणमन्त्रलोपः ।
304
?R (9) प्रायणीयचरौ पयसि प्रदेयधर्माननुष्ठानम् । 304
?R (10) अभ्युदितेष्टौ दधिपयसोः प्रदेयधर्मानुष्ठानम् । 304
?R (11) पशुकामेष्टौ तु न प्रदेयधर्माः । 304
?R (12) श्रयणे तु पय आदीनां गुणत्वात् न प्रदेयधर्माः । 305
?R (13) पर्यग्निकृतानुत्सृजतीति तदन्ताङ्गरीतिविधानमेव । 305
?R (14) आज्यसंस्था तु कर्मान्तरविधानम् । 306
?R
?R॥ दशमाध्यायस्य प्रथमः पादः ॥
?R (1) बाधलक्षणकथनम् 308
?R लुप्तकार्यं प्राकृतं विकृतौ न कर्तव्यम् । 308
?R (एवं वा) कृष्णलचरौ पाको न कर्तव्यः । 318
?R (2) दीक्षणीयाद्यारम्भे अन्वारम्भणीया न कार्या । 321
?R (3) अस्य ज्योतिष्टोमरम्भत्वात् न कर्तव्यैव सा । 322
?R (4) आरम्भणीयायां नारम्भणीयान्तरम् । 323
?R (5) खलेवाल्यां यूपाहुतिबाधः । 325
?R (6) स्थाण्वाहुतिरपि खलेवाल्यां न भवति । 326
?R (7) उत्तमप्रयाजमन्त्राः आज्यभागादिषु यष्टव्यदेवता-
?R संस्कारार्थाः । 327
?R (8) आज्यभागमन्त्रगताग्निपदं तु न संस्कारार्थम् । 329
?R (9) अग्नीषोमीयपुरो़डाशः उद्देशांशेन पशुयागीयदेवतासंस्कारार्थ । 330
?R (10) चरुशब्दः औदनवाची न तु स्थालीवाची । 331
?R?0॥ द्वितीयः पादः ॥
?R (1) कृष्णलेषु पाकाभावेपि उष्णीकरणं स्यात् । 333
?R (2) कृष्णलयागे उपस्तरणाभिघारणे न स्तः । 335
?R (3) तत्रापि वचनाद्भक्षो भविष्यति । 336
?R (4) एकधा ब्रह्मण उपहरति इत्यत्र ब्रह्मभक्षाणां सहत्वम् । 337
?R (5) सर्वं ब्रह्मणे परिहरति इत्यत्र सर्वं चरु परिहरतीत्यर्थः ।
338
?R (6) ब्रह्मणा सर्वभक्षणे स्वस्वकाले भक्षणम् । 339
?R (7) इदं ब्रह्मण इति व्यादेशः अत्र न कार्यः । 339
?R (8) सत्रे दक्षिणादानं नास्ति स्वयमेवानतत्वात् । 340
?R (9) शेषभक्षाः नानत्यर्थाः अपितु प्रतिपत्तिः । 340
?R (10) सत्रे ऋत्विग्वरणाभावः । 341
?R (11) परिक्रयश्च सत्रे न कर्तव्यः । 342
?R (12) पृष्ठशमनीयः न सत्राङ्गं अपितु पुरुषार्थः अतः तत्र
?R दक्षिणास्ति । 343
?R (13) स च प्रत्येकं ऋत्विग्भिः कर्तव्यः । 343
?R (14) कामेष्टौ विहितं अश्वादिदानं पुरुषार्थः । 346
?R (16) दर्शपूर्णमासयोर्द्वेष्याय दानमपि अदृष्टार्थम् । 346
?R (17) अस्थियज्ञः जीवतामेव । 347
?R (18) मृताधिकारे केषामङ्गानां लोप इति निर्घारणम् । 348
?R (19) सम्मानान्वारभ्भयोरपि अस्थ्नां कर्तृत्वम् । 348
?R (20) तत्रैव गुणकामा न कार्याः । 349
?R (21) सूक्तवाके आयुरादिप्रार्थना न कर्तव्याः । 351
?R (22) तत्रैव होतृकामानामननुष्ठानम् । 351
?R (23) सर्वस्वारे म्नियमाणस्य मरणानन्तरमपि अधिकारः । 352
?R (24) तस्य मरणानन्तरं योग्यपदार्थाः तेन कारयितव्याः
?R अस्थियक्षवत् । 352
?R (25) तस्मिन् जीवति आर्भवकालान्तं आयुः प्रार्थनमस्ति । 353
?R (26) सत्रे अदृष्टार्थस्य ऋतुयाज्यावरणस्य भावः । 353
?R (27) यत्र गुणविशिष्टं कर्म प्रकृतौ चोदितं तत्र विकृतौ
?R गुणलोपेपि न मुख्यलोपः । 354
?R (28) बार्हस्पत्ये चरौ चतुरो मुष्टीन्निर्वपति इत्यत्र आद्यस्य
?R चतुष्ट्वस्य अबाधः मुष्टिबाधश्च । 354
?R (29) द्यावावृथिव्यां धेनुमालभेत इत्यत्र गौरेव धेनुः । 356
?R (30) वायव्यं श्रेतं इत्यत्र श्वैत्यसाधारण्यात् न अजबाधः । 357
?R (31) खलेवाल्यां खादिरत्वलोपः । 358
?R (32) तत्र तक्षणादिलोपः । 361
?R (33) तत्रैव अलुप्तार्थानां संस्काराणामबाधः । 362
?R (34) धानायागे अवघातस्याबाधः । 362
?R?0॥ अथ तृतीयः पादः ॥
?R (1) पशौ एकादशप्रयाजविधानेन नेतराङ्गबाधः । 364
?R (2) हिरण्यगर्भमन्त्रस्य उत्तराघारे निवेशः । 366
?R (3) सौमिकचातुर्मास्येषु वाजिनासादनपरिधिपशुनियोजनयोः
?R प्राकृतकार्यार्थत्वात् प्राकृतबाधः । 366
?R (4) द्वादश जुहोति इत्यत्र प्राकृतवैकृतोभयविधिः । 367
?R (5) पुनराधाने पुनरुत्स्यूतादिना एकादिदक्षिणाबाधः । 368
?R (6) वासोवत्साभ्यां आग्रयणे प्राकृतान्वाहर्यनिवृत्तिः ।
368
?R (7) परं तु तयोः अन्वाहार्यधर्मानुष्ठानम् । 368
?R (8) वत्सस्य तु न पाकः । 369
?R (9) वासस्यपि पाकाभावः । 370
?R (10) तयोः अभिघारणाभावः । 370
?R (11) ज्योतिष्टोमदक्षिणाद्रव्येषु द्वादशशतत्वं गोरेव । 371
?R (12) सेयं दक्षिणा विभज्य देया । 373
?R (13) विभागोऽपि समाख्यानुसारी । 376
?R (14) मूरित्येकाहे गवा प्राकृतदक्षिणाबाधः । 376
?R (16) साद्यस्क्रे त्रिवत्सेन प्राकृतक्रयसाधनसकलद्रव्यबाधः ।
379
?R (17) अश्वमेधे अध्वर्योः प्राकाशदानेन इतरदक्षिणानिवृत्तिः ।
379
?R (19) ऋतपेये सोमचमसेन कृत्स्नदक्षिणाबाधः । 381
?R (20) (एवं वा) ब्रह्मभागत्रनिवृत्तिरिति पक्षान्तरम् । 382
?R (21) वाजपेये यजुर्युक्तरथेन अध्वर्योः न भागान्तरनिवृत्तिः ।
383
?R
?R?0॥ चतुर्थः पादः ॥
?R (1) नक्षत्रेष्टौ उपहोमानां प्राकृतनारिष्ठैः सहप्रयोगः ।
385
?R (एवं वा) सोमारौद्रचरौ शरैः प्राकृतकुशबाधः । 385
?R “?R वाजपेये रथघोषः प्राकृतदर्भमन्त्रयोर्निवर्तकः ।
386
?R (2) बृहस्पतिसवे बार्हस्पत्यग्रहैः प्राकृतग्रहानिवृत्तिः ।
387
?R (3) वाजपेये प्रायाजपत्यपशुभिः क्रतुपशूनामबाधः । 390
?R (4) आमनहोमैः प्राकृतानूयाजानामनिवृत्तिः । 393
?R (5) पत्न्युपगानेन प्राकृतऋत्विगुपगानस्य न बाधः । 394
?R (6) गौग्गुलवाञ्जनेन अञ्जनाभ्यञ्जनसत्रे प्राकृतनावनीतसमुञ्चयः ।
396
?R (7) महाव्रते तार्प्येन प्राकृताहतस्य समुञ्चयः । 397
?R (8) तत्रैव श्लोकादिसाम्नां प्राकृतैः समुञ्चयः । 397
?R?0॥ द्वादशाध्यायस्य प्रथमः पादः ॥
?R (1) प्रसङ्गलक्षणकथनम् । 400
?R—–
?R?0विषयनुक्रमणिका
?R—-
?Rतृतीयाध्यास्य प्रथमः पादः
?R?0 1. शेषलणाधिकरणम्
?R?0 2. द्रव्यगुणसंस्कारेषु
?R?0 3. कर्माण्यपि जैमिनिः
?R?0 4. फलं च पुरुषार्थत्वात्
?R?0 5. पुरुषश्च कर्मार्थत्वात्
?R?0 6. तेषामर्थेन संबन्धः
?R?0 7. फलं तु सह चेष्टया
?R?0 8. द्रव्यं चोत्पत्तिसंयोगात्
?R?0 9. अर्थैकत्वे द्रव्यगुणयोः
?R?0 10. एकत्वयुक्तमेकस्य श्रुतिसंयोगात्
?R ?R?011. संस्काराद्वागुणानाम्
?R?0 12. आनर्थस्यात्तदङ्गेषु
?R?0 13. कर्तृगुणे तु कर्मसमवायात्
?R?0 14. साकाङ्क्षं त्वेकवाक्यं स्यात्
?R?0 15. सन्दिग्धे तु व्यवायाद्वाक्यभेदः स्यात्
?R?0 16. गुणानां च परार्थत्वात्
?R?0 17. मिथश्चानर्थसंबन्धात्
?R?0 18. आनन्तर्यमचोदना
?R?0 19. शेषस्तु गुणसंयुक्तः
?R?0—–
?Rद्वितीयः पादः
?R ?R?01. अर्थाभिधानसंयोगात्
?R?0 2. वचनात्त्वयथार्थमैन्द्री स्यात्
?R?0 3. तथाह्वानमपीति चेत्
?R?0 4. तथोत्थानविसर्जने
?R?0 5. सूक्तवाके च कालविधिः
?R?0 6. कृत्स्नोपदेशादुभयत्र सर्ववचनम्
?R?0 7. लिङ्गक्रमसमाख्यानात्
?R?0 8. अधिकारे च मन्त्रविधिः
?R?0 9. तदाख्यो वा प्रकरणोपपत्तिभ्याम्
?R?0 10. लिङ्गसमाख्याभ्यां भक्षार्थता
?R?0 11. गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्
?R?0 12. लिङ्गविशेषनिर्देशात्
?R?0 13. पुनरभ्युन्नीतेषु
?R?0 14. पात्नीवते तु पूर्ववत्
?R?0 15. त्वष्टारं तूपलक्षयेत्
?R?0 16. त्रिंशञ्च
?R?0 17. छन्दश्च देवतावत्
?R?0—–
?Rतृतीयः पादः
?R?0 1. श्रुतेर्जाताधिकारः स्यात्
?R?0 2. गुणमुख्यव्यतिक्रमे
?R?0 3. भूयस्त्वेनोभयश्रुति
?R?0 4. असंयुक्तं प्रकरणात्
?R?0 5. क्रमश्च देशसामान्यात्
?R?0 6. आख्याचैवं तदर्थत्वात्
?R?0 7. श्रुतिलिङ्गवाक्य
?R?0 8. अहीनो वा प्रकरणात्
?R?0 9. द्विबहुत्वयुक्तं
?R?0 10. जाघनी चैकदेशत्वात्
?R?0 11. सन्तर्दनम्
?R?0 12. सङ्ख्यायुक्तम्
?R?0 13. षौष्णं पेषणं
?R?0 14. तत्सर्वार्थमविषात्
?R?0—–
?Rचतुर्थः पादः
?R ?R?01. निवीतमिति मनुष्यधर्मः
?R?0 2. दिग्विभागश्च
?R?0 3. पुरुषिदितं
?R?0 4. अकर्मक्रतुसंयुक्तं
?R?0 5. अहीनत्पुरुषधर्मः
?R?0 6. शंयौ सर्वपहीदानात्
?R?0 7. प्रागपरोधान्मलवद्वाससः
?R?0 8. अप्रकरणे तु तद्धर्मः
?R?0 9. शेषोऽप्रकरणेऽविशेषात्
?R?0 10. दोषात्त्विष्टिर्लौकिके स्यात्
?R?0 11. अचोदितं च कर्मभेदात्
?R?0 12. पानव्यापञ्च तद्वत्
?R?0 13. तत्सर्वत्राविशेषात्
?R?0 14. सर्वप्रदानं हविषः
?R?0 15. अप्रयोजकत्वादेकस्मात् क्रियेरन्
?R?0 16. एकस्माच्चेद्याथाकाम्यं
?R?0 17. भक्षाश्रवणाद्दानशब्दः परिक्रये
?R?0—–
?Rपञ्चमः पादः
?R ?R?01. आज्याच्च सर्वसंयोगात्
?R?0 2. साकं प्रस्थायीये स्विष्टकृदिडं च
?R?0 3. सौत्रामण्यां च ग्रहेषु
?R?0 4. द्रव्यैकत्वे कर्मभेदात्
?R?0 5. ऐन्द्रवायवे तु वचनात्
?R?0 6. सोमेऽवचनाद्भक्षो न विद्यते
?R?0 7. चमसेषु समाख्यानात्
?R?0 8. उद्गातृचमसमेकस्य
?R?0 9. ग्रावस्ततो भक्षो न विद्यते
?R?0 10. वषट्काराच्च भक्षयेत्
?R?0 11. होमाभिषवाभ्यां च
?R?0 12. प्रत्यक्षोपदेशात्
?R?0 13. एकपात्रे क्रमादध्वर्युः
?R?0 14. वचनादनुज्ञातभक्षणम्
?R?0 15. तत्रार्थात् प्रतिवचनम्
?R?0 16. तत्रार्थात् प्रतिवचनम्
?R?0 17. याज्यापनयेनापनीतः
?R?0 18. फलचमसो नैमित्तिकः
?R?0 19. अनुप्रसर्षिषु सामान्यात्
?R?0—–
?Rषष्ठः पादः
?R?0 1. सर्वार्थमप्रकरणात्
?R?0 2. प्रकरणविशेषात्तु विकृतौ
?R?0 3. नैमित्तिकं तु प्रकृतौ
?R?0 4. इष्ट्यर्थमग्न्याधेयं
?R?0 5. तत्प्रकृत्यर्थं यथान्ये
?R?0 6. तासामग्निः प्रकृतितः
?R?0 7. तुल्यः सर्वेपां पशुविधिः
?R?0 8. दोहयोः कालभेदात्
?R?0 9. तद्वत्सवनान्तरे
?R?0 10. रशना च लिङ्गदर्शनात्
?R?0 11. आराच्छिष्टमसंयुक्तम्
?R?0 12. अग्न्यर्थमप्रकरणे
?R?0 13. नैमित्तिकमतुल्यत्वात्
?R?0 14. प्रतिनिधिश्च तद्वत्
?R?0 15. नियमार्था गुणश्रुतिः
?R?0 16. संस्थास्तु समानविधानाः
?R?0—–
?Rसप्तमः पादः
?R?0 1. प्रकरणाविशेषात्
?R?0 2. फलसंयोगात्स्वामियुक्तम्
?R?0 3. चिकीर्षया च संयोगात्
?R?0 4. तथाभिधानेन
?R?0 5. दीक्षादक्षिणं तु
?R?0 6. तथायूपस्य वेदिः
?R?0 7. सामिधेनीस्तदन्वाहुरिति
?R?0 8. शास्त्रफलं प्रयोक्तरि
?R?0 9. तत्रार्थात् कर्तृपरिमाणं स्यात्
?R?0 10. चमसाध्वर्यवश्च
?R?0 11. उत्पत्तौ च बहुश्रुतिः
?R?0 12. दशत्वं लिङ्गदर्शनात्
?R?0 13. शमिता च शब्दभेदात्
?R?0 14. उपगाश्च लिङ्गदर्शनात्
?R?0 15. विक्रयी त्वन्यः
?R?0 16. कर्मकार्यात् सर्वेषाम्
?R?0 17. नियमस्तु दक्षिणाभिः
?R?0 18. स्वामिसप्तदशाः
?R?0 19. ते सर्वार्थाः
?R?0 20. तस्योपदेशसमाख्यानेन
?R?0 21. प्रैषानुवचनम्
?R?0 22. चमसांश्चमसाध्वर्यवः
?R?0 23. वेदोपदेशात्पर्ववत्
?R?0—–
?Rअष्टमः पादः
?R?0 1. स्वामिकर्म परिक्रयः
?R?0 2. संस्कारास्तु पुरुषसामर्थ्ये
?R?0 3. तपश्च फलसिद्धित्वाल्लोकवत्
?R?0 4. गुणत्वाच्च वेदेन
?R?0 5. तथा कामोऽर्थसंयोगात्
?R?0 6. मन्त्राश्चाकर्मकरणास्तद्वत्
?R?0 7. द्व्याम्नातेषूभौ
?R?0 8. ज्ञाते च वचनं
?R?0 9. याजमाने समाख्यानात्
?R?0 10. विप्रतिषेधे करणः
?R?0 11. प्रैषेषु पराधिकारात्
?R?0 12. अध्वर्युश्च दर्शनात्
?R?0 13. ऋत्विक्फलं करणेष्वर्थवत्त्वात्
?R?0 14. कर्मार्थं तु फलं तेषाम्
?R?0 15. व्यपदेशाच्च
?R?0 16. द्रव्यसंस्कारः
?R?0 17. निर्देशात्तु
?R?0 18. विरोधे च श्रुतिविशेषात्
?R?0 19. अपनयस्त्वेकदेशस्य
?R?0 20. विकृतौ सर्वार्तः शेषः
?R?0 21. सन्निधानविशेषादसम्भवे
?R?0 22. तत्काले वा लिङ्गदर्शनात्
?R?0 23. मांसं तु सवनीयानाम्
?R?0—–
?Rचतुर्थाध्यायस्य प्रथमः पादः
?R?0 1. क्रत्वर्थपुरुषार्थप्रतिज्ञा
?R?0 2. यस्मिन् प्रीतिः पुरुषस्य
?R?0 3. तदुत्सर्गे कर्मणि
?R?0 4. द्रव्याणि त्वविशेषेण
?R?0 5-6. तत्र चैकत्वमयज्ञार्थम्
?R?0 7. आश्रयिष्वविशेषेण
?R?0 8. अर्थे मसवैषम्यम्
?R?0 9. एकनिष्पत्तेः सर्वं समं स्यात्
?R?0 10. पदकर्माप्रयोजकं
?R?0 11. अर्थाभिधानकर्म च भविष्यता
?R?0 12. पशावनालम्भात्
?R?0 13. एकदेशद्रव्यं चोत्पत्तौ
?R?0 14. अभिघारणे विप्रकर्षात्
?R?0 15. समानयनं तु मुख्यम्
?R?0 16. तत्रोत्पत्तिरनर्थिका स्यात्
?R?0 17. तदष्टशङ्ख्यं स्यात्
?R?0—–
?Rद्वितीयः पादः
?R?0 1. स्वरुस्त्वनेकनिष्पत्तिः
?R?0 2. शाखायां तत्प्रधानत्वात्
?R?0 "
?R?0 3-4. हरणे तु जुहोतिः
?R ?R?05. उत्पत्त्यसंयोगात्प्रणीतानाम्
?R?0 6-7. प्रासनवन्मैत्रावरुणाय
?R?0 8. सौमिके च कृतार्थत्वात्
?R?0 9. कर्तृदेसकालानामचोदनम्
?R?0 10. तथा द्रव्येषु गुण श्रुतिः
?R?0 11. संस्कारे च तत्प्रधानत्वात्
?R?0 12. यजतिचोदना द्रव्यदेवताक्रियं
?R?0 13. विधेः कर्मापवर्मित्वात्
?R?0—-
?Rतृतीयः पादः
?R?0 1. द्रव्यसंस्कारकर्मसु परार्थत्वात्
?R?0 2. नैमित्तिके विकारत्वात्
?R?0 3. एकस्य तूभयत्वे
?R?0 4. द्रव्याणां तु क्रियार्थानाम्
?R?0 5. चोदनायां फलाश्रुतेः
?R?0 6-7. तत्सर्वार्थमविशेषात्
?R?0 8. क्रतौ फलार्थवादमङ्गवत्
?R?0 9. काम्ये कर्मणि नित्यः स्वर्गः
?R?0 10. सार्वकाम्यमङ्गकामैः
?R?0 11. तत्र स्वेऽविशेषात्
?R?0 12. समवाये चोदनासंयोगस्य
?R?0 13. उभयार्थमिति चेत्
?R ?R?014. अनुत्पत्तौ तु कालः स्यात्
?R?0 15. उत्पत्तिकालविशये
?R?0 16. फलसंयोगस्त्वचोदिते
?R?0 17. प्रधानेनाभिसंयोगात्
?R?0—–
?Rचतुर्थः पादः
?R?0 1. प्रकरणशब्दसामान्यात्
?R?0 2. मध्यस्थं यस्य तन्मध्ये
?R?0 3. प्रकरणाविभागे च
?R?0 4. फलबद्वोक्तहेतुत्वात्
?R?0 5. दधिग्रहो नैमित्तिकः
?R?0 6. वैश्वानरश्च नित्यः
?R?0 7. षट्चितिः पूर्ववत्त्वात्
?R?0 8. पितृयज्ञः स्वकालत्वादनङ्गं
?R?0 9. पश्वङ्ग रशना
?R?0 10. स्वरुश्चाप्येकदेशत्वात्
?R?0 11. दर्शपूर्णमासयोरिज्याः
?R?0 12. ज्योतिष्टोमे तुल्यान्यविशिष्टं हि
?R?0—–
?Rपञ्चमाध्यायस्य प्रथमः पादः
?R?0 1. श्रुतिलक्षणमानुपूर्व्यम्
?R?0 2. अर्थाच्च
?R?0 3. अनियमोऽन्यत्र
?R?0 4. क्रमेण वा वियम्येत
?R?0 5. स्थानाच्चोत्पत्तिसंयोगात्
?R?0 6. मुख्यक्रमेण चाङ्गानाम्
?R?0 7. प्रकृतौ तु स्वशब्दत्वात्
?R?0 8. मन्त्रतस्तु विरोधे स्यात्
?R?0 9. तद्वचनाद्विकृतौ
?R?0 10. विकृतिः प्रकृतिधर्मत्वात्
?R?0 11. अङ्गानां मुख्यकालत्वात्
?R?0 12. प्रवृत्त्या तुल्यकालानाम्
?R?0 13. असंयोगात्तु तदेव
?R?0 14. प्रासङ्गिकं च नोत्कर्षेत्
?R?0 15. तथाऽपूर्वम्
?R?0 16. सान्तपनीया तूत्कर्षेत्
?R?0 18. षोडशी चोक्थ्यसंयोगात्
?R?0—–
?Rद्वितीयः पादः
?R?0 1.2. सन्निपाते प्रधानानाम्
?R?0 3. मुष्टिकपालावदान
?R?0 4. संयुक्ते तु प्रकमादङ्गं
?R?0 5. वचनात्तु परिव्याणान्तरम्
?R?0 6. पशुगणे तस्य तस्यापवर्जयेत्
?R?0 7. नानाबीजेष्वेकमुलूखलं
?R?0 8. निकारे त्वनूयाजानां
?R?0 9. प्रकृतेः पूर्वोक्तत्वादपूर्वं
?R?0 10. कृतदेशात्तु पूर्वेषाम्
?R?0 11. प्रकृताच्च पुरस्ताद्यत
?R?0 12. सन्निपातश्चेद्यथोक्तम्
?R?0—–
?Rतृतीयः पादः
?R?0 1. विवृद्धिः कर्मभेदात्
?R?0 2. स्वस्थानात्तु विवृद्ध्येरन्
?R?0 3. समिध्यमानवर्ती समिद्धवर्ती च
?R?0 4. स्तोमविवृद्धौ बहिष्पवमाने
?R?0 5. अन्ते तूत्तरयोर्दध्यात्
?R?0 6. ग्रहेष्टकमौपानुवाक्यम्
?R?0 7. अन्ते स्युरव्ययवायात्
?R?0 8. प्राग्लोकं पृणायाः
?R?0 9. संस्कृते कर्मसंस्काराणां
?R?0 10. सञ्चितेत्वग्निचिद्युक्तं
?R?0 11. परेणावेदनाद्दीक्षितः
?R?0 12. अङ्गवत्क्रतूनामानुपूर्व्यम्
?R?0 13. य एतेनेत्यग्निष्टोमः
?R?0 14. अथान्येनेति संस्थानां
?R?0 15. एकस्तोमे वा
?R?0—-
?Rचतुर्थः पादः
?R?0 1. क्रमकोपोऽर्थशब्दाभ्यां
?R?0 2. अवदानाभिघारणासादनेषु
?R?0 3. वचनादिष्टिपूर्वत्वम्
?R?0 4-5. उत्कर्षाद्वा ब्राह्मणस्य
?R?0 6. पुरोडाशस्त्वनिर्देशे
?R?0 7. विकृतेः प्रकृतिकालत्वात्
?R?0 8. सान्नाय्याग्नीषोमीयविकाराः
?R?0 9. तथा सोमविकाराः
?R
?R
?R
?R
?R?0प्रथमोऽध्याये प्रथमः पादः
?R?0बृहती
?R?0प्रभाकरमिश्रविरचिता
?R?0(शाबरभाष्यटीका)
?R?0॥ अथातो धर्मजिज्ञासा ॥
?R?0 लोके-इत्यादिभाष्यस्य “?Rअथातः” ?Rइत्येतस्मिन् पदद्वयेऽलौकिकार्थाशङ्कानिवृत्तिः प्रयोजनम् । कुत एतत् ??R स्वाध्यायाध्ययनविधेरविवक्षितार्थत्वनिराकरणात् । कथं पुनरविवक्षाशङ्का ??R स्वाध्यायाध्ययनविधेरधिकाराश्रवणात्, आचार्यकरणविधिप्रयोज्यत्वाच्च । कथं पुनरन्यस्य विधेरन्येन प्रयुक्तिः ??R प्रयाजादिवदिति चेन्न;?R तत्र स्वाधिकाराभेदाद्युक्तम् । अत्राप्यधिकारांशो न भिद्यत इति चेन्न, अङ्गाङ्गिभावाभावात् । कथं पुनरङ्गता नास्ति, प्रयोज्यत्वं च ??R न प्रयुक्तिरङ्गत्वे हेतुः । कस्तर्हि ??R विनियोगः । ननु विनियोगः परार्थ्ये कारणम् ;?R विनियुक्तर्यैव ह्यङ्गत्वं दर्शयति “?Rन चाविहितमङ्गं भवति,” “?Rफलवत्सन्निधावफलं तदङ्गम्” ?Rइति च । मैवम् ;?R पारार्थ्यमेव ह्यङ्गतोच्यते;?R परस्योत्पत्तौ कार्ये वा यदनुग्रहाय वर्तते, तत् परार्थमित्युच्यते;?R तदेव चाङ्गम् । तस्माद्विनियोगकृतमेवाङ्गत्वम् , न प्रयुक्तिकृतम् । कथं पुनरेकत्वादीनामङ्गत्वम् ??R उक्तं हि पशोरुपादानशेषत्वम् ;?R प्रयुक्तिकृतं च तत् । तदपि नैव प्रयुक्तिकृतम् । किं तर्हि ??R विनियोगकृतमेव । ननु विभक्तिभिः प्रातिपदिकार्थो विनियुज्यते, न पुनरेकत्वादयो विभक्त्यर्थाः । सत्यम् न विनियुज्यन्ते;?R न पुनर्विनियुक्तोपादानेऽपि नावगम्यन्ते विभक्तिभिः । विनियुक्तस्यैकत्वादयो विभक्तिभिरभिधीयन्ते, असंबद्धस्यानवगमात् । अत एव चैकवाक्यत्वं संख्याविधानस्य विभक्तिविधानस्य च ।
?R?0तस्माद्युक्तमुपादानशेषत्वमेकत्वादेः । स्वाध्यायाध्ययनं तु न विनियुक्तम्, नापि विनियुक्तस्थमवगम्यते । अतः प्रयोज्यम्, न चाङ्गमिति सिद्धम् । कथं पुनरविनियुक्तमसंबद्धमेवाक्षिप्यते ??R नैव विनियोग आक्षेपे हेतुः । किं तर्हि ??R कार्यम् । विनियुक्तस्थमपि कार्येणैवाक्षिप्यते । तात्स्थ्यं त्वङ्गत्वे हेतुः । यत्पुनरिदमुक्तम्- “?Rन चाविहितमङ्गं भवति,” “?Rफलवत्सन्निधावफलं तदङ्गम्”- ?Rइति च, कार्येऽङ्गत्वप्रतिपत्त्यर्थोऽयं ग्रन्थः;?R न पुनरङ्गत्वप्रतिपत्त्यर्थः । अस्ति हि कामस्याधिकारे प्रयोज्यत्वम्, न चाङ्गता । तस्मादन्यत् प्रयोज्यत्वम्, अन्या चाङ्गता । तथा चोह्यपदानामस्ति प्रयोज्यत्वम्, न शेषता;?R मन्त्रस्य हि विनियोगेन शेषतोच्यते, ऊह्यपदानाममन्त्रत्वात् । तस्मात् प्रयोज्यत्वादनङ्गत्वाच्च स्वाध्यायाध्ययनस्य भवति संशयः- किं प्रयोज्यत्वादेककार्यत्वम्, उतानङ्गत्वाद्भिन्नकार्यत्वम्- इति । अत्र पूर्वपक्षवादी प्रयोज्यत्वादेककार्यतां मन्वानोऽविवक्षां मेने । तन्निराकृतय इदम् “?Rअथातः”?R- इति पदद्वयमङ्गीकृतवान् सूत्रकारः । न चानेन पदद्वयेनायमर्थो निराकृत इति पाठादेवावगम्यते, पूर्वमनुपन्यस्तत्वादस्यार्थस्य । अतो भवत्यलौकिकार्थाशङ्का कस्यचित् । अतोऽन्तर्णीतपूर्वपक्षनिरसनसमर्थं पदद्वयं मन्वानो भाष्यकार आह-"?Rलोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम्;?R नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा”?R- इति ।
?R?0 किञ्च, न कवेलमस्यालौकिकार्थाशङ्कानिरासछ;?R अवगम्यते, परिभाषादियत्नगौरवाकरणात् ॥
?0"?Rतत्र लोकेऽयमथशब्दो वृत्तादनतन्तरस्य प्रक्रियार्थो दृष्टः;?R न चेह किञ्चिद्वृत्तमुपलभ्यते" ?R-इत्यालौकिकाशङ्कां प्रकटयति । “?Rभवितव्यं तु तेन”- ?Rइति न्यायानपेततामाशङ्कायाः कथयति । सिध्यर्थं हि प्रकरणाद्यन्वेषयम् ;?R
?R?0श्रुतस्य ह्ययथार्थत्वे न श्रुतत्वमेव करणम् । तच्च प्रकरणादिकं सर्वमत्रास्तीति - “?Rतत्तु वेदाध्ययनम्”?R- इत्युक्तम् । “?Rतस्मिन् हि सति सावकल्पते”?R- इतीदानीमविवक्षितार्थस्वाध्यायाध्ययनवाद्याह । इति तावत् भवान् सकलतन्त्रार्थपर्योलोचनया वेदाध्ययनस्य वृत्तत्वं मन्यते ;?R तदयुक्तम् , स्वाध्यायाध्ययनविधेराचार्यकरणविधिप्रयुक्तत्वादविवक्षितस्वार्थतैवावगम्यते । अथादृष्टार्थमेवेदं सूत्रम्, “?Rवेदमधीत्य, अनन्तरं धर्मजिज्ञासा” ?Rइति, एवं तर्ह्यर्थद्वयविधानं प्राप्नोति-वेदमधीत्य, अनन्तरं चेति । यदि च वेदमधीत्य-इत्युच्यते, अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासाऽवकल्पते ;?R अथानन्तर्यं विधीयते, प्रागपि वेदाध्ययनात् प्राप्नोति । न चादृष्टार्थस्य वाक्यस्यार्थद्वयविधानं द्विधा संभवति । उच्यते- नैवेदमदृष्टार्थं सूत्रम् ;?R वेदार्थविचारायैवेदमारभ्यते । कुतः ? “?Rतादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रत्युक्तवानाचार्यः या वेदाध्ययनमन्तरेण न संभवति । कथम् ? ?Rवेदवाक्यानामनेकविधो विचार इह वर्तिष्यते” ?R। नन्वविवक्षितस्वार्थं वेदाध्ययनमित्युक्तम् । विवक्षिते वा किं वेदाध्ययनपूर्वकेणानन्तर्यविधानेन ??R स्वतः प्राप्तेः । अपि चैवं सति “?Rनैव वयमिह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिंष्मः ;?R न ह्येतदेकं वाक्यं पुरस्ताद्वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच्चानन्तर्यं प्रकरिष्यति ;?R भिद्येत हि तथा वाक्यम् ;?R अन्या हि वचनव्यक्तिरस्य पुरस्ताद्वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्तादानन्तर्यमुपदिशतः - वेदं नानधीत्य- इत्येकस्यां विधीयतेऽनूद्यानन्तर्यम् , विपरीतमेकस्याम् ;?R अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति” ?R। अत एवादृष्टार्थशङ्कानैव सूत्रे कर्तव्या । किमर्थं तर्हि सूत्रम् ??R स्वाध्यायाध्ययनविधेराचार्यकरणाद्गुरुकुलान्निवृत्तिरेवानन्तरं भाति ।
?R?0अनङ्गत्वात्तु स्वार्थपरतैवास्य न्याय्या, नाविवक्षितार्थतेति सूत्रस्य प्रयोजनम् । तदिदमाह- “?Rअधीते वेदे द्वयमापतन्ति - गुरुकुलाच्च सामावर्त्तितव्यम्, वेदवाक्यानि च विचारयितव्यानि ;?R तत्र गुरुकुलान्मा समावर्तिष्ट, कथं नु वेदवाक्यानि विचारयेत् - इत्येवमर्थोऽयमुपदेशः” ?R। यद्येवम्, न तर्हि वेदाध्ययनं पूर्वमनन्तरं धर्मजिज्ञासायाः ;?R अविवक्षितस्वार्थतां वेदाध्यनस्य स्मृतिकारो मन्यते- “?Rवेदमधीत्य स्नायात्”?R- इति वदन् । न चेदमन्याय्यं स्मृतिवचनम्, स्वाध्यायाध्ययनविधेर्विनियुक्तविषयत्वात्, तत्पूर्वकत्वाच्च स्वार्थावगतेः । तस्मादविवक्षितस्वार्थतैव न्याय्या वेदादवगम्यते । “?Rन चाम्नायो नामातिक्रमितव्यः । तदुच्यते- अतिक्रमिष्याम इममाम्नायम् अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकं कल्पयेम” ?R। आचार्यकरणविधेरध्ययनमात्राच्च नार्थावबोधप्रत्यर्थिता सम्भवति । ननु च स्वाध्यायाध्ययनिधेः प्रयोजनद्वयासम्भवादविवक्षैव । केन वोक्तम्- स्वाध्यायाध्ययनविधेः प्रयोजनमेतत्- इति ? “?Rदृष्टो हि तस्यार्थः कर्मावबोधनं नाम” ?R। उक्तं चाशेषत्वं स्वाध्यायाध्ययनस्य, तस्याधिकाराश्रवणात् । तदिदमाह- “?Rन च तत्राध्ययनमात्रात्तत्रभवन्तो याज्ञिकाः फलं समामनन्ति ;?R यदपि समामनन्तीव, तत्रापि “?Rद्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्”?R- इत्यर्थवादतां वक्ष्यति” ?R। ननु नैवात्र विरोधो विद्यते ;?R किं विरोधिनिराकरणार्थेन सूत्रेण ? ?Rकथमविरोधः ? “?Rन चाधीतवेदस्य स्नानानन्तर्यमेतद्विधीयते ;?R न ह्यत्रानन्तर्यस्य वक्ता कश्चिच्छब्दोऽस्ति ; ?Rपूर्वकालतयां हि क्त्वा स्मर्यते, नानन्तर्ये । दृष्टार्थता चानन्तर्येऽध्ययनस्य व्याहन्येत” ?R। स्यादेतदेवम् , यद्यस्याः स्मृतेर्मूलान्तरमस्ति । आचार्यकरणविध्यर्थपरिसमाप्तिरेवास्य मूलम्, वेदानुवचनान्तत्वादाचार्यकरणविधेः । किं तु “?Rलक्षणया त्वेषोऽर्थः स्यात्
?R?0।” ?Rकिमिदमुच्यते - लक्षणया त्वेषोऽर्थः स्यात् इति ??R इदमुच्यते- “?Rन चेदं स्नानमदृष्टार्थं विधीयते ;?R किं तु लक्षणया अस्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालमाहुः -"?Rवेदमधीत्य स्नायात्”?R- इति" ?R। अतोऽस्या न्यायमूलतां कथयितुं सूत्रम्- गुरुकुलान्मा समावर्तिष्ट- इति । मूलान्तरत्वे च स्मृतेरदृष्टं कल्पयितव्यम् । अतोऽदृष्टार्थतापरिहारायैवाचार्यकरणविधिरेवास्य मूलम् । “?Rतस्माद्वेदाध्ययनमेव पूर्वमभिनिर्वर्त्यानन्तरं धर्मो जिज्ञासितव्यः” ?Rइति स्थितम्, अथशब्दप्रयोगसामर्थ्यात् । एवं चेन्नेदमदृष्टार्थम् ;?R नापि दृष्टार्थम्, प्राप्तत्वात् ;?R गुरुकुलनिवृत्तिरेव निवार्यते । “?Rन ब्रूमः - अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्या- इति, किं तु वेदमधीत्य न त्वरितेन स्नातन्यम् ;?R अनन्तरं धर्मो जीज्ञासितव्यः - इत्यथशब्दस्यार्थः” ?R॥
?R?0 “?Rअतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन” ?Rइति कस्य वृत्तस्य हेतुतामुपदिशति ??R वेदाध्ययनस्येति ब्रूमः । कथं पुनर्वेदाध्ययनस्य हेतुता ??R अध्ययनानन्तरमर्थावबोधदर्शनात् । अतोऽधीतवदेस्यानन्तरं धर्मजिज्ञासा तदिदमथेत्युक्तम् । अतोऽनन्तरावगमार्थं धर्मजिज्ञासाहेतुरध्ययनम् । “?Rयथा क्षेमसुभिक्षोऽयं देशः ;?R अतोऽहमस्मिन् देशे प्रतिवसामि - इति” ?R(इति) पूर्वोक्तस्य वाक्यस्यातःशब्दो हेतुतामुपदिशतीति लौकिकार्थतां दर्शयति । “?Rएवमधीतो वेदो धर्मजिज्ञासायां हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः” ?R- इत्यथशब्दस्य व्याख्यानमेव प्रदर्शितवान् हेतुत्वावगमाय । ?Rइत्यनेनाधिकारशून्यां स्वार्थविवक्षां दर्शयति । “?Rअत एतस्मात्कारणादनन्तरं धर्मं जिज्ञासितुमिच्छेदित्यःशब्दस्यार्थः” ?R। निगमनवाक्यमेतत् । “?Rधर्मँ जिज्ञासितुमिच्छेत्” ?R- इति कस्य सूत्रावयवस्य व्याख्यानम् ??R धर्मजिज्ञासापदस्येति ब्रूमः । ननु- धर्मं जिज्ञासेत्- इति वक्तव्यम् ;?R प्रकृतिप्रत्यययोर्हि प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः ;?R धर्मजिज्ञासापदे पुनः
?R?0प्रकृत्यर्थप्राधान्यप्रदर्शनायायं यत्नः । “?Rधर्माय जिज्ञासा धर्मजिज्ञासा”?R। कथं पुनः ??R प्रकृत्यर्थो ज्ञानार्थः, प्रत्ययार्थ इच्छा ; ?Rईदृश एवार्थे सन् स्मर्यते- “?Rधातोः कर्मणः”?R- इति । एवं तर्हि ज्ञानस्य प्राधान्यम्, न धर्मस्य । न ह्यनन्यार्था क्रिया प्रधानं भवतीति धर्मकर्मिकैव सा प्रधानम् । अतो धर्मार्था जिज्ञासा । तदिदमाह- “?Rसा हि तस्य ज्ञातुमिच्छा”?R- इति । उक्ता धर्मार्था जिज्ञासा । स पुनः कथं जिज्ञासितव्यः ??R को धर्मः, कथंलक्षणः, कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्च- इति । एवमविज्ञातो धर्मो नानुष्ठानायालं भवति ;?R अननुष्ठितो धर्मो न धर्मकार्यं करोति-इत्युक्तम्- “?Rआसां प्रतिज्ञानां पिण्ड्सयैतत् सूत्रम्- आथातो धर्मजिज्ञासा- इति” ?R। केयं किंपरता नाम ??R अधिकाराभिप्रायमेतदुच्यते, “?Rक्व पुरुषपरत्वं क्व वा पुरुषो गुणभूतः”?R- इति च ॥
?R?0 “?Rधर्मः प्रसिद्धो वास्यादप्रसिद्धो वा”?R-इति च कोऽभिप्रायः ??R यदि पुनर्वेदादेवायमर्थोऽवगम्यते, किमत्र जिज्ञास्यत इति । सत्यम् ; ?Rविप्रतिपन्नास्तु महर्षयः केचित् प्रमाणान्तरपूर्वकमर्थं वर्णयन्ति ;?R केचिन्मन्त्रार्थवादानामपि यथाश्रुत एवार्थे प्रामाण्यमिच्छन्त्यकार्येऽप्यर्थे वेदः प्रमाणमिति वदन्तः । अतोऽस्यां विप्रतिपत्तौ सत्यां प्रारभ्यते जिज्ञासा तत्त्वावगमाय । तत्त्वेनापरिज्ञातोऽर्थोऽनुष्ठीयमानो विहन्त्यनुष्ठातारम्, ज्ञात्वाऽनुष्ठितो निःश्रेयसेन संयुनक्तीत्यारभ्यते जिज्ञासा ;?R सर्वविचाराणां प्रतिज्ञापूर्वकत्वात् । तदभिधीयते-
?0 ?Rचोदनालक्षणोऽर्थो धर्मः इति । “?Rचोदनेति क्रियायाः प्रवर्तकं वचनमाहुः”?R- इति कार्येऽर्थे वेदस्य प्रामाण्यं दर्शयति । तल्लक्षणो धर्मः - इति वदन् कार्यरूप एवेति दर्शयति । “?Rचेदना हि भूतम्” ?Rइति । यदि कार्य एवार्थे वेदस्य प्रामाण्यम्, कथं तर्हि भूताद्यर्थावगतिर्मन्त्रार्थवादेषु ??R तेषामपि
?R?0हि कार्यार्थता द्वितीये पादे वक्ष्यति । तदुक्तम्- “?Rशक्नोत्यवगमयितुम्”?R- इति । न च प्रमाणान्तरावगम्योऽयमर्थः - इति “?Rनान्यत्किञ्चनेन्द्रियम्”?R- इति दर्शयति । “?Rनन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना”?R- इति शब्दस्यार्थासंस्पर्शितां वदन् प्रतिज्ञादोषमाह । कथं पुनर्थासंस्पर्शिता शब्दस्य ??R उच्यते- अर्थासंस्पर्शि हीयते प्रमाणम् ;?R तस्य बाधकज्ञानोत्पत्तौ सत्यां न पुनः प्रतिपक्षविज्ञानं तन्निमित्तमेवोत्पद्यते । शब्दे पुनः स्पष्टेऽपि बाधकज्ञाने पुनः शब्दनिमित्तमेव प्रतिपक्षविज्ञानमुदेति- अङ्गुल्यग्रे हस्तियूथमस्ति- इति । तथा न शुक्तिकारजतादिष्वस्यार्थस्य संभवः । तस्मादर्थासंस्पर्शित्वाच्चोदनायाः तल्लक्षणो धर्मः इति प्रतिज्ञा नोपपद्यते । तदुच्यते अर्थं चावबोधयति, अर्थासंस्पर्शी चेति चित्रम् । यदि तावत् बाधकज्ञानावगम्यमर्थासंस्पर्शित्वम्, नैव तत् प्रमाणजन्यम् ;?R विशेषाग्रहणात् स्मृतिज्ञानं तदिति प्रतिपादयिष्यामः । वेदे पुनः बाधकज्ञानाभावात् अर्थासंस्पर्शिताशङ्कापि नास्ति । ननु च सत्यपि बाधकज्ञाने लौकिकेषु वाक्येषु शब्दादेव ज्ञानमुत्पद्यते, निमित्तभावात्- अङ्गुल्यग्रे हस्तियूथशतम्- इति ;?R तदर्था परिहृतैवार्थासंस्पर्शिताशङ्का, नैवम् । अनभिज्ञो भवान् बाध्यबाधकभावस्य-अङ्गुल्यग्रे हस्तियूथशतम्- इति प्रमाणान्तरदर्शनमत्र बाध्यते, न पुनर्हस्तियूथशतम् । तदिदमाह- “?Rविप्रतिषिद्धमिदमभिधीयते- ब्रवीति च, वितथं चेति” ?R। अत एव “?Rतच्चेत् प्रत्ययितात्”?R- इत्युक्तम् । प्रत्ययितस्य हि वचनमव्यभिचारि प्रमाणान्तरपूर्वकम्, यत्रोपलभ्यमानविषयम् ;?R यत्र तु द्वयं नास्ति, तत्र प्रमाणान्तरविपर्ययाद्विपर्ययः । वाक्यार्थे पुनरुक्तोऽविपर्ययः । कस्मात् पुनः पौरुषेये वचने प्रमाणान्तरविपर्ययाद्विपर्यः ??R ज्ञातं ह्यर्थं परस्मै प्रतिपादयितुं पुरुषाः प्रयुञ्जते वाक्यानि ;?R न चाप्रतीतोऽर्थो ज्ञातो भवतीति प्रमाणान्तरसंवादिना पौरुषेयेण वचनेन
?R?0भवितव्यम् । तदिदमाह- “?Rअशक्यं हि तत् पुरुषेण ज्ञातुमृते वचनात्” ?Rइति । ननु “?Rअशक्यं हि पुरुषेण तत् ज्ञातुमृते वचनात्” ?Rइति । ननु अशक्यं हि पुरुषेण तत् ज्ञातुमृते प्रमाणान्तरात्- इति वक्तव्ये “?Rऋते वचनात्” ?Rइति कोऽभिप्रायः ??R उच्यते- ननु च कार्यार्थत्वेऽपि पौरुषेयतैव वचसः प्राप्नोतीत्यस्य परिहारार्थमिदमुच्यते- ज्ञातुमृते वचनात्- इति । ननु च प्रमाणान्तरसंवादितैवं न प्रदर्शिता भवति । बाढं प्रदर्शिता ;?R सापेक्षत्वनिराकरणदर्शनात् ;?R नान्तरीयकानपेक्षत्वसिद्ध्यर्थं तु विशेषोदाहरणम् । ननु- ऋते वचनादित्युक्ते प्राप्नोत्येव पौरुषेयत्वं चोदनायाः । उच्यते ;?R वचनात्- इत्युक्ते प्राप्नोत्येव कार्येऽर्थे वचनस्य स्वातन्त्र्यम् । अतः पुरुषपरम्परायामपि न प्रमाणान्तरगोचरो धर्म इति सिद्धम् । कथं पुनरिदं सिद्ध्यते ??R पुरुषपरम्परोपदेशान्यथानुपपत्त्या किमप्युपलम्भकमस्तीति शक्यते कल्पयितुम्, न स्वातन्त्र्यं वचनस्य । नैतदेवम् ;?R उपदेशो हि व्यामोहादपि भवति ;?R असति व्यामोहे वेदादपि भवति ;?R मूलद्वये सम्भवत्येतस्मिन् परिगणितप्रमाणव्यतिरिक्तं न प्रमाणान्तरमस्तीति शक्यते वक्तुम् । अतः प्रमाणान्तरविपर्ययासंभवान्न स्वतश्चार्थासंस्पर्शिता शक्यते वक्तुं चोदनायाः । तस्मात् सुष्ठु प्रतिज्ञातम्- “?Rचोदनालक्षणोऽर्थो धर्मः” ?Rइति । किञ्च, पुरुषवचनात्- विज्ञातोऽयमनेनार्थः इति निश्चयो भवति, न पुनः प्रमाणान्तरबुद्धिरुपजायते । तदुक्तम्- “?Rअपि च, पौरुषेयाद्वचनात्- एवमयं पुरुषो वेदेति भवति प्रत्ययः, न- एवमयमर्थ इति” ?R। किमियार्थान्तरावगतौ प्रमाणान्तरावगतिर्भवति ??R वाढम् ;?R अर्थानुसारि हि तदा प्रमाणमवकल्पते ।
?R?0ननु वेदेत्येतदपि कल्पनीयमेव । न, प्रसिद्धकारणत्वात् संविदः; ?Rअप्रसिद्धमूलत्वाच्चार्थस्य । वेदेत्येतदपि तावत् पुरुषवचनान्नावगतिर्भवति, विक्षेपस्य सम्भवाच्चित्तानाम् ;?R किमुतार्थे ??R तद्दर्शयति- “?Rविप्लवते खल्वपि
?R?0कश्चित् पुरुषकृताद्वचनात् प्रत्ययः” ?R- इति । किमिदं सामान्यतो दृष्टम् ??R द्विविधस्यापि निरस्तत्वात् किमन्यदवशिष्यते, येनेदमुच्यते- “?Rननु सामान्यतो दृष्टम्” ?Rइति ? ?Rसत्यमेवम् ;?Rकिंतु विषयान्तरे सामान्यतो दृष्टनपास्तं मन्यते “?Rविप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्” ?R- इत्युक्तम् ;?R तदान्यथैवार्थोऽन्यथा शब्दार्दविज्ञानम् ;?R तदिदमुपपन्नार्थं भवति ;?R अस्यां किमुपत्तौ ??R प्रसक्ता खल्वर्थासंस्पर्शिता शब्दस्य शब्दत्वाद्विप्लुतार्थशब्दवत् इति । सत्यम् ;?R यदि विप्लुतौ शब्दादयथार्थत्वम्, अयथार्थस्य विषये शब्दादवगम्ये सति, नायथार्थात् । तदिदमुक्तम्- “?Rन, अन्यत्वात्” ?R- इति । अन्य एवायथार्थत्वे हेतुः शब्दाद्विषये स्यात् । अथापि शब्दादेव विप्लवः, तथाप्येतदनुमानं नैवोपपद्यते ;?R अदुष्टपक्षप्रतिज्ञानसापेक्षं हेतुवचनं भवति ;?R दुष्टश्चायं पक्षः, संविदः प्रत्यक्षत्वात् । तदिदमुक्तम् - “?Rप्रत्यक्षस्तु वेदवचनेन प्रत्ययः” ?Rइति । प्रतीतिः प्रत्ययः । ननु नैव कार्यो धर्मः । कस्तर्हि ??R गुणः । तथा च केचित् धीगुणं मन्वते, केचिदात्मगुणम् । तस्मात् क्रियायाः प्रवर्तकं वचनं चोदना, तल्लक्षणोऽर्थो धर्मः - इति वचनं नोपपद्यते, अकार्यत्वाद्धर्मस्य । अतस्तन्निराकरणाय चोदनालक्षणस्य तत्रोपसंहारमुखेन उपन्यस्तवान् भाष्यकारः तस्मात् श्रेयस्करो धर्मः इत्यादि । कथं पुनर्निरासः ??R शब्दार्थसम्बन्धस्य लोकव्यवहारगम्यत्वात् कार्यार्थे धर्मशब्दं लौकिकाः प्रयुञ्जत इति “?Rयो यागमनुतिष्ठति”?R- इत्येवमादिना प्रदर्शितम् । अर्थशब्दस्यान्वयप्रयोजनप्रदर्शनार्थं भाष्यकारेण- “?Rउभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्चेति” ; ?Rपुनरपि च प्रश्नपूर्वकमिदमुक्तम्- “?Rकोऽर्थः ??R यो निःश्रेयसाय ज्योतिष्टोमादिः ;?R कोऽनर्थः ??R यः प्रत्यवायाय श्येनादिः” ?R- इति । निःश्रेयसप्रत्यवायलक्षणं धर्माधर्मत्वमुक्तम् । एवं चोपदर्शयता उभयं चोदनालक्षणमित्युक्तं भवति ।
?R?0 तत्र यो निःश्रेयसाय, तस्यैव धर्मता कथं नाम स्यात् ;?R प्रत्यवायहेतोः मा भूत्- इतीदं तर्ह्ययुक्तम् । “?Rकथं पुनरनर्थः कर्तव्यतयोपदिश्यते”?R- इति । कथं कर्तव्यतयानुपदिश्यमानोऽर्थश्चोदनालक्षणो भवति ??R कथं चोदनालक्षणस्य सतो धर्मत्वनिवृत्त्यर्थमर्थशब्दान्वय उपपद्यत ??R पुनरपि च स्पष्टीकरोति- “?Rनैव श्येनादयः कर्तव्यतया विज्ञायन्ते” ?R- इत्युत्तरेण । कर्तव्यतया नोपदिश्यन्ते, चोदनालक्षणाश्च- इति सङ्कटमिवोपलक्ष्यते । यदपि च “?Rकथं पुनरसावनर्थः ?” ?R- इति प्रश्नमुल्लिख्य “?Rहिंसा हि सा, सा च प्रतिषिद्धा” ?R- इत्युक्तम्, तदपि पूर्वापरविरुद्धम् ;?R “?Rयः प्रत्यवायाय”-?R इति प्रत्यवायलक्षणमनर्थत्वमुक्त्वा पुनः प्रतिषेधलक्षणमुक्तवान् । तस्मादसामञ्जस्यम् । अथ प्रतिषेधप्रत्यवाययोरप्यविरोधितोच्यते प्रत्यवायस्य प्रतिषेधहेतुत्वात् , तदयुक्तम् ;?R नञर्थस्यानन्यार्थत्वात् ;?R नञर्थपर्यवसाय्येव हि प्रतिषेधविधिः, न पुनस्तदर्थस्यान्यार्थतामवगमयितुं क्षमः ।
?R?0 अत्राह- अनिरूपितनियोगव्यापारस्येदं चोद्यम् । कर्तव्यताविषयो नियोगः, न पुनः कर्तव्यतामाह । कथं तर्हि कार्येऽर्थे प्रामण्यं वेदस्य - इत्युक्तम् ??R युक्तम्, तद्विषयत्वान्नियोगस्य । कोऽयं विषयविषयिभावः ??R यस्मिन्नयं पुरुषो नियुज्यते, स तद्विषयः । तस्मान्नैव विधिः कर्तव्यतामाह, विषयतया तु उपादत्ते । तस्माद्यद्यनुपादीयते, तत्तद्विधेयमिति तन्त्रे व्यवहारः । यत्तूपादानहेतुतां प्रतिपद्यते, तदधिकृतौ कारणम् । तस्मादधिकारनिमित्तत्वमङ्गीकृत्यैतक्तम्- “?Rहिंसा हि सा, सा च प्रतिषिद्धा”?R- इति चाधिकारगतोऽयं प्रतिषेधः पुरुषार्थश्च । तस्मादभिचारस्यानर्थतां प्रतिपादयितुं क्षमः;?R नाग्नीषोमीयादेः, क्रत्वर्थत्वात् । अथ कस्मान्नोभयार्थः प्रतिषेधोऽयम्- “?Rन हिंस्यात् भूतानि”?R- इति ??R न ह्येकस्य विधेः प्रयोक्तृत्वाप्रयोक्तृत्वयोः प्रयोक्तृत्वं श्रौतम्, अनपेक्षावगतेः ;?R अप्रयोक्तृत्वं तु
?R?0वाक्यान्तरपर्यालोचनया वगम्यम् । न च “?Rन हिंस्यात् भूतानि”?R- इति वाक्यान्तरावगतिर्भवति, अनारभ्य विधानात् । तस्मादधिकारगत एवायं प्रतिषेधः । भवति च चोदनालक्षणः, तद्विषयत्वात् श्येनविधेः । तस्मात् “?Rउभयमिह चोदनया लक्ष्यते”?R- इत्येवमाद्युपपन्नार्थं भाष्यम् ।
?R?0 “?Rनन्वशक्तमिदं सूत्रम्”?R- इति लौकिकवैदिकवाक्ययोः विवेकप्रदर्शनार्थम् । “?Rअथ वार्थस्य सतः” ?R- इति यथावाक्यमप्येकार्थत्वं संभवतीति प्रदर्शयितुम् ॥
?R?0 “?Rतस्य निमित्तपरीष्टिः” ?Rइति हेत्वभिधानावसरः कथ्यते ॥
?R?0 कथं पुनः कार्येऽर्थे चोदनैव निमित्तम् ? ?Rअन्यस्य प्रत्यक्षादेरसंभवात् । कथमसंभवतः ?
?R?0 “?Rसत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।” ?Rअथ कस्मादनुमानादेरनिमित्तत्वम् ??R अनुमानादीनां हि निमित्तग्रहणपूर्वकं स्वार्थे प्रामाण्यम् ;?R निमित्तं चात्र प्रत्यक्षग्राह्यमेव वर्णादि ;?R तस्मात्तदप्यप्रमाणम् । ननु शाब्दं प्रमाणं प्रमाणान्तरसापेक्षमेव लोकव्यवहार उपलभ्यते । सत्यम् ;?R प्रमाणान्तरसापेक्षम् ?R, न तु प्रमाणान्तरसापेक्षम् ;?R स्वार्थे ह्यौत्पत्तिकी शब्दशक्तिः । तदुक्तम्-
?R?0 “?Rऔत्पत्तिकस्तु” ?Rइति । “?Rवृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयांचकार”?R- इति व्याख्यानान्तरोपन्यासः कस्मै प्रयोजनाय ??R यदि तावद्दूषणाभिप्रायः ;?R तदयुक्तम्, सम्यगर्थाभिधानात् । तदभ्युपगतिश्च सूत्रत्रयस्यार्थान्तरप्रदर्शनार्थमिति चेत्, तत्रापि वृत्तिकारग्रहणमयुक्तम् । अर्थान्तरकथनेन वा विना किं न सिध्यति ??R उच्यते- द्वयमप्यस्ति दूषणमर्थान्तरकथनं च । किमत्र दूषितम् ??R “?Rनिमित्तपरिक्षणं न कर्तव्यम्”?R इत्येतत्तावदयुक्तम्, नञोऽश्रुतत्वात्, अस्त्यर्थस्य नित्यप्राप्तेः । यदपि
?R?0हेत्वभिधानम्- “?Rप्रसिद्धानि प्रमाणानि” ?R- इति, तदप्ययुक्तम्, विप्रतिपत्तिदर्शनात् । स्वयं चोक्तम्- “?Rननु व्यभिचरति प्रत्यक्षम्”?R- इति । निमित्तपरीक्षणेन चाव्यभिचारितोक्ता । सूत्रकारेण च तदेव प्रतिज्ञातं परीक्ष्यतया ;?R कथमत्र नञोऽध्याहार उपपद्यते ??R वक्तव्यं च निरालम्बनतानिराकरणार्थं च, तच्च नोक्तं वृत्तिकारेण ;?R तस्माद्दूषणम् । वक्तव्यं पुनः किमन्यदर्थान्तरम् ??R पूर्वोक्तस्य सूत्रत्रयार्थस्य साधनभूतमन्यदर्थान्तरमनेनोक्तं प्रदर्शयितुम् । तथा च तत्सतोर्व्यत्ययः, लक्षणाभिधानं च सर्वप्रमाणानाम् ॥
?R?0 यत्पुनः प्रत्यक्षलक्षणस्यान्ते “?Rयस्य च दुष्टं करणम्, यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययः ;?R नान्यः” ?R- इत्यवधारणम्, किमनेनावधार्यते ??R उच्यते- यस्येदं द्वयं नास्ति, नासौ मिथ्याप्रत्यय इत्यवधार्यते । कः पुनरसौ ??R नामजात्यादियोगेनोत्पद्यते यः । न चेदमस्ति तस्य । तथा च परैर्नार्थान्तरालम्बनतेष्यतेऽस्य, निर्विकल्पकप्रमितविषयतैवेष्यते विकल्पमात्रमेवायमिति वदद्भिः । स एव च संवृतिरित्युक्तम् । न चास्मिन्नपि राद्धान्ते निर्विकल्पकप्रत्ययप्रमितविषयतैवेष्यते सविकल्पकानां जात्यादिप्रत्ययानाम् । इयांस्तु विशेषः - पूर्वानुभूतार्थानुसन्धानेनास्मिन्नपि निर्विकल्पकप्रत्ययप्रमितविषयता नापैति । अनुसन्धानप्रत्ययस्यापि नार्थान्तरानुसन्धानेन विषयीतरत्वं सविकल्पकस्य शक्यते वक्तुम् । तस्मादर्थान्तरविषयत्वात् नैवास्य मिथ्याशङ्कोपपद्यते, द्वयस्य चाभावतः । तस्मात्तदर्थमिदमवधारणं मन्दतरफलमिव प्रतिभाति । ननु च त्वयैवेदमक्तम्- इयांस्तु विशेषः - इति ;?R अनेन विशेषेण परैरिदमुक्तम्- अनुसन्धीयमानार्थसंहितार्थान्तरविषयत्वात् नैव स्वैकप्रत्ययविषयोऽर्थः
?R?0परिच्छेद्यतामस्य प्रत्ययस्य प्रतिपद्यते । आलम्बनतां तु प्रतिपद्यते । तस्मान्न परिच्छेदकत्वमनुसन्धानप्रत्ययस्येच्छन्ति स्मृतिवदिति वदन्तः । इष्यते चास्मिन् राद्धान्ते सविकल्पकस्यापि प्रमाणत्वम् । न च परेषामप्यनुसन्धआनप्रत्यये विकल्पमात्रवादिनां द्वयमिदमस्तीति सिद्धम् । तस्मादस्य प्रमाणत्वमिच्छता कृतमिदमवधारणम् । कथं पुनरनुसन्धानप्रत्ययं कल्पनां मन्यन्ते ??R जातिजातिमतोरभेदात् तदनुसन्धानप्रत्यये भेदाभ्युपगमाच्च । अयं गौः - इति लौकिकाः प्रतिपद्यन्ते, न- इदं गोत्ववद्द्रव्यम्- इति । ननु च भेदप्रत्ययेऽप्यभेदोपचारो दृष्टः - कुन्तान् प्रवेशय- इति । सत्यमभेदोपचारः ;?R न पुनः - अयं गौः - इत्यत्रोपचारबुद्धिर्लौककानाम् । तस्मादुपचरितोऽयं प्रत्यय इति न शक्यते वक्तुम् । न च स्वलक्षणपर्यवसाय्येवायं प्रत्ययः, अर्थान्तरानुसन्धानात् । अतो मन्यामहे परिकल्पनैवेयमिति । यद्ययमन्यथाग्राही प्रत्ययः स्यात्, कथं न विपर्येति ??R न च गवादिषु प्रत्ययस्य विपर्ययो भवति । उच्यते- यत्र हि द्रव्यं द्रव्यान्तरात्मनावसीयते, तत्र विपर्ययो भवति ;?R न चेदं गोत्वादि द्वव्यान्तरम्, नीलपीतादिवत् विशेषेभ्यः पृथक्त्वेनाग्रहणात् । यत एव हि विशेषाः सामान्येनावलम्ब्यन्ते, अत एव च प्रमाणविर्ययाभ्यामयमन्यो विकल्पाख्यः प्रत्यय इति विकल्पविदः । गुणकल्पनाऽप्यनेनैव व्याख्याता, पृथगग्रहणात् । ननु नाम्नः पृथगेव ग्रहणम् । न, तत्रापि- अयं विष्णुमित्रः - इत्यभेदप्रत्ययात् । इयांस्तु विशेषो जातिगुणकल्पनाभ्याम्- यदेकत्राभिन्नयोर्भेदकल्पना, इतरत्र भिन्नयोरभेदकल्पना । तस्मादुपाधिविशेषोऽयम्, न कल्पनाविशेषः । ननु च कर्मकल्पनायां द्वयमप्येतन्न संभवति, भिन्नयोरेव क्रियाकारकयोः सम्बन्धोऽवगम्यते ;?R व्यपदिश्यते च । मैवम् ;?R अत्राप्यभेदोपचार एवावगम्यते व्यपदिश्यते च-
?R?0पचति देवदत्तः - इति सामानाधिकरण्यदर्शनात् । ननु च वैयधिकरण्यमपि दृस्यते- ओदनं पचति, काष्ठैः पचति, पच्यते देवदत्तेन- इति । किमिदं प्रलप्यते- वैयधिकरण्यदर्शनात्- इति ??R जात्यदेरपि वैयधिकरण्यं दृश्यते- गोर्भावो गोत्वम्, पटस्य शुक्लत्वम्, अस्येयं संज्ञा- इति । भिन्नाभिन्नकल्पनां प्रत्यभिन्नस्यायमप्यपदेशः, न पुनर्भिन्नस्य चार्थान्तरस्योपनतिरस्ति ;?R तस्मादियमपि च कल्पनैव- पचति देवदत्तः - इति द्रव्येऽप्येवम्, दण्ड्ययम्- इत्यभेदोपचारात् । तस्मात् पञ्चविधेयं कल्पना ;?R नेयं प्रमाणम्, नाप्यप्रमाणम् । उच्यते- भवति कल्पनाज्ञानम्, यदि प्रत्यक्षसमाधिगम्यता ज्ञानस्य स्यात् ;?R आनुमानिकत्वं तु ज्ञानस्य वक्ष्यति । ननु अप्रत्यक्षज्ञानपक्षेऽन्याकारमालम्बनमन्यथैव ज्ञानस्योत्पत्तिर्नोपपद्यते । कोऽयमन्यथाभावः ??R अयमन्यथाभावः ;?R शुक्तिका हि रजतवत् प्रकाशते । शुक्तिकालम्बनं हि तज्ज्ञानम्, न रजतालम्बनम् । न चाप्रत्यक्षे ज्ञाने एतत्संभवति । अतोऽविद्यमानाकारालम्बनमपि ज्ञानमस्तीति प्रतिपत्तव्यम् । सेयं पञ्चविधा कल्पना । ननु चाविद्यमानाकारालम्बनज्ञानपक्षे निरालम्बनतैव ज्ञानस्य प्राप्नोति । मैवम् ;?R निरालम्बनपक्षे न ह्यस्यान्येन व्यपदेश उपपद्यते ;?R भवति च व्यपदेशः - रजतमिति शुक्तिकायाम् । निरालम्बनज्ञानपक्षे हि कस्य केन व्यपदेशो भिन्नत्वाच्छुक्तिकारजतज्ञानयोः ??R नन्वालम्बनज्ञानपक्षेऽपि अन्याकारस्य विज्ञानस्यान्याकारमालम्बनमिति नोपपद्यते । इदमेव ह्यालम्बनस्यालम्बनत्वम्, यदुतात्माकारमेव ज्ञानमुत्पादयति- इति ;?R अन्यथा हि चक्षुरादिवत् व्यापृतस्यापि ज्ञानोत्पत्तावालम्बनव्यपदेशो न स्यात् । केनोक्तम्- आलम्बनाकारनिरपेक्षैवेयं कल्पनेति ??R कथं तर्हि कल्पना ??R कर्थान्तरानुसन्धानतया । किमिदम्- अर्थान्तरानुसन्धानतयेति ??R इदमिदम्- यत् स्वलक्षणान्तरेणैकतापत्तिः
?R?0स्वात्मनि च भेदाध्यासः । कथं तर्ह्यविद्यमानजात्यादिविषया एव जात्यादिप्रत्ययाः ??R स्वलक्षणे ह्यविद्यमानभेदाभेदाध्यासादविद्यमानविषया इत्युच्यन्ते । कोऽयमध्यासो नाम ? ?Rविवेकाग्रहणम् ;?R स्वरूपमात्रग्रहणात् भेदाननुसन्धानात् सामान्याध्यासः । अभिन्नस्य चार्थान्तरेण सादृश्यम् ;?R सदृशाननुसन्धानात् भेदाध्यासः;?R सदृशानवधारणं तु भेदाननुसन्धानात् । सामान्याध्यासः । अभिन्नस्य चार्थान्तरेण सादृश्यम् ;?R सदृशाननुसन्धानात् भेदाध्यासः;?R सदृशानवधारणं तु भेदाननुसन्धानात्। सेयं पञ्चविधा कल्पना । न चालम्बनव्यतिरिक्तं रूपमस्याः । अर्थान्तरानुसन्धानरूपितं तु- न चार्थान्तरम् अर्थान्तरानुसन्धितयालम्बनमित्यतः, अर्थान्तरानुसन्धानात् स्वलक्षणालम्बनमपि कल्पनेत्युच्यते । तस्मात् स्वसंवेद्यज्ञानपक्ष एवैतदेकालम्बनत्वेऽपि ज्ञानान्यत्वसंवेदनमुपपद्यते । अन्यथा ह्यालम्बनमात्रावगतिरेव स्यात्, न स्वलक्षणसामान्यवगतिः । स्वलक्षणव्यतिरिक्तं च न सामान्यमस्तीति प्रदर्शितम्- रूपान्तराग्रहणात् तदग्रहे तद्बुध्यभावात्- इति । अर्थान्तरस्यानुसन्धानाच्च । अनुसन्धानं च ज्ञानभेदे उपपद्यत इति उपपन्नः सामान्यविशेषव्यवहारो लौकिकः । एवं चानित्ये नित्यबुद्धिः, असुखे सुखबुद्धिः, अनात्मन्यात्मबुद्धिरित्युपपन्नाः संसारहेतवो विपरीतग्रहाः । तदिदमुक्तम्- “?Rप्राक् बाधकज्ञानोत्पत्तेः कथमिदमवगम्यते”?R- इति, एकालम्बनाभिप्रायेण सामान्यविशेषज्ञानयोः ।
?R?0 न ह्यन्यसंप्रयुक्ते चक्षुषि अन्यालम्बनस्य ज्ञानस्योत्पत्तिः संभवति, अन्धस्यानुत्पादात्- इत्युक्तम् । अत एवेदमुच्यते- नान्याकारमालम्बनमन्याकारस्य ज्ञानस्योत्पत्तिहेतुः- इति । कथं तर्हि विपरीतग्रहा अनात्मन्यात्मादयः ??R उच्यते- विषयान्तरं सदृशमवलम्ब्यागृहीतविवेकं यत् ज्ञानमुत्पन्नं तत् सदृशविषयान्तरे
?R?0स्मृतिज्ञानहेतुतां प्रतिपद्यते- स्मरामि- इति ज्ञानशून्यस्य । उपपन्नानि तावत् शुक्तिकादिषु रजतादिज्ञानानि । अनात्मादिषु स्वप्नादिषु च कथम् ??R स्वप्नादिषु च तावत् पूर्वोक्तेभ्यो विशेषमभिधाय निरालम्बनवादेषु पुनरविशेषं वक्ष्यति, आत्मवादे चानात्मादिषु । तस्मान्नार्थान्तरानुसन्धानाध्यासनिमित्तं जात्यादिज्ञानम् । यत्तु- रूपान्तराग्रहणात् तदग्रहे तद्बुध्यभावात् इत्युक्तम् , तदसिद्धम् ;?R अर्थान्तरानुसन्धानज्ञानस्य हि स्वलक्षणज्ञानान्यत्वमिष्टम् । तच्चाप्रत्यक्षज्ञानवादिनोऽर्थ एव प्राप्नोति । तस्मादसिद्धमिदम्रूपान्तराग्रहणात् तदग्रहे तदुबुध्यभावात्- इति । तस्मात् सूक्तम्- अन्यसंप्रयुक्ते चक्षुष्यन्यविषयं ज्ञानं न प्रत्यक्षमिति । कथं तर्हि विपर्ययः ??R अग्रहणादेव- इति वदामः अग्रहणनिमित्तता च दर्शिता भाष्यकारेण- “?Rयदि चक्षुरादिभिरुपहतं मनः” ?Rइति । कथमनेनाग्रहणनिमित्तता दर्शिता भवति ? “?Rयदन्यविषयं विज्ञानम्”- ?Rइति, अस्याः प्रतिज्ञाया हेतुत्वेनोपन्यासात् । युक्तं च दुष्टतायाः कार्याक्षमत्वम्, न पुनः कार्यान्तरसामर्थ्यम् । तस्मादग्रहणनिबन्धना एव विपर्यया इति । अतः सिद्धम्- “?Rयस्य च दुष्टं करणम्” ?Rयत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति ॥
?R?0 ननु सर्व एव निरालम्बनः निरालम्बनः स्वप्नवत् प्रत्ययः;?R कुतस्तत्संप्रयुक्तत्वमतत्संप्रयुक्तत्वं वा, येन विशेषेण प्रत्यक्षाप्रत्यक्षयोर्विशेष उपलभ्यते ? ?Rकथं पुनः सर्व एव निरालम्बनः प्रत्ययः ??R प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः स्वप्ने । ननु शुक्तिकायां रजतज्ञानम्- स्मरामि- इति प्रमोषात् स्मृतिज्ञानमुक्तम् । युक्तं रजतादिषु ;?R तत्र हि शुक्तिकायां यद्भास्वररूपं चक्षुषा परिच्छिन्नं तद्रजतस्मृतेरुद्वोधकमित्युपपद्येतापि;?R स्वप्नादिषु पुनः कस्यचिदग्रहणादर्थान्तरे स्मृत्युद्वोधपरिहारः शक्य इव प्रतिभाति । तस्माद्वासनानिबन्धनमेवेदं
?R?0ज्ञानजालमिति प्रतिपद्यामहे । सदृशदर्शनात् सदृशेऽर्थान्तरे स्मृतेरुद्वोधः;?R स्वप्ने पुनः कस्यचिदग्रहणादित्युक्तम् । तस्माद्वासनैव निमित्तमिति लघ्वी कल्पना;?R नार्थान्तराश्रयणम्, अव्याप्तेः । अतः कुड्यादिष्वपि ज्ञानं वासनानिमित्तमेव, न कुड्यार्थनिमित्तमिति स्थितिः । उच्यते- कार्यसिध्यर्थं हि कारणं कल्प्यते, न पुनः कार्यविनाशाय । स्वप्नादिषु चबहिरवभासा संवित् ;?R सा च बाह्यमर्थमन्तरेण न संभवति; ?Rयेन च विना यन्न संभवति, तत्तस्य कारणम् । तस्मादर्थ एव कारणमिति युक्तं कल्पयितुम् । निरालम्बनता तु नैव संवेद्यते प्रत्यक्षावबोधेन । तस्मादक्षजं ज्ञानम्, न वासनानिमित्तमित्युक्तम् । ननु च प्रतिबुद्धस्य- स्वप्नोपलब्धं मिथ्या- इति ज्ञानमुत्पद्यते;?R न च मिथ्याभावस्य कारणकल्पना युक्ता । ननु चाकारणस्य मिथ्याप्रत्ययस्याप्युत्पादो न घटते । सत्यम्, न त्ववगत्यनुगुणं तत् ;?R तदानुगुण्ये हि मिथ्याज्ञानतैव न स्यात् । तस्माद्व्यामोहहेतवो मिथ्याप्रत्ययाः, व्यामोहनिबन्धनाश्व सांसारिक्यो वासनाः । अतो वासनानिबन्धनमेवेदं ज्ञानजालमुदितं तत्त्वविद्भिः । ननु परिहृतमैतत्- स्मरामि- इति ज्ञानशून्यानि स्मृतिज्ञानान्येतानि । ननु स्मृतेरुद्वोधकारणासंभवान्नैतत् संभवति- इत्युक्तम् । तदसिद्धम्, स्वप्नादावपि हि चिन्तादृष्टादिसंभवात् ;?R स्वप्नेऽपि हि सुखदुःखमनुभूयते ;?R सुखदुःखहेतुश्चादृष्टम् । अतोऽदृष्टहेतुकमेव स्वप्नादिज्ञानं किञ्चिञ्चिन्तादिहेतुकमित्युपपन्नं शुक्तिकादिज्ञानतुल्यत्वं स्वप्नादिज्ञानस्य । तदिदमुक्तम्- “?Rस्तम्भः - इति जाग्रतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यति” ?Rइति । कथमनेनेदमुक्तम् ??R कथमनेनेदमुक्तम् ??R निश्चितमवच्छइन्नमित्यर्थः । कथमवच्छिन्नोऽर्थोऽनवच्छिन्नो भवति ??R कथं तर्हि प्रतिबुद्धः - मिथ्या- इति जानाति ??R उक्तम्- स्मरामि- इति स्मृतिप्रमोषात् प्रत्यक्षसंमितं तत् । प्रतिबुद्धस्याचापैति प्रत्यक्षाभिमानः ।
?R?0अमुमेवार्थं स्पष्टीकरोति- “?Rअथ प्रतीतिस्तथाभावस्य हेतुः, न शक्यते प्रत्ययादयमन्यः - इति वदितुम्” ?R। “?Rयदिप्रत्ययत्वात्” ?Rइति च । नावगतिं मिथ्येति मन्यते ; “?Rअन्यतो हि स्वप्नप्रत्ययस्य मिथ्याभावः” ?Rइति प्रमोषनिमित्ततां दर्शयति । कुतः ??R इन्द्रियदौर्बल्यदर्शनात्- “?Rनिद्राक्रान्तं मे मनः”?R- इत्यादिना । दौर्बल्यं च कार्याक्षमत्वम्, न कार्यान्तरोत्पत्तिसमर्थत्वम्- इत्युक्तम् ॥
?R?0 ननु “?Rशून्यस्तु” ?Rइति सैव निरालम्बनतोपन्यस्ता प्रत्ययस्यार्थशून्यता वदता ;?R निरस्ता च सा शुक्तिकारजतज्ञानतुल्यताभिधानेन । स एवायं निरासः पुनराक्षिप्यते । कया युक्त्या ??R संवेद्यविषयत्वात् संविदः । सा चात्मनो बुद्धेर्वा ज्ञान एव वा ;?R स एवास्या विषयो युक्तः, यत्स्था सा संवित् । एवं च स एव संवेद्य इति प्राप्नोति । तस्मात् न विषयान्तरं संवेदयितुं क्षम । शब्दस्पर्शरूपरसगन्धात्मकता विज्ञानस्यात्मनो बुद्धेर्वा प्रतिपत्तव्या । किं “?Rअर्थज्ञानयोराकारभेदं नोपलभामहे” ?Rइति ज्ञानशब्दः प्रदर्शनार्थ एवाभिप्रेतः ??R न ;?R संविदाधारे हि संवेद्ये ज्ञानमेवावशिष्यते, बुध्यात्मनोः शब्दादितुल्यत्वात् । ज्ञानाविनाभूता च संवित् सुषुप्त्यवस्थायां तस्या आत्मनि बुद्धौ चादर्शनात् । ज्ञानोपसंहृतिर्हि स्वापः । इदमालोच्योकतम् - “?Rअर्थ ज्ञानयोराकारभेदं नोपलभामहे”- ?Rइति । क्व पुनरिदं दृष्टम्- विषय एव संविदा संवेद्यते- इति ??R संवेद्यतयैव हि संवेद्यतामवगच्छामः, न विषयतया । केन वोक्तम् न संवेद्यतया संवेद्यतावगम्यते- इति ??R किन्तु संविदः प्रत्यक्षत्वात् तस्याश्च ज्ञानात्मकत्वात् शब्ददिरुपता तस्यैवेति मन्यामहे । को हि नाम द्वयोः प्रत्यक्षतां कल्पयति संविदः शब्दादेश्च ??R तस्मात् संविद्रूपमेवेदं शब्दादिजातमिति स्थितिः, न बाह्यं किञ्चनास्तीति । ननु चायथार्था संवित् प्राप्नोति ;?R शब्दाद्याकारत्वे हि संविदो ग्राह्यग्राह कसंवेदनं नोपपद्यते ।
?R?0तस्मात् कल्पना सेति कल्पनीयम् । न च सर्वलोकावगम्योऽर्थः कल्पनेति युक्तम् । न चार्थान्तरानुसन्धानाननुविद्धं क्वचित् कल्पनाशब्दाभिलपनीयं लोके दृष्टम् । तस्माद्वरमुभयोः प्रत्यक्षता, न पुनरवगतेरपलापः । संविदेव हि तदा हीयेत, कस्येयं शब्दादिरूपता ??R युक्तं यदि ग्राह्यग्राहकसंवेदनमाकारान्तरेण स्यात् ;?R न चाकारान्तरमुपलभाभहे ;?R नीलाद्यकारमेव ह्युभयं प्रतिभाति । एकाकारं चोभयप्रतिभानं किमन्यदतः प्रतिभानात् ??R तदिदमुक्तम्- “?Rअर्थज्ञानयोराकारभेदं नोपलभामहे” ?Rइति । “?Rप्रत्यक्षा च नो बुद्धिः” ?Rइत्येतदुक्तं भवति- प्रत्यक्षा च नः संवित्- इति । प्रत्यक्षश्चायं नीलाद्याकारः । अतस्तदाकारेयं संवित् उभयथा प्रतिभाति । तस्मादर्थशून्येयं संविदिति सिद्धम् । अतः - तत्संप्रयोगात् तत्संप्रत्ययः - इति प्रलापोऽयम् । किंनिमित्तं पुनरुभयथा प्रतिभानम् ? “?Rआकारभेदं नोपलभामहे” ?R- इति प्रत्युक्तम् । प्रतिभानकारणं तु प्रतिभानादेवास्तीत्यवगन्तव्यम् । सा चेयं वासनानादिकालीना- इत्युक्तं शून्यवादिभिः ।
?R?0 उच्यते- उभयप्रतिभानं नीलपीतावसिद्धम् ;?R ग्राह्यतयैव तत् प्रतिभाति;?R न ग्राहकतया । किन्तु ग्राहकं- ग्राहकमित्येव मनुते, न- नीलम्, पीतम्- इति वा । तदिदमुक्तम्- “?Rस हि बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यते” ?Rइति । “?Rअर्थविषया हि प्रत्यक्षा बुद्धिः, न बुद्धिविषया” ?Rइति- ग्राह्यतयैव रूपप्रतिभानं दर्शयति, ग्राहकप्रतिभानं तु न रूपविषयम् । किं तर्हि ??R ज्ञानविषयम् । ननु च रूपान्तरमेव नोपलभ्यत इत्युक्तम् ;?R कथमत्र विषयान्तरोपन्यासः ??R न हि ;?R प्रत्यक्षवादिनो ह्ययं दोषः;?R आनुमानिकज्ञानवादिनस्तु नायं पर्यनुयोगः । नाप्यनुमानाद्रूपग्रहणम् ;?R सन्मात्रग्राह्यनुमानं भवति । ननु च संवित् प्रत्यक्षेत्युक्तम् । अन्या च संवित्,
?R?0अन्यत्संवेद्यम् ;?R द्वयोरपि प्रत्यक्षत्वे रूपद्वयो पलब्ध्या भवितव्यम् । न चासावस्ति । तस्मात् स एव संविद्विषयापलापो न्याय्यतां प्रतिपद्यते । अविवेकोऽयमायुष्मतः ;?R न हि फले रूपान्तरतेष्यते ;?R रूपान्तरसंवित्तौ हि फलद्वयापत्तिः ;?R एकसंवेद्यविषयैव ह्येका संवित् ;?R न सा वेद्यद्वयविषया । किमसंवेद्यैव संवित् ??R न ब्रूमः - न संवेद्या संवित्- इति ;?R संवित्तयैव हि संवित् संवेद्या, न संवेद्यतया । केयं वाचोयुक्तिः- संवेद्या, न संवेद्या- इति ??R इयमियं वाचोयुक्तिः- नास्याः कर्मभावो विद्यते- इति । कर्म च संवेद्याभिधेयम्, न संवित् । तस्मान्न पृथक् संवेद्यतया ग्रहीतुं शक्यते । न चासंवेद्यैव संवित्, तन्मूलत्वात् सर्वभावानां संवेद्यभावस्य । किं तर्ह्यत्रानुमानिकम् ??R फलमेव हि प्रमाणमिति प्रमाणविदो मन्यन्ते । किमिति मन्यन्ते ??R न पुनः- फलमेव- इति स्थिताः । कोऽभिप्रायः ??R एवं हि लौकिको व्यवहारः । किमिदम्- लौकिको व्यवहारः - इति ? ?Rइदमिदम्- आकारद्वयं लौकिकाः प्रतिपद्यन्त इत्यर्थः । सिद्धं तर्ह्यर्थद्वयम्, विज्ञानस्यासंवेद्यत्वात् अर्थस्य च संवेद्यत्वात् । किमसंवेद्यमेव विज्ञानम् ??R बाढमसंवेद्यम्, न त्वप्रमेयम् । कऋ पुनः प्रमेयसंवेद्ययोर्विशेषः ??R यत्र हि विषयस्य स्वरूपं परिच्छिद्यते, तत् संवेद्यमित्यच्यते । अतः स्वसंवेदनं प्रत्यक्षमिति प्रमाणविदः । असंवेदनं च प्रमितिज्ञाने, आकारान्तराग्रहणात् । तस्मात् ज्ञानं प्रत्यक्षमित्यत्युक्तम् । क्षणिकत्वाच्चास्य प्रत्यक्षता न संभवति, प्रमाणफलयोरसाम्प्रतत्वात् । तदिदमाह- “?Rक्षणिका हि सा, न बुध्यन्तरकालमवस्थास्यते” ?Rइति । अथायमभिप्रायः - स्वयं प्रमाणरूपत्वान्न प्रमाणान्तरमपेक्षते ज्ञानम्- इति । तदुक्तम् “?Rउत्पद्यमानैवासौ ज्ञायते, ज्ञापयति चार्थान्तरं प्रतीपवदिति यद्युच्येत” ?Rइति । सत्यं प्रमाणं प्रमाणान्तरं नापेक्षते प्रमितौ । न च वयं प्रमाणतयैव विजानीमः, तद्धेतुत्वाद्विज्ञानस्य ।
?R?0न च तदवस्थं ज्ञानं ज्ञेयतया ज्ञानान्तरस्यापि वदामः ;?R किन्तु तदवस्था तावदस्तीत्यनुमानस्य विषयः ;?R न ह्यसत्यामवस्थायामवस्थावतोऽस्तित्वं शक्यते ज्ञातुम् । तदिदमुक्तम्- “?Rन ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते ;?R ज्ञाते त्वनुमानादवगच्छति ;?R तत्र यौग पद्यमनुपपन्नम्” ?Rइति । ननु च- ज्ञातम्- इति प्रमेयमनुस्मरन्ति प्रमाणविदः । सत्यं ज्ञातं स्मरन्ति, न तु- ज्ञानम्0 इथि । तदुक्तम्-"?Rसत्यं पूर्वं बुद्धिरुत्पद्यते, न तु पूर्वं ज्ञायते" ?Rइति । ननु चेदं लोकविरुद्धम् ;-?R ज्ञातो ह्यः - इति स्मरणं व्यपदिशन्ति, न पुनः- घटो ह्यः- इति । सत्यं विरुद्धम्, यदि सर्वदैवायं व्यपदेशः स्यात् ; “?Rभवति हि कदाचिदेतत् यज्ज्ञातोऽर्थः सन्- अज्ञातः-इत्युच्यते” ?R। यत्र हि- ज्ञातः- इति स्मृतिः, सा प्रमाणद्वयव्यापारजा । तस्मात् विवेकशून्यमिदं वचः - “?Rस्मृतेरुत्तरकालं च” ?R- ?Rकिञ्च उभयोः प्रत्यक्षत्वेऽर्थेन ज्ञानस्य व्यपदेशो नोपपद्यते रूपस्पर्शयोरिव । न चार्थव्यपदेशमन्तरेण बुद्धेरूपोपलम्भनम् । तस्मान्न बुद्धिविषयं प्रत्यक्षम् ;?R अर्थविषयं हि तत् । अतः सिद्धमानुमानिकत्वं बुद्धेः फलतः । यश्चासावविवेकः फलप्रमेययोः प्रमाणान्तराभावात्, स तद्विषयो युक्तः । अतः प्रमाणापलाप एव न्याय्यः, न प्रमेयापलापः । अतः “?Rकाममेकरूपत्वे बुद्धेरेवाभावः, न त्वर्थस्य प्रत्यक्षस्य सतः । न चैकरूप्यम् ;?R निराकारामेव हि बुद्धिमनुमिमीमहे, साकारं चार्थं प्रत्यक्षमवगच्छामः । तस्मादर्थालम्बनः प्रत्ययः । “?R किं पुनः कारणं तुल्ये फलापलापे प्रमाणस्यैवापलापः, न त्वर्थस्य प्रमेयस्य, उभयोः फलयत्तत्वात् ??R मैवम् ;?R उत्पत्तौ ह्युभयोः फलायत्तता, न पुनः प्रमितौ । कस्योत्पत्तौ ??R ज्ञापके हि फले प्रमेयमेव हि ज्ञेयम्, नोत्पाद्यम् ;?R प्रमाणायत्ता च प्रमितिरिति उत्पत्तावित्यसम्बद्धम् । प्रमितौ क्रियाकारकत्वमङ्गीकृत्योत्पत्तिरुक्ता, न चावगम्यमानताम् ;?R ज्ञाने त्ववगम्यमानतापि फलायत्तैवेति युक्तम् । किञ्च
?R?0ज्ञानमात्रवादे हि ज्ञानवासनयोरेव जन्यजनकभावः, न ज्ञानस्य ज्ञानान्तरेण ;?R अतस्तन्तुज्ञानोत्पादेऽपि फटज्ञानोत्पादो नोपपद्यते । “?Rदृष्टश्च नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः । इतरथा अतन्तूपादानेऽपि कदाचित् पटबुद्धइरविकलेन्द्रियस्य स्यात्” ?R। तस्मान्न वासनानिबन्धनमेवेदं ज्ञानजालम् । किं तर्हि ??R अर्थनिबन्धनमिति स्थितम् । अत उपपन्नं प्रमाणलक्षणाभिधानम् ॥
?R?0 “?Rअनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः” ?Rइति । ज्ञातसम्बन्धस्य- इत्युच्यते, कस्य ज्ञातसम्बन्धस्य ??R नन्वेकदेशस्य । नैतदुपपद्यते, दर्शनोपसर्जनत्वादेकदेशस्य ;?R न ह्युपसर्जनं पदं पदान्तरेण सम्बद्ध्यते राजपुरुषवत् । पुरुषसमुदाययोरनुपादानादेवासम्बन्धः । तस्मान्न विद्मः - कस्य ज्ञातसम्बन्धस्य- इति । उच्यते- सम्बन्धापरिजाननिबन्धनोऽयं व्यामोहः । कः पुनरसौ सम्बन्धः ??R अयमसौ सम्बन्धः - अनुमानमेकदेशदर्शनादेकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः । कस्यैकदेशस्य दर्शनात् ??R ज्ञातसम्बन्धस्य । नन्वस्मिन्नपि सम्बन्धे एकदेशस्योपसर्जनता तदवस्थैव । उपसर्जनमिति नायं सम्बन्धहेतुः ;?R तथा अनुपसर्जनमित्यपि । आकाङ्क्षितं पूरणसमर्थं च सम्बन्धितामापद्यते । अत्र च- एकदेशदर्शनात् इत्युक्ते ;?R कस्यैकदेशस्य- इत्याकाङ्क्षा, दर्शनस्य दृश्यप्रधानत्वात् तज्जन्यत्वाच्चार्थान्तरबुद्धेः । अत एव च- अत्रोत्तरपदप्रधानता, अत्र पूर्वपदप्रधानता- इति क्वचित् क्वचित् स्थापितम् । तस्मात् प्रयोगसध्यर्थैवेयमुपसर्जनसंज्ञा ;?R अर्थसम्बन्धे हि यस्मादर्थाकाङ्क्षैव हेतुः, नोपसर्जनता अनुपसर्जनता वा;?R कस्य गुरुकुलम् ??R - इत्येवमादिषु दर्शनात् । उच्यते- व्याय्यं हि दृष्टं व्यापकं गमयति ;?R ज्ञातसम्बन्धस्य- इति च न व्याय्य एषा षष्ठी ;?R सम्बन्धिमात्रवचनाद्धि प्रातिपदिकात् षष्ठीं स्मरन्ति ।
?R?0उच्यते- सत्यं सम्बन्धिनि षष्ठी ; ?Rव्याप्य एव तु सम्बन्धी भवति । अव्याप्येऽपि हि वस्तुनि व्याय्यविवक्षायामेव यथा षष्ठी, तथा तत्र तत्र षष्ठ्यर्थं व्याख्यास्यामः । तथा च लौकिकाः - ममायम्, अयं पुनरन्यस्यापि- इति व्यपदिशन्ति ।
?R?0 “?Rतत्तु द्विविधम्” ?Rइति । किमिदं द्वैविध्यम् ??R लक्षणद्वैविध्यं तावन्नास्ति,- एकदेशदर्शनात्- इत्येकत्वाल्लक्षणस्य । अथ प्रमेयद्वैविध्यमङ्गीकृत्यैतदुच्यते- एकत्र विशेषाद्विशेषोऽवगम्यते, अन्यत्र सामान्यात्सामान्यावगतिः- इति ;?R एवं च हेतुमद्भेदाद्धेतोरपि भेद उक्तो भवति । किं पुनरनयोर्भेदकथनेन प्रयोजनम् ??R लक्षणाभिधानेन चाव्यभिचारितोक्ता भवति ;?R तदर्थश्चायं प्रयासः;?R हेतुहेतुमतोर्द्वैविध्यं भवतु वा मा वा ।
?R?0 अत्र केचिन्नीतिज्ञंमन्याः अनवधृतस्वलक्षणमेव किञ्चिदनुमानेन सामान्यतो न गृह्यत इति मन्यन्ते;?R तद्भ्रमापनोदनायैतदुक्तम्- “?Rतत्तु द्विविधम्” ?Rइति । अदृश्टस्वलक्षणविषयमनुमानमस्ति क्रियादिषु । कथं पुनरदृष्टस्वलक्षणे सम्बन्धिदर्शनम् ??R उत्पत्तिमतः फलस्य दर्शनात्- इत्युक्तमुपपादितमधस्तादस्माभिः शून्यवादे । अतः सामान्यमात्रपर्यवसाय्यनुमानमस्ति । दर्शितं च- “?Rदेवदत्तस्य गतिपूर्विकाम्”?R- इति । कः पुनरनुमाने व्यभिचारः यथा प्रत्यक्षे शुक्तिकादिषु ??R नन्विदानीमेव द्विविधशब्देन प्रदर्शितम् । नन्वनानुमानिके ह्यानुमानिकत्वं निरसनीयम्, न पुनरनुमानस्योद्धारो वक्तव्यः । कश्चात्र विशेषः ??R येऽपि ह्यानुमानिकमनानुमानिकमिच्छन्ति, तेऽप्यनुमानं व्यभिचारयन्त्येव । तस्मादत्रापि व्यभिचारनिवृत्तिरेव लक्षणाभिधानस्य प्रयोजनम् । किञ्च प्रमेयेऽपि सङ्करः - न महानसादिषु दृष्टो धूमः पर्वतस्थमग्निं प्रतिपादयितुं क्षम इति केचित् ;?R विशेषा एवावगम्यन्त इत्यपरे ;?R स्मृतिमात्रमेवेत्यन्ते ।
?R?0तस्मात्- ज्ञातसम्बन्धस्यैकदेशदर्शनात्, यत् एकदेशान्तरे ज्ञानमसन्निकृष्टे- इति विशिनष्टि । किमनेन निराकृतम् ??R स्मरणं तावन्निरस्तम्, असन्निकृष्टे- इति वचनात् । अप्रतिपत्तिरपि निरस्तैव, बुद्ध्युत्पादवचनात् । सम्बन्धावगमात्- इति विशेवावगतिरपि निरस्तैव । ननु न बुद्ध्युत्पादमात्रात्प्रमाणता शक्यते वक्तुम्, शुक्तिकादिषु व्यभिचारात् । असम्बन्धस्य तु दर्शनं सम्बन्धभिधानादेव प्रत्युक्तम् । सम्बन्धावगमे च पूर्वानुभवो दुर्निवारः । अहो !?R अनुभवाविवेकिनो महान् प्रमादः । किं पूर्वदृष्टस्यानुभवो न संभवति ? ?Rअनुभूतिश्च नः प्रमाणम् । अन्या च स्मृतिरन्योऽनुभवः । सत्यं सम्बन्धस्य दर्शनात्स्मृतिः ;?R सम्बन्ध्यन्तरे त्वनुभव एव । ततश्चासन्नं पुनःपुनर्दृश्यमानम्- दृश्यत एव- इति तार्किकाः व्यपदिशन्ति, न-स्मर्यते-इति । सिद्धं चानुमानादिषु प्रमाणत्वमनुभूतेः । किं तर्हि- “?Rअसन्निकृष्टे”?R- इति ??R स्मरणाभिमानशून्ये इत्यर्थः । सन्निकृष्टावमर्शे हि स्मरणमेव मन्यन्ते । ननु स्मृतिप्रमोषतुल्यतैव प्राप्नोति ??R न, कारणान्तरस्य विद्यमानत्वाल्लिङ्गादेः ;?R न ह्यत्र पूर्वानुभूतिरेव कारणम् । तत्र हि प्रमोषः स्मृतिविपर्यये हेतुः ;?R इह तु लिङ्गादि प्रत्युत्पन्नं कारणमस्तीति सिद्धं प्रमाण्यम् । तस्मादत्रापि यत्प्रमाणम्, न तद्व्ययभिचरति- इति वक्तव्यम्, उक्तं च । इदमुपमानादिष्वपि योज्यम् ॥
?R?0 “?Rशास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानाम् ।” ?Rकिमिदं शब्दविज्ञानादिति ??R किं शब्दाद्विज्ञानम् शब्दविज्ञानम्, शब्दे एव वा विज्ञानम् शब्दविज्ञानम् ??R यदि तावच्छब्दे विज्ञानम् शब्दालम्बनमित्यर्थः, तदयुक्तम् ;?R न तस्माच्छासनमवगम्यते ;?R शासनाद्धि शास्त्रम् । अथ शब्दाद्यदर्थे विज्ञानमुत्पद्यते, तच्छब्दविज्ञानम् ;?R तत्र विशेषावगतौ कारणं वक्तव्यम् । उक्तं च- “?Rशास्त्रम्” ?Rइति । शास्त्रं हि शासनात् ;?R तच्चार्थविषये एव विज्ञाने
?R?0उपपद्यते, न शब्दविषये । द्वितीयेऽपि पक्षे तन्निमित्ततयोपपत्तेः सिद्धं शास्त्रग्रहणात् । ननु च शब्दाभासमपि दृष्टम्- “?Rएष वन्ध्यासुतो याति”?R - इत्येवमादि ;?R तदपि शब्दादेवावगम्यते ;?R न हि बाष्पादितुल्यं किञ्चित्कारणान्तरमत्रोपलभामहे । परिहृतमेतत् “?Rतच्चेत् प्रत्ययितात्” ?Rइति । लक्षणाभिधानेन चायमेव व्यभिचारो निरस्तः ॥
?R?0 “?Rउपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति ;?R यथा गवयदर्शनं गोस्मरणस्य” ?Rइति । सादृश्यम्- इति हि सादृश्यम् । गोस्मरणस्येति, अनुभूतगोः पुरुषस्येत्यर्थः । ननु च ज्ञातसम्बन्धिता तुल्या, सा चात्र लक्षणम् ;?R तत्र वान्यत्र वेति ग्वेदमुपयुज्यते ??R बाढमुपयुज्यते ; “?Rएकदेशदर्शनात्” ?Rइति हि तत्र लक्षणम् । “?Rज्ञातसम्बन्धस्य” ?Rइति विशेषणम् । अतो न गवयस्थं सादृश्यं सदृशावगतेरेकदेशः । किञ्च असकृद्दृष्टसम्बन्धो ह्यनुमानस्य हेतुः, असजातीय व्यावृत्तिसव्यपेक्षश्च ;?R द्वयमत्र नास्तीति प्रमाणान्तरम् । किं पुनरत्र व्यभिचारदर्शनम्, यन्निवृत्यर्थमिदं लक्षणम् ??R किमन्यदतः सदृशाभासात् ? ?Rअत्र सामान्यमेव कैश्चित् सादृश्यमुक्तम् ;?R न तत्सादृश्यम् । किं तर्हि ??R तदेव तत्, गोत्वादेरेकत्वात् । ननु चात्र प्रमेयमेव नास्तीति केचिन्मन्यन्ते । तदयुक्तम् ;?R अनुभूतमपि कारणान्तरावगम्यं प्रमेयमेवेत्युक्तम् ॥
?R?0 “?Rअर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थः अन्यथा नोपपद्यते इत्यर्थकल्पना- यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना” ?R- इति । केयमन्यथानुपपत्तिर्नाम ??R यदि तावत् - अस्यानेन विना सद्भावो नोपपद्यते- इति । तदेवं कार्यतः कारणानुमानमुपन्यस्तम् , न प्रमाणान्तरम् । अथेदमुच्यते- ज्ञातसम्बन्धस्येत्यनुमानलक्षणम्, अज्ञातश्चात्र सम्बन्धः ;?R तस्मात् प्रमाणान्तरम्- इति, तदयुक्तम् ;?R कथमज्ञातसम्बन्धः
?R?0शक्यतेऽवगन्तुम्- अयमनेन विना नोपपद्यते- इति ;?R न ह्यन्तथानुपपत्तिः प्रत्यक्षसमधिगम्या । कार्याव्यभिचारसमधिगम्या हि सा ;?R अव्यभिचारश्चासकृद्दर्शनपूर्वकः । तस्मात् दृष्टमदृष्टं वा ज्ञातसम्बन्धमेवावगम्यतेऽन्यथानुपपत्त्या । अतः प्रमाणान्तरं मृगतृष्णिकैवेति । सत्यम् ;?R यदि यद्येन विना नोपपद्यते तदेवावगमकं स्यात् ; ?Rइह तु यन्नोपपद्यते, तदेवावगम्यते । किं चात्र नोपपद्यते ??R जीवतो गृहाभावदर्शनात् अन्यत्राभावो नोपपद्यते । ततः किम् ??R नात्राभावस्य गम्यता । कस्य तर्हि ??R भावस्य ;?R न चासौ गृहाभावदर्शनेनोपपद्यते । बाढं नोपपद्यते ;?R न हि गृहाभावदर्शनेन विना बहिः भाव उपपद्यते ।
?R?0 ननु “?Rदृष्टः श्रुतो वाऽर्थः अन्यथा नोपपद्यते” ?Rइति गमकस्यान्यथानुपपद्यमानतां दर्शयति । अग्रन्थज्ञो देवानां प्रियः - “?Rदृष्टः श्रुतो वार्थोऽर्थकल्पना” ?Rइति किमिदमर्थकल्पनेति ??R दृष्टः श्रुतो वार्थोऽर्थान्तरस्य प्रमाममित्यर्थः । “?Rअन्यथा नोपपद्यते” ?Rइति केन सम्बध्यते ??R प्रमित्येति वदामः ;?R अन्यथानुपपद्यमानतामापादयन् अर्थान्तरं गमयति । किमत्र ज्ञातसम्बन्धिता नैवापेक्ष्यते ??R अपेक्ष्यते हि सम्बन्धमात्रज्ञानम्, न तु सम्बन्धिता ;?R अनुमाने तु- “?Rज्ञातसम्बन्धस्य” ?Rइति षष्ठ्या सम्बन्धितैवावगमिकेत्युक्तम् ।
?R?0 “?Rदृष्टः श्रुतो वा” ?Rइति दर्शनश्रवणोपन्यासः किं कारणान्तरव्युदासाय ??R नेति वदामः, उपलब्धोऽर्थः - इत्यर्थः । श्रुतग्रहणमिदानीं किमर्थम् ? “?Rदृष्टः” ?Rइत्येव वक्तव्यम् । उच्यते- अभिधानान्तरमेवेदम्- “?Rदृष्टः श्रुतो वा” ?Rइत्युपलब्धेर्वाचकम् ॥
?R?0 “?Rअभावोऽपि प्रमाणाभावः ‘?Rनास्ति’ ?Rइत्यस्यार्थस्यासन्निकृष्टस्य ।"?R अभावोऽपि प्रमाणाभावः - इति किं प्रमाणलक्षणमिदम् ??R ओम्- इत्युच्यते
?R?0। किमनेन प्रमीयते ??R उक्तम्- नास्ति- इत्ययमर्थः । किं च तन्नास्ति ??R प्रमीयमाणस्य प्रमेयता ;?R अतश्चाप्रमितेः प्रमाणतेत्यलौकिकमिव प्रतिभाति । लक्षणमपि- “?Rप्रमाणाभावः” ?R- इति प्रमाणं न भवतीत्येव लक्षयति । अस्ति चेयं प्रसिद्धिर्मीमांसकानाम्- षष्ठं किलेदं प्रमाणम्- इति । न चास्य ग्रन्थतो लोकतश्च प्रमाणतावसीयते । अतो न विद्मः प्रसिद्धेः किं बीजमिति । किमत्र न ज्ञायते ??R ग्रन्थतस्तावत् प्रमाणाभाव एवावसीयते । ‘?Rनास्ति’ ?Rइत्युप्युक्ते प्रमेयस्याभावं लौकिकाः प्रतिपद्यन्ते । किं तर्ह्यनेन लक्षितेन लक्षितेन ??R प्रमाणावगत्यर्थोऽयमारम्भः, तदनुसारी ह्यर्थनिश्चयः कथं स्यादिति । अत एवेदमुच्यते, यस्मात् प्रमाणावगत्यर्थोऽयमारम्भः । किमनेन पूर्वोक्तानां प्रमाणानां स्वरूपमवसीयते ??R यत्पूर्वोक्तैरेव स्वलक्षणैर्नावसीयते । सर्वस्वलक्षणाभिधानवाक्यशेषोऽयं ग्रन्थः ;?R न ह्युत्पादमात्राज्ज्ञानस्यार्थे तस्मिन् प्रमाणस्य प्रमाणतावसीयते । अतः स्वलक्षणमात्राभिधानात् निश्चयस्वरूपेण प्रमाणभावस्य समधिगम्यमानत्वात् सर्वप्रमाणानाम्, तस्मात् कार्यप्रत्यस्तमयात् ‘?Rनास्ति’ ?Rइति, अनेन पूर्वोक्तस्यैव लक्षणस्य साधुतोच्यते । केयं तर्हि प्रसिद्धिः ? ?Rप्रसिद्धिर्वटयक्षप्रसिद्धिवत् । यदि पुनर्व्यवहारान्यत्वात् कारणान्यत्वं मन्यन्ते किं कुर्मः ??R न हि व्यवहारान्यत्वात् प्रमाणान्यत्वसिद्धिः । अतः तल्लक्षणमेवेदम् । इदमेव च तल्लक्षणम् । तस्मात् प्रसिद्धत्वादपरीक्ष्यं निमित्तम् ॥
?R?0 “?Rननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम् । कुतः ??R अनिमित्तम्, विद्यमानोपम्भवत्वात् । अनिमित्तम् अप्रमाणं शब्दः ;?R यो ह्युपलम्भनविषयो नोपलभ्यते, स नास्ति यथा शशस्य विषाणम् । उपलम्भनानि चेन्द्रियाणि पश्वादीनाम् । न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते । अतो नेष्टिः पशुफला ।” ?Rप्रत्यक्षादीन्यन्यानि भवन्तु प्रमाणानि,
?R?0शब्दस्तु न प्रमाणम्- इति कोऽभिप्रायः ??R अयमभिप्रायः - यदुक्तम् अनपेक्षत्वादिति प्रमाणान्तरावगम्यमर्थमवगमयति इति, एतावन्मूषा । कुतः ? “?Rभविष्यंश्चैषोऽर्थः” ?Rइति भाव्यतया प्रामाण्यमुक्तम्, तदत्र न संभवति । कथं पुनरसम्भवः ??R किमनियोगकं वाक्यमस्तीति ??R किमत्र नियोगः करिष्यति ??R प्रमाणान्तरावगम्येऽपि तस्य तर्शनात् स्मृत्यादौ । तस्माद्विनियोगावगम्यमेवार्थमालोच्य नियोगस्य विषयो वक्तव्यः । स चायं विनियोगो विद्यमानोपलम्भनविषय एवोपलभ्यते- “?Rचित्रया यजेत पशुकामः” ?Rइत्यादौ । कात्र विद्यमानोपलम्भनता ??R क्रियानन्तरफलभाविता । दृष्टार्थत्वाच्च वृष्ट्यादेः अनन्तरफलभावितया प्रमाणान्तरावगम्यतैव वस्तुतो वक्तुं शक्यते । संभवति च प्रमाणान्तरविषत्वे को हि नामदृष्टं लोके स्वातन्त्र्यं शब्दस्य कल्पयितुं क्षमः ??R तस्मान्नियोगः प्रैषाद्यर्थ एव इति प्रतिपत्तव्यम् । तदितदिदम् “?Rकुतः” ?Rइत्येतस्य प्रश्नस्य “?Rविद्यमानोपलम्भनत्वात्” ?Rइत्युत्तरम् । नन्वेवं ग्रन्थे व्याख्यायमाने “?Rपशवो नोपलभ्यन्ते” ?Rइत्यादिरनर्थको ग्रन्थः । उपलभ्यन्तां मा वा पशवः ;?R सर्वथा प्रमाणान्तरसापेक्षं शाब्दमित्येतावदत्र साध्यम् । सत्यमेतावत् साध्यम् ;?R केन चोक्तमन्यत् साध्यमिति ??R अनुपलब्ध्युपन्यासो न घटते इत्युक्तम् । न न घटते, घटत एव ;?R प्रमाणान्तरपरीक्षया प्रामाण्यं वक्तव्यम्, न स्वतः - इत्येवंपरो ग्रन्थः । तच्चात्र प्रमाणान्तरं दृष्टम् । कथं पुनरत्र दृष्टावगतिः ??R क्रियानन्तरभावित्वात्फलस्य । कथं तर्हि कृष्यादेः ??R किं कृष्यादेर्नानन्तरं फलमुपलभ्यते ??R किं क्रियाफलं नावगम्यते, उत प्रयोजनफलम् ??R पाटनं तावत् भूम्यवयवानां क्रियाफलमवगम्यते, व्रीह्युत्पत्तिस्तु प्रयोजनफलम् । न च प्रयोजनानवगमाददृष्टतोच्यते । अत्र च प्रयोजनं फलं च पशव एवावगम्यन्ते, फलान्तरानवगमात् । यच्च किञ्चित् हविर्विकाराद्यवगम्यते, न
?R?0तत्पाटनादिवत् व्रीह्याद्युत्पत्तेः पशुकारणतया शक्यते वक्तुम्, अदर्शनात् । तस्मात् प्रमाणान्तरपरीक्षैवात्र धर्मजिज्ञासुभिः कर्तव्या, न रुनरध्ययनाध्दर्मावगतिः । कथं पुनः स्वर्गकामादिषु विद्यमानोपलभ्भनता ??R नियोगस्य तावन्नियोगत्वं पश्वादावपहृतम् ;?R एकश्चायं नियोगोऽनुबन्धभेदाद्भिद्यत इति स्थितिः । तस्मात् सर्वत्र सापेक्ष इत्युक्तं भवति । अतो यत्र प्रमाणान्तरमस्ति, भवतु तत्र तथात्वम् ;?R यत्र नास्ति, तत्र मा भूत् । तस्मात् सुष्ठूक्तम्- “?Rशब्दस्तु न प्रमाणम्”?R- इति । “?Rदृष्टविरुद्धं च किञ्चिद्वैदिकं वचनं पात्रचयनं विधाय आह- “?Rस एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याति” ?Rइति प्रत्यक्षं शरीरं व्यपदिशति । न च तत् स्वर्गं लोकं याति ;?R प्रत्यक्षं हि तद्दह्यते । न च ‘?Rएष याति’ ?Rइति विधिशब्दः एवंजातीयकं । च प्रमाणविरुद्धं वचनमप्रमाणम् ।” ?R कथं पुनरिदं प्रमाणविरुद्धम् ??R अर्थवादोऽयम् ;?R अर्थवादेषु च सर्वे प्रमाणविरोधा गुणवादेन व्याख्याताः । अथायमभिप्रायः - नाद्याप्यर्थवादा व्याख्यायन्ते- इति, बालिशभाषितमेतत् ;?R न ह्युक्तस्योच्यमानस्य वा स्थइतस्याक्षेपो युक्तः । अन्यत्र विशेषाभिधानात् । उक्तोच्यमानताविशेषे हि विवक्ष्यमाणे सर्वमनवस्थितं स्यात् । तस्मात् स्थितत्वात् स्थितत्वमेव वक्तव्यावक्तव्योः कारणम् । किञ्च, अत्रोपन्यस्तस्य परिहृतस्य तत्र पुनरुपन्यासो न घटते । उच्यते- स्थइत एवार्थवादानां गुणवादेन व्याख्याने इदं वचनमाक्षिप्यते- अत्र हि तदुक्तो न भवति ;?R गुणवादो हि प्रमाणान्तर प्रतिपत्तिबलेनोपजायते । अत्र च प्रमाणान्तरप्रतिपत्तिः शरीरे एव, न शरीरव्यतिरिक्तं किञ्चिदुपलभामहे ;?R तच्च ‘?Rएषः’ ?Rइति व्यपदिष्टम् ‘?Rयाति’ ?Rइत्यनेन विरुद्धम्, दह्यमानत्वाच्छरीरस्य । तस्माद्विधितोऽर्थवादतश्चायथार्थतैवावसीयते । किञ्च, विधौ हि सति नियोगतोऽपि तावत् स्वातन्त्र्यशङ्का जायते ;?R अर्थवादे सापि नास्ति इति
?R?0प्रकटयति- “?Rन च ‘?Rएष याति’ ?Rइति विधिशब्दः” ?Rइति । उच्यते- न प्रमाणान्तरापेक्षः शब्दस्यार्थेन सम्बन्धः कस्तर्हि ??R औत्पत्तिकः । ननु च लोके प्रमाणान्तरापेक्षितैव सर्वस्य वचसो दृष्टा ??R सत्यं व्यवहारे, न त्वभिधाने । यथा च लोकेऽप्यौत्पत्तिकमभिधानम् , तथा सम्बन्धपरिहारे वक्ष्यामः । ननु सर्व एवायं विवृतः पुनरिहानूदितः । सत्यम् ;?R विशेषाभिधानाय ॥ कः पुनरत्र विशेषोऽभिधीयते ??R ननु च सम्बन्ध एव नास्ति- इति पूर्वोक्तमाक्षिप्य पुनः समाधिः । ननु च वाक्यार्थोऽयमाक्षिप्तः - “?Rविद्यमानोपलम्भनत्वात्”?R- इति ;?R पदविषयमौत्पत्तिकत्वं मन्यन्ते मीमांसकाः । किमनयानुपासितगुरुकथया विकल्पितया ??R यस्माद्धि यः प्रतीयते, स तस्यार्थः ;?R न च केवलात्पदात् वृद्धव्यवहारे कस्यचिदर्थस्यावगतिर्दृष्टा ;?R अनवगम्यमानस्य चार्थस्य केनचित्सम्बन्ध इति दुर्वचं वचः । कथं तर्हि प्रसिद्धिरियम् ??R अनुपासितगुरुत्वादित्युक्तम् । तस्मादौत्पत्तिको वाक्यवाक्यार्थयोः सम्बन्धः ॥
?R?0 स्यादेतदेवम् ;?R नैव शब्दस्यार्थेनास्ति सम्बन्धः ;?R कुतोऽस्य पौरुषेयता अपौरुषेयता वा- इति ??R कथम् ??R स्याच्चेनर्थेन सम्बन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम् । संश्लेषसम्बन्धमभिप्रेत्योच्यते भवता- कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयियौनादयः सम्बन्धाः शब्दस्यार्थेनानुपपन्ना एवेति स्यादेतत्- इति यदि नित्यः सम्बन्धः स्यादित्यर्थः । इदं किमिति न स्यात्- “?Rतस्माच्चोदनालक्षणोऽर्थो धर्मः”?R- इति ? “?Rस्याच्चेदर्थेन सम्बन्धः” ?Rइति । अस्याभावे हेतुं क्षुरमोमोदकशब्दोच्चारणग्रन्थेन ब्रुवन् सम्बन्धस्याभ्युपगमं दर्शयति- “?Rसंश्लेषसम्बन्धमभिप्रेत्य” ?Rइति । केनायमभ्युपगतः सम्बन्धः, येन निराकरणीयतया उपन्यस्यते ??R ननु च
?R?0शब्दस्वातन्त्र्यवादिभिः - शब्दादर्थोऽवगम्यते- इत्ययमेवाभ्युपगतः सम्बन्धः ;?R अनभ्युपगतस्य निराकरणमन्धपदम् । इदमेवात्र निराक्रियते- यदुत शब्दादर्थोऽवगम्यते इति । कथं पुनः संश्लेषसम्बन्धनिराकरणेनेदं निराकृतं भवति ??R भवति ;?R शब्दादर्थज्ञानं हि कार्यं केनचित्कारणेन ;?R शब्दादर्थज्ञानं च न च शब्दादेवेति शक्यते वक्तुं चक्षुरादीनामिव, प्रथमश्रवणादप्रतीतेः । एवं तर्हि धूमादीनामग्न्याद्यर्थावगताविव न स्वरूपमेव कारणम् । किं तर्हि ??R सहावस्थानादिलक्षणः सम्बन्धः । स चायं शब्दे न कश्चिदुपलभ्यते प्रागर्थआवगमात् । तस्मात् सम्बन्धान्तरनिराकरणेन वाच्यवाचकता निराकृता भवति । यद्येवं सर्व एव निराकरणीयाः ;?R किमिदमुच्यते- यौनादयो न संभवन्तीति संश्लेषस्यैव सहेतुकं निराकरणम् ??R अथायमभिप्रायः - यौनादयो नोपलभ्यन्त- इति ;?R संश्लेषो वा किमुपलभ्यते ??R तथा च- “?Rक्षुरमोदकशब्दोच्चारणे” ?Rइत्यनुपलब्धिरेवोपन्यस्ता । तस्मान्न विद्मः - केन विशेषेणेदं निराकरणीयतयोपन्यस्तमिति । अथायमभिप्रायः - संश्लिष्टस्यैवार्थस्य गम्यत्वं गमकत्वं चेति, तदयुक्तम् ;?R कार्यकारणयोरसंश्लिष्टयोरपि गम्यगमकत्वदर्शनात् । कार्यकारणमपि तन्त्वादि संश्लिष्टमिति चेत्, नैतन्निमित्ते संभवति ;?R तदपि हि कारणमेव गम्यं च । तस्मादिदमन्धपदमिति प्रतिभाति । उच्यते- अत्र ह्यौत्पत्तिकवादिनः केचित्- स्वरूपमेवाध्यस्य शब्दोऽर्थं प्रत्याययति- इति प्रतिपन्नाः ;?R युक्तिश्चोक्ता- स्वमेव रूपं शब्दस्य, येयमर्थपरिणतिः - इति । अतस्तन्निराकरणम् । तस्मिन् पक्षे संश्लेष एव शब्दार्थयोः सम्बन्धः । सोऽयं कार्यानुपलब्ध्या न घटते इति- “?Rक्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूर्णे स्याताम्” ?Rइत्युक्तम् । कथं तर्हि- गौरयम्- इति तुल्यो निर्देशः शब्दार्थयोः ??R अस्त्ययं निर्देशः, स तु नाध्यासकृत इति आकृतिग्रन्थे वक्ष्यामः ।
?0”?Rयौनादयस्तु सम्बन्धाः शब्दस्यार्थेनानुपपन्ना एव” ?Rइत्यभ्युपगमं दर्शयति । “?Rयोऽत्र व्यपदेश्यः सम्बन्धः, तमेकं न व्यपदिशति भवान् प्रत्याय्यस्य प्रत्यायकस्य च संज्ञासंज्ञिलक्षणः”?R- इत्यनेनौत्पत्तिकत्वं पुनरुपोद्वलयति । “?Rआह- यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति” ? ?Rस्वतो हि सर्वभावानां प्रवृत्तिश्चक्षुरादीनामिव रूपग्रहणे ;?R तस्मात् सापेक्षत्वं शब्दस्यार्थप्रतिपत्तावस्तीति “?Rप्रथमश्रुतः किं न प्रत्याययति” ?Rइत्युक्तम् । “?Rसर्वत्र नो दर्शनं प्रमाणम्” ?Rइति स्वाभाविकानां सापेक्षत्वं निरपेक्षत्वं च दर्शनादेवावगम्यते ;?R दृष्टं हि चक्षुरादेः स्वाभाविकत्वेऽपि रूपावगतावपेक्षित्वम्, दहने चानपेक्षित्वमग्न्यादेः । तदिदमुक्तम्- “?Rसर्वत्र नो दर्शनं प्रमाणम्”?R- इति । दृष्टं हि कार्यं पुरुषप्रयत्नानपेक्षम्, पुरुषानुपलब्धेः ;?R सापेक्षं च, प्रथमप्रयोगानवगतेः, प्रयोगान्तरे चावगमात् । “?Rयदि प्रथमश्रुतो न प्रत्याययति, कृतकस्तर्हि”?R- इति कोऽभिप्रायश्चोदकस्य ??R यदि तावत्- कृतकः कार्यः, न सामयिकः - इथ्यभिप्रायः, ततः सिद्धं साध्यते ;?R पुरुषान्तरप्रत्ययान्तरानपेक्षिता- शाब्दं प्रमाणम्- इति वदतोऽभिप्रेता चक्षुरादीनामिव रूपग्रहणे, न रूपग्रहणे, न पुनरुत्पत्तिमत्तापि नेष्यते ;?R उत्पद्यत एव हि सम्बन्धः, क्रियागर्भत्वात्तस्य ;?R क्रियायाश्चोत्पत्तिमत्त्वात् तदनुवर्ती सम्बन्धोऽप्युत्पत्तिमानेव । अथ कृतकः रज्जुघटयोरिव पुरुषयत्नजन्यः इत्यभिप्रायः ;?R तदयुक्तम् ;?R चक्षुरादेरालोकाभावे कदाचित् कार्यमकुर्वतः तत्सद्भावे च कार्यं कुर्वतोऽपि पुरुषान्तरप्रत्ययान्तरानपेक्षत्वात् सन्धन्धस्य, तथा शब्दस्यापि सम्बन्धः स्यादिति । तस्मादसमर्थमिव सिद्धान्तलङ्घने भाष्यं प्रतिभाति- “?Rकृतकस्तर्हि”?R- इति । नेदमसमर्थम् ;?R अयमस्याभिप्रायः - नेदमुद्योतादितुल्यम् ;?R उद्योतस्याप्यनुग्राहकत्वं कार्यसमधिगम्यमेव, अनवगतिपूर्वकत्वादवगतेश्चक्षुरादीनाम् । शब्दे
?R?0पुनरर्थावगतिपूर्विकैवार्थआवगतिः ;?R हि ‘?Rअयमस्यार्थः’ ?Rइत्यवगम्य ततः शब्दादर्थं प्रतिपद्यते । तस्मात् सन्बन्धान्तरपूर्विकैवार्थावगतिरिति सापेक्षता । तदिदं कृतकशब्देन सामयिकत्वं कृतकता वोक्ता ॥
?R?0 “?Rअथ ‘?Rगौः’ ?Rइत्यत्र कः शब्दः” -?R इति कोऽयं प्रश्नः ??R अयमयं प्रश्नः - यद्यपरिणत्या शब्दोऽर्थमवगमयति, कस्तर्हि शब्दोऽभिप्रेतः ??R योऽयं श्रोत्रेणावच्छिद्यते, स शब्दोऽभिमतः ??R ओम्- इत्युच्यते ;?R श्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः;?R ते च श्रोत्रग्रहणाः गकारौकारविसर्जनीयाः । नन्वेवं सत्यर्थप्रत्ययो नोपपद्यते, क्रमवर्तित्वाद्वर्णानाम् ;?R क्षणिकत्वाच्च तदुपलब्धीनाम् । उपलभ्यमानतया च पदादिव्यवस्था, न तु सन्मात्रतया । तस्मादनुपपन्नोऽर्थप्रत्ययः । अथायमभिप्रायः - उपलब्धिविनाशेऽपि तत्स्मृर्यनुग्रहादर्थावगमः - इति ;?R सापि न सर्वविषयिणी उपलब्धिवत् ;?R उपलब्धिवत् ;?R उपलब्ध्यनुसारिणी हि सा ;?R अतोऽप्यर्थावगतिर्न घटते । तस्मात्- शब्दतत्त्वमेवेदमर्थरूपतया विवर्तते - इत्युक्तं शब्दविद्भिः । किं वा विवर्तपक्षे श्रोत्रादिव्यापारनिरपेक्षैव स्वरूपेऽर्थे वावगतिः शक्यते वक्तुम् ??R बाढम् ;?R शब्दादयः श्रोत्राद्यवच्छेदेनैकरूपा अप्यनेकरूपा इव भान्ति मरकतपद्मरागादिषु मुखमेकमप्यनेकरूपमिव प्रतिभाति । ननु च खङ्गादिष्वेकं ग्राहकम् ;?R उपाधयो हि खङ्गादयः । तदेकग्राहकवशात् ‘?Rएकं मुखम्’ ?Rइति शक्यते वक्तुम् ;?R भेदाश्चोपाधिनिबन्धनाः । अत्र पुनः किमेकं ग्राहकं शब्दादेः, यद्वशात्- श्रोत्राद्युपाधिकृतो भेदः, एकमेवेदं वस्तु- इति वर्ण्यते ??R किमिदं प्रलप्यते- एकग्राहकवशादेकं वस्तु- इति ??R एकत्वादेव ह्येकत्वम् । ननु चोक्तमेकत्वमेव न प्रतीयते - इति ;?R श्रोत्रादयो हि प्रतीतेः कारणम् । ते च भेदेनैव प्रतीतिमुत्पादयन्ति । प्रतीतिभेदे सति ‘?Rएकं वस्तु’ ?Rइति दुर्वचं वचः । कथं तर्हि खड्गादिषु ‘?Rतदेवेदं मुखम्’?R इति ??R
?R?0विम्बाकारप्रत्यभिज्ञानात्तदुपाधिनिबन्धनो भेद इति शक्यते वक्तुम् ??R उक्तं तर्हि त्वयैवैकत्वम् ‘?Rप्रत्यभिज्ञानादेकत्वम्’ ?Rइति । अस्ति चेदमेकत्वं शब्दादावपि- गौरयम्, शुक्लोऽयम्, सुरभि चन्दनम्- इति । तस्मादत्राप्येकतया प्रत्यभिज्ञानात् श्रोत्राद्युपाधिनिबन्धन एवायं भेद इत्युपपन्नम् । श्रोत्रादेः किंनिबन्धनो भेदः ??R विषयभेदप्रतिपत्तिनिबन्धन इति वदामः । विषयभेदप्रतिपत्तेः किं निबन्धनम् ??R श्रोत्रादिभेद इत्युक्तम् । एवं सतीतरेतराश्रयतोक्ता भवति ;?R बाढमुक्ता ;?R अविद्यामातृकेयम् ;?R अत एवाविद्येत्युच्यते बुधैः । तस्माद्विवर्त एवाश्रयणीयस्तत्त्वविद्भिरवगतेः कारणम् । अतो न शब्दज्ञो देवानां प्रियः, यो हि युतसिद्धयोः शब्दार्थयोः सम्बन्धमर्थावगतौ कारणं मन्यते । “?Rपूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णो वाचकः” ?Rइति । कोऽयं संस्कारो नाम ??R यदि तावद्वर्णावगतिः ;?R प्रत्युक्ता, स्मरणमपि तथैव । अथ स्मृतिकार्यान्यथानुपपत्त्या कश्चित्पदार्थविशेषः कालान्तरावस्थायी । विद्यत इति कल्प्यते ;?R असावपि प्रतिवर्णविषय एव शक्यते कल्पयितुम्, एकैकवर्णविषयत्वादुपलब्धेः, तदनुसारित्वाच्च स्मृतेः, तत्कार्यत्वाच्च संस्कारस्य । तस्माद्वर्णोपलब्धिवदसावपि न कारणम् । न च स्मृतिज्ञानशून्यः संस्कारोऽस्तीति प्रमाणमस्ति । दर्शयति च प्रत्येकवर्णविषयमेव संस्कारम्— “?Rपूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णपः प्रत्यायकः”?R इति ब्रुवन् । तस्मादुपलब्धिस्मृतिभ्यां किमभ्यधिकमस्यार्थप्रतिपत्तौ सामर्थ्यं मन्यते भाष्यकारः ??R स्फोटवादिनो वा कथम् - इत्येतदप्यनुत्तरम् ;?R न ह्यभ्युपगतिरर्थसिद्धौ हेतुः । तस्मादुपवर्णनीयोऽयं ग्रन्थः । अथ कालान्तरावस्थायितैव विशेषः, तन्न ;?R परस्परासम्बन्धे किमवस्थितिः करिष्यति ??R अथार्थप्रतिपत्तिरेव सम्बन्धे हेतुः, एवमितरेतराश्रयताप्राप्नोति । भवत्विति चेत्, न तत्त्वावगमे
?R?0युक्तोऽयमभ्युपगमः । कथं तर्हि बीजाङ्कुरादिषु ??R दर्शनात्- इति यद्युच्यते, तत इहापि दर्शनं शक्यते वक्तुम् । न, विवर्तप्रतिपक्षसम्भवात् ;?R अर्थावगतिर्हि कारणमात्रस्य हेतुतां प्रतिपद्यते, न संस्कारसम्बन्धस्यैव । बीजाङ्कुरादिषु विशेषदर्शनादुपपन्नम् ;?R इह त्वानुमानिकत्वात् संस्कारस्य विशेषोपलब्धिर्नोपपद्यते । तस्माद्विवर्तमेवोपपन्नतरं मन्यामहे । अत इदानीमिदमप्ययुक्तम् । किमयुक्तम् ??R सा च शब्दकल्पना चेति । कथमयुक्तम् ??R विवर्तपक्षे हि का नामेयं शब्दकल्पना ??R यस्मादध्यासितोपाध्यध्यासितविशेषं सर्वप्रमाणावगम्यमेकं वस्त्वित्युक्तम् , तस्मादशब्दज्ञतैवेयं यदुत भिन्नयोरपि शब्दार्थयोरौत्पत्तिकः सम्बन्धोऽभिधीयते । नन्वेकत्ववादिनोऽपि नैवायं विभागः शक्यते वक्तुम्- ज्योतिष्टोमोऽयम्, दर्शपूर्णमासाविमौ- इति ;?R एकत्वे हि न वाक्यैकत्व एवावस्थितिः, किन्तु सर्ववाक्यानामेकवाक्यता प्राप्नोति वर्णानामिव पदे, पदानामिव वाक्ये । कस्मात् ??R एकत्वावगमादेव ;?R भवति हि सर्ववाक्येषु ‘?Rशब्दः शब्दः’ ?Rइत्येका बुद्धिः, सर्ववाक्यार्थेषु च ‘?Rशब्दार्थः शब्दार्थः’ ?Rइति । तदिदमभिन्नमेव ज्योतिष्टोमादि कर्मजातं प्राप्नोति । दृश्यन्ते चाधिकारभेदविरुद्धाश्चाविरुद्धाश्च । विरुद्धाः विरुद्धफलाः, अविरुद्धाश्च अविरुद्धफलाः ;?R न चैतदेकत्व उपपद्यते । सत्यं नैकार्थत्व इदमुपपद्यते । भिन्नार्थानि चैतानि वाक्यानि । एकार्थप्रतिपत्त्यर्था चैकता ;?R न चात्रैकार्थतावसीयते । तस्मादेकस्मिन् वाक्ये पदवर्णापलापो युक्तः । वाक्यान्तरेषु किंकृतो वाक्यान्तरस्यापलापः ??R तस्मान्नेयं विरुद्धाविरुद्धचोदनोपपद्यते । शब्दप्रामाण्यवादिना ह्यर्थसम्बद्धः शब्दशब्देनोच्यते, न काकवाशिताद्यपि श्रोत्रग्राह्यम् । ननु श्रोत्रादिभेदमुपवर्णयता सर्वमेतदविद्याजालमित्युक्तम् ;?R किमिदमिदानीमर्धजरतीयमुपन्यस्यते ??R अनभिप्रायज्ञो देवानां प्रियः, यतो
?R?0ब्रह्मण्यसावभेद उक्तः । तद्रूपतया केन वा भेदोऽभिधीयते, शास्त्रावगतौ च केन वा भेदोऽपह्नोतुं शक्यते श्रोत्रादीनामिव ??R सत्यं नापहूनूयते ;?R किन्त्वविद्या प्राप्नोति ;?R विद्या चेष्यते वैदिकोऽर्थः । कथमविद्यातोऽभ्युदयः शक्यते वक्तुम् ??R अविद्या हि प्रत्यवायस्य निमित्तम् । सत्यं यथा भवानाह । प्रत्यवायस्त्वापेक्षिकः ;?R सर्वं हि क्षयि प्रत्यवायायैव ;?R किन्तु प्रत्यवाय एवैकत्र स च उपायश्चान्यत्र इति विशेषः । तस्मान्न किञ्चिदत्र पूर्वं परेण विरुध्यते । ननु च वाक्यार्थयोर्भेदेऽपि कर्मोत्पत्तिवाक्यैर्गुणवाक्यानां कथमर्थत एकता शक्यते वक्तुम् ??R उक्तम्- भिन्नत्वेऽप्येकानुष्ठानसिद्धिरिति नित्यकाम्यप्रयोगयोरिव । तस्मात्सर्वमुपपन्नम् ।
?R?0 ?R
?0
?R?0
?R?0स्यादेतदेवम्, यद्येका बुद्धि स्यात् ; ?Rन ह्यत्रैका बुद्धिरस्ति । ननु च सर्वशब्देषु ‘?Rशब्दः शब्दः’ ?Rइत्येका बुद्धिरस्ति ;?R असत्यां चैकबुद्धौ शब्दशब्दवाच्यतापि न स्यात् सर्वशब्दानाम् । एकनिमित्ता ह्येकशब्दवाच्यता, न पुनरेकताकृता । अत्र चैकं निमित्तमस्ति श्रोत्रग्राह्यता ;?R श्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः । किं पुनः कारणम्- श्रोत्रग्राह्यतैवात्र गृह्यते, न पुनर्गोत्वादिवत् शब्दत्वमेवाश्रीयते ??R सामान्यविशेषविषयमज्ञानमत्रापराध्यते एवं चोदयतः । किं पुनः सामान्यविशेषविषयमज्ञानम् ??R इदमिदमज्ञानम्- यस्मिन् पदार्थग्रहणे सति पूर्वावमर्शो भवति, तत् सामान्यम् ;?R न च गकारादिष्वेकवर्णग्रहे सति वर्णान्तरावमर्शो भवति पाचकादिष्विव, तस्मात् क्रियानिबन्धनैवेयं शब्दशब्दवाच्यता ;?R कस्यायं विवर्तः, कस्य च श्रोत्रादय उपाधितामापद्यन्ते ??R तस्माद्विडम्बनैषा “?Rविवर्ततेऽर्थभावेन” ?Rइति । तस्मात् कार्यत एव सम्बन्धोऽपि कल्पनीयः संस्काराणाम्, नोपलब्धिस्मृत्योः, अनवस्थानदर्शनात् । यदप्युक्तम्- अयुक्तं सा च शब्दकल्पना च- इति, तत्राप्यर्थापरिज्ञानमेवापराध्यते ;?R इदं हि तत्रोच्यते- परमार्थस्योपाधिकल्पना, अविद्यमानस्य च कल्पना- इति । तदिदम् “?Rसा च शब्दकल्पना च” ?Rइति । “?Rसुरभिचन्दनादीनामाकृतिग्रन्थे परिहारं वक्ष्यामः” ?Rइत्युक्तम् । ननु च- शब्दादर्थं प्रतिपद्यामहे- इत्येतदिदानीं लौकिकं वचनं नोपपद्यते । किं गकारादयो न शब्दाः ??R शब्दास्ते बहवः, न शब्द एकः ; ‘?Rशब्दात्’ ?Rइिति चैकवचनं पदाभिप्रायम् ;?R न चैतत् पदमस्तीत्युपपन्नैवेयमनुपपत्तिः । तथा च शास्त्रकारैरपि पदाभिप्रायेणैवोपन्यस्तम्- “?Rपूर्वापरीभूतं भावमाख्यातेनाचष्टे”?R- इति । कामं मोपपादि ;?R अनुपपन्नार्थमपि हि लौकिकं वचनं दृष्टम्- दश दाडिमानि ष़डरूपाः - इति ;?R लोके चानुपपन्नार्थमेव किञ्चित् दृष्ट्वा प्रयोगं व्याकरणशास्त्रं नियमाय प्रवृत्तम् । इह पुनर्नैवानुपपत्तिः ;?R समुदायस्य निमित्तत्वात् कार्यैक्याच्चैकत्वोपचारः । तस्मात् शास्त्रकारवचनमप्यनयैव
?R?0युक्त्योपपन्नम् , पदवाक्यनिर्देशश्च - गौः पदम्, अश्वः पदम्, लौकिकं वाक्यम्, वैदिकं वाक्यम्- इति च । तस्मात् गकाराद्येव पदम्, स एव शब्दः ;?R नान्यद्व्यतिरिक्तमस्तीति सिद्धम् ॥
?R?0 “?Rअथ-गौः - इत्यस्य शब्दस्य कोऽर्थः” ? ?R- इति नायं प्रश्न उपपद्यते । “?Rअथ- गौः - इत्यत्र कः शब्दः ?” ?R- इति युक्तम् ;?R वर्णपक्षेऽपि हि वाचकता नोपपद्यते- इत्यशङ्कानिराकरणाय । अभिधेये हि न क्वचिद्विशेषः । आकृतिः व्यक्तिः गुणो वा भवतु ;?R न ह्यौत्पत्तिकत्वे कश्चिद्विरोधः । अस्थायी चायं पक्षः ;?R नायं राद्धान्ते यदुत- आकृतिवचनतैव सर्वशब्दानाम्- इति - ?Rगुणवचनताप्यरुणादिषु दृष्टा, व्यक्तिवचतोद्भिदादिषु । तस्मात् प्रश्नस्तावन्निषप्रयोजनः । उत्तरमपि राद्धान्तविरुद्धम् । अथायमभिप्रायः - उदाहरणाभिप्रायम् - इति ;?R अत्रापि प्रश्नस्तावन्निष्प्रयोजनः, एवमुत्तरमपि । यदि शब्दस्य व्यक्तिरर्थः, अथापि सामान्यम् ;?R सम्बन्धे को विशेषः ??R विशेषविवक्षायां च प्रयोजनं वक्तव्यम् । अथेदमुच्यते- व्यक्तिपक्षे सम्बन्धस्य सापेक्षता प्राप्नोति- इति, का कथा पाचकादिषु ??R तत्र क्रियोपलक्षणमिति चेत्, इहाप्याकृतिर्भविष्यति । तत्र ह्यभिहिता क्रिया धातुभागेन ;?R इह त्वनभिहिता जातिः नालमुपलक्षणाय- इति चेत्, कल्प्यतामभिधानम् ;?R न पुनः सापेक्षताभिधाने उपयोगमस्य पश्यामो निरपेक्षताभिधाने वा । तस्मान्मन्दप्रयोजनता प्रश्नोत्तरयोः ।
?R?0 अत्रोच्यते- ‘?Rवाचकरूपैव सर्ववाच्येष्ववगतिः’ ?Rइति मन्वानः ‘?Rशब्दार्थयोर्भेदो नोपपद्यते’ ?Rइति पृष्टवान् पूर्वपक्षवादी । इतरस्तु- अविवेकोऽस्य प्रयोगेऽभिधाने च;?R प्रायौगिकीं बुद्धिमभिधेयेऽध्यवस्यतीति तदपनुत्तये “?Rसास्नादिविशिष्टा आकृतिः” ?Rइत्युक्तवान् । प्रदर्शनार्थं चैतत् अभिधानवत् । “?Rनन्वाकृतिः साध्यास्ति वा न वा” ?R- इति । अभिधेयतया
?R?0शब्दरूपतां न जहातीत्युक्तवान् । ननु च तद्रूपापत्तावभावाभिधाने किं प्रयोजनम् ??R अभिधेयाभिप्राय एवायमभाव उक्तः, न स्वरूपाभिप्रायः । “?Rन प्रत्यक्षा सती साध्या भवितुमर्हति” ?R- इति । यदि परं स्वरूपस्यैवाभावः साध्यते, तदैवानभिधेयता ;?R न चाभावः शक्यते वक्तुं प्रत्यक्षगम्यत्वात् । “?Rव्यामोह इति चेत्” ?Rइति । केन चोक्तम्- स्वरूपेणैवास्याभावः - इति । इतरस्तु तमेवाभिप्रायं बुद्धौ कृत्वा “?Rनासति प्रत्ययविपर्यासे व्यामोहः” ?Rइत्युक्तवान् । “?Rअसत्यप्यर्थान्तरे एवंजातीयको भवति प्रत्ययः ‘?Rपड्क्तिः, यूथम्, वनम्’ ?Rइति यथा इति चेत्” ?R- इति अभिधेयतयाभावं प्रकटयति । नैवायं प्रत्यक्षविरुद्धोऽर्थोऽभिधीयते आकृतेरभावः । किं तर्हि ??R अभिधयेरूपतया अभिधानरूपमवगम्यते- इत्युक्तम् ;?R न चेदनमविवर्तवादिन उपपद्यते । तस्माद्विवर्तपक्ष एव श्रेयानित्यभिप्रायः । “?Rअसम्बद्धमिदं वचनमुपन्यस्तम्” ?Rइति पड्क्त्यादावपि नैव शब्दरूपावगतिरस्तीत्यभिप्रायः । कथं तर्ह्येकप्रत्ययः ??R न च शब्दाद्व्यतिरिक्तं किञ्चिदन्यत्पड्क्त्यादिषु एकमुपलभ्यते ;?R अस्ति चायमेकप्रत्ययः ;?R तस्माच्छब्दाध्यासनिबन्धन एवायम् । “?Rकिमसति वने वनप्रत्ययः” ?R- इति असति वृक्षव्यतिरिक्ते एकस्मिन् वनाभिधेयेऽर्थे एकप्रत्ययो नोपपद्यते इति किं प्रत्यक्षसमधिगम्या वृक्षा अपि न सन्तीति शक्यते वक्तुम् ??R कोऽभिप्रायः ??R वृक्षा एवात्र एकतया प्रतीयन्ते, न पुनर्वनशब्दरूपतावगम्यते । अथायमभिप्रायः - “?Rवृक्षा अपि न सन्ति इति,” ?Rतदपि हि शब्दाध्यस्तमेव रूपम्- इति ;?R प्रत्युक्तः स माहायानिकः पक्षः । अर्थविषया हि प्रत्यक्षा संवित् , न बुद्धिविषया- इत्युक्तम् । बुद्धिविषयत्वे वा संविदः किं सिध्यति शब्दाध्यासः ??R अन्या हि वृक्षसंवित् , अन्या च वनसंवित् । तस्माद्बुद्धिविषया वा भवतु, अर्थविषया वा ; ?Rसर्वथा वनशब्दरूपता नास्तीत्येतावद्वक्तव्यम् । अतः “?Rप्रत्यक्षमेवात्राक्षिप्यते”
?R?0इत्येवमादेर्ग्रन्थस्यासम्बद्धतैव प्रतिभाति । तस्मादाकृतिसद्भाव एवाक्षिप्यते इति लक्ष्यते ।
?R?0 मैवम् ;?R वनशब्दाकारवादिनो हि भिन्नरूपावगतिरेवोत्तरम् ;?R सा च वृक्षरूपाद्भिन्नैवात्र प्रतीयते । यदि परं तदभावादप्रतीतिः ;?R स चाभावः प्रत्यक्षे प्रत्यर्थिनि नोपपद्यते । ननु विज्ञप्तिः प्रत्यक्षेत्येतदुपपद्यते इत्युक्तम् । न, भेदावगतेः परिकल्पनापक्षपातित्वात् । तस्मात् सुष्ठु- “?Rप्रत्युक्तः स माहायानिकः पक्षः” ?Rइति । ननु एकबुद्धिरनालम्बनैवेयं प्राप्ता । “?Rअथ किमाकृतिसद्भाववदी उपालम्यते- सिद्धान्तान्तरं ते दुष्यति वनेऽपि तेऽसति वनप्रत्ययः प्राप्नोति इति” ?R। कः पुनर्त्र सिद्धान्तः, यो दुष्यति ??R एकस्मिन् वर्तमानात् प्रातिपदिकात् एकवचनम्- इति । बहवश्च वृक्षाः ;?R तत्र चेदं प्रातिपदिकं इत्युक्तमायुष्मता । यथैवाकृतिरस्ति- इति, तथैवायमपि । तदिदं राद्धान्तदूषणं भवति । प्रमाणान्तरमूलत्वात् स्मृतेः यदि दूषणं भवति, भवतु नाम ;?R न ह्यभ्युपगमदूषणाद्धेतोरदुष्टदुष्टता शक्यते वक्तुम् ;?R अदुष्टोऽयं हेतुः प्रत्यक्षावगतिर्नाम । तस्माद्यद्येकत्वमन्तरेणाप्येकवचनम्, किं कुर्मः ;?R कमुपालभेमहि ??R न चायमुपालम्भस्य विषयः । एकस्मिन्नेकवचनम्- इति प्रायिकमेतत्, दारादिषु व्यभिचारात् । प्रायौगिकमिदमेकवचनम्, नान्वयिकम् । अतः सिद्धान्तापरिज्ञानमेवात्र गर्हणीयम् । तस्मान्न क्वचित् शब्दाध्यस्ता बुद्धिरस्तीत्युपपन्नं जैमिनेर्वचः - आकृतिः शब्दार्थः - इति । आकृतिप्रतिपत्तिमुखेन गोशब्दादीनां निमित्ततेति, तत्राकृत्यधिकरणे निपुणतरमुपपादयिष्यति ॥
?R?0 “?Rअथ सम्बन्धः क इति ??R यच्छब्दे विज्ञातेऽर्थो विज्ञायते” ?R। ?Rकः पुनरयं सम्बन्धः पृष्टश्चोपन्यस्तश्च ??R पूर्वोक्त एवेति वदामः । नन चासौ संज्ञासंज्ञिलक्षणः सम्बन्धः ;?R तस्मादन्य एवायं सम्बन्ध इति मन्यते ।
?R?0तदयुक्तम् ;?R तत्रापि “?Rप्रत्याय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः सम्बन्धः” ?Rइति स एवायं ज्ञाप्यज्ञापकलक्षणः सम्बन्ध उक्तः । ननु “?Rप्रत्याय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः सम्बन्धः” ?Rइति वदता- प्रत्याय्यस्य प्रत्यायकस्य इति षष्ठ्यभिधानेन सम्बन्धान्तरमुक्तं भवति । मैवम् ;?R तदेवेदं प्रत्याय्यप्रत्यायकत्वं संज्ञासंज्ञिलक्षणमिति षष्ठ्या प्रतिपादितम् । कुत एतत् ? ?Rननु व्यतिरेकं षष्ठी प्रतिपादयति । अस्त्येवात्र हेतुहेतुमत्तया व्यतिरेकः ;?R प्रत्याय्यप्रत्यायकत्वं संज्ञासंज्ञिलक्षणसम्बन्धस्याभिधाने निमित्तम् ;?R अन्यथा प्रत्याय्यप्रत्यायकोपन्यासोऽनर्थकः ;?R तमेकं न व्यपदिशति भवान्, यः संज्ञासंज्ञिलक्षणः - इति वक्तव्यम् । अत एव “?Rस तु कृतक इति पूर्वमुपपादितम्” ?Rइत्यनेन ग्रन्थेन पूर्वोक्तस्यैवायमुपन्यास इिति प्रकटयति । किं पुनः कारणं प्रश्नोपन्यासयोः ??R इदमत्र कारणम्- विवर्ताक्षेपे हि युतसिद्धयोरनपेक्षत्वं न शक्यते वक्तुमिति मन्वानस्य प्रश्नः । शक्यते वृद्धव्यवहारस्यानादितयानपेता वक्तुमिति तस्यैवोपन्यासः - “?Rस तु कृतकः” ?Rइति पूर्वोपवर्णितेनैवाभिप्रायेणोक्तम् “?Rतस्मान्मन्यामहे - केनापि पुरुषेण शब्दानामर्थैः सह सम्बन्धं कृत्वा संव्यवहर्तुं वेदाः प्रणीताः इति” ?R- सापेक्षत्वमुपसंहृतम् । “?Rतदिदानीमुच्यते- अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति” ?R। वृद्धव्यवहारस्यानादिताभिधनोपन्यासोऽयम् । किमिदं तर्हि प्रश्नोत्तरम् ??R कथम् इति पृष्टे “?Rपुरुषस्य सम्बन्धुरभावात्” ?R- इत्यत्तरमयुक्तम् । वृद्धव्यवहारस्यानादिताप्रतिपक्षनिरासायेदमुपन्यस्तम् । कथं पुनरिदं प्रतिपक्षतया शङ्क्यते ??R बाढमाशङ्क्यते ;?R अनादिनापि वृद्धव्यवहारेण शब्दादर्थावगमसिद्धौ यत्र कर्तोपलभ्यते, तत्रादिमत्तैवोपलब्धिबलात्प्राप्नोति “?Rवृद्धिरौदच्” ?Rइतिवत् । तस्मात् कर्तुरुपलम्भो निराकरणीयः । “?Rप्रत्यक्षस्य सम्बन्धा नास्ति ?” ?R– इत्यस्य प्रश्नस्य किमिदमुत्तरमुपपद्यते- “?Rप्रत्यक्षस्य
?R?0प्रमाणस्याभावात् तत्पूर्वकत्वाच्चेतरेषाम्” –?Rइति ??R कथं नोपपद्यते ??R अनुमानादेरपि प्रमाणत्वाभ्युपगमात् । तत्पूर्वकत्वं चायुक्तम्, शब्दस्य सापेक्षत्वप्रसङ्गात्, क्रियादिषु चाननुमेयतापत्तेः । सापेक्षत्वे च शब्दस्यौत्पत्तिकत्वप्रयासोऽनर्थक एव । तदिदमापतितम्- घोटारूढस्य विस्मृतो घोट इति । अभिप्रायानभिज्ञस्येदं चोद्यम् ;?R केवलानुमानागमगम्यता तावन्न संभवत्यनादौ वृद्धव्यवहारे प्रत्यर्थिनि । तस्मात् प्रत्यक्षं तत्पूर्वकं चागमानुनानं निरसनीयमिति । तस्मादुपपन्नमुत्तरम् । बहुवचनमिदानीं किमर्थम्– “?Rइतरेषाम्” ?Rइति ??R इतरयोरिति वक्तव्यम्, द्वयोराशङ्कनीयतोपन्यासात् । द्वयोराशङ्कनीयतोपन्यासः, असम्भवस्तु सर्वेषामित्युपपन्नं बहुवचनम् ।
?R?0 “?Rननु चिरवृत्तत्वात्” ?Rइत्यसिद्धतामाह । कथमसिद्धता ??R पूर्वजानां प्रत्यक्षविषयतोपपत्तेः । “?Rन हि निरवृत्तः सन् न स्मर्येत” ?Rइति । न पूर्वजानामपि प्रत्यक्षमत्र संभवतीत्यभिप्रायः । यदि स्यात् पाणिनिवत् स्मर्येत “?Rन च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति” ?R। तत्रास्मरणे हेतुरुपपद्यते पुरुषवियोगादिः । न च पुरुषवियोगः शब्दानामस्ति इति- किमभिप्रेतम् ??R कृतकपक्षे हि तत्प्रामाण्यात् प्रामाण्यं स्यात् ;?R न निष्प्रयोजनतया विच्छेदः स्मरणस्योपपद्यते- इत्यभिप्रायः । तच्च पाणिनिपिङ्गलोपन्यासेन प्रकटितम् । “?Rयद्यपि च विस्मरणमुपपद्यते तथापि न प्रमाणमन्तरेण सम्बन्धारं प्रतिपद्येमहि " ?R। “?Rयद्यपि च विस्मरणमुपपद्येत” ?Rइति किं विषयमिदं विस्मरणमुपन्यस्तम् ??R यदि तावत् साध्यविषयम् तदिदमेव प्रमाणम्- यदुत विस्मरणोपपत्तिः । उक्तं च- “?Rविस्मरणमुपपद्यते” ?Rइति- तदा न प्रमाणमन्तरेण सम्बन्धारं प्रतिपद्येमहीत्यहेतुः । यदप्युच्यते “?Rविद्यमानस्याप्यनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं
?R?0प्रतिपद्यामहे” ?Rइति, इदमप्ययुक्तम् ;?R यदि विद्यमानस्यैव अनुपलब्धिः ;?R केन शक्यते वक्तुम्- शशविषाणं प्रतिपद्यामहे, शशविषाणं नास्ति- इति ??R अथायमभिप्रायः - यद्यप्यन्यत्र विस्मरणोपपत्तिर्दृष्टा, नैतावतान्यत्रापि विस्मरणोपपत्तिः शक्यते वक्तुम्- इति ??R असदभिप्रायोऽयम् ;?R बाढमन्यत्र दृष्टमन्यत्र भवतीत्युच्यते ;?R अयमेव हि सामान्येतो दृष्टस्य विषयः । अत्राभिधीयते- नैवेयं प्रमाणतयोपन्यस्यते विस्मृतिरनुपलब्धिर्वा, किं तु उपलब्धस्यार्थस्य कारणदोषनिराकरणायेदमुपन्यस्यते । इह पुनर्भवतानुपलब्दावेवेदमुपन्यस्तमिति असम्बद्धमित्युक्तम् । यथा घटादेरुपलब्धस्यानुपलब्धिरस्तीति नैतावता शशविषाणस्यास्तित्वं शक्यते वक्तुम् । उपलब्धिविषयस्यानुपलब्धिः कारणान्तरमपेक्षते ;?R अनुपलब्धे पुनरनुपलब्धेरेवानुपलब्धिः । तस्मात् सूक्तमिदम्।
?R?0 “?Rनन्वर्थापत्त्या” ?Rइति किमियं प्रमाणसंज्ञोपन्यस्ता ??R ओमित्युच्यते । किं पुनरत्र ‘?Rनोपपद्यते’-?R इत्यनया बुद्ध्या परिगृह्यते ??R ननु सम्बन्धस्य कर्ता । कथं पुनरसौ नोपपद्यते ??R प्रथमश्रवणेऽर्थानवगतेः । यदि प्रथमश्रवणेऽर्थानवगतेः । यदि प्रथमश्रवणे।डर्थं न प्रतिपद्यते, किमायातं सम्बन्धस्य कर्तुः ??R एवं तर्हि यदि गृहे देवदत्तो नोपलभ्यते, किमायातं बहिर्भावस्य ??R न ब्रूमः - बहिर्भावो नोपपद्यते- इति । किं तर्हि ??R विद्यामानता नोपपद्यते- इत्युक्तम् । सैवेयम्- बहिरस्ति - इति संवित् । इह पुनः प्रथमश्रवणेऽर्थानवगतेः सम्बन्धस्य कर्त्रा कः सम्बन्धो दृष्टः ??R अेथेदं मनसि विपरिवर्तते- न प्रथमश्रवणात्प्रतिपद्यन्ते, प्रतिपद्यन्ते च द्वितीयादिश्रवणे ;?R तस्मात् शब्दादन्यत् कारणान्तरं मृग्यमिति ??R कार्यतस्तर्हीदं कारणानुमानमुपन्यस्तम् । कथं तर्हि “?Rअर्थापत्त्या” ?Rइति ??R अर्थादनुमानापत्तिरित्यर्थः । कस्मात् ??R कार्यादर्थात्- इत्युक्तम् । ननु
?R?0चानुमानमपि नोपपद्यते, प्रथमश्रवणादप्रतीतेरनैकान्त्यात्, वेदवाक्यादेव प्रथमश्रुतादवगतेः । ननु च पदगतेयं चिन्ता । किमिदं पदं नाम ??R गवादयः - देवदत्त गामभ्याज- इत्येवमादिषु वाक्येषु । किं कार्यान्यतया प्रसिद्धाः, उत वाक्यार्थावगतिरेव कार्यम् ??R बाढं कार्यान्यतया प्रसिद्धाः । कस्मिन् ??R व्यवहारे । केन वृद्धा व्यवहरन्ति ? ‘?Rदेवदत्त गामभ्याज शुक्लाम्’?R- इत्यादिना । एवं तर्हि वाक्यार्थेन व्यवहारः । न हि व्यवहाराप्रसिद्धोऽर्थः कार्यान्तरतया शक्यतेऽवगन्तुम् । कथं तर्हि- “?Rअथ गौरित्यस्य कार्यान्यत्वे ??R कथं वा वृद्धव्यवहारेणास्यौत्पत्तिकत्वाभिधानम् ??R तस्मात् प्रतिज्ञासाधनयोर्यथैकवाक्यता भवति, तथायं ग्रन्थो वर्णनीयः । स तु तद्भूताधिकरणे स्वयमेव भाष्यकारेण वर्ण्यते इत्युपरम्यते ।” ?Rकस्तर्ह्यनैकान्तिकपरिहारः ??R निमित्ताभिप्रायं तदुच्यते, अप्रतिपन्ननिमित्तः प्रथमश्रुतान्न प्रतिपद्यते । तस्मात् शब्दादन्यन्निमित्तान्तरमस्तीत्यभिप्रायः । कः पुनर्वाचकनिमित्तयोर्भेदः ??R इदमर्थमेव हि तद्भूताधिकरणमारभ्यते इत्यलमतिप्रपञ्चेन । “?Rन, सिद्धवदुपदेशात्” ?Rइति । किमिदम्- सिद्धवदुपदेशात्- इति ??R इदमिदम्- नात्र कर्ता शक्यते कल्पयितुम्, वृद्धव्यवहारस्यानादित्वात् ;?R अत औत्पत्तिकः सम्बन्ध इति सिद्धम् ।
?R?0 किमिदमन्यथैव प्रक्रान्तमन्यथैवोपसंहृतम्- शब्दादेवार्थावगतिः इति प्रक्रान्तम् ;?R वृद्धव्यवहारात्- इत्युपसंहृतम् ;?R तदिदमन्यत्राहितमन्यत्रैव निपतितमकुशलस्येव धन्विनः शरनिकुरुम्बम् । वृद्धव्यवहारादप्यर्थेऽवगम्यमाने नैव शब्दादर्थोऽवगतो भवति हस्तसंज्ञादिभ्य इव । हस्तसंज्ञादयोऽपि वृद्धव्यवहारप्रसिद्धा एव, नार्थेन सम्बद्धा इति ;?R व्युत्पत्तिरेव ह्यर्थावबोधकारणम्, न हस्तसंज्ञादयः ;?R व्युत्पत्त्युपाधयो हि ते । तस्मादुपाधिः शब्दः, नार्थावगतेः कारणं कशाङ्कुशप्रतोदाभिघातवत् । अत
?R?0एव च शब्दस्वभावज्ञैरुक्तम्- विवर्त एव वेदवादिभिराश्रयणीयः - इति । अत्राभिधीयते- किमनेन विवर्तपक्षपातेन ??R प्रत्युक्तोऽयमेकत्वानुपलब्धेः । यद्येवं प्रत्युक्तं तर्हि वेदस्य प्रामाण्यम् । अत्रोच्यते- वृद्धव्यवहारव्युत्पत्त्यावगम्यमानेऽर्थे शब्दादन्यत् कारणं किं वा मन्यते भवान् ??R ननु व्युत्पत्तिमेव कारणतया मन्यामहे । मैवम् ;?R शब्दार्थसम्बन्धविषया हि व्युत्पत्तिः ;?R न व्युत्पत्तेः शब्दार्थावगतिः ;?R व्युत्पत्तिरेव ह्यादिमती ;?R न पुनः शब्दार्थयोः सम्बन्धः, तस्य विषयत्वात् । तस्मात् “?Rन ; ?Rसिद्धवदुपदेशात्” ?R- इति सम्यगभिहितम् ।
?R?0 ननु च कार्येऽपि सम्बन्धे वृद्धव्यवहारव्युत्पत्तिर्बालानामनुगुणैव ;?R कथमियं प्रतिपक्षतयोपन्यस्यते ??R सत्यम् ;?R प्रमाणान्तरपरिज्ञेये हि कार्ये व्युत्पत्तिः व्याकरणादिव्युत्पत्तिरिव, न विरोध ;?R कल्प्ये पुनर्निरुणद्धि कल्पनाम ;?R न चात्र प्रमाणान्तरमस्तीत्युक्तम् । किं च, कार्ये हि सम्बन्धे न कर्तुर्दुर्गमेषु देशेषु सम्बन्धकरणेन किञ्चिन प्रयोजनमस्ति ; ?Rसंव्यवहारार्थं हि सम्बन्धकरणम् ;?R न च दुर्गमस्थैः संव्यवहारोपपत्तिः । किं च, कार्यश्च सम्बन्धः सम्बन्धिशब्दादृते नोपपद्यते ;?R यदि कार्यार्थः सम्बन्धोऽभ्युपगम्यते, कृतं कार्येण । ननु व्युत्पत्तिरपि कार्यतामपेक्षत एव । कथम् ??R अयमस्य वाचकः - इत्येवमविज्ञातार्थस्य न शब्दादवगतिरुपपद्यते । न हि दृष्टेऽनुपपन्नं नाम ;?R व्यवहारमात्रादेव हि बालानामवगतिर्दृष्टा । तस्मात्प्रत्यक्षदृष्टे एवमुपपद्यमानेऽर्थे न कर्तुः कल्पनोपपद्यते ।
?R?0 इदमपरं व्यवहारानौपयिकम्, कृतके हि सम्बन्धे यदुतादृश्यमानस्यार्थस्य देवतादेः सम्बन्धकरणम् ;?R अशक्तिस्तूपवर्णितैव । तस्मादौत्पत्तिकत्वात् सम्बन्धस्य सिद्धमनपेक्षत्वम् ।
?R?0 “?Rअथ यदुक्तम्- अनिमित्तं शब्दः” ?Rइति किमिदं चोद्यते ??R
?R?0परिहृतमेतत् औत्पत्तिकत्वाभिधानेन सम्बन्धस्य । कस्य वान्यस्य परिहारोऽवगम्यते औत्पत्तिकत्वाभिधानेन ??R नैवान्यदुपन्यस्तम् । विद्यमानोपलम्भनतयैव हि विषयान्तराभावो नियोगस्य दर्शितः “?Rचित्रया यजेत पशुकामः” ?Rइत्यादौ । सत्यम्, तस्यैवायमौत्पत्तिकत्वपरिहार उक्तः ;?R किन्त्वौत्पत्तिकेऽपि सम्बन्धे विषयान्तरविवेकोऽनुक्त इव प्रतिभाति ;?R तद्विवेकायेदं पुनरुपन्यस्यते । “?Rकर्मकाले फलादर्शनात् कालान्तरे च कर्माभावात्” ?R। ननु चानेन किम् ??R विषयान्तराभावात् प्रमाणान्तरविषयतया च सापेक्षत्वात् तदभावे चाप्रामाण्यं दर्शितम् ;?R इहापि तदेव ;?R किं पुनस्तत् यदनुक्तमिव प्रतिभाति ??R इदं तत् ;?R प्रमाणान्तरविषयत्वे हि- अनेन इदम्- इत्यस्मिन् सति नियोगः । तत्र चानुपलब्धे स्फुटमेवाप्रामाण्यम् । न चास्मिन्नर्थे संभवति नियोगादेव नियोगसिद्धिरिति शक्यते कल्पयितुम् । तदिदानीं निराक्रियते- स्यादेतदेवम्, यद्यौत्पत्तिकता न स्यात् ;?R साधिता चासौ । ततः किम् ??R इदं ततः -न ‘?Rअनेनेदम्’ ?Rइत्युमुपर्थमपेक्षते नियोगः, प्रमाणान्तरसमधिगम्येऽपि हि लौकिकेऽर्थे नैव नियोगस्य साध्यसाधनसिद्ध्यपेक्षावसीयते । कारणदोष संभावनानिराकरणाय निराक्रियते;?R न पुनरात्मसंवित्तौ । तस्मात् ‘?Rस्वातन्त्र्यं नियोगस्य’ ?Rइत्यनेन विवेकः प्रदर्श्यते । पुरुषं हि नियुञ्जानः साध्यसिद्धिमवगमयतीति षष्ठे प्रतिपादयिष्यति । किमेवं सत्यनन्तरानुपलब्धिर्निरस्ता भवति ??R बाढं निरस्ता ;?R न ह्येतस्मिन् पक्षे क्रियाशक्तिनिरूपणात् साध्यसिद्धिः । किं तर्हि ??R नियोगार्थवशात् । ततश्च ‘?Rअस्मादस्य सिद्धिः’ ?Rइत्येतावदवगम्यते, न ‘?Rअनन्तरं व्यवहितं वा’ ?Rइति । तच्चानपेक्षत्वं यत्नतः प्रतिपादितम् । किमिदम् “?Rअभावोऽपि प्रमाणाभावः” ?Rइति । किमतो यद्येवम् ??R एतदतो भवति- पञ्च प्रमाणानीति नोपपद्यते ।
?R?0शक्यते वा चतुर्भिर्नास्तीति वक्तुम् ??R प्रमाणं तर्ह्यभावः । प्रमाणं वा प्रमाणाभावः - इति शक्यते वक्तुम् ??R अभावस्य प्रामाण्ये प्रत्यक्षादीविषयापेक्षिता विषये । अतः प्रमाणान्तरप्रमितविषयावच्छेदकतयैवास्य लक्षणाभिधानम् । व्यवहारान्यत्वं तु संप्रतिपन्नमेव । व्यवहारसिद्ध्यर्थश्चायमुपन्यासः, न प्रमाणस्वरूपसिद्ध्यर्थः । प्रमाणान्तराभ्युपगमे को दोषः ??R न खलु कश्चिद्दोषः ;?R किं त्वप्रमाणं प्रमाणमित्युक्तं भवति ;?R लक्षणग्रन्थश्चानादृतो भवति ;?R अनपेक्षत्वं च सर्वप्रमाणानां निरस्तं भवति । तस्मात् सिद्धं विषयान्तरं शब्दस्य । तत्सिद्धौ च प्रामाण्यसिद्धिः । किमर्थं तर्हि पञ्चग्रहणम् ??R व्यवहारपञ्चकप्रदर्शनार्थम् । पञ्चग्रहणे ह्यक्रियमाणे व्यवहारान्तरं प्रदर्शितं न स्यात् । अत एव ‘?Rअफलवती शाखा’ ?Rइति प्रत्यक्षजमेव व्यवहारं मन्यन्ते । प्रमाणविषयावच्छेदजश्चायं व्यवहारः । न च प्रमाणविषयावच्छेदो विषयान्तरतया शक्यते वक्तुम् । न च विषयमात्रावगमात् पूर्वप्रमाणानामवच्छेदादृते ‘?Rनास्ति’ ?Rइति व्यवहारोऽवकल्पते । तस्मात् सिद्धं व्यवहारान्यत्वम् । अत एव व्यवहारकाल एव पञ्चसंख्योपन्यासः ;?R न प्रमाणस्वरूपाभिधानकाले षट्संख्योपन्यासः । तस्मादत्रैव पञ्चसङ्ख्योपन्यासादवैतु भवान्- अभावव्यवहारस्य भेदिकेयं पञ्चसङ्ख्या, न स्वरूपस्य । प्रसिद्धिस्तु दत्तोत्तरा ॥
?R?0 “?Rयत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तम्- “?Rस एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं याति” ?R- इति प्रत्यक्षं शरीरकं व्यपदिशति इति,” ?Rअत्रापि शरीरकमित्यसिद्धम् । कस्तर्हि व्यपदिश्यते ??R यस्यैतच्छरीरम् । ननु “?Rएषः” ?Rइति व्यपदेशः, न ‘?Rयस्यैषः’ ?Rइति । अभेदोपचारनिबन्धनोऽयं व्यपदेशः - मञ्चाः क्रोशन्ति इतिवत् । किमित्यौपचारिकः शब्दार्थो गृह्यते ??R
?R?0तथावगतेः ;?R उक्ता ह्यर्थवादपदानामन्यपरत्वात् गौण्येवावगतिः । ननु चान्यत्वोपलब्धौ सत्यां गोर्वाहीकस्य च गौणो निर्देश उपपद्यते ‘?Rगौर्वाहीकः’ ?Rइति ;?R न चात्र शरीरादन्यमुपलभामहे । नोपलभामहे- इति कोऽभिप्रायः ??R अयमेवाभिप्रायः - नोपलभामहे इति । ननु क्रायभूतैः प्राणादिभिरुपलभामहे । ननु शरीरमेव प्राणित्यपानिति च इति । शरीरं नाम किमभिप्रेतमायुष्मतः ??R योऽयं चातुर्भौतिकः सङ्घातः । न तर्हि शरीरकार्याण्येतानि, अयावच्छरीरभावित्वात् । अयावद्भूतभावित्वादित्यर्थः । सत्यपि भूतत्वेऽनुपात्तानां न रूपादय इवोपलभ्यन्ते । किञ्च, सुखादयश्च न भूदधर्माः शक्यन्ते वक्तुम् ;?R परेन्द्रियग्राह्या हि भूतधर्मा रूपादयो भूतवदेव, न सुखादयः । मा भूवन् भूतधर्माः सुखादयः ;?R तद्व्यतरिक्तस्यान्यस्येति किमत्र प्रमाणम् ? ?Rननु च कार्यमेतत् करणादृते नोपपद्यते- इतीदमेवात्र प्रमाणम् । निरस्ता च भूतानां समवायिकारणतेति सिद्धमन्यधर्मत्वम् । नैवं सिध्यति, परस्परकार्यतयाप्युपपत्तेः । “?Rन हि यो य उपलभ्यते तस्य तस्य सम्बन्धिना भवितव्यमिति शक्यते वक्तुम्” ?Rइति यदुक्तम्, तदयुक्तमिव प्रतिभाति ;?R तदुत्पत्तिमद्दृष्टम्, तत् कथं सम्बन्ध्यन्तरं नावगमयति ??R हेतुमती ह्युत्पत्तिरिति स्थितम् । विसभागहेत्वभिप्रायमेतत् ;?R न पुनरुत्पत्तिरहेतुकैवोक्ता । कथं पुनरिदमवगम्यते- विसभागहेत्वभिप्रायमेतदिति ? “?Rन हि चन्द्रमसमादित्यं वा” ?Rइत्यत्र “?Rसम्बन्ध्यन्तरम्” ?Rइति अन्तरशब्दश्रवणात् । नन्वन्यत्वेऽप्यन्तरशब्द उपपद्यत एव । सत्यमुपपद्यते, न तु– कार्यमकारणम्– इति शक्यतेऽवगन्तुम् । भवतु दुष्टता ग्रन्थस्य ;?R न पुनर्दोष एवार्थान्तरावगमे हेतुः । न, सन्तानाभ्युपगमात् ;?R सन्ततिर्हि हेतुहेतुमद्भावनिबन्धना । तस्मात् विसभागहेत्वभिप्रायमेतदित्यवेहि । अतः सभागसन्ततिहेतुकमेवेदं कार्यजालम् ;?R नात्र विसदृशोपलब्धौ प्रमाणमस्ति–
?R?0इत्युपसंहृतम् । यदि च विसभागादृते नोत्पत्तिः स्यात्, अव्यवस्थैव स्यात् । अनयैव युक्त्या कर्तृशब्दार्थे इच्छा स्मृतिश्च चप्रत्युक्ता, अन्यस्याद्रशनादिति ;?R न ह्यदृष्टेऽन्यस्मिन् विसभागे स्मृत्यादयो नोपपद्यन्ते इति शक्यते वक्तुम् ;?R न हि दृष्टेऽनुपपन्नं नाम । तदिदमुक्तम्– “?Rअनुपपन्नमिति नः क्व संप्रत्ययः ??R " ?Rइति । किं पुनः कारणं सर्व एवामी आत्मप्रतीतिहेतव उपन्यस्य निरस्यन्ते भाष्यकारेण ??R एभिरनात्मन्यात्मबुद्धिः प्राप्नोति ;?R सर्वप्रकारं चाज्ञानं निरसनीयम् । कथं पुनरमी हेतवोऽनात्मन्यात्मबुद्धिमुत्पादयन्ति ??R यत्तावदिदमुक्तम् - “?Rप्राणादिभिरेनमुपलभामहे” - ?Rइति, किमत्रायुक्तम् ??R भूतगुणा ह्यमी न भवन्ति, अयावद्भूतभावित्वात् घटादिष्वदर्शनात् इति निरस्ते च भूतधर्मत्वे आश्रयित्वाच्चान्यसम्बन्धितायामवगतायां चित्तचेत्यानां स्वयमाश्रितत्वात् आत्मगुणा ह्येते इति युक्तमेवोक्तम् । कथमनेनानात्मन्यात्मबुद्धिः शक्यते वक्तुम् ??R तत् सुखादयोऽप्याश्रिततयोपलभ्यमाना अयावद्भूतभावितया च सम्यगात्मगुणतयोक्ताः । अत्रोच्यते- प्राणादयस्तावदयावद्भूतभावितया नैवं शक्यन्ते वक्तुम् । चलनात्मका ह्यमी ;?R वायोश्चायं धर्मः ;?R सर्वत्र हि श्वसनादिषु चलनात्मकतैवोपलभ्यते । तस्मादयावद्भूतभावित्वमसिद्धम् । सेयमनात्मन्यात्मबुद्धिः । येऽपि सुखादय उपन्यस्ताः, तेऽपि भूतविकारहेतुत्वात् भूतगुणा एवेति शक्यन्ते वक्तुम् ;?R न ह्यगुणो गुणिनं विकर्तुमुत्सहते । अवस्था हि विकारः, अवस्था चावस्थआवतोऽवस्थान्तरोत्पत्तौ हेतुः ;?R न चावस्थावस्थावतोऽन्येति सिद्धं भूतगुणत्वम् । ननु चैवमेव वक्तव्यम् । किमित्युक्तम्– कामं सुखादय एवं स्युः - इति ??R अभ्युपगम्यायमर्थो न सिध्यतीत्यभिप्रायः, कामाभिधानात् । किं पुनरभ्युपगमे कारणम् ??R इदमस्ति कारणम्- अत्र केचित् प्रज्ञाभिमानिनो
?R?0विप्रतिपन्नाः - केयमाश्रयाश्रयिता नाम ??R सङ्घातमात्रमेवेदमुपलभ्यते, न ह्येकत्रोपलब्ध्याश्रयाश्रयिता भवति भूतानामिव परस्परम् । तस्मात् तेऽपि सखादयः स्वतन्त्रा वा आश्रयिणो वा- इत्यभ्युपगमात् प्रदर्शितम् ।
?R?0 अत्रापरे ब्रह्मविदः - कर्त्रभिधानात् स्मृतेरिच्छातश्च महदादिभूतपर्यन्तात् शरीरात् अतिरिक्तमात्मानमुपलभामहे- इति प्रतिपन्नाः । कथं पुनरभिधआनादेर्हेतुतोक्ता तैः ??R ज्ञानात्मकं ह्यन्तःकरणं महदादि, ज्ञेयं च कार्यम् ;?R अतः कार्यकरणव्यतिरिक्तो ‘?Rजानाति’ ?Rइति शक्यते वक्तुम् ;?R ज्ञानेन किमपि भावयेदिति हि प्रत्ययः । तस्मात् सिद्ध आत्मा कर्तृभूतः । नन्वसौ विष्क्रिय इत्युक्तम् ;?R प्रत्ययस्य हि कर्तरि ‘?Rजानाति’ ?Rइत्ययं प्रत्ययः । येषां तावदात्मनि ज्ञानं समवैति, तेषां तत्कारणत्वात् प्रत्ययकर्तृतापि सिद्धैव । येषां पुनः बुद्धिधर्मतयैव प्रसिद्धा ज्ञानादयः, तेषामपि भोक्तृतयायं हेतुः । कथमिच्छात उपलब्धिरुक्ता ??R एवमुक्ता-भुक्तपूर्वविषयो ह्यभिलाष इच्छा ;?R न च क्षणिकेषु स्कन्धेषु भुक्तपूर्वताभिमान उपपद्यते । ननु न हि दृष्टेऽनुपपन्नं नाम । दृष्टे ह्यनुपपत्तिर्नास्ति, न पुनः दृष्टस्यान्यथाभावो दृष्टत्वान्नानुपपन्न इति शक्यते वक्तुम् ;?R दृष्टस्यायमन्यथाभावः । तस्मादिच्छया कार्यकरणादन्यमुपलभामहे इत्युक्तम् । तथा स्मृतेः ;?R स्मृतिरप्यनुभूतविषयैव । न च क्षणिकेऽर्थेऽमनुभूतानुभव उपपद्यते ;?R न हि दृष्टेऽनुपपन्नं नाम- इति । कथं तर्हि भाष्यकारेण “?Rअनुपपन्नमिति नः क्व संप्रत्ययः” ?Rइत्युक्तम् ??R श्रूयतां यथोक्तम् । किमनुभवस्यानुपपन्नत्वम् ??R अनुभव एव यस्यानुभूयते, का तस्यानुभूयमानापेक्षा ??R तस्मात् सुष्ठूच्यते “?Rअनुपपन्नमिति नः क्व संप्रत्ययः” ?Rइति । तस्माच्छून्याः स्कन्धा इत्युपसंहृतम् । तथा च ब्राह्मणमप्यमुमेवार्थमनुवदति “?Rविज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ;?R न प्रेत्य संज्ञास्ति” ?Rइति ।
?R?0तस्मादनात्मन्यात्मबुद्धिहेतवोऽमी निराकरणीयतयोपन्यस्ता भगवता भाष्यकारेण । “?Rअत्रोच्यते- नैतदेवम् ;?R अन्येद्युर्दृष्टेऽपरेद्युः ‘?Rअहमिदमदर्शम्’ ?Rइति भवति प्रत्ययः ;?R प्रत्यगात्मनि चैतद्भवति, न परत्र ;?R परो ह्यसौ, योऽन्येद्युर्दृष्टवान् । तस्मात्तद्व्यतिरिक्तोऽन्योऽस्ति, यत्रायमहंशब्दः” ?R। ?Rकिं पुनः कारणमत्रानुमाननिराकरणे ??R असम्भवादिति ब्रूमः । ‘?Rप्रत्यक्षदृष्टेऽर्थेनुमानं न संभवति’ ?Rइति साहसमिदम् । स्वयमेव च वक्ष्यति “?Rनूनमसावनित्यान्नित्यं पश्यति” ?Rइति । तस्मान्नात्रासम्भवाभिप्रायो वर्णयितुं शक्यते । अथैतन्मनसि विपरिवर्तते ‘?Rपरोक्तमनुमानं न संभवति’ ?Rइति । प्रत्यक्षोपन्यासस्तर्हि किमर्थः ??R न ह्यसति प्रत्यक्षेऽनुमानमुपपद्यते इति चेत्, किमिदम् ‘?Rअसति प्रत्यक्षे’ ?Rइति ??R अस्ति चानुमानं प्रत्यक्षव्यापारनिरपेक्षम् । न ब्रूमः ‘?Rअनुमानं सर्वत्र प्रत्यक्षव्यापारनिरपेक्षमेव नास्ति’ ?Rइति । किं तर्हि ? ‘?Rस्वयमात्मानं प्रत्यक्षेणानुपलभ्य नेदमनुमानं प्रवर्तते’ ?Rइति । उपलब्धश्चेत् स्वयम्, किमनुमानेन ??R स्वपरिज्ञानशुद्धिर्हि श्रेयसे ;?R तदर्थश्चायमारम्भः । अथायमुपदेशः परार्थ एव प्रवृत्तः, आत्मसंविद इदानीं क उपयोगः ??R अथ परस्यापि प्रतिपत्तौ प्रत्यक्षमेव प्रमाणम्- इति मतम्, अनुमानोपन्यासोऽनर्थकः । यदप्युच्यते- “?Rयत्रायं अहंशब्दः” ?Rइति, पुनश्चापहूयते- “?Rन वयं ‘?Rअहम्’ ?Rइतीमं शब्दं प्रयुज्यमानमस्मिन्नर्थे हेतुत्वेन व्यपदिशामः” ?Rइति, तदप्यबुद्धिमत इवाभिधानमिति प्रतिभाति ;?R किमपह्नवनीयस्याहंशब्दस्योपन्यासे प्रयोजनम् ??R इदमपरमयुक्तम्- “?Rयदि विज्ञानादन्यदस्ति विज्ञातृ विज्ञानमपास्य तन्निदर्श्यताम् ‘?Rइदं तदीदृशं च’ ?Rइति” ?R। पृष्टे “?Rअत्रोच्यते”?R– इत्येवमाद्युत्तरं नोपपद्यते ;?R अत्र विज्ञानाग्रहणे तद्ग्रहणं नास्ति- इति चोदितम् ;?R स्वसंवेद्यतया कथमस्य निराकरणम् ??R न हि स्वसंवेद्यत्वनिबन्धनं विज्ञानग्रहणपूर्वकं ग्रहणं वस्तुनः । अथायमभिप्रायः - स्वसंविन्नो न
?R?0पृथक्तया व्यपदेष्टुं शक्यते परस्मै– इति, अत्यल्पमिदमुच्यते ;?R अपृथक्तया वा कथं परेणासंविन्नोऽर्थो व्यपदेष्टुं शक्यते परस्मै ??R तस्मादिदमप्यनालोचनपूर्वमिव प्रतिभाति । प्रत्युक्तस्य चोपन्यासे किं प्रयोजनमिति नैव ज्ञायते । न चायमर्थः परित्यक्त एव, विज्ञानग्रहणोपसंहारात् । अथायभिप्रायः - विज्ञानग्रहणपक्षेऽप्यात्मनः प्रत्यक्षत्वं न शक्यतेऽपह्नोतुम् इति, “?Rरूपान्तरं नोपलभामहे” ?Rउपमानमपि नैयायिकाक्तमभिदधता स्वलक्षणाभिधानविरुद्धमुक्तम् । न च ‘?Rअहं गच्छति’ ?Rइति चोद्यस्यापि स्पष्टं किञ्चिदुत्तरमुपलभ्यते । ब्रह्मविद्विरुद्धं त्वेतत् यदुताहंप्रत्ययमेयतात्मनः । मूर्धाभिषिक्तमिदमनात्मन्यात्मज्ञानम् इत्युदाहृतम्- यदुताहंकृतिर्ममकारश्च- इति । निर्मुक्ताहंकारममकारमात्मज्ञानमित्यात्मविदो मन्यन्ये । तस्मादनात्मज्ञानविलसितमिदम्- अहंप्रत्ययप्रमेय आत्मा- इति । अत्रोच्यते- “?Rअन्येद्युर्दृष्टेऽपरेद्युः ‘?Rअहमिदमदर्शम्’ ?Rइति भवति प्रत्ययः ;?R प्रत्यगात्मनि चैतद्भवति, न परत्र” ?Rकिमिदम् ‘?Rअहमिदमदर्शम्’ ?Rइति ??R यदि तावत् प्रत्यभिज्ञा, क्षणिकत्वस्यैव तदुत्तरम्, न नैरात्म्यस्य । न चात्र क्षणिकत्वनिराकरणमभिप्रेयम् । किं तर्हि ??R बुद्धीन्द्रियशरीरव्यतिरिक्तस्यात्मनः सद्भावप्रतिपत्तिः । न च क्षणिकतया नैरात्म्यमुक्तं परैः । किं तर्हि ??R स्कन्धातिरिक्तानुपलब्धेः ;?R नित्यताया हि क्षणिकत्वं विरोधि, नात्मसद्भावस्य । तस्य चात्र सद्भावः परैराक्षिप्तः प्रतिपाद्यते, न पुनरात्मनो विद्यमानस्य नित्यताया आक्षेपं प्रतिसमाधिः । न च- अन्य उपलब्धा ह्यः, अद्य चान्यः - इत्येतावता नैरात्म्यम् । तस्मात् ‘?Rअहंप्रत्ययग्राह्यः कार्यकरणव्यतिरिक्तोऽस्ति’ ?Rइत्येतावद्वक्तव्यम्, ‘?Rह्योऽद्य’ ?Rचेत्यतिरिच्यते । अथेयं बुद्धिः - साधितेऽप्यस्तित्वे क्षणिकत्वादात्मतैव हीयत- इति, कयं मुक्तिः ??R स्कन्धानां स्कन्धता किमिति न हीयते ??R
?R?0भोक्तृत्वं ह्यात्मनः स्वरूपम्, भोग्यता च स्कन्धानाम् ;?R यथा च क्षणिकत्वेऽपि भोग्यता नापनेतुं शक्यते स्कन्धानाम्, तथा भोक्तृत्वमप्यात्मनः । तदिदं क्षपाप्रयाणकम् । अनात्मज्ञो भवान्, यस्यैवंविधानि चोद्यानि । वेत्सि किमिति क्षणिकता स्कन्धानामुक्तेति ??R किमिति वोक्ता ??R भोक्तुरभावान् । भोक्तुरभावे क्षणिकता स्कन्धानाम्- इति किमियं राजाज्ञा ??R नेयं राजाज्ञा ;?R नयाज्ञा ह्येषा । कथम् ??R भोक्तृसद्भावे कार्यकरणं क्षणिकम्- इति नास्ति नः प्रमाणम् । कस्मात् ??R अनुमेयं हि कारणं कार्यतः ;?R अतश्च क्रियासिद्धिः । क्रियापलापनिबन्धनोऽयं क्षणिकत्ववादः । लुल्तक्रियस्य च कर्तृत्वभोक्तृत्वाक्षेपः । तदाक्षेपे चात्माक्षेपः । परिणतिस्वभावमात्रमिदं कार्यकारणमिति, कल्पनेयं कर्ता भोक्ता इति च । तस्मादहंप्रत्ययालम्बनमात्रसिद्धौ सिद्धेऽपि बुद्धिन्द्रियशरीरव्यतिरेकिणि कर्तृत्वभोक्तृत्वे न स्तः ;?R तदात्मकता चात्मन आत्मता । तस्मात् अविनाशितापुरस्सरैव भोक्तृता- इति मन्वानः सप्रत्यभिज्ञं प्रत्यक्षमुपन्यस्तवान् भाष्यकारः । अत एव च नैरात्म्यवादिनो मुहुर्मुहुः क्षणिकताकिञ्चित्करतां चापादयन्त्यात्मनः - “?Rचर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः” ?Rइति । तस्माद्भोक्तृतैवात्मेति । युक्तम्- भोक्तृतैवात्मा इति ;?R कर्तृत्वोपन्यासस्तु विरुध्यते, निष्क्रियत्वादात्मनः ;?R सर्वगतत्वाच्च निष्क्रियत्वम् ;?R प्रतिपन्नं च सर्वगतत्वम् , सर्वत्र सुखोपलम्भात् । न ह्यसत्यागमने किंचिद्धिरुध्यते । चलनात्मिकां क्रियामङ्गीकृत्य निष्क्रियतोक्ता, न पुनर्भोगोत्पत्तावपि । तस्मात् सुष्ठूच्यते- कर्तृभोक्तृतैवात्मा इति । तस्मादुपपन्नोऽयं ग्रन्थः “?Rअहमिदमदर्शम्” ?Rइति । विषयप्रत्यभिज्ञा चैतन्निबन्धना- इति शब्दाधिकरणे उपन्यस्यते । “?Rप्रत्यगात्मनि चैतद्भवति” ?R- इिति कस्यार्थस्य सिद्धये ??R भोक्तृत्वस्यैव । कथम् ??R प्रत्यगात्मनि भोगदर्शनात् । यदि
?R?0परोऽप्यहंप्रत्ययस्य विषयतामापद्येत, तदा भोक्तृत्वहानं प्राप्नोति ;?R भोक्तृता चात्मेत्युक्तम् । “?Rन परत्र, परोह्यसौ, योऽन्येद्युर्दृष्टवान्” ?Rइति प्रत्यभिज्ञानुपपत्तिः । “?Rयत्रायमहंशब्दः” ?Rइति अहंशब्दोपन्यासस्तर्हि किमर्थः ??R परापह्नवाय ??R नापह्नवाय ;?R परप्रतिपत्तये । किमिति तर्ह्यवह्नवः ??R साक्षाद्धेतुत्वशङ्कानिराकरणाय । साक्षाद्धेतुत्वं मन्वानेन ‘?Rअनात्मन्यप्यहंशब्दोऽस्ति’ ?Rइति प्रदर्शितम्- “?Rपरत्राप्यहंशब्दो भक्त्या दृश्यते” ?Rइत्येवमादिना । “?Rन वयम्” ?Rइति न साक्षाद्धेतुतयेदमुपन्यस्तम् इति प्रकटितम् । हेत्वर्थप्रदर्शनार्थस्तु शब्दप्रयोगः । ननु च “?Rअहं गच्छामि” ?Rइति न हेत्वर्थप्रदर्शनमात्रतया शक्यते परिहर्तुम् ;?R अत्र हि अहंप्रत्ययोऽपि व्यभिचार्येवोपलभ्यते, अचलात्मकत्वादात्मनः । तस्मात् स्कन्धा एवालम्बनतामापद्यन्ते इत्याशङ्कनीयमिदम् ;?R किमिति निराशङ्कैरेव गम्यते ??R किमत्राशङ्कनीयम् ??R इदंप्रत्ययग्राह्यं हि कार्यकरणम् ;?R प्रत्ययान्तरग्राह्ये च वस्तुनि विरुद्धप्रत्ययान्तरालम्बनता नोपपद्यते ‘?Rगौर्वाहीकः’ ?Rइति यथा । गौण उपपद्यते इति चेत् परिहृतमेतत्त्वयैव । तस्मादसंभिन्नेदंप्रत्यय एव अहंप्रत्यय आत्मन आलम्बनम् । ब्राह्मणमप्यमुमेवार्थमनुवदति- “?Rअशीर्यो न हि शीर्यते” ?Rइत्यशीर्यतया भोक्तृत्वमात्मनः । “?Rविनश्वरं च विज्ञानम्” ?Rइति तद्व्यतिरिक्तालम्बनतामापादयति । तस्मात् व्यामोहोऽयमहंकारग्रन्थिरिति न शक्यते वक्तुम्, “?Rयस्य च दुष्टं करणम्, यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययः ;?R नान्यः” ?R- इति सिद्धत्वादस्यार्थस्य । यदि परं ब्रह्मविदामेष निश्चयः - यदुपलभ्यते, तदसत् ;?R यन्नोपलभ्यते, तत्तत्त्वम्- इति, नमस्तेभ्यः ;?R विदुषि नोत्तरं वाच्यम्- इत्यत्र परिहारः । तस्माद्यथार्थोऽयमर्थवादः - “?Rस एष यज्ञायुधी यजमानः” ?Rइति ।
?R?0 “?Rआह- यदि विज्ञानादन्यदस्ति विज्ञातृ विज्ञानमपास्य, तन्निदर्श्यताम्
?0’?Rइदं तदीदृश च’ ?Rइति” ?Rइति किमिदं चोद्यते ??R इदमेव चोद्यते । तदेव न ज्ञायते । कथं न ज्ञायते ??R इत्थं न ज्ञायते- किं वा सविज्ञानस्यात्मनोऽहंप्रत्ययः प्रमाणतयोपन्यस्तः, येनेदमुच्यते- विज्ञानमपास्य तन्निदर्शयितव्यम् इति ??R अनेकवस्त्वालम्बनं हि यत्र ज्ञानम्, तत्रेदं युज्यते वक्तुम्- इदमपास्येदं निदर्शय इिति ;?R इह त्वेकात्मरूपैव संवित् । तस्मात् इदं व्युदसनीयम् इति तमसि पदम् । अत्रोच्यते- अयमस्याभिप्रायः ;?R ज्ञेयत्वे ह्यात्मनो ज्ञानज्ञातृणी व्यतिरिक्ते न शक्येते वक्तुम् ;?R न चापास्यैव ते संविदस्तीति सिद्धम् । तस्मात् ज्ञानज्ञातृणी व्युदस्य पृथक् प्रमेयतया निदर्श्यताम् । “?Rअत्रोच्यते- स्वसंवेद्यः स भवति ;?R नामानन्येव शक्यते द्रष्टुम्” ?Rइति । किमिदमस्योत्तरमुपपद्यते ??R किमिति नोपपद्यते ??R एवं नोपपद्यते- सैवेयं पूर्वोक्तैकालम्बनानेकाकारता प्रत्ययस्याभ्युपगता भवति । अविवेकापराधोऽयम्, नात्रायुष्मतो दोषः । ननु च अहंप्रत्ययोऽयम् “?Rअहमिदमदर्शम्” ?Rइत्युपन्यस्तः, न ‘?Rअहमदर्शम्’ ?Rइति । एवं च सति केयमनेकाकारता ??R “?Rअविवेकः परमापदां पदम्” ?R। यदि ह्यात्मशब्दवाच्यतया ज्ञेयतोपन्यस्ता स्यात्, प्रमेयान्तरशून्यता वा, तदैतच्चोद्यमभविष्यत् ;?R इह तु सर्वज्ञेयप्रमातृतयैव संविदुपन्यस्ता ;?R तस्मात् प्रतिपक्षोपन्यास एवायं कथं तेनैव बाध्यते ??R न हि यद्यस्य बाध्यम्, तत्तस्यैव बाधकं भवितुमर्हति । तस्मात् सम्यगुत्तरम् । “?Rयथा कश्चिच्चश्रुष्मान्” ?Rइत्यनेनापि निदर्शनेन कर्तृकरणान्तरनिषेध एव स्थिरीकृतः । ननु चात्र कर्त्रन्तरं करणान्तरं भिन्नं मेयात् ;?R तत् किमिदं निदर्शनम् ??R कर्त्रन्तराभावसामान्यात् । तस्मात् कारणदोषरहिता अविपरीता च संविद् आत्मास्तित्वे हेतुः । भवतु वा कर्त्रन्तरं मा वा । उक्तं च- यथा अवगम्यन्तेऽर्थाः, तथा भवन्ति ;?R यथा नावगम्यन्तेऽर्थाः, तथा न भवन्ति
?R?0इिति । अत्रापि ब्राह्मणं भवति “?Rशान्तायां वाचि” ?R। आत्मनि व्यापृतेऽन्यत्र कर्तृतया कथं कर्तृकरणान्तराभावो गृह्यते- इति प्रश्नः । वाग्ग्रहणं च करणान्तराभावनिदर्शनार्थम् । “?Rआत्मज्योतिः सम्राडिति होवाच” ?Rइत्ययमर्थः पूर्वोत्तरपक्षभड्ग्या प्रदर्शितः । एवं च “?Rअगृह्यो न हि गृह्यते” ?Rइति ब्राह्मणमुपपन्नम् । ननु चात्राग्राह्यतैवोपन्यस्ता । ननु न श्रुतं भवता “?Rआत्मज्योतिः सम्राट्” ?Rइति ??R इदमपि किं न श्रुतम् ??R द्वयोः श्रुत्योस्तदनुरोधेनास्याग्रहणश्रुतिरापेक्षिकी, न पुनरात्मग्रहणमन्यथा व्याख्यायते- इति का युक्तिः ??R स्वयंज्योतिर्ग्रहणे गुणवादस्यासम्भवात् अग्राह्यत्वे चापेक्षिकतयोपपत्तेः, ‘?Rआत्मा ज्ञातव्यो मन्तव्यः’ ?Rइति चाविरोधात् । एवं च स्वयंज्योतिष्ट्वमुपपद्यत इति ।
?R?0 ननु चैवं सति कथं परस्मै प्रतिपादयितुं शक्यते ??R परप्रत्ययार्थश्चायमारम्भः शास्त्रकाराणां श्रुतीनां च । स्वसंविदेवात्राभ्युपायतां प्रतिपद्यते- आत्मना संवद्येते न परेणेति । सर्वपुरुषेषु च परासंवेद्यसंविदस्तीति सिद्धा परसंवित्प्रतिषेधमुखेनोपदेशानामुपदेशता । तदिदम् “?Rनेति नेति” ?Rइत्युपन्यस्तम् । ननु सुखादयोऽपि स्वसंवेद्या एव ;?R तेऽपि परेण नैव परस्थाः संवेद्यन्ते । कथं तेभ्योऽन्यतया परस्मा उपदिष्ट आत्मा भवति ??R तत्र भाष्यकारेण ‘?Rलिङ्गावगम्यतया परेणावगम्यन्त एव’ ?Rइत्युक्तम् ;?R तदयुक्तम्, आत्मनोऽपि प्रसङ्गात् । तत्र चेष्टानुमानं स्वयमुपन्यस्यति । अतः प्रतिपन्नार्थापघाति कथं विद्वद्भिर्लिख्यते ??R तदिदमनुपासितगुरोश्चोद्यम् ;?R चेष्टा हि कारणदोषनिराकरणतया उपन्यस्ता ;?R सुखादयस्तु भ्रूभङ्गनेत्रविलासादिगम्याः । कः पुनरनयोर्विशेषः ??R अनेनापि परस्यैव संविद्गम्यते । अकार्यत इति विशेषः कथं पुनरसम्बद्धमुपलक्षयति ??R कथं वा अनुपलक्षितः पुरुषान्तराविपर्ययः स्वात्मनि विपर्ययाशङ्कां निरस्यति
?0??R विपर्ययाग्रहणादिति ब्रूमः । न चाग्रहणे सम्बन्धितोपयुज्यत इत्युक्तम् । तस्मादुपपन्नमिदं शाबरं वचः । मा भूत् आत्मनोऽनुमानम्, चेष्टानिमित्ता तु परात्मप्रतिपत्तिः किमिति परात्मानं नानुमापयति ??R अत्र ब्रूमः - उक्तमेव ‘?Rभोक्तृतया ह्यात्मता’ ?Rइति । उपमाप्यत्र कथनोपायतयैवोपन्यस्ता । कथनं च प्रमाणान्तरपूर्वकमिति न लक्षणव्यवहारयोर्विरोधः । “?Rयदप्युच्यते- विज्ञानमपास्य तन्निदर्श्यतामिति” ?R। ननु च दत्तोत्तरमेतत् “?Rस्वसंवेद्यः स भवति” ?Rइति ;?R दत्तोत्तरस्य च पुनरुपन्यासो नोपपद्यते । अथायमभिप्रायः - नैव तत्, इदमस्योत्तरम् । कस्य तर्हि तदुत्तरम् ??R यदि न कस्यचिदुत्तरम्, किमेतावता तदुत्तरेण भवितव्यम् ??R ननु तदनन्तराभिधानात् तदुत्तरमिति गम्यते । पुनः प्रश्नाभिधानान्नोत्तरमित्यवेहि ; ?Rक्रमाच्च लिङ्गं बलीयः । तदिदमाकाशभ्रान्तम् ;?R उभयं तस्यैवोत्तरम् । “?Rस्वसंवेद्यः स भवति” ?Rइतीदमपि लिङ्गादेवोत्तरमवसीयंते ;?R व्याख्यातं चास्य तदपाकरणसामर्थ्यम् । पुनः प्रश्न इदानीं किमर्थः ??R अस्ति रिञ्चिदवलग्नम् । किं तदवलग्नम् ??R सत्यम् ; ‘?Rइदमहं वेद्मि’ ?Rइति संवेद्यते, नाकारान्तरकल्पना ;?R विज्ञानविविक्तस्यतु ग्रहणं न प्राप्नोति, व्यापृतावगमात् ;?R विज्ञानावगमे च रूपान्तरानुपलब्धेः पुनरपि शून्यता । तस्मात् कल्पित एवायमहङ्कारग्रन्थिरिति पुनरुपन्यासः । “?Rयद्युपायमेव प्रतिषेधासि” ?Rइति किमभिप्रेतमुत्तरवादिनः ??R इदमभिप्रेतम्- ग्राह्यानुकारिता हि ग्रहणस्योक्ता, न ग्राहकानुकारिता । व्यापृतावस्थोपायतयोपन्यस्था कथमनुपायमुपेयं शक्यते कथनितुमिति । तदिदमाह- “?Rयद्युपायमेव प्रतिषेधसि, न शक्यमुपायमन्तरेणोपेयमुपेतुम् । अयमेवाभ्युपायो ज्ञातव्यानामर्थानाम्” ?Rइति । “?Rतद्यथा- कः शुक्लो नाम ??R यत्र शुक्लत्वमस्ति” ?Rइत्यनेन किं समर्थितम् ??R इदं समर्थिम्- यथा न शुक्लतामन्तरेण ज्ञेयमवगम्यत इति । ननु चैवं
?R?0शुक्लतापुनःसरैव ज्ञेये बुद्धिः ;?R एवं चानभिप्रेतोऽर्थः समर्थितो भवति । नानभिप्रेतः ;?R एतावदनेनोक्तम्- नोपायमन्तरेणोपेयानामुपेयत्वम् इति ;?R यस्य यथैवोपायत्वम्, तथैव तस्य ;?R ज्ञानस्य तूपाय?Rत्वेऽपि न तत्पुरःसरा संवित् इत्युक्तम् । तस्मात् सर्वविज्ञानज्ञेयतात्मनः स्थिता भवति ‘?Rअहमिदमदर्शम् ‘?R इति । इयान् विशेषः - अनुमानादिष्वपि प्रत्यक्षता । विषयभेदाद्धि प्रमाणभेदः, न प्रमातृभेदात् । प्रमातृरूपता तु ज्ञानस्यानाशङ्कनीयैव, अनाशङ्कितत्वात् । युक्तं चेदं नाशङ्कितम्, कर्मप्रवणत्वात् कर्मणः सकर्मकस्य । यदपि ज्ञातृतैव ज्ञानादृते न शक्यतेऽवगन्तुमिति, तदधीनत्वात्तदवगतेः ;?R यदुक्तम् “?Rन च रूपान्तरोपलब्धिः” ?Rइति, तदपि प्रत्युक्तम् “?Rकामं विज्ञानमपह्नूयेत, नार्थः” ?Rइति । तस्मात् सिद्धमात्मतत्त्वमिति ।
?R?0 यत् पुनर्ब्राह्मणम् “?Rन प्रेत्यं संज्ञास्ति” ?Rइति, तत् पूर्वोत्तरभड्ग्या स्वयमेव ब्राह्मणान्तरेण व्याख्यातम् । एवं चार्थवादार्थता उपपन्नैवेति ‘?Rन चैष विधिशब्दः’ ?Rइत्यपि प्रत्युक्तम् । ननु च “?Rस एषः” ?Rइत्युपपन्नार्थम् ; “?Rस्वर्गं लोकं याति” ?Rइति कथम् ??R अधिकृतकामसिद्धेः सिद्धम् । यदुक्तम् “?Rअहंकारममकारावनात्मन्यात्माभिनानौ” ?Rइति, मृदितकषायाणामेवैतत् कथनीयम् ;?R न कर्मसङ्गिनामित्युपरम्यते । आह च भगवान् द्वैपायनः - “?Rन बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्” ?Rइति रहस्याधिकारे । तस्मान्न विवृतमत्र भाष्यकारेण भगवता, वचनानुरोधात्, नाज्ञानात् इति ॥
?R?0 ?R
?R?0बृहती
?R?0॥ कर्मैके तत्र दर्शनात् ॥
?R?0 “?Rउक्तम् नित्यः शब्दर्थयोः सम्बन्धः इति ;?R तदनुपपन्नम्” ?Rइति केयमनुपपत्तिः ??R इयमेवानुपपत्ति - अनित्ये शब्दे नित्यः शब्दार्थयोः सम्बन्धो नोपपद्यते इति । कथं तर्हि समवाये ??R युतसिद्धयोरनुपपत्तिः । शब्दत्वं य निरस्तम् । ननु च गत्वाद्यन्यदनिरस्तमस्ति । न तत्, गस्य विशेषानुलब्धेः । कथं तर्हि शुकशारिकामनुष्येषु ??R अत एव स्वतो विशेषो नोपलभ्यते ; ?Rशुकशारिकामनुष्या एव हि तत्र विशेषतामाद्यन्ते । तथा च लौकिकाः ‘?Rशुकोऽयं पठति’, ‘?Rमनुष्योऽयं पठित’ ?Rइति विशेषानभिदधति, न पुनः ‘?Rअमुं गविशेषम्, अमुं गविशेषम्’?R इति । तस्मान्न नित्यता सिध्यति सम्बन्धस्य । अतः शब्दस्य नित्यत्वं वक्तव्यम् ;?R तदिदमाक्षेपपूर्वकमुच्यते “?Rकर्मैके तत्र दर्शनात्” ?Rइति । ननु चैवं सति कृतकोऽपि सम्बन्धो नोपपद्यते । ततः किम् ??R अनित्यत्वप्रतिज्ञा नोपपद्यते ;?R लोकिकव्यवहारविरोधात् बलान्नित्यता प्राप्नोति । लौकिकव्यवहारविरोधादनित्यता मा भूत् ;?R नित्यतापत्तेः किमायातम् ??R इदमायातम्- लौकिकव्यवहारानुपपत्तिरेव । सत्यमेवम् ;?R यदि प्रत्यस्तमितं समयेन ;?R न ह्यविषयः समयस्यास्ति ;?R सर्वानुपपत्त्यार्तिहरोऽयं समयः तस्मात् शब्दप्रमाणकानां न व्यवहारदर्शनमात्रेण प्रामाण्यं सिध्यति । तस्मान्नित्यत्वे यत्नः कर्तव्योऽभिधानस्य । स चायमारब्धः, वृद्धव्यवहारपूर्वकत्वात् सम्बन्धज्ञानस्य सम्बन्धज्ञानस्य सम्बन्दज्ञानपूर्वकत्वाच्चार्थावगतेः । न च क्षणिकत्वेऽपि चक्षुरादीनामिव प्रामाण्यसिद्धिः, प्रथमश्रवणानवगमात् । “?Rकर्मैके तत्र दर्शनात्” ?Rइति कृतकत्वं शब्दस्योच्यते ;?R किमिदं कृतकत्वम् ??R पुरुषप्रयत्नेनोत्पत्तिः । नन्वप्रयत्नपूर्विकापि शब्दस्योत्पत्तिर्दृष्टा यथा छलब्छलादेः । नायं दोषः,
?R?0अभिधानाधिकारात् । न चेदमभिधानमप्रयत्नपूर्वकं दृश्यते । अतः क्रियानन्तरोपलब्धेस्तयैवोत्पद्यत इति मन्यामहे । कथं तर्हि मूलोदकादिषु ??R अन्यतोऽस्तित्वावगतेः ;?R शब्दे पुनः प्रयत्नानन्तरैवोपलब्धिः । तस्मान्न विद्यमानस्य प्रयत्नोऽभिव्यञ्जक इति शक्यते वक्तुम् । नन्विदमस्ति प्रयत्नात् पूर्वमस्तित्वे प्रमाणम् । किमिदमस्ति ??R सप्रत्यभिज्ञं प्रत्यक्षम् । कथमत्र प्रत्यभिज्ञानम्, अन्यत्वानवगमात् ??R अनित्यत्वावादिनो वा किमन्यत्वेनावगतिरस्ति ??R किमिति नास्ति प्रध्वस्तोत्पन्नयोः ??R विशेषाग्रहणात् । किं विशेषाग्रहणनिबन्धनैव प्रत्यभिज्ञा ??R किं वा मन्यते भवान् ??R कर्मण्यपि प्रत्यभिज्ञा प्राप्नोति । स्वरूपग्रहणे सति इदमुच्यते ;?R आनुमानिकं च कर्म- इत्युक्तम् । का वार्ता ज्वालादिषु ??R नित्यत्वे ज्वालादीनामनुमानविरोध इति चेत्, तुल्यमभिधानेऽपि, अस्थानादेः । तस्मात् विशेषाग्रहणेऽप्यन्ता ;?R अन्यत्वे च सिद्धा प्रयत्नानन्तरोपलब्धेः प्रयत्ननोत्पत्तिः । ननु च प्रयत्नोत्पन्नानामपि कालान्तरावस्थायितया नैव व्यवहारानुपपत्तिः । उत्पन्नस्यापि चक्षुरादेः स्वाभाविकं रूपग्रहणसामर्थ्यं नैव विहन्यते । सत्यम् ;?R नैतच्छब्दे, अस्थानात् । ननु चक्षुषोऽस्थानत्वेऽपि रूपग्रहणशक्तिर्नैव विहन्यते, तद्वच्छब्देऽपीति चेत्, प्रत्युक्तं प्रथमश्रवणानवगतेः । तस्मात् ‘?Rअस्थानात्’ ?Rइत्ययं हेतुरौत्पत्तिकत्वविघाती सम्बन्धस्य । यदि कालान्तरावस्थायिता स्यात्, स्यादपि व्यवहाराच्छब्दादर्थावगतिः ;?R अस्तथायित्वे पुनः समय एव शरणं भवितुमर्हतीत्युक्तम्- “?Rअस्थानात्” ?Rइति ॥
?R?0 लौकिकमप्यभिधानममुमेव न्यायमनुवर्तते । कात्र न्यायानुवृत्तिः ??R मुख्यार्थता करोतेः - शब्दं कुरु, शब्दं मा कार्षीः, शब्दकार्ययं माणवक इति ॥
?R?0 “?Rनानादेशेषु च युगपच्छब्दमुपलभामहे ;?R कदेकस्य नित्यस्यानुपपन्नमिति” ?Rकेयमनुपपत्तिः ??R इयमनुपपत्तिः - युगपदेकस्यानेकत्रोपलब्धिर्न दृष्टा । ततः किम् ??R इदं ततो भवति- साधितमन्यत्वम् । ननु च साधितमन्यत्वम् । सत्यं साधितम् ;?R हेतुप्रचयस्तु प्रदर्श्यते । को लाभः ??R न खलु कञ्चित् । न चेत् कश्चित्, हेतुप्रचयेन किम् ??R सत्यं यथा भवानाह ;?R किन्त्वयमेवार्थो राद्धान्तमाक्षिपति । तस्मात् तद्भ्रमप्रतिषेधार्थोऽयमारम्भः ;?R न ह्यनुपन्यस्तस्य भ्रान्तता शक्यते वक्तुम् ;?R अप्रदर्शिते च भ्रान्तत्वेऽपुनरुक्तोऽयं भवति कस्यचिन्मन्दधियः । सर्वार्थं चेदं शास्त्रं “?Rमन्दविषेणापि” ?Rइति दर्शितं भाष्यकारेण । “?Rअसति वेशेषे नित्यस्य नानेकत्वम्” ?Rकिमिदम्- असति, विशेषे नित्यस्य नानेकत्वमिति ? ‘?Rअसति विशेषे नानात्वं नास्ति’ ?Rइति शक्यते वक्तुं नित्यस्य अनित्यस्य वा ;?R नित्यग्रहणं न विद्मः । यद्यनित्यस्यासत्यपि विशेषे नानात्वं स्यात्, युक्तं वक्तुम् ‘?Rनित्यस्य’ ?Rइति । तस्माद्वर्णनीयोऽयं ग्रन्थः । वर्ण्यते तर्हि- गवादरेकस्यानेकत्र युगपदुपलब्धिर्दृष्टा नित्यस्य सतः ;?R तस्मात् “?Rसत्त्वान्तरे च यौगपद्यात्” ?Rइत्यस्यानेनान्यथासिद्धिराशङ्किता ;?R तस्येदमुत्तरम् “?Rअसति विशेषे” ?Rइति । किं गवादेर्विशेषो विद्यते ??R तदपि ह्येकमविशिष्टम् ;?R न ह्यन्यच्छाबलेये अन्यच्च बाहुलेये । अथआयमभिप्रायः - असत्याश्रयविशेषे- इति । तत्राप्याश्रयस्यैवान्यत्वम् ;?R किमायातमाश्रयिणः ??R तस्मान्नित्यस्याप्येकस्यानेकत्र युगपदुपलब्धिर्दृष्टा । अतो नान्यत्वे युगपद्दर्शनं हेतुः । अथेदं मतम्- नैव गवादेर्युगपद्दर्शनमनेकत्र ;?R भेदा एव हि तत्रानेकदेशतया गृह्यन्ते, न गोत्वमिति । कथं तर्हि सर्वेषु ‘?Rगोः’, ‘?Rगौः’ ?Rइति बुद्धिः ??R अत एवानेकदेशत्वं गोत्वस्य नास्ति । अन्यथा हि ‘?Rइह गोत्वम्’, ‘?Rइह गोत्वम्’ ?Rइति स्यात् । कथं तर्हि “?Rइह प्रत्ययात् समवायः” ?
?R?0एकद्रव्यपदार्थाभप्रायं तत्, न व्यक्त्यभिप्रायम् । तस्माद्धेतुरन्यत्वे युगपद्दर्शनम् । “?Rअसति विशेषे” ?Rइति च युक्तं विशेषग्रहणम् । ननु चानित्यस्याप्यसति विशेषे नैवान्यत्वम् । बाढमस्ति ज्वालादिषु ;?R कार्यत्वाच्चाविरोधः । नित्यस्य त्वकार्यत्वादनेकत्वविरोध इति युक्तो हेतुः ॥
?R?0 प्रकृतिविकारभावच्च शब्दज्ञाः स्मरन्ति ;?R न चायं नित्यस्योपपद्यते ;?R तस्मात् स्मृतिरपि पूर्वोक्तहेत्वनुगुणैव । सादृश्यमप्यनुगुणमुपलभामह इत्युपपन्नं कार्यत्वम् ॥
?R?0 कारणवृद्ध्यनुगमाच्च कार्यत्वं मन्यामहे ज्वालादीनामिव । तस्मादनुपलक्ष्यमाणावयवस्यापि अवयववृद्धिरनुमीयते ;?R ज्वालैवात्र निदर्शनम् ॥
?R?0 “?Rसमं तु तत्र दर्शनम्” ?R। किमिदं समं दर्शनम् ??R इदं तत् समं दर्शनम्- कार्ये चाकार्ये च तुल्यो हेतुरिति । कथं तुल्यता ??R सांन्यासिकतया । किमत्र संन्यस्तम् ??R इदमत्र संन्यस्तम् - यदि सप्रत्यभिज्ञप्रत्यक्षग्राह्यतां वक्ष्याम इति । ननु उक्त तत् परिहृतं च- ज्वालादिष्विवानुमाने प्रत्यर्थिनि न शक्यत एकतां वक्तुमिति । सत्यम् ;?R यदि भेदाग्रहणनिबन्धनैव प्रत्यभिज्ञोच्येत ;?R तद्गहणनिबन्धना सा- इति प्रतिपादयतिष्यामः । तस्मादुपपन्नम् “?Rसमं तु तत्र दर्शनम्” ?Rइति ॥
?R?0 “?Rसतः परमदर्शनं विषयानागमात्” ?Rइति तद्वदनैकान्तिकमदर्शनमपीत्युक्तम् । नन्वेतन्नोपपद्यते ;?R नित्यस्यादर्शने को हेतुः ??R यदि परं विषयानागमः, अस्तु तर्हि । स एवात्र दुर्भणः । किमिति ??R नित्यपक्षे ह्यभिव्यङ्ग्यत्वं शब्दस्य ;?R एकश्चायं शब्द एकविषयश्च आकाशविषयत्वात् ;?R ग्राहकं चास्याकाशमेव ;?R केयं विषयानागतिः ??R तस्मात् ध्वस्तस्यैवानुपलब्धिर्न्याय्य । केन वोक्तम्- न न्याय्येति ??R तद्गहणे तु
?R?0सति सर्वस्यैवास्यान्याय्यता न्याय्या । अत एवोक्तम्- “?Rयदि शक्ष्यामः” ?Rइति । ननु तद्ग्रहणेऽपि नात्र आवणादिकल्पना आत्मानं लभते । किमिति ??R पूर्वक्लृप्तविरोधात् । किं क्लृप्तम् ??R आकाशमिन्द्रियम् ;?R तच्चैकम् । तस्मात् संयोगविभागयोरभिव्यञ्जकत्वे सत्यपि सर्वशब्दानां सर्वैश्चोपलब्धिः प्राप्नोति । युक्तं तावत् सर्वैर्ग्रहणम् ; ?Rसर्वशब्दानां तु न युक्तम्, कारणवदभिव्यञ्जकान्यत्वात् । सर्वैश्चोपलब्धिः कार्यपक्षेऽपि तुल्यैव । यश्चोभयदोषः, न तमेकश्चोद्यो भवतीति परिहृतमिदं दूषणं कारकाभिव्यञ्जकयोर्विशेषाभिधानेन विना नैव चोद्येरन् नित्यत्ववादिनः । अयमस्ति विशेषः - अभिव्यक्तिः शब्दस्य, इन्द्रियस्य वा स्यात् ??R तत्र शब्दाभिव्यक्तौ तावदेकविषयत्वात् सर्वशब्दानां घटादीनामिवैक विषयाणां नाभिव्यक्तिः क्रमेण शक्यते वक्तुम्, अदृष्टत्वात् प्रसिद्धानामभिव्यञ्जकानां प्रदीपादीनाम् ;?R कारणानां तु कार्यदर्शनात् शक्यमनुमानं शक्तेः । नन्वभिव्यञ्जकानामप्यभिव्यक्तिदर्शनादेवानुमानं युक्तं शक्तेः । न कार्यपक्षे प्रतिपक्षतया संभवति । को वा विशेषः ??R प्रसिद्धेषु कारणेषु दर्शनात्, अभिव्यञ्जकेषु चादर्शनात् । दृष्टानुगुणं चानुमानम्, न दृष्टविरोधि । ननु चैकविषयत्वे विरोधः ;?R विषयान्तरे तु विरोधकथा विरुद्धैव । सत्यम् ;?R विषयान्तरैवात्र दुर्वचा । च दुर्वचा । श्रोत्रमाकाशमित्यभ्युपगमात् ;?R अभिन्नं चाकाशम् ;?R सर्वशब्दाश्च श्रोत्रविषयाः ;?R तस्मादेकविषयत्वम् ;?R विषयैक्याच्च दृष्टविरोधः । किमिदं प्रलप्यते ??R तदिदमपतितम्- कर्णे स्पृष्टः कटिं चालयति इति ;?R अभिव्यक्तेर्विषयो निरूप्यते, न पुनः शब्दस्य ;?R अन्यश्चायं प्रतीपादिविषयाद्विषयः । तस्मात् प्रदीपादिविरोधाच्छब्देऽभिव्यञ्जकानुमानविरोधो न शक्यते वक्तुमित्युक्तम् । तस्मात्तद्ग्रहणनिबन्धनमनुमानं दुर्निवारम् ।
?R?0अतोऽदर्शनमिदानीमनैकान्तिकमित्युक्तम् । ननु श्रोत्रविषयेयभिव्यक्तिः, न शब्दविषया । ‘?Rअभिव्यक्तं हि श्रोत्रं शब्दं गृह्णाति’ ?Rइत्येतावदभिव्यञ्जके शक्त्यनुमानम्, न पुनः ‘?Rअमुं शब्दम् अमुं न’ ?Rइत्यसंस्पर्शादभिव्य़ञ्जकानाम् । अयमेव च सिद्धान्तः । स चायमनुमानविरोधीत्युक्तम् । सत्यम् ;?R प्रसिद्धानुमानबाधनमयुक्तम् । प्रसिद्धप्रत्यक्षबाधनमप्ययुक्तमेव । सप्रत्यभिज्ञं च प्रत्यक्षमात्मनि सामान्यादिषु च स्थितम् । उभयोरबाध्यत्वे सति कस्यचिदर्थस्यासिद्धेरेकस्य बाधनम् ;?R अनुमानात् प्रत्यक्षं बलीय इति नैयायिकाः । ननु च प्रत्यक्षं भ्रमभाक् । अनुमानेऽपि भ्रान्तिरविशिष्टा । न ब्रूमः - अनुमानेऽपि भ्रान्तिर्नास्ति इति ;?R किन्त्वत्र भेदाग्रहणात्तद्बुद्धिरतस्मिन्नपि भवति । संभावितभ्रममिति प्रत्यक्षमेव दुर्बलं मन्यामहे । अनयैव प्रकटिताप्रकटितभ्रमकारणतयोक्तं न्यायविद्भिः “?Rभवति वै प्रत्यक्षादप्यनुमानं बलीयः” ?Rइति । किं निर्ज्ञातकारणदुष्टतैवात्रो ??R किं जातम्, यद्युपन्यस्ता ??R ननु च विपर्ययाभावात् नैवास्तितयोपन्यसितुं शक्यते । किं विपर्यय एव मिथ्यात्वे हेतुः ??R कारणदोषोऽप्यसमीचीनहेतुतयोपन्यस्त एव । ननु च कारणदोषः प्रयत्नेनोपलभ्यमानतयोक्तः । कोऽयं प्रयत्नो नाम, योऽसावत्र नास्तीत्युच्यते ??R अयमेवासौ प्रयत्नः - अन्यत्र विपर्ययात् कारणदोषं विज्ञाय तद्भावभावितयैव ‘?Rएतत्कृतोऽयं विपर्ययः’ ?Rइति तमन्यत्र विजानाति ;?R ज्ञाते च तस्मिन् असत्यपि विपर्यये ‘?Rभ्रान्तमिदम्’ ?Rइत्यध्यवस्यति । किमत्रैवंभूतमस्ति ??R बाढमस्ति भेदाग्रहणम् ;?R भेदाग्रहणानिबन्धन एव शुक्तिकादिषु रजतभ्रमः । एवमत्रापि भेदाग्रहणनिबन्धन एव ज्वालादिष्विव तद्भ्रमः । तस्मात् सुष्ठूक्तम्- शब्द एव तद्ग्रहणं भ्रान्तिः - इति । यस्य तावद्विपरीताकारमर्थे ज्ञानमुत्पद्यते कदाचित्, तस्य युक्तं वक्तुम् ‘?Rविपर्ययाभावान्नायं भ्रमः’ ?Rइति ;?R यस्य पुनरग्रहणनिबन्धन एव विपर्ययः, तस्य
?R?0पुनः का शक्तिर्वक्तुमनुमानविरोधे सति ज्वालादिवैषम्यम् ??R ननु चाग्रहणमपि पुनर्ग्रहणादवसीयते । न चात्र कस्यांचिदवस्थायां भेदस्य ग्रहणमस्ति सौगन्धिकस्फटिकयोरिव । ज्वालादिषु कथम् ??R अनुमानादवगतिरिति चेत्, तत्तुल्यमत्रापि । तस्मात् शब्दविषयं सप्रत्यभिज्ञं प्रत्यक्षमाशापाशमात्रं मीमांसकानाम् । यदप्युक्तमन्यैः - तुल्येऽपि संस्कार्ये संस्कारभेदात् कार्यान्यत्वमुपलभ्यत इति यथा मण्डूकवसयाक्ताक्षा वंशानुरगानिव पश्यन्ति इति, तदिदमाकाशविजृम्भितम् ;?R संस्कारो हि नाम स भवति, यः स्वकार्ये शक्तिमुपजनयति ;?R न चैतदिन्द्रियस्य कार्यम् , यदिदमयथार्थग्रहणम् ;?R अग्रहणनिबन्धनमेव तदिति प्रतिपादितम् । तस्मादभेदेऽपि संस्कार्यस्य संस्कारान्यत्वेन कार्यान्यत्वं ज्ञापके न विद्यते इत्यन्यत् किञ्चिदुपदर्शनीयम् । यच्च- खड्गदर्पणादिष्वन्यथाभिव्यज्यते मुखमिति, किमुक्तं भवति ??R ग्राह्येऽयमुपरागो दृष्टः ;?R युक्तश्च, अभिव्यञ्जकस्यापि विषयापत्तेः ;?R इह पुनः श्रोत्रमग्राह्यम् , संयोगविभागावपि । अत इदमप्याकाशविजृम्भितमेव । तस्मात् ‘?Rशब्दो नित्यः’ ?Rइति श्रद्वयैव प्रतिपत्तव्यम्, शब्दात्मकत्वाद्वेदस्य देवनिन्दा मा भूदिति । पठितं च धर्मशास्त्रकारैः - “?Rस साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः” ?Rइति । तस्मादनिदंप्रथमतैवात्र शरणम् ;?R न पुनः शब्दनित्यतापूर्वकमनपेक्षत्वं शक्यते युक्तितो वक्तुम् । कल्प्यतां रागादिविनिर्मुक्तमप्रतिहतज्ञानं करुणाविष्टचेतसं भगवन्तं कंचन मुनिवरम् ;?R आश्रीयतां वा सुरगुरोर्दर्शनम्- व्यवहारमात्रमवेदं वेदत्रयाभिहितं पश्यामः प्रज्ञैर्लोकयात्रासिद्ध्यर्थं सुप्रतिबन्धमनुपाल्यमानमिति । इदमेव युक्तं मन्यामहे ;?R न हि दृष्टे संभवत्यदृष्टकल्पना न्याय्या । दृष्टश्चायमर्थः - यत् प्राज्ञैः ऋजव उपजीव्यन्त इति । यथा च सिद्धमागमवादिनामपि हेतुद्रशनादप्रामाण्यम् “?Rयूपहस्तिनो दानमाचरन्ति” ?Rइत्येवमादिषु । कर्तव्यो वा सप्रत्यभिज्ञस्य
?R?0प्रत्यक्षस्य शब्दो विषय इति यत्नः । कथं पुनर्ज्वालादेरिवानुमानाच्छक्यतेऽन्यत्वमवगन्तुम् ??R ननु चानुमानादित्युक्तम् । किं तदनुमानम् ??R अनभिव्यञ्जकवैषम्यम् । नन्वभिव्यञ्जकानामनेकविषया शक्तिर्दृष्टा । ननु चेदमभिव्यञ्जकविषयमनुमानम् ;?R कथमन्यविषयमनुमानमन्यविषयस्यावच्छित्तौ हेतुः ??R श्रोत्रस्य ह्यभिव्यञ्जकसंस्कारं निरुणद्धि, न पुनः शब्दस्यान्यत्वमवगमयति । ननु चोक्तम्- न चेत् संयोगविभागाः श्रोत्रस्य शब्दग्रहणसमर्थं संस्कारमापादयन्ति, शब्दस्योत्पादकाः प्राप्नुयुः ;?R उत्पत्तौ चान्यत्वम्- इति । कथमन्यप्रतिषेधोऽन्यस्योत्पत्तिमवगमयति ??R अन्यथा व्यापारानुपपत्तेः । न चेत्संस्कारकाः संस्कुर्युः, किमन्यदतः शब्दोत्पत्तेः ??R किं यस्य संस्कारकता नोपपद्येते, तेनोत्पादकेन भवितव्यम् ??R न चेदुत्पादकः, निर्व्यपार एव स्यात् ;?R अन्यार्थता च संयोगविभागयोरुपलब्धा । सत्यम् ;?R यदर्थाः, तत्र भवन्तूत्पादकाः संस्कारका वा । परप्रतिपत्त्यर्थता च सिद्धा ;?R तत्तयोर्यदिष्टं तत्परिकल्प्यताम् ;?R विषयान्तरे पुनः सम्बन्धाभावात् किमास्पदं कल्पनायाः ??R तस्मादन्यत्वे हेतुतां संयोगविभागयोः कथमिव नैयायिका मन्यन्ते ??R एवं मन्यन्ते- न चेत् श्रोत्रे कार्यमस्ति, शब्दे कार्यं प्रतिपद्यामहे । किं कार्यतस्तादर्थ्यम् ??R ओम् इत्युच्यते । सिद्धं तर्हि कार्यं श्रोत्रे ;?R न संयोगविभागाः शब्दार्थाः - इति मन्यन्ते शब्दविदः । ननु च कार्यदर्शनात् न युक्तं वक्तुं शब्दविदाम् । कार्यदर्शनमेव नास्तीति ब्रुवते, शब्दे तद्ग्रहणात् । किं तर्हि कुर्वन्ति संयोगविभगाः ??R श्रोत्रसंस्कारमिति ब्रूमः । ननु चान्यैः संस्कारैः वैलक्षण्यमत्र नोपपद्यते- इत्युक्तम् । अनुमानात् कार्याभावं मन्यते भवान् ;?R वयं तु प्रत्यक्षादुत्पत्तिं नेच्छामः ;?R प्रत्यक्षानुमानयोश्च प्रत्यक्षं बलीय इति सिद्धम् । ननु चाग्रहणं भ्रमहेतुरित्युक्तं ज्वालादीनामिव । इह तु
?R?0अग्रहणमेवासिद्धम् । तत्र कथम् ??R कार्यानुमानात् । इह पुनस्तदद्यपि न सिध्यति ;?R न चासिद्धं सिदधौ पर्याप्तम् । प्रत्यक्षं चानपेक्षत्वात् सिद्धम् । अनुमाने वा कापेक्षा ??R इयमेवापेक्षा- सिद्धेऽनुमाने कार्यम्, कार्ये च सत्यनुमानमिति ;?R न पुनरेवं प्रत्यक्षं तद्ग्रहणपेक्षम् ;?R प्रत्यक्षादेव हि तद्ग्रहणम् । किञ्च, संयोगविभागौ श्रोत्रार्थतयान्यतः प्रसिद्धौ । कुतोऽन्यतः ??R उक्तम् “?Rदर्शनस्य परार्थत्वात्” ?Rइति लोकतः । तस्मात् तादर्थ्ये सति यथआ संभवति तथा कार्यं कल्पनीयम् । न कार्यतस्तात्पर्यम्, अन्यतोऽनवगमात् इत्युक्तम् । तस्मान्नात्र ज्वालादीनामिव प्रमाणमस्ति । तस्मात् “?Rसतः परमदर्शनम्” ?Rइति युक्तमनैकान्तिकत्वम् । कथं तर्ह्येकविषयैवाभिव्यक्तिः शक्यते वक्तुम् ??R कार्यदर्शनात् युक्ता अदृष्टस्य कल्पना ;?R अतो दृष्टस्य तद्ग्रहणस्य नापह्नवो न्याय्यः । कार्यान्तरदर्शनात्तु कारणान्यत्वकल्पना न्याय्यैवेति । “?Rउपरतयोः संयोगविभागायोः” ?Rइति कौ तौ संयोगविभागावभिप्रेतौ ??R ताल्वादीनामिति ब्रूमः । कुत एतत् ??R उपनतयोरिति श्रवणात् ;?R वायवीयानामुत्पत्तिरुपरतिश्चानुमेया । “?Rन नूनमुपरमन्ति” ?Rइति कोऽभिप्रायः ??R वायवीयान् संयोगविभागान् मनसि कृत्वा कार्यसमधिगम्यत्वादिदमुत्तरम् “?Rन हि ते प्रत्यक्षाः” ?R- ?Rइति स्पष्टीकृतम् । यद्येवम्, इदानीमुत्तरग्रन्थो नोपपद्यते “?Rआकाशविषयत्वात्तस्य, एकत्वाच्चाकाशस्य” ?Rइति । कथं नोपपद्यते ??R वायवीयानामभिव्यञ्जकत्वे कार्यपक्ष इव ‘?Rयत्र ते, तत्रैवोपलब्ध्या भवितव्यम्’ ?Rइत्येवं नोपपद्यते । अथायमभिप्रायः - अभिव्यक्तिपक्षे नैव वाय्वाश्रिताः शब्दा भवन्ति । किं तर्हि ??R आकाशस्था एव । येषां पुनः क्रियन्ते, तेषां वायवीयाः संयोगविभाग असमवायिकारणतां प्रतिपद्यन्ते । तदेव समवायिकारणं भवति । यत्रैव कारणम्, तत्रैव कार्योपलब्धिरिति युक्तम् । एवमपि निर्ज्ञाते
?R?0वायवीयसंयोगविभागयोरभिव्यक्तिकारणत्वे यत्रैवाभिव्यञ्जकम्, तत्रैवाभिव्यक्तिः ;?R यथा यत्रैव कारणम्, तत्रैव कार्यम् । अथैतन्मन्यसे- कार्ये एतद्युक्तम्, नाभिव्यक्ताविति, तदयुक्तम् ; ?R अभिव्यक्तिरपि कार्यमेव ;?R अभिव्यङ्ग्यं तु पूर्वोत्पन्नम् ;?R अतो यद्देशाभिव्यक्तिः, तत्रैवोपलब्धिरिति तुल्यमुभयोरपि पक्षयोः । तस्माद्व्याख्येयोऽयं ग्रन्थः । अविशेषज्ञो देवानां प्रियः । कार्यं हि कारणदेशं भवति ;?R अकार्यं पुनर्न परापेक्षदेशम् । तस्मादभिव्यक्तिर्भवत्वभिव्यञ्जकदेशा अभिव्यङ्ग्यं तु किमिति तद्देशम्, अतज्जन्यत्वादभिव्यङ्ग्यस्य ??R तद्देशस्य अभिव्यङ्ग्यत्वाभिमतशब्ददेशस्य चैकत्वादाकाशस्य सर्वैर्ग्रहणं प्राप्नोति ज्ञातेष्वपि वायवीयसंयगविभागेषु सर्वश्रोत्रेष्वेकमाकाशं यतः । सत्यम् ;?R यथा भवानाह- यदि शब्दस्याभिव्यञ्जकाः संयोगविभागाः स्युः ;?R श्रोत्रस्य त्वभिव्यञ्जकाः ;?R श्रोत्रस्य च श्रोतृदेशतैव । ननु चाकाशमेव श्रोत्रम् ;?R तच्चान्यत्रापि तुल्यं शब्दाभिव्यक्त्या । उच्यते- सत्यं सर्वत्राकाशमेकम् ;?R किन्तु तस्य श्रोत्रभावः श्रोतृदेश एव, कर्त्रभिसम्बन्धेन करणत्वात् ;?R कर्तुर्भोगायतनवशेन शरीरदेश एव कर्तृत्वान्न तुल्यता । तस्मादुत्पत्ताविवाभिव्यक्तावपि न सर्वैरुपलब्धिः । ‘?Rनैतदेवम् ;?R अप्राप्ताश्चेदुपकुर्वन्ति, सन्निकृष्टविप्रकृष्टदेशस्थितौ युगपच्छब्दमुपलभेयाताम्’ ?Rइति । ननु श्रोत्रसंस्कारपक्षे ‘?Rदूरस्थितं श्रोत्रं न संस्क्रियते’ ?Rइति वदतां प्राप्तैरेव संस्कार इत्युक्तम् ;?R असत्यां च प्राप्तौ दूरसन्निकृष्टव्यपदेश एव न घटते । किमिदम् ‘?Rअप्राप्तश्चेदुपकुर्वन्ति’ ?Rइति ??R अप्राप्ताशङ्कैव नास्ति, “?Rदूरे सत्याः” ?R- इत्यभिधनात् । तस्मान्न विद्मः कथमिदं भाष्यमायातम् ??R एवमिदमायातम्- श्रोत्रसंस्कारपक्षे सर्वगतत्वाच्छब्दस्य यावति कार्यगम्यः संस्कारः, तावति युगपद्ग्रहणं प्राप्नोति । कोऽभिप्रायः ??R ननु च वायवीयाः संयोगविभागाः नैवाप्राप्य श्रोत्रं संस्कर्तुं
?R?0क्षमाः । न हि संयोगविभागैः संयोगविभागान्तरमारभ्यत इति शक्यते वक्तुम्, उभयप्रसङ्गात् ;?R न ह्येकस्मिन् कार्ये कारणद्वयकल्पना घटते ;?R कार्यं हि कारणमवगमयति न पुनः कार्यान्तरमपि । तस्मादुत्पत्तिपक्ष एवैतदुपपद्यते- यावद्वेगं संयोगविभागाः कार्यमारभन्त इति, न पुनरभिव्यक्तिपक्षेऽपि । ननु कार्यपक्षेऽपि कार्यान्तरकल्पना नैव घटते । सत्यं न घटते ;?R कार्यान्तरोपलब्धिस्तु प्रत्यक्षैव, दूरस्थसमीपस्थैः क्रमेणोपलब्धेः । ननु चाभिव्यक्तावपि तुल्यम् । न तुल्यम् ;?R न ह्यभिव्यक्तिरभिव्यक्त्यन्तरमारभते ;?R कार्यस्य तु कार्यान्तरारम्भे न कश्चिद्वरोधः ;?R भवति ह्यापेक्षिकं कार्यं कारणं च ;?R न पुनरभिव्यक्तिरभिव्यञ्जिका चेति । तस्मात् दूरस्थसमीपस्थैर्युगपदेव शब्दग्रहणम्, यावति ग्रहणम् । तस्मात् युक्तो़यमाक्षेपः । उद्द्योतस्योद्द्योतान्तरापेक्षा- इति बालिशभाषितमेतत् । तस्माद्वायवीयाः संयोगविभागाः शब्दमारभन्ताम् । औलूक्यो वा भवतु राद्धान्तः “?Rसंयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तिः” ?Rइति । किमत्रानुक्तस्य प्रदर्शनम् ??R अत्रापि मे श्रवणं विद्यत इति कोऽयमभिमानः ??R नायमभिमानः ;?R कस्यचिदज्ञस्य- नायं राद्धान्तो भगवता भाष्यकारेणोपन्यस्तो निरस्तश्चेति भवति मतिः ;?R तदपनादनायदमुपन्यस्तम् । वायुशब्दोपन्यासेनैवायमुपन्यस्तो निरस्तश्च, तुल्यकारणत्वादुपन्यासस्य निरासस्य च । तस्मादभिव्यक्तिकार्यपक्षयोरन्यथात्वप्रदर्शनार्थोऽयं ग्रन्थः ।
?R?0 “?Rनैतदेवम् अभिघातेन हि प्रेरिता वायवः स्तिमितानि वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते” ?Rइति । ननु तदेवेदमुत्पादकत्वमुक्तम् ;?R प्रिज्ञातं चाभिव्यञ्जकत्वं संयोगविभागानाम् । तस्मादसम्बद्धमेवेदं प्रतिभाति । किमिति भोः ??R उक्तमितीति । अनभिव्यक्तिज्ञो भवान् । कात्रानभिव्यक्तिज्ञता
?0??R इयमनभिव्यक्तिज्ञता ;?R अभिव्यक्तिर्हि तिरस्कारापनयः केन । वोक्तम् ‘?Rन’ ?Rइति ??R स एवापनयोऽपनयान्तरं नारभते- इत्युक्तम् ;?R सकृद्व्यापरा ह्यपनये भवन्त्यपनेतारः, न यावदपनेयमादित्यप्रभादय इव । सत्यम् ;?R यद्येक एवापनेतानेकव्यापारः परिकल्प्येत, स्यादयं दोषः ;?R अत्र पुनर्बहवोऽभिव्यञ्जकाः । कथमिदं ज्ञायते ??R भवतो वा कार्यपक्षे कारणबहुत्वं कथम् ??R कार्यबहुत्वादिति चेत्, ममाप्यभिव्यक्तिबहुत्वादभिव्यञ्जकबहुत्वम् । कथं पुनरभिव्यक्तिबहुत्वम् ??R यथैव कार्यबहुत्वम् । एकत्वे पुनर्वक्ष्यामः प्रत्यक्षस्य बलीयस्त्वमित्युक्तम् । एकत्वे च नित्यता ;?R नित्यत्वेऽभिव्यक्तिबहुत्वमेव, न कार्यबहुत्वमिति स्थितिः ॥
?R?0 प्रयोगस्येति । स्थिते एतस्मिन् न्याये गोमयादिवत् प्रयोगसिद्धिः, प्रमाणान्तरप्रमितविषयत्वाल्लौकिकस्य वाक्यस्य ॥
?R ?0”?Rयथैतदेकस्य सतः” ?Rइत्यनेकताभ्रान्तिमापादयति । कथं पुनः विपर्ययादृते भ्रान्तिरिति शक्यते वक्तुम् ??R कारणदोषदर्शनात् । कस्य कारणस्यात्र दुष्टता अवगम्यते ??R विषयस्य तावच्छ्रोत्रपथासत्तेर्नैव दुष्टता । श्रोत्रस्याप्यभिव्यक्तत्वात् नैव । अथ दृष्टं श्रोत्रमिति कल्प्यते ;?R एवं तर्हि शब्दस्यैव ग्रहणं न प्राप्नोति । न च शब्दादृतेऽन्यच्छ्रोत्रस्य ग्राह्यमस्ति । यद्येवं कार्यपक्षेऽपि कथमनेकत्वग्रहणं श्रौत्रम् ??R नैव तच्छ्रौत्रम् ; ?Rमानसं हि तत् । मनसा वा किं श्रोत्रेणागृहीतमेव बाह्यं वस्तु गृह्यते ??R किं वात्र शब्दव्यतिरिक्तं बाह्यं वस्त्वभिप्रेतं भवतः ??R यदिदं शब्दनानात्वम् । किं वा शब्दव्यतिरिक्तमिदं शब्दनानात्वम् ??R किं शब्द एव, उत शब्दादन्यः शब्दधर्मः ??R न तावदयं शब्दस्यैव धर्मो भवति, रूपादिष्वपि दर्शनात् ;?R रूपाद्यपि हि ‘?Rनाना’ ?Rइति गम्यते । नाप्ययं शब्द एव, ‘?Rनानात्वं शब्दस्य’ ?Rइति व्यतिरेकदर्शनात् । तस्मान्न विद्मः कस्येन्द्रियस्य व्यापारः, यस्य दुष्टता
?R?0कल्प्येत । किं तर्हीदं नानात्वमग्राह्यमेव ??R दृश्यते तु सर्वार्थेषु । बुद्धिरूपता चाग्राह्यत्वाद्बुद्धेः प्रत्युक्ता । उच्यते- यद्यस्य ग्राह्यं गृहीते च तस्मिन् ग्राह्यान्तरावमर्शो । एवं तर्हि श्रोत्रस्यैव दुष्टता । दुष्टे च शब्दग्रहणं न प्राप्नोति । असति च शब्दग्रहणे शब्दान्तरावमर्शः कुतः ??R तस्मादवमर्शे दुष्टता कल्पनीया, न पुनः शब्दग्रहणे । मनसस्तर्हि दुष्टत्वम् । ननु च मनसोऽपि नैव शक्यते वक्तुम्, श्रोत्रग्रहणे यथार्थग्रहणात् ;?R न ह्यगृहीतसम्यगर्थस्य तदर्थआवमर्शो घटते । तस्माद्देवा एनां भ्रान्तिं कल्पयिष्यन्ति, अविपर्ययात् दुष्टकारणतानवधृतेश्च । अभ्रान्ते च भ्रान्त्यभिधानं भ्रमादपि पापीयः । तस्माद्भ्रमकारणमत्र वक्तव्यं भ्रान्तिज्ञैः । इदमभिधीयते- उक्तं भवतैव ‘?Rनागृहीतबाह्येन्द्रियेण मनसा गृह्यते’ ?Rइति । इन्द्रियेण च तद्ग्रहणात् अनेकत्वं नास्तीति प्रत्यक्षेणावसितम् । मनसाप्यनेकत्वग्रहणं नैवोपपद्यते । किमालम्बनमस्याः किञ्चेन्द्रियमनेकत्वावगतेः ??R इदमिन्द्रियमिदं चालम्बनम्- नानादेशस्था हि ध्वनयो युगपदागच्छन्त इतरेतरनिरपेक्षा एव युगपत् संस्कारानारभन्ते श्रोत्रस्य ;?R तत्संस्कारानुरोधाच्चैकमपि शब्दमनेकमिव गृह्णाति । एकैकसंस्कारोपजननाच्छक्तेः नायनशक्तिरिवाङ्गुलिभिन्ना एकमपि भिन्नमिव गृह्णाति । तस्माच्छक्तिभेदाग्रहनिबन्धनोऽयं भ्रमः । अनेन सान्तरालग्रहणं प्रत्युक्तम् । कथं पुनरनेन सान्तरालग्रहणं प्रत्युच्यते ??R युक्तं तावत् संस्कारभेदात् शक्त्युद्वोधः । तदनुरोधिनी भिन्ना च शक्तिरेकमपि विषयं भेदेन समर्पयन्ती स्वभेदाग्रहणादनेकग्रहणभ्रममुत्पादयतीति । अन्तरालग्रहणे को हेतुः ??R तस्मात् कारणान्तरं ब्रूहि । नोच्यते ;?R इदमेव कारणम् । अथमिदं कारणम् ??R नानादेशोत्था ध्वनयो भेदेन संस्कारमारभमाणा आ मूलं शक्तेरुद्वोधं जनयन्ति । अतः श्रोत्राकाशस्थितोऽपि
?R?0शब्दोऽनुग्राहकानुरोधात्तद्देशस्थ इव गृह्यते । ननु चान्त्य एव संयोगविभागः संस्करोति । केयं मन्दता भवतः ??R अननुगृहीतपूर्वसंयोगविभागोऽन्त्यः संस्करोतीति नोपपद्यते ;?R तदनुग्राहकवशादुत्पत्तिरिव कार्यम् । अत एव च पूर्ववेगानुवर्त्युपरमः संस्काराणाम् । तस्मादात्मोदयानुरूपमुपजनयन्तस्तथा तथा तमवगमयन्ति ।
?R?0 प्राप्नोति, यदि श्रवणेन्द्रियं संयोगविभागदेशमागच्छेत् ;?R न चैतदस्ति, भाष्य एव प्रत्युक्तत्वात् । अत एव “?Rकामम्” ?Rइत्युक्तम् । सत्त्वान्तरपक्षेऽपि तावत् भेदो न प्राप्नोतीत्यभिप्रायः । ननु एकस्यानेकत्रोपलब्धिः । मूर्खप्रलपितमेतत् ;?R एकस्यानेकत्रोपलब्धिः परिचोदिता परिहृदा ॥
?R?0 “?Rशब्दान्तरमविकारः” ?Rनैवेह “?Rइको यणचि” ?Rइति प्रकृतिविकारभाव उपदिश्यते ;?R न हि लोके यकारं प्रयुयुक्षमाणा इकारमुपाददते । लोकसिद्धस्य चादेशा भवन्ति । तस्मादयमर्थ आदेशिकः - अचि परत इकारस्य स्थाने यकारः । सादृश्यं तु प्रकृतिविकारभावेऽनैकान्तिकम् । दधिपिटककुन्दपिटकयोरदर्शनात् इत्युक्तम्, अतः सिद्धं शब्दान्तरत्वम् ॥
?R?0 “?Rनादवृद्धिः परा” ?Rतुल्यं भेदपरिहारेण ;?R यथैव हि तत्र भिन्ना भिन्नमिवावगमयन्ति, एवमत्रापि प्रचिताः प्रचितमिव, विभागस्थिता विभक्तमिव । अतो महानिव अवयववानिव च भ्रान्तिरुपपद्यते । संस्कारानुरोधाचछक्तेरुद्वोधः - इत्युक्तम् । तस्मादयमपि संस्कारभेदाग्रहणनिबन्धन एव भ्रमः । अतः स्थिते सप्रत्यभिज्ञप्रत्यक्षे पूर्वोक्तमनैकान्तिकीकृतमनित्यत्वे हेतुजातम् ॥
?R?0 इदानीं सप्रत्यक्षिज्ञप्रत्यक्षस्य शब्दविषयतोच्यते- “?Rनित्यस्तु स्याद्दर्शनस्य परार्थत्वात्” ?Rइति । “?Rदर्शनस्य परार्थत्वात्” ?Rइति कस्यायं हेतुः ??R नित्यतायाः शब्दस्य । ननु चायमपक्षधर्मः ;?R अपक्षधर्मस्य चास्य हेतुत्वं
?R?0नास्तीति नैयायिकाः । अश्रुतशास्त्रा हि ते । दर्शनमेवात्र परार्थतयोपन्यस्यते ;?R तच्च निर्विषयं नास्तीति शब्दोऽत्र विषयतयोपन्यस्यते । ततः किम् ??R इदं ततः - परार्थदर्शनसम्बन्धिता हेतुः । एतदुक्तं भवति- परार्थं दर्शनं यस्य । तस्य किम् ??R नित्यता । कस्य यथा ??R सर्वस्येति ब्रूमो धूमादेः । ननु च स्वप्रतिपत्त्यर्थमपि दर्शनं धूमादेः । भवतु ;?R परप्रतिपत्त्यर्थतापि, अनिराकरणीयं चैतदविरोधात् । शब्देऽपि विद्यमानत्वात् । कालान्तरावस्थायित्वं च नित्यशब्देनोच्यते, न सदकारणत्वम् । ननु चं सन्नकारणश्च शब्द इष्यते । बाढमिष्यते ;?R स तु परार्थमात्रतयैव दर्शनस्य सिध्यति । किमिति तर्हि विशेष उच्यते ??R कथं नामानित्यस्यापि धूमादेर्दृष्टान्तता स्यात् । ननु चास्याप्यनित्यता प्राप्नोति, प्रसिद्धे दर्शनात् । अत एव कालान्तरावस्थायित्वमात्रं साध्यतयोच्यते । कालान्तरावस्थायितया च सिद्धं शब्दस्य सदकारणत्वम् । दर्शनमेव हि तस्य कारणतया शङ्कितं परैः ;?R तच्च परार्थतया अकारणतां गतम् । तस्मात् परार्थदर्शनसम्बन्धितामात्रस्य हेतुत्वं शब्दस्य सदकारणत्वं सिद्धम् । ननु च तत्तुल्योपादानमभेदमुपादाय सिध्यति पारार्थ्यं दर्शनस्य । सत्यं सिध्यति ;?R किन्तु नेत्थंभूतत्वे प्रमाणमस्ति । न कस्यचिदप्यासंसारं जन्तोः ‘?Rपूर्वोक्तसदृशमुच्चारयामि, तत्सदृश एवायम्’ ?Rइति ज्ञानोत्पादो दृष्टः । अत एव चाविपरीतं प्रतिपद्यन्ते । अन्यथा मालाशब्दप्रत्ययस्येव शालाशब्दसंवेदनाद्विपर्ययः स्यात् । ननु च न सादृश्येऽपि विपर्ययो दृश्यते यथा गोगावीशब्दयोः । तदेकग्राहिणां तु न दृश्यते विपर्ययः, न सादृश्यग्राहिणाम् ;?R तत्त्वविदां त्वनुत्पत्तिरेव । किमिदं तत्त्वविदामिति ??R गोशब्दस्य गाव्यादयोऽपभ्रंशाः - इत्येवंविदः तत्त्वविदः । तेषां नैव गाव्यादिभ्योऽप्यर्थज्ञानमुत्पद्यते गोशब्दादेवार्थं प्रतिपद्यन्ते - इत्युक्तं
?R?0व्याख्यातृभिः । न चानादितया संसारस्यादिशब्दता कस्यचित्कल्पयितुं शक्यते, यत्सदृशोपादानात् संव्यवहारसिद्धिः । तस्मात् सप्रत्यभिज्ञप्रत्यक्षमूलोऽयं व्यवहार इति स्थितम् ।
?R?0 अन्यदेव च साधितम्, अन्यच्चोपसंहृतम् ;?R कालान्तरावस्थितिः साधिता, सप्रत्यभिज्ञं प्रत्यक्षमुपसंहृतम् ;?R अन्यदेवोपन्यस्तम् , अन्यच्चोपनिपतितम् । तदेवेदम् ;?R प्रत्यभिज्ञानादेव हि कालान्तरावस्थायिता सिध्यति । कालान्तरावस्थितिश्च सप्रत्यभिज्ञप्रत्यक्षगम्येत्युक्तम् । यदि प्रत्यभिज्ञयैव कालान्तरावस्थायित्वं साध्यते, किमिति तर्हि परार्थदर्शन सम्बन्धिता हेतुरित्युक्तम् ??R यत एव परार्थदर्शनसम्बन्धिता हेतुरित्युक्तम् ;?R प्रत्यभिज्ञैव ह्यभिन्नार्थदर्शनमित्युच्यते, न पुनरन्यत् । स्वरूपस्य दर्शनान्तरसिद्धत्वात् तत्पूर्वकत्वाच्च प्रत्यभिज्ञायाः । न च स्वार्थपरार्थतामेको यत्नः प्रतिपत्तुं क्षमः ॥
?R?0 “?Rसर्वत्र यौगपद्यात्” ?R- इति । अनेनान्वयव्यतिरेकसमधिगम्यमर्थावगतिहेतुत्वं दर्शयति शब्दस्य । किमतो यद्येवम् ??R कालान्तराव स्थायिता सिध्यति ;?R न हि कालान्तरानवस्थायिनोऽन्वयव्यतिरेकनिश्चयः ;?R अतः कालान्तरावस्थायिता सिध्यति । कालान्तरावस्थितिश्च सप्रत्यभिज्ञप्रत्यक्षसमधिगम्येत्युक्तम् । कथं पुनरन्वयव्यतिरेकसमधगम्यमस्यार्थावगतिहेतुत्वम् ??R आकृतेः पदार्थत्वात् । न चैकप्रयोगावगम्या आकृतेः पदार्थता, स्वातन्त्र्येणाग्रहणात् द्रव्याश्रितानाम् ;?R अगृहीतानां च पृथङ्निर्देशा योग्यत्वात् । तस्मात् व्यवहारसमधिगम्यैवाकृतिपदार्थता, न निर्देशसमधिगम्या । व्यवहारश्चान्वयव्यतिरेकसमधिगम्य इति सिद्धा प्रत्यभिज्ञा ॥
?R?0 “?Rसंख्याभावात्” ?Rतदेवेदं सप्रत्यभिज्ञं प्रत्यक्षं पुनरुपन्यस्यते
?R?0हेतुप्रचयदर्शनार्थम् । हेतुप्रचये पुनः कोऽर्थोऽभ्यधिकः सिध्यति हेत्वन्तरनिरपेक्षत्वाद्धेतूनां स्वार्थसिद्धौ ??R न खलु कश्चित् । अनर्थकस्त र्हि प्रचयोपन्यासः । न चानर्थकः ;?R प्रचये सति दार्ढ्यमाहार्यधियां भवति ;?R तदर्थश्चायं प्रयासः, न कृतधियाम् । तस्मादस्ति प्रयोजनम् । कथमसौ कृत्वसुच् प्रत्यभिज्ञायां हेतुः ??R एकस्यावृत्तौ दर्शनात् । सत्यमेकस्य ;?R स तु क्रियायाः “?Rक्रियाभ्यावृत्तिगणने” ?Rइत्यादेशात् ;?R न हि शब्दः क्रिया । किं तर्हि ??R द्रव्यं गुणो वा स्यात् । तदिदमन्यदीयमन्यस्योच्यमानं मातुलधनकथनन्यायमावहति । अत्रोच्यते- वस्तुस्वभावानभिज्ञो भवान् । वस्तुस्वभावापेक्षणो ह्यादेशा भवन्ति । अनुमानगम्या च क्रिया । ततः किम् ??R न चानुमानगम्यस्य स्वरूपमुपलभ्यत इत्युक्तम् । अनुपलब्धस्वलक्षणस्यावृत्तिः केनावगन्तुं शक्यते ??R ननु च येनैवास्ति ;?R कार्यतः ;?R आवृत्तिरपि ततो भवतु । मैवम् ;?R कार्यावृत्तावावृत्तिः शक्यतेऽवगन्तुम्, न कार्यतः । कार्यस्य तु कार्यतया आवृत्तिर्दुर्लभा ;?R कार्यान्तरतैव तत्र स्यात् । ज्ञाप्ये पुनरिदं संभवति । ज्ञाप्यश्च शब्द उच्चारणस्येत्युक्तम् । तस्मात् पुनः पुनः ज्ञाप्यमानता शब्दस्य गम्यते, नोत्पद्यमानता । अतो भङ्गित्वे कर्मणो ज्ञाप्यैक्यादावृत्तिरित्युच्यते ;?R न स्वतः, कार्यस्वाभाव्यात् । कृतस्य करणं नास्तीति कृतिनः । तस्मादेवंविषय एवायं कृत्वसुच् । कार्यैक्यं च प्रत्यभिज्ञानादित्युक्तम् । तस्मात् युक्तः कृत्वसुजर्थस्य हेतुतोपन्यासस्तद्ग्रहणे । “?Rअन्यत्वेऽपि सति सादृश्येन व्यामूढाः ‘?Rसः’ ?Rइति वक्ष्यन्ति” ?R- ?Rइति किमिदमुपन्यस्तम् ??R इदमेवोपन्यस्तम् । न ब्रूमो नोपन्यस्तमिति ;?R किमनेन निराकृतं प्रत्यभिज्ञाया इति न विद्मः । इदमनेन निराक्रियते- भेदाग्रणनिबन्धनेयं ‘?Rसः’ ?Rइति बुद्धिः ;?R भेदस्य नान्यत्वं व्यपदेष्टुं शक्यते ;?R अन्यत्वाव्यपदेशे च किमन्यदवशिष्यते ‘?Rस एव’ ?Rइति व्यपदेशात् ??R
?R?0विवेकाग्रहणमेवात्रापराध्यते मणिमुक्तादिष्विव विवेकशून्यानाम् ;?R तस्माद्विवेके यत्न आस्थीयताम् ; “?Rअविवेकः परमापदां पदम्” ; ?Rआपत्सु जातोद्वेगानां विवेक एवैकः शरणं परम् । सत्यं यथा भवानाह ;?R किन्तु अत्र विवेकाग्रहणे ज्वालादीनामिव हेतुर्नास्ति- इति “?Rअस्थानात्” ?Rइत्यस्मिन् सूत्रे लिखितं विस्तरेण ।
?R?0 “?Rस्यादेतत् बुद्धिकर्मणी अपि हि ते प्रत्यभिज्ञायेते ;?R ते अपि नित्ये प्राप्नुतः” ?R- इति किमिदं कूश्माण्डपतनम् ??R उत्तरेणापि कूश्माण्डतैव प्रदर्शिता- “?Rअथ प्रत्यक्षे, नित्ये एव” ?Rइति ;?R प्रत्यभिज्ञा हि कालान्तरावस्थायित्वे हेतुरुक्तः । यदि कर्मण्यपि सास्ति, कोऽयमुपालम्भः ??R अथायमभिप्रायः - अभ्युपगमहानं प्राप्नोति इति ;?R सत्यमनित्यत्वमभ्युपगतमस्माभिः ;?R आनुमानिकत्वमपि । न चानुमानिकेऽर्थे प्रत्यभिज्ञा भवति । स्वरूपग्रहणे हेत्वभावादसम्बद्धोऽयमुपालम्भः । यदि अस्मदभ्युपगमज्ञानमस्ति, सर्वाकारमस्तु ;?R किमिदमर्धजरतीयम् ??R उच्यते - यद्येककार्यत्वात् कर्माभ्यासं कृत्वसुजाचष्टे, कारणान्यतापि न सिध्यति ;?R न ह्यन्यत्वावगतावभ्यासावगतिः । गम्यमानैकत्वाच्च तद्बुद्धेरपि नानात्वमवगम्यमेव । तदिदमुक्तम् “?Rबुद्धिकर्मणी अपि हि ते प्रत्यभिज्ञायेते, ते अपि नित्ये प्राप्नुतः” ?R- इति । स्यातां नित्ये, यदि ते प्रत्यक्षे ;?R न ह्यप्रत्यक्षेऽर्थे प्रत्यभिज्ञा प्राप्नोति । ननु च भेदाग्रहणं प्रत्यभिज्ञा ;?R सा च बुद्धिकर्मणोरप्यस्तीत्युक्तम्, कार्यगम्यत्वादनुमेयानाम् । सत्यम्, यदि भेदाग्रणं प्रत्यभिज्ञा ;?R तद्ग्रहणं तु प्रत्याभिज्ञा ;?R कार्यं हि कारणमस्तीत्येतावति ज्ञानमुत्पादयति, न पुनस्तद्वा अन्यद्वेति । प्रत्यभिज्ञा तु ‘?Rतदेवेदम्’ ?Rइति प्रसिद्धा लोके ।
?R?0 “?Rह्यस्तनस्य शब्दस्य विनाशादन्योऽद्यतन इति चेत्” ?Rइति ।
?R?0किमत्रानुक्तर्मुक्तं भाष्यकारेण ??R ननु सत्यां प्रत्यभिज्ञायामनुपलम्भे कारणान्तरं कल्पनीयमित्युक्तम् ;?R कल्पिताः स्तिमिता वायवः ;?R तदपगमे चोपलब्धिरिति ;?R संयोगवियोगा उपगमहेतवः ;?R किमन्यदवशिष्यते ??R इदमवशिष्यते- उपलब्धं ह्यनुपलभ्यमानं ‘?Rनास्ति’ ?Rइत्यस्य ज्ञानस्य गोचरतामापद्यते ;?R न ह्यत्यन्तानुपलभ्यमानं ‘?Rनास्ति’ ?Rइति ग्रहमास्कन्दति । यद्युपलब्धमपि न गोचरीभवति, अनास्पदमेवेदमभ्युपगतं भवति । अभ्युपगतं चेतत् “?Rनास्तीत्यस्यार्थस्यामन्निकृष्टस्य” ?Rइति । तस्मादभावो निर्विषयोऽनेन वा विषयेण विषयी वक्तव्यः । तस्माज्ज्वालादिष्विव शब्देऽप्यापतिता प्रत्यभिज्ञा । अहो बतानुपलब्धावविवेकोऽयम् ;?R यथैवात्यन्तानुपलब्धविषयानुपलब्धिः ‘?Rनास्ति’ ?Rइत्यस्य ज्ञानस्योत्पत्तौ नेष्टे, तथा तद्ग्रहणविषयेऽप्यर्थे । तस्मादनुपलब्धइमात्रमेवेदम्, यदन्तरा शब्दे । तथा च लौकिका जायादिषु नानुपलब्धिमात्रेण ‘?Rनास्ति’ ?Rइत्यवगच्छन्ति, पुनर्दर्शने विश्वासदर्शनात् । तस्मात् सप्रत्यभिज्ञप्रत्यक्षसव्यपेक्षोऽयं प्रमाणाभावस्तत्र वक्तव्यः । कुतः ??R सापेक्षत्वादभावस्य निरपेक्षत्वाच्च प्रत्यक्षस्य । तदेतत् “?Rआनुपूर्व्यसिद्धम्” ?R- इत्यनेनोक्तम् । यदप्यत्रानुमानं सर्वभाव विषयमुक्तं नास्तितावगतौ, तदप्यत्र न संभवति ;?R अन्ते क्षयदर्शनात्- इति हि तत्र हेतुः । न च शब्देऽन्ते क्षयोऽस्ति । अतो न तेनापि बाध्यत इयं प्रत्यभिज्ञा घटादिषु कदाचिदाकम्पयत्यपि ॥
?R?0 “?Rअनपेक्षत्वात्” ?Rइति । सत्यामपि प्रत्यभिज्ञायां कदाचिदसमवायिकारणोपब्धेः अनित्यताशङ्क्येत घटादीनामिव ;?R तदप्यत्र दर्शनाभावान्नास्तीति स्थिता प्रत्यभिज्ञा ;?R तत्प्रमेयतया च नित्यत्वं शब्दस्य ॥
?R?0 “?Rप्रख्याभावात्” ?Rइति । अनपेक्षतायामसिद्ध्याशङ्कां निराकरोति । सेयमाशङ्कोपन्यस्यते- “?Rवायुरुद्गतः संयोगविभागैः शब्दीभवति” ?Rइति । तथा
?R?0च शिक्षाक्षराण्यनुगुणानि दृश्यन्ते- “?Rवायुरापद्यते शब्दताम्” ?Rइति । तदिदं निराक्रियते- यदि वायवीयः शब्दः स्यात्, वायोरवयवसन्निवेशविशेषः स्यात् ;?R न च वायवीयान् सन्निवेशविशेषात् शब्द उपलभामहे । ननु न चाक्षुषो वायुः । स्पर्शनमप्युपलम्भनमेव, तेनोपलब्धाः स्युः ;?R न चोपलभामहे । तस्मादप्रतिपक्षा प्रत्यभिज्ञा । कथं तर्हि शिक्षाक्षराणि ??R तदायत्तत्वात् तच्छब्दोपलब्धेस्तदुपचारः ॥
?R?0 तथा च वेदाक्षराण्यस्मिन् पक्षेऽनुगुणतराणि दृश्यन्ते “?Rवाचा विरूपनित्यया” ?Rइति । कोऽत्रातिशयः ??R नित्यताभिधानं श्रुत्या । तस्मात् प्रत्यभिज्ञाप्रमेयत्वान्नित्यतावस्थिता शब्दे ॥
?R?0 “?Rउत्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात्” ?R। “?Rयद्यौत्पत्तिको नित्यः शब्दः सम्बन्धश्च, तथापि न चोदनालक्षणो धर्मः” ?Rइति । किमिदमारब्धम् ??R इतमारब्धम्- वृद्धव्यवहारादौत्पत्तिकत्वमुक्तं शब्दार्थज्ञानस्य । वृद्धव्यवहारश्च प्रमाणान्तरावगम्यं वाक्येनार्थं प्रतिपादयतः कस्यचित् कश्चिदन्यः प्रतिपद्यते । तप्रतिपत्त्या बालोऽपि जानाति ‘?Rअनेनैव ततप्रतिपाद्यते’ ?Rइति । प्रतिपत्तिश्च हानोपादानादिकार्यावगम्या । हानोपादानादि च प्रमाणान्तरप्रमितविषयमेव शक्यतेऽवगन्तुम्, नाप्रमितविषयम् । अतश्च प्रमाणान्तरप्रमितविषयमेवौत्पत्तिकत्वं शक्यतेऽवगन्तुम् ;?R न पुनर्यत्र शब्दावगमपूर्वको व्यवहारः, तत्रौत्पत्तिकत्वं शक्यावगमम् । तस्माद्वैदिकानामग्निहोत्रादीनामौत्पत्तिकत्वं दुरवगमम् । तस्मादौत्पत्तिकत्वक्लेशोऽनर्थकः ;?R वेदप्रामाण्यसिद्ध्यर्थमौत्पत्तिकत्वमिष्यते स्वतन्त्रागमवादिभिः । न च वृद्धव्यवहारात् सिद्धमौत्पत्तिकत्वं वेदार्थप्रतिपत्तावभ्युपायतां प्रतिपत्तुं क्षमम् । किमिति न क्षमम् ??R समुदायाद्धि वृद्धव्यवहारेऽर्थोऽवगम्यते ;?R न चासौ समुदायो वेदे प्रयुक्तः । तस्मान्न
?R?0निमित्ततां प्रतिपद्यते । ननु चान्वयव्यतिरेकाभ्यां वृद्धव्यवहारादेव पदार्थपूर्वको वाक्यार्थोऽवगम्यते । आवापोद्धाराभ्यां हि ‘?Rदेवदत्त गामभ्याज शुक्लाम्, देवदत्त गामभ्याज कृष्णाम्, विष्णुमित्र गां बधान रक्ताम्’ ?Rइत्येकत्रान्वितशुक्लार्थः, अन्यत्रापोद्धृतशुक्लार्थोऽन्वितकृष्णार्थश्च, अन्यत्रापोद्धृताभ्याजार्थोऽन्वितबधानार्थश्च वाक्यार्थोऽवगम्यते । अतोऽवगम्यते- पदेभ्यः पदार्था एवावगम्यन्ते, न वाक्यार्थः ;?R पदार्थसमुदायेन वाक्यार्थोऽवगम्यते । अन्यथा ह्येकपदोद्धारे सकलवाक्यार्थानवगतिरेव स्यात्, न पदार्थमात्रस्य । तस्मात् पदेभ्यः पदार्थाः, पदार्थेभ्यः परस्परान्वितावगतिः । यदि पदेभ्यः पदार्था अवसीयन्ते, पदार्थेभ्यः परस्परान्वयः, किं पदार्थनिमित्तक एव वाक्यार्थः ??R ओम् इत्युच्यते । कस्य पदार्थस्य कस्मिन्नन्वये हेतुत्वम् ??R सर्वस्य सर्वस्मिन्निति ब्रूमः । एवं तर्हि सर्ववाक्यार्थावगतिः सर्वस्मात् । नियमे वा हेतुर्वक्तव्यः ‘?Rइत्थंभूतेनेत्थंभूतोऽन्वयः प्रतिपाद्यते’ ?Rइति । न चात्र वृद्धव्यवहारं मुक्त्वान्यत्कारणमुपलभामहे । तस्माद्यत्र समुदायः प्रत्युक्तः, तत्रैव पदं पदार्थमवगमयति ;?R पदार्थश्च पदार्थान्तरेणान्वितमात्मानमिति प्रयोगप्रतिपत्तिमूलेयं कल्पना । अतोऽन्वयव्यतिरेकावपि प्रतिपत्तिविषयावेव ;?R सत्यां हि प्रतिपत्तावावापोद्धारावगतिर्व्यवहारे व्युत्पाद्यस्य । अवगतिश्च प्रमाणान्तरप्रमिताविषयैव, हानोपादानावगम्यत्वात् वृद्धप्रतिपत्तेरित्युक्तम् । यत्र पुनः प्रमाणेन ‘?Rअस्मिन्नर्थे प्रयुक्तः’ ?Rइति न ज्ञापते, प्रयोगादेवार्थोऽवगन्तव्यः, तत्र कथं निमित्तता शक्यते कल्पयितुं पदपदार्थयोः, प्रतिपत्तिपूर्वकत्वान्निमित्तभावस्य ? ?Rन पुनर्निमित्तावगमादेव नैमित्तिकावगतिः । यस्मिन् हि सति यद्भवति तद्दर्शनात् ‘?Rअस्येदं निमित्तम्’ ?Rइति भवति मतिः ;?R न पुनस्तत्सम्भवादेव । केन वोक्तमन्यथा ??R
?R?0नैमित्तिकावगमादेव निमित्तावगतिः । अवगम्यते च “?Rअग्निहोत्रं जुहुयात्स्वर्गकामः” ?Rइति पदार्थान्वितो वाक्यार्थः । अतोऽत्रापि पदपदार्थयोर्निमित्तता केन वार्यते ??R कथं पुनर्गम्यते ‘?Rअन्वितपदार्थको वाक्यार्थः’ ?Rइति ??R नन्वेतस्मादेव वाक्यात् । तर्हि निमित्ततावगमादेव नैमित्तिकावगतिरित्युक्तम् । वृद्धव्यवहारे हि हानोपादानादिगम्यं नैमित्तिकत्वम् ;?R इह पुनर्वचनादेव हानोपादाने प्रवर्तेते ;?R तस्माद्विपरीतम् । ननु च वृद्धव्यवहारेऽपि प्रतिपत्ता वाक्यादेवार्थं प्रतिपद्यते ;?R बालस्तु पार्श्वस्थः शब्दार्थयोः सम्बन्धं हानोपादानाभ्यां वेत्ति । सत्यम् ;?R असावपि तु सम्बन्धज्ञानोत्तरकालं ततो विजानाति निमित्तान्नैमित्तिकम् ;?R वेदे पुनरविज्ञातनिमित्तनैमित्तिकसम्बन्धः कस्य निमित्ततां विजानातु, कस्य वा नैमित्तिकत्वम् ??R अथ सामान्यतोदृष्टानुमानं क्रियते- वृद्धव्यवहरे पदपदार्थयोर्निमित्तभावो दृष्टः, वेदेऽपि त एव पदार्थाः, तस्माद्वेदेऽपि स्वार्थान्वितौ निमित्तत्वम्- इति ;?R एवं तर्हि कियन्तः कस्यामित्यत्र प्रमाणं नास्ति । यावन्तो यस्यामवगतौ प्रतीयन्ते- इति चेत्, अवगतिपूर्वकमेव तर्हि निमित्तत्वम् ;?R न सामान्यतोदृष्टनिमित्तकम् ;?R न चावगतेः प्रमाणमस्तीत्युक्तम् । तत् सामान्यतोदृष्टनिबन्धनैवेयं भ्रान्तिः । सामयिकी वा दृष्टव्यवहारपूर्विकादृष्टावगतिः ;?R लोकसिद्धैर्वा संज्ञासंज्ञिसम्बन्ध कृत्वा वैदिको व्यवहारः प्रवर्तितः कैश्चित् । ननु कार्येक्यनिबन्धनमेकवाक्यत्वं भविष्यति । कार्यैक्यं च नियोगैक्यात् । नियोगैक्यं चानुबन्धविनिर्मोकादित्युक्तम् । नियोगार्थश्च लोके वेदेऽपि स एव- इत्युक्तम् ;?R प्राप्ताप्राप्तविवेकेन हि प्रेषणादयोऽभिहिताः । तस्मान्निमित्तपूर्वकेऽपि न दोषः । सिद्धं सामान्यतोदृष्टमनुमानं निमित्तावगतौ । तदिदमयुक्तम् ;?R किं नोयोगार्थः प्रमाणान्तरानिर्ज्ञातार्थतया लोकेऽर्थावगतौ निमित्ततया दृष्ट ??R नेति ब्रूमः ;
?0”?Rप्रथमश्रुतः किं न प्रत्याययति ?" ?R- इत्यनतिक्रमणीयोऽयं हेतुः । एवं तर्हि तदर्थभेदस्यापि प्रमाणान्तरं मृग्यम् । अनुबन्धाश्च तद्भेदानुवर्तिनो लोके दृष्टाः, न पुनस्तदनुर्वी भेदः । तस्मात् परस्परान्वयिता न प्रयोगावच्छेदमन्यतोऽविज्ञाय शक्यतेऽवगन्तुम् । न चासाववच्छेदः प्रमाणान्तराभावाद्वेदे विद्यते । तस्मात् दर्शनान्तरं मृग्यम् । न चेष्टं स्वतन्त्रागमवादिनामिदम् । न च स्वभावादर्थावगतिरित्युक्तम् । अतः प्रतीयमानपदार्थआन्वयी वाक्यार्थः, न प्रमाणान्तरापेक्षा- इति गहनेयं न्यायपदवी । कथमियमवगाहनीयेति युक्ता संप्रधारणा । अत एक एवायं बहुधा विकल्प्यावगम्यते लोके वेदे चेति ब्रह्मविदो मन्यन्ते । तस्माद्विवर्त एवायमिति ब्रह्मविद्भइरवगन्तव्यम् । वेदविद्भिरित्यर्थः । कथं पुनः विवर्तपक्षे नायं दोषः ??R एकतावगतिस्तावन्नैवास्ति, “?Rश्रोत्रग्रहणे ह्यर्थे लोके” ?R- इत्यनेन प्रतिपादितत्वात् । तदेवेदं दुरुक्तम्, कार्यविरोधादित्युच्यते । किं कार्यतः प्रत्यक्षमात्मानं लभते ??R मा भूत्प्रत्यक्षम् ;?R अनुमानमपि प्रमाणमेव । अनुमानादपि प्रमाणावगतिर्युक्तैव । भवद्भिरप्यानुमानिकमेव प्रामाण्यं सर्वत्रोक्तम् । अनुमानादवगतस्यार्थस्य कथमेकत्वम् ??R अन्यत्वं वा कथम् ??R एकतया च विना किं न सिध्यति इधं न सिध्यति- न ह्युपायाः कल्पिताः प्राप्नुवन्ति ;?R एकत्वावगतौ श्रुत्यामवच्छेदाः कल्पिताः स्युः । न चैकतावगतिर्युक्तानुमानात्- इति चोदितम् । नैष दोषः ;?R अनुमानात् प्रमाणत्वमवच्छिद्य, ततः पुनरेकतामवयवैर्वेति ‘?Rशुक्लः पटः’ ?Rइत्येवमादिषु । तदिदमागमात् प्रतिपन्नमेकत्वम् ‘?Rप्रत्यस्तमिताशेषागमविकल्पं स्वयं ब्रह्म प्रकाशते’ ?Rइति । यदुच्यते- “?Rश्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः” ?Rइति, तदप्यागमविरुद्धम् ; ‘?Rगौः’ ?Rइति शब्दः, ‘?Rगौः’?R इत्यर्थः, ‘?Rगौः’ ?Rइति विज्ञानम्, एकाभिधाननिर्देशात् ;?R न हि भिन्नस्य युगपदेकाभिधानं संभवति ।
?R?0कथं पुनः यौगपद्यावगमः ??R वाचकज्ञानवाच्यानां परस्परापेक्षिणी स्वरूपावगतिर्यतः । अतश्च यदप्युक्तम्- सजातीयावमर्शशून्या न सामान्यावगतिरस्ति इति, तदयुक्तम् ;?R भेदनिबन्धना ह्येषा युक्तिः । विद्यमानस्य ह्यवमर्शो भवति, न कल्पितस्य । उक्तं चैकत्वमेकाभिधाननिर्देशात् । ततः किम् ??R इदं ततः - कल्पनयैव वृद्धव्यवहारस्य निमित्ततोच्यते । तच्चेदं कल्पनाबीजं बहुधोच्यते- “?Rपदमाद्यम्” ?Rइत्येवमादि । तस्मात् पदार्थवेदनेन संस्कृतान्यभेदं प्रतिपद्यन्ते इत्यर्थः । न चैतावता अप्रामाण्यं श्रुतेः, प्रमेये शक्तिसद्भावादित्युक्तम् । ततोऽनागमिकी कल्पना प्रत्यवायाय, न वैदिकी, परमार्थपरत्वाद्वैदिकस्य । अतः सिद्धमौत्पत्तिकत्वमस्मत्पक्षे । भेदाभिधानपक्षे यथा न सिध्यति, तथा प्रदर्शितम् । अत एव च यथाविनियोगं मन्त्रार्थान् मन्त्रार्थान् मन्त्रविदो वर्णयन्ति ;?R भेदे हि नियतमभिधानं स्यात् । अतः “?Rउणादयो बहुलम्” ?Rइत्येवमाद्यनागमपूर्वकमेव स्यात् । न चैतत्तवापीष्टम् । उपदेशश्चार्थवानङ्गविद्यानाम् ;?R भेदपक्षे हि लोकत एव नियतत्वाद्भेदानां किमन्यदाख्यायते ??R अस्मत्पक्षे पुनरागमानुसारी विकल्पः ;?R आनन्त्याच्चागमस्य उपदेशोऽर्थवान् । अतश्चायं भेदव्यपदेशः - लौकिकानां वैदिकानां भाषायां निगम इति च । आगमभेदाश्चोपपन्ना भवन्ति । केनचित् क्वचिदवच्छिद्य तदेव प्रदर्शितं भवति । अत एव चैकादशद्वादशकपालमेकं कर्म । अन्यथा हि भेदावगमे एकत्वाभिधानं प्रलापः । न केवलमत्र, अभिधानसन्दर्भेऽपि । अपि च कार्यावगम्यत्वाच्च प्रमाणताया एकत्वाच्च कार्यस्य नानाभिधानं न प्रमामेनोपपद्यते । व्कायसमासयोश्चावगत्यन्यत्वेऽपि तुल्यकल्पनाप्रतिषेधार्थं वावचनमागमविकल्पज्ञापनायोपपन्नार्थं भवति । अन्यथा हि वस्त्वेव निरोधकम् । अत एवाभिधेयवशवर्तिशक्तिनिरूपणं
?R?0नामाख्यातोपसर्गनिपातानाम् ;?R भेदे हि स्वरूपभेदः पारमार्थिकः । तत्र प्रत्यभिज्ञाने सति ‘?Rविलम्बते’ ‘?Rविप्र’ ?Rइत्यन्यत्वं न स्यात् ;?R तथा भवत्यादिषु वर्णमात्रवादिनः । राज्ञः पुरुषस्य हस्तिनः - इति पदद्वयसम्बन्धोऽपि भवति, न- राजपुरुषस्य हस्तिनः इति । एवमुपगोरिदम्, अपत्यस्येदम् ;?R न पुनः औपगवस्येदम्- इति । तथाच करणम् , करणेन- इति विभक्तेरुत्पत्तरनुत्पत्तिश्च । तथा च सुब्धातवः - अश्वः गर्दभः इति, अश्वति गर्दभति इति च । तथा चाष्टादशप्रभेदमवर्णकुलमर्थप्रतिपत्तये । अन्यथा ह्येकत्वाद्वस्तुनः सर्वार्थप्रतिपत्तिरप्रतिपत्तिर्वा स्यात् ;?R व्यवस्था नोपपद्यते । प्रमाणान्तरप्रतीतेऽर्थ एकावगमो मृषा- सुरभि चन्दनम्, शीतो वायुरिति च । चन्दनस्य सुरभिः, वायोः शीतम् इत्येव स्यात् । उपसर्गनिपातानां क्वचिद्विशेषणार्थत्वं क्वचिदानर्थक्यं क्वचिद्विपरीतार्थता तद्भावे नोपपद्यते । पदार्थपूर्वकत्वाच्च वाक्यार्थस्य तद्वशादपि निर्णयो दुर्वचः । पदभेदे च पदार्थविनाशः स्यात् । आनर्थक्ये चैकवाक्यता कथम् ??R विभागज्ञानं च ??R वर्णोपजन एव स्यात् । आगमविकल्पपक्षे तु सर्वमुपपन्नम् । आगमविकल्पावगमः कुतः इति चेत्, आगमान्तरादेव । तदुक्तम्- “?Rऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम्” ?R। अनिदम्प्रथमता चास्यानादित्वात् संसारस्य शक्यतेऽवगन्तुम् । सेयमनपेक्षता प्रामाण्यहेतुः । भेदपक्षे सर्वमिदमसमञ्जसम् । दर्शयति च ज्ञानप्रधानवर्ती वेदः अच्छिद्यावबोधकत्वं वेदस्य । वेदान्ताः कथम् ? “?Rअथ यदल्पम्, तन्मर्त्यम्” ; ‘?Rअथ यद्भूम, तदमृतम्’ ?R- इति । किं तदल्पम् ??R अवच्छेदः । कल्पनीयस्यावच्छेदो दृष्टः, न पुनस्तत्त्वस्य । “?Rयावद्वाचो गतम्” ?R- इत्यादि सर्वमुपपन्नार्थं भवति । अन्यथा हि विरोधः स्यात् । विरोधे चाप्रामाण्यम् । तस्मादेकानुगुणमिदं ब्रह्मराशिमागमविदो व्याचक्षते । सोऽयमागमः । तदिदं
?R?0तत्त्वम् । त इमे ब्रह्मविदः, य एवं विजानते । तस्मान्निवर्तस्वैतस्माद्भेदग्रहात् संसारानुपातिनः । ननु चात्रापि वृद्धव्यवहारव्युत्पत्तिर्नैवोपकारिका । आगमतश्चेद्विकल्पाः प्रवर्तन्ते, किं वृद्धव्यवहारेण ??R अथ वृद्धव्यवहारव्युत्पत्त्या अविकल्पिता नागमविकल्पान् प्रतिपद्यन्ते ;?R तदिदं भेदव्यवहारेऽपि तुल्यम् । अथागमत एव विकल्पाः प्रतिपद्यन्ते, वृद्धव्यवहारव्युत्पन्ना निमित्तावगतिः क्वोपयुज्यते ? ?Rतसमादयमपि भेदपक्षपर्यवसित एव पक्षः । अथेदानीमयमपरः प्रकारः - जातिगुणयोरिवैकद्रव्यनिवेशादेकद्रव्यसम्बन्धः प्रतीयते ;?R तद्वज्जातिगुणशब्दयोरपि सन्निहिततयोच्चरितयोः तद्द्वारेणैकार्थतावगम्यत इति चेत्, तन्न ;?R व्युत्पत्तौ निमित्तमात्रतयावगतेः निमित्तमात्रतयैवावगतिः प्राप्नोति । एवमानर्थक्यमिति चेत् ;?R न ह्यानर्थक्यमर्थान्तरावगतौ हेतुः । तस्मादनर्थक एवायं वृद्धव्यवहारनिबन्धनः शब्दार्थयोरौत्पत्तिकसम्बन्धाभिधआनक्लेशः । तस्मात् पूर्वोक्तमेव कृतकत्वं सामयिकत्वं वा सम्बन्धस्येति स्थितम् । “?Rयद्यौत्पत्तिको नित्यः शब्दः सम्बन्धश्च, तथापि न चोदनालक्षणो धर्मः” ?R- इति वृद्धव्यवहारस्यानिमित्तताप्रतिज्ञेयं वैदिके व्यवहारे ;?R यथोक्तम् । ‘?Rचोदना हि वाक्यम् । न ह्यग्निहोत्रात् स्वर्गो भवतीति गम्यते’ ?R- इति वाक्यात् प्रतिपत्तिर्योक्ता, हेत्वभिधानपातनिकेयम् । न चायं सामुदायो वृद्धव्यवहारसिद्धः, यः श्रुतौ प्रयुक्तः । तस्मादनिमित्तता पूर्वोक्ता अस्य भाष्यस्यार्थतया वर्णिता । “?Rपदानि ह्यमूनि प्रयुक्तानि, एषां नित्योऽर्थः” ?Rइति वृद्धव्यवहारे हि पदानामौत्पत्तिकत्वं निमित्ततया सिद्धं तस्मिन्नेव नैमित्तिके । इह पुनर्नैमित्तिकान्तरावगतावसिद्ध एव निमित्तभावः । कुतः ??R अप्रयुक्तः समुदायो यस्मात् । एवं सति कृत्रिमत्वमुपवर्णितम् । “?Rन च पदार्था एव वाक्यार्थः” ?R- इति परस्परानन्वयितां दर्शयति । परस्परान्वितता हि वेशेष उच्यते । “?Rसामान्ये हि पदं वर्तते, विशेषे वाक्यम्” ?R- इत्यनेन व्यावहारिकी
?R?0पदव्युत्पत्तिरनर्थिकेत्युक्तम् । विस्तरश्चात्रोक्त एव पूर्वम् । “?Rन च पदार्थाद्वाक्यार्थावगतिः, असम्बन्धात्” ?Rइति । परस्परानन्वयितां दर्शयति । परस्परान्वितता हि विशेष उच्यते । “?Rसामान्ये हि पदं वर्तते, विशेषे वाक्यम्” ?R- इत्यनेन व्यावहारिकी पदव्युत्पत्तिरनर्थिकेत्युक्तम् । विस्तरश्चात्रोक्तं एव पूर्वम् । “?Rन च पदार्थाद्वाक्यार्थावगतिः, असम्बन्धात्” ?Rइति । नन्वस्त्येव पदार्थानां वाक्यार्थेन सम्बन्धः, तदन्वयस्यैव वाक्यार्थत्वात् । न हि प्रयोगशून्या परस्परान्वितता शक्यतेऽवगन्तुमिति पूर्वोक्तानवगतिः एतद्भाष्यनिबन्धना । “?Rअसति चेत् सम्बन्धे कस्मिश्चिदर्थेऽवगतेऽर्थान्तरमवगम्येत, एकस्मिन्नवगते सर्वमवगतं स्यात्” ?R- इत्यपदार्थनिमित्तत्वे वाक्यार्थस्य हेतुः । वर्णितश्चायम् । " ?Rअप्रयुक्तादपि वाक्यादसति सम्बन्धे स्वभावादर्थआवगमः" ?R- इत्यनेनानुबन्धविनिर्मुक्तं नियोगैक्यं वेदे दर्शयतीति वर्णितम् । “?Rशब्दो धर्ममात्मीयं व्युत्क्रामेत् ;?R न चैष शब्दधर्मः, यदप्रयुक्ताच्छब्दादर्थः प्रतीयते” ?R- इति कार्यानुवर्तितामनुबन्धानामनुबन्धविनिर्मुक्तौ दर्शयति ;?R यथोदितम् । “?Rन हि प्रथमश्रुतात् कुतश्चन शब्दात् केचिदर्थं प्रतियन्ति” ?R- इति सामान्यतोदृष्टविरोधः पूर्वोक्तः । “?Rतदभिधीयते- पदधर्मोऽयम्, न वाक्यधर्मः ;?R वाक्याद्धि प्रथमश्रुतादपि प्रतियन्तो दृश्यन्ते” ?R- इति । कथं तर्ह्यर्थानवगतिः ??R अवगतेर्विद्मः - पदार्थमात्रव्युत्पत्तित एव वृद्धव्यवहारो वेदार्थावगतौ हेतुः - इत्युपन्यस्तमनेन भाष्येण प्रागुक्तमेव । “?Rनैतदेवम् ;?R यदि प्रथमश्रुतादवगच्छेयुः, अपि तर्हि सर्वेऽवगच्छेयुः पदार्थविदोऽन्ये च ;?R न त्वपदार्थविदोऽवगच्छन्ति” ?Rइति । न ह्यप्रयुक्ताल्लोके समुदायादर्थोऽवगन्तुं शक्यते । यत्तु पदार्थविदोऽवगच्छन्तीति, तत् सामान्यतोदृष्टभ्रान्त्या पूर्वोक्तया - इति मन्तव्यम् । “?Rननु च पदार्थविद्भिरप्यवगच्छद्भिरकृतक एव
?R?0वाक्यार्थसम्बन्धोऽवगतो भवति ;?R पदार्थवेदनेन संस्कृता अवगमिष्यन्ति यथा तमेवार्थं द्वितीयादिश्रवणेन” ?R- इति । किमत्र भ्रान्त्या ??R आगमविकल्पानुगुण्याद्वरं निमित्ततैव यथा वृद्धव्यवहार एव द्वितीयादिश्रवणम् । अयं पूर्वोपवर्णितोऽर्थः । “?Rनेति ब्रूमः ;?R यदि वाक्यान्त्यो वर्णः पूर्ववप्णजनितसंस्कारसहितः पदार्थेभ्योऽर्थान्तरं प्रत्याययति, क उपकारस्तदानीं पदार्थज्ञानादवकल्पते” ?R- इति पूर्वोक्तमनिमित्तत्वं वेदस्य कल्पनायामपि तुल्यमित्यस्यार्थः ।"?Rनन्वेवं संभविष्यति- सामान्यवाचिनः पदस्य ‘?Rगौः’ ?Rइति वा ‘?Rअश्वः’ ?Rइति वा, विशेषकम् ‘?Rशुक्लः’ ?Rइति वा ‘?Rकृष्णः’ ?Rइति वा पदमन्तिकादुपनिपतति यदा, तदा वाक्यार्थोऽवगम्यते" ?Rइति । तदेतत् कार्यैक्यनिबन्धनं यदुक्तम् अर्थयोरिव बुद्ध्येकत्वोत्पत्तिहेतुत्वम्, तदुपन्यस्तम् । “?Rन हि ;?R कथमिव ‘?Rगौः’ ?Rइति वा ‘?Rअश्वः’ ?Rइति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिरुपसर्पन्ती श्रुतिजनिता वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तेत ?” ?Rइति । निमित्तमात्रव्युत्पत्तेर्व्यवहारव्युत्पत्तौ पदार्थमात्रावगतिः प्राप्नोति, न परस्परान्वयः - इति प्रागुक्तमनेनोक्तम् । अर्थनिमित्तं त्वार्थम्, न शाब्दम् ;?R शाब्दं त्विदं विचार्यते । तत्र च यावत्प्रयोगिण्येव निमित्तता उक्ता । न च प्रयोगव्युत्पत्तौ पदार्थान्तरव्यावृत्त्या पदस्य स्वार्थनिमित्तता दृष्टा, येन पदान्तरप्रयोगात् सर्वगवीषु प्रत्ययो व्यावृत्तः शब्दात् - इति शक्यते वक्तुम् । नन्वेवं सत्यानर्थक्यं भविष्यति । भवतु ;?R न हीदमानर्थक्यमर्थान्तरपरतया कल्पयितुं क्षमम् ;?R आनर्थक्यमेव हि तन्न स्यात् । तस्मात् कृत्रिमः सम्बन्धः । प्रत्यस्तमितमनपेक्षत्वम् । समर्थितश्चायं हेतुः - वाक्यात्मकत्वात् कृतको वेद इति ॥
?R?0 “?Rतद्भ्रतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात् ।” ?Rअत्रोच्यते-
?R?0स्यादनुपायत्वं वृद्धव्यवहारस्य, यदि पदार्थान्यत्वं स्यात् ;?R आवापोद्धारतैव केवलमन्या । कथम् ??R वैदिकलौकिकयोः पदार्थयोरन्यत्वानवगतेः । किमिदं प्रत्युक्तं पुनरुच्यते ??R परस्परान्वयो हि पदार्थानां वाक्यार्थ इत्युक्तम् । न पदार्थाः ;?R तस्मान्न पदार्थप्रत्यभिज्ञानमन्वयहेतुः । प्रमाणान्तरं च सास्त्यस्मिन् प्रयुक्तमित्युक्तम् । ततः प्रयोगशून्योऽन्वयो निर्बीजः । पदपदार्थानभिज्ञो मातृप्रियो भवान् । कथमनभिज्ञः ??R पादार्थस्तावन्नाव्यतिषक्ताः क्वचिदुपलभ्यन्ते, अन्ततोऽस्त्यर्थेन । ततः किम् ??R इदं ततः । तत्प्रतिपत्तये हि शब्दार्थव्यवहारः । व्यवहारे च यथाव्यतिषङ्गमेवावापोद्धारौ । तस्मात् व्यतिषक्तार्थाभिधानम् , व्यतिषक्तेनावगतेर्व्यतिषङ्गस्य । किमेवं भविष्यति ??R नानव्विताभिधायी शब्द उक्तो भविष्यति । ततश्च कार्याभिधायिता लोके नियोगस्यावगता । “?Rआचार्यचोदितः करोमि” ?R- इति हि दर्शितम् । ननु च प्रेषणादयोऽप्यवगम्यन्ते लोके । उपाधयो हि ते, न शब्दार्थाः । केन पुनरमी उपाधयो नाम ??R उपाधयो हि उपाधयो हि तटस्थाः प्रयोगदर्शनमात्राच्छब्दार्थं विशेषेऽवस्थापयन्ति यथा दृतिहर्यभिधेयस्य पशुत्वम् । एवमसौ नियोगः समहीनज्यायोभिः प्रयुज्यमानः प्रेषणादिव्यपदेशं लभते । प्रवर्तकत्वं तु शब्दार्थः, योभिः प्रयुज्यमानः प्रेषणादिव्यपदेशं लभते । प्रवर्तकत्वं तु शब्दार्थः, सर्वत्रापरित्यागात् । अतो नियोगाभिधानमिदम् । नियोगाभिधाने च सति तत्साधनव्यतिषङ्गोऽवगम्यते । साधनाभिधाने च साध्यव्यतिषङ्गः । अत इदमुक्तम्- तद्भूतानां आत्मीयेष्वर्थेषु व्यस्थितानां व्यतिषङ्गावगतेर्निमित्तत्वमुपपद्यत इति । ननु च प्रयोगे सत्येतद्युक्तं वक्तुम् । केन वोक्तमप्रयोगे सतीति ??R एवंभूतेषु हि दृष्टो लौकिकः प्रयोगः ;?R वैदिका अपि त एव । अतस्तथाभूतेष्वेवायं प्रयोगः । एवं तर्हि निमित्ततो नैमित्तिकावगतिः । मन्द ! ?Rमैवम्, कथनोपायोऽयम् ;?R न ह्यन्वितोऽन्वयशून्यः
?R?0शक्यते प्रतिपत्तुम् । त एतेऽन्विताः पदार्थाः ;?R एषामभिधानानि पदानि ;?R तदिदं वाक्यपदीयम् । अन्यथा ह्यवगम्यमानः पदपदार्थविवेकोऽपह्नुतो भवति, अविद्यमानः प्रतिपन्नः । तस्मान्न कार्यतस्तावद्वाक्यवाक्यार्थयोः पदपदार्थाभ्या मन्यत्वं कल्पयितुं क्षमा प्रज्ञा । प्रत्यक्षतस्तु भेदावगमान्नास्त्येकत्वमित्युक्तम् । अतः क्रियार्थेन समाम्नायः । ननु च नावश्यं क्रियार्थेनैवाम्नानं लोके । अस्ति तावत् क्रियार्थता वेदे ;?R तद्विषयमिदमधिकरणं भविष्यति । किं न लौकिकविषयमिदमधिकरणम् ??R किं वा मन्यते भवान् ??R न्यायाभिधानसाम्यात् सर्वत्रेति मन्यामहे । भवतु सर्वत्र । ननु च क्रियार्थेन- इत्यव्यापकम् । व्यवहारक्रियैवेयं क्रियेति मत्वा शाम्यतु भवान् । अतः सिद्धम् “?Rअर्थस्य तन्निमित्तत्वात्” ?Rइति वैदिकानां सनिमित्तत्वम् । “?Rतेष्वेव पदार्थेषु” ?Rइति अन्वितेष्वित्यर्थः । कुतः ??R नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यार्थः प्रतीयते । न चेत् प्रतीयते, कस्य वाक्यं प्रमाणतया कल्पयिष्यते ??R ननु चान्वयो न पदार्थः ;?R स च वाक्यार्थो भविष्यति । अतश्चार्थआद्वाक्यमपि पदेभ्योऽन्यदिति गम्यते । “?Rनन्वर्थापत्तिः” ?Rइत्यनेनेदमुक्तम् । “?Rतन्न, अर्थस्य तन्निमित्तत्वात्” ?Rइत्यन्विताभिधानेन कथितोऽस्यार्थः - अर्थापत्तिर्नास्तीति । “?Rअपि चान्वयव्यतिरेकाभ्यामेतदवगम्यते ;?R भवति हि कदाचिदियमवस्था मानसादपचारादुच्चारितेभ्योऽपि पदेभ्यो न पदार्था अवधार्यन्ते ;?R न तदानीं नियोगतो वाक्यार्थमवगच्छन्ति । न च नियोगतो वाक्यार्थं नावगच्छेयुः, यद्यस्य पार्थगर्थ्यमभविष्यत् ;?R नियोगतस्तु नावगच्छन्ति” ?Rइति । किमनेनानुक्तमुक्तम् ??R न खलु किञ्चित् ;?R प्रतिज्ञातार्थस्यानन्यत्वमेव ;?R तत्सिद्धये हेतुरुपन्यस्तः । कथम् ??R यद्यसंसृष्टपदार्थ एव वाक्यार्थोऽवगम्यते, व्युत्पत्तिमात्रं पदार्थावगतिः ;?R कस्मात् व्युत्पत्त्यवमर्शशून्यमपि कदाचिज्ज्ञानं
?R?0न भवति निरूढव्यवहारस्य, यथा धूमान्महानसादिप्रदेशावमर्शशून्यमग्निज्ञानम् ??R न च वाक्यार्थे निरूढव्यवहारस्याप्येवंरूपावगतिर्दृष्टा । अतो न निमित्ततया पदार्थआ अवधार्यन्ते । किं तर्हि ??R नैमित्तिकतयैव । किं पुनः कारणं निरूढव्यवहारस्य निमित्तानपेक्षा नैमित्तिकावगतिः ??R प्रचितसंस्कारो हि नावश्यं निमित्तव्यापारमपेक्षते ;?R अन्ध इवाभ्यस्तपदवीको न तदीक्षणमपेक्षते । अत्र पुनः सर्वदा तदपेक्षणात् तदेव प्रमेयमित्युच्यते । एवं तर्हि “?Rपदार्थेभ्यो वाक्यार्थप्रत्ययः” ?Rइथि कथमयं व्यतिरेकः ??R एवमयं व्यतिरेकः - अन्वितेभ्योऽन्वयप्रत्यय इति । “?Rअपि च अन्तरेणापि पदोच्चारणं यः शौक्ल्यमवगच्छति, अवगच्छत्येवासौ शुक्लगुणकं द्रव्यम्” ?Rइति । किमन्वयव्यतिरेकभाष्यशेषमेवैतत् ??R ओमित्युच्यते । तत्र च पदार्थस्य व्यतिरेकदर्शनम् , इह चान्वयस्य । सत्यमेवम् ;?R न त्वेतावन्मात्रमेव । किमतिरिच्यते ??R इदमतिरिच्यते- यदि हि व्युत्पत्तौ पदानां पदार्थमात्र एव व्युत्पत्तिः, तदा अनन्वितपदार्थदर्शने तत्स्मरणानुपपत्तिः ;?R स्मर्यते च । अतः सिद्धमन्विताभिधानम् । “?Rनास्य पदसमुदायेन सह सम्बन्धः” ?Rइति । न समुदायभूतानां प्रामाण्यम् । किं तर्हि ??R अन्वव्यतिरेकसमधिगम्यस्वार्थव्यावृतानामेव । “?Rयत्तु श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तितुमर्हति” ?Rइति । कथं पुनर्व्युत्पत्तिशून्यैवावगतिः शक्यतेऽभिधातुमित्यभिप्रायः । परिहारस्तु- सत्यमेवमेतदिति । व्यवहारार्थत्वात् प्रयोगस्य विशेषात्मकत्वाच्च व्यवहारस्य अन्वितावगतिरेव तदर्थानाम् ;?R नान्वितार्थान्तरस्मरणम् , व्यवहारानङ्गत्वात् । तदिदमुक्तम्- “?Rयश्चार्थादर्थः, न स चोदनार्थः” ?Rइति । न चेदानीं तदविवक्षितमिति प्रतीयमानस्यापि शब्दात् अविवक्षितत्वं शक्यते वक्तुम् । गम्यते च शब्दान्निमित्तात् अशब्दार्थश्चेति किमिदम् ??R शब्दान्तराभिधेयतया
?R?0स्मरणात् , स्मृतेश्चाप्रामाण्यात् । अतः शब्दनिमित्ततापि भ्रान्तैरेवोदिता प्रत्यक्षादीनामिव स्मरणीये । एवं च गुणान्तरप्रतिषेधो न शब्दार्थे इति कल्पितनिमित्तपरिहारात् परिहृतम् । “?Rअपि च प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः” ?Rइति । अन्वितार्थमेव प्रातिपदिकं स्मरन्ति ;?R यतः करणवाचिनः प्रातिपदिकात् तृतीयां विदधति । विभक्तयश्च परस्परान्वयप्रतिपादिकाः प्रयोगान्तरस्मृतस्यार्थस्यान्वयितां श्रुत्यैव दर्शयन्ति । अतोऽभ्युच्चयोपपत्तिरियम् । प्रत्युक्तमनुमानम् ‘?Rकृतकत्वात्’ ?Rइति वृद्दव्यवहारस्य निमित्ततोपपत्या । “?Rअपि च” ?Rइत्यनेन पूर्वोक्तसम्बन्धकरणाशक्तिं दर्शयति ॥
?R?0 लोके पुनः प्रमाणान्तरप्रमितविषयतया युक्तैव, तत्पूर्वकत्वात् शब्दव्यवहारस्य । “?Rतस्मात् पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थप्रत्ययः” ?Rइति व्याख्यातम् । तस्मादुपपन्नं वृद्धव्यवहारनिमित्तमौत्पत्तिकत्वं सम्बन्धस्य, वेदवाक्यार्थप्रतिपत्तिहेतुत्वं च । विलम्बते- इत्यादयस्तु शब्दप्रत्यभिज्ञयैव ;?R अभिधाने हि स दोषः । समासादीनां तु तत्र तत्र परिहारोऽभिधीयते ॥
?R?0 “?Rवेदैंश्चैके सन्निकर्षं पुरुषाख्याः” ?R। “?Rपदवाक्याश्रयः” ?Rइति । विभागाभिधानादविभक्तकार्यत्वाच्च विवेकः । यदुक्तम् " ?Rअस्मरणात्" ?Rइति, तत् विरुद्धं समाख्यया । किं कार्यनिबन्धनैवेयं समाख्या ??R बाढम् ;?R असाधारणेन हि व्यपदेशो भवति, साधारणं च प्रवक्तृत्वम् । कथं तर्हि-
“?Rकृते ग्रन्थे”, “?Rतेन प्रोक्तम्” ?Rइति च सूत्रद्वयं भगवतः ??R प्रोक्तवचनमयुक्तम् , “?Rसमर्थानाम्” ?Rइति विरोधात् । तस्मात् कार्यतैव वेदस्यावगम्यते ॥
?R?0 केयं कार्यता नित्यत्वाच्छब्दानामौत्पत्तिकत्वाच्च सम्बन्धस्य ??R प्रमाणान्तरापेक्षिता । तथा च तदनुरूपं वेदवचो दृश्यते- “?Rबबरः
?R?0प्रावाहणिः” ?Rइत्येवमादि । अत्रोच्यते– स्यादेतदेवम्, यद्यन्यथा असाधारणव्यपदेशो नोपपद्यते । प्रकर्षादपि ह्यसाधारणव्यपदेशो दृष्टो लोके ;?R यथा बादरायणेन वेदप्रामाण्यं समाख्यायते । अत एव सूत्रद्वयप्रणयनं भगवतः पाणिनेः । “?Rसमर्थानाम्” ?R- इति चाविरोधः ॥
?R?0 यदुक्तम् “?Rबबरः प्रावाहणिः” ?Rइति, स्थिते प्रामाण्ये गुणवादं वक्ष्यति । वक्ष्यमाणमेव च भाष्यकारेणात्र व्याख्यातम् । किमर्थम् , ‘?Rवक्ष्यामः’ ?Rइति नोक्तं च ??R असम्बद्धत्वोपन्यासार्थम्- न शक्यते ज्योतिष्टोमादिषु विध्युद्देशेषु कल्पयितुं तत् ; ?Rएकवाक्यत्वाच्च “?Rवनस्पतयः” ?Rइत्येवमादीमाम् ? “?Rअपि च अविगीतः सुहृदुपदेशः” ?R- इति सार्वजनीनमविपर्ययं दर्शयति । तसमाच्छोदनैव प्रमाणं धर्मस्येति स्थितः प्रतिज्ञार्थः ॥
?R?0 ॥ इति बृहत्यां प्रथमाध्यायस्य प्रथमः पादः समाप्तः ॥
?0
?R?0बृहती
?R?0(शाबरभाष्यव्याख्या)
?R?0तृतीयाध्यायस्य प्रथमः पादः
?R?0अथातश्शेषलक्षणम् ॥ 1 ॥
?R 1?Rनानाकर्मलक्षणं वृत्तमिति । कर्मानुबन्धभेदाच्छास्त्रभेदः, अतः शास्त्रभेदलक्षणं वृत्तमित्यर्थः । ननु च शास्त्रभेदे सत्यैदमर्थ्यं न सिद्ध्यति अङ्गप्रधानानाम् । विनियोगतः कर्मभेद उक्तः । ननु चेदानीमेव विनियोगश्चिन्त्यते । कथं विनियोगतो भेदः, भेदे सति विनियोगः । अत एव च भेदलक्षणं वृत्तमिति हेत्वर्थतयैव भेदलक्षणोपन्यासः शेषलक्षणस्य । सत्यं, हेत्वर्थतयैव उपन्यासः सत्यं च भेदाद्विनियोगः । तथापि शास्त्रभेदोऽपि विनियोगत एव । किन्त्वसौ विनियोगः पदनिमित्तकः ।
?R किमिदं पदनिमित्तक इति ??R प्रतिपत्तौ हेतुः पदनिमित्तकः पदार्थानां संबन्धप्रतिपत्तिनिमित्तक इत्यर्थः । यस्त्वयं तृतीये चिन्त्यते स कार्यनिमित्तकः । अतो वाक्यार्थभेदेन शास्त्रभेदे सति वाक्यार्थानां परस्परं शेषशेषिचिन्ता शेषलक्षणमित्युच्यते लक्ष्यते हि शेषशेषिप्रतिपत्तौ न प्रतिपाद्यते1?R । ननु व्रीहीन् प्रोक्षतीति पदार्थानां शेषशेषिचिन्ता । अश्रवणमत्रापराध्यते भवतः । व्रीहिभिर्यजेतेत्यनेन सहास्य शेषशेषिचिन्ता न पुनर्व्रीहिपदार्थमात्रतयैव । किमिति तर्हि शेषलक्षणम् ??R विनियोज्यो हि शेषः तद्विषयाणि श्रुत्यादीनि तस्माच्छेषलक्षणमित्युच्यते । शेषिपरिज्ञानं तर्हि किन्निमित्तं ??R प्रमाणान्तरनिमित्तकं तत् । लक्ष्यते हि शेषी शेषप्रतिपत्तौ, न प्रतिपाद्यते । अतो युक्तं शेषलक्षणम् ।
?R यद्येवं विनियोज्यः शेष इति वक्तव्यम् । किमिदं शेषः परार्थत्वादिति ??R उक्तमस्माभिः पदनिमित्तकोऽपि विनियोगो विद्यत इति । अतः कार्ये विनियोज्यः शेषः कथं स्यादिति शेषः परार्थत्वादित्युक्तम् । यस्य कार्ये विनियोगः स तदर्थ एव भवति । अतः परार्थत्वादिति लक्षितम् । न च कार्यं परार्थं भवितुमर्हति कार्यमेव हि तन्न स्यात् यद्यन्यार्थम् ।
?R अत एव गर्भदासदृष्टान्तो भाष्ये । ननु च परार्थतामात्रं परार्थशब्देनोच्यते । किमिदं अत्यन्तपरार्थ इति । उच्यते । अत एवात्यन्तपरार्थः यस्मात्
?Rपरार्थतामात्रतैवोच्यते । अतः साधु विवृतम् । ?R?0कः शेषः केन हेतुना शेषः1?R इति । ?R?0किमिदं प्रश्नद्वयं ??R केन हेतुना शेष इत्येतावद्वक्तव्यम् । सिद्ध्यति हि परार्थत्वाच्छेष इति । उच्यते, स्यादेतदेवं यदि सिद्धवदभिधानं हेतोः स्यात् । हेतुरप्यत्र कथनीय एवेत्यदोषः ।
?R अत एव को धर्मः कथंलक्षण इत्युक्तम् । किं पुनः सिद्धस्य कथने प्रयोजनं ??R उपयुक्तादन्यः शेष इत्येवमादिनिवृत्त्यर्थम् । ?R?0कथं च विनियुज्यत ?Rइति ??R ?R?0कोऽयं प्रश्नः ??R केन विनियुज्यत इति वक्तव्यम्, किमिदं कथं च विनियुज्यत इति ।
?R अत्राभिधीयते । केन विनियुज्यत इत्युच्यमाने श्रुत्यादिव्यापार एव केवलं पृष्टः कथितश्च भवति। न पुनः सविनियोगानां श्रुत्यादीनां, न च नियोगशून्यानि श्रुत्यादीनि शेषतामापादयितुं शक्नुवन्ति । कार्याभावात् । कार्यनिमित्तं च परार्थमित्युक्तम् । अतः कथं च विनियुज्यत इत्युक्तं सहेतुकविनियोगसिद्ध्यर्थम् । अत एव च श्रुत्यादीनि विनियोगे कारणानीत्युक्तम् । न पुनः श्रुत्यादिभिरिति । कथमित्यनुङ्गः । तेषां बलवदबलवत्तेत्यनेनापि कथं चेत्यनुषक्तव्यम् । एष तावत् लक्षणार्थः । नैतावता विना शेषपरिज्ञानसिद्धिः । अत एवान्यदपि साधनसिद्ध्यर्थं किञ्चिदुपोद्धातादिना शेषः परार्थत्वादिति सूत्रं सभाष्यं व्याख्यातम् ।
?R ?R?0अथ तत्र किं बृत्तम् ??R यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेतेति । ?R?0उक्तं तच्छेषलक्षणं मन्वानस्यैतच्चोद्यम् । उत्तरं तु नियोगविषयता तत्रापनीता शेषत्वं तु इहैव सर्वेषां प्रतिपाद्यते । कोऽयं विनियोगविषयत्वापन्हवः ??R न च विनियोगशून्यानि श्रुत्यादीनि शेषतया विनियोक्तुं शक्नुवन्तीत्युक्तम् । तस्माच्छेषत्वं विनियोगापह्नवश्चेति विप्रतिषिद्धम् । अतः शेषत्वं वा नास्त्यपूर्वविषयता वा नापह्नोतुं शक्यते । उच्यते - अनभिज्ञो भवात् विषयनियोज्यानाम् । न ब्रूमो गुणभूतेषु पुसां नियोज्यता नास्तीति । किं तर्हि ??R विषयस्तु न भवतीति । कार्यान्तरस्य दर्शनात् । यस्य पुनर्नियोगसिद्धिरेव कार्यः स विषयः ‘?Rतेषामर्थेन’?R इत्यत्र प्रकटतरमेव वक्ष्यामः । अतो युक्तमुक्तं तत्रापूर्वार्थता व्यावर्तितेति?R ।
?R द्रव्यगुणसंस्कारेषु बादरिः ॥ 3 ॥
?R कः पुनरत्रास्याभिप्रायो द्रव्यगुणसंस्कारेष्वेव पारार्थ्यं वदतः ??R अयमभिप्रायः -
?Rविभक्तिभिः तादर्थ्यं प्रातिपदिकार्थस्य प्रतिपाद्यते । तच्च द्रव्यगुणयोरुपलभ्यते एकहायन्या क्रीणातीति अरुणयेति च । संस्कारस्य तु कथं ??R तत्रापि विभक्त्यैव व्रीहीन् प्रोक्षति व्रीहीनवहन्ति इति । ननु च प्रातिपदिकार्थस्य प्राधान्यं द्वितीया प्रतिपादयति न कर्मणो गुणभावम् । अकारकज्ञो भवान् । कारकविभक्तयो हि कथं क्रियानिरपेक्षाः । तस्मात् क्रियानिरपेक्षमेव प्रातिपदिकार्थस्य प्राधान्यं गुणत्वं वा । अत एव च विभक्तिविधाने भगवतः पाणिनेः कारकोद्देशः । कथं तर्हि तद्धितादिषु तादर्थ्यावगतिः, कथं चोपपदविभक्तयः । अतोऽन्यदपि विभक्तिव्यतिरिक्तं पारार्थ्ये प्रमाणं द्रव्यगुणसंस्कारेषु वक्तव्यम् ।
?R ननु चोपकारदर्शनमेव द्रव्यगुणसंस्काराणां पारार्थ्ये हेतुरिति बादरेर्मतम् । किमत्र विभक्त्यादिभिः क्रियते । उच्यते - यद्युपकारदर्शनं पारार्थ्ये हेतुः ब्रीहयोऽपि प्रोक्षणस्योपकारकाः स्युः । अथ प्रयोजनं प्रति उपकारदर्शनं हेतुः ;?R प्रयोजनवत्ताज्ञानमिदानीं कुतः ??R नियोगत इति चेत् । एवं तर्हि नियोगनिर्वृत्तिरेव पारार्थ्ये हेतुः किमिदं उपकारदर्शनं करिष्यति । अत एव च विभक्तिव्यत्ययोऽपि प्रयाजशेषेणेत्येवमादिषु सिद्धो भवति । कृत्तद्धितसमासाश्च तद्वशेनैव ऐदमर्थ्यप्रतिपादका भवन्ति । एवमप्युपपदविभक्तेरसङ्करः सिद्धो भवति ।
?R किमिति तर्हि बादरिः द्रव्यगुणसंस्कारेष्वेव शेषभावं मन्यते यदि नियोगनिर्वृत्तिः पारार्थ्ये हेतुः ।
?R न नियोगं फले पुरुषे च मन्यते याग एव नियोगः तन्निर्वृत्त्या च नियोगनिर्वृत्तिः । द्रव्यगुणसंस्कारैश्च यागो निर्वर्त्यते । अतः तेषामेव पारार्थ्यं एवं मन्यते बादरिराचार्यः । ननु स्वर्गं यागेन कुर्यादात्मार्थं इति नियोगः । आत्मनेपदप्रयोगात् । नैवं शब्दात् प्रतिपत्तुं शक्यते द्वितीया हि कारकस्य प्राधान्यं प्रतिपादयति । यस्याः क्रियायाः तत्कारकम् । न च स्वर्गो यागस्य कारकमिति सिद्धम् । न च वेदात् क्रियाकारकसंबन्धावगतिः । सिद्धस्य हि अनुष्ठानं चोद्यते । कथं तर्हि यदाहवनीये जुह्वतीति ??R युक्तं प्रमाणान्तरेण संभवदर्शनात् । स्वर्गे पुनर्नैतदुपपद्यते वेदस्याप्रामाण्यप्रसङ्गात् । किञ्च कर्तृविशेषणं चात्र स्वर्ग(काम)शब्दः न कर्तृविशेषणमीप्सिततमं भवति राजपुरुषं पश्येतिवत् ।
अतो न स्वर्गं कुर्यादिति
?Rनियोगविषयता शक्यते प्रतिपत्तुम् । कथं तर्हि स्वर्गकामपदसंबन्धात् स्वर्गं भावयेदिति भाष्यम् । एवमेतद्भाष्यं अन्यथा हि स्वर्गमिति श्रवणात् स्वर्गं भावयेदिति स्यात् । अत एव स्वयमेव तद्भवतीत्येतदभिप्रायं तत् । निमित्तमात्रकथनं हि तत् कर्मणः । अतः प्रयोजनं स्वर्गो यागस्य न कर्म पाकस्येव ग्रासः । अतो द्रव्यगुणसंस्काराणामेव साध्यसाधनभावावगतेः प्रयोजनवत्तया शेषभावः । न पुनः कर्मत्वेनाप्रतीयमानयोः फलपुरुषयोरपि स्यात् । तस्मात् सूक्तं द्रव्यगुणसंस्कारेषु बादरिः इति । ?R?0न चेत् फलयागौ गुणभावेन चोद्येते कस्य पुरुषः प्रधानभूतो भविष्यतीति । ?R?0कोऽयं प्राधान्यप्रतिषेधः शेषता हि पुरुषस्य प्रतिषेध्या ‘’?Rन यागफलपुरुषेषु’’?R इति प्रतिज्ञानात् । उच्यते । शेषतानिवृत्त्यर्थमेव प्राधान्यं प्रतिषिध्यते । कथं ??R सति हि प्राधान्ये पुरुषः शेष इति शक्यते वक्तुम् । किमिति ??R पुरुषशब्दो ह्ययं स्वर्गकामे प्रयुक्तः यदि तदर्थः स्वर्गः स्यात् तदा तद्विशिष्टस्य शेषता स्यात् । स्वद्रव्यविशिष्टस्येव प्रयाजादेः । अतादर्थ्ये पुनः स्वर्गस्य केवलं कर्तृतयैव शेषभावः द्रव्यमात्रतयेत्यर्थः न पुरुषशेषतया । न स्वर्गकामपदवाच्यतयेत्यभिप्रायः । तस्मादनवद्यम् ।
?R ?R?0कर्माण्यपि जैमिनिः फलार्थत्वात् ॥ 4 ॥
?R कथं फलार्थता कर्मणः ??R कामिनो हि अधिकारो यागे । स च फलसाधनतां यागस्यानापादयन् न सिद्ध्यतीति षष्ठे वक्ष्यामः । यदि पुनरयं यागः फले साधनभावं न प्रतिपद्यते तत्र को दोषः । न खलु कश्चित् । प्रतीयते तु तथा । ननु शेषलक्षणे शेषता प्रतिपादयितुं न्याय्या, किमिदमुच्यते ?R?0एनमेवार्थं षष्ठे सूत्रैरेव साधयिष्यति ?R?0इति, किं वा श्रुत्यादिव्यतिरिक्तं किञ्चिदन्यत् शेषत्वे प्रमाणमस्ति । अथ श्रुत्यादीनामन्यतमं तदिहैवोपन्यसनीयं किमिति सान्यासिकं क्रियते । अत्रोच्यते - अधिकारापेक्षिणी हि सा न श्रुत्यपेक्षोऽधिकार इति सान्यासिकं यागफलशेषत्वं युक्तम् ।
?R?0 फलं च पुरुषार्थत्वात् ॥ 5 ॥
?R फलमपि पुरुषं प्रत्युप्रदिश्यते यः स्वर्गो मे स्यादित्येवं कामयते तस्य, नियोगः न स्वर्गः आत्मानं लभेतेति । कुतः आत्मनेपदप्रयोगात्?R ।
?R ननु च स्वर्गकामशब्दादेवेदमवगम्यते स्वर्गो मे भवेदिति । किमिदमात्मनेपदप्रयोगादिति । अथायमभिप्रायः परस्य दुःखं कामयत इत्यत्रापि कमेः
?Rप्रयोगेनानात्मसंबन्धित्वेनापि दृष्ट इति तदयुक्तम् , तत्र परशब्दप्रयोगात् दुःखस्य च परसम्बन्धित्वेनाभीष्टत्वात् । यत्र पुनः परशब्दो न श्रूयते नाप्यनिष्टं दुःखं तत्र केनान्येन काम्यमानस्य संबन्धोऽन्यत्र कामयितुः ।
?R?0 ?R?0अथ मन्यसे काम्यमानेनैव कामः संबध्यते स्वर्गो भवत्विति । न हि ;?R तन्निबन्धनसुखास्मरणात् । न कस्यचित् (काममात्रेण) सद्भावमात्रे कस्यचित्कामो भवति । तस्मादात्मनेपदोपन्यासो लिङ्गतया प्रतिपत्तव्यः न पुनः प्राप्ते प्रमाणतया ।
?R पुरुषश्च कर्मार्थत्वात्?R ॥6 ॥
?R स्वर्गश्चेत्पुरुषार्थः स्वर्गकामपदवाच्यतयैव ‘?Rयजमानेन संमितौदुम्बरी भवति’?R इत्यादिषु कर्तुः शेषत्वं कथं ??R अधिकृतस्य कर्तृत्वात् । कर्तुश्च यजमानशब्दवाच्यत्वात् । तस्मात् सूक्तं सूत्रत्रयं जैमिनेः वृत्तिकारमतोपन्यासः पूर्वपक्षापरिज्ञानार्थः । किमिति कल्पान्तरं न भवति । न हि आपेक्षिकं शेषत्वमस्ति । विनियोज्यनिबन्धनं हि तत् । विनियोग एवापेक्षिक इति । सत्यम् । शेषः विनियोज्यं शेषिणं चापेक्षिते न पुनरेकस्य शेषशेषितामापादयति । व्रीह्यादीनां च स्वशेषापेक्षतया तुल्यत्वात् । तस्मात् स्वकौशलप्रदर्शनार्थं परमतमुपन्यस्तं भाष्यकारेण ।
?R?0 तेषामर्थेन संबन्धः ॥ 7 ॥
?R उक्तं नियोगसव्यपेक्षाणि श्रुत्यादीनि विनियोजकानि शास्त्रान्तरविहितसंबन्धितया च कार्यलाभ इत्युक्तम् । शास्त्रान्तरविहितं(युक्तं) हि शेषि भवति न शेषशास्त्रादेव प्राधान्यमवगम्यत इति सक्तुषु दर्शितम् । शास्त्रान्तरविहितानि च व्रीह्यादीनि कथं तत्संयुक्तेषु संशयः । कार्यशून्ये हि शेषशास्त्रं कल्प्यं कार्यमपेक्षते । प्रत्यक्षश्रुतकार्यं तु सन्दिह्यत इत्ययुक्तम् । उच्यते । नियोगादन्यत् विनियोगगम्यं कार्यमस्तीति न शक्यते वक्तुम् ।
?R ननु च ‘?Rयैस्तु द्रव्यं चिकीर्ष्यते’?R इति नापूर्वं कार्यमित्युक्तम् । सत्यम् । स्थिते एतस्मिन् शेषत्वे तत् । शेषत्वमेवेदानीं नियोगनिर्वृत्त्या विना नावगम्यते इत्याक्षेपः । किमिति वा न नियोगो निष्पाद्यते व्रीहीन् प्रोक्षतीति । यद्यत्र नियोगार्थनिष्पत्तिः,
?Rदर्शपूर्णमासाभ्यामित्यनेन न संबध्येत । अथ ‘?Rफलवत्सन्निधौ’?R इति संबन्धः स तु नियोगैक्यलक्षण इति प्रतिपादयिष्यामः । अत्रापि चेत् स एव संबन्धः न तर्हि व्रीहीन् प्रोक्षतीत्येतावतैव नियोगसिद्धिः । अतः तुषकणविप्रमोचनं न स्वर्गावाप्तिवत् नान्तरीयको नियोगस्य ।
?R एवं तर्हि कोऽयमुपन्यासः ‘?Rऔषधे सान्नाय्ये च कर्तव्या1’ ?Rइति । नैव हि पदार्थानां प्राधान्यमस्मिन् पक्षे । उच्यते - नैव हि पदार्थानां प्राधान्यपरोऽयं ग्रन्थः किं तर्हि सर्वशेषताभिप्रायपरः । ननु चास्मिन्नपि पक्षे शेषशेषितैव नोपपद्यते अङ्गप्रधानानाम् । सर्वशेषाणां नियोगार्थशेषत्वात् । प्रकरणप्रमाणस्वरूपनिरूपणेऽस्य चोद्यस्य परिहारं वक्ष्यामः । इह तु कार्यान्तरासंभवात् पूर्वः पक्षः दर्शपूर्णमासाभ्यामित्यनेन असंबन्धादित्युक्तम् । तस्मात् प्रयाजादीनामेव नियोगो ह्येतल्लक्षणः सर्वेषामभिसंबन्धः । कथं तर्हि व्रीहीन् आज्यं इति च । अस्मिन् पक्षे सक्तुवदेतद्भविष्यति । गां ददाति इतिवद्वा । अत इदमुक्तम् । ?R?0अवघातादयस्तु पदार्थाः श्रुत्या विधीयन्त ?R?0इति । भावार्थानां श्रुत्या नियोगसंबन्धश्चेत्यर्थः । वाक्येनैषां व्रीह्यादिसंबन्ध इति भावार्थानुप्रवेशेन द्रव्यादीनां तु नियोगसंबन्ध इत्यर्थः न प्रधानभूतानां, न हि द्रव्यपर्यन्तो नियोगः, स्वय?Rमेव साध्यत्वात् तस्मात् सूक्तं सर्वे सर्वार्था इति । किमिदमदृष्टं भवतीति । अदृष्टमपूर्वं नियोग इत्येकमिदमित्युक्तं ‘?Rअतोऽपूर्वं कृत्वा’?Rइति ।
?R ?R?0फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् ॥ 10 ॥
?R अत्रोच्यते । स्यात् सर्वार्थता यदि हि कार्यार्थे विरोधो नियोगस्य स्यात् । न त्वत्र विरोधो विद्यते । कथं न विद्यते विरोधः ??R कथं वा विद्यते विरोधः । उक्तं कार्यान्तरत्वात् तुषकणविप्रमोकस्येति । न च कार्यं कार्यान्तरे संबध्यते यथा स्वर्गः पशुभिः एवं नियोगः कार्यं तुषकणविप्रमोकश्चेति विप्रतिषिद्धम् । अनभिज्ञो भवान् विषयनियोज्यानामित्युक्तम् । कथं अनभिज्ञः ??R विषयो हि ?Rनामाधिकारसंबन्धी स्वर्गकामो यजेत इति । तस्य च नियोगसिद्धिरेव प्रयोजनम् । दृष्टेऽर्थे संभवत्यपि यथा गोदोहनेन पशुकामस्य प्रणयेदिति ।
?R ननु चात्रापि फलसिद्धिः ;?R नियोगसिद्ध्यर्था फलसिद्धिः इति षष्ठे वक्ष्यामः ।
?Rअत एव च ‘?Rकर्माण्यपि जैमिनिः फलार्थत्वात्’?R ‘?Rफलं च पुरुषार्थत्वात्’?R ‘?Rपुरुषश्च कर्मार्थत्वात्’?R इति विषयनियोग?R एव उपसंहृतं सकलस्य पदार्थजातस्य शेषत्वम् । नियोज्यः इदानीं कः ??R अकारकभूतपदार्थविशिष्ट इति षष्ठे वक्ष्यामः । कः पुनरसौ ??R अधिकृतः कर्मणि ? ?Rकिमिदं अधिकृत इति ??R ननु च कर्तैवाधिकृतः । यथा न कर्तुरधिकारोऽधिकृतस्य कर्तृत्वमिति षष्ठे वक्ष्यामः । यद्येवं किमायातं व्रीहीन् प्रोक्षतीत्यत्र । कार्यान्तरेऽपि नियोगाविरोध इतीदमेवायातम् । व्रीहीन् प्रोक्षतीति प्रधानभूतविषयसंस्पर्शान्नियोगस्य न नियोगान्तरावगतिः समिदादीनामिव । ननु कार्यान्तरमित्युक्तम् । कार्यान्तरत्वे च नियोगान्तरावगतिः सोमेष्टीनामिव । सत्यं यदि कार्यान्तरं स्यात् । कथं न कार्यान्तरम् ??R अधिकारनियोगाक्षेपात् तण्डुलनिष्पत्तेः स्वर्गसिद्धिवन्न कार्यान्तरम् । तस्मादधिकारनियोग एवायं व्रीहीन् प्रोक्षति इति प्रयाजादीनामिव । इयान् विशेषः दृष्टकार्यद्वारकस्त्वयं साक्षान्नियोगकार्य एव प्रयाजादिः न च द्वारमेव प्रतिबन्धकं भवितुमर्हति । विशेषतो दृष्टसाक्षान्नियोगसंबन्धानामपि द्वारं कल्प्यम् । इदं च क्लृप्तमिति विशेषः । तथा च द्वारकल्पनामन्तरेण प्रधानेतिकर्तव्यतासिद्धिर्न भवति तथा प्रकरणप्रमाण एव वक्ष्यामः । तदिदमुक्तं प्रमाणाभावान्न सर्वार्थतेति । न हि दृष्टे संभवति संबन्धहेतौ कल्प्यं हेत्वन्तरमात्मानं लभते इत्यर्थः । ननु च विनियोगतः कार्यं, न कार्यतो विनियोगः परिहृतमेतत् शास्त्रान्तरदृष्टविषयत्वादिति । अत एव भेदाभेदलक्षणं हेतुरिति । तस्मात् सूक्तं फलं तु सह चेष्टयेति । कार्यानुरोधी नियोग इत्यर्थः । अतो ये यत्र श्रूयन्त इति सिद्धम् ।
?R?0 द्रव्यं चोत्पत्तिसंयोगात् तदर्थमेव चोद्येत ॥ 11 ॥ अ. 5 ॥
?R इदं चिन्त्यते स्फ्यश्च कपालानि चेति सन्निधापनविधयः संयोगतोऽविशेषात् प्रकरणाविशेषाच्चेति किं सर्वार्थतयाऽवगम्यन्ते उत ‘?Rस्फ्येनोद्धन्ति’?R इत्येवमादिभिः उपसंह्रियन्त इति । किं तावद्युक्तं ??R नोपसंह्रियन्त इति । कुतः ??R अशक्तेः । कथमशक्तिः ??R सन्निधाने हि विनियोगैक्यात् द्वारमात्रानुज्ञानाच्च दृष्टद्वारकत्वमेव शक्यते वक्तुम् । कल्प्यप्रतिपक्षत्वात् । न पुनः दृष्टविशेषद्वारमपि । तस्मात् शक्तितो व्यवस्था । अत्राभिधीयते । स्यादेतदेवं यदि द्वारमात्रमेवानुरुध्यते नियोगेन (ततः) संबन्धानुसारी हि
?Rनियोगः । (कथं तर्हि अरुणाद्युपन्यासेन निराकरणं आस्थिते गुणवचनत्वे अरुणादिवद्भविष्यति वाक्ये नियोग इति ।) उक्तं शास्त्रान्तरविहितविषयत्वान्नियोगस्येति । अतः सन्निधापनविधयो न संबन्धविधेः प्रतिपक्षाः भवितुमर्हन्ति तन्मूलत्वात् इति । अतः सिद्धमत्रापि ये यत्र श्रूयन्त इति ।
?R ?R?0अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात्?R ॥ 12 ॥ अ. 6 ॥
?R संस्कारद्रव्यविधयो ये यत्र श्रूयन्ते ते तत्रैवेत्युक्तम् । गुणे इदानीं चिन्त्यते - किं ये यत्र श्रूयन्ते तत्रैव उत कृत्स्ने प्रकरणे निवेश इति । ननु च अन्वितपदार्थकत्वात् पदानां नैव केवलगुणवचनता संभवति यथा न केवलाकृतिवचनता ‘?Rआलभेत’?R इति न केवलगुणवचनता शक्यते वक्तुं यथा ‘?Rवायव्यं श्वेतमालभेत’?R इति । सत्यं अपरित्यक्तद्रव्यस्यैवान्वयो यत्र दृश्यते अमूर्तस्य नैव तदुदाहरणम् । यत्र पुनः परित्यक्तद्रव्याभिप्राये केवलगुणवचनस्यान्वयः यथा पटस्य शुक्ल इति भवति तत्र संशयः । कारकविभक्तौ सत्यामपि किं क्रियान्वयी गुणवचन उत केवलद्रव्यान्वय्येवेति ।
?R ननु च केवलगुणवचनता अस्यास्मिन् वाक्ये नैव प्रतीयते पटस्य शुक्ल इति(वत्) षष्ठीनिर्देशात् द्रव्यस्य तेन संबन्धावगतेश्च शुक्लशब्दस्य युक्तं केवलगुणवचनस्यान्वयित्वम् । इह पुनः अरुणयेति कारकनिर्देशात् क्रियासंबन्धावगतिः । तदवगतेश्च गुणमात्रस्याशक्तेः अपरित्यक्तद्रव्यस्यैवान्वयो युक्तः श्वेतमालभेतेति वत् । उच्यते । न द्रव्यसम्बन्धावगतिरेव तत्र गुणवचनत्वे हेतुः द्रव्यान्तरानवगतिरपि द्रव्यान्तरावगतौ हि पटस्य शुक्लो भाग इतिवत् गुणगुणिनोः संबन्धो न स्यात् । यद्येवं किमायातं अरुणयेति ??R इदमायातम् । अत्रापि एकहायन्या न द्रव्यान्तरं प्रतीयते । अतः एकहायनीशब्दोपात्तत्वात् द्रव्यस्य नारुणाशब्दः द्रव्यान्तरोपनिविष्टं गुणमभिधातुं शक्नोति । एकहायन्युपनिवेशे च न क्रयसम्बन्ध इत्युपरिष्टाद्वक्ष्यते । तस्मात् पदान्तरोपात्तद्रव्यके वाक्ये केवलगुणवचनान्वयितैवेति स्थितम् । अत उपपद्यते संशयः । किं वाक्यं भित्वा प्रकरणे निवेशो गुणस्य द्रव्ययोगित्वात् उत करणनिर्देशात् क्रयण एवेति । कथमेवं स्थिते गुणवचनत्वे ‘’?R?0ननु नैवायं गुणवचनः, किं तर्हि ??R द्रव्यवचनः ?R?0इत्याक्षेपः उपपद्यते । उच्यते-स्त्रीलिङ्गनिर्देशात्, द्रव्याश्रितत्वात् । प्रातिपदिकार्थगतत्वाच्च लिङ्गस्य
?R। किमरुणयेत्येवमादिदर्शनं नास्त्याक्षेपवादिनः । न नास्तिदर्शनं, किन्तु अरुणयेत्येवमादिषु नेत्यभिप्रायः । कथं तर्हि अरुणाद्युपन्यासेन निराकरणम् ??R अरुणादिषु प्रयोगसाधुतेति । कथमरुणावल्लिङ्गमिति द्रव्यवचनतानिराकरणम् । स्थिते गुणवचनत्वे दृढतरेण कारणेन अरुणावल्लिङ्गं भविष्यतीत्यभिप्रायः ‘?R?0अथ क्रीणातिना न सम्बध्येत तस्मिन्नेव वाक्ये एकहायनीशब्देन सम्भन्त्स्यते न भविष्यति वाक्यभेद’?R ?R?0इति वदतः कोऽभिप्रायः । अयमभिप्रायः - यदा द्वयोः क्रियासम्बन्धः तदा द्रव्यान्तरनिरोधात् केवलगुणवचनता अरुणयेति । यदा पुनः क्रियासम्बन्धो नास्ति तदा आश्रितत्वाद्गुणानां द्रव्याणां च तदाश्रयत्वेन गुणानां को नाम द्रव्यसंबन्धं निरुणद्धि यथा नीलोत्पलमिति । अत्रोत्तरम् - प्रातिपदिकात्तावत् गुण एव प्रतीयते पदान्तरसंबन्धात्तु अपरित्यक्तद्रव्यकोऽन्वयः । लिङ्गं च वाक्याद्बलीयः । किमिदं वाक्याल्लिङ्गं बलीय इति । ऐदमर्थ्ये हि बलाबलमुक्तम् न पुनरन्वययोगेऽपि । उच्यते । अन्वययोगे च अन्वयावगतौ सत्यां केन बलाबलं निवार्यते । उक्तं चास्माभिः । पदान्तरेण द्रव्योपादानात् क्रियासंबन्धाच्च पदद्वयस्य केवलगुणान्वयिता न शक्या वाक्येन बाधितुम् । अत्रेदानीमुत्तरम् - क्रियायोगित्वेऽनन्वयमालोच्य अनन्वयाद्वरं द्रव्यान्वयः द्रव्यान्वयित्वेऽपि क्रियान्वयो नातिदूरं परित्यक्तो भवति ।
?R अवश्यं चैतदेवाभ्युपगन्तव्यम् । अन्यथा हि प्रकरणसंबन्धोऽपि न स्यात् प्रकरणे हि क्रियया द्रव्येण वा अन्वयः । क्रियया तावन्नसंबन्ध इत्युक्तम् । अथ लिङ्गात् द्रव्येणापि न संबध्यते हन्त अनन्वयिताऽभ्युपगता भवति । न च अनन्वयिता अबिधानस्य धर्मो लोके दृष्टः । तस्माद्वरमस्मिन्नेव वाक्ये द्रव्यसंबन्धाभ्युपगमः । अत एव नीलोत्पलादिष्वप्यन्वयो(न) दृश्यते । अन्यथा हि संबन्धाभिधानविभक्तिशून्यानामपि कथं वान्वयः स्यात् ‘?R?0नैतदेवमिति’?R । ?R?0सत्यमेव वैभक्तिकोऽपि संबन्धः अभिधानलक्षणो भवति यद्यप्रतिपक्षो भवेत् अयं तु सप्रतिपक्षः । अतः तृतीयानुगुणमेवास्यान्वयित्वं कल्पयितव्यम् , न पुनः केवलाभिधानानुगुणम् । तस्मात् न नीलोत्पलवत् संबन्ध उपपद्यते । उच्यते । यदि तृतीयार्थः प्रातिपदिकार्थान्वयविरोधी स्यात् स्यादेतदेवम् । स पुनः प्राप्तत्वान्नैव विरुध्यते । अतो यावदप्राप्तमेकहायन्या संबध्यत इति न दोषः ।
?Rभवेदेतदेवं यद्येकहायनी नान्यार्था, सापि त्वन्यार्थैव । न च द्वयोरन्यार्थयोः मिथः संबन्धः संभवति । किमर्था पुनरेकहायनी ??R क्रयार्थेति ब्रूमः । किं पुनः कारणं तुल्ये समभिव्याहारे क्रयार्था एकहायनी न पुनः गुणसंबन्धार्था । अत्र भाष्यं ‘?Rअभिहितमपि पुनः पर्यनुयुज्यत'1?R इति । यद्यभिहितं किमिति पर्यनुयुज्यते । अन्यार्थस्यान्येव संबन्धः विरोधप्रदर्शनार्थं तदर्थमेवोत्तरं तृतीयासंबन्धात् क्रयार्थतेति । अन्यार्थमप्यन्येन संबध्यत इति न दोषः । शक्नोति हि आकाङ्क्षावतः अन्यार्थमपि सन्निहितमाकाङ्क्षां पूरयितुम् सन्निधानाविशेषात् सत्यं, शक्नोति न पुनर्यदर्थं तत्संबन्धितयैव । ननु च तत्संबन्धिन्यपि सन्निधानमविशिष्टम् इतरस्य चाकाङ्क्षा । भवेदेतदेवं यदि सन्निधानमविशिष्टं इह तु सन्निधानमप्यन्यार्थम् । न चान्यार्थं सन्निधानमाकाङ्क्षति स्वार्थसिद्धये । सत्यमेवम् । तस्यावश्यान्वयभावित्वात् । अबिधानस्य चान्यस्यासन्निधानात् अन्यार्थतामवकृष्य सन्निधानमात्रं परिगृह्यते । तथा च रात्रिसत्रादिषु दृष्टम् । युक्तमुक्तम्, किन्त्वत्र प्रकरणात् सन्निधानमनन्यार्थं विद्यते । तस्माद्वाक्यभेदादेवान्वयो युक्तः अनन्यार्थस्य संबन्धिनोऽवगमात् ; ?Rअतः प्रकरणे सर्वस्मिन्निवेश इत्येवं प्राप्ते ब्रूमः ।
?R ?R?0अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् ॥ 12 ॥
?R क्रय एवारुणिमा निविशते । कथं ??R तत्संबन्धप्रतिपत्तेः तृतीयातः । ननु केवलगुणवचनत्वात् न क्रियया संबध्यत इत्युक्तम् । दुरुक्तं तत् । कथं दुरुक्तम् ??R यस्य हि यादृशं क्रियासाधनत्वं दृष्टं तस्य तथाविधस्यैव विभक्तयः संबन्धमापादयन्ति । द्रव्यविशेषणतया च गुणः क्रियां निष्पादयति । अविशिष्टस्य कारणत्वानुपपत्तेः । ननु चानुपात्तद्रव्यक एवायं प्रयोगः पटस्य शुक्ल इति वदित्युक्तम् । तत्सत्यमुक्तं न पुनरनुपात्तद्रव्यतया क्रियासंबन्धोऽपह्नोतुं शक्यते । स्वव्यापारापेक्षित्वात् क्रियायोगस्य । न चानुपात्तद्रव्यतया व्यापारहानिः शक्यते वक्तुम् । स्वव्यापारापेक्षाणि कारकाणि क्रियया संबध्यन्ते इति न कारकान्तरव्यापारमपेक्षन्ते । नाप्यर्थान्तरगतं हानमुपादानं वाऽभिधानस्य । तस्माद्भिन्नव्यापारकत्वादेकहायनीद्वारक एव क्रयसंबन्ध उपपन्नः । अत ऐव च न विकल्पः प्रयोजनवद्द्रव्यान्तरसंबन्धार्थं क्रियायाः प्राधान्यम् । तत्प्राधान्ये तु न प्रत्येकं वाक्यपरिसमाप्तिः । तस्मादेकवाक्यत्वात्सिद्धं द्रव्यगुणयोरैककर्म्यान्नियम इति ।
?R ?R?0एकत्वयुक्तमेकस्य श्रुतिसंयोगात्?R ॥ 3-4-13 ॥ (अ. 7)
?R उक्तो द्रव्यगुणसंस्काराणां विनियोगः । इदानीं विनियोज्यविषयगता चिन्ता क्रियते । एवं श्रूयते ‘?Rग्रहं संमार्ष्टि’?R इति । तत्र संशयः - किं शेषिणो विशेषणं शेषित्वे आद्रियते शेषस्येव शेषत्वे उत नेति । कथं पुनरत्र संशयः ??R युक्तं तावच्छेषः उपादीयमानत्वात् तदुपयोगिविशेषणम् । शेषिणः पुनः कार्यान्तरे निर्ज्ञातशेषभावस्यैव स्वशेषयोगो युक्त इति न संशयं मन्यामहे । उच्यते । श्रुतितः सर्वं कल्पते नोपादेयत्वात् पशोरेकत्वम्, किं तर्हि ??R श्रुतेः । श्रुतिश्चेन्नाद्रियते द्वित्वं बहुत्वं वा किमिति शेषितया नोपादीयते । अतः शेषिण्यपि यथैव ग्रहश्रुतिराद्रियते एवमेकत्वश्रुतिरपि अविशेषात् । तदिदमुक्तं - ?0’?Rएकत्वयुक्तमेकस्य श्रुतिसंयोगादि’?R?0ति । अत एव च ‘?Rअग्नीनादधीत’?R इति बहुत्वसिद्धिः यूपं छिनत्ति’?R इति च एकत्वम् ।
?R ?R?0सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् ॥ 14 ॥?R?0
?R अत्रोच्यते - नैतदेवं यदेकस्य संस्कार इति । संस्कारो हि नाम व्यापारान्तरयोग्यता । यस्य संस्कारो व्यापारान्तरयोग्यतालक्षणः संभवति स एव संबन्धितामापद्यते । ननु च ससङ्ख्याक एव संस्कारेण व्यापारान्तरयोग्यः क्रियते । कुतः ??R व्यापारान्तरं उपादानशेषत्वात् सङ्ख्याया लिङ्गस्य च । यथाभूतश्चासौ शेषः तथाभूतस्यैव संस्कारसंबन्धः कार्यार्थत्वात् । ऐन्द्रवायवादिवाक्येषु च एकत्वयुक्ता एव ग्रहाः शेषत्वेन श्रूयन्ते । अतोऽविवक्षितमित्ययुक्तम् । न च ग्रहमात्रं शेषः एकैकस्य विनियोगात् ।
?R ननु विनियुक्तस्योपादानशेषत्वं सङ्ख्यादयः प्रतिपद्यन्ते यथा च शेषभावे प्राधान्यं तथा शेषिभावेऽपि । भवतु प्राधान्यं न कश्चिद्विरोधः सङ्ख्याद्यपरित्यागेन तु यथैव शेषतां प्रतिपद्यते तथैव संस्कार्यतामपीति वदामः । अत्रोच्यते - सत्यं शेषभूतस्यैव संस्कारः तथापि सङ्ख्यादयो न संबध्यन्ते । कुतः ??R सर्वत्र हि पदार्थान्तरसंबन्धः प्रधानस्यैव राजपुरुषमानयेतिवत् । तत्र हि राजार्थः केवलमुपलक्षणतयैव भाति । एवमत्रापि द्रव्यमेव प्रधानं, यदन्यत्तदुपलक्षणं जात्यादि । न च उपलक्षणस्य कार्यसंबन्धः । अत इदमुक्तं अविशिष्टं हि लक्षणमिति । नह्येकत्वादीनां विलक्षणत्वे ग्रहान्तरनिवृत्तौ
?Rसामर्थ्यमस्ति संबन्धी हि संबन्ध्यन्तरं निवर्तयति । ननु चोक्तं न संबन्धिमात्रं(ता) संबन्धे हेतुः कस्तर्हि ??R श्रुत्यादिप्रतिपाद्यतेति । अत्र चैकत्वविशिष्टः श्रुत्या प्रतिपाद्यते शेषी । कथं च शक्यते वक्तुम् श्रुतिप्रमाणके वस्तुनि एकत्वमविवक्षितमिति । न चोद्दिश्यमानत्वं विधीयमानत्वं वा श्रुतिं विहन्ति । श्रुतिविघाते हि ग्रहेऽप्यप्राप्तिः स्यात् । अथायमभिप्रायः उद्दिश्यमानस्य विशेषणमविवक्षितमिति । अस्यैवार्थस्यास्मिन्नधिकरणे हेतुर्वक्तव्यः न चासावस्तीत्युक्तमिति । उच्येत - अयमस्ति हेतुः कार्यवदुद्दिश्यमानं प्रधानीभवति । प्रधानस्य विधेयेन संबन्धोऽत्र न प्रधानस्य गुणानां, यस्मात् गुणानां प्रधानोपादाननिमित्तं तदुपादानशेषत्वम् ।
?R के पुनरमी गुणाः ये विभक्त्यभिधेयाः प्रातिपदिकार्थस्य ??R कथं गुणता विभक्त्यर्थानां ??R प्रातिपदिकार्थं प्रत्यवच्छेदकत्वात् । विभक्त्यर्थो हि प्रातिपदिकार्थमवच्छिनत्ति । अवच्छेदकतया च उपादानशेषता । तस्मात् सिद्धं सङ्ख्यादेः द्रव्यं प्रति गुणत्वं विभक्त्यभिधेयस्य । न च गुणानां गुणैः सह संबन्धो विद्यते ; ?Rगुणश्चायं संस्कारो नाम । उक्तं च ?R?0गुणानां च परार्थत्वात्’’?R?0 इति । अथापि नाम प्रातिपदिकाभिधेय एवायमर्थो जात्यादिः विनियोज्यश्च । तथाप्यनुद्दिश्यमानो नैव प्रधानतां शक्नोति प्रतिपत्तुम् । किमिति ??R उद्देशो हि नाम कार्यावच्छिन्नस्य वस्तुनो भवति न पदार्थमात्रावच्छिन्नस्य । अतो जात्यादिभिः द्रव्यमेवोपलक्षयितव्यम् । न हि द्रव्यविशेषादृते कार्यविशेषपर्यवसानं भवति । तस्मादुपलक्षणतयैव तत्र जात्यादेरन्वयः न पुनः कारकतया । ननु चैवं सति उपादेयत्वेऽपि कार्यविशेषानवगमात् जात्यादीनामुपलक्षणतैव । न चैवमिष्यते जातिरेवाङ्गमिति मीमांसकाः । अनभिज्ञो भवान् उपात्तोपादेययोः उपात्तद्रव्यलक्षणं ह्युद्दिश्यमानपदार्थो भवति । विधेयं पुनः कमुपलक्षयति ??R विहितत्वाद्धि कार्यसिध्यर्थं स्वाश्रयं द्रव्यमाक्षिपति नोपलक्षयति । अत उद्दिश्यमानस्य उपलक्षणत्वात् द्रव्यं संप्रत्ययो भवति न पुनः स्वसंबन्धिन्यभिधेये । तस्मात् कार्यमात्रमेवापेक्षतेऽवच्छेदकतया न पुनः श्रुत्याऽभिहितमेकत्वादिकम् । (तर्हि) उपात्ततैव तत्र विशेषावगमे हेतुः । यत्पुनरुपादेयं तत् श्रुतित एव विशिष्टमवगन्तव्यम्, नान्यत इति विशेषः । सोऽयमुक्तो हेतुः उद्दिश्यमानस्य विशेषणमविवक्षितमित्यत्रार्थे ।
?Rउपात्तत्वादित्युक्तो हेतुः । का वार्ता अग्नीनादधीत यूपं च्छिनत्तीति ??R विवक्षिता सङ्ख्या, अत्र हीदमेवोपादानवाक्यम् । ननु चाग्निपदमुद्देशकम् । प्रधानभूताश्चाग्नयः । सत्यं यथा भवानाह । किन्तु द्विविधो ह्युद्देशः उपात्तस्यानुपात्तस्य च । ग्रहं संमार्ष्टीत्युपात्तोद्देशः, अग्नीनादधीतेत्यनुपात्तोद्देशः अनुपात्तञ्चोद्दिश्यत इति कथमिदं ??R विधेयविषयो ह्युद्देश इत्युच्यते, नोपात्तत्वमनुपात्तत्वं च उद्देश्यत्वे हेतुः । अतः प्रमाणान्तरसिद्धविशेषणं उद्दिश्यमानमविवक्षितविशेषणं भवति । यत्पुनरविज्ञातविशेषणमेवोद्दिष्टं तत् विधेयवत् श्रुतित एव विशिष्टमवगन्तव्यम् । तस्मात् सुष्ठूच्यते उपात्तोद्देशेऽविवक्षितं विशेषणमिति । ननु च ग्रहं संमार्ष्टीति द्वितीयेयं कारकविभक्तिः । कारकं च क्रियार्थं भवतीति शाब्दाः । ननु ईप्सिततमे द्वितीयेयम् । सत्यं, सा तु कारके । ननु च विप्रतिषिद्धं ईप्सिततमं कारकं चेति ??R कथं विप्रतिषिद्धं ??R किमिदं ईप्सिततमं नाम ??R यदि तावत् यतः क्रियासिद्धिः तदीप्सिततमं । एवं तर्हि कारकमात्रे प्रसङ्ग ततश्च विशेषाभिधानमनर्थकमिदं कर्म इदं करणमिति । अथ यत्क्रियया आप्यते उत्पाद्यते संस्क्रियते वा तत्कर्मेत्युच्यते । न तर्हि कारकं क्रियापर्यवसानापेक्षो ह्याप्त्यादिको गुणः । पर्यवसिते हि व्यापारे फलं निष्पद्यते ;?R न पुनः फल(स्य)साध्यैव क्रिया भवति । अतः ईप्सितं कारकं चेति विप्रतिषिद्धम् । अत्राभिधीयते - न विप्रतिषिद्धम् । आप्त्यादिको गुणः कारकस्थस्चाकारकस्थश्च यदा कारकस्थः तदा कारकमेव फलम् । किमिदं कारकमेव फलमिति ??R । यदा हि कारकमेव कयाचिद्धिकारापत्त्या व्याप्यमुत्पाद्यं संस्कार्यं विकार्यं चेष्टं तदा तदेव फलमित्युच्यते । तामेवावस्थामङ्गीकृत्य ईप्सिततमव्यपदेशं लभत इति । क्रियासिद्ध्यर्थं फलसिद्ध्यर्थं वा । अतः कारकमीप्सिततममिति न विरुद्धम् । विद्यते हि कारकं न फलसमवायि यथा करणादि । विद्यते च पलं न कारकसमवायि यथा स्वर्गादि । ननु स्वर्गाद्यपि कारकसमवाय्येव कर्तृगामि क्रियाफलमिति वचनात् । न कारकतया फलसमवायो विद्यत इति । अधिकारलक्षणव्यापारोऽयं अधिकारलक्षणे उक्तः । कथं तर्हि भगवतः पाणिनेः सूत्रं कर्त्रभिप्राये क्रियाफले इति ??R अस्यापि तत्रैवार्थो निरूप्यते । अतो ग्रहं संमर्ष्टिति यद्यपि ग्रहः संमार्गं निष्पादयति तथापि न तस्यांशस्य बाचिका विभक्तिः ईप्सिततमत्वमाचष्टे फलांशमित्यर्थः क्रियानिष्पाद्यमिति यावत् ।
?Rतस्मात् श्रुतितो विशेषावगम इति सिद्धम् । अतः उपात्तविषयः संस्कार इति स्थितम् । ननु च व्यभिचार्येतद्दर्शनम् । अनीप्सिततमेऽपि द्वितीया भवत्येव । ततः किम् ??R इदं ततो भवति कारकांशाभिधायिनी न फलांशाभिधायिनी । एवं ग्रहमित्यपि कारकमेवाचष्टे । ततश्चैकत्वमविवक्षितमिति न शक्यते वक्तुम् । कथं तर्हि ग्रहार्थः संमार्गः प्रमाणाभावात् । प्रयोजनवत्वात् यथा पशुपुरोडाशोऽग्नीषोमदेवतार्थः । अत्राभिधीयते- कर्मेप्सिततमत्वं तावत् द्वितीयाऽभिधत्ते । तथा युक्तं चानीप्सितमिति तु क्रियानिर्वाह्यमेवेत्यर्थः । इयान् विशेषः - क्रियान्तरसंबन्धितया एकस्योपादानं एकस्य नेति । एवं तर्हि गां ददातीत्यविवक्षितत्वं सङ्ख्यायाः । भवत्विति चेन्न ;?R प्रयोजनान्तरकल्पनाप्रसङ्गात् । किमिति कल्पना नेष्यते ??R प्रमाणाभावात् । ननु च द्वितीयैव प्रमाणं ;?R सत्यं, कार्यापेक्षायां विशेषं समर्पयति न पुनः कार्यान्तरमवगमयितुं क्षमा, विनियोगपर्यवसायिन्यो हि विभक्तयः न कार्यपर्यवसायिन्यः नवाऽधिकारशून्यो नियोगोऽस्तीति ‘?Rफलवत्सन्निधौ’?R इत्यत्र वक्ष्यामः । संस्कारविधयस्तूक्ताः तेषामर्थेन इत्यत्र । उक्तोत्तरमपि किमिति भवता परिचोदितं ??R (भाविकार्य) विस्मरणापराधादिति मन्यामहे तदिदं स्मार्यते अनुपातविषयमिदं प्राधान्यमिति यूपवत् सिद्धं विवक्षितत्वं सङ्ख्यायाः । अमुना च विशेषेण सूत्रान्तरप्रणयनं भगवतः पाणिनेः अकथितमिति । तत्रापि तथायुक्तमित्यनुवर्तते तस्मात् द्वितीयाप्राधान्यं न व्यभिचरतीति स्थितम् । उपात्ते तु विषये विशेषणमविवक्षितमिति सिद्धम् । ?R?0ग्रहादिष्वेकत्वं ब्रूयात् न द्वितीयादीन् प्रतिषेदेत्’’?R ?R?0इति । उपात्तविषयत्वात्तु ग्रहश्रुतेः उपादेये ह्येकत्वादयो विशेषणम् । इह पुनः उपात्ततैव विशेषावगतौ हेतुरित्युक्तम् ।
?R ननु च ‘?Rपरिसञ्चष्ट’?R इति कोऽभिप्रायः ??R अयमभिप्रायः - एकत्वमनन्वितं स्यात् नानन्वितानामभिधानमस्तीत्युक्तं तद्भूताधिकरणे । नैतदस्ति सत्यमनन्विताभिधानमेकवचनस्य प्राप्नोति न पुनः परिसङ्ख्या संभवति अप्राप्तत्वात् । ग्रहसंमार्गादेः संबन्धस्य प्राप्तौ सत्यामन्यनिवृत्तौ नियोगः प्रभवति । अप्राप्ते पुनः यथा श्वेति श्रुतिः न काकादीन् निवर्तयितुं क्षमा । न चानन्विताभिधानम् तस्यापि प्राप्त्यवगमात् । ननु च युक्तं श्वादिषु । एकत्वं पुनः बहुषूपादीयमानेषु पक्षेऽपि न प्राप्नोति ।
?Rअतोऽनन्विताभिधानं दुष्परिहरमिति । परिहृतमिदं भाष्यकारेण न विभक्तेर्वचनमेवैकं प्रयोजनमिति । कथं पुनरनेन परिहृतमिदं भवति ??R इत्थमनेन परिहृतं भवति - सङ्ख्याया अनन्वयेऽपि कर्ममात्रे प्रयोगदर्शनात् यथा ब्राह्मणो न हन्तव्य इति । अत्रापि साध्यमिति चेत्, न नञर्थे वधेन संबध्यमाने एकत्वमन्वेतुं क्षमम् । अन्यतः प्रवृत्त्यवगमात् । तस्मादेकत्वाभिधानं कर्ममात्रे साध्विति द्रष्टव्यम् ।
?R ?R?0अयं चापरो दोषः इति । ?R?0एकत्वान्विताभिधाने आश्रीयमाणे ग्रहत्वं नोपात्तविषयं स्यात् अनुपात्तविषयत्वे च ग्रहत्वस्यानन्वयः प्राप्नोति । अनन्वीयमाने च संसर्गविधानं निर्विषयत्वादनर्थकम् । ‘’?Rअथैकत्वसंमार्गसंबन्धो विधीयेत’’?R तत्रापि द्वयी गतिः स्यात् अनेन गुणफलसंबन्धवद्विधानं न संभवतीति दर्शयति । अन्यत्र स्यादिति कथं ??R एकत्वं तावन्नोपात्तस्योपलक्षणाय अलं भवति । सम्मार्गेण हि संबध्यमानं प्रधानं वा भवति गुणो वा नान्यः संबन्धोऽस्ति । कथं नास्ति ??R प्रातिपदिकाश्रितं हि सङ्ख्याभिधानं विभक्तीनामित्युक्तम् । कस्मान्न विषयतया उद्देश्यतया विधेयतया वा संबन्धः संभवति परतन्त्रत्वात् । अभ्युपगम्याप्यरुणावन्न संभवतीत्युक्तं ग्रहस्य प्रधानत्वात् । ननु च प्रधानेऽपि संभवत्येव विशेषणं निमित्तभूतं कारकत्वमाश्रित्य । केन चोक्तं न संभवतीति ??R इह पुनर्विधानासंभवः प्रदर्शितः प्रधानत्वाद्ग्रहस्य । अथोच्येत ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते न संमार्गसंबन्ध इति । कोऽभिप्रायः ??R अयमभिप्रायः - कः पुनः पक्षपातः संमार्गोऽन्वयी न पुनरेकत्वमिति । उत्तरं - क्रियाशून्योऽप्यन्वयो न सङ्ख्यादेः संभवति । असति तु विधेये संभवत्यपि न च श्रुत्यान्वयः एकत्वस्यास्तीत्युक्तम् । यद्यविवक्षितमेकत्वमिति?R लक्षणविरोधं दर्शयति । बहुषु बहुवचनमिति शाब्दाः । न वयमेतद्विचारयामः?R इति प्रमाणतः स्थिते लक्ष्ये किं लक्षणं करिष्यतीत्यभिप्रायः । न चात्र लक्षणविरोधः न विभक्तेर्वचनमेवैकं प्रयोजनमिति व्याख्यातम् । अपि च ग्रहः प्रातिपदिकार्थः एकत्वं विभक्त्यर्थः । किमतो यद्येवम् ??R एतदतो भवति प्रातिपदिकार्थगतं हि विभक्तिः स्वमर्थं श्रुत्यैव वदतीति विभक्त्यभिहितस्य पारतन्त्र्यं दर्शयति । तच्च व्याख्यातम् । अथ यदुक्तं पशुमालभेतेति उपादेयानां श्रुतितो विशेष इत्युक्तम् ।
?R ?R?0संस्काराद्वा गुणानामव्यवस्था स्यात् ॥ 3-1-16 ॥ अ. 8.)
?R यदि कार्यत उपादानं उपात्तस्य च लक्षणं शेषितयैवेति ततो ग्रहश्रुतिरपि हि सोमरसाधारे पात्रे लक्षणैव । एककार्यत्वात् । संमार्गस्य च सोमरसावसेकनिर्हरणमेव प्रयोजनमित्युपपन्नं चमसानामपि संमार्जनम् । दर्शितं चैतद्भाष्यकारेण । सामर्थ्यतश्च कार्यसिद्धौ केवलसम्मार्गविधानलाभः प्रकरणे मन्त्रोपदेशवत् । उक्तं चैतद्भाष्यकारेण ।
?R?0 व्यवस्था वाऽर्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात् ॥ 3-1-17 ॥
?R अत्राभिधीयते - श्रुतितः उपात्तपरिज्ञानं नोपादानात् श्रुतिः । श्रुतिश्च ग्रहं संमार्ष्टीति । ननु च सोमावसिक्तपरिमार्जनं तुल्यं कार्यमित्युक्तम् । सत्यमुक्तम् । न श्रुतिबाधे तत्समर्थमित्युक्तमस्माभिः । श्रुते यदेव कार्यं तदेव चेत् कार्यं किमित्यश्रुतेऽपि न भवति । न हि कार्यं श्रूयते । श्रूयते हि कार्यमित्युक्तम् । कार्यं चेन्न क्रियते कथं यवेषु प्रोक्षणम् ??R यथा तत् तथा नवमे वक्ष्यामः । यदुक्तं संसर्गमात्रविधानं लाभो लभ्यत इति । तदयुक्तम् । नियोगविषयत्वात् नियोगस्य दर्शितं च भाष्यकारेण । विनियोगे सति न कश्चिद्विरोधो नियोगस्य स्यात् सन्निकर्षस्यापि विशेषात् । स च विरोधे । इह तु विरोधाभावादतन्त्रं विप्रकर्ष इति सिद्धम् । एकत्वं पुनर्यथा नान्वेति तथोक्तम् ।
?R ?R?0आनर्थक्यात्तदङ्गेषु ॥ 3-1-18 ॥ अ. 9
?R ‘?Rसप्तदशारत्निर्वाजपेयस्य यूपो भवति’?R इत्यत्रोद्देशकं पदं किं वाजपेयस्य सप्तदशेति उत यूपस्य सप्तदशेति पूर्वपक्षवादिनोऽभिप्रायः । यदि यूप इत्युद्देशकं पदं वाजपेयस्येत्यनन्विताभिधानं प्राप्नोति, यूपेन वाजपेयस्यासंबन्धात् । तस्मात् वाजपेयसंबन्धिनि यूपशब्दो द्रष्टव्यः । एवमन्वितपदार्थको वाक्यार्थः समर्थितो भवति । अत्राभिधीयते । यदि यूपशब्दे श्रौतान्वयिनि वाजपेयस्येत्यनन्वितं स्यात् स्यादेतदेवम् । अत्र पुनः सप्तदशारत्निर्यूप इत्यपि संबन्धे वाजपेयशब्दोऽन्वित एव । कथं ??R संबन्धसंबन्धिन्यपि षष्ठ्यन्तस्यान्वयदर्शनात् देवदत्तस्य नप्तेत्येवमादिषु । तस्माद्यूपशब्दस्य लाक्षणिकत्वे नास्ति प्रमाणमिति यूपेनैव संबन्धः । किमिति पुनरत्र वाजपेयस्येत्यनेन कृतम् ??R किमस्माकमनेन कृतं न कृतमिति ??R अन्वयस्तावद्विद्यते । विद्यमानान्वये तु वाक्यार्थे किञ्चित्कार्ययोगि भवति किञ्चित् प्राप्तार्थं सदनूद्यत इति न
?Rदोषः ।
?R ?R?0कर्तृगुणे तु कर्मसमवायाद्वाक्यभेदः स्यात् ॥ 3-1-19 ॥ अ. 10.
?R अभिक्रामं जुहोतीति किं कर्मणः कर्मान्वयो विद्यते उत नेति चिन्त्यते । कथं पुनरन्वयो विद्यते कथं वा न ??R तत्र पूर्वपक्षवादिनोऽभिप्रायः न कर्म कर्मसाध्यं भवति । तस्माद्यः प्रकरणे कर्ताऽभिक्रामतीत्यन्वयः । ननु च प्रयाजेष्वपि यः कर्ता तत्राप्यन्वयो भवत्येव । सत्यं भवति यदि जुहोतीत्यभिधायकः स्यात् । अनभिधायकत्वे तस्मिन् न कर्तुरुद्देश्यत्वं संभवति नानृतं वदेदितिवत् । तस्मात् संयोगतोऽविशेषात् प्रकरणाविशेषाच्च वाक्यभेदः । जुहोतिरिदानीं किमर्थः ??R यदर्थस्तदर्थो भविष्यतीति ।
?R ?R?0साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण ॥ 20 ॥
?R सत्यमनन्वयः कर्मणः कर्मणा । कर्तृसंबन्धात्तु अरुणावत् संभवतीति । ननु च कर्तुरुपादानं नास्ति यथा एकहायन्याः, जुहोतीत्यस्यानभिधायकत्वादित्युक्तम् । न ब्रूमः कर्तुरुद्देशोऽस्तीति । तन्निमित्तकस्तु कर्मोद्देशेऽप्यन्वयो न विरुध्यत इति, तत्र तस्य संभवात् अरुणाधिकरणवैषम्यम् । तत्र द्वयोरप्यन्वयिनोरुपादानं इह तु संभवमात्रेणैवेति विशेषः । यदुक्तं भाष्यकारेण पूर्वपक्षे संबन्धमात्रपरिज्ञानात् प्रयोगवचनात् कर्तव्यतासिद्धिः इति तत्रैव कर्तुरुद्देश्यत्वं न विरुध्यत इत्यधिप्रायः । राद्धान्तवादी तु संभवमात्रेणान्वयसिद्धेर्न कर्तुरुद्देशेन प्रयोजनमस्तीति मन्यते । अतः सिद्धं कर्मापि कर्मणामुद्देश्यतां प्रतिपद्यत इति ।
?R ?R?0सन्दिग्धे तु व्यवायाद्वाक्यभेदः स्यात् ॥ 3-1-21 ॥ अ. 11
?R उपव्ययत इत्यत्र सन्दिह्यते - किं सामिधेन्यनुवचनस्य कर्ता उपव्यानेन संबध्यते उत कृत्स्ने प्रकरण इति । ननु नैवात्रोद्देश्यं पदं किञ्चिच्छ्रूयते । अनुद्दिष्टपदार्थं च यत्तत् प्रकरणेनैव संबध्यते
संयोगतोऽविशेषात् प्रकरणाविशेषाच्चेत्युक्तम् । उच्यते - आधस्त्ये तावदधिकरणे अनुद्दिष्टेनापि कर्त्राऽन्वयोऽपि न विरुध्यत इत्युक्तम् । एवमत्रापि सामिधेनीनां कर्तुः सन्निधानात् क्रियान्तरसाधनतया उपव्यानस्य लोकेऽवगतत्वात् अनुद्दिष्टोऽपि कर्ता सन्निहितः कार्यपरिपूरणायालं भवितुमर्हति । ?R?0ननु दर्शपूर्णमासयोरेव प्रकरणमिदम् । परप्रकरणे सामिधेन्यः श्रूयन्त इति । ?R?0कोऽस्य भाष्यस्यार्थः ??R
?Rवर्णितोऽस्माभिरुद्देश्यपदाभावात् प्रकरणाविशेषः । ‘’?R?0सत्यं, परप्रकरणे श्रूयन्ते । तथापि तासामवान्तरप्रकरणमस्ति’’?R ?R?0इति । किमिदमवान्तरप्रकरणम् । एकस्य हि अधिकारविधेः प्रकरणम् । न हि अङ्गविधीनामपि प्रकरणमस्ति । प्रधानविध्यभेदात् । प्रधानविधीनां च अभेदं चतुर्थे वक्ष्यामः । संस्कारविधीनां च तेषामर्थेन संबन्ध इत्यत्रानुवादः प्रदर्शितः । तस्मादवान्तरप्रकरणं ग्राहकविनियोजकतया नोपपद्यते । अतः सन्निधानमात्रमवशिष्यते । उच्यते - सन्निधान एवायं प्रकरणशब्दः पर्युक्तः । कथमवगम्यते ??R येन तत्सन्निधावभिधीयमानं तस्येति ज्ञायते इति वचनात् । ननु च विनियोजकेऽपि प्रकरणे सन्निधानश्रुतिशब्दः उपपद्यते । केन चोक्तं नोपपद्यत ? ?Rइति । किन्तु तन्न संभवतीत्युक्तम् । वाक्यभेदश्रवणाच्च, व्यवधानं च दर्शयति । परार्थेन व्यवधानमानन्तर्यं विहन्ति न पुनः विनियोगम् । अन्यथा स्वाहाकारस्याविनियोगः स्यात् समिदादिभिर्व्यवधानात् । अथ निवित्पदानामन्यार्थत्वात् ग्राहकस्यापि व्यवधानमिति द्वादशाहीनस्येत्यपि व्यवधानं स्यात् । किञ्च काम्यैरव्यवधानं निवित्पदानां स्यात् । ततश्च निविदर्थता प्राप्नोति । सत्यं यद्यनुवचनव्यवधानमभिप्रेतम् । इह तु सन्निहितक्रर्तृव्यवधानमभिप्रेतं तच्च गुणफलसंबन्धाभिधाने सति कर्मणो व्यवधानादुपपन्नं कर्तुर्व्यवधानम् । एवं स्थिते पूर्वपक्षवादिनोऽभिप्रायः - गुणफलसंबन्धेऽप्यनुवचनश्रुतौ कर्ता सन्निहित एवेति सामिधेन्यर्थं उपव्यानम् राद्धान्तवादी तु नाविधीयमानं सन्निहितं भवति स्वस्थानस्थितमनुवदनीयमनूद्यते, न पुनः सन्निधाप्यते । अनूद्यमानवशवर्तित्वादनुवादानाम् । अतः सन्निधानाविशेषात् कृत्स्ने प्रकरणे निवेश इति सिद्धम् ।
?R?0 गुणानां च परार्थत्वादसंबन्धः समत्वात् स्यात् ॥ (3-1-22-अ.12) ॥
?R वारणो यज्ञावचर इति यज्ञसंबन्धित्वेन पात्रं श्रूयते आनर्थक्यात्तदङ्गेष्विति स्थितो न्यायः । तदिदानीं पवमानहविषां यद्याधानाङ्गता ततः पवमानहविष्ष्वेव पात्रविधानमेतत् । यदि नाङ्गता तदा सर्वयज्ञार्थमिति । किं तावद्युक्तम् ??R पवमानहविष्षु विधानम् । आधानाङ्गं हि पवमानहवींषि प्रकरणे चैतच्छ्रूयते प्रधाने चासंभवन् धर्मः अङ्गेषु विधेय इत्युक्तम् । ननु च पवमानहवींषि अग्न्यर्थानि यदाहवनीये जुहोतीति वचनात् ।
?Rअनारभ्यवादोऽयं सर्वहोमानां गुणत्वेनाहवनीयं विदधाति न प्राधान्यं संभवति । तस्मादानर्थक्यात्तदङ्गेष्विति पवमानहविष्षु विधानम् । अत्राभिधीयते - नैवाधानप्रकरणे पवमानहवींषि श्रूयन्ते नाप्यग्न्यर्थान्येव । कथं ? ?Rयदाहवनीये जुहोतीति वचनात् । ननु च गुणतया विदधात्यनारभ्यवादोऽयमित्युक्तम् । न ब्रूमो न गुणतया विदधातीति । किन्त्वत्र प्रकृतितः प्राप्तिप्रदर्शनार्थं एवं वचनमुपन्यस्तं नोपदेशार्थम् ।कथं पुनः प्रकृतिप्राप्तै प्राधान्यं भवतीति ? ?Rननु च गुणतयैव प्रकृतितोऽपि प्राप्नोति । सत्यमेवम् । आधानोपकारकत्वमग्निनिष्पत्त्या भवति । अग्निनिष्पत्तिश्चेत्प्रयोजनं किमित्याधानोपकारकतया न पुनः साक्षात्प्रकृतितः संबन्धात् । ननु च गुणतया प्राप्तिरित्युक्तम् । सत्यमुक्तं सा पुनराधानाङ्गत्वे न संभवति अनिष्पन्नत्वादग्नेः । निष्पादयतीति चेत् तर्हि साक्षान्निष्पादकत्वम् । न हि साक्षात्संबन्धे संभवति परपृष्ठेन संबन्धो युक्तः । तस्मात्सर्वार्थता वारणादेः युक्तेति ।
?R ?R?0मिथश्चानर्थसंबन्दात् ॥ 3-1-23 अ. 13 ॥
?R तदेव पुनरुदाहरणान्तरे चिन्त्यते केनचित् विशेषेणानर्थक्यात्तदङ्गेष्विति । कः पुनरसौ विशेषः ??R अयमसौ विशेषः । तत्र यूपशब्दः श्रूयते । इह पुनः नाज्यभागाभिधानम् । अतः पूर्वपक्षवादी मन्यते । युक्तं वाजपेये यूपशब्दाभिधानात् व्यवधानेऽपि वाजपेयेत्यन्वयः । इह पुनः संबन्धिसंबन्ध्यन्वये न किञ्चित् प्रमाणमस्ति । कथं तर्हि द्विवचनम् ??R द्वयोर्द्विवचनम् । ननु चैकत्वात् प्राधान्यस्यैकैवानुवाक्या । किमिदं एकत्वात्प्रधानस्येति ??R ननु चैकैकत्र प्रधानत्रयमस्ति । न ब्रूमः एकमेव प्रधानमिति । एकैकस्येतिकर्तव्यतासंबन्ध इति वदामः ; ?Rततः किं द्वयोरसंबन्धः । ननु चाज्यभागयोरेकेन संबन्धः । सत्यमेव, श्रुत्या तु द्वयोत्पत्तेः द्वन्द्वाभिधानमविरुद्धम् । इह पुनः प्रधाने स्वतः एकत्वात् अनुवाक्याया एकैकस्याचोत्पत्तेः प्रधानानां द्वन्द्वविरोधः । उच्यते - न विरोधः । किमिव वचनं न कुर्यात् नास्तिवचनस्यातिभार इति । तत्र द्वित्वमयथार्थत्वं च मन्त्रस्य भविष्यति, व्यवधाने प्रमाणाभावादित्युक्तम् ।
?R अत्रोच्यते - तदिदमयुक्तमभिहितमिति वदामः । कस्मात् ??R न तत्रापि यूपशब्दाभिधानं हेतुः । किं तर्हि विधेयस्य योग्यता ??R संभवति च योग्यतयाप्यन्वयो
?Rवाजपेयस्येत्युक्तम् । एवमत्रापि संभवति यथायोग्यविधाने यथार्थत्वद्वित्वयोः प्रमाणमस्ति । तस्मादाज्यभागयोरेव मन्त्रविधानमिति सिद्धम् ।
?R यत्पुनरिदमुक्तं भाष्यकारेण?R ननु प्रधानगामित्वेऽपि द्वयोः प्रधानयोर्द्वे अनुवाक्ये आग्नेयस्य अग्नीषोमीयस्य चेति तत्कथं ? ?Rद्वित्वोत्पत्तेर्विरोधात् । अभ्युपगम्यापि युक्त्यन्तरविरोधप्रदर्शनार्थम् ।
?R ?R?0आनन्तर्यमचोदना ॥ 3.1.24-अ. 14 ॥
?R यदि योग्यता नियमहेतुः इहापि तर्हि स्तरणे दीक्षितावेदने च परिसमाप्ता योग्यता इत्यत्रैवैदमर्थ्यपरिसमाप्तिः ।
?R अत्रोच्यते - सत्यं यद्यत्रैव योग्यता कृत्स्नेऽपि प्रकरणे सा । तथैव यदि परमेकवाक्यतां नियन्तुं क्षमा । सा च नास्ति द्वयोराख्यातयोरसंबन्धात् क्रियायां क्रियार्थायां तुमुन्ण्वुलौ ;?R तौ च न स्तः अतः कृत्स्ने प्रकरणे निवेशः ।
?R?0 शेषस्तु गुणसंयुक्तः ॥?R?0 ?R?03-1-25-अ. 15 ॥
?R कः पुनरत्र पूर्वपक्षवादिनोऽभिप्रायः आग्नेयेऽपि संभवति ऐन्द्राग्नेऽपि संभवतीति । अयमभिप्रायः - उद्देश्ये हि पदार्थमात्रस्यैव उपलक्षणत्वम् । संबन्धिमात्रतयैव सिद्धेर्न विशेषोऽपेक्षणीयः । विधेये पुनः विशेषनिष्ठत्वात्कार्यस्य युक्तं विशेषापेक्षणम् । तस्मादाग्नेयविधौ नैन्द्राग्नविधिः उपलक्षणे पुनः पदार्थानुगमान्न विरोधः । अत एव चाव्यासज्यसंबन्धिडित्थडबित्थदर्शनम् ।
?R ?R?0व्यवस्था वाऽप्यर्थसंयोगात् ॥?R?0 ?R?027 ॥?R?0
?R अत्राभिधीयते - यथा भवानाह तथापि तु यथाऽभिधेयं लक्षणासंभवे नायथार्थत्वं भवति । पूर्वप्रसिद्धं हि लक्षणत्वे(न) हेतुः । अतो नाप्रसिद्धलक्षणा भवितुमर्हति यथाप्रसिद्धासंभवे च अप्रसिद्धनिमित्ततापि गृह्यते । तस्मादाग्नेयस्यैव चतुर्धाकरणमिति स्थितम् । डित्थडबित्थादीनां तु प्रत्येकमेव सिद्धिः आग्नेयस्तु प्रत्युक्तः ।
?R?0॥ इति बृहत्यां तृतीयाध्यायस्य प्रथमः पादः ॥
?R?0अथ तृतीयाध्यायस्य
?R?0द्वितीयः पादः ॥
?R ?R?0अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात् तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात् ॥?R?0 ?R?03-2-1 अ. 1 ॥
?R युक्तं तावत्?R किं मुख्य एवाभिधेये मन्त्राणां विनियोगः उत गौणेऽपीति । इदन्त्वयुक्तं कः पुनर्मुख्यः को वा गौण इति । कथमिवायुक्तम् ??R यः परशब्दः परत्र वर्तते स गौण इति स्थितम् तथा च दर्शितम् - ?Rकथं पुनः परशब्दः परत्र वर्तते ??R स्वार्थाभिधानेनेति । तस्मादयुक्तोऽयं प्रश्नः ।
?R अथायमभिप्रायः, लक्षणायामपि परशब्दः परत्र वर्तते तद्व्यावृत्त्यर्थोऽयं प्रश्नः इति । तन्नोपपद्यते । यदेव गौणत्वे लक्षणं वक्ष्यति - ‘?Rअनादृत्यैव माणवकप्रत्ययं ज्वलनं अग्निशब्दात् प्रतियन्तो दृश्यन्ते न त्वनादृत्य ज्वलनप्रत्ययं माणवकं प्रतियन्ति’?R इति । लक्षणायामप्येवमेव । नह्यनादृत्य गङ्गाप्रत्ययं गङ्गासमीपं प्रतियन्ति तस्मान्न तन्निवृत्त्यर्थमिति शक्यते वक्तुम् ।
?R अथ मतं लक्षणायामन्वेति लक्षणापदं गौणे पुनः नान्वेति इति । तदयुक्तम् । प्रतीतौ तावत् द्वयमप्यन्वेति । कार्ये पुनर्नैकमपि । अतोऽनेनापि विशेषणेन न विशेषः । अथ वाक्यार्थनिवृत्तये यत्नः, तन्न ; ?Rनैवार्थान्तरे वाक्यं वर्तते अन्विताभिधायीनि पदान्येव हि वाक्यम् । अन्विताश्च पदार्थाः वाक्यार्थः । न चानन्विताभिधानमस्ति इति प्रदर्शितम् । एवं तर्हि प्रश्नार्थो व्याख्येयः । एवं च सोपपद - सुष्ठुप्रसिद्ध बहुशः प्रयोगाश्च प्रत्युक्ता भाष्ये ; ?Rअतस्तन्निराकरणार्थोऽप्ययं प्रश्नः नोपपद्यत एव । उच्यते । अयं प्रश्नस्य अर्थः वाक्यार्थावगमाद्धि निमित्ततया पदार्थविभागोऽवगम्यते । स चायं माणवकेऽग्नौ च तुल्यः अग्निर्माणवक इत्युक्ते माणवकः पिङ्गलता च निमित्तम् । अग्निर्ज्वलतीत्युक्ते ज्वलनो ज्वलनक्रिया च । तस्मान्न विशेषं पश्यामः ; ?Rअस्य शाब्दो निमित्तभावोऽस्य गौणो निमित्तभाव इति । ननु चाग्निप्रत्ययपुरस्सरा माणवके प्रतीतिः पैङ्गल्यस्य ;?R नैवं शक्यते वक्तुम् । उक्तमिदं वाक्यान्निमित्तभावावगतिरिति । अग्निर्माणवक इति पिङ्गलतैव केवलं निमित्ततयाऽवगम्यते यथा पिङ्गलो माणवक इति । तस्माद्दुर्निरूपमिदं गौणोऽयं मुख्योऽयमिति मन्वानस्य प्रश्नः । न चोपपदादिभिः संभवतीति प्रदर्शितं भाष्ये ।
?Rअग्निरिवायं माणवक इत्यत्र युक्तमग्निसादृश्यम् इवादीनां सादृश्ये प्रयोगदर्शनात् । अग्निर्माणवक इति तु इवार्थशून्योऽर्थः वाक्यार्थः यथा पिङ्गलो माणवक इति च तुल्यो निमित्तभावः । अतो निष्प्रयोजनमेवेदमधिकरणं मन्यामहे । कथं तर्हि गङ्गायां घोषः, कूपे गर्गकुलम् ? ?Rइति । युक्तं प्रतिवसतीत्यस्य सामर्थ्यं न भवतीति समीपान्वयिता । अग्निर्माणवक इति तु पिङ्गलगुणावगमो न कथञ्चिन्नोपपद्यते । तस्मात् भवतु लक्षणा । गौणत्वे पुनः न किञ्चित् प्रमाणमस्ति । कथं चाग्निप्रत्ययो लोके पैङ्गल्यादप्युपपद्यते पूर्वादिवापरप्रत्ययः । अत्राभिधीयते - इवार्थनिबन्धन एवायं प्रत्ययः, कुतः ??R तथाऽवगतेः । कथं पुनरिवशब्दमन्तरेणेवार्थः प्रतीयते ??R इवशब्दोऽपि तावदिवार्थः किमिति कल्प्यते ??R प्रयोगदर्शनादिति चेत् अत्रापि तुल्यम् । ननु च पैङ्गल्येऽवगते ज्वलनसादृश्यमवगम्यते अपरशब्दवदित्युक्तम् । नैतदुपपद्यते । माणवकसदृशोऽग्निरित्यपि प्रत्ययः स्यात् । इह पुनर्विपरीतमिति । अतिपैङ्गल्यात् ज्वलनस्योपमानमिति चेत् नास्यां कल्पनायां प्रमाणमस्ति । यथावगमं निमित्तकल्पना न्याय्या तन्मूलत्वात् निमित्तावगतेः । अतो यद्यपि विपरीतः संभवति तथापि प्रसिद्धप्रतिपक्षत्वात् नात्मानं लभते । अप्रतिपक्षो हि संभवः संभवः । तस्मादुपपन्नं प्रयोगप्रत्ययाभ्यां गौणमुख्याभिधानम् । किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणेऽपि ??R इति । तस्मात् युक्तो विचारः ।
?R किं तावत्प्राप्तं ??R अविशेषादुभयाभिधानं ;?R अग्निर्ज्वलतीत्यपि प्रयोगो दृष्टः अग्निर्माणवक इति च । तस्मान्न विनिगमनायां हेतुरस्ति । अत्राभिधीयते - अयमस्ति मुख्याभिधानशून्यं नास्ति गौणाभिधानमिति प्रदर्शितम् । तस्मान्मुख्य एव शब्दस्य व्यापारः । अभिधानेन मन्त्रा उपकुर्वन्ति मुख्ये चाभिधानं न गौणे । कुतस्तर्हि गोणप्रत्ययः ??R सादृश्यादिति । सत्यमुक्तम्, तत्तु उपायत्वेन न पुनर्निमित्तनिराकरणतयापि । केन चोक्तं निमित्तता निराक्रियत ??R इति । मुख्ये संभवति न गौणे विनियोगः क्षम इति एतावदुच्यते । यत्र पुनर्मुख्ये न संभवति तत्र गौणेऽभ्युपायत्वमिष्यत एव । न तर्हि पूषाद्यनुमन्त्रणादीनां उत्कर्षः । समाख्यया विनियुक्तानां मुख्य एव संभवतीत्युत्कर्षः । तस्मात् मुख्ये यत्र संप्रत्ययो न तत्र गौणेऽपि मन्त्रनियमे प्रमाणमस्ति । किमर्थं मुख्यं
?Rप्रत्याययतीत्येवमादिना प्रदर्शितम् ।
?R ?R?0वचनात्त्वयथार्थमैन्द्री स्यात् ॥ 3-2-3 अ. 2 ॥
?R ऐन्द्र्या गार्हपत्यमुपतिष्ठते इत्यत्र संशयः किमैन्द्रेण मन्त्रेण गार्हपत्यस्याभिधानं उतेन्द्रस्येति । कथं पुनः गार्हपत्यमुपतिष्ठत इति स्पष्टायां श्रुतौ संशयः ??R मुख्येऽर्थे मन्त्रो विनियुज्यत इति स्थितमाधस्त्येऽधिकरणे । ननु च मुख्यासंभवे गौणेऽपि च विनियुज्यत एव । एतदेव न विजानीमः संभवो विद्यते नेति । (ननु) गार्हपत्यमुपतिष्ठत इति स्पष्टैव श्रुतिः । विनियोज्यसामर्थ्यानुसारी विनियोग इति अनीप्सितार्था द्वितीया भवतीति ब्रूमः । तथा च स्मर्यते ‘?Rतथा युक्तं चानीप्सित?Rम्’?R इति । अयमेव चास्य विषयः विनियोज्यवशात् कारकपर्यवसाय्येव । यद्वा गार्हपत्यमुपेत्याभिधत्त इति द्वितीयोपपद्यत एव । तस्मादिन्द्राभिधानम् । युक्तं चैतदेवं अन्यथा अलौकिकी अभिधानशाक्तिः कल्पनीया । ननु गौणमभिधानं भविष्यति । नास्ति गौणमभिधानम् । सिद्धे हि प्रयोगे गौणमभिधानं, न पुनर्गौणात् प्रयोगसिद्धिः । न चात्र गार्हपत्ये इन्द्रशब्दप्रयोगोऽन्यतः सिद्धः कर्तव्यतोपदेशात् । अतो यथाभिधानं विनियोगः अत्राभिदीयते । गार्हपत्याभिधानं मन्त्रेण कर्तव्यम् । कुतः ??R यथोपदेशं हि कार्यं न यथाकार्यमुपदेशः । अतिदेशो हि सः । ननु च यथाकार्यमुपदेशोऽपीति सप्तमाद्ये उक्तम् । नियोगार्थः तत्र कार्यशब्देनोक्तः न पुनराप्त्यादयः । ननु च विनियोग एव सन्दिह्यत इत्युक्तम् । किमिति न निश्चित इति चेत् अनीप्सितेऽपि द्वितीयादर्शनात् । किमिदमनीप्सितमिति ??R तथा युक्तं चानीप्सितमिति । सुतरां तर्हि धात्वर्थं प्रति प्राधान्यम् । अन्यथा हि तथायोगो न स्यात् । तरबर्थः इदानीं किमर्थः ? ?Rअनीप्सितमपि प्रधानमिति ।
?R ननु चोक्तं नादृष्टा शब्दशक्तिः कल्पयितुं शक्यत इति ??R किमत्रादृष्टं वचनाद् दृश्यत एव । न वचनात् पदार्थानां शक्तिः शक्या अवगन्तुम् । कथं तर्हि योगादेः नियोगार्थसिद्धौ शक्तिः ??R कार्यावगम्यत्वात् । इह तु विपरीतम् । यद्यत्रापि प्रतिपत्तव्यमिति वचनं स्यात् भवेत् कार्यदर्शनम् । इदन्त्वन्यपरमेव वचनं एन्द्र्या गार्हपत्यमुपतिष्ठत इति । तदिदमुक्तं - संबन्धस्याशास्त्रहेतुत्वात्?R इति । गौणं तर्ह्यभिधानं भविष्यति । ननु प्रयोगसिद्धे गौणमभिधानमित्युक्तम् । अत्रापि कार्यतया सिद्ध
?Rइत्यविशेषः । गुणश्रवणं प्रदर्शनार्थं सूत्र इति मत्वा योगाच्चेत्युक्तं भाष्यकारेण ।
?R?0 तथाह्वानमपीति चेत् ॥ 3-2-5 अ. 3 ॥
?R अत्रापि ‘?Rअवघ्नन्नाह्वयति’?R इत्याह्वानेन अवघातं कुर्यादित्यर्थः गुणाद्वाऽभिधानं भविष्यति योगाद्वा आह्नयतीत्यनुवादः । यो ह्येहीति ब्रूते स आह्वयत्येव । त्रिरिति कथं ??R शाखान्तरे पाठात् त्रिरित्यप्ययमनुवाद एव । अताभिधीयते - त्रिरित्येतावद्विधीयते । अन्यत् सर्वमनूद्यते । ननु च त्रिरित्यपि प्राप्तं, न, अनियमात् क्वचित् द्विः पठ्यते । तस्मादवघ्नन्निति लक्षणैषा । नायं दोषः, अन्यतः प्राप्तेः । ननु च प्रवृत्तावघातस्य नैष मन्त्रः प्राप्नोति । इदमप्यन्यतः प्राप्तत्वादेवाचोद्यम् । तस्मान्न गौणे विनियोगे प्रमाणमस्ति । यदि पुनरयं मन्त्रोऽवघाते मुख्यार्थः स्यात् नावघाते लक्षणा कल्पिता भवेत् । शक्यते च हविष्कृच्छब्देनावघातो वक्तुं पत्नीवत् । सत्यम् शक्यते, आह्वानन्तु अनन्वितार्थं प्राप्नोति । त्रिमिरिति च अनियतं स्यात् । तस्माद्वरं लक्षणैव । तया च लिङ्गमैकान्तिकम् ।
?R ?R?0तथोत्थानविसर्जने ॥ 3-2-10, अ. 4 ॥
?R ननु चोदाहरणमेवेदं, किमत्रातिदिश्यते । न हि अन्यत्वादृते सादृश्यमुपपद्यत एव । इदमस्त्यन्यत्वं पूर्वस्मिन्नधिकरणे त्रिरित्येतावद्विघीयते । अन्यत्सर्वमनूद्यते । इह पुनः कालसंयोगो विधातव्यः अप्राप्ते सयोगविधाने लक्षणा न न्याय्येति पूर्वपक्षवादी अधिकरणवैषम्यं मन्यते । राद्धान्तवादी तु प्रैषार्थानन्वयतुल्यत्वात् तथेत्युक्तवान् ।
?R ?R?0सूक्तवाके च कालविधिः परार्थत्वात् ॥ 3-2-11 अ. 5 ॥
?R अत्राभिधीयते, नेयं कालक्षणा । किं तर्हि ??R मन्त्रोपदेशोऽयम् । ननु चान्यार्थो मन्त्र इत्युक्तम् न हरतेरभिधातेति । माभूत् हरतेर्वाचकः हरतिदेवतावाचको भविष्यति । ननु च निर्वृत्तयागदेवतावचनोऽयम् । न च हरतिर्यजतिः । उच्यते - निर्वृत्तदेवतावचनत्वेऽपि तत्संस्कारो यागो भविष्यति । पशुपुरोडाशवत् । ननु चायं हरतिर्न यजतिरित्युक्तम् । हरतिर्यजतिः मन्त्रसंबन्धात् । ननु चैवं सति सैव लक्षणा प्राप्नोति । न लक्षणा, यागे सति हरत्यर्थस्य प्राप्तत्वात् । आलभेतेतिवत् । अन्यथा हि वृत्तमिदमानिर्देश्यं स्यात् । आशास्त इति च भूतनिर्देशः । तस्मात्सुष्टूच्यते हरतिर्यजतिरिति । यदुक्तं प्रतिपत्तौ संभवन्त्यां नार्थकर्म न्याय्यमिति । स्विष्टकृद्वदविरोधो
?Rभविष्यतीत्युक्तम् ।
?R ?R?0कृत्स्नोपदेशादुभयत्र सर्ववचनम् ॥ 3-2-16 अ. 6 ॥
?R हरतिर्यजतिः सूक्तवाकमन्त्रस्थेति स्थितम् । इदमिदानीं चिन्त्यते । किं सकलस्य सूक्तवाकस्य पौर्णमास्याममावास्यायां च प्रयोग उत देवतापदविभागेन’? ?Rइति ।
?R ननु चिन्तैवेयं नोपपद्यते । स्थितमर्थैकत्वादेकवाक्यत्वम् । श्लिष्टपठितानां प्रधानदेवतापदानां न चात्रैकार्थत्वं संभवति । नापि विभज्यमानसाकाङ्क्षत्वम् । तस्माद्भिन्नान्येतानि । भिन्नानां त्वेकवचननिर्देशे सति कथं कृत्स्नप्रयोग आशङ् क्यते ??R यथा आग्नेय्येत्युक्ते न कृत्स्ना आग्नेय्यः प्रयोक्तव्या इत्याशङ् का भवति । मुख्ये च संभवति न गौणे विनियोग इत्यपि स्थितम् । उच्यते । यथा भवानाह । किन्तु पूर्वपक्षवादी मन्यते सूक्तवाको वर्तत इति वाक्यसमूहे एकवचनमिदं, एवमत्रापि सूक्तवाकेनेति समूहगतमेवेदमेकवचनं, अतः समुदाय एवात्र करणम् ।
?R ननु समूहस्यैकार्थता न संभवति । वचनात् कल्प्यते यथा उत्तमप्रयाजे । इमामाशङ् कां निवर्तयितुं इदमधिकरणम् । कृतः पूर्वपक्षः । इदानीं राद्धान्तोऽभिधीयते - नात्र समूहविनियोगे प्रमाणमस्ति सूक्तवाको वर्तत इति अन्यथाप्येकवचनोपपत्तेः । एकाभिधानाद्धि पाठकानां सूक्तवाको वर्तत इति युज्यतेऽभिधानम् । इह पुनः सूक्तवाकेन प्रस्तरं प्रहरतीति न लिङ्गबाधेनैकवाक्यत्वं शक्यते कल्पयितुम्, यथालिङ्गं विनियोगोपपत्तेः । तस्माद्विशेषाग्रहणात् येन केनचित् सूक्तवाकेन प्रहृते प्रहृतं भवति सूक्तवाकेन प्रस्तरं प्रहरतीति । समुदायाभिप्रायस्तु हेयतयोपन्यस्तः ।
?R?0 लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नानम् ॥ 7 ॥
?R आधस्त्येऽधिकरणे उक्तं प्रकरणात् प्रत्येकं शेषत्वे प्राप्ते लिङ्गाद्विभाग इति । इहेदानीं प्रकरणाद्यत् बलीयः तत्क्रमसमाख्याभ्यां नितरां बलीय इति पूर्वपक्षवादी मन्यते । लिङ्गाच्छेषत्वे अतन्त्रे क्रमसमाख्ये ।
?R ननु नैव लिङ्गं केवलं विनियोजकं राद्धान्ते वक्ष्यति विनियोजकत्वे तु बलाबलम् ।
?R किमर्थं वा प्राक् श्रुतिलिङ्गाधिकरणात् बलाबलचिन्ता । अत्राभिधीयते । नैवेयं
?Rबलाबलचिन्ता । सापेक्षं लिङ्गं विनियोजकमित्यत्र प्रतिपाद्यते । कथं तर्हि पूर्वः पक्षः ??R लिङ्गमपि श्रुत्यादिवत् प्रमाणान्तरनिरपेक्षमिति बलाबलसूत्रे अनुक्रमणात् पूर्वपक्षोऽयम् । राद्धान्तस्तु - सामान्यसंबन्धे सति शेषिविशेषे लिङ्गं विनियोजकमिति । यथा लिङ्गं न केवलं विनियोजकं तथा श्रुतिलिङ्गाधिकणे निपुणतरमुपपादयिष्यामः । अतः क्रमसहितं च लिङ्गं विनियोजकम् । उभयलिङ्गप्रमाणसाहित्ये च प्रयोजनमुक्तं भाष्ये ।
?R ?R?0अधिकारे च मन्त्रविधिरतदाख्यातेषु शिष्टत्वात् ॥ 8 ॥
?R आग्नेय्याऽऽग्नीध्रमुपतिष्ठत इत्येवमादिषु लिङ्गनिर्देशेषु किं यावल्लिङ्गा ग्रहीतव्याः उत प्रकृतानां ग्रहणमात्रमिति । पूर्वपक्षवादी तु विधेयस्य प्रकृताभिधानसामर्थ्यं न संभवति इति मन्वानो यावल्लिङ्गं ग्रहणमित्याह । उद्देश्यपदं हि प्रकृतापेक्षं भवति न पुनर्विधेयार्थसमर्पकमपि । उद्देश्यत्वं हि नाम प्रयोजनवदर्थता । न च सामान्यं प्रयोजनवद्भवति उपात्तविषयत्वात् प्रयोजनवत्तायाः । ननु च सामान्यमेवोपादीयते । नापरिमितस्योपादानं संभवति । तस्माल्लक्षणतयैव तत्र सामान्यम् । यथोक्तं ग्रहाधिकरणे विधेयं पुनः सपरिमाणं शब्दादेवावगन्तव्यम् । अन्यतोऽनवगमादिति पूर्वः पक्षः । प्रकृतमप्रकृतं वा यावल्लिङ्गं विधेयम् । किं प्रकृताभिर्लिङ्गवतीभिरुपस्थातव्यं उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति दाशतयीग्रहणं न प्रकृतप्रतिपक्षतया । एतदुक्तं भवति । किं यावल्लिङ्गा ग्रहीतव्या उत प्रकृता एवैवंलिङ्गा आगमयितव्या इति ।
?R ‘?Rकिमिदं ?Rउपदिष्टोपदेशो न न्याय्यः’?R ??Rइदमिदम् । उपदिष्टतैव हि तस्य विशेषः । न चासौ विधेयाङ्गमित्युक्तम् । प्रकृतत्वं पुनरभिधानात्तुल्यम् । अत्राह - 2?Rविरोधे सति लिङ्गेन प्रकरणं बाध्यते न चैतयोर्विरोध’’?R इति । कोऽभिप्रायः ??R अयमभिप्रायः - प्रकृतेऽपि गृह्यमाणेऽभिहित एवार्थो गृहीतो भवति । यथैकस्यामपि गव्युपादीयमाने चरितार्थैव गामालभेतेति श्रतिः । नैतदेवमिति । नात्र लिङ्गवत्ता शब्दार्थ इति मन्यते । उच्यते, तल्लिङ्गवत्ताऽनेनेति हेयतयाऽस्य पक्षस्योपन्यासः । दाशतय्यां पुनः मन्त्रव्यक्ताविति प्रकृत एव संपन्ने लिङ्गार्थे निष्प्रमाणकः प्रकृतबाध इति मन्यते ।
?R?0 ?Rलिङ्गजनितस्तु प्रत्ययः कश्चिन्भिथ्येति ।?R?0 लिङ्गार्थसंपत्तौ सत्यां कोऽयं मिथ्याभावः । अयमभिप्रायः - नायं सामान्योपसंहारः शब्दार्थ इति । ‘?Rस्वर्गकामो यजेत’?R
?Rइति न सम्पत्या अन्यप्रयोगार्होऽपि शास्त्रार्थः पर्यवसित इति शक्यते वक्तुम् । ननु च व्यक्तिरपदार्थ इति सामान्योपसंहृतिरेवोपन्यस्ता?R । एतदेव न विजानीम इति प्रत्ययार्थप्रधानत्वात् तद्धितान्तानां न तद्वत्ताऽङ्गमिति मन्यते । तस्मान्न सामान्योपसंहारार्थमिदं शास्त्रम् । नन्वेततदुक्तं कार्यान्तरे प्रकृतस्योपदेशो नासावर्थान्तर उपदेक्ष्यत इति उपदिष्टोपदेशपरिहारायायमुपन्यासः । किमिति ??R लिङ्गवन्मात्रग्रहणादिति दर्शितम् । नात्रोपदिष्टता हेतुः । ननु चैवं सति प्रकृतबाधः । भवत्वभिधानात् प्रकृतबाधो न दोषः । अपि च न लिङ्गं प्रकरणं वाऽनुग्रहीतव्यमिति नानुग्रहार्था शास्त्रार्थोपसंहृतिरिति यदुक्तं तदिदम् ।
?R?0 तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥ 3-1-22 अ. 8 ॥
?R अत्रोच्यते - राद्धान्ती तु प्रकृतेऽपि विधेयप्रत्ययो नैव न घटत इति मन्वानः प्रकृतस्यैव ग्रहणमित्युक्तवान् । कथं ??R उद्देश्यत्वं हि नाम प्रयोजनवतो भवति ।
?R प्रकृतत्वं पुनः विधेयेऽपि प्रकृतप्रत्ययं नैव बाधते । न हि सन्निहिते विशेषे सामान्यशब्दः तमतिवर्तते । नीलोत्पलमितिवत् गामानयेतिवद्वा । तस्मात् प्रकृतप्रत्यर्थी न सामान्यशब्दो भवितुमर्हति । प्रकृता एवैवं लिङ्गव्यक्तयः परिगृह्यन्त इति सिद्धम् । सर्वेषां चोपदिष्टत्वादिति । यदुक्तं तदिदम् । यद्युपदेशमात्रं सर्वत्रास्ति प्रकृतग्रहणेऽप्युपदेशो न विशेषणमित्युक्तम् ।
?R?0 लिङ्गसमाख्याभ्यां भक्षार्थतानुवाकस्य ॥ 3-1-25 अ. 9 ॥
?R इदमिदानीं चिन्त्यते - यथा प्रकृततया लिङ्गमुपसंहृतं किमेवं समाख्यापि स्वनिमित्त एवोपसंहरति उत यथालिङ्गं विनियोग इति । किं तावद्युक्तम् ??R समाख्यापि प्रकृतवन्नियमयत्येव विशेषे लिङ्गम् । ननु लिङ्गान्तरविरोधः प्राप्नोति । न, विशेषणतयापि लिङ्गान्तरस्याविरोधात् । यतः स्वार्थे परार्थे वाऽभिधानमविशिष्टम् । ननु च पारार्थ्ये लक्षणा प्राप्रोति । तथाप्यभिधानमविशिष्टं इदंपरताविशेषोऽयं नाभिधानविशेषः । तस्मान्नियन्तुमर्हति समाख्या ।
?R?0 तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदित्वात् ॥ 3-2-16 ॥
?R सत्यमविरोधि लिङ्गान्तरम् - किन्तु अनिदंपरतायाः प्रमाणं न विद्यते ।
?Rभक्षणवल्लिङ्गान्तरविषयस्यापि स्मरणार्हत्वात् । प्रयोगो हि स्मरणीयः । ग्रहणाद्यपि च प्रयोग एव । तस्माद्यथालिङ्गं व्यवस्था । ननु च समाख्याशून्यं लिङ्गं विनियोजकतामेव न प्रतिपद्यते । नैव समाख्याशृन्यं भक्षनिमित्तापि समाख्या क्रतुसंबन्धितामापादयत्येव । लौकिकी लक्षणेत्यस्योक्तः परिहारः ।
?R ?R?0गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात् तयोरेकार्थसंयोगात् ॥ 10 ॥
?R पूर्वाधिकरणापवादोऽयम् । अप्रयोगाभिधानो मन्त्रः प्रयोगाभिधानेन सह एकवाक्यतां नीयते समाख्यया । लिङ्गं हि दृष्टार्थतया समाख्ययोपसंहृतम् । यत्र पुनः दृष्टार्थता नास्ति तत्रादृष्टकल्पनायां प्रमाणं नास्ति इति समाख्यैव विनियोक्त्री । सा च स्वनिमित्तैवेति सिद्धं लक्षणेनैकवाक्यत्वमित्येकमन्त्रत्वम् ।
?R ?R?0लिङ्गविशेषनिर्देशात् समानविधानेष्वनैन्द्राणाममन्त्रत्वम् ॥ 11 ॥
?R इह पानोपलक्षणप्रकरणे समानविधाने स्थिते ‘?Rअनुष्टुप्छन्दस’?R इति नमनदर्शनात् ‘’?Rऐन्द्रः सोमो गृह्यते मीयते च’’?R इति प्रकृतिविकारशङ्कायां कृत्वाचिन्ता ।
?R ?R?0पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् ॥ 12 ॥
?R अत्र आश्रावणादपनयः प्रस्थितदेवताया इति पूर्वः पक्षः । अग्नहणान्नेति सिद्धान्तः ।
?R ?R?0पात्नीवते तु पूर्ववत् । त्वष्टारं तूपलक्षयेत् । त्रिंशच्च ॥?R?0
?R आग्रयणात् पुनरनाग्रयणस्यापि तदुद्देशेन ग्रहणमित्यपनय एव । त्वष्टरि सहवचनात् पूर्वः पक्षः । नाचोदितत्वादिति राद्धान्तः त्रयस्त्रिंशति त्वग्नेः मादयितृत्वदर्शनात् पुनराशङ्का । मादयितृतैव तत्प्राधान्यात् देवताभावमापादयति इति राद्धान्तः । एवमनुवषट्कारदेवतापि तदुद्देशेनाग्रहणान्नोपलक्ष्या ।
?R स्थितादुत्तरम् - एकयागत्वात्तु समानविधानम् । तस्मादैन्द्रमेव समन्त्रकम् इतरदनाम्नानादमन्त्रकमेव ।
?R ऐन्द्राग्ने पुनः पानमेवोपलक्ष्यते न देवतेति । आग्नेयं चतुर्धा करोतीति स्थिते पूर्वः पक्षः देवतैवोपलक्षणं पानाभावादिति राद्धान्तः ।
?R ?R?0छन्दश्च देवतावत् ॥ 3-2-42 अ. 18 ॥?R?0
?R देवतया तुल्यं च्छन्द इति मन्वानस्य पूर्वः पक्षः, एकछन्दसो न विद्यत इति राद्धान्तः । अनुष्टुप्छन्दस इति छन्दोन्तरविधानात् नमतीत्यस्य परिहारः । ऐन्द्रः सोमो मीयते गृह्यते च इति समानविधाने स्थिते यथालिङ्गं मन्त्र इति स्थितम् । तस्मादिदमप्यकारणं प्रकृतिविकारभावस्य ।
?R इदानीमिन्द्रपीतस्य इति स्थिते सवनसामानाधिकरण्यात् सर्वे मन्त्रवन्त इति राद्धान्तः ।
?R?0॥ इति बृहत्यां तृतीयाध्यायस्य द्वितीयः पादः ॥
?R?0अथ तृतीयः पादः ॥
?01?Rश्रुतेर्जाताधिकारः स्यात् ॥ 3-3-1 अ. 1 ॥
?R ?01?Rश्रुतेर्जाताधिकारः स्यात् । ?0’?Rउच्चैऋर्चा क्रियते’?R इति किमयं वेदधर्मः उत ऋग्धर्म इति संशयः । कोऽयं वेदो नाम ??R ननु चर्गपि वेद एवेति । उच्यते - विधायकं वेदशब्देनोच्यते । एतदुक्तं भवति - यदृग्वेदशब्दवाच्यं विधायकं तद्विधेयधर्मः उत यत्र पादव्यवस्था तस्मिन् मन्त्र इति ।
?R किं तावद्युक्तम् - उच्चैः ऋचा क्रियत इति वचनादृग्धर्मोऽयमिति । ननु वेदोपक्रममेतद्वाक्यम् । को दोषः ??R ऋक्ष्वप्ययं वेदशब्दो वर्तत एव । एवं च न विकल्पो भविष्यति वेदान्तरपठितस्य ऋग्जातस्य ।
?R ?R?0वेदो वा प्रायदर्शनात् ॥ 3-3-2 ॥?R?0
?R अत्रोच्यते - वेदधर्मोऽयम् । कुतः ??R वेदशब्दोपक्रमत्वाद्वाक्यस्य । ननु च उपक्रमोपसंहारवशात् ऋक्षु वर्तत इत्युक्तम् । सत्यमुक्तम् तत्तु नोपपद्यते । कथं नोपपद्यते ??R एवं नोपपद्यते । उपक्रमे यः पदार्थः परिज्ञातो भवति तद्विशेषप्रतिपत्तिरेव केवलमुपसंहारादपेक्ष्यते । न पुनस्तद्विरोध्यर्थान्तरम् । अतोऽविरोधिधर्मविधानमेव केवलं वेदेन संबध्यते । ऋक्च्छब्दस्तदानुगुण्यादनुवादः । कथं पुनर्नर्ग्वेदशब्देनोच्यते ??R केन चोक्तं नोच्यत इति ??R किन्तु विधेयतया न विधायकवत् । दृष्टश्चायं ऋक्शब्दो वेदे -
?Rऋग्भिः प्रातर्दिवि देव ईयते’?R इति । कुत एतत् ??R यजुर्वेदे तिष्ठति मध्ये अह्न इति सहयोगात् । धर्मोपदशश्च साम्नां पृथक्त्वेनैवमेवेदमुपपद्यते । अन्यथा हि ऋग्विधानात्सिद्धेः पृथग्वचनमनर्थकम् ।
?R?0 त्रयीविद्याख्या च तद्विदि-इति ॥
?R त्रयीविद्यशब्दश्च वेदत्रयविदि वर्तते । ततः किं ??R इदं ततो भवति । वेदे ऋगादिशब्दानां प्रयोगो दृष्ट इति । यत्पुनर्वेदान्तरोक्तस्य स्वरान्तरापत्तिरिति विधानान्न दोषः । प्रकरणबाधश्च वाक्यादिष्यत एव । किं पुनः कारणं वेदसंयोगेऽपि प्रकरणं नानुगृह्यते, ऋग्धर्मविधानवत् । उच्यते - ऋचामङ्गत्वात्तद्धर्मः प्रकरणेन गृह्यत इति युक्तं ;?R वेदधर्मत्वे पुनः विधानमुपलक्षणम् । न च तदङ्गमिति यावद्विधानं धर्मविधिः ।
?R?0 गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ॥ 2 ॥
?R ‘’?Rय एवं विद्वानग्निमाधत्ते’’?R इति याजुर्वैदिको विधिः । ‘’?Rय एवं विद्वान् वारवन्तीयं गायति’’?R इति आधानप्रकरणे सामवैदिक इति कृत्वा चिन्त्यते । याजुर्वैदिके भवतूपांशुत्वं, सामवैदिके चोच्चैष्ट्वं, सत्यमेवं यद्यङ्गप्रधानविधी भिद्येते यथात्वभेदः तथा फलवत्सन्निधौ अफलं तदङ्गमित्यत्र वक्ष्यति । अभेदे चोभयवेदविधानात् भवति संशयः । उभयवेदविधानात् विकल्पो भवतु । न विकल्पः संभवति । एवं सति अङ्गविधिरनुवाद इत्यङ्गविधेः प्रधानविधितन्त्रत्वं दर्शयति । तथापि कः संशयः ??R अयमस्ति संशयः - किमङ्गविधिराक्षिप्तस्वविधेय एव प्रधानविधितन्त्रो भवति, उत प्रधानेनैकीभूतो विधेयं विधत्त इति पूर्वपक्षवादी मन्यते । स्वार्थं विधाय प्रयोजनवशात् प्रधानेनैकीभवति वारवन्तीय गायतीत्यस्य यः स्वार्थः । अतः सामवैदिकस्वरयुक्तस्यैवाङ्गभावः । अत्राभिधीयते - विहितस्वार्थ एव प्रधानेनैकीभवति । न पुनरङ्गतामपि विधाय । प्रधानविधिरङ्गतां विधत्त इति सप्तमाद्ये वक्ष्यामः । अङ्गतया च वारवन्तीयस्य प्रयोगः न वारवन्तीयं गायतीत्यस्य विधेर्विषयतया । अतो न स्वार्थविधिः प्रधानविधिं बाधितुमर्हति स्वार्थस्य प्रयोगार्थत्वात् । तदिदमुक्तम् - ‘’?Rगुणस्यानुष्ठानेन मुख्यः सगुणः कथं स्यादिति गुणे प्रवर्तते । गुणप्रवृत्त्या चेन्मुख्यस्य गुणहानिर्भवति गुणप्रवृत्तौ फलमेव नावाप्तं भवति । अथ प्रधानं सगुणं करिष्यामीति गुणे
?Rप्रवर्तमानो गुणस्य गुणं विनिपातयति नास्य स्वार्थो हीयते नासौ गुणं सगुणं कर्तुं प्रवर्तत’’?R इति न गुणविधौ स्वार्थे प्रवृत्तिरित्युक्तं भवति । प्रयोगाङ्गत्वाच्च गुणविधेः प्रधानगुणेन भवितव्यमित्युक्तम् ।
?R ?Rभूयस्त्वेनोभयश्रुति ॥ 3-3-10 अ. 3 ॥
?R स्थितं तावत् प्रधानविधिनिबन्धनो गुणः गुणविधि निबन्धनं गुणं बाधत इति । इदमिदानीं चिन्त्यते - यत्रोभयत्र प्रधानश्रुतिः तत्र क्व प्रधानचोदनेति । यत्र प्रधानचोदना तन्निबन्धनेन गुणेन भवितव्यम् । तत्सिध्यर्थैषा चिन्ता तत्रागृह्यमाणविशेषत्वादुभयत्रेत्युक्त्वा भूयस्त्वेनैकत्र निरूपितं वालव्यजनादिना बहुषु राजप्रतिमेषूपविष्टेषु राजाऽवगम्यत इति दृष्टान्ताभिधानम् । तदिदमुभयमयुक्तम् । क्व भूयस्त्वेन प्रधानस्य प्रयोगाभिधानं दृष्टम् । न च बालव्यजनं श्वेतच्छत्रं वा भूयस्त्वेनावगमयति । किं तर्हि ??R असाधारणतया । तस्मादसंबद्धमेवेदं
भाष्यं मन्यामहे ।
?R अत्राभिधीयते - नेदमसंबद्धम् । भूयस्त्वेन हि प्रयोगावगमस्सूच्यते सकलप्रयोगोऽवगम्यत इत्यर्थः । अल्पाङ्गाभिधाने पुनः न सकलप्रयोगावगतिर्भवति । सकले च प्रयोगेऽवगम्यमाने प्रयोगाभिधानमतिर्भवति । प्रयेयाद्धि प्रमाणानुमानमिति स्थितम् । यदपि च वालव्यजनमुपन्यस्तं तद्गमकसामान्यतया भूयस्त्वेनेति सूक्तम् ।
?R असंयुक्तं प्रकरणात् इति कर्तव्यतार्थत्वात् ॥ अ. 4 ॥
?R ?Rकिमेतावन्त्येव प्रमाणानि ??R कोऽयं प्रश्नः ??R यदि तावत् सूत्रार्थ एव न शक्यते व्याख्यातुं प्रश्नेन विनेत्यभिप्रायः । तदयुक्तम् । प्रश्नेन किमत्र ;?R यदसंयुक्तं तत्प्रकरणेन विनियुज्यत इति ननु केनासंयुक्तमिति न विद्मः । एवं तर्हि एतदेव प्रष्टव्यम् । केनासंयुक्तमिति । क्वेदमुपयुज्यते किमेतावन्त्येव प्रमाणानीति ??R अथायमभिप्रायः । किमिति श्रुत्या लिङ्गेन वाक्येन वा यदसंयुक्तं तत्प्रकरणेन विनियुज्यत इति । किमेतावन्त्येव प्रमाणातीति, तथाप्युत्तरं तावदसंबद्धं अन्यदप्यस्तीति । यद्यन्यदप्यस्ति किमिति तर्हि श्रुत्या लिङ्गेन वाक्येन वाऽसंयुक्तमित्युच्यते । अथाज्ञानमेव नैव श्रुतिलिङ्गवाक्येभ्यः प्रमाणमन्यद्विज्ञायत इति तथापि स्वरूपं वक्तव्यम् । नासंयुक्तं
?Rप्रकरणादिति युज्यते कर्तव्यस्य इतिकर्तव्यताकाङ्क्षस्येति वक्ष्यमाणवद्वक्तव्यम् । अतः प्रश्नोऽर्थेऽनौपयिक इव दृश्यते । अत्राभिधीयते - अयमभिप्रायो भाष्यकारस्य । लक्षणादावुक्तं ‘’?Rशेषलक्षणमुच्यते । श्रुत्यादीनि विनियोगे कारणानि’’?R इति । तत्र तावत् श्रुतिलिङ्गवाक्यैः विनियोज्यं शेषत्वमुक्तं प्रकरणेन विनियोज्यं पुनः किमत्र भविष्यति । ननु च प्रयाजादयः सन्त्येव किमिति प्रश्नः । बाढं प्रश्नार्थः विद्यते प्रयाजादीनां हि एकनियोगलक्षणसंबन्धं चतुर्थे वक्ष्यति दर्शपूर्णमासादिभिः किमत्रान्यत्संबन्धं प्रमाणं मृग्यते । एवं च तद्भूताधिकरण एवोक्तः संबन्धः अन्विताभिधायिभिः पदैः सर्वत्र शब्दार्थावगमे हेतुरिति व्यापकं भवति । प्रमाणान्तरे पुनरन्विष्यमाणे नान्विताभिधाननिबन्धनः शक्यते प्रदर्शयितुम् । प्रकरणादिभिर्हि वाक्यार्थानां संबन्धावगतिः । न च वाक्यार्थस्य वाक्यार्थस्य च संबन्धे पदाभिधानलक्षणः संबन्ध उपपद्यते । अन्वितं हि पदार्थान्तरेण पदार्थमाचष्टे पदं, न वाक्यार्थं वाक्यार्थान्तरेण । अतो दर्शपूर्णमासार्थतया प्रयाजादिवाक्यार्थान्वयं अशाब्दं मन्यमानस्य प्रश्नः ।
?R ननु चैतान्येव प्रमाणातीति अशाब्दं मन्वानस्य प्रश्नेनैव भवितव्यम् न पुनः किमेतावन्त्येव प्रमाणानीव । उच्यते - एतदेवोक्तं यद्यसंयुक्तं न तर्हि विनियोज्यम् । अतोऽसंयुक्तमिति वदता एतावन्त्येव प्रमाणानीत्युक्तं भवति । तस्मात् युक्तोऽयं प्रश्नः - किमेतावन्त्येव प्रमाणानीति । इतरस्तु नावश्यं पदार्थान्तरान्वितमेव शाब्दम् । ऐदमर्थ्येनापि शब्दः संबन्धं प्रतिपादयत्येवेति मन्वानो नेत्युक्तवान् । इतरस्तु पृच्छति ?Rकिमपरं कारणमिति प्रस्नेनैवोपक्रमः पूर्वपक्ष इति, पूर्वोक्तप्रश्नार्थविवरणं का नामेयं नदीति च । न चानिर्ज्ञातनद्यर्थस्यैवोपपद्यते प्रश्न इति प्रकटीकृतः प्रश्नार्थः ‘?Rकथं पुनरसंयुक्तस्यैव विनियोगः’?R । तदिदमैदमर्थ्येलक्षणं कथयति इति कर्तव्यतार्थित्वादिति । ऐदमर्थ्येनापि शब्दः सबन्धं प्रतिपादयत्येवेति ।
?R ननु चैकनियोगलक्षणसंबन्धोऽयमित्युक्तम् । किमिदमितिकर्तव्यतार्थित्वं नाम ??R उच्यते - एकनियोगलक्षण एव संबन्धो नोपपद्यते यदीतिकर्तव्यता लक्षणः संबन्धो न स्यात् । न ह्यंसबन्धविधेयस्य एकनियोगता उपपद्यते विधेयनानात्वात् । उपपद्यते च करणोतिकर्तव्यतया संबन्धः । अन्यत्रापि साध्ये दर्शनात् । साध्यश्चायं नियोगार्थः ।
?Rतस्मादुपपन्नं इतिकर्तव्यतार्थित्वादिति विधेयसंबन्धकारणम् । किमिति तद्भूताधिकरणे वाक्यस्यैवार्थेनौत्पत्तिकः संबन्धो दर्शितः । उच्यते - असूत्रार्थज्ञो भवान् । क्रियार्थेनेति वदता सर्वस्यैवास्य प्रामाण्यं दर्शितम् । तस्मादैदमर्थ्यलक्षणमेव संबन्धं वेदे वेदविदो मन्यन्ते । तत्सिध्यर्थं तु पदार्थानामपि अन्विताभिधानं दर्शितम् । ऐदमर्थ्यमेव हि प्रमाणान्तरत्वे हेतुः । अन्विताभिधानं तु प्रमाणान्तरपूर्वकेष्वपि तुल्यम् देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्येवमादिषु लौकिकेषु वाक्येषु । अतः प्रकरणविनियोज्यमपि शेषत्वमस्तीति सिद्धम् ।
?R ?Rक्रमश्च देशसामान्यात् ॥ सू. 12. अ. 5 ॥
?R अत्रेदानीं कः प्रश्नार्थः ऐदमर्थ्यलक्षणमेव हि संबन्धं वेदविदो मन्यन्त इत्युक्तम् । ननु चैतावन्त्येव प्रमाणानीत्याक्षेपेण भवितव्यं किमिदं ‘?Rकिमेतावन्त्येव प्रमाणानी’?Rति । अत्रोच्यते - अत्राप्यसंयुक्तग्रहणं विषयान्तरप्रदर्शनार्थम् । सत्यमैदमर्थ्यव्यतिरेकेण संबन्धो नास्ति, तथापि प्रमाणान्तरमस्ति ऐदमर्थ्यविशेषावगतौ स्थान सामान्यं नाम तदिदमुक्तं - क्रमश्च देशसामान्यादिति । प्रयोजनं तु दर्शितमेव ।
?R ?Rआख्या चैवं तदर्थत्वात् ॥ सू. 13. अ. 6 ॥
?R अत्रेदानीं प्रश्नार्थो नोपपद्यते ऐदमर्थ्ये सति स्थानवत् विशेषावगमे हेतुत्वात् समाख्यायाः । उच्यते - अस्त्यत्र विशेषः युक्तं तावत्स्थानस्य विशेषावगहेतुत्वं वैदिकत्वात् । समाख्या पुनः लौकिकी । न च लौकिकमभिधानं वेदार्थावगमे हेतुर्भवति । यथा ‘?Rपचति’?R इत्येवमादिषु । अत इदं किमेतावन्त्येव प्रमाणानीति । अत्रोच्यते । समाख्याया लौकिकत्वेपि वैदिकस्यार्थस्य विशेषावगमे हेतुत्वं प्रतिपद्यते । कुतः ??R अभिधानं हि कृत्तद्धितसमासानां संबन्धिनि प्रसिद्धं वैदिकस्यार्थस्य चेदमभिधानं यद्यपि स्वयं लौकिकम् । अतो विशेषमवगमयति । न चेदं स्मृतिवत् प्रमाणान्तरापेक्षं औत्पत्तिकत्वात् शब्दार्थसंबन्धस्य । तस्माद्युक्तं आख्या चैवं तदर्थत्वात् इति यतो विशेषावगमे हेतुः । प्रयोजनमुक्तम् ।
?R श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ॥ 7 ॥
?R ?R?0का पुनरत्र श्रुतिः ??R किं लिङ्गमिति । ?R?0ननु चायं प्रश्नो नोपपद्यते । किमिति नोपपद्यते ??R यस्मात् उक्तानि विनियोगे कारणानि इत्युक्तम् । न चानिर्ज्ञातस्य उक्तता संभवति । तस्माद्विप्रतिषिद्धं ‘’?Rउक्तानि विनियोगे कारणानीति । का पुनरत्र श्रुतिः किं लिङ्ग’’?R इति च ।
?R अथायमभिप्रायः विनियोग एव श्रुत्यादिभिरुक्तो, न पुनः श्रुत्यादीनां स्वरूपमिति । यद्येवं तर्हि वक्तव्यं उक्तः श्रुत्यादिभिर्विनियोग इति । न विनियोगे कारणान्युक्तानीति । किञ्च विनियोगोक्त्या विनियोगकारणान्युक्तानि भवन्त्येव । कार्यतः कारणपरिज्ञानात् । अर्थावच्छेद्यमेव हि शाब्दं विशेषतो भवति । स्वरूपतो वर्णमात्रग्रहणात् । अतो विनियोगोक्त्यापि?R नैव प्रश्नो न घटते । श्रुतिलिङ्गयोश्च स्वरूपमभिधाय पुनर्वाक्यप्रश्ने कोऽभिप्रायो न विद्मः । अथायमभिप्रायः संहत्यार्थमभिधति पदानि वाक्यमिति स्पष्टमेवान्यत्वमुपलभामहे । तस्मादसंबद्धमेवेदं भाष्यमिति अर्थज्ञानमानिनो मन्यते ।
?R अत्राभिधीयते - सत्यमर्थात् प्रमाणावगतिस्तथापि उपपद्यत एवायं प्रश्नः का पुनरत्र श्रुतिरिति । कथमुपपद्यते ??R सत्यं गार्हपत्यश्रवणं श्रुतिः सत्यं च इन्द्राभिधानसामर्थ्यं लिङ्गं तथापि पदान्तर निरपेक्षं नैवोभयं शक्यतेऽवगन्तुम् । ऐन्द्र्या गार्हपत्यः उपस्थातव्य इति । नापीन्द्रपरता मन्त्रस्य । तुल्ये पदान्तरसव्यपेक्षत्वे विशेषं अजानन् पृच्छति - ?R?0का पुनरत्र श्रुतिः किं लिङ्गमिति । ?R?0अथ किमित्यादावेव एतन्न निरूपितं ?R?0श्रुत्यादीनि विनियोगे कारणानी?R?0त्यस्मिन् भाष्य एव । अत्रोच्यते - तत्राप्येतत् उत्सूत्रमेव वक्तव्यम् । इयांस्तु अत्र विशेषः ‘?Rश्रुतिलिङ्ग’?R इत्यस्य सूत्रस्य व्याख्यातव्यतया औपोद्धातिकतया संबद्धमभिधानं भवति । कथं पुनरिदानीं तुल्ये पदान्तरसंबन्धे गार्हपत्यशब्दस्य श्रुतितोच्यते ??R इयमुच्यते पदान्तरसंबन्धस्तु इन्द्राभिधाने गार्हपत्याभिधाने वा अविशिष्टः । गार्हंपत्यश्रवणमेव गार्हपत्याभिधाने व्याप्रियते । ननु द्वितीया व्याप्रियत इत्युक्तम् । सत्यमुक्तम् गार्हपत्यश्रवणे सति । अतः पदस्यैव निदर्शितं न प्रातिपदिकमात्रस्य । एवमिन्द्राभिधानेपि मन्त्रे पदान्तरमुदास्ते । एवं च सति वाक्ये प्रश्नोत्तरमेतद्विवेकायेत्युपपन्नमेव । अतोऽसाधारणप्रतिपत्तिनिमित्ततया संहत्यार्थाभिधाने सत्यपि श्रुतिर्लिङ्गमिति चोच्यते । तस्मादुपपन्नं श्रुतिलिङ्गयोर्विरोधे किमुभयं विनियोजकं
?Rउत श्रुतिरेवेति । प्रकरणप्रश्नाभिप्रायं तु स्वस्थाने वक्ष्यामः, क्रमसमाख्ययोश्च ।
?R ननु चैवं सति वक्तव्यं श्रुतिः लिङ्गं चोभयं प्रमाणं उत श्रुतिर्बलीयसीति । इह पुनः श्रुतिलिङ्गयोः किं श्रुतिर्बलीयसी आहोस्वित् लिङ्गमिति न घटते । यस्मादिदमपि कारणं श्रुतिः लिङ्गमपीति । तस्माद्यथैवोपन्यस्तमस्माभिः तथैवोपन्यसनीयम्, न तु किं श्रुतिर्बलीयसी आहोस्वित् लिङ्गमिति । तुल्यबले एते कारणे इति च पूर्वपक्षहेतुदर्शनात् । तस्मादन्यथैवोपन्यासोऽन्यथैवोपसंहार इति । विरुद्धं फलमप्येवमेवोपन्यस्तम् किमिन्द्रस्य गार्हपत्यस्य चोपस्थानं कर्तव्यं, उत गार्हपत्यस्यैवेति ।
तस्मादुपक्रमोपसंहारयोः साम्यं वक्तव्यम् ।
?R यदपि च एवं तर्हि लिङ्गवाक्ये विरुध्यमाने इह संप्रधार्येते न श्रुतिलिङ्गे इति तदप्ययुक्तमिव, सर्वत्र समवेतं विविक्तं च दृश्यत इत्युक्तत्वात् विवेकस्य । या श्रुतिः सा लिङ्गेन विरुद्ध्यत इति वाक्यं पुनः लक्षणयाप्युपपद्यत एवेत्युक्त्वा अथवेति श्रुत्यन्तरोपन्यासः किमपरितोषात् उत विकल्पार्थ इत्येतदपि नैव ज्ञायते ।
?R उच्यते - यस्तावदुपन्यासः किं बलीयसी श्रुतिः आहोस्विल्लिङ्गमिति तत्रायमभिप्रायः । किं लिङ्गोन्मर्दनेनैव यथा श्रुतिः प्रमाण तथा लिङ्गमपि । यदि च उभयमुभयोपमर्दनेनैव प्रमाणं तदोपपद्यत एवायमुपन्यासः किं बलीयसी श्रुतिः आहोस्विल्लिङ्गमिति ।
?R एतदुक्तं भवति - न विद्मः किं बलीय इति । तस्मादुभयं प्रमाणं उभयप्रामाण्ये चोभयोरभिधानम् । अत एव चानियम इत्युक्तम् ‘’?Rयदि तुल्यबले एते कारणे’’?R इति च विशेषाग्रहणात् । ‘’?Rततो विकल्प’’?R इति । कोऽयं विकल्पः ??R ननु चास्मिन् पक्षे समुच्चय एव । अभिधानविकल्पमङ्गीकृत्यैतदुक्तं न प्रयोगविकल्पम् यदि तु लिङ्गं बलीयः’?R इत्येतदपि भाष्यमुपन्यासवत् द्रष्टव्यम् । एवं तर्हीत्युक्ते विशेषे पुनः प्रश्नः केनाभिप्रायेण ??R न केवलात् गार्हपत्यश्रवणात् तदुपस्थानावगतिः । तावन्मात्रस्य च श्रुतित्वमुपदर्शितम् । तदिदानीं राद्धान्तवाद्यभिप्रायं विवृणोति - सत्यं वाक्यादृते नायमवगमः गार्हपत्यश्रवणात् तदुपस्थानावगतिरिति । याऽत्र श्रुतिरित्युक्तम् इन्द्राभिधानेपि तुल्यत्वात् । कथं ??R बलीयस्यपि हि लिङ्गे ऐन्द्र्योपतिष्ठत इत्येतत् गार्हपत्यशब्देन
?Rसहैकवाक्यतामुपेत्यैव । यदि हि नोपेयात् ततो लिङ्गेन विरुध्येत तस्मात् श्रुतिलिङ्गयोर्विरोधः । अथ वा नात्र एकवाक्यत्वादिति पक्षान्तरोपन्यासः सकलपदप्रदर्शनार्थ इति व्याख्यातम् । किं पुनरत्र युक्तम् ??R उभयत्र स्वार्थावगमात् । लिङ्गादपि लिङ्गार्थोऽवगम्यते श्रुतेरपि हि श्रुत्यर्थः । वाक्यस्य चौदासीन्यात् उभयत्राभिधानमात्रं विरुध्यते । न चाभिधाने कश्चिद्विशेषोऽवगम्यत इत्यतः तुल्यबले एते कारणे इत्युक्तम् । ‘’?R?0ननु लिङ्गस्य भङ्गुरस्येव रूपं सविचिकित्सो हि लिङ्गात्प्रत्यय’’?R ?R?0इति । केयं विचिकित्सा नाम ??R असम्यक् प्रत्ययः । किमत्रासम्यक्त्वम् । नहीन्द्राभिधानात् इन्द्रोऽभिधातव्य इति प्रत्ययो भवतीत्यर्थः । भवति तु गार्हपत्यश्रवणात् विधायकवाक्यगतत्वात् गार्हपत्यशब्दस्य । ननु चाविधायकत्वात् लिङ्गस्य प्रामाण्यमेव नास्ति, कथं विरोध इति । सत्यं - अभिधानसामर्थ्यमात्रं नैव प्रमाणम् - इतिकर्तव्यतावगमे सत्यन्यतो विशेषावगमे प्रमाणं, कर्तव्यतावगमात् प्रकरणादिभिः । कर्तव्यतावगमे चाभिधानमात्रमवशिष्यत इत्युक्तम् । तस्मात् तुल्यबले एते कारणे इति । ‘’?Rबलीयानपि हि हेतुः’’?R इति न च तावत् बलीयान्, अन्वारुह्यापि न विरोधोऽस्तीति मन्यते । ?R?0नन्वयमेव विरोधः सकृत् उपस्थानं चोदितम् असकृदभिनिर्वर्त्यत इति । नैवम् - उपस्थेयभेदात् प्रतिप्रधानमावर्तन्ते गुणा इति न्याय एवैषः न विरोधोऽर्थः । ?R?0ननु चेदं अविरोधोत्तरं न घटते । नह्यत्रोपस्थेयद्वयं श्रूयते ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति गार्हपत्य एवैकः उपस्थेयतया श्रूयते नेन्द्रोऽपीति । तस्मादनुत्तरमिदम् ।
?R उच्यते - प्रकरणात् कर्तव्यतावगमात् इन्द्रपदात् इन्द्राभिधानं प्रतीयत इति मन्वानेन ‘?Rउपस्थेयभेदात्’?R इत्युक्तम् । वाक्यसामान्यात् । एवं तर्हि गौणमुख्यता नोपपद्यत इति पुनर्विरोधोपन्यासः । ननु च प्रतिप्रधानं गुणावृत्तौ सत्यां नैवासौ विरोधो घटते । अविनियुक्तमन्त्रापेक्षोऽयं विरोधः । विनियोगे त्वविरोधः इति सिद्धोऽत्र पूर्वपक्षः ।
?R अत्रोच्यते - ?R?0श्रुतिलिङ्गयोर्विरोधे श्रुतिर्बलीयसी इति । कुतः ??R अर्थविप्रकर्षात् । किमिदं अर्थावप्रकर्षादिति अर्थस्य विप्रकर्षः अर्थविप्रकर्षः ।
?R?0कः पुनरर्थः ??R श्रुत्यर्थः गार्हपत्यमुपतिष्ठत इति सन्निकृष्टः श्रुत्यर्थः । इन्द्रः उपस्थेय इति विप्रकृष्टः । कथं ??R ‘?Rकदाचन स्तरीः’?R इत्यनेन मन्त्रेणेन्द्र उपस्थातव्य इति न श्रूयते । सत्यपीन्द्राभिधानसामर्थ्ये वचनाभावात् अनुपस्थानीयः इन्द्र इत्यवगम्यते । ?R?0ननु पूर्वमेवोक्तं सत्यां कर्तव्यतायां इन्द्राभिधानं प्रमाणं, ततश्चोभयत्राभिधाने तुल्यतैव । अतो द्वयोः प्रामाण्यमिति । किमिदं पुनराक्षिप्तम् समाहितं च ??R ‘’?R?0धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् इति । यदेतत् प्रकरणं लिङ्गं च उभयमप्येतदशाब्दम् । न चातिक्रान्तप्रत्यक्ष एव एवंलक्षणकेऽर्थे शब्दमन्तरेण परिच्छेदोऽवकल्पते । अतो मन्यामहे विप्रकृष्टं श्रुत्यर्थाल्लिङ्गमिति’’?R ?R?0उच्यते - अशाब्दमेतदिति विशेषं प्रदर्शयितुम् । ननु चैवं सति प्रामाण्यमेवास्य हीयते । कुतो विरोधः । अथायमभिप्रायः असति विरोधे स्मृतिवल्लिङ्गस्य प्रामाण्यमिति । तदयुक्तम् । कुतः ??R स्मृतेर्हि अर्थमवगम्य विरोधाद्विपर्ययः कल्प्यते । इह पुनः उपस्थानं नैवावगम्यत इत्युक्तम् । कथमनवगम्यमानेऽर्थेऽनुमानम् । तस्माद्दुर्गृहीतस्तेनसंभाषितवदसंबन्धं प्रतिभाति । पुनरपि कर्तव्यतापेक्षाल्लिङ्गादेवार्थावगतिं दर्शयति । श्रुतिसंभवे वा अवगतिवाक्यसाधारण्ये सति कथमयं विरोष इति वक्तव्यम् । अत्राभिधीयते - कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणमिति प्रकरणादैदमर्थ्यलक्षण एव संबन्धः न पुनः अन्वितपदार्थलक्षण इत्युक्तम् । ततः किम् ??R अन्वितपदार्थलक्षणः संबन्धः पदार्थेभ्य एवावसीयते । ऐदमर्थ्यलक्षणस्तु केवलं कार्यत एवेति न पदार्थान्वये व्यापारोऽवगम्यते । एवमपि को विशेषः ??R अयमस्ति विशेषः - ?Rपदार्थान्वितलक्षणः तस्मिन् सति पश्चात्कार्ययोगः पदार्थान्वयलक्षणस्तु प्रथमत एव । सोऽयमर्थविप्रकर्षः । अन्वयप्रदर्शनार्थं च तार्तीयं प्रमाणष्टकं शेषशेषिविदो मन्यन्ते । स चान्वयः श्रुतौ प्रथमतरमवगम्यत इति न कार्यतः पाश्चात्यायां पदार्थान्वयावगतौ प्रमाणमस्ति । नह्यन्वितस्यान्वयो दृश्यते यतः । तस्मात् सूक्तं लिङ्गात् श्रुतिर्बलीयसीति । आनुमानिकमभिधानं च पदार्थान्वयापेक्षमेव द्रष्टव्यम् । ?Rविकल्पस्य चान्याय्यत्वादिति मन्त्रवाक्यापेक्षम् । नेन्द्रशब्दस्याभिधानद्वयं न्याय्यमित्यभिप्रायः । अतो न विनियुक्तस्य विनियोगो घटत इति प्रदर्शितो हेतुः । यदुक्तमविरोध इति ;?R एवमुक्तो विरोधः
?Rयदुतेन्द्रशब्दस्य मन्त्रवाक्यापेक्षया नाभिधानद्वयमुपपद्यत इति । ऐदमर्थ्यस्यान्वयलभ्यत्वात् श्रुतावुपरता कर्तव्यतापेक्षेति नाकाङ्क्षाद्वयमुपपद्यत इति विरोधः । तदिदमकृतसामर्थ्यत्वं मन्त्रवाक्यस्य नियोगस्य चोक्तं वाक्यप्रकरणशब्दाभ्याम् । अत उपपन्नोऽर्थविप्रकर्षः । ‘’?Rलिङ्गवाक्ययोर्विरोधे किमुदाहरणम् ??R स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि तस्मिन् सीद अमृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः इति’’?R ।
?R?0 ?R?0ननु चार्थविप्रकर्षादित्युक्तो हेतुः सापेक्षनिरपेक्षत्वं च लिङ्गवाक्ययोः ।
?R?0 ?R?0अतः प्रकट एवार्थविप्रकर्षः किमित्यधिकरणान्तरमारभ्यते । न केवलमिदमधिकरणं, सर्वाधिकरणाक्षेप एवायम् । सुज्ञानो ह्यर्थविप्रकर्षः । कथं ??R लिङ्गं तावदुक्तं निरपेक्षत्वादिति । वाक्यमपि पदार्थान्वयावगम्यमानसंबन्धं ऐदमर्थ्यलक्षणात् बलीय इति प्रदर्शितम् । प्रकरणमपि तदपेक्षित्वात् क्रमस्य क्रमाद्बलीयः । एवं क्रमोऽपि संबन्धकृत्तया वेदावगम्यत्वाच्च समाख्याया बलीयानेव । अतो नारम्भणीयान्येवैतानि अधिकरणानीत्यर्थविप्रकर्षज्ञानाभिमानिनो मन्यते । अत्रोच्यते - यत्तावदिदमुक्तं निरपेक्षत्वाल्लिङ्गं बलीय इति । तदयुक्तम् । कस्मात् ??R सकलस्य हि मन्त्रस्य कर्तव्यतावगमात् न केवलात् पदात् कर्तव्यतावगमो भवति । अतो वाक्यमेव प्रथमतरं पदानां परस्परसंबन्धावगमे हेतुः । संबन्धस्य च कार्यावगतिः । तस्माद्वाक्यमेव बलीय इति भवति मतिः । अवश्यं चैतदेवमभ्युपगन्तव्यम् । अन्यथा हि अविरोधिस्योनादिपदान्तरसंबन्धोऽपि निरपेक्षत्वाल्लिङ्गस्य विनियोगे न स्यात् । अतो दुर्ज्ञानोऽयं वाक्यलिङ्गयोः विप्रकर्ष इति प्रारब्धमिदमधिकरणम् । अयमेव च पूर्वपक्षवादिनोऽभिप्रायः पदान्तरसव्यपेक्षं लिङ्गं विनियोजकमित्युभयत्र विनियोगः यत्पुनरिदमुक्तं?R लिङ्गस्य श्रुत्यापि बाधितत्वादिति । कोऽयं हेतुः ??R न हि श्रुत्या बाधितस्यान्येनापि बाध्यता । तस्मात् बालिशभाषितमेवेदं प्रतिभाति । नेदं बालिशभाषितम् । अन्योऽभिप्रायश्चोदकस्य । यथैव श्रुत्या पदार्थान्वयसंबन्धज्ञानकारणत्वेन लिङ्गं बाधितं कार्यैक्यविनियोज्यत्वादेवं वाक्येनापीति पूर्वपक्षितम् । अत्राभिधीयते - यजुषस्तावद्विनियोगः प्रतिपदम् । कार्यतः पुनरैक्यं
?Rपदानां, यावदेकं कार्यं तावदविरुद्धः पदान्तरसंबन्धः । कार्यान्तरे तु प्रत्यर्थिनि न कार्यान्तरसंबन्धिता शक्यते प्रतिपत्तुं प्रतिपदविधानादेव । अत्र हि कार्यतो मन्त्रत्वम् । न मन्त्रतः कार्यं यथा ऋक्षु सामसु च । अतः कार्यनिरपेक्षकेवलपदार्थान्वयसंबन्धितां वाक्यनिबन्धिनीं बाधते लिङ्गम् ।
?R?0 ?R?0ननु च श्रुतावप्येवमेव प्राप्नोति । सत्यं प्राप्नोति यदीदं यजुः स्यात् तत्तु श्रुतिविनियोज्यत्वं ऋक्षु प्रदर्शितम् । ऋचां तु मन्त्रतः कार्यमित्युक्तम् । यजुषां पुनः यत्रापि इषे त्वेति विनियोगः तत्राप्युपादानवशाद्विच्छेदः न पुनः कार्योपादानाभ्यां अन्यो यजुष्ट्वे हेतुरस्ति । तस्माद्युक्तो वाक्यभेदः । यत्पुनरिदं भाष्यकारेण प्रदर्शितं - ‘’?Rननु चैकवाक्यत्वेपि लिङ्गमेव व्याप्रियत’’?R इति । तदयुक्तमिव प्रतिभाति । किमिति, कार्यतोऽत्रार्थनिर्णयः । कुतः ??R न सामर्थ्यमात्रात्, ?Rकार्यसव्यपेक्षं हि सामर्थ्यं लिङ्गमिति निरूपितम् । यदपि च परिहृतं - ‘’?Rअर्थविप्रकर्षोऽत्र बाध्यत्वे हेतुः । अस्ति चैकवाक्यभूतस्य लिङ्गस्याभिधानाल्लिङ्गात् विप्रकर्षः’’?R इति । तदप्ययुक्तमिव । एकवाक्यताहेतोर्लिङ्गस्यालिङ्गत्वादित्युक्तम् । अत्रोच्यते - प्रतिपदं विनियोगात् एकवाक्यतयापि च कार्योपपत्तेः युक्ता लिङ्गताशङ् का । परिहारश्चार्थविप्रकर्षात् । तस्मान्नात्र श्रुतिर्लिङ्गं वाक्यमिति तन्त्रं, विप्रकृष्टं अप्रापकमिति सूत्रार्थः । अतः सिद्धं कार्यभेदाद्वाक्यभेद इति । तर्हि तस्मिन् सीदेति किमालम्बनमिदं ??R पूर्वप्रकृतालम्बनमेवेति ब्रूमः । ननु चैवं सति परार्थतैव पूर्वस्य प्राप्नोति ततश्च वाक्यं बलवदित्युक्तं भवति । नावश्यं परामर्शे तादर्थ्यमेव भवति । अन्यार्थमप्यन्यार्थेनावमृश्यते एव सर्वनाम्नेत्यदोषः । यथा तत्प्रयोजको हेतुरिति, यथा च वेदे एतस्यैव रेवतीष्विति । तस्माद्वलीयोऽभिधानमिति सिद्धम् । अथ ?Rवाक्यप्रकरणयोः कथमिति । किं पुनः प्रकरणं नामेति । कोऽयं प्रश्नः ??R इतिकर्तव्यतार्थित्वादित्येवं निर्ज्ञाते प्रकरणे न विद्मः किमर्थोऽयं प्रश्न इति । अत्रोच्यते - इति कर्तव्यतार्थित्वादित्युक्तम् । न विद्मः कस्येयमिति कर्तव्यतार्थितेति । यस्येयमितिकर्तव्यताकाङ्क्षा तदत्रोच्यते - कर्तव्यस्येति नियोगार्थस्येत्यर्थः । तस्येतिकर्तव्यताकाङ्क्षस्य येयं तृतीयाकाङ्क्षा तत्प्रकरणं तेन बिनियोगः । तद्विनियोगे कारणं न कर्तव्यतामात्रं नाप्यन्यत् । तस्मादुपपन्नः प्रश्नार्थः,
?Rउत्तरं च ।
?R?0 ?R?0इदानीं वाक्यप्रकरणयोः विरोधे ‘’?Rतुल्यबले एते कारणे’’?R इति कोऽभिप्रायः ??R कार्यार्थत्वादन्वयस्य उभयं कार्येण विनियुज्यत इति । यद्वा कार्यादृतेऽन्वयस्य बाधितत्वात् प्रकरणमेव बलीयः । तत्प्रत्ययत्वाद्वाक्यस्य । एवं मन्वानेनोक्तं वाक्यस्य बाधितत्वादिति । अत्रोच्यते - अत्राप्यर्थविप्रकर्षादित्युक्तो हेतुः । कथमर्थविप्रकर्षः उक्तः ??R कार्यार्थतयान्वयः कल्प्यः । न च क्लृप्तान्वयस्य कार्यार्थत्वे सिद्धेऽन्वयान्तरं विनियुक्तविनियोगविरोधात् लिङ्गवच्छक्यते प्रतिपत्तुम् । तस्माद्वाक्यं बलीयः । दुर्ज्ञानविप्रकर्षज्ञापनायाधिकरणप्रपञ्चोऽयं लिङ्गवत् सर्वत्र द्रष्टव्यः । उदाहरणमुक्तम् । ‘’?Rअथ प्रकरणस्य क्रमस्य च विरोधे किमुदाहरणम्’’?R इति । अत्रापि पूर्वपक्षवादी मन्यते क्रमप्रकरणयोस्तुल्यबलत्वमित । कथं ??R भाष्यकारस्तावत् अज्ञानमेव व्यपदिशति?R । किमज्ञानात्तुल्यबलत्वं सिध्यति ??R ज्ञानस्य हि तुल्यबलत्वं अतुल्यबलत्वं वा विषयः नाज्ञानस्य । ननु चाज्ञानमपि प्रमाणतयोपन्यस्तमेव । न, व्यवहारमात्रं तदित्युक्तम् । प्रमाणान्तरप्रमेयाभावमात्रं प्रमेयम् । इह तुल्यबलत्वं अतुल्यबलत्वं च न प्रमाणान्तरप्रमेयभावमात्रं शक्यते वक्तुम् । कथं तर्ह्येतद्भाष्यं ‘’?Rन तावद्विशेषमुपलभामह’’?R इति । भाष्यकार एवात्र प्रष्टव्यः ।
?R अत्रोच्यते - दुर्विदग्धवचनमात्रमिदम् । अयमभिप्रायो भाष्यकारस्य । नात्रानयोर्विशेषो ज्ञायत इति सर्वत्र प्रकरणानुस्यूतेः क्रमोऽपि कार्यवानवगम्यते एव । कार्यतश्च सन्निधिरन्वितमवगमयतीति । प्रत्युत प्रकरणमेवात्र बाध्यतयावगम्यते । विशेषोपसंहारात् सन्निधेः । न हि क्लृप्तस्य सन्निधेः कल्पना शक्यते वक्तुम् । अन्वयस्येव । तत्पुनरिदमन्वारुह्यवचनमित्युक्तमाधस्त्येऽधिकरणे । सर्वत्र चैवं द्रष्टव्यम् । अत्रोच्यते - क्रमात्प्रकरणं बलीयः । कुतः ??R न ह्यनाकाङ्क्षितस्य क्रमः संबन्धे हेतुः । सन्निधिमात्रं हि क्रमः । न च सन्निधिमात्रात् संबन्धो भार्या राज्ञः पुरुषो देवदत्तस्येतिवत् । आकाङ्क्षा च प्रकरणवतां तुल्येति सर्वप्रधानसंबन्धो विदेवनादीनाम् क्रमाद्धि आकाङ्क्षा, आकाङ्क्षातोऽन्वयः अन्वयाच्च तादर्थ्यमिति । सोऽयमर्थविप्रकर्षः । यदुक्तं क्रमादाकाङ्क्षोपसंहार इति तदयुक्तम् । सर्वार्थत्वेपि कस्यचित्सन्निधानमवश्यंभावीति
?Rपाठार्थमेव तत् । बाधितस्य ह्यनुग्रहो न्याय्य इत्युक्तम् । ‘’?Rप्रकरणवतः साकाङ्क्षत्वात् सन्निधाने चाम्नातेन परिपूर्णेनाप्यवकल्पत एकवाक्यत्वं इति । किमिदं परिपूर्णेनापि इति ??R एतदुक्तं भवति - न चेत्क्रमः प्रकरणं एकवाक्यतैव नास्ति । ननु आकाङ्क्षा सन्निधिर्योग्यत्वमिति चैकवाक्यत्वे हेतुः । सत्यं वाक्यार्थावगतौ, इह पुनर्वाक्यार्थस्य वाक्यार्थस्य च संबन्धः । स चेतिकर्तव्यतार्थितयैव संबध्यत इत्युक्तम् । क्रमः पुनः वाक्यार्थस्य च सन्निधानमित्युक्तम् । यथा भार्याराज्ञः पुरुषो देवदत्तस्येत्यत्र प्रदर्शितम् । ‘’?Rअथ क्रमसमाख्ययोः कथं ?’’?R क्रमो ह्यकाङ्क्षावतः सन्निधौ भवति विशेषावगतौ हेतुः । समाख्या पुनः विशेषनिमित्तैवेति तुल्यबले एते कारणे इति । तस्मादुभयं विनियोजकम् ।
?R अत्राभिधियते - क्रमो बलीयान् वैदिको ह्यसौ सन्निधिः । समाख्यापुनर्लौकिकी । ननु चैवं वदता समाख्या नैव प्रमाणमित्युक्तं भवति । मैबं वोचः अर्थविप्रकर्ष एवानेन प्रकारेणोच्यते । कथं ??R समाख्या हि संबन्धनिमित्ता सती सन्निधानाद्यवगमयति । क्रमः पुनः स्वयमेव सन्निधिः । न च प्रत्यक्षस्य सन्निधेः पुनः सन्निधानान्तरकल्पना घटते इति सोऽयमर्थविप्रकर्षः कथं तर्हि समाख्या ??R समवायादिभिः उपपद्यते ब्राह्मणग्रामवत् ।
?R ‘’?Rअथ यत् तत्र तत्राभिधीयते इदमनेन बाध्यं इदमनेन बाध्यमिति तत्र यद्बाध्यते किं तद्बाधकविषयं प्राप्तं उताप्राप्तमिति’’?R । कस्य व्याख्यानमेतत् ??R न कस्यचिदपीति ब्रूमः । किं तर्हि अनेन अत्र क्रियते । भाष्यकार एवात्र प्रष्टव्यः । अत्राभिधीयते - श्रुत्यादीनां बलाबलचिन्ताशेषभूतमिदं भाष्यम् । कथं कृत्वा ??R बलाबलचिन्ता हि बाध्यापेक्षिणी । तदिदानीं बाध्यं किं बाधकविषयं प्राप्तं सत् बाध्यते उताप्राप्तमिति । उभयथाऽभिहितो दोषः । ननु च प्राप्तबाधो दशमे दर्शित एव । किमिति प्राप्तौ सत्यां विरोधो दर्शितः । उच्यते - कार्यतः प्राप्तौ न दोषः ।
?R इहोपदेशश्चिन्त्यते । उपदेशेन च प्राप्तिः दुर्बाधेति तत्रैव दशमे प्रदर्शयिष्यामः । इह कस्मात्तन्न प्रदर्श्यते ??R प्रदर्शितमेव ‘’?Rप्रतिप्रधानमावर्तन्ते गुणा’’?R इति । कथं प्रतिप्रधानावृत्त्यभिधानेनाबाधः प्रदर्शितो भवति । द्वयोः प्रामाण्याभ्युपगमेन प्रतिप्रधानाभिधानात् । प्राप्तेश्चाविशेषात् । तस्मात् अयुक्तमिदमनेन बाध्यमिति अप्राप्तेऽपि
?R। अत्रेदानीमुपदेशबाधविदोऽभिदधति । सामान्यतः प्राप्तिं मन्वाना विशेषमपश्यन्तः स्मृतिप्रमोषनिमित्तं प्राप्तिज्ञानं व्यपदिशन्ति शुक्तिकायामिव रजतज्ञानम् । विशेषावगमात्तु तत्तेषां निवर्तत इति बाधशब्दः । ननु चायमुक्तो बाधः प्रथमपाद एव ‘?Rयस्य च दुष्टं करणं’?R इत्यत्र किमिति पुनरुपन्यस्त ??R ।
?R अस्त्यत्र विशेषः तत्र हि शुक्तिकार्थस्याग्रहणात् रजते च स्मरामीति प्रमोषात् व्यपदेशसिद्धिः । इह पुनरागमिकत्वेन द्वयस्यापि तुल्यतापत्तिर्भवत्येवेति पुनरारब्धम् । किं पुनरागमिकत्वे द्वयस्यापि तुल्यतापत्तिः । तुल्यतापत्तौ वा बाधः । अत्रोच्यते - स्वतो विपर्ययाभावात् । न शुक्तिकादिष्विव स्वयमेव वियर्पयो भवति अपरीक्षित- कारणस्वभावस्यापि । इह पुनः कारणपरीक्षाद्वारको विपर्यय इति प्रारब्धमिदमधिकरणम् । तद्विशुध्यर्थं चेदं भाष्यम् । सोऽयं अप्राप्तबाध इति सूक्तम् ॥ 8 ॥
?R ॥ 6 ॥ अहीनो वा प्रकरणाद्गौणः ॥ 15 ॥
?R इदमिदानीं चिन्त्यते - किं नियोगसन्निधिर्बलीयान् उत विनियोगसन्निधिरिति । पूर्वपक्षवादी कार्यार्थत्वाद्विनियोगस्य प्रकृतकार्यसंभवे प्रकृतकार्यसंबन्धो युक्त इति मन्यते । कथं तर्हि विनियोगः ??R कार्यार्थत्वात्, तदनुगुणो व्याख्यायते । एवं तर्हि प्रकरणाद्वाक्यं दुर्बलमित्युक्तम्, न, सन्निधानाविशेषे हि वाक्यं बलीयः । यत्र पुनः कार्यसन्निधिरेव नास्ति किं तत्र वाक्यं करिष्यति । तस्मात्
कार्यानुगुणैव पदार्थव्याख्येति युक्तं न हीयत इत्यहीनः ।
?R ?Rअसंयोगात्तु मुख्यस्य तस्मादपकृष्यते ॥ 16 ॥
?R अत्र भण्यते - उक्तमस्माभिः पदार्थान्वयः संबन्धकारणं कार्यतोऽप्यन्वय एवावगम्यते । न चान्वयावगमे प्रतीतान्वयत्यागो युक्तः । न च दृष्टे हस्तिनि तत्पादेनानुमानं संभवति । तस्मादप्रतिपक्षमेव पदार्थव्याख्यानं युक्तम् । पदार्थ एव हि पदार्थप्रतिपक्षो भवति न पुनः कार्यम् । अन्यथा हि अर्थवादपदानामपि कर्तव्यताभिधानतैव स्यात् । तस्मादहीनस्येति क्रत्वन्तरार्थतैव न्याय्या ।
?R ननु च तुल्यमेवात्र श्रौतत्वं एकत्र न हीयत इत्यहीतः अन्यत्रान्हां समूह इति । किमस्माकमनया चिन्तया । एकत्र श्रौतोऽन्यत्र गौण इति कृत्वा चिन्तितम् । न चेदत्र
?Rसंभवति उदाहरणान्तरं संभविष्यति । यद्वा रूढिं मन्यते भाष्यकारः सत्रेष्वदर्शनात् । व्युत्पत्तिमात्रं तद्धितविधिः शुनश्शेपादिषु समासविधिरिव । तस्मादिदमप्युपपद्यत एवोदाहरणम् ।
?R ॥ 9 ॥ द्विबहुत्वयुक्तं चोदनात्तस्य ॥ 17 ॥
?R ननु चैव पूर्वेणैवाधिकरणेन गतमिदम् । न हि प्रतीयमानान्वयत्यागो युक्तः कार्यानुरोधेनेति । सत्यम् - किन्तु अस्त्यत्राधिकाशङ् का । यथाशक्तिप्रयोगे नित्ये कर्मणि यजमानान्तरप्रवेशमपि मन्यते पूर्वपक्षवादी । पत्न्यभिप्रायं चैकशेषाभिधानम् तस्मादनुत्कर्षः ।
?R न प्रकृतेरेकसंयोगात् ॥ 19 ॥
?R अत्राभिधीयते - यजमानान्तरप्रवेशस्तावन्न संभवति । कुतः ??R यजमानस्य हि यथा शक्नुयादित्युच्यते । तत्र यन्न संभवति तस्यैव गौणार्थता, त्यागो वा, न पुनर्यजमानान्तरोपादानेन संपत् । सति चैवं न यजमानद्वित्वं बहुत्वं वा भवति प्रकृतौ । यदप्युक्तं पत्न्यभिप्राया द्वयोर्यजमानयोः बहुभ्य इति
चाभिधानोपपत्तिरिति । तदप्ययुक्तम् । तस्मान्न पत्न्यभिप्राय इति इतरेतरयोगो घटते ।
?R आधाने तु लक्षणया, असंभवात् श्रौतस्य यथा च पत्न्या सहेतरेतरयोगो नास्ति यागे तथा षष्ठे वक्ष्यामः । सत्रिणामेव हि सः । तस्मादत्रापि पूर्ववदुत्कर्षः ।
?R ॥ 10 ॥ जाघनी चैकदेशत्वात् ॥ 20 ॥
?R केन पुनः प्रसङ्गेनेदमधिकरणमायातम् ??R अनेन प्रसङ्गेन । स्थितं तावत् प्रकरणात् वाक्यं बलीयः सन्निधाने चासन्निधाने च कार्यस्य । अत्रेदं सन्दिह्यते - किमयं वाक्यार्थ उतायं इति वाक्यार्थ एव संशयः । किं जाघन्युद्देशेन पत्नीसंयाजा विधीयन्ते उत विपरीतमिति । पूर्वपक्षी तावत जाघन्युद्देसेन पत्नीसंयाजविधानं मन्यते । कुतः ??R एवं श्रौतोऽर्थोविहितो भवति । अन्यथा हि वाक्यार्थविधानं स्यात् । ननु चास्मिन् पक्षे वाक्यार्थ एव विहितो भवति अन्यदन्यस्मिन्नुच्यते । अनभिज्ञो भवान् वचनव्यक्तीनाम् । न ब्रूमो वाक्यार्थस्य विधिसंबन्धो नास्ति इति किं तु न विधेयो वाक्यार्थः । एतदुक्तं भवति - न सन्निकृष्टत्यागेन विप्रकृष्टार्थविधानं युक्तमिति । अयं चापरो लाभः जाघन्या
?Rपशूपादानकल्पना न कृता भवति । तस्मादत्राप्युत्कर्षः ।
?R चोदना वाऽपूर्वत्वात् ॥
?R अत्राभिधीयते - जाघन्येवात्र पत्नीसंयाजेषु विधीयते । कुतः ??R यागविधाने हि पत्न्यर्थो विधातव्यो भवति । ननु चात्र पत्नीसंयाजाश्चोदकेन संनिहिता एव । सत्यम् - विधीयमानत्वेन तु प्रकरणान्तरे प्रयोजनान्यत्वमिति कर्मान्तरापत्तिः । ननु चासन्निधानं तत्र कर्मान्तरत्वे हेतुः न विधीयमानता, न चानन्यार्थत्वमत्र, जाघनीयसंबन्धार्थत्वाद्वाक्यस्य । तस्मान्नायं वाक्यभेदपरिहार उपलभ्यते । उच्यते - अनभिज्ञो देवानां प्रियः शास्त्रभेदस्य । विधानसन्निधिर्हि विहितविधाने भेदमुपरुणद्धि, न पदार्थमात्रसन्निधिः । उद्देश्यत्वे हि भवति पदार्थमात्रसन्निधिरप्यवगमहेतुः, पदार्थमात्रसव्यपेक्षत्वात् उद्देश्यभावस्य । तस्माद्युक्तो वाक्यभेदः । यत्पुनरिदं भाष्यकारेणोभयथा संबन्धिविधानमुपन्यस्तं तत्किमर्थम् ??R उच्यते । नान्तरीयकसाक्षाद्विधानविवेकप्रदर्शनार्थम् । प्रदर्शनमिदानीं किमर्थं ??R अन्यतराप्राप्त्यर्थं नेह प्रकरणे उभयस्यावाप्तिरुपपद्यते । तस्मात् अन्यतरद्विधेयम् । सा च जाघन्येव, पत्नीसंयाजानां प्राप्तत्वात्तस्मादनुत्कर्षः । यत्पुनरिदमुक्तं न पशुं प्रयुङ्क्त इति अस्मदीयेपि पक्षे लौकिक्याः प्रयुक्तेर्विद्यमानत्वात्तुल्यम् ।
?R ॥ 11 ॥ ?Rसन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् ॥ 24 ॥
?R अत्राप्युत्कर्षाशङ् का दीर्घशब्दस्यानन्वयात् । धृत्या इत्यर्थवादानुपपत्तेश्च । अनुत्कर्षवादी तु लतादैर्घ्येणाप्यनुवादं मन्वानः दीर्घस्य वा सोमस्य इति प्रकृतावेवैतद्विधानमिति मन्यते । राद्धान्तवादी पुनः सोमापेक्षैवात्र दीर्घता मन्तव्या न लतापेक्षेति च नातिरेकाद्विनाऽर्थवादोपपत्तिः इति संस्थास्वित्युक्तवान् । ननु चास्मिन्नपि पक्षे प्रकरणादुत्कर्ष एव । संस्था हि विकाराः । यागाभिप्रायोऽयमुत्कर्षः कार्यापेक्षया तूत्कर्ष एवेत्यदोषः । यत्पुनरिदमुक्तं सीसेन क्रीणातीतिवद्विकल्प इति । ननु च तत्र समुच्चयोऽनयोः न विकल्पः दशभिरेव क्रीणातीति । बिधानविकल्पमङ्गीकृत्यैतन्निदर्शनम् , न प्रयोगविकल्पम् ।
?R ॥ 12 ॥ ?Rसङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् ॥ 32 ॥
?R वाक्यार्थसमवायापेक्षिणी प्रकरणादुत्कर्षचिन्ता गता, इदानीमभिधानविप्रतिपत्तिर्वाक्य एव चिन्त्यते - किमयं प्रथमशब्दो ज्योतिष्टोम एव वर्तते उत ज्योतिष्टोमप्रयोग इति । ‘?Rएष वाव प्रथमो यज्ञो यज्ञानां’?R इति श्रवणाद्धि स्पष्टैव यज्ञवचनता गम्यते ‘’?Rएवं च प्रकरणमनुग्रहीष्यते’’?R इति प्रतिषेधविध्यभिप्रायं तत् ।
?R ?Rनैमित्तिकं वा कर्तृसंयोगात् लिङ्गस्य तन्निमित्तत्वात् ॥ 33 ॥
?R अत्राभिधीयते - सत्यमस्मात् प्रयोगात् अवगम्यते किन्तु य एतेनानिष्ट्वाऽथान्येन यजेतेति प्रयोगादपि प्राथम्यमवगम्यते नानिष्ट्वाऽथान्येन यजेतेति । कथं ??R कर्तृसंबन्धितया श्रूयमाणत्वात् । कर्तुश्च प्रयोगेण संबन्धो न प्रयोज्येन । प्रयोगपरे च वाक्ये एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम इति श्रुतिः न पुनः प्रयोज्यनिष्ठा । क्वचिदस्य प्रयोगोऽवगम्यते ज्योतिष्टोमशब्दस्यैव । अतः प्रयोग एवायं इति न प्रथमे प्रयोगे प्रवृञ्ज्यादित्यर्थः । यज्ञशब्दश्च प्रयोज्यविषयत्वात् प्रयोगेऽप्युपपद्यत एव । प्रथमप्रयोज्यो यज्ञानामित्यर्थः । एवं च प्रकरण एव प्रवर्ग्यविधिरुपपन्नो भवति ।
?R ॥ 12 ॥ ?Rपौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ ॥ 34 ॥
?R पौष्णं पेषणं उत्तरविवक्षयेत्युक्तम् ।
?R ॥ 13 ॥ ?Rतत्सर्वार्थमविशेषात् ॥ 35 ॥
?R इदमिदानीं चिन्त्यते किं यावत्पौष्णं तत्सर्वं प्रपिष्टं कर्तव्यं उत चरुरेवेति । तत्र पूर्वपक्षवादी विशेषाग्रहणात् सर्वार्थमिति मन्यते । ननु च पुरोडाशे प्राप्तत्वात् न शक्यते विधातुं ;?R न, पौष्णतया अप्राप्तेः तस्मात् सर्वार्थम् । ननु हृदयाद्याकृतिविनाशः पशौ भवतु, वचनात् । किमिव वचनं न कुर्यात् । अत्रोच्यते - पुरोडाशे तावत् प्राप्तत्वान्न विधिः । ननु पौष्णतयाऽप्राप्तिरित्युक्तम् । कार्यत एव प्राप्तिरिष्यते न संबन्धितया अन्यथा ह्यर्थवादपदानामपि कार्यार्थतैव स्यादित्युक्तम् । ननु चैवं सति प्रकरणाद्वाक्यं दुर्बलमित्युक्तम् । कार्ये सत्यन्वयकल्पना, अतो बलवत्ता उक्ता वाक्यस्य । तस्मान्न विधानं पुरोडाशे संभवति । पशौ तर्हि संभवति । न हि । तर्हि सापेक्षत्वप्रसङ्गात् शास्त्रस्य । न च निरपेक्षे संभवति सापेक्षाश्रयणं युक्तमित्युक्तं शब्दविद्भिः । तस्मात् चरावेव पेषणं शब्दात् प्रतीमः । यत्पुनरिदमुक्तं ?Rयद्यपीत्येवमादिना भाष्यकारेण एवमपि
?Rसापेक्षत्वं नैव परिहर्तुं शक्यत इत्यभिप्रायः । अन्वारोहमात्रं चैतत् । पूर्वमेव ह्युक्तो हेतुः । ननु च चरावपि चरुतैव हीयेत विशदसिद्धौदने प्रयोगदर्शनात् । न, पिष्टकचरावपि पक्तिसामान्यात् इत्यभिहितः चरुशब्दप्रयोग इति चरावेव पेषणमिति सिद्धम् ।
?R ॥ 15 ॥ ?Rएकस्मिन्नेकसंयोगात् ॥ 39 ॥
?R अत्र भाष्यकारेण इन्द्रपीताग्नेयशब्दाभ्यां विशेषो दर्शितः पूषा प्रपिष्टभागो भवतीति । तथा अदन्तको हीति हेतुवचनं सोमापौष्णे नेमपिष्टश्चरुरिति । सोमापौष्णे नेमपिष्ट इत्यनुवादो युक्तः । नेमपिष्टविधाने हि पौष्णोपलक्षणात् चरुरित्यविवक्षितं स्यादित्येवमाद्यधिकाशङ् कानिराकरणार्थमिदमधिकरणम् । अत्रोच्यते - कथमासामाशङ्कानां निराकरणं ??R कार्यप्रयुक्तत्वाद्धर्माणामित्युक्तो हेतुः । कथं पुनः कार्येण संबन्धो देवतापदयुक्तानां भवतीति निष्प्रयोजनत्वाद्देवतायाः कार्यार्थत्वाच्च यागस्येति लक्षणोपपद्यते । देवता चेदुपलक्षणं न द्विदेवताकेषूपलक्षयितुं क्षमः । अदेवता हि सा तत्र । अदन्तकत्वादीनां तु हेतुवन्निगदत्वेनार्थवादत्वमुक्तम् । अर्थवादाश्च गुणवादेन व्याख्येयाः । नेमपिष्टशब्दस्य न्यायापेतत्वात् द्विदेवताकेषु विशिष्टविधानं भविष्यति । तस्मादेकदेवताकेषु पेषणमिति सिद्धम् ।
?R?0॥ इति बृहत्यां तृतीयाध्यायस्य तृतीयः पादः ॥
?R?0तृतीयाध्यायस्य चतुर्थः पादः ॥
?R ॥ 1 ॥ ?Rनिवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् 3-4-1 ॥
?R कथं पुनः विधिना त्वेकवाक्यत्वादिति स्थितेऽर्थवादत्वे पुनर्विधानाशङ्का । एकवाक्यत्वे हि न विधिद्वयमवकल्पत इति न निवीतत्वादिविदिसंभवः । पाक्षिकीं प्राप्तिं मन्वानो विधिं मन्यत इति चेत् । तदप्ययुक्तम् । तस्यापि वचनान्तरेण प्राप्तत्वात् उपपद्यत एवार्थवादः । उच्यते - प्रकरणाङ्गतयाऽप्राप्तिं मन्वानेनेदमधिकरणं चिन्तितम् । विधानेपि प्रकरणाङ्गता न संभवतीति स्थितमर्थवादत्वम् । ननु चातिथ्यादावप्राप्तिर्विद्यत इति युक्तम् । न । तदन्वयानवगमात् । मनुष्यमात्रसंबन्धितायां तु प्रायादिभिरुपपन्नत्वात् अर्थवादतैवेति सिद्धम् ।
?R ॥ 2 ॥ ?Rदिग्विभागश्च तद्वत्सम्बन्धस्यार्थहेतुत्वात् ॥ 3-4-10 ॥
?R ॥ 3 ॥ परुषिदितघृतपूर्णविदग्धं च तद्वत् ॥ 3-4-11 ॥
?R तद्वदित्ययमतिदेशः किमभ्यधिकं पस्यतः ??R अन्यथा ह्युपवीते प्राप्तिः, अन्यथा दिक्षु, अन्यथा परुषि दिनादिष्विति विशेषप्रदर्शनार्थोऽयमतिदेशः ।
?R ॥ 4 ॥ ?Rअकर्मक्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात् ॥ 3-4-12 ॥
?R उक्तं निवीताधिकरणेन क्रतुधर्मतया निवीतादि प्रतीयते मनुष्यश्रवणादिति । प्रायेण च प्राप्तत्वादनुवाद इति । अत्रापीदानीं तद्वदेवानुवादं मन्वानस्य पूर्वः पक्षः । ननु च तत्र मनुष्यशब्दश्रवणाद्युक्तोऽनुवादः प्रायिकीं च प्राप्तिमाश्रित्य अर्थवादः । उच्यते । अत्रापि पूर्वप्राप्तप्रतिषेधात् गम्यत एव पुमान् यस्यासौ प्रतिषेधः । प्रतिषेधशास्त्रे हि सर्वत्र प्रतिषिध्यमानक्रियाकर्तुरेवाधिकारः अतः पूर्वप्राप्तस्यैवायमनुवादः । विद्यते च प्राप्तिः अर्थतः । प्राप्तिमात्रतया च प्रतिषेधोपपत्तेः न प्रकरणार्थता । ननु चायमनुवादः कस्य विधेः शेषः ??R न कस्यचिदपीति ब्रूमः । प्राप्तिरनुवादत्वे हेतुः नार्थवादता ।
?R एकवाक्यत्वेन हि अर्थवादो भवति न प्राप्तिमपेक्षते यथा जर्तिलयवाग्वा जुहुयादिति । तस्मान्नानुवादः । ननु चेदं श्रुतिवाक्यं तस्याः स्मृतेर्मूलं भविष्यति । न भवितुमर्हति । अत्र हि श्रूयमाणस्य प्रकरणार्थताऽवसीयते न पुरुषार्थता अनुवादपक्षे पुनः पुरुषार्थतयैव प्राप्तेः सिद्धा पुरुषार्थता । ननु च क्रत्वर्थतयावगम्यमानस्य कथं पुरुषार्थतयाऽनुवादो युक्तः कल्पयितुम् । उच्यते - क्रतुरपि हि पुरुपार्थ एव । अतस्तत्संबन्धितयापि पुरुषस्येच्छातः प्राप्नोत्येवानृतवदनमिति न दोषः तत्संबन्धावगतेः । उपनयोत्तरकालभावित्वाच्च क्रतूनां सिद्धोऽनुवादः ।
?R ?Rविधिर्वा संयोगान्तरात् ॥ 3-4-13 ॥
?R अत्राभिधीयते । आयुष्मतैवोक्तं न स्मृतिवाक्यस्येदं मूलतां प्रतिपद्यत इति । एवं चेत् त्वयैवेदं संयोगान्तरमभ्युपगतं संयोगान्तरत्वे च नानुवादः शक्यते वक्तुम् । ननु च प्रतिषेधे प्रतिषिध्यमानक्रियाकर्तुरेवाधिकार इत्युक्तम् । सत्यमुक्तम् । न तु तत् प्रकरणे शक्यते वक्तुम् । किमिति ??R पदार्थमात्र एव प्रतिषेधोपपत्तेः लौकिकेषु पुनः पुरुषेच्छात एव प्रवृत्तिर्विषयतां प्रतिपद्यते प्रतिषेधस्येति तत्कियाकर्तुरेवाधिकारो युक्तः । इह पुनः
?Rक्रत्वर्थतयैव प्रवृत्तिर्गम्यते पदार्थस्येति न तस्य कर्तुरधिकारः शक्यते वक्तुम् । ननु च कर्तैवाख्यातेषु प्रधानतयावगम्यते । नियोगाभेदात्तु प्रयाजादीनामङ्गत्वमवगम्यते । सवेषामेकफलानुबन्धत्वात् । संस्कारकर्मणामपि क्रत्वर्थस्य संस्कार्यतयाऽवगतेः युक्तैवाङ्गता । प्रतिषेधे पुनः प्रतिषेध्यस्य अक्रत्वर्थत्वात् आख्यातेन च कर्त्रभिधानात् कर्तुरेव प्रतीयते । न च तत्संबन्धावगतिर्विरुद्धा । क्रतोरपि पुरुषार्थत्वात् उपनयनोत्तरकालभावित्वाच्च तदर्थप्रतिपत्तेः सिद्धोऽनुवाद इत्युक्तम् ।
?R अत्रोच्यते - स्यादेतदेवं यद्याख्यातानां कर्ताऽभिधेयः स्यात्, न पुनराख्यातानां कर्त्रभिधानशक्तिः शक्यते कल्पयितुम् । क्रियाभिधानादेव सर्वकारकावगतेः । कथं तर्हि भगवतः पाणिनेः सूत्रं लः कर्मणि च भावे चाकर्मकभ्यः चकारात् कर्तरि चेति । सङ्ख्याविधानार्थमेतदिति प्रदर्शितम् । सङ्ख्याविशेषविधानाश्रयं च यक् शबिति च । अन्यकारकसङ्ख्याभिधानमिदानीं किमिति न भवति ??R तुल्येऽवगम्यमानत्वे । न लोकः पर्यनुयोक्तुं शक्यते । दुर्जयो हि महाजनः ;?R लौकिकप्रयोगमूलं चेदं शास्त्रं भगवतः पाणिनेः प्रयुक्तस्य हि नियममाचष्टे । नाप्रयुक्तस्याभिधानम् । तस्मादपर्यनुयोगोऽयम् । अतः क्रत्वर्थपदार्थमात्रप्रवृत्त्याश्रयमेवेदं प्रतिषेधशास्त्रम् । ननु च प्रतिषेध्यगता प्रवृत्तिः न क्रत्वर्थेत्युक्तम् । अचोदितत्वात् । नैव तादर्थ्येन चोदितत्वं संबन्धहेतुः उपकारकतयापि संबन्धितोपपद्यत एव । संबन्धिनि च विधिः क्रत्वर्थो भवतीत्युक्तं पयो ब्रतं ब्राह्मणस्येत्येवमादिषु । ननु चोपकारकविषयतया प्रतिषेधस्य क्रत्वर्थपुरुषार्थयोर्न कश्चिद्विशेषः । यथास्ति विशेषस्तथोक्तम् ।
?R ॥ 5 ॥ ?Rअहीनवत्पुरुषधर्मस्तदर्थत्वात् ॥ 3-4-14 ॥
?R कः पुनः निवीतं मनुष्याणामित्यनेन विशेषः जञ्जभ्यमानस्य ??R अयमस्ति विशेषः नार्थवादात् परिहारः संभवति । अवाक्यशेषत्वात् । नाप्यनुवादो नानृतं वदेदितिवत् । नाप्यत्रार्थप्राप्तस्य विषयत्वसंभवो नानृतं वदेदितिवत् । न हि जञ्जभ्यमानता कदाचिदपि प्राप्नोति अनृतवदनवत् । तस्माज्जञ्जभ्यमानमात्रस्य मन्त्रविधानमिदं न प्रकरणेऽवस्थापयितुं शक्यते । ननु चैवं सति फलकल्पना स्यात् । भवतु वचनात्, को दोषः ??R अतो वाक्यात् प्रकरणबाधः सिद्धो यथा द्वादशाहीनस्येति । अत्राभिधीयते - न
?Rफलकल्पनामर्हत्येतद्वचनम् । कुतः ??R वाक्यं हि पदार्थसंबन्धमात्रे प्रभवति न कार्ये । कार्यं हि नियोगसमधिगम्यमेव प्रकृतश्चायं दार्शपौर्णमासिको नियोगः । सर्वमेवेदं विनियोगकारणम् । न च कार्यान्तरकल्पनाक्लृप्ते सति संभवति इति प्रकरण एव निवेशः । ननु च जञ्जभ्यमानता न क्रत्वर्थतयाऽनृतवदनवत् संभवति । माभूत् जञ्जभ्यमानता क्रत्वर्था । कर्तुस्तु क्रत्वर्थता प्रकरणसंबन्धे हेतुर्भविष्यति । तस्मात् क्रतोः कर्तुः धर्मोऽयमिति सिद्धम् । अहीने पुनः कार्यत्वाद्युक्तः उत्कर्षः ।
?R ॥ 6 ॥ ?Rशंयौ च सर्वपरीदानात् ॥ 3-4-17 ॥
?R शंयौ पुनः शतेन यातयादिति फलश्रुतेः न प्रकरणकल्पना न्याय्या । स्ववाक्यस्था हि कार्यावगतिः बलीयसी तस्मात् पुरुषमात्रधर्मोऽयं न ब्राह्मणायावगुरेदितिवत् । ननु जञ्जभ्यमानेपि ‘?Rप्राणापानावेवात्मन् धत्त’?R इति फलश्रवणमस्त्येव । न । धत्त इति वर्तमानोपदेशात् न साध्यतयावगम्यते । इह पुनः यातयात् इति भविष्यदर्थतां लिङ्वगमयतीति विशेषः । तस्मान्मूलस्मृतेः प्राप्तस्यानुवाद इति ।
?R ॥ 7 ॥ प्रागपरोधान्मलवद्वाससः?R ॥ 3-4-18 ॥
?R मलवद्वाससा सह संवादप्रतिषेधे सन्देहः किं क्रत्वर्थः संवादः उत पुरुषार्थ इति । किं प्राप्तं ??R नानृतं वदेदितिवत् क्रतौ संभवात् क्रत्वर्थ इति प्राप्ते । उच्यते - न प्राप्तत्वात् । क्रत्वर्थतया हि ‘’?Rतामपरुध्य यजेत’’?R । इति प्राप्त एवायमसंवादः । तस्मात् पुरुषार्थः वाक्यं च प्रकरणाद्बलीय इत्युक्तमेव ।
?R ननु पुरुषार्थतयापि प्राप्त एवायमसंवादः ‘’?Rनाकल्यां नारीमभिरमयेन्न रजस्वलां’’ ?Rइति । अस्याः स्मृतेरिदमेव मूलं भविष्यतीति । अनुवादो वा सर्वथा तावत् क्रत्वर्थता नास्ति । ननु च संवादमात्रप्रतिषेधोऽयम् । उच्यते - ‘?Rनास्या अन्नमद्यात् अभ्यञ्जनं वाव स्त्रिया अन्नं’’?R इत्युपगमनप्रतिषेध एवायमिति ।
?R ॥ 8 ॥ अप्रकरणे तु तद्धर्मस्ततो विशेषात् ॥ 28 ॥
?R ‘?Rहिरण्यं भार्यं’?R इत्यनारभ्यवादात् पुरुषार्थोऽयम् । न ह्यत्र क्रतुस्सन्निहितोऽवगम्यते । तस्मात्पुरुषार्थः ननु च प्रयोजनवतः संस्कारो, न
?Rनिष्प्रयोजनस्य संस्कार्यता युक्ता द्वितीयानिर्देशाच्च हिरण्यसंस्कार एवायं युक्तः संस्कृतं क्रतोरुपकरिष्यतीति । अत्राभिधीयते - स्यादेतदेवं यदि संस्कृतस्य हिरण्यस्य कर्मार्थता उपपद्यते - न तावत् प्रकृतं कर्मास्ति । न चेह कर्मचोदना, द्रव्यदेवतासंयोगाभावात् । तस्मात् द्रव्यसंस्कारानर्थक्यात् पुरुषधर्मोऽयम् । ननु चात्र फलं कल्पयितव्यम् ??R नियोगानां कार्यार्थत्वात् प्रकृतस्य कार्यस्याविद्यमानत्वात् न दोषः कल्पनायाम् । तस्माद्धिरण्यधारणं कर्तुर्धर्मश्चोद्यत इति स्थितम् । यदि कर्तृसंस्कारत्वेन फलं कल्प्यते किमिति द्रव्यसंस्कारतया क्रतूपकारो न कल्प्यते । अयमस्ति विशेषः एकवाक्यावगतेन ह्यर्थवादेन कर्तृसम्बन्धे फलकल्पना उपपद्यते न पुनरप्रकृतेन क्रतुना अर्थविप्रकर्षात् । अयं चापरो विशेषः सर्वत्र द्रष्टव्यः कर्तृसम्बन्धे ह्यधिकारसिद्धिः अधिकृतस्य च फलकल्पना न्याय्या । न पुनः द्रव्यसम्बन्धे प्रयोजनकल्पनेति सक्तुषु दर्शितम् ।
?R ॥ 9 ॥ शेषोऽप्रकरणेऽविशेषात् सर्वकर्मणात् ॥ 31 ॥
?R येन कर्मणेर्त्सेत् इति अविशेषात् सर्वकर्मार्थतेति पूर्वपक्षवादी मन्यते । ननु चानाहिताग्नेराहवनीयाभावात् नायं होमः संभवति अनाहवनीय एवायं भविष्यति प्रधानानुरोधात् । न गुणानुरोधेन प्रधानस्याङ्गत्यागो युक्तः । गुण एव हि तत्त्यागः प्रधानानुरोधेनेत्यङ्गविदो मन्यन्ते । सत्यमेवैतत् । किन्त्वत्र अयं न्यायो न संभवति । कस्मात् ??R वैदिके तावदाहवनीयबाधो नोपपद्यते । न च लौकिकस्यैवाङ्गमिति शक्यते वक्तुं त्वयैवोक्तमविशेषादिति । अतो भावाभावयोर्विरोधात् भावत एव विशेषावधारणं युक्तम् न पुनः अभावतः । अनवगमे हेतुः असौ । न पुनः विशेषावगमे हेतुः । तस्माद्वैदिक एव जयाहोम इति सिद्धम् ।
?R ॥ 10 ॥ दोषात्त्विष्टिर्लौकिके स्यात् शास्नाद्धि वैदिके न दोषः स्यात्?R ॥ 34 ॥
?R पौण्डरीके श्रूयते - यावतोऽश्वान् प्रतिगृह्णीयात् इति । किं लौकिकेऽश्वप्रतिग्रहे इयमिष्टिः उत वैदिक इति संशयः । लौकिके दोषदर्शनात् शृद्रादन्यस्माद्वा पापकर्मणः कृते दोषो भवतीति । ‘’?Rन दोषसङ्कीर्तनं प्रायश्चित्तविषयविशेषणम् । किन्तु प्रायश्चित्तस्तुत्यर्थेन’’?R इति । किमिदं प्रायश्चित्तविषयविशेषणं किं वा स्तुत्यर्थेनेति इदमिदम्
?R। अस्यार्थस्यापनुत्तये यदा प्रायश्चितं तदा विषयविशेषणम् । यदा तु कार्यान्तरार्थं तदा स्तुत्यर्थेन दोषनिर्घातार्थं चेदम् । तस्मात् लौकिके भवितुमर्हति । ‘’?Rननु वैदिकेपि अप्रतिग्राह्यात् प्रतिगृह्णतो दोषोऽस्त्येव । उच्यते । भवेदेतदेवं यदि प्रतिग्रहस्य कर्तुरिष्टिर्भवेत् । सा खलु यथा हेतुकर्तुः तथा उत्तरेऽधिकरणे वक्ष्यामः’’?R । असम्बन्धमिदं भाष्यम् । यदि लौकिके प्रतिग्रहीतुरिष्टिः न भवति ततश्च वैदिकेऽपि अश्वं अप्रतिग्राह्यात् प्रतिगृह्णतो दोषोऽस्तीति सत्यपि दोषनिर्घातार्थे प्रायश्चित्ते कस्माल्लौकिक एव प्रतिग्रहीतुः प्रायश्चित्ताशङ्का । अथ उपक्रमावगतार्थवाददर्शनात् दातुरिष्टिरित्युच्यते लौकिकेऽपि तुल्यम् । अथ लौकिके प्रतिग्रहपक्षेपि दातुरेवेत्यभिप्रायः शृद्रादन्यस्माद्वा पापकर्मणः इति भाष्यं असम्बद्धम् । कथं वोपरितनेऽधिकरणे पूर्वः पक्षः । वेदो वा प्रायदर्शनादित्युपक्रमेणोपसंहारावधृतेः । अत्राभिधीयते - नेदमसंबद्धम् । अयमभिप्रायः पूर्वपक्षवादिनः । लौकिकेऽश्वप्रतिग्रहे दोषश्रवणं विषयविशेषणतयैवोपपत्तेः । यस्मादस्मिन् पक्षे प्रतिग्रहीतुरेवेष्टिः । दातुर्यदीयमिष्टिः स्यात् ततो दानस्याङ्गं वा कल्पयितव्यं फलान्तरं वा । दानाङ्गता तावन्न संभवति निमित्तत्वेनास्योपक्षयाद्दानस्य । अथ विपरिवृत्त्या पुनरङ्गित्वं दानस्य तदा इदमेवायुक्तम् । गुणवादेनाप्यर्थवादोपपत्तेः । पापप्रमोचनस्य फलतया वा वाक्येनावगतेः । न च दातुः पापं शक्यते कल्पयितुमिति । तस्मालौकिके पक्षे प्रतिग्रहीतुरेवेष्टिः चोदितत्वाल्लोके वेदे च दानस्य । राद्धान्तवादी तु यथाश्रुतस्य पापस्याश्वप्रतिग्रहो न निदानतया प्रमाणान्तरेण प्रसिद्धः । नापि वचनात् । वाक्यभेदप्रसङ्गात् । तस्मात् पापमात्रवचनमिदं वैदिकेप्युपपद्यत एव, रक्षणपोषणादिना दुःखदर्शनात् । फलं च न कल्पयितव्यं भवति कर्माङ्गतयोपपत्तेः । प्रकरणविनियोज्यतया कर्तुर्वा भवतु प्रतिग्रहीतुर्वा ।
?R ॥ 11 ॥ अचोदितं च कर्मभेदात्?R ॥ 30 ॥
?R युक्तं तावत् यदा कर्तुः तदा कर्माङ्गं ;?R यदा प्रतिग्रहीतुः तदा कथं ??R उपक्रमोपसंहारवशात् प्रतिग्राहयेदितिवत् विपरिणामात् कल्प्यताम् । ऋत्विजो याजनीयाः उपवासवत् ।
?R यत्पुनरिदमुक्तं - कथं पुनः वेदो वा प्रायदर्शनादिति स्थितेऽधिकरणे
?Rउपरितनेऽधिकरणे पूर्वः पक्षः । दोषप्रदर्शनादेवेति मन्यते । अर्थवादभूतोऽपि दोषः प्रतिग्रहीतुरेवाञ्जस्येनोपपद्यते । उपक्रमोऽपि लौकिकपक्षवत् दातुरपि तावत् अश्वप्रतिग्रहे दोषः किं पुनः प्रतिग्रहीतुरिति व्याख्यायते । राद्धान्तवादी तु अवश्यं तावत् निर्वापयेदिति विपरिणामः कल्प्यः । तस्माद्वरमुपक्रमदर्शनात् प्रतिग्राहयेदित्येवं मन्यते । अतो नेदं पुनरुक्तम् ।
?R ॥ 12 ॥ पानव्यापच्च तद्वत्?R ॥ 32 ॥
?R तद्वदित्यातिदेशिकोऽपि विशेषः । अयं विशेषः दोषदर्शनम् । ननु च पूर्वस्मिन्नधिकरणे दोषदर्शनादेव लौकिक इत्युक्तम् । सत्यमनुपपत्तिस्तत्रोक्ता दोषस्य । इह तु ग्लानिर्वमनादुपपद्यत एवेन्द्रियाणामित्यधिकाशङ्का । अत एव वमनार्थं तदिति परिहृतम् । ग्लान्यर्थमेव यत् न तस्य ग्लानिर्दोषत्वेन शक्यते कल्पयितुमिति । तस्मात् पूर्ववदेवेदं कर्मफलकल्पनाभयात् चोदितसोमपानवमननिमित्तकमित्यर्थः ।
?R ॥ 13 ॥ तत्सर्वत्राविशेषात्?R ॥ 34 ॥
?R किं यावन्तस्सोमवामिनः तावतां वमने एतत्प्रायश्चित्तं उत स्वामिन एवेति । अविशेषात् सर्वार्थमिति प्राप्ते । उच्यते - स्वामिन एवेदं प्रायश्चित्तम् । कुतः ??R न यजमानस्य ऋत्विजां चैका चोदना संभवति । एकत्र यजेतेति चोदना अन्यत्र याजयेदिति न चैकस्मिन् वाक्ये उभयमेतत् भवति । कस्मात् ??R अविपरिणता एषा चोदना । सा च स्वामिवमन एवावगम्यते । तस्मात् फलवत्सन्निधावफलं तदङ्गमिति भवति तदिदमुक्तम् । नान्यदीयो यागोऽन्यस्योपकरोतीति । तस्मान्न ऋत्विग्वमननिमित्तमिति । न ह्यन्यस्य चोदितमन्यस्योपकरोतीत्यर्थः । अतः स्वामिवमननिमित्तमेवेति सिद्धम् ।
?R ॥ 14 ॥ ?Rसर्वप्रदानं हविषस्तदर्थत्वात् ॥ 3-4-37 ॥
?R इहेदानीं सन्दिह्यते । ‘?Rआग्नेयोऽष्टाकपाल’?R इति किं कृत्स्नस्य हविषस्त्यागः उत द्विर्हविषोऽवद्यतीति तावन्मात्रस्यैव त्याग इति । ननु चात्र सन्देह एव नोपपद्यते आग्नेयोऽष्टाकपाल इति परिसमाप्ता चोदना । द्विर्हविषोऽवद्यतीति संस्कारचोदना हविषः अग्नेस्तृणान्यपचिनोतीतिवत् । ननु च जुहोतीत्यपि श्रूयते हविषोऽपनीतस्य
?Rप्रतिपत्तिर्भविष्यति । यथा यागोत्तरकालं स्विष्टकृदादयः । अत्राभिधीयते - नैतदेवम् । जुहोतिः यागाश्च संबन्धिद्रव्यसाध्याः । सकलस्य च परित्यागे होमो यागाश्च स्विष्टकृदादयः नोपपद्यन्ते ।
?R अष्टाकपालविषयाश्चोदनाः । अत उपपद्यते संशयः । अस्मिंश्च संशये कस्य पक्षस्याध्यवसानं युक्तं ??R पूर्वपक्षवादी तावन्मन्यते - अप्रतिपक्षत्वादाग्नेयचोदनायाः तत्सव्यपेक्षत्वाच्चोत्तरासां पूर्वैव बलीयसीति । तदिदमुक्तम् । ‘’?Rसर्वप्रदानं हविषस्तदर्थत्वात्’’?R । कथं तर्हि चतुरवत्तं जुहोतीति स्विष्टकृते समवद्यतीति । गौणो वा यज्यर्थो जुहोत्यर्थश्च ग्रहीतव्यः, तद्धर्मकं वा द्रव्यान्तरमुत्पाद्यम् । द्विर्हविषोऽवद्यति हविर्धर्मकादवद्यतीत्यर्थः ।
?R कृतत्वात्तु कर्मणः सकृत्स्यात् द्रव्यस्य गुणभूतत्वात् ॥ 3-4-40 ॥
?R अत्राभिधीयते - सत्यमेव यथा भवानाह । यदि आग्नेयोऽष्टाकपाल इति त्यागपर्यन्तस्तद्धितः स्यात् । सास्य देवतेति संबन्धिमात्रतयाऽवगतेः एकदेशत्यागादप्युपपद्यत एव संबन्धिता । तदिदमुक्तम् - ‘’?Rअकृत्स्नसंबन्धेपि तद्धितसंबन्धस्योपपत्तिः दर्शितस्ततो ग्रहीतव्यमिति संबन्धः’?R । सति चैवमाग्नेयचोदनायामुपपन्नायां न चतुरवत्तं जुहोति स्विष्टकृते समवद्यति इति गौणी वृत्तिः शक्यते कल्पयितुम् । हविर्धर्मकस्य वा द्रव्यस्योत्पादः । तथा चतुरवत्तेनैव कृतः शास्त्रार्थः आग्नेयोऽष्टाकपाल इति स्विष्टकृदादिदर्शनं चोपपन्नम् । यत्पुनरिदमाशङ्कितं द्वयवदानस्य संस्कारत्वान्न सर्वपरित्यागे विरोध इति तदिदमाशङ्कामात्रमेव हविषो यागार्थत्वादित्युक्तम् ।
?R ॥ 15 ॥ अप्रयोजकत्वादेकस्मात्क्रियेरन् शेषस्य गुणभूतत्वात् ॥ 42 ॥
?R इह शेषकर्माण्युदाहरणं - किं सकृत कृत्वोपरन्तव्यम् उत यावच्छेषमावृत्तिः इति । पूर्वपक्षवादी कृतत्वाच्छास्त्रार्थस्य सकृत्करणं मन्यते । ननु प्रतिप्रधानं गुणा आवर्तन्त इति शेषस्याप्राधान्यादावृत्तिरेवात्रावगम्यते । अयमभिप्रायः पूर्वपक्षवादिनः - प्रधानोपकाराय हि शेषस्य संस्कारः, सकृत् कृतेन च कृतं कार्यमिति नावृत्तिं मन्यते । न हि शेषत्वात् संस्कार्यत्वम् । ननु च ग्रहादावप्येवमेव प्राप्नोति । प्राप्नोत्येव यद्यत्र न
?Rसमाधीयते । तत्र तर्हि का चिन्ता ??R एकत्वस्याविवक्षेत्युक्तम् । अत्राभिधीयते - यावच्छेषमावृत्तिः । ननु च कृतत्वाच्छास्त्रार्थस्य सकृत् इत्युक्तम् उच्यते । शेषसंस्कारद्वारं हि प्रधानस्योपकार्यत्वमुक्तम् । न च शेषे विशेषोऽवगम्यते । अयमयं अयं वेति । अतोऽगृह्यमाणविशेषात् प्रतिप्रधानमावृत्तिः लिङ्गानि दर्शितानि च भाष्ये । यत्पुनरप्रयोजकत्वात् शेषाणामिति पूर्वः पक्षः तदेवेदं न शेषत्वात् संस्कार्यत्वमिति यदुक्तं, न पुनर्गुणभावं शेषस्य मन्यते । न हि शेषस्य प्रयोजकत्वमप्रयोजकत्वं चोपपद्यते । तस्मात् स एव पूर्वः पक्षः ।
?R ॥ 16 ॥ एकस्माच्चेद्याथाकाम्यमविशेषात् ॥ 46 ॥
?R पूर्वाधिकरणपूर्वपक्षे अनुष्ठानचिन्तेयम् । अत्राविशेषाद्यतः कुतश्चिदिति पूर्वः पक्षः ।
?R मुख्य एव निमित्ते संभवति न नैमित्तिकोपघातः शक्यते कर्तुमिति राद्धान्तः । जघन्यानां तु कृतत्वात् नैमित्तिकस्य (निमित्तावगतिः) युक्तैवाक्रिया शेषकार्याणाम् । इति ।
?R ॥ 17 ॥ भक्षाश्रवणाद्दानशब्दः परिक्रये ॥ 48 ॥
?R इदं ब्रह्मण इति द्वयवदानोपसंहाराद्यागस्य शेषेण परिक्रयं मन्यते पूर्वपक्षवादी । राद्धान्तवादी तु तस्यावदेययोग्यतयैवोत्पत्तेः यागार्थतैवेति नार्थान्तरे विनियोगमर्हतीति । कथं तर्हि स्विष्टकृदादियागः ??R अत्यक्तत्वाच्छेषस्य वचनाच्चोपपद्यते । ननु च दानमपि वचनाद्भविष्यति । सत्यम् - यदि वचनमस्ति । न त्वत्र दानं श्रूयते तादर्थ्यश्रुति- स्तूपकारादप्युपपद्यत एवेत्युपकारो दर्शितः । शेषभावस्तु विपरीत एवेत्यनवद्यम् ।
?R?0॥ इति बृहत्यां तृतीयस्याध्यायस्य चतुर्थः पादः ॥
?R?0तृतीयाध्यायस्य पञ्चमः पादः ॥?R?0
?R ॥ 1 ॥ आज्याच्च सर्वसंयोगात्?R ॥ 3-5-1 ॥
?R यावद्धविः किञ्चिच्चोदितं सर्वस्माच्छेषादवद्यतीति स्थितम् । उपांशुयाजे संशयः -
?Rकिं ध्रुवास्थादविशेषादङ्गप्रधानसाधारणादनवदेयं स्विष्टकृते उताङ्गप्रधानशेषमपि प्रधानशेषमित्यवदेयं गृहीताद्वा जौहवात् चमसवत् । अविशेषादवदेयमिति प्राप्ते । न साधारणे, शेषत्वाभावात् । शिष्टमपि हि तत्साधारणमेव । प्रधानशेषाच्च स्विष्टकृदवदानम् । न च तत्केवलप्रधानशेष इति शक्यते वक्तुं साधारणत्वादेव । यत्तु गृहीतस्यैव प्रतिपत्तिश्चमसवदिति तदयुक्तं, चतुरवत्तं जुहोतीति श्रवणात् शेषयितव्ये प्रमाणाभावात् । स्विष्टकृदवदानवचनमेव प्रमाणमिति चेन्न । अप्रयुक्ते शेषेऽर्थवत्वात् । यत्तु चमसवदित्युक्तं, तन्न । अनुवषट्कारश्रुतेरनन्यविषयत्वात् (न स्विष्टकृदवदानम् । न च तत्प्रधानशेष इति शक्यते वक्तुम्) चमसस्य ग्रहणमात्रश्रुतेः । दर्शनं प्रत्युक्तम् ।
?R ॥ 2 ॥ साकं प्रस्थाय्ये स्विष्टकृदिडं च तद्वत्?R ॥ 13 ॥
?R केन विशेषेणायमतिदेशः ? ?Rप्रकृतिवदिति प्राप्तेः कार्यार्थतया शेषं मन्यते पूर्वपक्षवादी । वचनात् कार्यं बलवदिति राद्धान्तः ।
?R ॥ 3 ॥ सौत्रामण्यां च ग्रहेषु?R ॥ 14 ॥
?R सौत्रामण्यां ‘?Rउच्छिनष्टि न सर्वहुतं जुहोति’?R इति पुनरपि शेषाशङ्कायां स्विष्टकृदिडं मन्यते पूर्वपक्षवादी । तस्यान्यत्र विनियोगादिति राद्धान्तः ।
?R ॥ 4 ॥ ?Rद्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् ॥ 16 ॥
?R सर्वपृष्ठे तु प्रतिप्रधानं शेषसंस्कारादावृत्तिं मन्यते । अगृह्यमाणविशेषतया कृतः शास्त्रार्थ इति राद्धान्तः । ननु साधारणे नैव स्विष्टकृदस्तीत्युक्तम् । सत्यं, अकृतत्वात्कार्यान्तराणां गुणप्राधान्याच्चेति विशेषः ।
?R ॥ 35 ॥ ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात्?R ॥ 18 ॥
?R ननु चात्र पूर्वपक्ष एव नास्ति वचनात् । न हि पूर्वपक्षे वचनस्यान्यार्थता शक्यते वक्तुम् । अतोच्यते । अयमभिप्रायः पूर्वपक्षवादिनः सोमसंस्कारार्थत्वाद्भक्षस्य द्विरिति प्रयोगान्तरापेक्षोऽनुवादो भविष्यति । राद्धान्तवादी तु वचनात्कार्यकल्पनेति वचनादित्युक्तवान् ।
?R ॥ 6 ॥ ?Rसोमेऽवचनाद्भक्षो न विद्यते ॥ 19 ॥
?R सोमे शेषभक्षोऽस्ति नास्तीति संशयः । ननु संशय एवायमयुक्तः सोमस्य शेषाभावात् । युक्तं पुरोडाशादीनां द्विर्हविषोऽवद्यति इति वचनात् तत्र यागोपसंहारात्
?Rशेषवत्त्वम् तस्य च भक्षः । इह तु तदभावात् भक्षशङ्कैव नास्ति । कथं तर्हि वचनान्येतानि ‘?Rद्विरैन्द्रवायवस्य भक्षयति’?R ‘?Rसर्वतः परिहारमाश्विनं’?R ‘?Rअनुवषट्करोति’?R इति च । अत्रापि च भवानेव प्रष्टव्यः अथ वा भवन्त्वर्थकर्माणि । कथं तर्हि ‘?Rऐन्द्रवायवस्य’?R ‘?Rआश्विनं इति च । तद्धर्मलक्षणार्थो भविष्यति । तस्मादनुपपन्नमेवेदं सोमे भक्षोविद्यते उत नेति । अथैतेभ्योऽपि वचनेभ्यः शेषयितव्यं इति कल्प्यते । न, अप्रयोजकत्वाच्छेषाणाम् । संस्कार्यप्रधानं हि संस्कारकर्म भवति । न चाप्रधानं प्रयुङ्क्ते । तस्मात् वक्तव्योऽत्र न्यायः । उच्यते - नात्र सर्वहोमे प्रमाणमस्ति । ऐन्द्रवायवादिषु हि तादर्थ्येन ग्रहणम् । गृहीतस्यैकदेशेनापि कृते कृतैवैन्द्रवायवता, किमिति सर्वस्य होमः । ननु च सर्वस्य यागार्थता श्रूयते ‘?Rसोमेन यजेत’?R इति । तत्रापि एकेदेशेनैव सोमेनेत्युपपन्नत्वात् । तथा च अस्य ग्रहणं ऋजीषादेश्च त्यागः । यद्येवं किमिति ‘?Rद्विर्हविषोऽवद्यति’?R इत्येतस्मादेवोपसंहारः । यथाकथंचित् तत्राप्युपसंहारसिद्धेः । नियमार्थं तदिति चेत् । सर्वप्रदानं तर्हि पूर्वपक्षवादिनो न घटते किञ्च एकदेशेनाप्युपपद्यत इति नैतावता सर्वं न होतव्यम् । सर्वहोमेनाप्युपपद्यत एव । तस्माद्वक्तव्यो विशेषः ।
?R अयमभिधीयते - कृते शास्त्रार्थे पुनः करणं तावन्न विद्यते । एकदेशेन कृतः शास्त्रार्थ इति प्रदर्शितम् । कथं तर्हि सर्वप्रदानाशङ्का ??R अवखण्ड्यावखण्ड्यदातव्यमिति वचनार्थावगमात् । न यागार्थत्वात् द्रव्यस्येत्युपसंहारः । अतः एकदेशेन नियम एवायम् । अत एव लौकिकाः पायसादि देवतोद्देशेन कृत्वा तत उद्धृत्य किञ्चित् देवतोद्देशेन त्यक्त्वा शेषं यथेष्टं विनियुञ्जते । तस्मादुपपद्यते संशयः - किं भक्षणेनैव शेषप्रतिपत्तिः उत नेति । वचनाभावात् न भक्षणेनेति पूर्वः पक्षः । भक्षणविशेषविधानात् अस्तीति द्वितीयः । अन्यथा हि विशेषविधानं नोपपद्यते । यदि विशेषविधानं नोपपद्यते कामं मोपपादि, न पुनर्वचनादृते भक्षः शक्यते प्रतिपत्तुम् यदा भक्षयति तदा द्विरीति एवमेवोपपत्तेः, एवं तर्हि तान्येव वचनानीति राद्धान्तः यावद्वचनं वचनम् ।
?R ॥ 7 ॥ ?Rचमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्वात् ॥ 22 ॥
?R चमसेषु इदानीं वचनाभावान्नास्तीति पूर्वः पक्षः । तच्चमसतैवान्यथा नोपपद्यते ।
?Rअयमस्य चमस इति वचनं यथैव विशेषविधानमन्यथा नोपपद्यत इति पूर्वत्र । द्रव्यान्तरचमनं तक्षणादि च न कल्पनामर्हति इति प्रदर्शितः ।
?R ॥ 8 ॥ उद्गातृचमसमेकस्य श्रुतिसंयोगात्?R ॥ 8 ॥
?R प्रोद्गात़ॄणामित्यत्र किं पुनः कारणं न गानं लक्षयति समाख्यैव किमिति लक्षयति ??R उच्छब्दस्याविवक्षा प्राप्नोति गानकारिषु लक्ष्यमाणेषु । तथा च दर्शितम् - अन्यदेव गानं अन्यदेवोद्गानमिति । समाख्याने तु नायं दोषः । ननु चोद्गानं नाम गानमेव नास्ति भक्तिर्हि सा । सा चोद्गीथवाच्या । यः पुनरुद्गायेदित्येवमादिषु प्रयोगः उद्गीथं गायेदिति तत्रार्थः । उच्छब्दो हि तत्र भक्तिलक्षणार्थः । गानं तु गानमेव । तस्मादुद्गातेत्यृत्विग्विशेषनामैवैतत् । न पुनः उद्गानस्य कर्ता उद्गाता । अत एव समाख्यैवात्र लक्षयितुं प्रभवति न गानक्रियेति राद्धान्तितम् । अत एव अपसुब्रह्मण्यवादिनोऽपि अपन्यायवादिन एव । नात्र स्तुत्यादिश्रवणमिव सङ्कोचकप्रमाणमस्ति । ननु प्रोद्गातॄणामिति त्रिष्वेव बहुवचनोपपत्तेः किमिति ससुब्रह्मण्यानां भक्ष इति ??R यदि बहुवचनोपपत्त्यर्थं सत्यमेव । अत्रोद्गातृशब्दः तदर्थकारिषु वर्तत इत्युक्तम् ।
?R ॥ 9 ॥ ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात्?R ॥ 27 ॥
?R उक्तं वचनात् समाख्यानाच्च भक्षणम् । इदानीं वचनार्थविप्रतिपत्तौ सम्प्रतिपत्त्यर्थमेतान्यधिकरणान्यारभ्यन्ते । सर्वे हारियोजनस्यान्ते लिप्सन्त इति चमसिनामेवेति पूर्वपक्षवादिना शङ्कितम् । वाक्यशेषात् । असन्दिग्धत्वात् प्रकृतवचनतया सर्वशब्दस्य नोपसंहारो युक्तो वाक्यशेषादिति राद्धान्तः पक्षः ।
?R ॥ 10 ॥ वषट्कौराच्च भक्षयेत्?R ॥ 31 ॥
?R अत्र वषट्कर्तुः प्रथमभक्ष इति गुणश्रवणात् न भक्षविधानमिति आशङ्क्य विशिष्टविधानादिति राद्धान्तः । ननु चात्र विशिष्टविधानं नास्ति । न हि प्राथम्यं नाम भक्षणस्य कारकं येन यागविशिष्टा क्रिया विधीयेत । अत एव पूर्वपक्षवादी न विशिष्टविधानमत्र संभवतीत्याशङ्कतवान् । कथं तर्हि राद्धान्तः ??R प्रथमभक्ष इति पदद्वयस्य चैकार्थ्याभिधानात् अभिहितविधानाच्चैकार्थ्यं मन्यते । तदयुक्तम् । समासेपि हि
?Rतद्भूताधिकरणन्यायात् अपगतिर्नास्ति । सत्यमेवं, तथापि पूर्वोत्तरपदसंबन्धायत्ता समासे च पदार्थान्तरसङ्गतिः इति युक्तमुक्तं समासे च विदधतो नानेकगुणविधानं दुष्करमित्यतः सिद्धमत्र विशिष्टविधानम् ।
?R ॥ 11 ॥ होमाभिषवाभ्यां च?R ॥ 32 ॥
?R अभिषुत्य हुत्वा भक्षयति इत्यपि भक्षविधानम् । होमाभिषवयोः प्रप्तत्वात् । अङ्गतया च विधानानुपपत्तेर्भक्ष एव विधातव्यः ।
?R ॥ 12 ॥ प्रत्यक्षोपदेशाच्चमसानामव्यक्तश्शैषे?R ॥ 33 ॥
?R होतृचमस इत्येवमाद्याभिः श्रुतिभिः समाख्याभिः सकलचमससंबन्धावगतेः अभिषुत्य हुत्वेत्यन्यत्र चमसेभ्यो भक्ष इति मन्यते । एवं प्राप्ते उच्यते । अभिषवहोमनिमित्तोभक्षश्चमसेषु भवत्येव । ननु च होतृचमस इति सकलचमसावगतिरित्युक्तम् । सत्यमुक्तं न पुनरभिषवनिमित्ततां बाधितुमर्हति । प्रापकाण्येतानि वचनानि न होतृचमस इत्यस्यां संबन्धावगतौ संबन्धान्तरनिवृत्तिः शक्यतेऽवगन्तुम् । प्राप्तिमात्रावगतेः । प्राप्तौ हि सत्यां कस्येदमिति विवक्षायां अन्यनिवृत्तिः प्रतीयते । यथा आग्नेय इत्युक्ते नैन्द्राग्नस्यावगतिः । इह पुनः प्राप्तिफलत्वाद्वाक्यस्य नान्यनिवृत्तिः शक्यतेऽवगन्तुम् । ननु च प्राप्तावपि सकलावगतेर्विरोधो विद्यत एव । सत्यं यदि समाख्यया प्राप्तिः इह पुनः प्रैतुहोतुश्चमसः इति वचनात् । कल्प्यं चैतत् अभिषुत्य हुत्वेत्यनेन ।
?R ॥ 13 ॥ एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत्?R ॥ 36 ॥
?R स्थितं चमसिनोऽभिषोतारो होतारश्च भक्षयन्ति इति । अत्रेदानीं कः प्रथमं भक्षयेदिति विचार्यते । अध्वर्युः भक्षयति हस्तगतत्वात् यस्य हस्ते स जयतीति न्यायात् । ननु वषट्कर्तुः प्रथमभक्ष इति वचनात् कथमध्वर्योर्भक्षः ??R भक्षमात्रविधानादपि वषट्कर्तुरेव प्रथमं भक्ष इति मन्वानस्य पुनरिदमधिकरणम् । प्रदर्शितं च प्राथम्याद्वषट्कारस्येति । वचनाच्चेत्युपसंहृतम् ।
?R ॥ 14 ॥ वचनादनुज्ञातभक्षणम्?R ॥ 40 ॥
?R किं अनुज्ञातेनैव भक्षयितव्यं उत अननुज्ञातेनेति प्राप्तिदर्शनार्थमिदमधिकरणम् ।
?Rअसति वचनेऽनियमः । वचनात्तु नियम एव । नियमे सति किं लौकिकेन शब्देनानुज्ञापनं उत वैदिकेनेति । मन्त्रानाम्नानात् वैदिकेनेति नियमः । इदमपि मन्त्रप्राप्तिदर्शनार्थमेव ।
?R ॥ 15 ॥ तत्रार्थात् प्रतिवचनम्?R ॥ 42 ॥
?R इदानीं प्रतिवचने संशयः किं मन्त्रेण प्रतिवचनं उत लौकिकेन शब्देनेति । कथं पुनरुपहूत इति मन्त्राम्नानात् सन्देहः उपह्वयस्वेत्यस्यैव शेषं मन्वानस्य । न ह्यनुज्ञापनात् पूर्वपठितं प्रतिवचनसमर्थमपि प्रतिवचनायालं भवतीत्यभिप्रायः । राद्धान्तवादी तु पूर्वतैवात्र बाध्यत इति राद्धान्तितवान् ।
?R ॥ 16 ॥ तदैकपात्राणां समवायात् ?R॥ 43 ॥
?R पठिते ज्ञापने प्रतिवचने च किमेकपात्राणामेवानुज्ञापनं उताविशेषेणेति । अविधानादविशेषं मन्यते पूर्वपक्षवादी । दृष्टार्थतया तु राद्धान्तः ।
?R ॥ 17 ॥ याज्यापनयनेनापनीतो भक्षः प्रवरवत्?R ॥ 44 ॥
?R याज्यामात्रापनयनं मन्वानस्य पूर्वपक्षवादिनो होतुरेव भक्ष इत्यभिप्रायः । किमनवानश्रुतिः निषद्य यजतीतिवत् वचनं न पश्यति । न न पश्यति, याज्यामात्रे । एवमेतद्द्वयमप्युपपद्यत इत्यभिप्रायः । याज्याभिधानेन यजेः कर्तृत्वमुपपद्यत इत्यर्थः । राद्धान्तवादी तु मन्यते । सत्यमुपपद्यते न पुनर्वषट्कारापनये किञ्चन प्रमाणमस्ति इति सवषट्कारमेव याज्याप्रयोगमात्रेप्युपपद्यत इति व्यापारमङ्गीकृत्य कर्तृत्वं युक्तमिति । यत्तु प्रवरो नापनीयत इति तदत्रौपदेशिकत्वात् यथा प्रवरो नापनीयते तथा प्रदर्शितम् ।
?R ॥ 18 ॥ फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् ॥ 47 ॥
?R किं फलचमसो भक्षविकार उतेज्याविकार इति । अस्मिन् संशये ब्रूमः नैवात्र संशयः तमस्मैभक्षं प्रयच्छेत् इति भक्षसंबन्धित्वेन विधानात् । भक्षे सोमं विकरोति न यागे । न च यागविकारः शक्यते वक्तुम् । उत्पत्तिशिष्टत्वात् सोमस्य । विधीयमाने तु कर्मान्तरापत्तिः । ततश्च भक्षविकारोऽपि न स्यात् दूरे इज्याविकारता । अत्राभिधीयते - नेज्याविकारमन्तरेण भक्षं विकर्तुं समर्थः फलचमसः । इज्याशेषस्य हि सोमस्य भक्षः । न चाशेषभूते भक्ष्यमाणे स विकृतोभवति । तस्मादिज्याशेषतैव फलचमसस्यापि
?Rमन्तव्या । ननु चोत्पत्तिशिष्टत्वात् सोमस्य यागे विधानं न संभवतीत्युक्तम् । यागानुवादेन विधाने हि अप्रत्यभिज्ञानमुक्तम् । न पुनः कार्येणापि संबन्धे । कार्यत एवायं संबन्धः । ननु च भाष्यकारेण यागसंबन्धाभावं चोदयित्वा याजयेदिति संबन्ध उक्तः यजिना । यागान्वयप्रदर्शनार्थं तदुक्तम् न पुनरनूद्य विधानायेत्यदोषः । भक्षं कुर्यादिति चोपसंहारः इममेवार्थं प्रकटीकरोति । तस्मादिज्याविकारः फलचमस इति सिद्धम् । गुणविधानानि च प्रदर्शितानि ।
?R ॥ 20 ॥ अनुप्रसर्पिंषु सामान्यात्?R ॥ 52 ॥
?R दशदश एकैकं चमसमनुप्रसर्पन्तीति विधानात् शतं ब्राह्मणाः सोमान् भक्षयन्तीत्यनुवादं मन्वानस्य नाभक्षो राजेति पूर्वः पक्षः । सत्यमेवं यद्यनुवादः स्यात् । न चानुवृत्ते राजनि अनुवादः शक्यते वक्तुम् । अयथार्थानुवादप्रसङ्गात् । ननु चानुवादे अयथार्थत्वं अदोषः भूयस्त्वेन लक्षणा भविष्यति । सत्यं यद्येकान्ततोऽनुवादः इह पुनर्विधेयतयाप्युपपद्यत एवेति नायथार्थत्वं शक्यते । तस्मात् द्वयमप्येतद्विधीयते शतं ब्राह्मणाः दश एकैकं चमसं इति च । ननु च ‘?Rसमं स्यादश्रुतत्वात्’?R इति न्यायेन शते विभज्यमाने एकैकत्र दशदशप्राप्तेः दश दश एकैकं चमसमनुप्रसर्पन्ति इत्यनुवादः ।
?R न एकैकत्र शतप्राप्तेः प्रत्युद्देशं वाक्यसमाप्तेः । तस्मादभक्षो राजा ब्राह्मणविधानादिति । यत्पुनरत्र शतं ब्राह्मणास्सोमान् इत्यनेकार्थविधानं मन्यते, तदयुक्तं, यस्मात् कर्मान्तरविधानेनापि प्राकृतकार्यार्थतां दशमे वक्ष्यामः ।
?R?0॥ इति बृहत्यां तृतीयाध्यायस्य पञ्चमः पादः ॥
?R?0बृहत्यां
?R?0तृतीयाध्यायस्य षष्ठः पादः ॥
?R ॥ 1 ॥ सर्वार्थमप्रकरणात्?R ॥ 1 ॥
?R किं पुनरत्र कारणं पक्षद्वयोपन्यासस्य । कस्य पक्षद्वयोपन्यासस्य ??R । चोदकादनारभ्यविधिः बलीयान् सामान्यतोदृष्टत्वाच्चेति । प्रथमस्य तावत्पक्षस्य इदं
?Rप्रयोजनं नैवात्र द्विरुक्तता विद्यते । उपदेशातिदेशाभ्यां प्रकृतिविकृत्योः स्रुक्संभवात् । एवं तर्हि सामान्यतो दर्शनेन प्रकृत्यर्थतेति । अपरस्य पक्षस्योपन्यासः प्रायदर्शनवत् । अयं तावदनन्तरः पक्षो निराक्रियते । न सामान्यतो दृष्टं शब्दार्थावगतौ हेतुः । नापि प्रायदर्शनम् । प्रकृताविव विकृतावपि संक्षेपविस्तारोपदेशदर्शनात् । इदानीमपरस्य पक्षस्य निरसनं चोदकापेक्षश्चेत् अनारभ्य विधिः । प्रकृतौ पूर्वमुपदेशोऽपेक्षणीयः उपदेशापेक्षत्वादतिदेशस्य । उपदेशेन चेदुपसंहृतोऽनारभ्यविधिः नातिदेशमपेक्षते । कार्यत एव विकृतौ प्राप्तत्वात् । अतो द्विरुक्तताऽसंभवात् अद्विरुक्तत्वादिति स्थितो हेतुः । यस्तु यागसंबन्धोपन्यासः ?Rअसाववश्यं भावी चोदक इति पदर्शयितुम् । अवश्यंभावित्वे चाद्विरुक्तत्वस्य सिद्धिरुक्ता ।
?R ॥ 2 ॥ प्रकरणविशेषात्तु विकृतौ विरोधि स्यात्?R ॥ 1 ॥
?R ननु चानारभ्याधीतं साप्तदश्यं, यच्च प्रकरणाधीतं पाञ्चदश्यं उभयमपि श्रुत्यैव सामिधेनीसंबन्धितया चोद्यते । कोऽयं प्रकरणोपन्यासः । नैवात्र(योत्र) प्रकरणं विनियोजकं येन प्रकरणविधिर्बलीयान् भवति । अथायमभिप्रायः प्रकरणसव्यपेक्षा एव श्रुत्यादयो विनियोजकाः इति । सत्यं ग्राहकलक्षणप्रकरणसव्यपेक्षाः न तु विनियोजकमपेक्षन्ते । ग्राहकसव्यपेक्षा चानारभ्यविधेरपि तल्यैव । अतोऽत्रापि द्विरुक्तेरसंभवात् प्रकृतावेवेति युक्तम् ।
?R अस्त्यत्र विशेषः । प्रकृतत्वे हि पाञ्चदश्यस्य ग्राहकप्रत्यभिज्ञानं संभवति । अव्यवायात् । अनारम्यविधेः पुनः कार्यतो ग्राहकावमर्शः ।
?R एवं च सति न क्लृप्ते कल्पना संभवति इति न प्रकृतौ निवेशः । प्रतिपत्त्यविरोधिनी हि कल्पना न प्रतिपन्नोपमर्दिनी । तस्माद्विकृतावनारभ्य विधानमिति सूक्तम् ।
?R ॥ 3 ॥ नैमित्तिकं तु प्रकृतौ तद्विकारः संयागविशेषात्?R ॥ 10 ॥
?R कथं पुनरत्र पूर्वपक्षाशङ्का । इत्थमाशङ्का क्रत्वर्थे बाध्यमाने उपदेशः पीडितो भवति । नचोपदेशादृते प्रकृतौ साद्गुण्यावगतिर्भवति । विकृतौ पुनः कार्यत एव साद्गुण्यावगतिः इत्येककार्यत्वात् पुरुषार्थेनापि क्रतोः साद्गुण्यं शक्यते वक्तुं कार्यविशेषात्
?R। तस्मात् पुरुषार्थानां विकृतौ निवेशः । सत्यमेवं यदि प्रकृतावपि कार्यविशेषो न स्यात् । इह तु दृष्टार्थत्वादुपदेशस्य तुल्यः कार्यविशेषः । (कार्य)विशेषावगमाच्च सामान्यतो बलीयस्त्वं विशेषोपदेशस्येति प्रकृतावेव निवेशः ।
?R ॥ 4 ॥ इष्ट्यर्थमग्न्याधेयं प्रकरणात्?R ॥ 11 ॥
?R कथं पुनरत्रेष्टेः प्रकरणं ??R इष्टेरपि नैवाधिकारश्रुतिरस्ति । आधानस्यैव हि साधिकारस्य विधेः प्रकरणम् । तस्मान्नेष्टेः प्रकरणं इति शक्यते वक्तुम् । कथं तर्हि पूर्वः पक्षः ??R भवतो वा कोऽभिप्रायः । न किञ्चित्प्रतिभाति । अत्राभिधीयते - द्वयमप्यत्रोदाहरणम् । किमाधानं उतेष्टय इति । द्वयोः प्राधान्यमयुक्तमिति मन्वानस्य इष्टेश्चाङ्गबाहुल्यात् प्राधान्यारोपेण पूर्वः पक्षः । राद्धान्तस्तु द्वयोरप्यधिकाराभावात् । अग्न्यर्थतया च विनियोगोपपत्तेः द्वयोरग्न्यर्थत्वम् । तथा च लिङ्गदर्शनम् ।
?R ॥ 5 ॥ तत्प्रकृत्यर्थं यथाऽन्येऽनारभ्यवादाः ॥ 14 ॥
?R किमिदानीं प्रकृत्यर्थमाधानं उत सर्वार्थमिति । एतदुक्तं भवति - किं क्रत्वर्थानामग्नीनामाधानं उत आहितानां क्रत्वर्थतेति । कश्चात्र विशेषः ??R अयमस्ति विशेषः - यदि क्रत्वर्थानामाधानं ततः पर्णमयीत्ववत् प्रकृतिगामित्वमाधानविधेः । अथ तु आहितानां क्रत्वर्थता तदा होमादिमात्रशेषतयाऽग्नोनां सर्वार्थमाधानमित्युच्यते । किं पुनरत्र युक्तम् ??R पर्णतादिवत् क्रतुसंबन्धानामेवाग्नीनामाधानमिति । आहिताग्नेरधिकारात् आहितानां क्रत्वर्थतेति । यथा वा आहिताग्नेरधिकारस्तथा षष्ठे वक्ष्यामः । वसन्तादिकालविधिश्चैवमुपपन्नो भविष्यति ।
?R ॥ 6 ॥ तासामग्निः प्रकृतितः प्रयाजवत्?R ॥ 16 ॥
?R कथं पुनः पवमानेष्टिषु पवमानेष्टिसंस्कृता अग्नयः आशङ्क्यन्ते । या अपि हि ताः अग्न्यर्था इष्टयः ता अपि पवमानेष्टय एव । तस्मादनाशङ्कनीयमेवेदमाशङ्कितम् । अत्रोच्यते - इदमेवात्र चिन्त्यते । किमयमतिदेशः प्रकृतौ यावदुपकारकं तावदतिदिशति उत यथाकार्यमतिदेश इति ।
तत्र पूर्वपक्षवादिनोऽभिप्रायः । यावदुपकारकं तावदतिदिशतीति । राद्धान्तवादी पुनः यथाकार्यमतिदेशः । उपदेशेतु विपरीतम् । तस्मान्नैतदुपदेशवद् द्रष्टव्यम् । उपदेशविशेषप्रदर्शनार्थं चैतदुपदेशलक्षणे चिन्तितम् ।
?Rअन्यथा हि अन्वारम्भणीयाधिकरणेनैव गतम् स्यात् । अग्न्यर्थतया च पवमानेष्टीनां उपदेशान्यत्वे यत्नः इति विशेषः ।
?R ॥ तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात्?R ॥ 18 ॥
?R कथं पुनरिदमधिकरणं प्रारब्धम् । यथैव भाष्यकारेण । न तथा शक्यते वक्तुम् । तस्माद्यदि तावदिदं ज्योतिष्टोमाख्यप्रकरणं तदा श्रुत्यादिभिरेव पशुयागसंबन्धात् विशसनादीनाम् । किमिदं प्रकरणविशेषादिति सर्वार्थतोच्यते । अथ प्रकरणे अविशेषः पशृनामित्यविशेषतोच्यते कथं तर्हि सूत्रं - अस्ति तु प्रकरणे विशेष इति । नचावान्तरप्रकरणं नाम किञ्चिदस्ति ज्यौतिष्टोमिकमहाप्रकरणे । प्रकरणान्तरे चाभ्युपगम्यमाने(ऽर्थे) न तावत्प्रकरणमग्नीषोमीयादेरुप्रपद्यते । किमित्येव हि तदा ज्योतिष्टोमसंबन्धोऽभ्युपगतः स्यात् । एवं च दीक्षणीयादेरितिकर्तव्यताभाव एव हीयेत । दर्शपूर्णमासयोश्च प्रयाजादेरितिकर्तव्यताप्रसङ्गः प्रकरणविनियोज्यतया ।
?R ततश्च ‘?Rअव्यक्तासु तु सोमस्ये’?Rति सोमिकी इति कर्तव्यता प्राप्नोति दीक्षणीयादेरिव दार्शपूर्णमासिकी । किमिति वा न भवति ??R उक्तमवान्तरप्रकरणाभावादिति । न ह्येकस्मिन् प्रयोगवचने नानाकिमित्याकाङ्क्षा संभवति । एकश्चायं प्रयोगवचनः सेतिकर्तव्यताकस्य प्रयोगस्यैकशब्दयादिति वक्ष्यति ।
?R कथं तर्हि दीक्षणीयादेरातिदेशिका धर्माः ??R मा भूवन्, न पुनः किमित्याकाङ्क्षाद्वयमेकस्मिन् प्रकरणे संभवति । एवं स्थिते यदिदमुच्यते प्रकरणात्सवनीयस्येति स्थानाच्चाग्नीषोमीयस्येति सर्वमिदमन्धपदम् । तस्मात् महता प्रयत्नेनात्र भाष्यं व्याख्येयम् । अत्राभिधीयते - प्रकरणं तावदिदं ज्योतिष्टोमस्य । औपवसथ्येऽहनि धर्माश्चोद्यन्ते । न च पशवस्तस्मिन्नहनि सर्वे सन्निहिताः सन्निहितवचनं चोद्देशकं पदम् । अतः कस्यायमुद्देशक इति चिन्त्यते विशसनादिविधिषु । तत्र प्रकरणाविशेषात् सर्वे पशवो ज्योतिष्टोमार्थतया प्रकृता इति सर्वार्थतां मन्यते ।
?R अपरेण पूर्वपक्षिणा अहस्सामान्यसन्निधानात्तु (सन्निकृष्ट इति) सन्निधिविशेषो विद्यत इति अस्ति तु प्रकरणविशेष इत्युक्तम् । प्रकृतलक्षणं च प्रकरणमत्राभिप्रेतम् । अतः स्थानादग्नीषोमीयस्येति युक्तम् । (सिद्धम्) । अप्रकृतसिद्ध्यर्थं च सौत्येऽहनि
?Rविधानं सवनीयस्येत्येवमाद्युपपन्नम् । ननु सन्निधानविशेषेणाग्नीषोमीयार्थत्वे सिद्धे ज्योतिष्टोमप्रकरणे चाम्नानस्यार्थवत्वे तस्मिन्नेव प्रकरणे पशुद्वयस्यातिदेशः । न ह्येकः प्रयोगवचनः उपदेशेन अतिदेशेन च तानेव धर्मान् गृह्णाति । अस्य चोद्यस्य परिहारं अतिदेश एव वक्ष्यामः कृत्स्नविधानादपूर्वः सोम इत्यत्र । अस्मिन् पुनरधिकरणे उपदेशविशेषो निरूपितः । उपदेशविशेषत्वाच्छेषलक्षणस्य । कः पुनः औपवसथ्येऽहनि सवनीयेषु विधीयमानेषु आश्विनकाले वाक्यभेदः ??R नन्विदं पूर्वपक्षी चोदयति । कथं च सौत्येहनि सवनीयेषु विधीयमानेषु वाक्यभेदं राद्धान्तवादी चोदयति । किञ्च उभयत्र वाक्यभेद एव चोदितः । उच्यते । अनेकगुणविधानमेव वाक्यभेदं पूर्वपक्षवादी मन्यते । राद्धान्तवाद्यपि वपाप्रचारमात्रोत्कर्षं मन्वानः पुनरालम्भविधाने च वाक्यभेदमेव चोदितवान् । आग्नेय्यौदासीन्यमुक्तवान् ।
?R किं पुनरनयोर्वाक्यभेदयोर्दूषणम् । राद्धान्तवाद्युक्तमेव दूषणम् । अपरिहार्यं हि तत्र वाक्यान्तरत्वम् । पूर्वपक्षवाद्युक्तस्य तु विशिष्टविधानादपि सिद्धिः ‘’?Rसंस्कारोऽयं पशुयागप्रयुक्तः न ज्योतिष्टोमप्रयुक्त’’?R इति । किमिदं ज्योतिष्टोमप्रयुक्त इति ??R ननु च सर्वमेवेदं ज्योतिष्टोमप्रयुक्तम् । तत्प्रकरणाम्नानात् । उच्यते । विनियोगाभिप्रायोऽयं ग्रन्थः । न पुनः प्रयोज्याभिप्रायः । न प्रकरणविनियोज्यतया प्रयुक्तिः (इत्यर्थः) । किं तर्हि ??R श्रुत्यैव विनियोगः । ‘?Rप्रकरणवन्तश्च’?R इति । शक्नोति हि स्वस्थानेपि प्रयोगवचनः प्रयोक्तुमिति दर्शयति । अत एव च प्रकरणस्थाने अपि प्रकृताभिप्रायेणैवेत्युक्तम् । दर्शनाच्छिद्रापिधाने प्रत्युक्ते ।
?R ॥ 8 ॥ ?Rदाहयोः कालभेदादसंयुक्तं श्रृतं स्यात् ॥ 28 ॥
?R पूर्ववदत्रापि सन्निधानविशेषमङ्गीकृत्य पूर्वः पक्षः । राद्धान्तस्तु नैव दधिपयसोः कालभेदेन विधानमस्ति । यदि परं क्रमे कालभेदः, स च प्रकरणे प्रत्यर्थिनि न विनियोजक इत्युक्तम् ।
?R ॥ 9 ॥ ?Rतद्वत् सवनान्तरे ग्रहाम्नानम् ॥ 30 ॥
?R अत्रापि पूर्ववदेव सन्निधानविशेषाशङ्का पूर्वपक्षवादिनः । राद्धान्तस्तु न धर्माणां सवनविशेषे विधानमिति सर्वार्थता ।
?R ॥ 10 ॥ ?Rरशना च लिङ्गदर्शनात् ॥ 31 ॥
?R रशनायास्त्वग्नीषोमीयप्रकरण?R एव विधानमिति पूर्वः पक्षः । राद्धान्तस्तु सत्यं तत्प्रक्रमे विधानं यूपस्त्वेक इति सर्वार्थता रशनायास्तद्धर्माणां च । तथा च लिङ्गमुक्तम् ।
?R ॥ 11 ॥ ?Rआराच्छिष्टमसंयुक्तमितरैस्सन्निधानात् ॥ 32 ॥
?R अंश्वदाभ्ययोस्तु प्रकरणे अविधानात् उद्देशकस्य च सन्निहितवचनात्वात् न तद्धर्म इति पूर्वः पक्षः । राद्धान्तस्तु न सन्निहितमात्रवचनमुद्देशकं प्रयोजनवत्सन्निहितवचनं हि तत् । अभिन्नं चात्र प्रयोजनम् । प्रकृतानामप्रकृतानां च ग्रहाणाम् । तस्मात् प्रयोजनाभेदात्
प्रयोजनावच्छिन्नग्रहजातीये ग्रहशब्दो न प्रकृतत्वेन सङ्कोचमर्हति । मैत्रावरुणे तु निर्देशात् युक्तम् । इह तु विपरीतो निर्देश इत्यपि दर्शितम् ।
?R ॥ 12 ॥ अग्न्यर्थमप्रकरणे तद्वत् ॥ 35 ॥
?R कः पुनरनयोरधिकरणयोर्विशेषः ??R अयमस्ति विशेषः । तत्र हि एकद्रव्यसंबन्धित्वाद्युक्तो विशेषः । इह पुनः एकैकेष्टकाव्यापारसंबन्धितयापि धर्मविधयोऽर्थवन्तो भवन्ति । तदयुक्तम् । तत्रापि हि एकैकग्रहव्यापारभेदो विद्यत एव । एवं तर्हि चितिभेदात् अभ्यधिकाशङ्का । राद्धान्तस्तु यद्यपि चितिभेदः तथापि चितौ धर्माणामप्रतिष्ठितत्वात् ।
?R ॥ 13 ॥ नैमित्तिकमतुल्यत्वादसमानविधानं स्यात् ॥ 36 ॥
?R इदमिदानीं चिन्त्यते - किं नैमित्तिकानां धर्मविधयः समाना उत कार्यघन्तो भवन्तीति । तत्र तुल्यत्वात् प्रकरणस्य समाना धर्मविधय इति पूर्वः पक्षः । सत्यं तुल्यं प्रकरणम् धर्मवन्तस्तु नित्याः नैमित्तिकाश्च गोदोहनादयः । तद्द्वारं च प्रकरणस्य ग्राहकत्वमिति स्थितम् । नैमित्तिकं च नित्यकार्यापन्नं भवति । अतः कार्यतः सिद्धेः न पुनरुपदेशमर्हति इति । द्विरुक्ततादोषश्चोक्तः ।
?R ॥ 14 ॥ प्रतिनिधिश्च तद्वत् ॥ 37 ॥
?R अथेदानीं प्रतिनिधौ का वार्ता । तत्र कार्यतः प्राप्तिरिति पूर्वपक्षवादी मन्यते कार्येणाक्षिप्रत्वात्प्रतिनिधेः । अत्राभिधीयते - सत्यं कार्येणाक्षिप्तः प्रतिनिधिः उपदेशसंपदा तुल्यः, नान्यसाध्यतया, तस्मादौपदेशिक एव धर्मसंबन्धः न कार्यसाधनतया द्रव्यान्तरं
?Rनीवाराः ।
?R ॥ 15 ॥ नियमार्था गुणश्रुतिः ॥ 40 ॥
?R यत्र पुनः श्रूयते प्रतिनिधिः तत्र श्रुताशङ्कतया पूर्वः पक्षः । श्रुतोपपत्त्यर्थोऽयं नियम इति राद्धान्तः ।
?R ॥ 16 ॥ संस्थास्तु समानविधानाः प्रकरणाविशेषात् ॥ 41 ॥
?R ननु चेदं फलचमसेन गतमेवाधिकरणम् । न नैमित्तिकस्य धर्मा भवन्त्युपदेशत इति । उच्यते - अस्त्यत्राधिकाशङ्का । का पुनरसौ ??R इयमसौ । उक्थ्यादयो हि ग्रहणविशेषाः । ते च संस्काराः स्वयमितिकर्तव्यताभूताः न चेतिकर्तव्यता इतिकर्तव्यतया संबध्यते । किं तर्हि ??R यागेन । सर्वग्रहणसंस्कार्यद्रव्यकश्चायं स एव यागः सोमेन यजेतेति । नान्योत्पत्तिर्विद्यते । स चेद्यागः ग्रहणान्तरेष्वपि इतिकर्तव्यतापि सैव । न च ग्रहणविशेषो यागस्येतिकर्तव्यताप्ताप्तौ निमित्तं ;?R किं तर्हि प्रयोगचोदनैव । न च ग्रहणान्तरेषु प्रयोगान्तरचोदना यागस्य । गुणानामेव हि तत्र फलाय चोदना न यागस्य, यथा गोदोहनेन पशुकामस्य प्रणयेदिति न दर्शपूर्णमासयोः प्रयोगश्चोद्यते । तस्माद्भवन्तु ग्रहणानि ग्रहणधर्मोपदेशशृन्यानि फलचमसवत् न पुनर्यागोऽपि यागधर्मशृन्य इति शक्यते वक्तुम् । सर्वसंस्कारेष्वेकप्रयोगस्य चोदितत्वात् । प्रयोगग्राह्यत्वाच्चेतिकर्तव्यताया इत्युक्तम् । अत एव चाग्निष्टोमग्रहणं समुच्चयश्च प्रदर्शितः । पशृनामदृष्टार्थतया समुच्चय एव न्याय्यः । अत्रोच्यते - सवनीयसमाख्यया सर्वपशृनां तुल्यकार्यावगमात् । अत्राभिधीयते - सत्यमेवं स्याद्यदि संस्थन्तारेषु उक्थ्यादिषु प्रयोगचोदनयैव लभ्यते । यथा गोदोहनेन दर्शपूर्णमासयोः । इह तु अग्निष्टोमपर्यन्तैव यागस्य प्रयोगचोदना । अत ऊर्ध्वं ग्रहा उक्थ्यादय एव चोदनामाक्षिपन्ति यथा ग्रहाः आवृत्तिम् निमित्ते । एवं चेन्न यागचोदनया धर्माः शक्यन्ते ग्रहीतुं उक्थ्यादिषु । अतः फलचमसवत् नित्यानित्यसंयोगविरोधो युक्तः । कार्यतश्च धर्मप्राप्तिः तस्मात् समुच्चयग्रहणं वचनात् भविष्यति । अग्निष्टोमशब्दश्चानुवादः । तथा होमादीनामभावदर्शनमुपपन्नं भवति ।
?R॥ इति बृहत्यां तृतीयाध्यायस्य षष्ठः पादः ॥
* * *
?R
?R?0 ?R?0
?R?0तृतीयाध्यायस्य सप्तमः पादः ॥
?R ॥ 1 ॥ प्रकरणाविशेषादसंयुक्तं प्रधानस्य ॥ 1 ॥
?R बर्हिर्धर्माश्च किमङ्गप्रधानार्था उत प्रधानार्था एवेति सन्देहे प्रकरणात् प्रधानार्था इत्युक्त्वा उपकारकत्वेनाङ्गप्रधानार्थतामाह । तदयुक्तम् । श्रुत्यादिभिर्हि तादर्थ्यमवगम्यते नोपकारेण ।
?R उच्यते - श्रुत्यादय एवोपन्यस्ता बर्हिषि हवींष्यासादयतीति । उपकारकग्रहणं तर्हि किमर्थं ??R कदाचित् तदभावात् श्रुतेः सङ्कोचः स्यात् । अस्ति चासावेकरूप उपकारो नामेति तदभिधानम् । एवं तर्हि वाक्येनैव शेषावगतिः । किमिति तर्हि बर्हिर्मात्रे(ण) न भवति ??R ग्राहकत्वे सति शेषत्वमित्युक्तम् । ग्राहकश्च दार्शपौर्णमासिकप्रयोगविधिः सन्निधानात् । लिङ्गदर्शनमुक्तम् ।
?R ॥ 2 ॥ फलसंयोगात्स्वामियुक्तं प्रधानस्य?R ॥ 2 ॥
?R इह पुरुषसंस्कारा उदाहरणम् । ते किं कर्तृभूतस्य उताधिकृतस्येति । कर्तृभूतस्य । एवं कर्माङ्गतोपपद्यत इति पूर्वः पक्षः । किमित्यंशोपनिपातिनी इतिकर्तव्यतेति सप्तमाद्ये वक्ष्यामः । आकाङ्क्षाद्वयस्य तत्प्रसूतेः । तत्र यदर्थः कर्तृभावः संस्कारोऽपि तदर्थ
एव युक्तः । अधिकारनिष्पत्त्यर्थत्वाच्छास्त्रस्य । तस्मादधिकृतस्यसंस्कार इति युक्तम् ।
?R ॥ 3 ॥ चिकीर्षया च संयोगात्?R ॥ 7 ॥
?R बर्हिर्धर्माधिकरणेन किमत्रान्यत्वं येनेदमधिकरणमारभ्यते । प्रधानचिकीर्षां पूर्वपक्षवादी मन्यते । यदर्था चिकीर्षा तदर्थान्यङ्गानीत्यभिप्रायः ।
?R ॥ 4 ॥ तथाभिधानेन?R ॥ 8 ॥
?R अभिमर्शने तु साक्षात्प्रधानशब्दसंयोगात् पूर्वः पक्षः । सत्यं, प्रधानं चिकीर्ष्यते । तत्तु साङ्गं अधिकारनिर्वृत्ताविति राद्धान्तः । एवमभिमर्शनमपि अधिकारसाधनस्यैवेति उभयोरङ्गप्रधानार्थता ।
?R ॥ 5 ॥ दीक्षादक्षिणं तु वचनात्प्रधानस्य?R ॥ 11 ॥
?R दीक्षादक्षिणमपि साङ्गादधिकारनिर्वृत्तेः साङ्गस्येत्याशङ्क्य वचनात्प्रधानस्येति
?Rराद्धान्तः । युक्तं तावत् वचनात् दीक्षा प्रधानस्य । दक्षिणा पुनः यदा प्रधानस्यैव कथमपि तदा कथमपरिक्रीतैरङ्गानि क्रियन्ते । केन वोक्तमपरिक्रीतैरङ्गानि क्रियन्त इति प्राकृतमानतिकारणं भविष्यत्येव । यद्येवं न तर्हि प्रसङ्गः । यथा प्रसङ्ग तथा प्रसङ्गलक्षण एव वक्ष्यामः । दर्शनमुक्तम् ।
?R ॥ 6 ॥ तथा यूपस्य वेदिः?R ॥ 13 ॥
?R अर्धमन्तर्वेदीति किं वेदिः यूपाङ्गमुत नेति संशये श्रुतेरङ्गमिति पूर्वः पक्षः । बहिर्वेदिपदैकवाक्यत्वात् न श्रुत्यर्थविधानं संभवतीति देशलक्षणा । उभयविधाने वाक्यभेदप्रसङ्गात् ।
?R सामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात्सामिधेनीनाम्?R ॥ 15 ॥
?R कः पुनः पूर्वेणास्याधिकरणस्य विशेषः ??R अयमस्ति विशेषः पदान्तरासंबद्धं ह्यत्र हविर्धानं श्रूयते नान्तर्वेदिवत् बहिर्वेदिपदसंबद्धम् । तस्मादङ्गाङ्गिभाव इति पूर्वपक्षवादी मन्यते श्रुतेः विज्ञानविपरीतं हि विरुद्धमभिधीयते । राद्धान्तवादी तु उभयोरन्यार्थत्वात् देशलक्षणसंबन्ध एव न्याय्य इति मन्यते । तथा च ‘?Rहविर्धानं’?R ‘?Rसामिधेन्य’?R इति च समाख्यापि न पीडिता स्यात् । अन्यथाहि हविर्धानं सामिधेनीनां सामिधेन्यो वा हविर्धानस्येति देवदत्तस्येदं यज्ञदत्तस्येति यथैतदसंबद्धं तथेदमपि स्यात् । तस्मादत्रापि पूर्ववत् देशविशेषलक्षणैवेति युक्तम् । आग्नेय्यधिकरणवच्च सामान्यविशेषसंबन्धे वाक्यभेदः स्यात् ।
?R शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात्स्वयं प्रयोगे स्यात्?R ॥ 18 ॥
?R कथं पुनरत्र परिक्रयादिषु श्रूयमाणेषु संशयः । अयमभिप्रायः कर्तृगामिक्रियाफलमत्र श्रूयते । अतस्तद्विरोधात् गौणं अदृष्टार्थं वा मन्यते । कथं तर्हि समाख्याः आध्वर्यवमित्येवमाद्याः ??R ग्रन्थसंयोगादुपपन्ना भविष्यन्ति । तस्मात्स्वयं कर्तृतैव न्याय्येति पूर्वपक्षवादी मन्यते । अनियमवादी तु परिक्रीतैरपि क्रियमाणं तेनैव कृतं भवति । स हि तेषां प्रयोक्ता । प्रयोक्तुश्च कर्तृत्वस्मरणम् । न पुनराहत्यैव कर्तृत्वम् । उत्सर्गस्तु स्वद्रव्यत्यागलक्षणत्वात् स्वयमेव कर्तव्यः । एवं कर्तृत्वे उपपन्ने न परिक्रयस्य गौणता, अदृष्टार्थता वा कल्पयितुं शक्यते । समाख्याश्च मुख्यार्थाः न
?Rग्रन्थद्वारिकाः कल्पिता भविष्यन्ति । न हि अध्येतारोऽध्वर्युशब्दावाच्याः अध्ययनकाले । कथं पुनरनियमं मन्यते । अयमभिप्रायः यदा स्वयमनुत्साही तदा परिक्रयः यदासौ परिक्रयः तदा अन्यैरेवेति मन्यते । राद्धान्तवादी तु मन्यते नित्यवदाम्नानात् परिक्रयस्य यदा स्वयं न शक्नुयात् तदा परिक्रयेणेति न शक्यते कल्पयितुम् । ननु च सामर्थ्याद्भविष्यति लोकवत् । न हि श्रुतौ प्रत्यर्थिन्यां सामर्थ्यं प्रभवतीत्युक्तम् । लोके तु दृष्टार्थत्वात् यथार्थमिति युक्तम् ।
?R ?R?0॥ 9 ॥ तत्रार्थात् कर्तृपरिमाणं स्यादनियमोऽविशेषात् ॥ 21 ॥
?R एवं स्थिते परिक्रीतकर्तृत्वे अन्यत्रोत्सर्गात् अनियमं सङ्ख्यायाः पूर्वपक्षवादी मन्यते । एकस्मिन्नपि समाख्यावरणयोरुपपत्तेः । राद्धान्तवादी तु उत्पत्तौ तावत् समाख्यातो भेदं मन्वानः न पुनरेक एव संज्ञी । चोदनावगम्यत्वात् संज्ञानाम्, चोदनाभेदाच्च यावच्चोदनं संज्ञिभेदनियममुक्तवान् । एवं दर्शपूर्णमासादिष्वपीत्युक्तम् ।
?R?0 ॥ 10 ॥ चमसाध्वर्यवश्च तैर्व्यपदेशात् ॥ 25 ॥
?R चमसाध्वर्यवश्च किं ऋत्विक्सङ्ख्यासङ्ख्येयाः उत सङ्ख्यान्तर परिच्छेद्याः । ननु च होतृकाणां चमसाध्वर्यव इति व्यपदेशात् अन्यैर्भवितव्यम् । परस्परव्यपदेशादप्येतदुपपद्यत इति पूर्वः पक्षः । न हि षष्ठ्यन्तानां परस्परसंबन्ध विद्यत इति राद्धान्तवादी व्यतिरिक्तं मन्यते । उत्पत्तौ च संज्ञाभेदात् । तस्मादन्ये ते इति ।
?R ?R?0॥ 11 ॥ उत्पत्तौ च बहुश्रुतेः ॥
?R इदमिदानीं सन्दिह्यते - किमनियता उत बहव इति प्रातिपदिकार्थसिद्धेरनियता इति । अनियमेऽपि बहुवचनोपपत्तेः । न, नित्यवद्वहुवचनस्य श्रूयमाणत्वात् । उत्पत्तौ च बहुवचनस्य विवक्षितत्वात् । असिद्धार्थलक्षणं हि प्रातिपदिकं न वचनमपेक्षते । नोत्पाद्यवचनम् । तस्माद्बहवः ।
?R ?R?0॥ 12 ॥ दशत्वं लिङ्गदर्शनात् ॥ 27 ॥
?R स्थिते बहुत्वे किमनियमः उत नियतैव काचित् बहुवचनाभिधेया सङ्ख्या उत त्रित्वसङ्ख्यैवेति । कपिञ्जलाधिकरणेन त्रिसङ्ख्यैवेति प्राप्ते दर्शनाद्दशपेये, स्वामिदशत्वाच्च दशैवेति नियमः । अन्यत्रापि श्रूयमाणा नियता सङ्ख्या अनियतोपदेशं नियन्तुमर्हति
?Rअविरोधात् । तथा चोक्तं कारणादतिक्रम इति ।
?R?0 ॥ 13 ॥ शमिता च शब्दभेदात् ॥ 28 ॥
?R एवं स्थिते शमितापि शब्दभेदात् चमसाध्वर्युवद्भिद्यते । संज्ञाभेदश्चोपपन्नो भवति । एवं प्राप्तेऽभिधीयते-नात्र भेदः उत्पत्तिनिबन्धनो हि भेद उक्तः । न चास्योत्पत्तिरस्ति । कथं तर्हि संज्ञान्यत्वं ? ?Rनैवेयं संज्ञा अस्य, विरोधात् । किं तर्हि ??R यौगिकाभिधानमेव । एवं चाध्वर्यवमिति समाख्योपपन्ना भविष्यति ।
?R ?R?0॥ 14 ॥ उपगाश्च लिङ्गदर्शनात् ॥ 30 ॥
?R केन पुनर्विशेषेणायमधिकरणातिदेशः ??R अयं विशेषः उपगा इति गानकारिणां संबन्धात् चमसाध्वर्यव इव होत्रकाणामिति पूर्वपक्षवादी मन्यते । उत्पत्तेरश्रवणादित्यतिदिष्टो राद्धान्तः । लिङ्गमुक्तम् ।
?R?0 विक्रयी त्वन्यः कर्मणोऽचोदितत्वात् ॥ 31 ॥
?R सोमविक्रयी पुनः कः ??R तेषामेवान्यतम इति मन्यते । ननु चाचोदितो विक्रयः । चोदितस्य च ऋत्विजः कर्तृत्वेनोपादीयन्ते । क्रयोपादानशेषत्वं विक्रये मन्वानस्य पूर्वः पक्षः । राद्धान्तवादी तु लोभादेवाक्षेपसिद्धेः द्रव्यार्जनवन्न शेषं मन्यते । तस्मादनार्त्विजमेतत् । अतोऽन्य इति राद्धान्तितम् ।
?R ?R?0॥ 16 ॥ कर्मकार्यात् सर्वेषामृत्विक्त्वमविशेषात् ॥ 31 ॥
?R ननु चात्र राद्धान्तो न घटते । कथं न घटते ??R उत्पत्तावपि हि परिसङ्ख्यैव प्राप्नोति । चमसाध्वर्यूणामप्युत्पत्तिश्रवणात् । अथ परिसङ्ख्यैवेष्टा, ऋतुयजननिमित्तनिरसनमनर्थकं स्यात् । अत्रोच्यते - उत्पत्तौ नैव परिसङ्ख्या प्राप्नोति । एकैकत्र उद्गात्रादिशब्दतुल्यत्वात् ऋत्विक्शब्दस्य नात्रापह्नवनीयं किञ्चिदस्ति । ऋतुयजननिमित्ते पुनरपह्नवः प्राप्नोति । न चासौ शक्यते । एवं चोपरितनमधिकरणमुपपन्नं भवति ।
?R ?R?0॥ 17 ॥ नियमस्तु दक्षिणाभिः श्रुतिसंयोगात् ॥ 36 ॥
?R के त इति । ऋत्विग्भ्यो दक्षिणां ददातीति प्रक्रम्य यान् संकीर्तयति ते त इति राद्धान्तः । तथा ये यजमानास्त ऋत्विज इति दर्शितम् ।
?R ?R?0॥ स्वामिसप्तदशाः कर्मसामान्यात् ॥ 37 ॥
?R सप्तदश ऋत्विज इति श्रूयते । तत्र किं सह यजमानेन सप्तदश उत यजमानव्यतिरिक्ता अन्ये सप्तदशेति कर्मकरसङ्ख्यैषा । न च स्वामी कर्मकरः । एकधर्मयुक्तानां चावान्तरसङ्ख्योपपद्यते इत्यन्य एवेति युक्तम् ।
?R अत्रोच्यते - स्वामिसप्तदशाः सप्तदशः स्वामी येषां ते तथोक्ताः । ननु च कर्मकरसामान्यप्रयुक्तैवैषाऽवान्तरसङ्क्या । केन वोक्तं नेति । कथं तर्हि स्वामिसप्तदशाः सप्तदश । न स्वामितया यजमानः सप्तदशः । किं तर्हि ??R कर्तृतयैव । यजमानापेक्षैषा सङ्ख्या नाधिकारितया । ननु च सदस्यं वृणीत इति वरणोत्पत्तिमङ्गीकृत्य एषां सङ्ख्या, न च यजमान उत्पद्यते । उच्यते - षोडशानामेव वरणेनोत्पत्तिः । ननु च सदस्यं वृणीत इति सदस्यः सप्तदशो भविष्यति यदि ब्रह्मण्येवायं सदस्यशब्दो वर्तते । तस्मात् स्वामिसप्तदशाः परिगृह्यन्ते । अथ कस्मादेकश्चमसाध्वर्युः न परिगृह्यते ??R न ते यजमानेन वरितव्या इत्युक्तम् । तस्मात् कर्मकरणसामान्यात् यजमान एवेत्युक्तम् ।
?R ?R?0॥ 19 ॥ ते सर्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात् ॥ 39 ॥
?R इदमिदानीं सन्दिह्यते - किं सर्वार्था ऋत्विजः यावत्पुरुषकार्यं यजमानस्य तावत्तैः क्रियते उत यावद्वचनमिति । ‘’?Rअग्नयश्च स्वकालत्वा’’?Rदिति । किमिदं ??R ननु चाधानस्य सर्वार्थतां वदता अग्नीनां सर्वार्थत्वमुक्तम् । किमिदं पुनः सर्वार्थतोच्यते ??R सैवेयं सर्वार्थताऽत्र साध्यते स्वकालत्वादिति । ननु च स्वकालत्वात् यावदग्निकार्यं तत्सर्वमग्निभिरित्युच्यते यथा यावत्पुरुषकार्यं तत्सर्वमृत्विग्भिरिति । ततः किम् ??R तदेव नोपपद्यते समधिगतमेतत् अग्नयश्च स्वकालत्वादिति । न हि स्वकालत्वाद्यावदग्निकार्यं तदर्थता सिद्ध्यति । किं तर्हि ??R स्वकालत्वेन सर्वकर्मार्थता सिद्ध्यति न हि प्रतिकर्मोत्पत्तिर्भवतीत्यर्थः । एवं तर्हि भवतैवोक्तम् । यस्माद्यस्यैव हेतुः स एव प्रतिज्ञातार्थः । तस्मात् सूत्रद्वयमेवैतत् । आधस्त्यसूत्रस्य परिहारोऽयमुच्यते । इदं तु स्थितमेव । न ह्यत्र वचनानि नित्यानुवादतया कल्प्यन्ते । तस्माद्यावद्वचनमेवैतत् ऋत्विजां कार्यम् ।
?R ?R?0॥ 21 ॥ तस्योपदेशसमाख्यानेन निर्देशः ॥ 41 ॥
?R इदमिदानीं चिन्त्यते । यद्येन समाख्यायते तत् तेनैव कर्तव्यं उत किञ्चिदन्येनापि इति । एष तावदुत्सर्गः यद्येन समाख्यायते तत्तेन कर्तव्यमिति । उच्यते - वचनात् समाख्यानाच्च अपवादः । कथं तर्हि समाख्या ??R ब्राह्मणग्रामवदित्यदोषः । दर्शनमुक्तम् ।
?R ?R?0॥ 22 ॥ प्रैषानुवचनं मैत्रावरुणस्योपदेशात् ॥ 43 ॥
?R मैत्रावरुणः प्रेष्यति चानुचाहेति किं प्रैषमात्रं अनुवचनमात्रं मैत्रावरुणेन कर्तव्यं, उत संयुक्तमेवेति । संयुक्तस्य विद्यमानत्वान्नासंयुक्तं परिगृह्यते । चशब्दश्चैवं समर्थितो भवति । दर्शनमुक्तम् ।
?R ?R?0॥ 23 ॥ चमसांश्चमसाध्वर्यवस्समाख्यानात् ॥ 46 ॥
?R किं चमसैश्चमसाध्वर्यवो जुह्वति उताध्वर्युरेवेति । समाख्यैवान्यथा नोपपद्यत इति पूर्वः पक्षः । राद्धान्तस्तु - अध्वर्युशब्दस्योत्पत्तिनिमित्तत्वात् । अध्वर्युरिव चमसेषु भवन्तीति चमसाध्वर्यवः तस्मादध्वर्युर्जुहोतीति । कथं तर्हि अध्वर्युरिव भवति ??R अन्यत्र व्यापृते तस्मिन् तत्कार्यकरत्वात् । दर्शनमुक्तम् ।
?R ?R?0॥ 24 ॥ वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः ॥ 50 ॥
?R श्येनवाजपेयावुदाहरणम् । किं श्येनः उद्गात्रा कर्तव्यः समाख्यानात् अध्वर्युणा च वाजपेयः उत षोडशभिरपीति । विशेषसमाख्यानात् उद्गात्राऽध्वर्युणा चेति प्राप्ते उपकारदर्शनात् षोडशभिरपीति वदामः । क्लृप्तो बलीयानित्युक्तो हेतुः ।
?R॥ इति बृहत्यां तुतीयाध्यायस्य सप्तमः पादः ॥
?R?0तृतीयाध्यायस्य अष्टमः पादः ॥
?R ?R?0॥ 1 ॥ स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात् ॥ 1 ॥
?R समाख्यया आध्वर्यवमिति प्राप्ते अधिकारश्रुतिविरोधात् याजमानमिति राद्धान्तः । वचनादन्येषामृत्विजामपि परिक्रयः स्यात् ।
?R ?R?0॥ 2 ॥ संस्कारस्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् ॥
?R वपनादीनां समाख्यया नाधिकारो विरुध्यत इति पूर्वः पक्षः । राद्धान्तवादी तु
?Rपुरुषसंस्कारं मन्वानो न संस्कर्तुं पुरुषाः परिक्रीयन्ते । किं तर्हि कारयितुम्, अतः सामर्थ्यात् समाख्याबाधं मन्यते । यत्र पुनः श्रुत्यैव संस्कारश्चोद्यते न तत्र सामर्थ्यान्निवृत्तिः यथोपवासं वक्ष्यति । अथोभयानुग्रहाय समानविधानं कस्मान्न भवतीति चेत् ? ?Rऋत्विक्षु क्रियमाणो यजमानेन कृतः कारितो वा न भवति । किमिति न कृतः कारितो वा ??R ?Rसाधारण्यादेव । ननु चेडाभक्षणवत् स्वयं च करोति कारयति च । न । तत्र कर्तृत्वेनाविशेषात् । इह तु प्राधान्याविशेषादनुपपत्तिः । तस्माद्याजमान इति सिद्धम् । वचनाद्वा यजमानपञ्चमा इति ।
?R ?R?0॥ 3 ॥ तपश्च फलसिद्धित्वाल्लोकवत् ॥ 9 ॥
?R किमत्रातिदिश्यते ??R राद्धान्तः । का पुनरत्र पूर्वपक्षाशङ्का ? ?Rइयमस्ति क्लेशरूपत्वात् तपसः । परिक्रयश्च क्लेशापनुत्तये दृष्टार्थो भवति ।
?R न संस्कारसामान्यादिति राद्धान्तः । दर्शनमुक्तम् । उपवासश्च वचनादित्येतदप्युक्तम् ।
?R ?R?0॥ 4 ॥ गुणत्वाच्च वेदेनन व्यवस्था स्यात् ॥ 12 ॥
?R हिरण्यमाल्यादिषु तु गुणत्वादेव पदार्थस्य न समाख्यया कर्तृत्वं नियम्यत इति सर्वर्त्विजां प्रतिप्रधानावृत्त्या गुणो भवितुमर्हति । यत्र पुनः कर्तृतयैव संबन्धः यथोक्थ्यादिषु तत्रोक्तः समाख्यया नियमः ।
?R ?R?0॥ 5 ॥ तथाकामोऽर्थसंयोगात् ॥ 13 ॥
?R कामसंयोग इदानीं श्रूयमाणः किमार्त्विजो भवतु गुणफलसंबन्धेषु उत याजमान इति । किं युक्तम् ??R आर्त्विजः । कुतः ? ?Rऋत्विक्पदार्थाश्रितत्वात् गुणफलसंबन्धस्य कामसंयोगोऽपि ऋत्विजामेव । अतो गुणकामेषु ऋत्विजामधिकार इति । अत्रोच्यते । यजमान एवाधिक्रियते साङ्गे कर्मण्यधिकृतत्वात् । ननु चासावार्त्विजपदार्थः । नेति ब्रूमः । तत्कर्तृको हि सः न पुनः तस्य सः । यस्य च कर्म तदाश्रितमपि तस्यैवेति यजमान एवाधिक्रियते । एवं चात्मनेपदाभिधानमुपपन्नं भवति । यत्र च पुनः वचनादार्त्वि- जोऽधिकारः तत्रान्यदीयपदार्थाश्रितेपि गुणे व्यापृतस्य फलं भवति इति कल्प्यते ।
?R ?R?0॥ 6 ॥ मन्त्राश्चाकर्मकरणास्तद्वत् ॥ 15 ॥
?R इदानीमाशीर्मन्त्रा उदाहरणम् । किं याजमाना उतार्त्विजा इति । आर्त्विजास्समाख्ययेति प्राप्ते ब्रूमः - लिङ्गाद्याजमाना इति । लिङ्गं हि समाख्यातो बलीय इत्युक्तम् । प्रोषितसमिदाधानदर्शनं च लिङ्गम् । ननु च मम यजमानस्येत्येवमादि लिङ्गमुपपद्यते । अयमेव दोषः यदुताध्याहारो नाम । तस्माद्वक्तुरेव ममेत्युपपन्नं भवति ।
?R ?R?0॥ 7 ॥ द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् ॥ 17 ॥
?R केचिन्मन्त्राः याजमाने चाध्वर्यवे चाम्नाताः । तत्र संशयः किं द्वाभ्यां वक्तव्याः उताध्वर्युणैवेति । कथं पुनः द्व्याम्नानात् द्वाभ्यां च समाख्याताः एकेन वक्तव्या इति । एककार्यत्वान्मन्त्राणामिति पूर्वपक्षवादी एकप्रयोज्यतां मन्यते । राद्धान्तवादी तु एकस्यानुष्ठानस्मरणादन्यस्य च प्रत्यवेक्षणात् आम्नानद्वयस्यापि अर्थवत्त्वात् द्वाभ्यामपि प्रयोक्तव्याः । समाख्याद्वयं चानुगृहीतं भविष्यति ।
?R ?R?0॥ 8 ॥ ज्ञाते च वचनं न ह्यविद्वान् विहितोऽस्ति ॥ 18 ॥
?R क्लृप्तीर्यजमानं वाचयतीति श्रूयते । किं विद्वानेव वाचयितव्यः उताविद्वानपीति संशयः । कथं पुनः विदुषोऽधिकारसिद्धेः अविदुषोऽधिकाराशङ्का ??R वाचयतीत्येतस्मादेव हि न विदुषो वाचयतीति दृष्टार्थता संभवतीति । एवं तर्हि अविदुष एव वाचनं भवतु । भवतु को दोषः ??R विदुषोऽधिकारहानिः प्राप्नोति । नाधिकारं निवारयामः अविदुषोऽप्यस्तीति । इदंफलमिदमधिकरणम् । अत्रोच्यते - नाधिकारमाक्षेप्तुमिदं वचः । ब्रुवन्तमेव हि वाचयतीति ब्रवीति । नाब्रुवतः प्रवृत्तिमाह । विदुषश्च प्रकृत्यर्थे प्रवृत्तिः नाविदुषः श्रुतः । अतो यथाधिकारं वाचनमिति सिद्धम् ।
?R?0 ॥ 9 ॥ याजमाने समाख्यानात् कर्माणि याजमानानि स्युः ॥ 19 ॥
?R इह द्वन्द्वान्युदाहरणम् । किं यजमानेन कर्तव्यानि उताध्वर्युणेति संशयः । एकत्र पदार्थाम्नानात् । अन्यत्र समभ्याशीकरणात् । तत्र विशेषसमाख्यया याजमानानि । पदार्थपूर्वकत्वात् समभ्याशस्य । अत्रोच्यते । पदार्थास्तावदाध्वर्यवा एव अक्रियमाणे पदार्थे न यजमानेन समभ्याशः शक्यते कर्तुमिति आध्वर्यव एव । विशेषसमाख्याप्रवृत्तिस्तु दर्शिता ।
?R ?R?0॥ 10 ॥ विप्रतिषेधे करणः समवायविशेषात् इतरमन्यस्तेषां यतो
?R?0विशेषः स्यात् ॥ 21 ॥
?R ऋत्विगन्तरकार्योपदेशे किमात्मीयं कर्म करोतु उत अतिदिष्टमिति संशये अतिदिष्टं प्रत्यक्षविधानादिति सिद्धम् ।
?R ?R?0॥ 11 ॥ प्रैषेषु पराधिकारात् ॥ 23 ॥
?R प्रैषप्रैषार्थौ किमेकेन कर्तव्यौ उत द्वाभ्यामिति । प्राप्तकालभ्रान्त्या एकेनेति पूर्वः पक्षः । युष्मदर्थपरित्यागकारणाभावादिति राद्धान्तः ।
?R ?R?0॥ 12 ॥ अध्वर्युश्च दर्शनात् ॥ 23 ॥
?R इदानीं किमध्वर्युः प्रैषार्थं करोतु उतान्य इति संशयः । अर्थवाददर्शनादन्य इति प्राप्तम् । मन्त्रलिङ्गदर्शनात् समाख्यानार्थसंभवाच्चाध्वर्युः । अर्थवादस्तु गुणवादेन परिहृतः ।
?R ?R?0॥ 13 ॥ ऋत्विक्फलं करणेष्वर्थवत्त्वात् ॥ 25 ॥
?R कः पुनराशीर्मन्त्रैरस्य विशेषः ??R समाख्यातः स्थितेऽध्वर्युकर्तृत्वे अग्न्यन्वाधानस्य श्रत्या मन्त्रविधानम् । न च गुणानुरोधेन प्रधान (कर्तृत्व)बाधः शक्यते वक्तुम् । तस्मादाध्वर्यवो मन्त्र इति स्थिते कस्याशीरिति चिन्त्यते । लिङ्गादध्वर्योः । वक्ता हि उत्तमपुरुषेण संबध्यते । ननु कर्मसंबद्धफलसङ्कीर्तनात् कर्मार्थता मन्त्राणाम् । न । कर्मप्रयुक्तयशः प्रकाशयतः उपपन्नैव कर्मार्थतेति पूर्वपक्षवादी मन्यते । राद्धान्तवादी तु यश्चार्थादर्थो न स चोदनार्थ इति मन्वानः कर्मसंबद्धमेव फलं प्रकाशयन् मन्त्रः कर्मोर्थो भवति । यजमानसंबद्धमेव फलम् । यजमानस्य ममेति मन्त्रार्थः ।
?R?0 ॥ 14 ॥ कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् ॥ 28 ॥
?R यत्र पुनः दृष्टार्थमेव तत् किमृत्विजामेव उत अत्रापि कर्मफलमेवेति । उक्तेन न्यायेन कर्मफलमेवेति वदामः । अत्रोच्यते । यश्चार्थादर्थो न स चोदनार्थ इति अनुपकारमङ्गीकृत्यैतदुक्तम् । यत् पुनः कर्मण उपकरोति तदुपादानशेषतया भवत्येव कर्मार्थमिति नाकर्मार्थता मन्त्राणाम् ।
?R?0 ॥ 15 ॥ व्यपदेशाच्च ॥ 29 ॥
?R यत्र च व्यपदिश्यत एव तत्र भवत्येव फलदर्शनम् - तन्नौ सहेति ।
?R ?R?0॥ 16 ॥ द्रव्यसंस्कारः प्रकरणविशेषात् ॥ 30 ॥
?R वेदिर्वेदिधर्माश्चेत्युक्तमुत्तरविवक्षयेति ।
?R?0 ॥ 17 ॥ निर्देशात्तु विकृतापूर्वस्यानधिकारः ॥ 31 ॥
?R स्थितमङ्गप्रधानार्थं प्रकृतौ बर्हिरिति । विकृताविदानीं चिन्त्यते - किमत्रापि अङ्गप्रधानार्थे बर्हिषि धर्मा भवन्ति चोदकेन उत प्राकृतकार्यप्रयुक्त एवेति । तत्र प्रकृतिवद्विकृतावपीति पूर्वपक्षवादी मन्यते ।
?R राद्धान्तवादी तु कार्यमुखेनाङ्गप्रधानार्थसंबन्धितया सामान्येन प्रकृतिवद्विकृताविति धर्माणां विकृतौ निरूपणम् । न यथा प्रकृतिसंवन्धितया । संबन्धसामान्येन हि सर्वत्रोपदेशः स्यात् । ततश्चोहदर्शनं नोपपद्यते । तस्मात्सिद्धं न यूपबर्हिषि धर्माः कर्तव्याः । अञ्जनाज्ये न आज्यधर्माः ।
?R ?R?0॥ 18 ॥ विरोधे च श्रुतिविशेषादव्यक्तः शेषे ॥ 32 ॥
?R अनेकत्र शेषभावो न न्याय्यः इति परिभोजनीयादन्यत् कर्तव्यम् ।
?R ?R?0॥ 19 ॥ अयनयस्त्वेकदेशस्य ॥ 33 ॥
?R पूर्वाधिकरणन्यायेनानेकत्र शेषभावो न न्याय्य इति मन्वानस्य पूर्वः पक्षः । द्वयवदानोपसंहारात् प्रतिपत्तेश्च राद्धान्तः ।
?R ?R?0॥ 20 ॥ विकृतौ सर्वार्थः शेषः ॥ 34 ॥
?R इदानीं विकृतावुपांशुत्वादयो धर्माश्चिन्त्यन्ते । किं तत्रापि प्रकृतिवत् अङ्गप्रधानार्थता धर्माणां उत नेति संशयः । प्रकृतिवदङ्गप्रधानार्थता धर्माणामिति पूर्वः पक्षः । नौपदेशिकातिदेशिकैः उपदेशः संबध्यत इति । उपदेशापेक्षत्वादतिदेशस्य सापेक्षत्वं राद्धान्तः । किं पुनः कारणं न संबध्यत इति ??R उपदेशापेक्षत्वादतिदेशस्य सापेक्षनिरपेक्षयोः निरपेक्षं बलीय इति न्यायविदः ।
?R ?R?0॥ 21 ॥ सन्निधानविशेषादसंभवे तदङ्गानाम् ॥ 36 ॥
?R श्येने त्वौपदेशिकसंबन्धाभावात् आतिदेशिकैरेव संबन्ध इति विशेषः ।
?R ?R?0॥ 22 ॥ तत्काले वा लिङ्गदर्शनात् ॥ 39 ॥
?R इदानीं लिङ्गदर्शनभ्रान्त्या सुत्याकालानामेवात्र विधानमिति पूर्वः पक्षः ।
?Rअविशेषात् सर्वेषामिति राद्धान्तः ।
?R ?R?0॥ 23 ॥ मांसं तु सवनीयानाम् ॥ 42 ॥
?R तरसाः सवनीयाः पुरोडाशा भवन्तीति । अत्र सवनीयपुरोडाशयोः विवक्षायां वाक्यभेदप्रसङ्गात् कस्यायथार्थत्वमिति । दृष्टव्यभिचारात् पुरोडाशस्य अयथार्थत्वमिति राद्धान्तितम् ।
?R॥ इति बृहत्यां तृतीयाध्यायस्य अष्टमः पादः ॥
?R?0चतुर्थाध्यायस्य प्रथमः पादः ॥
?R ?R?0॥ 1 ॥ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ॥ 1 ॥
?R क्रत्वर्थपुरुषार्थयोर्जिज्ञासा किमिति पृथक् प्रतिज्ञायते ??R ऐदमर्थ्यलक्षणमेव हि शेषत्वम् ;?R शेषः परार्थत्वादित्युक्तम् । क्रत्वर्थतापि तदन्तःपातिनी प्रतिज्ञातैवाथातः शेषलक्षणमित्यनेन । तस्मात् पुनः प्रतिज्ञायाः प्रयोजनं न विद्मः ।
?R अथ मतं न श्रुत्यादिभिः पुरुषार्थताऽवगम्यते तस्य लिप्सार्थलक्षणेति वक्ष्यति । क्रत्वर्थग्रहणं तर्हि प्रत्युक्तम् । न चेयमपि पुरुषार्थतालक्षणा शक्यते वक्तुम् । न च शब्दादृते यागः स्वर्गार्थ इति ज्ञानमुत्पद्यते । न च तत्साध्यः स्वर्गः पुरुषार्थ इति स्वतोऽयमप्यसमाधिः । यदपि श्रुत्यादीनां सङ्कीर्तनं तदपि कस्मै प्रयोजनायेति न विद्मः । श्रुत्यादिभिश्शेषलक्षणं नान्येन प्रमाणेन । अतः शेषलक्षणमित्येतावतैव तथा । ततः श्रुत्यादिसङ्कीर्तनं मन्दप्रयोजनमिव प्रतिभाति । यदपि क्रत्वर्थपुरुषार्थयोः प्रयोजकाप्रयोजकादीनन्तर्भावयन् प्रतिज्ञातान् कथयति तदप्यसमञ्जस इव । कुतः ??R अन्तर्भावो हि स्वरूपतो लक्षणतः कार्यतो भवति । त्रयमप्यत्र नास्ति । स्वरूपं तावत् पृथगमिधानादेव भिन्नम् । लक्षणमपि स्वरूपभेदादेव भिन्नम् । लक्षणभेदादृते न स्वरूपभेदः कार्यमपि यद्दर्शितं भाष्यकारेण तदयुक्तम् । प्रदेशान्तरविरुद्धश्चार्थवादस्तावत् स्तुत्यर्थः प्राधान्यमपि उपकार्योपकारनिबन्धनम् । प्रयोजकमपि प्रयोज्यं प्रति प्राधान्यमात्मनः प्रतिपादयति । न पुनरात्मनः परार्थताम् । तदिदं रात्रिप्रयाणमिवादेशकं
?Rभाष्यं व्यामोहमुपजनयति ।
?R अत्रोच्यते - द्वयमप्येतद्युक्तं भेदोपन्यासोऽन्तर्भावश्च यथा तत्र । यत्पुनः तादर्थ्यं शेषत्वे हेतुरिति सत्सु श्रुत्यादिषु तदित्युक्तम् । ननु चैवं सति क्रत्वर्थता प्रत्युक्तेत्यप्युक्तम् । भवेदेतदेवं यदि वैनियोगिकमुच्यते । इह तु उपादाननिबन्धनमेव प्रतिजानाति । किमुपादानं नाम ??R नियोगाक्षेप उपादानम् । तत्कृतं च प्रोक्षणादेः क्रत्वर्थत्वम् । विनियोगात् पुनः व्रीह्यर्थतैव । भेदार्थप्रतिज्ञानं तर्हि किमिति ??R किमितिवाऽन्तर्भावः । अवगति हेतुभेदाद्भेदः उपकारसामान्यादन्तर्भावः । प्रयोजकः कश्चित् पुरुषार्थ इति कश्चिद्ग्रहणं किञ्चित्प्रयोजकस्याप्यपुरुषार्थताज्ञापनार्थं यथा - कस्य ??R आचार्यकरणविधेः स्वाध्यायस्य ।
?R ?Rयस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् ॥ 2 ॥
?R ‘’?Rतस्य लिप्सार्थेनैव भवति न शास्त्रेण’’?R इति विरुद्धमुक्तम् । न शास्त्रादृते स्वर्गः साध्यतया प्रतीयते । कर्तृगामितया च । संबन्धशास्त्रमङ्गीकृत्यैतदुक्तम् । अर्थश्च नियोगसिद्धिः तच्चोपादानमित्युक्तम् । ननु च क्रत्वर्थताप्युपादानेनैवोक्ता । विनियोगेसतीत्युक्तम् । अर्थादेव हि पुरुषार्थ इति विशेषः । किमिदमविभागादिति ??R पुरुषस्य क्रतुसंबन्धाविभागादित्यर्थः । एतच्च षष्ठे निपुणतरमुपपादयिष्यामः । परिशेषाद्विनियोगे सतीति क्रत्वर्थतोक्ता भवति ।
?R एवं वा । ननु गुणफलचोदना एता इत्युक्तम् । कोऽयं पुनर्विचारः ??R उच्यते - प्रदर्शितमस्माभिः विनियोगतस्तदुक्तमिति । इह पुनरुपादानतो दृष्टप्रयोजनसंभवात् नादृष्टं प्रयोजनं संभवति इति पूर्वः पक्षः ।
?R न, यथाविनियोगं कार्यावगतेः । विनियुक्तस्यैव हि कार्यकल्पना नाविनियुक्तस्येति राद्धान्तः ।
?R अतो विनियोगतः उपादानतश्च पुरुषार्थतैव गुणफलचोदनास्विति स्थितम् । वादरिग्रहणं पुनरुपकारप्रदर्शनार्थम् । न पुनः परार्थत्वादिति शेषहेतुनिवृत्त्यर्थम् । कथं ??R विनियोगे हि स उक्तः । ननु बादरिणापि विनियोग एवासावुपन्यस्तः । अत एवासौ निराकृतः । इह पुनः कार्यत एवोपादानमित्युपन्यस्तम् । अयथाविनियोगतया निरस्यत
?Rइत्यविरोधः । एवं वा । इह द्रव्यार्जननियमा उदाहरणम् । तत्र पूर्वः पक्षः । नियमनियो गानामधिकारशृन्यत्वात् कामश्रुतिनियोगेनैकवाक्यत्वात् अधिकारसिद्धेः । एवं च क्षामवत्यादीनामपि स्पष्टैव कर्मार्थतोपपन्ना भवति इति । तस्मादनधिकारिणे विधेरानर्थक्यं माभूदिति क्रत्वर्थता । ननु क्रत्वर्थत्वे स्वत्वमेव न भवतीति याग एव न संवर्तेतेति प्रलपितमिदं केनापि ।
?R आर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम् । कथं तर्हि क्रत्वर्थता ??R वनीवननवत् तदर्थं स्वत्वमित्यभिप्रायः ।
?R अत्रोच्यते - नेमे अधिकारशृन्या नियमविधयश्शक्यन्ते वक्तुम् । जीवनाय प्रवृत्ता अधिकृता भविष्यन्ति । न च शब्दादेवाधिकारः अधिकारादेव ह्यधिकारः । स तु क्वचिच्छब्दावगम्यः क्वचित् प्रमाणान्तरावगम्यः । अतः स्वत्वस्याविशेषात् सर्वपुरुषार्थनिर्वृत्तौ न विशेषश्शक्यतेऽवधारयितुम् ।
?R ?Rअपि च यदि शास्त्रात् कर्मार्थं द्रव्यं तन्नान्यत्र विनियुज्येत, तथाऽऽर्जितं, तत्र सर्वतन्त्रपरिलोपः स्यात्?R । कोऽर्थः ??R किमिदं तन्त्रम् ??R जीवनमिति चेत् अनियमात्तर्हि जीविष्यति । नियमस्य क्रत्वर्थत्वात् । अथ क्रत्वन्तराणि तन्त्रशब्दाभिधेयान्यभिप्रेतानि तथापि प्रतिक्रतु नियमान्न लोपः ।
?R अत्रोच्यते - क्रत्वन्तराण्येव तन्त्रशब्दाभिधेयान्यभिप्रेतानि । नचार्जनस्य विशेषोपादानत्वे प्रमाणमस्ति । न च सर्वतन्त्रं सर्वेण द्रव्येण शक्यते कर्तुं इति तन्त्रपरिलोपः सर्वकर्मणाम्, अयं चापरो दोषः नान्यस्य तन्त्रे प्रतते अन्यत्तन्त्रं प्रतायते इति दर्शनं नोपपद्यते । अथ नैवेदं कस्यचिदेकस्याङ्गमिति । एवं तर्हि नैवेदं प्रयोगवचनेन गृह्यते, अनुपात्तप्रयोगवचनस्याङ्गतैव नास्ति । असत्यङ्गत्वे यस्य किल अङ्गता नास्ति तस्याप्रयोगेणानुपकारकत्वमिति सोऽयमङ्गताऽभाव एवानुपकारकत्वेन दर्शितः?R । न चाधानवद्भवितुमर्हति । न च द्रव्यार्थमेवेदमार्जनं आधानवदग्न्यर्थमेव भवितुमर्हति, जीवनाय प्रवृत्तस्याधिकारावगमात् अतः पुरुषार्थमेवेदमार्जनम् । तस्मात् क्रत्वर्थत्वे तन्त्रपरिलोपः स्थितो दोषः । क्षामवत्यादीनामाहिताग्नेरधिकारावगमात् भवतु क्रत्वर्थता फलं कल्पयितुम् । पुरुषार्थ एव वा नैमित्तिकोऽस्तु । तस्मात् पुरुषार्था
?Rद्रव्यार्जननियमा इति स्थितम् । अतो नियमातिक्रमः पुरुषस्यानर्थः न क्रतोः ।
?R ॥ 3 ॥ तदुत्सर्गे कर्मणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वात् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः ॥ 3 ॥
?R यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सा अर्थलक्षणेत्युक्तम् । इह तु प्रीतेरश्रवणात् अर्थतश्च श्रवणादनवगमात् अधिकारिशृन्यता विधेः । न चानधिकारं पुरुषार्थं भवति इति तस्य क्रत्वर्थस्यैवेक्षणस्यायं प्रतिषेधः नियमो वा । अत्राभिधीयते - प्रीत्युत्सर्गेप्येतदुक्तम् । अधिकाराश्रवणेपि अधिकारो युक्तः कल्पयितुम् न पुनः क्रतुसंवन्धकल्पना । कः पुनरत्र विशेषः ??R अयमस्ति विशेषः । यथैवाधिकारे श्रूयमाणे गम्यमानतत्कर्तृतैव न्याय्या । एवं गम्यमानकर्त्रवगमात् अधिकारकल्पनैव न्याय्या । कथं तर्हि कर्त्रधिकरणम् ??R तत्र हि विनियोगोऽधिकारकल्पनायाः प्रतिपक्षः । इह तु अप्रतिपक्षाऽधिकारकल्पनेति । किं भूतः पुनरत्राधिक्रियते ??R ‘’?Rएतावता हैनसा वियुक्तो भवति’’?R इति श्रवणात् जीवत एव वाऽधिकारः ।
?R अतो नित्योऽयं जीवनानुपालनीयो नियमः स्वधर्मतया । ननु च प्रसज्यप्रतिषेधो न्याय्यः । सत्यम्, तस्य व्रतमित्यन्वयावगतेर्लक्षणैव न्याय्या । आधानवदप्यत्र नैव द्रव्यार्थता संभवति । अविनियुक्तद्रव्यसंयोगात् । दृष्टस्य च संस्कारस्याविद्यमानत्वात् । किं दृष्टार्थता शक्यते वक्तुम् ??R बाढं शक्यते दर्पणप्रमार्जनवत् लोक एवोपयोगदर्शनात् । तस्मात् पुरुषार्थो नियम इति युक्तम् । दृष्टार्थासंभवेन च कर्करीकर्णादयोऽपि पुरुषार्था इत्युक्तम् ।
?R ॥ 4 ॥ द्रव्याणि त्वविशेषेणानर्थक्यात् प्रदीयेरन् ॥ 7 ॥
?R उक्तं ‘?Rस्फ्यश्च कपालानि च’?R ‘?Rस्फ्येनोद्धन्ति’?R इत्येतयोः किं विनियोजकमिति । तत्र पूर्वपक्षवादी ‘’?Rस्फ्येनोद्धन्ति’’?R इत्येवमादिभिर्वाक्यैः साक्षात् यज्ञसंबन्धानवगमात् यज्ञायुधानीति विध्यन्तरं मन्यते । ननु वाजपेयस्य यूप इतिवत् प्रणाड्यापि संबन्ध उपपद्यते । युक्तं यूपाभावात्क्रतोस्तत्र । इह पुनः किं नोपपद्यत इत्यभिप्रायः । एवं प्राप्तेऽभिधीयते - यज्ञायुधानीति तावत् लक्षणा । लक्षणा चेत् साक्षाद्व्यवधाने च न कश्चिद्विशेष प्रमाणान्तरानुसारिणी हि लक्षणा । न च विद्यमाने प्रमाणे प्रमाणान्तरकल्पना
?Rशक्या । स्फ्येनोद्धन्तीत्युभय सिद्धत्वात् । एवं च विकल्पदोषः परिहृतो भवति । लिङ्गं चाप्युपपन्नं भवति ।
?R ॥ 5 ॥ तत्र चैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् ॥ 11 ॥
?R एकत्वं विनियोगाभावान्न यज्ञाङ्गमिति पूर्वपक्षवादिनोऽभिप्रायः । कथं पुनरेकत्वं न विनियुज्यते ??R विभक्तयो हि प्रातिपदिकार्थस्य स्वार्थसंबन्धमभिदधति । तस्मादेकत्वं करणत्वं च प्रातिपदिकार्थस्यैव । नैकत्वस्य करणभावः । करणसंबन्धे सति प्रातिपदिकार्थसंबन्धो न स्यात् । यथा ‘?Rअरुणया’?R इति न द्रव्येण अतः प्रतीयमानमप्येतन्न क्रियया संबध्यते यथा पूर्वो धावतीत्यपरप्रत्ययः । लिङ्गदर्शनानि चैवमुपपन्नानि भवन्ति । एवं प्राप्ते उच्यते - न विनियोगादेव क्रियाङ्गता, किं तर्हि ??R उपादानादपि हि शेषताभवति । यथैव हि करणीभूतस्यैवोपादानं एवमेकत्वयुक्तस्यापि । न ह्यकारकस्योपादानमसङ्ख्यायुक्तस्यापि संभवति । तथा च लौकिकाः गामानयेत्येवमादिषु तथैव प्रतिपद्यन्ते । तदिदमुक्तं ‘’?Rन श्रुतिर्ब्रूते (प्रमिते) बाक्यार्थो नास्ति’’?R इति?R । न विनियोगो ब्रूते उपादानं नास्तीत्यर्थः । ननु ‘?Rन श्रुतिर्ब्रूते वाक्यार्थो नास्ति’?R इति अन्य एवार्थः प्रतीयते । कोऽर्थः ??R अयमर्थः प्रतीयते । न श्रुत्या वाक्यार्थस्य विरोधोऽस्तीति । श्रुत्यर्थापरित्यागेन वाक्यात् क्रत्वर्थतावगम्यते । विरोधे च दौर्बल्यमुक्तम् । उक्तमस्माभिः विनियोगो न संभवतीति करणस्येवैकत्वस्येति । कथं तर्हि वाक्यशब्दः ??R समभिव्याहारपर्यायोऽयं न विनियोजकपर्यायः । तस्मात्सिद्धमुपादानतः शेषत्वं सङ्ख्याया लिङ्गस्य च । एवं दर्शनान्युपपन्नानि पूर्वपक्षदर्शनं चानुवादः ।
?R एवं वा । लिङ्गाधिकरणम् पुनः एवं वेति वदतः कोऽभिप्रायः अपरिच्छेदकत्वं लिङ्गस्य पूर्वपक्षवादी मन्यते । परिच्छेदिका हि सङ्ख्या द्रव्यस्य परिमाणमाचष्टे श्रवणाविशेषाल्लिङ्गमप्युपादीयत इति राद्धान्तः । ननु चापरिमाणापादकत्वाल्लिङ्गं नोपादातव्यमित्युक्तम् । नात्र परिमाणमुपादाने उपयुज्यते । विशेषनिष्ठत्वादुपादानस्य । यथाऽनुष्ठानविशेषाकाङ्क्षा तथा कारकविशेषाकाङ्क्षापि । अतस्सङ्ख्यावदुपादानमिति सिद्धम् । शेषं पूर्ववत् ।
?R ॥ 7 ॥ ?Rआश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत ॥ 18 ॥
?R इहाश्रयिणः पदार्था उदाहरणम् । ननु भाष्यमयुक्तं किं यजिमात्रं संस्कारो देवताया उत यजिनाऽदृष्टं देवतायां क्रियत इति यस्मात्संस्कारमात्रमदृष्ट(म)कुर्वदनर्थकम् । द्विविधमाख्यातमुक्तं परप्राप्तनियोगानुवादकम् । अवहन्तीत्याग्नेयादिचोदनावगत- नियोगानुवादकं स्वनियोगसंबन्धितयाऽधिकारसाधनं च । इहेदानीं सन्दिह्यते - किं परप्राप्तनियोगानुवादात्मकं उत स्वनियोगसंबन्धितयाधिकारसाधनमिति । कुतः संशयः ??R अंशेन दृष्टस्य संभवः अंशेनादृष्टस्येति पूर्वपक्षवादी दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति परप्राप्तानुवादं मन्यते । ननु यज्यर्थोऽत्र न निष्पद्यते । अनुष्ठानाद्दृष्टोपपत्त्यर्थो (ऽदृष्टो)भविष्यतीत्यभिप्रायः । अत्राभिधीयते - दृष्टोपपत्त्यर्थतैव न घटते । कस्मात् ??R नियोगसिद्धेरविवक्षितत्वात् । नियोगाद्धि नियोगार्थे प्रवृत्तिः । अथ तदर्थमुत्पत्तिनियोगो विवक्ष्यते सिद्धमपूर्वार्थत्वम् । पश्चादधिकारनियोगार्थत्वे यागस्य - निरूढेऽङ्गसंबन्धे सति तद्द्वारेण द्रव्यदेवतागतदृष्टसंस्कारनिष्पत्त्यर्थमित्यनुमन्यत एव । न च तृतीयप्रकारोऽयं नियोगनिष्पत्तेस्तुल्यत्वात् समिदादिवत् । प्रयोजनं तु दृष्टमदृष्टं वा भवतु । प्रयोजनवशाच्च अनुष्ठानमननुष्ठानं वा भवतु । सर्वथा सिध्यति स्वनियोगार्थता ।
?R ॥ 8 ॥ ?Rअर्थे समवैषम्यमतो द्रव्यकर्मणाम् ॥ 21 ॥
?R ‘?Rअतिक्रान्तस्तृतीयविषयः’?R इति । कोऽयं तृतीयविषयः ??R पारार्थ्यप्रतिपत्तिः । साऽतिक्रान्ता । इदानीं पुनः स्थिते पारार्थ्ये केवलमुपादानमेव चिन्त्यते केन प्रयोजनेनोपादानं केन नेति । ननु च प्रागप्यस्मात् प्रयोजनकृतैवोपादानचिन्ता । केन विशेषेणेदमुच्यते इदमिदानीमिति । सत्यं - किन्तु पारार्थ्यमपि तन्निमित्तकमेव, न (वि)नियोगनिमित्तकम् । अत इदमुक्तं तृतीयविषय इति । तृतीयस्यायं विषयः न पुनः तार्तीयैः प्रमाणैः शक्यतेऽवगन्तुम् । अतो विधिनिमित्तकमेवास्य पारार्थ्यमिति चतुर्थे चिन्तितम् । एतच्च व्याख्यातम् -न श्रुत्यादिभिः सर्वस्य पारार्थ्यं शक्यते प्रतिपादयितुमिति । एतदेवात्र कथ्यते । तथा च यागफलयोरधिकारात् पारार्थ्यं वक्ष्यति । अत एव बादरेरेषा भ्रान्तिः द्रव्यगुणसंस्कारेष्वेव शेषत्वमिति । श्रुत्यादीनां तत्र द्रव्यादौ संभवात् उपादानाधिकारयोः सामर्थ्यमपश्यतोऽवधारणात् । अत एवेदं लक्षणान्तरमुच्यते शेषावगमतुल्यत्वेपि ।
?R ॥ 9 ॥ एकनिष्पत्तेः सर्वं समं स्यात् ॥ 12 ॥
?R अतः प्रभृतीदानीं केवलोपादानव्यापार एव चिन्त्यते । शेषता तु विनियोगत एव । नोपादानतः । पूर्वपक्षवादी तु केवलोपकारदर्शनादेवोपादानमाह, न शेषताऽपेक्षणीयेति मन्यते । यथैवोपादानशेषेषु पश्वेकत्वादिषु । तस्मादुभयं प्रयोजकमिति । अत्राभिधीयते - नात्र प्रयोजकत्वं वाजिनस्य । कुतः ??R शेषभूतस्य हि प्रयोजनाकाङ्क्षा । सा च यस्य शेषभूता तेनैव प्रयोजनेन निवृत्तेर्न प्रयोजनान्तरं प्रयोजकत्वेनापेक्षेत । कथं तर्हि अशेषभूतस्योपादानशेषत्वं, एकत्वादेः अशेषभूतस्य प्रयोजनाकाङ्क्षैव नास्तीति । अशेषत्वे उपादानस्यैवानुपपत्तेः । अत्रोच्यते - शेषस्यावगमात् अन्यथानवगमात् अवगमपूर्वकत्वाच्चोपादानस्य । किं च शेषभूतस्य प्रयोज्यत्वान्यथानुपपत्तेः । न ह्यनवच्छिन्नमुपादातुं शक्यत इत्युक्तम् । यत्पुनर्न शेषभूतं न च शेषस्थमवगम्यते न शेषोपादानेनापेक्ष्यते न तत् प्रयोज्यं भवितुमर्हति । यथा न दध्यानयनं न वाजिनशेषभूतं तथा प्रदर्शितं भाष्ये । तथा च लिङ्गं प्रदर्शितम् ।
?R ॥ 10 ॥ पदकर्माप्रयोजकं नयनस्य परार्थत्वात् ॥ 25 ॥
?R कः पुनराधस्त्येनाधिकरणेनास्य विशेषः ??R अयमस्ति विशेषः तत्र हि दध्यानयनं आमिक्षानिर्वृत्तिसमकालमेव वाजिनमनुनिष्पादयति । अतो युक्तं वाजिननिष्पत्तेः न कारणान्तरापेक्षा । इह पुनः सप्तमं पदं इत्युक्ते भवत्याकाङ्क्षा कस्येति । प्रकृतत्वादेकहायन्या इति गम्यते । तस्मादुभयार्थामेकहायनीं मन्यते । एवं प्राप्तेऽभिधीयते - सत्यं यदि कस्येत्याकाङ्क्षोपपद्यते अनिर्ज्ञातसंबन्धान्तरे संबन्धिन्युपदिश्यमाने भवत्याकाङ्क्षापूर्विका प्रज्ञा । यत्र पुनस्संबन्ध्यन्तरपूर्वक एवोपदेशः तत्र यथानिर्ज्ञातसंबन्धिपुरस्सर एवोपदेशः इति दर्शितमश्वप्रतिग्रहे । अतः क्रयार्थैवैकहायनी सप्तमपदसंबन्दिनीति न प्रयुज्यते । अत्र भाष्यम् - ‘?Rप्रसङ्गमुपजीवता’?R इति । ननु चेदं प्रयोजनलक्षणम् । कः प्रसङ्गस्यावसरः ??R विद्यमाने हि प्रयोजकत्वे प्रसङ्ग उक्तः । इह तु प्रयोक्तृतैव नास्तीति । उच्यते - शास्त्रप्रसङ्गमङ्गीकृत्यैतदुक्तम् । न प्रयोगप्रसङ्गमित्यदोषः ।
?R ॥ 11 ॥ ?Rअर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि
?Rविधीयते ॥ 26 ॥
?R ‘?Rपुरोडाशकपालेन तुषानुपवपति’?R इति नात्र शास्त्रप्रसङ्गः संभवतीति प्रयोक्तृत्वं पूर्वपक्षवादी मन्यते तुषोपवापस्यापि न च नान्तरीयकः शक्य उपवापो वक्तुम् वाजिनवत् । तस्मादुभयं प्रयोजकमिति । अत्राभिधीयते - सत्यं विनियोगे नास्ति शास्त्रप्रसङ्गः । नापि नान्तरीयकभावः । किन्तूपात्तस्यायं विनियोग इति नोपादानकल्पना क्रमते । तदिदमुक्तम् - ‘’?Rभविष्यता संबन्धोऽयं भूतवर्तमानाभ्यां’’?R इति । यदि पुनः भूतवर्तमानाभ्यां संबन्धः किमुपादानं स्यात् ??R उच्यते - न भूतस्य, तस्य भविष्यदर्थतया अनुपात्तस्यैव पालनं भविष्यति । पालनभूतमेवोपादानं यतः । वर्तमानस्यापि यः संबन्धी तस्यान्यत्र विनियोगो न संभवतीत्यर्थादन्यदुपादेयम् । भविष्यदर्थत्वे पुनः अन्यार्थमेवोपात्तस्य विनियोगः संभवतीति सिद्धमप्रयोजकत्वम् । तुषोपवापस्तु कर्तव्यो न कर्तव्य इति नास्याधिकरणस्यायं विषयः ।
?R ॥ 12 ॥ पशावनालम्भाल्लोहितशकृतोरकर्मत्वम् ॥ 27 ॥
?R अस्मिन्नधिकरणे हृदयाद्यवदानवचनं लोहितशकृत्संप्रव्याधवचनं च तुल्यम् । प्रकृतपशुविषयतया ‘?Rअग्नीषोमीयं पशुमालभेत’?R इति द्वयोरपि प्रयोजकतां मन्यते पूर्वपक्षवादी ।
?R अत्राभिघीयते - ‘?Rहृदयस्याग्रेऽवद्यपि’?R इति यागोपसंहृतिरियम् । अङ्गैस्तृतीयसवन इति श्रवणात् । शकृत्संप्रव्याधस्तु तावन्मात्रपर्यवसायित्वात् प्रकृताश्रयत्वाच्च । प्रतिपत्तिश्च न प्रयोजिका । न प्रतिपाद्यं प्रतिपत्त्यर्थमुपादीयत इति न्यायात् । अतो न प्रयोजकं पशोः शकृतादीति ।
?R ॥ 13 ॥ एकदेशद्रव्यं चोत्पत्तौ विद्यमानसंयोगात् ॥ 28 ॥
?R ननु चात्र पूर्वपक्ष एव नोपपद्यते । उपात्तद्रव्यविषयत्वात् इक्षुखण्डवच्छेषावगतेः । सत्यमेवं, किन्त्वत्र पुरोडाशस्यान्यार्थत्वात् नान्यत्र कार्यान्तरे विनियोग उपपद्यत इति । अतो द्रव्यान्तरमुपादेयमिति पूर्वपक्षवादी मन्यते । राद्धान्तवादी तु न द्व्यवदानमात्रोपसंहारः द्व्यवदानमात्रेणैवाग्नेयथागनिर्वृत्तिमुपसंहारमन्यत्र विनियोगोपपत्त्यर्थ- मुक्तवान् । यद्यन्यस्मै दीयते दीयमानं हि तदा संप्रदानार्थमिति तन्नोपपद्यते । तस्मान्न
?Rयागकार्यादन्यत्र विनियोगस्संभवति । यागकार्यतया पुनः नान्यार्थता शक्यते वक्तुम् । अतो नाग्नेयादिचोदनाया विरोधः । तस्मादप्रतिपक्षेक्षुखण्डन्यायेनानुपादानं सिद्धम् शेषदर्शनात् तथा समवदानश्रुतिरित्युक्तं भाष्ये ।
?R ॥ 14 ॥ ?Rअभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात् ॥
?R किं पुनः पुरोडाशकपालेनात्र विशिष्यते ??R द्रव्योपादानं तावत् तद्वन्नास्तीति स्थितमेव । धारणस्य तूपादानं हविषः प्राधान्यान्नान्यार्थतया विरुध्यत इति पूर्वः पक्षः । कथं पुनः हविषः प्राधान्यं द्वितीयाश्रवणादभिघारणस्य तदर्थत्वात् प्रयाजशेषस्य च पुरोडाशकपालवत् तदर्थत्वात् । सिद्धान्तस्तु न प्राधान्यं हविषां दृष्टार्थतयाऽऽज्यस्यैवेति युक्तम् । तस्मात् प्रतिपत्तिरेवेयं प्रयाजशेषस्येति । कथं तर्हि हवींष्यभिघारयतीति बहुवचनं एकेन हविषाऽभिघारणनिर्वृत्तेः । अगृह्यमाणविशेषत्वात् बहुवचनमविरुद्धम् । अतो द्रव्योपादानवत् धारणोपादानमपि न युक्तं सन्निहित एव हविषि प्रतिपत्तिसिद्धेः इति ।
?R ननु द्वितीयातृतीययोरन्यार्थता ग्रहीतुं न शक्या यथार्थतयापि वचनाविरोधात् । सत्यं, यद्यविरोधो वचनस्य स्यात् । इह तु प्रयाजशेषशब्देन विरुध्यते प्रतिपत्तौ पुनः नायं विरोध इति प्रातिपदिकार्थानुरोधिनी गुणभूतार्थवादिनी विभक्तिरिति युक्तम् । अत्राप्यन्यार्थतैव न्याय्या द्वयोः कर्मणोरेकस्मिन् वाक्ये संबन्धानुगुणः सप्तम्यर्थो द्रष्टव्यः । दर्शनमुक्तम् ।
?R ॥ 15 ॥ ?Rसमानयनं तु मुख्यं स्याल्लिङ्गदर्शनात् ॥ 40 ॥
?R ‘?Rअतिहायेडो बर्हिः प्रति समानयते’?R इत्यत्र सन्देहः - किमुपरितनप्रयाजद्वयार्थमेवेदं समानयनं तत्तश्चौपभृतस्याज्यस्य प्रयाजानूयाजार्थस्य तद्धर्माणां च प्रयोजकम् । उत मिश्रीकरणार्थमेवेदं जौहवसंस्कारार्थम् । ततश्च परप्रयुक्तद्रव्यसाध्यत्वात् अप्रयोजकमाज्यस्य धर्माणां चेति । तत्र पूर्वपक्षवादी समानयनमात्रश्रवणात् मिश्रीकरणमात्रं मन्यते । अष्टावुपभृति गृह्णातीति च सर्वप्रयाजार्थतां मन्यते । कुतः ??R विशेषाश्रवणात् । तस्माददृष्टार्थमेवेदं समानयनमिति ।
?R एवं प्राप्तेऽभिधीयते - प्रयाजद्वयसाधनार्थमेवेदं समानयनम् । कुतः ??R एवं
?Rदृष्टार्थता समानयनस्य भवति उपभृति च प्रयाजार्थस्य ग्रहणस्य ।
?R ननु चाविशेषेण तदौपभृतं सर्वार्थं श्रूयते । श्रुतानुसारेण चादृष्टार्थता न्याय्या । नाविशेषश्रुतिः सामर्थ्येन विशेषेऽवस्थाप्यमाना शब्दार्थतां जहाति । तस्मात् शब्दस्याप्रतिरोधित्वात् दृष्टे संभवति अदृष्टकल्पना न न्याय्येति राद्धान्तदर्शनमुक्तम् ।
?R ॥ 16 ॥ तत्रोत्पत्तिरविभक्ता स्यात् ॥ 42 ॥
?R कः पुनरत्र पूर्वपक्षवादिनोऽभिप्रायः ??R उभयमुभयार्थमिति वदतः इति । अयमभिप्रायः अविशेषेण श्रवणात् - चतुर्जुह्वां गृह्णातीति, विशेषतश्च कार्यसिद्धेः प्रयाजग्रहणमनूयाजवन्नित्यानुवादं मन्यते जौहवे ।
?R अत्रोच्यते - यद्युपादानत एव प्राप्तिः स्यात् स्यादेतदेवं उपादानमात्रादुभयार्थताप्रतीतेः । एवं तर्हि अनृयाजमात्रार्थमेवौपभृतं भवतु । केवलानूयाजार्थश्रवणात् । उच्यते - प्राप्तार्थत्वादस्य विनियोजकस्य केवलानूयाजसंबन्धिनोऽनुवादं मन्यते । कुतः प्राप्तिः ??R प्रयाजानूयाजभ्यस्तद्गृह्णातीत्युभयार्थत्वात् ।
?R ननु समानयनाधिकरणे स्थिते कथमिदानीमाशङ्क्यते । तत्र हि उपरितनप्रयाजार्थमौपभृतं समानीयत इति वदता उभयार्थत्वमुक्तम् । कथं केवलानूयाजार्थता आशङ्क्यते । उच्यते - स्थिते एतस्मिन् तद्भवति अन्यथाऽदृष्टार्थमेव समानयनं संस्कारमात्रं स्यात् ।
?R ॥ 17 ॥ ?Rतदष्टसङ्ख्यं स्यात् ॥ 46 ॥
?R अष्टावुपभृति गृह्णाति इति श्रूयते । अत्र संशयः किं द्वे एते चतुर्गृहीते उताष्टगृहीतमेकमेवेदमिति । ननु समानयनाधिकरण इदमुक्तम् द्वौ प्रयाजौ यष्टुमेकमिदं चतुर्गृहीतं समानीयत इति । कया युक्त्या ??R एवं च दृष्टार्थता भविष्यतीत्यनया युक्त्येत्यर्थः । तदेवेदमाक्षिप्यते । अष्टसंङ्ख्याश्रवणात् । दृष्टार्थता च समानयनस्योपपद्यत एव आघारे प्राचीने प्रयाजत्रये च व्यापृतस्य जौहवस्याज्यस्य स्वकार्यं प्रत्यशक्तस्यानुग्रहाय समानीयत इति । अतोऽत्र पूर्वपक्षवादी श्रुतत्वादष्टसङ्ख्याकमेव ग्रहणमिति मन्यते । राद्धान्तस्तु भिन्नविषयत्वात्
?Rचतुस्सङ्ख्याष्टसङ्ख्ययोः नान्यतरस्याप्राप्तिः शक्यते वर्णयितुम् अविरोधात् । कथं पुनरष्टसंख्याचतुस्सङ्ख्यां नि्पादयति होमे ??R यस्माद्द्वे एते चतुर्गृहीते संयोगिनी, प्रयाजानूयाजेभ्य इत्युभयार्थत्वेन विनियोगात् । उभयोश्च द्वाभ्यां चतुर्गृहीताभ्यां प्रयोजनमष्टग्रहणेन संपाद्यते अष्टावुपभृति गृह्णातीति । द्वे एते चतुर्गृहीते इति दर्शनं च पूर्ववत् समर्थितं भवति । चतुर्गृहीतान्याज्यानि भवन्तीति हेतुवन्निगदश्च समर्थितो भवति ।
?R॥ इति बृहत्यां चतुर्थाध्यायस्य प्रथमः पादः ॥
?R?0चतुर्थाध्यायस्य द्वितीयः पादः ॥
?R ॥ 1 ॥ स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् ॥ 1 ॥
?R एकमत्राधिकरणं वाक्यान्तराभिप्रायेण वर्णितम् । द्वितीयन्त्वेकवाक्यमङ्गीकृत्य । युक्तयश्चैकवाक्यविचारे वाक्यान्तरापेक्षिण्यां च मीमांसायां तुल्या इति प्रदर्शितम् । युक्तिश्च श्रुत्या विधानम् ।
?R ॥ 2 ॥ शाखायां तत्प्रधानत्वात् ॥ 7 ॥
?R किमर्थमिदमधिकरणमस्मिन् प्रयोजकाप्रयोजकलक्षणे ? ?Rनात्र विधितः पूर्वपक्षो राद्धान्तो वाऽवगम्यते । अत्रोच्यते - विधित एवेयं चिन्ता । किं वृक्षप्राग्देशात् शाखोपादानमुत विहारप्राग्देशादानयनोपादानमिति । विनियोगवदभिधानमनुवर्तते उपादानमिति पूर्वः पक्षः । राद्धान्तस्तु - अपरिहार्यलक्षणमिदमभिधानमिति शाखैवोपादेया प्राचीनानयनमेव देशविशिष्टम् । अयं चापरो विशेषः । अवश्योपलक्षयितब्या शाखा पक्षद्वयेपीत्ययमेव पक्षो न्याय्यः ।
?R ॥ 2 ॥ शाखायां तत्प्रधानत्वात् ॥ 7 ॥
?R अत्र परिवासनोपादानं शाखोपादानं वा चिन्त्यते, अविशेषात् । किं पुनरत्र युक्तम् ??R उभयं परिवासनस्य प्रयोजकं मूलमग्रं च द्वयोरपि शाखाभिधानत्वात् । ननु च क्रियाद्वयमत्र श्रूयते परिवासयति करोति इति च । ततः किम् ??R इदं ततः भवति ।
?Rशाखापरिवासनस्य कर्म करोतेरुपवेषः । तस्मान्नोपवेषः कर्मकारकस्य प्रयोक्ता । उच्यते - शाखाशब्दः समूलमग्रमाचष्ट इत्युक्तमस्माभिः । तत्र मूलमुपवेषं करोति । अग्रमपि कार्यान्तरे विनियुक्तमिति द्वयोः प्रयोजकत्वम् । अत्रोच्यते - स्यादेतदेवं यदि मूलमुपवेषं करोतीति संबन्धः । कथं तर्हि संबन्धः ??R उपवेषं करोतीति मूलत इति । किमतो यद्येवं ??R एतदतो भवति । अन्यतो निष्पन्नान्मूलादुपवेष इति । तस्मात् यद्यपि समूलमग्रं शाखाशब्देनोच्यते तथापि न परिवासनमुपवेषार्थं इति सिद्धम् ।
?R किं च शाखाशब्दाभिधानं च कार्यान्तरेषु अग्र एव प्रयुक्तं शाखया वत्सानपाकरोति इति । अतो विनियोगात् मूलपरिवासनार्थोऽयमग्रे शाखाशब्दः प्रयुक्त इति । तस्मान्नोपवेषः प्रयोजकः । प्रयोजनमुक्तम् ।
?R ॥ 3 ॥ ?Rहरणे तु जुहोतिर्योगसामान्यात् ॥ 10 ॥
?R ननु चेदं हरणं प्रस्तरप्रतिपत्त्यर्थमेव ;?R यद्यपि हरतिः यजत्यर्थो मान्त्रवर्णिको देवताविधिः तथापि प्रतिपत्तिकर्मैवैतत् यथोत्तमः प्रयाजः । प्रतिपत्तौ च न द्रव्यस्य गुणभावः । ननु च यथोत्तमप्रयाजे आज्यं प्रतिपत्तावपि गुणभूतं तथात्र शाखापि भविष्यतीति चेत् । नैवम् । द्रव्यस्यात्र प्रतिपत्तिः । तत्र पुनर्देवतास्मरणार्थो याग इति युक्तो द्रव्यस्य गुणभावः ।
?R ननु चोत्तमप्रयाजो नैव प्रतिपत्ति द्रव्यं हि यत्र प्रतिपाद्यते तत्प्रतिपत्तिकर्म । केनेदमुक्तं कारकार्थो यो यागः प्रतिपत्तिकर्मेत्युच्यते क्वचिद्देशविरेचनात् संस्कारः, क्वचित् स्मरणमिति । प्रयोजनविशेषा ह्येते । अतो न शाखा गुणभूतेति शक्यते पूर्वपक्षयितुम् । उच्यते - प्रतिपत्तावेव तृतीयाश्रवणात् गुणभावं पूर्वपक्षवादी मन्यते, नावश्यं प्रतिपत्तौ सर्वमेव प्रधानं भवति । यद्यथा श्रूयते तत्तथैव भवितुमर्हति यथाजुह्वा जुहोतीति गुणभूतैव जुहूः ।
?R अत्राभिधीयते । भवेदेतदेवं यद्यत्र सहशब्दो न श्रूयते । सहशब्दश्रवणे तु तुल्ययोगित्वं प्रस्तरेण सह शाखाया अवगम्यते । तस्माच्छाखापि प्रतिपाद्यत एव । अन्यथा हि तुल्ययोगो न स्यात् । अतश्शाखायामपि द्वितीयार्थ एव प्रस्तरवद्द्रष्टव्यः । कथं तर्हि तृतीया ??R न चेयं कारकलक्षणा किं तर्हि सहयोगलक्षणार्था । प्रसिद्धेन च
?Rसहयोगो लक्ष्यत इति विभक्तिव्यत्यय उक्तः । प्रसिद्धत्वात् प्रस्तरस्य प्रहरणे । शेषमुक्तम् ।
?R ॥ 5 ॥ ?Rउत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात् ॥ 14 ॥
?R अपः प्रणयतीति कार्यद्वयासंबन्धमपां प्रणयनमुत्पन्नम् । पश्चात्कार्यद्वयं श्रुतमित्यविशेषेण द्वयोः प्रयोक्तृतां मन्यते । ननु च ‘?Rअपो निनयति’?R इति द्वितीया श्रूयते । अनीप्सितत्वात् कारकमात्रे भविष्यतीत्यभिप्रायः । अत्रोच्यते - नानीप्सितत्वे हेतुरस्ति । कृतप्रयोजनमपि हि तत् प्रतिपाद्यतया इष्यत एव । न चेप्सिते संभवति अनीप्सिताश्रयणमुपपद्यते तत्पुरस्सरावगतेः । तस्मात् संयवने कृतार्थानामपां प्रतिपत्तिरेव निनयनम् । इति सिद्धमप्रयोक्तृत्वम् ।
?R ॥ 6 ॥ ?Rप्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् ॥ 16 ॥
?R मैत्रावरुणाय दण्डं प्रयच्छतीति प्रतिपत्तिरपामिवेति पूर्वः पक्षः । ननु च कर्मणा यमभिप्रैति स सम्प्रदानमिति सिद्धो गुणभावः ससंप्रदानके कर्मणि । सम्प्रदानगप्रीत्युत्पादकतयैव कर्मणो गुणभावः न पुनः कर्मान्तरसाध्यतया कर्मभावानुपपत्तेः । कथं तर्हि ‘?Rदण्डी प्रैषानन्वाह’?R इत्यादिदर्शनम् संप्रदाने यदृच्छया प्राप्तस्यायमनुवादः इत्यभिप्रायः ।
?R अत्राभिधीयते - मैत्रावरुणाय दण्डं इति व्यपदेशात् दण्डी प्रैषानन्वाह इत्येवमादि च दर्शनात् । अर्थकर्मैवेदं न प्रतिपत्तिः । ननु च यदृच्छया प्राप्तस्यायमनुवाद इत्युक्तम् । अयमेव दोषः पाक्षिकत्वप्रसङ्गात् । कथं तर्हि द्वितीया ??R तथा युक्तं चानीप्सितमित्युक्तम् । तदयुक्तमिव प्रतिभाति । अनुपादेयं हि तत्रोदाहरणम् अहिं लङ्घयति इति । तथा च सक्तुषु विभक्तिव्यत्यय उक्तः उपादेयत्वादनीप्सितत्वं न भवतीति । उच्यते - सुष्ठूक्तं सक्तुषु होमार्थं तत्रोपादानम् । इह तु न प्रयच्छत्यर्थमुपादानं उपात्तमेव हि प्रयच्छतीति । अतस्तथायुक्तमेवेदं कर्मेति शक्यते वक्तुम् नेप्सिततमम् । नापि विभक्त्यन्तरयोग्यम् तस्मादर्थकर्मेति सूक्तम् ।
?R किं पुनरत्र धारणमेव प्रयुज्यते उतोत्पत्तिरपीति चिन्तान्तरमेतत् । अस्ति तावत् प्रयोक्तृत्वमिति राद्धान्तः । अधिकरणान्तरमुक्तम् ।
?R ॥ 8 ॥ ?Rसौमिके च कृतार्थत्वात् ॥ 20 ॥
?R कः पुनरत्र प्रयाजशेषेण विशेषः ??R ननु च प्रयाजशेषेणेति प्रयाजार्थताऽवगम्यते । सोमलिप्तेनेति कर्मार्थता(वगतिः) किमिति न विशेषः । उच्यते - सोमलिप्तेनेत्यपि सोमयागार्थतयैव सोमसंबन्धः । एवं तर्हि अवभृथश्रुतेः कर्मान्तरयोगं सोमलिप्तस्य मन्वानः शेषभावं मन्यते ।
?R अत्रोच्यते - कर्मान्तरयोगेपि नान्यशेषोऽन्यशेषतया प्रतिपत्तुं शक्यते अन्यत्र व्यापृत इवान्यत्र । तस्मात्कर्मशब्दो लक्षणयैव प्रतिपत्तव्यः ।
?R यन्तीति च प्रकृत्यर्थोऽन्तर्णीतणिजर्थो विहितो भवति । अन्यथाऽनुवादमात्रं धात्वर्थः स्यात् । तदिदमुक्तम् - ‘’?Rश्रुतिश्च वाक्याद्बलीयसी’’?R इति ।
?R ॥ 9 ॥ कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् ॥ 23 ॥
?R ननु चानुवादकत्वपक्षे अप्रतिपादकत्वात् वाक्यानर्थक्यमेव प्राप्नोति । न ब्रूमो विनियोगे आनर्थक्यमिति । विनियोगे इत्थमेव अन्वितो वाक्यार्थः प्रतीयते । प्रयोक्तृत्वं तु न संभवति । कथं न संभवति ??R नित्यप्राप्तत्वात् कारकग्रामस्य । द्रव्यस्य ह्यत्र नियमः क्रियते न कारकाणाम् । न चाकारकस्य प्रयोक्तृत्वं संभवति । तस्माद्विनियोग एवायं(नियम) विषयविशेषोऽवगम्यते न प्रयोक्तृव्यापार इति पूर्वः पक्षः ।
?R अत्रोच्यते - यदि द्रव्यादन्यत् कारकतयाऽवगम्यते ततो यथा भवानाह । इह तु द्रव्यमेव कारकतयाऽवगम्यते । तस्याभिधानाद्विभक्त्युत्पत्तेः ।
?R ननु च कारकं हि क्रियाप्रयुक्त्यैव प्रयुज्यते । न च कारकशृन्यं कर्मास्ति । सत्यं न कारकशृन्यं कर्म न पुनः सामान्यं किञ्चिदस्ति कारकं नाम । यदेव हि विभक्त्या द्रव्यं गुणो वा समर्प्यते तदेव कारकम् । तस्माद्विनियोगात् प्रयोक्तृत्वेपि नियमः संभवति । उक्तं च विनियोगानुसारी नियोगः सति संभवे इति ।
?R ॥ 10 ॥ ?Rतथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् ॥ 25 ॥
?R युक्तं तावत् द्रव्यस्योपादानं विभक्तिभिस्तस्य कारकतयाऽवगतेः गुणस्तु तद्विशेषणमात्रमेव श्वेतादिषु । यत्र पुनररुणयेति विभक्त्यैव कारकत्वेनावगतिः तत्र पूर्वाधिकरणेनैवावगतम् । अतो द्रव्योपादानार्थत्वात् गुणजात्योरविवक्षेति पूर्वपक्षवादी
?Rमन्यते । अत्रोच्यते - सत्यं द्रव्योपादानार्थमिदम् । तदेव तु द्रव्यं तद्रहितं न शक्यते तद्विशिष्टमुपादातुमिति गुणजात्योरपि द्रव्यवदुपादानसिद्धिः ।
?R ॥ 11 ॥ ?Rसंस्कारे च तत्प्रधानत्वात् ॥ 26 ॥
?R संस्कारे पुनः को विशेषः ??R अयं विशेषः । अधिकारशृन्यो हि संस्कारविधिर्भवति संस्कार्यार्थत्वात् संस्कारस्य, नात्राधिकारार्थं कर्मावगम्यते । तस्मादविवक्षैवेति पूर्वाभ्यां विशेषः । अत्रोच्यते - सत्यमधिकारो नावगम्यते । अधिकृतद्रव्यार्थतया तु प्रतीयते । ततः किम् ??R इदं ततो भवति ??R संस्कारविशिष्टद्रव्यं अधिकारविधिविशेषणतयाऽवगम्यते । ततश्च गुणवत् तदपि अधिकारविधिनैवोपादीयत इति तद्वदित्युच्यते । तत्प्रदर्शितमेवं सत्यङ्गविधिरनुवाद इति ।
?R ॥ 12 ॥ ?Rयजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् ॥ 27 ॥
?R के पुनस्तेऽधिकारविषयाः ??R यागदानहोमाः । ‘’?Rस्वर्गकामो यजेत,’’?R ‘’?Rआयुष्कामो हिरण्यं दद्यात्’’?R सौभाग्यकामो जुहुयात्’’?R इत्येवमादयः । एतच्चोपलक्षणमात्रम् । अन्येपि ये कामश्रुतिसंयुक्ताः । कः पुनस्त्यागात्मकत्वे सति यागदानहोमानां परस्परं विशेष इत्याशङ्कानिवृत्त्यर्थं स्वरूपवर्णनमित्युक्तम् ।
?R ॥ 14 ॥ विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् ॥ 29 ॥
?R कः पुनरस्योपादानलक्षणेन संबन्धः ??R एष संबन्धः । किमुपात्तस्यातिथ्यार्थं धारणमात्रं द्वाभ्यां प्रयुज्यते, उत निरिष्टकस्य पुनरुपादानम्, उत पृथगेवोपादानं, धर्ममात्रातिदेशकमिदं वचनं, उत साधारणमेतदेवोपादानमिति । अन्यशेषस्यान्यत्रविनियोगो नास्ति(यथा) अन्यत्र व्यापृतस्यैवान्यत्र व्यापारः इत्युक्तम् । विनियोगानुसारी चो(नो)पादानमित्येतदप्युक्तम् । तस्मान्नातिथ्योपात्तस्य उपसदग्नीषोमाभ्यां धारणं प्रयुज्यत इति घटते । निरिष्टकोपदेशश्च शिष्टाचारविरोधान्न भवति । लक्षणाश्रयणं च नोपपद्यते । एवं धर्मातिदेशोऽपि लक्षणाभयादेव त्यज्यते । तस्मात्साधारणावगतिरेव श्रुत्योपपन्ना भवतीति साधारणमुपादानमिति सिद्धम् ।
?R॥ इति बृहत्यांचतुर्थाध्यायस्य द्वितीयः पादः ॥
?R?0चतुर्थाध्यायस्य तृतीयः पादः ॥
?R ॥ 1 ॥ ?Rद्रव्यासंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् ॥ 1 ॥
?R उक्तमध्यायादौ सर्वत्र नियोगव्यापार एव चिन्त्यत इति । इहेदानीं किं फलसंबन्धितया पुरुषस्य विधिव्यापारस्संभवति नेति चिन्त्यते । पुरुषफलसंबन्धासंभवे कथं प्रामाण्यं संभवति इति प्रमाणलक्षणे चिन्तितम् । योऽपि तत्र पूर्वपक्षः असावपि क्रियाकारकसंबन्धोऽवगम्यमानः कथं क्रियान्तरविषयं नियोगं प्रतिपादयतीत्यस्यार्थस्य निराकरणाय । इह तु स्वविषयो नियोगो न संभवतीति चिन्ता । कथं ??R यस्येत्येवमादीनामधिकारिविशेषणतयाऽसंभवात् । कथमसंभवः ??R तत्संबन्धस्य नियोगस्यानुपपत्तेः किमिति ??R सिद्धवदुपदेशात् । यथा देवदत्तः ओदनं पचति इति पुरुषोपलक्षणता प्रतीयते । न पुरुषेणोदनः पक्तव्य इति । नायं शब्दार्थः यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति इति । प्रत्ययान्तरावगम्यत्वादस्यार्थस्य । न च तत्प्रत्ययान्तरमस्ति प्रथमलक्षणोक्त एवायमर्थ इति स्थितं एवंभूतानामर्थवादत्वमिति ।
?R ॥ 2 ॥ ?Rनैमित्तिके विकारत्वात् क्रतुप्रधानमन्यत् स्यात् ॥ 4 ॥
?R कथं पुनरत्र द्व्यर्थं वाक्यमुपन्यस्यते । यत्रापि तावदर्थद्वये विशेषो नावगम्यते तत्राप्येकार्थेनैव वाक्येन भवितव्यम् । प्रकरणादिभिस्तु विशेषोऽवगन्तव्यः । किं पुनरत्र विशेष एवावगम्यते । द्व्यर्थता चाभिधानस्य प्रमाणलक्षण एव निराकृता । तस्मादसंभवात्पूर्वपक्षमेवेदमधिकरणं प्रतिभाति ।
?R अत्रोच्यते - एवमेवैतदेकार्थत्वमेव अन्विताभिधाने । प्रयोजनद्वयं तु अत्र संभवतीति क्रत्वर्थतामपि पूर्वपक्षवादी मन्यते । संबन्धानुसारि चोपादानमित्युक्तम् । ननु च विनियोगानुसारीत्युक्तं न संबन्धानुसारी । नैवं, विनियोगो हि संबन्धहेतुतयोक्तः, न पुनर्विनियोगतैवाश्रीयते । तस्मात् द्वयमुपादापकं, संबन्धद्वयावगमात् न क्रियासंबन्धत्यागेन द्रव्यादेः पुरुषार्थताऽवसीयते । अत्राभिधीयते । नैतद्युक्तं यदुक्तं संबन्धमात्रानुसार्युपादानमिति शब्दोपपादितसंबन्धानुसार्युपादानं न संबन्धानुसारी शब्दाच्च पुरुषार्थतयैवान्वयोऽवगम्यते । ननु क्रिययाप्यन्वयोऽवगम्यते । सत्यम् गम्यते
?Rपुरुषार्थौपयिकतया । तस्मात् तदेवोपादापकं यदर्थमेवान्वयावगमः । यत्पुनरिदं भाष्यकारेणोक्तं विशेषानवगमात् द्विष्ठं वाक्यमलम्बुसानां ?Rयातेति तत् प्रकरणाद्यसंभवे अनिर्णयायैव न पुनः शब्दात् द्वय अवगन्तुं शक्यते । इह तु विशेषावगमान्नानिर्णय इत्यर्थः । ननु न कॢञ्चिद्विहितमस्तीति परिचोद्य सामान्यविधानोपन्यासः सामसाध्यस्तुत्यपेक्षया नाभिवर्तपरतयेत्यदोषः ।
?R ॥ 3 ॥ ?Rएकस्य तूभयत्वे संयोगपृथक्त्वम् ॥ 5 ॥
?R कः पुनः पूर्वपक्षिण आशङ्काहेतुः ??R अयमाशङ्काहेतुः यथा ‘?Rअग्निहोत्रं जुहोति’?R ‘?Rअग्निहोत्रं जुहुयात् स्वर्गकाम’?R इति च न पृथक् प्रयोक्तृत्वमस्ति स्वर्गकामपदान्वयेपि होमान्वयावगतेः । एवमत्रापि ‘?Rदध्ना जुहोति’?R ‘?Rदध्नेन्द्रियकामस्य जुहुयात्’?R इति कामसंयोगेपि दधिहोमावगतेः पुरुषार्थस्यैव प्रयोक्तृत्वं मन्यते(पूर्ववादी) एवं प्राप्तेऽभिघीयते । नैतद्युक्तम् क्रतोरप्यत्र प्रयोक्तृत्वमवसीयते क्रतुरपि हि साधिकारः । न गुणफलसंबन्धः आश्रये ऐदमर्थ्यमपेक्षत इत्युक्तम् । तस्मात् ‘?Rदध्ना जुहोति’?R इति होमार्थ एवायं विनियोगः ‘?Rदध्नेन्द्रियकामस्य’?R इत्येव पुरुषार्थः । यदुक्तं ‘?Rअग्निहोत्रं जुहोति’?R ‘?Rअग्निहोत्रं जुहुयात् स्वर्गकामः’?R इत्येकः प्रयोक्तेति युक्तं अधिकारान्तराश्रवणात् उपादातुरेवाधिकारकल्पना । इह तु अधिकारद्वयं नित्यं नैमित्तिकं चास्तीति युक्तो विशेषः ।
?R ॥ 4 ॥ ?Rद्रव्याणां तु कियार्थानां संस्कारः क्रतुधर्मः स्यात् ॥ 8 ॥
?R इह तु प्राणधारणार्थत्वाद्व्रतस्य पुरुषार्थतां मन्यते पूर्वपक्षवादी नियमस्यैव प्राङ्मुखोऽन्नानिभुञ्जीत इति वत् प्रतिग्रहनियमवच्च ।
?R अत्रोच्यते - नायं नियमनियोगोऽधिकारकल्पनां सहते । सन्निहितश्च क्रत्वधिकारः । साक्षात् श्रुताधिकारसन्निधौ यदश्रुयमाणाधिकारं तत् तदर्थमेवाभिधानेन प्रतिभाति । तादर्थ्येनैव च नियमस्य नियोज्यसंबन्धलाभात् नाधिकारान्तरापेक्षाऽस्ति । यदुक्तं प्रतिग्रहादिनियमवत् भवितुमर्हतीति । युक्तं तत्राधिकाराश्रवणात् इह पुनः तद्विपरीतं इति दर्शितम् । अतः क्रतुप्रयोज्य एव द्रव्यनियम इति स्थितम् । क्रत्वधिकारप्रयोज्यमित्युक्तं भवति ।
?R ॥ 5 ॥ ?Rचोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्यशब्दं प्रतीयेत ॥ 10 ॥
?R इहाधिकारशृन्या विधय उदाहरणम् । किं तेषामधिकारकल्पना उत तावत्येव पर्यवसानमिति संशयः । ननु च ‘?Rसफलं’?R ‘?Rअफलं’?R इत्यत्र सन्देहो भाष्ये श्रुयते । उच्यते - अधिकारादृते फलं नास्तीति स्वर्गकामाधिकरणे ‘?Rतस्मात्सिद्धोऽधिकार’?R इति वदता प्रदर्शितम् । अन्यथा हि सिद्धं स्वर्गस्य प्राधान्यमित्युपसंहारः स्यात् । तस्मात् साधिकारनिरधिकारचिन्तैवेयम् ।
?R किं तावत्प्राप्तम् ??R यावद्वचनं वचनमिति कर्तव्यतापर्यवसाय्येव नियोगो नाधिकारपर्यन्तो भवितुमर्हति । ननु च नियोग एवाधिकारादृते न निर्वर्त्यते ।
?R केन वा उक्तमधिकारादृते न नियोगो निष्पद्यत इति अधिकृतस्य नियोगः न पुनः नियोगत एवाधिकारः । ननु चाधिकारादृतेऽननुष्ठेयत्वात् नियोगावगतिर्बाध्येत । नावगतेः कश्चिद्बाधः । अनधिकृतास्तु न कुर्वते किमायातमवगतेः । तदुक्तं भाष्यकारेण ‘?Rक्षेम्योऽयं पन्थाः गच्छतु भवान् अनेन’?R इति । तस्मान्नात्र कस्यचिदधिकारं पश्यामः । अध्याह्रियमाणेप्यधिकारे कस्याधिकारोऽध्याह्रियेत यस्मान्न नियोगाद्विशेषाक्षेपः संभवति । न चापरिपूर्णं वाक्यमित्यत्र प्रमाणमस्ति । ‘?Rपटोभवति’?R इत्येतावदेव वाक्यम् । ‘?Rरक्तः पटोभवति’?R इत्यपि भवति । तस्मात् पदान्तरश्रवणनिबन्धन एव वाक्येषु अर्थान्तरावगमः । न पुनः अश्रूयमाण एवार्थान्तरकल्पनाप्रमाणमस्ति । कथं तर्हि ‘?Rवसन्ताय कपिञ्जलानालभते’?R ग्रीष्माय कलविङ्कान् इति अगृह्यमाणविशेषत्वादिति तत्रोक्तम् । लोके तर्हि कथं ‘?Rद्वारं’?R ‘?Rद्वार’?R मित्येवमादिषु । युक्तं कारकाणां क्रियापेक्षत्वात् न पुनर्नियोगोऽधिकारमपेक्षत इत्युक्तम् । तस्माद्यावद्वचनं वचनं इति । अत्राभिधीयते - कारकमिव क्रियापेक्षं नियोगमप्यधिकारापेक्षं वदामः । कुतः ??R लोके तथा दर्शनात् देवदत्तगामभ्याज शुक्लां इति । न हि अनपेक्षितविशेषं लोके वक्तारो भवन्ति इति देवदत्तं यज्ञदत्तं वाऽधिकृत्य लिङादयः प्रयोज्याः । ननु च देवदत्तादयः कर्तृविशेषणम् । यथा न कर्तृविशेषणं तथा षष्ठे वक्ष्यामः । अधिकाराद्धि कर्तृत्वं स्थास्यति न कर्तृत्वादधिकारतस्मात् श्रुत्येकदेशः स उच्यते - यत्पुनरत्र भाष्यकारेणोक्तं ‘’?Rएवं लौकिकोऽध्याहारः प्राप्नोति’’?R इति परिहृतं च ‘’?Rवैदिकमेवाध्याहरिष्याम’’?R इति, व्यवधानं चाशङ्क्य ‘?Rअपि पश्यसि’?R इति दृष्टान्ताभिधानं सर्वमिदं असमञ्जसमिव प्रतिभाति
?Rयन्नियोगादवगम्यते कथं तदवैदिकं ??R व्यवधाने च कथमनुषङ्गः ??R यदप्युक्तं ‘?Rअपि पश्यसि धावन्तं’?R इति । असंबन्धिपदव्यवायात् नैवायं व्यवायः योग्यपदसंबद्धं व्यवहितमित्युच्यते । अत्रोच्यते - वैदिकमेवाध्याहरिष्यामः इति । एतदुक्तं भवति । न कारकतयाऽध्याह्रियते । कथं तर्हि ??R अधिकारिमुखेनैवेति । कारकतया हि फलसंबन्धो लौकिको भवति प्रमाणान्तरापेक्षत्वात् दृष्टान्तोऽपि यथा न पदव्यवधानमात्राद्व्यवहितं भवति किन्तु योग्यपदसंबद्धं वाक्यान्तरव्यवहितं व्यवहितं भवति । तस्मान्नाधिकाराध्याहारे व्यवधानम् । अपि पश्यसीति च सूक्तम् । अतोऽश्रूयमाणाधिकाराण्यपि साधिकाराणीति सिद्धम् ।
?R ॥ 6 ॥ ?Rतत्सर्वार्थमविशेषात् स स्वर्गः सर्वान् प्रत्यविशिष्टत्वात् ॥ 13,15 ॥
?R स्थितं नियोगो नाधिकारशृन्य इति । केनाधिकारेणेति न ज्ञायते । अतोऽगृह्यमाणविशेषत्वात् सर्वार्थिभिः संबध्यत इति पूर्वः पक्षः । अत्रोच्यते - बहुभिः संबन्धे नियतमेकेन संबन्धः भवति । एकेन चेदुपपन्नो नियोगः नाधिकारान्तरसंबन्धे प्रमाणमस्ति । ननु चागृह्यमाणविशेषत्वान्नासौ निरूपयितुं शक्यत इत्युक्तम् । सत्यं यदि न गृह्यते विशेषः । इह तु सर्वान् प्रत्यविशिष्टत्वात् स्वर्गकामस्यैवाधिकारोऽत्रावगम्यते । सामान्यकल्पनायां हि विशेषावगमहेत्वभावात् । तदिदमुक्तं - ‘’?Rस स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात्’’?R इति ।
?R ॥ 8 ॥ क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः ॥ 17 ॥
?R स्थितमश्रूयमाणाधिकारेषु सर्वान् प्रत्यविशिष्टत्वात् स्वर्गोऽधिकारविधिहेतुरिति । यत्र पुनः विशेषाभिधायिनोऽर्थवादाः श्रूयन्ते यत्र संशयः - किं अत्रापि स्वर्ग एवाधिकारहेतुः । अथ वाऽर्थवादाभिहितं वस्त्विति । पूर्वपक्षवादी नियोगाद्यदवगम्यते तदेव युक्तमिति मन्यते । अर्थवादस्त्वर्थवाद एव ।
?R अत्रोच्यते - अर्थवादाभिहितमेव फलं युक्तम् । कुतः ??R एवमर्थस्तुत्यैव स्तुत्यर्थ उपपन्नो भवति । ननु च नियगात् स्वर्गार्थतैवावगम्यत इत्युक्तम् । सन्दिग्धे च वाक्यशेषान्निर्णयः उक्तः । अत्रोच्यते - सत्यं संशयो नास्ति । निश्चयोऽपि नैव विद्यते । अतश्च वाक्यशेषाद्योऽर्थोऽवगम्यते स एव वाक्यार्थः । न चाप्रतिपन्ने वाक्यार्थे
?Rकेवलान्नियोगात् किञ्चित्प्रतिपद्यते । तस्मात्सूक्तमर्थवादाभिहितमेवाधिकारहेतुरिति । यत्पुनर्भाष्यकारेणोक्तं-विभक्तिमात्रं कल्प्यते स सहधात्वर्थेन प्रयोगवचनो विधास्यतीति । पक्षे कार्ये कारणविशेषकल्पना(नाय) न खेदनीयं मन इत्यभिप्रायः ।
?R ॥ 9 ॥ ?Rकाम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङगे क्रत्वर्थः ॥ 20 ॥
?R इदमिदानीं चिन्त्यते - यदि पुनर्नियोगात् स्वर्गाधिकारः । पदान्तरयोगाच्चोपाधयः कल्प्यन्ते शाकमप्याहरेतिवत् को दोष स्यात् । न खलु कश्चिद्दोषः । किन्तु अनिश्चितात् सामान्याधिकारात् विशेष उपाधिरिति तु दुश्शकं वक्तुम् । काष्ठसंयुक्तमिव शाकाहरणम् ।
?R ॥ 10 ॥ ?Rसार्वकाम्यमङ्गकामैः प्रकरणात् ॥ 21 ॥
?R सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति किमयमनुवादः । अथवाऽयमपि विधिरिति । प्राप्तार्थत्वादनुवाद इति मन्यते । कथं प्राप्तिः ??R किञ्चिदङ्गद्वारेण किञ्चित्स्वत इति पूर्वः पक्षः । ननु प्रधानसंबन्धितयैवैतच्छ्रूयते कथमङ्गापेक्षोऽनुवादः । अङ्गद्वारमपि हि प्रधानेन व्यपदिश्यते यूपवत् ।
?R अत्राभिधीयते - प्रमाणान्तरावगम्यमिदं यदुतान्यसंबन्धी अन्येन व्यपदिश्यत इति । सिद्धे चानुवादे प्रमाणान्तरगम्यता, प्रमाणान्तरगम्यतायां चानुवाद इतीतरेतराश्रयत्वम् । तस्मान्निरपेक्षाच्छब्दान्नियोग एवेति मन्यामहे । यूपे पुनरर्थान्तरविधेयत्वात् प्रमाणान्तरप्रमेयता युक्ता ।
?R ॥ 11 ॥ ?Rतत्र सर्वेऽविशेषात् ॥ 17 ॥
?R इदमिदानीं चिन्त्यते - सकृत्सर्वकामावाप्तिः उत यावत्कामं प्रयोग इति । सर्वकामनिमित्ततया श्रवणात् न प्रयोगे विशेषावधारणा शक्या । एकत्वादिति पूर्वः पक्षः । ननु च सर्वकामो नाम नैव कश्चिदस्त्यधिकारी अनधिकाराच्च फलोत्पत्तेरसंभवः । उच्यते - यदि कामना अङ्गं स्यात् अनुत्पन्ना सती नाङ्गभाव उपपद्यत इति भवति कामनानामनुत्पादः सकृत्प्रयोगे सर्वफलानुत्पत्तौ हेतुः । इह तु सर्वकामैर्युक्तस्य कामिनोऽधिकार इति न प्रयोगकाले कामनोत्पाद उपयुज्यते । तस्मान्ननिमित्ते सति नैमित्तिकस्य व्याघातो भवितुमर्हति । अत्रोच्यते - यावत्कामं प्रयोग इति ।
?Rएवमधिकारसिद्धिरुपपन्ना भवति । न हि अकामिनः फलाधिकारोऽस्तीति षष्ठे वक्ष्यामः । ननु च प्रयोगकाले कामनोत्पादोऽनङ्गत्वान्नोपयुज्यत इत्युक्तम् । केन वोक्तं प्रयोगकाले उत्पादो हेतुरिति । अधिकारावगतावेव सर्वकामिता युगपन्न संभवतीत्युक्तमस्माभिः । असंभवे च युगपत् सर्वनियोगानुपपत्तिः । तस्मात् प्रतिकाममधिकारः । यद्वा यथोद्दिष्टकामाभिप्रायमिति भाष्यकारेणोक्तम् अनिर्दिष्टानामवगमाभाव इत्यभिप्रायः । अतो निर्दिष्टापेक्षी सर्वशब्दः सर्वं कृतमितिवत् । अतः सिद्धं प्रतिकामं पर्योग इति । अत एव च विरुद्धानामपि फलानामधिकारः सिद्धो भवति । सकृत्प्रयोगे हि मरणायुषोरनुत्पत्तिः स्यात् । तस्माद्योगसिद्धिर्वेति सूक्तम् ।
?R एवं वा ॥
?R अस्मिन्नधिकरणे नियोगस्य फलं प्रति किं शरीरग्रहणपूर्वकः प्रयोजकभावः उत यावच्छ्रुतं प्रयोक्तृत्वमिति । तत्र पूर्वपक्षवादी शरीरग्रहणस्य कारणान्तरादर्शनात् पश्वादीनां च कारणान्तरेणोपपत्तेः शरीरग्रहणपूर्वकः फलाक्षेप इति मन्यते । पश्वादीनां कारणं प्रतिग्रहादि प्रत्यक्षं भविष्यतीति । राद्धान्तवादी तु यावच्छ्रुतं प्रयोक्तृत्वं मन्यते । क्स्मात् ??R केवलश्रवणावगम्यत्वात् प्रयोक्तृभावस्य । सर्वाविशेषात् । न हि गम्यते विशेषः इहैव अमुत्रैव वेति कामश्रुतिसामान्यात् ।
?R अत्र भाष्यकारोऽनन्तरादर्शनमुपन्यस्य प्रत्यक्षानुमानाभ्यां नोपलभामहे शब्दादवगम्यत इत्युक्तवान् । तदयुक्तं, शब्दादपि हि नानन्तर्यमुपलभ्यत इत्युक्तम् । अयमभिप्रायः भाष्यकारस्य - सामान्यावगमात् इहामुष्मिन्निति च विशेषानवगमात् शब्दतो न प्रमाणान्तराभावः आनन्तर्यं विहन्तीति । लिङ्गमुक्तम् ।
?R ॥ 12 ॥ ?Rसमवाये चोदनासंयोगस्यार्थवत्त्वात् ॥ 19 ॥
?R वाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेत’?R इति लक्षणे क्त्वाप्रत्ययोत्पत्तौ कालश्रवणात् कालार्थः संयोग इति पूर्वः पक्षः । समानकर्तृक्योर्धात्वर्थयोः अन्वयावगतेः धातुसंबन्ध एवायम् । स च अङ्गाङ्गिभावादृते न संभवतीति अङ्गाङ्गितैवेति राद्धान्तः ।
?R ॥ 13 ॥ ?Rउभयार्थमिति चेत् ॥ 32 ॥
?R पौर्णमासीं संस्थाप्येति परिसमाप्तिवचनत्वात् संस्थाशब्दस्य नाङ्गाङिगभावः
?Rपौर्णमास्यां संभवतीति प्रकरणात् दर्शपूर्णमासाङ्गतैव वैमृधस्येति पूर्वः पक्षः ।
?R अत्राभिधीयते - यदि समाप्तिवचनत्वात् संस्थाशब्दस्य नाङ्गित्वं पौर्णमास्याः प्रकरणादपि नैवाङ्गित्वं संभवति । अथ संस्थाप्येति पूर्वविहिताङ्ग- कलापपरिसमाप्त्यभिप्रायोऽयं संस्थाशब्दः एवं तर्हि वाक्यात् पौर्णमास्यङ्गतैव वैमृधस्य । न च नियोगैक्ये कश्चिद्विशेषः अस्याप्यधिकारसंबन्धात् । अतस्सिद्धं पौर्णमास्यङ्गं वैमृध इति ।
?R ॥ 14 ॥ अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् ॥ 36 ॥
?R निर्ज्ञातपराङ्गभावयोः संबन्धे नियोगः कालविधानपर्यवसाय्येव कर्मणः प्रत्यभिज्ञानात् तस्मात् कालार्थो नियोगः ।
?R ॥ 15 ॥ उत्पत्तिकालविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् ॥ 37 ॥
?R दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेन’?R इत्यत्राकर्मविधानात् कालार्थो नियोग इत्युक्तम् । तत्पुनरिदमयुक्तम् । बाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेतेत्यनेनाविशेषात् तेनात्रापि कालार्थेन नियोगेन भवितव्यम् । उभयत्र वा कर्मार्थत्वं नियोगस्य । वक्तव्यो वा विशेषः । अत्र कैश्चिदनारभ्य विधानं विशेष उक्तः । कः पुनरनारभ्यविधानेन विशेष उपलभ्यते ??R अयं विशेषः - कर्मद्वयविधानं तावन्न संभवति अनेनेष्ट्वा अनेन यजेतेत्येवमादिषु । अनारभ्यविधाने च नैकमपि कर्म प्रकृतमस्ति । तस्मान्नामतः प्रसिद्धकर्मोपादानं कालनियोगार्थम् । उक्तं च नामधेयमपि गुणफलोपबन्धेनार्थवत् इति । वाजपेये पुनः प्रकृतत्वाद्वाजपेयस्य कर्मान्तरविधानं श्रुत्योपपद्यते । नाम च तद्धर्मातिदेशार्थं भविष्यति प्रकरणान्तरे प्रयोजनान्यत्वमिति न्यायात् । अनारभ्यविधाने पुनः प्रकरणान्तराभावात् द्वयोरपि (अकर्मार्थत्वं युक्तम्) कर्मान्तरत्वमयुक्तम् । येषां पुनः दर्शपूर्णमासप्रकरण एवैतत्पठ्यते तत्र का कथा भवतु । तत्राङ्गाङ्गिभावः का नो बाधा ??R अथ वा परिहृतमेवैतत् शाखान्तराधिकरणे सर्वशाखाप्रत्ययमेकं कर्मेति वदता । कथं परिहृतं ??R तदेवेदं शास्त्रमिति युक्तम् । भवत्वेवं तथापि न विद्मः किं अनारभ्यवादस्य योऽर्थः तेन शास्त्रं प्रत्यभिज्ञायतां उत प्रकरणेऽपि योऽर्थः इति । अविरोधादनारभ्यवादेन प्रत्यभिज्ञानं भेदविदो मन्यन्ते । तस्मात्सूक्तमिह कालार्थः संयोग इति । दर्शनमुक्तम् ।
?R ॥ 16 ॥ फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात् ॥ 38 ॥
?R अत्र संशयः किं यस्य नियोगः तस्य फलं उत अन्यस्य नियोगोऽन्यस्य फलमिति । अधिकारी च नियुज्यते । यदर्थं कर्म सोऽधिकारी स एव नियुज्यते । यदर्थं कर्म सोऽधिकारी स एव नियुज्यते । अनधिकारे च पितुः नास्य नियोज्यता स्यात् । तस्माद्भवति संशयः । किं युक्तम् ??R नियोज्यस्य पितुः फलमिति । कुतः ??R अधिकारसिध्यर्थो नियोगः न संबन्धमात्रावगम्यः तस्मात् पितुरिदं फलं पुत्रफलान्वयस्य स्तुत्याऽन्वयो भवतु । लक्षणयाऽधिकृतविशेषणम् । तथा च क्रतुसंबन्धिनिमित्ते नियोज्यस्यैव फलं न क्रतुना संबध्यते । अत्रोच्यते - यस्य फलान्वयः तस्यैव फलं निमित्ततयाप्यधिकारसिद्धेः । इतरस्य पुत्रजन्मना निमित्तेनापि पुरुषार्थताऽस्तीत्यधिकारसिद्धिः । कथं तर्हि फलपदं ??R न कर्म विशेषणं, नाप्यधिकारोपनिपाति । उच्यते - भविष्यत्यधिकारोपनिपाति । कथमेवंविधस्य पुत्रजन्मनोऽधिकारिविशेषणत्वेन श्रवणात् । तस्माद्यस्य नियोगस्तस्यैव फलमिति अविरुद्धमेतत् प्रीत्याप्यधिकारसिद्धेः । यदुक्तं क्रतुसंबन्धे न्योज्यस्यैव फलमिति, युक्तमधिकारानुप्रवेशान्निमित्तस्येति षष्ठे वक्ष्यामः ।
?R एवं वा ॥
?R ‘?Rपुत्रे जाते’?R इति श्रूयते । तत्र संशयः - किं जननानन्तरमेव नैमित्तिकं भवतु उताङ्गोपसंहारमपेक्षते प्रकृतिवदभिप्राप्तमिति । यद्येवं किमिति कुमारस्य प्राणधारणमुत्कर्षहेतुत्वेनोपन्यस्यते । एकमेवेदमधिकरणमस्तु । साङ्गस्य नैमित्तिकत्वात् न निमित्तानन्तरं प्रयोगः संभवति इति स्वकाल एव कर्तव्यः । न चानन्तर्येऽसति निमित्तत्वव्याघातः भूतप्रत्ययोगान्निमित्तस्य । न च प्रतीक्षणे भूतत्वमपैति । तस्मात् पृथगधिकरणं निष्प्रयोजनमिव प्रतिभाति ।
?R अत्राभिघीयते - निमित्तानन्तरं नैमित्तिकमित्यौत्सर्गिकोन्यायः न कारणादृते कालोत्कर्षोऽवगम्यते । ननु च कारणमुक्तं साङ्गस्य नैमित्तिकत्वम् । एतदेव न विजानीमः किं निमित्तकाले नियोगावगमात् विनियोगावगम्यमङ्गं त्यज्यतां उत नियोगकालस्योत्कर्ष इति । नियोगार्थत्वाद्विनियोगस्याङ्गत्यागं विनियोगविदो मन्यन्ते ।
?Rयथा रजस्वलादिस्पर्शनेन पूर्वाह्णादिकालः विहित उपेक्ष्यते । अत एतद्बाधनार्थं पूर्वमधिकरणम् । यदि हि नियोगकाल एवानुष्ठानं क्रियते यदर्थो नियोगस्तदेव हीयते । तस्मान्नियोगकालावगतिरेवोत्क्रष्टव्या । उत्कृष्टा चेत् स्वकाल एव स्यान्नाङ्गत्यागे प्रमाणमस्तीति द्वितीयमधिकरणं लिखितम् ।
?R ॥ 17 ॥ प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम् ॥ 40 ॥
?R ‘?Rवाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेत’ ?Rइत्यत्र संशयः - किमेको नियोगः उत नियोगद्वयमिति । ननु नियोगद्वित्वेऽङ्गाङ्गिभावो नोपपद्यते । अस्ति चाङ्गाङ्गित्वं, तस्मान्न प्रयोगभेदः । बाढमुपपद्यते । विनियोगादङ्गाङिगता प्रयोगान्यत्वेन विनियोगान्यत्वम् । ननु च नियोगान्यत्वे शास्त्रभेदः प्राप्नोति । भवतु प्रयोगापेक्षया न कश्चिद्दोषः । विनियोगापेक्षया त्वेकमेवेदं शास्त्रम् । कथं पुनरेकत्वे शास्त्रस्य प्रयोगभेदः ??R केन वार्यते विधानभेदवत् अनुबन्धनिमित्तकम् । यद्यथैवानुबध्यते तत् तथैव तन्त्रं भिनत्ति । इह तु प्रयोगानुबन्धभेदात् प्रयोगभेदः प्राप्नोति । भवतु प्रयोगभेदापेक्षया न दोषः । तस्मान्न शास्त्रान्तरापत्तिः केवलं प्रयोगभेदः । यथा च प्रयोगभेदस्तथा दर्शितम् ।
?R॥ इति बृहत्यां चतुर्थाध्यायस्य तृतीयः पादः ॥
?R?0चतुर्थाध्यायस्य चतुर्थः पादः ॥
?R ॥ 1 ॥ ?Rप्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम् ॥ 1 ॥
?R ननु च नामधेयविचारे यजिसामानाधिकरण्यान्नाम भवतीत्युक्तम् । कथं पुनरयज्यर्थस्याप्येतदभिधानं शङ्क्यते ??R अतः पूर्वपक्ष एवायं नोपपद्यते । उच्यते - इह तु नियोगैक्याद्युगपदभिधानं धात्वर्थस्य । नियोगैक्यं च प्रकरणायत्तमिति सर्वप्रकृताभिधायी धातुरिति पूर्वपक्षवादी मन्यते । एवं प्राप्तेऽभिधीयते - सत्यं प्रकरणान्नियोगैक्यं न पुनः श्रुतानुबन्धपरित्यागे कारणमस्ति । कथं ??R इतिकर्तव्यतापि हि नियोगैक्यं नैव विरुणद्धि । तथाभूतोपदेशादिति वक्ष्यामः । अतो यागव्यतिरिक्तमङ्गमिति सिद्धम् ।
?R ?Rमध्यस्थं यस्य तन्मध्ये ॥ 2 ॥
?R ननु चात्रापि क्रमात् प्रकरणं बलीय इत्येतदेवोदाहृतम् । स्थितं च सर्वार्थत्वं तृतीये । उचय्ते - सत्यं विनियोगात् स्थितम् । इदानीं तु पृथक् प्रयोज्यत्वादभिषेचनीयनियोगस्य तस्य च सन्निधानात् तेनैवैक्यं युक्तमिति मन्यते पूर्वपक्षवादी । न विनियोगविरोधः ;?R प्रत्येकसंबन्धहेतुत्वात् प्रकरणस्य । अतः सन्निधिविशेषस्यातिक्रमो नोपपद्यते । अत्रोच्यते - स्थितमैकशब्द्यमधिकारविधेः । ततः किं ??R इदं ततो भवति । यस्यैव प्रयोगानुबन्धभेदः तस्यैव पृथक् प्रयोगोऽवसीयते स्वेनेतिकर्तव्यताकलापेन । यस्य पुनरङ्गस्याधिकारविधिरेव प्रयोगं ज्ञापयति न तस्यावान्तरप्रयोगः शक्यते ज्ञापयितुम् । तस्मात् क्रमात् तद्देशस्यैव अनुष्ठानमधिकारविधिसमधिगम्यमेव । प्रकरणाविरोधस्त्वयैवोक्तः ।
?R ॥ 3 ॥ ?Rप्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् ॥ 5 ॥
?R पुरस्तादुपसदां सौम्येन प्रचरन्तीति । कः खल्वाग्निमारुतादूर्ध्वमनूयाजैश्चरन्तीत्यनेनास्य विशेषः । न खलु कश्चिद्विशेषः । किमित्यधिकरणान्तरं सौम्यादीनां अन्यदधिकरणान्तरम् । का नो बाधा ??R । न खलु कश्चिद्भवतो बाधा । अधिकरणानर्थक्यं तु भवति । अयं तर्हि विशेषः । प्रकरणात् सर्वस्य प्राधान्यं इतिकर्तव्यतात्वं वा राजसूये । असंयुक्तं च प्रकरणादित्युक्तम् । तस्माद्वाक्यादुपसदङ्गमेवेति पूर्वपक्षवादिनोऽभिप्रायः । अपि च सन्निधानविशेषेणोपसदङ्गतैव युक्ता, अधिकारनियोगात् ।
?R अत्राभिधीयते - न तावदुपसदां प्रकरणमस्ति अधिकारनिबन्धनत्वात् प्रकरणस्य । ननु च वाक्यादुपसदङ्गत्वमित्युक्तम् नोभयपदसंबन्धाभावात् वाक्यं संभवति । तस्मात् पुरस्तादुपसदामित्येव संबन्धः । अथ कस्मादुपसदां सौम्येनेत्येष संवन्धः न भवति । पुरस्तादित्यनन्वयः प्राप्नोति पुरस्तादिति संबन्धे कालविधानात् सौम्येन चरन्तीत्यविरुद्धम् । तस्मादिदमपि आग्निमारुतादित्यनेनाविशिष्टम् ।
?R ॥ 4 ॥ ?Rफलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् ॥ 7 ॥
?R साङ्ग्रहण्यां तु फलवत्सन्निधौ अफलं तदङ्गमिति सिद्धेप्यनुषङ्गनिवृत्त्यर्थमिदमधिकरणम् । दर्शितं च ।
?R ॥ 5 ॥ ?Rदधिग्रहो नैमित्तिकः श्रुतिसंयोगात् ॥ 8 ॥
?R अनित्यदोषनिर्हरणार्थसङ्कीर्तनात् नैमित्तिकं मन्यते पूर्वपक्षवादी । खदिरवदुभयार्थतामाचार्यदेशीयः । नित्यत्वे सति ज्येष्ठशब्दोपपत्तिरिति मन्यते । राद्धान्तस्तु निमित्तसंयोगाभावात् न दोषनिर्हरणार्थतया नैमित्तिकत्वमस्य शक्यते कल्पयितुम् । किमिति न शक्यते नैमित्तिकदोषनिर्हरणान्यथानुपपत्त्या तस्यापि नैमित्तिकत्वं भवितुमर्हति । सत्यं यद्यन्यथा नोपपद्यते । अर्थवादतया तूपपद्यत एवेति न कल्पनामर्हति । सारूप्याद्युक्तम् ।
?R ॥ 6 ॥ वैश्वानरश्च नित्यः स्यान्नित्यैः समानसङ्ख्यत्वात् ॥ 12 ॥
?R अनित्यदोषनिर्हरणार्थवादतयाप्युपपद्यत इति यद्युच्येत वैश्वानरेऽपि नित्यता भवतीति पूर्वपक्षवादिनोऽभिमानः । राद्धान्तस्तु न ब्रूमो दोषनिर्हरणान्नैमित्तिकत्वम् निमित्तसंयोग एवात्र श्रूयते । न च निमित्तश्रुतिरर्थवादतया शक्यते व्याख्यातुम् । श्रुत्यर्थे संभवति नार्थान्तरकल्पनोपपद्यते । दर्शनमुक्तम् ।
?R ॥ 7 ॥ ?Rषट्चितिः पूर्ववत्त्वात् ॥ 14 ॥
?R षष्ठीं चितिमिति पूरणप्रत्ययावगमात् निमित्तश्रुतिः अर्थवादतया वर्णयितुं न्याय्येति पूर्वपक्षवादिनोऽभिप्रायः । कुतः ??R विधेयानुरोधात् अधिकारकल्पना न्याय्येति मन्यते ।
?R राद्धान्तस्तु सत्यमेवं यदि विरोधः स्यात् न त्वत्र विरोधः, उपदेशविवक्षयापि प्रत्ययार्थोपपत्तेः नावश्यम(र्था)नुष्ठानापेक्षयैव भगवतः पाणिनेः पूरणसूत्रं शक्यते वर्णयितुम् । तस्मादविरोधः । अविरोधे च न निमित्तश्रुतिः त्यक्तुं पार्यते । तस्मान्नैमित्तिकत्वं सिद्धम् । दर्शनोपन्यासपरिहारावुक्तौ ।
?R ॥ 8 ॥ ?Rपितृयज्ञः स्वकालत्वादनङ्गं स्यात् ॥ 19 ॥
?R फलकल्पनातो बरं लक्षणेति पूर्वपक्षवादिनोऽभिप्रायः । दर्शाधिकारानुप्रवेशे सति नाधिकारान्तरं शक्यते कल्पयितुमित्युक्तं भवति । तस्मादङ्गतैवामावास्यायाः पितृयज्ञस्य । अत्रोच्यते - नैकनियोगता संभवति अमावास्यायामिव कालसंयोगाविशेषात् पिण्डपितृयज्ञस्य । नामावास्यायां श्रौतः पिण्डपितृयज्ञे च लक्षणेति विशेषोऽवगम्यते । उभयत्र कालसंयोगस्य संभवात् । तस्मात्पूर्वापरश्रुतिस्तत्काललक्षणेत्यविरोधः ।
?Rप्रयोजनमुक्तम् ।
?R ॥ 9 ॥ पश्वङ्गं रशना स्यात् तदागमे विधानात् ॥ 21 ॥
?R अत्रापि क्त्वाप्रत्ययस्य क्रियान्तरापेक्षित्वात् एकनियोगतां पूर्वपक्षवादी मन्यते । तत्र च पश्वर्थतैव प्राप्नोति यूपस्यापि तदर्थत्वात् । राद्धान्तवादी तु समानकर्तृकतामात्रं क्त्वाप्रत्ययादवगम्यते न नियोगैक्यमिति यूपस्य पुनः द्वितीयातः प्राधान्यमेव युक्तमिति राद्धान्तितवान् ।
?R ननु चैकनियोगादृते समानकर्तृकतैव न संभवति । सत्यं न संभवति किन्तु अधिकारैक्यात् सिद्धं समानकर्तृकत्वम् । ननु च काललक्षणा नैवात्र संभवति । उच्चारणकालविभागो हि क्त्वाप्रत्ययोत्पत्तौ हेतुरित्युक्तम् । सत्यमुक्तं, स एवोच्चारणकालोऽनुष्ठानेपि लक्षणयोच्यते । सर्वत्र च कालविधावियमेव प्रतिपत्तिर्लोके वेदे च । समानकर्तृकतापि नैव तत्राद्रियते कालनिष्ठत्वान्नियोगस्य । अत एव च दर्शपूर्णमासाभ्यामिष्ट्वा सोमेनयजेतेति समानकर्तृकताचोद्यं परिहृतं भवति । प्रयोजनमुक्तम् ।
?R ॥ 10 ॥ ?Rस्वरुश्चाप्येकदेशत्वात् ॥ 15 ॥
?R यूपस्य स्वरुमिति स्वरुमान् यूप इति गोमानितिवत् तादर्थ्यं मन्यते पूर्वपक्षवादी । दृष्टो हि तादर्थ्ये सति मत्वर्थः । एवमत्रापीत्यभिप्रायः । राद्धान्तवादी तु यवमतीत्येवमादिषु अनैकान्त्यात् पशुमनक्तीति द्वितीयानिर्देशात् दृष्टार्थत्वाच्च पश्वर्थतेवेति । षष्ठी तूत्पत्तिसंयोगेप्युपपन्ना चेत्यदोषः । प्रयोजनमुक्तम् ।
?R ॥ 11 ॥ दर्शपूर्णमासयोरिज्याः प्राधान्यविशेषात् ॥ 29 ॥
?R स्थितं राजसूयाधिकरणे अनिज्या व्युदस्यन्ते । यजिशब्दसंयोगेनाधिकारश्रवणात् । यत्रैव च धातुर्वर्तते तत्रैवोपपदं नामतया वर्तत इति नामधेयविचारे स्थितम् । अतः पूर्वपक्षवादी यागमात्रवचनोऽयं यजिः यत्र यजिः तत्रैवोपपदं वर्तत इति मन्वानो द्विवचनान्तसरूपमेवेदमभिधानं मन्यते । यत्पुनः ‘?Rप्रयाजे प्रयाजे कृष्णलं जुहोति’?R इति विकृतिषु दर्शनं तत् कथमस्मिन् पक्षे भविष्यति ??R प्रमाणान्तरं मृग्यं यत्रेति वा, व्यामोहो वा, कर्मान्तरं वा नामतश्च धर्मग्रहणं भविष्यति । यत्पुनः य एवं विद्वानमावास्यां यजत
?Rइति तत् प्रकृतसमुदायद्वयं किमिति न परिगृह्यते द्विवचनयोगात् । उक्तं च धात्वर्थानुसार्युपपदमिति । दर्शशब्दाच्चान्यत्वावगतेः । तस्माद्राजसूयवदनिज्यैवात्राङ्गमिति स्थितम् । अत्रोच्यते - सत्यमिदं धात्वर्थानुसार्युपपदमिति तथापि समुदायद्वयस्य प्रकृतत्वात् द्विवचनस्य चार्थान्तरानुपपत्तेः । संभवति च स्वार्थे सरूपकल्पनाया असंभवात् । धात्वर्थानुसारितायां चाविरोध उपपदस्य । कथं ??R नैवेदमुपपदं अधात्वर्थे प्रवृत्तं, धात्वर्थप्रवृत्तौ सत्यां न नामार्थपरित्याग उपपद्यते । कश्चास्यार्थः प्रकृतसमुदायद्वयवचनता । एवं च तदनुसारित्वे उपपन्ने नार्थान्तरकल्पनायां प्रमाणमस्ति । ननु च प्रकृतयागपरित्यागे नास्ति प्रमाणं धातोः ;?R केन वा उक्तं अपरित्यागे प्रमाणमस्तीति किन्तूपपदार्थविरोधाभिधाने नास्ति प्रमाणमित्युक्तमस्माभिः । यच्च दर्शशब्दश्रवणात् न प्रकृतप्रत्यभिज्ञानमस्तीति परिहृतं तद्वाक्यशेषेष्वेकार्थत्वदर्शनादिति । शक्यत्वाच्च दर्शशब्देनापि तदर्थाभिधानस्य । तस्मात्सूक्तं फलवत्सन्निधावफलं तदङ्गमिति । यत्पुनरिदमुक्तं कस्मान्नानुषङ्गो भवतीति चोद्यं परिहृतं तदनुषङ्गतो वर(मितिकर्तव्यता) काङ्क्षापरिपूरणमिति । अन्यथा त्वनवस्थैवाकाङ्क्षाया इति । यद्यवं किमिति व्यवायान्नानुषज्येत इति साङ्ग्रहण्यां दर्शितं तत्राप्ययमेव न्यायो युक्तः वक्तव्यो वा विशेषः ।
?R अयमभिधीयते - युक्तं तत्र प्रकृतिवदितिकर्तव्यतायां स्थितायां निराकाङ्क्षत्वात् व्यवायादेवानुषङ्गनिषेधः । इह पुनरपर्यवसितत्वादितिकर्तव्यतार्थितायां स्थितायां पूरणेनैवैकनियोगत्वं युक्तम् । न पुनरधिकारान्तरकल्पनेति सूक्तम् । दर्शनानि चोक्तानि । अङ्गवत्स्तुतयः ।
?R ॥ 12 ॥ ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम् ॥ 39 ॥
?R इह तु द्विवचनाद्यभावात् न यागमात्रप्रतिपत्तिः शक्यते वारयितुम् । (ज्योतिष्टोमशब्दस्य च नामधेयत्वात् प्रवृत्तौ निमित्तं अभिधेयं नान्वयीत्युक्तं नामधेयविचारे) । ननु च नामतैवात्र हीयते विशेषणमेवैतत्तदा भवति किं न श्छिन्नम् । तथापि राद्धान्तः सिद्ध एव । किन्तु विशेषणपदमपि एतन्नामैव अर्थान्तरानुपपत्तेः यज्यर्थस्य विशेषणमात्रावगमहेतुत्वात् । (तदेतद्द्वित्वमपि) । अतोऽन्वितमपि
?Rविशेषणनिष्ठमिति नामैव, अर्थान्तरानुपादानात् । स्तुतिदर्शनं चोक्तम् ।
?R॥ इति बृहत्यां चतुर्थाध्यायस्य चतुर्थः पादः ॥
?R?0पञ्चमाध्यायस्य प्रथमः पादः ॥
?R ॥ 1 ॥ ?Rश्रुतिलक्षणमानुपूर्व्यं तत्प्रधानत्वात् ॥ 1 ॥
?R ननु क्रत्वर्थपुरुषार्थचिन्तापि तत्र वृत्ता किमिदं प्रयोजकाप्रयोजकलक्षणं वृत्तमिति । उच्यते - क्रमचिन्तायामस्यैवोपयोगात् वक्ष्यमाणौपयिकतया वृत्तं सङ्कीर्त्यते न वृत्ततया । एकप्रयोगप्रयुक्तानां हि क्रमो भवति नाप्रयुक्तानामिति प्रयोजकाप्रयोजकसङ्कीर्तनम् । यदि(प्रयोजकाप्रयोजक)प्रयुक्तानां क्रमश्चिन्त्यते । अविधेयस्तर्हि क्रमः विहितं हि प्रयुज्यते नाप्रयुक्तस्य विधानम् । केन वोक्तं क्रमोवधीयत इति । विहितवितानमेवात्र चिन्त्यते किं यथाप्रतिपन्नविहितवितानमनुष्ठेयं उतानियमेनेति । कथं पुनरयथाप्रतिपन्नानुष्ठानमाशङ्क्यते । विनियोगशृन्यत्वाद्विहितवितानावगमस्य । नान्तरीयको हि विधेयावगतौ वितानप्रत्ययः । अतो यश्चार्थादर्थो न स चोदनार्थ इति मन्वानः पूर्वपक्षवादी अनियमं मन्यते । ननु च ‘?Rअध्वर्युर्गृहपतिं दीक्षयित्वा’?R इत्यत्र क्रमविधानमेवोपन्यस्तं भाष्यकारेण विधेयान्तराभावादिति वदता । यद्येवमयुक्तमिदम् । अस्त्येवात्र विधेयान्तरं अनेनामी दीक्षितव्या इति कर्तृविशेषविधानम् । अध्वर्युविधावपि नियमः एव । किं हेयमेवेदं भाष्यम् ??R नेति वदामः । यदि कत्वेति पौर्वापर्यमभिधाने गम्यते कर्तृविधौ, तदनुष्ठानौपयिकतयैव कर्तृविधावुपयुज्यते न संबन्धिविधाविति तन्निष्ठा श्रुतिरित्युक्तम् । अप्रयुक्तस्याविधेयत्वमेव हेतुरुक्तः । एवं तर्हि हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इत्येतदप्युदाहरणं अत्र स्यात् । नेति ब्रूमः । पाठावगतस्यायमथशब्दोऽनुवादः । कर्तृविशेषविधौ पुनर्नान्यतः क्रमोऽवगन्तुं शक्यते क्त्वाप्रत्ययात् इति सूक्तम् । किं पुनः कारणं नान्तरीयकोऽयं नियमः आद्रियते । न ह्यचोदनालक्षणस्य चोदनालक्षणनिर्वृत्तावङ्गतोपपद्यते । सत्यं नोपपद्यते ;?R अत एव च नानुष्ठीयते किन्त्वर्थप्राप्तमेव क्रमान्तरं निरुणद्धि तस्यानवगमादित्युच्यते ।
?Rअतोऽनपेक्षत्वमिवाऽविधीयमानमप्युपकारायैव भवतीति न दोषः । पुनरुक्त्याद्याशङ्का तूक्ता ।
?R ॥ 2 ॥ ?Rअर्थाच्च ॥ 2 ॥
?R एवं तावत् अनन्यपराक्षरतया नियमितः क्रमः । इदानीं कार्यानुरोधेन क्रमोऽपि नियम्यते । तत्परत्वादनुष्ठानस्य । तत्र प्रदर्शितान्युदाहरणानि । किं पाठक्रममस्य बाधोऽयं नेति चिन्त्यते । नेति ब्रूमः । इदमपि क्रमनियमहेतुकारणं न कस्यचिद्विरोधितया प्रदर्श्यते बलाबलचिन्तायां तु विरोधे वलीयस्त्वं च । इह पुनः स्वरूपप्रतिपत्त्यर्थमेवेदमुपन्यस्तम् ।
?R ॥ 3 ॥ ?Rअनियमोऽन्यत्र ॥ 3 ॥
?R यत्र क्रमनियमप्रमाणं नास्ति उक्तं वक्ष्यमाणं वा तत्रानियम एव । यथा शाखान्तरीयाङ्गविधानं शाखान्तरे उपसंह्रियमाणम् ।
?R ॥ 4 ॥ ?Rक्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् ॥ 4 ॥
?R यत्र पुनस्तात्पर्यमक्षराणां नास्ति यथा अध्वर्युरित्यादौ न च कार्यतो विरोधः । तत्र का कथा ??R तत्रापि पाठनियमः । ननु च पाठक्रमावगतिर्निर्मूला । न तस्याः किञ्चिदवगतिनिमित्तमस्ति पदानां वाक्यार्थावगतिहेतुत्वात् । निर्मूला चावगतिर्न प्रमाणम् । पूर्वो धावतीत्यत्र परान्वय इव । तस्माद्यर्थेष्टमत्र क्रमपरिग्रहणं मन्यामहे । उच्यते - मैवं वोचः । वाक्यक्रम इव वाक्यार्थे क्रमोऽपि शब्दनिबन्धन एवेति । यथा न शब्दादृते शब्दक्रमोऽवगम्यते नार्थादृतेऽर्थक्रमः । यस्मिंश्च सत्येव यदवगम्यतेऽव्यभिचारात् तत् तस्य निमित्तमिति वदामः । तस्मान्नेदं निमित्तम् । अत एव च नियतक्रममध्ययनं दृष्टार्थमेव भवति । अन्यत्र कार्यविशेषात् । अत एव च लौकिकाः पाठक्रमेण धूपादिषु व्युत्क्रमाभिधाने प्रतिषेधं कुर्वते । अदृष्टार्थेष्वपि दर्शितम् । तस्मादत्रापि न क्रमान्तरकल्पना युक्तेति युक्तम् । अत एव च ‘?Rअध्वर्युर्गृहपतिं दीक्षयित्वा’?R इत्येवमादिषु तात्पर्यमात्रात् क्रमसिद्धिः । निमित्तत्वमात्रं हि अत्र परिगृह्यते । तस्मात् सनिमित्ता प्रतिपत्तिः प्रमाणमित्युक्तं प्रमाणपरीक्षायाम् । अतो यावती सनिमित्ता प्रतिपत्तिः सा सर्वैव क्रमावधारणे अन्यत्र वा वेदार्थानुष्ठानोपकारिणी प्रमाणमिति मन्तव्यम् । दर्शनमुक्तम् ।
?R ॥ 5 ॥ ?Rप्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात् ॥ 8 ॥
?R किमपरं कारणं क्रमनियमे ??R प्रवृत्तिरिति ब्रूमः । प्रवृत्त्यापि हि क्रमबुद्धिरुपजायते । कथं पुनर्वैदिकत्वम् ??R तदर्थाश्रयात् । तस्मात् प्रवृत्तिरपि नियमहेतुः । यत्पुनरिदं भाष्यकारेणोक्तं ‘’?Rएवं प्रधानप्रत्यासत्तिर्भवति’’?R इति तथा सौर्यादिभिश्च साम्यमाशङ्क्य पुनर्वैषम्यमुपन्यस्तं कस्तस्योपयोगः ??R नातीव क्रमावधारणे उपयुज्यते । अस्त्यत्रोपयोगः प्रवृत्तिर्नाम क्रमनिरपेक्षं क्वचिदनुष्ठानं निरपेक्षं चेदनुष्ठानं प्रवृत्तं न पुनरपेक्षायां (प्रमाणं)प्रयोजनं अस्तीति मन्वानस्येदमुत्तरं - प्रधानप्रत्यासत्तिः सहचोदनातोऽवगता वैषम्यात् पीडिता भवति । साम्ये पुनः यथाभ्यनुज्ञातैव भवति । तत्सिद्ध्यर्थं नियमोऽभ्युपगन्तव्यः । स च प्रथमप्रवृत्तिपूर्वक इति तयैव व्याख्यायते । सौर्यादिदर्शनमिदानीं किमर्थम् ??R यदि क्रमावगतिमात्रतयैव क्रम आद्रियते सौर्यादिषु कः प्रद्वेषः । न खलु कश्चित् । अनुष्ठानानौपयिकतया तु प्रतीतमपि त्यज्यते वर्णस्वरूपमिव पदेषु (वाक्येषु एकत्वमिव ग्रहेषु उभयत्वमिव हविष्षु नैतावता औपयिकस्यापि त्याग उपपद्यते । अतोऽपेक्षितं प्रतिपन्नमाद्रियते । प्रतिपन्नमप्यनपेक्षितमुपेक्षणीयमेव । ननु चैवं सति प्रतिपत्तिरनर्थिका प्राप्नोति । केन वोक्तं प्रतिपत्तेर(न)र्थवत्त्वं अर्थवत्प्रतिपत्तिरेवार्थवत्त्वे हेतुः न प्रतिपत्तिमात्रं, नाप्रतिपत्तिः प्रतिपत्तिपर्यन्तैवेति सूक्तम् ।
?R ॥ 6 ॥ ?Rस्थानाच्चोत्पत्तिसंयोगात् ॥ 13 ॥
?R अत्र भाष्यकारेण त्रिणवादिष्वदर्शनात् समाम्नाय(क्रम)स्य विद्यमानस्याप्यविषयतां मन्वानैः इदमुदाहृतमित्यविषयतां मत्वेदमुदाहृतं सह पशृनालभत इति ।
?R अत्र च अधिकरणान्तरसिद्धमर्थमुपादाय सहपशृनालभत इति सवनीयस्थाने सहत्वमिति स्थिते कः क्रमनियम इति चिन्त्यते किमत्रापि प्रवृत्तिरेव निमित्तं उत निमित्तान्तरमस्तीति । तत्र पूर्वपक्षवादी अवश्यंभाविनि क्रमे यदि प्रवृत्तिर्नेष्यते पूर्वावगतपाठादेव नियम इति मन्यते । राद्धान्तवादी तु सहवचनेन स्थानस्याबाधितत्वात् सवनीयस्यैव पूर्वमनुष्ठानं न्याय्यमित्युक्तवान् । यद्येवमग्नीषोमीयानुबन्ध्ययोः का वार्ता ??R कथं पौर्वापर्यं अत्र । किमनयाऽनुपन्यस्तया चिन्तया ??R यद्वा स्थानवत् कालबाधोऽप्ययुक्त इति अग्नीषोमीय एव पूर्वम् । यद्येवं सवनीयादपि तर्हि पूर्वत्वं
?Rभवितुमर्हति । न । विहितत्वात् सवनीयकालस्य प्रचयावगम्यत्वादग्नीषोमीयकालस्य । विधानार्थत्वाच्च प्रचयस्य विहितं बलीयः । एवं तर्हि बलाबलचिन्तेयम् (न प्रमाणस्यार्थान्नियमो युक्तः) । नैवं, स्थिते प्रमाणान्तरत्वे बलवदबलत्वमिति सूक्तम् ।
?R ॥ 7 ॥ ?Rमुख्यक्रमेण चाङ्गानां तदर्थत्वात् ॥ 14 ॥
?R यत्र यौगपद्येन चोदना सारस्वतौ भवत इति तत्र किं प्रमाणान्तरमस्ति क्रमनियमस्य अङ्गानां उत यथेष्टा प्रवृत्तिरिति । तन्त्रेणोच्चारणाच्छास्त्रस्य न क्रमः प्रतीयते इत्यभिप्रायः ।
?R एवं प्राप्तेऽभिधीयते - मुख्ये क्रमदर्शनात् अङ्गेष्वपि क्रमो युक्तः । एवं च सति यावदनुज्ञातं व्यवधानं भविष्यति । अनियमे हि अनुज्ञातातिक्रमः । क्रमबाधो न युक्त इति ।
?R ॥ 8 ॥ ?Rप्रकृतौ तु स्वशब्दत्वाद्यथाक्रमं प्रतीयेत ॥ 15 ॥
?R इदानीं पाठमुख्ययोर्विरोधे चिन्त्यते । तत्र मुख्यार्थत्वादङ्गानां मुख्यक्रमो बलीयानिति पूर्वः पक्षः । एवं च प्रयोगचोदनानुग्रहः प्रत्यासत्तेः । अत्राभिधीयते - न प्रतीतस्य बाधो युक्तः पाठाच्च निरपेक्षात् क्रमोऽवगतोऽङ्गानां नान्यापेक्षया बाधितुं युक्तः । ननु च प्रत्यासत्तेः प्राधान्याच्च बलवत्तोक्ता । सत्यमुक्ता - अयुक्ता तु सा । यथाप्रतीतं हि प्रयोगवचनो गृह्णाति । न प्रयोगवचनादङ्गावगतिः । अङ्गं सत् प्रयोगवचनेन गृह्यत इत्युक्तम् । तस्मात् यथावगमं प्रत्यासत्तिः । न प्रत्यासात्तेरवगमोऽङ्गानां, अतः पाठो बलीयानिति युक्तम् । उक्तं च स्वशब्दत्वादिति ।
?R॥ 9 ॥ ?Rमन्त्रतस्तु विराधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मादुत्पत्तिदेशः सः ॥ 16 ॥
?R मन्त्रब्राह्मणपाठविरोधे किं बलीय इति । अनियम इति प्राप्ते उच्यते - मन्त्रक्रमो बलीयानिति । कुतः ??R पाठस्यानन्यपरत्वात् । प्रयोज्यत्वान्मन्त्राणाम् । ननु ब्राह्मणेप्यनन्यपर एव पाठक्रमः । यत्पुनः (क्रमोत्पत्तिः)कर्मोत्पत्तिः प्रयोजनमित्युक्तं, वाक्यस्य तत्प्रयोजनं न पाठक्रमस्य । उच्यते - उत्पत्त्यर्थः स पाठक्रमः, न प्रयोगार्थ इत्युक्तं भवति । मन्त्रे पुनः प्रयोगार्थः क्रमो भवतीति बलवत्त्वम् ।
?R ॥ 10 ॥ ?Rतद्वचनाद्विकृतौ यथा प्रधानं स्यात् ॥ 17 ॥
?R किं मुख्यक्रमाद्विकृतौ क्रमः उत पाठक्रमात् प्रकृतौ यथा निर्ज्ञातोऽङ्गक्रमः विकृतावपि तथैव प्रयोक्तव्य इति । किं युक्तं ??R प्रयोगार्थत्वात् क्रमस्य विकृतौ प्रयोगावगमात् यथाविकृति प्रयोग इति पूर्वः पक्षः ।
?R राद्धान्तस्तु न निर्ज्ञातक्रमं प्रयोगवचनो बाधितुमर्हति । निर्ज्ञातस्य हि प्रयोगो अङ्गानामिव क्रमस्य(आह) । अनिर्ज्ञाते हि हेत्वन्तरकल्पना न निश्चिते । तस्माद्यथा प्रकृतौ तथा विकृतावप्यङ्गानां प्रयोग इति ।
?R ॥ 11 ॥ विकृतिः प्रकृतिधर्मत्वात् तत्काला स्यात् यथाशिष्टम् ॥ 18 ॥
?R सद्यस्कालद्वयहकालचिन्ता । केयं क्रमचिन्तायां ??R क्रमसिध्यर्थेति ब्रूमः । सद्यस्कालतायामन्यथा क्रमो भवति । द्वयहकालतायां चान्यथा । तस्माद्युक्तो विचारः । तत्र प्रकृतिवदिति द्वयहकालतां मन्यते पूर्वपक्षवादी । अहरन्तरेपि सवनश्रुतेरविशेषात् । राद्धान्ती तु कालान्तरश्रवणात् न प्राकृतं कालमपेक्षत इति सद्यस्कालतां मन्यते । सवनानि चैकाहः संबन्धान्येव श्रुत्याऽवगम्यमानानि न कारणादृतेऽहरन्तरापेक्षाणि युक्तानि कल्पयितुम् । दर्शनमुक्तम् ।
?R ॥ 12 ॥ अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात् ॥ 23 ॥
?R अश्रूयमाणानामुत्कर्षवाक्येऽपकर्षवाक्ये च किमित्युत्कर्षापकर्षौ । सत्यं श्रुतस्य पदार्थस्य उत्कर्षोऽपकर्षो वा श्रूयते न पुनरुपरितनमाधस्त्यं वाऽकृत्वेति । न चेदिदमवगम्यते क्रमादवगतमनुष्ठानं केन वार्यते । अतः किमत्रोत्कर्षवाक्येऽश्रुतत्वं करिष्यति । अन्यतः सिद्धेः । तस्मात् युक्तमुक्तं - तदादि वाऽभिसंबन्धात् तदन्तमपकर्षे स्यादिति ।
?R ॥ 13 ॥ ?Rप्रवृत्त्या कृतकालानाम् ॥ 25 ॥
?R किमलङ्करणादयो धर्माः प्रैषोत्तरकालं कर्तव्या उत पाठादेवावगताः सौमिका इति । तत्र वचनबलात् निर्वापमात्रमेव मध्ये कर्तव्यं, अतोऽनियम इति प्राप्ते अभिधीयते - प्रोक्षणादयः कर्तव्याः अनिर्ज्ञातकर्तव्यता हि पाठान्नियम्यते । न पुनः निर्ज्ञातकर्तव्यतां निरुणद्धि पाठः । प्रैषात् प्रैषार्थकर्तव्यता विज्ञायते । अतः परं तु पाठान्नियमः ।
?R ॥ 14 ॥ ?Rअसंयोगात्तु तदेव प्रतिकृष्येत ॥ 27 ॥
?R दीक्षासु यूपं छिनत्तीत्यपकर्षः श्रूयते तत्र तदन्ताशङ्कानिवृत्त्यर्थमिदमधिकरणम् । अभिसम्बन्धाभावात् । यावद्वचनमपकर्ष इति ।
?R ॥ 15 ॥ ?Rप्रासङ्गिकं च नोत्कर्षेदसंयोगात् ॥ 28 ॥
?R प्रासङ्गिकेप्ययं तुल्यो हेतुरिति प्रासङ्गिकं च नोत्कर्षेदित्युक्तम् ।
?R ॥ 16 ॥ ?Rतथाऽपूर्वम् ॥ 29 ॥
?R पौर्णमास्यां पाठक्रमात् क्रमसंबन्धो निर्ज्ञात इति तदपकर्ष इति तदन्तापकर्षं मन्यते पूर्वपक्षवादी । राद्धान्तवादी तु न पौर्णमासीप्रकृतिकमामावास्यं कर्मेति मन्वानः अपकर्षोत्तरकालमेव क्रमो नियम्यते शेषाणामिति यावद्वचनमपकर्षमुक्तवान् । कार्यविरोधश्चाभ्युच्चयः ।
?R ॥ 17 ॥ ?Rसान्तपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात् ॥ 30 ॥
?R परार्थमुद्घृतेऽग्नौ प्रसङ्गादृते नाग्निहोत्रं होतव्यं इति मन्वानः पूर्वपक्षवादी उत्कर्षमुक्तवान् । राद्धान्तवादी तु निमित्तत्वात्कालस्यानुत्कर्षं मन्यते । कथं पुनः कालो निमित्तं ??R तस्मिन् सति प्रयोगात् न पुनः अधिकारिविशेषणत्वात् ।
?R अतो निमित्ते सति नैमित्तिकेन भवितव्यमित्यर्थात् प्रसङ्गसिद्धिः । अतोऽनुत्कर्षः ।
?R ॥ 18 ॥ षोडशी चोक्थ्यसंयोगात् ॥ 35 ॥
?R षोडशिन्यप्यङ्गकालविरोधात् कादाचित्कत्वाच्चोत्कर्षस्य अनुत्कर्षं मन्यते पूर्वपक्षवादी । राद्धान्तवादी तु अवश्यंभावित्वाच्छास्त्रातिक्रमस्य वरं अङ्गशास्त्रातिक्रम इत्युक्तवान् ।
?R॥ इति वृहत्यां पञ्चमाध्यायस्य प्रथमः पादः ॥
?R?0पञ्चमाध्यायस्य द्वितीयः पादः ॥
?R
?R ॥ 1 ॥ ?Rसन्निपाते प्रधानानामेकैकस्य गुणानां सर्वकर्म स्यात् ॥ 1 ॥
?R ननु च प्रवृत्त्या क्रमो नियतः । किमिदमेकैकस्य कृत्स्नमिति । उच्यते - स्थित
?Rएतस्मिन्नधिकरणे तत् । इह पुनः पूर्वपक्षवादी मन्यते सकलपदार्थानुष्ठानेनापि सहत्वमुपपद्यत एव । किमिति कालव्यवधानं कल्प्यते । एवमेवानुज्ञातमुपपन्नं भवति ।
?R राद्धान्तवादी तु सहत्वचोदनादेकैकस्य पदार्थस्य सहानुष्ठानमवगम्यमानं न शक्यते त्यक्तुम् । अतस्तदनुरोधेन व्यवधानानुज्ञानं न तत्परित्यागेनेति पदार्थानुसमयमुक्तवान् । अधिकरणान्तरं वेति कार्यविरोधात् सहत्वावगमत्यागः पाठवत् ।
?R ॥ 3 ॥ ?Rमुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन ॥ 4 ॥
?R अस्मिन्नधिकरणे अनावृत्तेनापि मुष्ट्यादिना कृतं शास्त्रार्थं मन्यमानः पूर्वपक्षवादी पदार्थानुसमयमुक्तवान् । राद्धान्तवादी तु चोदनातः पदार्थाध्यवसानं वैदिकेषु च न लोकवत् प्रमाणान्तरावसेयम् । एकं चेदं शास्त्रं चतुरो मुष्ठीन्निर्वपतीति द्विर्हविषोऽवद्यतीति च । तस्माच्छास्त्रार्थानुसमयो न्याय्य इति मन्यते ।
?R॥ 4 ॥ ?Rसंयुक्ते तु प्रक्रमादङ्गं स्यादितरस्य तदर्थत्वात् ॥ 6 ॥
?R यदि शास्त्रादनुसमयो द्विर्हविषोऽवद्यतीति एकत्वाच्छास्त्रस्य एतावतैवानुसमय एव न्याय्यः इति पूर्वपक्षः । तस्मात् प्रदानान्तमेवानुसमेतव्यमिति सिद्धम् ।
?R ॥ 5 ॥ ?Rवचनात्तु परिव्याणान्तमञ्जनादि स्यात् ॥ 7 ॥
?R अर्थाद्यूपधारणमिति पूर्वपक्षवादी पदार्थानुसमयं मन्यते । शास्त्रभेदात् शास्त्रार्थानां सह चोदनात् । राद्धान्तवादी तु विहितोपपत्त्यर्थत्वात्क्रमस्य काण्डानुसमयं मन्यते । ननु च दृष्टार्थत्वादन्येनापि तत् क्रियत इत्युक्तम् । सत्यं यद्यर्थाद् दृष्टार्थता स्यात् । विधौ तु सति दृष्टेप्यर्थे न शास्त्रार्थो व्यतिक्रमितुं शक्यते । दर्शितमेतत् ।
?R ॥ 6 ॥ ?Rपशुगणे तस्य तस्यापवर्जयेत पश्वेकत्वात् ॥ 10 ॥
?R अत्रापि शास्त्रबाधं मन्वानः काण्डानुसमयं मन्यते पूर्वपक्षवादी । राद्धान्तवादी तु पदार्थानुसमयेप्यबाधं मन्वानः सहचोदनानुग्रहाय पदार्थानुसमय एव न्याय्य इत्युक्तवान् । मन्त्रोच्चारणतन्त्रता च सहत्वे लिङ्गम् ।
?R ॥ 7 ॥ ?Rनानाबीजेष्वेकमुलूखलं विभवात् ॥ 13 ॥
?R कः पुनरत्र विशेषोऽवदानादिहोमपर्यन्तानुसमय इत्यनेनाधिकरणेन । न खलु
?Rकश्चिद्विशेषः । किमर्थं तर्हीदमधिकरणं ??R विधानात् पदार्थावच्छेदो भवतीति पूर्वपक्षवादिनोऽभिमानः ।
?R राद्धान्तवादी तु विधेयान्यत्वेन विधानोपपत्तौ न पदार्थावच्छेदाय प्रभवोऽस्तीति पूर्वोक्त एव न्याय्यः । अनेन च विशेषेण तदप्यत्रोदाहरणम् ।
?R ॥ 8 ॥ ?Rविकारे त्वनूयाजानं पात्रभेदाऽर्थभेदात् स्यात् ॥ 16 ॥
?R कः पुनरयं क्रमचिन्तायां पात्रभेदोपन्यासः । क्रमसिद्ध्यर्थ इति ब्रूमः । भेदाभेदे क्रमान्यत्वदर्शनात् । तत्र पूर्वः पक्षोद्रव्यविकारशङ्कया पात्रविकारशङ्कया च । कालान्यत्वेन चोपपत्तेः ।
?R राद्धान्तस्तु द्रव्यविकारापत्तेः कालान्यत्वे च ग्रहणयोः सहावगमबाधात् तदनुगुणः पात्रभेदो न्याय्य इति सिद्धम् ।
?R॥ 9 ॥ ?Rप्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यात् न ह्यचोदितस्य शेषाम्नानम् ॥ 17 ॥
?R वैकृतानां पाठक्रमः प्राकृतैर्व्यवधीयते नेति चिन्ता । व्यवधीयत इति पूर्वः पक्षः । पदार्थानुष्ठानेन व्यवधानावगमात् ।
?R राद्धान्तस्तु वैकृतप्रयोगवचनात् प्राकृतपदार्थावगमात् (अ) व्यवधानम् । अतस्सूक्तं अन्ते तु बादरायण इति ।
?R ॥ 10 ॥ ?Rकृतदेशात्तु पूर्वेषाम् सदेशः स्यात् तेन प्रत्यक्षसंयोगात् न्यायमात्रमितरत् ॥ 21 ॥
?R राजसूयेपि विदेवनादयो वैकृतेन पाठेन विरुद्ध्यमाना नान्तेऽनुष्ठानमर्हन्ति । न्यायमात्रमितरदिति ।
?R एतदुक्तं भवति - नान्तेऽनुष्ठानं केनचित्क्रमेणावगम्यते । किं तर्हि ??R पूर्वावगमविरोधात् अन्तेऽनुष्ठानमिति न्यायमात्रमित्युच्यते ।
?R ॥ 11 ॥ ?Rप्राकृताच्च पुरस्तात् ॥ 22 ॥
?R अत्रापि प्राकृतक्रमावगमात् प्रयोगचोदनात एव अन्तेऽनुष्ठानं मन्यते पूर्वपक्षवादी । पुनः श्रुतिस्तु अनन्यार्था क्रममेवावगमयतीति राद्धान्तः ।
?R ॥ 12 ॥ ?Rसन्निपातश्चेद्यथोक्तमन्ते स्यात् ॥ 23 ॥
?R अत्रापि दीक्षणीयासङ्कीर्तनं पूर्ववत् क्रमार्थं मन्यते पूर्वपक्षवादी । तत्तु पूर्वपदार्थक्रमपरतयैवोक्तमिति(वोपयुक्तमिति) । राद्धान्तवादी तु परस्ताद्यथोक्तं न्याय्यं मन्यते । किं पुनः कारणं पूर्वस्मिन्नेवोपयुज्यते न पुनः परस्मिन्नपीति । अत्रोच्यते - परतोऽनन्यत्वावगमात् पूर्वस्मिंश्चान्यत्वावगतेः युक्तमुक्तम् ।
?R॥ इति बृहत्यां पञ्चमाघ्यायस्य द्वितीयः पादः ॥
?R?0पञ्चमाध्यायस्य तृतीयः पादः ॥
?R ॥ 1 ॥ ?Rविवृद्धिः कर्मभेदात् पृषदाज्यवत्तस्य तस्योपदिश्येत ॥ 1 ॥
?R क्रमार्थ एव प्रत्येकसमुदायसम्बन्धश्चिन्त्यते । प्रत्येकसम्बन्धे हि व्यवधानमहत्वं समुदायसम्बन्धे त्वल्पत्वम् । तस्माद्युक्ता चिन्ता । किं पुनर्युक्तं ??R प्रत्येकमभिसंबन्ध इति । प्रतिप्रधानं गुणा आवर्तन्त इति न्यायात् । ननु च पृथक्त्वनिवेशिनी सङ्ख्येत्युक्तम् । सत्यमुक्तं विधानवशात्तु यथोपपद्यते तथोपकल्पनीयम् । अत एव ‘?Rपञ्चदशान्याज्यानि’?R इति च प्रत्येकमभिसंबन्धः । अत्रोच्यते - न विधानं पदार्थमन्यथा कर्तुमुत्सहते । पदार्थानुरोधी हि विधिः न विध्यनुरोधिनः पदार्थाः । ‘?Rअग्निना सिञ्चेत्’?R इत्येवमादिषु दर्शितम् । तस्मात् यावत्पृथक्त्वं तावदभ्यासकल्पना न सम्भवतीति समुदायाभिसम्बन्धः । पृषदाज्ये त्वेतद्विपरीतं इति प्रत्येकमभिसंबन्धः । यदप्युक्तं पञ्चदशान्याज्यानीति आवृत्तौ डप्रत्ययं वक्ष्यामः ।
?R ॥ 2 ॥ ?Rस्वस्थानात्तु विवृद्ध्येरन् कृतानुपूर्व्यत्वात् ॥ 3 ॥
?R सङ्ख्यासम्पत्त्यर्थमभ्यासे प्राप्ते इदं चिन्त्यते - किं दण्डकलितवदभ्यासः उत स्वस्थान इति । समुदायाभिसम्बन्धात् दण्डकलितवदभ्यासम्मन्यते पूर्वपक्षवादी । पूर्व- प्रतीतक्रमानुरोधात् स्वस्थाने युक्त इति राद्धान्तः । समुदायसंबन्धस्य तूभयथाप्यविरोधः ।
?R ॥ 3 ॥ ?Rसमिध्यमानवतीं समिद्धवतीं क चान्तरेण धाय्याः रयुः द्यावापृथिव्योरन्तराले समर्हणात् ॥ 4 ॥
?R ननु वचने सति पूर्वपक्ष एव न सम्भवति । अर्थवादपूर्वकं तद्वचनमिति पूर्वपक्षवादी न्यायानुसारेणापि गच्छत्येवेति मन्यते । राद्धान्तस्तु नायथार्थग्रहणे प्रमाणमस्त्यर्थवादस्य इति न शब्दार्थं न्यायो निरुणद्धि इति न्यायमात्रं तदित्युक्तम् । अतो यथार्थवादमेवेदं विधानं न्याय्यं, धाय्याशब्दनिरूपणं तु प्रासङ्गिकम् । प्रदर्शितं च तत् ।
?R ॥ 4 ॥ ?Rस्तोमविवृद्धौ बहिष्पवमाने पुरस्तात् पर्यासादागन्तवः स्युः तथाहि दृष्टं द्वादशाहे ॥ 7 ॥
?R न्यायमात्रं वचनं बाधितुं न क्षमत इत्युक्तम् । वचनं चेदं वृषण्वन्तस्तृचा भवन्ति तृच उत्तमः पर्यास इति । ननु द्वादशाहे एतद्वचनं , अतद्विकारेषु केयमाशङ्का । उत्तमशब्दश्रवणात्?R । किमिदमुत्तमशब्दश्रवणादिति ??R उत्तमः पर्यासो भवतीति पदार्थाङ्गतां मन्यते पूर्वपक्षवादी । ननु च पदार्थाङ्गत्वे आनर्थक्यमुक्तम् । न तत् पर्यासे भवितुमर्हति । सर्वस्य पर्यासस्यार्थवत्त्वात् क्रतुसंबन्धिनी हि पर्याससंज्ञा उद्गीथवत् । तस्माद्युक्तमुक्तम् । द्वादशाहविकृतिष्वपि निराकरणीय एवायमर्थ इत्युपन्यासः ।
?R अत्राभिधीयते - नायं पदार्थधर्मः । कस्तर्हि ??R क्रतुधर्मः । कथं ??R प्रकरणात् द्वादशाहनियोगैक्यमवगम्यते । न क्रत्वन्तरनियोगैक्यम् । ननु च पदार्थानुसारी नियोगः । पदार्थानुसारेप्यत्राविरोधात् । तस्मान्न क्रत्वन्तरसंबन्धकल्पनायां प्रमाणमस्ति । द्वादशाहविकारेष्वेवैतत् स्यात् । न वा तत्रापि । अथ वा वृषण्वतां धर्मः । ननु च पदार्थधर्मो न भवतीत्युक्तम् , सत्यमुक्तं, न पुनः क्रत्वर्थापरित्यागेनेति । तस्मात्सूक्तं तद्विकारेष्वपि न भवतीति ।
?R ॥ 5 ॥ ?Rअन्ते तूत्तरयोर्दध्यात् ॥ 13 ॥
?R कथमत्र पूर्वपक्षो युक्तः वचनमदृष्द्वेत्ययुक्तमिदम् । अधीतवेदस्य हि धर्मजिज्ञासा । अयं तर्हि पूर्वः पक्षः । इदमपि द्वादशाह एव वचनम् अत्र विशेषाग्रहणात् तद्विकारेषु भवतु अतद्विकारेषु माभूदिति पूर्वः पक्षः ।
?R अत्रोच्यते - आवापनिबन्धनमेतद्वचनं यावदावापं भवितुमर्हति । कथं तर्हि प्रकृतनियोगैक्यं ??R न, कार्याश्रितत्वादस्य विधेः वृषण्वत्सूपदेशाश्रय इत्युक्तम् ।
?R ॥ 6 ॥ ?Rग्रहेष्टकमौपानुवाक्यं सवनचितिशेषः स्यात् ॥ 15 ॥
?R अत्राप्यङ्गङ्गिचिन्ता क्रमार्थैव । कथमत्र पूर्वपक्षः ??R अत्रोच्यते - कार्यानुप्रवेशित्वान्नियोगार्थस्य नियोगस्य । चितिसवननिष्पत्त्या चानुप्रवेशस्य । तस्माच्चितिसवनशेषोऽयमिति पूर्वः पक्षः ।
?R अत्रोच्यते - उपदेशसिद्ध्यर्थं हि कार्यं न कार्यसिद्ध्यर्थ उपदेशः यागाग्नि- संबन्धश्चायं उपदेशः । ननु च न्यायपौनरुक्त्यमिदं अरुणया क्रीणातीति दर्शितम् । तत्रासम्भवादपि भवन्तीति पूर्वपक्षवादी मन्यते । तन्निराकरणार्थमिदम् । प्रयोजनमुक्तम् ।
?R ॥ 7 ॥ ?Rअन्ते स्युख्यवायात ॥ 17 ॥
?R ननु वचने सति अत्र पूर्वपक्षो नोपपद्यते । न नोपपद्यते । सर्वा ब्राह्मणवत्य इत्यनुवादं मन्यते । एवं सति अन्या अन्या इति दर्शनमुपपन्नं भवति इति । एवं प्राप्ते अभिधीयते । ब्राह्मणवत्यः श्रुतिविनियुक्ताः परिगृह्यन्ते । किमिति - मन्त्रावेनियोज्यत्वाच्छेषाणाम् । समाख्या पुनर्लौकिक्येवेत्युक्तम् । तस्मान्मध्यमायां चितावुपधातव्य इति । ननु च मन्त्रेणापि विनियुज्यमानाः ब्राह्मणेनैव विनियुक्ता न स्वतन्त्रलिङ्गप्रमाणमित्युक्तम् । विशेषाभिप्रायेणेदमुक्तम् वचनस्यार्थवत्त्वायेत्यदोषः । दर्शने तु मन्त्राभिप्रायेणान्यत्वं वर्णनीयम् ।
?R ॥ 8 ॥ ?Rप्राग्लोकं पृणायास्तस्यास्सम्पूरणार्थत्वात् ॥ 20 ॥
?R ननु चान्ते बादरायण इति नोपपद्यते, लोकंपृणापि ब्राह्मणवत्येव ।
?R ननु च मन्त्रविधानार्थं तद्वचनम् । ननु च सर्वा एव मन्त्रद्वारेण चोद्यन्ते । सत्यं ;?R तथापीष्टकाभिधानप्रधानोऽयं निर्देशः ‘?Rचित्रिणीरुपदधाति’?R इत्येवमादिषु । इह पुनः ‘?Rलोकं पृण छिद्रं पृण’?R इति मन्त्रप्रधानोऽयं निर्देश इति लैङ्गिक्येवेयम् । अन्ते तु बादरायण इति युक्तम् । राद्धान्तस्तु मन्त्रार्थवादान्यथानुपपत्तेः लैङ्गिका अपि प्रागेव ब्राह्मणवत्य इति युक्तम् ।
?R ॥ 9 ॥ संस्कृते कर्म संस्काराणां तदर्थत्वात् ॥ 21 ॥
?R आहिताग्नेरधिकारश्रवणात् आधानेन चाग्नीनामुत्पत्तेः भवत्यनन्तरमधिकार इति पूर्वः पक्षः । आधानानन्तरक्रमसिद्धिश्चानेन प्रकारेणोक्ता । यथा ‘?Rआहिताग्निर्नक्लिन्नं
?Rदार्वभ्यादध्यात्’?R इत्येवमादीनाम् । एवं प्राप्तेऽभिधीयते - उभयमप्यग्न्यर्थमित्युक्तम् आहवनीयादिमुखेनाहिताग्नेरधिकारः । न चेष्टिभिर्विनाऽऽहवनीयो भवति इति न कर्मस्वधिकारः । दर्शनं पुनः अग्न्यर्थस्यैव होमस्य ।
?R ॥ 10 ॥ ?Rसञ्चिते त्वग्निचिद्युक्तं प्रापणान्निमित्तस्य ॥ 26 ॥
?R इहापि चयनानन्तरं व्रतप्राप्तिं मन्यते पूर्वपक्षवादी । अत्रोच्यते - नेदमाहिताग्निना तुल्यम् । तत्र हि अग्न्यर्थमाधानम् इह पुनः अग्निकार्यार्थं चयनं, प्रोक्षणमिव व्रीहिकार्यार्थम् । कार्यं च कृत्स्नक्रतुप्रयोगसाध्यमिति क्रतुसमाप्तावेवाग्निचिदिति । न चाग्निचयननिमित्ता ह्येते नियमाः क्रतोरवगम्यन्ते भेदनहोमवत्
कृतप्रयोगस्याग्निचिदभिधानात् । तस्मात्क्रत्वन्ते नियमा इति सिद्धम् ।
?R ॥ 11 ॥ ?Rपरेणावेदनाद्दीक्षितः स्यात् सर्वैर्दीक्षाभिसम्बन्धात् ॥ 29 ॥
?R अत्रापि दीक्षितपदार्थक्रमसिद्ध्यर्थमिदं चिन्त्यते । कियद्भिर्दीक्षितो भवति इति । यावता दीक्षाभिसम्बन्धः तावाद्भिर्दीक्षितो भवतीति पूर्वपक्षवादी मन्यते । सर्वेषामुत्पत्त्यर्थत्वात् यथाऽऽधानेन पवमानोष्टीभिश्चाग्नयः । अन्यथा हि विकल्पः स्यात् प्रत्येकं दीक्षाभिनिर्वृत्तेः । अत एवाभिधानमप्युत्तरकालमेव । अत्रोच्यते - दीक्षिष्यमाण इत्यधिकारिपदमिदम् । न चाधिकारानिष्पत्तेर्विषयसिद्धिरिति षष्ठे वक्ष्यामः । तस्मादिष्टेरेव दीक्षितत्वसिद्धिः । समुच्चयश्चैवमुपपन्नो भवति । उत्पत्तिसंस्कारभेदात् । सर्वेषानुत्पत्यर्थत्वात् अनपेक्षश्रवणाच्च । कथं तर्हि आधानपवमानेष्टीनां समुच्चयः ??R प्रयोजनान्तराभावात् न तत्र तयोर्ग्राहकं किञ्चिदस्ति । इह पुनर्ज्योतिष्टोमविधेः विकल्पः तुल्यार्थानाम् । तस्मादस्मात्पक्ष एव समुच्चयसिद्धिः । न चाभिधानाभावादर्थाभावः शक्यते वक्तुमिति दर्शितम् ।
?R ॥ 12 ॥ ?Rअङ्गवत्कतूनामानुपूर्व्यम् ॥ 32 ॥
?R ननु चावश्यंभाविनि क्रमे पाठान्नियम उक्तः । क्रत्वन्तरवदिति च व्यतिरेको वर्णितः भिन्नप्रयोगवचनत्वान्नैषां क्रम उपपद्यत इति । कथमत्र पूर्वपक्षः ??R उच्यते - अनेकानुष्ठाननिबन्धनोऽयं क्रमः । अनेकं च काम्यं कुर्वतः कामिनः युक्तः क्रमनियम इति पूर्वपक्षवादी मन्यते । कथं तर्हि सर्वस्वारे पाठक्रमः ??R अर्थाद्बाधो भविष्यतीत्यदोषः
?R। अत्राभिधीयते - विधिवितानचिन्तेयम् न पुरुषेच्छावितानचिन्ता, अचोदनालक्षणत्वात्तस्य एकस्य चाधिकारविधेरङ्गविधिवितानसंबन्धो नाधिकारमपेक्षते संबन्धाभावात् । असंबन्धस्य च शाब्दतैव न शक्यते वक्तुम् । न च सर्वकामस्याधिकारः योगसिद्ध्यधिकरणे प्रत्युक्तत्वात् । अर्थस्य सम्बन्धविषयत्वात् । तस्मात् काम्येष्वनियमः ।
?R ॥ 13 ॥ य एतेनेत्यग्निष्टोमः प्रकरणात् ॥ 37 ॥
?R उपरितनस्याधिकरणस्य विषयप्रदर्शनार्थमिदमधिकरणम् । अग्निष्टोमप्रदर्शनादित्युक्तम् ।
?R ॥ 14 ॥ ?Rअथान्येनेति संस्थानां सन्निधानात् ॥ 39 ॥
?R य एतेनेत्यग्निष्टोमसंस्थस्यावमर्शात् अन्येनेति संस्थान्तरावमर्शं मन्यते पूर्वपक्षवादी । राद्धान्तवादी तु एष वाव प्रथमो यज्ञो यज्ञानामिति यज्ञशब्दश्रुतेः यज्ञान्तरमेवान्यशब्देन प्रतीयत इत्युक्तवान् । अग्निष्टोमसंस्थस्य नित्यत्वात् य एतेनेत्युच्यते । तथा चापत्तिविहारावुपपन्नौ भवतः । आपत्त्याक्षेपसमाधानं च दर्शितम् ।
?R ॥ 15 ॥ ?Rएकस्तोमे वा क्रतुसंयोगात् ॥ 43 ॥
?R एकस्तोमानां वाक्यशेषादन्येनेति ग्रहणम् । न चान्येनेत्यन्यत्वमात्रावगतेः । ननु च वाक्यशेषाद्विशेषावगतिरित्युक्तम् । सन्दिग्धेषु वाक्यशेषान्निर्णय इत्युक्तम् । इह तु असन्दिग्धैव ज्योतिष्टोमादन्येष्ववगतिरिति अर्थवादमात्रमेतत् ।
?R॥ इति बृहत्यां पञ्चमाध्यायस्य तृतीयः पादः ॥
?R?0पञ्चमाध्यायस्य चतुर्थः पादः ॥?R?0
?R ॥ 1 ॥ ?Rक्रमकोपोऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च ॥ 1 ॥
?R अत्र बलाबलचिन्ता । पूर्वपक्षवादिनोऽभिप्रायः अविधेयत्वात्क्रमस्य अवगतेश्च तुल्यत्वाद्विकल्प इति । राद्धान्तस्तु विधेयविरोधादवगतेरेवातुल्यत्वमिति श्रुत्यर्थयोरेव तु बलवत्त्वम् । अत्र श्रुत्यर्थयोर्विरोधे कथं ??R नैवोदाहरणमस्ति । अर्थ एव बलीयान् ।
?Rकार्यं ह्यत्रार्थशब्देनोच्यते । कार्यार्थश्च क्रमः । अतः श्रुतिमपबाधते कार्यविषयत्वात्तस्याः ।
?R ॥ 2 ॥ अवदानाभिघारणासादनेष्वानुपूर्व्यं प्रवृत्त्या स्यात् ॥ 2 ॥
?R अत्रापि बलाबलचिन्तैव । प्रवृत्तेः पूर्वप्रवृत्तत्वात् प्रवृत्तिर्बलीयसीति पूर्वपक्षवादी मन्यते । कार्यार्थत्वात्क्रमस्य अवदानस्य च प्रदानोपक्रमत्वात् मुख्यक्रमो बलीयानिति राद्धान्तः । दर्शनमुक्तम् ।
?R ॥ 3 ॥ ?Rवचनादिष्टिपूर्वत्वम् ॥ 5 ॥
?R अत्राप्यक्षरपरं क्रममङ्गीकृत्य चिन्ता । तत्र पूर्वपक्षवादी सोमेन यक्ष्यमाण’?R इति नाक्षरपरता क्रमस्य सम्भवतीति मन्वानः, इष्टिपूर्वतामेवाह । कथं पुनर्न संभवति ??R आधानविधानपरत्वाद्वाक्यस्य । दर्शपूर्णमासाविष्ट्वेति तु कालबिधानात्सिद्धिः । अत्राभिधीयते - येयमद्यतनी विभक्तिः सा नाधानानन्तर्यादृते सम्भवतीत्यर्थात् अत्रापि क्रमसिद्धिः सोमाधानयोः । क्व पुनरियं न सम्भवति ??R अधिकारे । अधिकारायतञ्च विधानं इत्याधानविधानेप्यर्थात् क्रमाक्षेपः । अभ्युच्चयो दर्शितः ।
?R ॥ 4 ॥ ?Rउत्कर्षाद्वा ब्राह्मणस्य सोमः स्यात् ॥ 10 ॥
?R अस्मिन्नधिकरणे पूर्वाधिकरणार्थस्य विषयविशेषे अवस्थापनम् । यदन्यत्तत्प्रासङ्गिकमेव । यः पुनरयमन्तरागर्भिण्युपन्यासः स किमर्थः ??R एवमर्थोऽसौ । यद्यनन्तरं सोमाधानं तदा ब्राह्मणस्य कल्पद्वयं सम्भवति । अन्यस्य वा स्वकाले पुनरिष्टिपूर्वकत्वमेवेति नियम्यते ।
?R कथं पुनरिदमवगम्यते ब्राह्मणस्यैव कल्पद्वयमिति राद्धान्तस्तु इष्टिपूर्वत्वे हविष उत्कर्षात् तस्मात् सोमाधानं तस्यैव । अन्यथा हि ब्राह्मणस्यैवोत्कर्षेऽनपेक्षितार्थविधानं स्यात् । शेषमुक्तम् ।
?R ॥ 6 ॥ ?Rपुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात् ॥ 29 ॥
?R एकस्य हविष उत्कर्ष इति स्थिते तद्विशेषावधारणायेदमधिकरणम् । उक्तं च ।
?R ॥ 7 ॥ विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिः तयोः प्रत्यक्षशिष्टत्वात् ॥ 12 ॥
?R पूर्वं न्यायतोऽसम्भवमुक्त्वा तस्मिन्नेवाहनि समाप्त्युपक्रमौ दर्शितवान् सम्भवार्थम् ।
?R सद्यस्कालतैव विकृतीनामित्युक्तवान् ।
?R ॥ 8 ॥ सान्नाय्याग्नीषोमीयविकाराः ऊर्ध्वं सोमात् प्रकृतिवत् ॥ 25 ॥
?R ॥ 9 ॥ तथा सोमविकाराः दर्शपूर्णमासाभ्याम् ॥ 26 ॥
?R इहाधिकरणद्वयेप्यधिकारादृते काललक्षणा न सम्भवतीति कृताधिकारस्यैव क्रमस्याधिकार इति तद्विकाराणामप्येवमेवेति युक्तम् । किमर्थं तर्हि अधिकरणद्वयम् ??R पूर्वत्र कर्तृतानिर्देशात् नासोमयाजीति सोमयागस्य कर्ता सान्नाय्ये कर्तृतयाऽभिधीयते द्वितीयाधिकरणे तु दर्शपूर्णमासाभ्यामिष्ट्वेति पुनराशाङ्कितवान् कर्तृनिर्देशाभावात् । कथं तर्हि राद्धान्ते न्यायतुल्यता ??R नाधिकारादृते काललक्षणा सम्भवतीति तुल्यतोक्ता ।
?R ॥ इति बृहत्यां पञ्चमाध्यायस्य चतुर्थः पादः ॥
* * *?R
?R?0बृहती
?R?0शाबरभाष्यव्याख्या
?R?0षष्ठाध्यायस्य प्रथमः पादः
?R?0 ॥ 1 ॥ द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः ॥ 1 ॥
?R अथ वृत्तेन संबन्धकथनं किमित्यत्र तु न क्रियते । संबन्धाभावादिति ब्रूमः । पञ्चलक्षणापेक्षो ह्यधिकार इति ।
?R (पञ्चलक्षणापेक्षे ह्यपेक्षा । एवं तर्हि पञ्चापि कीर्तनीयानि । न कीर्तनीयानि । न च समुदायो नाम कश्चिदर्थान्तरभूतो विद्यते । यदि पञ्चभिरपि संबन्धो नास्ति कथं तर्हि पञ्चलक्षणापेक्षो ह्यधिकार इत्युच्यते ।)
?R परस्परापेक्षेषु प़ञ्चसु परिसमाप्तेषु अधिकारस्यावसर इति पञ्चलक्षणापेक्षो ह्यधिकार इत्युच्यते न पुनर्हेतुतः । न क्रमपर्यन्त उपदेशोऽधिकारस्य हेतुः । किं तर्हि क्रमपर्यन्त उपदेशे कश्चिदधिकारी विद्यते उत नेति चिन्ता । किमनधिकारोऽप्युपदेशो विद्यते । बाढं विद्यते । देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्येवमादिषु प्रमाणान्तरप्रमितार्थविषयेषु । न तत्र कश्चिन्नियुज्यते । प्रमाणान्तरप्रमितविषयत्वादेव ।
?R लक्षणान्तरेण हि प्रतीतस्य स्वरूपस्य शक्तेश्च कथनमात्रमेव द्रव्यादीनां वर्तमानापदेशैः क्रियते अर्थादर्थित्वेनोपदेशसिद्धिः । इह पुनः उपदेशादेव शक्तिज्ञानमिति विशेषः । तस्मान्न संबन्धाभिधानम् । किं पुनः कारणं स्वर्गकाम एवोदाह्रियते न पुनर्ग्रामकामादयोऽपि ??R किं वा सर्वमेवोदाहरणीयं न्यायप्रसिद्धयर्थमेकमेवोदाहरणीयम् । उच्यते । सत्यमेवं, अत्र पुनः स्वर्गशब्दवाच्यनिरुपणमुखेन पूर्वोत्तरपक्षौ निरूपयति भाष्यकारः । न च ग्रामकामादिष्वेतत्संभवति प्रीत्यपगमेऽपि ग्रामशब्दप्रयोगात् । अतो ग्रामकामादिष्वधिकरणान्तरं वा वक्तव्यम् । साधनाभिधानं वा द्रव्यवचनत्वात्
?Rग्रामादि (काम) शब्दानाम् ।
?R अत्रोच्यते - सर्वाण्येवोदाहरणीयानि । प्रदर्शनार्थं तु स्वर्गकामपदमुदाहृतम् । ननु च काम्यमानाभिधाननिबन्धनपूर्वोत्तरपक्षौ न ग्रामकामादिषु सम्भवत इत्युक्तम् । तत्त्वयुक्तमुक्तम् । कथमयुक्तम् ? ?Rइत्थमयुक्तम् - काम्यमानतया स्वर्गशब्दः काम्येषु वर्तत इत्युक्तम् ।
?R एवं ग्रामकामादिष्वपि द्रष्टव्यम् । न ह्यकाम्यं कामनायुक्तं भवति । अत एव देशवचनतामभ्युपगम्य स्वर्गशब्दस्य तथापि कामनायोगात् प्रीतिमद्द्रव्यवचन एवायं स्वर्गशब्द इति कृतः पूर्वः पक्षः । राद्धान्तेऽपि न ह्यसत्यां प्रीतौ कामना प्रबर्तते द्रव्य इति प्रीतिपरमेव प्रयोगं दर्शितवान् स्वर्गशब्दस्य, न पुनर्देशो निराकृतः । एवं ग्रामकामादयोऽपीति प्रीतिविषयतया प्रयुक्ताः । न पुनस्साधनतयेत्युक्तं भवति । अत एव स्वर्गः साध्यः यागो वेत्युपन्यस्य कामस्साध्य इत्युक्तम् । एतदुक्तं भवति (किं) कामविषयः स्वर्गशब्दः प्रयुक्तः उत काम्यमानतया कर्तृविशेषणमिति । तदाहि काम्यमुपसर्जनं भवति । ननु च स्वर्गकाम इत्यत्रोपसर्जनभूत एव कामः प्रतीयते । एतदेवात्र विचार्यते - किं यथाभिधानं संबन्धः उत यथाविनियोगमभिधानमिति । किं यथाविनियोगमभिधाने बहुव्रीहिरयं न भवति ??R केन वोक्तं नायं बहुव्रीहिरिति । यदि बहुव्रीहिरुपसर्जनं तर्हि कामः काम्यः पदार्थान्तरपरत्वात् । अत एवाख्यातगतया कर्तृसङ्ख्यया अस्य संबन्धोऽवगम्यते ‘?Rयजेत स्वर्गकामः’?R ‘?Rयजेरन् ऋद्धिकामाः’?R इति । एवं च सति संशयोऽनुपपन्नः । न च भगवतः पाणिनेः स्वार्थेऽपि बहुव्रीहिरिति स्मरणमस्ति । उच्यते । वयमपि स्वार्थ एव न बहुव्रीहिं वदामः किन्तु परार्थोऽयं बहुव्रीहिः उत स्वार्थः । कथं पुनः परार्थः कथं वा स्वार्थः ? ?Rसिद्धार्थस्तु परार्थो भवति । अथ साध्यार्थः तदा स्वार्थीं भवति । तत्रेदानीं न विद्मः किं सिद्धार्थस्योपादानं परार्थतया उत साध्यतयोपादीयत इति । अन्यपदार्थश्च साध्यार्थश्च इति ननु विप्रतिषिद्धम् यतः । नात्र विप्रतिषेधः यतः साध्योऽप्यन्यार्थ एव । उक्तं च ‘?Rफलं
?Rच पुरुषार्थत्वात्’ ?Rइति । तस्मादुपपन्न एव संशयः ।
?R ननु चैवमपि संशयो नोपपद्यते कर्तृविशेषणमिदं प्रतीयते आख्यात गतकर्तृसङ्ख्यासंयोगात् । तदाख्यातकर्तरि च सङ्ख्यां स्मरति भगवान् पाणिनिः । स्वर्गे च साध्ये स्वर्गसिद्धौ स्वर्गकामस्य कर्तृत्वम् न यागसिद्धौ । न चान्यत्र व्यापृतयाख्यातान्तरगतया सङ्ख्यया योगो भवति । यथा पचतीति पठतः । इह च यजेत स्वर्गकाम इत्येकवाक्यताऽवगम्यते । कस्मात् सिद्धार्थ एवायं बहुव्रीहिः न साध्यार्थः ? ?Rएतदेवात्र युक्तम् । न हि साध्यार्थं नाम प्रातिपदिकं भवतीति भावार्थाधिकरणे उक्तम् । अतो यागस्यैव कर्तव्यतात्रावसीयते भावार्थत्वाद्यजतिशब्दस्य । न च साध्यवादिनोऽपि
यागेन सहैंकवाक्यता नास्ति । अस्ति चेत्तर्हि एकस्मिन्नेव वाक्ये न साध्यद्वयावगतिः ।
?R ननु यथा व्रीहीन् प्रोक्षतीति संस्कारे व्रीहिगते साध्येऽपि प्रोक्षणेन साध्यभूतेनास्यैकवाक्यता तद्वदिहापि भविष्यति । मैवं बोचः । तत्र हि कारकतया व्रीहयः संबद्धाः संस्कारभाजो भवन्तीति । इह पुनः स्वर्गयागयोः नान्यतः क्रियाकारकसंबन्धसिद्धिः । नापि यूपवदिहैवावसीयते । किमिति ? ?Rयद्युत्पाद्यस्यापि कारकयोगो भवति । यदि भवति भवतु । नैवोत्पाद्यस्य कारकयोगो भवति । कथं तर्हि यूपं छिनत्ति इति छेदनेन संबद्धं यूपं करोतीत्यर्थः । अलौकिकत्वात् चोदनालक्षणो यूप इत्युच्यते । संबन्धश्च (क्रियया) अलौकिकश्चेति किमिदम् ? ?Rयूपशब्दाभिधेयतयाऽलौकिकत्वम् । न पुनः छिदिसंबन्धितया । अतोऽत्रापि कारकस्यैव खदिरादेः छेदनेन किञ्चित्क्रियते । स्वर्गस्य पुनः यज्यर्थं प्रति कारकत्वमेवालौकिकम् । तस्मात् व्रीहीन् प्रोक्षतीतिवत् संबन्धो नोपपद्यते यजेत स्वर्गकाम इति । न च संबन्धान्तरं स्मरति शब्दवित् स्मरन् वा प्रमाणाभावात् विहन्येत । तस्मात् संशयमत्र देवाः करिष्यन्ति ।
?R अत्राभिधीयते - स्यादेतदेवं यदि प्रमाणचतुष्टयावगम्य एव संबन्धः स्यात् । उक्तं च शब्दस्य प्रामाण्यमनपेक्षत्वादिति, सत्यमुक्तं तदेवात्रावसीदति । कथं ?
?Rअधिकारसिद्धौ प्रयोगसिद्धिः प्रयोगसिद्धावुपदेशसिद्धिः । एवं तर्हि प्रमाणलक्षणमेवेदं प्राप्तं भवति !?R (भवति च लक्षणान्तरमपि सत् प्रमाणलक्षणं) पञ्चलक्षणशेषत्वात् अधिकारस्य । कथं तर्हि लक्षणान्तरमिदं व्यपदिश्यते । एवं व्यपदिश्यते । सत्यप्यधिकारे प्रमाणाक्षेपः प्रथमलक्षणे समाहितः, स एवाधिकारः उपपद्यते नेति विचार्यते । न च अप्रामाण्येनैव अधिकाराक्षेपः । कथं तर्हि अधिकारसंबन्धानवगमात् । ननु चानवगमोऽप्यप्रामाण्यमेव । सत्यमेवं अधिकारेऽप्रामाण्यं न पुनः शब्दार्थमात्रे । प्रमाणलक्षणे पुनः शब्दोऽर्थं न स्पृशतीत्ययमर्थो निराकृतः । तस्मादुपपन्नो लक्षणान्तरव्यपदेशः । अतः पञ्चभिर्लक्षणैः कार्यावगतिरुक्ता न पुनरस्येदं कार्यमिति । असत्यां चैतस्यामवगतौ कार्यमात्रावगतिः तथापि भवन्ती न तथा भवति अनुष्ठानाभावात् ।
?R ननु चतुर्थे असत्यप्यधिकारे फलकल्पना उक्ता स स्वर्गः स्यादिति । सत्यमुक्ता । अधिकारसंभवे तु सा अधिकारनिबन्धनैव अश्रुतेऽप्यधिकारो विद्यत इत्युक्तम् । असंभवे पुनरधिकारस्य कस्याश्रुतस्य कल्पना ??R तस्मादधिकारो वक्तव्यः ।
?R ननु च तत्र भवन्तो वैयाकरणाः केचित् कर्तारमेवाधिकृतं मन्यन्ते । यो यस्मिन् कर्तृतयाऽवगम्येत स तत्राधिकृत इति वदन्तः । नाधिकारो नाम कश्चिदर्थान्तरभूतः । स च क्रियया संबध्यत इति मन्यन्ते । ब्राह्मणादयश्च कर्तृतयाऽवगम्यन्ते स्मृतेः - द्विजातीनामध्ययनमिज्यादानमिति । कर्तॄणां च फलकल्पना आत्मनेपदादिभिर्लिङ्गैः ;?R अयमेव चासौ बादरिपक्षः । द्रव्यगुणसंस्कारेष्वित्येवं संबन्धावगमं मन्यते । न यागफलपुरुषेष्विति । एवं च क्रियासंबन्ध उपपन्नो भविष्यति । अन्यथा हि अधिकृतस्य क्रिया संबन्धो दुर्भणः । अतः स्वर्गकामादीनि पदानि कर्तृविशेषणान्येव, भिन्ने जुहोतीतिवत् ।
?R ननु चैवं सति कर्त्रन्तरानुप्रवेशो न प्राप्नोति । न प्राप्नोतु नाम, नैतावता संबन्धावगमकल्पना न शक्यते वक्तुम् । वचनाच्चोपपन्नो भविष्यति। अत एव च
?Rकारकविबक्तेरनुत्पत्तिः । तिङाऽभिधानात् सङ्ख्यायाः प्रथमायाश्चोत्पत्तिः । अन्यथा ह्यधिकारिणो विभक्त्यन्तरं मृग्यम्, शेषलक्षणषष्ठ्या वा भवितव्यं, यजेत स्वर्गकामस्येति । कर्तृनिर्देशश्चायमन्वयव्यतिरेकाभ्यामवगम्यते यजेत स्वर्गकामः इज्यते स्वर्गकामेनेति । अन्यथा हि भावसाधनेऽपि तृतीया न स्यात् अकारकत्वात् स्वर्गकामस्य । यत्पुनरिदमुक्तं ‘?Rअफलं कर्म भवति । न च निष्फले प्रवर्तन्त’?R इति । तत्र ब्रूमः ;?R कर्मस्वाभाव्यात् किमपि भावयिष्यतीति । तच्चाभ्युदयाय नित्येष्विव भवत्पक्षेऽपि ।
?R कर्तव्यतावगमादेव कर्मानुष्ठानं न पुनः फलसंबन्धात् । फलसंबन्धे हि प्रमाणान्तरावगम्यता प्राप्नोति । ततश्चानपेक्षत्वादिति स्थितो हेतुरुद्धृतो भवति, सापेक्षत्वप्रसङ्गात् । अतः कर्म कर्तव्यं कर्तृभिरिति अनधिकारः ।
?R उच्यते । नायं पूर्वपक्षः श्रेयान् स्वर्गकामपदं ह्यस्मिन् पक्षे यथा न संबध्यते तथोपरिष्ठाव्द्यायाख्यास्यामः । यद्येवं कथं तर्हि संशयः - किं धात्वर्थः साध्यतयोपदिश्यते उत काम इति । ननु च धात्वर्थे साध्ये कामपदं अन्यथा न सम्बध्यत इत्युक्तम् । न न संबध्यते अङ्गतया च समुद्रं मनसा ध्यायेदितिवत् कामनं कर्तव्यं प्राप्नोति ।
?R नन्वेवं सति उभयोः कर्तव्यतोक्ता भवति । न, सत्यमुक्ता, गुण प्रधानभावस्त्वत्र चिन्त्यते । कथं तर्हि सिद्धार्थतया स्वर्गकामशब्दस्य पूर्वपक्षः । (पूर्वपक्षोऽपि साध्यार्थतयैव) कथं तर्हि भूतं भव्यायोपदिश्यत इति ब्रवीति । नायं दोषः, भूतमेव ह्यत्रोपदिश्यते । न चेत्प्रमाणान्तरप्राप्तमुपादानसिद्ध्यर्थं क्रियते । उपदेशे तु भूतमेव । अत एव चैकादशे यदधिकरणं तदपि अपुनरुक्तं न्यायतः । एवं स्थिते विशये पूर्वपक्षवादी भूतं भव्यायेति पूर्वपक्षितवान् । शाब्दोक्ताभिश्च युक्तिभिः ।
?R इदमपरं चिन्त्यते इति कथं ??R स्वर्गशब्दः किं प्रीतिवचनः उत द्रव्यवचन इति । तथा द्व्यष्टवर्षाद्युपन्यासो देशाद्यपलापोऽभ्युपगमश्च नातीवोपयुज्यते । ननु
?Rचोक्तमस्माभिः किं कामविषयतया स्वर्गशब्दः प्रयुक्तः उत द्रव्यपरतयेति । यद्येवं देशापलापे किं प्रयोजनम् ? ?Rसाधनसिद्धिः । स किल देशो नोपलभ्यते जीवद्भिः । न चानुपलब्धस्योपादानोपसर्जनता समुद्रवत्संभवति । अतो द्व्यष्टवर्षाद्युपन्यासः पेशलः अभ्युपगमेऽपि देशस्य । यद्यपि केवलसुखश्रवणादिति तथाप्यस्मत्पक्षो न दुष्यतीति पक्षसिद्ध्यर्थवचनमेव । सामान्यावगमे तु व्यवहारासिद्धेः सुखसाधनत्वमात्रं परिगृह्यत इत्युपसंहारः । अतः पूर्वपक्षवादी याग एवोपदेशं मन्यते । अत एव च “?Rभावार्थाः कर्मशब्दाः तेभ्यः क्रिया प्रतीयेत”?R इति समर्थितं भवति । अन्यथा ह्युक्तो विरोधः ।
?R ननु चास्मिन् पक्षे यत्तत्किमपि भविष्यति तथा भविष्यति । न हि अकारकाधारं कर्मफलमुपलभ्यते । ननु च सोमं यजतीत्येवमादिषु कारकमुपलभामहे । तदिदमयुक्तम् । नवमे निराकृतत्वात् उक्तदेवता प्राधान्यस्य ।
?R ननु अनिर्ज्ञातपुरुषार्थस्य साक्षात् प्रणाडिकया वा संस्कारो नोपपद्यत इति सक्त्वधिकरणे उक्तम् । न च देवता पुरुषार्थतया केनचित् प्रकारेण ज्ञापिता । ननु च देवताः मनुष्यान् पालयन्तीति प्रसिद्धिः । निर्मूलत्वान्नादरणीयेत्युक्तं वटयक्षवन्नवम एव ।
?R ननु च देशस्येव यागोपदेशः प्रमाणं भवितुमर्हति, अस्याः प्रसिद्धेः । अवश्यं नित्यार्थमप्येतदभ्युपगमनीयम् । नैतदुपपद्यते । उपदेशो हि यागं कुर्यादित्येतावत्यर्थे प्रमाणं, न पुनः पुरुषस्योपकारको याग इति ।
?R ननु चानुष्ठानाभावात् तथापि भवतूपदेशः न तथा भवतीत्युक्तम् । न ह्यनुपकारके कश्चित् प्रवर्तत इति । ननु चेदमप्युक्तं कर्तव्यतावगमात् (प्रवर्तनीयं, नोपकारावगमात्) सापेक्षत्वप्रसङ्गात् । एवं च नित्यप्रतिबन्धकोऽप्ययमप्रतिबन्धक एव । यद्येवं भवतु सर्वमिदं नित्यमनुष्ठेयं फलमपि, तथाप्यस्मत्पक्षः सिध्यत्येव । अतो न कामः साध्यः भूततयाऽवगमात् । कथं तर्हि काम्यं नित्यमिति याज्ञिका
?Rभेदेनोपदिशन्ति । निर्मूलत्वादसदुपदेशो भविष्यति ।
?R एवं तर्हि तदेवेदमायातं कर्तुरेवाधिकार इति । निराकुतं च कर्त्रभिधाने न स्वर्गकामपदं संबध्यत इति ।
?R सत्यं निराकृतं निरुपादानोपसर्जनत्वं, सोपादानोपसर्जनत्वं स्थापितमेव । गुणत्वेनाभिधानात् । कः पुनरनयोर्विशेषः । उक्तं सोपादानत्वं निरुपादानत्वं च । सत्यमुक्तं, प्रतीतौ विशेषं पृच्छामि । प्रतीतौ चेत् संबन्धोपगमतः विशेषोऽनपेक्षः किं विशेषाभिधानेन । सत्यं यदि विशेषानपेक्षः संबन्धः अवगम्यते सत्वनुपादाने नावगम्यत इत्युक्तम् । तस्मात् न कर्तृतोऽधिकृतत्वं नाम पृथगस्ति किञ्चित् । वक्तव्यो वा विशेषः ।
?R ननु च (प्रवर्तमानस्य लिङादिभिः प्रवृत्तिः क्रियते यथा दर्शितं णिजुत्पत्तौ कुरुकुर्विति । अत एव वेदैवासौ मयैतत्कर्तव्यं इति उपायं तु न वेद’?R इति भाष्येऽप्यस्ति । दर्शितं च अभिचरन् यजेत इति समामनन्ति न अभिचरितव्यमिति ।) न तावदिदं शक्यते वक्तुं प्रवर्तमानस्यैव प्रवृत्तौ लिङादय इति लक्षणाश्रवणात् । प्रयोगव्यभिचाराच्च । लक्षणं तावत् प्रवर्तमानस्याप्रवर्तमानस्य वेति (न) विशेषमाचष्टे । प्रयोगोऽप्याज्ञादिषु अप्रवृत्तस्यैव दृष्टः । ननु प्रतिपन्नाज्ञस्यैव लिङादयो भवन्ति। न प्रवृत्तप्रवर्तने प्रयोगः आमन्त्रणादिषु व्यभिचारात् । आज्ञायामपि अप्रवृत्तप्रवर्तन एव प्रयोगविशेषे अप्रवृत्तस्यैव प्रवृत्तिः क्रियते । न च सामान्यतः प्रवृत्तिः लिङादिभ्योऽवगम्यते । विशेषनिष्ठत्वात् । अन्विताभिधानं च पदानामुक्तं तद्भूताधिकरणे । यत्पुनरिदमुक्तं णिजुत्पत्तौ कुरुकुर्विति दर्शयतीति । न प्रयोगमात्रात् शब्दार्थोऽवगन्तुं शक्यते । अन्यथासिद्धदर्शनं हि शब्दार्थनियमे हेतुः । अव्यभिचारि कारणं कारणवतामिष्टमुक्तम् ।
?R ननु चैवं सत्याज्ञादीनामप्यनैकान्तिक एव प्रयोगः । तस्माच्छब्दार्थनियमे कारणं वक्तव्यम् । इदमुच्यते । प्रवर्तनं लिङादयो न व्यभिचरन्ति । सर्वत्रावगतेः
?R। प्रवर्तमाने च (णिजुत्पत्तिविषयेऽप्रवृत्तेचाज्ञादौ) अतोऽन्वयव्यतिरेकाभ्यां तावन्मात्रमेव शब्दार्थ इति शक्यतेऽवगन्तुम् । यत्पुनः ‘?Rवेदैवासौ’ ‘?Rमयैतत्कर्तव्य’?R ‘?Rअभिचरन् यजेत’?R इति च दर्शितं तत् स्थिते व्यतिरिक्तेऽधिकारे कामसंयुक्तेषु प्राप्त्यप्राप्तिविवक्षयोक्तम् । इह तु व्यतिरिक्तो नास्तीत्युक्तम् । तस्माददर्शनं तत् । यदि च प्रवर्तमानस्यैवायमुपदेशः तदा उपदेशार्थतैव हीयते । अस्येदं साधनमित्येवं परत्वाद्वाक्यस्य । न च साधनस्वरूपे शाब्दं प्रमाणमस्तीत्युक्तम् । किं तर्हि ? ?Rअनुष्ठान एव । तस्मादुपदेशार्थोऽप्रवृत्तप्रवर्तनं इति युक्तम् । अत एव च शब्दविदः प्रवर्तमानस्य हेत्वभिधानं णिचो मन्यन्ते अप्रवृत्तस्यैव लिङादीनाम् । तस्मात्कर्तव्यतावगतिरेवानुष्ठानहेतुः न पुनः फलाभिलाषः । तथा च भावार्थाधिकरणे कुर्यादित्युक्त्वा स्वर्गकामपदसंबन्धात् स्वर्ग भावयेदित्युक्तम् । न स्वर्गकामः (स्वर्गं) कुर्यादिति । अवश्यं चैतदेवमवगन्तव्यं, अन्यथा हि यावज्जीवादिष्वनधिकारः स्यात् साध्यान्तराभावात् ।
?R ननु चैवमङ्गसंबन्धो न प्राप्नोति न प्राप्नोत्यङ्गसंबन्धः यदि श्रुत्यादीनि न प्रमाणानि । न चैषां प्रामाण्यं साध्यान्तरप्रयुक्तम् । नित्येष्वपि साङ्गोपदेशात् । यदि च न प्राप्नोति किं कुर्मः ??R उक्तं चास्माभिः पृथक्प्रयोज्या एव भवन्तु प्रयाजादय इति । ये तु पुनः दृष्टार्था नियमायोपदिश्यन्ते नैवानङ्गं कर्तुरधिकारेऽपि । तस्माद्धात्वर्थ एवोपदेशः न कामे इति ।
?R यदि निष्फले न प्रवर्तन्ते कर्तव्यतावगमेऽपि कथं नित्येषु अनुशास्याः । सफलेऽपि चाप्रवर्तमानाः कं दण्डमर्हन्ति। अतः प्रवृत्यवगतिरेव प्रवर्तने हेतुः । तत्राप्रवर्तमानाः श्रुतमुत्सृजन्ति कर्तव्यं न कुर्वन्ति इति । फलवन्ति (ति) पुनः सकामाः प्रवर्तमाना अपि न शास्रमुत्सृजन्ति नापि कर्तव्यं न कुर्वन्ति । अतः सुतरामस्मिन् पक्षे शास्रस्याननुष्ठानम् ।
?R ननु च कर्त्रधिकारपक्षे नियोगोऽनर्थकः । कर्ता हि व्यापृतो व्यापृतान् व्यापारयिष्यतीति वा कारकव्यपदेशं लभते । तत्र ब्राह्मणादयो यागादिषु किं
?Rव्यापृतवन्त इति कर्तृव्यपदेशं लभन्ते । अथ व्यापरन्तीति अथवा व्यापारयिष्यन्तीति सर्वथा नोपपद्यते । यदि तावद्व्यापृतवन्तः किं नियोगः करिष्यति । अथ व्यापरन्ति तथाप्यनर्थक एव । अथ व्यापारयिष्यन्तीत्यभिप्रायः प्राङ्नियोगात् विज्ञानमिदं कुतः ? ?Rनियोगादेव भविष्यतीति चेत् ? ?Rन तर्हि कर्तुर्नियोगः नियोगसंबद्धस्य कर्तृता प्राप्नोति । तस्मात् कर्तुरधिकारो दुर्भणः ॥ ननु चैवं सति सर्वकारकसंबन्धापलापः प्राप्नोति । कारकशुन्यासु च क्रियासु किं नियोगः करिष्यति । अथानुष्ठेयतया सर्वकारकग्राममवगम्य तस्य नियोगो भविष्यतीति कर्तर्यपि तुल्यम्। एवं कर्तृकर्तृकं यत् कर्म तत् तेनैव कर्तव्यमिति करिष्यतीत्यभिप्रायेण संबन्धसिद्धिः । अतः कर्त्रधिकारेऽप्यनवद्यम् । अवश्यं चैतत् अभ्युपगमनीयं कारकान्तरसंबन्धोऽर्थः । तेषामपि हि नैवान्य(त):?R संबन्धो विज्ञायते नियोगसिद्धिंमुक्त्वा । तस्मादसंबन्धो वा प्राङ्नियोगादभ्युपगमनीयः तन्निमित्तैव प्राक् संबन्धावगतिः इति, शब्दस्य वा प्रामाण्यं स्थितमुद्धरणीयम् ।
?R ननु राज्यादिषु एवंकर्तृके एष भवानधिक्रियत इति प्रागधिकारात् क्रियाकारकसंबन्धो दृष्टः । कथं कर्तृके ? ?R। युक्तं राज्यादिषु अतीतेषु पुरुषान्तरेषु तद्गुणकर्तुभावदर्शनात् । इह पुनः नियोगादृते पुरुषान्तरमपि न शक्यते वक्तुम् । सर्वस्य तत्पूर्वकत्वात् प्रवृत्तेः । दण्डनीत्यादिषु पुनः दर्शनान्तरपूर्वकत्वादुपदेशस्य उपपद्येतापि अनुभूतकर्तृके पुरुषविशेषस्याधिकारः । तत्रापि च अर्हार्थकथनमात्रमेवेति कर्त्रधिकार एव नाधिकारात् कर्तृत्वम् । कर्त्रधिकारे च स्वर्गकामित्वं कर्तृविशेषणं न फलविशेषणमिति सिद्धम् । एवं च सर्वं सर्वस्यानुष्ठेयम् । तथा च विद्योपदेशोऽयं सर्वस्य सर्वानुष्ठानात् कृत्स्नसिद्धिः ।
?R तदिदमुक्तं सर्वं ब्रह्म भागश उपदेशमुखेन ज्ञानतोऽनुष्ठानतश्चोपदिश्यत इति । अत एव चोद्गारः कर्त्रधिकारवादिनां (मतत्वेन) ‘?Rअसत्ये वर्त्मनि स्थित्वा ततस्सत्यं प्रकाशयेत्’?R सर्वोपदेशानामयं सर्वस्य सर्वानुष्ठानार्हविधिरिति मन्यते । “?Rत इमे सत्याः कामाः अनृतापिधानाः”?R इति श्रुतेः । भागशो भागश
?Rउपदेशोऽनृतमभिप्रेतम् । रागादिनिबन्धनश्च व्यवच्छेदः । तस्मात्कारकाधिकारदर्शनात् अधिकारान्तरदर्शनं व्यामोहः । अत एव च धर्मशास्रकाराः पठन्ति ‘?Rकामात्मता न प्रशस्ता’?R इति फलसिद्धिमवैदिकीं मन्वानाः । ‘?Rकाम्यो हि वेदाधिगमः कर्मयोगश्च वैदिक’?R इति ज्ञाने कर्णणि च विनियोगं मन्यते । सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत"?R इत्यमुमेव पक्षं ब्राह्मणवादो द्योतयति । काम्ये हि उपदिश्यमाने न सर्वकर्तृसाध्यं भवति । भेदेन कामदर्शनात् अतः सर्वस्यैक्यं न सिध्यति । ततश्च ‘?Rपुरुष एवेदं सर्वं’?R इत्यादयो मन्त्रार्थवादाः अनुपपन्ना न स्युः । भेदवादास्तु भागश एव चेदुपदेशो यस्तदाश्रित इति परिहृतम् । एकत्वं तु पारमार्थिके भेदे किमाश्रितं भविष्यति । अत एव भगवान् पाणिनिः पच्यादिषु क्रियाकारकव्यतिरेकेण न नियोगार्थे नियोज्यं नाम कर्मान्तरं स्मरति । ननु युजिरपि पच्यादिषु पठ्यते । सत्यं पठ्यते न पुनर्युजेः कर्म यागादिषु कर्तेति स्मरति ।
?R ननु च भवतैवेदमुक्तं कर्ता हि नियुज्यत इति । तदिदमुक्तं भवति यागादिषु कर्ता युजेः कर्मेति । यदि युजेः साधनं नियुज्यत इत्युच्यते सिद्धो नः पक्षः । किं तर्हि इदमुक्तं न स्मरति भगवान् पाणिनिरिति । अकारकाभिप्रायं तदुक्तम् । तत्र कामे साध्ये नियोगात् कारकत्वम् । कर्तृत्वं नियोग इति अर्थान्तरापत्तिः । अर्थान्तरे च अनवगतस्तुतिरस्तीत्युक्तम् । तदिदं कामिनां फलाशंसनं आकाशे बकबन्धनप्रभं कामिनां मोह इत्युक्तम् ।
?R तस्मात् कर्तुरधिकारः सूरिभिरुक्तः “?Rभूतं भव्यायोपदिश्यते”?R इति । अत एव चाख्यातभेदोऽपि (भेदलक्षणमपि न घटते) किञ्चिद्गुणकर्म किञ्चित्प्रधानकर्मेति । काम्ये पुनः साध्ये सर्वाख्यातानां गुणभावापत्तिः ततश्च तानि द्वैधमिति सूत्रार्थोऽनुपपन्नः स्यात् ।
?R ननु च नित्याभिप्रायः स भविष्यति । न नित्याभिप्रायः तत्रापि कारणमर्थान्तरापत्तिदर्शनात् यैस्तु द्रव्यं चिकीर्ष्यत इति गुणतैव प्राप्नोति ।
?Rअस्मत्पक्षे तु द्रव्यपरतया उपदेशे गुणभावः चिकीर्ष्यत इति चोपदेशाभिप्रायमेव । क्रियापरे ह्युपदेशे प्राधान्यमिति सूक्तम् ।
?R अत्राभिधीयते - (स्व) स नाम कर्तृविशेषणं भवति यस्य विशेषणभा(व) वे कारक उपपद्यते । इह पुनः स्वर्गकाम इति प्रीत्यपगमे तदेव तु द्रव्यं न स्वर्गशब्दाभिलपनीयम् । किमतो यद्येवं??R इदं ततो भवति । इष्टं कामस्य विषय इति । ततः किं ? ?Rनेष्टं परनिष्पत्तये भवति । इष्टार्थ हि सर्वम् ।
?R एतदुक्तं भवति - इष्टसंयुक्ते हि वाक्ये तदर्थ एवान्वयोऽन्येषां पदार्थानामित्युक्तम् । ‘?Rकर्माण्यपि च जैमिनिः फलार्थत्वादिति’?R फलं च पुरुषार्थत्वात् इष्टत्वादेव न क्रत्वर्थमित्यर्थः । ननु च इष्टः स्वर्ग इत्युक्तम् । स च पुरुषार्थ इति विप्रतिषिद्धम् । उच्यते । अपुरुषार्थस्य वा कथमिष्टता ??R एवं तर्हि पुरुषार्थमेवेदं सर्वमित्युक्तं भवति नेष्टार्थता । (सत्यमेवं प्राज्ञोऽप्यायुष्मान् भव । इष्टोपन्यासस्तर्हि किमर्थः ? ?Rनेष्टार्थत्वादृते पुरुषार्थता सिध्यति शास्रस्य । इष्टत्वादेव तु स्वर्गस्य पुरुषार्थता शास्त्रस्य संभवतीति सार्थ एवेष्टोपन्यामः । यदिदं पुरुषस्य कर्मजन्यफलयोगितया कर्मणि शेषित्वं स चायमधिकार इत्युच्यते) यदर्थं कर्म तत्र अधिक्रियत इत्युच्यते । ईश्वरवचनो ह्यधिकृतशब्दः । अत एव तुल्येऽपि च कर्तृत्वे स्वामिकर्मकरव्यपदेशः । ननु च यागे नैव स भवति । न नाम पदार्थे । शास्रार्थे तु संभवति । पदार्थास्तु सामर्थ्येनापि व्यवतिष्ठेरन् । ननु च भावार्थाः कर्मशब्दा इत्युक्तम् न च कामे साध्ये यागे कर्तृत्वमुपपद्यत इति । कथं स्वर्गशब्द इष्टवचने ग्रामादिष्वधिकारसिद्धिः । उक्तं कामविषयतया स्वर्गाद्युपन्यासो न कामविशेषणतयेति ।
?R ननु चान्वयव्यतिरेकौ स्वर्ग एव संभवतः । उक्तमस्माभिः विषयप्रदर्शनार्थावन्वयव्यतिरेकौ । कामसंयोगात्तु ग्रामादीनां विषयत्वसिद्धिः । यदपि कामे साध्ये यागे कथं कर्तृत्वमिति ? ?Rकेन वोक्तं यागे कर्तृत्वमिति यागे
?Rत्वधिकारः तत्सिध्यर्थं चार्थात्कर्तृत्वम् । अत एव च सङ्ख्यानिवेशः । यागाभिप्रायेण कर्तृरधिकार इत्युच्यते । लोकेऽपि च अन्यत्राधिकृतोऽन्यत्साधयति । राजकर्मस्वधिकृतोऽमात्यस्स्वार्थं साधयति । तत्सिध्यर्थं तु राजकर्मणि कर्तृत्वम् ।
?R यदपि भावार्थाः कर्मशब्दा इति यत्राधिकारस्तेभ्यः फलावगतिरित्युक्तं भवति । तेन साधनेन स्वार्थमभिनिर्वर्तयेदित्यर्थः । अत एव च तृतीयासामानाधिकरण्यात् उद्भिदादीनां नामता उक्ता । तर्हि किमिदमुक्तं नाम्नः सकाशात् कर्तव्यता नावसीयत इति । केन वोक्तं ततोऽन्यथा । कथं तर्हि कामस्य कर्तव्यता ? ?Rइष्टत्वावगमात् इत्युक्तम् । अवश्यं चैतदेवमभ्युपगन्तव्यम् । नहि क्रियाकारकसंबन्धमात्रावगमात् अनुष्ठानसिद्धिः देवदत्तः काष्ठैःस्थाल्यामोदनं पचतीत्येवमादिषु । ननु च लिङादिभ्योऽनुष्ठानावगतिर्भविष्यति किमत्राधिकारः करिष्यति ??R कस्य लिङादयोऽनुष्ठानं ज्ञापयन्ति इति । ननु च कर्तरीत्युक्तम् । अयुक्तमुक्तं, इतरेतराश्रयप्रसङ्गात् इत्युक्तम् । तथा च कर्तुर्नियोगोऽनर्थक इति । यदि हि नियोगात् कर्तृत्वं कर्तृत्वे च नियोग इति इतरेतराश्रयापत्तिः । तस्मान्नियोगादेव कर्तृत्वमवगन्तव्यम् । नियोज्यावगतिस्त्वन्यतः एव । सा चेयमिष्टसंबन्धादित्युक्तम् ।
?R यद्येवं यावज्जीवादिषु कथं ? ?Rकथं वाऽत्र न भविष्यति । सिद्धवदुपदेशाञ्जीवनस्य । त्वयैव तर्ह्युक्तं न जीवनं कर्तृविशेषणतयाऽन्वेति सिद्धत्वादेवेति । अयुक्तमिदम् सिद्धमेव हि कारकं विशेषणतयाऽन्वेति न साध्यमिति न पुनरन्वयोऽपि । अन्वयाच्च फलावगतिः शाब्दी न फलवतोऽन्वयः सापेक्षत्वप्रसङ्गादित्युक्तम् । तस्मात् कथमत्राधिकार इति वक्तव्यम् ।
?R अयमुच्यते । यावज्जीवमिति यावच्छब्दो नान्वेति कर्तृविशेषणपक्षे । कथं ? ?Rन यावज्जीवं प्रयोगः संभवति । फलार्थिनो वीतायां फलेच्छायां अप्रयोगात् अतो बलान्निमित्तत्वमन्वेष्टव्यं जीवनस्य । तच्चाधिकृतसंबन्ध उपपद्यते न कर्तृसंबन्धे ।
?Rकर्तृसंबन्धे हि यावदेवोक्तं यजेतेति तावदेव जीवता यष्टव्यमिति यावच्छब्दानुपपत्तिर्दर्शिता । न च प्राक्कर्तृसंयोगात् नियोज्यापरिज्ञाने कर्तृत्वसिद्धिरित्युक्तम् । पक्षान्तरावलम्बनेनापि प्रयोजनवत्ता वक्तव्येति न्यायविदो मन्यन्ते । न तर्हि इष्टत्वादधिकारसिद्धिः । न नामेष्टत्वात् । नहि अक्रियार्थत्वे शक्तिर्वाऽधिकृतविशेषणत्वम् (??R) इति सिद्धो नित्ये नैमित्तिके चाधिकारः ।
?R यत्पुनरिदमुक्तं साधनत्वेनेतरेषामिव कारकाणां कर्तृत्वसिद्धिरिति । अतश्चाक्रियासंबन्धितयैव नियोज्यावगतिरिति । अयुक्तमिदं अनुष्ठानतोऽपि क्रियासंबन्धोऽवगम्यते । संबन्धान्तरस्याविद्यमानत्वात् । तस्माद्यथोक्तमेव न्याय्यम् । कर्मणि नियुज्यमानस्य कामसिद्धौ यागः करणमिति कस्य शब्दस्यात्र निमित्तभावः? ?Rयजेतेति यजिस्तावत् यागमात्रमाचष्टे न पुनस्तस्यान्यसंबन्धिताम् । विभक्तिरपि (चाख्यातीति) चाख्याती क्रियासाधनं कर्तारं तदन्तर्गतां सङ्ख्यामाचष्टे न पुनर्यागस्यान्यार्थताम् । स्वर्गकामपदमपि स्वर्गं पुरुषस्येष्टतया ज्ञापयति । न पुनर्यागं प्रति प्राधान्यं स्वर्गस्य वा कामस्य वा । विभक्तिस्तु प्रथमाऽव्यतिरिक्तार्थैव । ज्योतिष्टोमादयस्तु नामत्वात् यागाभिधानपरतन्त्राः । न च यजेतेति शब्दो यागं करणत्वेनाचष्ट इत्युक्तम् . तस्मान्निर्मूलमेवेदं यागेन स्वर्गं साधयेत् इति । योऽप्यत्र नियोगार्थः स कामे वा पुरुषं नियुङ्क्ते यागे वा । अतोऽन्यतरत्र नियोगमात्रावगतिः भविष्यति । न पुनस्तयोः परस्परसंबन्धावगतिः ।
?R ननु चेष्टत्वं नान्यथोपपद्यते यदि न यागात् कामसिद्धिः (इत्युक्तम्) क्वेदं दृष्टं इष्टत्वं साधनादृते न भवतीति । इष्टत्वादेव तदिष्टं भवति इष्टं साध्यतयाऽवगम्यत इति चेत् अयुक्तं केन शब्देन साध्यतोच्यते ??R कामसंबन्धमात्रमवगम्यते स्वर्गस्य न पुनः साध्यः सिद्धो वेति । तस्माद्वक्तव्यमत्र निमित्तं येन अस्य कारणताऽवगम्यते । वरं पूर्वपक्ष एवास्तु । तस्माद्भवत्वधिकारिविशेषणं स्वर्गकामपदम् । भवतु स्वर्गकामो नियोज्यः न पुनः यागेन स्वर्गं (साधयेत्) इति । निमित्ताभावात् ।
?R अत्राभिधीयते - काम्यमानत्वेन स्वर्गः पुरुषं विशिनष्टीत्युक्तम् । भावार्थे च नियोग इत्येतदप्युक्तम् । सेयं नियोगनियोज्यविषयतयैकवाक्यता । न वा अयथार्थत्वे एकवाक्यता संभवति । नियोगसिद्धिश्च वाक्यार्थः । तत्र तावद्यदि यागस्यैव कर्तव्यता न नियोज्यार्थोऽन्वेति नियोगे । अथ कामः अनन्वितो विषयः स्यात् नियोज्येन । ततश्चैकनियोगावगतिः पीड्येत । यागप्राधान्ये चोक्तो दोषः । तस्मात् कामप्रधानतयैव एकनियोगसंबन्धः । तदिदमुक्तम् - अपि च यस्य स्वर्ग इष्टः स्यात् स यागं अभिनिर्वर्तयेत् इत्यसंबद्धमिव अन्यदिच्छत्यन्यत्करोतीति । पदमत्र निमित्तमिति शक्यते वक्तुम् । यत्तु अभिधानाविवेकप्रतिपादनमुक्तं तदन्विताभिधानेनैव प्रत्युक्तम् । एवं तर्हि तद्भूताधिकरण एवैत् परिहृतम् - असंबद्धैव पदपदार्थावगतिरित्येतावत् परिहृतम् । प्रतिभास्यान्यापोहावापोद्धारप्रतिपक्षतया तदधिकरणम् । न पुनः पदैः पदार्थमात्राभिधानप्रतिपत्तये । तस्मात् यागेन स्वर्गं साधयेदिति युक्तम् ।
?R किमिदं असाधकं तु तादर्थ्यात् इति ? ?Rअसाधकमिदं वाक्यं वाक्यार्थ इत्युक्तं भवति न एकनियोगसंबन्धप्रतिपादकं वाक्यं स्यादित्यर्थः । ननु च निमित्तत्वकल्पनायां न कस्यचिदेकस्य निमित्तता शक्यते वक्तुमित्युक्तम् । अत एव सर्वस्येत्युच्यते । पदपदार्थविवेचने हि प्रतिपदनिमित्तभाव इत्युच्यते । वाक्योर्थे पुनः सर्वमेव निमित्तमित्युक्तम् तत्रैव । नियोगनियोज्यसंबन्धेन किं संबन्धाभिधानं स्मरति इति यदुक्तं (तदयुक्तम्) शक्यते हि षष्ठीस्मरणेन सर्वमुपसंहर्तुम् । अभिधानं पुनः संबन्धिशब्दानामनियतमेव भगवतः कृत्तद्धितसमासेष्वदर्शनात् । एवं च नियोगसिद्ध्यर्थत्वात् वाक्यार्थस्य फलतः प्रवृत्तिरित्येतत् परिहृतम् । कथं तर्हि न फलं विधीयत इति तन्त्रे व्यवहारः??R नियोगार्थत्वेऽवगते निमित्तचिन्तायां इदमन्यतः प्राप्तं इदमपि(न्यत) तत एवेति कल्पना, न पुनः वाक्यार्थे किञ्चित् प्राप्तं नाम दध्ना जुहोतीत्यत्र प्रदर्शितम् । पदवाक्यविषयमविविक्तज्ञानमत्राकुलीकरोति मन्दधियः । न पदं नाम वाक्ये
?Rकिञ्चिदस्ति न पदार्थाः केचन वाक्यार्थे । विशेषावगतिर्हि वाक्यार्थः तदवगमहेतुश्च वाक्यम् । निमित्तकल्पनायां तु पदं पदार्थश्चेति व्यपदेशः । एवं तर्हि पदपदार्थज्ञानमनृतमेवेत्युक्तं भवति शाब्दैरिवेति । न निमित्तता अनृतमिति वदामः । किन्त्ववगम्यमानावस्थायामविवेकः वाक्यार्थे, अवगमकतया च वाक्ये ।
?R अत एवोक्तं पदेभ्य एव हि पदार्थप्रत्ययः पदार्थेभ्यो वाक्यार्थस्य इति निमित्तनैमित्तिकभेदाश्रयम् न पुनः प्रमितौ भेदः । शाब्दैस्तु निमित्तमप्यपह्नुतमिति विशेषः तदिदं वाक्यपदीयमित्युक्तम् । भावा… । किं निमित्तपूर्वस्य यजेः विध्यर्थो वाच्यः । अस्ति किञ्चिद्वाच्यं स्वरूपतो वाच्यो न प्रमाणत इति कार्यावगम्यत्वात् प्रमाणभावस्य, अभिधानस्य च पदार्थमात्रनिष्ठत्वात् । तस्माल्लिङादिभिरेव प्रमाणतोऽभिधानं न कृदन्तैरिति निश्चीयते । तथा व्यवहारदर्शनात् व्यवहारपूर्वकत्वाच्च पदार्थावगतेः । अतः कल्पनापक्षोऽपि प्रत्युक्तः । यदि तर्हि षष्ठ्या स्मृत्युपसंहारः कथं तर्हि स्वर्गकामो यजेतेति प्रथमा ??R षष्ठी वा स्यात् अश्रवणं वा विभक्तेः । उच्यते । नैव नियोगापेक्षेयं प्रथमा । किं तर्हि कारकापेक्षा ?
?R ननु च नियोज्यपूर्वकत्वात् क्रियाकारकसंबन्धस्य तत्संबन्धस्य तत्संबन्दिन्यैव विभक्त्या भवितव्यम् । सत्यमाह भवान्, किन्तु न लिङ्वाच्ये नियोगे विभक्तिः संभवति । संबन्धमात्रापेक्षिणी हि षष्ठी न व्यापारविशेषापेक्षिणी । लिङादिभ्यश्च विशेषोऽवगम्यते । द्वितीया तर्हि भवतु । न, अनुपात्तत्वान्नियोगव्यापारस्य । धातूपात्तव्यापारे हि द्वितीयादयः भावापेक्षत्वात् कारकाभिधानस्य । धातूपात्तस्य च भावतामिच्छन्ति “?Rधात्वर्थः केवलः शुद्धो भाव इत्यभीधीयत’?R इति वदन्तः । तस्मात् पश्चाद्भाव्यपि कर्तृभावोऽत्र विभक्त्युत्पत्तेः हेतुः प्रातिपदिकार्थमात्रतयैव नियोगसि(द्धिः)द्धेः । अत एव चाभिहिते कर्तृरेकत्वे न द्वितीयाप्रसङ्गः । भावद्वयोपन्यासश्च प्रत्युक्तः । धात्वन्तरानुपादानात् । गुणप्रधानभावश्च कारकाभिप्रायेणेत्येतदपि परिहृतमेव । अत एव च कामिगता
?Rसङ्ख्याऽतन्त्रम्, आख्यातगतैव नाद्रीयते ।
?R इदमपरं तर्हि कथमकामिनः प्रवृत्तिर्नास्तीति नियोगपरत्वाच्छास्त्रस्य । नियोगार्थसिद्ध्यर्थत्वात् कामनायाः । नैवाशङ्क्यते अङ्गता तु कामिनः प्राप्नोति । अविवेकोऽत्रापराध्यते भवतः । धात्वर्थापेक्षोः ह्यङ्गाङ्गिभावो नेष्यते । गुणप्रधानभावोऽपि तदपेक्ष एव उक्तो भाष्ये । नियोगसिद्धौ तु सर्वं तदनुगुणमिति केन नेष्यते । तादर्थ्यनियमस्तु प्रदर्शितः । अत एव च भावार्थाधिकरणे नियोगप्रधानो वाक्यार्थो दर्शितः कुर्यादित्येवमादिना भाष्यकारेण । कथमिदानीमेतानि वेदवाक्यानि ??R त इमे सत्याः कामा अनृतापिधानाः सर्वं खव्लिदं ब्रह्मेत्येवमादीनि । उक्ता अन्यपराणां प्रतिपत्तिः ।
?R ननु चान्यपरतैव नास्त्युपनिषद्वाक्यानाम् तर्हि सिद्धार्थपरत्वम् । सिद्धार्थपरत्वे च तत्र प्रामाण्यव्युत्पत्तेः । तर्हि मृग्यतां प्रमाणान्तरम् । प्रमाणान्तरसद्भावे वा का नो बाधा । शास्त्रार्थस्तावदयं यथोपवर्णितोऽस्माभिः । ननु च प्रमाणान्तरसद्भावे शास्त्रार्थो विरुध्यते भेदेनावगम्यमानत्वात् । न खलु कश्चिद्विरोधः
?R अथ विरोधं मन्यसे न तर्हि प्रमाणान्तरमस्ति एतस्मादेव विरोधात् । न चानुमानादृते एकता शक्यते वक्तुम् । आगमविरोधे च नानुमानमात्मानं लभत इति नैयायिकाः । तस्माद्धाक्यशेषाणि भवन्तूपनिषद्वाक्यानि स्वतन्त्राणि वा अध्ययनमात्रपर्यवसायीनि । नात्र सङ्कटं किञ्चिदस्ति । यत्पुनः धर्मशास्त्रकारैः पठितं - ‘?Rकामात्मता न प्रशस्ता’?R इति पठितमेवैतत् । केन वोक्तं न पठितमिति । भवतु तर्हि स्वर्गादीनां न प्राशस्त्यम् । भवतु यदि साध्यतया प्रतिषेधः । अथ तु आत्मगुणोऽयमुपदिश्यते अहिंसावत् क्रियाप्रतिषेधे नानर्थकत्वं स्वर्गादिसिद्धेः । निर्णयस्त्वनयोः तत एवान्वेष्यः ।
?R यत्पुनरिदं भाष्यकारेण यागप्राधान्येऽपि फलसिद्धिं दर्शयता इदमुपन्यस्तं - काष्ठान्याहर्तुकामोऽरण्यं गच्छेदिति कथमत्र क्रियाप्राधान्यं मन्यते प्रत्युत
?Rतुमुन्प्रत्ययात् गमिरेवान्यार्थे वर्तते । तस्माद्यथा दृष्टान्तस्तथा वक्तव्यम् । इदमुच्यते । कामशब्दप्रयोगात् तुमुन्नर्थोऽन्यार्थे वर्तते । तथा चेदमर्थ्यमवगम्यत इत्यभिप्रायः । परिहारस्तु सत्यं न शब्दात् किं तर्हि??R प्रमाणान्तरतः । तस्मादधिकृतस्य कर्तृत्वमिति स्थितम् ।
?R?0 फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् ॥ 4 ॥
?R ननु तिर्यगादिषु वेदस्य प्रमाणतैव नोपपद्यते केयमधिकारचिन्ता ? ?Rतथा देवतानां ऋषीणां चाधिकारे राद्धान्तो न लभ्यते । यदि तावदधिकारदेवताः परिगृह्यन्ते आर्षेयवरणचोदिताश्च ऋषयः तदाऽनित्यसंयोगो वेदस्य (आदिसंयोगो वेदस्य) किं तत्राधिकारचिन्तया । अथ ततोऽन्ये किमित्यधिकारो वार्यते ऋषयो ब्राह्मणाः श्रूयन्ते इन्द्रादयश्च क्षत्रियाः । तस्मात् भ्रष्टपूर्वोत्तरपक्षमेवेदमधिकरणं तत्रालोचनया प्रतिभाति । यदपि च विष्णुक्रमे यागमात्राधिकाराशङ्का सापि क्रमपर्यन्ते शास्रार्थे नोपपद्यते । स एव परिहृतावपि पुनरुपन्यस्तः । तस्मादप्रतिष्ठैवेयं चिन्ता वियतिपदम् ।
?R अत्रोच्यते - शास्त्रार्थपरिज्ञानमेवोपन्यस्तम् । कामनामुखेन तच्च प्रकटितम् । न शास्त्रादृते पारलौकिककामना संभवति इति । कथमृषि देवतयोः ??R अत्राभिधीयते । अत्र केचित् वेदार्थज्ञानपण्डिंतमन्याः यागाद्यनुष्ठानकृतमेव ऋषित्वं देवतात्वं च मन्वते अधिकारशब्दा इन्द्रादय इति वदन्तः । तथा च शतक्रतुरिन्द्र इत्यैतिहासिकाः शौनकादयश्च सत्रं नैमिशारण्ये आसितवन्तः इति वदन्ति । न चैतावता कर्मजन्यदेवताप्रतिपादकत्वेनानित्यसंयोगो वेदस्य भवतीति मन्यमानाः तद्व्यामोहापनुत्तये इदं लिखितम् । कथं पुनः अनेन व्यामोहोऽपनुद्यते । इत्थमपनुद्यते । यत इन्द्रादीनां तावद्यागादयो न संभवन्ति स्वात्मनि क्रियाविरोधात् । ननु इन्द्राभिमानिनो यजमानाः पूर्वोत्पन्नं इन्द्रं यजन्ते । ऋषीनपि पूर्वोत्पन्नानेव वृण्वते । एवं तर्हि दर्शनाभिमानानुपपत्तिः । तद्भावो
?Rभेदश्चेत्यनुपपत्तिरनुष्ठाने । अतो देवता देवतैव ऋषिरपि ऋषिरेव न पुनः प्राप्यः प्रापको वा । यथा न प्रापकः तथा नवमे वक्ष्यामः । प्राप्यता त्विह निषिद्ध्यते । यदप्युक्तं कथमपि अविष्णुक्रमके यागेऽधिकार इति । अधिकारपूर्वकत्वात् प्रकरणादीनाम् । अतो राद्धान्तेऽप्यधिकाराविरोधात् विनियोगान्यत्वं शक्यते कल्पयितुम् इति नानुपपत्तिः । विषयं च दर्शयन् निदर्शितावेव पूर्वपक्षोत्तरपक्षाविति न पुनः प्रदर्श्यते इति स्थितमधिकरणम् ।
?R ?R?0॥ 3 ॥ लिङ्गविशेषनिर्देशात् पुंयुक्तमैतिशायनः ॥ 6 ॥
?R?0 ॥ 4 ॥ स्ववतोस्तु वचनादैककर्म्यं स्यात् ॥ 17 ॥
?R?0 ?R?0ननु च कर्तृगत एवात्र विभक्त्यर्थः कथमधिकारे स्त्रियं निवर्तयति । अयमभिप्रायः पूर्वपक्षवादिनः - एकत्वमिव सङ्ख्यान्तरं लिङ्गमपि लिङ्गान्तरं निवर्तयति इति । ननु च सङ्ख्यापि नैवाधिकारे सङ्ख्यान्तरं निवर्तयति । किं तर्हि कर्तृत्वे । सत्यं नाधिकारे निवर्त्यते तथापि तु कर्तृत्त्वापत्तेरधिकारस्य लिङ्गमपि लिङ्गान्तरस्य न कर्तृत्वमापादयति । आपन्नकर्तृभावश्च न कर्मणि नियुक्तो भवतीति पुंयुक्तमिति पठितम् । भ्रूणहा आत्रेयीपरिक्रयादिभिः अस्वत्वप्रदर्शनमभ्युच्चयः ।
?R अत्रोच्यते - जातिस्तु बादरायण इति नरजातिमात्रमत्राधिक्रियते न लिङ्गाद्विशेषगतिरधिकारस्येत्यर्थः । ननु चापन्नकर्तृभावो न नियुक्त इति
सङ्ख्यावत् लिङ्गमपि लिङ्गान्तरं निवर्तयतीत्युक्तम् । सत्यमुक्तम् । तत्त्वयुक्तम् सङ्ख्या सङ्ख्यातगता कर्मणि सङख्यान्तरं निवर्तयतीति युक्तम् । लिङ्गं पुनरश्रूयमाणत्वादयुक्तं तन्निवर्तयतीति । अतस्सूक्तं बादरायणस्येति । स्मृत्यादयस्तु प्रदर्शिताः । यद्येवं न तर्हि सहप्रयोगः प्राप्नोति सङ्ख्यान्तरनिवृत्तेः । तदिदमुक्तम् स्थितं तावदपर्यवसितमिति सहत्वपर्यन्तत्वात् स्त्र्यधिकारस्य । अतः पृथगधिकारं पूर्वपक्षी दर्शितवान् । राद्धान्तवादी तु नैव क्रमपर्यन्ते विषये सङ्ख्याविरोध इति मन्वानः सहाधिकारमुक्तवान् । कथं पुनः सङ्ख्याविरोधो नास्ति ? ?Rसहितेषु हि द्विवचनबहुवचने भवतः, न पुनः सहार्थेषु । अत एव च इतरेतरयोगे एवं
?Rसमाहारे वा द्वन्द्वं मन्वते समासविदः । न पुनश्चार्थमात्रे । कोऽभिप्रायः??R अयमेवाभिप्रायः-नेतरेतरभावमनापन्नयोः पदार्थान्तरसंबन्धः। यत्र पुनः पदार्थान्तरसंबन्धापेक्षः चार्थः न तत्र द्विवचनबहुवचने भवतः समासो वा । तदिदं महाभाष्यकारेण प्रदर्शितम् - सहितयोः क्रिया संबन्धाभिधाने द्विवचनमेव प्रदर्शनार्थेषु वाक्येषु एवमनुकृतं भवति । अन्यथा हि अनुकारोऽपि नोपपद्यते । तदिदमुक्तं - प्रतिकारकं क्रियाभेद इति । द्वादशे वा शते षट्पञ्चाशदिति किमिदं ??R वयमपि ब्रूमः किमिदमिति । किमसदेवेदम् ? ?Rनेति ब्रूमः । द्वादशे शते यदि विभागः स्यात् स्यादेतदेवम् । इह पुनः अन्य एव पत्नीव्यापार इति सहार्थतां दर्शयति न सहितार्थताम् । एकस्त्वेतदाह अन्यतरानिच्छायां त्याग एव न संवर्तेतेति । तस्मादविरोधात् न सहकर्तव्यमित्यस्य वचनस्यायथार्थता शक्यतेऽवगन्तुम् । एवं च पत्नीशब्दः समर्थितो भवति कर्मविशेषाश्चाज्यावेक्षणादयः । लिङ्गमुक्तम् ।
?R यत्पुनरिदमुक्तं भाष्यकारेण - “?Rतत्र श्रुतिसामर्थ्यात् यः कश्चित् यया कयाचित् स्त्रिया सह सम्भूय यजेतेति प्राप्ते इदमुच्यते यस्त्वया कश्चिद्धर्मः कयाचित् सहकर्तव्यः सोऽनया सहेति । तेन न श्रुतिविरोधोऽवगम्यते स्मृतेः”?R इति । अस्य कोऽर्थः ? ?Rननु चायमेवार्थः यया कयाचित् स्त्रिया सहकर्तव्येति प्राप्ते अनयेत्युद्वाहनियमं दर्शयति ।
?R यद्येवममंस्त तर्ह्ययमर्थः यस्मात् कर्तृसंस्कारो विवाहो न क्रत्वर्थः । अन्यथा हि क्रतुप्रयुक्तमेव स्यात् अङ्गं च । न चैतदेवम् । कृताधानस्य ह्यधिकारं वर्णयन्ति न क्रत्वर्थमाधानमिति ब्रुवन्तः । यस्मात् (कृताधानस्याधिकारः) कृतोद्वाहस्य चाधानं अत एव संस्कारपङक्त्यामुद्वाहं पठति गौतमः ।
?R सत्यमेवमेतत् । शास्त्रार्थज्ञो भवान् कथमन्यथाऽभिधत्ते । कस्तर्हि भाष्यार्थः ??R श्रूयताम् । अयमर्थः - सोऽनयेति तथापि श्रुतेरविरोध इत्यर्थः । संस्कारार्थायाः स्त्रिया न विरुध्यत इत्यर्थः । एवमपि सहत्वमनुपपन्नमिति मन्यते ।
?R स्थितादुत्तरम् । अथ कस्मात् स्वामित्वं न गौणमित्याशङ्क्य अधिकाराविरोधान्न गौणं भवितुमर्हतीति राद्धान्तः । यथा चाविरोधस्तथा दर्शितम् ।
?R?0 ॥ 5 ॥ व्द्याधानं च द्वियज्ञवत् ॥ 22 ॥
?R ?R?0कथं पुनरत्र संशयः । यथैव भाष्ये । न तथोपपद्यते । भाष्ये हि ?R?0उपपदगतं द्वित्वमुपन्यस्तं वसानौ इति । नचैतत् पूर्वपक्षायालं भवितुमर्हति । कुतः ? ?Rवसन्ते ब्राह्मणोऽग्रीनादधीतेत्येवमादिषु एकत्वश्रवणात् । न च लिङ्गं सङ्ख्यां अपबाधितुमर्हति उत्पत्तौ श्रवणात् । अन्यविधानाच्च । अत आधानान्तरं वा वक्तव्यम् क्षौमविधानार्थं वा वसानावित्यनूद्यते द्वित्वं यथा प्राप्तम् ।
?R ननु चास्मिन्नपि पक्षे ‘?Rआदधीयातां’?R इति द्विवचनं नोपपद्यते । वसानावित्यपि, वसनक्रियायाः प्रत्येकं परिसमाप्तत्वात् । एवं तर्हि भवतैव संशयोऽभिहितः । सत्यमभिहितः पक्षग्रहणं तु न शक्यते कर्तुम् । बाढं (न) शक्यते । अप्राप्तमेवेदं द्वित्वं त्वयैवोक्तम् आधाने वसने च । अप्राप्तस्य विधानादृते न शक्यते वक्तुमिति विधानमेवाश्रयणीयम् । विधीयमाने च द्वौ पुमांसौ विधातव्यौ । कस्मात् ? ?Rयुगपदधिकरणवचनतायां हि द्वन्द्वस्मृतेः । तदपवादत्वाच्च एकशेषस्य । ततः किम् ? ?Rइदं ततो भवति । द्वयोरिदमभिधानं तन्त्रेण । तत्र च द्वौ पुमांसावेव प्रतीयेते अर्थान्तरस्य वाचकाभावात् ।
?R ननु चादधीयातामिति द्विवचनानुपपत्तिः आख्याते । भवत्वाधानान्तरं का नः पीडा ? ?Rननु च ‘?Rपुमांस्त्रिया’?R इत्यपि स्मरति भगवान् पाणिनिः । स्मरत्येकशेषे पुंसो वचनस्य साधुतां न पुनः स्त्र्यभिधानमौकारान्तस्य । तद्दर्शितं भाष्यकारेण । ननु कथमप्राप्तावेकशेषनियम उपपद्यते । केन वोक्तमप्राप्तौ नियम इति । यदि प्राप्तौ नियमः भवतु तर्हि स्त्रीसद्वितीयता । भवतु यदि प्राप्तौ प्रमाणमस्ति। तच्च नास्तीति दर्शितम् । अतो युगपदधिकरणवाचकत्वात् द्वयोः पुसोर्वाचकोऽयं न
?Rनियमस्य विषयः । तस्मात् द्वौ पुमांसाविति युक्तम् । कथं तर्हि क्षौमशब्दः ? ?Rप्रदर्शितोऽन्वयो भाष्यकारेण
?R एवं प्राप्तेऽभिधीयते । नायं द्वयोः पुंसोर्वाचक इति शक्यते वक्तुम् । कस्मात् ? ?Rक्षौमपदवैयर्थ्यात् वसनाधानयोश्च प्राप्तत्वात् । ननु च पुंद्वित्वयुक्तमेकत्वमपि न प्राप्तमित्युक्तम् । सत्यं, पुंद्वित्वयुक्तमेकत्वमपि न प्राप्तं पुंयुक्तं तु द्वयमपि प्राप्तम् । ततः किम् ??R श्रूयतामिदं, तदनुवादेन क्षौमविधानं संभवति । सद्वितीयत्वं तु केवल मृग्यम् । ननु च तदेव विधानादृते न संभवतीत्युक्तम् । न संभवति यद्याधानवसनगत एवेतरेतरयोगः परिगृह्यते । (तथैव च द्वन्द्वोत्पत्तिः अभिधानाश्रयमपीतरेतरयोगं नानुमन्यन्ते क्रियामात्रापेक्षत्वादितरेतरयोगस्य गर्गा) भोज्यन्तामिति प्रयोगदर्शनात् । देवदत्तयज्ञदत्तविष्णुमित्रा इति च प्रयोगदर्शनात् । इत्थं प्रयोगोपपत्तौ नाधानान्तरकल्पना भवितुमर्हति । नापि विशिष्टविधानं, न च क्षौमशब्दस्य गौणोऽन्वयः यौगिको वाऽभ्युपगन्तुं युक्तः । तस्मात् सद्वितीय नियमप्रयोग एवायम् ।
?R ?R?0॥ 6 ॥ ‘?Rतस्य यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात् ॥ 24 ॥
?R स्थितं स्त्रीपुसयोः सहाधिकार इति । इदमिदानीं सन्दिह्यते - किं सर्वं याजमानं सहैव कर्तव्यं यागवत् उत यजमानेनैव कृतं कृतं भवतीति । तत्र पूर्वपक्षवादी सहवचनं साङ्गक्रतौ मन्वानः सहकर्तव्यतां याजमानेषु मन्यते । राद्धान्तवादी तु यत्र तावत् वचनेनैव पुंसोऽङ्गत्वं ऋत्विजामिव तत्र नैव स्त्रियाः कर्तृत्वं, यत्रापि समाख्यया प्राप्तिः तत्रान्यतरेणैव सिद्धमनुष्ठानमिति विदुषि संभवति न विद्वत्ता शक्यते कल्पयितुम् अन्यथाप्युपपन्नत्वादनुष्ठानस्य । तस्मात् पुरुषार्थेषु विद्वत्ता कर्तृत्वं चेति यत्र वा प्रतिपदं विधानम् ।
?R?0 ॥ 7 ॥ चातुर्वर्ण्यमविशेषात् ॥ 25 ॥
?R?0 ?R?0ननु चात्र भेदं चिन्तयता त्रयाणामेवाधानमित्युक्तं द्वितीयाध्याये ।
?R न चानाहिताग्रेरधिकारः संभवति । कृताधानस्य विद्यमानत्वात् । अतः किमनेनाधिकरणेन । अत्रोच्यते । (अभ्युपगम्याप्यनधिकार वक्तुं निमित्तार्थतया आधानश्रुतीनां अत्रैवर्णिकानामाहिताग्रित्वमभ्युपगम्याप्यविद्वत्तयाऽनधिकारं वक्तुं) शूद्रस्येदमधिकरणमारभ्यते । तथा च दर्शयति - यद्यपि निमित्तार्थान्याधानश्रवणानि तथाप्यनधिकारः शुद्रस्येति । किं पुनरन्वारुह्यवादस्य प्रयोजनम् ? ?Rउच्यते । इदमस्ति प्रयोजनं उपनयनेऽप्यनधिकारप्रदर्शनम् । यद्येवमुपनयनमेवोदाहरणीयम् न तदुदाहर्तुं शक्यते । किमिति ??R ब्राह्मणस्य हि श्रूयते ‘?Rअष्टवर्षं ब्राह्मणमुपनयीत’?R इति । उपनीयाध्येतृत्वं आचार्यकरणविधिप्रयुक्तम् न स्वातन्त्र्येणोदाहर्तुं शक्यते । अप्रयोजकत्वात् स्वतः । न चार्थज्ञानकामस्य तदित्युक्तम् । कस्मात् ??R उपनयनाध्ययनयोः (स्वतो निरधिकारत्वात्) अधिकरणान्तरमुखेनैवात्र विचारः शक्यते कर्तृमिति सूक्तम् । अत एव भाष्यकारेण एतत्प्रधानमेतदधिकरणमिति दर्शयता ज्योतिष्टोमादिषु अनाहिताग्रितयैवानधिकार इत्युपसंहृतम् ।
?R?0 ॥ 8 ॥ त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धत्वात् ॥ 39 ॥
?R ननु च द्रव्यं न प्रयुङ्क्ते कर्मविधिरित्युक्तम् तस्मादधिकारे न घटत एवेयं चिन्ता यथास्थिते कर्मभेदेऽनाहिताग्रेः । न चान्यत् प्रयोजनमस्ति उपनयनवत् । अतः न शक्यमेवेदमधिकरणमधिकारचिन्तायाम् । उच्यते । यत एव द्रव्यं न प्रयुञ्जते कर्मविधयः अत एवेयमधिकारे चिन्ता उपपद्यते । कथं ? ?Rकिमनाहिताग्रिमिव कर्मश्रुतयः शक्नुवन्ति अद्रव्यं निरसितुं उत नेति । अत्र पूर्वपक्षवादिनोऽभिप्रायः अनाहिताग्रिमिव अद्रव्यं द्रव्योपादानमनाक्षिपन्त्यः कर्मश्रुतयः न शक्नुवन्त्यधिकर्तुमिति । तस्मादनधिकारोऽद्रव्यस्येति ।
?R अत्राभिधीयते । न शक्यत एतदनाहिताग्निमिवाद्रव्यं निरूपयितुम् । तत्र हि शूद्रादिजातिरवच्छेदिका विद्यते । इह पुनः आदान(म)नियतं कदाचिदुपादत्ते कदाचिन्नोपादत्ते स एव । तस्मान्नैकान्ततो निरासस्संभवति । अधिकृतस्य जीवनायेव कर्मणोऽप्युपादानं प्राप्तम् । ननु चोपादानशेषनिरासः एवं सत्युद्धृतो भवति । नोद्ध्रियते । निमित्तत्वेन हि अस्माभिरिदमुच्यते न शेषितया । अत एव तत्राप्युक्तं - कर्मा(र्थमपि)र्जितमपि आर्जितो व्रीहिरेव । इहापि चोक्तं जीविष्यति विना धनेनेत्यनुपपन्नमिति । किमनेनोक्तम् ? ?Rइदमनेनोक्तं अनियतमिदमुपादानं न निरासायालमिति । तस्माज्जीवनायेव कर्मणोऽप्युपादाने यत्नः कार्यः ।
?R?0 ॥ 9 ॥ अङ्गहीनश्च तद्धर्मा ॥ 41 ॥
?R?0 ?R?0किंधर्मा ? ?Rअद्रव्यधर्मेत्यर्थः । स एव हि कदाचिदङ्गहीनो भवति कदाचित् कल्याणाङ्गः । तस्मादधिकृतेन सता चिकित्सादिषु यत्नः कार्यः द्रव्योपादानवत् ।
?R ?R?0॥ 10 ॥ अत्र्यार्षेयस्य हानं स्यात् ॥ 42 ॥
?R?0 ?R?0ननु किमिदं भिन्नं वाक्यमुत एकमिति चिन्तनीयम् । तच्च शास्रभेदाभेदोपयोगि नाधिकारोपयोगि । सत्यमेवम्। स तु भेदाभेदोऽप्यधिकार एव विशेषमादधाति इत्यधिकार एव चिन्त्यते । तत्र पूर्वः पक्षः कल्प्यत्वाद्विधेः अगृह्यमाणविशेषत्वाच्च यावत्सङ्ख्या कल्पनेति । एवं प्राप्तेऽभिधीयते । न यावत्सङ्ख्यं कल्पना भवितुमर्हति । कुतः??R परस्पर संबन्धावगतेः संख्याशब्दानाम् । तत्र यस्याः संख्याया विधौ कल्प्यमाने न एकवाक्यता अपैति तद्विधीयत इति न्यायकल्पना ।
?R ननु च युक्तं न चतुरो वृणीते न पञ्चातिप्रवृणीते इति त्रिषु विधीयमानेषु अनुवादोपपत्तेः एकवाक्यत्वं;?R विधानाभावादेव वरणाभावस्य प्राप्तस्यानुवादः ;?R एकं द्वौ इति तु नानुवादो घटते इति अप्राप्तत्वात् भिन्नान्येवैतानि वाक्यानीत्युक्तम् ।
?Rअत एव पञ्चानां वरणं न्याय्यमेवेति मन्यामेहे । इत्थं न नञोऽनुवाद उपपन्नतरो भवति । अत्रोच्यते - उक्तमस्माभिः सकलपदैकवाक्यता । ननु च एकं द्वौ इत्यनुवादासंभवात् अनुपपन्नैवेत्युक्तम् । उत्तरं - न नाम त्रिष्वनुवादः न च सङ्ख्या सङ्ख्यान्तरेऽनुवर्तते इति न्यायात् । यत्पुनरिदं नञ्वाक्यं तत् केन संबध्यते ? ?Rसर्वैः सङ्ख्यावाक्यैरविशेषादिति चेत् । सिद्धा तर्ह्येकवाक्यता । यस्मात् न नञ्वाक्येऽस्य प्रत्येकपरिसमाप्तौ प्रमाणमस्ति । कथं नास्ति??R यदि हि स्यात् एकत्वादीनामपि ‘?Rन चतुरो वृणीते’,?R ‘?Rन पञ्चातिप्रवृणीते’?R इति प्रत्येकमेव स्यात् नञोऽभ्यासः । निष्प्रयोजनश्च सः । नञर्थपरत्वादेकादीनां चतुर्णां अतीतपञ्चानां च विकल्पः प्राप्नोति । भवत्विति चेत् न पक्षान्तरालम्बनेनापि परिहारो भवति इति नञोऽभ्यासकल्पना न्याय्या । यावांश्च श्रुतस्योत्सर्गे दोषस्तावानश्रुतवाक्यस्यावृत्तिकल्पनायाम् । तस्मादावृत्तिः कल्पयितुं न न्याय्येति न्यायविदो वदन्ति । तस्माद्वरमवयुत्यानुवाद एवाश्रयणीयः सामञ्जस्यात् । त्रयाणां च न संभवति, अतस्त्रयाणामेव विधानम् । अत स्त्रयाणामेव वरणं त्र्यार्षेयस्य चाधिकार इति सिद्धम् ।
?R ?R?0॥ 12॥ वचनाद्रथकारस्याधानेऽस्य सर्वशेषत्वात् ॥ 44 ॥
?R अत्र पूर्वपक्षवादी विद्वत्साध्यत्वादाधानस्य उपनयनसाध्यत्वाद्विद्वद्भावस्य येषामेवोपनयनं तेषामेवाधानविधिरुपपन्नो भवति इति मन्वानः त्रैवर्णिकानामेवानेन निमित्तेनाधानमिति वर्णितवान् । ये पुनः रथकारा ब्राह्मणादयस्तेषामेव वसन्तादिकालक्रमाधानविधानं भविष्यति पारिशेष्यादिति सर्वमुपपन्नम् । यत्पुनरत्र भाष्यं त्रैवर्णिकानां शिल्पोपजीवित्वं निषिद्धमिति तदयुक्तमिव प्रतिभाति निषेधातिक्रमणादप्याधानविधानं (न) नैवोपपद्यते पुरुषार्थत्वात्, प्रतिषेधस्य अग्न्यर्थत्वाच्च । न च पुरुषार्थातिक्रमेणाधानस्य वैगुण्यं शक्यते वक्तुम् । सत्यमेवम् । औचित्यमङ्गीकृत्यैतदुक्तम् । अत एव ब्राह्मणादीनां
?Rनियतकालतैवाधानस्य आधानान्तरासंबन्धे हेतुरुक्तः । जात्यन्तरोपन्यासश्च परमार्थतः त्रैवर्णिकनिमित्तो हेतुरुक्तः । यत्पुनरविदुषो नाधानमित्युक्तं असति वचने तदुपपद्यते । वचने पुनः का नामेयमनुपपत्तिः । किमनुपनयनेनापि तेषां (विद्या) भवतु ;?R भवतु तेषां यदि वचनमस्ति । असति विधाने स्त्रीणामिवाधानविधानादेवेदमत्राध्ययनं भविष्यति ।
?R कस्य पुनरधिकारः ? ?Rरथकास्स्येति ब्रूमः (राज्ञ इव राजसूये) ननु चायं कर्तृनिर्देशो नाधिकारनिर्देशः । यथैव ब्राह्मणादयो वसन्तादिकालकेषु आधानेषु कर्तृत्वेन (न) निर्दिश्यन्ते नाधिकृततया एवमत्रापि । एवं तर्हि तत्कर्तृकेष्वाधानेषु कस्याधिकारः ??R न कस्यचिदिति ब्रूमः । किं तर्हि इदमुक्तं त्रैवर्णिकानामधिकार इति ??R स्वर्गकामस्य त्रैवर्णिकस्य ज्योतिष्टोमादिष्वधिकार इत्युक्तम् । एवं तर्ह्यङ्गमाधानं नाङ्गं अग्न्यर्थत्वात् । अग्नयो हि कर्मार्थाः । कथं तर्हि त्रैवर्णिकः
स्वर्गकामः ज्योतिष्टोमादिष्वधिक्रियत इति शक्यते वक्तुम्, अनङ्गत्वादाधानस्य । अनग्नित्वादत्रैवर्णिकानाम(न)धिकार इत्युक्तम् । न पुनस्त्रैवर्णिका एवाधिक्रियन्त इति । सिद्ध्यत्येवं ज्योतिष्टोमादिष्वधिकारः । आधाने पुनः कस्याधिकारः ? ?Rसर्वस्यैवेति प्राप्ते जात्यङ्गासंपत्तेः त्रैवर्णिकानामेव भवति । थथा स्वाराज्यकामस्य क्षत्रियस्यैवाधिकारो राजसूये श्रूयते । एवं तर्ह्यत्राप्येवमेवेति सिद्धम् । आहिताग्नितया च ज्योतिष्टोमादिष्वधिकारो द्रष्टव्यः । यानि पुनर्विशेषवचनानि रायोवाजीयं ?Rइत्येवमादीनि तानि अस्य न संभवन्ति । न पुनरधिकारं निवर्तयितुमुत्सहन्ते । किं पुनराधानविधेः विश्वजित इव कल्प्य एवाधिकारो न भवति । भवतु-एवमपि न कश्चिद्दोषः । किन्त्वत्रावधातादीनामिव निरधिकारमेवेदं सप्रयोजनत्वादनुष्ठानमिच्छन्ति । शेषमुक्तम् ।
?R?0 ॥ 13 ॥ स्थपतिर्निषादः स्याच्छब्दसामर्थ्यात् ॥ 51 ॥
?R अत्रापि विद्वत्तापेक्षया आधानापेक्षया च पूर्वपक्षवादी षष्ठीसमासमेव न्याय्यं मन्यते । भवति हि कश्चित् त्रैवर्णिक एव निषादानां स्वामी;?R अतोऽविरोधात् तस्यैवाधिकारः । अत्राभिधीयते । नायं षष्ठीसमासः । कस्मात्??R षष्ठीसमासे हि निषादशब्दो लक्षणया स्थपतौ वर्तते । कर्मधारये पुनः स्वार्थ एव पदद्वयम् । ननु चेदमन्याय्यमुच्यते ‘?Rवावचनं’?R हि समर्थयता भाष्यकारेण;?R वाक्यवृत्त्योरेकार्थत्वमभ्युपगतं भगवता पाणिनिना । केन वाऽनेकार्थत्वमुक्तम्??R नन्विदमुक्तं निषादशब्दो लक्षणया वर्तत इति । प्रयोजनमङ्गीकृत्यैतदुच्यते । अत्र स्थपतौ निषादशब्दः प्रयुज्यते;?R तस्य च (तत्र हि) लक्षणया प्रयोगसिद्धिः । किं लक्षयति ??R षष्ठ्यर्थम् । ननु चैवं सति व्यधिकरणसमासानां साधुत्वान्वाख्यानमनुपपन्नं;?R वाचकनियमार्थं हि भगवतोऽनुशासनं पाणिनेः प्रवृत्तं अपभ्रंशापनुत्तये । लक्षणापक्षे च नायं वाचकः । अत एव च कात्यायनोऽपि वावचनानर्थक्यमुक्तवान् । तस्माद्वक्तव्योऽत्र विशेषः । ननु चायमेव विशेषः - लक्षणयापि व्यवहारो लोके दृश्यते ‘?Rगङ्गायां घोषः’,?R ‘?Rप्रतिवसति कूपेन गर्गकुल’?Rमिति । नायं प्रयोगोऽनुशासनविरोधी । पदावधिकं हि भगवतोऽनुशासनम् । भवति चेह निमित्तावस्थायां वाचकमेवेदं (पदम्) । न च वाचकसंबन्धिन्य एव विभक्तय इति स्मरति - प्रातिपदिकादिति वचनात् । असदिदमुक्तं ‘?Rसमर्थः पदविधि’?Rरिति स्मरन् समर्थात् प्रातिपदिकाद्विभक्तयो भवन्तीत्यपि स्मरति । किञ्चान्यत् सामर्थ्य(र्थ्यं मुक्त्त्वा) मुक्त्त्वा स्वार्थसंबन्धम् । तस्मान्नानुशासनप्रसिद्धिः । न चायमाचार्यस्य नियमः पदावधिकमेवानुशासनमिति । वाक्यावधिकमपि दृश्यते । “?Rदेवसुम्नयोर्यजुषि काठके”?R “?Rजनिता मन्त्रे”?R इति च दर्शनात् । अतोऽत्र वक्तव्यो वावचनसमर्थने हेतुः ।
?R अयमभिधीयते । अभिधानव्यापारमङ्गीकृत्य एतद्वावचनं समर्थितम् नार्थव्यापारम् । अर्थश्चार्थान्तरं लक्षयति नाभिधाम् । ननु च षष्ठ्यर्थो लक्ष्यत
?Rइत्युक्तम् । अत एव सूक्तम् । यदि हि षष्ठ्या अभिधानं लक्ष्यत इत्युक्तं स्यात् स्याद्दोषः । क्वचिच्चाभिधानं निमित्तं क्वचिच्चाभिहितोऽर्थः इति तद्भूतानामित्यभ्युपगमो न विरुध्यते । न हि भगवतोऽनुशासनविरोधः। प्रयोगानुशासनं हि व्याकरणम् । क्वचिदभिधानेन निरूप्यते क्वचिदेकार्थतयेति न कश्चिद्दोषः । अत एव च भाष्यकारः “?Rअस्मदायत्ते प्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे”?R इति । कोऽभिप्रायः ??R अयमभिप्रायः । नानभिधाननिमित्तता युक्ता प्रयोक्तुमिति । कः खल्वत्र विशेषं पश्यति??R इमं पश्यति । एकार्थनिमित्ते हि कार्ये कार्यस्यानादिता । अस्मदायत्ते पुनः कार्ये किमन्यदभिधानादृते भवितुमर्हति । अतः सूक्तं निषाद एव स्थपतिरिति । एवमभिधाननिमित्ततैव भवतीति ।
?R?0॥ इति बृहत्यां षष्ठाध्यायस्य प्रथमः पादः ॥
?R
?R?0षष्ठाध्यायस्य द्वितीयः पादः
?R ?R?0पुरुषार्थैकसिद्धत्वात् तस्य तस्याधिकारः स्यात् ॥ 1 ॥
?R ननु च स्वर्गकामाधिकरणे इदमुक्तं - नैवेयमाधिकारिकी सङ्ख्या, किन्तर्हि, कर्तृसङ्ख्यैवेयं, भावान्तरानुपादानादिति । एवं च कथं परिषदोऽर्थिन्या अधिकार इति संशयः । उच्यते । उपरितनेऽधिकरणे आख्यातगतसङ्ख्या विवक्षिता स्थास्यति । स्थितायां च कर्तृसङ्ख्याविवक्षायां किं यथाकर्तृत्वमधिकारो भवति उतान्यथैव कर्तृत्वं अन्यथा चाऽधिकार इति । न कर्तृगता सङ्ख्या अधिकारेऽपि इतरेतरयोगमापादयितुं क्षमेत्यर्थः । तत्र पूर्वपक्षवादिनोऽभिप्रायः - अधिकारस्य कामनाऽयोगात् कर्तृत्वमुखेन चाधिकारावाप्तेः अधिकारश्च भागे इतरख्याप्त्या च नियम्यते कामितया चाधिकार इति परिषदोऽर्थिन्या अधिकार इत्युक्तम् । अत्राभिधीयते । न कर्तृत्वं कर्मप्राप्तिं नियन्तुं शक्नोति । यथाभिधानमाप्तिम् अवगच्छामो न पुनर्थथापदार्थान्तरसंबन्धं ऋद्धिकामप्रातिपदिकावगम्यत्वात् । तस्या अवगतावाप्तेश्च कर्तृसंबन्धात् । किञ्च न कर्तृत्वमप्यत्र निरपेक्षतां विहन्ति, कर्तॄणां ह्यत्र बहुत्वमवगम्यते न बहूनां कर्तृत्वम् । किमतो यद्येवं ??R एतदतो भवति - कर्तारो बहवः न बहवः कर्ता अतश्च शाब्दं साहित्यं न तु आर्थं सहत्वम् । ननु च सह कर्तृत्वमत्रेति । सह शब्दोऽत्र अर्थसहत्वं लक्षयति । कुत एतत् ??R भाष्यादेव । एकैकस्य स्वातन्त्र्यविवक्षायां आख्याते सङ्ख्यायोगात् । शक्नोत्येकैकस्य स्वातन्त्र्यविवक्षायां इति । न्याय्या चेयमवगतिः यस्माद्विभक्तयो भवन्ति तदर्थस्य सङ्ख्या (योगादिति) मवगमयन्ति । न चाख्यातार्थः सङ्ख्यां भजते । असत्त्वभूतत्वात् अतः तदाक्षिप्तानि व्यावृत्तान्येव कारकाणि सङ्ख्यां भजन्ते । तदवस्थानामेवाख्यातार्थेनाक्षेपात् न कारकशब्दाभिधेयानि । नामविभक्तयः पुनः सङ्ख्याभाजः प्रातिपदिकार्था एवेति तद्गतामेव सङ्ख्यामभिनिर्वर्तयन्ति । अत एव अग्नीषौमौ (देवता, देवतात्वं हि कारकावस्था
?Rतस्यामवस्थायां अग्नीषोमप्रातिपदिकादुत्पन्ना द्विवचनविभक्तिः न सङ्ख्यामाह । किन्तु प्रातिपदिकावस्थामात्रायां इति । अत एवाधिष्ठानस्य द्वित्वं देवतात्वे पुनरेकत्वमिति) दर्शितम् । उत्पत्तौ चेयं सङ्ख्या अतः कारकगतैव मन्तव्या । किमिदमुत्पत्ताविति ??R आख्यातगतेयं सङ्ख्या नोपपदगतेत्यर्थः । उपपदगता हि कर्मगतापि प्रतीयते सत्त्ववदभिधानात् तिस्र आहुतीर्जुहोतीतिवत् । तस्मादेकैकस्यात्र स्वातन्त्र्यमवगम्यते ‘?Rस्वतन्त्रः कर्ता’?R इति च स्मरणात् । बहुत्वं पुनः कर्तुः सापेक्षतामापादयति न सापेक्षस्य कर्तृत्वम् । अतः कर्त्रन्तरं साहित्यसंपत्त्यर्थमुपादीयते । न कर्तृत्वसंपत्त्यर्थमन्योपादानम् । कथं तर्ह्यत्र युगपदभिघानं ? ?Rकथं चैकशेषः ? ?Rमाभूद्युपदभिधानं युगपदाक्षेपो भविष्यति । एकशेषस्तु यद्यभिधानादृते न संभवति न नाम तथापि अयमेव शास्त्रार्थः । अतः यथा कर्तृत्वेऽपि न परिषदोऽर्थिन्या अधिकार इति सिद्धम् ॥
?R?0 ॥ 2 ॥ प्रयोगे पुरुषश्रुतेः यथाकामी प्रयोगे स्यात् ॥ 3 ॥
?R किमिदं शास्रफलं प्रयोक्तरीति ??R कस्तेनास्य विरोधः ? ?Rकथं वा तेनेदं लभ्यते । यदा प्रयोक्तृत्वं कर्मणि शब्दार्थः तदा वचनस्य विवक्षा प्राप्नोति । विवक्षिते वचने अविवक्षिताभिधातं विरुद्धम् । अतः इदमुक्तं तदेवाक्षिप्यत इति । कथं पुनराक्षेपः नियोज्यस्य हि कर्मणि इदमस्येत्येवं संबन्धोऽवगम्यते अत्रास्येति वा । अतो यथानियुक्तस्यैव सङ्ख्यासंबन्ध इति पूर्वः पक्षः । कामितामात्रतया च नियोगः न सङ्ख्यापेक्ष इत्युक्तम् । स्वर्गकामे च विभक्तिवचनं भावार्थानपेक्षमित्युक्तम् । नियोज्यस्य भावार्थसंबन्धः कर्तृत्वमित्येतदुक्तं न भावसंबन्धस्य नियोग इत्यर्थः । तस्मान्न भावगता सङ्ख्या विवक्षामर्हति अधिकारपदगतेव । किञ्च फलस्य पुरुषार्थतापर्यन्तं चैतद्वाक्यमित्युक्तम् । तत्परत्वे च वाक्यस्य क्रियाकारकसंबन्धो नतरां विवक्ष्येत । ननु च क्रियाकारकसंबन्धोऽप्यत्रावगम्यते । स कथं त्यज्यते ??R अन्यपरत्वाद्वाक्यस्य ।
?Rएकार्थं चैकं वाक्यमित्युक्तम् । (अतो विषं भक्षयेदिति न विवक्ष्यते (एवं चेष्वसनदृष्टान्त उपपन्नो भवति । लिङ्गमुक्तम् ।
?R अत्राभिधीयते - न कर्म वा सङ्खयापि अविवक्षिता शक्यते वक्तुम् । कुतः ??R विशिष्ट एव हि कर्मण्यधिकारो भवति । यथा द्रव्यविशिष्टकर्मण्यधिकारावगमात् न द्रव्यान्तरेण क्रियते तथा कर्तृसङ्ख्याविशिष्टे कर्मण्यपि अधिकारावगमे न सङ्ख्यान्तरमाश्रीयते । न च स्वर्गः पुरुषस्येत्येवपरं तद्वाक्यं) किं तर्हि अस्मिन् कर्मण्यस्याधिकार इति । अधिकारश्चायं विशिष्टक्रियाकारकस्वार्थफलप्रयुक्तः प्रतीयत इति सर्वमनवद्यम् । एवं च सति प्रयोक्तुः फलमित्येतदपि सिद्धम् । अधिकार्येव हि प्रयोक्ता । कर्मादीनां तार्तीयो विनियोग एतस्मादेव । तत्पुनरिदमुक्तं भाष्यकारेण आत्मनः परस्य वा स्वर्गं कामयतः स्वर्गकामपदाभिधानमविशिष्टं आत्मनेपदाच्च लिङ्गाच्च, आधाने आत्मनेपदकर्तृकोपन्यासाच्चाङ्गफलानामपि प्रधानकर्तृसंयोग उक्तः । किमनेनोक्तम् ??R सर्वविशेषणविशिष्टनियोगात् सर्वमिदं लभ्यते । यदात्मनेपदं कर्तृगामितामवगमयति फलस्य, यच्च स्वर्गकामपदं आत्मसंबन्धिनि कामे कामितामभिधत्ते । पाणिनेरपि अयमेव प्रयोगो लिङ्गाभिधाने निमित्तम् । (यदेवं स्मरति) यजते यजमानः । यजन्ति याजकाः इति । अतो यथानिमित्तमेवावगतिर्भवतीति निमित्तोपन्यासो भाष्यकारस्य । अतो विवक्षिता सङ्ख्येति सूक्तम् । प्रतिपद्विधानं तु प्रकृतावसंभवादुत्कृष्यते ।
?R ?R?0प्रक्रमात्तु नियम्येतारम्भस्य क्रियानियम्यत्वात् ॥ 3 ॥
?R कथं पुनरत्न संशयः ??R कथम् वा न संशयः फलपर्यन्तः कामाधिकार इत्युक्तम् । तत्र यदि कारणान्तरेण फलप्राप्तौ सत्यां निवृत्तः कामः यद्वा अन्यतः तदधिकार एव निवृत्तो भवति निरधिकारस्य चानुष्ठानं न शब्दात् नापि अन्यतोऽवगच्छामः । तस्मादप्रतिष्ठितमेवेमं संशंय पश्यामः । उच्यते । इदमत्र
?Rसंशयद्वारं, कर्तव्यतापूर्वकं हि कर्मादीनां फलपुरुषसंबन्धमुक्तवन्तोऽधिकारज्ञाः प्रवृत्तश्चेत् कर्तव्यतायां कारितः शास्त्रेणेत्यवगच्छामः । शास्त्रं चोपक्रमादेरपवर्गपर्यन्तस्य स्वार्थस्याभिधानम्। अतो नापरिसमाप्यावतिष्ठते अवयवशोऽनवगमान्नियोगार्थस्य । नन्वेवं तर्हि फलार्थता कर्मणो नोपपद्यत इत्युक्तम् । प्रवृत्तौ तावन्निमित्ततया नानुपपन्नम् । प्रवृत्तौ चापरिसमाप्तेरेव शास्त्रं करणमित्युक्तम् । अतः परमधिकारानुवृत्तिः क्वोपयुज्यते ? ?Rतस्माद्वीतायामपि फलेच्छायां समापनीय कर्मेति मन्यते ।
?R एवं प्राप्तेऽभिधीयते - सत्यमारम्भोऽपवर्गपर्यन्तः शास्त्रार्थः सत्यं चावयवशो नावगम्यते । न पुनरधिकारदृते शास्त्रं कारणमित्यवगन्तुं शक्यते । ननु च प्रवृत्तौ निमित्ततयोपपन्नमनुष्ठानमित्युक्तम् । नासाध्यं निमित्तं भवितुमर्हति । यथाप्रतिपन्नमेव हि निमित्तं नाप्रतिपन्नं साध्यनिमित्ततया प्रतीयत इत्युक्तम् । अतः प्रवृत्तावपि यावन्निमित्तमेव प्रवृत्तिः निमित्ताभावे वा उपरमो न्याय्य इति न्यायविदो मन्यन्ते ।
?R यत्पुनरिदं भाष्यकारेणोक्तं वेदैवासौ मया एतत्कर्तव्यमिति उपायं तु न वेद इति;?R अयमर्थः फलेच्छोपरमे तावत् शास्त्रं न प्रत्यक्षीभूतमस्ति । अतो वीतायां फलेच्छायां अवधुतशास्त्रार्थायां न कारणता धात्वर्थस्योपपद्यते । तच्च कारणभूतेऽधिकार इति स एव शास्त्रार्थाभावो दर्शितः ।
?R ननु चैतद्भावार्थाधिकरणविरुद्वम् । यथा न विरुध्यते तथा स्वर्ग- कामाधिकरणे दर्शितम् । यत्पुनरिदं पक्षान्तरोपन्यसनं शिष्टविगर्हणात् परिसमापनीयमिति । तथ किमिति विगर्हन्ते इति परिचोद्य किमत्र कारणान्तरेणेत्यस्यैव शिष्टविगर्हणस्य समाप्तौ कारणतोक्ता मिथ्यासङ्कल्पदोषश्च दर्शितः । तदिदम् समञ्जसमिव प्रतिभाति । कथमसमञ्जसं ? ?Rयदि तावत् मिथ्पासङ्कल्पदोषपरिहारायैव प्रक्रान्तपरिसमापनं तर्हि न शक्यः शिष्टविगर्हणोपन्यासः । अत्रोच्यते । मिथ्यासङ्कल्पतैवात्र नास्ति । शास्त्रार्थे हि
?Rसङ्कल्पः कृतः । न च वीतेच्छस्य समापनं शास्त्रार्थः । विगर्हयितारशिष्टा एवं मन्यन्ते । मिथ्यासङ्कल्पदोषोऽस्यास्ति योऽयं प्रक्रान्तं न परिसमापयति इति मत्वा विगर्हन्ते । अतस्तद्विगर्हणात् समापनं कर्तव्यम् । किमिति निर्मूलमेव विगर्हणमाश्रयन्ते । किमत्र मूलान्वषणेन । इदमेव हि दुःखहेतुः । दुःखहेतुपरिहारे च कृतिनो यत्नवन्त इति सुष्ठूक्त विगर्हन्ते तावच्छिष्टा इति ।
?R?0 लोके कर्मणि वेदवत्ततोऽधिपुरुषज्ञानम् ॥ 4 ॥
?R यदिदं सूत्रधारैः कर्म क्रियते गृहादि तत्र किं प्रारब्धं समापनीयं उत वीतायां फलेच्छायां तत एवोपरमः इति । ननु शिष्टविगर्हणाभयात् समापनीयं कर्म न शास्त्रीयमिति । अतस्तदेवात्र अनुसरणीयं किं विगर्हन्ते नेति । किं शास्त्रीयाशास्त्रीयत्वानुसरणेन । उच्यते । सत्यमेवं यदि निरुपाधिकमेव तद्विगर्हणम् । तत्तु शास्त्रीयमिति कुत्वा विगर्हन्ते नाशास्त्रीयम् । अतः तत्तद्भ्रमापनुत्तये विचारणीयम् । तत्र देवतासंबन्धात् प्रायश्चित्तविधानाच्च शास्त्रीयमिति पूर्वः पक्षः न ह्यशास्त्रीयस्य शास्त्रीयमङ्गं भवति वैगुण्यसमाधिर्वा ।
?R अत्रोच्यते । न शास्त्रीयमिति प्रमाणमस्ति रमणीयार्थत्वात् प्रयत्नस्य । यदपि चेदं स्मरन्ति सूत्रकाराः ब्राह्मणस्येदं गृहादि राज्ञ इदमिति । यथा चोदितस्य अन्यथाकरणे मरणादिप्रत्यवायं स्मरन्ति । तदपि वैद्यकादिवत् अन्वयव्यतिरेकादवगम्यते । यत्पुनः प्रायश्चित्तं देवताविधानं च तत् पुरुषार्थत्वात् न गृहादिकर्मार्थमिति परिहृतम् ।
?R?0प्रतिषेधेष्वकर्मत्वात् क्रिया स्यात्प्रतिषिद्धानां विभक्तत्वादकर्मणाम् ॥ 5 ॥
?R?0 ?R?0किमिदं नियोगव्यापारचिन्तनं किं नञर्थो विधीयते उत धात्वर्थः तद्विशिष्ट इति । द्वैतीयनियोगचिन्तनमिदम् । को दोषः ??R न खलु कश्चिद्दोषः । किन्तु असंबन्धोऽधिकारलक्षणे । एवं तर्हि अधिकारचिन्तैवेयम् । कथमधिकारचिन्ता ??R
?Rइत्थं, यद्यत्र नञर्थो विधीयते ततो भक्षयतिः अधिकारिविशेषणम् । अतो नञर्थविशिष्टकर्मविधिः । ततः कल्प्यमधिकारिविशेषणं विश्वजित इव । तत्सिद्ध्यर्थ चेदं बलाबलचिन्तनमुपन्यस्तम् । पूर्वपक्षवादी भावार्थाः कर्मशब्दाः इत्युत्सर्गं मन्वानः तदाश्रितत्वच्चोपपदविधेः विशिष्टविधिं मन्यते । किञ्च नञर्थविधाने अनुष्ठानमापद्यते । कथं ??R प्रतिषिद्धमपि हि यन्न पुरुषस्योपकरोति अभ्युदयेन दुःखपरिहारेणापि न तत्र बुद्धिपूर्वकारिणः प्रवर्तन्त इति लौकिकाः तस्मादयमेव वाक्यार्थः श्रेयान् । ननु नञर्थविधानेऽपि प्रत्यवायकल्पना भवतु । कथं नञर्थविधौ प्रत्यवायः शक्यते कल्पयितुम् । नतरामनुष्ठानं प्राप्नोति । अथ विषयानुष्ठानेन प्रत्यवायः कल्प्यते प्रतिषेधानुष्ठानेनासौ परिहृतो भवति लोकवदिति । तदयुक्तम् । यस्मान्नञर्थविधिस्तावत् नार्थ एव पर्यवसितो भवति । विषयानुष्ठानं तु लौकिकम् । लौकिके चानुष्ठाने यदि न लौकिकात् प्रत्यवायो गम्यते कुतोऽन्पतः शक्यतेऽवगन्तुम् । तस्मान्नैवान्यथा पुरुषार्थता उपपद्यते इत्यभक्षविधिः स्यात् ।
?R अत्राभिधीयते । सत्यं यदाह देवानां प्रियः किन्तु नासावभक्षविधिः प्रतीयते । यतो भक्षयतिस्तावत् भक्षणमाचष्टे । नञपि निवारणं निवृत्तिमाह । पदद्वयेनाप्यभक्षणमेवासद्धूतं गम्यते । न च तद्विधातुं शक्यते अक्रियारूपत्वात् । मानसस्तु व्यापारः न पदात् न वा वाक्यात् प्रतीयते अनीक्षमादिषु व्रतशब्दः साक्षाच्छ्रूयते । अतो भक्षयतिः गले पादुकया अधिकृतविशेषणं नञर्यस्य वा अभावार्थस्य औदासीन्यमयुक्तमेव विधेयत्वम् । ननु चानुष्ठानं नोपपद्यते इत्युक्तम् । किमिति नोपपद्यते किं कर्तव्यतावगमो नास्ति । कर्तव्यतावगमे हि कामादयः संबध्यन्त इति दर्शितं भावार्थाधिकरणे । यत्र ते स्वर्गकामादयः तत्रैवाभ्युदयपर्यन्तः (कर्तव्यतावगमः यत्र पुनर्न विद्यते कस्तत्र कर्तव्यतावगमं (नाम) अपह्वुते । कर्तव्यतावगमात्वनुष्ठानं न फलावगमादित्युक्तम् । तन्मूलत्वात् फलावगतेः । अत एव जीवनादेरप्यधिकारिविशेषणत्वं सिद्धं भवति । एवं
?R(तर्हि) कर्तव्यतामवगच्छन्नपि यो नाम न करोति स्वर्गकामचोदनास्वपि तस्याक्रियां को नाम वारयितुं क्षमः । योऽपि स्वर्णमुपलभ्य मृत्तिकेति ब्रूयात् कस्तस्योत्तरं ददाति । किमिति तर्हि भाष्यकारः शिष्टविगर्हणमुपन्यस्यति (सनिश्चयं) ? ?Rअयमभिप्रायो भाष्यकारस्य - योऽपि लौकिकशास्त्रावगतिमविद्वान् फलाभावे न करोति तस्यापि मृढात्मनो विद्यत एव लौकिकं शिष्टविगर्हणं प्रवृत्तये । तस्मान्नायमपह्णोतुं शक्यते वाक्यार्थः ‘?Rकलञ्जभक्षणं न कुर्यात्’?R इति ।
?R?0 तस्मिंस्तु शिष्यमाणानि जननेन प्रवर्तेरन् ॥ 6 ॥
?R इदमत्र चिन्त्यते - किमनुगमनादिना आचारगणेन जातमात्रोऽधिक्रियते उत उपनीत इति । एतदुक्तं भवति-किं जननमेवाधिकारिविशेषणं उतोपनयनमिति । तत्र पूर्वपक्षवादी मन्यते - स्वर्गादेस्तावत् अधिकारिविशेषणता नोपपद्यते;?R दृष्टार्थत्वात् आचारगणस्य, आधानस्येव । तस्मात् सामर्थ्यमेवाधिकारिविशेषणम् । ननु चैवं सति न जातमात्रस्याधिकारः स्यात् । एदतुक्तं भवति - नोपनयनमपेक्षते ।
?R एवं प्राप्तेऽभिधीयते-उपनयनोत्तरकालमेवाधिक्रियत इति । का युक्तिः ??R स्वाध्यायाध्ययनोत्तरकालं वैदिकैः पदार्थैरधिक्रियते वैदिकश्चायमाचारगण इति स्मृतिपादं उक्तम् । स्वाध्यायाध्ययनं तु उपनीतस्य । भवतु स्वाध्यायाध्ययनमुपनीतस्य । पदार्थास्तु यथा यस्यावगम्यन्ते तस्यैव ते न भवन्ति यथा निषादस्थपतेः इष्टिः । ननु च तत्र स्वध्यायविरोधादेवमभ्युपगतम् । इह तु स्वाध्यायाविरोधात् (कामिनामिव) अधीतवेदानोमेवाधिकारो भविष्यति कामिवत् । अयुक्तमिदम् । तत्र हि अधीतवेदसंभवे न मन्त्राध्ययनप्रयुक्तौ प्रमाणमस्ति विदुषां कामिनामित्युक्तम् । इह पुनरमन्त्रसाध्यत्वात् आचारगणस्य नैतच्छक्यते वक्तुम् । किञ्च न चोपनीतमात्र एवाधीतवेदो भवति । तदुपनीताधिकारे वैदिकत्वप्रदर्शनं शङ्क्यमेव ।
?R अत्रोच्यते । अयमभिप्रायो भाष्यकारस्य - प्रागुपनयनाद्विधयः पितुः दार्विहोमिकस्य वा उपलभ्यन्ते उपनयनं चाचार्यस्य तदुत्तरकालं तु संस्कृतविषया वैदिकविधयः श्रूयन्ते तन्मूलाश्च स्मार्ता अपीति तेऽपि तदुत्तरकालभाविन एवेति भगवान् भाष्यकारो मन्यते । तस्मात्सूक्तमुपनीतस्याधिकार इति ।
?R ?R?0अभ्यासोऽकर्मशेषात्वात् पुरुषार्थो विधीयते ॥ 7 ॥
?R अस्मिन्नधिकरणे सर्वशक्त्यधिकरणे स्थिते भवति संशयः - किं कालशून्यः शौचशून्यश्च प्रयोगो जीवननिमित्ततया कर्तव्यः उत नेति । तत्र पूर्वपक्षवादिनोऽभिप्रायः - निमित्तबलेनाङ्गत्यागोऽभिहितः । तस्माद्यावन्निमित्तं प्रयोगः (जुहुधि जुहुधि ) इत्येव होतव्यमिति । ननु चाहारविहारकाले न शक्यते प्रयोगः कर्तुमिति । यथा शक्यते तथाऽभ्यसनीयः शौचमप्यङ्गमेव । अतः शौचपरित्यागेनापि प्रयोगः कर्तव्यः ।
?R अत्रोच्यते-नाभ्यासापेक्षं शास्त्रं शक्तस्यापि निमित्तावगमोपपत्तेः । प्रतिपन्ने हि निमित्तेऽङ्गत्यागोऽभिहितः तस्मिन्नधिकरणे । इह पुनः निमित्तमेव नाभ्यासापेक्षं प्रतीयते तदभावेऽपि निमित्तावगमात् । एवं तर्हि कालशून्यं क्रियताम् । नेति ब्रूमः । कालशून्यमपि निमित्तं नैव प्रतीयते नित्ययुक्तत्वात् कालस्य । ननु च सर्वाण्येवाङ्गानि नित्ययुक्तानि । सत्यं नित्ययुक्तानि, न पुनरङ्गान्तरत्यागेन प्रतीयन्ते । कालः पुनः कालान्तरत्यागेन निमित्तमवगमयति शौचमिव । तस्मान्न कालशून्यनिमित्तमवगच्छामः । न चानवगमनिमित्तं भवितुमर्हति । भाष्यकारस्तु कालमेव निमित्तमाह ‘?Rन कालो गुणो निमित्तं ह्येतत्’ ?Rइति । तच्चायुक्तम् । जीवनस्य निमित्तत्वात् । काम्ये प्रयोगे कालस्योपादानं न स्यात् अनङ्गत्वात् तस्मादयमत्र भाष्यार्थः-न गुणः कालः निमित्तमनवच्छिन्दन्नित्यर्थः । आत्मकालं जीवनं निमित्तत्वेनावगमयत् निमित्तमिति उक्तनिमित्तं ह्येतदिति ।
?R?0तेषामौत्पत्तिकत्वादागमेन प्रवर्तेत ॥ 8 ॥
?R कथं पुनरत्र पूर्वपक्षः यावता निमित्तस्यावृत्तौ नैमित्तिकस्य भवितव्यमित्यागते काल इति युक्तम् । एवमत्र पूर्वपक्षः कालानुरोधेन निमित्तावगतिः । अंङ्ग च कालः सकृदनुष्ठानेन कृतमङ्गशास्रमिति निमित्तमपि तथैव तदनुरोधित्वात् । राद्धान्तस्तु नैतद्युक्तम् सकृदेवानुष्ठानं कर्तव्यमिति उत्पद्यमानं हि कर्म कालसंयुक्तमेवोत्पन्नमिति तत्कालीनं जीवनमवगमयतीति निमित्तमित्युक्तं न पुनर्विधेयतामपि निमित्तस्यापादयति । अविहिते च कुतः शास्त्रार्थं इति न शक्यते वक्तुम् । तस्मात्तत्कालीनं जीवनं निमित्तभृतं पुनः पुनः शास्त्रार्थानुष्ठानं प्रयुङ्क्ते । आगते आगते कालेऽनुष्ठानं कर्तव्यमिति सूक्तम् । लिङ्गमुक्तम् ।
?R ?R?0तथान्तः क्रतुप्रयुक्तानि ॥ 9 ॥
?R केन पुनर्विशेषेणवेदं पुनरतिदिश्यते । तस्य हि असति विशेषे न तुल्यता भवति । अयमस्ति विशेषः क्रत्वर्थत्वाद्भेदनादिनिमित्तानां होमानां सकृत्कृतेनैव प्रयोगवचनोपकारसिद्धेः कुतोऽधिकार इति पूर्वपक्षवादी मन्यते । सत्यमेवं क्रतूपकारायैवानुष्ठानं तथापि पुनः पुनः भेदनाद्युत्पत्तौ न पुनः पुनरधिकारं वारयितुं उपकारो न क्षमः । ननु च तथापि निष्प्रयोजनत्वात् किमधिकारः करिष्यति । न निष्प्रयोजनता । अधिकाराद्धि प्रयोजनं न प्रयोजनतोऽधिकार इत्युक्तम् । तस्माद्यवदधिकारमत्रापि पूर्ववत् प्रयोगः । इयांस्तु विशेषः यावत्प्रधानप्रयोगं हि सः तदधिकारत्वादस्याग्रिहोत्रादिभिः नैमित्तिकानाम् ।
?R?0 ॥ 10 ॥आचारात् गृह्यमाणेषु तथा स्थात् पुरुषार्थत्वात् ॥ 30 ॥
?R गुर्वनुगमनादिषु नागमनमधिकारिविशेषणमिति मन्यते पूर्वपक्षवादी । गुरुमागतमभ्युत्थानेन प्रीणीयादिति विधानं मन्यते । सकृच्च कुतं प्रीणनमिति कृतः
?Rशास्त्रार्थः ।
?R न ह्यधिकारिविशेषणत्वादृते निमित्तता संभवतीति तद्वदित्यतिदेशः ।
?R?0॥ 11 ॥ ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात् ॥ 31 ॥
?R ननु चात्र पूर्वपक्ष एव नोपपद्यते न हि वचनमदृष्ट्वा पूर्वपक्षः वचनेन राद्धान्त इति युक्तम् । अत्रोच्यते । यावच्जीवनादीनामधिकारिविशेषणत्वानुपपत्तेः अधिकारिशून्यतया विश्वजिदादिवदधिकारोऽप्यध्याहार्थः इति पूर्वपक्षवादी मन्यते । का युक्तिः ??R अनिष्पन्नस्य वस्तुनोऽधिकारिविशेषणभावो नोपपद्यते । कस्मात् ??R साध्यं सिद्ध वा पारलौकिकतया संबध्यते । ततः किं ??R इदं ततो भवति - सिद्धं निष्पादकतया संबध्यते । साध्यं फलतयेति । जीवनं सिद्धम् । तस्मात् साधनभाव एव युक्त इति मन्यते । राद्धान्तस्तु ऋणदर्शनमवश्यकर्तव्यतां सूचयति जीवनमधिकारिविशेषणतया ज्ञापयति । ननु च सिद्धस्य साधनभावाद्दते संबन्धो नोपपद्यते इति किमत्र दर्शनं करिष्यति । अत्रोच्यते उक्तमस्माभिः स्वर्गकामाधिकरणे न कर्तुः नियोग इति । नियोज्यश्च साध्यं यावच्छब्दादित्युक्तम् । तस्मान्न साध्यता नियोगे नियोज्यविशेषणत्वे हेतुः । नियोज्यविशेषणं चाधिकारिविशेषणमित्युक्तम् । ऋणदर्शनसामञ्जस्यं चान्यथा नोपपद्यत इत्युक्तम् । तम्मान्नित्यान्येवैतानि कर्माणि निमित्तनित्यत्वादिति सिद्धम् । अथवा ऋणवाक्ये ब्राह्मणशब्दश्रवणात् ब्राह्मणस्यैवाधिकारः ब्राह्मणस्यैवैतानि कर्माणीति पूर्वपक्षवादी मन्यते विध्युद्देशे ब्राह्मणशब्दश्रवणाभावात् अस्य चार्थवादस्यान्यार्थत्वात् यथाधिकारं व्याख्या युक्ता । नैतद्वशेनाधिकारः ।
?R?0इति बृहत्यां षष्ठाध्यायस्य द्वितीयः पादः
?R
?R?0षष्टाध्यास्य तृतीयः पादः ॥
?R ?R?0सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् ॥ 1 ॥
?R अस्मिन्नधिकरणे गम्भीरस्य न्यायमहाहृदस्य उपरि बहवो लघुघियः प्लवन्त इति न्यायविचारमेव तावदादितः आरभामहे -
?R तत्र तावत् ?R?0केचित् ?R?0एवं चोदयांबभूवुः - यथा जीवनादिकमधिकारि- विशेषणं तथा सकलसाङ्गप्रधानकर्मकलापानुष्ठानसामर्थ्यमपि । तत्र यस्तावत् कार्त्स्न्ये यत्प्रयोगमुपसंहर्तुं प्रभवति तद्विषयो नायं विचारः - किं अङ्गत्यागेनाप्यनुष्ठानं कर्तंव्यं उत नेति । यस्तु न प्रभवति तस्यानधिकार एव शूद्रस्येवाग्निहोत्रादौ ।
?R यदपि चैके समाधानधियाऽभिदधति न - प्रवृत्तावेवेदं यथाशक्त्यनुष्ठानमुच्यते । किन्तु प्रवृत्तस्य । तेन सर्वाङ्गोपसंहारसामर्थ्येनादावधिकृतस्य यद्यन्तरा शक्तिः व्यापाद्यते तदा प्राक्तनाधिकारदार्ढ्येनानुष्ठानं परिसमाप्यत एव । अत एव नित्येष्वग्रिहोत्रादिषु शूद्रादीनां नानुष्ठानम् । अधिकारसमधिगमसमय एव तेषामशक्तत्वादिति ।
?R ?R?0तदपि ?R?0जातुषमिवाभरणं विप्रतिपन्नजनमनीषानलशिखा(यां) विलीयते । त्तथाहि - अधिकारिविशेषणयोगात् अधिकारी, प्रवर्तते च । आप्रयोगापवर्गं चाधिकारानुवृत्तिरनुष्ठानसमाप्तयेऽभ्युपगमनीया । अन्यथा हि निवृत्ताधिकारस्यानुष्ठानं न शब्दतः, नाप्यन्यतः प्रमाणात् स्यात् । तत्र मध्ये प्रयोगेऽपि सत्यामशक्तौ शक्तेरधिकाराशनिवेशित्वान्निवर्तत एवाधिकारः । निवृत्ताधिकारस्य च किन्निबन्धनमारब्धप्रयोगपरिसमापम् । शिष्टविगर्हणाभयादिति चेत् ;?R तर्हि नैमित्तिककाम्ययोः न कश्चद्विशेषः । निमित्तपर्यन्तेषु चेदमधिकरणमित्याचार्याः । तस्मादारम्भसमये प्रयोगमध्ये वा शक्तिविरहिणामधिकाराभावादनुष्ठानमयुक्तमिति ।
?R ?R?0यदपि कश्चिदाह -?R?0 यन्नित्यं कर्तव्यं तत् सर्वाङ्गयुक्तमिति असंभवान्नित्येषु यथाशक्त्यनुष्ठानमेव शास्रार्थः । तेन सर्वाङ्गोपसंहारसामर्थ्यं विनापि नित्येष्वधिकार इति
?R ?R?0तदिदं ?R?0मीमांसातन्त्रमनाद्रियमाणस्य स्वमनीषिकाकल्पितम् । यथाहि यथाविनियोगमधिकार इति न्यायस्यावगतिर्नास्ति । तेन जीवतोऽपि यच्चोदितं तत् यस्यैव चोदितं तत् तस्यैवावश्यकर्तव्यमिति नान्यस्य। नित्यान्विताङ्गयुक्तं च कर्म अनुष्ठानोपसंहारसमर्थस्यैव तदवश्यं कर्तव्यम् ; ?Rअशक्तस्य किमायातम् । न चासंभाव्योऽयं शास्त्रार्थः कदाचित् सर्वाङ्गोपसंहारशक्तिसंभवात् । अन्यथा काम्यानां कर्मणामनवकाशत्वापातादिति यावत् । यत्किञ्चिदेतत् । यदि च यो यावच्छक्नोति नित्यकर्मणि तस्य तावदेव चोदितमिति स्यात् तदा शूद्रादीनामग्निविद्यावियोगित्वात् तद्रहितमेवानुष्ठानं चोदितमिति तेषामप्यग्निहोत्रानुष्ठानं स्यादिति सकलाचारविरोधः ।
?R ?R?0तथेदमपरे ?R?0वदन्ति - इह च निमित्तपर्यन्तेषु फलं नास्तीति न तत्प्रयुक्तमनुष्ठानं तथापि नियोगसिद्धिं प्रति विवादाभावात् स्वसिद्ध्यर्थं नियोग एवानुष्ठानमाक्षिपतीति समाश्रयणीयम् । अन्यथा तदसिद्धेः । नियोगसिद्धिस्तु यथाचोदितकृत्स्नानुष्ठानलभ्येति कृत्स्नस्यैवानुष्ठानमाक्षिपति न विकलस्य । न चेदमाश्रयितुं युक्तम्मकदाचित्सकलस्य साधकत्वं कदाचिद्विकलस्येति । सकलस्यापि कलापस्याधिकारविधिना युगपद्गृहीतत्वात् । तथा गृहीतस्य साधकत्वकल्पनात् । यदि विकलस्यापि साधकत्वं तदा अङ्गवत् प्रधानमपि परित्यज्य किमित्यनुष्ठानं (न) स्यात् ।
?R अपि च काम्येषु कर्मसु कस्माद्विकलानुष्ठानं नेष्यते । फलसिद्धेरिति चेन्न, नियोगायत्तत्वात्फलसिद्धेः । नियोगादेव कालान्तरभाविफलमिति मीमांसकप्रवराः प्रतिपेदिरे । यदि च विकलादेव नियोगसिद्धिः अत्रापि किं न स्यात् । अथात्र सकलसाध्यत्वं नियोगस्याश्रीयते, नित्येष्वपि किमयं नियोगो राजाज्ञया निर्वासितः
? ?Rतदिदमधिकरणं श्रद्धाविप्रलब्धमतीनामेवादरणीयमिति ।
?R अत्र प्रभाकरसेवाहेवाकजडिमानमारचयन्ति । सत्यं शक्तिरधिकारिविशेषणं तथाप्येषा चिन्ता युज्यत एव । द्विधा हि पुमांसः तिरोहितशक्तयश्चातिरोहितशक्तयश्च । तत्र (ये) अतिरोहितशक्तयः तेषां यद्यपि शक्तिरस्ति (तथापि) (तेषां) ते प्रतिबन्धकवशात् शक्तिफलमनुष्ठानं न लभन्ते । कथं पुनस्तेषां शक्तिरस्तीति गम्यते ??R फलगम्या हि सा फलाभावे किं तस्यां प्रमाणम् ??R अत्राभिधीयते - य एव प्राक् कार्यं कुर्वन्नुपलब्धः स एव पुनरन्तरा न कृतवान् । पुनश्च कारणान्तरसमुपनिपाते कुर्वन्नुपलभ्यते । तत्र किं शक्तेर्नाशोत्सादौ कल्प्येयाताम् उत तिरोधानतद्विगमाविति । तत्र धर्मिकल्पनातो धर्मकल्पना लघीयसीति पृर्वशक्तिविनाशपुरस्सरो न शक्त्यन्तरोपजनः कल्प्यते । किन्तु अन्तरा कार्यानुदयदर्शनात् प्रतिबन्धमेव मन्यामहे । पुनरेव कार्योदयदर्शनात् तदपगम एव कल्पनामर्हति । तस्मादनुष्ठानाभावेऽपि तिरस्कृता शक्तिरस्तीति सुगममेतत् । तत्र शक्तेरधिकारिविशेषणत्वात् तिरोहितायामपि च सद्भावाविशेषात् तिरोहितशक्तीनामप्यधिकारो भवत्येव । अनुष्ठानात्प्राग्भाविनी हि दशा पुरुषस्याधिकारविशेषणम् नानुष्ठानमेव, तस्याधिकारायत्तत्वात्, प्रागधिकारादसंभवात् । तेन शक्तिरेवाधिकारिविशेषणम् । सा च तिरोहितशक्तीनामप्यस्ति इत्युक्तोऽधिकारः । ये तु स्वभावत एवोक्ताः शूद्रादयः अत्यन्तोच्छिन्नशक्तयः नान्धादयः तेषां शक्त्यभावादेव नाधिकारः । तत्र ये तिरोहितशक्तयः तेषामधिकारे सति कस्यचिदङ्गस्यानुष्ठानाभावे सति किमधिकारदार्ढ्यसद्भावादनुष्ठानं भवतु उत अङ्गासद्भावादननुष्ठानं (तेषां शक्त्यभावादेव नाधिकारः । तत्र ये तिरोहितशक्तयः तेषामधिकारे सति) इति चिन्ता । सा चेयमुपक्रमे प्रयोगमध्ये च तुल्या ।
?R तत्र पूर्वपक्षवादी मन्यते - यद्यपि प्रतिबद्धशक्तीनामधिकारो भवति तथाप्यसौ निवर्तत एव साधनवैकल्यात् । कृत्स्नानुष्ठानसम्पाद्यो निमित्तपर्यन्ते
?Rविनिर्योगः प्रतीयते । यदा च कुत्स्नमनुष्ठीयते तदा विकलत्वात् साधनस्य नियोगसिद्धिर्नास्ति तदभावाच्च न पुरुषस्याधिकारः । नियोज्यसंबन्धिनियोगलक्षणे कार्ये साधनतया कर्मणामधिकार इत्युत्पन्नाप्यधिकारप्रतीतिः विलयमुपैति । यदि नित्ये विकलादपि नियोगसिद्धिः तदा कार्येऽपि तथा स्यादिति । तथा प्रधानपरित्यागेनापि अनुष्ठानं प्राप्नोति अङ्गैस्सह साधनत्वे प्रधानस्याप्यविशेषादिति ।
?R राद्धान्ती त्वाह - सत्यमधिकारो यावदधिकारविधिना प्रयुज्यते तावतैव विनियोगार्थनिर्वृत्तिः न यावद्विनियुक्तं तावतैव ; ?Rबाधवत् । सर्वेषामङ्गत्वे सत्यपि केषा ञ्चिदङ्गानां बाधे यावन्त्येवाधिकारविधिनाऽनुष्ठाप्यन्ते तावद्भिरेव तत्सिद्धिः तथेहापि अधिकारविधिरेव साधनभावमुपकल्पयति न प्रमाणान्तरम् । तेन यावत्प्रयुङ्क्ते तावतैव तत्सिद्धिं गमयति । यथासंभविनश्च प्रयुक्तिः नासंभविनः । तेन सत्यधिकारे यावत्संभवं प्रयुक्ताङ्गसम्पाद्य एवाधिकारविधिः निमित्तपर्यन्तेष्विति कल्प्यते ।
?R यत्तूक्तं - काम्योऽपि तथा स्यादिति । तत्र ब्रूमः - काम्ये फलपर्यन्तान्वयित्वात् अधिकारस्य फलं प्रति करणीभूत एव यागादिर्विषयः । नचेतिकर्तव्यतारहितस्य फलं प्रति करणताऽस्ति । कृत्स्ना चेतिकर्तव्यता । तेनैकदेशाभावेऽपि इतिकर्तव्यतया शुन्यतया करणत्वानुपपत्तेः अकरणीभूतस्य विषयत्वमिति । इतिकर्तव्यताविरहे केवलविषयात् विषयाभावे च नियोगाभावात् तदभावे चाधिकाराभावात् नानुष्ठानसिद्धिः । अत एव प्रधानपरित्यागेऽप्यनुष्ठानं स्यादिति नाशङ्कनीयम् । नित्येषु फलान्तरा भावात् न करणीभूतस्य विषयत्वमिति इतिकर्तव्यताविरहे केवलविषयप्रत्यभिज्ञानात् नियोगापत्तेः अधिकारो युक्तः । तद्बलेन चानुष्ठानमपीति ग्रन्थार्थः ।
?R?0 निमित्तपर्यन्तमत्राधिकारं चिन्तयत्याचार्यः ?R?0इति काम्येषु नेयं चिन्तेति दर्शयति । चिन्तास्वरूपमाह - ?R?0किमङ्गैरनुपसंह्वियमाणैः निमित्तत्वमेवापैति
?Rकिमङ्गैरनुपसंहियमाणैः कृत्स्नानुष्ठानसाध्यस्य विध्यर्थस्य असिद्धेः अधिकाराभावाज्जीवनादेः (न) निमित्तत्वमेवापैति सत्यपि तस्मिन्नननुष्ठानात् । (उ) त निमित्तत्वं ना(न्ना)पैति अनुपसंह्रियमाणैरप्यङ्गैः उक्तेन न्यायेन नियोगेन नियोगार्थसिद्धेरधिकारे सति निमित्तत्वमनुष्ठाने युज्यत एव ।
?R स्ववचनमेव विवृणोति - ?R?0एतदुक्तं भवति - किमधिकारावगमो भवति । उताधिकारानवगमात् कथञ्चिदनुष्ठानमिति ।
?R?0 ?R?0यदाऽधिकारावगमो भवति तदा निमित्तत्वमेवापैति । यदा तु अधिकारानवगमात् कथचिदनुष्ठानं तदा निमित्तत्वं नापैति । ननु च यदाऽङ्गानुष्ठानसंभवः तस्याधिकार एव नास्ति । यस्य चाधिकारः तस्य च कृत्स्नानुष्ठानमेव संभवतीति चिन्तेयं न ज्ञायते कीदृशी(ति) तदाह -
?R ?R?0ननु च संशय एवायमप्रकटीकृतार्थः इति । अयं प्रकट्यते - सर्वाङ्ग विशिष्टे कर्मणि अधिकृतस्य कदाचित् प्रयोगशक्तौ सामर्थ्यानपगमेऽपि चिन्तेयमिति विषयविशेषप्रदर्शनेनैव संशयो व्याख्यातः ।
?R?0 ?R?0यस्य मामर्थ्यं नापगतं तस्य सर्वाङ्गविशिष्टे कर्मण्यधिकृतस्य प्रयोग(ा) शक्तौ किं निमित्तत्वमेवापैति उत नेति चिन्ता । कथं पुनः सामर्थ्यानपगमोऽशक्तिश्च । शक्तिरेव हि सामर्थ्यम् । तेन सामर्थ्यमनपगतं अशक्तिश्चेति परस्परविरुद्धम् । समाधते ।
?R?0 दैवान्मानुषाद्वापि तिरस्कारादशक्तिः न पुनराजानतः, स्वभावशक्तिरस्त्येवेति सामर्थ्यानपगमो वर्ण्यते ।
?R दैवाद्रोगादेः मानुषात् अभिघातादेः शक्तेस्तिरस्कार इति असक्तिरित्युच्यते । एतत्तु प्रागुक्तमेव । तस्मात् कदाचिदशक्तिरिति सुक्तम् । ननु तिरस्कारेऽपि शक्तेः अनधिकार एव अत्राह ।
?R?0 सामर्थ्यं चाधिकारहेतुः नोपधानव्यपेक्षम् ।
?R सामर्थ्यं स्वाभाविकमेवाधिकारिविशेषणं न पुनः उपधानसापेक्षम् । उपधान शब्देन उपाधिभूतं वस्त्वभिमतम् । प्रतिबन्धापगमं चिकित्सादि । अप्रतिबन्ध च सामर्थ्यं नाधिकारहेतुः किं तर्हि स्वभाविकम् । न हि कार्यात् प्राक् अप्रतिबन्धता शक्तेः शक्यते वक्तुम् । कार्यं चानुष्ठानमेव । तेन सत्यनुष्ठाने अप्रतिबन्धशक्ति निश्चये सति अधिकारः, अधिकारे चानुष्ठानमिति इतरेतराश्रयता स्यात् । तस्मात् स्वभाविकी शक्तिरधिकारिविशेषणम् । अधिकृत एव प्रतिबन्धविगमावपि तथा । यथा नयनाच्छादनपक्ष्मविगमः(मौ) आज्यावेक्षणादिषु इति भवति संशयः किमुपधानाद्रोगादेः प्रवृत्तिशक्तिरिवाधिकारोऽपि विरुध्यते उत उपधिनिरपेक्षत्वात् अप्रवृत्तावप्यधिकृत एवेति । अत्र पूर्वपक्षवादी पश्यति -
?R ?R?0सत्यमनुपाधिकमेवाजानतः स्वभावत एव यत्सामर्थ्यमनुपाधिकं अनपेक्षितप्रतिबन्धविगमं अधिकारहेतुः किन्तु प्रवृत्त्यर्थत्वात्तस्य उपाधिविहताया अपि प्रवृत्तेः हेतोरकिञ्चित्करं विद्यमानमपि ।
?R?0 ?R?0अस्यार्थः - सामर्थ्यस्य प्रवृत्तिः प्रयोजनम् । तत्र यदि सत्यपि सामर्थ्ये प्रवृत्तिर्नास्ति तदा विद्यमानं अकिञ्चित्करम् . तस्मिन् सत्यपि प्रतिबन्धवशेन प्रवृत्त्यनुपपत्तेः । असत्यां प्रवृत्तौ कृत्स्नानुष्ठानस्य संपादनीयस्य विध्यर्थस्यासिद्धेः निवर्तत एवाधिकारः । तस्मात् सर्वाङ्गोपसंहारेणैव (अङ्गीकरणी)या प्रवृत्तिः । अत्रै वाधिकारकार्यस्य नियोगस्याभिनिर्वृत्तिः नैकदेशप्रयोगात् अन्यथा को विशेषः फल पर्यन्तेष्वधिकारेषु ? ?Rअसावपि फलपर्यन्तोऽधिकारः अनौपाधिक एव उपाधिनिरपेक्ष एव । न च प्रवृत्त्यशक्तौ कार्यक्षमो भवति, तथाभूते सकलाङ्गयुक्तेऽधिकृतत्वात् ।
?R?0 अत्राभिधीयते । फलपर्यन्ते विशेषं वक्ष्यामः निमित्तपर्यन्तेष्वधिकारानप(व)गमो वर्ण्यते प्रवृत्तावशक्तावपि । यदि प्रवृत्तावशक्तिः कथं तर्हि वर्ण्यते । इत्थं वर्ण्यते अनौपाधिके अधिकारावगमे हि निमित्तत्वमपह्नोतुं शक्यम् । भवति हि अशक्तेरौत्पत्तिक्याः शुद्रादीनां
?R?0नाधिकारः न पुनः स्वाभाविकसामर्थ्यवशेनोपजातस्याधिकारस्य प्रतिबन्धवशेनाशक्तेरधिकारविघातः(म्) ।
?R?0 तस्मादनपगताधिकारस्य यथाशक्त्यनुष्ठानमनुष्ठानविदो मन्यन्ते एवं यथाशक्त्यनुष्ठानं नित्येष्वस्ति ।
?R?0 अत एवात्र नित्याधिकारे गौणो मुख्यश्च शास्रार्थ इत्याचक्षते मीमांसकाः ।
?Rचोदयति -
?R?0 किमिदं कूश्माण्डभूतं प्रलप्यते असंबन्धं, एकदेशस्य शास्रार्थस्य गौणत्वं मुख्यत्वं चेति ।
?Rपरिहरति -
?R?0 भवानेवात्र प्रलापी ।
?R?0 ?R?0न मीमांसकाः प्रलापिनः । ?R?0कथ?R?0मिति पृच्छति । उत्तरं - ?R?0अविहन्यमाने हि अशक्तावप्यधिकारे यावच्छक्त्या चानुष्ठाने प्रतियमाने अर्थाक्षिप्ते च संभवति श्रौतापाये च नोपादानं विरुध्यते ।
?R?0 ?R?0ननु यदि श्रौतं त्यज्यते तदाऽपरमपि किमिति न त्यज्यते इत्यत्राह-
?R ?R?0यावदशक्तिस्तावन्नोपादीयते । तथापि शक्यत्यागेषु न किञ्चन प्रमाणमस्ति शक्योपादान (इव) इति ।
?R?0 ?R?0अनेन हि यथाशक्त्यवगमो हेतुः । तेन किञ्चित्त्याज्यं किञ्चिच्चोपादातव्यम् । पुनश्चोदयति - ?R?0गौणस्य किमायातम् ।
?R?0 ?R?0भवतु अर्थस्य किमायातं ??R यद्यप्यर्थान्नीवारादि उपादीयते तथापि कथं गौणत्वं ?
?R?0परिहरति-
?R ?R?0तदेव हि आर्थमभ्युपगम्य न शक्यते उपादातुं ?R?0यावत् गौणता व्रीहिशास्त्रार्थस्य नोच्यते तावन्नीवाराणां नोपादानं संभवति । ननु च
?Rकिञ्चिद्विकलव्रीहिशास्त्रार्थग्रहणेनापि कर्मसिद्धेः कथं गौणतेत्यत्राह
?R न ही नीवाराणां न प्रतीत्या भूयोऽवयवसामान्यमुपपद्यते । नीवारानेव ह्युपाददानः भूयोवयवसामान्योपादानं शक्नोति कर्तुं नान्यथा । नीवारेषु वोपादीयमानेषु सिद्धं गौणत्वम् । तस्मात्सुष्ठूच्यते गौणो मुख्यश्च शास्रार्थ इति ।
?Rअन्यत्र कथमिति अत्राह -
?R ?R?0आरादुपकारकाङ्गहानेऽपि कस्यचिच्चोपादानात् सदृशबुद्धिर्भवति ।
?R?0 ?R?0अभिन्नेऽपि धर्मिणि यथा (लोके) (योगे) कस्यचिदनेकगुणसंभृ(भू)तस्य द्दष्टस्य पुनः कालान्तरे कैश्चिद्गुणैर्वियुक्तस्य द्रष्टारो भवन्ति वक्तारः स इवायं दृश्यत इति । अवस्थावतोऽभेदेऽप्यवस्थानां भिन्नानां सादृश्यमुपपद्यत एवेति । तस्मादुभयं सिद्धंगौणमुख्यता यथाशक्त्यनुष्ठानं च । दर्शनमुक्तम् । ‘?R?0तदेव यादृक्कीद्दक्च होतव्यं’ ?Rइति वचनमिदं कस्मान्न भवति येन दर्शनमुच्यते । ?R?0उत्तरं - ?R?0(स) (न) यादृक्कीद्दक्शब्दार्थौं विधातुं शक्येते विहितापेक्षत्वादनयोः ।
?R विहितद्रव्यमपेक्ष्य यादृक्कीदृक्शब्दार्थौ विधेयौ नान्यथा । तत्र यदि तावत् द्रव्यं विशिष्टमेव विहितं तदा न यादृक्कीदृक्शब्दार्थौ विधातुं शक्येते । अथ द्रव्यमात्रं विहितं न विशेषः तदापि प्राप्तत्वाद्विधानं नोपपद्यते । तस्मात् न्यायानुवादाविति सूक्तम् ।
?R?0काम्येषु चैवमर्थित्वात् ॥ 2 ॥
?R नन्वेकादशे दर्शितं कामाधिकारे सकलाङ्गोपसंहार एव कर्तव्य इति । किमपरमिह चिन्त्यत इति । अत्राह -
?R ?R?0इह विकृतयः उदाहरणम् । एकादशे यदधिकरणं तत्प्रकृतिविषयम् ।
?R?0 ?R?0इह तु विकृतिषु चिन्ता केन विशेषणेन ??R उत्तरं -
?R ?R?0न ह्यत्राङ्गोपदेशः । किं तर्हि ??R कार्यतो हि संबन्धः ।?R?0 विकृतिषु अङ्गानि नोपदिश्यन्ते । किन्तु कार्येण करणोपकारलक्षणेनाभिसंबध्यन्ते ।
?R ?R?0कश्चैवं सति विशेषः ??R अयमस्ति विशेषः । उपदिष्टे हि कर्मण्यधिकारः । उपदेशावगतिपुरस्सरोऽतिदेशः । विकृतिषु च प्रधानमात्रमेवोपदिश्यते । अतः कार्याभिसंबन्धानामङ्गानां कदाचिदनुष्ठानाशक्तेः अधिकारो निवर्तते इति शक्यते वक्तुं उपदेशविषयत्वादधिकारस्य ।
?R?0 ?R?0उपदिश्यत इत्युपदेशः । एवं चौपदेशिकस्याधिकारस्य न सङ्कोचः कृतो भवति । क्रियतां को दोष इत्यत्राह -
?R?0 न हि कार्येण करणोपकारलक्षणेन प्राकृतान् पदार्थानतिदिशता प्रमाणभृतेनोपदेशस्य सङ्कोचो न्याय्यः उपदिष्टार्थसिद्ध्यर्थत्वात् कार्यस्य । उपदिष्टोऽर्थः कथं नाम सिद्ध्येदित्येवमर्थं कार्यं प्रमाणमाश्रीयते । तेन यदर्थमेव यज्जातं तस्य तेन सङ्कोचो (न)न्याय्यः । न हि गुणानुरोधेन प्रधानं सङ्कोचमर्हति ।
?R?0 ?R?0इदमत्राकूतम् - यद्यपि साङ्गप्रधानविशिष्टस्य नियोगस्य कार्यभूतस्य तदनुष्ठानयोग्यमेव संबन्धी भवितुमर्हति । आकाङ्क्षासन्निधियोग्यतानां सम्बन्धहेतुत्वात् । तथा च भवतु नाम तथाविधस्यैवाधिकार इति अयोग्यस्य नाधिकारः । यस्तु शक्त एव तिरोहितशक्तिः किञ्चिदातिदेशिकमङ्गमुपसंहर्तुं न शक्रोति तस्यापि विकृतिषु काम्यास्वपि नानुष्ठानमनुपपन्नम् । न च तत्रैवं शक्यते वक्तुं - फलं प्रति करणीभूतेष्वधिकारात् सेतिकर्तव्यताकस्य च करणत्वात् अङ्गाभावे करणत्वानुपपत्तेः विषयत्वाभावे चाधिकारासंभवात् अननुष्ठानमिति, उपदिश्यमानविषयत्वादधिकारस्येति ।
?R ?R?0अत्राभिधीयते - यदि कार्यनिरपेक्षोऽधिकारः फलपर्यन्तेषु स्यात् स्यादेतदेवम् ।
?R अस्यार्थः फलपर्यन्तेषु करणीभूतेषु अधिकारात् सेतिकर्तव्यताकस्य
करणत्वात् कार्येण च प्रमाणेन विना विकृतिष्वितिकर्तव्यताया अभावात्
?Rकार्यसमर्पितेति कर्तव्यतान्वयलब्धकरणभाव एवोपदिष्टे प्रधाने साधिकार इति आतिदेशिक्रोपसंहारेणानुष्ठानम् । यदि परं फलपर्यन्तेष्वपि करणोपकारनिरपेक्ष एवाधिकारः स्यात् तदैवातिदेशिकस्यापि अङ्गस्य त्यागः स्यात् । न चैतदस्ति तदाह - ?R?0यथा च सकार्य एव सकरणोपकार एव उपदेशोपदिष्टे प्रधानेप्यधिक्रियते फलार्थी तथा एकादशे वक्ष्यामः ।
?R?0 ?R?0काम्यनिमित्ताधिकारयोर्विशेषमपरमाह -
?R ?R?0यथा च निमित्तपर्यन्तेषु निमित्तापगमो माभूदिति विगुणमपि कर्तुं युक्तम् ।
?R अनुष्ठानं प्रतिनिमित्ततया प्रतीयते । यदि चानुष्ठानं न क्रियेत निमित्तत्वमेवापैति । न च तद्युक्तम् । (अतो) विगुणमपि कर्तुं युक्तम् । अनुष्ठानं प्रति निमित्तं फलाबगतिः अननुष्ठानेऽपि फलावगमाविरोधात् । प्रत्युत विगुणानुष्ठाने सा फलावगतिर्न संभवति साध्यत्वात् फलस्य साध्यस्य सेतिकर्तव्यताककरणायत्तत्वात् इति सर्वाङ्गोपसंहार एव अत्रापि विकृतिष्वपि न्याय्यः ।
?R?0क्रियाणामाश्रितत्वात् द्रव्यान्तरे विभागः स्यात् ॥ 3 ॥
?R ननु च गौणमुख्यत्वेशास्रार्थ इत्युक्तम् । न पुनस्तत्प्रत्ययादृतेऽनुष्ठानं संभवति यदि मुख्यशास्त्रार्थैकदेशोऽपि नानुगृह्यते तदा किमननुष्ठानेन । गौणवगतावपि तदित्येवानुष्ठाने हेतुः । तस्मात् तत्प्रत्यते यत्रः कर्तव्यः ।
?Rपूर्वपक्षमाह - ?R?0ननु चानुमानीकी क्रियेत्युक्तम् । स्वरूपाग्रहणे तु कथं तत्प्रत्ययः ।
?R?0 ?R?0अनुमानेन क्रियाऽवगम्यते अनुमानाच्च स्वरूपावगमे च प्रत्यभिज्ञाया अनुपपत्तिरिति कर्थं क्रियायां तत्प्रत्यय इति ।
?R राद्धान्तमाह - ?R?0शास्त्रावगम्यतया तत्प्रत्ययाभिधानं न स्वरूपेणेत्यदोषः
?R। यद्यप्यानुमानिकी क्रिया तथापि तस्य द्रव्यान्तरेण क्रियायाः तेनैव शब्देनाभिधानम् औपाधिकत्वेन शास्रावगम्यतया तत्प्रत्ययः न पुनः स्वरूपेणेत्यदोषः । शास्रावगम्यत्वं चानुष्ठानहेतुः न स्वरूपावगतिरिति सूक्तं शास्रार्थानन्वयित्वम् । ?R?0ननु स्वरूपे प्रत्यभिज्ञानं किमिति नोच्यत इति?R?0 सुहृभ्दावेन कथयति । स्वरूपप्रत्यभिज्ञानं तु न प्रत्यक्षादृतेऽस्तीति प्रथमपादे उक्तम् बुद्धिकर्मणी अभिहितेऽप्रत्यक्षे इति ।
?R अत्र यदि शास्रावगम्यतया तत्प्रत्यभिज्ञाभिधानं ?R?0कथं तर्हि स्वे स्वे प्रमेये (न) (तेन) तेन प्रमाणेन प्रत्यभिज्ञाप्यस्तीत्युक्तम् । ?R?0भवति प्रत्यक्षेण प्रत्यक्षग्राह्ये शास्रावगम्ये च शास्रेणेत्यापतितम् । परिहरति -
?R ?R?0नैतदेवम् दर्शनान्तरस्य स्मरणपूर्विका हि प्रमितिः प्रत्यभिज्ञेत्युक्तम् । पूर्वदर्शनानुसन्धानेन प्रतीतिः सा प्रत्यभिज्ञा तदेवेदमिति ।
?R?0 ?R?0अनुमानादिषु पुनः न दर्शनान्तरपूर्विका प्रतीतिः, विषये लिङ्गादिमात्रभाव्यमनुमानादिकम् । तेन पूर्वदर्शनानुसन्धानं तत्र नास्तीति । प्रत्यंक्ष तु पूर्वदर्शनसंस्कारसचिवेन्द्रियजन्यतया पूर्वदर्शनानुसन्धानेनोत्पद्यत इति युक्तं प्रत्यभिज्ञानम् । अतो विषयान्तरानवगतिमात्रम् । अत्रोच्यते । न, प्रत्यभिज्ञाबलस्यैवंजातीयकस्योपाधिभूतत्वात् । शब्द एव परं तत्र प्रवर्तते न पुनः प्रत्यभिज्ञाऽस्तीति ।
?R ?R?0श्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वात् ॥4॥
?R ?R?0ननु सर्वशक्त्यधिकरणेऽयथाभूतमपि कर्तव्यमेवेत्युक्तम् । ?R?0तेन व्रीह्यादीनामपि परित्यागेनानुष्ठानमुक्तमेव । अतः कथमत्र पूर्वपक्षाशङ्का ? ?Rउत्तरं ?R?0तैनैवमुक्तम् ।?R?0 यथाश्रुतमपि कर्तव्यमित्येतावदुक्तम् । यदि श्रुतान्तरासंभवेऽपि श्रुतान्तरं कर्तव्यमेवेत्युक्तम् अथाप्येतदधिकरणं न कर्तव्यम् व्रीहिश्रुत्यर्थासंभवेऽपि पुरोडाशश्रुत्यर्थः कर्तव्य एव ।
?R एकदेशी समाधत्ते - ?R?0एवं तर्हि प्रयोजनमिदं तस्याधिकरणस्य ।
?R दूषयति - ?R?0प्रयोजनेऽर्थ्यमाने पूर्वपक्षेण किं ??R
?R?0 ?R?0कृत एवात्र पर्वः पक्षः । तेन प्रयोजनमिदं न भवति । परमसमाधाता आहय(दी)दं ?R?0सर्वशक्त्यधिकरणस्य प्रयोजनमात्रं न भवति एवं तर्हि कर्तव्य एवात्र पूर्वः पक्षः ।?R?0 स एवाह - ?R?0उक्तं द्वितीये शास्रान्तरतया द्रव्यविधयो नावगम्यन्त ?R?0इति । निरपेक्षसाध्यभेदे(वा)ऽनुबन्धभेदे वा शास्रान्तरता भवति । न द्रव्यविधीनां प्रधानविधिकार्यानपेक्षं कार्यान्तरमस्ति । न चानुबन्धभेदः । तेन शास्रान्तरता तावन्न शक्यते वक्तुम् । तथा द्वादशे वक्ष्यामः । ?R?0कार्येण विकल्पः न शास्त्रान्तरतया । ?R?0कार्येण विकल्पो वक्ष्यते । स न शास्रान्तरतया भवति । शास्रान्तरत्वे हि विकल्पानुपपत्तेः । कुतः ? ?Rकार्यान्यत्वे हि शास्रान्यत्वं नान्यथा । तेन शास्रान्यत्वे सति बलात् कार्यान्यत्वापत्तिः । एकार्थास्तु विकल्पेरन्नित्युक्तं (न) नानार्थानाम् । तेन शास्त्रान्तरता तावत् द्रव्यविधीनां नास्ति ।
?R ?R?0भवत्वेवं ततः किम् ? ?Rइदं ततो भवति - आग्नेयोऽष्टाकपालः ‘?Rव्रीहिभिर्यजेत’?R इति चैकं शास्त्रम् ?R?0एकश्च शास्त्रार्थः कार्यस्यानन्तरस्य श्रुत्यन्तरस्य त्यागोऽयम् यस्य श्रुत्यन्तरस्य त्यागेन श्रुत्यन्तरार्थोऽनुष्ठीयते ।
?R उपसंहरति - ?R?0तस्माद्युक्तं यत्समिधो ?R?0यजतीत्येवमाद्यर्थपरित्यागेना-?R?0 ?R?0ग्नेयोऽष्टाकपाल इत्यस्यार्थस्यानुष्ठानम् । अनुबन्धभेदेन शास्रभेदात् शास्रान्तरत्यागेनापि शास्रान्तरार्थस्यानुष्ठानं युक्तम् । युक्तमेव । व्रीहिभिर्यजेतेति पुनश्शास्रान्तरानुपपत्तेः तदभावे नानुष्ठानमिति पूर्वपक्षवादी मन्यते ।
?R ?R?0अत्राभिधीयते - सत्यं नेदं शास्त्रान्तरम् पुरोडाशशास्त्रात् व्रीहिभिर्यजेतेति । ?R?0यत एव शास्रान्तरं न भवति ?R?0अत एवानुष्ठानं पुरोडाशश्रुत्याऽस्तीति श्रुतद्रव्यपरित्यागेऽपि अनुष्ठानमुचितम् ।
?R?0 ?R?0यदि पुरोडाशश्रुत्यैव द्रव्यमाक्षिप्यते ?R?0किं तर्हि व्रीहिभिर्यजेतेत्पनेन क्रियते ।
?R उत्तरं - ?R?0नियमो व्रीहीणाम् । ?R?0पुरोडाशनियोगाङ्गत्वे निर्ज्ञाते नियोग-
?Rसिद्ध्यर्थतया व्रीहीणामेवोपादानम् अन्यसाधकतानवगमात् । अविहितेषु व्रीहिषु क्रियामात्रसिद्धये यत्किञ्चिद् द्रव्यमुपादीयत इति नियमः प्रयोजनं भवति । न हि नियमः शास्रार्थत्वं (कामं) विहन्ति पुरोडाशविधेः यदि हि नियमे सति पुरोडाशविधेः शास्रार्थत्वं विहन्येत तदा नियमाभावे परोडाशश्रुत्यर्थो नानुष्ठीयेत । न चायं (अ) शास्रार्थतां विहन्ति । कुतः ??R नियमो हि अनिर्ज्ञाते कार्ये आत्मानं लभते । न च शास्रादृते कार्यावगतिः । तस्मात्सिद्धं नियमाभावेप्यनुष्ठानम् । नियमनिरपेक्षत्वात्कार्यस्य नियममन्तेणापि शास्रस्यार्थवत्त्वात् । कथं नियमनिरपेक्षतेत्यत्राह - ?R?0नियमेन हि तदपेक्ष्यत इति । ?R?0अत्र न तेन नियमः । तस्मादशास्रान्तरत्वेऽपि तदभावे नियमाभावेऽनुष्ठानसिद्धिः । यत्पुनर्द्रव्यान्तरविधानमुक्तम् तत्परिहृतम् ।
?R?0 न देवताग्निशब्दक्रियमन्यार्थसंयोगात् ॥ 5 ॥
?R केन पुनः प्रसङ्गेनेदमधिकरणमायातम् । यदि तावत् द्रव्यगुणचोदनाभावेऽपि शास्रान्तरमपि प्रधानं कर्तव्यमित्युच्येत पूर्वेणैवाधिकरणेन गतमिदम् । अथैषामभावेऽकर्तव्यतामेव मन्यते तत् पूर्वाधिकरणेन सर्वशक्त्यधिकरणेन च विरुद्धम् । पूर्वाधिकरणे हि प्रधानशास्रार्थोऽनुष्ठेय इत्युक्तम् । तथा सर्वशक्त्यधि करणेन च विरुद्धम् प्रयाजादिकर्माभावेऽपि प्रधानं कर्तव्यमिति सर्वसक्त्यधिकरणे प्रतिपादितम् । उच्यते । सामान्यं तच्चिकीर्षा हि इत्यनेन सदृशे प्रतिनिधौ प्राप्ते तदपवादार्थमिदमधिकरणम् । केषु चिन्नेष्यते सदृशप्रतिनिधिः येषु च नेष्यते तानीमानि प्रत्युदाह्वियन्ते - न देवताग्निशब्दक्रियं इत्यनेन सुत्रेणैव सदृशप्रतिनिध्यपवादोऽयम् । अत एव कर्माप्यत्रोदाहरणम् । तत्रापि प्रतिनिध्यभावस्य संभवात् । येषां तु मते पूर्वाधिकरणोक्ते द्रव्यान्तरोपादाने तत्प्रतिषेधार्थमेवेदमधिकरणं तेषां मते कर्मोदाहरणमसंबद्धं स्यात् ।
?R ?R?0ननु च देवताभावेऽपि अननुष्ठानमेव प्रधानस्यापि मन्यन्ते केचित् ।
?Rतेन प्रतिनिध्यपवादमात्रता त्वत्र नास्तीति । किन्तु कर्मणो लोपप्रतिपादनार्थमेव । केचिछब्दं प्रयुञ्जानः अस्मिन्नर्थेऽनास्थां दर्शयति । एतच्च वक्ष्यामः । समाधते -?R?0 नान्तरीयकमेतद्भविष्यति । ?R?0देवताप्रतिनिधौ प्रतिषिद्धे नान्तरीयकमेतद्भविष्यति कर्मापि त्याज्यमेवेति । कथमिदं नान्तरीयकमित्यत्राह - ?R?0युक्त्यन्तराभिधानात्
देवताविरहे कर्मार्थत्यागे अन्यार्थसंयोगात् इति । ?R?0अतो मूलाधिकरणयुक्तेः युक्त्यन्तरस्य भाष्यकारेणोक्तत्वात् । अत्रैव प्रतिपादयिष्यामस्तद्युक्त्यन्तरम् । तत्र पूर्वपक्षवादी सदृशचिकीर्षां मन्यते । तावता च लाभेन कियानपि शास्रार्थस्सङ्गृहीतो भवति ।
?R एवं प्राप्तेऽभिधीयते - ?R?0न देवतादिष्वेतत्संभवति यो ह्युद्देशस्सूर्य इति । ?R?0उपादीयमानेषु (नीवारेषु) व्रीह्यवयवसामान्यलाभो लभ्यते । नैवमत्र किञ्चिल्लभ्यते । ‘?Rव्रीहिभिर्यजेत’?R इति व्रीहीणां साधनभावोऽवयवपर्यन्तः तेन साधनीभूतसाधारणावयवलाभेन तत्र शास्रार्थैकदेशानुग्रहः । देवतायां तु तन्नास्तीति । न हि भास्वरत्वादिगुणपर्यन्तोऽत्र शास्त्रार्थः इति ।
?R ननु आहवनीये जुहोति इत्ययं शास्त्रार्थः अग्न्यन्तरेऽप्युपादीयमाने प्रायोणानुगृह्यत एवेत्यत्राह - ?R?0एवमाहवनीयादिष्वप्यग्निषु न द्रव्यान्तरे किञ्चित् सादृश्यं साधारणरूपमुपलभामहे । ?R?0चोदनालक्षणत्वादाहवनीयशब्दवाच्यस्य स्वरूपस्य । आधानादिजन्यस्यातीन्द्रियस्याहवनीयशब्दवाच्यत्वात् तस्य कश्चिद्भागो द्रव्यान्तरोपादानेनानुगृहीत इति नास्ति प्रमाणम् । अथ शब्दमात्रमुपादीयते न मन्त्रसादृश्यं किञ्चिदुपात्तं भवति । मन्त्रतया चोपादानं न शब्दतयेति व्यर्थं शब्दमात्रस्योपादानम् ।
?R एवं कर्मस्वपि सादृश्याभावान्न किञ्चित्सादृश्यमुपादातुं शक्यते । कर्मणामतीन्द्रियाणां साधारणमसाधारणं वा रूपमवगन्तुं न शक्यत इति सादृस्याभावान्नान्योपादानम् । इदानीं देवताभावे तद्युक्त्यन्तरमाह -
?R ?R?0देवतायां पुनः द्रव्यान्तरे उपादीयमाने आस्तां तावत् सादृश्यं,
?R?0देवतात्वमपि नास्तीति । कोऽभिप्रायः एवं वदतो भाष्यकारस्य ? ?Rअयमभिप्रायः - तदभावे केवलं कर्मानुष्ठानमपि नैव संभवतीति मन्यते । ?R?0देवताभावे यागस्यानिष्पत्तौ केवलं कर्मानुष्ठानमपि न संभवति ।
?R ननु च ‘?Rअग्निहोत्रं जुहोतीति’?R इत्यवगमात् शास्त्रार्थस्य देवताविशेषाभावे मामान्यतः सिद्धे किमित्यननुष्ठानम् ? ?Rयथाह देवानां प्रियः-यदि देवतात्वं नाम सामान्यमस्ति, प्राग्विशेषचोदनायाः तच्च नास्ति चैव हि, यस्य विषयश्चोद्यते सैव तस्य देवता नान्येत्युक्तम् । अतः सामान्येन देवता नास्ति स्वरूपतो विशेषतोऽपि तावत् देवता भवति शब्दमात्रोपकारिणी हि सेत्युक्तम् । कुतः तस्यां सादृश्यं सामान्यं वा ? ?Rयदि देवता सा । तथा मन्त्रे शब्दान्तरोपादाने न किञ्चित्सादृश्यमुपलभामहे, वर्णसंहत्यात्मनो मन्त्रस्यापि कार्यत उपगमात् । स्वभावतो हि वर्णाः परस्परविलक्षणा एव । तेषां मन्त्रभावः कार्यसमधिगम्य एव स वर्णसङ्खातान्तरे उपात्तेऽनुगृहीत इति न शक्यते वक्तुम् क्रमान्यतो नास्ति । ?R?0एवं तर्हि देवताया विना यागानुपपत्तेः अग्निहोत्रं जुहोतीति शास्रार्थः परित्यक्तो भवति । उत्तरं चोदिताग्न्यभावे यदि न शक्यते संपादयितुमिति तदा किमन्यदतस्त्यागाच्छ्रेयः ।
?R?0 ?R?0यदिशब्दं प्रयुञ्चानोऽत्राप्यनास्थामाह । यदि देवताभावेऽपि यागानपायः तदा भवत्वनुष्ठानम् । अथ याग एव न संवर्तेत तदा भवतु त्यागः (किमेतेन) (किं नैतेन) निर्बन्धेन । तस्मान्न केवलं सादृश्यं नास्ति देवतायां सामान्यमपि नास्तीति, तदभावे चानुष्ठानमपि नास्तीति । तदिदं नान्तरीयकम् ।
?R?0 प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः ॥6॥
?Rपूर्वपक्षमाह -
?R?0 सादृश्यलाभात् साधारणावयवलाभात् सदृशप्रतिनिधिरिति तच्चिकीर्षा
ह्रीति वक्ष्यामः । तेन माषा अपि प्रतिनिघेया ?R?0इति
?R ?R?0ननु च प्रतिषेधः श्रूयते न माषा यज्ञसम्बन्धाः कर्तव्या इति । तेन कथं प्रतिनिधिरिति ।
?Rपरिहरति -
?R?0 सत्यं श्रूयते यत्र माषा इत्येव सम्बध्यते तत्रासौ प्रतिषेधः । इह पुनः श्रुतद्रव्यसदृशा इति प्रतिनिधीयन्ते न माषा इति ।
?R?0 ?R?0अयमाशयः - यत्र माषाणां यज्ञसंबन्धः तत्रासौ प्रतिषेधः । कुतः ??R यज्ञ - संबन्धप्रतिषेधात् इह तु माषाणां यज्ञसंबन्धो नास्ति । श्रुतसंपदाकतया इह माषा नान्तरीयकाः । तस्मान्नात्र प्रतिषेधः क्रमत इति पूर्वपक्षवादिनोऽभिप्रायः ।
?R ?R?0अत्राभिधीयते । सत्यं सदृशा इति प्रतिनिधीयन्ते ते न माषा इति न पुनः माषभावोऽपह्नोतुं शक्यते । ?R?0यदि माषभावोऽपन्हूयेत तदा प्रतिषेधो नावतरेत् । न च तस्यापह्नवोऽस्ति । स एवाह - ?R?0प्रतिनिधौ माषभावो न विवक्षितः ?R?0इति । एतदपि सत्यं, किन्तु प्रतिषेधो माषभावविषयतया माषभावस्य माषत्वस्य विषयतया माषजात्याश्रयतया प्रतिषेधो वारयितुं न शक्यते । ननु भवतु माषजात्याश्रयतया यज्ञसंबन्धस्तु नास्तीति अत्राह -
?R?0तस्य च नान्तरीयकयज्ञसंबन्धानपहारात् संभवो न निवारयितुं शक्यते ।
?R ननु च विकल्पः प्राप्नोति विहितप्रतिषिद्धत्वात् ततश्च कथमेकान्तेनानुपादानमिति अत्राह -?R?0 न चात्र विकल्पोऽप्याशङ्क्यते श्रुतसंभवमात्राक्षेपात् प्रतिनिधानस्य ।?R?0 ये श्रुतस्य द्रव्यस्यावयवाः तेषामाक्षेपोऽवैधश्रुतस्य विषयस्य संभवात् । प्रतिषेधस्य श्रौतस्य च माषत्वस्य प्रतिषेधविषयस्य संभवात् भिन्नविषयत्वान्न विकल्पः । तस्मात् प्रतिषेधातिक्रमात् भयात् न प्रतिनिधेया माषा इति ।
?R ?R?0तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् ॥ 7 ॥
?R?0 ?R?0अधिकारिणमाचिक्षिप्सुः पृच्छति - ?R?0कस्यायं प्रतिनिधिः कर्तव्यतया
?R?0चिन्त्यत इति । ?R?0किमयं प्रतिनिधिरुपादेयो नेति चिन्त्यते ॥
?R उत्तरं - ?R?0यस्य कर्मण्यधिकारस्तदीय इति ।?R?0 आक्षेप्ता आह -?R?0 एवं चेत् स्वाम्यपचारे कोऽन्यः प्रतिनिधत्ते । ?R?0यदि स्वाम्येवापचरितः कस्तर्हि प्रतिनिधिमुपादत्ते । एकग्रन्थेनाह - ?R?0तदिदं बालजल्पितमिव प्रतिभाति ।?R?0 समाधत्ते?R?0 अस्त्यत्र प्रतिनिधेर्विषयः पत्नीयजमानयोरन्यतरापचारेऽन्यतरं प्रतिनिधातुः नीवारवत् ।
?R?0 एवं प्राप्तेऽभिधियते - अधिकृतयोः सहत्वं कर्मणि । ?R?0प्रत्येकमधिकृतयोः स्रीपुंसयोः प्रत्येकमेव प्रयोगे प्राप्ते सहत्वं चोदितम् । ?R?0ततः किं ??R इदं ततो भवति । अधिकृतः कर्म कुवन् यजमानाकारतामापन्नः । न कर्तुरधिकार इत्युक्तम् । ?R?0अधिकृतस्य सतः कर्तृत्वम् तत्रायं सहभाव इत्युक्तं भवति ।
?R चोदयति - ?R?0सत्यमेवं कारकमात्रव्यापारः अन्यतरापेक्षितः । ?R?0शक्यते च कारकमात्रव्यापारोऽन्येनापि संपादयितुम् । परिहरति - ?R?0सहत्वं ताभ्यामपेक्षितम् न सहितभावः । ?R?0अधिकारवशप्राप्तेऽनुष्ठाने सहत्वमात्रमपेक्षितं, न सहकर्तृत्वं कर्मणः । कस्मात् सहभावोऽपेक्षितो न सहितत्वमिति अत्राह -?R?0 नेतरे तरयुक्तयोः कर्तृत्वं कर्तृत्वे च सहभावः । ?R?0 एकवचनश्रवणात् नेतरेतरयुक्ताः कर्तारः । किन्तु कर्तृत्व एव सहभावः पत्नीयजमानयोः । तस्मात् नाधिकारादृते प्रतिनिधानं संभवति । अधिकारायत्तप्रयोगसहत्वसिद्धये प्रतिनिधानमिति नाधिकारमन्तरेण तत्सिद्धिः । अधिकृतश्चेन्मुख्य एव न प्रतिनिधिः तस्मादप्रतिनिधेया स्वामिता । सोऽयं कार्यभूतसहप्रयोगासपत्तेः न प्रतिनिधिः । सहत्वमेव परित्यज्य अनुष्ठानं किमिति न भवतीति नास्याधिकरणस्य विषयः । तथाऽधिकृतेनापरिणेत्रापि सहत्वमिति स्री न यजतीत्यपि ।
?R?0 बहुनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात् ॥ 8 ॥
?R सत्रेष्विदानीं चिन्त्यते - ?R?0किं कस्यचिदपचारे प्रतिनिधाय सत्रिणः प्रयोगं परिसमापयन्ति उत नेति ?R?0। कस्य चित्स्वामिनोऽपचारे किं स्वामिनोः स्वामिनं प्रतिनिधाय सत्रं समापयन्ति उत नेति चिन्ता । पूर्वपक्षमाह - ?R?0न ह्यस्वामी यजमानो भवतीत्युक्तमधस्तात् । प्रतिनिधीयमानश्चासौ यथा न स्वामी तथा वक्ष्यामः । तस्मादत्रापि पूर्ववत् प्रतिनिधानाभावात् ?0”?Rये यजमानास्त ऋत्विज’ ?Rइति वचनात् यजमानैरेवार्त्विज्यं कर्म कर्तव्यम् । स्वामी च यजमानो भवति यो हि फलभागी स यजमान उच्यते । न चास्वामी फलभागी। अस्वामी चायं प्रतिनिधीयमान इति उत्तराधिकरणे वक्ष्यते । तस्मात् पुरुषान्तरेऽपि प्रतिनिधीयमाने तत्कार्यासिद्धेः पूर्ववदत्रापि प्रितिनिधेरभावः ।
?R ?R?0अत्रोच्यते - अत्र हि सहितत्वमपेक्ष्यते न सहभावमात्रं इतरेतरयुक्तानां कर्तृत्वेन श्रवणात् । अतः तत्सिद्ध्यर्थं इतरकारकवत् कर्त्रन्तरं प्रतिनिधातव्यम् । ?R?0बहुकर्तुके कर्मणि एकैकस्याधिकारात् कर्तृत्वमुपादेयम् । कथं तर्हि प्रतिनिधिवाचो युक्तिः ? ?Rस्वामिस्थाने निपातात् ।
?R नन्वेवं तर्हि अनधिकृतमप्युपादाय प्रयोगप्रारम्भः स्यात् । भवतु न दोषः स्वामिनि प्रवृत्तेऽपचारिते पुरुषान्तरोपादानमपि अवैगुण्यान्न्याय्यमित्युच्यते ।
?R नन्वस्वामिनो यजमानाता नास्ति । अयजमाने चानुष्ठातरि आर्त्विज्यस्यैव वैगुण्यं स्यात् । उच्यते । ये यजमाना इति प्रधानकर्तृतयैवार्त्विज्येषु विनियोगः (न) फलभागितैव विवक्षिता । वाक्यभेदप्रसङ्गात् । न चात्मनेपदात् तस्योपादान शेषता । यथानिर्ज्ञातप्रधानकर्तृमात्रलाभेन विशेषणस्यानपेक्षितत्वात् इति ।
?R ?R?0स स्वामी स्यात् तत्संयोगात् ॥ 9 ॥
?R ?R?0ननु च कर्तृत्वेनोपादानमित्युक्तम् । कथमत्र स्वाम्याशङ्का ??R?0 यो आरभ्य परिसमापयति स फलभागी यश्च फलभागी स स्वामी । तेन प्रतिनिधीयमानः स्वामी न भवति इति कथं स्वाम्याशङ्केति । समाधते -
?R?0सत्यमुक्तं, तथाप्याशङ्का काचिद्विद्यत एव । अधिकारमुखेन कर्तृत्वमुक्तम् । एश्वर्यं हि कर्मणि प्रतीत्य कर्तृत्वं भजते पुरुषः । अतोऽनधिकृतस्य कर्तृता नोपपद्यत इति पूर्वः पक्षः । ?R?0यदाऽधिकृतत्वं तदा कर्तृत्वं, अथानधिकृतः तर्हि न कर्तृत्वमिति भावः ।
?R राद्धान्तमाह - ?R?0सत्यं, अनधिकृतस्य कर्तृत्वं नास्ति । इितरैः पुनः ?R?0कर्तृत्वमात्रमुपादीयते सङ्ख्यापूरणाय । ?R?0तस्याः कर्मणि श्रवणात् । अयमाशयः?R?0 अधिकृतकर्तृत्वमापन्नैः अनधिकृतस्य सामदानादिभिः शक्यमापादयितुं कर्तृत्वम् । कर्तृत्वेनेतरेषां प्रयोजनम्, तावन्मात्रेणैव सङ्ख्यापूरणादिति । तस्मादर्थकर्तृत्वमात्र- मेवोपादीयते श्रौतस्यानुपयोगात् । आर्थं श्रौतमधिकृतत्वम् । तयोरार्थमेवोपादीयते । तस्यैव चोपयोगात् । इतरत श्रौतं औपयोग्येवेति ।
?R?0 स तद्धर्मा स्यात् कर्मसंयोगात् ॥ 10 ॥
?R पूर्वपक्षमाह - ?R?0यद्यसौ न स्वामी स कथं स्वामिधर्मेण संबद्ध इति पूर्वः पक्षः । ?R?0राद्धान्तमाह - ?R?0भवति संबन्धः । स्वामिनो हि इदमर्थतयाऽऽक्षिप्तं कर्तृत्वम् । अतस्तदर्थापत्तेः । ?R?0कोहि………सूक्तम् ।
?R अस्यार्थः - स्वाम्यर्था एते संस्काराः कर्त्रादिकाः प्रतिपन्नाः । यश्चासावेकः कर्ता प्रतिपन्नः तस्य स्थाने बहवः कर्तारः प्रतीता इति । स्वमिनामैदमर्थ्येन स्वामिष्वपि कर्तृभूतेषु तद्धर्मत्वमाक्षिपति । तत्स्थानापत्त्या तद्धर्मा भवन्तीति ।
?R?0 सामान्यं तच्चिकीर्षा हि ॥ 11॥
?R पूर्वपक्षामाह - ?R?0ननु च श्रुतद्रव्याप?R?0चारे ?R?0यथाशक्त्यनुष्ठानप्राप्तौ द्रव्यमात्रोपादानमेव प्राप्तम् । ?R?0न हि (सदृशेनासदृशेन वा) (सदृशसदृशेषा) समाप्तौकश्चिद्विशेषः । राद्धान्तमाह - ?R?0सत्यं समाप्तौ न विशेषः । उपदेशत्यागे तु यावत्संभवं नास्ति प्रमाणम् (?R?0अपयाति) । ?R?0याक्त्सु ?R?0उपदेशलवोऽपि लभ्यते
?Rतद्द्रव्यमुपादातव्यम् । जातेर्हि साधनता व्यक्तिपर्यन्ता । व्यक्तेरपि साधनता अवयवव्यापारपर्यन्ता इति साधनभूतावयवत्यागे न किञ्चित् प्रमाणमस्ति ।
?R ननु कार्यस्योभयथापि सिद्धेः किमुपदेशादरेणेति अत्राह - ?R?0उपदेशतः कार्यावगमात् ?R?0उपदेशाविरोधेन च कार्यत उपादानं कार्यविदो मन्यन्ते । तस्मात्सूक्तं श्रुतसदृशस्योपादानमिति ।
?R?0 निर्देशात्तु विकल्पे यत्प्रवृत्तम् ॥ 12 ॥
?R ?R?0अत्र पूर्वपक्षवादिनोऽभिप्रायः - यावच्छ्रुतसंभवः तत्त्यागे प्रमाणं नास्तीत्युक्तम् । अतो वैकल्पिकस्योपादानमेव न्याय्यम् ।?R?0 श्रुतसंपत्त्यर्थं हि सदृशमुपादीयते । यदपि तत्सदृशमुपादीयते तत् श्रुतसंपत्त्यर्थम् । श्रुतं चेन्मुख्यमेव संपद्यते को नाम गौणीं सम्पदं प्रतिपद्यते ।
?R ?R?0अत्राभीधीयते - प्रयोगार्थं हि प्रतिनिधानम् । अपचारे हि प्रतिनिधिः । प्रयोगे चापचारः । तस्मात् प्रयोगार्थमेव प्रतिनिधानम् । प्रयोगस्य चोपात्तमङ्गं न श्रुतमात्रमेव । ?R?0प्रयोगस्य हि श्रुते संबन्धः न प्रयोगस्य अनेकप्रयोगसाधारणं कर्म प्रयोज्यं (कर्म) तत्रानेकगुणसंबन्धोऽपि युक्तः । कस्मात् प्रयोगस्य श्रुतमङ्गं न भवतीत्यत्राह - ?R?0श्रुतोपादानमात्रसाध्यत्वात् प्रयोगस्य एकश्रुतोपादानमात्रेण तस्य सिद्धेः अनेकश्रुतसंबन्धानुपपत्तिः । प्रयोगसंम्पत्त्यर्थश्चायं प्रतिनिधिः न श्रुतसम्पत्त्यर्थः ।?R?0 एतदुक्तं भवति न श्रुतावागमसम्पत्त्यर्थो भवति । यदि हि तथा स्यात् तदा वैकल्पिकमप्युपादीयेत । श्रुतानुष्ठानसंम्पत्यर्थो हि सः । तस्मादुपात्तसदृशमेवोपादेयम्, न वैकल्पिकं तदानीं तस्यानङ्गत्वादिति भावः । अभावविधौ हि पूर्वश्रुताभावे पश्चाच्छ्रुतमुपादीयेत न तुल्यविधौ । यदि हि व्रीह्मभावे यवानां विधिः स्यात् तदा व्रीह्यभावे यवा उपादीयेरन् । न च यवानां व्रीह्यभावे विधिः । यवाभावे वा व्रीहीणाम् । किन्तु तुल्यतया यवा व्रीहयश्च विहिताः ।
?R कस्मात्पुनरभावविधौ पश्चाच्छ्रुतस्योपादानं न तुल्यविधौ तत्राह -
?R ?R?0प्रयोगापेक्षो हि अभावविधिर्भवति । प्रयोग एवाभावसम्भवात् । न ?R?0प्रयोज्ये, अभावानुपपत्तेः ननु प्रयोगस्य प्रयोज्यादभेदात् प्रयोज्यार्थोऽपि प्रयोगाङ्गमेव । तेन प्रयोज्याङ्गभृतस्य वैकल्पिकस्यापि प्रयोगाङ्गत्वमस्त्येवेति तदुपादानमेव युक्तम् । विकल्पशास्त्रार्थावाप्तेरिति । अनेनाशयेन पृच्छति -?R?0 किं प्रयोज्यार्थः प्रयोगाङ्गं न भवति ? ?R?0भवतीति भावः । उत्तरं - ?R?0भवति तु प्रयोज्यमुखेन नेतरवत् प्रयोगमुखेन । ?R?0यथाऽभावे विहितं प्रयोगमुखेनैव प्रयोज्याङ्गम् । न तथा वैकल्पिकम् । किन्तु प्रयोगः प्रयोज्यस्यैवावस्थान्तरमिति प्रयोज्याङ्गं प्रयोगाङ्गतां याति । तत्र प्रयोगे कृतकृत्यत्वात् द्वितीयोपादानात् एकमेवाङ्गं न सर्वमिति उपात्तस्यैवाङ्गत्वात् तत्सदृशमेवोपादेयम् । न वैकल्पिकम् । प्रयोगे तस्यानङ्गत्वादिति ।
?R?0 वचनाच्चान्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य ॥13॥
?R ननु अभावविधिप्रतिनिधिनियमयोः न विशेषमुपलभामहे । तथाहि - अभावे विधिरभावविधिः । स हि अभावे विधिः उपादानसामर्थ्याभावे अधिकारे च लीयमाने कस्यचित्प्रतिनिधेरुपादानाप्रसक्तेऽपि विधिः न नियमः । अपि तु वि(धे)धिरेव यत्र पुनः अनियमेनानेकोपादानसंभवे विधानमेकस्य असौ नियमविधिः उपादानसामर्थ्ये सत्यधिकारे चोदिताभावेऽनेकप्रतिनिधिप्रसङ्गेऽपि एकस्य विधिः नियमफलम् । तत्र संशय उपपद्यते - किं सोमोपादानासामर्थ्ये एतद्विधानं उतानेकप्रतिनिधिप्रसङ्गे नियम इति । ?R?0तत्र पूर्वपक्षवादी न विन्देत् इति असामर्थ्यमवगम्यत इति मन्यते । ?R?0न विन्देदिति भावः । अत इदमवगम्यते यदि सोमं लब्धुं न शक्नुयादिति । तेन वेदनसामर्थ्य नास्तीत्यवगत इत्युक्तम् । न पुनरपचरित इत्येतस्मादवगम्यते । अतोऽसामर्थ्ये विधिरभावे विधिरेव ।
?R ?R?0अत्राभिधीयते । न शक्यतेऽसामर्थ्यनिरूपणम् अद्रव्यवत्कर्तुं न विद्यः
?R?0कोऽसावसमर्थ इति ?R?0। यथा अद्रव्याधिकरणे उक्तम् - अविद्यमानद्रव्यस्यापि द्रव्योपादाने सामर्थ्यमस्ति इति । तथा अनुपात्तसोमस्यापि सोमलाभसामर्थ्यमस्त्येव । तेन सामर्थ्यम् । सर्वपुरुषाणां सहजसामर्थ्यसंभवात् संभवति अपचाराभावात् । स एवापचारोऽनेन वक्ष्यते । अवेदनेन असामर्थ्यफलत्वात् अभावस्य, असामर्थ्येनाभावो लक्ष्यते । तस्मात् सामर्थ्येऽधिकारिणः सोमाभा(वः)वे अनेकप्रतिनिधौ प्रसक्ते नियमः पूतीकानामिति सिद्धम् ।
?R स्थितेऽप्यद्रव्याधिकरणे साक्षाच्छब्देनैव असामर्थ्योक्तित्वात् असामर्थ्यस्यायं विधिरिति अधिकाशङ्का ।
?R असामर्थ्याभावात् लक्षणया अभाव एवार्थादनेन लक्ष्यत इति तन्निराकरणम् । प्रयोजनमुक्तम् ।
?R ?R?0न प्रतिनिधौ समत्वात् ॥ 14 ॥
?R पूर्वपक्षमाह - ?R?0किं पुनः कारणं प्रतिनिधिसदृशस्य उपादाने ? ?R?0मुख्योगौणश्च शास्त्रार्थ इति भ्रान्त्या प्रतिनिधिसदृशस्योपादनमाह ।
?R राद्धान्तमाह - ?R?0यस्मान्न प्रतिनिधिसम्पच्यर्थः प्रतिनिधिः किं तर्हि ??R श्रुतसम्पत्त्यर्थः ।?R?0 श्रुतमेवोपादातुकामः प्रतिनिधिमुपादत्ते तदुपादानेऽपि श्रुतलेशलाभात् । तदर्थश्चेत् श्रुतसम्पत्त्यर्थश्चेत् प्रतिनिधिः तत्सदृशमेव श्रुतसदृशमेव द्रव्यान्तरमुपादेयम् । तस्मिन्नुपादीयमाने श्रुतैकदेशानुग्रहादिति युक्तम् ।
?R स्याच्छ्रुतिलक्षणे नियतत्वात् ॥ 15 ॥
?R नन्वभावविधिनिराकरणस्येदं प्रयोजनं यत्पूतीकापचारेऽपि सोमसदृशमेवोपादेयमिति किमर्थमिदमधिकरणमारभ्यत इत्याशङ्क्याह - ?R?0यत्प्रयोजनमुक्तं तदेवेदमाक्षिप्यते?R?0 पूर्वपक्षे यत्र प्रतिनिधिनियमः श्रूयते तेनारब्धकर्मण्यपचरिते(क)(त)ऽस्मिन्नियम एवादर्तव्यः । स हि तत्र श्रुतः
?Rश्रुतसम्पत्त्यर्थश्च प्रतिनिधिः इत्युक्तम् । ?R?0यत्र पुनरर्थात् प्रतिनिधानं तत्र श्रुतद्रव्यसदृशमेवेति युक्तम्, अर्थस्यात्रा(त)सत्त्वात् ।
?R?0 ?R?0अयमाशयः - सर्वे हि द्रव्यविधयो नियमार्था एव । तेन सोमाभावे विहितत्वात् पूतीकस्य तदपचारे तत्सदृशमेवोपादातव्यम् । सोमापचारे तत्सदृशमिवेति । एवं प्राप्तेऽभिधीयते -
?R ?R?0यत्रापि प्रतिनिधिनियमः - श्रूयते तत्रापि न द्रव्यस्पायं नियमः । ?R?0पूतीकस्वरूपस्याप्ययं निनमः । किन्तु तद्गता हि ये श्रुतद्रव्यसदृशाः श्रुतद्रव्यसाधारणा अवयवाः त एव नियम्यन्ते । अन्यथा हि पूतीकस्वरूपविधिः स्यात् न प्रतिनिधिनियमः । अप्रसक्तत्वात् पूतीकस्वरूप(स्या)ग्रहणस्य । प्रतिनिधिनियमश्चायं प्रतिपादितः अपेक्षितविधेः । यतोऽयं प्रतिनिधिनियमः अतोऽत्रापि अर्थेन तुल्यं मुख्यसदृशमेवोपादातव्यम् । एवं त्वत्र न्याय्यम् - मुख्यसदृशमपि तदेवोपादातव्यं यत्र पूतीकसाधारणाः सोमावयवा विद्यन्ते, न पुनर्यत्र पूतीकसदृशाः सोमावयवा विद्यन्ते तदुपादेयम् । सोमापचारे तेषां नियतत्वात् । तत्सोमावयवसदृशं च पूतीकसदृशं चोपादेयमिति ।
?R अत्र चाधिकरणे अनपेक्षितसादृश्याः पूतीका विद्यन्त इति पूर्वः पक्षः । अपेक्षितविधानात् तद्गतावयवा एव नियम्यन्त इति राद्धान्तः ।
?R?0 मुख्याधिगमे मुख्यमागमो हि तदभावात् ॥ 16 ॥
?R यत्र प्रतिनिधिः प्रकृतः तत्रोत्तराधिकरणेन मुख्यस्याङ्गीकारो वक्ष्यते। तत्र च प्रतिनिध्युपादानं न सङ्कल्पितं तत्र पूर्वपक्षाभावादनारभ्यमेवाधिकरणमिति मत्वाऽऽह -
?R ?R?0श्रुते द्रव्येऽपचरिते प्रतिनिधानार्थ प्रवृत्तस्य यदा मुख्याधिगमो भवति तदा किं मुख्य एवोपादातब्यः उत प्रतिनिधिरिति?R?0 प्रतिनिधिसङ्कल्पनात् पूर्वपक्षवादी प्रतिनिधिरुपादातव्य इत्यर्थः ।
?R ?R?0अत्रोच्यते?R?0 । सत्यमसौ सङ्कल्पः । किन्त्वसावक्रत्वर्थः । यद्यपि नीवारास्सङ्कल्पिताः तथापि तत्त्यागेऽनृतवदनप्रतिषेधातिक्रमो नास्ति । क्रत्वर्थविषयसङ्कल्पत्यागे स दोषः । न च नीवारसङ्कल्पः क्रत्वर्थः नीवाराणामक्रत्वर्थत्वात् । श्रौतसदृशमात्रं हि तत्र क्रत्वर्थत्वम् श्रुतैर्द्रव्यैव्रींहिभिः साधारणा येऽवयवाः ते तत्र क्रत्वर्थाः न पुनः प्रतिनिधिद्रव्यम् । ते च मुख्ये उपादीयमाने उपात्ता भवन्ति । तेन मुख्यमेवोपादेयम् । वैकल्पिकानां पुनः व्रीह्यादीनां श्रुतविषयत्वात् सङ्कल्पस्यासावपि क्रत्वर्थः इति किं तत्परित्यागे अनृतवदनप्रतिषेघातिक्रमदोष इति युक्तो नियमः ।
?R यत् सङ्कल्पितं(ः) तदेवोपादातव्यमिति स्थितेऽधिकरणे दुष्टाशयः पृच्छति
?R?0 किं पुनरत्र पुरुषार्थत्वेन मिथ्यासङ्कल्पना भवेत् । शिष्टाः खल्वत्र प्रमाणम् ।?R?0 यदि शिष्टा ईदृशे विषये मिथ्यासङ्कल्पदोषं स्मरन्ति । भवतु मिथ्यासङ्कल्पदोषः पुरुषस्य तथापि क्रतौ मुख्यमेवोपादातव्यमिति ।
?R?0 प्रवृत्तेपीति चेत् ॥ 17 ॥
?R ?R?0प्रवृत्ते पुनः कर्मणि प्रतिनिधिना श्रुतद्रव्योपलब्धौ किं श्रुतमेवोपादातब्यं उत प्रतिनिधिनैव समाप्तिरिति?R?0 प्रतिनिधौ केषुचित्संस्कारेषु प्रवृतेषु चिन्ता ।
?R अत्र पूर्वपक्षवादी प्रतिनिधेः श्रुतसम्पत्त्यर्थंत्वात् तदेवोपादातव्यमिति मन्यते यथा पूर्वाधिकरणे ।
?R नन्वत्र केचन संस्काराः कृताः पुनः कर्तुं न शक्यन्ते । तेन तदनुग्रहाय प्रतिनिधिनैव समाप्तिरिति । नायं दोषः । संस्काराणां प्रधानार्थत्वात् प्रधानं च प्रयोगसम्पत्तये। तेन प्रधानं द्रव्यमेवादरणीयम् । संस्कारास्तु नीयन्तामिति भावः ।
?R?0 एवं प्राप्तेऽभिधीयते - उपादानेप्येतच्चिन्त्यते नोपात्ते ।
?R उपादानसमय एवेदं चिन्त्यते किं श्रुतं न इति । नोपात्ते । तत्र च यथा विनीयोगमुपादानमिति विनियोगानुरोधेन श्रुतमेवोपादीयते । यत्रोपादीयते यत्रो पादानसमये विनियुक्तं न लभ्यते तत उपादातव्ये किमप्युपादीयते । उपात्ते च तस्मिन् पुनरुपादानान्तरासंभवात् तेनैव प्रयोगस्संम्पादनीयः । उपात्तेन प्रयोगनिर्वृत्तौ श्रुतमप्यश्रुतमेव कृतार्थत्वाच्छास्त्रस्य उपादानं हि शास्त्रस्य प्रयोजनम् । तच्च कृतमिति । तस्मात् प्रतिनिधिनैव सम्पादयितव्यमिति ।
?R ?R?0द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् ॥ 18 ॥
?R ?R?0संस्कारक्षमे प्रतिनिधौ मुख्ये चाक्षमे संस्काराणां कस्योपादानं युक्तमिति । संस्काराणां श्रवणात् संस्कारक्षममुपादेयं मन्यते पूर्वपक्षवादी?R?0 प्रतिनिधावृपात्ते द्रव्यशास्रार्थेऽपि अनुगृहीतो भवति केवलं विकलत्वमात्रं तस्य । मुख्ये उपात्ते श्रुतसंस्कारत्याग एव तेन संस्कारश्रवणात् प्रतिनिधिरेवोपादातव्य इति ।
?R ?R?0राद्धान्तस्तु - सत्यं संस्कारश्रवणं किन्तु श्रुतस्य संस्कारश्रवणम् । श्रुताभावे पुनः न च संस्काराः । श्रुतद्रव्याश्रिता हि संस्काराः क्रतोरङ्गम् तदभावे तेषामनङ्गत्तैव स्यात् । तस्मात् श्रुतद्रव्यमुपाददतः यदि नाम संस्कारा न भवन्ति न भवन्तु नाम तदभावेऽपि प्रधानार्थोपपत्तेः ।?R?0 न हि संस्कारो द्रव्यस्य द्वारम् । तेन संस्काराभावेऽपि द्रव्यशास्रार्थो निष्पद्यते । द्रव्याभावे पुनः न संस्कारशास्त्रार्थोपपत्तिरिति श्रुतस्यैवोपादानम् । उपाददतिरूपसिद्धौ यत्नः कर्तव्यः, “?Rअङोदोनास्य विहरणे” (?Rपा.सू 1-3-20) इत्यात्मनेपदप्राप्तेः
?R ?R?0अर्थद्रव्यविरोघेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात् ॥19॥
?R ?R?0ननु यत्र पुनः प्रयोजनमेव श्रुतेन नोपपद्यते । तत्र श्रुतमप्यश्रुतमेव
?R?0प्रयोजनार्थत्वाच्छ्रुतस्य ।?R?0 अतः प्रयोजनसिद्ध्यर्थं समर्थस्यैवोपादानमत्रेति पूर्वाधिकरणस्य प्रत्युदाहरणमात्रमेतत् ।
?R ?R?0 विधिरप्येकदेशे स्यात् ॥ 20 ॥
?R ?R?0ननु च संस्काराभावेऽपि प्रधानमुपादातव्यमित्यनेनैतद्गतम् । किमभ्यधिकमत्र चिन्त्यते ।
?R अस्यार्थः - शेषकार्याणि द्रव्यप्रतिपत्त्यर्थानि द्रव्यं प्रति गुणभूतानि । तेन तदभावेऽपि द्रव्यमेवोपादातव्यमिति । उत्तरं - ?R?0इदमभ्यधिकम् - पुरोडाशस्यावदानश्रुतयो भवन्ति । न च प्रधानामात्रसंभवे
?R?0पुरोडाशत्वोपपत्तिरिति नियतपरिमाणत्वात् पुरोडाशस्य ।?R?0 अस्यार्थः - पूर्वार्धादवद्यतीत्यवदानं पुरोडाशे श्रुतम् । न च द्व्यवदानमात्रं पुरोडाशो भवति नियतपरिमाणाभिव्यङ्ग्यत्वात् पुरोडाशाकृतेः । तेन पुरोडाशे असमर्थतया नीवारा एवोपादातव्याः । पुरोडाशानुरोधेन व्रीहीणां त्यागो युक्त इति । तस्मान्नीवारणामेवोपादानं पुरोडाशानुरोधेन व्रीहीणां त्यागो युक्त इति । तस्मान्निवाराणामवोपादानं पूर्वपक्षवादी मन्यते ।
?R ?R?0राद्धान्तस्तु सत्यं पुरोडाशस्यावदानं, न पुनस्तत् पुरोडाशार्थम् । किं तर्हि ? ?Rक्रत्वर्थम् । ?R?0पुरोडाशो द्व्यवदानं प्रति गुणीभूत एव नापेक्ष्यते । ननु भवतु द्व्यवदानं प्रति पुरोडाशस्य गुणभावः व्रीहीन् प्रति प्रधान(भाव) एव । व्रीहयोऽपि पुरोडाशनिर्वृत्त्यर्थाः । पुरोडाशास्तु द्व्यवदानार्थाः । तेन प्रधानभूत पुरोडाशानुग्रहाय गुणभूतानां व्रीहीणां त्यागो युक्त इति ।
?R उच्यते । पुरोडाशप्रकृतिद्रव्यतयाऽङ्गभूता व्रीह्यादयः साक्षात् द्व्यवदाने संबध्यन्ते । तन्मयत्वात्तस्य । तेन बहिरङ्गत्वात् पुरोडाशस्यैव त्यागः अन्तरत्वाङ्गद्व्रीहीणामनुग्रह इति युक्तः । अतः पुरोडाशोऽपि यत्र गुणभूत इति यावत् नापेक्ष्य(क्ष)ते (तत्र) किं पुनः शेषकार्याण्यप्रयोजकानि । तस्मात्
?Rप्रधानमात्रनिर्वृत्यर्था व्रीहय एवोपादातव्या इति । ?R?0दर्शनमुक्तम् ।
?R?0 इति ऋजुविमलायां षष्ठाध्यायस्य तृतीयः पादः
?R?0षष्ठाध्यायस्य चतुर्थः पादः
?R?0 ॥ 1 ॥ शेषाद्द्व्यवदाननाशे स्यात्तदर्थत्वात् ॥ 7 ॥
?R?0 ननु यस्य हवींषि नश्येयुः इत्यादिके वचने अवदाननाशे द्रव्यान्तर विधानार्थे सति पूर्वपक्षाशङ्काभावात् कथमिदमधिकरणमारब्धम् ।
?R समाधत्ते - ?R?0असत्यपि वचने न्यायादयमर्थो लभ्यत इति प्रदर्शयितुम् । ?R?0वचनव्यतिरेकेण हि द्रव्यान्तरमागमयितव्यम्, न शेषादवदेयमित्ययमर्थो न्यायेनैव लभ्यते । तेन चैकस्य द्रव्यस्य पूर्वार्धद्वयं वा संभवतीति दर्शयितुमिदमधिकरणमारब्धम् ।
?R ?R?0यदि न्यायेनैवायमर्थो लभ्यते वचनमिदानीं किमर्थम् ??R ?R?0उत्तरं ?R?0द्रव्यविशेषाधानार्थमिति ब्रूमः । ?R?0न्यायतः पुरोडाशान्तरागमे प्राप्ते द्रव्यविशेषस्याज्यस्य लक्षणया अप्राप्तस्य विधानार्थम् । यदि वचनमेतत् न्यायत एव द्रव्यान्तरागमे प्राप्ते द्रव्यविशेषविधानार्थं । ?R?0एवं तर्हि ‘?Rनिर्देशात्’?R इति सूत्रं (6-4-2) ‘?Rयस्य हवींषि’?R इत्येतन्निर्देशाभिप्रायेण कथं व्याख्यातम् । ?R?0न ह्यनेन वचनेन द्रव्यान्तरागमो निर्दिश्यते ।
?R समाधत्ते - ?R?0द्रव्यविशेषविधानं तु शेषादिति ज्ञापनार्थम् ।?R?0 अस्यार्थः यद्यप्येतत् द्रव्यविशेषविधानार्थम् तथापि(वि)शेषा(णा)न्नावदेयमिति ज्ञापयति । एवं द्रव्यान्तरविधानादेव । तेन पूर्वपक्षनिराकरणार्थमेतदुक्तमिति भावः । शेषनिर्देशस्तु प्रत्युक्तो भाष्ये शेषकार्याणामप्रयोजकत्वान्न तदनुरोधेन द्रव्यान्तरमुपादेयमिति।
?R?0 ॥ 2 ॥ अपि वा शेषभाजां स्याद्विशिष्टकारणत्वात् ॥ 3 ॥
?R?0 कथं पुनरत्र पूर्वपक्षाशङ्का शेषादेव पुनरवदेयमिति ??R न हि शेषकार्याणि द्रव्यं प्रयुञ्जते । ?R?0यदि हि द्रव्यं प्रयुञ्जीरन् तदा तैर्द्रव्यस्य प्रयुक्तत्वात् तदकरणे द्रव्योपादानवैयर्थ्यात् पुनरवदानं स्यात् । न चैतदस्ति । समाधत्ते ?R?0स्थित
?R?0एवाप्रयोजकत्वे प्रतिपत्तीनामियमाशङ्का अविरतश्शास्त्रार्थः शेषस्य विद्यमानत्वादिति । ?R?0न पुनः प्रयोजकत्वमाशङ्क्यते । प्रधाने(तु तेन)हुते शेषः स्विष्टकृदादिभिः प्रतिपाद्यत इति श्रुतम् । तस्य शास्त्रार्थस्याविरतिरेव । तेन पुनरवदेयमिति ।
?R ?R?0राद्धान्तस्तु कार्यार्थत्वात् शास्त्राणां शास्त्रार्थानां कृतत्वाच्च कार्यस्य नानुपपत्तिः शक्यते वक्तुम् ।
?R?0 ?R?0यद्यपि शेषश्रुतिरविशिष्टा तथापि कार्यार्थमनुष्ठानं द्रव्यप्रतिपत्तिः स्विष्टकृदादीनां प्रयोजनम् । यच्च द्रव्यं स्विष्टकृदादिभिः प्रतिपाद्यं तत्(द)विनष्टम् । तेन प्रतिपाद्यद्रव्याभावादुपरतः शास्त्रार्थः । यदि परं शेषकार्याणां प्रयोक्तृत्वात् पुनः करणं तच्च नास्तीत्युक्तम् । प्रतिपत्त्यन्तरविधानाच्च पुनरवदानं न कर्तव्यमिति ।
?R ?R?0॥ 3 ॥?R?0 ?R?0निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत् ॥ 4 ॥
?R?0 केयमधिकारे चिन्ता कथं वा नास्ति ?
?R उत्तरं - ?R?0शेषचिन्तेयं के भक्षयितार इति न पुनः कस्याधिकार इति ।
?R?0 समाधत्ते - अत्रोच्यते - अधिकारचिन्तैवेयम् । कार्यविनियुक्तकर्तृमतोऽधिकारः उताविनियुक्तकर्तृकस्यापीति । ?R?0एतदुक्तं भवति - यजमानस्यैवाधिकारः चिन्त्यते । किं(ये)विनियुक्ता ऋत्विजः तद्युक्तस्यैवाधिकारः उत कर्तन्तरयुक्तस्यापीति ?
?R ?R?0पूर्वपक्षवादी तु अश्वमेधादिष्वशक्तेरिति इडायां च विनियुक्तकर्तृ नियमादविनियुक्तकर्तृकस्याप्यधिकार इति मन्यते ।
?R?0 ?R?0अस्यार्थः-यदि विनियुक्तकर्तृकस्यैवायमधिकारः तदाऽश्वमेधे शेषभक्षणस्याशक्यत्वात् अनधिकार एव स्यात् । तथा ‘?Rयजमानपञ्चमा इडां भक्ष्यन्ति’?R इति वचनं ऋत्विजामिडाभक्षणे नियमार्थं ‘?Rइडैव तैरेव भक्षयितव्या’?R इति
?R। तच्चैवमुपपद्यते यदि वचनान्तरेणान्यस्यापि भक्षणं प्रसज्यते । न च तद्वचनं यजमानप्राप्त्यर्थं, तस्यापि कर्तृत्वेन प्राप्तत्वादिति न पुनः विनियुक्तव्यतिरिक्तानां विनियोग इति शक्यते वक्तुम् श्रुत्यादीनामभावात् ।
?R (अविनियुक्तकर्तृकस्याप्यधिकार इति शक्यते वक्तुं न पुनरप्रकृतानां विनियोग इति तद्विनियोगे श्रुत्यादीनामभाव इति)
?R ?R?0एवं प्राप्तेऽभिधीयते - विनियुक्तकर्तृकस्यैवाधिकार इति । कुतः ? ?Rन ह्यश्रुतेनाधिकारः शक्यते वक्तुम् । श्रुतविषयत्वादधिकाराणाम् ।?R?0 यादृशो विषयः श्रूयते तदनुरूपोऽधिकारो वर्णनीयः । ऋत्विजां च कर्मकरत्वेनोपादानात् तत्कर्तृकभक्षयुक्तो विषयः प्रतीयत इति तद्युक्तस्यैवाधिकारः ।
?R ?R?0यत्पुनर्वचनं तत्प्राप्त्यर्थं ?R?0कर्मकरत्वेन ऋत्विजामुपात्तत्वात् भक्षोऽपि तैरेव प्राप्तो न यजमानेन, तत्प्राप्त्यर्थं वचनमुपपद्यत इति दर्शितम् । ?R?0अश्वमेधे पुनः तद्वदेवाधिकारः कार्यार्थः पुनरन्योपादानमिति नाधिकारान्तरं प्रयुञ्जीत । अपि हि विनियुक्तकर्तृकमेव कार्यमिति शब्दादवगम्यते ।
?R?0 ?R?0एतदुक्तं भवति (विनि)युक्तस्याधिकारः तथापि तावन्मात्रेणैव कार्यसामर्थ्यात् न सहायत्वेनाप्रकृतानामुपादानादिति ।
?R?0 ॥ 4 ॥ अर्थसमवायात् प्रायश्चित्तमेकदेशेऽपि ॥ 10 ॥
?R?0 इहैतावत् श्रूयते ‘?Rभिन्ने जुहोति’?R न पुनः कृत्स्नभिन्ने एकदेशभिन्ने वा इति । तत्र संशयः किं भिन्नस्यैवयम् संस्कारः उत भेदेनापगतोऽधिकार इति । ?R?0अनेन भाष्यकारीयस्य सन्देहस्य करणे संदेहः कृतः । ननु य(द्य)त्र भेदनवतोऽधिकारः तदा अधिकारान्तरत्वे सति दर्शपूर्णमासाङ्गता न स्यात् । ततश्च प्रकरणबाध इति अधिकृताधिकारादङ्गत्वसिद्धिः ।
?R पूर्वपक्षमाक्षिपति - ?R?0अत्रोच्यते - भेदनवतो होमश्चोद्यते ‘?Rतस्मात् भिन्ने जुहोति’?R इति । ?R?0भेदनामात्रमत्र श्रूयते न पुनः परित्यक्तसामर्थ्यस्य
?Rअपरित्यक्तमामर्थ्यस्य वा भेदनवत इति विशेषोऽवगम्यते । अविशेषे च परित्यक्तसामर्थ्यस्य संस्कारानुपपत्तेः भिन्नसंस्कारकत्वे निरस्ते भेदवतो होमश्चोद्यत इति वदामः ।
?R समाघत्ते - ?R?0पूर्वपक्षवादी तु कार्यत एव विशेषोऽवगम्यत इति मन्वानः समर्थसंस्कारं मन्यते । एवमारादुपकारककल्पना च कृता भवति । अधिकरणाशङ्कानिवृत्तिश्च न वक्तव्या भवति । ?R?0अयमाशयः - सन्निपत्योपकारादारादुपकारताङ्गसंशये सति सन्निपत्योपकाराश्रयणं न्याय्यम् । अन्तरङ्गत्वात् । तेन होमस्यपि भिन्नसंस्कारत्वेन सन्निपत्योपकारकत्वाश्रयणं न्याय्यम् । न च परित्यक्तसामर्थ्यं संस्कारमर्हतीति कार्यपर्यालोचनया परित्यक्तसामर्थ्यं भिन्नं प्रतीयते । सप्तमी त्वियं अगारे गावो वास्यन्तामिति च द्रष्टव्या । तेनाधिकरणभूतस्यैव संस्कारात् तन्निवृत्तिरपि वक्तव्या न भवति । राद्धान्तमाह - ?R?0अत्रोच्यते-सत्यमेवं, किन्तु अत्र सप्तमीनिर्देशात् न कर्मभावो भिन्नस्य । ?R?0न हि कर्मभावे सप्तमी भवति । यत्तु ‘?Rअगारे गावो बध्यन्तां’ ?Rइति तत् प्रमाणान्तरतस्तथावगमात् । अत्र तु न तथा । किन्तर्हि निमित्तभाव एव सप्तमीयम् तेन भिन्नस्य निमित्तता । युक्त्यन्तरं चाह - ?R?0संस्कार्यत्वे च न नित्यसंस्कारस्य अङ्गभावः शक्यते प्रतिपत्तुम् भिन्नस्यानित्यत्वात् ।?R?0 होमस्तावत् नित्यमङ्गम् । तदनुरूपं च च द्वारमाश्रयणीयम् । यदि च भिन्नसंस्कारो द्वारं स्यात् तदा भेदनस्यानित्यत्वात् तत्समाधानद्वारो होमोऽपि न नित्यः स्यात् । अतस्सोऽयमनन्वयी शास्त्रार्थः स्यात् । निमित्तभावे एवम् । नायं दोषः। नित्यानित्यसंयोगलक्षणो दोषो न भवति सति निमित्ते त्वङ्गत्वावगमात् नैमित्तिकमेवाङ्गम् न पुनः संस्कारपक्षे निमित्तेऽसति अङ्गहोम इति शक्यते वक्तुम् । न च निमित्तमधिकारिणां मते उपपद्यत इति दर्शितम् । तेन भेदवतो होमश्चान्यत इति
?R चोदयति - ?R?0अथ कस्मादधिकरणसप्तम्येवेयं न भवति । ?R?0उत्तरं?R?0 न
?R?0भवति आहवनीयबाधप्रसङ्गात् ।
?R?0 ?R?0सर्वहोमेष्वाहवनीय(स्य) प्राप्तत्वात् भवतु बाध एवेति चेत् तत्राह - ?R?0अन्यथा वोपपत्तेः । ?R?0निमित्ते सप्तमी(ते) त्वेनाप्युपपत्तौ न बाधः शक्यते वक्तुम् । ?R?0अथ कस्मान्निमित्तनैमित्तिकसंबन्ध एव न चोच्यते किमधिकारिविशेषणेन भेदनिमित्तमिति । ?R?0एतावदेव किमिति प्रधानहोम एव न ज्ञाप्यते किमित्यपरं होमान्तरमाश्रीयते तत्र च भेदनमधिकारिविशेषणमिति ।
?R उत्तरं ?R?0सिद्धविषयो हि संभवति । न च सिद्धविषये वेदस्य प्रामाण्यमस्तीत्युक्ते भवति । ?R?0यदि वेदेऽपि सिद्धानुशासनं स्यात् तदा निमित्तनैमित्तिकभावमात्रे वाक्यं पर्यवस्येत् । न चैतदस्ति अनुष्ठानोपदेशकत्वादिति होमानुष्ठानविधिरेव । होमानुष्ठाने चाधिकारिविशेषणस्यैव निमित्तत्वमित्युक्तम् । तस्माद्भेदनवतो होमश्चोद्यत इति सिद्धम् । ?R?0शेषमुक्तम्
?R?0 ॥ 5 ॥ क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात् ॥ 17 ॥
?R दर्शपूर्णमासयोः श्रूयते - अथ यस्य पुरोडाशौ क्षायतः तं यज्ञं वरुणो गृह्णति। यदा तद्धविष्कं कर्म सन्तिष्ठते अथ तदेव हविर्निर्वपेत् ;?R यज्ञो यज्ञस्य प्रायाश्चित्तिरिति । तत्रायमर्थः-यस्य यज्ञस्य पुरोडाशौ क्षायतः तं यज्ञं वरुणो गृह्णति यदा तद्धविष्कं कर्म सन्तिष्ठते तदा तदेव हविः पुनर्निर्वप्तव्यमिति । यस्य पुरोडाशौ क्षायत इति पूर्वाधिकरणन्यायेन कृत्स्ने चैकदेशे च क्षामे निमित्तस्य हविःक्षाणलक्षणस्य विद्यमानत्वात् । यस्य पुरोडाशौ क्षायत इति वचनविहितेन नैमित्तिकेन भवितव्यमिति पूर्वपक्षवादी मन्यते । यदि क्षामसंस्कारर्थमेतत् तदा एकदेशक्षाम एव प्रायश्चित्तं स्यात् न कृत्स्नक्षामे । कृत्स्नक्षामेऽपि निमित्तसंभवात्तत्रापि युक्तमेव । न च कृत्स्ने क्षामे इत्यपि विशेषः श्रूयते । (अतः) उभयस्मिन्नपि क्षामे प्रायश्चित्तं युक्तम् । तद्धविः (संस्था) व्यपदेशो निर्विषय एवैतत् स्यात् (??R) ?R?0नन्वेवमप्येकदेशक्षाम एव प्रायश्चित्तं स्यात् ।
?R?0शब्दश्चैवमुपपन्नो भवति । यदि हि अकृत्स्नक्षामे एतद्वचनं स्यात् तदा तद्धविः सन्तिष्ठत इति संभवति । ?R?0अयमर्थः - सर्वदाहे तु दग्धे हविः संस्थानानुपपत्तेः तद्धविर्व्यपदेशो न घटते । सर्वदाहे तु हविरन्तरमुपादाय प्रयोगे क्रियमाणे तद्धविर्व्यपदेशो निर्विषय एव स्यात् ।
?R नन्वैवमपि एकदेशदाह एव प्रायश्चित्तं स्यात् न कृत्स्नदाहे । न हि तदा तद्धविर्व्यपदेशो घटत इति । सत्यम् । तत् हविः यस्य तद्धविः इति व्यपदेशः एकदेशदाह एवोपपद्यते । तथापि आर्त्यधिकरणन्यायेन यज्ञसंस्थैव निमित्तं न पुनः तेन हविषा संस्थानं निमित्तं, तेनान्येन (अ)दहतापि हविषा क्रियमाणे नैमित्तिकं युक्तमेवेति । किन्तु यदि सर्वदाह एवैतद्वचनं स्यात् तदा तद्धविः शब्दात् प्रायश्चित्तमित्युक्तं तदन्वारुह्यवादमात्रम् ।
?R एवं प्राप्तेऽभिधीयते - ?R?0अपरिहार्यत्वादेकदेशक्षाणस्य सर्वक्षाणनिमित्तं प्रायश्चित्तमिति युक्तम्?R?0 । यस्य पुरोडाशौ क्षायत इति विशेषवचनं सर्वदाह एवोपपद्यते एकदेशदाहे तु सर्वस्य संभवात् विशेषवचनं नोपपद्यते । तस्मात् कृत्स्नक्षाण प्रायश्चित्तमिति ।
?R अत्र चोदयति -?R?0 यावत्पाकं हि या क्षाणता सा भवत्वपरिहार्या पाकानौपयिकी तु या क्षाणता सा किमिति निमित्तं न भवति । ?R?0यावत्या क्षमतया विना न पाक एव निष्पद्यते तावती क्षामताऽवश्यंभाविनी माभून्निमित्तम् । यया विनापि पाको भवति कादाचित्का निमित्तमस्तु । स चैकदेशक्षमेऽपि?R?0 ?R?0संभवति । लौकिका अपि हि अनीप्सिते पाकानौपयिके दाहे क्षामशब्दं प्रयुञ्जते दग्धो गुलः, दग्ध ओदन इति । तेनानीप्सितं पाकानौपयिकं क्षाणमिति ।
?R परिहरति - (सत्यं) ?R?0यथा भवानाह, अनीप्सितं पाकानौपयिकं क्षाणमभिप्रेतमिति । तदेव न ज्ञायते कियदीप्सितमिति ।?R?0 तेन ईप्सितपाका- नौपयिकत्वेन विशेषो ज्ञातुं न शक्यते । आक्षेप्ता आह - ?R?0किमिति न ज्ञायते । पुरोडाशसिद्धिरपेक्षिता । यावता पाकेन पुरोडाशः सिद्ध्यति तावान् पाक
?R?0ईप्सितः?R?0 ।
?R समाधाता आह - ?R?0सत्यं पुरोडाशसिद्धिरीप्सिता सैव तु न ज्ञायते कियता क्षणेन तु सिध्यति कियदनुपयोगीति?R?0 । अयमाशयः - यावता पाकेन पुरोडाशः सिद्ध्यति तावानीप्सितः (तावतानीप्सितं) तेन यावानेव पुरोडाशसिद्धिविघातकारी पाकः तावानेवानीप्सितः । स च सर्वदाह एव । तावता हि पुरोडाशबुद्धिरपैति । लौकिके पुनः लोक एव प्रमाणं ईप्सितानीप्सितत्वे । तत्र नियमो नास्ति, प्रतिपुरुषमीप्सितभेदात् । तस्मात् सुष्ठूच्यते - ?R?0अपरिहार्यत्वादेकदेशक्षणस्य, सर्वक्षाण एव प्रायश्चित्तमिति ।?R?0 तच्छब्दपरिहारस्तूक्तः अन्येनापि हविषा संस्थाप्यमानं कर्म तद्धविश्शब्देन लक्षयितुं शक्यत इति ।
?R ?R?0॥ 6 ॥ यथाश्रुतीति चेत् ॥ 22 ॥
?R ?R?0ननु चोद्दिश्यमानस्य विशेषणमविवक्षितमिति ग्रहाधिकरण उक्तम् । तेनैवाधिकारिणोऽपि विशेषणमविवक्षितमित्युक्तम् । तेन पुनरुक्तत्वादनारभ्यमेवाधिकरणम् ।
?R परिहरति - ?R?0सत्यं केन वोक्तं न प्रतिपादितमिति । यदि प्रतिपादितं किं तहिं अनेनेदं अनेन किमधिक्रियमाणविशेषणं विवक्ष्यते नेति चिन्त्यते ।?R?0 अस्यार्थः - उद्दिश्यमानस्य विशेषणमविवक्षितमिति तत्रोक्तम् । इह तु अधिक्रियमाणस्य विशेषणमाविवक्षितमिति प्रतिपाद्यते । तेन नास्ति पौनरुक्त्यमिति भावः ।
?R ननु उद्दिश्यमानविशेषणविवक्षाभिधाने नेदमुपलभ्यत इति अत्राह -
?R ?R?0न चाधिकार्युद्दिश्यते । किं तर्हि कर्मण्यधिक्रियते अन्या अधिकारिता अन्या चोद्दिश्यमानतेति मन्यते ।?R?0 विधेयस्य विषयतापत्तिरुद्धेश्यत्वं, कर्मणि स्वामित्वमधिक्रियमाणत्वम् । तेन यत्र विधेयार्थत्वेनोद्दिश्यते तद्गता सा चिन्ता ।
?Rअत्र तु नियोज्यगता चिन्तेति विशेषः ।
?R ?R?0अत्र पूर्वपक्षवादी पदद्वयविशिष्टामार्तिं अधिक्रियमाणविशेषणतया मन्वानः पदद्वयविशिष्टार्तिं निमित्तमित्याह - यस्योभयं हविरार्तिमार्च्छेदिति ।?R?0 आख्यातेनार्तिरुच्यते । सा च हविरुभयपदाभ्यां युगपत् विशेष्यते क्रय इवारुणैकहायनीभ्याम् । (ते) विशिष्टा चासौ पुरुषविशेषणमिति । उभयविशेषणविशिष्टा आर्तिः निमित्तम् । ऋच्छतिश्च धातुः आङ्पूर्वः आर्तौ वर्तते। आर्तिशब्दोऽपि क्तिन्नन्तः तस्मादेव व्युत्पाद्यते । उपसर्गादृति धातौ (पा.सू.6-1-11) इति वृद्धौ कृतायां रपरत्वे च राल्लोपे इलोपे आर्तिमार्च्छेदिति तु यदुच्यते तदा ओदनपाकं पचतीतिवत् द्रष्टव्यम् । ?R?0राद्धान्तवादी तु सत्यं, सर्वविशेषणविशिष्टोऽधिकारी गम्यते । न पुनरेकपदीभृतैः विशेषणैः विशेष्यते, समासाभावात् । एकपदीभृतानि एतानि न भवन्ति । ततः किं? इदं ततो भवति । अधिक्रियमाणविशेषणं हि फलतया निमित्ततया वा गम्यते । न कर्मणः पुनः पुनः स्वविशेषणतया?R?0 स्वस्यात्मनः या विशेषणता तया नावगम्यते । ?R?0विशेषणमात्रमाह - पर्यवसायी न भवतीति ।?R?0 किन्तु कर्मणः फलत्वेन निमित्तत्वेन वाऽवतिष्ठते । तच्चेदानीं फलं वा निमित्तं वा । यथैवाधिकृतविशेषणतयाऽवगतं तथैव भवितुमर्हति । स्वपदार्थप्रयुक्तं च विशेषणतयावगतं न तत्कार्याद्दते शक्यत एकीकर्तुम् । स्वकीये पदार्थे च प्रयुक्तं पदजातं अधिकारिविशेषणतयाऽवगतं न शक्यते कार्यादृते उपादेयादृते एकीकर्तुम् । यथा क्रय उपादेयत्वेन चोदितः एकीभूतविशेषणविशिष्टोऽवगम्यते । न तथेहावगन्तुं शक्यते अनुपादेयत्वादार्तेः न चेदं कार्यं निमित्तपर्यन्तत्वादस्याधिकारस्य । न च निमित्तमुपादेयं भवति । अतो नेदं परस्परसंबन्धनिमित्तत्वेनोपादातुं शक्यते । एकं चेदं वाक्यम् । ?R?0तस्मादन्यतरदत्र निमित्तत्वेन प्रतिपत्तव्यम् । नोभयम् ।?R?0 हविरार्तिर्निमित्तं नोभयं विशेष्यत्वाद्धविषः । आनन्तर्याच्च । तेन हविषि आर्ते निमित्ते उभयपदमनुवादः
?R?0यद्येकपदीभावावगमाभावात् उभयत्वविशिष्टं हविर्निमित्तं तदा किं हविरेव निमित्तं ? उत्तरं - न आर्तिविषयभूतमिति ब्रूमः ।
?R ननु च आर्तिरपि नैव हविषा एकपदीभूता कथं तद्धिषयभूतस्य विशेषणता । नैष दोषः । भावाश्रयत्वान्नाम्नः । न हविः (षः) पुरुषेण संबन्धः । अभावाथानां क्रियाकारकसंबन्धपूर्वक एव परस्परसंबन्धः। परस्परं पुनः नाम संबन्धि । एकपदीभाव एव हेतुः । तेनार्तिसंबन्धात् पुरुषसंबन्धः । तेना(र्त)र्तिमेव हविः पुरुषस्य विशेषणमिति आर्तिविशेषणीभूतमेव हविः निमित्तमिति सिद्धम् ।
?R?0 ननु वाक्यादपि परस्परसंबन्धो नाम्नामवगम्यते-यथा देवदत्तस्य गाव इति?R?0 । परिहरति - ?R?0बाढं स तु वैभक्तिकः । विभक्तिश्च द्वयोरेव संबन्धमाचष्टे, न पुनरन्येनापीति । ?R?0औत्सर्गिकमिदं, तेन हविरार्त्यैव संबध्यतां, नोभयत्वेन । तस्मादार्तिविषयं हविर्निमित्तं विशेष्या (त्वा)दानन्तर्याच्च । आर्तिविषयमिति नपुंसकनिर्देशः हविर्विशेषणत्वात् ।
?R ?R?0ननु चोभयशब्दे निमित्तत्वेन परिगृह्यमाणे हविषोऽपि अनुप्रवेशः सिद्धो भवति । उभयत्वस्य नित्यसापेक्षत्वात् । अतः सकलपदानुगुण्येन तथैव सम्बन्ध आश्रीयताम् ।?R?0 यस्योभयं(हविः) आर्तिमार्च्छेत् किं तदुभयमित्यस्यामपेक्षायां हविरेव परिगृह्यते ।
?R परिहरति - ?R?0असंबन्धज्ञो भवान् । पदार्थजातस्य विशेषणं हि विशेष्यमपेक्षपाणं विषयतयाऽपेक्षते ;?R ?R?0नात्मनोऽवच्छेदकतया । उभयत्वं सङ्ख्या । सा च आर्तिविषयतया भवितुं नार्हति इति आर्तिविषयं द्रव्यमेवापेक्षते । तेन यद्युभयत्वं हविरपेक्षते तथापि विशेषणत्वेन नैवापेक्षते । किञ्च आर्तिविषयतया आर्तिविषयभावे च तस्य तदेव निमित्तं भवति तदाह - ?R?0न चेदमवच्छेदकं, अपि तु विषयः । विषयः पुनः विशेषणनिरपेक्षः निमित्ततामापद्यते इति हविरार्तिमात्रमेव निमित्तं व्यर्थ एवोभयपदाकाङ्क्षोपन्यासः । ?R?0यदिदं हविषो द्रव्यत्वेन आर्तिविषयत्वं नोभयत्वस्य तदिदमुक्तं - ?R?0मृष्यामहे न हविषो
?R?0विशेषणमिति । ?R?0अकार्यतया अनुपादेयतया चाधिकृतविशेषणानां यावन्तः परस्परसंबन्धाः प्रदर्श्यन्ते यावत्संभवत्संभवतामिदमेव निराकरणमित्युपरम्यते । समासं विना परस्परसंबन्धानां विशेषणत्वानुपपत्तिरिति इदमेव निराकरणं भाष्यकारेणापीति इयतामुपन्यासो निराकरणस्य व्याप्तिप्रदर्शनार्थ एव कृतः । न हि प्रमाणादृते निमित्तसमाहारस्सिद्ध्यतीति सिद्धं हविर्मात्रविषयार्तिर्निमित्तमिति।
?R?0 ॥ 7 ॥ होमाभिषवभक्षणं च तद्वत् ॥ 24 ॥
?R?0 अत्रापि द्वयोर्नाम्नोः परस्परसंबन्धो नास्तीति अधिक्रियमाण विशेषणत्वेऽपि प्रत्येकं निमित्तभावः । ?R?0अस्यार्थः - अभिषुत्य हुत्वा भक्षयतीत्यत्र द्वयोः क्त्वान्तयोर्नाम्नोः परस्परसंबन्धो नास्तीति यद्यपि वस्तुस्थित्या परस्परसंबन्धयोरपि पुरुषविशेषणत्वं संभवति तथापि शब्दसामर्थ्यानुसारेण प्रत्येकमेव निमित्तभावः ‘?Rअभिषुत्य भक्षयन्ति’ ?Rतथा ‘?Rहुत्वा भक्षयन्ति’?R इति । तेन ये अभिषवमात्रेऽपि कर्तारः तेऽपि भक्षयन्ति । येऽपि होममात्रे तेऽपीति । ?R?0न चोभयपदवदविवक्षा संभवति । ?R?0यथा उभयपदमविवक्षितं तथाऽभिषवे निमित्ते हुत्वेति न विवक्षितं अनुवादमात्रम् । न च शक्यं वक्तुं हविषोऽन्यस्योभयत्वं निमित्तं भविष्यतीति । अन्यस्यानुपादानात् हविषश्चोपादानात् तद्विषयत्वमेवोभयत्वे प्रतीयते । इह पुनरविशेषादुभयं निमित्तम् । अभिषवे निमित्ते होमस्य निमित्तता न प्राप्ता । तथा होमे निमित्तेऽभिषवस्येति नानुवादोपपत्तिरिति ।
?R ?R?0ननु चाभिषुत्य हुत्वेति संबन्धो भवति । क्त्वाप्रत्ययस्य समानकर्तृकार्थत्वात् द्वितीयेन विना धात्वर्थेन तदनुपपत्तेः । ?R?0तदवश्यापेक्षणीये अभिषुत्येति भवति । हुत्वेति तु भक्षयतीत्येतदपेक्षम् । तेनाभिषवहोमयोः परस्परसहितयोः निमित्तत्वमिति । परिहरति - ?R?0सत्यं क्रियान्तरापेक्षिता क्त्वाप्रत्ययस्य न पुनः क्त्वान्तक्रियापेक्षिता । तस्या अप्यन्यपरत्वात् । न हि द्वयोरप्रधानयोः मिथस्संबन्धो युक्तः । ?R?0किन्तु सर्वं प्रधानेनैव संबध्यते । प्रधानं
?Rच भक्षयतीत्येतत् न तु हुत्वेति । तस्यपि भक्षयतीत्येतस्मिन् गुणभावात् । तस्मादयमभिसम्बन्धः अभिषुत्य भक्षयति, हुत्वा भक्षयति इति । ?R?0क्रमविधानं त्वत्र नैव संभवति प्राप्तत्वात् । ?R?0अभिषुत्यैव होमः प्राप्तः ;?R हुत एव च भक्षणम् प्रतिपत्तित्वात् । नाप्यभिषवहोमयोः भक्षणाङ्गत्वेन विधानम्, अधिकृतविशेषणत्वात् । नापि स्वार्थविधानं, अभिषवस्य ‘?Rसोममभिषुणुयात्’?R इति प्राप्तत्वात् । ‘?R?0सोमेन यजेत ?R?0इति च होमस्य । तस्मान्निमित्तनैमित्तिकविधिरेवायम् । स च प्रत्येकमिति पूर्वः पक्षः ।
?R ?R?0अत्राभिधीयते - समानकर्तृकतावगमात् क्त्वान्तानामभिषवहोमयोश्चान्यतः प्राप्तत्वात् एककर्तृकत्वस्यैव अभिषुत्य हुत्वेति चोद्यते ।
?R?0 ?R?0अस्यार्थः - कत्वान्तेन शब्देन समानकर्तृकता उच्यते । होमाभिषवौ च समानकर्तृकौ सिद्धौ । तेन स एव समानकर्ता उच्यते । तेनायमर्थः सम्पद्यते अभिषवहोमयोः द्वयोः कर्ता भक्षयति इति । अत्रायं पूर्वः पक्षः
?R ?R?0ननु च द्वयोः कत्वान्तयोः परस्परसंबन्धो नावगम्यते । अन्यार्थत्वात् व्यतिरिक्तविभक्त्यन्तरयुक्तयोरिव । ?R?0यथा अरुणयैकहायन्येति च प्रातिपदिकाव्यतिरिक्तकरणत्वाभिधायितृतीयान्तयोः परस्परसंबन्धो न भवति । तथा क्त्वान्तयोरपि न युक्तं, अव्यतिरिक्तप्रथमान्तयोर्भवत्येव संबन्धः न व्यतिरिक्तविभक्त्यन्तयोः । परिहरति । -
?R ?R?0सत्यं, यत्र प्रमाणान्तरं नास्ति तत्र प्रधानक्रिययैव क्त्वान्तस्य संबन्धः । यत्र पुनः प्रमाणान्तरावगतै(रे)व तद्विषयता न तत्र विषयान्तरावगतिर्भवति प्रमाणान्तरेण एकवाक्यलक्षणेन,?R?0 यत्र क्त्वान्तयोरेककर्तृविषयताऽवगता न तत्र कर्त्रन्तरावगतिः । यदि हि एकविषयता न स्यात् तदा एकवाक्यता न स्यात् । एकवाक्यता चावगम्यते । तेनैकवाक्यत्वात् तयोः क्त्वान्तयोरपि परस्परसंबन्धः । यथा कृष्णस्य देवदत्तस्य
?Rगाव इति । किन्त्वेकवाक्यताबलात् कृष्णगुणस्य देवदत्तस्यैवेति संबन्धो भवति । एवमत्रापि अभिषुत्य हुत्वेति एककर्तृविषयमेवाधिकारिविशेषणमवगमयति एकवाक्यत्वात् । अधिकृतमुखेन च विशेषणस्य विध्यन्वयात् सिद्धा समाहारस्य निमित्तता । समाहृतविशेषणविशिष्टस्याधिकारात् सिद्धा समाहृतयोरेव निमित्तता । न चोभयपदवत् निवर्तयितुं सामर्थ्यं नास्तीति शक्यते वक्तुम्, भिन्नद्वारत्वात् पदद्वयस्यास्य कर्तरीति । तत्र पुनः विधिद्वारकमेव पदद्वयमिति विशेषः अभिषवहोमयोस्त्वनन्यतन्त्रत्वात् निवर्तयितुं सामर्थ्यमस्ति । उभयपदं हविर्विषयमेव । तेन हविर्मात्रार्तिनिमित्तं न शक्नोति निवारयितुम् । अयं तु केवलस्य निमित्ततां शक्नोत्येव वारयितुमिति ।
?R
?R ?R?0॥ 8 ॥ पुनराधेयमोदनवत् ॥ 26 ॥
?R?0 यस्योभावग्नी अनुगतौ इति उभयशब्दस्याग्निविषयत्वात् हवि (षु) (ष्ष्विव) नैवैकस्य वारणे सामर्थ्यमस्तीति एकस्मिन्नप्यनुगते नैमित्तिकमिति पूर्वपक्षवादी मन्यते । ?R?0अनुगतस्याग्निमात्रस्य सूर्येणाभ्युदयोऽभिनिम्रोचनं च निमित्तत्वेन श्रूयमाणं उभयशब्देन निवर्तयितुं न शक्यते, उभयशब्दस्याग्निविषयत्वात् । तेन प्राप्तस्यायमनुवाद इति ।?R?0 राद्धान्तवादी तु सत्यं निमित्तभावो वारयितुं न शक्यते । नैमित्तिकं तु एकस्मिन्ननुगते नोपपद्यते ?R?0उभयार्थत्वेन ज्ञातत्वात् । ज्ञातस्य च पुनर्विधानात् पुनराधेयमेव तस्य प्रायश्चित्तिरिति । यदेवाधानमग्न्युत्पादकतया अनुगमे नैमित्तिकमिति सिद्धम् ।
?R ?R?0॥ 9 ॥ पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् ॥ 28 ॥
?R ?R?0निर्वपतिसंबन्धात् प्रतिनिधिनियमं मन्यते पूर्वपक्षवादी ।?R?0 ‘?Rऐन्द्रं पञ्चशरावमोदनं निर्वपेत्’?R इति निर्वपतिश्रवणात् सान्नाय्ये विपन्ने च द्रव्यान्तरं निर्वपेदिति चोद्यते । यदि हि कर्मान्तरं विधीयते तदा तत्र निर्वापस्य चोदकप्राप्तस्य
?Rअनुवादकः स्यात् ।
?R ?R?0कथमस्मिन्नपि पक्षे ऐन्द्रशब्दः ? ?R?0यद्योदनं निर्वपेदिति विधीयते कथमैन्द्रशब्दः । न हि सोऽपि विधेयार्थोऽवकल्पते वाक्यभेदप्रसङ्गात् । उत्तरं - ?R?0प्राप्तत्वादनुवादं मन्यते । ?R?0प्रतिनिधीयमानं द्रव्यमैन्द्रमेव प्राप्तं इन्द्रस्य तस्मिन् कर्मणि देवताभावात् । ननु च महेन्द्रोऽपि (महेन्द्रस्यापि) तत्र देवताभावात् ; ?Rन चेन्द्रशब्देन महेन्द्रोऽभिधातुं शक्यते । अतः कथमनुवाद इति तत्राह -
?R ?R?0प्राप्तत्वात् महेन्द्रशब्दाश्रवणमपि अदोषः ?R?0नावश्यं सर्वमेव प्राप्तमनुवदितव्यमिति भावः । ?R?0अत्रोच्यते । यतः प्राप्तं नावश्यं सर्वमेवानुवदितब्यं विनापि तेन विवक्षितार्थसिद्धेः । ?R?0अत एव कर्मान्तरमिदं;?R अन्यथा हि माहेन्द्रशब्दवत् ऐन्द्रशब्दोऽपि न वक्तव्यः स्यात् । उक्तश्चायम् । स च यस्मिन् पक्षेऽर्थवान् स एव पक्षः आश्रयितुं न्याय्यः । तस्माद्धिधानार्थतैव न्याय्या ।
?R नन्वेवमपि र्निवपतिशब्दोऽनर्थक इत्यत्राह - ?R?0निर्वपतिशब्दस्तु प्रत्ययोच्चारणमवश्यं वक्तव्यमिति विशेषः ।?R?0 ऐन्द्रशब्दस्सर्वत्रानर्थकः, निर्वपतिशब्दस्तु कर्मविधानार्थं ;?R यो विधिस्स वक्तव्यः । तदर्थतयाप्यर्थवानेवेति ।
?R ?R?0॥ 10 ॥ स प्रत्यामनेत् स्थानात् ॥ 30 ॥
?R?0 पञ्चशराव इदानीं चिन्त्ते - किं स्वतन्त्रं कर्मान्तरं उत दर्शपूर्णमासाधिकृतस्यैव तन्नाशे तत्कार्यसाधनमुपदिश्यते उतामावास्याङ्गमिति । ?R?0स्थिते कर्मान्तर (त्वे) हि चिन्तोपपद्यते । इदानीमिति वदन् पक्षत्रयमत्र चिन्त्यत इति च दर्शयति तेन भाष्ये आमावास्यां प्रत्यामनेदिति पक्षः तदा (तथा)किं कर्मान्तरं स्वतन्त्रं उत तदङ्गमेवेति द्रष्टव्यम् । तत्र पूर्वपक्षवादी तावत् विनष्टस्याङ्गभावोऽनर्थकः । अतः तत्कार्यस्यैवेदं साधनमिति मन्यते । स्वतन्त्रपक्षोऽपि मन्दतया नोपन्यस्तः । ?R?0राद्धान्तवादी तु स्वातन्त्र्ये
?R?0तावदधिकारान्तरकल्पनैव दोषः । ?R?0कार्यकरणत्वेऽपि प्रधानं प्रमाणं नैवाङ्गि अङ्गता पुनः प्रकरणाम्नानादवसीयते । ननु विनष्टस्य अङ्गभावोऽनर्थक इत्युक्तम् । अङ्गविनाशादेवाविनाशो भविष्यति । हविषि किल विपन्ने कर्मणो द्रव्यान्तरेण क्रियमाणस्य वैगुण्य संभवति । तच्च वैगुण्यमङ्गविधानादेव प्रतिसमाधास्यते ।
?R ?R?0ननु चान्यथापि इदं विधानमुपपन्नमित्युक्तम् । कार्यकरणतया विधानोपपत्तेः स शक्यतेऽङ्गतया विधानम् ।?R?0 उत्तरं?R?0 - न प्रकरणेऽन्यथोपपद्यते । ?R?0प्रकरणादङ्गतैवावगम्यते । पत्यक्षश्च प्रकरणपाठः । कार्यस्वातन्त्र्ययोस्तु कल्पनोपपद्यते तस्मादङ्गतैवेति युक्तम् ।
?R ?R?0॥ 11॥ विश्वजित्त्वप्रवृत्ते भावः कर्मणि स्यात् ॥ 32 ॥
?R?0 आगुरतः कर्म चोद्यतेत । अत्र संशय इति । ?R?0अनेन सविषयतया (तां)न्यायस्य दर्शयति विश्वजिद्वा भवति अन्यद्वा । सर्वथा यदागूर्यमाणस्य
कर्म चोद्यते । तत्रायं विचारः - आगुरत इति रूपसिद्धौ यत्नः कर्तव्यः । गुरतेरनुदात्तेत्त्वात् आत्मनेपदप्रसक्तेः । संशयस्वरूपमाह -
?R ?R?0किं यदागुरितं सत्रादि तत्प्रवृत्तौ सत्यामेव इदं कर्म उत अविशेषेण अथ (अ)प्रवृत्तावेवेति । ?R?0अनेनाविशेषपक्षो यद्यपि भाष्यकारेणोपन्यासकाले मन्दत्वान्नोपन्यस्तः तथापि निराकरणदर्शनादुपादातव्यः इति दर्शितम् । आगुरितमिति शब्दसाधुतायां यत्र आस्थेयः । गुरीधातोरीदित्वादिट्प्रतिषेधोपपत्तेः । विशेषानुपादानादविशेषेण इति प्राप्ते उच्यते -
?R आगूर्यमाणस्य प्रवृत्तौ विश्वजित् इति । एवमह्गता भवति । निमित्तपर्यन्तोऽधिकारः कल्पितो भवति । आगूर्यमाणेभ्यः प्रवृत्ते कर्म विधीयमानं आगोरणनिमित्तकं मवति । तच्च न युक्तम् । अधिकारान्तरकल्पनाप्रसङ्गात् । प्रवृत्ते तस्येदमङ्गमिति कल्पना लघ्वी । अविशेषे पुनः निमित्तपर्यन्तता । प्रवृत्त्यभावपक्षेऽङ्गतैवेति विप्रतिषिद्धम् स्वतन्त्रताङ्गत्वयोर्विरोधात् ।
?R?0 अत्रोच्यते - अप्रवृत्तस्यैवेदं कर्माऽऽगुरमाणस्य चोद्यते । आगूर्य माणस्यागोरणविशेषार्थत्वात् न शक्यते विधेयस्याङ्गता वक्तुम् ।?R?0 “?Rयः सत्रायागुरते स विश्वजिता यजेत’?R इति नायमभिसंबन्धः ‘?Rसत्राय विश्वजिता यजेत’?R इति व्यवहितान्वयप्रसङ्गात्, किन्तु सत्रायागुरते इति । तेनागोरणविशेषणत्वात् आगूर्यमाणं प्रत्यङ्गता चतुथींबलेन विधीयमानस्य न शक्या सम्पादयितुम् । तेन स्वतन्त्रतैव न्याय्या ।
?R ?R?0ननु चास्मिन्नपि पक्षे आगोरणस्य निमित्तपर्यन्तता कल्पनीया तद्वरं - समभिव्यात्डियमाणसत्राङ्गतैवाश्रीयताम् । निमित्तपर्यन्तत्वेऽपि स्वतन्त्राधिकारान्तरमाश्रयणीयम् । ?R?0अङ्गत्वे तु तन्न भवतीति । उत्तरं ?R?0नायं दोषः आगोरणस्य समाप्तिपर्यन्तत्वात् आगूयिमाणकार्यपर्यन्ततैवा श्रीयते ?R?0तस्मात् पूर्वाधिकृतकार्यपर्यन्ततैवेति न कार्यान्तरं कल्पितं भवति । आगोरणमुद्यमनं, उद्यमनं च समाप्त्यर्थम् समाप्तिश्च कार्यपर्यन्ततैवोच्यते उद्यमनं च तस्य भवति । तेन सत्रता कार्यतया प्रतिपन्ना । तस्य विश्वजिद्विधीयमानः तत्कार्यपर्यन्त एवावसीयते । अतः कार्यान्तरकल्पना नास्ति । तदेवैश्वर्यं विश्वजितापि पुरुषस्य यतः साध्यते तस्मादयमेव पक्षः श्रेयान् विश्वजिता सत्रकार्यं कुर्यादिति ।
?R?0॥ 12 ॥ वत्ससंयोगे व्रतचोदना स्यात् ॥ 34 ॥
?R?0 केयमधिकारे अङ्गाङ्गिचिन्ता । यदि काललक्षणा यदि वा श्रौतार्थः उभयथाप्यङ्गप्रधानचिन्तैव । ?R?0एकत्र पक्षे श्रुत्या वत्सस्य व्रताङ्गतया विधिः ।
?R अन्यत्र पक्षे लक्षितस्य एककाल(स्य) व्रताङ्गतयैव विधिरिति विशेषः। तेन लक्षणे सङ्गतिर्नास्तीति ।
?R ?R?0अत्रोच्यते । श्रौते वत्से विधीयमाने विधिः काललक्षणायामधिकारः । ?R?0कथं ? ?Rउत्तरं - ?R?0एकत्र व्रते वत्सः चोद्यते ?R?0प्रत्यया(अमावास्या) ङ्गतया वा ।
?Rअन्यत्र व्रतिनः कालः । कथं पुनः लक्षणायां व्रतिनः कालश्चोद्यते ? ?Rइत्यत्राह ?R?0न कालः कर्मणा संबध्यते । अनपेक्षितत्वात् प्रयोगाङ्गं स इत्युक्तम् । ?R?0एकदेशप्रयोग एव कालस्यापेक्षणीयत्वात् । ततः किमित्याह - ?R?0प्रयोगश्चाधिकृतस्येति ?R?0अधि(कृत्य) (तस्य) सम्बन्धः प्रयोगं चिकीर्षमाणस्य कालापेक्षायां कालो विधीयमानोऽधिकृतस्यैव सम्बन्धितया विधीयते अधिकारनिबन्धत्वात् प्रयोगस्य । तेनाधिकारचिन्तायामस्ति सङ्गतिः कालविधावधिकारसम्बन्धित्वात् । ?R?0शेषमुक्तम् ।
?R?0 ॥ 13 ॥ कालश्चेत्सन्नयत्पक्षे तल्लिङ्गसंयोगात् ॥ 41 ॥
?R?0 ननु चैव पुरोडाशानामपि अनपायो हि कालस्येत्युक्तम् । किमत्राभ्यधिकं चिन्त्यते ??R न, पौनरुक्त्यमाशङ्क्यते योऽप्येष पुरोडाशः पौर्णमास्यामस्ति असोमयाजिनः तस्यामसत्यपि अग्नीषोमीये पुरोडाशे पुरोडाशयोर्मध्यवर्तिकालः उपांशुयाजसंबन्धी विद्यत एवेत्युक्तम् । तद्वदिहापि ?R?0। असान्नाय्ययाजिनो वत्सापाकरणाभावेऽपि तत्कालस्यापायो नास्तीति तस्यापि कालविधिर्युक्त एवेति सिद्ध एव राद्धान्तः ।
?R ?R?0किमर्थमिदमधिकरणमारभ्यते ? ?Rअस्त्यत्र विशेषः - अधिकारमुखेनै- तत्कालविधानम् । ?R?0अधिकृतस्यैवायं कालविधिरुक्तः । तत्र पूर्वपक्षवादी कालोपलक्षणपदार्थयुक्तस्यैवाधिकृतस्येति मन्यते । कालोपलक्षणेन वत्सापाकरणेन युक्तस्यैवाधिकारिणः कालविधिरयं युक्तः । न हि अन्यस्य तत्कालो विधातुं शक्यते । तदभावे तत्काल एवासौ न भवतीति भावः ।
?R ?R?0राद्धान्तवादी तु - सत्यं अधिकृतस्यैवायं कालविधिः । कालसंभवमात्रे त्वधिकृतोऽयम् । ?R?0तस्य हि कालो विधातव्यः यस्य हि कालः संभवति तेन संभव एवाधिकृतोऽयं तस्य कालविधिः । स च कालो वत्सापाकरणरहितस्याप्यस्ति
?R ननु च वत्सापाकरणयुक्तः कालो नास्तीत्यत्राह -?R?0 न?R?0 ?R?0पुनरुपलक्षणमप्यधिकारं विशिनष्टि । कुतः ? ?Rउपलक्षणत्वादेव । अङ्गभूतो हि कालोऽधिकारं विशिनष्टि । न पुनरुपलक्षणम् । प्रतीतिमात्रहेतुत्वात् ।
?R?0यद्युपलक्षणमपि कार्योपयोगि स्यात् तदा विशिष्यादप्यधिकारम् । न चोपलक्षणं कार्यौपयिकम् । किं तर्हि ? ?R?0उपलक्षणायैव । ?R?0तद्विशिष्टकालविशेषप्रतिपत्त्यर्थमेव । न च सता असता वा उपलक्षणेन कश्चिद्विशेषोऽस्ति ; ?Rअस्य कालस्यान्यतोऽवगमात् । कस्मात् । अनपायो हि कालस्तत्रापि सिंद्ध न केवलमेकपुरोडाशेऽयमिति ।
?R ?R?0॥ 14 ॥ प्रस्तरे शाखा श्रयणवत् ॥ 43 ॥
?R ?R?0अत्रापि विनियोगप्रतिपक्षतयाऽधिकार एव चिन्त्यते ।?R?0 अङ्गविधौ अङ्गभूतशाखाविधौ विनियोगः । कालविधौ प्रस्तरप्रहरणकाले शाखा प्रहरणं प्रति विधीयमानाऽधिकृतस्यैव विधिः । न पुनः गुणार्थे तृतीयेयं शङ्क्यते । ?R?0उपपदलक्षणा हीयं न कारकलक्षणा । सहशब्दश्रवणात् सहप्रयोगनिबन्धनैवेयं तृतीया न कारकलक्षणा । तेन कथं शाखायां गुणभावशङ्का ।
?R ?R?0सत्यं उपपदविभक्तिरियम् अप्राधान्यं तु अन्यथा नोपपद्यते ।?R?0 तेन गुणभावं मन्यते । ‘सहयुक्तेऽप्रधाने’ इति अप्रधानवाचिनः प्रातिपदिकात् इयं तृतीया । तेन शाखा अप्रधानभूता गुणभूतैवावसीयते ।
?R अत्र चोदयति -?R?0 भवत्वत्र प्राधान्यं सहभावे, मा भूत् प्रस्तरे ।?R?0 यद्यप्यप्राधान्ये सहार्थेयं तृतीया, तथापि तदप्राधान्यं सहभावे ।
?R किमिदं सहभाव इति? स प्रधानं यस्य तु प्रसिद्ध एव क्रियासंबन्धः, यस्य न तदप्रधानं तेन प्रहरणसंबन्धः शाखाया उच्यत इति । ?R?0भवत्वप्राधान्यं शाखायाः प्रस्तरं प्रति गुणीभावो न युक्तः । समाधत्ते - तत्सिद्धिस्त्विह न संभवतीति
?R?0हि पश्यन् पूर्वपक्षवादी सहभावमविवक्षितं मन्यते।?R?0 शाखायाः प्रहरणसम्बन्धस्यापि अविदितत्वात् प्रस्तरस्य विदितत्वात् सहभावेऽप्राधान्यं न संभवतीति अविवक्षित एवात्र सहभावः। तस्मात् कारकतयैवात्र गुणभाव उपपद्यत इति पूर्वः पक्षः ।
?R ?R?0राद्धान्तस्तु - सहभावाविवक्षा न विभक्तिबलेन युक्ता । विभक्तयोऽपि व्यत्ययेनापि स्पर्यन्ते ।?R?0 अस्यार्थः - यदि शाखाशब्दः तृतीयान्तो गृह्येत प्रस्तरशब्दश्च द्वितीयान्तः तदा शाखायाः अप्राधान्यात् अनुपपत्तेः सहभावोऽविवक्षितः स्यात् । सा चेयमविवक्षा विभक्तिबलेन । न च विभक्तिः सहशब्दमपि विवक्षितं कर्तु शक्नोति । विभक्तिव्यत्ययेनापि प्रयोगदर्शनात् । तेनात्र विभक्तेर्व्यत्ययेन वर्णना ‘प्रस्तरेण शाखां प्रहरति’ इति । उपपद्यते चात्र सहार्थः नोपपद्यमानस्याविवक्षा युक्ता । किञ्च कृतप्रयोजना च शाखा वत्सापाकरणेन । कृतप्रयोजनानां च प्रतिपत्तौ सत्यां न कार्यान्तरकल्पनाऽवकल्पते इति । प्रस्तरप्रहरणमपि कार्यान्तरपरम् न शाखायाः (कार्यान्तरं)कल्पयितुं शक्यते - विनियुक्तविनियोगविरोधादिति । सहयोग एवायं प्रतिपत्तव्य इति विभक्तिव्यत्यय इत्येवात्र न्याय्यः । उपकारश्चात्र विपरीतः तृणमयप्रस्तरः शाखायां दह्यमानायां उपकर्तुमर्हतीति शाखाप्रस्तरे प्रयोजनमुक्तम् । पूर्वपक्षे अमावास्यायामसन्नयता शाखा उपादेया प्रस्तरप्रहरणाङ्गत्वपक्षे । प्रतिपत्तिपक्षे तु यत्रैव सान्नाय्याङ्गभूता शाखाऽस्ति तत्रैव प्रतिपाद्या भवतीति ।
?R?0इति ऋजुविमलायां षष्ठाध्यायस्य चतुर्थः पादः
?R?0षष्ठाध्यायस्य पञ्चमः पादः
?R?0॥ 1 ॥ अभ्युदये कालापराधादिज्याचोदनास्याद्यथा पञ्चशरावे ॥ 1 ॥
?R अत्रेयं विषयशुद्धिः - अमावास्यायामेव दर्शार्थेन वेदिः क्रियते । अग्निप्रणयनादिकं व्रतादिकं च यजमानसंस्कारः दध्यर्थश्च दोहः । प्रतिपदि दर्शः
?Rप्रवर्तते इति । एष तावत् पारमार्थिकोऽनुष्ठाननियमः । यस्य तु यजमानस्य कुतश्चित् गणनभ्रमनिमित्ता चतुर्दश्यामेवामावास्याबुद्धिरुपजायते सा तस्याममावास्यायां कर्म प्रवर्तंयति । तस्य चन्द्रमसा हविरभ्युदीयते । तत्रेदं श्रूयते ‘यस्य हविर्निरुप्तं’ इति । तेन यजमानेनाभ्युदितेन हविषा अमावास्यायामेव निमित्ताधिकारं परिसमाप्य पुनस्तदहरेव वेद्युद्धननादि कर्म कृत्वा प्रतिपद्येव दर्शः कर्तव्य इति । अभ्युदयेष्टिरिति नैमित्तिकमिदं कर्मान्तरं विधीयते । अथवा तदेवापनीतदेवताकं हविः पुनः देवतान्तरैः संयुज्यते इति ।
?R पूर्वपक्षे नियोगः, राद्धान्ते तु अधिकृतस्य प्रयोगविशेषचोदनेति । ?R?0अधिकारलक्षणेन(ण)(न) कर्मसंबन्धिता शास्त्रस्य ।?R?0 अनेन अधिकरणस्य लक्षणसङ्गतिमाह । अक्षरार्थस्तु दर्शात् कर्मान्तरं विधीयत इति । अयमत्र पूर्वः पक्षः । अत्र च विनियोगो द्वैतीयः कर्मान्तरस्याधिकारे विनियोग उपक्रान्तो दर्शितः । कर्मणः प्रयोगविशेषोऽयं चोद्यत इति राद्धान्तः । तत्र च प्रयोगविशेषचोदना, प्रयोगविशेषश्चाधिकृतस्येति अधिकारिविशेषाश्रयत्वात् अधिकारलक्षणमेवेदमिति भवति लक्षणसङ्गतिः । ?R?0ननु च यद्यपि पूर्वपक्षे कर्मसम्बन्धिता शास्त्रस्य तथापि किमित्यधिकारद्वारा चिन्ता न भवतीति ।
?R ?R?0अत्राह - कर्मसंबन्धे हि अधिकृतद्वारा चिन्तोपपद्यते । तस्मिन् सति अधिकारात् । तत्र पूर्वपक्षवादी कर्मान्तरं विधीयत इति मन्यते । त्रेधा तण्डुलान् विभजेत् इति तण्डुलविभागोऽत्रावगम्यते न दधिपयसोः?R?0 अस्यार्थः । यदि (देवतैव न) (देवताभ्यः) हविषां विभागः स्यात् तदा अपनीतदेवतानां हविषां देवतान्तरेण संयोगः शक्यते कर्तुम् । ततश्च प्रकृतानामेव
?Rकर्मणामयमनुष्ठानविशेषः चोद्यत इति राद्धान्तसिद्धिर्भवति । इह तु तण्डुलान् विभजेत् इति तण्डुलविभागः श्रूयते न दधिपयसोः । एवं च तण्डुलानामेवायं स्थविष्ठादिभिर्विशेषैः विशिष्टो विभागोऽवगम्यते, न देवतायाः । स्थूलमध्यमसूक्ष्मत्वादिभिः तण्डुला विभक्तव्या इति प्रतीयते । (न) पुनर्देवताभ्यो
?Rविभजेदिति । ततश्च पूर्वदेवताभ्योऽनपनीतत्वात् न शक्यते तद्धविः देवतान्तरेण योजयितुमिति । कर्मान्तर वेदं विधीयते । पूर्वं तु कर्मभावात् अधिकारभावात् परित्यजनीयमेव । दध्यादयस्तु लौकिकाः सन्तः यदि कर्मान्तरेऽपि व्याप्रियन्ते तदा न कश्चिद्दोषः ।
?R युक्त्यन्तरं चाह - ?R?0चरुश्च दधिपयसोस्संयोगे देवताविभागे नोपपद्यते । ?R?0अस्यार्थः-एकेन्द्रादिसंबन्धित्वेन यद्यपि दघ्नस्तण्डुलानां च संयोगः तथापि चरुत्वं कथं लभ्यते । तदपि न विधीयते । विधीयते चेत् तदा विहिते कर्मणि गुणद्वयविधानानुपपत्तेः कर्मान्तरविधिरेवापतति । न हि देवतान्तरं चरुत्वं च शक्यते विधातुमेकेन वाक्येन कर्मणि ।
?R ननु संयुक्तयोः दधितण्डुलयोः पाके सति, तथा पयस्तण्डुलयोश्च पाके सति चरुत्वमर्थप्राप्तमेव सत् अनूद्यते (सः) सप्तम्यर्थेनेत्याशङ्क्याह -?R?0 पुरोडाशार्थतया हि पाकस्तत्रोपदिष्टः । चरोरश्र (व) पणात् । ?R?0दर्शपूर्णमासोपयोगि यच्छ्र(व) पणं विहितं तत् प्रथनोत्तरकाले पुरोडाशाकृतिके द्रव्ये सम्पन्ने सति पुरोडाशसंस्कारार्थं न तण्डुलानां चरोरश्रपणात् । यदि तत्र चरुः श्रूयते तदा तण्डुलानां पाको विधी(येत) (यते) । तस्मात् कर्मान्तरविधिपक्ष एवैतत्सर्वमुपपद्यत इति पूर्वः पक्षः ।
?R?0 कथं पुनरत्र अस्मिन् पक्षे आतञ्चनाभ्यासः । ?R?0अस्यार्थः । एवमत्र श्रूयते - “?Rयदि बिभीयादभिमोदेष्यतीति महारात्र एव हवींषि निर्वपेत् फलीकृतैस्तण्डुलैः पर्युपासीत अर्धं हविरातञ्चनस्य निदध्यात्, अर्धं न, यद्यभ्युदियात् तेनातच्य प्रचरेत् यदि न तेन ब्राह्मणं भोजयेत्” ?Rइति । यः खलु यजमानः आशङ्कते -
?Rप्रवृत्ताऽमावास्या त्तत्रैव किमत्र चतुर्दशी उत पञ्चदशीति । (स तस्या) (सत्या) मेव रात्रौ व्रीहीन्निरुप्य अवहत्य, फलीकृत्य उदीक्षमाण आसीत । सायंदोहनसंपादितं च दधि द्विधाकृत्य अर्ध दधि एकान्तरितकरिष्यमाणस्य कृते अनन्तरं सायं दोहं सम्पाद्य दध्यातञ्चनाय निदध्यात् । अर्धं चैवमेव स्थापयेत् ।
?Rतत्र यद्यभ्युदयः स्यादेवमेव स्थापितेनार्धेन दध्ना नैमित्तिकाधिकारं निर्वर्त्य निहितेनार्धेन दध्ना सायं दुग्घे पयसि आतञ्चनं कृत्वा दध्युत्पाद्य अन्येद्युः दर्शमभिनिर्वर्तयेत्, यदि तन्नाभ्युदियात् यदेवं निहित (चमेवंनित) मर्धें दधि तेनार्धेन दध्ना दर्शमेव कुर्यात् । आतञ्चनाय निहितं च दधि आतञ्चनस्यानर्थकत्वात् आतञ्चनेनास्याप (स) रणीयं ब्राह्मणभोजनेन प्रतिपादयेदिति । तत्र च यदि कर्मान्तरमिदं नैमित्तिकं भवेत् । तदा यत्तद्दध्यस्ति तद्दर्शार्थमेवेति (ननु) (न) दर्शार्थेनापरेण दध्ना कृत्यमस्तीति आतञ्चनं न क्रियेत। तत्रातञ्चनाभ्यासदर्शनं नोपपद्यते । यदा त्वेतत् तदेवामावास्याकर्म (अ)प्रवृतं तत्र तदा अनेनैव दध्ना दर्शार्थोपार्जितेन कर्तव्यमिति अपरेद्युः क्वचित्प्राप्तस्य दर्शस्य कृते आतञ्चनेन प्रयोजनमस्तीति युक्त आतञ्चनाभ्यासः। परिहरति -
?R?0 वाचनिको भविष्यतीति । ?R?0अस्यार्थः - यद्यपि तद् दध्यस्ति तथापि अन्यद्दधि आतच्य प्रचरितव्यमिति वाचनिकमेवं भविष्यतीति न्यायेनैवास्मिन् शास्त्रार्थे स्थितम् ।
?R अत्र कश्चिच्चोदयति -?R?0 ननु चेतरस्मिन् पक्षे वाचनिक एवासौ । ?R?0अस्यार्थः - यस्मिन्नपि पक्षे न कर्मान्तरमिदं तस्मिन्नपि पक्षे चतुर्दश्यां जनितस्य दध्नः प्रतिपदि क्रियमाणदर्शं प्रति अयोग्यत्वात् वाचनिक एव विनियोगः । अमावास्यायां हि जनितं दधि दर्शे विनियुक्तम् । ?R?0अतश्चातञ्चनाभ्यासदर्शनं नोपपद्यते इति इतरस्मिन्नापादनपक्षेऽपि वाचनिक एव । ?R?0अयमर्थः - तेनैव दध्ना दर्शः कर्तव्य इति । तत्केन विशेषणेन ? प्रपञ्चेनेदमुच्यते वाचनिकोऽयमातञ्चनाभ्यासो भविष्यतीति ।
?R?0 ?R?0परिहरति -?R?0 सत्यं तथापि तूपादानान्तराभावात् प्राप्त इत्युच्यते विनियोगे तूभयोस्तुल्यम् । ?R?0आपादनपक्षे हि विनियोगमात्रं तस्य दध्नः न पुनरुपादानम् वाचनिकातञ्चनम् । अभ्यासपक्षे तु विनियोगः उपादानं च वाचनिकम् - तेन दध्यातञ्चनं कर्तव्यं इत्ययमर्थो वाचनिकः स्यात् । तथा
?Rविद्यमानेऽपि तस्मिन् दधनि दध्यन्तरमुपादेयं ;?R न पुनस्तेनैव दध्ना कर्तव्यमित्येतद्वाचनिकमेवेति ।
?R?0 एवं प्राप्तेऽभिधीयते - देवतापनयोऽयम् । कुतः ? विभागवाक्ये त्रैविध्यस्यान्यतः प्राप्तेः । ?R?0अस्यार्थः - नायं स्थविष्ठादिभिर्विशेषैः तण्डुलानामेव विभागो विहितः, अन्यतः प्राप्तत्वात् । किन्तु देवतातो विभागो हविषः,?R?0 ?R?0तस्यान्यतः (तोऽ)प्राप्तत्वात् ।
?R?0 कुतो व्यस्ततण्डुलानां त्रैविध्येन विभागप्राप्तिः ? ?R?0उत्तरं - ?R?0देवतासम्बन्धविधानतः ?R?0यदा स्थविष्ठादीनां भैदेन देवतात्रयसम्बन्धः तदा अर्थादेव तण्डुलानां पृथक् कल्पनं प्राप्तम् । अतः विभजेदित्येतावदेव विधीयते । न पुनस्त्रेधा विभजेत् इति । त्रेधाशब्दस्तु तण्डुलानां नित्यप्राप्तं त्रैविध्यमनुवदति । स चाविशेषात् हविर्मात्रस्यैव प्रतीयते न पुनः तण्डुलानामेव । देवताभ्यो विभजेदित्युक्ते ज्ञायत एव तत्सम्बन्धिहविषोऽपि विभाग इति ।
?R तच्च हविर्मात्र न तण्डुलशब्देन विशेष्टुं शक्यते । वाक्यभेदप्रसङ्गात् । उपरितनानि च वाक्यानि अपनीते देवतान्तरसम्बन्धे देवतान्तराणीति न कर्मान्तरमवगम्यते । प्रकृतान्येव च द्रव्याणि दर्शाख्येन कर्मणा संबद्धानि देवताभ्यो विशेषेणापनीतानि देवतान्तरैर्युक्तानीति प्रकृतकर्मणि प्रत्यभिज्ञानात् न कर्मान्तरमवगम्यते । न च कालाभावेनाधिकाराभावे कर्मस्वरूपाभावः । नैमित्तिकाधिकारे तान्येव कर्माणि चोद्यन्ते । ततश्च तस्मिन् कृते निमित्ताधिकारे नित्याधिकारनिर्वृत्त्यर्थं भूयस्तान्येव कर्माणि कर्तव्यानीति मन्तव्यम् । ?R?0ननु चरुशब्दश्रवणं नोपपद्यत इत्युक्तम् । ?R?0पुरोडाशार्थत्वात्पाकस्य तद्विधौ च
?Rवाक्यभेदप्रसङ्गः । यदि प्राप्तकर्मानुवादेन विधिः गुणविधिः कर्मस्वरूपाश्रितः स्यात्, तदाऽनेकगुणविधानाद्वाक्यभेदः स्यात् । यदा त्वयं कालभ्रमेणाधिकारभ्रान्त्या प्रवृत्तस्याभ्युदयस्याधिकृतस्य विभागनिमित्तको देवताभ्यो विभागे सति तस्यैव यागस्य प्रयोगविशेषश्चोद्यते तथासति न वाक्यभेदः ।
?Rकथमित्याह -?R?0 स एवायं पुरोडाशः तां तामवस्थां नीतः ?R?0इति । अनुवादोऽयम् । अस्यार्थः योऽसौ पुरोडाशश्चोदितः तस्य पुरोडाशस्वरूपतयैव प्रयोगोऽपि प्राप्तः । सम्प्रति अभ्युदये निमित्ते अभ्युदितावस्थायामेव दधिसंयुक्तस्य पयस्संयुक्तस्य देवतापनयं कृत्वा देवतान्तरसंबन्धः क्रियते । तस्य च तथाभूतस्य पेषणं न कर्तव्यमेव । प्रथनार्थत्वात् । तस्य प्रथनस्य च कर्तृमशक्यत्वात् स्तोकत्वात् तण्डुलानां, प्रभूतत्वात् दध्नः पयसश्च । तेनात्रा(पी) अपिष्ट्वैवाप्रथयित्वैव च पाकः कर्तव्यः । तस्यानपनीयत्वात् क्रियमाणे च पाकेऽर्थाच्चरुता । सप्तम्यर्थश्च सम्पद्यत एवेत्यनुवादोयऽम् “?Rदधनि चरुं”?R “?Rपयसि चरुम्”?R इति । यत एव च प्रयोगप्रकारचोदनयाऽनुवा(दो) दानुपपत्तेः प्रकृतकर्मानुप्रवेशस्सिद्ध्यति न पुनः कर्मणि गुणविधानेन च । अत एवेत्यनुवादः । ?R?0अयं च भेदः लक्षणे नाभेदः शक्यते बक्तुमिति अधिकृतद्वारमेवेदं शब्दार्थविदो मन्यन्ते ।
?R भेदाभेदलक्षणे हि द्वितीयेऽध्याये यद्येषा चिन्ता क्रियते तदा कर्मस्वरूपाश्रितत्वात् तत्रैव गुणविधिः स्यात् । तत्रानेकगुणविधानात् वाक्यभेदप्रसङ्गात् कर्मान्तरमेवेदं स्यात् । अधिकारलक्षणे तु चिन्तायामधिकृतस्य प्रयोगविशेषश्चोद्यत इति पुरोडाश एवायं प्रयुज्यत इति पाकस्यापनीतत्वात् अर्थप्राप्तैव चरुता सप्तम्यर्थेन सहानूद्यत इति वाक्यभेदाभावादुपपद्यत एवाभेदः । तेनाधिकारलक्षण इदं चिन्त्यते । तस्मात् पञ्चशरावादिभ्यो विलक्षणमिदं नैमित्तिकमिति सिद्धम् । पञ्चशरावादिभ्योहविरार्त्या कर्मैव विनष्टमिति कर्मान्तरं चोद्यते । इह कालापराधेऽपि हविषोऽविनष्टत्वात् कर्मणि अविनष्टे प्रयोगान्तरमिदं नैमित्तिकं चोद्यते । तस्यैवायं प्रयोग इति । प्रकृतद्रव्यप्रत्यभिज्ञानेन इदमवगम्यत
?Rइति सुस्थम् । शेषमुक्तम् ।
?R?0 ॥ 2 ॥ उपांशुयाजेऽवचनाद्यथाप्रकृति ॥ 10 ॥
?R ?R?0अमावास्यायामप्युपांशुयाजो विद्यत इति कृत्वा चिन्तेयम् । कथं
?R?0पुनरत्र पूर्वपक्षाऽऽङ्का ?Rयावता प्रयोग एवेदमुक्तं त्रेधा तण्डुलान् विभजेत् इति हविर्मात्रस्य विभाग इति । ?R?0 तेनोपांशुयाजहविषोऽपि देवतापनय इति ।
?R उत्तरं - ?R?0प्रतिसमाधानदर्शनात् पूर्वपक्षाशङ्का ।?R?0 यथा दधिपयः पुरोडाशानामपनीतायां पूर्वदेवतायां अपरदेवतासम्बन्धः तथेह नास्ति । न च देवतां विना यागो भवति इत्यपनयः एव(वं) देवतायाः । तस्मात्पूर्वपक्षी तावत् समाधानमविभागं मन्यते ।
?R राद्धान्तस्तु - ?R?0विभागाविशेषात् सर्वत्र विभागः?R?0 । यत्र समाधानं तत्र समाधिः । यत्र तु नास्ति समाधानं तत्र विभागान्त एव नैमित्तिकः प्रयोगः ।
?R ?R?0ननु च देवताविभागान्ते यागः प्रयुक्तो न भवति । देवतोद्देशेन हि द्रव्यत्यागो यागः । स च देवतायामनुद्दिष्टायां प्रयुक्तो न भवति ।
?R परिहरति - ?R?0कथं शक्यते वक्तुं न प्रयुक्त इति ? वाचनिकत्वादस्यार्थस्य ।?R?0 अस्यार्थः - य एवासौ यागश्चोदितः तस्य देवताविभागात्मक एव प्रयोगः कर्तव्य इति वचनेनेदमुच्यते । त्याग एव तु देवतोद्देशो यागः । स च उपाधिविगमेऽपि नानुपपन्नः ।
?R ?R?0ननु यद्युपाधिर्न प्रतीयते कथमवगम्यते स एवायं याग इति । ?R प्रकृतस्यैव प्रयोगविधानात् पुरोडाश इव चर्ववस्थे ।?R?0 यागोऽपि हि विभागान्त एवावसीयते प्रयोगनिष्ठत्वादधिकारशास्त्राणाम् । अधिकारशास्त्राणि तावत् प्रयोगनिष्ठानि प्रयोगमेव चोदयन्ति । न प्रयोज्यविषयश्शेषः । तेन यागस्यैवायमीदृशः प्रयोज्यस्य प्रयोगशेषो ज्ञायत इति न दोषः । यथा पुरोडाश एव चरुभूत इति । ?R?0कर्मस्वरूपविधौ ह्ययं दोषः ?R?0देवतोद्देशं विना
?Rयागासिद्धिलक्षणः । ननु च देवतापनये सति या काचिद्देवता कथ्यत इति, अत्राह - ?R?0न च सामान्येन देवताकल्पना वचनावगम्यत्वात् देवतायाः ।?R?0 एतदेव कुत इत्यत्राह - ?R?0या यस्य हविषः चोद्यते सा तस्य देवतेति स्थितेः ।?R?0 ?R?0तेन देवताभावं?R?0 कल्पयितुं न शक्यत इति । अर्थविभागान्त एव प्रयोगो विधीयत इति
?R?0 ॥ 3 ॥ निरुप्ते स्यात् तत्संयोगात् ॥ 12 ॥
?R?0 निरुप्तशब्दश्रवणात् निरुप्त एव हविषि उदिते नैमित्तिकमिति पूर्वः पक्षः ।
?R ?R?0ननु च आर्त्यधिकरणेनैव गतमिदम् । ?R?0 यथा आर्त्यधिकरणे उभयत्व विशेषणमविवक्षितं, किं तर्हि हविर्मात्रस्यार्तिर्निमित्तं इहापि हविर्मात्रस्य अभ्युदयो निमित्तं निरुप्तग्रहणमविवक्षितमेवेति परिहरति - ?R?0न तेन गतमिदमधिकरणं प्रवृत्तशब्दस्याश्रवणात् ।?R?0 न हि स्वरूपेण हविषोऽभ्युदयः संभवति । किं तर्हि प्रवृत्तस्य ? ?Rन चात्र प्रवृत्तशब्दः श्रूयते तेन पुनः श्रुत्यवगतमेव निरुप्तत्वविशेषणमस्तु तस्यैव श्रुतत्वात् ।
?R राद्धान्तमाह - ?R?0सत्यं प्रवृत्तशब्दो न श्रूयते तथापि यस्याभ्युदियादिति प्रवृत्त्यवगमात न विशेषणविषयमेव व्यवस्थापयितुं क्षमम् ।?R?0 यस्याभ्युदियादित्युक्ते प्रवृत्तत्वं हविषोऽवगम्यते । प्रवृत्तं ह्यभ्युदयो भवति । तेनाभ्युदियादित्यस्मिन्नेव पदे पवृत्तावगमात् निरुप्तविशेषणमपरनैमित्तिकं न विशेषमवस्थापयितुमर्हति यस्याभ्युदियादिति - (भ्युप)गमादिति । तस्मात् प्रवृत्तशब्दे श्रुते चाश्रुते च न कश्चिद्विशेषः । ?R?0दर्शनमुक्तम् ।
?R ?R?0॥ 4 ॥ अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यः तण्डुलभूतेष्वपनयात् ॥ 16 ॥
?R ?R?0निरुप्तेऽनिरुप्ते च अभ्युदिते प्राकृतीभ्यो देवताभ्यः अग्न्यादिभ्यो निर्वाप इति पूर्वपक्षवादी मन्यते तण्डुलभूतानामेव देवतापनयश्रवणात् । ननु
?R?0च प्रवृत्तमात्रं हविरभ्युदितं निमित्तमित्युक्तम् । तेन प्रवृत्तमात्रस्य देवतापनयात् कथं प्राकृतीभ्यो निर्वाप इति । ?R?0 परिहरति - ?R?0सत्यमुक्तम् ।
?R ?R?0ननु नैमित्तिकं तु तण्डुलमेतेष्विति वदामः ।?R?0 यद्यपि प्रवृत्तमात्रं हविर्निमित्तं तथापि देवताविभागात्मकं नैमित्तिकं, तण्डुलशब्दश्रवणात् ।
?Rतण्डुलावस्थायामेवेति प्राग(न) पनीतत्वाद्देवतायाः प्राकृतीभ्य एव निर्वापः ।
?R ?R?0अत्रोच्यते - नैमित्तिकेऽपि तण्डुला अतन्त्रमित्युक्तम् । विभागमात्रविधानात् ।?R?0 देवताभ्यो हविर्विभजेदित्युक्ते हविर्मात्रस्य विभागोऽवगम्यते । तेन तण्डुलग्रहणमविवक्षितमित्युक्तम् । अभ्युदितं तु हविः विमजनीयमिति शास्त्रार्थः । तस्मात् नैमित्तिकेभ्यो निर्वाप इति राद्धान्तः ।
?R ?R?0॥ 5 ॥ विनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात् ॥ 17 ॥
?R?0 यदवस्थस्यैव हविषोऽभ्युदयः तदवस्थयैव देवताप (न्न) नयोऽस्तु तत्पूर्वको देवतान्तरेभ्य एव निर्वापः ।
?R?0 नन्वेवं अवघातोऽपि तर्हि किमिति दधिपयसा युक्तानां न भवति ??R उच्यते । क्षोदिष्ठादिभेदभिन्नानां दध्यादिसम्बन्धादवघातोत्तरकालमेव दधिपयस्संसर्गं कृत्वा पाकःकर्तव्य इति । विनिरुप्ते सामिनिरुप्ते प्राकृतीभ्य एव निर्वापः प्रवृत्तः । परिशिष्टमपि मुष्ट्यन्तरं प्राकृतीभ्य एव निर्वप्तव्यम् । ?R?0 निर्वापे प्राकृतीनामेवाभिप्रवृत्तत्वात् । न च पदार्थान्तरं मुष्टय इति पञ्चमे उक्तम् । ?R?0एवं प्राप्तेऽभिधीयते-अपनयनमवगम्यते ?R?0दुर्दर्शस्स(म्)भवति । तस्माद्वैकृतीनां अपनये कृते सति आपादितहविस्सम्बन्धानामुद्देशेनैव निर्वापः कर्तव्य इति प्राप्ते राद्धान्तोऽभिधीयते -
?R ?R?0तूष्णीं निर्वापः कर्तव्यः अपनयावगमात् एकत्वाच्च निर्वापस्य (न निरुप्तपयस्सम्भवः)। ?R?0अस्यार्थः - पूर्वदेवतामुद्देष्टुं न शक्यते । अपनीतत्वात् । न देवतान्तरमपि योजयितुं शक्यते, चतुर्मुष्टिनिर्वापस्यैकपदार्थात्मकत्वात् । न च
?Rमुष्ट्यन्तरं पृथक्पदार्थः । न चैकस्मिन् पदार्थे देवताद्वयं सम्भवति, अन्योन्यविरोधात् । न च देवतावयवस्य देवतासम्बन्धः इत्यनुद्देशा परिसमाप्तिः ।
?R?0 ॥ 6 ॥ सान्नाय्यसंयोगान्नासन्नयतः स्यात् ॥ 21 ॥
?R?0 ननु चर्ववस्थस्याविधानात् नैवात्र पूर्वः पक्षः सम्भवति । ?R?0यदि सान्नाय्याधिकरणे चर्ववस्था विहिता स्यात् तदा सान्नाय्याभावेन न स्यात् असान्नाय्ययाजिनो नैमित्तिकम् । न चर्ववस्था विहितेत्युक्तम् ।
?R समाघत्ते - ?R?0अस्त्यत्र काचिदाशङ्का । नह्यसति शृते दधनि वा चर्ववस्था पुरोडाशस्य सम्भवति इति मन्वानः सान्नाय्ययाजिन एव नैमित्तिकं सम्भवतीति पूर्वपक्षयति । ?R?0अनुवादभूतापि चर्ववस्था सान्नाय्ययाजिन एव सम्भवतीति तस्यैव नैमित्तिकमिति पूर्वः पक्षः ।
?R राद्धान्तस्तु - ?R?0उदकेनापि चर्ववस्थासंभवात् निमित्तस्य चाविशेषश्रवणात् नैमित्तिकस्य च देवतासम्बन्धमात्रपरत्वादधिकरणार्थो न विवक्षितः इति ।
?R?0 ?R?0यद्यपि विवक्षिता चर्ववस्था, तथापि उदकेनाप्यसौ सम्पद्यत एवेति अविशषेण श्रुतं नैमित्तिकं न शक्यते विशेषेण सान्नाय्ययाजिन्यवस्थापयितुम् । परमार्थतस्तु देवतान्तरसम्बन्धमात्रं नैमित्तिकम् । अधिकरणार्थस्त्वर्थप्राप्त इति । अविवक्षितार्थत्वात् चर्वर्थस्य यत्रानुवादस्सम्भवति तत्रासौ भविष्यति । न पुनस्तद्बलेन विधिरेव सङ्कोचयितुं न्याय्य इति असन्नयतोऽपि नैमित्तिकमित्युक्तम् ।
?R?0 ॥ 7 ॥ साम्युत्थाने विश्वजित् क्रीते विभागसंयोगात् ॥ 25 ॥
?R?0 ननु चासन्नयतोऽप्युक्तमेव । अनन्तरं तेनैव अक्रीतराजकस्यापीति लभ्यते का अत्र अभ्यधिकाशङ्का या निवर्त्यते । ?R?0यथा पूर्वस्मिन् अधिकरणेऽविशेषेण निमित्तश्रवणात् असन्नयतोऽपि नैमित्तिकमित्युक्तम् ।
?Rतथाऽत्रापि साम्युत्थानस्याविशेषेण श्रवणात् अक्रीतराजकस्यापि नैमित्तिकेन भवितव्यमिति लब्धमेव । किमित्यधिकरणान्तरारम्भः ।
?R समाधत्ते - ?R?0अस्त्यत्राभ्यधिकाशङ्का - तत्र हि तण्डुलश्रवणात् अधिकरणार्थस्याविवक्षितत्वात् युक्तमसन्नयतोऽपीति । इह पुनः
?R?0अक्रीतराजको नैव श्रूयते ‘?Rसोममपभज्य’?R इति च क्रीतराजकावगमात् विभागस्य चान्यत्रानुपपत्तेः नैमित्तिकानुरोधेन निमित्तसङ्कोचं पूर्वपक्षवादी मन्यते - यथा अग्नी आदधीत इति । ?R?0अस्यार्थः तण्डुलशब्दश्रवणात् औषधेऽपि नैमित्तिकावगमात् असन्नयतोऽपि चौषधसम्भवात्, अधि करणार्थस्य वाक्येभेदप्रसङ्गेनाविवक्षितत्वात्, अर्थप्राप्तत्वाच्चासन्नयतोऽपि नैमित्तिकमिति युक्तम् । इह पुनरक्रीतराजकस्य श्रवणमेव नास्ति । प्रत्युत नैमित्तिके सोममपभज्य विश्वजिता यजेतेति श्रूयते । तेन सोमविभागविशिष्टस्य नैमित्तिकस्य विधानात् क्रीतराजकस्यैव तथाभूतनैमित्तिकानुष्ठानसम्भवात् । यथा च तत्रोदकेनापि चर्ववस्था असान्नाय्ययाजिनोऽपि शक्यते वक्तुं तथा इह नाक्रीतराजकेन सोमविभागश्शक्यत इति विशिष्टनैमित्तिकानुसारेण क्रीते राजनि साम्युत्थानं निमित्तमिति कल्प्यते । यथा- यस्योभावग्नी अनुगतौ इत्यत्र ।
?R ?R?0अत्रोच्यते । सत्यं, युक्तमाधाने एकोपायत्वेन अवगमात् आधानस्य । सोममपभज्येति इह सर्वद्रव्यविभागे प्राप्ते लक्षणया नावगम्यत इति न निमित्तसङ्कोचायोक्तम् ।
?R?0 ?R?0अस्यार्थः - यदि नैमित्तिकमेवेदं सोमविभागविशिष्टं स्यात् किं यत्र बहूनां सहप्रवृत्तानां मध्ये एकीकृतधनानां साम्युत्थाने प्राप्नोत्येवायं द्रव्यविभागः । स च लक्षणया सोममपभज्येत्यनुद्यते यो हि क्रीतराजकस्तस्यापि सोमविभागः प्राप्तत्वात् न विधेय एव किन्त्वनूद्यत इति सिद्धेऽनुवादे लक्षणापि न दोषः । तस्मात् प्रवृत्तानामुत्थाने विश्वजिदिति क्रीतराजकानां चेति युक्तम् ।
?R?0 ॥ 8 ॥ दीक्षापरिमाणे यथाकाम्यविशेषात् ॥ 27 ॥
?R?0 ज्योतिष्टोमे बहूनि दीक्षापरिमाणानि श्रूयन्ते । तत्र संशयः । किं तत्र सर्वैः परिमाणैः अधिक्रियन्ते, उत एकेनैवेति । ?R?0अनेनाधिकरणस्या ध्यायसङ्गतिमाह?R?0 । यथाविनियोगमधिकारावगमात् सर्वैरिति पूर्वः पक्षः । ?R?0सर्वेषां परिमाणानां विनियुक्तत्वात् सर्वैरेवाधिकारः तदा द्वादशरात्रीर्दीक्षितो भृतिं
?Rवन्वीतेत्ययं (पाक्षिको) द्वादशदीक्ष एव द्रष्टव्यः
?R राद्धान्तमाह - ?R?0द्वादशरात्रीर्दीक्षितो भृतिं वन्वीतेति नित्यश्रवणात् न पक्षान्तरे उपपद्यत इति ।?R?0 द्वादशपरिमाण एवाधिकारः द्वादशरात्रीर्दीक्षितस्य भृतिवननं नित्यवदधिकारश्रवणात् । परिमाणान्तरपक्षे च तदनुपपत्तेः द्वादशपरिमाणेनैवाधिकारः । परिमाणान्तराणि तु विकृतावुत्कृष्यन्ते ।
?R ?R?0कथं पुनरधिकारवशात् विनियोगोत्कर्षः?R?0 यावता विनियोगवशेनैव तु किमित्यधिकारो न वर्ण्यत इति भावः ।
?R परिहरति - ?R?0अधिकारपर्यन्तत्वाद्विनियोगशास्त्राणामिति युक्तम् । ?R?0प्रधानत्वादधिकारस्य तदनुरूपो विनियोगो न्याय्य इति । तिर्यगधिकरणे तु अधिकाराविरोधात् यथाविनियोगमधिकारव्यवस्थेति दर्शितम् ।
?R
?R ?R?0॥ 9 ॥ पौर्णमास्यामनियमोऽविशेषात् ॥ 30 ॥
?R ?R?0दीक्षाधिकारे पौर्णमासीश्रवणे संशयः - किमविशेषेण या काचित् पौर्णमासी ग्राह्या उत काचित् विशिष्टैव चैत्री माघी वेति ।
?R?0 तत्र पूर्वपक्षवादी अविशेषं मन्यते, वाक्यशेषसामर्थ्ययोर्विरोधात् । ?R?0वाक्यशेषे चैत्रीसङ्कीर्तनात् चैत्रीपौर्णमासीति प्रतिभाति । तेषामेकाष्टकायां क्रयस्सम्पद्यत इत्यस्य सामर्थ्यात् माघीति । तेन विरोधात् अनयोः परस्परव्याघातेनासाधकत्वात् अनियम एव । या काचित्पौर्णमासी ग्राह्या ।
?R ?R?0अपरस्त्वाह - न हि सामान्यज्ञानं वाक्यशेषं विहन्तुमर्हति । तेन चैत्र्येव ग्राह्या ।?R?0 यद्यपि पौर्णमासीशब्दात् सामान्यज्ञानं तथापि वाक्यशेषात्
?Rविशेषोऽवगम्यते । ननु लिङेगन क्रयसामर्थ्येन तद्विरुद्धमित्युक्तम् । लिङ्गं तर्हि नियामकं भवतु येन तदपोद्यते ।
?R अनियमवाद्याह - ?R?0एतदेव न विजानीमः अनयोः वाक्यशेषसामर्थ्ययोः?R?0 ?R?0किं केन बाध्यत इति ।?R?0 सुन्दोपसुन्दन्यायेन परस्परमनयोः पराहतयोः अनियम
?Rएव ।
?R राद्धान्तमाह - ?R?0उच्यते । बाढं ज्ञायते लिङ्गेन वाक्यशेषो बाध्यते । सामर्थ्यं ?R?0हि अधिकारेऽभ्यर्हितम् । विना च सामर्थ्येनाधिकाराभावात् । तेन सामर्थ्यस्य बलीयस्त्वात् वाक्यशेषोऽपोद्यते । वाक्यशेषस्य गुणवादेनाप्युपपत्तेः ।
?R ननु च माघ्यां कार्यसम्बन्धिन्यां चैत्र्याः स्तुतिरनुपपन्ना । तत्राह ?R?0विधेयान्तरस्तुत्यर्थतयैवायमुपन्यासो जर्तिलवत् ।?R?0 यथा पयोविधौ जर्तिलस्तुतिः तथा माघीविधौ चैत्रीस्तुतिः । चैत्र्येव साध्वी माघीं त्वपेक्ष्य नापि जघन्येति तस्मात् सामर्थ्येनैव विशेषग्रहणम् ।
?R?0 ॥ 10 ॥ दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात् ॥ 38 ॥
?R?0 इह पाकादीनां यावद्दीक्षाकालं पर्युदासं मन्वानः पूर्वपक्षवादी अनुत्कर्षं मन्यते । दीक्षितो न ददाति इत्यनेन ?R?0यावद्दीक्षा पुरुषस्य शास्त्रतः तावत् पर्युदासः पाकादीनाम् शास्त्रतश्च नियतकालैव दीक्षा । तेन दीक्षोन्मोचनस्य उत्कर्षेपि पाकादयः कर्तव्या एवेति ।
?R ?R?0राद्धान्तस्तु - नायं कालपर्युदासतेति । यदि कालं पर्युदस्येत भवेयुः पाकादयः न त्वयं कालपर्युदासः । ?R?0दीक्षितस्य हि अत्रानधिकारः । दीक्षितत्वं चानुवर्तत एव (आ) अवमृथात् । तस्मात् यावत् दीक्षितः तावत् पर्युदास एवेति युक्तः पाकादीनाम् ।
?R?0 ॥ 11 ॥ तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् ॥ 40 ॥
?R?0 कालोत्कर्षे किं प्रतिहोमाः कर्तव्या नेति चिन्त्यते ?R?0इत्यनेनाक्षेप्तुमनु भाषते ।
?R आक्षिपति - ?R?0कथं पुनरत्र प्रतिहोमाशङ्का ? ?Rदीक्षितः पर्युदस्त इत्युक्तम् ?R?0अस्यार्थः - कर्तव्यस्य अकरणे प्रतिहोमक्रिया सम्भवति । न च
?Rदीक्षितस्याधिकारः पाकादिष्वस्ति । अतोऽकर्तव्यानामेवाकृतत्वात् न प्रतिहोमाशङ्का युक्ता । समाधत्ते ?R?0प्राक्प्रमादान्नियतं नित्यशास्त्रं मन्यते?R?0ऽप्रमाद इव । अस्यार्थः - नित्यशास्त्राणि होमादिविषयाणि नियतानि प्राक्प्रमादात् । यावत् प्रमादो न निपतति । अवभृथोत्कर्षहेतुः दीक्षितत्वानुवृतिकारणम् । तावत्पुरुषस्य होमादयः कर्तव्या एव । यथा ततश्च प्रमादेऽपि आपतिते दीक्षितेन ये होमादयो न कृताः ते कर्तव्या एव सन्तो न कृताः स्युः । तस्मात् प्रतिहोमाः कर्तव्या इति पूर्वः पक्षः ।
?R ?R?0राद्धान्तस्तु - सत्यमप्रमादे नियतः कालः । अनधिकारात्तु दीक्षितस्याकरणमेव होमानाम् । अधिकारद्वारत्वान्नियमस्य । ?R?0अस्यार्थः - यस्य प्रमादो नास्ति तस्य होमानां नियतः कालः । यस्य पुनः प्रमादो निपतति तस्य दीक्षितत्वेनानधिकारात् प्रतिहोमानामकरणमेव अधिकारद्वारत्वान्नियमस्य ।?R?0 नियमो हि होमानां अधिकारिवशेनैव । यस्य हि जीवनवतो नित्यमधिकारः तस्य नित्यमनुष्ठानम् । न चाधिकारः प्रागेव भवति । ?R?0किन्तु अहरहरधिकारोऽप्यावर्तते । दीक्षितस्य अधिकारः पर्युदस्त इति अधिकाराभावान्न होमानां कर्तव्यतेति किमु ।
?R?0॥ 12 ॥ प्रतिषेधाच्चोर्ध्वमवभृथादिष्टेः ॥ 42 ॥
?R?0 दीक्षोन्मोचनोत्तरकालं प्रमादादिष्ट्युत्कर्षे सति अपरं दीक्षितस्य प्रतिहोमः कर्तव्य इति पूर्वः पक्षः । ?R?0अस्यार्थः - ‘?Rदीक्षितो न ददाति न जुहोति न पचति’?R इति दीक्षितस्य पर्युदासः कृतः । कृतावभृथश्च उन्मुक्तदीक्षो न दीक्षितः,
?Rयद्यपि पुनराधेयसम्मितेष्टिर्न कृता । तेनापर्युदस्तत्वात् प्रमादादिष्ट्युत्कर्षेऽपि होमादिष्वधिकारात् ये होमा न कृताः तेषां प्रतिहोमाः कर्तव्या इति पूर्वः पक्षः ।
?R ?R?0एतया पुनराधेयसम्मितयेष्ट्येति क्रममात्रं वचनम् । तेन क्रमानु
?R?0ग्रहायोदवसानीयां कृत्वैव प्रतिहोमाः करिष्यन्त इति मन्यते ।
?R?0 राद्धान्तस्तु सत्यं नास्ति पर्युदासः । अधिकारोऽपि नैवास्ति । अधिकारान्तरश्रवणात् पुनराधेयसम्मितयेष्ट्येति । ?R?0अस्यार्थः - जीवनमिव कृतोदवसानीयत्वमपि अधिकारिविशेषणानुप्रवेशीति अकृतोदवसानीयस्यानधिकारः । न तत्रानधिकृतस्य नियमोऽस्तीति न कर्तव्याः । समानकर्तृकता हि क्त्वाप्रत्ययस्यार्थः । न च परस्परा सम्बन्धयोरग्रिहोत्रोदवसानीययोः समानकर्तृकता सम्भवति । तत्र यदि कृतोदवसानीयः पुरुषः अग्निहोत्रेऽधिकारी भवति तदाऽधिष्ठानैक्येनापि तावत् समानकर्तृकता नातीव दूरोज्झिता भवति । क्रमपरत्वे सा अत्यन्तबाधिता स्यात् ।
?R
?R?0 ॥ 13 ॥ प्रतिहोमश्चेत् सायमग्निहोत्रप्रभृतीनि हूयेरन् ॥ 43 ॥
?R?0 एकस्मिन् काले पर्यवस्थितानां प्रतिहोमानां क्रमनियमप्रमाणाभावात् अनियम इति पूर्वः पक्षः । राद्धान्तस्तु यतःप्रमादः ततः प्रभृत्येव कर्तव्या इति ।?R?0 अतिपन्नप्रतिसमाधानमतिपन्नक्रमेणैव कर्तव्यमिति भावः ।
?R?0 ॥ 14 ॥ प्रातस्तु षोडशिनि ॥ 44 ॥
?R?0 ?R?0अत्र केषां चित्सायं, षोडशिनि प्रातरिति व्यवस्थाप्रदर्शनार्थं च षोडशिनः पृथक् ग्रहणम् ।
?R?0 ॥ 15 ॥ प्रायश्चित्तमधिकारे सर्वत्र दोषसामान्यात् ॥ 45 ॥
?R?0 भिन्ने जुहोति ‘?Rस्कन्ने जुहोति’?R इति श्रूयते । तत्र सन्देहः - किं निमित्तपर्यन्त एवायमधिकारः उत कार्यपर्यन्त इति । ?R?0अनेन भाष्यकारीयसंशयो व्याख्यातः । यदि हि भेदनवतः, स्वतन्त्रोऽयमधिकारः स्यात् । अथ तु कार्यपर्यन्तः, प्रकृतक्रतूपकारपर्यन्तोऽयमधिकारः तदा दर्शपूर्णमासयोरेव भेदने
?Rसति होमः तदङ्गभूतः कर्तव्य इति ।
?R?0 असाध्यत्वादधिकारिविशेषणस्य निमित्तपर्यन्त एवायमधिकार इति पूर्वपक्षवादी मन्यते
?R?0 ?R?0यत्र हि साध्यमधिकारिविशेषणं भवति तत्र हि कार्यपर्यन्तोऽधिकारो भवति । अत्र तु न साध्यमधिकारिविशेषणमिति न कार्यपर्यन्तता युक्ता । सा (तु) चैवमनुपकार (क) स्याङ्गस्यानुपपत्तेः सर्वत्र ज्योतिष्टोमादिष्वपि भेदनेनैव तत्राहिताग्नेर्होमा भवन्ति ।
?R ?R?0निमित्ताविशेषात् अनाहिताग्नेः किमिति न भवति ? ?Rउत्तरं होमविधानात् । न ह्याहवनीये होमः संभवतीति । ?R?0नैमित्तिकानुरोधेन निमित्त सङ्कोचः आधानवत् । नात्र तिरोहितमिव किञ्चिदस्ति ।
?R ?R?0एवं प्राप्तेऽभिधीयते - कार्यपर्यन्त एवायमधिकारः । ?R?0कुतः ? ?R?0दर्शपूर्णमासाधिकारस्यैव प्रकृतत्वात् । नियोगैक्यावगतिर्न शक्यतेऽपहन्तुम् ?R?0अस्यार्थः - भिन्ने जुहोति इति भेदनं निमित्ततया श्रूयते । न साक्षादधिकारिविशेषणतया । निमित्तभावस्त्वधिकारैकनिबन्धनेऽनुष्ठानेऽन्यथानुपपन्न इति अर्थादधिकारि विशेषणता कल्पनीया । दर्शपूर्णमासादिनियोगश्च साक्षाच्छ्रुताधिकारः । तत्सन्निधौ यन्निरधिकारमवगम्यते तेनापि स एवान्वितः उपनीयत इति एकनियोगता तावदवगम्यते । कथं च सा भवति ? ?Rयदि करणोपकारं निर्वर्तयति (इति) नान्यथा । तेन कार्यपर्यन्तत्वाद्दर्शपूर्णमासाङ्गमेवेदम् ।
?R?0 ननु चैवं सति अधिकारविरोधः प्राप्नोति यस्मादन्यदेवाधिकारनिमित्तम्
?R?0। ?R?0अधिकारस्य निमित्तमधिकारनिमित्तं अधिकारिविशेषणं भेदनम् अन्यच्च कार्यं दर्शपूर्णमासोपकारलक्षणम् । स्वर्गादिकं अधिकारिविशेषणं कार्यं चैकमेव ।?R?0 उच्यते । न विरोधः । अधिकारो हि अधिकारिविशेषणं नियोज्यतामापादयति । नियुक्तस्य च कार्यमवगम्यमानं नाधिकारं निरुणद्धि
?R?0। तस्यैव तदवगमात् । ?R?0यदि कार्यं कल्प्यमानमधिकारिविशेषणमेव निरुन्ध्यात् ततो विरोधात् न कार्यमाश्रीयते । अविरोधे तु कार्यकल्पना नानुपपन्ना । तस्यैवाधिकृतस्य कार्यावगमात् नाद्रीयेतेत्यत्राह -?R?0 जीवने पुनः कार्यान्तरानवगमात् निमित्तपर्यन्ततैव युक्ता ।
?R?0 ?R?0ननु किमिति निमित्तं कार्यमवेक्षते । जीवनेऽपि किमिति न कल्प्यते । अथ तु नापेक्षते कथं तर्हि यत्र कार्यं स्वीक्रियत इत्यनेनाभिप्रायेण पृच्छति?R?0 अथ कस्मान्न परिकल्प्यते कार्यं ? उच्यते । न नियोगः कल्पनां विषहते । नियोगसिद्ध्यैव चरितार्थत्वात् । ?R?0जीवनाधिकारेऽपि (वि)नियोगः कार्यभूतः प्रतीयते । तेनैव चरितार्थत्वात् न परं कार्यं कल्प्यते । ?R?0प्रतीयमानं (न) पुनर्नापन्होतुं शक्यते स्वार्थविशेषात् ?R?0यथा हि - नियोगोऽत्र साध्यभूतः प्रतीयते तथा करणोपकारोऽपि । तेन प्रतीयमानस्यापह्नवोऽनुपयुक्तः। यस्मात् कार्यपर्यन्तोऽयमधिकारः तस्मात् दर्शपूर्णमासाधिकृतस्यैव भेदनवतोऽधिकारः, नाग्निहोत्रे ज्योतिष्टोमे वा । अधिकृतस्योपदेशातिदेशयोः प्रमाणयोरभावात् ।
?R?0 ॥16॥ व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयेत ॥ 48॥
?R?0 ?R?0अधिकरणमध्यायसङ्गतिं दर्शयन् कस्य व्यापत्त्येति न विद्म इति वदन्नवतारयति - ?R?0व्यापत्तिमतोऽप्सु प्रहरणं श्रूयते - ‘?Rव्यापन्नमप्सु प्रहरेत्’?R ?R?0इति । व्यापत्तिमतः पुरुषस्याधिकृतस्याप्सु प्रहरणं श्रूयते । ?R?0न ज्ञायते कस्य व्यापत्तिमत?R?0 इति । किं तत् व्यापन्नं यस्य व्यापत्त्या व्यापत्तिमान् पुरुष इति न ज्ञायते । यदि व्यापत्तिरधिकारिविशेषणं कथं तर्हि व्यापन्नस्यैव प्रहरणम् ।
?Rएकमिदं व्यापन्नपदं नाधिकारिणं(कर्म) विशेष्टुं कर्म च समर्पयितुमलमित्यर्थः ।
?R उत्तरं - ?R?0तत्कथमित्यपेक्षायामधिकारावगमात् । ?R?0अस्यार्थः - कर्मसमर्पणार्थमेव व्यापन्नपदमाम्नातम् । अर्थात् तस्याधिकारिविशेषणत्वम् । केन प्रकारेण ??R उच्यते - तद्व्यापन्नस्याप्सु प्रहरणं कथं सम्भवति । यदि
?Rव्यापत्तिमद्द्रव्य एवाधिकारी भवति एवमर्थादधिकारिकल्पनायां न दोषः । अत्र च व्यापन्नशब्देन किं ग्रहीतव्यमित्यज्ञानमेव पूर्वः पक्षः ।
?R ?R?0राद्धान्तस्तु - किं तदिति विशेषानवगमात् यावत्कार्यकारणतया किञ्चिद्दूषितम् । ?R?0एतदेव विस्पष्टयति - ?R?0शिष्टानां कार्यं प्रत्ययोग्यं कृतमित्यर्थो व्यापन्नशब्दस्य । ?R?0यत एवं व्यापन्नं अतस्तदपेक्षोऽयमधिकारः । शिष्टानां कार्यं प्रति अयोगीकृतं द्रव्यं यस्य तस्य व्यापन्नप्रहरणमिति सिद्धम् ।
?R?0 ॥ 17 ॥ विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते ॥ 49 ॥
?R?0 अपच्छेदे संशयः - किमेकैकेनाधिक्रियते उत द्वाभ्यामपीति ।?R?0 अनेन भाष्यकारीयस्य संशयस्य कारणमुपन्यस्तम् । यद्येकैकेनापच्छेदेनाधिक्रियते तदा द्वयोर्युगपत् अपच्छेदे प्रायश्चित्तं न कर्तव्यम् । अतः द्वाभ्यामधिक्रियते । अपच्छेदशब्देन चात्र विभागफला क्रियाऽभिप्रेता ।
?R संशयमाक्षिपति - ?R?0 ननु च द्वयोः कथं संभवः ??R ?R?0द्वयोः अपच्छेदक्रिययोः कथं सम्भवः ??R एकैकैवेत्यर्थः । समाधत्ते - ?R?0एतदेवात्र विचार्यते किं युगपत् कालयोर्द्वयोः एकता भवति, उत तत्रापि एककालतामात्रमेव । एकैकैव तत्राप्यधिकारहेतुरिति । ?R?0अस्यार्थः - फलप्रदर्शनमुखेनैतदेवात्र विचार्यते किमेकस्मिन् काले एकैवापच्छेदक्रिया पुरुषद्वयसमवायिनी भवति । ततश्च तस्या एकेन व्यपदेष्टुमशक्यत्वात् अन्यतरस्य व्यपदिष्टे चापच्छेदे प्रायश्चित्तविधानान्न भवितव्यं प्रायश्चित्तेन उत अपच्छेदक्रिये निरपेक्षयोरेव पुरुषयोः प्रत्येकं परिसमाप्ते ।
?R यदि परमेककालमात्रवर्तिन्यौ ततश्चोभाभ्यां व्यपदिष्टावपच्छेदौ युगपत् द्वौस्त इति भवितव्यमेव प्रायश्चित्तेनेति ।
?R ?R?0तत्र पूर्वपक्षवादी कालैक्यादेकमेवापच्छेदं मन्यते ।?R?0 कालैक्यनिबन्धनोऽयं भ्रमः एकैवेयमपच्छेदक्रिया पुरुषद्वयसमवायिनीति मन्यते ।
?Rएकद्रव्यमगुणं कर्मेति च प्रक्रियामात्रं पदार्थविदामित्यवलोपः, अन्यतरेण पुरुषेण व्यपदेष्टुमशक्यत्वात् उभयाधिष्ठानमेककर्तृत्वम् । तस्मात् द्वाभ्यामेवायं व्यपदिश्यते ।
?R अन्यतरेण पुरुषेण व्यपदिश्यमानोऽपच्छेदः अधिकारहेतुरित्युक्तम् । अतो न यौगपद्येऽधिकारः । एकयैव क्रिययाऽनुमितया फलोपपत्तेः न क्रियान्तरानुमाने कारणमस्तीति गूढोऽभिप्रायः
?R ?R?0अत्रोच्यते - न द्वाभ्यां व्यपदेष्टुं शक्यतेऽपच्छेदः । द्व्यधिष्ठाना अपच्छेदक्रिया एका न भवति, इतरनिरपेक्षत्वात् कर्तृभावस्य । ?R?0तस्मात् इतरेतरयुक्तयोः कर्तृत्वमिह न भवति । कर्तृत्वाभिप्रायेण निरपेक्षतोक्तेति सिद्धान्त्यभिप्रायमबुद्ध्वा चोदयति - ?R?0कथं पुनरपच्छेदो न द्वितीयमपेक्षते । ?R?0अपादानभूतद्वितीयानपेक्षाऽपच्छेदक्रियैव नोपपद्यत इति भावः ।
?R उत्तरं - ?R?0अपेक्षत एव द्वितीयमपच्छेद इति सन्मात्रतयाऽपादानत्वेन । न तु व्यपदेश्यस्य । ?R?0तथा न कर्तृतयाऽपेक्षते । व्यपदेशश्चात्र कर्तृतयाऽपेक्षते । व्यपदेशश्चात्र कर्तृभावेनेति । व्यपदेश्यव्यपदेशतानिषेधेन कर्तृत्वं निषेधति ।
?R ?R?0कथं पुनः प्रत्येकमुभयसंपाद्ये द्वे क्रिये कथ्येते ??R उच्यते । एकैकापच्छेददशायां यादृशमेकैकगततत्फलं दृष्टं तथाभूतमेव द्वयोरपि अवगम्यत इति द्वयोरपि क्रियानुमानमविरुद्धम् । ?R?0अतः समर्थितमिदं भगवतः काश्यपस्य सूत्रं ‘?Rएकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणं कर्म’?R इति (1-1-17) कर्मलक्षणम् । तस्मात् युगपज्ज्ञापितायामपि सिद्धमेकैकस्याधिकारहेतुत्वं तत्तद्धविः प्रति ।
?R?0 ॥18॥ तत्र विप्रतिषेधाद्विकल्पः स्यात् ॥ 51 ॥
?R?0 ?R?0इदमिदानीं चिन्त्यते । किं नैमित्तिकयोर्विकल्पः उत समुच्चय इति । यदा स्थितं यौगपद्ये(न) निमित्तद्वयमस्तीति तदा नैमित्तिकद्वये चिन्तोपपद्यते किं
?Rसमुच्चयः उत विकल्प इति । तत्र विरोधात् विकल्प इति वदामः । सर्वस्वादाक्षिण्ययोः विरोधात् युगपदुपसंहर्तुमशक्यत्वात् विकल्प एव न्याय्य इति राद्धान्तः । ?R?0अथ कस्मात् तदनुरोधेन नैमित्तिकाङ्गद्वयानुरोधेन नावृत्तिः कल्प्यते प्रधानस्यैव, तेन द्वयमप्युपसंहरिष्यति ।
?R?0 ?R?0परिहरति - ?R?0नाङ्गानुरोधेन । ?R?0अथ कस्मात् द्विर्न प्रधानस्यावृत्तिर्युक्ता ? ?R। प्रधानं हि अङ्गस्य प्रयोजनं नाङ्गं प्रधानस्य । तेनाङ्गानुरोधेन प्रधानस्यावृत्तिर्नोपपद्यते । अङ्गता चैवं विधानात् नैमित्तिकानामुक्ता । वाचनिक्यां पुनः ततो द्वितीयं नैमित्तिकं भविष्यतीति चेत् । नेति (ब्रूमः ना) पच्छेदे(:?R) (प्रायश्चित्त्योः) समुच्चयः, प्रथमप्रयोगाङ्गत्वेना निर्ज्ञानात् । यदेव हि प्रथमप्रयोगाङ्गतया विज्ञातं तदेव पुनः त(त्र) त्र कर्तव्यम्, न प्रथमप्रयोगे द्वयोरङ्गता, किन्त्वेकस्यैव । तेनाङ्गत्वाद्द्वितीयस्य पुनस्त (ाव) (त्राप्य)प्यननुप्रवेशः ।
?R ननु यथा व्रीहियवयोर्द्वयोरपि विनियोगादङ्गता तथेहापि द्वयोरङ्गता किमिति न भवति इति अत्राह - ?R?0प्रयोगेऽप्यधिकारद्वारा विनियुज्यते न कर्मणीत्युक्तमभ्युदयेष्ट्यधिकरणे ।
?R?0 ?R?0यत्पुनः निमित्तसम्बन्धेनाधिकारिणमाश्रित्य विधीयते तत्प्रयोगाङ्गतयैव विधीयते । न च प्रयोगे द्वयोरनुप्रवेशसंभवः । कर्मणि तु विरुद्धानामपि सम्भवो भवत्येव प्रयोगभेदाश्रयत्वेन । तस्माद्विकल्पः । एकैकस्य विनियोगादेकाङ्गतेति । सोऽयं शास्त्रविकल्पः ।
?R ?R?0॥ 19 ॥ पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् ॥ 54 ॥
?R?0 केयमत्र बाधचिन्ता । ?R?0अनेनासङ्गतिरुक्ता । ?R?0अयुक्ता च सा । ?R?0अनेन युक्तिशून्यतोक्ता । अधिकारे तावद्बाधस्यानवसर एव । तेनात्रेयं चिन्ताऽसङ्गता । ?R?0कथमयुक्ता??R ?R?0उत्तरं - ?R?0शास्त्रार्थावधारणकाले हि बाधश्चिन्त्यते ।
?R?0अधिकारद्वारकमिदं बाधचिन्तनम् । तच्च प्रयोगे । न चैकस्मिन् प्रयोगे विरुद्धद्वयस्यावकाशोऽस्ति । तेन शास्त्रार्थावधारणायैवेयं चिन्ता । को बाध्यतामिति । न पुनरवधृते शास्त्रार्थे बाधश्चिन्त्यते दाशमिकमिव । ?R?0तथापि कथमयुक्ततेत्यत्राह - ?R?0शास्त्रार्थावधारणकाले हि नात्र पौर्वापर्यमस्ति एकैकस्य शास्त्रस्य स्वार्थबोधकत्वात् प्रयोगे तु । ?R?0तत्प्रयोगे च शक्याशक्यत्वे कृताकृतत्वे च । अत्र तन्त्रं प्रसङ्गो वा । एकग्रन्थेनाह - ?R?0युक्तं तावत् कृताकृतत्वे तन्त्रं प्रसङ्गो वा । तन्त्रं न प्रसङ्ग इति शक्यते वक्तुं कृतकृत्यत्वेन हि तन्त्रं भवति । प्रसङ्गश्च पुनरशक्तेः । ?R?0अशक्तिश्चात्र न चिन्त्यते । ननु मा (भूत्) भूतां तन्त्रप्रसङ्गौ बाधो भविष्यतीति । अत्राह - ?R?0बाधोऽपि चावधृते शास्त्रार्थे नैवोपपद्यते ?R?0तस्य बाधितुमशक्यत्वादिति तृतीये उक्तम् । उपसंहरति - ?R?0तस्मादन्य एवायं प्रयोगा शक्तिजः प्रयोगबाधः । स चाधिकारे न सङ्गतः ; ?Rयतोऽयं प्रयोगबाधः । ?R?0तस्मान्नायं शास्त्रार्थस्य प्राप्तस्य बाधो?R न विनियोगो बाध्यते । नाप्यप्राप्तत्वं शक्यते वक्तुं शास्त्रार्थस्य यथा तृतीये न प्राप्तिः । तन्त्रप्रसङ्गयोरभावः प्रदर्शित एव ।
?R समर्थंयते - ?R?0भवत्ययमन्य एव बाधप्रकारो न कश्चिद्दोष इति । ?R?0आक्षिपति - ?R?0कःपुनरस्याधिकारे प्रसङ्गः ? ?Rअयम?R?0स्ति ?R?0प्रसङ्गः - अधिकारस्तु प्रयोगाय भवति न कर्मज्ञानाय । ?R?0ज्ञाते हि कर्मण्यधिक्रियते । तेनाधिकारद्वारकमिदं प्रयोगान्तरं विधीयते इत्यत्रैव चिन्तितम् ।
?R ननु यद्यपि प्रयोगायाधिकारः तथापि अधिकारशास्त्रार्थावधारणकाले नैव पौर्वापर्य (म)स्यास्ति । तस्मिंश्चासति कथं बाधः ??R मैवं वोचः, अधिकारशास्त्रं हि प्रतिप्रयोगमावर्तते । कर्मज्ञानशास्त्रवत् सकृदेवावगतार्थो भवति । यस्य च
?Rप्रतिप्रयोगमावृत्तिः तस्य प्रतिप्रयोगमेव शास्रार्थावधारणेनैव पौर्वापर्ये सति प्रयोगोपपत्तौ, प्रयोगदशायां तयोरशक्यविषयं यत् द्वयोरधिकारशास्त्रयोः घटत एवार्थावधारणे बाध्यता(मि) इति ।
?R ?R?0अत्र पूर्वपक्षवादी अनुपजातविरोधितया पूर्वस्यैव सत्यार्थतां मेने । ?R?0अनुपजातो विरोधो यस्य तस्यैव सत्यार्थता । उत्तरस्य तु तद्विरुद्ध एवार्थो नात्मानं लभते । ?R?0राद्धान्तवादी तु मन्यते - उत्तरस्याप्राप्तावयं हेतुः पूर्वस्यानुपजातविरोधिता । ?R?0प्राप्तिर्हि उत्तरस्य अनुपजातविरोधितां पूर्वस्य विरुणद्धि न पुनः प्रयोगम् । इह च न प्राङिनरोद्धुं शक्यते निमित्तस्य विद्यमानत्वात् । अशक्ते तु प्रयोगः परं निवर्तते । ततश्चोत्तर एव प्रयोगः पूर्वस्य बाधको युक्तः । अपरः प्रयोगः पूर्वमबाधित्वा (अनेन) न प्रत्येतु शक्यते न पुनः पूर्वः परमबाधित्वैव न प्रतीयते । अतोऽनुपजातविरोधितैवात्र प्रयोगे बाध्यत्वे हेतुः, उपजातविरोधिता बाधकत्वे ।
?R ननु पूर्वाधिकारे भूते उत्तराधिकारशास्त्रमेव (न) प्रवर्तते इत्यत्राह - ?R?0प्रतिप्रयोगावधारणीयं ?R?0चाधिकारशास्त्रमित्युक्तम् । अतः कालतोऽपि यत्रावधारणं दशमे तत्रोपजातविरोधितैव बाधकत्वे हेतुरिति दर्शितम् ।
?R ?R?0यद्युपजातविरोधितयाऽयं बाधः तदा दाशमिक एवायं बाध इति पुनरत्रासङ्गतिः । ?R?0परिहरति - ?R?0सत्यं हेतुः न पुनर्द्वारतः । ?R?0 उपजातविरोधिता योऽयं बाधे हेतुः सा तुल्ये तु दाशमिक एव स्यात् द्वारन्तु(स्तु)भिन्नम् । तत्र हि प्रयोज्यावधृतिः द्वारे हेतुः । इह न प्रयोगावधृतिरिति विशेषः । प्रयोज्यावधारणं प्रयोज्येऽपि तत्र कृतकार्यतया प्रयोज्यान्तरं बाधते । प्रयोगः प्रयोगान्तरं अशक्तेः, अधिकाराश्रया च चोदना प्रयोगविशेषः । चोदना कर्मस्वरूपचोदनेति प्रदर्शितम् । तेनेहैवायं बाधश्चिन्तनीय इति सर्वमुपपन्नम् ।
?R तद यमत्र संक्षेपार्थः - पूर्वप्रयोगविशेषः स तस्मिन्नेव प्रयोगे विधीयते प्रतिपक्षाभावात् उत्तरमपि वाक्यबलेन प्रयोगान्तरं पूर्वोपमर्देन विनियुज्यत इति
?Rप्राप्तबाध एवायम् । यथा दशमेऽस्यान्तर्भावो न भवति तथाऽनन्तरमेवोक्तमिति ।
?R?0 ॥ 20 ॥ यद्युद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्यात् यथेतरस्मिन् ॥ 55 ॥
?R?0 ?R?0पूर्वं प्रतिहर्तुरपच्छेदे सर्ववेदसदक्षिणे प्रयोगे प्राप्ते ?R?0पश्चादुद्गातुरपच्छेदः, तस्य बलीयस्त्वमुक्तम् अनन्तराधिकरणे । अदाक्षिण्यं चास्य प्रयोगस्य नैमित्तिकं ;?R पुनस्ततः पूर्ववद्दक्षिणादानं च ?R?0। अनेन भाष्योक्तविषयः स्पष्टीकृतः ।
?R तत्र संशयः । ?R?0तत्र तद्दद्यात् यत्पूर्वस्मिन् दास्यन् स्यादिति वचनबलात् किं प्रतिहर्तुरपच्छेदनिमित्तकं सर्ववेदसं दद्यात् उत प्रकृतमेव द्वादशशतमिति । ?R?0अनेनापि संशयः स्पष्टीकृतः ।
?R ?R?0तत्र पूर्वपक्षवादी क्रतुनिमित्तकं स्वाभाविकं दास्यन्नित्युच्यत इति मन्वानो द्वादशशतं दद्यादित्युक्तवान् । ?R?0अस्यार्थः - यत् पूर्वस्मिन् प्रयोगे देयत्वेन प्राप्तं तद्देयमित्युक्ते यत् स्वाभाविकं देयं तदेव प्रतीयते निरपेक्षत्वात् । न नैमित्तिकं ; ?Rनिमित्तसापेक्षत्वात् । सापेक्षनिरपेक्षयोर्हि निरपेक्षे प्रतीति; ?R शीघ्रतरेति स्वाभाविकद्वादशशतमेव पुनस्ततो दातव्यम् ।
?R ?R?0राद्धान्तस्तु प्रयोगाभिप्रायं दास्यन्नित्युच्यते, न कर्माभिप्रायम् । ?R?0अस्यार्थः - अत्र पूर्वस्मिन्नित्यनेन पूर्वशब्देन न कर्मोच्यते एकत्वात् कर्मणः पूर्वापरव्यपदेशाभावात् । किन्तु प्रयोग उच्यते । तेनायमर्थः - यत् पूर्वस्मिन् प्रयोगे दातव्यं तद्दद्यादिति । पूर्वप्रयोगे च प्रकृतिकर्तुरपच्छेदनिमित्तकं सर्ववेदसमेव तेनोत्तरस्यां क्रतौ देयम् ।
?R ?R?0ननु च पूर्वदानाभिप्रायमेतत्, तत्र द्वादशशतमप्यस्ति । यत्किल पूर्वदाने देयं तदभिप्रेत्येदमुच्यते - यत्पूर्वस्मिन् दास्यन् स्यात् तद्दद्यात् इति । ?R?0तत्र पूर्वं देयं द्वादशशतमप्यस्ति । पूर्वप्रयोगे हि विनियोगतो द्वादशशतमप्यस्ति
?Rसर्ववेदसं च । अतः कथं सर्ववेदसस्यैव दक्षिणात्वम् ।
?R परिहरति - ?R?0यद्यपि द्वयमस्ति तथापि द्वयोरनुग्रहात् सर्ववेदसमेव । ?R?0तस्मिन् दीयमाने द्वयमपि दत्तं भवति । द्वादशशतादप्यधिकाभिप्रायः सर्ववेदसशब्द उक्तः । तेनोभयानुग्रहः । ऊने हि उभयानुग्रहो न भवेत् । एतच्चात्राभ्युपगम्यवादमात्रं तथापीति वचनात् । मूलयुक्तिमाह ?R?0न चात्र पूर्वतामात्रमभिप्रेतम् । किन्तु स्वप्रयोगाभिप्रायैवेयं पूर्वता ; ?Rसा च सर्ववेदसदक्षिणैव ।?R?0 अस्यार्थः - यस्यैव प्रयोगस्य यः स्तुतिः स एवात्र प्रयोगः पूर्वशब्देनोक्तः न पूर्वतामात्रम् । द्वादशशतप्रयोगश्च पूर्वतः । तदुपमर्देन तु प्रतिहर्तुरपच्छेदनिमित्तकः परतः सर्ववेदसदक्षिणः प्रयोगः । तस्यैवेयं पुनः स्तुतिरिति सर्ववेदसमेव देयम् ।
?R ?R?0ननु सापि सर्ववेदसदक्षिणा तत्र बाधिता (न)?R?0 । किन्तु पूर्वप्रयोगे बाधिता (न पुनरस्तीति युक्ते प्रयोगे) तत्र तद्दद्यादिति वचनात् सर्वथा न बाधिता किन्तु पूर्वप्रयोगे बाधिता पुनस्ततो देया । तस्मान्नात्र नैमित्तिकं बाधितम् । कालमात्रस्य तु अपहाण्या पूर्वप्रयोगे दक्षिणा सा (न) तदानीमेव देया । किन्तु पुनस्तुतौ देया इति कालमात्रस्योत्कर्षः । न दक्षिणाबाधः । ततश्च यैव सा प्राग्भावी प्रतिहर्तुरपच्छेदनिमित्ता सैवोत्कृष्य दातव्येति ।
?R?0 ॥ 21 ॥ अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेत कर्मपृथक्त्वात् ॥ 56 ॥
?R?0 प्रयोगविषयत्वादधिकारस्य द्वादशाहविषयं च (यश्च) एकं प्रयोगं मन्वानः सर्वावृत्तिं पूर्वपक्षवादी मन्यते । पुनर्यज्ञेन यजेत इति प्रयोगविषयोऽयं नैमित्तिकोऽधिकारः प्रयोगस्यावृत्तिमाह द्वादशा (हा)त्मकश्चायमेकप्रयोगः इति ?R?0तस्यैवावृत्तिरिति पूर्वपक्षवाद्याह । ?R?0राद्धान्तस्तु - कर्मविषयत्वादधिकारस्य द्वादशाहे च कर्मभेदात् प्रतिकर्म नैमित्तिकमिति कर्मण एवावृत्तिः न कर्मगणस्य । ?R?0यस्मिन्निमित्तमुपपद्यते तदीय एव प्रयोगः
?Rपुनरावर्तते । एककर्मणि चेदं निमित्तं, न कर्मगणे द्वादशाहे । एकैकानां
?Rकर्मणामवान्तरप्रयोगाश्च बहव एव, तेन कर्मण एकस्यैव प्रयोगावृत्तिः न कर्मगणस्य ।
?R अक्षरार्थस्तु - कर्मविषयत्वादधिकारस्य अधिक्रियतेऽनेनेति व्युत्पत्त्या निमित्तमधिकारशब्देनोच्यते । अतः कर्मविषयत्वमधिकारस्यैवोक्तम् ।
?R?0इति ऋजुविमलायां षष्ठाध्यायस्य, पञ्चमः पादः
?R?0
?R?0ऋजुविमलायां षष्ठाध्यायस्य षष्ठः पादः ।
?R?0 सन्निपातेऽवैगुण्यात् प्रकृतिवत्तुल्यकल्पा यजेरन् ॥ 1 ॥
?R?0 इदानीमिदं श्रूयते - ?R?0अधिकृतविशेषाणां ?R?0श्रूयते तत्र बहुकल्पेषु कर्मसु समानकल्पानामेवाधिकारः उत भिन्नकल्पानामपीति । ?R?0अनुभाषितमाक्षिपति ?R?0ननु चाधिकृतविशेषश्रवणे संशय एव नास्ति । ?R?0व (ासिष्ठादयोऽप्यधिकृतत्वेनैवात्र सम्बध्यन्ते, न कर्तृतया प्रथमोपनिपातित्वादधिकारस्य । ततश्च नाराशंसकल्पेनैव तेषामधिकारसिद्धिरिति । इतरेषां तनूनपात्कल्पेनेति समानकल्पानामेवाधिकारो युक्तः । न भिन्नकल्पानां वैगुण्यात् । समाधत्ते - ?R?0सत्यं क्रत्वर्थानपायाद्भवति संशयः । अस्यार्थः - ?R?0प्रयाजादयस्तावत्क्रत्वर्था एव । न पुरुषार्थाः । क्रतोश्चैतदुभयमङ्गम् । ततश्चैकानुष्ठानेऽपि क्रतोरवैगुण्यम् । अवैगुण्ये च क्रतोरधिकारसिद्धिरप्यधिकृतानामिति । अत्र चोदयति - ?R?0क्रत्वर्थानपाये कथं पुनस्संशयः ?R?0यावता भिन्नकल्पानामप्यधिकार इत्ययमेव पक्षः श्रेयानिति ।
?R?0 उत्तरं - सत्यं न संशयः,?R?0 विपर्ययमेव पूर्वपक्षवादी मन्यते । कथं ??R क्रत्वर्थश्चेन्नापैति न वैगुण्यं शक्यते वक्तुम् । वैगुण्याच्चाधिकारविधातः स्वमनीषिकया । अस्मिंश्च पक्षे वसिष्ठादिश्रवणमनुवादमात्रम् । क्रतोर्वसिष्ठादिसम्बन्धित्वात् । यतः क्रतोरेकोपादानत्वेऽपि अवैगुण्येनायं पूर्वः पक्षः । एवं च सति कार्यसिद्धिः सामान्यमात्रतया शिरोवदिति प्रदर्शितम् । यथा ऋतपेये घृतव्रतविधानात् घृतदुहि निवृत्तायामन्ययापि गवा कार्यसिद्धिः । तथाऽन्येनापि द्वितीयेन प्रयाजेनान्यप्रयाजकार्यसिद्धिरित्येतावन्मात्रेणाशिरवदिति दृष्टान्तः ।
?R ननु अङ्गान्तरानुपसंहारे वैगुण्यमित्यत्राह - ?R?0कार्यार्थत्वादुपदेशोपसंहारस्य तस्य कार्यसिद्धावनुपसंहारेऽपि अदोष इति ।?R?0 यद्वा उभयसंभवे नैकमपि निमित्तं भवतीति बृहद्रथन्तरवदिति प्रदर्शितम् । भिन्नकल्पोदयपुरुषसम्भवे वसिष्ठादयो विश्वामित्रादयश्च निमित्तं न भवन्ति एकैकस्य निमित्तत्वात् । ?R?0यथा बृहत् रथन्तरं
?R?0च प्रत्येकं निमित्तमिति एकस्य न निमित्तत्वमिति नैमित्तिकव्याघातः । ?R?0अयमभिप्रायः - उपदेशेऽपि तावदनुपसंहार उक्तः । यद्वा उपदेश एव भिन्नकल्पानां पुरुषाणां समाहारः नास्तीति । केन पुनविशेषेणाशिरवदिति . यस्मात् यजमानसम्मितौदुम्बरी भवति इत्युपन्यस्तम् । अत्रापि कार्यसिद्धिस्तुल्यैव । उत्तरं -?R?0 सत्यं, किन्तु परिहारेऽभ्यधिका शङ्काऽस्ति । ?R?0 तामनेनदृष्टान्तव्याजेनोपन्यस्य परिहर्तुं भेदेन पुनरुपन्यासः । का पुनरसौ ? ?Rतामाह ?R?0कारकतयैव किमिति यजमानशब्दो न प्रवर्तते ‘?Rऋत्विग्वत्’?R तेन (न) क्रत्वन्तरगतेनापि यजमानेन सम्मानं प्राप्नोति । ?R?0यदा स्वामितया यजमानशब्दो वर्तते तदा क्रत्वन्तरवर्तिना सम्मानं न भवति । तस्यास्वामित्वात् । कर्तृमात्रपरिग्रहे तु तस्यापि कर्तृत्वात् तेनापि सम्मानं शक्यते कर्तुं तन्निराकरणार्थं दृष्टान्तान्तरोपादानम् ।
?R निराकरणमाह - ?R?0न कर्तृमात्रतया ग्रहणम् अधिकृतमुखेनोपादान सम्भवात् । अधिकारपूर्वकमेव कर्तृत्वमिति तत्पुरस्सरमेव कर्तृत्वं परिगृह्यते । ?R?0तेनाधिकृतेन सम्मानं कर्तव्यमिति न क्रत्वन्तरगतयजमानान्तरपरिग्रहः आत्मनेपदानुग्रहाच्च स्वाम्येव ग्राह्यः । न कर्तृमात्रम् । अतोऽधिकृतो यजमान इति स्थितम् । उपादेयत्वात् सम्मानं प्रति बहवो न कुर्वन्तीति विशेषो दृष्टान्तेनोपादानस्य । प्रथमे पुनः शिरोवदिति व्याख्याने यथा पुरुषशीर्षमुपदधाति इति श्रवणात् स्मृतिबाधः । तथेहापि कल्पान्तरेण कल्पान्तरस्य बाधः इति । अस्मिन्नप्यप्राप्तिरेव द्रष्टव्या निमित्तोपसंहारवत् । क्रत्वर्थत्वे हि शवशीर्षस्य स्पर्शने न प्रतिषेघः प्रवर्तते । तेन दृष्टान्तेनात्राप्राप्तिरेव द्रष्टव्या । यथा निमित्तोपसंहारपक्षे प्राप्तौ च कल्पान्तरस्य प्रमाणं नास्तीति अयुक्तोऽयं पक्षः । अत एवापरितोषात् द्वितीया व्याख्या कृता ।
?R ?R?0अत्राभिधीयते - नेदमाशिखदिति शक्यते वक्तुं, नापि निमित्तोपसंहारवत् । ?R?0एतदुक्तं भवति नापि निमित्तोपसंहारवदप्राप्तिः।
?Rनाप्याशिरवदिति कृतकृत्यता सम्भवति । कथं तर्हि?R ? ?Rअधिकृतविशेषणं हि एतत् वसिष्ठादीनां भृगूणामिति च । तथापि किमित्याह - ?R?0अधिकारद्वारं च प्रयोगे कर्मस्वरूपे सम्भवतीत्युक्तम् । ?R?0अधिकृतसम्बन्धेन प्रयोगविशेषोऽयं विधीयते न कर्मस्वरूपम् । तथा च प्रयोगे कृतकृत्यताप्राप्तिरपि नास्तीति समानकल्पानामेवाधिकारः एकप्रयोगत्वादिति स्थितम् ॥
?R?0॥ 2 ॥ वचनात्तु द्विसंयोगस्तस्मादेकस्य पाणित्वम् ॥ 1 ॥
?R राजपुरोहितौ सायुज्यकामौ यजेयातामिति श्रूयते । तत्र संशयः - किं समासार्थात् द्विवचनं उत प्रातिपदिकार्थादिति । यदि समासार्थद्वित्वे द्विवचनं तदा राज्ञः पुरोहितौ द्वौ यजेयातां (उत) प्रातिपदिकार्थद्वित्वे तदा राजा पुरोहितश्च यजेयातामिति ।
?R ?R?0ननु इतरस्मिन्नपि पक्षे समासार्थादेव द्विवचनं द्वन्द्वोऽपि हि समास एव । ?R?0उत्तरं - ?R?0सत्यं समासः न तु समासार्थे द्विवचनं, समासिनावेव द्विवचनार्थेन सम्बध्येते इतरेतरयुक्तौ ।?R?0 इतरेतरयोगे हि द्वयोर्द्वन्द्वः । तत्र समासवर्तिभिः पदैः स्वार्थाः इतरेतरयुक्ता एव प्रतिपाद्यन्ते । न पुनः पदद्वयेन कश्चिदर्थः प्रतिपाद्यते । यद्गतं तद्रद्वित्वं हि वचनेनोच्यते । यत्र पुनः समासार्थ एव द्विवचनं तत्रैकवचनमेव भवति । यथा समाहारे । समाहारे हि यो द्वन्द्वः तत्र समाह्रियमाणमर्थद्वय समाहारलक्षणार्थमुच्यते । ततश्च तस्यैकार्थ्यात् एकवचनमेव भवति समाहारे । समाहारे हि यो द्वन्द्वः तत्र समाह्रियमाणे(म)र्थे द्विवचनग्रहणं द्विवचनोपलक्षणार्थम् ।
?R नन्वेवमितरेतरयोगस्यापि एकत्वादेकवचनं प्राप्नोति । न च दृश्यते, के (ते) नाभिप्रायेण पृच्छति ?R?0किमिति इतरेतरयोगो न समासार्थः ?R?0येन तत्रैकवचनं न भवति । अथ समासार्थेऽपि तस्मिन्नेकवचनं न भवति समाहारेऽपि न स्यादिति भावः उत्तरं - ?R?0न समामार्थ इति ब्रूमः उपाधिमात्रं हि स तदा भवति
?R?0समासिनावेवेतरेतरयुक्तः (क्तौ) समासार्थः समाससंज्ञ?R?0काभ्यां पदाभ्यामुच्यते । यत एवेतरेतरयोगे समासिनावेवोच्येते, अत एव च युगपदधिकरणता एकशेषश्च एवंविधविषय एव न समाहारविषयः ।
?R कथं पुनर्युगपदधिकरणवचनता ? ?Rन तावत् वाचकवृत्त्या, सम्बन्धग्रहणाभावात् । पदान्तरप्रयोगवैयर्थ्याच्च । न च लक्षणावृत्तिः सम्भवति अनुपपत्तेरभावात् । स्वार्थहानप्रसङ्गाच्च । अत्रोच्यते । लक्षणावृत्त्या युगपदधिकरणवचनता । तथा हि - धवखदिरौ हि च्छिन्धि इत्यत्र धवशब्दो धवमात्रं ब्रवीति स धवार्थः, खदिरसहितां स्वावस्थां लक्षयति अवस्थावस्थावतोः सम्बन्धात् । द्विवचनश्रवणं चानुपपद्यमानं लक्षणाहेतुः । तर्हि प्रातिपदिकार्थद्वित्वे सम्भवति । न च द्वन्द्वे पदद्वयव्यतिरेकी द्विशब्दोऽस्ति । समासपदे एव सहितावस्थस्वार्थमात्रप्रतिपादनपरे । तदा तयोरपि प्रत्येकं द्वित्वाभावात् किमाश्रित्य घटतां द्विवचनम् । यदा तु समासपदे इतरेतरयुक्तस्वार्थप्रतिपादनपरे भवतः तदा तथाभूतयोरर्थयोः द्वित्वं समवेतमिति द्विवचनोपपत्तिः । समासे तु प्रत्येकपदाभिहितयोरर्थयोः समाहारलक्षणत्वादुपपन्नमेकवचनमिति न युगपदधिकरणवचनतायां प्रमाणमस्ति । एकशेषे च तन्त्राभिधानात् (न) परस्परसहितार्थप्रतिपत्तिः । इतरेतरयोगे च परस्परसहितार्थप्रतिपत्तिरिति तदपवाद एकशेषः तद्विषय एव, न समाहारविषयो द्वन्द्वः पक्षे ।
?R यदा युगपदधिकरणबलात् इदमापद्यते उक्तेन न्यायेन सहितवचनता, एवं चेत् पुरोहितार्थगतमेव द्वित्वं न्याय्यम् । अन्यथा हि पुरोहितशब्दो राजन्यपि स्यात् । तत्र लक्षणाप्रसङ्गः स्यात् । कथं पुनरेकस्मिन्नेवोच्चारणे पुरोहिते राजनि च वर्तमानः पुरोहितशब्दो लक्षणया वर्तत इति शक्यते वक्तुम् । ?R?0पुरोहिते तु श्रौत एव सः । न च श्रौतो लाक्षणिकश्च सकृदुच्चारितो भवति । ?R?0परिहरति - ?R?0सत्यं युगपदधिकरणश्रवणबलादिदमापद्यते । उक्तेन न्यायेन यदा सहितावस्थालक्षणत्वेन युगपदधिकरणं तदा श्रौते लाक्षणिके च तात्पर्यं
?R?0भवति । ?R?0परमार्थतश्च यन्न श्रौतार्थः लाक्षणिक एव । तथा च दर्शितं धवखदिरौ चेति । न हि युगपदधिकरणवचनतां विना द्विवचनमुपपद्यते । अतः श्रौते संभवत्यपि लक्षणामङ्गीकृत्य हेयत्वेनायं पक्षः उपन्यस्यते । यद्यपि पुरोहितार्थोऽप्यस्ति तथापि लक्षणा प्राप्नोतीति । अनेन दोषेण पूर्वपक्षवादिना हेयत्वेनायं द्वन्द्वपक्ष उपन्यस्तः ।
?R ?R?0ननु वसानौ इति द्वित्वं पुंस्त्वं च एषशब्दो व्यभिचरति एवमत्रापि पुरोहितद्वित्वं चैषशब्दो न व्यभिचरतीति ?R?0द्वितीयाऽर्थे प्रतिपादकत्वात् नैव लक्षणाप्रसङ्ग इति । परिहरति - ?R?0वचनाभिप्रायः । तदुक्तं पुंस्त्वं द्वित्वं च औकारान्तद्विवचन न व्यभिचरतीत्युक्तम् । ?R?0न प्रातिपदिकाभिप्रायम् । प्रातिपदिकस्य हि युगपदधिकरणत्वेन विना द्विवचनानुपपत्तिः । यथा राजपुरोहितं चेति । तेन यत्र द्विवचनं तेन प्रातिपदिकेन इतरेतरयुक्तः स्वार्थः प्रतिपादनायः । न च लक्षणां विना तदुपपद्यते । तस्मात्सुष्ठूच्यते लक्षणेति । लक्षणात्वे हेयोऽयं पक्ष इति पूर्वः पक्षः ।
?R?0 ननु षष्ठीसमासपक्षेऽपि राजशब्दो लाक्षणिक एव षष्ठ्यर्थलक्षणंतत् ।
?R?0 ?R?0परिहरति - ?R?0भवति । का नो हानिः? ?Rपुरोहितशब्दमङ्गीकृत्य लक्षणात्वेन न हातव्योऽयं पक्ष इत्युक्तम् ।
?R?0 ?R?0ननु च षष्ठीसमासपक्षेऽपि तस्य लक्षणात्वमन्यपरत्वादित्याह ?R?0- उत्तरपदप्रधानोऽयं षष्ठीसमास इति ।
?R?0 एवं प्राप्तेऽभिधीयते - सत्यमेवम् । किन्तु एकत्वात् पुरोहितस्य षष्ठीसमासेऽपि द्विवचनानुपपत्तिरेव सम्बन्धिशब्दत्वात् पुरोहितशब्दस्य द्वयोः सम्बन्धित्वेनाभावात् । ?R?0अस्यार्थः - पुरोहितशब्दोऽयं सम्बन्धिशब्दोऽयम् । न चैकस्य राज्ञो द्वौ पुरोहितौ सम्बन्धिनौ सम्भवतः । तेन षष्ठी समासेऽपि अर्थाभावात् द्विवचनानुपपत्तिरेव । तेन वरं लक्षणैवाश्रीयतां द्विवचनोपपत्त्यर्थम् ।
?R ननु च विनियोगदर्शनात् द्वौ पुरोहितौ भविष्यतः यथा अञ्जलिविधानात् द्वौ हस्तौ व्यापार्येते तत्राह - ?R?0यत्पुनरञ्जलिवत् इत्युक्त तदत्र न सम्भवति । असम्बन्धितयैव द्वितीयस्य सम्बन्धिनोऽभावात् । पुरोहितं वृणीत इत्येकवचनश्रवणात् । ?R?0ननु भवतु सम्बन्धिशब्दः पुरोहितशब्दः कार्यान्तरेऽपि नियोग एव सम्बन्धितामापादयिष्यति । यो यस्य राज्ञः तानि तानि कर्माणि करोति स तस्य पुरोहितो भवति इति सम्बन्धिद्वयसम्भवात् तत्राह - ?R?0उत्पत्तिश्च सम्बन्धे हेतुः न कार्ये विनियोगः एतदपेक्षत्वाद्विनियोगस्य । ?R?0अस्यार्थः - वरणोत्पन्नः पुरोहितो भवति न पुनः कार्यान्तरविनियोज्यः पुरोहितत्वापेक्षत्वात् कार्यान्तरविनियोगस्य । तदत्र सङ्ग्रहार्थः - विनियोगतः पुरोहितत्वं तस्य तु वरणेनोपसङ्ग्रहः । ततश्च द्वयोर्विनियोगदर्शनात् द्वोयोः सङ्ग्रहः विनियोगार्थत्वात् सङ्ग्रहस्येति पूर्वः पक्षः ।
?R राद्धान्तस्तु पुरोहितस्य सतः विनियोगानुवृत्तित एव पुरोहितत्वम् । उत्पत्तौ च एकवचनश्रवणात् एक एवोत्पद्यत इति द्वयोः राज्ञोः सम्बन्धिनोः पुरोहितयोः सायुज्यं न भवतीति प्रदर्शितं भाष्ये । तस्माल्लक्षणैवात्र ज्यायसी अर्थसम्भवात् । ?R?0लिङ्गमुक्तम् ।
?R?0॥ 3 ॥ सत्राणि सर्ववर्णानामविशेषात् ॥ 16 ॥
?R?0 ननु च सर्ववर्णानामिति नोपपद्यते आर्त्विज्ये यजमानश्रवणात् । ?R?0अस्यार्थः - प्रकृतौ ब्राह्मणकर्तृकमार्त्विज्यं प्रतिपन्नम् । इह तु आर्त्विज्ये यजमानः कर्तृत्वेनोच्यते ‘?Rये यजमानास्त ऋत्विज’?R इति श्रवणात् । यद्यब्राह्मणोऽपि सत्रेऽधिकारी स्यात् तदा तस्यार्त्विज्ये कर्तृत्वे सति ब्राह्मणकर्तृत्वं बाध्येत । ब्राह्मणे ह्यधिकारिणि न कश्चिद्बाध्यते । नचाबाधेनोपदेशोपपत्तौ बाधो न्याय्य इति ब्राह्मणानामवाधिकारो युक्तः सत्रेषु ।
?R न चेयं वचनव्यक्तिरत्र चिन्त्यते - किं ये यजमानाः त ऋत्विज इति
?Rयजमानोद्देशेनार्त्विज्यं संस्कारकतया विधीयते उत आर्त्विज्ये यजमानाः कर्तृत्वेन विधीयन्त इति ।
?R तत्र यदि यजमानसंस्कारः तदा आर्त्विज्यं ऋत्विग्भिरेव कर्तव्यमिति सर्ववर्णानामधिकारो भवेत् । यदि तु यजमानानामार्त्विज्ये कर्तृत्वविधिः तदा ब्राह्मणानां पूर्वोक्तन्यायेनाधिकार इति । तेन प्राप्यवचनव्यक्त्याश्रयणेन सर्ववर्णानामधिकारशङ्कायुक्तैव । न चेयमिह चिन्ता युक्ता कर्तु, अधिकारलक्षणेऽसङ्गतत्वाद्विनियोगनिर्णयस्य । तस्मादसङ्गतत्ववादिनां चिन्तां विना पूर्वपक्षो निर्युक्तिक इव प्रतिभाति ।
?R उच्यते । ?R?0अयमभिप्रायः पूर्वपक्षवादिनः, यथाधिकारमङ्गवचनं तत्पूर्वकत्वात् स्वयंकर्तृभावस्य । ?R?0अस्यार्थः - यजमानानां सकामार्त्विज्यविधानात् विनियोगः । यजमानानां यजमानता च सत्यधिकारे । तेन पूर्वसिद्धाधिकारोपजीवित्वात् अयमङ्गविधानस्य अधिकारवशेन वर्णनम् (न) पुनरेतद्वशेनाधिकारः । अधिकारश्च स्वरूपतस्त्रयाणां नाम विभाति । तेषां चार्त्विज्येऽपि विनियोग इति उपदेशेनातिदेशिकी ब्राह्मणकर्तृता बाध्यते । तथा च लिङ्गं ब्रह्मसामविधाने वर्णत्रयदर्शनम् ।
?R ?R?0अत्रोच्यते - ?R?0केन वोक्तं यथाधिकारमङ्गवचनम् इति । किन्तु नाधिकारोऽधिकारान्तरं निवर्तयितुं क्षमः बाधकारणाभावात् असावप्यधिकार एव ब्राह्मणानामार्त्विज्यमिति ब्राह्मणकर्तृकत्वेनार्त्विज्यं इति श्रूयते । आर्त्विज्यशब्देन ऋत्विक्कर्माण्युच्यन्ते । ‘?Rयद्यत् ब्राह्मणकर्म तदुक्तं …कर्म हीनेन न कर्तव्यं’?R इति स्मरणात् क्षत्रियवैश्ययोः निषिध्यते । नायमार्त्विज्ये निषादाधिकारो यथा नातिक्रम्यते तथा सत्रेष्वधिकारो वर्णनीयः । न चात्र क्रत्वर्थतया विषयभेदेनाधिकारद्व्याविरोधः । द्वयोरप्यधिकारयोः पुरुषार्थत्वात् । यद्यपि च सत्रेषु नाङ्गानि ऋत्विक्कर्तृकाणि तथापि तान्यार्त्विजान्येव प्रकृतौ तेषामार्त्विज्येन ज्ञातत्वात् तद्देवतावत् । इदमधिकरणं आर्त्विज्ये यजमानमाश्रित्य वर्णितम् ।
?R यत्पुनरत्र भाष्ये आर्त्विज्येन यजमानसंस्कारनिराकरणं तत्प्रतिकरोति ?R?0यदि परमार्त्विज्यं अद्दष्टायैव चोद्यते स्वामिनाम् । ?R?0अस्यार्थः - यदि स्वमिनामद्दष्टाय संस्कारायार्त्विज्यं चोद्यते तदा एवं सति सत्रे सर्वेषामधिकारः स्यात् । न च तदस्तीत्युक्तं भाष्ये । तस्मादधिकारानुरोधेन ब्राह्मणानामेव सत्रेष्वधिकार इति सिद्धम् । दर्शनमहीने चरितार्थम् । तत्र वर्णत्रयसम्भवात् ।
?R?0 ॥ 4 ॥?R वासिष्ठानां वा ब्रह्मत्वनियमात् ॥ 24 ॥
?R?0 ननु चेदमधिकरणं वचनमद्दष्ट्वा पूर्वपक्षं कुर्वतामनारम्भणीयमेव । ?R?0वैश्वामित्रो होतेति वचने सति वासिष्ठानामेव सत्रमिति पूर्वपक्षाभावात् नेदमधिकरणमारम्भणीयमेवेत्यर्थः ।
?R समाधत्ते - ?R?0सत्यमेवं, किन्त्वत्र कल्पान्तराशङ्कानिराकरणाय पूर्वपक्षप्रदर्शनम् । का पुनरत्र कल्पान्तराशङ्का ??R ?R?0वासिष्ठे ब्रह्मणि होतापि वासिष्ठसमानकल्प एव भवतु वासिष्ठो वा । उभयथाप्यवैगुण्यात् । तथा होतर्यपि (वि) वैश्वामित्र एव तत्समानकल्पो वा भवत्वित्याशङ्कते - ?R?0द्वयोर्वचनयोर्विद्यमानत्त्वात् कल्पद्वयेन भवितव्यमिति । ?R?0तन्निराकरणार्थमिदमधिकरणम् । न पुनर्वासिष्ठानां तत्समानकल्पानामेवाधिकार इति तन्निराकरणार्थमेतत् । वसिष्ठवचनस्यान्यार्थत्वेन निरस्ते वासिष्ठे पुनर्होत्रैव नियमो भवतीति सिद्धं अवासिष्ठानां अतत्समानकल्पानां च सत्रम् । वैश्वामित्रतत्समानकल्पानामेव सत्रमिति ।
?R?0॥ 5 ॥ विहारस्य प्रभुत्वादनग्नीनामपि स्यात् ॥27 ॥
?R ?R?0कथं पुनरनाहिताग्न्याशङ्का?R ??R स्थिते स्वाग्निनिष्ठं कर्म कर्तव्यमिति न्याये परकीयानामग्नीनामाहवनीयत्वाभावात् । ?R?0समाधत्ते -?R?0 लिङ्गदर्शनाशङ्कया प्रसङ्गं मन्वानस्य पूर्वः पक्षः ।?R?0 सारस्वते सत्रे “?Rपररथैर्वा एते स्वर्गं लोकं यन्ति
?Rयेऽनाहिताग्नयः सत्रमासते इत्यनाहिताग्नीनां सत्रदर्शनात् । तथा” ?Rअग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत् यस्याहिताग्नेरन्यैरग्निभिरग्नयः संसृष्येरन्”?R इति संसर्गदर्शनात् । आहवनीयेनैव कार्यनिष्पत्तेरपि अनाहिताग्नेरप्यधिकाराशङ्का ।
?R?0 अत्रोच्यते - नात्र प्रसङ्ग उपपद्यते तत्कार्यापरिज्ञानात् । ?R?0यदि हि आहवनीयकार्यं ज्ञायते तदा परकीयेनापि तत्कृतमिति प्रसङ्गः स्यात् । न च तज्ज्ञायते होमनिर्वृत्तिः नाहवनीयकार्यं किं तर्हि अग्निद्रव्यमात्रस्य । लिङ्गस्य परिहारं वक्ष्यति । ?R?0पात्राणां पुनः स्वैः इत्यश्रवणात् पूर्वपक्षवादी प्रसङ्गं मन्वानो यस्य कस्यचिदिति ब्रवीति । ?R?0अस्यार्थः - यथा स्वाग्निनिष्ठकर्म कर्तव्यमिति स्थिते प्रसङ्गो नास्ति तदा (था) तर्हि यत्र स्वैरिति न श्रूयते नापि न्यायतःप्राप्यते तत्र प्रसङ्गेन भवितव्यं यथा पात्रेषु इति । पूर्वोपजीवनेनोत्थानात् अन्तरागर्भिणीत्वम् ।
?R ?R?0राद्धान्तवादी तु सत्यमत्र प्रसङ्गो विद्यते स तु दीर्घकालत्वात् सत्राणां आयुषश्च परिमाणाज्ञानात् अन्यैरपि तदर्थमुत्पन्नैः कृतमेव तद्भवतीति पात्रान्तरोपादानमेव न्याय्यमिति । मन्यत इति सम्बन्धः ।
?R?0 ?R?0सत्यमत्र प्रसङ्गो विद्यते स त्वयुक्त इति वाक्यशेषः । कुतः ??R दीर्घकालत्वात् सत्राणां, आयुषश्च परिमाणाज्ञानात् कदाचित् सत्रेचेत् प्रवृत्ते व्यापद्येत योऽत्र स्थायी तस्य पात्राणां सत्रे व्यापृतानां प्रतिपत्तिलोपः स्यात् । प्रतिपत्तौ वा सत्रक्रियावैगुण्यम् । अन्यैरपि च सत्रार्थमुपात्तैः सत्रं कृतमेव भवति इत्यनया राद्धान्तवादी मन्यत इति योज्यम् । आधस्त्यस्य ?R?0लिङ्गमुक्तम् प्रायश्चित्तमापदि स्यादिति । ?R?0सारस्वते दर्शनं तु भाष्ये न परिहृतम् ।
?R तत्राह - ?R?0 सारस्वते दर्शनं तु सत्रे यद्यन्यथा नोपपद्यते तदा वचनं तर्हि भविष्यति । न च तावता सर्वाणि सत्राण्येवानाहिताग्नीनामपि भवेयुरिति भावः ।
?R?0॥ 7 ॥ पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्यात् यज्ञस्य
?R?0 तद्गुणत्वादभावादितरान् प्रत्येकस्मिन्नधिकारः स्यात् ॥ 36 ॥
?R?0 कथं पुनः अध्वरकल्पादिषु सन्देहः सामान्येनाधिकारे श्रूयमाणे किं वैश्यस्यैवाधिकारः उत त्रयाणां वर्णानामपीति संशयः । इत्थं संश(ये)(यः) ?R?0किमध्वरकल्पादिषु अधिकारो नियम्यते साप्तदश्यवचनेन वैश्यस्यैवाधिकारः उत पाञ्चदश्यप्रत्याम्नायेन साप्तदश्यं क्रत्वर्थतया चोद्यते इति । तत्र पूर्वपक्षवादी अधिकारनियमः साधीयान् इति मन्यते । साप्तदश्यं किल वैश्यनिमित्तकं तेनैतद्वचनेनैवं दर्शयति यथा साप्तदश्यं भवति तथा कुर्यादिति । वैश्ये चाधिकारिणि तद्भवति । तेन वैश्यमेव नियच्छति । ननु पाञ्चदश्यप्रत्याम्नायेन क्रत्वर्थतया साप्तदश्यविधिरेव कस्मान्न भवतीत्यत्राह - ?R?0क्रत्वर्थे हि वैश्यकर्तृके साप्तदश्यस्य चोदकप्राप्तत्वान्न विधांन सम्भवतीति । ?R?0न चात्र तत्पर्युदासः श्रूयते तेन विधिवैषम्यं स्यात् एकस्यैव विधेरनुवादकत्वं चेति । तस्मादधिकार एव कस्मान्न भवतीत्यधिकारनियमः ।
?R ?R?0राद्धान्तस्तु क्रत्वर्थेन स्वरूपविधिरवगम्यमानो नाधिकारं नियन्तुं क्षमः । ननु च वैश्यकर्तृके विधानं न सम्भवतीत्युक्तम् । ?R?0समाधते - ?R?0न सम्भवति यस्मान्न कार्यतः प्राप्तिरूपं विहन्ति । ?R?0कार्यतो हि निमित्तसापेक्षा वैश्यकर्तृकेऽपि प्राप्तिः । उपदेशस्तु निमित्तानपेक्षतया विदधाति । यथा त्र्यनीकायां अन्योक्तेष्वाम्नानं गुणार्थमित्याशङ्क्य निमित्तनिरपेक्षतया ऐन्द्रवायवाग्र (ता) विधानम् । तेन वैश्यकर्तृकेऽपि विधायकत्वमेव । यथा च तत्र वैकृते निमित्त (ाभावेप्यनुष्ठानं भवतीति विधिप्रयोजनं तथेहापि ब्राह्मणराजन्यकर्तृके प्राप्तिः विधिप्रयोजनम् । तस्मात्सर्वेषामधिकार इति स्थितम् ।
?R एवं तावत् वचनश्रवणेनाधिकरणस्थितिः
?R एकं प्रकृतौ सप्तदश वैश्यस्यानुब्रूयादिति, अपरमपि अध्वरकल्पायां सप्तदशसामिधेनीरनुब्रूयात् इति । तृतीयमाश्रित्य विचारं कुर्वन्ति तद्दूषयति -
?R?0अनारभ्य चिन्ता तु न शास्त्रतः कार्यतो वोपपद्यत इति नादृता । ?R?0प्राकृतवचनं कार्यतः प्राप्तावुपयुज्यमानं चिन्तनीयम् । वैकृतं तु वचनं शास्त्रतः प्राप्तावुपयुज्यमानं चिन्तनीयम् । वैकृतं तु पुनरारभ्यवचनमिति तच्चिन्ता नादृता भाष्यकारेण ।
?R ?R?0॥ इति ऋजुविमलायां षष्ठाध्यायस्य षष्ठः पादः ॥
?R?0षष्ठाध्यायस्य सप्तमः पादः
?R?0 ॥ 1 ॥ स्वदाने सर्वमविशेषात् ॥ 1 ॥
?R?0 ?R?0विश्वजिति सर्ववेदसं श्रूयते । वेदसशब्दः स्वशब्दस्यार्थे वर्तते । स्वशब्दश्चायं ज्ञातिधनादिष्वविशिष्टः आत्मीयवचनोऽयं स्वशब्दः । आत्मीयत्वं च ज्ञातिधनादिष्वविशिष्टं इत्यविशेषेण सर्वत्र स्वशब्दो वर्तते । न च विशेषे किञ्चन प्रमाणमस्ति एतद्देयं एतन्नेति । सर्वशब्दश्रवणात् । तस्माद्यावदस्य स्वं तावत्सर्वमिति पूर्वः पक्षः ।
?R अत्र च सर्वस्यात्मीयस्य दानश्रवणात् ददातिः परस्वत्वापादाने वर्तते न पुनः स्वत्यागे तस्याशक्यत्वात् । अत्र चोदयति
?R?0कश्चिद्दाना(दा)भिमानी । ननु यथैवात्मनः स्वं तथैव परस्मा आपादनीयम् । ?R?0 न च पित्रादयः परेभ्यः पितृत्वेनापादयितुं शक्यन्ते । ?R?0उच्यते । स्वं तावद्देयम् । दीयमानस्य च यथैव परस्वत्वापत्तिर्भवति तथैव परिकल्पनीयम् । ?R?0तेन रूपेणात्मनः स्वता तेनापादयितुं न शक्यते (येन रूपेण शक्यते) तेनापादयिष्यते । न च कश्चिद्विरोधः
?R ?R?0राद्धान्तस्तु स्वशब्दस्तावदयं नैकार्थः सम्भवति स्वभावभेदात् । ?R?0अस्यार्थः - ज्ञातिधनात्मीयवचनोऽयं स्वशब्दः स चैकया शक्त्या न वर्तते । किं तर्हि गोशब्दवदनेकार्थः । अनात्मीये च ज्ञातौ धने च प्रयोगदर्शनात् ज्ञातिशब्दवत् धनशब्दवच्च । तथाऽऽत्मनि वर्तते आत्मीये च । नात्मनि श्रौतः आत्मीये लाक्षणिकः इति शक्यते वक्तुं विपरीतपक्षाणां सम्भवात् । तस्मादगृह्यमाणविशेषत्वादात्मनः आत्मीयस्यायं वाचकः । न चायमेकार्थवचनतयैव चतुर्ष्वपि प्रयोगं लभते स्वार्थभेदात् । ज्ञातिषु ज्ञातित्वात् स्वत्वं धने धनत्वं आत्मीये आत्मीयत्वं आत्मन्यात्मत्वमिति नैकं सामान्यमस्ति सर्वेषु अनेकार्थः स्वशब्दः न च युगपत् सर्वेषु वर्तते किन्तु कदाचित्क्वचिदिति ।
?Rतत्र ददातिशब्दसम्बन्धात् धनविषय एव वर्तते । ददातिर्हि स्वत्यागे परस्वत्वापादनात्मके वर्तत इति दर्शितं चतुर्थे । धनविषये हि तथा सम्भवति तेन सर्वधनं देयमिति शास्त्रर्थः । तेन पित्रादयो न देयाः ।
?R युक्त्यन्तरमाह - ?R?0नचात्मज्ञात्यादिषु यः स्वशब्दार्थः स शक्यते परस्मा आपादयितुम् । अन्यथा हि आपाद्यमाने न स्वं परस्मा आपादितं भवति । स्वं सत् परस्मा आपादितं न भवति । किञ्च विशेषप्रमाणं चात्र विद्यते । ?R?0अस्यार्थः - यद्यपि स्वशब्द आत्मीयार्थतयैव ज्ञातिधनादिषु वर्तते तथाप्यात्मीयविशेषेऽप्यत्र प्रमाणमस्ति । प्रकृतौ हि धनविषयमेव दानं तस्य चेयं सर्वथा विधीयत इति धनविषयैव सा सर्वस्वता(ऽव)तिष्ठते । आत्मीयमपि दीयमानं धनमेव देयं - नान्यत् प्रकृतिवदिति तस्यैवेयं सर्वस्वता विधीयत इति ।
?R?0॥ 2 ॥ न भूमिःस्यात् सर्वान् प्रत्यविशिष्टत्वात् ॥ 3 ॥
?R?0 भूमौ स्वशब्दो भवति । ?R?0भोग्यविषयं धनविषयमित्यर्थः तेन देया
भूमिरिति पूर्वः पक्षः
?R राद्धान्तमाह - ?R?0न तु सा परस्मा आपादयितुं शक्यते सर्वान्?R?0 ?R?0प्रत्यविशिष्टत्वादिति ।?R?0 अस्यार्थः - भूगोलकं गोपथराजमार्गजलादिसमन्वितं कृत्स्नमेव दातुं न शक्यते गोपथादीनां सर्वान् प्रत्यविशिष्टत्वात् यथा भूस्वामी तत्र स्वामी तथाऽन्योऽपि । गमनागमनादिभोगो हि तत्र स्वामिता, न परं स च सर्वेषामविशिष्टः । लौकिकं च स्वत्वंम् । ये तु ग्रामादिकं ददति तेऽपि वास्तुक्षेत्रादिकमेव ददतीति मन्तव्यम् । ग्रामस्तु तदवच्छेदक इति निरवद्यम् ।
?R?0॥ 3 ॥ अकार्यत्वाच्च ततः पुनर्विशेषः स्यात् ॥ 4 ॥?R?0
?R ?R?0अत्रापि प्रसज्यप्रतिषेधाशङ्कया पूर्वः पक्षः । ?R?0अश्वा न देया इति प्रसज्यप्रतिषेधं मन्यते । तत्र विहितप्रतिषिद्धत्वात् विकल्पेन दानं सर्वदानमेव प्रसज्यप्रतिषेधे कारणम् । तथा सति पक्षेऽपि तावद्दानं भवति । ?R?0पर्युपदासेन राद्धान्तः । एकवाक्यत्वबलेनाश्ववर्जितं च सर्वं भविष्यति ।
?R?0॥ 4 ॥ नित्यत्वाच्चानित्यैर्नास्ति सम्बन्धः ॥ 5 ॥
?R?0 अत्रापि सर्वशब्दानुरोधेन यावद्भोग्यं देयमिति मन्यते पूर्वपक्षवादी । ?R?0शयनासनादीनि यावन्ति स्वशब्दवाच्यानि तानि सर्वाणि देयानीति । यस्य सर्वाणि न सन्ति तथापि क्रीत्वा क्रीत्वा दातव्यमिति पूर्वः पक्षः ।
?R ?R?0राद्धान्तवादी तु विद्यमानेनैव स्वेन स्वतोऽधिकारसिद्धेः नाविद्यमानोपादानमुत्सहते विधिः कर्तुम् । ?R?0 यावद्यस्य धनं तावतः सर्वत्वमुच्यते । सर्वशब्दोऽयं प्रकृतापेक्षः विद्यमानं चाधिकारिणः स्वं प्रकृतं नाविद्यमानमपि । तेन तस्यैव सर्वत्वमुच्यते । तावता च दत्तेनाधिकारसिद्धिरिति नापरमप्यविद्यमानमप्युपादाय दातव्यम् । ?R?0न चात्र दानचोदनेत्युक्तम् । ?R?0यदि हि स्वं प्रति दानं चोद्येत तदा स्वं दानेन सम्बन्धयितव्यमिति भवेदप्युपादानकल्पना । इह तु स्वेन दानं कर्तव्यमिति यथोपात्तेनापि कृते कृतमेवेति नोपादानकल्पनेत्युक्तं भाष्ये ।
?R ?R?0॥ 5 ॥ शद्रश्च धर्मशास्त्रत्वात् ॥ 6 ॥
?R?0 धर्मोपनते चिन्ता भोग्यत्वात् देयमाशङ्क्य न धर्मोपनतः परस्मै शक्यत आपादयितुं तदधीनत्वात् धर्मोपनतस्येति राद्धान्तः ।
?R?0 ?R?0अस्यार्थः - धर्मोपनतस्य भोग्यत्वात् देयतामाशङक्य न देयं इति
?Rसिद्धान्तः । स हि धर्मशिक्षार्थं यस्मिन्नुपनतः तस्यैव भोग्यो नान्यस्य भोग्यः
?Rशक्यते वक्तुं तथा तस्यानुपनतत्वात् । स हि धर्मोपनतः उच्यते यो धर्मं ब्रुवाणस्योपनतः परिचारकबलेन । तस्मिंश्च स्वयमेव केवलं भोक्तृत्वम् न पुनः परमपि प्रत्युपादातुं शक्यते ।
?R?0॥ 6 ॥ दक्षिणाकाले यत्स्वं तत्प्रतीयेत तद्दानसंयोगात् ॥ 7 ॥
?R इदमिदानीं सन्दिह्यते - ?R?0किं यत्प्राक् दक्षिणाकालात् स्वं तदन्यत्र न विनियुज्यते यो (धर्मः) यच्च भविष्यतीति ज्ञायते तत्सर्वमेव देयं, उत दक्षिणाकालवर्त्येवेति । । ?R?0मया विश्वजित्कर्तव्य इति ज्ञानादन्यत्र न विनियुक्ते तथा प्रमाणतया यस्य भाविनो निर्णयः तदपि देयम् । उत यथेष्टविनियुक्तशेषवर्तमानमेव देयमिति । तत्र भविष्यद्वर्तमानसर्वस्य भूतवर्तमानसर्वस्य च स्वशब्दार्थत्वात् देयतामाशङ्क्य अव्यवस्थानात् तत्कालवर्त्येव देयमित्यवगम्यत इति राद्धान्तः । व्यवस्थितो हि शास्त्रार्थो युक्तः तेन वर्तमानमेव सर्वं देयमिति राद्धान्तः ।
?R?0॥ 7 ॥ अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् ॥ 8 ॥
?R?0 ननु च त्रिधाव्यवस्थानादचिन्तनीयमेवेदमधिकरणम् । ?R?0समाधत्ते - ?R?0सत्यं तथापि कर्मापेक्षो दानाधिकारः न दानापेक्षं कर्मेति इममर्थं प्रदर्शयितुमिदमुपन्यस्तम्?R?0 अस्यार्थः - विभागो नास्तीति कृत्वा न्यायव्युत्पादनमेवैतत् क्रियते । तत्र पूर्वपक्षवादी दानापेक्षं कर्मेति मन्यते । सर्वस्वं हि साक्षाद्देयत्वेनोपदेशेन विहितं भवति । दत्ते च तस्मिन् द्रव्यसाध्यत्वात् कर्मणः तदन्ततैव युक्ता न शेषयितव्यं किञ्चित्कार्यार्थमिति शक्यते वक्तुम् तेषां
?Rकर्मणां चोदकप्राप्तानामुपदेशबाधेऽसमर्थत्वात् ।
?R ?R?0राद्धान्तस्त कर्मानुष्ठानार्थं सहायान्वेषणार्थं च दानमिति प्रधानभूतकर्मानुरोधेन (न) दानशास्त्रं वर्णयितव्यम् । ?R?0तेन
?Rक्रत्वर्थव्यतिरिक्तद्रव्यमेव सर्वंदेयमिति । द्रव्यविभागस्तु उदाहरणापेक्षया द्रष्टव्यः । अत्रोदाहरणे त्रेधाव्यवस्थापनात् तदपेक्षोऽयमुदाहरणेऽपरो विशेष इति प्रदर्शयितुं विभाग उपन्यस्तः । न न्यायावलोपितया । तस्मादनवद्यम् ।
?R?0॥ 8 ॥ अहर्गणे च तद्धर्मा स्यात् सर्वेषामविशेषात् ॥ 14 ॥
?R?0 कथं पुनः नाम्ना धर्मातिदेशे बलीयसि द्वादशशताशङ्का ??R ?R?0सप्तमाद्ये नाम्ना धर्माणां पदार्थानामतिदेशो बलीयान् लिङ्गेन धर्मातिदेशात् इत्युक्तमिति पूर्वपक्षो नोपपद्यते । उत्तरं - ?R?0गणधर्मापेक्षया । गणो हि गणस्य धर्मानपेक्षते इति गणान्तः पातिन एव धर्मो न्याय्यः अपेक्षितत्वात् । ?R?0तेन द्वादशाहिक एव विध्यन्तो युक्तो नैकाहिक इति । एका चेयं गणचोदना । तेन गणधर्माकाङ्क्षा । तस्मात् सर्वेषां द्वादशशतं दक्षिणेति तुल्यो दानाधिकारः । अधिकारशब्दं प्रक्षिप्य लक्षणे सङ्गतिमाह ।
?R ?R?0राद्धान्तस्तु - सत्यमेका गणचोदना चोदनीयास्तु भिद्यन्ते तदपेक्षया च धर्मग्रहणम् । ?R?0अस्यार्थः - यद्यप्येका चोदना तथापि चोदनीयानां कर्मणां भेदात् । तदपेक्षयाचाधिकारविधेः धर्मग्रहणं करणान्यपेक्ष्य चाधिकारविधिः धर्मान् गृह्णति । बहूनि चैतानि करणानीति तदपेक्षया प्रत्येकं धर्मातिदेशः तत्र कस्यचिन्नाम्ना, कस्यचिल्लिङ्गेनेति । तस्मात् नामैव बलवत् ।
?R ?R?0कथं पुनरितरेषां दक्षिणा । ?R?0यदि सर्वस्वं एकस्मिन्नहनि दक्षिणा, अन्यत्र द्वादशशतं एकया च दक्षिणया भवितव्यमिति दशमे स्थापितम् । अतो विरोधात्
?Rकथमितरेषां दक्षिणा । ?R?0उत्तरन्यायान्तरमिदं चिन्त्यते विप्रतिषिद्धधर्माणां समावाये भूयसां स्यात् स्वधर्मत्वमित्यत्र ।
?R?0 ॥ 9॥ विकारः सन्नुभयतोऽविशेषात् ॥ 18 ॥
?R?0 ननु च नियमविधौ सति सर्वदानं द्वादशशताभ्यधिकेनैव
?R?0सर्वस्वदानेनाधिकृत इति वक्तव्यम् । किमिदं समेन वेत्युच्यते ।?R?0 अस्यार्थः - भाष्यकारेणात्र विधान एवमुच्यते - द्वादशशताधिकेन तत्समेन वाऽधिक्रियत इति । तदनुपपन्नम् । यस्मात् प्रकृतौ द्वादशशतं विधायाह - एवं वा ऋत्विज आगमयितव्याः अपि वा सर्वस्वेनेति । एवं चोक्ते द्वादशशताधिकमेव सर्वस्वं प्रतीयते। येहि द्वादशशतेन नानमन्ते न तरां ते न्यूनेन । तेनाधिकं सर्वस्वं तच्च विश्वजिति नियम्यते । तेनाधिकेनैव सर्वस्वेनाप्यधिकारो न द्वादशशतसमानेनेति ।
?R ?R?0अत्राभिधीयते - समग्रहणमानत्यन्तरापेक्षया न द्वादशशतापेक्षयेत्यदोषः । ?R?0अस्यार्थः - योऽयं तत्तुल्यया दक्षिणयाऽधिकार इत्यूचे स आनन्त्यन्तरापेक्षया तत्तुल्यमित्यनेनाभिप्रायेण तत्तुल्याधिकार इत्युच्यते । न द्वादशशतापेक्षया द्वादशशताधिकमेव किञ्चित् आनतितुल्यत्वात्तुल्यमित्यदोषः ।
?R?0॥ 10 ॥ अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधः तच्छ्रुतित्वात् ॥ 21 ॥
?R ?R?0नार्थलोपेनात्र पूर्वः पक्षः । ?R?0अस्यार्थः - यद्यत्रापरिमितशब्देन तावत् यस्य परिमाणं नास्ति तदवयवानुसारेणोच्यते न तस्य दानासम्भवः सर्वस्य दीयमानस्य परिमाणसम्भवात् । अथावयवार्थतिरस्कारेण अपरिमितशब्देन बहूच्यते तदा अवयवार्थत्याग एव दोषः । तेनावयवार्थलोभेन परिमितं न दोयं इत्यत्रार्थः । असमर्थ समासाश्रयणेऽपि अवयवार्थानुग्रह एव हेतुरिति पूर्वः पक्षः ।
?R?0दानचोदनाप्रकरणात् श्रुतिश्चोपपन्नतरेति राद्धान्तः । ‘?R?0एका देया’ ?Rइत्यादयः दानचोदनाः प्रकृताः तत्समीपे च अपरिमितं देयमिति । तेन दानचोदनासाहचर्यात् इयमपि दानचोदनैवेति मन्तव्यम् । तेन अपरिमितं देयमित्येवं सम्बन्धः । समासश्रुतिश्चोपपन्नतरा । समर्थसमासो हि श्रुतित एवावगम्यते । तेन अपरिमितं देयमित्यर्थः अपरिमितशब्देन बहून्युच्यन्ते ।
?R ननु चैवं सति अवयवार्थलोपः प्राप्नोति इति पूर्वपक्षवारणम् । राद्धान्तमाह - ?R?0प्राप्तस्य प्राप्तिरित्यपेशलम् ।?R?0 लोके हि अपरिमितशब्देन बहून्युच्यन्ते
?Rअपरिमितमस्य धनमिति बह्विति गम्यते । तेनावयवार्थलोपेन दर्शनात् नायं दोष इति । ?R?0तथा च प्रवीणादिषु दृष्टम् । ?R?0प्रवीणकुशलशब्दानां रूढित्वं दृष्टम् । प्रवीणशब्दो हि न गौण इति शक्यते वक्तुम् । वीणावादनगुणयोगेन हि वर्तमानः प्रकर्ष एव केवलेन व्यवतिष्ठते । तस्मात्तत्रारोहन् रूढ इत्युच्यते । एवमप्यपरिमित शब्दोऽप्याधिक्य एव वर्तमानो रूढ इति ।
?R?0॥ 11 ॥ अनियमोऽविशेषात् ॥ 23 ॥
?R?0 आपेक्षिकत्वात् बह्वर्थस्य सहस्रस्य प्रकृतत्वात् तदम्यधिकमिति न्याय्यम् । ?R?0तत्किलापेक्षितं यत्प्रतियोग्यपेक्षं तस्मिन् सन्निहिते सम्भवति तदपेक्षमेवाभ्यधिकत्वं प्रतीयत इति ।
?R?0॥ 12 ॥ परकृतिपुराकल्पं च मनुष्यर्धमः स्यादर्थाय ह्यनुकीर्तनम् ॥26॥
?R?0 ?R?0अत्र चिन्त्यते - ?R?0किमेवमधिकारविधयोऽथवा क्रत्वर्थानामेव स्तुतिरिति । ?R?0माषादीनां सङ्कीर्तनं किमधिकारप्रदर्शनार्थं उतारण्यादिस्तुत्यर्थमिति सन्देहः । पुरुषसंयोगादधिकार इति पूर्वपक्षवादिनोऽभिप्रायः । अन्यथा हि पुरुषश्रवणं
?Rसविशेषणमनर्थकं स्यात् बह्वर्थत्वाद्धि पुरुषसङ्कीर्तनं गोत्रविशेषेण सहितं स्तुतिमात्रत्वेऽनर्थकं भवति । विकारार्थत्वे सार्थकमित्यधिकारविधिरेव
?R ननु ‘?Rनिवीतं मनुष्याणां’?R इत्यनेन तत्रापि पुरुषसम्बन्धात् विधित्वमाशङ्क्य स्तुतित्वं दर्शितम् इहापि तथैवेति । नेति ब्रूमः । तत्र पुरुषविनियोगः क्रतुविनियोगे बाधितः कर्मन्तराश्रयणात् । क्रतुप्रकरणे क्रतुरेव कार्यं प्रतिभाति । तत्र पुरुषधर्मत्वं स्यात् तेन पुरुषसंयोगोऽर्थवादमात्रम् । इह पुनरधिकारमुखेन क्रत्वर्थविघात उपपद्यते । अधिकारेऽपि माषादीनां क्रत्वर्थत्वादिति चिन्त्यते । अतः पुरुषश्रवणात् क्रतोश्चाविघातात् अधिकारविधिरेवायम् । विशेषतस्तु तद्गोत्राणां सामान्यतो वा अतद्गोत्राणामपि सामान्यत एव वा विशेषस्य
?Rस्तुत्युपयोगित्वादिति । यस्माद्वार्ष्ण्येनैवं कृतं तस्मादन्योऽपि तत्कुर्यात् इति सामान्यत एवायं सिद्धिः ।
?R ?R?0एवं प्राप्तेऽभिधीयते -सत्यं न क्रतुना विरोधः न पुनरधिकारान्तरं प्रत्येतुमेव शक्यते तदवगमात् ?R?0पाकादय एवं कुर्वन्तीत्येतावन्मात्रमत्र श्रूयते, न पुनरन्योऽप्येवं कुर्यादिति तेनाधिकारावगमात् आरण्यव्यतिरिक्ताधिकारान्तरावगमात् न माषादिविषयमधिकारान्तरं प्रत्येतुं शक्यते । ननु च माषपाकादिसङ्कीर्तनमनर्थकमित्याशङ्क्याह ?R?0विनियोगस्य च विनियोगान्तरेणैकवाक्यत्वात् ?R?0। स्तुत्यर्थत्वात् आरण्यविनियोगेनैकवाक्यत्वात् स्तुत्यर्थमेव माषमात्रे पाकादिकीर्तनम् । ?R?0अतो न विषयतः ?R?0न नियोगत इत्यर्थः । विनियोगो हि नियोगस्य विषयः तथापि नियोगतः साक्षाद्विध्यश्रवणात् नाधिकारस्य नानात्वं शक्यते प्रतिपत्तुम् । तस्मात् स्तुतिरेवेति न्याय्यम् ।
?R?0॥ 13 ॥ सहस्रसंवत्सरं तदायुषामसम्भवान्मनुष्येषु ॥ 31 ॥
?R?0 कथं पुनरत्र त्रिवृत इति श्रवणात् संशब्दार्थाशङ्का ??R ?R?0अस्यार्थः यद्यपि प़ञ्चाशतः त्रिवृतः संवत्सरा इति संवत्सरशब्दः श्रूयते तथापि त्रिवृत इति श्रवणात् अहान्येव प्रतीयन्ते त्रिवृच्छब्दोऽहन्येव वर्तितुं शक्नोति त्रिवृत्स्तोत्रमुखेन सवनार्थोपसंहारात् अहरेव प्रतीयते । संवत्सरशब्दोऽपि अहस्स्वेव नामधेयत्वोपपत्त्यर्थो द्रष्टव्यः । अतः कथं संवत्सरशब्दार्थ इत्याशङ्कते । ?R?0उच्यते । द्वादशाहवदेतत् भविष्यति इति । ?R?0यथा द्वादशाहेन यजेत इत्यत्र त्रिवृदादयः शब्दाः स्तोत्रवचना अपि अहर्द्वारेण सम्बध्यन्ते एवमत्रापि पञ्चाशतः त्रिवृतः संवत्सरा इति ?R?0यावद्भिः अहोभिः त्रिवृद्भिः पूर्यते तावता त्रिवृतामह्ना त्रिवृता इति व्यपदेशो भवतीति पूर्वपक्षवादी मन्यते । ?R?0अस्यार्थः - द्वादशाहेन यजेतेत्यत्राधिकारवाक्ये अहश्शब्दश्रवणात् उत्पतौ त्रिवृदादयः शब्दाः अहान्येवोपलक्षयन्ति तथापि अधिकारवाक्ये संवत्सरश्रवणात् उत्पतौ त्रिवृदादयः
?Rशब्दाः यावद्भिरहोभिः संवत्सराणां पञ्चानां पञ्चशता पूरणं भवति तावत्सु वर्तते । तेषामपि स्तोत्रयोगित्वात् । अत एव चोत्पत्तावपि संवत्सरशब्दसामानाधिकरणात् त्रिवृदादिशब्दानाम् । अतः सहस्रसंवत्सरयोगिन्यधिकारे स्थिते सहस्रसंवत्सरश्रवणात् नूनं केचिद्दीर्घायुषो विद्यन्त इति गन्धर्वाद्युपन्यासः । नह्याशङ्कनीयमर्थं वेदो विदध्यादिति न्यायात् विधिबलादेव दीर्घायुषः कल्पनीयाः । एवं रसायनकुलकल्पार्धतृतीयशताद्युपन्यासः । तुल्यत्वाददृष्टकल्पनायां यदा द्राघिष्ठं अदृष्टानां कल्पनम् । तथा रसायनस्यापि ज्योग्जीवितत्व (वकत्व)कल्पनं तथा कुलकल्पना अर्धतृतीयशतपुरुषाधिकारकल्पना ।
?R ?R?0एवं प्राप्तेऽभिधीयते - त्रिवृतः संवत्सरा इति हि श्रूयते न त्रिवृतां संवत्सरा इति । ?R?0यदि त्रिवृतां संवत्सरा इति श्रूयते ततः त्रिवृच्छब्देन अहकेन सह सम्बन्धोऽवकल्पते । यदा तु त्रिवृत इति अहान्युच्यन्ते तदा संवत्सरशब्देन
?Rमुख्यसामानाधिकरण्यं न भवतीति त्रिवृच्छब्देन वा त्रिवृतां समूहो लक्षणीयः । संवत्सरशब्दो वा गौण्या वृत्त्या अहस्सु वर्णनीयः इति चिन्तायां विचारितत्वात् संवत्सरशब्द एवानिर्णीयमानार्थः त्रिवृच्छब्दानुगुण्येन लक्षणया वर्णनीयः
?R तथाहि - सावनेनापि संवत्सरोऽस्ति षष्ट्यधिकैः त्रिभिरन्हां शतैः । तथा साङ्क्रान्तोऽपि भवति आदित्यस्य द्वादशराशिभेदनेन । तथा नाक्षत्रोऽपि भवति द्वादशभिः गणपरिवृत्तिभिः इन्दोः । तथा चान्द्रोऽपि तिथिगणनायां षष्ट्यधिकैः त्रिभिरेव शतैः सर्वत्र चात्र संवत्सरशब्दो मुख्यः । तेनासौ न ज्ञायते प्रयुज्यत इति । तेन तद्वशेन न पदान्तरवर्णना, पदान्तरवशेनैव तस्य वर्णना । इत्यतो न द्वादशाहवदेतदुपपद्यत इति संवत्सरशब्दोऽत्राहस्सु नामधेयोपपत्त्यर्थो द्रष्टव्यः पञ्च पञ्चाशतस्त्रिवृत इत्येतावदेवात्र विधीयते अत्र तु संवत्सरशब्दस्य विहितान्वयित्वात् अर्थान्तररूपे वृत्तिर्द्दष्टा । तस्मात् सिद्धोऽधिकारो विना कल्पनया सहस्रेणान्हां कर्माणि कर्तुं लौकिकानामपि सामर्थ्यादिति स्थितम् ।
?R?0इति ऋजुविमलायां पञ्चिकायां षष्ठाध्याये सप्तमः पादः
?R?0षष्ठाध्यायस्य अष्टमः पादः
?R इष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्यादपूर्वोऽप्याधानस्य सर्वशेषत्वात् ॥ 1 ॥
?R अत्र भाष्यकारेणैवमुक्तम् - पक्षान्तरमपि विचारयिष्यतीति । यदि च पक्षान्तरमस्ति किमिति नोपन्यस्यते तत्राभिप्रायमाह - इह पक्षान्तरानुपन्पासे मन्दयुक्तिकः पक्षः नान्यपक्षप्रतिपक्षतयोयन्यसनमित्यभिप्रायः ।
?R अत्र भाष्यकारः एवं विचारयति - किं पवमानेष्टिसंस्कृतेष्वग्निषु चतुर्होतृहोमाः उतासंस्कृतेष्वपीति । तदसङ्गतमिति मत्वा समर्थयमान आह - चतुर्होतृषु होमेषु किमाहिताग्नेरधिकारः उतानाहिताग्नेः अथवा अविशेषेणेति चिन्त्यते । करणचिन्ता तु भाष्यकारेणैव कृता । तत्रानारभ्याइवनीयविधानात् आहिताग्नेरिति पूर्वः पक्षः । सर्वहोमेषु आहवनीययोग इत्याहवनीयवतः साग्नेरधिकारः । कथं पुनरनाहिताग्नेरिष्टिरिति वचनमेतस्मिन् पक्षे ? अतो वचनेनानाहिताग्नेरिष्टिर्भवतीति भावः । उत्तरं - यदग्निसंयुक्तं कर्म तन्न भवतीत्यभिप्रायः । जपानामेष वादः अनाहिताग्नेरेषवा इष्टिरिति न होमस्य । एष वा अनाहिताग्नेः क्रिया यदुतेष्टिरिति । इष्टिशब्दोऽनिष्टिषु गौणः प्रशंसार्थः । अविशेषाशङ्का तर्हि कथं ? उत्तरं आहिताग्नेरधिकारो न शक्यते वारयितुं अवैगुण्यात् सर्वहोमानां न तस्य किञ्चिद्वैगुण्यं क्लेशासाध्यत्वेन तावदधिक्रियते । अनाहिताग्नेस्तु वचनं भविष्यति इति ।
?R पितृयज्ञवदप्यनाहिताग्निना कार्य इति । यथा तेन द्वयोरप्यधिकारो भवत्विति युक्ता शङ्का ।
?R राद्धान्तस्तु यत एव चाविशेषेण विधानमाहवनीयस्य अत
?Rएवाधिकारिविशेषणमास्कन्दितुमर्हति । विनियोगविशेषमिव पदे जुहोति वर्त्मनि जुहोति इति यथा । यदि हि चतुर्होतृहोमानेवाधिकृत्याहवनीयो विहितः स्यात् (स्यात्) आहिताग्नेरधिकारः । यतस्तु सामान्येनाहवनीयो विहितः ततो हि न
?Rशक्नोत्यनाहिताग्नेर्वाचनिकमधिकारमास्कन्दितुं पदे जुहोतीति विनियोगान्तरमिव । तेना (ना) हिताग्नेर्वाचनिकोऽधिकारो युक्तः एषा वा अनाहिताग्नेरिष्टिः इति वचनात् ।
?R अत्र चेयं वचनव्यक्तिः - यैश्चतुर्होतृहोमरूपेष्टिः एषा वाऽनाहिताग्नेरिति । यदुक्तं आहिताग्नेरवैगुण्यादधिकारो निवर्तयितुं न शक्यते अनाहिताग्न्यर्थं तु वचनमिति । अत्र ब्रूमः । उक्तं च नाधिकारविशेषं साधारणविधिरास्कन्दतीति । विशेषेण चात्र अनाहिताग्नेरयमधिकारः । तत्र चाहवनीये जुहोतीति सामान्यविधिर्ना वतरतीत्युक्तम् । तस्मात्
वाचनिकोऽयमधिकारोऽनाहिताग्नेः । अतो यत्र चोभयसंयोगः तत्रैवोभयोरधिकारः यथा पिण्डपितृयज्ञे । तत्र हि अ(प्य)नाहिताग्निना कार्यमिति अपिशब्देनान्वाचयः क्रियते । अत्र तु स नास्ति । तस्मादनाहिताग्नेरेवैषोऽधिकार इति सिद्धम् ।
?R ॥ 2 ॥ उपनयन्नादधीत होमसंयोगात् ॥ 11 ॥
?R इह माणवकहोमाश्चिन्त्यन्ते, नाचार्यस्य, आचार्यस्याहवनीयसंभवात् सिद्धान्ताभावप्रसङ्गाच्च । माणवककर्तृकाश्च माणवकहोमा येष्वाचार्यस्याधिकारो न श्रूयते । इह चिन्त्यते । उक्तमाघस्त्येऽधिकरणे चतुर्होतृष्वनाहिताग्नेरधिकारश्रवणात् आहवनीयविधिरेव बाधित इति । इह पुनः अनाहिताग्निशब्दाभावात् आहवनीयस्य च सर्वहोमार्थत्वात् आहिताग्नेर्माणवकस्य स्वकर्मण्यधिकार इति तत्सिद्ध्यर्थमाधानं करिष्यति । ननु चाधीतवेदस्य गुरुकुलान्निवृत्तस्य कृतदारपरिग्रहस्याधानमुच्यते तत्कथमनधीतवेदस्याधानं ? अत्रोच्यते । क्रममात्रं हि तत् वाक्याच्चाहवनीयसंयोगः आहवनीये जुहोतीति । तेनाहवनीयानुग्रहात् क्रमो बाधिष्यते । तदाह - वाक्याङ्गभूतं क्रममपि बाधत इति पुनः क्रममात्रम् । ननु च सह पत्न्या आधानं श्रूयते । असति सहभावे कथं तदुच्यते । न चाकृतदारस्य पत्नी सम्भवति । उच्यते । क्रियतां दारसङ्ग्रहः सहाधानसिध्यर्थम् । ननु
?Rकथमनिवृत्तौ गुरुकुलात् दारान् कुर्यात् । गुरुकुलनिवृत्त्यन्तरं दारक्रियाविहिता यतः । परिहरति उक्तं क्रममात्रं तदिति ।
तस्मादाहिताग्नेरधिकारः ऐश्वर्यलक्षणः ।
?R अत्रोच्यते । नायं पक्षः सम्भवति । यस्मान्न दारोपयमनमाधानं प्रयुङ्क्ते । यदि । ह्याधानेन दारोपयमनं प्रयुज्यते तदा सहभावोपपत्तये स्यादप्युपयमनम् । न च तदस्ति रागस्यैव प्रयोक्तृत्वात् कृतदारग्रहणस्य सम्भवात् । अत्र चोदयति - केन वोक्तं प्रयुज्यत इति । रागत एव त्वसौ कृतदार इत्युक्तमस्माभिः । क्रमस्यानङ्गत्वात् वाक्याच्च दुर्बलत्वादित्यनया युक्त्या । परिहरति - सत्यमाह भवान् । किन्त्वत्रास्ति किञ्चिद्वक्तव्यम् । उपनयनोत्तरकालं हि वैदिकेऽधिकार इति प्रतिपादितम्, (न) प्रागुपनयनात् । तदा दार्विहोमिकाचार्याणां विधय इत्युक्तम् । तेन माणवकस्य वैदिकोऽधिकारो नास्ति । न चानधिकृतदारनियमस्संभवति । न च कृतदारस्याधानं इत्यनाहिताग्नेरेवाधिकारः । ननु चापत्यान्यार्थेषु दारेषु नियमः धर्मार्थमिति न प्राप्नुयुः । तत्र नियमाभावात् । परिहरति - कृतदाराणां हि तद्धर्मनियमः । न हि धर्मार्थो दारसङ्ग्रहः । रागप्रयुक्तो दारसङ्ग्रहः न धर्मप्रयुक्तः । तेन दारनियमं विना दारसङ्ग्रहो नास्ति । तस्मात्सिद्धमनाहिताग्नेः प्रागौपनायनिको विधिरिति ।
?R ननु च प्रागुपनयनादधिकार एव नास्तीति त्वयैवोक्तम् । तेन माणवकस्य होम एव न सम्भवतीति कुतोऽयं विचारः ? उत्तरं - बाढमधिकारो नास्तीति न पुनः कार्यतोऽपि नास्तीत्युच्यते स्वाध्यायाध्ययनवदैश्वर्यपक्षोऽस्ति । नियोज्यलक्षणस्तु नास्तीत्यर्थः । कार्ये चाधानेऽनधिकारादनाहिताग्नेरधिकार इत्युक्तम् । एकत्वान्नियमस्य न पुनः दारसङ्ग्रह इति । सत्यमेवम् द्वितीयो दारसङग्रहो न स्यात् यदि तु वचनं न स्यात् । पुनराधानवदस्ति तु वचनम् धर्मप्रजासम्पन्ने दारे नान्यां कुर्वीत अन्यतराभावे कुर्यादिति वचनस्यापायो नैवास्तीति स्थितिः । तेन वचनात् द्विर्दारसङ्ग्रहो न विरुद्धः । दर्शनमुक्तम्
?Rपिण्डपितृयज्ञवदिति च परिहृतम् ।
?R॥3॥ स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजयेत् तादर्थ्याच्चापवृज्येत ॥20॥
?R अत्रापि (वि)नाऽऽहवनीयस्य विधिः शक्यते बाधितुमिति पूर्वपक्षवादी मन्यते यस्मान्नात्र माणकस्येव आधानेऽनधिकारः शक्यते वक्तुम् । आधाने सहभावदर्शनात् (न) प्राप्तिरेव प्रयाजादिप्विव दर्शपूर्णमासप्रकृतित्वात् अस्य कर्मणस्तद्विधानेनाहवनीयस्य प्राप्तेः । तन्मुखेन चाधानाक्षेपादाहवनीयस्योपायत्वात् । तस्मादाहिताग्नेरेवाधिकारो निषादस्येति । उच्यते । नाधाने तावदधिकारित्वं पश्यामः विधानाभावात् ।
?R ननु दर्शपूर्णमासप्रकृतित्वेनाधानस्य प्राप्तिरुक्ता । परिहरति - सत्यं अग्नीनां तु सा प्राप्तिः तेषामङ्गत्वात् । ननु च अनाहितस्य तस्यानङ्गत्वात् अग्निद्वारा भविष्यत्याधानस्य प्राप्तिः । क्रत्वाक्षेपकं परिहरति - प्रकृतावपि नैवाधानमग्न्यर्थमधिकारकं, किं तर्हि ? विनियोगतः तदग्न्यर्थं, न क्रत्वधिकाराक्षिप्तमाधानं प्रकृतौ । किं तर्हि ? विनियोगेन हि क्रमेण तदग्न्यर्थमिति । न चाधिकारादृते विनियोगोऽत्र लभ्यत इति । अधिकारमपास्य विनियोगोऽत्र नास्ति । केवलमधिकारमात्रं नाक्षिपत्याधानमित्यसंस्कृतेष्वेवाग्निषु स्थितमिदं कर्म ।
?R ननु च विनियुक्तेष्वग्निषु अधिकार इति तन्मुखेनाप्यधिकारस्य प्राप्तिः । सत्यम् । न (नु) तु पुनरधिकृतस्याधाने विनियोगानुष्ठानम् । आधानेनाग्न्युपादानम् । अनधिकृतश्चायं निषाद इत्युक्तम् । तेन आधानेनाग्निर्न सिद्ध्यति निषादस्येत्यग्निलोपेन कर्म कर्तव्यम् ।
?R अत्रायं पूर्वः पक्षः
?R यद्यप्यनङ्गतया आधानमतिदेशेन न प्राप्यते तथाप्यतिदिष्टाहवनीयसिद्ध्यर्थं निषादस्याक्षेपो भविष्यति ।
?R राद्धान्तस्तु अलौकिकत्वादाहवनीयस्य निष्पत्तेर्नाक्षेपकम् । अतो
?Rयत्कर्तृकमाधानमाहवनीयाद्युत्पादकं विनियोगतोऽवगतं तत्कर्तृकेनैवाहवनीयोत्पत्तिः नान्येन, निषादकर्तृकस्योत्पादकत्वेना विज्ञानान्नाक्षेपः सम्भवति ।
?R॥ 4 ॥ अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् ॥ 22 ॥
?R अवकीर्णिपशौ कं विशेषं पश्यति आशङ्काहेतुभूतं तस्यापि दाराभावात् न सहाधानमुपपद्यते । उत्तरं - अयमभिप्रायः - तस्य दाराः सैव भवतु नियमातिक्रमात् यया सहावकीर्णी । दारा इति बहुवचनात् तद्भवति इत्येकवचनात् कर्म सैवेति सम्बन्धात् । तस्मात् सत्सु दारेषु आहवनीयसम्बन्धो नैव बाधितुं शक्यत इति पूर्वपक्षवादी मन्यते ।
?R राद्धान्तवादी तु अतिक्रमे निर्हरणायैतत्प्रायश्चित्तं नियमानुसम्बन्धादिति तादृशस्याधिकारादिदमपि पूर्वाधिकरणवद्द्रष्टव्यम् । अवकीर्णिपशुर्हि अवकीर्णिना कृतदोषनिर्हरणेन ब्रह्मचर्यमेवानुसन्धातुं घटयितुं विहितं प्रायश्चित्ततया । निवृत्तस्य च पापात् प्रायश्चित्तम् । तेन तां परित्यज्यैवावकीर्णिपशुः कर्तव्यः । तेन तादृशस्यैव ब्रह्मचारिण एव त्यक्तस्त्रीकस्यैवाधिकारादिदमपि माणवकहोमाधिकरणेन तुल्यम् ।
?R॥5॥ उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् ॥23॥
?R कथं पुनरत्र स्मृतिवचने सति पूर्वपक्षाशङ्का उपनयनादिषु संवत्सरादि कालनियमश्रवणात् । अष्टवर्षस्यार्थः अष्टवर्षं ब्राह्मणमुपनयीतेति श्रूयते यस्य पूर्णा अष्टौ वर्षाः सोऽष्टवर्षः तेन निषेकालादारभ्य पूर्वे(र्णे)ष्वष्टसु वर्षेषु उपनयनमिति
?Rनोदगयनादिस्मृतेरादरः सम्भवतीति ।
?R राद्धान्तस्तु वर्तमानेष्वेवाष्टसु वर्षेषु स नियमो नातिवृत्तेष्वित्यविरोधः । यदि हि स्मृतिः श्रुतिविरुद्धा स्यात् बाध्येतापि स्मृतिः । न चास्ति विरोधः । श्रुतावपि वर्तमानेप्यष्टवर्षे उपनयनं श्रूयते । तस्योदगयनादिश्रुत्या सह विरोधो
?Rनास्ति । स ह्यष्टवर्ष उच्यते । उत्तरं - अष्टमो हि तस्य वर्षोऽस्ति यदि परिपूर्णः तेन भविष्यत्येवाष्टवर्षः । दर्शनमुक्तम् ।
?R॥ 7 ॥ याच्ञाक्रयणमविद्यमाने लोकवत् ॥ 26 ॥
?R नोपात्तद्रव्यसंभवे सत्यप्यन्योपादानं युक्तं, अदृष्टकल्पनाप्रसङ्गात् तदभाव एव क्रयो विधीयते भृतिवचनं चेति पूर्वः पक्षः । अस्यार्थः - द्रव्योपादानार्थं हि याच्ञादि विहितम् । असति द्रव्ये द्रव्योपादानं विहितं कर्तव्यं न सत्येव । तस्मात् प्रयोजनालोचनया द्रव्याभाव एवायं विधिरिति ।
?R राद्धान्तस्तु सत्यमेव यदि पुरुषार्थत्वेन विधानं स्यात् । क्रत्वर्थ एवायं विधिः । न च क्रतोरुपात्तं नाम किञ्चिदस्ति इत्यस्यैव दृष्टार्थत्वम् । अस्यार्थः - क्रत्वर्थत्वेन याच्ञाविधानं क्रतुप्रकरणाम्नानात् । न च पुरुषार्थत्वेन प्राक् क्रत्वर्थं द्रव्यमस्ति पुरुषार्थयाच्ञयैव हि क्रत्वर्थं क्रियते । तस्मात् विद्यमानस्यापि याच्ञयैव क्रत्वर्थं द्रव्यं भवति नान्यथा, तेनास्यैव क्रत्वर्थस्य सतो दृष्टार्थत्वम् ।
?R ननु यदि दृष्टार्थत्वं तदा दृष्टस्यान्येन सम्भवे नित्यं तर्हि याच्ञा देरुपसंहारो न भवति । अत्रोत्तरं - न चैतावता दृष्टार्थत्वेनानुपसंहारः शक्यते वक्तुं, सर्वस्य युगपद्विधानात् । ऐकशब्द्या दिति वक्ष्यति । तस्मान्नित्यवत्कर्तव्यम् । अस्यार्थः - ऐकशब्द्याद्धेतोः सर्वस्य विधिनिष्पत्त्यर्थत्वेन युगपद्विधानम् । तेन सिद्धेऽपि दृष्टेऽर्थे विध्यर्थस्य यथाचोदिताङ्गसाध्यत्वात् नित्यमुपादानं कर्तव्यम् । तेनायं याच्ञादिविधिः विध्यर्थनिष्पत्त्यर्थत्वेन याच्ञादिवचनात् अप्राप्तविधिरेवास्तु । नियमस्तु प्रयोजनमात्रम् । अस्मिन् विधौ
?Rसति याच्ञादेरेव नियोगार्थसिद्धिहेतुत्वेनाभ्यनुज्ञानात् नित्यमुपादानम् । असति तु तस्मिन् क्रियासंबन्धसिध्यर्थमन्यदुपादीयेतेति नियमः प्रयोजनं विघेः ।
?R ॥ 8 ॥ तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम् ॥ 28 ॥
?R कःपुनरत्र विशेषः? उत्तरं-अयमस्ति विशेषः । पुरुषार्थद्वारेणानु प्रवेशात्
?R। संज्ञपनस्य हृदयाद्युत्पत्त्यर्थत्वं मन्वानस्य भवति काचिदाशङ्का । अस्यार्थः - क्रत्वर्था अपि भक्षादयः पुरुषार्थद्वारेण क्रतावनुप्रविशन्तिति यत्र परं पुरुषार्थोपायो नास्ति तत्रैवैषामङ्गभाव इति भक्षादिषु तावदाशङ्का । संज्ञपनहोमे त्वेवम् - न संज्ञपनाङ्गं होमोऽवकल्पते । प्रायश्चित्तस्थानीयो हि स श्रूयते मन्त्रवर्णश्रवणात् । प्रायश्चित्तं च वैगुण्ये सत्यवकल्पते न च संज्ञपनमात्रे वैगुण्यं, तस्य हृदयाद्युत्पत्यर्थत्वात् । प्रत्युत साद्गुण्यायत्तत्वादिति ।
?R राद्धान्तस्तु अधिकारविधिनैकवाक्यत्वात् प्रकरणविधीनां पूर्ववदनुष्ठानम् । अस्यार्थः - प्रकरणे हि विधीयमानः श्रूयमाणः अधिकारविध्यर्थः अधिकारविधिश्च तत्सम्बन्धः प्रतीयमानः तैरेव सद्भिर्निश्चीयते । अतस्तदनुगुणद्वारा कल्पनीयत्वे (न) सत्यपि पुरुषार्थसिद्धिः तेन भक्षादिजन्यपुरुषार्थद्वारेणैव विधिरिति परिकल्प्यते तथा संज्ञप्तहोमोऽपि संज्ञपनमात्रनिमित्ततः, न वैगुण्यप्रतिसमाधानार्थः । मन्त्रवर्णस्तु विध्यानुगुण्येनैव वर्णनीय इति भक्षाणामपि नित्यमनुष्ठानम् ।
?R॥ 9 ॥ अनर्थकं त्वनित्यं स्यात् ॥ 29 ॥
?R अत्रापि तर्हि अधिकारविधिनैकवाक्यत्वात् नित्यमनुष्ठानं तेन विना विध्यर्थासिद्धेः । न चेदं वाच्यं अनुष्ठीयमानमिदं प्रयोजनशून्यमिति नानुष्ठेयमिति । यस्मात् यः सर्वाङ्गोपसंहारसमर्थः सोऽपि कामी भविष्यति । न ह्यनेन यत्रैव प्रयोजनमस्य तस्यैवाधिकारः ।
?R राद्धान्तमाह - उच्यते । स्वार्थपरित्यागेनैव हि विधानमेव न प्रतीयते
?Rद्वारनियमस्यापेक्षितत्वात् । न चाविहितस्यानुष्ठानं युक्तम् । तस्मादर्थशून्यमेवंविधं अननुष्ठीयमानमपि नाधिकारं विहन्ति इति सिद्धमधिकारविधिर्न विहन्ति । विनापि तेन (ापि) अधिकारविधिस्सिध्यत्येव । नित्यवत्तस्याविनियुक्तत्वात् । सति द्वारे तस्य विनियोगः नासत्यपि । यच्चेदमुक्तं - यत्र पुरुषे द्वारं न सम्भवति तस्याधिकारो माभूदिति तदयुक्तम् । यथाविनियोगमधिकार इत्युक्तम् । अस्य च
?Rपरार्थस्यानित्यद्वारकत्वात् अनित्यमेवार्थात् विनियोग इति न शक्यते तद्वशेनाधिकारो निवर्तयितुमिति ।
?R॥ 10 ॥ पशुचोदनायामनियमोऽविशेषात् ॥ 30 ॥
?R लक्षणसङ्गतिमाह - इदमत्र चिन्त्यते - किं सामान्येन पशुमतोऽधिकारः उत छागवत एवेति । ननु विनियोगमुखेनापि एषा चिन्तोपपद्यत इति किमित्यत्रैव चिन्त्यते ? तत्राह - विनियोगे पुनश्चिन्त्यमानेऽविशेषात् विनियोगद्वयसिद्धेर्न शक्यते विशेषोऽवधारयितुमित्यधिकार एव चिन्त्यते । अस्यार्थः - न विनियोगे घटते तथामन्त्रस्यापि छागाभिधायितया । अधिकारे तु परस्परविरोधाद्द्वयमुपसंहर्तुं न शक्नोति । विरोधे सति शक्यते पशुविशेषां मन्त्रबलेनावधारयितुमित्यत्रैव चिन्ता युक्ता । तत्र पूर्वपक्षवादिनोऽभिप्रायः - सामान्यशब्दोऽयं पशुशब्दः गवादिशब्दवत् । तेन पश्वाकृतिमात्रस्य निवियोगात् मेषादिष्वपि जात्यविशेषात् यःकश्चित्पशुरुपादातव्यः । ननु मन्त्रवर्णेन विशेषेऽवस्थानमित्यत्राह क्वचिच्च विशेषमन्त्रस्य अर्थवत्त्वमुपपन्नमेवेति न सामान्यं विशेषेऽवस्थापयितुमर्हति । योगाद्वा – गमनयोगाद्वा, वर्णसामान्याद्वा, अक्षरसामान्याद्वा मन्त्रस्यैव सामान्यार्थता युक्ता । प्रमाणान्तरवशेन हि मन्त्रस्यार्थोऽवतिष्ठते इत्युक्तम् । विनियुक्तद्वारस्मारकत्वात् मन्त्राणां यथाविनियोगात् वर्णना युक्तैव । तस्मा पशुमतोऽधिकारः
?R अत्रोच्यते । स्यादेतदेवं यद्ययं पशुशब्दः सामान्यवचनः स्यात् । किं तर्हि औपाधिकोऽयं सर्वपशूनां पुच्छवत्त्वोपाधिकः शब्दशब्द इव श्रोत्रग्राह्यत्वोपाधिकः सर्वशब्दानाम् ।
?R कस्मादेवं भवतीत्यत्राह - प्रत्यभिज्ञानाभावात् छागे हस्तिनि च (न) प्रत्यभिज्ञानेन सामान्यं तावन्नास्ति तदभाव एव शब्दप्रवृत्तिमौपाधिकीं दर्शयति । स च बालधिरुपाधिनियमः । कथं पुनः प्रत्यभिज्ञा नास्तीत्यत्राह - यथा च
?Rप्रत्यभिज्ञा नास्ति एवं प्रथमपाद एव दर्शितम् पूर्वाकारावमर्शाभावादिति । यस्मादयमौपाधिकः सर्वपशूनां पुच्छवत्त्वोपाधिकः शब्दो व्यक्तिवचनः । अतो न विशेषमन्त्रोपस्थापि तमतिक्रामति । तत्रैव प्रवर्तते प्रयोगैक्यात् । एकाधिकारविधिपरिग्रहो मन्त्रस्य परिगृहीतत्वात् । तेन च विशेषस्य सन्निधापितत्वात् ।
?R अभ्युपगम्यापि सामान्यवचनतां ब्रूमः । विशेषनिष्ठतैव सामान्या(पि)नां युक्ता नित्यवन्मन्त्राम्नानसामर्थ्यात् न मन्त्रस्य पाक्षिकत्वं युक्तम् । न च सामान्यं विशेषेऽवस्थाप्यमानं शब्दार्थतां जहाति । यद्यपि विनियोगेन विरोधः तथापि तस्य कार्यानुगुण्यात् विशेषावस्थितिरेव न्याय्या । अनुष्ठानानुगुणो हि विनियोगः अनुष्ठानार्थत्वात् अनुष्ठानं च मन्त्रान्वितमिति तद्वशेन विशेषावस्थापनमेव न्याय्यम् । न च (रूढौ) सम्भवन्त्यां यौगिकत्वं सम्भवतीत्युक्तम् । तस्मात् सुष्ठूच्यते छागो वा मन्त्रवर्णात् इति । शेषमुक्तम् ।
?R इति श्रीशालिकनाथमिश्रविरचितायां ऋजुविमलापञ्चिकायां षष्ठाध्यायस्याष्टमः पादः अध्यायश्च समाप्तः
?R
?R
?R
?R?0नवमाध्यायस्य प्रथमः पादः
?R?0॥1॥ यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् ॥ 1 ॥
?R?0 विशिष्टकार्यावगम्यत्वादूहस्य विशेषातिदेशलक्षणं हेतुः ?R?0अस्यार्थः - विकृतौ प्राकृतानां पदार्थानामतिदेशेन प्राप्तौ सत्यां प्राकृतात् कार्यात् विशिष्टं कार्यमवगम्यते । तत्प्रमाणकश्चोहः । तेन भवति विशेषातिदेश ऊहस्य हेतुः । अत्रेयं प्रक्रिया - ऊह्यत इत्यनया व्युत्पत्त्या विकृतप्रयोग ऊहशब्देनोच्यते । स च प्राकृतात् कार्यादन्यस्मिन् कार्येऽवगतेऽवगम्यते । तथाहि - प्रकृताववघातादी नामपूर्वसाधनभूतविशेष व्रीहयो यवाश्च कार्यत्वेन प्रतिपन्नाः । विकृतौ नीवार द्रव्यवत्यां अपूर्वसाधनभावाविशेषात् अतिदेशेन प्राप्ततानां । नीवारा एव कार्यत्वेनावसीययन्ते । ततश्च तेष्ववघातादयः क्रियमाणा विकृता भवन्ति । कारकभेदेन क्रियाविकारस्यापरिहार्यत्वात् ।
?R कथं पुनर्नीवाराणां कार्यत्वावगमः ??R उपदेशस्तावद पूर्वविशेषगृहीतधर्माणां विशिष्टापूर्वसाधनविषय एव । नचाऽत्र प्रमाणान्तरमपि प्रक्रमते । उच्यते । शाब्दं प्रमाणं द्विविधं, उपदेशजं कार्यजं च ।
?R कःपुनरुपदेशः??R किं पुनः कार्यम् ? ?Rउच्यते उपदेशो नाम ग्रन्थसन्दर्भस्य पाठः । कार्यं तु द्वारभूतम् करणोपकारादि । तत्र ग्रन्थसन्दर्भजं दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः व्रीहिभिर्यजेत यवैर्यजेत व्रीहीनवहन्ति इत्यादिपर्यालोचनयाऽपूर्वप्रयुक्ततां सर्वधर्माणामनुसन्दधतां व्रहीणां यवानां चापूर्वविशेषसाधनत्वं तुल्यमाकलयतां व्रीहियवकार्यकमवघातादीति ज्ञानमुपजायते । तच्चेदमुपदेशजम् । शाब्दं पुनश्च विकृत्यपूर्वान्तरे द्रव्यान्तरवति चोदकप्राप्तेष्वघातादिषु इयं जिज्ञासोपजायते - कथमेते प्रयोक्तव्या इति । तदर्थं - च कीदृशं कार्यं - उपदेशेन प्रयुज्यत इत्येतन्निरूप्यते ।
?R किं दर्शपूर्णमासापूर्वसाधनविशेषः कार्यतया प्रतीयते, उत यस्यापूर्वस्यावघातोऽङ्गं तदीयसाधनविशेष इति । तत्र यदि दर्शपूर्णमासापूर्वसाधनता विवक्षिता तदा नीवाराणां तद्रूपताभावात् तेषां कार्यता न स्यात् । अथ तु यस्यापूर्वस्यावघातोऽङ्गं तदीयसाधनतामात्रं विवक्षितं तदाऽस्ति तद्रूपता नीवाराणामिति तेषामपि कार्यता व्रीहीनवहन्तीत्यादिभिरेव प्रतीयते । तत्र विशेषापूर्वाङ्गभावज्ञानमिदं नान्तरीयकं दर्शपूर्णमासापूर्वसाधनविशेषः कार्यभूत इति । अपूर्वविशेषसम्बन्धिनो हि धर्मस्य तदीयं कार्यं भवितुमर्हति अपूर्वैदमर्थ्याविरोधादिति । नान्तरीयकमपूर्वविशेषसाधनत्वमविवक्षितम् । यदीयोऽवघातस्तत्साधनमेव कार्यमिति चोदनार्थः । अतश्च व्रीहीनवहन्तीत्यनयैव चोदनया नीवाराणामपि कार्यत्वमवगम्यते । तदिदं कार्यनिरूपणज्ञानमुपजायत इति कार्यजं शाब्दम् । तेन नाप्रमाणत्वं नाशाब्दत्वं नोपदेशत्वमिति स्वयमेव भगवता विवरणकारेणोदितमित्यनवद्यम् श्लोकमप्युदाहरन्ति
?R प्राकृतस्थानपतितपदार्थान्तरकार्यतः ।
?R ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः ॥ इति ॥
?R आक्षेप्यं भाष्यमनुभाषते - ?R?0त्रिविधश्चोह इति । ?R?0आक्षिपति - ?R?0किमिदं त्रैविध्यं ? ?R?0विकृतप्रयोगात्मकता मन्त्रसामसंस्कारविषये तुल्येति भावः । समाधत्ते ?R?0उच्यते - कार्यभेदं स्वस्थाने वक्ष्यामः । तभ्देदायोह्यमपि प्रयोगरूपं भिद्यत इति तत्रैव वक्ष्यामः । ?R?0कार्यप्रमाणको हि प्रयोगविकारः स प्रमाण भूतकार्यत्रैविध्यात् त्रिविधो भवति ।
?R तथाहि - अवघातादीनां तण्डुलप्रकृतिद्रव्यं कार्यम्, मन्त्राणां समवेतोऽर्थः, साम्नामक्षराणीति । तद्वशेन च त्रयाणामपि विकारो भवतीति त्रैविध्याभिधानं भाष्यकारस्य प्रयाजादिविषये ऊहो न भवतीति दर्शयितुम् । न हि तेषां कश्चित्प्रयोगविकारोऽस्ति । अन्यदप्युपोद्धातादिनेत्यनेन भाष्यमनुभाषितम् । य(थे)दिदमाद्यमधिकरणं उपोद्धातेन प्रसक्तानुप्रस (क्त्या)क्तं ईष्टे भुक्त इति
?Rअनूहसिद्ध्यर्थं देवताप्राधान्यं प्रसक्तं तत्सिद्धर्थमीशितृत्वं, भोक्तृत्वं च (त्व) देवताया अनुप्रसक्तमिति ।
?R अत्र भाष्यकारेणाग्निहोत्रादित्रयमुदाहरणं गृहीतम् । तत्र तात्पर्यं पृच्छति - ?R?0किं कारणं??R केन पुनः कारणेनाग्निहोत्रादय एवोदाहरणम् ? ?Rयावता सर्वाणि कर्माणि धर्मवन्त्युदाहार्याणीति ।
?R?0 उत्तरं - केवलोपदेशार्थे हि प्रतिप्रकरणं नियमात्मके निरूपितेऽतिदेशः प्रवर्तते ।?R?0 अन्यथा हि सर्वत्रैवोपदिष्टत्वात् धर्माणां साधारणता स्यात्, नातिदेशः स्यात् । अतिदेशावगतधर्मविषयश्चोह इत्यतिदेशसिद्ध्यर्थमेतान्येवोदाहरणानि नान्यत् । अत्र पौरुक्त्यं सप्तमाद्येन सह परिचोद्योत्तरविवक्षयैवेदमपूर्वप्रयुक्तत्वमुच्यत इत्यर्थशः परिहारो दत्तः । यःपुनरयं द्वितीयः परिहारः एतेन चेह प्रयोजनं ऊहे विवक्षिते इति असावयुक्तः यस्मात् तत्रापि सप्तमाद्ये अपूर्वप्रयुक्ततयैव धर्माणां प्रतिप्रकरणं नियमः सिद्ध्यति नान्यथा । तेनैतेन चोहप्रयोजनमित्युक्तम् । सप्तमाद्येऽप्यस्य प्रयोजनत्त्वात् । समाधत्ते - ?R?0ननु भाष्ये अयजिप्रयुक्तत्वेऽपि सति न प्रतिप्रकरणं नियमः सिद्ध्यतीत्यन्यथापि नियमं दर्शयति ।?R?0 तेनापूर्व प्रयुक्तता एकान्ततः तत्र न व्युत्पाद्या । पुनराक्षिपति - ?R?0यदेव भाष्यकारेणोक्तं तदेव न विद्मः किमिदमयजिप्रयुक्तत्वं नाम । ?R?0यजेरन्यदयजिरिति अपूर्वमेवान्यदिति भावः ।
?R समाधत्ते - ?R?0अत्रोच्यते । करणप्रयुक्तत्वं अयजिप्रयुक्तत्वमुच्यते । ?R?0यजेरन्यदयजिरिति करणमुच्यते तेन प्रयुक्तत्वमयजिप्रयुक्तत्वमुच्यते । ननु करणत केन (प्रयोजकमत) (प्रमाणेन करणत्वावगमः) अत्र आह -?R?0 कार्यकरणसम्बन्धोऽह्यत्र नियोगलक्षणः ।?R?0 साध्यभूतेन हि नियोगेन समभिव्याहारोऽन्यथा नोपपद्यते । यदि नियोगः कार्यभूतः करणभूतश्च यजिर्न स्यात् इति कार्यकरणता नियोगेनावसीयते ।
?R कथं पुनः करणप्रयुक्तत्वे सति प्रतिप्रकरणं नियम इत्यत आह -
?R?0करणप्रयुक्तत्वेऽपि च नियोगविशेषसम्बन्ध उपपद्यत एवेति प्रतिप्रकरणं नियमसिद्धिं मन्यते ।
?R?0 ?R?0अस्यार्थः - यजिप्रयुक्तत्वे हि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यनेनाधिकारवन्तं यजिमुद्दिश्य समिधो यजतीत्यादिभिः समिदानीनां विधानमिति प्रतिप्रकरणं नियमो न स्यात् । करणप्रयुक्तत्वे तु दर्शपूर्णमासाभ्यामित्यधिकारवाक्यावगतं करणं सन्निधिमात्रेणापूर्वमिव धर्माणां ग्राहकं तेन विशिष्टमेव करणं ग्राहकमिति विशिष्टापूर्व सम्बन्धात् प्रतिप्रकरणं नियमसिद्धिः । तेन अपूर्वप्रयुक्तत्वे करणप्रयुक्तत्वे च प्रतिप्रकरणं नियमसिद्धेः सप्तमाद्ये अपूर्वप्रयुक्तता एकान्तेन न व्युत्पादनीया । अत्रत्वधिकरणे सैव व्युत्पाद्यते तां विना ऊहासिद्धेः । करणप्रयुक्तत्वेहि धर्माणां व्रीहयोऽपि करणभूता धर्मान् प्रयुञ्जत इति करणभूतव्रीहिरूपताभावे नीवाराणामवघाताद्यूहो न भवेत् । अपूर्वप्रयुक्तत्वे तु व्रीहिस्वरूपस्याविवक्षितत्वादपूर्वसाधनविशेष एव विवक्षित इति सिद्ध्यत्यूहः तेन सप्तमाद्ये इदं चिन्त्यते किं यजिप्रयुक्ता उतायजिप्रयुक्ता इति । इह तु अयजिप्रयुक्तत्वेपि किं करणं प्रयोजकमुतापूर्वमिति चिन्त्यते ।
?R तत्र पूर्वपक्षी करणमेव स्वानुग्रहमपेक्षत इति मन्यते । ?R?0राद्धान्ती तु ?R?0करणवत् तदनुग्रहमपि कार्यमेवाकाङ्क्षति तस्यैव चिकीर्षितत्वादिति ।
?R ?R?0अथ कस्मादिदमेवायजिप्रयुक्तत्वं तत् सप्तमाद्ये सिद्धान्तत्वेन न लिखितम् ?
?Rउत्तरं?R?0 - अस्थायित्वादस्यार्थस्य । ?R?0सामान्येनायजिप्रयुक्तत्वमस्थायि । किन्त्व पूर्वप्रयुक्तत्वमेव स्थायि । स्थायी च पक्षः सिद्धान्तत्वेनोपन्यसनीयः शिष्याणां भ्रमनिवृत्त्यर्थम् । अतोऽयमेवापूर्वप्रयुक्ततापक्षः स्थायी संव्यवहारार्थमत्रानीत इति हेतोर पूर्वप्रयुक्तत्वमुक्तम् । यद्ययजिप्रयुक्तत्वमस्थायि किमर्थं सप्तमाद्ये तच्चिन्त्यत इत्युपन्यस्तं तदाह - ?R?0अस्थायिनः पुनरुपन्यासः किमर्थः ? ?R?0उत्तरं - ?R?0पुनरुक्तिपरिहारश्च । च ?R?0शब्दस्तुशब्दार्थे । ?R?0किमेतावदेव
?R?0प्रयोजनम् ? ?R?0उत्तरं - ?R?0अन्यदस्तीति हन्तिपिष्ट्यधिकरणे वक्ष्यामः । तत्र पूर्वपक्षौपयिकमिदम् ।?R?0 अथवा अन्यामेव चिन्तां इत्येतद्भाष्यकारेण यजिनिमित्ततानिरासार्थमुक्तम् । ?R?0तदयुक्तम् - यजि निमित्तत्त्वे ह्यतिदेशोऽपि न सिद्ध्यति न केवलमूहः तस्मादूहलक्षण एवायमुपन्यास इति न शक्यते वक्तुम् । ?R?0अस्यार्थः - दर्शपूर्णमासयजेर्निमित्तत्वे सति तदभावे विकृतौ चोदकप्राप्तानामपि सर्वधर्माणामेवाननुष्ठानम् भेदनाभाव इव भेदनहोमस्य । ततश्च किमतिदेशेनेति अतिदेशाभावोऽपि ।
?R न केवलमूहा भावः तेनोहलक्षण एव नेदं युक्तं चिन्तयितुं, अतिदेश लक्षणेऽपि युक्ता चिन्ता । परिहरति - ?R?0उच्यते । सत्यमाह भवान् अतिदेशोऽपि न सिद्ध्यतीति । सप्तमाद्येन त्वधिकरणेन इदमपौनरुक्त्यम् । ?R?0अस्यार्थः - न वयं ब्रूमः ऊहलक्षण एवेयं चिन्तोपकारिणीति । किन्तु पुनरुक्ततापरिहारोपयुक्तः । अपूर्वप्रयुक्तत्वे हि प्रतिप्रकरणं नियमसिद्धिः इति सप्तमाद्येन, इह तु यजेर्निमित्ततानिरासः कृतः तेनापौनरुक्त्यम् । ?R?0किं पुनरस्य परिहारान्तरस्य प्रयोजनं ??R ?R?0उत्तरं - ?R?0इदमेव ?R?0वक्ष्यमाणं ?R?0प्रयोजनम् । ?R?0निमित्तान्तरे यज्यन्तरे प्रयुक्तस्यापि चोदकप्राप्तस्य धर्मजातस्य निमित्ताभावादननुष्ठानं प्राप्तं तस्याननुष्ठानस्य व्युदासो वक्तव्य इत्यभिप्रायो वर्णकान्तरं कुर्वतः सोऽयमननुष्ठानव्युदासः परिहारश्च तेनोच्यते -?R?0 तत्रेति?R?0 वाक्योपन्यासे । भाष्यकारो वर्णककायोपन्यासानन्तरं परिहारद्वयमेकेनैव वर्णकेन वर्णितवान् इदानीं किं यजिप्रयुक्ता उतापूर्वप्रयुक्ता इति चिन्त्यत इत्येवमादिना भाष्येण ।
?R अत्र भाष्य एव यागं कुर्यादिति यजिस्वरूपप्रयुक्ततोक्ता । एवं यागेन कुर्यादिति करणप्रयुक्ततोक्ता । तृतीयः प्रकारो वर्णकान्तरेण वर्णितः एवं वेत्यादिना । भिन्नग इत्युक्तमित्यस्यार्थ इत्येतत् । ?R?0वर्णकान्तरं भाष्यकारेणोक्तम् ।?R?0 भाष्योक्ता एव पूर्वपक्षा इति यावत् ।
?R?0 ॥ 2 ॥ संस्कारे युज्यमानानां तादर्थ्यात् तत्प्रयुक्तं स्यात् ॥ 2 ॥
?R?0 ननु चोक्तमपूर्वं प्रयोजकम् । निमित्तत्वे त्वाद्ये प्रयोजकत्वं वर्णकद्वये, निमित्तत्वं च तृतीये वर्णकेऽपूर्वस्यैवोक्तम् । केयं चिन्ता ??R किं हन्तिपिषि प्रयुक्तं प्रोक्षणं उतापूर्वप्रयुक्तमिति । उच्यते । पूर्वपक्षोऽभ्यधिकोऽत्र विद्यते । कथं ? ?R?0उत्तरं?R?0 - ?R?0अपूर्वं ?R?0हि साध्यतया सम्बध्यमानं धर्माणां प्रयोजकं भवतीति शक्यते वक्तुम् । ?R?0अस्यार्थः - यद्यपूर्वं साध्यतया धर्मैः संबद्धमवगम्यते तदा तद्धर्माणां प्रयोजकमिति शक्यते वक्तुम् । यथा आरादुपकारकेषु तेषु प्रथममधिकारापूर्वमेव साध्यतयाऽवगम्यते नावान्तरापूर्वमिति तत्र तत्रोक्तम् । इह पुनः क्रियानिर्वृत्तिरेव कार्यत्वेनावगम्यते प्रोक्षिताभ्यामिति तृतीया निर्देशात्, क्रियापेक्षत्वात् करणभावस्य । न च प्रतीयमानापि क्रियां प्रति साधनता विवक्षितेत्याह - ?R?0तदपरित्यागेनैवैदमर्थ्यमुक्तम् । ?R?0प्रतियमानावान्तरकार्यापरित्यागेन धर्माणामपूर्वं प्रत्यैदमर्थ्यमुक्तम् “?Rये यत्र श्रूयन्ते ते तत्र भवन्ति”?R इत्यत्र ।
?R ननु यदि कियानिष्पत्तिरेवैषां कार्यं तदा अपूर्वासंस्पर्शित्वे सति आनर्थक्यं प्राप्नोति नियमस्य क्रियायाः पुरुषैः कार्यत्वेनावगम्यमानत्वात् । किं तया निष्पादितया ? ?Rपरिहरति - ?R?0एवं तर्हि आनर्थक्यपरिहारायैवापूर्वमुपयुज्यते । न पुनः साध्यतया । ?R?0अस्यार्थः - न निष्प्रयोजना क्रियानिष्पत्तिः । तत्सिद्धावपूर्वनिष्पत्तेः । तेन प्रोक्षणादीनामपूर्वसिद्धिरेवार्थो न पुनरपूर्वे साध्ये (र्वं साध्यं) यथा दीक्षणीयावाङ्नियमस्य परमापूर्वं प्रयोजनम् । न तु तदेव साध्यम् । कस्मादेवमित्याह - ?R?0हन्तिपिष्योरपूर्वसम्बन्धितयैव प्रोक्षणविधाने परिहृतं तदानर्थक्यमिति नापूर्वं कार्यतया परिगृह्यते । ?R?0यौ हन्तिपिषी अपूर्वं प्रतिसाधनमूतौ तयोरिदं प्रोक्षणं साधनत्वेने ग्रहीतुम् (गृहीतम् )
?R यदुक्तं हन्तिपिष्ट्यधिकरणोपयोगाय अयजिप्रयुक्तत्वं तदिदमुक्तं भवति । अवहन्तिप्रयुक्तत्वेन, साधनीभूतावहन्तिप्रयुक्तत्वेन परिहृतः । आनर्थक्येनापूर्वप्रयुक्तता शक्यते वक्तुम् यत एवावान्तरकार्यमेव धर्माणां कार्यं अत एव ये यत्र श्रूयन्त इत्युपपन्नं भवति । अन्यथाऽ[?Rवघातादेःअ]?Rपूर्वप्रयुक्तत्वे
?Rसत्यवान्तरकार्यस्य कार्यद्वयविरोधेनाविवक्षितत्वे सति आरादुपकारकत्वेन सर्वत्रैव आग्नेयाग्नीषोमीयोपांशुयाजेषु स्यात् प्रयाजादिवत् । यस्मादवहन्तिप्रयुक्ता अवहवन्तिधर्माः तस्मादवहन्तौ नखनिकृत्तनेनोहितव्याः । यो नाम मन्दधीः यथाश्रुतग्राही तं प्रति उदाहरणव्याप्तिमाह ?R?0- सर्वाण्येवैवंजातीयकानि प्रतीयमानावान्तरकार्याण्युदाहरणानि व्रीहीनवहन्तीत्येवमादीनि । ?R?0सोऽयमङ्गस्य व्रीह्यादेर्धर्मः सन्नपूर्वस्योपकारको, नापूर्वधर्मोऽङ्गानामुपकारकः । न चैवंभूतः शब्दो विद्यते यदपूर्वं हन्तिपिषिभ्यां क्रियते तत्प्रोक्षणेन कर्तव्यमिति । ?R?0यस्मात् प्रोक्षिताभ्यामवहन्तीति श्रूयते ?R?0क्रियानिष्पत्तिरेव कार्यं श्रूयत इत्यर्थः । न चावहन्तिरपि साक्षादपूर्वसाधनं येन तद्युक्तमवहन्तियुक्तमपूर्वेण सह सावयवत्वेन संबध्यते । तस्मात् कार्यान्तरानुप्रवेशिनां नाधिकारकार्येण प्रयुक्तिः सम्भवतीति पूर्वः पक्षः ।
?R ?R?0अत्रोच्यते । नाधिकारप्रयुक्तिमन्तरेणोपादानसिद्धिर्धर्माणाम् । न वाऽनुपात्तानामनुष्ठानम् । ?R?0अस्यार्थः - लोके हि सर्वस्य शब्दस्यानुष्ठानोपादेयपरता दृष्टा । यदि वाऽपूर्वप्रयुक्तता धर्माणां न स्यात् तदा तेषां नियोगेनोपादानं अनुष्ठानाक्षेपो न स्यात् । अनुत्प(प)न्नानां वा अधिकारापूर्वानाक्षिप्तानुष्ठानानां अनुष्ठानप्रयोजनाभावादनुष्ठानं न स्यात् ।
?R अत्रायं भावः - अपूर्वसाधनता अवहन्त्यादीनामेव । सा च विना प्रोक्षणादिभिर्न सिद्ध्यतीति तदर्थतया प्रोक्षणाद्याक्षेपः । तस्मात् सर्वं धर्मजातमपूर्वार्थम् ।
?R ?R?0ननु चैवं सति विनियोगव्यवस्थैव न सिद्ध्यति (न च अवह)न्त्यादीनामेव सावान्तरकार्यस्याविवक्षाप्रसङ्गादित्युक्तम् । ?R?0परिहरति - ?R?0केन वोक्तमवान्तरकार्यं न विवक्ष्यत इति । ?R?0पुनश्चोदयति - ?R?0कथं वा विवक्षायामवान्तरकार्यस्य प्रधानकार्यस्य प्रयोजकत्वम् । ?R?0परिहरति - ?R?0उच्यते । अवान्तरकार्यं तावत् किं प्रधानापेक्षितं सत् कार्यं भवति उतानपेक्षितं तत्र
?R?0यद्यपेक्षितं सत्कार्यं तदा स्वरूपेण कार्यत्वाभावात् प्रधानकार्यमेव प्रयोजकं, अथानपेक्षितं तदाऽवान्तरकार्यमेव प्रयोजकम् ।
?R?0 ?R?0एवं संशय्य निर्णयमाह - ?R?0प्रधानकार्येणानपेक्षायामवान्तरकार्यतैव न स्यात् ।?R?0 तदवान्तरकार्यमुच्यते यत् प्रधानकार्यानुगुणतया क्रियते यथा काष्ठानां पाकं कर्तुं प्रवृत्तानां ज्वलनम् । न वा वाच्यमवान्तरकार्यता माभूदिति । तन्मात्रस्य प्रधानकार्यत्वेऽनुष्ठानाभावप्रसङ्गात् । तदपेक्षायां तु प्रधानकार्यापेक्षायां पुनस्तदर्थत्वेन प्रधानकार्यार्थत्वेनावगमात् । तदपाये प्रधानकार्यापाये धर्मसम्बन्ध एव न स्यात् । तेनावान्तरकार्येपि विवक्षिते प्रधानकार्यस्य प्रयोजकत्वाविधानात् अवान्तरकार्यमपि प्रतीयमानं विवक्षितम् । अथ तु उपदेशव्यवस्थैवेयं विनियोगे नैवेयं व्यवस्था - ये यत्र श्रूयन्त इति न पुनः प्रयुक्तिव्यवस्था व्रीह्यादीनां प्रयुक्त्या व्यवस्थैवेयं न सिद्ध्यतीति सिद्धमपूर्वप्रयुक्तत्वम् ।
?R युक्त्यन्तरं वाऽपूर्वप्रयुक्तयामाह - ?R?0नियमविधीनां प्रधानानुप्रवेशश्चतुर्थे दर्शितः । ?R?0अस्यार्थः - यद्यवघातादीनामपूर्वं साध्यं स्यात् तदा विधानमवकल्पते प्रमाणान्तरेणापूर्वसाधनत्वापरिज्ञानात् । व्रीह्यादिस्वरूपसम्बन्धित्वे तु विधानमेव नावतरति प्राप्तत्वात् । न च नियमार्थं विधानं अशक्यत्वात् । विनाप्यवघातं तण्डुलादिनिर्वृत्तिदर्शनात् अपूर्वानुप्रवेशित्वे तु नियमविधिरवकल्पते तण्डुलनिर्वृत्त्यर्थं दलनाद्याक्षिपेदपूर्वं विहिते तदेवापूर्व साधनमिति तदेवाक्षिप्यत इति । एवं तहि नियमविधीनामपूर्वमेव कार्यं स्यादित्यात्राह - ?R?0तथाभूतोपदेशेन च द्वारनियमस्तृतीये दर्शितः । ?R?0व्रीह्यादिसम्बन्धिभूता द्युपदेशेनैव द्वारस्यापि नियमस्तृतीये दर्शितः । तेन द्वारकार्यमप्याश्रयणीयम् ।
?R उपसंहरति - ?R?0अतः प्रोक्षिताभ्यामवहन्तीत्यत्र अवहन्तिद्वारमपूर्वं कुर्यादिति शास्त्रार्थः ।?R?0 तस्मात् तत्कार्यापन्ने अन्यत्रापि धर्माणामूहसिद्धिरिति । अविरुद्धश्च व्रीहीनवहन्तीत्युपदेशः द्वारस्यापि विवक्षितत्वादिति स्थितम् ।
?R?0एवं वा
?R ?R?0इहेदानीमपूर्वार्थत्वात्सर्वधर्माणां परमापूर्वमेव (र्वेणैव)प्रयुक्तं धर्मजातमिति पूर्वपक्षवादी मन्यत इति सभ्बन्धः ।?R?0 अस्यार्थः - न लौकिकरूपार्थता धर्माणाम् विना धर्मैस्तस्य सम्भवात् । अतोऽपूर्वार्थत्वात् धर्माणां परमापूर्वमेव प्रयोजकम् । नन्ववान्तरापूर्वमप्यपूर्वमेव, तेन तदपि प्रयोजकं स्यादित्याशङ्क्याह ?R?0साधिकारं वाऽपूर्वं परमार्थतः ।?R?0 परमार्थतः साधिकारमेवापूर्वं नान्यत् । एतदुक्तं भवति - अवान्तरापूर्वाणि नाम न सन्त्येव । किन्तु साधिकारमेव केवलमपूर्वमस्ति । कुत इत्याह - ?R?0तध्वून्यानां ?R?0अधिकारशून्यानां ?R?0तदापत्तेः ?R?0। अस्यार्थः अधिकारशून्यानां प्रयाजादीनामधिकारसन्निधौ श्रुतानां तद्रूपापत्तेः । एतदुक्तं भवति - निरधिकारेभ्यो यजिभ्यः परतो लिङादयः श्रुताः अधिकारापूर्वमेवानुवदन्तीति ।
?R नन्वेवं (अधिकार) शून्यानामपि यागा एव दीक्षणीयादयो धर्मजातं प्रयुञ्चतामित्यत्राह - ?R?0अनापन्नतद्भावैः स्वधर्मैः सम्बन्धान्न यागाः स्वरूपेण धर्मान् प्रयुञ्जते?R?0 लौकिकत्वात् धर्मसम्बन्धित्वानुपपत्तेः । (दूरोत्सारिततां वाहन) नावघातादिवत् द्वारकार्यमत्रोपलभ्यते आरादुपकारित्वादेषां दीक्षणीयाद्यङ्गानाम् । तेनाशङ्कापि नास्ति अन्यस्य प्रयोजकत्वं प्रति साक्षादपूर्वसाधनत्वादेषामिति । ?R?0अत्रोच्यते सत्यमुक्तमनापन्नाधिकाराणां न धर्मसम्बन्ध इति किन्तु कार्यत्वमविशिष्टमवा?R?0न्तरनियोगस्यापि । साध्यमान एवासौ तदापत्तिं लभते अधिकारसाधनतां लभते । कुत इत्याह - ?R?0न हि असाध्यमानस्य रूपमवघातवल्लोकतः सिद्धम् । ?R?0यथा लौकिकमवघातादिरूपं तथाऽवान्तरनियोगस्य रूपम् तेन तदपि
साध्यं वचनसमधिगम्यमेव साध्यं च स्वभावतः सेतिकर्तव्यताकस्य करणस्य निष्पाद्यमिति वचनादवगम्यते ।
?R ननु अवान्तरनियोग एव नास्तीत्यत्राह - ?R?0नधिकारापत्तिर्भेदं निरूणद्धि अनुबन्धजम् ?R?0 क्षणिकानां यागानां साधनत्वानुपपत्तेः अवान्तरापूर्वाण्यङ्गीक्रियन्ते अनुबन्धभेदभिन्नानीति (मां) तदापत्त्यापि भेदो न विरुद्ध्यते । ?R?0अधिकारे
?R?0त्वभेदोवर्णितः । ?R?0अधिकारावस्थायां त्वभेदः । एतदुक्तं भवति - एकमधिकारापूर्वं साध्यम् । तत्साधनभूतानि तु अनुबन्धमेदभिन्नानि अवान्तरापूर्वाणि यावदनुबन्धं बहूनि भिद्यन्त इति ।
?R ननु भवन्त्वनुबन्धभेदभिन्नानि अपूर्वाणि तथापि कथं धर्माणां तदर्थतेत्याह ?R?0अनुबन्धजं भेदमुद्दिश्य धर्मजातमवगम्यत इत्युक्तम् ।?R?0 यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयादिति वाङ्नियमो दीक्षणीयायां तावत् साक्षात्सम्बन्धः श्रूयते । दीक्षणीयासम्बन्धेन च तत्प्रत्यासन्नतदपूर्वसम्बन्धोऽवगम्यते । तेनानुबन्धभिन्नापूर्वोद्देशेन विधानात् तदर्थता धर्मजातस्य ।
?R उपसंहरति - ?R?0तस्मादधिकारापत्तेरवान्तरापूर्वस्याधिकारार्थता । ?R?0अधिकारप्रयोजनता धर्माणां न निष्पाद्यतया, अवान्तरापूर्वं धर्मनिष्पाद्यमिति सिद्धमवान्तर नियोगार्थत्वं धर्माणाम्?R?0 नियोगावगम्यसाध्येषु ?R?0नियोगेन लिङ्गादिनाऽवगम्यं साध्यं अवान्तरापूर्वं येषु विद्यते दीक्षणीयादिष्वित्यर्थः । अवान्तरापूर्वाभावात् अवघातादिवत् दीक्षणीयादिषु परमापूर्वमेव धर्माणां प्रयोजकमिति पूर्वः पक्षः ।
?R अवघातादिवत् द्रव्यादिद्वारेण अधिकारैदमर्थ्यानुपपत्तेः क्षणिकेषु दीक्षणीयादिषु अवान्तरापूर्वाण्यङ्गीकरणीयानि । तानि चाऽलौकिकत्वात् शब्दावगम्यनिष्पत्तीनि । धर्माणां वाक्यादिभिरुपनीतानां प्रयोजनमुक्तम् । उक्तेप्यर्थे कस्यचित् मन्दधियो विस्मृतिर्माभूदिति बोधपरिहारद्वारेण उक्तमेवार्थं स्मारयति - ?R?0ननु च यागोऽपि लोकत एव सिद्धः किमिदमवघातादिभिर्वैषम्यमिति चोद्यम् । ?R?0परिहारस्तु - कार्यपर्यन्ततामङ्गीकृत्यालौकिकत्वमुक्तम् ?R?0आरादुपकारकाणां नाभिधेयतया । ?R?0यागशब्दाभिधेयतया लौकिकत्वम् किन्त्ववान्तरापूर्वपर्यन्तत्वेनेति विशेषोऽवघातादिभिः ।
?R?0 ॥ 3 ॥ फलदेवतयोश्च ॥ 4 ॥
?R ?R?0कथं पुनरत्र संशयो यावता अपूर्वप्रयुक्ततैवात्रापि युक्ता । ?R?0उत्तरं ?R?0मन्त्राभिधानसामर्थ्याच्च तैः स्वरूपप्रयुक्ततैवोक्ता । ?R?0अस्यार्थः - मन्त्रस्तावत् श्रुत्या अग्न्यादिस्वरूपं स्वर्गादिस्वरूपं चाह ।?R?0 तेन?R?0 मन्त्रलिङ्गेन स्वरूपप्रयुक्तता प्रतिभाति । चोदनातश्च लक्षणा । मन्त्रस्याधिकारचोदनया परिग्रहीतत्वात् तदनुसारेणापूर्वसम्बन्धिस्वरूपलक्षणा भातीत्येवं संशयः । पुनराक्षिपति - ?R?0तदयुक्तम् । न चोदनादृतेऽभिधानं प्राप्नोति कर्मसम्बन्धितया । ?R?0अस्यार्थः - यदि मन्त्रोऽत्र चोदनया परिगृह्यते तदा कर्मसम्बन्धितया मन्त्रेणार्थाभिधानं न प्राप्नोति । न वा कर्मसम्बन्ध्यभिधानमत्र चिन्त्यते, कर्मसम्बन्धि वाऽभिधानं चोदनानुगुणमिति लक्षणैव युक्ता । तस्मादयुक्तमेवाधिकरणमिदम् । कर्मसम्बन्धित्वे ह्यपूर्वार्थत्वमुक्तं सर्वधर्माणामिति इहापि तदेव युक्तम् । अतो देवताद्वारकं कार्याभिधानमिति स्थितमेव ।
?R ?R?0अत्रोच्यते - अस्त्यत्र संशयहेतुः । तथाहि-फलं तावन्न कर्मार्थतया चोदनावाक्येप्यवगम्यते फलस्य पुरुषार्थत्वेनावगमात् । ?R?0तथापि किमित्याह - ?R?0यथाचोदितं च मन्त्रेणाभिधानमिति स्वरूपाभिधानाशङ्का । ?R?0यत्खलु यथाभूतं चोदितं तत् तथाभूतमेव मन्त्रेणाभिधातव्यम् । फलं च न कर्मार्थ तया चोदितमिति न तस्य कर्मार्थत्वेनाभिधानम् किन्तु स्वरूपेणैवेति स्वरूपाभिधानाशङ्का । अप्रयुक्तेश्च कर्मार्थतां मन्यते । यदि कर्मार्थमभिधानं न स्यात् तदा मन्त्रस्य प्रयुक्तिर्न स्यादिति कर्मार्थता मन्त्रस्य । ?R?0तस्मादुपपन्नः संशयः ।
?R?0 ?R?0अत्र पूर्वपक्षवादी यथाचोदितमभिधानं न्याय्यमिति मन्यते । ?R?0अयथा चोदिताभिधाने?R?0 यथा चोदितं तथाऽनभिधाने हि मन्त्रस्याङ्गतैव नोपपद्यते । असमवेतार्थाभिधानादिति हेतोः । देवतायां पुनः दातृत्वाशङ्कया मुख्यमभिधानम् । फलदात्री देवता । तेन सापि फलकोटिनिक्षिप्ता न कर्मार्थतया चोदिता । तेन तस्या अपि स्वरूपेणैवाभिधानमिति वक्ष्यमाणफलदात्री देवतेति वक्ष्यामः ।
?Rतस्मान्न मन्त्रे लक्षणा किन्तु श्रुत्यैव स्वर्गा(न्य) (द्य) भिधानमिति । ?R?0अत्रोच्यते-युक्तमुक्तं यथाचोदितमभिधानमिति । नन्वेवमेव चोदितम् । कथं चोदितम् ? ?R?0उत्तरं ?R?0समन्त्रकस्य कर्मणः इदं फलम् । ?R?0अस्यार्थः यद्यपि फलं कर्मार्थं न भवति तथापि तावत् कर्मसम्बन्धितयैव चोदितम् । मन्त्रश्च कर्माङ्गभूतः अन्यथा प्रयुक्त्यभावात् । ?R?0एवं सति कर्मद्वारकमभिधानं मन्त्रस्य प्रतीयते । ?R?0अस्यार्थः - अभिधानस्य कर्माभिधेयं यत् तद्द्वाराकमाग्नयादिकर्माभिधानं मन्त्रेण प्रतीयते । ?R?0एतदुक्तं भवति ?R?0स्वर्गफलाभिधानद्वारेण कर्मैवाभिधीयत इति । मन्त्रकार्यतः प्रत्युतायमेवार्थः श्रौतो वर्तते निमित्तापेक्षया लक्षणेत्युच्यते । यो हि कार्यान्वय्यर्थः स एव शब्दार्थ इति । यद्यपि निमित्तं परमालोच्यते लक्षणेयं तथापि अयमेव प्रत्युत श्रौतोऽर्थः । मुख्यस्त्वर्थो नियोगासंस्पर्शादश्रुत एव श्रुतेरतत्परत्वात् । तस्मान्निमित्तावस्थायां न लक्षणादोषः कार्यप्रधानत्वान्मन्त्राभिधानस्य । विनियोगपर्यालोचनया यदेव मन्त्रस्य स्वकार्ये तदनुगुणमभिधानं, इह च कर्माभिधाने यो मन्त्रो विनियुक्त इति कर्मसम्बन्धित्वेन लक्षणयैव तदभिधानम् । अत्र च फलदातृतया फलांशनिक्षिप्तायामपि देवतायां सत्यां न तत्प्रयुक्तताऽभिधानस्येत्युक्तम् ।
?R?0 ॥ 4 ॥?R देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्त्वात् ॥ 6 ॥
?R?0 इदनीं दातृत्वादिभिः कारणैः देवतां न विनियोगार्थां मन्यते पूर्वपक्षवादी । ?R?0अस्यार्थः - हविर्दानेन गुणवचनैश्च देवतैवाराध्यते । यजेर्देवतापूजार्थत्वात् । पूजायाश्च लोके पूज्यमानाराधनार्थत्वेन दर्शनात् । तथा गुणवचनलक्षणापि स्तुतिर्लोके राज्ञामाराधनार्था दृश्यत इति । न च फलकामिनो निष्फलं देवताराधनमिति देवतायाः फलदातृत्वमवगम्यते । न च फलस्यानीशानायाः तदुपपद्यत इति फलस्यापि सेष्टे इति कल्प्यते । न च हविर(नु)ज्ञाना देवता हविर्दानेनाराध्यते । न चाचेतनायाः
?Rविग्रहविरहिण्याश्चैतत्सर्वमिति भोक्तृत्वं चैतन्यं विग्रहवत्ता चेति सर्वमर्थादवगम्यते । सर्वथा यावता विनाऽस्यार्थस्यायोगः तावत्कल्प्यते । तेन प्रधानभूता देवता न नियोगार्था किन्तु सैव प्राधान्येनावगम्यमाना धर्म जातं स्वार्थतया गृह्णती प्रयोजिकेति । एतदेव विवरीतुं चोदयति -
?R ?R?0ननु चैवं सति सापेक्षत्वान्मन्त्राणां बहु हातव्यं भवति । ?R?0अस्यार्थः शब्दस्तावत् विग्रहवत्तादिषु न प्रमाणम् । तस्यापूर्वे कार्यात्मनि प्रामाण्या । तेन प्रमाणान्तरापेक्षैर्मन्त्रैः
विग्रहवत्त्वादिकोऽर्थो वक्तव्यः । न च तत्प्रमाणान्तरमस्तीत्यप्रामाण्यापत्तेः स्थितं प्रामाण्यादि बहु हातव्यं भवत्यस्मिन् पक्षे । परिहरति ?R?0आराधनस्यौत्पत्तिकत्वं मन्यते पूर्वपक्षवादी -?R?0 अस्यार्थः - अस्मिन्नधिकरणे राद्धान्तसिद्धौ सत्यां अपूर्वं वाक्यार्थः सिद्ध्यति । यदा तु देवताराधनमेवोपदिश्यते तदा तत्रैवौत्पत्तिकमधिधायकत्वं च शब्दस्य । इदमत्राकूतम् - कार्यप्रतिपादकता लोके शब्दस्य व्युत्पन्ना । तदेव च कामी कार्यतयाऽवबुध्यते यत्फलदानसमर्थम् । आराधनं वा आराध्यदेवताद्वारेण फलदानसमर्थमित्याराधनमेव कार्यतया शब्देनाभिधीयत इति तत्रैव शब्दस्य प्रामाण्यम् । यदा वा आराधनं शब्देन प्रतीयते तदा तद्बलेन विग्रहवत्तादिके प्रमीयमाणे न किञ्चिदवहीयते स्मृत्युपचारान्यार्थ दर्शनानि चैवमुपपन्नानि भवन्तीत्यभ्यु़च्चयः ।
?R?0 ननु चैवमपि अतिदेशो हीयते यद्धि देवतान्तराराधनोपायभूतं न तत् देवतान्तरे भवितुमर्हति ?R?0असदृशत्वादिति भावः । परिहरति - ?R?0हीयतामेव न काचित् क्षतिः । ?R?0यत एवातिदेशो हीयते ?R?0अत एवाह य़च्चाग्नौ हवनं न तत् सूर्य इति । ?R?0सूर्याग्नयोरसदृशत्वात् ।
?R?0 किं पुनः करणं स्थितोऽतिदेशस्त्यज्यते ? ?R?0यावता स्थितातिदेशानुगुण्यात् अयमेव पक्षः किमिति न हीयते । उत्तरं - ?R?0नियोगसिद्धौ वाक्यार्थभूतायां अतिदेशो नैव त्यज्यते । ?R?0यद्यराधनेनैवोपपद्यते किं कुर्मः
?Rएतदधिकरणसिद्धान्तमङ्गीकृत्यातिदेशः स्थापितो न्यायबलात् । पूर्वपक्षवेलायां यदि नोपपद्यते किं कुर्मः ? ?Rयत एवायं दोषावहः पक्षोऽत एव त्याज्यतयोपन्यस्त इत्यर्थः । पूर्वपक्षमुपसंहरति - ?R?0स्मृत्युपचारान्यार्थदर्शनैः पूर्वपक्षवादी श्रुत्या देवताभिधानमाह ।
?R?0 राद्धान्तस्तु चोदनातस्तावत् यागेनेति प्रतीयते । ?R?0अस्यार्थः - अस्याधि करणस्य पूर्वपक्षदशायां याग एव देवतापूजात्मकः कार्यतयाऽवगम्यते। य़च्च कार्यतया फलकामेनावगम्यते तेन फलं सिद्ध्यतीत्यङ्गीकरणीयम् । तेन यागेन स्वर्गं कुर्यात् स्वर्गकाम इत्ययमर्थः स्वर्गकामो यजेतेत्यत्र प्रतीयते ।
?R प्रतीयतां का क्षतिरित्याह - ?R?0प्रमाणान्तराभावाच्च दातृत्वादिषु न व्रीहिभिर्यजेतेतिवत् व्यवहिता यागश्रुतिः शक्यते कल्पयितुम् । ?R?0यदि हि प्रमाणान्तरेण फलदातृत्वं अग्न्यादीनामवगतं भवेत् तदा देवताव्यवधानेन यागस्य फलं प्रति साधनभावोऽवगम्येत । न च दातृत्वादिषु प्रमाणमस्ति । आराधनभूत यागकर्तव्यतोपदेश एव प्रमाणमिति चेन्न, इतरेतराश्रयप्रसङ्गात् । सिद्धे हि दातृत्वे आराधनं वाक्यार्थो भवति। आराधने च वाक्यार्थे दातृत्वादिकल्पनेति । तस्मात् यागस्य फलकामिनं प्रति कार्यतयोपदेशो नोपपद्यत इति अपूर्वमेव फलदानसमर्थं कार्यतया शब्देन प्रतिपाद्यत इति तदेव वाक्यार्थ इति सिद्धम् ।
?R यथा च दातृत्वादिषु प्रमाणान्तरं नास्ति तथोक्तं भाष्ये । स्मृत्यादीनां तत्राप्रामाण्यात् । तस्मादपूर्वस्य वाक्यार्थत्वात् यागस्य च तद्विषयत्वात् यदैकस्मादपूर्वं तदा इतरत् तदर्थमिति न्यायेन देवतापि यागार्था सती अपूर्वार्था । तस्मादिदमपि देवतासम्बन्धि कर्मद्वारकमेव अभिधानकर्मभूताभिधेयदेवताद्वारकमपूर्वस्यैवाभिधानमिति स्थितम् । ?R?0शेषमुक्तम् ।
?R?0॥ 5 ॥ द्रव्यसङ्ख्याहेतुसमुदायं वा श्रुतिसंयोगात् ॥ 11 ॥
?R?0 स्थिते त्वपूर्वप्रयुक्तत्वे (पि) विनियोगस्याविरोधात्
?R?0कामाशङ्कानिवर्तयितुमिदधिकरणम् ? ?R?0अस्यार्थः - हन्तिपिष्यधिकरणे सर्वेषामेवमादीनामपूर्वप्रयुक्तत्वमुक्तम् । ?R?0न च ?R?0व्रीह्यादिविनियोगवशेन तदाक्षिप्यते ।
?R ?R?0अत्रोच्यते - अस्त्यत्राशङ्का । ?R?0तामाह - ?R?0युक्तं तावत् प्रोक्षणस्य हन्ति पिषिभ्यां सह सम्बन्धे हन्तिपिष्योः भाव्यार्थतया कार्यपर्यन्तत्वम् । ?R?0अस्यार्थः अपूर्वसम्बन्धो हि यस्यावगम्यते तस्यापूर्वं प्रयोजकं भवति । अन्यथाऽति प्रसङ्गात् । अत्र च प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्तीति प्रोक्षणस्य युक्तमपूर्व सम्बन्धित्वम् भव्यार्थतया हन्तिपिष्ट्योः साध्यान्तरानुप्रवेशात् प्रोक्षणस्य च तत्सम्बन्धिवात् । फलदेवतयोश्च साध्यसम्बन्धित्वात् व्यपदेशस्यापूर्वसम्बन्धितयैव हि स्वर्गः फलमित्युच्यते तथाऽग्निरपि देवतेति न स्वरूपेण तेन तत्सम्बद्धस्यापि मन्त्रस्य युक्तमपूर्वसम्बन्धित्वम् तत्सम्बन्धित्वाच्च तत्प्रयुक्तत्वं च । इह तु द्रव्यसङ्ख्यादयो न कार्यपर्यन्तस्वभावाः । नापि साध्यसम्बन्धितयैव व्यपदिश्यन्ते । अतो न कार्यसम्बन्धितया धर्मविधानमेषां भवति ।
?R ननु संस्कारोऽनर्थक इत्यत्राह - ?R?0संस्कृतानां तु भवति क्रियान्तरे विनियोग इति ।?R?0 ननु च तृतीये तेषामर्थेन इत्यत्र विनियुक्तानां सतां व्रीह्यादीनां धर्मविनियोग इत्युक्तम् । कथमिदमुच्यते संस्कृतानां सतां विनियोगो भवत्विति । परिहरति - ?R?0तदेवेदमाक्षिप्यते ।?R?0 एतदेव विवृणोति - ?R?0तत्र तृतीये ये यत्र श्रूयन्ते तेषामेव धर्मा इति विनियोगव्यवस्था प्रतिपादिता?R?0 । कामाशङ्का निवर्तयितुमित्यत्राह - ?R?0इह सिद्धेन कार्यार्थत्वेन विरोधमाशङ्क्येति । ?R?0केन हेतुना तर्हि सा सिद्ध्यतीत्यत्राह - ?R?0विरोधाभावेन श्रुत्यादिव्यवस्थोक्ता । ?R?0इह पुनः श्रुत्यादि व्यवस्थानेऽसति कार्यगर्भो नोपपद्यते इत्याक्षिप्यते ।
?R ?R?0नन्वेवं सति?R?0 यदि का(र्य) (र्या) गर्भता नास्ति तदा ?R?0ये यत्र श्रूयन्ते इत्येतदेवाधिकरणमाक्षिप्तं भवति ।?R?0 तथा च सति पूर्वपक्षाभावेनानारम्भणीयत्वात् । परिहरति - ?R?0न सर्वमधिकरणमाक्षिप्यते द्रव्यादिषु पुनराक्षिप्यत?R?0 इति सम्बन्धः । कया युक्त्या आक्षेप इत्यत्राह -
?R?0कार्यगर्भता नास्तीति विरोधाशङ्कापि नास्तीत्यनया युक्त्या ।?R?0 तस्मादविरुद्ध एव व्रीहीन् प्रोक्षतीत्येवमादिषु विनियोगः ।
?R ननु चैवं सति पुरुषार्थता प्राप्नोत्यवघातादीनाम् । यदि हि क्रत्वर्थानां सतां संस्कारः स्यात् तदा क्रत्वर्थता भवेत् यदा तु संस्कृतानां सतां क्रत्वर्थता तदानीमक्रत्वर्थद्रव्यसम्बन्धात् पुरुषार्थता प्राप्नोति । उत्तरं - ?R?0न प्राप्नोति पुरुषार्थता ।?R?0 कस्मादेवमित्याह ?R?0शक्यते विभागोऽवगन्तुं अमी क्रत्वर्था अमी पुरुषार्था इति ।?R?0 अस्यार्थः - ये व्रीह्यादयो निरुप्तास्तेषामेव प्रकृतत्वेनावघातादिसम्बन्धोऽवगम्यते नान्येषाम् । ये निरुप्तास्ते क्रत्वर्थाः अन्ये चाक्रत्वर्था इति शक्यते विभागोऽवगन्तुम् । अतः क्रत्वर्थव्रीहिसम्बन्धान्न पुरुषार्थतावघातादीनाम् पुनरपि चोदयति ?R?0निर्वापे कथं ?R?0? अस्यार्थः - निर्वापे तर्हि कथमपुरुषार्थता नहि तत्रान्यस्संस्कारोऽस्ति यत्संस्कृतद्रव्यसम्बन्धात् अपूर्वार्थता स्यात् निर्वापस्याग्रिमत्त्वात् ।
?R परिहरति ?R?0तत्रापि निर्वापपृथक्त्वात् सिद्धमपुरुषार्थत्वम् ।?R?0 द्वावेतौ निर्वापौ स्तः यः पुरुषार्थो यश्च क्रत्वर्थः । कःपुनः क्रत्वर्थः? यः क्रत्वर्थे द्रव्ये क्रियते यस्य क्रतुः प्रयोजनम् तत्क्रत्वर्थं द्रव्यम् । तस्मादविरुद्ध एव विनियोगः कार्येणेति अकार्यप्रयुक्ततां पूर्वपक्षवादी मन्यते । अत्रोच्यते - ?R?0अत्रापि कार्यप्रयुक्ततैवन्याय्या । ?R?0अन्यथा हि यदि कार्यप्रयुक्तता न स्यात् तदा नियमनियोगो न सम्पादितः स्यात् । नियोगो हि तदेवानुष्ठापयति । यच्च नियोगसिद्धावङ्ग ना येन च निनाऽङ्गसिद्धिरेव न स्यात् । तत्र तावत् पूर्वपक्षे अवघातादयो नियोगसिद्धौ नीङ्गभूताः । न च तैर्विना अङ्गस्य कस्यचिदसिद्धिः । अवघातादिव्यतिरेकेणापि पुरोडाशसिद्धेः । ततश्चावघातादिनियमविधिः नानुष्ठितः स्यात् । अनुष्ठानपर्यन्तता चाऽवगम्यते । तेनापूर्वप्रयुक्तताऽऽश्रयणीया । यच्चाधिकारान्तरं वा कल्प्यं अवघातादिविषयं, न च सन्निधानात् कार्यभेदोऽवगम्यमानो भिन्न इति शक्यते वक्तुम् । अधिकारविधिसन्निधौ
?Rनिरधिकारेषु श्रुतेषु स एवाधिकारो बुद्धौ विपरिवर्तत इति नाधिकारान्तरकल्पना शक्या । तस्मान्नाधिकारान्तरकल्पनां सहते नियोगो यथा सन्निहिताधिकारप्रवेशो भवति तथा वर्णनीयमिति तत्प्रयुक्ततैव न्याय्या । तत्प्रयुक्तत्वे च व्रीहिशब्दोऽपि तत्साधनविशेषलक्षणार्थ एव वर्णनीयः । यत एव प्रथममपूर्वग्रहणं पश्चात्तदीयसाधनविशेषविनियोगः अत एव दर्शपूर्णमासावुदाहृत्य विनियोगव्यवस्थोक्ता ग्राहकपूर्वकं विनियोगं दर्शयितुम् ।
?R ननु विनियोगव्यवस्थायामपूर्वकार्यता विरुध्यते कार्यद्वयानुपपत्तेरित्यत्राह ?R?0कार्यविरोधिनी च सेति तेषामर्थेनेत्यत्र प्रतिपादितम् । ?R?0अवहन्त्यादिष्वपि नैव पदार्थानुगुणता हेतुरपूर्वप्रयुक्तत्वे प्रोक्षणादीनाम् । किन्तु नियमनियोगसिद्धिरेव । तस्मात् तुल्यत्वाद्धेतोः न वैषम्यम् प्रोक्षिताभ्यामवहन्तीत्यस्य व्रीहीनवहनीत्यादिना । तदेवमिहाधिकरणे सन्निपत्योपकारकाणां ग्राहकपूर्वको विनियोग इति प्रतिपाद्यते आरादुपकारकाणां तु सप्तमाद्ये इत्यवहितेन मनसा ब्रह्मविद्येवानुसन्धेयम् ।
?R इयमभ्युच्चययुक्तिः । पुरुषार्थताऽवहन्त्यादीनां प्राप्नोतीति साधयितुं पूर्वपक्षोक्तं समाधानमनुभाष्य दूषयति - ?R?0यदपि च प्रकृतलक्षणं प्रकारणमङ्गीकृत्य कार्यगर्भताऽपनीयते ?R?0तदपनयनं नियमनियोगसिद्धेरयुक्तमित्युक्तम् । निर्वापे चासम्भवात् प्रकृतलक्षणस्य प्रकरणस्य । न हि तत्र किञ्चित् प्रकृतमस्ति येन क्रत्वर्थता स्यात् ।
?R ?R?0ननु निर्वापभेदादेव सम्भव उक्तः । स एव?R?0 निर्वापभेदो
भिन्नेषु न सम्भवति । न हि निर्वापत्वात् क्रत्वर्थपुरुषार्थभेदो व्रीहीणामस्तीत्यसम्भवः प्रकृतलक्षणस्य प्रकरणस्य । निर्वापे य एव व्रीहयः पुरुषार्थास्त एव क्रत्वर्थेन निर्वापेण क्रत्वर्थाः क्रियन्ते । पूर्वपक्षावस्थायां तु निर्वापस्याक्रत्वर्थत्वात् न सम्भवतीति पुरुषार्थद्रव्यसम्बन्धान्निर्वापः पुरुषार्थः स्यात् । तस्मिन् पुरुषार्थे प्रोक्षणमपि प्रकृतनिरुप्तव्रीहिसम्बन्धात् पुरुषार्थमित्यनेन क्रमेण सर्वेषां पुरुषार्थता । ?R?0शेषमुक्तम् ।
?R?0 ॥ 6 ॥देशबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिर्देशात् तस्य च तत्र भावात् ॥ 20 ॥
?R?0 स्थिते अपूर्वप्रयुक्तत्वे किं दीक्षणीयावाङ्नियमवत् धर्मसम्बद्धाना मधिकारेणैकतापत्तिरङ्गनियोगानां उत अधिकारापन्नानामयं धर्मसम्बन्ध ?R?0इत्यनेन भाष्यकारीयः संशयग्रन्थो व्याख्यातः । यदि हि धर्मसम्बद्धानां सतामवान्तर नियोगनामधिकारनियोगसम्बन्धो दीक्षणीयावाङ्नियमवत् तदा अवान्तरापूर्वप्रयुक्तत्वं, अथाधिकारं प्रति साधनीभूतानामेवायं धर्मसम्बन्धस्तदा अवघातादिवत् परमापूर्वप्रयुक्तत्वम् । ?R?0तत्र पूर्वपक्षवादी यज्ञैकदेशसम्बन्धं मन्वानः अधिकारैकतापन्नानामयं धर्म इति मन्यते ।
?R?0 ?R?0अस्यार्थः “?Rत्सरा वा एषा यज्ञस्य तस्मात् यत्किञ्चित् प्राचीनं तेनोपांशु चरन्ति”?R इत्यत्र यज्ञशब्दस्य प्राचीनशब्देन सह सम्बन्धः अन्यथाहि त्सराशब्देन सम्बन्धे अर्थवादपदशेषता स्यात् । प्राचीनपदसम्बन्धे तु विधिपदशेषतासामान्यात् प्रवृत्तिविशेषकरत्वात् । तस्माद्यज्ञस्य यत्प्राचीनं तेनोपांशु चरन्तीति यज्ञसम्बद्धानामेवायं धर्म इति परमापूर्वप्रयुक्ततां पूर्वपक्षवादी मन्यते । देशेन हि तदापत्तिर्लभ्यत इत्यभिप्रायः ?R?0अवन्तरनियोगपरे तु वाक्ये देशनियोगसम्बन्धोऽन्यार्थःस्यात् । ?R?0अस्यार्थः यज्ञस्य प्राचीनमिति योऽयं देशनियोगसम्बन्धः प्रतीयते तत्र नियोगसम्बद्धावस्थान्यवान्तरापूर्वाणि प्रतीयन्ते । तेन तदवस्थानामेव धर्मसम्बन्धः । यदि स्वरूपमात्रेणावान्तरापूर्वाणां धर्मसम्बन्धार्थंमेव वाक्यं स्यात् तदा सम्बन्धावस्था स्वरूपमात्रोपलक्षणार्था सती अन्यार्था स्यात् । न च स्वार्थत्वे सम्भवति अन्यार्थता न्याय्या ॥
?R?0 ॥ 6 ॥?R?0 ?R?0प्रणीतादि तथेति चेत् ॥ 23 ॥
?R?0 ?R?0राद्धान्तोपक्रममिदमधिकरणम् । तत्र राद्धान्तिना अवान्तरापूर्वप्रयुक्त्यर्थं दृष्टान्तो दत्तः । यथा प्रणीताः प्रणेष्यन् वाचं यच्छति इति वाङ्नियमोऽवान्तरा
?Rपूर्वप्रयुक्तः तथेदमुपांशुत्वमिति ।
?R अत्र पूर्वपक्षभाष्यं राद्धान्तवाद्युक्तवाङ्नियमवैषम्यप्रदर्शनार्थं यज्ञस्य श्रुतत्वादिति । युक्तं तत्र वाङ्नियमस्यावान्तरापूर्वप्रयुक्तत्वम् यज्ञसम्बन्धाश्रवणात् । इह च यज्ञस्य प्राचीनमिति श्रुतत्वादिति । पुनश्च वाङ्नियमेनैव सह (साम्यो) (स्वस्यो) पपत्त्यर्थं राद्धान्तैकदेशे स्थित्वा “?Rनन्विदानीमेवोक्तं”?R इत्युक्तम् । यज्ञशब्दश्च यज्ञं तन्वाते इत्युदाहृतः । “?Rयदध्वर्युयजमानौ वाचं यच्छतः तत्प्रजापतेर्हृदयं गत्वा यज्ञं तन्वाते’’ ?Rइत्यर्थवादगतो यज्ञशब्द उदाहृतः । यज्ञं तनिष्यन्तावध्वर्युयजमानौ वाचं यच्छत इति केन केन वाक्यार्थप्रदर्शनपरेण ।
?R अत्र चोदयति - ?R?0नैवोपक्रमे यज्ञशब्द उदाहृतः न चानन्तरमुक्तः । ?R?0राद्धान्तोपक्रमे हि प्रणीताः प्रणेष्यन् वाचं यच्छति इत्येव तदुदाहृतम् तथानुभाष्येण । सूत्रेपि प्रणीतावदिति ? ?Rचेत् इत्यत्रापि यज्ञशब्दो नोक्तः कथमिदमुच्यते ?R?0नन्विदानीमेवोक्तं यज्ञं तनिष्यन्ताविति । ?R?0परिहारमाह - ?R?0नन्विदमचोद्यम् । ?R?0एतदुक्तं भवति - नन्विदानीमेवोक्तं त्वया पूर्वपक्षिणा यत्रापि यज्ञशब्दः श्रूयते स घर्मविधानायैव युक्तः प्रवृत्तिविशेषकरत्वात् न स्तुतय इति । अस्ति चात्राप्ययं यज्ञशब्दः ‘?Rयज्ञं तन्वात’?R इति । इदमत्राभिप्रेतम् - नायं भाष्ये सम्बन्धो - नन्विदानीमेव यज्ञं तनिष्यन्तावध्वर्युयजमानौ वाचं यच्छत इत्युक्तमिति । किन्तु नन्विदानीमेवोक्तं त्वया यत्र यज्ञशब्दः श्रूयते स धर्मविधानायैव न स्तुतय इत्यध्याहृतेन सम्बन्धः । पुनश्चास्ति चात्रापि अयं यज्ञशब्दो यज्ञं तनिष्यन्ताविति तेनात्रापि यज्ञसम्बन्धावस्थानामेव वाङ्नियमसम्बन्ध इत्यत्रापि परमापूर्वप्रयुक्ततैव स्यादित्येवं भाष्यमुक्त्वा पुनर्वैषम्याभिधानमदुष्टम् । सत्यमत्रापि यज्ञशब्दोऽस्ति विधिशेषश्च । तथापि विस्तारसम्बद्धोऽसौ । तेन यज्ञं विस्तारयितुं वाङ्नियमः कर्तव्यः । पदार्थसम्बन्धे च यज्ञस्य विस्तार इति पदार्थसम्बन्ध एव युक्तः । स परमापूर्वसम्बन्धः ।
?R ?R?0कथं पुनरस्मिन् पक्षे व्रीप्सावगतिः यत्किञ्चिच्छ्रवणात् बहून् प्रति
?R?0व्याप्तुमिच्छा प्रतीयते साऽवान्तरापूर्वार्थत्वेऽवकल्पते । परमापूर्वार्थत्वे च भागधर्मोऽयम् । एकश्चासौ भाग इति वीप्सावगमो नोपपद्यते । ?R?0उत्तरं ?R?0अर्थप्राप्तत्वादविवक्षेत्यभिप्रायः । ?R?0अर्थप्राप्तानुवादोऽयमित्यर्थः कथं पुनः प्राप्तिरित्याह - ?R?0देशसम्बन्धेपि हि पदार्थमुखेनैवाधिकारसम्बन्ध इत्युपपद्यते वीप्सा।
?R?0 ?R?0अत्र राद्धान्तोपक्रमे तस्य च तत्र भावादिति सूत्रावयवं व्याचक्षाणेन सन्निपत्योपकारप्रदर्शनं कृतं भाष्यकारेण । परं न केवलारादुपकारकस्यैवावान्तरापूर्वस्यायं धर्मः । किन्तु तस्य च सन्निपत्योपकारकस्वापूर्वस्यायं धर्मः तत्र देशे द्वयोर्भावादिति ।
?R तत्र चोदयति - ?R?0ननु चैवमपि सूत्रार्थो गच्छत्येव । ?R?0तस्य चावान्तर नियोगस्य तत्र भावात् तत्प्रयुक्तमुपांशुत्वमित्यर्थः सूत्रावयवः । परिहरति - ?R?0सत्यमेवं सूत्रार्थो गच्छति निराकरणीयस्त्वर्थो नास्ति । ?R?0यन्निराकरणार्थोऽयं सूत्रावयवः स्यात् । न चासावस्ति यन्निराकरणार्थः सूत्रावयवः । तेन मन्दप्रयोजनता स्यात् ।
?R?0 कथं निराकरणीयोऽर्थो नास्ति ??R ?R?0उत्तरं - ?R?0तस्यावान्तरापूर्वस्याभावो विस्पष्टत्वान्न शक्यत आशङ्कितुम् । ?R?0यदि हि अवान्तरापूर्वस्याभावाशङ्का स्यात् तदा तन्निराकरणार्थं सूत्रावयवः स्यात् न चासावस्ति । युक्त्यन्तरं बाह्यविशेषेण चाप्राप्तिर्वक्तव्या । न केवलमारादुपकारकस्य उभयविधस्यायं धर्म इति वक्तव्यम् । यदि हि तथा नोच्येत तदा कस्य चिन्मन्दस्य केवलारादुपकारकधर्मत्वाशङ्कैव स्यात् इति यथाभाष्यमेव सूत्रव्याख्यानं युक्तम्
?R इदानीं राद्धान्तोऽभिधीयते - ?R?0धर्मवतामेकतावगतिर्युक्ता ।
?R?0कुतः??R एकतापन्नानां धर्मसम्बन्धे प्रमाणाभावात् । ननु च यज्ञस्य प्राचीनमिति सम्बन्धावगमः प्रमाणमुपन्यस्तम् । परिहरति - ?R?0तुल्यमवान्तरापूर्वसम्बन्धेऽपि एकत्वाद्यज्ञस्य ?R?0प्राचीनमित्युपलक्षणार्थमेतत् । तेनोपांशु चरन्तीति धर्मविधेः
?Rतेनोपलक्षणतया यज्ञसम्बन्धो नानुपपन्नः । युक्त्यन्तरं याह -?R?0 सतुत्या वाऽऽनन्तर्येण सम्बन्धावगमात्?R?0 । तस्मादित्यनेन शब्देन व्यवधानाद्यज्ञशब्दः प्राचीनशब्देन सह न सम्बध्यते, किन्त्वानन्तर्येण त्सराशब्देनैवास्य सम्बन्धः । तेन यज्ञसम्बद्धानां उपांशुत्वं न प्रतीयते ।
?R ननु स्तुतिसम्बन्धेऽपि शाकुनिकदृष्टान्तेन यज्ञार्थमेवोपांशुत्वं प्रतीयते . यथा शाकुनिकस्य त्सरा शकुनिप्रत्ययाय यज्ञस्यापि त्सरा यज्ञप्राप्त्यर्थैवेत्याशङ्क्याह -?R?0 दृष्टेन चार्थेन स्तुत्युपपत्तिः ।?R?0 पदार्थधर्मत्वे हि दृष्टेनैवार्थेन यज्ञप्राप्त्यर्थत्वं उपांशुत्वेनाशिथिलप्रयत्नैः सुखेन पदार्थान् अङ्गभूतानुपकुर्वद्भिः सुखेन यज्ञः प्राप्यते । पदार्थसम्बन्धाभावे तु अदृष्टेनोपकारेणोपांशुत्वस्य यज्ञप्राप्त्यर्थता स्यात् ।
?R राद्धान्तेऽभ्युच्चयमाह - ?R?0अवश्यंभावित्वाद्यज्ञपदार्थसम्बन्धस्य साक्षाद्देश सम्बन्धस्याविद्यमानत्वात् वरं प्रथमं पदार्थसम्बन्ध एव ।?R?0 यच्चोक्तं पूर्वपदार्थसम्बन्ध एव । यच्चोक्तं पूर्वपक्षे वीप्सार्थोऽनुवाद इति तत्राह - ?R?0वीप्सार्थाविवक्षायामयमेव दोषो यदुत तस्य सत्यां विवक्षायां अविवक्षेति । ?R?0अतस्सिद्धं धर्मवतामधिकारापत्तिरिति ।
?R अत्र भाष्यकारेणोक्तं - “?Rननु दीक्षणीयादिष्वन्यदेव स्वरान्तरमस्ती”?R ति तदसम्बद्धम् । न हि तत् पूर्वपक्षे राद्धान्ते वा उपयुक्तम् इत्याशङ्क्याह - ?R?0ननु दीक्षणीयादिष्वन्यदेव स्वरान्तरमस्ति विहितं इत्येतेन ग्रन्थेन याऽत्र प्राप्त्यप्राप्तिचिन्ता विनियोगाविनियोगचिन्ता दीक्षणीयादिषु प्रधानेषु विशेषविहितं स्वरान्तरमस्तीति नैतदसम्बद्धम् । ?R?0स्वरान्तरावरुद्धे उपांशुत्वस्या ?R?0विनियोगः । ?R?0तदङ्गापूर्वेषु तु विनियोग इति सा कार्यभेदसिद्ध्यर्था । अन्यत्र तृतीये सिद्धा संव्यवहारार्थं लिखिता । सम्यग्राद्धान्तेन व्यवहर्तुमिदमुक्तम् शेषं सह प्रयोजनेनोक्तम् ।
?R?0॥ 7 ॥ अग्निधर्मः प्रतीष्टकं सङ्घातात् पौर्णमासीवत् ॥ 26 ॥
?R?0 किमिदं कार्यचिन्तया द्रव्यान्तरं चिन्त्यते ? ?R?0अस्मिन् षट्के कार्यतश्चिन्ता । तथाऽस्मिन्नध्याये तत्सिद्ध्यर्थं द्वारकार्यचिन्ता कार्यार्था । तेन षट्के अध्याये च नेयं द्रव्यान्तरचिन्ता सङ्गतेति । उत्तरं - ?R?0कार्यसिद्ध्यमर्थमिदं द्रव्यान्तरं चिन्त्यत इति ब्रमः ।
?R?0 किं तत्कार्यं यदर्थैषा चिन्ता ? ?R?0उत्तरं ?R?0अग्निं प्रोक्षतीति किमस्य प्रतीष्टकं कार्यं उतैकमेवेति ।?R?0 यदि द्रव्यान्तरमस्ति तदा तदेव प्रोक्षणीयमिति एकं कार्यम् । द्रव्यान्तराभावे प्रतीष्टकं कार्यम् । तदा हि इष्टका एव प्रोक्षणीयाः तदर्थं द्रव्यान्तरचिन्ता । पूर्वपक्षमाह - ?R?0अत्र द्रव्यान्तरविदां ये अवयवेभ्योऽवयविभूतं द्रव्यान्तरं वदन्ति वैशेषिकाः तेषां पक्वामसंयोगे द्रव्यान्तरं न भवतीति ?R?0राद्धान्तः ।
?R अत्र चेष्टकाः पक्वाः पुरीषमपक्वं तेन तत्संयोगे द्रव्यान्तरं नास्ति । नचैवं प्रत्यक्षैकबुद्धिः कथमुपपादनीयेत्यभिप्रायेणाह - ?R?0का पुनरत्रोपपत्तिः प्रत्यक्षबुद्धेः??R । उत्तरं - समुदायालम्बनैवात्राक्षजा ?R?0बुद्धिः पुलकादिष्विव न पुनरर्थान्तरापेक्षिणी । अवयवभूताभ्यः इष्टकाम्योऽर्थान्तरमवयविद्रव्यमपेक्ष्य वा बुद्धिर्न भवति यथा देवदत्तादिष्विति वैधर्म्यदृष्टान्तः । तस्मान्न द्रव्यान्तरम् ।
?R ?R?0राद्धान्तस्तु वचनात्तावदवगम्यते इष्टकाभिरग्निं चिनुत इति । ?R?0अन्यथा हि इष्टकाभिश्चिनुत इति स्यात् । यथायमभिप्रायः अव्यतिरेकेऽपि व्यतिरेकशब्दः प्रयुज्यते यथा शिलापुत्रकस्य शरीरमित्येवमादिषु इति । सत्यं यत्र स्पष्ट एवाभावः तत्र हि द्रव्यान्तराभावात् व्यतिरेकाभावात् अव्यतिरेकवद्भाव एव न्याय्यः । इह पुनः देवदत्तवत् इष्टकानिरपेक्षैव चितौ बुद्धिरुत्पद्यते इति व्यतिरेकवद्भावकल्पना ।
?R यथाहि देवदत्ते पाण्याद्यवयवनिरपेक्षा एकबुद्धिः अवयविसद्भावे प्रमाणं तथात्राप्ययमस्तीति नावयव्यनुपपत्तिः शक्यते वक्तुम् । पक्वामसंयोगेऽपि द्रव्यान्तरमुत्पद्यत इति दर्शनबलादङ्गीकरणीयम् । तेन स्पष्टत्वात् द्रव्यान्तरस्य न
?Rव्यतिरेकवद्भावकल्पना किन्तु व्यतिरेक एवेति समाप्तमधिकरणम् ।
?R यस्तु गौतममताश्रयणेन सकलावयविद्रव्यान्तरापह्नवः स वैशेषिकैर्निराकृतोऽस्माभिश्च ?R?0जातिनिढर्णये । ?R?0तदाह - ?R?0केशोण्ड्रकनयश्च द्रव्यान्तरविद्भिरेव प्रत्युक्तः । ?R?0यथा अविद्यमानः केशोण्ड्रकः तैमिरिकस्यावभाति तथाऽवयव्यपीति योऽयं केशोण्ड्रकन्यायः स वैशेषिकैर्निराकृतः । यत्त्वनुमानमाकर्षणमुक्तं यत्रावयवी विद्यते तत्रैकस्मिन्नवयवे आकृष्यमाणे अवयवान्तरमपि आकृष्यते यथा देवदत्तः । इह च यैवेष्टका आकृष्यते सैवायाति नेष्टकान्तरमपि । तदाकर्षणमत्रानुमानं लिङ्गमुक्तम् तत् स्थावरेष्वनैकान्तिकत्वात् प्रत्युक्तम् । वृक्षादौ यैव शाखा आकृष्यते सैवायाति नान्येति । तेन यत्राप्यवयवी तत्राप्येतदस्तीति नैकान्ततोऽवयविनिराकरणे समर्थम् । तस्मादभिन्नं कार्यं प्रोक्षणस्येति सिद्धम् ।
?R ?R?0प्रयोजनमुक्तम् । ?R?0पौर्णमासीनिदर्शनमपि यत्पूर्वपक्षिणोक्तं यथा चतुर्होत्रा पौर्णमासीमभिमृशेदिति प्रत्येकमभिमर्शनं तथाऽग्निधर्मेणापि प्रतीष्टकं भा(ष्य)व्यम् । तदपि परिहृतम् । युक्तं तत्र द्रव्यान्तरानारम्भात्, इह तु द्रव्यान्तरमारब्धमिति ।
?R
?R ?R?0॥ 8 ॥ पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् ॥ 29 ॥
?R?0 ऊहचिन्तायां कःप्रसङ्गोऽवलोपस्य । ?R?0यदि सर्वेषामह्नां पत्नीसंयाजान्तता तदा परस्तात्तनानामङ्गामवलोप एव । यदा तु प्रागुत्तमादह्नः तदा नावलोप इत्यवलोपचिन्तेयमूहलक्षणे न सङ्गता । बाधचिन्तात्मकत्वादिति भावः । उत्तरं - ?R?0न खलु कश्चिदवलोपस्य प्रसङ्गः । ?R?0किन्तु अवलोप एवात्र न चिन्त्यत इति हृदिस्थम् ।
?R ?R?0यद्यवलोपोऽत्र न चिन्त्यते कथं तर्हीदमधिकरणम् ।?R?0 उत्तरम् - ?R?0इत्थमधिकरणम् । अयमुपदेशोऽवलोपस्य उत कार्यस्योपसंहार इति ।?R?0 अस्यार्थः - किमप्राप्त एवाङ्गलोपोऽयमुपदिश्यते अथ कार्यस्य
?Rकरणोपकारस्योपसंहारः । सकृदनुष्ठितैरङ्गैस्सिद्धिः ।
?R नन्वन्यथैव भाष्ये चिन्तेति यो मन्यते तं प्रत्याह - ?R?0यद्ययम (व) लोपोपदेशस्तदा सर्वेषामह्नामविशेषात् पत्नीसंयाजान्तता । अथ कार्योपसंहृतिस्ततः प्रागुत्तमादह्नः पत्नीसंयाजान्तता । ?R?0उत्तमे तु पत्नीसंयाजेभ्यः (यस्याः) परस्तात्तनानामप्यनुष्ठानं सर्वार्थत्वेन ।
?R नन्वेवमपि काऽत्र लक्षणे सङ्गतिरित्यत्राह - ?R?0उपदेशे ?R?0अवलोपोपदेशपक्षे ?R?0यथोपदेशं कार्यकल्पना । ?R?0कार्यप्राप्तिरुपदेशवशेन बाधनीयेत्यर्थः । ततश्च विकृतिष्वपि तथैव कार्यम् पत्नीसंयाजान्तैवाङ्गरीतिः । उपसंहारे तु विकृतिष्वपि यथाकार्यमेव तदन्तता । सहानुष्ठानसम्पत्तिस्तदन्ततायाः कार्यम् । तेन यदुपोत्तममहः तत्र तत्र तदर्थं तदन्तता । द्विरात्र एकस्यान्हः पत्नीसंयाजान्तता, त्रिरात्रे तु द्वयोरिति यथाकार्यमनुष्ठानमित्यूहे सङ्गतिः ।
?R?0 तत्र पूर्वपक्षस्तावदुपदेशाभिमानेन ।?R?0 अवलोपोपदेशोऽयमित्यभिमानेन पूर्वः पक्षः ।
?R ननूपदेशेन कथं सर्वेषां तदन्ततेत्यत्राह - ?R?0न ह्युपदेशे किञ्चिन्नियामकमस्तीति सर्वेषां तदन्ततोपदेशः । ?R?0इतिशब्दः समाप्तौ । ?R?0अपरः पक्षो राद्धान्ताभासभूतः ?R?0भवत्वयमुपदेशस्तथापि असंस्थितशब्दश्रवणात् प्रागुत्तमादह्न?Rः पत्नीसंयाजान्तता । एवमसंस्थितेर्हेतुत्वमुपपन्नं भवति । एवं श्रूयते - पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते न बर्हिरनुप्रहरति । असंस्थितो हि तर्हि यज्ञः इत्यसंस्थाहेतुका पत्नीसंयाजान्तता कीर्त्यते । प्रागुत्तमादह्नो यज्ञस्यासंस्था । तेन तत्रैव तदन्ततोपदेश इति ।
?R ?R?0इमं राद्धान्ताभासमसंस्थानस्यार्थवादत्वेन निराकृत्य पुनरविशेष उक्तः । ?R?0अस्यार्थः - पत्नीसंयाजान्ततास्तुतिरियम् । यदि हि पत्नीसंयाजान्तता न स्यात् तदा चिरेण यज्ञस्सन्तिष्ठते तेन संस्थितोऽप्यसंस्थितप्रायः स्यात् । तस्मादवलुप्यन्तामङ्गानीति । तेनाविशेषात् सर्वेषां पलीसंयाजान्ततेति ।
?R ?R?0राद्धान्तस्तु नैवायमवलोपोपदेशः सम्भवति । प्राप्तत्वाद्धर्मजातस्य । ?R?0तदवलोपे प्राप्तबाधप्रसङ्गात् । न चाबाधे सम्भवति बाधो न्याय्यः । मूलयुक्तिमाह ?R?0ऐकशब्द्याद (द्य) हर्गणस्य द्वादशाहलक्षणस्य कथमितिकर्तव्यताविस्तारः संहरणीय इत्यस्यामाकाङ्क्षायां ?R?0उपसंहारविधिरेवायमवगम्यते, नाप्राप्तस्यावलोपस्योपदेशः । द्वादशाहेन प्रजाकामं याजयेदित्येकः प्रयोगविधिः प्रत्यहं विहितमितिकर्तव्यताकलापं युगपत्प्रयुङ्क्ते । तत्प्रयुक्त्यनुसारेणेतिकर्तव्यताकलापस्तावत् सहानुष्ठातव्यः । स केन प्रकारेणेति प्रकारविशेषाकाङ्क्षायां इदं वचनमुपसंहारस्य । उपसंह्रियते सहानुष्ठीयते यत इतिकर्तव्यताकलापो येन पत्नीसंयाजान्ततावस्थानेन तद्विधिरवगम्यते । अपेक्षितविधानात् । यदा वेदं पत्नीसंयाजात्ततावस्थानं इतिकर्तव्यतोपसंहारप्रयोजनं तदा प्रागुत्तमादह्नो व्यवतिष्ठते । एवं च दृष्टार्थैव स्तुतिरुपपन्ना भवति । “?Rपत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते न बर्हिरनुप्रहरति असंस्थितो हि तर्हि यज्ञः”?R इति । यत्रासंस्था तत्र पत्नीसंयाजान्ततावगम्यते सा चानेनन्यायेन प्राप्ता समाप्तिः प्रमाणप्रतिपन्नतयैव स्तुतिरुपपन्ना भवति . अन्यथा यथाव गम्यमानार्थाभावेनानुपपन्ना स्यात् । विधानं च विपरीतम् । इतरस्मिन् पक्षे वाक्येन विधानम् । अह्नां हि समाप्तिरस्त्येव । तत्र चोपपदार्थविधानं स्यात् । अस्मत्पक्षे तु संस्थानमेव विधीयत इति श्रुत्या विधानम् । ?R?0शेषमुक्तम् ।
?R?0॥ 9 ॥ अभ्यासः सामिधेनीनां प्राथम्यात् सर्वधर्मः स्यात् ॥ 33 ॥
?R ?R?0ननु च कार्यशून्यत्वादृचो धर्मसम्बन्ध एव नोपपद्यते । कथं प्रयुक्तिश्चिन्त्यते । ?R?0अत्र किलाधिकरणे किमयं ऋग्धर्मः उत स्थानधर्म इत्यनेन प्रकारेण प्रयुक्तिरेव चिन्त्यते । अयमभ्यासः ऋक्प्रयुक्त उत स्थानप्रयुक्त इति । तच्च न युक्तम् । अकार्यत्वादृचः । कार्यं हि धर्माणां प्रयोजकं भवति नाकार्यमिति । उच्यते । ?R?0कार्ययोगमङ्गीकृत्यैषा चिन्ता न ऋङ्मात्रतया । ?R?0एतदुक्तं भवति
?Rयावत्कार्यमस्यास्साधनभूतायाः किमयं धर्मः, सामिधेन्यनुवचनतयैव उत प्रथमवचनतयैवेति । त्रिःप्रथमामन्वाहेति यदि प्रवोवाजासम्बन्धोऽभ्यासस्य तदा दर्शपूर्णमासाधिकारगृहीतत्वात् यदेतदीयं प्रवोवाजासाध्यं कार्यं तत्र निविष्टायास्तस्याः अयं धर्मः स्यात् । यदा तु प्रथमवचनसम्बन्धोऽभ्यासस्य तदा प्रथमवचनकार्यनिविष्टाया इति
?R तत्र पूर्वपक्षवादी वदति - अवश्यं स्रीलिङ्गविवक्षा कर्तव्या । प्राथम्यमात्र विवक्षायां हि पदवर्णधर्मोऽप्याशङ्क्येत ऋच एव धर्मो न स्यात् । तेन प्रथमोद्देशेन विधाने लिङ्गं विशेषणं विवक्षणीयम् । अतो ?R?0लिङ्गेनैव संशयव्यावृत्तेः विवक्षितं लिङ्गमित्येवं?R?0 वदतीति सम्बन्धः । केन पुनर्लिङ्गमभिहितं विवक्षितमित्याह - ?R?0स्त्रियामभिधेयायामित्यपि पक्षो विद्यते । ?R?0तेन प्रत्ययेनाप्यते स्रीत्वम् । तदेवं स्रीत्वस्य विवक्षितत्वात् तद्धर्मोऽयम् ऋक्स्री, तस्मात्तद्भर्मोऽभ्यास इत्येवं प्राप्ते ?R?0अभिधीयते।
?R?0 नात्र लिङ्गविवक्षोपपद्यते, प्राथम्यस्यानुवादासम्भवात् विधाने च वाक्यभेदप्रसङ्गात् । ?R?0यदि स्रियमुद्दिश्य धर्मविधिस्तदा प्राथम्यं तावत् नानूद्यते अप्राप्तत्वात् नहि प्रथमैवेयं ऋक् । न च प्राथम्यं विधीयते वाक्यभेदप्रसङ्गात् । तस्माद्वरं स्रीत्वमविवक्षितमस्तु ।
?R ननु तदपि कथमन्वीयत इत्यत्राह -?R?0 स्त्रीत्वं पुनः ऋग्विषयत्वात् अनुवचनस्य नित्यप्राप्तत्वात् अनूद्यत इत्यदोषः ।?R?0 ननु पदवर्णशङ्कापि प्राप्नोतीत्युक्तम् तेन नापि स्रीत्वमत्र नित्यप्राप्तम् । परिहरति - ?R?0न पदवर्णंशङ्का अर्थनिष्ठत्वादनुवचनस्य । ?R?0अर्थप्रतिपत्त्यर्थं हि अनुवचनं तेन यदेवार्थं प्रतिपादयति तस्यैवानुवचनं विधीयते । ?R?0वाक्याच्चार्थावगतिः ?R?0अनेकपदसङ्घातात्मनो वाक्यादेवार्थावगतिः न पुनरेकस्मात्पदाद्वा । तेन वाक्यस्यैवानुवचनं प्राप्तम् वाक्यं च ऋक् । तेन प्राप्तं स्रीत्वमनूद्यत इत्युक्तम् । स्रियां यत्प्रातिपदिकं वर्तत इत्यस्यार्थ इत्यनेनाभिप्रायेण स्रियां यत्प्रातिपदिकं वर्तते
?Rतस्माट्टाबादय इत्युक्तं विशेषणभूतत्वाच्च स्रीत्वस्यानुवचनसम्बन्धो नास्तीत्याह - ?R?0न च विशेषणं क्रियया सम्बध्यते किन्तु विशेष्यतयैव
?R?0 ननु चाभिधेयपक्षोऽप्यस्तीत्युक्तम् । ?R?0अस्यार्थः - यद्यपि वस्तुस्थित्या लिङ्गस्य विशेषणत्वं तथापि पृथक्शब्दाभिधेयतया सम्बन्धो भविष्यति सङ्ख्यावदिति । परिहरति - ?R?0तथापि विशेषणस्वभावो नैवापैति । ?R?0प्रत्ययेनापि स्रीत्वमभिधीयमानं प्रातिपदिकार्थविशेषणतयैवोच्यते इति तस्य क्रियासम्बन्धः । तस्मात् प्राथम्येनैवाभ्यासस्य सम्बन्धो युक्ताः । युक्त्यन्तरं चाह ?R?0युक्तं चैतत् पञ्चदशार्थसम्पत्त्यर्थावगतेः । ?R?0सामिधेनीनां हि पञ्चदशत्वसम्पत्त्यर्थेऽभ्यासे दृष्टार्थता भवति । अतः सामिधेनीप्रथमानुवचनकार्यप्रयुक्तोऽयं धर्मे इति स्थितम् ।
?R?0 ॥ 10 ॥?R इष्ट्यावृत्तौ प्रयाजवदावर्तेताऽऽरम्भणीया ॥ 34 ॥
?R आद्यमधिकरणम् किमारम्भशब्देन कर्मारम्भः कर्मानुष्ठानोपक्रम उच्यते उत इदं मया कर्तव्यमित्यध्यवसानमित्येवमारम्भशब्दस्यार्थं विकल्प्य वर्णितम् । तत्र कर्मोपक्रमः शब्दार्थ इति पूर्वपक्षयित्वा अध्यवसानं शब्दार्थः एकं च तत् सर्वदर्शपूर्णमासप्रयोगाणामिति राद्धान्तितम् । तदिदं पूर्वाचार्यव्याख्यानमयुक्तं मन्वानेन भाष्यकारेण अन्यथा अधिकरणं व्याख्यातम् ।
?R ?R?0कथं पुनरिदं पूर्वाचार्यव्याख्यानमयुक्तं मन्यते । ?R?0उत्तरं - ?R?0नायमारम्भशब्दः कस्यचित्पदार्थस्यैकस्य प्रतिनियतस्याद्यामवस्थामाह । किं तर्हि ? ?Rसर्वपदार्थानामेव आद्यामवस्थामाचष्टे । ततः किं ? ?Rइदं ततो भवति । ?R?0उपात्तस्य सन्निधावुच्चार्यमाणः तस्यैवारम्भमवगमयति । दर्शपूर्णमाससन्निधावयमुच्चार्यते “?Rआग्नावैष्णमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमाणः”?R इति । तेन तदारम्भमेवावगमयति । इदं मया कर्तव्यमित्यध्यवसानं पुनः सर्वपदार्थानां सर्वकर्मणामेव नित्यनैमित्तिककाम्यानामाधानोत्तरकालभाविनां साधारणत्वात् नैकस्याद्यावस्था
?Rतयाऽवगन्तुं शक्यते । एवं ह्यसौ पुरुषस्य सङ्कल्पो यावदग्निसाध्यं मे कर्मोपनिपतिष्यति तन्मया कर्तव्यमिति न पुनर्दर्शपूर्णमासमात्रं कर्तव्यमिति । तेन साधारणत्वात् दर्शपूर्णमासारम्भतया । नावगन्तुं शक्यते । अतो दर्शपूर्णमासारम्भ एव तदुपक्रम एव तदी(योऽयं) (याद्य) पदार्थप्रयोग एवायं प्रतिपत्तव्योऽसाधारणत्वात्तस्य तदारम्भ तयाऽवगमात् । नाध्यवसानं, ?R?0विशेषादृते व्यवहाराभावादध्यवसानस्य । ?R?0विशेषाभावे दर्शपूर्णमासारम्भोऽयमिति व्यवहाराभावात् । तस्मादध्यवसाननिमित्तिका नारम्भणीया । किन्तु आद्यपदार्थप्रयोगनिमित्तिका । ततश्चावृत्तिरेवापद्यत इति न राद्धान्तसिद्धिः इत्येवं पूर्वाचार्यव्याख्यानमयुक्तम् ।
?R?0 ननु भाष्य (व्याख्या)नमपि गतार्थमिव द्दश्यते । कथं ? ?R?0उत्तरं ?R?0सर्वमेव हि निमित्तमधिकारिविशेषणतयाऽन्वेतीति भेदनादिषूक्तम् । कथमारम्भः शेषित्वेनाङ्क्यते । ?R?0अस्यार्थः - भाष्यकारो ह्येवं विचारयति किमारम्भणीया दर्शपूर्णमासयोराद्यपदार्थं सम्यञ्चं करोति उत पुरुषमारम्भयोग्यमिति । तत्रारम्भस्य निमित्तभूतत्वात् शेषित्वा ङ्का नोपपद्यते । उक्तं हि षष्ठे । ‘?Rभेदनादीनि निमित्तभूतानि न शेषीणी’?Rति । तेन गतार्थमिदमधिकरणं भाष्यकारीयम् । परिहरति - ?R?0अस्त्यत्राशङ्का यद्ययं भेदनवदधिकारः परिगृह्यते तदा दर्शपूर्णमासाधिकृतविशेषणवत् प्रतिप्रयोगमावर्तते आरम्भणीया यथा सति भेदने होमः । ?R?0अस्यार्थः - यथा भिन्ने जुहोतीति भेदनमधिकारिविशेषणं, यदि तथाऽऽरम्भः स्यात् तदा दर्शपूर्णमासाधिकृ(तः) तेन विशेषणीयः आरम्भवान् दर्शपूर्णमासाधिकृतः आरम्भणीयां कुर्यादिति । यथा यो भेदनवात् दर्शपूर्णमासाधिकृतः स होमं इति । ततश्चाधिकारावृत्तौ प्रतिप्रयोगमारम्भणीया आवर्तते यथाभेदनहोमः । प्रधानाधिकारानुप्रवेशात् अवान्तराधिकारस्य तदावृत्तावावृत्तिः । यदि तु स्वतन्त्रोऽधिकारः स्यात् तदा आरम्भणीयाया आवृत्तिर्न स्यात् । ?R?0अथैवं न कल्प्यते ?R?0 दर्शपूर्णमासाधिकृतविशेषणं न कल्प्यते
?Rतदा अधिकारान्तरत्वात् कार्यान्तरकल्पना स्यात् । ?R?0भवत्विति चेन्न । दर्शपूर्णमासशब्दसमभिव्याहारादधिकारान्तरानवगतिः । ?R?0एकस्मिन् वाक्ये दर्शपूर्णमासावाग्नावैष्णवं च समभिव्याह्नियेते । तत्र वाक्येन सम्बन्धोऽवगम्यते। अधिकारान्तरे च स बाधितो भवति । तस्मान्नाधिकारान्तरा वगतिः । यत एवं निमित्तभावेप्यावृत्तिः तस्माद्वरमाद्यपदार्थसंस्कारतयैवायं विधिः कल्पितः स्यात् किमवान्तराधिकारेण । आरप्स्यमान इति वरं शेषिणमेव समर्पयतु । यदारम्भसंस्कारकं तदारम्भवतैव क्रियत इति पुरुषश्रवणमनुवादः किमवान्तराधिकारेण वृथा आश्रितेन ।
?R ननु यदि तल्यमेव पक्षद्वयेपि प्रयोजनं केन विशेषेणावान्तराधिकारस्त्यज्यते आरम्भसंस्कारः परपक्षश्च परिगृह्यते तदाह - ?R?0किं पुनरवान्तराधिकारे गौरवं येन स त्यज्यते । उत्तरं - न खलु किञ्चद्गौरवं, किन्त्ववान्तराधिकार एव न सम्भवति । कथमसम्भवः??R ?R?0उत्तरं?R?0 नित्यत्वादाद्यस्य पदार्थस्य नावान्तराधिकारसम्भवः ?R?0। दर्शपूर्णमासयोर्हि आद्यः पदार्थो नित्यभूतः अनित्यं च विशेषणं भवति । तेन तस्याधिकृतविशेषणांशो नोपपद्यते । भेदनादीनां तु अनित्यत्वात्
युक्तोऽवान्तराधिकारः तेषामधिकृतविशेषणतया विधानमेतद्युक्तमिति पूर्वपक्षवादी मन्यते । अतः प्रतिप्रयोगे प्रयाजवदावृत्तिरिति युक्तम् ।
?R अत्रोच्यते - अस्त्यत्रावान्तराधिकारप्रयोजनं सकृदनुष्ठानरूपम् । यथा च तत्सिद्ध्यति । न चेदमधिकृतविशेषणेन भवति आरप्स्यमाण इति पुरुषविशेषणत्वावगतेः । तदाह - ?R?0स्पष्टश्चायमधिकार इति । ?R?0ननु तथापि किमित्यारम्भः शेषी न भवतीत्यत्राह - ?R?0न च निमित्तं शेषी (न) भवितुमर्हति शेषित्वे प्रमाणाभावात् ।
?R?0 ननु निमित्तमेतन्न भवति नित्यत्वादाद्यस्य पदार्थस्येत्युक्तम् । ?R?0परिहरति - ?R?0सत्यं न भवति निमित्तं यद्यारम्भणीया भेदनहोमवत् कर्माङ्गं कल्प्येत ।?R?0
?Rह्यारम्भणीयामाङ्गमिच्छति तेन दर्शपूर्णमासादावारम्भ इत्यास्थेयम् नान्यथाऽङ्गत्वसिद्धिर्यतः । यश्च दर्शपूर्णमासाधिकृतः तस्य नेदं विशेषणमुपपद्यते अव्यभिचारात् । यस्त्वारम्भणीयामङ्गभूतां नेच्छति न तस्य दर्शपूर्णमासधिकारो विशेषणीयः, किन्तु पुरुषमात्रम् । न च सर्वः पुरुषो दर्शपूर्णमासारम्भवानिति व्यभिचाराद्युक्तं विशेषणम् । स्वतन्त्राधिकार एवायं न भवतीति मन्वान आह - ?R?0किमिति चासम्भाव्यामाने चाङ्गत्वे स्वतन्त्राधिकारे दोष उक्तो दर्शपूर्णमाससमभिव्याहारान्नानवगतिरुक्ताधिकारान्तरस्य । ?R?0उत्तरं ?R?0सत्यं स्वतन्त्राधिकारे कल्प्यमाने भवत्ययं दोषो ?R?0दर्शपूर्णमाससमभिव्याहारबाधात्मकः किन्तु अवान्तराधिकार एवायम् । नायमेकान्ततो दर्शपूर्णमासाधिकारसंस्पर्श्यधिकारः । किन्तु तदुपकारकत्वादवान्तराधिकार एवायम् । न चाद्यपदार्थनित्यतयाऽस्य विरोधः । न चास्त्येव नित्यतया विरोधः । तथाहि - यदि दर्शपूर्णमाससमभिव्याहार आदितस्तदा तदङ्गमेवारम्भणीया । तदङ्गत्वे वा आरम्भोऽपि तदधिकृतविशेषणं भेदनवत् । न च नित्यस्य तदुपपद्यत इति शङ्क्यामाह - ?R?0सर्वत्र चाङ्गाङ्गिभावेनियोगैक्यं कारणम् । ?R?0अङ्गाङ्गिनोर्हि नियोगैक्ये सति अङ्गाङ्गिभावो भवति अन्यथा भिन्नकार्यत्वे अङ्गाङ्गिभावानुपपत्तेः ।
?R भवत्वेवं तथापि किमित्याह - ?R?0न चात्र नियोगैक्ये प्रमाणमस्ति अप्रकरणाधीतत्वादारम्भणीयायाः । ?R?0ननु आरम्भसम्बन्धमुखेन अस्त्येव तन्नियोगप्रत्यभिज्ञानं यथा पर्णमयी जुहूर्भवतीत्यनेन अभिप्रायेणाह - ?R?0कथं नास्ति नियोगैक्ये प्रमाणमिति । ?R?0उत्तरं - ?R?0यदि हि स्वतन्त्रसमभिव्याहृतं ?R?0आद्यपदार्थरूपं आरम्भ इत्या(रम्भणीय)या सहान्वेति तदा स्यात् वैनियोगिकः आद्येन पदार्थेन सह तन्मुखेन विनियोगैक्ये । इह पुनरारम्भकर्तुरुपसर्जनीभूतं विशेषणीभूतं आद्यपदार्थरूपमारम्भमाण इत्यारम्भणीययाऽन्वेति । तत्राधिकारान्वये सम्भवति किमिति वैनियोगिकः परिगृह्यते । अधिकारिविशेषणतयैवारम्भान्वयस्तद्विशेषणत्वेन दर्शपूर्णमासयोः ।
?R?0एवमाधिकारिके सम्बन्धे सति किमिति वैनियोगिकः परिगृह्यते??R प्रयोजनभेदो नोपपद्यते तेन परिगृह्यत इति चेत् ।
?R?0 ?R?0दूषयति - ?R?0सुतरां साक्षात्प्रतीयमानाधिकारत्पयागे प्रमाणं नास्ति । ?R?0न च प्रयोजनभेदोऽपि नास्तीत्याह - ?R?0अस्ति च शब्दार्थे विशेषः सकृत् संस्कृतोऽधिकारी सर्वप्रयोगाङ्गतां लभते । ?R?0अस्यार्थः अधिकारिविशेषणत्घेप्यारम्भस्य साध्यत्वेनैव विशेषणत्वात् स्वर्गवत् तत्सिद्ध्युपयोगित्वमारम्भणीयानियोगस्य । साधिकारे वाक्ये पुरुषप्रधानः सम्बन्धः इति पुरुषार्थत्वादारम्भणीयायाः पुरुषस्यैवारम्भोत्पत्त्यनुगुणः संस्कारः आरम्भणीयया क्रियते । सकृत्संस्कृतश्च पुरुषो दर्शपूर्णमासारम्भयोग्यो जात इति नारम्भणीयाऽऽवर्तते । वैनियोगिके तु सम्बन्धे (के) वलारम्भसंस्कारादारम्भस्य च आवृत्तेरावृत्तिः स्यात् तदाह - ?R?0वैनियोगिके पुनः सम्बन्धे प्रति प्रयोगमावृत्तिरिति । ?R?0इह चेदमर्थसारम् - अनारभ्याधीता आरम्भणीया । तेन न तावत् सन्निधानान्नियोगैक्यम् । नापि पर्णतावत् पदार्थान्वयद्वारेण । अधिकारे पुरुषसम्बन्धेन पुरुषार्थत्वादारम्भणीयाया न साक्षादाद्यपदार्थसम्बन्धः । तेन पुरुषस्यैवारम्भयोग्यतां उत्पादयन्ती संस्कारिका । न पुनः क्रत्वङ्गं प्रमाणाभावात् ।
?R एतेनेदमुक्तम् - ये प्रयाजादिष्वधिकारमाहुः तेषां प्रयाजादयोऽपि पुरुषार्था एव भवेयुः न क्रत्वर्थाः तत्रारम्भणीयावत् प्रयाजादिभिरपि अपूर्वोदयानुगुणः संस्कारः क्रियते । तद्वच्च सकृदनुष्ठानं तेषामपि स्यादिति । दीक्षणीया तु प्रकरणाधीता । तेन दीक्षिष्यमाण इति प्रकृताधिकृतविशेषणमेव । अतो नियोगैक्याज्जयोतिष्टोमाङ्गमिति । न च पुरुषसंस्कारद्वारेणापि क्रत्वनुप्रवेशः स्वतन्त्रपुरुषसंस्कारात् । सकृत्संस्कृतस्य सत उत्तरकालं प्रयोगाङ्गत्वात् ।
?R ?R?0यद्येवं यद्यारम्भणीया पुरुषसंस्कारिका भेदनहोमोऽपि कस्मात् पुरुषसंस्कार एव न कल्प्यते । ?R?0उत्तरं - कल्प्यमानेऽपि प्रतिनिमित्तं
?R?0व्यलीकोत्पत्तौ पुनः प्रसङ्गविज्ञानादावृत्तिरेवात्र ।?R?0 अस्यार्थः - भिन्ने जुहोतीति भेदननिमित्त दोषनिर्हरणद्वारेण पुरुषः संस्कर्तव्यः। निमित्तं प्रतिभेदनं दोषोत्पत्तेः तन्निर्हरणार्थं पुनः होमप्रसङ्गविज्ञानमस्तीत्यावृत्तिरेव होमस्य । पुनश्चेदनुष्ठानाविशेषः तेनेदं चोद्यमचोद्यमेव । तत्रापि संस्कारः प्रकरणात् साक्षादधिकृतसमभिव्याहा (रात्) (र्यो)?R?0 भेदनादिषु निमित्तान्यथानुपपत्त्या तु कल्पितः ।?R?0 अस्यार्थः - न भेदनादीनां पुरुषसम्बन्धो येन पुरुषसंस्कारकता स्यात् । किन्तु ते क्रत्वर्था एव । यदि तेषु साक्षादधिकारः श्रूयेत तदा भवेदेवं, किन्तु निरधिकारा एव, भेदनादीनां निमित्तत्वेनश्रवणात् । निरधिकारस्य च प्रकरणाधीतस्य क्रत्वर्थत्वमेव । अनिमित्तता तु अधिकारिविशेषणतामन्तरेण न सम्भवतीति क्रत्वर्थाधिकृतपुरुषविशेषणता भेदनादीनां कल्प्यते ।
?R ननु पुरुषसंस्कारकत्वेपि आरम्भनिमित्तत्वादस्यारम्भावृत्तौ किमित्यावृत्तिर्नभवति पुरुषसंस्कारभेदनहोमवदित्याशङ्क्याह - ?R?0इह पुनर्निमित्तान्तरोत्पाद एव न भवतीति नावृत्तिरिति विशेषः । ?R?0कस्मान्निमित्तान्तरोत्पादो न भवदीत्यत्राह ?R?0अभिन्नत्वादाद्यस्य पदार्थस्य । ?R?0एषोऽभिप्रायः - आद्यपदार्थानुष्ठाने योग्यता पुरुषस्य आरम्भणीयया क्रियते । एकश्चासावाद्यः पदार्थः । तेन तं प्रति योग्यता न भिन्नां योग्यतोत्पत्त्यर्थता च पुरुषस्यारम्भणीयानुष्ठाने निमित्तम् । एका चासौ । तेन निमित्तावृत्त्यभावान्नारम्भणीयावृत्तिः । तत्र पुनरभिन्नस्य भेदनमिति सिद्धो निमित्तभेदः । भेदनान्तरोत्पन्नव्यलीकभेदात् तन्निर्हरणार्थंतापि तत्र भिन्नैव । तेन पुरुषसंस्कारकत्वे तत्रावृत्तिर्निमित्तावृत्तेः ।
?R तदिदं भाष्यकारेण प्रयोगान्तरेपि संस्कृत एव लभ्यते इति समानेऽहनीत्यपि सिद्धमिति दर्शितम् । दर्शपूर्णमासावरप्स्यमान इत्यत्र लृट्प्रत्ययेन अनद्यतनभविष्यद्विहितेन यस्मिन्नेवाहनि दर्शपूर्णमासौ कर्तव्यौ तस्मिन्नेवाहनि कृतयाऽऽरम्भणीयया आरम्भयोग्यता भवतीति । तच्चास्त्येव । यथाऽसौ
?Rसकृदारम्भणीया कृता सा दर्शपूर्णमाससमानाहस्सम्बन्धिन्येव । यथा चैवं तथा दशमे या दीक्षणीयादिष्वारम्भणीयाशङ्का समधिगता सा सोमपूर्वत्वपक्षमाश्रित्य । इष्टिपूर्वत्वे हि सस्कृतत्वात् पुरुषस्य नाशङ्कोपपद्यत इत्यनवद्यम् ।
?R?0 ॥ 11 ॥?R?0 ?R?0अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात् तत्राचोदितमप्राप्तं चोदिताभिधानात् ॥ 36 ॥
?R?0 ?R?0अत्र किल समवेतार्थत्वे दृष्टार्थतेति मन्वान आह - ?R?0ननु च दृष्टादृष्टार्थत्वं मन्त्राणां न सम्भवतीति संशय एवायुक्तः । ?R?0यस्माद् ‘?Rअर्थैकत्वादेकं वाक्?Rयं’?R ‘?Rसाकाङ्क्षं चेद्विभागे स्यात्’?R इत्युक्तम् । दृष्टादृष्टार्थत्वे चार्थभेदः । तेन मन्त्रैक्यमेव न सिद्ध्यति । एकस्य मन्त्रस्य दृष्टादृष्टार्थत्वं नोपपद्यत इति राद्धान्तवचनव्यक्त्यभावात् संशय एवायमयुक्तः ।
?R राद्धान्ते हि अग्नये जुष्टं निर्वपामीति समवेतार्थम् परिशिष्टमसमवेतार्थमदृष्टार्थमिति प्रयोजनभेद आपद्यते । परिहरति - ?R?0उच्यते - ?R?0नैवात्र दृष्टादृष्टार्थतया पूर्वोत्तरपक्षौ यथासङ्ख्यं क्रियेते । राद्धान्ते परिशिष्टस्यापि नास्ति अदृष्टार्थत्वमिति एकमन्त्रत्वाविरोधः
?R ?R?0कथं तर्हि पूर्वोत्तरपक्षौ क्रियेते ? ?R?0उत्तरं ?R?0समवेतार्थतया । ?R?0पुनश्चोदयति ?R?0ननु समवेतार्थत्वे सति दृष्टार्थत्वमसमवेतार्थत्वे त्वदृष्टार्थत्वमिति तदेवेदं दृष्टादृष्टार्थत्वं पूर्वोत्तरपक्षयोः ।?R?0 परिहरति ?R?0नैतदेवम् । सत्यं समवेतार्थत्वे दृष्टार्थत्वं असमवेतार्थत्वे त्वदृष्टार्थता न शक्यते वक्तुम् । ?R?0कस्मादित्याह - ?R?0 न परार्थस्याभिधानस्य कार्यान्तरकल्पना शक्या । ?R?0स्तुत्यर्थमप्यभिधानमर्थप्रति पत्त्यर्थमेव नादृष्टार्थं शक्यते कल्पयितुं प्रमाणाभावात् । एतच्चार्थवादाधिकरणे उक्तम् । ?R?0यदि सिद्धान्तेऽपि दृष्टार्थता कथं तर्हि समवेतार्थाभिधानं पूर्वपक्षवादी मन्यते । ?R?0यदि हि सिद्धान्ते अदृष्टार्थत्वलोभेन युक्तः पूर्वपक्षः । उत्तरं -?R?0 स्वार्थाभिधानलोभात् । न ?R?0हि स्वार्थत्वे सम्भवति पारार्थ्यं न्याय्यमिति पूर्वः पक्षः । स्तुत्यर्थत्वे हि पारार्थ्यं समवेतदेवताप्रकाशकत्वे स्वार्थत्वं शब्दानामिति
?Rस्वार्थत्वलोभेन समवेतार्थत्वं पूर्वपक्षवादी मन्यते ।
?R अत्र चोदयति - ?R?0युक्तं स्वार्थत्वं मान्त्रवर्णिकसवित्रादिदेवताकल्पनायां ?R?0सवित्रादिपदैः ?R?0तासामेवाभिधानात् । गौणकल्पनायां तु कथं ??R ?R?0यथाहि गौण्या वृत्त्या अग्निरेव सवित्रादिपदैः प्रत्याप्यते तदा कथं स्वार्थता ??R गौणो हि शब्दः परार्थ एव । उत्तरं - ?R?0अत्रापि स्वार्थः प्रयोग इति सिद्धं न शब्दान्तरार्थम् स्तुत्यर्थतया सवित्रादिपदानामुच्चारणम् । ?R?0किन्तु तान्येव देवतां प्रतिपादयन्तीति । तेन गौणपक्षेऽपि प्रयोगस्य स्वार्थत्वमेवेति सिद्धं स्वार्थत्वं पक्षद्वयेऽपि
?R?0 एवं प्राप्तेऽभिधीयते - नात्रैकापि कल्पना सम्भवति । पारार्थ्येनाप्येकवाक्यत्वावगमात् । ?R?0देवतान्तरकल्पना गौणकल्पना वा न सम्भवति । स्तुत्यर्थतयाप्येकवाक्यत्वावगमात् सर्वपदानां गम्यतामेकवाक्यता तथापि किमित्याह ?R?0गम्यमाने चैकवाक्यत्वे सिद्धं मन्त्रस्य समवेतार्थत्वमिति । ?R?0न प्रतिपदं समवेतार्थप्रतिपादकता लघ्वीति साक्षात्प्रतीयमानैकवाक्यता न शक्यतेऽपन्होतुम् । तद्व(शे)न पारार्थ्यमेव न्याय्यम् यथा स्योनं ते इत्यत्रानेकवाक्यतावगम्यते तदा तदनुप्रवेशसमवेतार्थभेदेन । तथाऽत्रापि भवतु इत्यत्राह - ?R?0विद्यमाने ह्यर्थे विभज्यमानसाकाङ्क्षत्वं न नामापेक्ष्यते । ?R?0कल्प्यमाने चार्थे प्रमाणाभावान्न तदपेक्षता शक्यते वक्तुम् । न हि क्लृप्तामेकवाक्यतां कल्प्योऽर्थभेदः शक्नोति वारयितुम् । स्योनं त इत्यत्र भेदो न कल्प्यः । भिद्यमानत्वात् सदनकरणपुरोडाशप्रतिष्ठापनयोः । अतः सिद्धं पारार्थ्येऽपि केषांचित्पदानां मन्त्रस्य समवेतार्थत्वम् ।
?R कथं पुनः सवित्रादिपदानां स्तुत्यर्थत्वमित्यत्राह - ?R?0पारार्थ्यं च दर्शितं भाष्यकारेण । ?R?0सवित्रादिपदानि यजमानपरत्वेन स्तुतौ वर्णितानि तत्र च पुनराशङ्कितं यदि यजमानपराण्येतानि एवं तर्हि यजमानाश्रय ऊहः प्राप्नोति । तत्र को हेतुरित्यत्राह - ?R?0यजमानपक्ष ऊहाशङ्का प्रसवबलात् । ?R?0प्रसवोऽनुज्ञा यजमान सम्बन्धिनी कीर्त्यत इति बहुयजमानप्रसवकीर्तनाय सवित्रादिपदे वचनोहः शङ्कितः
?R। ?R?0सा चोहशङ्काऽविवक्षायामपि प्रसवस्योपपद्यत एव प्रसवकीर्तनमिति नादृता ।?R?0 निराकृतेत्यर्थः । यदि विवक्षितता स्यात् तदा अन्यत्रापि कीर्तनार्थमूहः स्यात् । अविवक्षितत्वे तु नैतत्प्रकाशने प्रयोजनमस्तीत्यनूहः ।
?R?0 ॥ 12 ॥ गुणशब्दस्तथेति चेत् ॥ 38 ॥
?R?0 यदि सवित्रादयश्शब्दाः निर्वापैकवाक्यत्वादन्यार्थाः एवं तर्हि जुष्टाग्निशब्दावपि अन्यार्थावेव । ततश्चासमवेतार्थत्वं असमवेतार्थत्वे चानूहः । ?R?0अस्यार्थः - यद्यप्यग्निः समवेत एव कर्मणि तथापि यज्ञपतिं वर्धानितिवत् परार्थत्वात् मन्त्रेण समवेतत्वेन नाभिधीयते । परार्थता च निर्वापविशेषणत्वेनाभिधानात् । असमवेतार्थत्वे च यज्ञपतिशब्दवदनूहः ।
?R अत्र भाष्यकारोऽग्निशब्दस्यैवानूहमाह न जुष्टशब्दस्य । तत्र कारणं पृच्छति - किं पुनः कारणमग्निशब्दस्यैवानूहं ब्रवीति । न जुष्टशब्दस्यापि । ?R?0उत्तरं - समवेतार्थत्वेप्यसम्भवात् सिद्धान्ते पूर्वपक्षे च जुष्टशब्देनोहः ।?R?0 तेन विशेषाभावात् तस्यानूहो नोच्यते ।
?R ?R?0एवं प्राप्तेऽभिधीयते - ?R?0सत्यं निर्वापेणैकवाक्यत्वं तथापि देवता स्वार्थतयैव निर्वापामाक्षिपन्ती तेनैकवाक्यतां यातीति न पारार्थ्यं शक्यते वक्तुम् । निर्वापेण विना यागाभावात् देवता स्वार्थं निर्वापमाक्षिपतीति न परार्थोऽग्निः । अपारार्थ्ये च समवेतार्थत्वं समवेतार्थत्वे च विकृतावूह इति सिद्धम् । न च अजुष्टे जुष्टवचनमयुक्तं निर्वापेण जुष्टतेति । न प्राङ्निर्वापादजुष्टतेति परिहरति - ?R?0नैवेदमजुष्टेजुष्टवचनं ?R?0कार्यत्वेन जुष्टार्थावगमात् निर्वापेण जुष्टं करोमीति सम्बन्धः । न पुनः प्राङ्निर्वापात् जुष्टं सन्तं निर्वपामीति । यत एवमभिसम्बन्धः अतोऽयमाशंसायां भूतवच्चेत्यस्य विषयः कार्यस्याशंसनीयत्वात् ।
?R?0॥ एवं वा ॥
?R?0 अत्र मुख्ये गौणे वाऽभिधानेऽसम्भव इति किमदृष्टार्थो भवेदयं मन्त्रः धान्यमसीति तण्डुलावापे उत लक्षणयापि तावत् समवेतार्थतैव न्याय्येति चिन्त्यते - ?R?0धान्यशब्देन गौण्या वृत्त्या मुख्यया वा तण्डुलाभिधानासम्भवात् तण्डलावापे किमयमदृष्टार्थो भवेन्मन्त्रः उत धान्यसम्बन्धित्वा त्तण्डुलानां धान्यशब्दो लक्षणया तण्डुलान् प्रतिपादयतीति समवेतार्थ एवायं मन्त्रो भवत्विति चिन्ता ।
?R ?R?0तत्र पूर्वपक्षवादी प्रयोगस्यैदमर्थ्याभावात् अदृष्टार्थतां मन्यते । ?R?0अस्यार्थः - यदि लक्षणया धान्यशब्दः तण्डुलान् प्रतिपादयेत् तदा दृष्टार्थो भवेन्मन्त्रः लक्षणापि प्रयोगैदमर्थ्थज्ञाने सति भवति । न चात्र धान्यशब्दस्तण्डुलप्रतिपादनपरत्वेन प्रयुक्त इति प्रमाणमस्ति । तेन लक्षणानुपपत्तेरदृष्टार्थ एव मन्त्र इति ।
?R ?R?0कथं?R?0 पुनः प्रयोगैदमर्थ्यान्नावगम्यते दृष्टार्थतेत्यत्राह - ?R?0प्रयोगप्रधानो हि वाक्यार्थः तदभावे ?R?0अशाब्द्येव कार्यकल्पना प्राप्नोति । प्रयोगो हि वाक्यार्थावगमे प्रधानं कारणम् प्रयोगाभावे तण्डुलप्रकाशनं कार्यमिति शब्दशून्यैव कल्पना । न च विनियोगो नो (सो) पपद्यते अदृष्टेनापि द्वारेण तदुपपत्तेः । तस्माददृष्टार्थतैव । इदं चात्राभिप्रेतम् । विनियोगेन मन्त्रस्य तादर्थ्यमवसीयते न पदस्य । पदतात्पर्यमूला च लक्षणोपपत्तिरित्यभिधायकत्वेनोपयोगाभावात् अदृष्टेनैव द्वारेण विनियोगो मन्त्रस्येति ।
?R अत्राभिधीयते - नादृष्टार्थता सम्भवति । कस्मादित्यत्राह - ?R?0 न हि लक्षणा लोकवत्प्रतिपत्तिहेतुतया वारयितुं शक्यते । यथा शालयो भुज्यन्त इति ।?R?0 अस्यार्थः - यदि लक्षणा प्रतिपत्तिहेतुतया वारयितुं पार्यते तदा अदृष्टार्थता स्यात् । नचैतत्सम्भवति लक्षणाया अपि लोकव्यवहारे प्रतिपत्तिहेतुत्वेन दर्शनात् शालयो भुज्यन्त इतिवत् भवति लोके प्रतिपत्तिहेतुः । अत्र तु न सम्भवतीत्यत्राह ?R?0न च सम्भवन्त्यां लक्षणायां विनियोगोऽदृष्टकल्पनां सहते । ?R?0तस्माल्लक्षणया
?Rसमवेतार्थ एवायं मन्त्र इति युक्ता कल्पना ।
?R ?R?0ननु च प्रयोगाभावान्न पदव्यापारवत्तया लक्षणा शक्यते कल्पयितुं?R?0 विनियोगेन मन्त्रस्य तात्पर्यावगमो न पदस्य । तेन धान्यपदं लक्षणाव्यापारेण तण्डुलावगमकमिति न शक्यतेऽवगन्तुम् । पदव्यापारश्चात्र चिन्त्यते । कस्मादित्यत्राह - ?R?0पदव्यापाराश्रितश्चोहः सत्यपि वाक्यप्रयोजनत्वे समवेतप्रकाशनस्य । ?R?0यदि हि धान्यपदस्योप्यमानप्रतिपादनं व्यापार इत्यवगतं भवति तदा विकृतौ मांसस्योप्यमानस्य धान्यशब्देनावगमयितुमशक्यत्वात् मांसशब्द ऊह्यते नान्यथा । यत एव मन्त्रतात्पर्यमात्रेण पदव्यापारात्मिका लक्षणा न सिद्ध्यति ?R?0अत एव केचिल्लक्षणैवात्र विवक्षितेति मन्वानाः मृगोऽसीत्यूहं मन्वते । ?R?0अस्यार्थः - यावल्लक्षणापर्यन्तो विनियोगो न वर्ण्यते तावत् पदाश्रिता लक्षणा न सिद्ध्यति । तेन लाक्षणिकत्वं पदस्येच्छता एवं वक्तव्यम् - लक्षणयोप्यमानं वक्तव्यमिति विनियोगार्थ इति । ततश्च विकृतावपि मृगोऽसीत्यूहेन भवितव्यं न मांसमसीति । अथ तु लक्षणा न विवक्षिता तदा मन्त्रतात्पर्यावगमात् धिनोतीति धान्यमिति यौगिकधान्यशब्दाश्रयणेन तण्डुलप्रतिपादकत्वोपपत्तेः मांसेपि योगस्य सम्भवात् ऊहो न स्यात् । तदाह ।
?R ?R?0अनूहं वा मन्यते । कुतः ? ?Rअर्थवाददर्शनात् ।?R?0 धिनुहि देवानिति मन्त्रार्थवाददर्शनात् । भवत्वर्थवादः तथापि कथमनूह इत्याह - ?R?0धान्यशब्द प्रयोगसिद्धिस्तण्डुलेष्वर्थवादादेव । ?R?0अर्थवादगतदेवताधिन्वनयोगात् घान्यमिति तण्डुला उच्यन्ते तथा मांसमपि तेन प्रकृतिविकृत्योर्यौगिकत्वादनूहः ।
?R अत्रोच्यते - ?R?0मन्त्रप्रयोजनं समवेतप्रकाशनमित्युक्तं प्रथमेऽध्याये । अतस्तदेव तावत्प्रयोजनम् । ?R?0यत्पुनरपदव्यापारादूहो नोपपद्यत इति तदयुक्तम् कुत इत्याह - ?R?0लक्षणापि तदाश्रितैव गङ्गाघोषादिषु दर्शनात् । ?R?0अस्यार्थः मन्त्रस्य समवेतप्रकाशनं कार्यमिति प्रयोजनेऽवगते कथं तत्सिद्ध्यतीत्यपेक्षायां प्रतिपदं शक्तिविमर्शो भवति । तत्र तावत् धान्यपपदव्यतिरेकिणां पदानां (वा)(न)
?Rप्रकाशनसामर्थ्यमस्ति धान्यशब्दस्य तु लोकप्रसिद्धलक्षणावृत्त्याश्रयणेन उप्यमान तण्डुलप्रकाशनद्वारेणावापप्रतिपादकता सम्भवतीति तदाश्रिता लक्षणाऽऽश्रीयते ।
?R यस्मान्मन्त्रतात्पर्यानुसारेणेयं लक्षणा न पुनः लक्षणैव विवक्षिता तस्मान्नात्र लक्षणा विकृतौ, आत्मायत्तत्वात्प्रयोगस्य आर्षेण धान्यशब्देन लक्षणयापि मांसस्याभिधातुमशक्तेः तद्युक्तं तावत् पदान्तरं प्रक्षेप्तव्यम् । तत्र मुख्ये सम्भवति को नाम लाक्षणिकं प्रक्षिपेत् तदाहुः -
?R ‘?Rऋजुमार्गेण सिद्ध्यन्तं किऽर्थं वक्रेण साधयेत् ‘?R इति । आर्षे तु प्रयोगे किं क्रियताम् ??R तथैव प्रयोगे यस्यामपि विकृतौ धान्यशब्दो लक्षणया वर्णयितुं शक्यते तस्यामप्यनूह एव प्रकृताविव आर्षेणैवाभिधानसिद्धेः । नाप्ययं यौगिको धान्यशब्दः शक्यते रूढेरेव प्रयोजनसिद्धेः रूढ्या हि यौगिकत्वे परिहृते तदाश्रिता लक्षणैव श्रेयसी न यौगिकत्वम् । यत्र तु लक्षणयापि प्रयोजनासिद्धिः तत्र भवत्येव यौगिकाश्रयणम् कार्यप्रधानत्वान्मन्त्रार्थस्य यतोऽयं धान्यशब्दो न यौगिकः तस्मात् स्तुतिमात्रमर्थवादः, न तु शब्दप्रवृत्तये योगोपस्थापकः ।
?R ननु च धान्यशब्दस्य तण्डुलप्रतिपादनपरतया प्रयोग इत्यनवगमे कथं लक्षणेत्यत्राह - ?R?0न चात्र प्रयोगेण प्रयोजनम् । ?R?0कस्मादित्यत्राह - ?R?0समवेत प्रकाशने हि स इष्यते । ?R?0समवेतमर्थं पदं प्रकाशयतु इत्येतदर्थं प्रयोग इष्यते। तच्चान्येनापि प्रकारेण सिद्धम् । मन्त्रतात्पर्यावगमेनापि पूर्वोक्तरीत्या सिद्धमित्यत्र प्रयोगः । ?R?0यदि लाक्षणिकोऽपि मन्त्रेषु शब्दस्यार्थो गृह्यते गौणमुख्योपचारस्तर्हि मन्दप्रयोजनः स्यात् । ?R?0उत्तरं - ?R?0न मन्दप्रयोजनः, अवगतौ तुल्ययोजनत्वात् । ?R?0 गौणत्वमुख्यत्वावगत्यवस्थायां तुल्यं प्रयोजनम् । निमित्ते विशेष इत्युक्तं तृतीये । निमित्तावस्थांयां विशेषो मुख्यस्य निरपेक्षं निमित्तं गौणस्य मुख्यावगतिसापेक्षं सादृश्यमिति गौणमुख्ययोर्विशेषः । इममेव विशेषं दर्शयितुं गौणमुख्यविचारः । अनेन विशेषेण लिङ्गविनियोज्ये विशेषो न पुनर्गौणमुख्यविचारेणैतदुक्तम् मुख्य एवावगतिर्हेतुर्नान्य इति । तस्माल्लक्षणयापि
?Rसमवेतार्थत्वं मन्त्राणामिति सिद्धम् ।
?R?0 ॥ 13 ॥?R?0 ?R?0चोदिते तु परार्थत्वात् विधिवदविकारःस्यात् ॥ 40 ॥
?R?0 कथं पुनरिडोपहूतेति इडामुपह्वयस्वेति श्रुत्या विनियुक्तस्य मन्त्रस्य कार्यान्तरं यज्ञपतिवृद्धिप्रकाशनमाशङ्क्यते । ?R?0उत्तरं - ?R?0विनियोग एवात्र चिन्त्यते । किं यज्ञपतिं वर्धानितीडोपाह्वाने विनियुक्तं नेति । ?R?0अस्यार्थः प्रतीकेनायं श्रौतो विनियोगः । तत्र किं यज्ञपतिं वर्धानित्यपि इडोपाह्वाने विनियोगे सति चिन्ता ।
?R तत्र पूर्वपक्षी लिङ्गप्रकरणाभ्यां विनियोगान्तरं मन्यते । यज्ञपतित्वेन यजमानस्य वृद्धिविषयत्वेन यज्ञपतिं वर्धानिति तावत् प्रकरणपाठात् प्रकरणिनोऽङ्गम् । शक्नोति चेदं यज्ञपतिं वृद्धिविशिष्टं वक्तुम् । अस्ति च तादृशो यज्ञे । तत्प्रकाशनं च क्रतोरुपकारकं प्रोत्साहजननात् । तेन तत्रैवास्य विनियोगो भवति । ?R?0कथं पुनरुपक्रमोपसंहारयोरन्तर्निपतितं वाक्यान्तरं कल्पयितुं शक्यते परस्परसाकाङ्क्षत्वेन पदानामेकवाक्यत्वावगमात् ।
?R?0 ?R?0उत्तरं - ?R?0विनियोगवशान्मन्त्राणां यजुषि कल्पना । वाक्यत्वेन नान्यपदाकाङ्क्षया स्योनं ते सदनं इति प्रदर्शितम् - ?R?0अस्यार्थः - यजुषि या मन्त्राणां वाक्यत्वेन कल्पने यदेकं वाक्यमिति सा विनियोगवशात् यावतामेकत्र विनियोगः पदानां तावतामेकार्थत्वं एकार्थत्वे चैकवाक्यत्वं न पुनरन्यपदापेक्षया वाक्यत्वकल्पना । यावन्ति परस्परापेक्षणीयपदानि तावन्त्येकं वाक्यमिति सैषा कल्पना । यथा स्योनं ते इत्यत्र सत्यपि साकाङ्क्षत्वे विनियोगभेदाद्भिन्नवाक्यत्वं तथेहापि विनियोगवशात् मन्त्रवाक्यभेदः तस्माद्विभागः विभागात् कार्यभेदः कार्यभेदाच्चोहभेदः यजमानद्वित्वे बहुत्वे चोहोऽन्यथा चानूहो जज्ञपतिशब्दे परिशिष्टभागे इडाभेदे नोहभेदः .
?R ?R?0एवं प्राप्ते अभिधीयते - स्यादेतदेवं यदि विनियोगान्तरं
?R?0यजमानवृद्धिविषयं स्यात् । इह तु कल्प्यम् । न च कल्प्योऽर्थः सिद्धस्यार्थस्याविवक्षायां हेतुर्भवति । ?R?0अस्यार्थः - उपक्रमोपसंहाराभ्यां इह तावत् यज्ञपतिं वर्धानित्यस्य पदनिबन्धनैकवाक्याऽवगम्यते इडोपह्वाने च श्रुत्या उपक्रमोपसंहारौ विनियुक्तौ । तदेकवाक्यतया तस्यापि तत्रैव विनियोगः प्रतीयते । यज्ञपतिवृद्धौ तु लिङ्गेन विनियोगः कल्प्यः । न च क्लृप्तः कल्प्येन बाधितुं शक्यते । तस्मान्मन्त्रत एव मन्त्रमेवालोच्य यदेकवाक्यत्वमवगम्यते तदेव यजुष एकवाक्यत्वे हेतुः । यत्स्योनं त इत्युक्तं तत्र प्रकरणेन विनियोगे सति लिङ्गेनैव यजुषो विभागो भेदेन सम्बन्धः । सदनकरणे प्रतिष्ठापने च लिङ्गेन विनियोगः । अतो युक्तमेतत् पदाकाङ्क्षानिरपेक्षं यजुषो द्वित्वं परिकल्प्यते । इह पुनः लिङ्गं प्रकरणं च श्रौत एव विनियोग उपपद्यत इति सिद्धं पारार्थ्यं इडोपाह्वानपरत्वं च । ततश्चनूहः । केनापि यजमानेनोपलक्षणसिद्धेः विधिवत् । यज्ञमान सम्मितौदुम्बरीत्येकेनापि सम्माने कृतार्थमिति प्रदर्शितं भाष्ये ॥
?R?0 ॥ 14 ॥ विकारस्तत्प्रधाने स्यात् ॥ 41 ॥
?R?0 ननु सूक्तवाकाधिकरणे फलमिदं आयुराशासनं आशास्यमानमायुः फलमित्युक्तम् । तेनात्र फलभागितया न परार्थो यजमान इति कथमत्र पूर्वपक्षःक्रियते ।
?R?0 ?R?0समाधत्ते - ?R?0सत्यं फलमिदं, नतु यजमानेन सम्बध्यमानस्यास्य कश्चिद्विशेषो विद्यते ।?R?0 फलमप्येतद्यजमानेन सम्बध्यमानं न गुणतया सम्बध्यते तेन कत यज्ञपतिमित्यनेन न कश्चिद्विशेषः यस्मात् नावश्यं फलवत्त्वाय यजमानेनायुराशासनं विशेषणीयं कर्तृतयैव फलमभिसम्बध्यते तथापि मन्त्रार्थोपपत्तेः । न च फलबता फलं प्रति प्रधानभूतेनायुराशासनं विशेषणीयं केवलं कर्तृतयैवाशासनान्वयेऽपि मन्त्रवाक्यस्यार्थोपपत्तेः । ?R?0अतो यजमानसम्मितौदुम्बरीवदिति नान्यो यजमानो नापि फलवत्तयेत्यसमवेतं
?R?0मन्यते । ?R?0यथा यजमानसम्मितौदुम्बरी भवतीत्यत्र अन्यो यजमानो न गृह्यते । न च फलितयैव सम्यध्यते, किन्तु कर्तृतयैव तथेहापि ।?R?0 तेन समवेतस्यापि यजमानस्य परार्थत्वेनाभिधानान्न समवेतार्थत्वं मन्त्रस्य । ?R?0ततश्चानूहो यज्ञपतिशब्दवत्
?R ?R?0अत्रोच्यते - अवश्यमत्र फलितैवाशासनहेतुरिति मन्तव्यम् । ?R?0अस्यार्थः - फलभागितैवाशासनहेतुः कतेन यद्यपि आशासने कर्तृत्वं तथापि फलभागितया प्राधान्यादपारार्थ्यमित्यूहार्हम् । ?R?0कुतः फलभागितैव आशासनहेतुः ?R?0उत्तरं - ?R?0यत्र हि अन्यतः फलावगमः तत्र कर्तृतयापि मन्त्रार्थ उपपद्यत इत्युक्तम् । इह तु मन्त्रादेव फलकल्पना । स चेत् फलवत्तया तन सम्बध्यते ?R?0मन्त्रश्चेत् फलवत्तां न बोधयति ततो मन्त्रात् फलकल्पनैव विहन्येत । तद्विधाते च हरतौ मन्त्रस्याङ्गत्वं नोपपद्यत इत्युक्तं तृतीये। मन्त्रो हि फलप्रकाशनेन कर्मण्यङ्गतां याति । अफलत्वे तु किं बोधयन् अङ्गतामियात् । तस्मादपरार्थत्वाद्यजमानस्य समवेतस्य प्रकाशनं ततश्चोहसिद्धिः ।
?R?0 ॥ 15 ॥?R?0 ?R?0असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत ॥ 42 ॥
?R?0 ?R?0अग्नेयी सुब्रह्मण्येत्यत्र चिन्त्यते - किं
हरिवदादयोऽप्यत्रोहितव्या नेति । तदर्थमिदं चिन्त्यते - समवेतार्था हरिवदादयशब्दाः उतासमवेतार्थाः
?R ?R?0कथं पुनः समवेतार्थाः कथमसमवेतार्थाः ? ?R?0उत्तरं - ?R?0यदीन्द्रस्य द्रव्यस्य स्वरूपं प्रकाशयन्ति तदा समवेतार्थाः । ?R?0यदि दर्भैस्तृणीत हरितैरितिवत् गुणाभिधानद्वारेणेन्द्र एव प्रकाश्यते ततः समवेतेन्द्रप्रकाशकत्वात् समवेतार्थत्वम् ।?R?0 अथ स्तुतिं कुर्वन्ति ततो न समवेतार्थाः ?R?0यदि हरिवत्तादिकं इन्द्रं स्तोतुमुच्यते तदाऽसमवेतार्थाः ।
?R ?R?0तत्र राद्धान्तवादी स्तुतिमेव न्याय्यां मन्यते स्तुत्यैव निगदार्थोपपत्तेः । ?R?0इतरथा हि गुणपरत्वेन लक्षणा स्यात् । राद्धान्तोपक्रमो व्याख्यातः ।
?R ?R?0पूर्वपक्ष्याशङ्का पुनः अर्थवादात् तत्स्वरूपावगत्यर्थो निगद इति बुद्धिरुत्पद्यते ।?R?0 इन्द्रस्वरूपप्रतिपत्त्यर्थोऽयं निगदः । कथं पुनः हरिवत्तादयः इन्द्रमुपलक्षयितुं क्षमाः न हि तेषामिन्द्रसम्बन्धोऽवगतः यथा हरितस्य दर्भसम्बन्ध इति ।
?R ?R?0अत्रोच्यते - अर्थवादात् गुणसम्बन्धावगमात् भवतीन्द्रस्वरूपावगतिः । ?R?0कः पुनरसावर्थवाद इत्याह - ?R?0पूर्वापरपक्षाविति दर्शितम् ।
?R?0 राद्धान्तस्तु अर्थवादोऽपि तावत् स्तुत्यैवोपपद्यते स्वरूपपरत्वेऽर्थवादतैव हीयेत । ?R?0योऽयमर्थवादः इन्द्रसम्बन्धिहरिवत्तादिप्रतिपादनपरः सोऽपि तावत् स्तुत्यैवान्वये सति अर्थवादो भवति । यदि प्रतीयमानर्थस्वरूपपरो भवति तदा अर्थवादतैव हीयते । .यस्मात् स्तुत्यर्थेन विधीनामित्यर्थवादत्वमुक्तम् । यदि चेद वस्तु यथाप्रतीयमानमेवाश्रीयते तदा आदिमत्ता स्यात् काण्वायनाद्यर्थप्रतिपादकत्वात् आदिमत्ताप्रसङ्गश्च वेदस्य स्यात् । तस्मादयमर्थो यथाश्रुतो न ग्राह्यः ।
?R एवं तावदिन्द्रस्यैवंरूपता नास्तीत्युक्तमभ्युपगम्याह - ?R?0तस्माद्यद्यपीन्द्रः एवं स्वरूपः तथापि हरिवत्तादयः स्तुत्यर्था एवमु(यु)क्ताः । श्रुतिस्ताभ्यां हीदं हरतीति चोपपद्यते । ?R?0इन्द्रस्य हरिवत्तां प्रति ताभ्यां हीदं सर्वं हरतीत्युपपत्तिर्युक्तिरुच्यते । तेन हरिवत्तैव युक्त्या प्रतिपाद्यत इति ज्ञायते । एवं चाभ्युपगम्यवादमात्रं मूलयुक्तिमाह । यत्र पुनः स्वरूपेपि प्रमाणाभावः तत्र किमन्यदतः स्तुतेः । यथा च स्वरूपप्रतिपत्तये नालमर्थवादः तथा व्याख्यातं भाष्ये । तस्मात् हरिवदादीनां नोहोऽसमवेतार्थाभिधानात् ।
?R अत्र भाष्यकारेणानूहं दर्शयित्वा उक्तं - “?R?0तत्त्वेतन्न रोचयन्ते ?R?0याज्ञिकाः”?R इति । तदाक्षिपति - ?R?0न रोचयन्ते इति कथने किं प्रयोजनं सिद्धान्तानुपयोगात् । याज्ञिकानुष्ठानविरोधेन च प्रत्युत क्षतिहेतुत्वात् ।
?R?0 ?R?0समाधत्ते - ?R?0एवं वचनार्थेषु व्यामोह उप?R?0पद्यते । अतो विप्रतिपत्तौ
?Rजिज्ञासेयमित्यरुचिप्रदर्शनेन याज्ञिकानां वचनार्थेषु व्यामोहोऽस्तीत्युच्यते । अतो विप्रतिपत्तौ जिज्ञासेयं क्रियत इति ।
?R निगदान्तरविधाने तु न दोषः । अथवा यज्ञिकानामरुचिप्रदर्शनेन निगदान्तरमेव आग्नेयी सुब्रह्मण्येत्यत्रास्तीति प्रदर्शयति । तेन न कश्चिद्दोषो न्यायस्य ।
?R?0 ॥ 16 ॥?R?0 ?R?0असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत ॥ 16 ॥
?R?0 ?R?0अथेदमन्यदुदाह्नियते -?R?0 नन्वत्र समवेतत्वेपि गुणानां मन्त्रस्य स्तुत्यर्थतैव न्याय्या श्रुतेः । न च स्तुत्यर्थत्वेऽदृष्टार्थत्वं, प्ररोचनया दृष्टार्थत्वोपपत्तेः । ?R?0सोमविक्रयिणो ह्येकहायनीस्तुतौ प्ररोचना जायत एवेति दृष्टार्थत्वम् । स्वरूपे पुनरभिधेयेऽङ्गीक्रियमाणे एकहायनीमात्रस्य चोदितत्वात् अचोदितस्वरूपाभिधानेऽदृष्टं कल्पनीयम् । तस्मात् पूर्वपक्ष एव नोपपद्यते । पूर्वेणैवाधिकरणेन गतार्थत्वात् ।
?R ?R?0अत्रोच्यते - अयमभिप्रायः पूर्वपक्षवादिनः सम्भवति । ?R?0एकाहायनीस्वरूपापह्नवः शक्यते कल्पयितुम् । ननु अदृष्टार्थमेकहायनीस्वरूपपरत्वमित्यत्राह - ?R?0यथाप्रतिपन्नस्य च प्रयोजनकल्पना । ?R?0यथाभूतं वस्तु प्रतीयते य (त) थाभूतस्य प्रयोजनं कल्प्यं न पुनः प्रयोजनवशात् अर्थप्रतिपत्तिः । तेन यदि दृष्टं नास्ति भवत्वदृष्टं, किन्त्वत्र दृष्टमप्यस्तीत्याह - ?R?0भवति च स्वरूपादपि प्ररोचनेत्यदृष्टकल्पनापि परिहृतैव सुतरां स्वरूपावगमे विक्रेतुर्भवति प्ररोचनेति ।
?R?0 ?R?0अत्र चोदयति - ?R?0स्तुतावपि प्ररोचना । स्वरूपावगमे पुनः गौरवादरः किंकृतः । ?R?0परिहरति - ?R?0अनन्यव्यापारताकृतः । ?R?0न हि स्वरूपपरत्वे सम्भवति परार्थकल्पना आत्मानं लभते । स्वरूपावगमपक्षे हि तस्यै श्रुतमित्यादिपदानां स्वरूपपरत्वम् । स्तुतौ परार्थस्तुतिपरत्वम् । न चैतन्न्याय्यम् ।
?Rस्वार्थपरत्वसम्भवात् । तस्मात्पूर्वेण वैषम्यम् प्रमाणानवगमादिन्द्रस्वरूपस्य । इह तु प्रमाणान्तरेण स्वरूपावगमात् गुणिप्रतिपत्त्यर्थं हि गुणवचनं इत्ययूह एव न्याय्यः ।
?R ?R?0राद्धान्तस्तु - निगदप्रयोगकाले एकहायनीदशायां नेदं स्वरूपमेकहायन्याः । ?R?0तेन स्तुत्यर्थमेवासदप्यारोपणम् । ?R?0भाविनीं प्रवृत्तिमङ्गीकृत्योच्यत इति चेत् । ?R?0दूषयति - ?R?0न प्रयोगाङ्गत्वेन स्वरूपप्रतिपत्तिरुत्पादिता ?R?0स्यात् भावित्वावस्थायाः प्रयोगनङ्गत्वात् । अप्रयोगाङ्गत्वेपि स्वरूपप्रतिपत्तिः स्तुतये भविष्यतीति चेत् । दूषयति - ?R?0स्तुत्यर्थत्वं प्रतिपन्नं, ?R?0तर्हि निगदस्य सिद्धमसमवेताभिधानम् ।
?R ननु साण्डस्य निरालम्बना स्तुतिरिति नोपपद्यते इत्याह - ?R?0उपपद्यते च साण्डस्यापि स्तुतिः गर्भाधानमुखेन श्रुताद्युत्पत्तिलक्षणगुणयोगः ?R?0इह स्तुतिरुपपन्नेति हेतोरविकारोऽनूह इत्यर्थः ।
?R?0॥ 17 ॥ लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सरस्वती स्त्रीत्वात् ॥45॥
?R?0 ननु चात्र प्रातिपदिकार्थस्यैव प्रधानत्वात् नैव लिङ्गवचनानुरोधेन सङ्कोच उपपद्यते समानविधानेपि पाशस्येव । ?R?0यथा पाशस्य प्राधान्यान्नोत्कर्षो मन्त्रस्य । तस्मात् पूर्वपक्ष एवात्र ज्यायानिति ।
?R ?R?0अत्रोच्यते - स्यादेतदेवं यदि लिङ्गाद्वचनाच्च निष्कृष्टान्तरं सर्वनाम शब्देनाभिधीयते । ?R?0अस्यार्थः - सन्निहितवचनत्वात् सर्वनाम्नां यादृशं सन्निहितं तादृशमेवाभिधीयते । लिङ्गवचनयुक्तं च सन्निहितमिति तथाभूतमेव प्रातिपदिकेनाप्यभिधीयते इति विशिष्टविषयत्वात् प्रातिपदिकस्यैव विशिष्टे विनियोगः । पाशे पुनर्युक्तं पाशमात्राभिधानात् ।
?R ?R?0नन्वत्रापि सर्वनाम्ना वचनविनियुक्तेन विभक्तिरहितेन सन्निहितमात्रं
?R?0सङ्ख्यालिङ्गवियुक्तमुच्यते यद्वस्तुवृत्तेन सङ्ख्यावल्लिङ्गवच्च ।?R?0 एतदुक्तं?R?0 ?R?0भवति यद्यपि सन्निहितस्य वस्तुनः सङ्ख्यालिङ्गे स्तः तथापि सर्वनाममात्रेण विभक्तिरहितेन पशुत्वमेवोच्यते विभक्त्या तु सङ्ख्यालिङ्गयोरभिधानम् । तेन प्रातिपदिकेन मेष्या अपि सन्निहितत्वादभिधानं शक्यते कर्तुम् । प्रातिपदिकं च लिङ्गाद्वलीयः । तस्मात् प्रातिपदिकार्थ एवानेन मन्त्रेणाभिधीयत इति लिङ्गवचनानुरोधेन सङ्कोचो युक्तः ।
?R ?R?0एवं प्राप्तेऽभिधीयते - सत्यमेव सङ्ख्यावल्लिङ्गवच्च यत्तदेवाभिधीयते सर्वनाम्ना । ?R?0ननु सङ्ख्यालिङ्गविभक्तिभिश्च सङ्ख्याऽभिधीयते टाबादिभिश्च स्रीत्वं तथापि त्वत्र (किं) लिङ्गवदिति चिन्तायां सन्निधानाद्व्यक्तिरेव प्रतीयते न पुनः पशुत्वम् । ?R?0व्यक्तिश्चेत् सर्वनाम्ना प्रतीयते न लिङ्गवचनवियुक्ता शक्यते प्रतिपत्तुं, तस्यास्तद्युक्तत्वात् पाशवत् पशुत्ववच्च । ?R?0यथा पाशत्वं पाशुप्रातिपदिकेन सङ्ख्यालिङ्गरहितं वक्तुं शक्यते एवं पशुत्ववच्च, यथा पशुत्वं पशुप्रातिपदिकेन व्यक्तिमात्रं लिङ्गसङ्ख्यावियुक्तं साक्षाच्छब्देन सन्निधापितं प्रास्मै पशवे अग्निं भरत इत्येवंविधे वाक्ये प्रत्येतुं शक्यते तथा व्यक्तिर्न शक्यते ।
?R ?R?0ननु व्यक्तिमात्रं सङ्ख्यालिङ्गयोराश्रयभूतं प्रतीयतां तस्यापि सन्निहितत्वात् । ?R?0परिहरति - ?R?0केयं व्यक्तिमात्रता नाम या सर्वनाम्नोच्यते । ?R?0उत्तरं - ?R?0सन्निधानाविशेषात् सन्निहितव्यक्तिमात्रं प्रतीयतामिति । ?R?0या व्यक्तिर्लिङ्गसङ्ख्यान्विता तस्याः स्वरूपमपि सन्निहितं, तेन स्वरूपस्यापि सन्निधानाविशेषात् भवत्येव सर्वनाम्नाऽभिधानमिति राद्धान्ती वदति । ?R?0सन्निहितं चेत्सामान्यं न तत् सर्वनामप्रातिपदिकाभिधेयम् सन्निहितवचनत्वात् सर्वनाम्नाम् ?R?0सन्निहितमात्रं यदि सामान्यं तदा सर्वनाम्ना न शक्यते वक्तुं सामान्यस्य वास्तवसन्निधानाभावात् । व्यक्तिरेव हि वास्तवेन सन्निधानेन सन्निहिता भवति । सामान्यं तु शब्देन सन्निधाप्यते । यदीत्यसंशयेपि संशयवचनम् । तस्मात् विभागशः प्रातिपदिकेनाश्रयमात्रं विभक्त्या सङ्ख्या लिङ्गमिति विभक्त्यर्थो न शक्यतेऽनवगन्तुं ऋते पशुशब्दसामानाधिकरण्यात् । तच्च नास्ति । अतः
?Rसकलप्रातिपदिकार्थावगतेः संविभक्तिकप्रातिपदिकार्थावगतिरेव सन्निधानोपाधिनान्वेति । वाक्ये सलिङ्गसङ्ख्याव्यक्तिः सन्निधानोपाधिना इदंशब्देनाभिधीयमाना अस्य वाक्यस्यार्थः । अतो न स्रीलिङ्गयुक्तं द्रव्यमात्रं वाक्यार्थेऽन्विततया शक्यते प्रतिपत्तुमित्यनिमित्तमपदार्थः सारस्वती । अनिमित्तत्वे चापदार्थत्वे च तादर्थ्यं मन्त्रस्य । तस्माद्युक्तमेव स्रीत्वात् सारस्वती अध्रिगुवचनमप्राप्तेति । तार्तीयपश्वधिकरणपूर्वपक्षप्रयोजनविचारोऽयमित्युक्तं भाष्ये । तेन प्रयोजनं न वक्तव्यम् ।
?R?0॥ 18 ॥ आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् ॥ 50 ॥
?R?0 केयं वाधचिन्ता अप्राप्तिचिन्ता वा ??R। ?R?0अनेनासङ्गतिमाशङ्कते । यदि इरापदेन गिरापदं प्राप्तमेव बाध्यते इति तदा दाशमिकी चिन्ता । अथेरापद विनियोगे सति गिरापदस्य प्राप्तिरेवनास्तीति चिन्त्यते तदा प्राप्तिचिन्तेयं तृतीये सङ्गता विनियोगाभावरूपत्वात् । उभयं चैतन्नोपपद्यते ऊहलक्षणे । समाधत्ते - ?R?0सत्यमेव बाधप्राप्तिचिन्तेहलक्षणे न सङ्गतेति कार्यार्थत्वे तच्छास्रं न प्राप्त्यर्थं इतीहैव चिन्तोपपद्यते । ?R?0अस्यार्थः - गिरापदकार्ये गुणवचन इरापदमनेन शास्रेण विधीयते ऐरं कृत्वोद्गेयमिति । न पुनः साम्नि इरापदप्राप्त्यर्थम् । ततश्च यज्ञायज्ञीये सान्नि स्तुतिरूपं कार्थं कर्तुं प्रवृत्ते गिरापदेन विना कर्तृमशक्तेः गिरापदे आक्षिप्यमाणे एव तत्कार्थे इरापदनियमात् तदेवोपादीयते । तेन कार्यवशेने रापदयुक्तसामप्रयोगो विकृत इत्यूहलक्षण एवायं चिन्तोपपद्यते । स्तुतिलक्षणकार्यादेव हि गिरापदं प्राप्नोति नोपदेशात् न गिरापदं साम्न्युपदिष्टं तेनेरापदमपि नोपदिश्यते । किन्तु तदपि कार्यादेवोह्यते ।
?R ?R?0ननु सामोपदेशादृगपि उपदिष्टैवेत्युपदेशादेव प्राप्तिः । ?R?0माम्नः स्तुतावुपदेशात् ऋचा विना तदशक्तेः सामाप्युपदिष्टैव(ष्टमेव) परिहरति ?R?0नर्च उपदेशस्सम्भवति प्राधान्यादक्षराणाम् । नहि प्रधानं गुणं प्रत्युपदिश्यते ।
?R?0 ?R?0कथं पुनः?R?0 ?R?0स्तुतिनिर्वृत्तिरित्याह - ?R?0माणवकवदेतद्भविष्यतीति वक्ष्यामः ?R?0। यथा आचार्यकरणविधिना उपनयमङ्गभूतं प्रयुञ्जानेन माणवकः प्रयुज्यते तथा ऋगपि स्तुत्या स्वसाधनं साम गुणकर्मभूतमाक्षिपत्येवेति वक्ष्यामः । तस्मान् कार्यत एव प्राप्तिः ऋचः पदानां चेतीहैव चिन्तनीयम् ।
?R ?R?0ननु कार्यतोऽपि प्राप्तौ बाध एवायं अप्राप्तिर्वा, ?R?0परिहरति - ?R?0अप्राप्तिर्हि अपदेशविषया । प्राप्तिविषयश्च बाध इति नोभयमप्यस्ति । ?R?0विनियोगो हि उपदेशविषयस्तृतीये चिन्तितः । अप्राप्तस्य च बाधो दशमे । इह तूपदेशो नास्ति नापि प्राप्तिरस्तीति । कस्मादुपदेशो नास्तीत्याह - ?R?0न चाक्षराणि स्तुतावुपदिश्यन्त इत्युक्तम् ।
?R नन्विरापदोपदेशे कथं गिरापदस्य प्राप्तिरिति पूर्वपक्ष इत्यत्राह - अत्र पूर्व ?R?0पक्षो न कार्यं साम (म्नः)स्तुतेः पृथग्भूतं (इ)ष्टमस्तीति । ?R?0इरापदं हि कार्यं (र्ये) विधेयं, कार्यं च स्तुतेरन्यदिह नास्ति तत्र सामविधानान्नैव पदोपदेशावकाशोऽस्ति। तेनेरापदस्य गिरापदस्य चोपदेशाभावात् तुल्यत्वं तुल्यत्वे च विकल्पः ।
?R कस्मात् पुनस्तुतावविधानमित्याह - ?R?0सामसाध्यं हि कार्यमुच्यते। तच्चा सामविरुद्धम् । ?R?0तथापि कथं विकल्प इत्याह - ?R?0न गिरापदस्यापि तदपहतुंशक्यत इति विकल्पः ।
?R?0 अत्रोच्यते - सत्यमेवं साम्नैव स्तुतिः कार्या । तथापि गिरापदं नैवात्र भवितुमर्हति नियतत्वादिरापदस्य । क्व पुनरयं नियमः??R स्तुत्यभिधान इति ब्रूमः । ?R?0स्तुतिरूपे गुणाभिधाने अयं नियमः इरापदेनैव गुणाभिधानं कुर्यादिति । ?R?0नन्वेतदचोदितं स्तुतावित्युक्तम् । ?R?0अस्यार्थः - यद्यक्षरैः गुणाभिधानं कार्यमिति चोदितं स्यात् तदा तत्राक्षरविशेषनियम उच्यते । नचैतदस्ति सामसाध्यत्वात् स्तुतेरित्युक्तम् ।
?R परिहरति - ?R?0सत्यमचोदितं नियोगानुप्रवेशादादरणीयमिरापदविधौ ।
?Rअस्यार्थः - यद्यपि साम्नःस्तुतावुपदेशः तथाप्यार्थमक्षराणां साधनत्वं न शक्यतेऽपह्नोतुम् । तच्च नियमविधावाद्रियते, तस्यापि नियोगानुप्रवेशात् । अतोऽर्थप्राप्तसाधनभावाश्रयणेन नियमोऽयं क्रियते व्रतवत् । यथा पयोव्रतं ब्राह्मणस्येति अर्थप्राप्तशरीरधारणाश्रयणेन पयोनियमस्तथेहापि । अतो न विकल्पः । इरापदस्याङ्गत्वात् तस्यैवोपादानं तेन विना स्तुतिविनियोगासिद्धेः ।
?R ?R?0यत्पुनरिदं ?R?0भाष्यकारेण क्व तर्हि सामान्योपदिष्टं भविष्यतीति चोदितं, तथा साप्तदश्यवद्विकृतिषु गिरापदस्याङ्गत्वात् तस्यैवोपादानं तेन विकृतौ निवेक्ष्यत इति परिहृतम् । ?R?0तदयुक्तमिव प्रतिभाति । ?R?0कस्मादयुक्तं??R ?R?0उपदेशाद्विकृताविति च । ?R?0यस्मात्सामान्योपदिष्टविधान उपदेश आश्रितः स च नास्तीत्तुक्तम् तथा विकृताविति यदुक्तं तदप्ययुक्तम् । कथमयुक्ततेत्याह (न्याहृत)?R?0 तत्परिसामादिषु नोपपद्यते?R?0 परिसामादीनां विकृतित्वाभावात् विकृतौ निवेशो भविष्यतीत्येतत्तावत् परिसामाद्यभिप्रायं नोपपद्यते तेषां विकृतित्वाभावात् । क्रत्वन्तरे पुनःसोमविकारे?R?0 ?R?0कार्यतः करणोपकारतःस्तुतेः प्राप्तत्वात् तत्रैव इरापदनियमादिरापदमेव । तेन नास्ति गिरापदानुप्रवेशः
?R ?R?0अत्रोच्यते - सामावान्तरकार्यमङ्गीकृत्यैतदुक्तम् । ?R?0साम्नो हि स्तुतिः परमकार्यं, अवान्तरकार्यं तु परिसामादिकार्यमभिप्रेत्य विकृतावर्थवदित्युक्तं भवति । भवति च स्तुतेः परिसामादिकार्यं क्रत्वन्तर्भूतं तेनात्र विहितमिरापदं परिसामकार्ये न प्राप्नोति अतस्तत्रार्थवत्ता भविष्यतीति सूक्तम् ।
?R ?R?0कथमुपदेशः समर्थनीय ?R?0इति चोद्यानुभाषणम् । सामत एव सामोपदेशेन य आक्षेपः स उपदेशोऽभिमतः । नन्वेवमपि परिसामादिषु विकृतिशब्दः कथमित्यत्राह - ?R?0विकृतिशब्दश्चान्यत्वाभिप्रायः । ?R?0अन्यत्रार्थवत्ता भविष्यतीत्यभिप्रायः ।
?R?0॥ 19 ॥ अप्रगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् ॥ 54 ॥
?R?0 कथं पुनरत्र संशयः ? ?Rयावता अप्रगीतस्य स्तुतिसाधनत्वानुपपत्तेः प्रगाणेनैव भवितव्यम् । ?R?0उत्तरं - ?R?0तद्धितनिर्देशादेव । ?R?0एतदेव विवृणोति ?R?0पूर्वपक्षवादिनोऽभिप्रायः अविकृतादिरापदादयं तद्धितः मतौ छः ?R?0सूक्तसाम्नोः इत्यस्मिन्नधिकारे विमुक्तादिभ्योऽण् इति मत्वर्थे सामविषयेऽण्प्रत्ययोऽयम् । स चाविकृतादिरापदात् । तस्मादविकृतमेवेदमिरापदम् । यदि हि विकृतं प्रयुज्यते तदा विकारानुरूपस्तद्धितः स्यात् । विकारे सति आ इरा इतिशब्दरूपं, तत्तु विमुक्तादिषु न पठितमिति मतौ छ इति छ एव स्यात् । न चासावस्ति । तस्मादविकृतमिरापदं प्रयोक्तव्यमिति ।
?R?0 कःपुनरत्र तद्धितार्थः । ?R?0 पृच्छतश्चायमाशयः विकारार्थ एवायं तद्धितः । गानरूपश्च विकारः प्राप्त एवानूद्यत इति । उत्तरं - ?R?0हरापदयुक्तं गानं कर्तव्यं ?R?0मत्वर्थेऽयम(य)ण्प्रत्यय इत्यर्थः । तस्य प्रतिपदोक्तत्वात् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ।
?R ?R?0ननु चाप्रगीतत्वाद्योग एव गानयोग एव न सम्भवति । ?R?0परिहरति ?R?0सम्भवति तद्योगः, तत्कार्यकरणत्वादिति । ?R?0अयमभिप्रायः - सामकार्यकरणत्वात्तस्य भवति साम्नस्तत्सम्बन्धित्वं तस्मादप्रगीतोपदेशोऽयं तद्धितान्तोपदेशेन ज्ञातः । ?R?0राद्धान्तवादिनोऽपि तद्धितनिर्देशादेव स्वरूपमात्रोपदेशानवगतिः । ?R?0अस्यार्थः नायं विमुक्तादित्वात्तद्धितः । किन्तु तस्य विकार इति । यथा चैवं तथाऽत्र वक्ष्यामः । विकारतद्धितेऽस्मिन् स्वरूपमात्रोपदेशो नावगम्यते । गानप्रत्याख्यानेन स्वरूपमात्रोपदेशो नावगम्यते । ?R?0कोऽभिप्राय ?R?0इति पृच्छतोऽयमभिप्रायः - भवतु विकारतद्धितः तथापि अप्रगाणरूपो विकारो विधायिष्यत इति ।
?R उत्तरं ?R?0विकारविधाने हि स्वरूपविधानानुपपत्तिः विकारस्य स्वरूपस्य च विधाने वाक्यभेदप्रसङ्गात् । ?R?0भवतु तर्हि विकारमात्रविधानं इत्यत्राह ?R?0न चाविहिते स्वरूपे विकारमात्रविधानमुपपद्यते । ?R?0निराश्रयस्य तस्यानुपपत्तेः । न
?Rच वाच्यमौपादानिकः स्वरूपविधिर्भविष्यति इरापदविकारो हि असतीरापदोपदेशे नोपपद्यत इति अर्थादिरापदाक्षेप इत्यवश्याश्रयणीयप्रथमोपनिपातिस्वरूपविधिनैव विधेरुपपत्तेः विकारस्य गीतिस्वरूपस्य अर्थप्राप्तानुवादसम्भवात् । तस्माद्विकारस्यायमनुवादः । स्वरूपमात्रं तु विधीयते ।
?R ?R?0केन पुनः प्राप्तस्यानुवादः??R कार्यत एव । ?R?0 न ह्यविकृतं साम्नः कार्यकरं भवति । कार्यं हीरापदं विहितम् । कथं च तत्सामकार्ये भवति यदि प्रगीताक्षरकार्यं भवति । तस्मात् कार्यत एव गानं प्राप्तमनूद्यते ।
?R कस्मात् पुनः अविकारतद्धितोऽयं उक्तमेतत् विमुक्तादित्वादयं तद्धित इत्यत्राह - ?R?0वचनसंयोगाच्च नार्थान्तरे तद्धित आशङ्कनीयः । न ?R?0गिरागिरेति ब्रूयात् इति प्रक्रमात् वचनमुच्चारणमवगम्यते । तेनेरावचनमिति वचनसम्बन्धान्न विमुक्तादितद्धितोऽयम् । साम्नि विषये हि स तद्धितः । न चेरापदोच्चारणमात्रं साम, किं तर्हि ??R सामावयवः । यच्चोच्चारणं गीतात्मकं भवति तच्छब्दविकारात्म कमिति विकारतद्धित एवायम् । तस्माद्विकारानुवाद एवायम् । यतोऽयं स्वरूपमात्रोपदेशों न गीतिप्रख्यातं अत एवाविकृतात् तद्धितोत्पत्तिरदोषः । प्रत्युत विकृतात्तद्धितोत्पत्तिरेव दोषः विकृतस्य विकाराभावात् ।
?R ?R?0अथ विशिष्टविधानं कस्मान्न भवति ?R?0अप्रगाणरूपविकारविशिष्टमिरापदं कस्मान्न विधीयते । उत्तरं - ?R?0सकृत्तद्धितयोरुभयोः सम्बन्धावगतिः ?R?0क्रियाकारकयोरिव कार्ये यस्य विधानं तस्य कुतश्चित्कार्ये विधानम् यथा सोमेन यजेतेत्यधिकारविधौ । तत्र च परस्परान्वयावगमे सति विशिष्टविधानं यथा सोमेन करणभूतेन अवच्छिन्नाया यागक्रियायाः। इह च स्तुतिकार्ये इरापदस्य विधानम् । न च विकारो विशेषणम् । किन्तु विकारं प्रति तस्य विशेषणत्वम् तेन कृत्तद्धितेषु प्रत्ययार्थप्रधानेषु प्रत्ययार्थविशिष्टप्रकृत्यर्थविधानं नास्ति विशेषणविशिष्टभावानवगमात् ।
?R किञ्च युगपद्विधानमपि क्रियाकारकवन्नोपपद्यते प्रकृतिप्राप्तिसव्यपेक्षा हि
?Rविकारा भवन्ति । कारणकर्तृनिर्देशाश्च ण्वुलादयः कियाप्राप्तिसव्यपेक्षाः । प्राप्तायां प्रकृतौ तत्सव्यपेक्षस्य विकारस्य विशेषणत्वेन विधानं नाप्राप्तायाम् । तथा क्रियायां प्राप्तायां ण्वुलादयोऽक्रियाविशेषणत्वेन कर्त्रादीन्यर्पयेयुः नान्यथा । प्रत्ययार्थस्यैव प्रधानत्वादिति नास्ति विशिष्टविधानम् । तस्मात् प्रकृतिविधानमेव न्याय्यम् न विशिष्टविधानमिति ।
?R यत्तु ?R?0प्रयोजनं भाष्यकारेणोक्तं प्रप्रपदं प्रप्रीपदं वा प्रयोक्तव्यं पूर्वपक्षे राद्धान्ते च प्रप्रीपदमेवेति । तत् पूर्वाधिकरणस्यैव प्रदर्शितमिति प्रतिभाति । ?R?0तत्त्वयुक्तमिहेति भावः ।
?R समर्थेयते - ?R?0यत्पुनरुभयोरप्यधिकरणयोः इति न दोषः । ?R?0किमिति पुनरिरापदं परित्यज्य अन्यत्प्रयोजनमुक्तं तदाह - ?R?0कथमिति । ?R?0उत्तरं - ?R?0तद्गेयमित्युपदेशेन विकल्पो नाप्रगीताशङ्का । ?R?0उपदिष्टत्वान्न विकल्पः तद्गेयं आई राचादाक्षासाइ गानविधानाच्च नाप्रगीताशङ्का । प्रप्रपदे पुनः उभयमिदं निरसनीयमिति तदेवाधिकरणद्वयस्य प्रयोजनम् ।
?R इति श्रीमहामहोपाध्यायशालिकनाथमिश्रकृतौ ऋजुविमलायां पञ्छिकायां नवमाध्यायस्य प्रथमः पादः
?R?0॥ नवमाध्यायस्य द्वितीयः पादः ॥
?R?0 ॥ 1 ॥ सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् ॥ 1 ॥
?R अत्र भाष्यकारेण किं गीतिविशिष्टं मन्त्रवाक्यं साम उत गीतिमात्रमेवेति विचार्य वर्णकान्तरमारब्धम् । किं नित्यान्यूहसामानि उतानित्यानीति । तत्र वर्णितेऽपि कस्माद्वर्णकान्तरमित्यत्राह - ?R?0अत्र द्वितीयाध्यायचिन्तया सहार्थान्तरवर्णनं सप्तमाध्यायेन सहापौनरुक्त्यकथनार्थम् । इह पुनरुत्तरविवक्षयैव परिहारः । अत्र पूर्वोत्तरपक्षावपरिहार्यावेवेति अधिकरणान्तरवर्णना । ?R?0अस्यार्थः - यस्मादिह नवमे उत्तरविवक्षयैव पुनरुक्तिपरिहारः अत्रापि परिहारे पूर्वोत्तरपक्षरचना कर्तुं न युक्ता । न च ताव (सा) परिहार्यावेवेत्यधिकरणान्तरवर्णनं कर्तुं शक्यते, सूत्रकारेण साक्षात् कृतत्वात् तस्मादेतद्दोषपरिहाराय वर्णकान्तरं कृतम्
?R कस्मात्पुनरत्रोत्तरविवक्षयैव परिहारो यावता द्वितीयेनाध्यायेन सहान्यथैव पौनरुक्त्यं परिहृतम् । द्वितीये हि प्रगीतेपि मन्त्रवाक्ये साम्नि मन्त्रत्रैविध्यं सिद्ध्यति । तदर्थं च गीतिषु सामाख्येत्युक्तम् । तेन नैतेन अ(त)त्र प्रयोजनं गीतिमात्रं सामेति तत्राह - ?R?0द्वितीयेन सह यदर्थान्तरवर्णनं तत्सप्तमाध्यायचिन्तया सह(ा) पौनरुक्त्यार्थं,?R?0 सप्तमाध्यायचिन्तया तु यत्पौनरुक्त्यं तस्योत्तरविवक्षयैव परिहारः ।
?R ननु नित्यानित्यविचारोऽयमिहासङ्गत इत्यत्राह - ?R?0इदं चाधिकरणमुत्तर चिन्तार्थमौपोद्धातिकमिति । ?R?0यदि नित्य ऊहः ततः औक्थिक्यमूहसामस्वरूपनिर्णयप्रयोजनं सूत्रजातं जैमिनिना नारब्धव्यम् । प्रारभ्यमाणं वा स्वरूपवर्णनाय यथावस्थितस्वरूपकथनाय न कार्यौपयिकतया कार्यभूतोहोपायत्वेन न प्रारब्धव्यम् । अथ तु कृतक ऊहस्ततो यथान्यायं यथावचनं चोहः कर्तव्य इति तत्परमौक्थिक्यमारब्धव्यम् ।
?R नन्वनित्यत्वेप्यवकाशो नास्ति तस्यापि पठितत्वात् इत्यत्राह - ?R?0ऊहश्च तदनुसारेण न्यायानुसारेण ?R?0पठितोऽपि त्यक्तव्योऽपठितोऽपि पठनीय इति
?Rव्यामोहस्यापि सम्भवादेकान्ततः पाठपरतन्त्रैर्न भवितव्यमिति भावः ।
?R तत्र स्वाध्यायवत् छन्दोगानां नित्यवदुपचारं व्यपदेशं च दृष्ट्वा चिकीर्षित ऊह इत्यूहोपदेशभ्रान्त्या अनित्यतापरोऽयमुपदेश इति भ्रान्त्या पूर्वः पक्षः । चिकीर्षितो हि कर्तुमिष्टः इष्टश्चानित्य एव भवति । अनित्यस्य न्यायापेतत्वेऽनिष्टत्वसम्भवात् ।
?R राद्धान्तस्तु एके तावदौक्थिक्यं जानन्तोऽपि सामोहनं प्रत्यालस्यात् अन्ये नौक्तिक्यविदोहितं साम पठन्ति । अन्ये पुनः औक्थिक्यशास्त्रापरिज्ञानाच्चोहितुमजानन्तः पठन्ति । औक्थिक्यशास्त्रापरिज्ञानं पुनरालस्येन । गुरुसेवां प्रत्यशक्यताच(क्त्या वा)ग्रहणधारणविषया । तदिदं पठनं स्वाध्यायवदुपचारस्य मूलम् । नित्यवत्पाठान्नित्यभ्रमोऽयं छन्दोगानां चिकीर्षित इति । प्रत्युत कार्यतामूहस्य ज्ञापयत्युपदेशः । कर्तुमिष्टत्वाभिधानात् । यत एवमनित्य ऊहः तस्मान्न्यायापेतं नोहितव्यमित्याह । अवकाशसम्भवान्न्यायश्चिन्त्यते ।
?R?0कर्म वा विधिलक्षणम् ॥
?R इहाक्षेपेण प्रवर्तत इत्युच्यते भाष्यकारेण । ?R?0कः पुनरसावाक्षेपः ? ?R?0उत्तरं - ?R?0रथन्तरमिति द्वितीयानिर्देशस्तावत् उपन्यस्तः, तत्र कोऽभिप्रायः??R ?R?0उत्तरं ?R?0आख्यातार्थवाचिनि ?R?0नाम्नि द्वितीया श्रूयमाणा न कर्माख्यस्य कारकस्य ईप्सिततमत्वं विहन्ति कर्ममुख्यद्वितीयान्तनामधेयप्रदर्शनेन क्रियाया एवेप्सितत्वात् यथा ओदनपाकं पचतीत्यस्मिन् वाक्ये ओदनस्येप्सिततमत्वाविघातः पाक एव हि प्राधान्येन निर्दिश्यते । एवमत्रापीति हेतौ द्वितीयोपन्यासः ।
?R यत्पुनरिदमुक्तं अकर्मकाले प्रयोगात् ?R?0प्रधानकर्म सामेति तदयुक्तमिति मन्यन्ते । कथं ? ?R?0उत्तरं - ?R?0यदि प्राधान्यमृचो ब्रुवते मीमांसकाः तर्हि अर्थाभिधानव्यापृताया एव ऋचो गुणभूतं सामेति ब्रूवते । ?R?0अस्यार्थः - अकर्मकाले साम्नः प्रयुक्तत्वात् पुनः कर्मणि प्रयोगो न स्यादिति संस्कारकर्मपक्षे
?Rदूषणमापद्यते तच्चेदम (च) दूषक्षम् । ये च संस्कारतां साम्नो मन्यन्ते तेप्यर्थाभिधानं कुर्वन्त्या ऋचः संस्कारकं सामेच्छन्ति । तत्र यद्यकर्मकाले संस्कृतया वा अर्थाभिधानं क्रतूपयोगि कृतं भवेत् तदा पूनः क्रतौ कार्याभावात् ऋचः संस्कारो न क्रियेत । नचाकर्मकाले अभिधानं स्तुत्या स्मृत्या वोपयुज्यते । यथा नोपयुज्येत तथाऽऽह - ?R?0स्तुतिस्तावत्कर्मकाले एव चोदिता प्रयाजादिवत् पृष्ठैः स्तुवत इत्यादिभिः । स्मृतिरपि ?R?0कर्मकाले चार्थात् प्राप्नोति । कर्मकाल एव स्मृतेरपेक्षितत्वात् । नहि अस्मृतमनुष्ठातुं शक्यत इति । तेन कर्मकाले स्तुतये स्मृतये वा़ऽर्थाभिधानसिद्ध्यर्थं र्थं पुनः साम्नः प्रयोग उपपद्यते । यतोऽर्थाभिधानविशिष्टाया ऋचः संस्कारेऽङ्गीक्रियमाणे न कश्चिद्दोषः । एवं चेन्नैव ऋचः प्राधान्यमिच्छन्ति तेप्य (स) दृष्टसंस्कारं ब्रुवते येन पुनः क्रतौ प्रयोगो न स्यात् । ?R?0यद्यकर्मकालमध्ययनं स्तुत्या स्मृत्या वा नोपयुज्यते तर्हि अकर्मकालस्याध्ययनस्य किं प्रयोजनमिति चेत् ।
?R?0 ?R?0उत्तरं - ?R?0भवतु तस्य दृष्टं अदृष्टं वा प्रयोजनं ?R?0किं न एतेन प्रयोजन विचारेण । कर्मकाले तावत् गुणभूतेति सिद्धं (कर्मकाले) दृष्टार्थत्वात् अभिधानस्य अनभिव्यक्तस्यानभिधायकत्वात् ।
?R ?R?0अत्रोच्यते - अविषयज्ञो मातृमान् अस्याधिकरणस्य । कथमविषयज्ञः?R?0 ? ?Rउत्तरं - ?R?0अत्रापि हि नैव कर्मार्थतामङ्गीकृत्य गुणप्रधानभावश्चिन्त्यते गीतेरक्षराणां च, किं तर्हि प्राठमात्राभिप्राया एषा चिन्ता । ?R?0अस्यार्थः - न कर्माङ्गभूतां गीतिं गृहीत्वा किमक्षराणां प्रधानत्वं गीतेर्गुणभावो यदि वा विपरीतमितीयं चिन्ता । किन्तु स्वाध्यायोत्पन्नसामस्वरूपमाश्रित्य चिन्त्यते - इयं किं गीते रक्षराभिव्यक्तिरूपत्वात् सर्वैदैवाक्षराभिव्यक्त्यर्थता अवघातादीनामिवावहन्यमानार्थता, अथवा सर्वत्र स्वप्रधानतैव अनीप्सितकर्मयुक्तानामिव हिरण्यभरणादीनामिति ।
?R तत्र राद्धान्तस्तावत् अक्षरग्रहणस्यापि कार्योपयोगितया न
?Rशक्यतेऽनीप्सितत्वं वक्तुम् इति संस्कार एवेदमिति प्रक्रान्तः । पूर्वपक्षवादी तु आक्षिपति - ?R?0सत्यमनया युक्त्या प्राप्नोति गुणभावः साम्नः?R?0 । किञ्च कर्मकाले यदध्ययनं तत्राभिधानमप्रयोजनं स्तुतेः स्मृतेश्च तदानीमचिकीर्षितत्वात् इति हेतोरभिव्यक्तिरूपस्य संस्कारस्यानुपयोगात् पुरुषार्थत्वं गीतेः । अक्षरार्थत्वेऽङ्गीक्रियमाणे तत्सिद्ध्यर्थमदृष्टं कार्यं कल्पयितव्यम् । क्लृप्ते च तस्मिन् कर्मकालेपि साम्नो दृष्टार्थतैव । कुत इत्याह ?R?0नहि अवघातादीनामिव गुणप्रधानावगमः शक्यते कल्पयितुम् । ?R?0अन्यथा यद्यक्षरेषु कार्यं न कल्प्यते तदाऽक्षराणां प्रधानभावः साम्नश्च गुणभावः कल्पयितुं न शक्यते यथाऽवघातादीनाम् । यावद्धि तेषामपि व्रीहिगतं कार्यं न कल्प्यते न तावत् गुणभावः । तत्र कार्ये कल्पयितव्ये बहिःप्रयोगेऽभिधानानुपयोगाददृष्टमेव कार्यं कल्पयितव्यम् ।
?R ?R?0कल्पिते च तस्मिन् अन्तः प्रयोगेऽपि तदेव कार्यमवैलक्षण्यात् । तथाच सति पिष्टपेषणन्यायात् अप्रयोगस्साम्नः । ?R?0यथा पिष्टस्य पेषणं न शक्यते तथा संस्कृतस्यापि संस्कार इति पुनरप्रयोगः अस्ति च ऋचोऽसौ इति कर्मैव साम्न ऋचो वदामः ।
?R ?R?0ननु प्राधान्येऽपि साम्नः किमिति बहिः कर्मणि च प्रयोगः । ?R?0उत्तर - ?R?0अधिकारान्तरान्न दोषः । ?R?0बहिस्तावदधिकारान्तरसिद्ध्यर्थं प्रयोगः वचनान्तरेण प्रयाजादिवदङ्गत्वावगमात् श्रुतोपकाराय कर्मणि प्रयुज्यत इत्यविरुद्धमुभयम् ।
?R ?R?0यदि प्रधानं साम कथं तर्हि ऋगन्तरसम्बन्धः कवतीषु रथन्तरमिति । पृच्छति - कं वाऽत्र दोषं मन्यते भावान् ? ?R। ?R?0उत्तरं - ?R?0अयमेव दोषो यदृगन्तरसम्बन्धो नाम । ?R?0कुतोऽयं दोष इत्याह - ?R?0यथोत्पन्ना एव हि प्रत्यभिज्ञायन्ते संस्काराः नार्थान्तरयुक्ताः कुष्णलेष्विव पाकादयः । ?R?0अस्यार्थः - योऽपि प्रधानकर्म सामेच्छति सोऽपि दृष्टेन रूपेण ऋक्संस्कारकत्वं साम्न इच्छत्येव । किन्तु संस्कारार्थता नास्तीत्युच्यते । ततश्च ऋगन्तरसम्बन्धेपि प्रत्यभिज्ञाया अभावः यथा कृष्णलेषु पाकस्य यस्मिन्नेव द्रव्ये प्रतीताः संस्काराः
?Rतद्गता एव प्रत्यभिज्ञायन्ते नार्थान्तरगताः । यद्यर्थान्तरे प्रत्यभिज्ञा नास्ति ?R?0कथं तर्हि श्रपणविधानं कृष्णलेषु प्रधानपदार्थस्वरूपाभावे विधिरपि नोपपद्यत इति भावः । ?R?0उत्तरं - ?R?0इदं दशमे वक्ष्यामः, यथा विधानं तं सप्रकारं दशमे ?R?0वक्ष्यामः । भवति च श्रपणशब्दाभिधेयता कृष्णलेष्वपि । श्रपणस्य प्राकृतस्य पाको न भवति कार्याभावेनाप्रत्यभिज्ञानात् । एतच्चोद्यं पक्षद्वयेपि ।
?R ?R?0अत्रोच्यते - युक्तं तत्र प्रधानार्थस्य अनभिनिर्वृत्तिः । इह पुनः ऋगन्तरेणापि गीतिः अभिनिर्वर्तत एव । ?R?0अस्यार्थः - युक्तं तत्र कृष्णलेषु अप्रत्यभिज्ञानं प्रधानस्यार्थस्य पाकजगुणस्य कृष्णलेष्वनिष्पत्तेः । कार्याभावेन प्राकृतपाकप्रत्यभिज्ञा नास्ति इति मन्यते । इह पुनः ऋगन्तरेणापि गीतौ निर्वर्त्यमानायां प्रत्यभिज्ञाऽस्त्येव । तेन सैवेयं गीतिः । गीतिमात्रं च सामेत्यदोषः । ऋगन्तरसम्बन्धश्च । तदिदं पाकयज्ञवत् द्रव्यान्तरेपि प्रत्यभिज्ञाऽस्तीत्युक्तम् ।
?R ?R?0एवं प्राप्तेऽभिधीयते - गुणभूतं साम;?R कुतः ? ?R?0यस्मादृगक्षराणामर्थाभिधानं नियोगसिद्धावनौपयिकं न शक्यते वक्तुम् । यदि हि अर्थाभिधानं नियोगसिद्धावनौपयिकं न शक्यते वक्तुम् । यदि हि अर्थाभिधानं नियोगसिद्धावनौपयिकं स्यात् तदा तदर्थमृगक्षरसंस्कारो न भवेत् औपयिकन्तु तन्मात्रप्रामाण्याभिधानात् । उक्तं मन्त्राणामपि प्रामाण्यं प्रमाणलक्षणे । वस्तुस्वभावेन चाक्षराभिव्यक्तिः संस्कारोऽक्षराणां प्रतीयते । इदानीमाक्षेपहेतुदूषणायोपक्रमते - ?R?0या पुनर्द्वितीया सामविनियोगे वा रथन्तरं पृष्ठं कुर्यात् इत्येवमादिषु (अ)प्रैषे चालौकिके वैदिके च चन्द्रं गायेत्येवमादिषु दृश्यते । तत्र या तावत् रथन्तरं पृष्ठं कुर्यादिति सा गुणभूतसाम्न्युपपद्यते । अन्यथा हि पृष्ठसम्बन्धो न स्यादिति दर्शितं भाष्ये ।?R?0 पृष्ठशब्देन स्तुतिरूपः क्रियाविशेषः उच्यते । यदि रथन्तरशब्दोऽपि प्रधानकालकर्मवचनः स्यात् तदा प्रधानकर्मणः कर्मान्तरेण साधयितुमशक्यत्वाद्रथन्तरादिभिः सम्बन्धो न स्यात् । संस्कारकर्मत्वे (हि)तु गुणाभिधानसमर्थाक्षरसंस्कारद्वारेण व्यक्तमेव साधनत्वं यथाऽभिक्रमणस्य प्रयाजहोमे
?R।
?R यत्पुनश्चन्द्रं गायेति तद्विनियोगवशादविवक्षितमर्थाभिधानं प्रैषे हि सामप्रयोगार्थमेव पुरुषः प्रेष्यते तेन सामप्रयोगपरत्वात् प्रैषविनियोग(पर)स्य तद्वशादर्थाभिधानं अविवक्षितं तेन युक्तो द्वितीयानिर्देशः । ?R?0किण्वमवहन्तीतिवद्विकारः ?R?0यथा किण्वमवहन्तीत्यत्र विद्यमानोऽपि किण्वविकारो न विवक्षितः तथेहाप्यर्थाभिधानं; ?Rनचैतावता स्वभावहानं शक्यते नक्तुं प्रमाणान्तरावगम्यत्वादर्थस्य सामप्राधान्यलक्षणस्य ।
?R यत्तु लोके माणवके रथन्तरं गायेत्येवमादि तत्र गातृत्वपरीक्षया प्रधाननिर्देशः गातृत्वं माणवकस्य परिचिकीर्षितमित्यदोषः । परीक्षमाणस्यैव प्रैषः । तत्र चार्थाभिधानस्याविवक्षितत्वात् युक्त एव द्वितीयानिर्देशः । तस्मादस्यापि लौकिकस्य प्रैषस्यान्यपरत्वान्न सामस्वभावविघातिता । यत्पुनर्बहिरध्ययनं तदनूह्यानां साम्नां स्वाध्यायविधिकारितमेव । तस्य च स्वाध्यायविधेः पुरुषार्थत्वे सत्यपि नादृष्टार्थता, दृष्टो हि तस्यार्थः कर्मावबोधनं नामेति न्यायात् । तत्राक्षराणामर्थावबोधार्थमध्ययनं गीतेस्तु स्वरूपाभ्यासाय । न ह्यनभ्यस्तं साम कर्मणि प्रयोक्तुं शक्यते । ?R?0ऊह्यानां पुनर्वचनप्राप्तेर्न्यायप्राप्तेश्च सङ्कटावगमादनपेतशिष्याचार्यसम्बन्धस्यैव दृष्टार्थस्यैवाभ्यासस्य नैवाधिकारान्तरमस्तीत्यदोषः - ?R?0अस्यार्थः - ऊह्यानां तु यद्यप्यनपेतः शिष्याचार्यसम्बन्धः तथाप्यभ्यासो दृष्टार्थ एव । वचननिबन्धना हि या प्राप्तिः न्यायनिबन्धना च सा सङ्कटावगमेति । न्यायवचनविदा ऊहितानां साम्नामभ्यासः । अतो न तत्रापि कर्मकाले पुनः प्रयोगेप्यधिकारान्तरकल्पना । तेन गुणकर्मत्वेन(पि) युक्त एव बहिः प्रयोगः । तस्माद्गुणभूतं सामेति सिद्धम् ।
?R नन्वेवमभ्यासार्थेपि संस्कारे कृते पुनस्संस्कारो नोपपद्यत इत्यत्राह - ?R?0पिष्टपेषणन्यायस्तु विनियोगान्तरादभ्यासाच्च परिहृतः । ?R?0कर्मकाले पुनः प्रयोगः कर्मणि विनियोगान्तरस्याविद्यमानत्वात् बहिश्च प्रयोगाभ्यासाय । तदिदमुक्तं तावत्कालमनवस्थानाच्छक्यत्वाच्चेति । यदि बहिः प्रयोगे (कु) कृतः संस्कारः
?Rकर्मकालं यावदवतिष्ठते तदा पुनरन्तःकर्मणि प्रयोगो न स्यात् अशक्यो वा यदि भवेत्संस्कारः न चैतदुभयमप्यस्ति इति ।
?R
?R?0॥ 3 ॥ तृचे स्याच्छ्रुतिसंयोगात् ॥ 14 ॥
?R?0 ननु प्रधानभूतासु ऋक्षु श्रुयमाणा सङ्ख्या कथं सामसाधनतया शक्यतेऽवगन्तुम् । यतो ग्रहे प्रधानभूते श्रूयमाणा न संमार्गं प्रति प्रधानभूता तथा त्रिसङ्ख्यापि प्रधानभूतास्वृक्षु श्रूयमाणा न सामसाधनतया शङ्कितुं युक्ता । ?R?0उत्तरं - ?R?0अन्यथा हि विधानानुपपत्तेः ?R?0यदि हि सामनिर्वृत्तौ सङ्ख्या साधनत्वेन नोपदिश्यते तदा विधानमेव न स्यात् । तेनार्थसाधनभावमृचामाश्रित्य साम्नि सङ्ख्याविधानमाशङ्कितम् । तदाह - ?R?0न हि असाधनभूतासु ऋक्षु श्रूयमाणा सङ्ख्या नियन्तुं शक्यते । ?R?0 ननु किं तया नियतयेत्यत्राह - ?R?0अनियम्यमाना च कार्येऽनन्वयिनी स्यात् ?R?0गुणवचनेन स्मृतौ साम्नामेवैकासमाप्तिपक्षः । ननु ग्रहैकत्ववत् भवतु कार्यानन्वितेति परमतमाशङ्कयति - ?R?0भवत्विति । ?R?0 दूषणमाह - ?R?0प्रतीतावप्यनन्वितता प्राप्नोति । ?R?0यथैकत्वं कार्येऽनन्वितमपि प्रतीतावन्वयि(य) तथा त्रिसंख्या न स्यात् बहुष्वपि क्रियमाणस्सम्मार्गः एकस्मिन्नपि क्रियते । साम्नस्तु एकैकर्कसमाप्तिपक्षे नास्त्येव त्रिसङ्ख्यासम्बन्धः । इममेवाभिप्रायं विवरीतुं चोद्यं तावदाह - ?R?0ननु समासात्प्रतीतावन्वयं को वारयति समासपदत्वादस्य तृचशब्दस्य । ?R?0त्रिसङ्ख्याया ऋक्सम्बन्धोऽवगम्यत एव । ग्रहस्य चैकत्वसङ्ख्यया समन्वयो विभक्तियोगात् यथा ग्रहं सम्मार्ष्टीति विभक्तियोगेनैकत्वं ग्रहसम्बन्धि प्रतीयते । तथा त्रित्वमपि ऋक्सम्बन्धि समासादिति । परिहरति - ?R?0युक्त तत्रोद्देश्यो हि स न क्लृप्तकार्यापेक्षः । ?R?0अस्यार्थः - न ग्रहमात्रसम्बन्धेन प्रतीत्यन्वयित्वं किं तर्हि सम्मार्गसम्बद्धावस्थासम्बन्धित्वेन । अस्ति च तत्र सम्मार्गसम्बद्धस्यापि ग्रहस्यैकत्वेन सम्बन्धः । सम्मार्गविधौ ग्रहस्योद्दिश्यमानत्वात् प्रत्युद्देश्यं च
?Rविधेयपसम्वन्धात् । यदि सम्मार्गस्य क्लृप्तं कार्यं स्यात् अनेकग्रहवर्त्येव तदपेक्षोऽयमुपदेशः स्यात् तदा प्रत्येकं सम्मार्गसम्बन्धो नास्तीत्येकत्वं प्रतीताव(य)नन्वितं स्यात् । न च सम्मार्गस्यानेकवर्ति कार्यं क्लृप्तमपेक्ष्यायमुपदेशः, ?R?0अयं पुनः क्लृप्तकार्यापेक्षो विनियोगः
?R?0 ?R?0अस्यार्थः - स्तुतिः साम्नः कार्यमवगतं एकैव च ऋक् गुणाभिधानलक्षणां स्तुतिं करोति नर्कसमुदायः । ततश्चार्थात् स्तुतिसाधनभूतसामनिर्वृत्तिरेकैककार्यैव (च) तथाभूतर्कसम्बन्धिनी च सङ्ख्या समासात् प्रतीयते । न च क्लुप्तमृचः कार्यमपेक्ष्यायं त्रिसङ्ख्याविनियोगः त्रिसङ्ख्यासम्बन्धः ततश्च (अ) प्रतीतावप्यनन्वितत्वं तदाह - ?R?0न चेत् कार्येण सङ्ख्या सम्बध्यते कथमस्यासम्बद्धमन्वयं प्रतीमः ?R?0विधीयमाना हि सङ्ख्या कार्यान्वयिनी भवति । यद्यपि ऋच एकैकस्याः स्तुतिसाधनता तथा च सति त्रित्वसङ्ख्याविनियोगवशेन साम्ना स्तुवीतेति सामशब्दः सामावयवलक्षणार्थो विज्ञायते । यदि पुनरेवं नाश्रीयते तदा त्रिसङ्ख्यानन्वयः । एवं च शाब्दप्रत्याय्यमेकत्वमाश्रित्योक्तम् । ?R?0तत्र पुनः न विभक्तेर्वचनमेवैकं प्रयोजनमिति नान्तरीयकः सङ्ख्यासम्बन्धो दर्शितः । ?R?0अस्यार्थः - यत्परो हि शब्दः स शब्दार्थः । ग्रहं सम्मार्ष्टीति नैकत्वपरा द्वितीया किन्तु कर्मत्वपरा तेनाविवक्षितो नान्तरीयक एकत्वसम्बन्धः । ?R?0इह तु निर्निमित्तत्वादशब्दार्थः प्राप्नोति । ?R?0इह तु त्रिशब्दप्रयोगे निमित्तान्तरं नास्तीति त्रिसङ्ख्यासम्बन्ध एव विवक्षितः । स चानन्वित इत्यशब्दार्थ एव स्यात् अन्विताभिधायित्वाच्छब्दस्य । अशब्दार्थत्वे च प्रमादनिमित्तकस्त्रिशब्देन सह समभिव्याहारः स्यात् प्रमादश्च पुरुषाश्रय इति पौरुषेयत्वापत्तेः स्थितस्य प्रामाण्यस्योद्धारप्रसङ्गः । तस्मात् सत्यप्यृचां प्राधान्ये (न) सङ्ख्यानुरोधेनार्थलक्षणः साधनभावो वर्णनीयः । दर्शितं च प्रधानभूतानामपि अर्थनिष्पादकत्वं, प्रधानमपि ग्रहादिसम्मार्गं साधयत्येवेति वदता । तदाह - ?R?0तस्मात् सङ्ख्यानियममपरित्यजता प्राधान्यमृचामभ्युपगमनीयम् । ?R?0एकेन साम्ना तिस्र ऋचः संस्कार्या
?Rइत्यभ्युपगमनीयम् । मायत एवमतः सावयवाभिव्यङ्ग्यं स्तुतिवाक्यं मन्वानो रथन्तरं पृष्ठं भवति इति रथन्तरशब्देन रथन्तरावयवलक्षणया अविरुद्धं मन्यते पूर्वपक्षवादी । आख्यातसम्बन्धि विधेयमभ्युपगतं भवति तृचे साम क्रियत इति सामकृतावेव त्रिसङ्ख्योपदेशात् । सिद्धान्ते (हि) तु स्तुतौ सङ्ख्योपदेष्टव्या, साम क्रियत इति सामशब्दश्च लक्षणया वर्णितो भवति। सामशब्देन हि सिद्धान्ते सामाभ्यासो लक्षणीयः । तन्न कृतं भवति ।
?R ?R?0एवं प्राप्तेऽभिधीयते - नैतदुपपद्यते सामनिर्वृत्तिरेव त्रिसङ्ख्यायाः कार्यमिति । ?R?0कुतः ? ?Rउपदेशपूर्वकं हि कार्यावधारणम् . भवत्वेवं तथापि किमिति सामनिष्पत्तिः कार्या न भवतीत्यत्राह -?R?0 मुख्यश्चायमुपदेशो रथन्तरं पृष्ठं भवति बृहत पृष्ठं भवति इति ।?R?0 मुख्यशब्देन प्रथमभाव्युक्तं स्तुतिर्हि साम्नः कार्यमवगम्यते पश्चादेकं साम तृचे क्रियत इति वर्णनीयः । भवतु मुख्यस्तथापि किमित्याह - ?R?0प्रत्यृचं स्तुतिः परिसमाप्यते प्रायशः । ?R?0प्रायेणैकर्ग्गुणाभिधानं करोति, नर्क्समुदायः । प्रायग्रहणं क्वचिदर्धेन क्वचित्पादेन स्तुतिः परिसमाप्यत इति दर्शयितुम् । भवत्वेवं तथापि किमित्याह - ?R?0एवं सति स्तोत्रसाधनत्वेऽवगते साम्न उपदेशान्नावयवस्य तत्कार्यमिति शक्यते कल्पयितुम् । ?R?0अस्यार्थः यदि हि प्रर्त्यृचं स्तुतिः परिसमाप्यते व्यासज्य च गानं क्रियते तदा रथन्तरं पृष्ठं भवतीति रथन्तरावयवो रथन्तरशब्देन लक्षयित्वा पृष्ठसंज्ञके स्तोत्रे विनियोक्तव्यः । न चैतच्छक्यते उपदेशतः सामकार्यतया स्तुतेः अवगतत्वात् तत्पूर्वकत्वाच्च त्रिसङ्ख्योपदेशस्य । कथं तत्पूर्वकत्वमित्यत्राह - ?R?0कार्यापेक्षश्चायमुपदेशः एकं साम तृचे क्रियत इति । ?R?0योऽपि सामनिर्वृत्तावेव त्रित्वसङ्ख्योपदेशमिच्छति तेनापि साम्नः कार्यावगम्योऽयं त्रिसङ्ख्योपदेशो वक्तव्यः मानान्तरावगतकार्यस्य शेषित्वात् ।
?R ननु च यद्यप्ययं तत्पूर्वकस्त्रित्वसङ्ख्यानियमः तथापि निर्विषयोऽयमिति वरं रथन्तरावयवलक्षणा । तदाह - ?R?0ननु च निर्विषयोऽयं नियम इत्युक्तं ?R?0साधनत्वेनाचोदनादृचः । यदि ऋक् स्तुतिं प्रति साधनत्वेन चोदिता स्यात् तदाश्रया
?Rत्रिसङ्ख्या स्तुतौ विधीयेत । न चैतदस्ति । परिहरति -
?R ?R?0अत्राभिधीयते - ननु च भवतापि पूर्वपक्षिणाऽर्थ एव सामनिष्पत्ता वृचः साधनभावः त्रिसङ्ख्यानियमहेतुरुपन्यस्तः, ममापि असावेव भविष्यतीति?R?0 स्तुतावपि एवमस्त्येव चर्चः साधनत्वं, यद्येवं कस्तर्हि राद्धान्तस्य विशेषः इत्याह - ?R?0अयं तु विशेषः उपदेशानुरोधिनी कार्यकल्पना कृता भवति । रथन्तरं पृष्ठं भवती?R?0त्युपदेशानुरोधेन साम्न एव कृत्स्नस्य स्तुतिः कार्यंमिति कल्पितं भवति । स्तुतिनिष्पन्नश्चार्थसाधनभावः सिद्धान्तिनोक्त इति । पृच्छति - ?R?0क्व पुनरसावार्थसाधनभावः ??R ?R?0उत्तरं?R?0 - स्तुताविति ब्रूमः । ?R?0स्तुतौ हि सामनियमः स्तोत्रनियमश्च पठितः । सामनियमो रथन्तरं पृष्ठं भवतीत्यादिषु ऋङ्नियमः कवतीषु रथन्तरमिति । स्तोत्रनियमः पञ्चदश आर्भवः पवमान इति पठितः । तत्र यथा कथञ्चिदनियमात् स्तोत्रपूरणे प्राप्ते तदर्थमिदं नियमवचनमित्येकं साम तृचे क्रियत इति प्रत्यृचं गानमिति सिद्धम् ।
?R ननु साम क्रियत इति सामशब्दोऽभ्यासलक्षणार्थः स्यादश्रुतस्तुतिसम्बन्धश्च त्रिशब्दस्येत्यत्राह - ?R?0मुख्योपदेशानुरोधेन च कार्यनियमनियोगानां स्वार्थसिद्धेर्न लक्षणा पदार्थसम्बन्धो वा (न) दोषः । ?R?0कार्ये ये नियमनियोगास्तेषां मुख्योपदेशानुगुण्येनार्थो वर्णनीय इति पूर्वमुक्तम् । तेन लक्षणा पदान्तरसम्बन्धश्च न दोषः ?R?0सनिदर्शनं प्रयोजनमुक्तम् ।
?R?0 ॥ 4 ॥ तदभ्यासः समासु स्यात् ॥ 21
?R?0 तृचे गानं कर्तव्यमित्येतावत्समधिगतं, समासु गेयं विषमासु वा गेयमिति न शास्त्रं भवति ।?R?0 विषमत्वेपि त्रिसङ्ख्योपपत्तेः । तस्मादनियमं पूर्वपक्षवादी मन्यते ।
?R ?R?0एवं प्राप्तेऽभिधीयते - सत्यं वचनस्यायमगोचरः समास्वेव गेयमिति । तथापि समास्वेव गानं कर्तव्यम् । ?R?0कुतः ??R उत्तरं - (विषमा) ?R?0असमास्वेव
?R?0गाने क्रियमाणे अश्रुतो विकारः कृतो भवति साम्नः । ?R?0 न च वचनादृते अश्रुतकरणं युक्तम् यावानेव श्रुतस्योत्सर्गे दोषः तावानश्रुतकल्पनायामिति समास्वेव गानं कर्तव्यम् । विकारस्तु भाष्यकारेण प्रदर्शितो लघीयस्यामृचि गीतेः संशरणम् बृहत्यां विलेश इति ।?R?0 निदर्शनमुक्तम् ।
?R?0 ॥ 5 ॥ नैमित्तिकं तूत्तरात्वमानन्तर्यात् प्रतीयेत ॥ 23 ॥
?R?0 ननूत्तरयोर्गायतीत्ययमुपदेशः किमर्थमिह चिन्त्यते ??R ?R?0उत्तरं - ऊह ?R?0सिद्ध्यर्थ चिन्त्यते । ?R?0एतदेव विवृणोति - ?R?0उत्तरापठितेषु ऋगर्धपादेषु उत्तरयोरित्यनेन गृह्यमाणेषु, प्रागाधादिकार्यं कर्तव्यं योन्युत्तरासु नैवं स्यात् ?R?0योन्यपेक्षया उत्तराणां व्यवहितानामव्यवहितानां वा यथोत्पन्नानामेव सम्भवात् । तस्मादयमुपदेशो विचारयितुं युक्तः । तत्र पूर्वपक्षवादी उत्तराभिधानमविशिष्टं मन्यते यथा रूढियौगिकयोरभिधाने विशेषः तथात्र न भवति । उभयोरुत्तराशब्दस्य रूढत्वात् । सत्यमविशष्टः पदार्थः, अभिधेयस्यार्थान्तरापेक्षित्वं तु विशेषः । योन्यपेक्षमुत्तरात्वं योन्यवधिकग्रहणं उत्तरासंज्ञिकास्तु निरपेक्षा इति ।
?R ?R?0राद्धान्तवादी तु मन्यत ?R?0 इति सम्बन्धः । ?R?0सापेक्षनिरपेक्षयोश्च निरपेक्षं बलीयः ?R?0 शीघ्रावगमात् यतस्तस्मादुत्तरास्वेव गानं कर्तव्यमिति । ?R?0शेषमुक्तम् ।
?R?0एवं वा
?R?0 यद्योन्यां तदुत्तरयोरित्यत्रोत्तरासंज्ञिता एव ग्राह्या इति स्थितम् । तथा समासु गेयमित्यपि स्थितम् । अत्रेदानीं किं समासु इत्येतदादरणीयमुत उत्तरयोरिति । ?R?0अनेनाक्षेप्तुं संशयोऽनुभाषितः । आक्षिपति - ?R?0ननु चैतदयुक्तं चिन्तयितुम् । यथाहि - उत्तरयोर्गेयमिति वचनं, समास्विति न्यायः न च न्यायो वचनमतिक्रामति । ?R?0अश्रुतादिकल्पनं हि न्यायो निरुणद्धि न वचनम् । तेन वचनात् विषमास्वप्युत्तरासु गातव्यम् । तस्मान्नात्र पूर्वपक्षः सम्भवतीति।
?R समाधत्ते -?0 ?Rअस्त्यत्र पूर्वपक्षाशङ्का अतिजगतीषु स्तुवत इति वचनं मन्यते पूर्वपक्षवादी । ?R?0कुतः?R?0 न ह्यप्राप्तानुवादः सम्भवति । ?R?0यदि हि उत्तरादरणं
?Rतदा जगतीबहुत्वमप्राप्तमित्यनुवादो न घटते । तेन वचनानि त्वपूर्वत्वादिति वचनमेवेदम् । तथापि उभयथा वचनसम्भवे केन विशेषेण समास्वित्याद्रियते । तत्राह?R?0 सामान्यं च यद्योन्यां तदुत्तरयोरिति वचनमतिजगतीष्विति विशेषदर्शनम् तेन यदाहवनीयन्यायेन समास्वेव गातव्यम् । ?R?0तस्मान्निराकरणीया पूर्वपक्षाशङ्का । राद्धान्तमाह - ?R?0सेयं निराक्रियते पूर्वपक्षाशङ्कावचनमिदं ?R?0यद्योन्यां तदुत्तरयोर्गायतीति । उत्तरासंस्थिताश्च गृह्यन्त इत्युक्तं तेन तत्रैव गेयम् । यत्त्वतिजगतीष्विति तदावृत्त्यापि बहुवचनमवकल्पत इति न वचनकल्पनामर्हति । एकविंशः षोडशी तृचे सप्तकृत्वेऽभ्यस्यमाने सप्तधा अतिजगत्यामावर्त्यमानायां बहुवचनं घटत एव । क्लृप्तवचनानुरोधेन ह्येषापि कल्पना नानुपपन्ना । तेन वचनमेव न भवति अतिजगतीषु स्तुवत इति ।
?R?0॥ 6 ॥ प्रागाथिकन्तु ॥ 25 ॥
?R ननु प्रागाथिके निर्देशे सति चिन्तेयमनुचितेत्याह - ?R?0किमत्र चिन्त्यते ? ?R?0उत्तरं -?R?0 इदमत्र चिन्त्यते । किं ककुभावुत्तर इति पृथक्त्वनिवेशित्वं सङ्ख्याया आदरणीयम् ?R?0उत प्रागाथिकमिति निर्देशः इति ककुभावुत्तर इति द्विसङ्ख्या पृथक्त्वनिवेशिनी । तेनोत्पत्तिककुभोरागमः प्रतिभाति । प्रागाथिकनिर्देशाच्च प्रगाध इति ।
?R तत्र पूर्वपक्षवादी पृथक्त्वनिवेशित्वं न्याय्यम् मन्यते । तेनोत्पत्तिककुभोरागमः निर्देशस्तु लौकिकः निर्देश एव केवलो, न वस्तु व्यवस्थापनायालम् ।
?R राद्धान्तस्तु ककुभावुत्तराकारं सामगानं कर्तव्यमिति कर्तव्यतामनुष्ठानमेवावगच्छामः । अपरककुभभेव उत्तरां ककुभं कृत्वा गातव्यमिति प्रतीयते । ककुभावुत्तराकारं गानं कर्तव्यमित्यव्यये यथाभिप्रेताख्यान इति णमुल कार्ये विधिः । ?R?0पृथक्त्वनिवेशित्वमुपपद्यते । ?R?0प्रगाथेन कृते ऋग्द्वये
?Rपृथक्त्वनिवेशित्वमुपपद्यते । ?R?0उत्तरयोरिति वचनात्तु उत्तरासंज्ञिताः शक्यन्ते ग्रहीतुं एकत्वादस्य शास्त्रस्य । ?R?0उत्तरयोर्गायतीत्येकमिदं शास्त्रम् । एकस्मिंश्च यथा सङ्ख्यावगमः तथोत्तरावगमेपि इति नोभयावगमे कार्यतैवावगम्यते । एवं च प्रागाथिकमिति निर्देश उपपन्नो भवति । तस्मादेष पक्षः श्रेयान् । सनिदर्शनं शेषमुक्तम् ।
?R?0एवं वा
?R?0 कः पुनरत्र पूर्वेण विशेषः । ?R?0उत्तरं - ?R?0त्रिच्छन्दा आवापो माध्यन्दिनः पवमान इति वचनातिक्रम मन्यते?R?0 (उत्पत्ति बृहत्योस्त्वा) पूर्वपक्षवादी । यदि यासौ रौरवे यौधाजये च विष्टारपङ्क्तिः तां स्वीकृत्य प्रागाथिकं क्रियते । तदा गायत्री बृहती त्रिष्टुप् पङ्क्तिभिः त्रिच्छब्दस्त्त्वं श्रुतमतिक्रम्य(ते) उत्पत्तिबृहत्योस्त्वानय पङ्क्तिपरित्यागादुपपद्यत एव त्रिच्छन्दस्त्वमिति पूर्वपक्षः ।
?R राद्धान्तस्तु पङ्क्त्या बृहतीकारं गानं कर्तव्यमिति कार्यत्वेनापि बृहत्याः त्रिच्छन्दस्त्वमुपपन्नं भवतीति । यदि हि पङ्क्तिरूपत्वेनासौ स्तोत्रे व्याप्रियते ततो भवेत् त्रिच्छन्दस्त्वविरोधः । नचैतदस्ति । तामादाय प्रगाधेन बृहतीद्वयं सम्पाद्य सामप्रयोगात् । शेषं पूर्ववत् । ननु षष्टिस्त्रिष्टुभो माध्यन्दिनं सवनमिति लिङ्गं पूर्वपक्षेऽप्युपपन्नं त्रिछन्दस्त्ववत् पठितपंक्तिपरित्यागात् । यदि हि ऋगन्तरागमनेन त्रिछन्दस्त्वं लब्धं तदा नास्ति पङ्क्तिप्रमाणमित्याशङ्क्याह - ?R?0नास्यास्वानीयमानासु प्रकरणपठिताः शक्यन्तेऽप्रयोज्यत्वेन वक्तुं, अप्रगीतत्वमेव केवलमासां स्यात् न पुनरप्रयोगः । ?R?0अस्यार्थः - प्रकरणपठितानां ग्राहकगृहीतानां यद्यपि गानं नास्ति तथापि लैङ्गिकः क्वापि विनियोगो भवति । तेन नाप्रयोगः सवनगतर्क् परिगणना । न स्तोत्रपरिगणनानि न पूर्वपक्षे लिङ्गानुपपत्तिः अप्रगीतत्वे त्रिच्छन्दस्त्त्वोपपत्तिः स्तोत्रगतछन्दोगणना नेयं, तेन कार्यान्तरप्रयोगेऽपि त्रिछन्दस्त्वाधिरोधः इति उपपन्नं लिङ्गं पूर्वाधिकरणेऽपि तुल्यम् ।
?R?0एवं वा
?R?0 अत्रेदानीं को विशेषः??R उत्तरं अयमस्ति विशेषः ?R?0यद्योन्यां तदुत्तरयोरिति गायत्रीभ्यां शास्त्रं सम्पन्नमिति नानुष्टुप्कारं गानकर्तव्यताऽवगम्यत इति पूर्वपक्षवादी मन्यते ।
?R एकं साम तृचे क्रियत इति यद्योन्यां तदुत्तरयोरिति च गायत्रीभ्यामेव शास्त्रं सम्पन्नम् । किमर्थं प्रग्रथनेनानुष्टुभं कृत्वा गातव्यमिति पूर्वः पक्षः ? ?Rननु चनुष्टुभे तृचे भवतः इत्यस्य विरोधः एकयाप्यनुष्टुभा तस्योपपत्तेः ।
?R राद्धान्तवादी तु मन्यते - कार्यत्वेपि उत्तरयोरिति संज्ञित्वं द्वित्वं चाविरुद्धमिति न कार्यावगमः शक्यते बाधितुम् श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवत इति श्रुतेः तिस्रोऽनुष्टुभः प्रतीयन्ते सम्भवस्तु (सु) तासां प्रगाथे नास्त्येव । न च किञ्चिद्विरुद्ध्यते । तेनानुष्टुभं कृत्वा गातव्यमिति प्रतीयते । तस्मादत्रापि प्रागाथिकं गानम् । ?R?0शेषमुक्तम् ।
?R?0एवं वा
?R?0 ?R?0अत्राधिकरणे किं प्रगाथः कर्तव्यो नेति चिन्त्यते । न कर्तव्यो गायत्रीभ्यामेव तृच उत्तरयोरिति चोपपत्तेः इति पूर्वः पक्षः
?R आनुष्टुभे तृचे भवत इति श्रुतेः तिसृणामप्यनुष्टुप्त्वावगमात् कार्यः प्रगाध इति राद्धान्तः । भाष्ये तु उत्पत्त्यनुष्टुबागमाभिधाने वरमागमो न तु प्रगाध इति प्रदर्शयितुम् ।
?R
?R?0एवं वा
?R ननु चात्रापि चतुश्शतमैन्द्राबार्हताः प्रगाधा इति चोदनायामेव श्रवणात् प्रगाधेनैव भवितव्यम् । कथमत्र पूर्वपक्षाशङ्का । अत्रोच्यते - ऋक् प्रग्रथनेनापि प्रगाधशब्द उपपद्यत एव तृच उत्तरयोरिति च सर्वमुपपन्नं भवतीति पूर्वः पक्षः ।
?R द्व्यृचानां हि तच्चतुरुत्तरं शतं तेनान्यस्मात् द्व्यृचादेकामृचमादाय तृचं सम्पाद्य गानं करिष्यति तेन प्रगाथशब्दस्तृचशब्द उत्तरयोरिति चोपपद्यते । किमपरं पादप्रग्रथनेन
?R राद्धान्तस्तु अन्या अन्या ऋचो भवन्ति तदेव सामेत्यूहस्य च दर्शनात् पादप्रग्रथनेनैव गानं कर्तव्यम् । प्रगाधत्वसिद्धये हि तादृशं प्रग्रथनं युक्तमाश्रयितुं येन दर्शनविरोधोन भवति इति पादप्रग्रथनेनैव गानं न्याय्यम् । तृच उत्तरयोरिति च कार्येप्यार्थ उपपद्यत एवेत्युक्तम् । ?R?0शेषमुक्तम् ।
?R?0
?R?0॥ 7 ॥ अर्थैकत्वाद्विकल्पः स्यात् ॥ 7 ॥
?R?0 ?R?0कथं पुनर्गीतेर्विनियुक्तत्वादुपायाः समुच्चीयन्ते इत्याशङ्कते । यदि हि तेऽपि विनियुक्ता भवेयुः तदा समुच्चीयन्त इति यावत् । न च ते विनियुक्ताः गीतेरेव विनियुक्तत्वात् । उत्तरं - ?R?0न हि उपायाननुपादाय गीतिः शक्यते उपादातुं इत्युपादानतः प्राप्तिं मन्वानो गृह्यमाणविशेषतया समुच्चयमाह पूर्वपक्षी ।
?R?0 ?R?0राद्धान्तस्तु - अयमेव विशेषः यदुत एक एवाभ्युपाय उपायान्तरनिरपेक्षो गीत्युपादानं निर्वर्तयति । नचोपायानुग्रहाय सामोपादानाभ्यासे प्रमाणमस्ति । सकृदुपात्तेनापि साम्ना कार्यसिद्धेः । कार्ये च धर्माणां प्रयोजनं नोपायाः तस्मादगृह्यमाणविशेषत्वं विकल्पहेतुः न समुच्चये इति सिद्धो विकल्पः ।
?R?0एवं वा
?R?0 ?R?0ननु चेदमधिकरणमनुपपन्नार्थमिति वक्ष्यते । यदि तावदिदं वचनं तदोपदेशचिन्तेयम् नास्मिन् लक्षणेऽस्यावतारः । अथ विकृताविदं वचनं ततोऽनर्थकं प्रकृतौ स्तुतेः सामसाधनत्वावगमात् प्रकृतिवदेव साम्ना स्तुतिः प्राप्नोति । प्रत्युत ऋग्विधानार्थमेवेदं युक्तं साम्नः प्राप्तत्वात् ऋचोऽप्राप्तत्वात् ।
?R अत्रोच्यते - प्रकृतौ विकृतौ वा भवतु
?Rपरस्परनिरपेक्षकार्यनिर्वृत्त्यर्थमिदमधिकरणं यदि ऋचामपि स्तुतौ विनियोगः स्यात् तदा सामनिरपेक्षमेव कार्यमृचां स्यात् सामविनियोगपक्षे च ऋङ्निरपेक्षसाम्न एव कार्यमिति यदेतदाप्यते तन्निकरणार्थमिदमधिकरणम् ।
?R ?R?0ननु च ?R?0यद्येतद्विकृतौ वचनं तदाऽनर्थकं ऋग्विधानार्थं च स्यादिति पूर्वमुक्तं तत्राह - ?R?0न च प्रकृतिविकृत्योर्नियमः । ?R?0अस्यार्थः - विकृतावपि यदि (विकृतौ) स्तुतौ सामविधानार्थमेतत्स्यात् तदा प्रकृतिगतास्वपि स्तुतिषु चोदकतः सामप्राप्तिरविरुद्धा । विकृतिर्हि प्रधानभूतात्कर्मणो धर्मान् गृह्णाति प्रकृत्यङ्गापूर्वं तु स्तुतिविषयं वैकृतस्तुतेर्धर्मग्राहीति न कुतश्चिद्विशेषः । तेन प्रकृतावपि यत्साम्नः स्तुतिदर्शनं तदेतद्वचनपूर्वकमेवेति नानर्थकं वचनम् । न च ऋग्विधानार्थे वचनम् । कस्मात् प्रकृतिविकृत्योर्नियमो नास्तीत्याह - ?R?0यदेव यत्राभ्यधिकं तदितरेणाकाङ्क्ष्यते । प्रकृतिलिङ्गविशेषाद्विशेषोऽवगम्यते । नैव तस्याः प्रकृतिरस्ति । ?R?0प्रकृतिगतस्यापि स्तोत्रापूर्वस्य साधनाकाङ्क्षा वैकृतापूर्वस्य सामसाधनं विहितम् । स्तुतित्वं च चोदनालिङ्गम् । तेन युक्तोऽतिदेशः । यत एव परस्परनिरपेक्षकार्यनिर्वृत्त्यर्थमिदमधिकरणं अत एवेदमस्मिन् लक्षणे चिन्त्यते उपदेशे विशेषाभावात् । पूर्वपक्षावस्थायां हि उपदेशतो विकल्पो नास्ति । श्रुतितो विशेषाभावात् नास्यां श्रुतौ समुच्चये विकल्पे वा विशेषः अर्थतश्च विशेषाभावादुभयोः साधनाभावस्य समुच्चयेनापि घटनात् अरुणैकहायनीन्यायतो वा द्वारभेदेन समुच्चयाविरोधात् । कार्यतस्तु विकल्प एव प्राप्नोति । एकैकस्य विनियोगेनाङ्गत्वादेकैकोपादानेऽपि तत्सिद्धेः । तेन कार्ये विकल्पोऽयमिति अस्मिन् लक्षणे सङ्गतिः । कार्यचिन्तारूपत्वात् । ऊहसिद्ध्यर्थं हि अवान्तरकार्यचिन्ता प्रस्तुतेयम् ।
?R ?R?0अपि च अवान्तरकार्यचिन्ता तन्निराकरणार्थं ?R?0विकल्पनिराकरणार्थं इहैव चिन्तनीयम् । तत्रैव पूर्वपक्षवादिना अवश्यं निन्दयैवासुरान्ववायस्य निमित्तभाव इति किं पदान्तरापेक्षयेति भवतु वाक्यभेदः । तस्मात् पूर्वपक्षवादी विकल्पं मन्यत इति
?Rसम्बन्धः । यदि निन्दयैवासुरान्ववायस्य वाक्यार्थावगमे निमित्तभाव इति निश्चयः स्यात् तदैकवाक्यतैव भवेत् । यदि तु अनिन्दया स्तुत्या चोपपद्यते तदा नास्तिः पदान्तरापेक्षायां प्रमाणमिति वाक्यभेदात् ऋचामपि स्तुतौ विनियोगः तथा साम्नोऽपि । तत्र कार्यस्यैकैकस्य साध्यत्वाद्विकल्पः । विकृतावपि चोपपन्नार्थमेवेदं विकल्पपक्षे वचनं, ऋचोऽप्राप्ताया एव विधानात् । तद्विधाने च साम्न एकान्तेन निवृत्तिर्माभूदिति तस्यापि विधानं युक्तं तदाह - ?R?0ऋग्विधाने हि साम्ना स्तुतिर्न प्राप्नोति ?R?0प्रकृतितः प्राप्तेरुपदेशेन बाधितत्वात् । तस्मादुभयं विधातव्यम् ।
?R ?R?0राद्धान्तस्तु स्यादेतदेवं यद्यविशिष्टो निमित्तभावः स्यात् अयं तु गम्यते विशेषः । कोऽसौ ? ?R?0उत्तरं - ?R?0इति वक्ष्यमाणः ।?R?0 कः??R पदार्थान्तरेण साम्ना स्तुवीतेत्यनेन हि सम्बन्धित्वेन विकल्पेनासाक्षात्कृतत्वादस्य तदसंबन्धित्वम् । ऋचा स्तुवीतेति कल्पना । न चाकल्पनायां सम्भवन्त्यां कल्पना सम्भवतीति हेतोः साम्नैव स्तुतिः । ?R?0यदि साममात्रविधानमेतत् विकृताविदानीं किं प्रयोजनमस्य वाक्यस्य ??R ?R?0पूर्वपक्षे तु पूर्वोक्तप्रकारेण विकृतावप्येतद्वचनमर्थवत् । उत्तरं - ?R?0नावश्यं प्रकृतिविकारभावे नियम इत्युक्तः परिहारः ?R?0पूर्वमेव ।
?R?0एवं वा
?R?0 अभिधाने विशेषानवगमात् प्रगीताप्रगीतयोर्मन्त्रयोः प्रतीकेन च विधानात् अविशेषं मन्यते पूर्वपक्षवादी । ?R?0अस्यार्थः - यथा स्तुतौ विशेषः प्रगीतेनैव स्तुतेः साध्यत्वात् तस्याभिधानं तु नाप्रगीतेनैवोपस्थानात्मकत्वाभिधानात् प्रगीतेन चाप्रगीतेन च तुल्यम् । अयं सहस्रमानव इति (प्रगीतेन) प्रतीकेन ऋचो विनियोगात् तस्याश्चोभयावस्थत्वादनियमः यदि हि एतयेति सर्वनाम्ना विनियोगस्तदा तस्य प्रकृतपरत्वात् प्रगीतायाश्च सामवेदे प्रकृतत्वात् नाप्रगीतयोपस्थातव्यमिति गम्यते । प्रतीकेन चायं विनियोगः । एतच्छब्दस्तु प्रतीकोपात्ताया ऋच एव परामर्शकः । यस्त्वत्र स्तुतिशब्दः सोऽभिधानोपलक्षणयैव, अन्यथा साम्नैव स्यात्
?Rऋचां स्तुतावचोदितत्वात् ।
?R ?R?0राद्धान्तस्तु एतयेति विशेषावगमात् प्रगीतयोपस्थातव्यमिति युक्तम् । ?R?0अस्यार्थः - एतयोपतिष्ठत इति विनियोगार्थः एतच्छब्दश्च प्रकृतपरः सामवेदे च प्रगीतैव सा प्रकृता । पश्चात् कयेत्यपेक्षायां अयं सहस्रमानव इति विशेषसमर्पणं प्रतीकेनैव । एवं व्याख्यायमाने एतयेति प्रवृत्तिविशेषकरं भवति ।
?R ननु प्रतीकग्रहणात् पुनरप्यविशेष इत्यत्राह - ?R?0प्रतीकग्रहणं त्वविशिष्टमेतयेति या प्रकृता प्रगीतोपथापिता तस्या अपि विनियोगे प्रतीकग्रहणस्याविशेषः ।
?R?0 ननु च सामवेदे अप्रगीतापि पठ्यत इति । ऋक्पाठचोदनामुपन्यस्यार्थतया प्रगाणार्थतया न स्वरूपग्रहणार्थमृक्पाठ इति नाप्रगीता प्रकृता, ?R?0किन्तु प्रगीतेति । आहवनीयोपस्थाने प्रगीताप्रगीतयोः अविकल्पमुक्तवान् । कुतः पुनः अप्रगीतायाः प्रगाणार्थमेवात्र पाठः इत्यत्राह ?R?0- दृष्टे सम्भवत्यदृष्टकल्पनानुपपत्तेः ।?R?0 प्रगाणनिर्वृत्तिर्हि दृष्टं प्रयोजनम् । न ह्यगृहीतान्यक्षराणि सुखं प्रगीयन्ते । तस्माद्युक्तमन्यार्थत्वम् । अतः प्रगीतयोपस्थातव्यमिति स्थितम् ।
?R?0एवं वा
?R?0 कःपुनः गीत्युपायैः सह स्वराणां विशेषः ? ?R?0उत्तरं - ?R?0अयमस्ति विशेषः स्वराणां विनियोगशेषत्वम् । ?R?0मन्त्रो विनियुज्यमानः सस्वर एव विनियुज्यते जपे न्यूङ्घे च स्वरनियमदर्शनात् । येनैव हि स्वरेण मन्त्राः पठिताः तेनैव स्वरेण जपे न्यूङ्घे च प्रयुज्यन्ते । अन्यथाहि नियमो न स्यात् । न्यूङ्खशब्देन च निरन्तरपठिताः षडोङ्कारा उच्यन्ते । यज्ञकर्मणि जपन्यूङ्खयोरैकश्रुत्यं नास्ति यज्ञकर्मव्यजपन्यूङ्खसामस्विति पर्युदासात् ।
?R केन पुनर्विशेषेण जपन्यूङ्खयोरुपादानं ये(न)तान्यपि मन्त्रस्वरविशेषेण
?Rपठ्यन्ते तेषामपि तर्हि स्वरविशेषेणैव प्रयोगः स्यात् । अन्यथा स्वरानर्थक्यादिति तत्राह - येषां तु नानेनैव प्रयोगः तेषामुदात्तादयोऽर्थनिश्चयायैव । तानो यज्ञकर्मणि इति जपन्यूङ्खातिरेकिणां येषामैकश्रुत्येन विनियोगः । तान् ऐकश्रुत्यम् । तेषा- मुदात्तादयोऽर्थनिश्चयायैव स्वाध्यायकाले । एतच्च न पूर्वपक्षवादिना उक्तम् किन्तु सुहृद्भावेन ग्रन्थकारेण ।
?R ?R?0ननु विनियोगे सति सुतरां नात्र पूर्वपक्षाशङ्का ऐकैकश्येन विनियोगावगमात् समुच्चयाशङ्का मन्दैव । ?R?0परिहरति - ?R?0न चात्रा(ना)शङ्का। ?R?0किन्त्वाशङ्कैव कार्येऽभिधानलक्षणे स्वराणां अवश्यं व्यापारदर्शनात् । अभिधानमात्रात् वर्णविशेषेणावधानसिद्धेः । तेनादृष्टार्थतया समुच्चय एव युक्तः । ?R?0स्वरतोऽप्यर्थनिर्णयमभियुक्ता वर्णयन्तीति राद्धान्तः । ?R?0अस्यार्थः - यद्यप्यनभियुक्तालोकाः स्वरविशेषेणार्थविशेषं नावधारयन्ति, तथापि पाणिनिप्रभृतयोऽभियुक्ताः स्वरविशेषेणार्थविशेषं वर्णयन्त्येव । अर्थविशेषे स्वरविशेषानुशासनात् “?Rपदेऽपदेशे”?R “?Rनिवाते वातत्राणे”?R इत्यादौ । (पा.सू.6-2-7,8)
?R?0॥ 8 ॥ सामप्रदेशे विकारस्तदपेक्षः स्यात् शास्त्रकृतत्वात्
?R?0 ?R?0अत्रेदानीं चिन्त्यते - किं गीतिवत् गीत्युपाया अक्षराभिव्यक्त्यर्था उत गीतिनिष्पत्त्यर्था एवेति । तत्र यदि गीतिनिष्पत्त्यर्थास्तदा यथायोन्युत्तरयोरपि प्रयोगः । तत्र यदि गीतिनिष्पत्त्यर्था गीत्युपायाः तदा यस्मिन् गीतिभागे निष्पादकत्वेन आई भावः कृतो योनौ उत्तरायामपि तस्मिन्नेव भागे प्रयोक्तव्य इति यथायोन्युत्तरयोः गीत्युपायानां प्रयोगः । अथाक्षराभिव्यक्त्यर्था गीत्युपायाः तदा यथाभिव्यङ्ग्यं प्रयोगः योनौ वृद्धं तालव्यं आईभावेनाभिव्यक्तमित्युत्तरयोरपि तदेवाभिव्यज्यते न यथायोनि प्रयोगः ।
?R एतदुक्तं भवति - किं गीतिभागवशेन गीत्युपायानां प्रयोग उत वर्णवशेनेति
?R। तत्र पूर्वपक्षवादी गीत्युत्पत्त्यर्था उपाया इति मन्यते । कुतः ??R गीतेर्ह्यक्षराभिव्यक्तिः प्रयोजनं नोपायानाम् । एतदेव कुत इत्यत्राह - ?R?0यद्यक्षराभिव्यक्त्यर्था एवोपाया भवेयुः केनेदानीं गीतिर्निष्पाद्यते अनिष्पन्नायाश्च गीतेः अक्षराभिव्यक्त्यर्थतैव हीयते । ?R?0तेनोपाया गीतिनिष्पत्त्यर्थाः, गीतिरक्षराभिव्यकत्यर्था । अतो गीत्यर्था एवोपाया इति युक्तम्। तेन गीतिभागवशेन प्रयोगः ।
?R?0 अत्राभिधीयते - यद्युपाया अक्षराभिव्यक्त्यर्था न भवन्ति तदा गीतेरक्षराभिव्यक्त्यर्थतैव न प्राप्नोति । ?R?0कुत इत्यत्राह - ?R?0न ह्यक्षराश्रिता उपाया न सन्ति । यद्यक्षराश्रिता उपाया न भवेयुः तदा (किं) गीतिनिष्पादिताक्षराण्यभिव्यञ्ज्यात् ।?R?0 आईभावादयस्तु अक्षराश्रिताः । तत्र यद्येते अभिव्यक्त्यर्था न भवन्ति तदाऽपरोऽभिव्यञ्जको भविष्यति ।
?R ?R?0ननु यद्युपाया अक्षराभिव्यक्त्यर्थाः तदा गीतेरनुत्पत्तिः प्राप्नोतीत्युक्तम् । ?R?0परिहरति - ?R?0इयमेवोत्पत्तिरस्य यदुताक्षराणां अभिव्यक्तिः स्वराणां ?R?0चानेकोपयसमाहारात्मिका गीतिः सोपायैरनवयवभूतैर्निष्पाद्यते । अतोऽत्र दृष्टेऽर्थे सम्भवति नादृष्टार्थकल्पना न्याय्येत्यक्षराभिव्यक्तिरेवोपायैः । दर्शिता चाक्षराभिव्यक्तयर्थता आईभावेन । तालव्यमेवाईमावेन निष्कृष्याभिव्यज्यते इत्यन्येष्वपि भागविकारेषु अनेकधाऽक्षराभिव्यक्त्यर्थता । ?R?0कथं तर्हि लोपागमस्तोभादिषु । ?R?0लोपो हि अनुच्चारणात्मकः स कथमक्षराभिव्यक्त्यर्थः। तथा आगमस्तोभावप्यक्षरान्तरानुप्रवेशात्मकत्वात् अक्षराणामनभिव्यञ्जकौ । उत्तरं - तत्राप्यभिधानात्मतैवादृष्टाथैतैव दृष्टार्थत्वे न विशेषः । अस्यार्थः - यद्यपि लोपादयो नाभिव्यञ्जकाः तथाप्यक्षराभिव्यक्त्यर्था एव अक्षराभिव्यञ्जिकाया गीतेः विशेषापादकत्वात् । स च तदाहितो विशेषो गीतेरदृष्टार्थः । तदाह - ?R?0तेषामप्यभिधानव्यक्तावेवादृष्टार्थत्वं कल्पयितव्यम् स्विष्टकृदादीनामिव द्रव्यदेवतागतम् । ?R?0तस्माद्वर्णवशेन गानं कर्तव्यम्, न भाग वशेनेति सिद्धम् ।
?R?0॥ 9 ॥ स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् ॥ 34 ॥
?R ननु स्तोभस्य लक्षणमुक्त्वा स्तोभप्रदेशाप्रदेशचिन्ता युक्तेत्यत्राह - ?R?0इदनीं स्तोभश्चिन्त्यते - प्रदिश्यन्ते नेति । अस्या एव चिन्ताया लक्षणसङ्गतत्वात् । ?R?0यद्योन्यां तदुत्तरयोर्गायतीत्यनेन वचनेन योनिसाध्यस्तुतिकार्ये उत्तरयोर्विनियोगः । तच्च स्तुत्याख्यं कार्यं सामसाध्यमिति कार्येण सामप्रदेशः ऊहात्मकस्तद्विशेषश्च स्तोभप्रदेशे इति स्तोभप्रसङ्गेन । स्तोभशब्देन यदुच्यते तदुपरिष्टाद्वक्ष्यामः ।
?R तत्र पूर्वः पक्षः - ?R?0गीतिशब्देन स्तोभानामनभिधानात् ऋगक्षरैश्च सह स्तुतावसम्बन्धात् कार्यार्थत्वाच्चातिदेशवाक्यस्य न प्रदेशः स्तोभानामिति । ?R?0यद्योन्यां तदुत्तरयोरिति यदिदं अतिदेशवाक्यं तत्कार्यार्थम्। योनिकार्यं स्तुत्याख्यमुत्तराभ्यामपि कर्तव्यमिति । तत्कार्यं योन्यापि गीतियुक्तया कृतमित्युत्तरयोरपि तत्सिद्धये गीतिराक्षिप्यते । तत्र यदि स्तोभा गीतिशब्दाभिधेया भवेयुः तदा स्तुतिसाधनत्वेनोपदेशात् स्तुतिसिद्ध्यर्थमाक्षिप्येरन्, यदि वा स्तोभैः विना ऋगक्षराणि न स्तुतिं कुर्युः न चैतदुभयमस्तीति न प्रदेशःस्तोभानाम् ।
?R अत्रोच्यते - ?R?0गीत्यतिदेशादेव स्तोभानामप्यतिदेशः स्वराणामिव । ?R?0यथा स्वराणां गीत्यतिदेशे गीति बाह्यानामतिदेशस्तथा स्तोभानामपि । ?R?0ननु च स्तुत्यर्थत्वानभिधानान्निष्प्रयोजनता स्तोभातिदेशस्य । ?R?0स्वराणां त्वर्थप्रतीतावुपयोगात् सप्रयोजन एवातिदेशः । उत्तरं?R?0 - सत्यमभिधाने निष्प्रयोजनता गीतिनिष्पत्तिरेव प्रयोजनं स्तोभानां तेनाभिधाने नास्ति प्रयोजनम् ।
?R?0 ननु चाक्षराभिव्यक्तिरेन गीतिरित्युक्तम् । अभिधानार्थ चाक्षराण्यभिव्यज्यन्ते । न च तैः स्तुत्यभिधानं साध्यत इत्युक्तम् । तस्मात् निष्प्रयोजना गीतिरपि न निष्पाद्या । ?R?0अस्यार्थः स्तोभा न स्तुतिं साधयन्ति किन्तु ऋगक्षराण्येव । गीतिश्चाक्षराभिव्यक्तिरूपा स्तुतौ विनियुक्ता । तत्र यान्यक्षराणि स्तुतिं कुर्वन्ति तद्द्वारेण तस्याः स्तुतिसाधनत्वम् । साच गीतिः
?Rऋगक्षरैः व्यङ्ग्यैः सम्पादितेति स्तोभसम्पाद्यो गीतिभागः निष्प्रयोजनो नैवोत्तरयोः कर्तव्यः ।?R?0 उच्यते । सत्यमेवं यदि तावदभिधानाक्षराभिव्यक्त्यैव साम्नो गुणभावः यद्यर्थाभिधानाक्षराभिव्यक्त्यात्मकस्यैव साम्नो गुणभावःस्यात् तदा गीतिभागस्य स्यान्निष्प्रयोजनता, किन्तु स्वाध्याय एव संस्कारकर्मता साम्नो विज्ञाता । ?R?0भवत्वेवं तथापि किमित्याह - ?R?0अतस्तथाभूतस्यैव कर्मणि विनियुक्तस्य साम्नः संस्क्रियमाणद्वारेणैव कार्य लब्ध (मपि) मिति ?R?0कर्मण्यपि नादृष्टकल्पना। यावति पुनर्भागे दृष्टं न सम्भवति तस्य तस्मिन्नेवादृष्टोपकारः कल्पयितव्यः स्विष्टकृदादीनामिव द्रव्यदेवतागत इत्युक्तम् । तस्माद (त) दृष्टार्थत्वात् कार्याभावान्न गीत्यंशावलोपः शक्यते वक्तुम् । अनवलुप्ते च गीत्यंशे तन्निष्पादकतया स्तोभानामपि प्रदेशो युक्तः ।
?R ननु यावतैव भागेन कार्यनिष्पत्तिः तावत एव प्रदेशो युक्त इत्यत्राह ?R?0प्रदेशोत्तरकालं हि कार्यं, साम्नि च प्रदिष्टे सति यावतो भागस्य दृष्टं कार्यं नास्ति तावतोऽदृष्टं कल्प्यते ।
?R?0 ?R?0ननु स्तुतिकार्याक्षेपेण सामप्रदेश इति यावत एव भागस्य स्तुतिकार्यता तावत एवाक्षेपो युक्त इत्यत्राह - ?R?0प्रकृत्यर्थ एवायं प्रदेशो न कृतकार्यस्य प्रकृतौ विकृतौ । ?R?0अस्यार्थः - यत्रैव कर्मणि सामोपदिष्टं तस्मिन्नेवायं कार्येणाक्षेपः । तत्र यत्साम तस्यैवाक्षेपो युक्तः तथाभूतस्यैवोपदिष्टत्वादिति ततः स्तोभनिवृत्त्यभावात्?R?0 स्तोभनिर्वृत्त्यर्थ?R?0सामभागस्याप्यतिदेशे च कार्यकल्पनेत्यत उपादानं स्तोभाक्षराणां सामपदार्थसिद्ध्यर्थं न शक्यं वारयितुम् । तस्मात् स्तोभप्रदेशसिद्धिः । शेषमुक्तम् ।
?R?0॥ 11 ॥ अधिकं च विवर्णं च जैमिनिः स्तोभशब्दत्वात् ॥ 39 ॥
?R स्तोभप्रदेशप्रसङ्गेनेदं लक्षणमुच्यते अधिकं च विवर्णं च जैमिनिरिति । तेना सङ्गतिर्नस्ति । उभयोपादानप्रयोजनं भाष्योक्तमनुभाषते - ?R?0भवति किञ्चिदधिकं - ?R?0न विवर्णं यथाश्वाद्रिरिति । तस्य स्तोभता माभूदिति विवर्णग्रहणम् । भवति
?Rकिञ्चित् विवर्णं नाभ्यधिकं, यथा ओग्नाई इति तन्निवृत्त्यर्थमधिकग्रहणम् । इदमाक्षिपति ?R?0ननु चर्गक्षरेभ्योऽधिकं अधिकमित्युक्तम् । नचाभ्यासस्य ऋगक्षरेभ्योऽधिकतास्तीति । ?R?0तेनाधिकमित्येतावत्यपि कृतेऽभ्यासस्य स्तोभत्त्वाप्रसक्तेः तन्निवृत्त्यर्थत्वाभावा विवर्णता क्वोपयुज्यते ? ?Rअधिकत्वादेव हि तत् लभ्यते यावद्विवर्णग्रहणेन साध्यम् । अथ विवर्णग्रहणस्य ह्यभ्यासस्य स्तोभत्वं माभूदिति प्रयोजनम् । तच्चाधिकग्रहणादेव लभ्यते अभ्यासस्य ऋगनधिकत्वात् ।
?R ननु भवत्यधिकं श्वाद्रिःश्वाद्रिरिति । नैतदधिकम् । न ह्यभ्यासादक्षराधिक्यं भवति। तेनाधिकस्य स्तोभत्वमित्येतावत्यप्युक्ते नास्त्यभ्यासस्य स्तोभत्वप्रसक्तिः । समाधत्ते - ?R?0एवं तर्ह्यभिधानाधिक्यमात्रमभिप्रेतं नाक्षराधिक्यम् । ?R?0अभ्यासरहितस्याभिधायकत्वात् (अस्यापि चाभिधानाधिक्यमस्ति) अभ्यासस्यानभिधानाननुप्रवेशात् ।
?R ननु किमित्यभिधानाधिक्यमेवाश्रीयत इत्यत्राह - ?R?0युक्तं चैदेवं यदभिधा नाधिक्यमिति गृह्यते । ?R?0कस्माद्युक्तमित्याह - ?R?0अभिधानादेवाधिक्यं शक्यते वक्तुम् नाभिधाननिरपेक्षादक्षराणां परिगणनात् ।?R?0 न हि स्वरूपेणाधिक्यमवगन्तुं शक्यते । अभिधानवशेन तु अभिधानानुपयोगिनोऽधिकत्वमिति शक्यावगमम् ।
?R ?R?0ननु छन्दस्तोप्याधिक्य विज्ञायत एव । सत्यमेवं, छन्दःपरिज्ञान मप्यभिधानादृते न शक्यते विज्ञातुम् । ?R?0 अर्थावच्छेदेन हि वर्णान् गृहीत्वा छन्दःपरिज्ञानं शक्यते कर्तुं नान्यथा । तेनाभिधानव्यतिरेकेण आधिक्यज्ञानं नास्ति अभिधानाधिकमेवाधिकम् । तस्मात् सुष्ठूच्यते यदभिधानाक्षरेभ्योऽधिकवर्णास्ते स्तोभा इति । एवं चोच्यमानेऽभ्यासस्यापि स्तोभत्वप्रसक्तिरस्तीति तन्निवृत्त्यर्थं विवर्णग्रहणम् ।
?R?0॥ 12 ॥ धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात् ॥ 40 ॥
?R?0 ननु चेदं स्थितं कार्यापत्त्या धर्मलाभ इति । तेन पूर्वपक्षाभावादनारभ्यमिदमधिकरणम् । ?R?0परिहरति - ?R?0बाढम् । ?R?0आक्षेप्ता पृच्छति - ?R?0किमर्थं तर्हीदमधिकरणमारभ्यते ? ?R?0उत्तरं - ?R?0कार्यापत्तिरेव नीवारादीनामस्ति नास्तीति चिन्त्यते । ननु कथं पुनरत्र कार्यापत्तावेव संशयः । ?R?0उत्तरं - ?R?0नैवारश्चरुरिति श्रूयते न पुनः व्रीहीणां स्थाने नीवारा इति । ?R?0पुनराक्षिपति - ?R?0यदि व्रीहीणां स्थाने नीवारा न भवन्ति कथं पुनरन्यथा नैवारश्चरुर्भवतीति । ?R?0यथा व्रीहीणां तण्डुलनिर्वृत्त्यर्थता तथा नीवाराणामपि तण्डुलनिष्पत्तिद्वारेणैव नीवाराणां चरुर्भवति । समाधत्ते - ?R?0अर्थात्तर्हीदमापद्यते न पुनः कार्ये विधिस्सम्भवति ?R?0नान्यथा नीवारसम्बन्धश्चरोर्भवति इत्यर्थात् व्रीहिकार्ये पातो नीवाराणां न पुनः साक्षाच्छब्देनैव तत्कार्ये विधानं यथा परिधौ पशुं नियुञ्जन्तीति । राद्धान्तसम्मत्या वैधर्म्यदृष्टान्तोऽयम् । न चार्थप्राप्तं तत्कार्यमिति शक्यते वक्तुम् । अन्येनापि प्रकारेण चरोर्नीवारसम्बन्धसम्भवात् नीवारक्रीतव्रीहिसाध्यत्वेपि हि तत्सम्बन्धसम्भवात् । यथा पणसहस्रक्रीतहेमनिर्मिते कटके सम्भवन्ति वक्तारः पणसहस्रस्यायं कटक इति । तस्मात् कार्यापत्त्यसम्भवान्न तद्धर्मा भवितुमर्हन्तीति पूर्वपक्षवादिनोऽभिप्रायः ।
?R ननु मध्वशनघृताशने षडहाङ्गमेव न षडहनिवृत्तौ विधीयेते कथमियं चिन्ता??R यदि षडहप्रवृत्तौ तयोर्विधानं स्यात् तदाऽत्र युक्तेयं चिन्ता किं षडहकार्ये विधिर्नेति तयोस्तु षडहा(न) ङ्गत्वेन कथमियं चिन्ता । परिहरति ?R?0- किमनयाऽस्माकं निर्णीतया लक्ष्याविषयया चिन्तया ।?R?0 लक्षणान्वाख्यानं त्वत्रैव षडहनिवृत्तौ तयोर्विधानमिति कृत्वा चिन्त्यते तेन नास्ति दोषः।
?R ?R?0कथं पुनरत्र मध्वशनघृताशनयोः पूर्वपक्षः ?R?0यावता षडहनिवृतौ तयो र्विधानमिति कृत्वा यद्येषा चिन्ता तदा तत्कार्य एव विधानं प्रतिभाति । उत्तरं - ?R?0संस्थिते षडहे निवृत्ते षडहे मध्वशनं घृताशनं चेति श्रूयते । नतु तत्कार्य इत्येवम् । ?R?0 नखावपूतानामित्यार्थं तुषकणविमोकं कार्ये नखानां मन्यते । नचार्थात्त
?Rदेव कार्यमिति शक्यते वक्तुम् । अन्येनापि प्रकारेण नखानामवपूते व्यापारसम्भवात् नखैर्गृहीत्वोलूखलेऽवहन्तुं निक्षेपात् । परिधौ पशुं नियुञ्जन्तीत्यत्र कथं पूर्वःपक्षः ??R साक्षाद्यूपकार्ये विधानात् । उत्तरं - ?R?0अत्रापि यन्नियोजनं यूपे तत्परिधौ कर्तव्यमित्यश्रवणं मन्यते । ?R?0नियोजनान्तरमेवेदं कस्मान्न भवतीत्यर्थः । ऐरं कृत्वोद्गेयमिति न गिरापदकार्यमुखेनेति श्रुतिरस्ति इति अक्षरान्तरस्थाननिपातेनाप्युद्गानसम्बन्धसंम्भवान्न पारिशेष्यादपि गिरापदस्थाने निपातः शक्यतेऽवगन्तुमिति पूर्वपक्षः
?R ?R?0राद्धान्तस्तु नैवारश्चरुरिति नैवारसम्बन्धे तद्धित उपपद्यतेऽन्यत्र प्रकृतिविकृतिभावात् । ?R?0अस्यार्थः - वैकृतोऽयमुपदेशः स चरुस्थाने नियतः क्लृप्तकार्याश्रयः । क्लृप्तं च प्रकृतौ व्रीहिकार्यमिति न पुनरिदं (परं) कार्यान्तरं, तेन तत्रैवायं नीवाराणां विधिरिति प्रकृतिविकारलक्षण एवायं नीवाराणां चरोश्च सम्बन्धस्तद्धितेनोच्यते । तस्मात् व्रीहिकार्यापत्तिर्नीवाराणां तदापत्तौ च तद्धर्मप्राप्तिः । तथा मध्वशनघृताशने न नैमित्तिकतया संस्थानस्य सम्भवतोऽन्यत्राधिकारान्वयात् । यावदधिकारान्वयिता षडहसंस्थानस्य सम्भवति तावन्नैव निमित्ततोपपत्तिरधिकारिविशेषणस्यैव निमित्तत्वसम्भवात् । अधिकारश्चेह षडह(हा)करणवतः सत्रिणः तदारब्धकार्यान्तरेपि । विनियोगान्तरे (न) विषयभेदभिन्नषडहकार्यापत्तिरधिकारनियोगलक्षणा एव कार्यापत्तिः । ततश्च प्रयोजनशून्यानां धर्माणां परमापूर्वप्रयुक्तानां प्राप्तिः । एवं नखावपूतेपि कार्यापत्तिः??R कुत इत्याह - ?R?0अवपूतता च फलेन सह सम्बन्धः उपपद्यतेऽन्यत्र क्रियाकरणात् । ?R?0तस्मादत्रापि कृप्तकार्याश्रितत्वात् वैकृतानामुपदेशानां नखानामपि तुषकणविमोक एव सम्बन्धहेतुरिति कार्यापत्तिः । परिधौ पशुं नियुञ्जन्तीति नियोजनस्याविधानात् किमन्यदतो यूपकार्यादवगम्यते । यदि नियोजनं विधीयेत तदा न स्यादपि कार्यापत्तिः । न चेह नियोजनं विधीयते प्रकृतितः प्राप्तत्वात् । ततश्च यूपकार्यापत्तिरिति तद्धर्मप्राप्तिः ।
?R ?R?0एवं न गिरागिरेत्यनेनैकवाक्यत्वात् गिरणस्य चासम्भवात् न गिरापदकार्यादृते द्वयमुपपद्यत इति कार्यापत्तिः । ?R?0अस्यार्थः - न गिरेत्यनेन सह ऐरं कृत्वेत्यस्यैकवाक्यत्वं प्रतीयते । तच्चैवमुपपद्यते यदि गिरापदकार्य एवेरापदं विधीयते तदा हि कृतकार्यतया गिरापदनिवृत्तिः । सा प्राप्ता सती अनूद्यते अन्यथा सापि विधेयैव स्यादिति वाक्यभेदप्रसङ्गः । तेनैकवाक्यत्वबलेन गिरापदकार्य एवेरापदं कथं नाम प्रतीयतामित्येवमर्थमेव न गिरागिरेति ब्रूयादित्युच्यते । न च शक्यमात्मगिरणलक्षणदोषोऽभिधीयत इति, असम्भवात् । यदि आत्मशब्देन शरीरमेवात्मसम्बन्धाल्लक्षणयोच्यते, यदि वा आत्मैव श्रुत्या उभयथापि गिरणासम्भवात् । तस्मात् गिरापदकार्य एवेरापदस्य विधाने द्वयमिदमेकस्मिन् वाक्ये उपपद्यते । न गिरा गिरेति ब्रूयात् ऐरं कृत्वोद्गयमिति कार्यापत्तेस्तद्धर्मलाभः ।
?R?0॥ 13 ॥?R?0 ?R?0तदुत्पत्तेस्तु निवृत्तिस्तत्कृतत्वात् स्यात् ॥ 41 ॥
?R परिधौ पुनराक्षेपः अन्यार्थस्य सतः यत्कार्यान्तरकरणं न तत् धर्मप्राप्तौ हेतुः । यद्यपि यूपकार्ये परिधेर्विधानं तथापि विनियुक्तविनियोगविरोधात् परिधेर्नियोजनं प्रति अङ्गभावो नास्ति, नापि नियोजनद्वारेण पशुयागापूर्वं प्रति ।
?R ननु पुरोडाशकपालन्यायेन किमिति अधिष्ठानलक्षणया विनियुक्तावस्थापरिहारेणाङ्गत्वेनैवाभिधानं नाश्रीयते । अथ श्रुत्यनुग्रहाय कारकतामात्रेण विधानं पुरोडाशकपालेपि किमिति न स्यात् ।
?R अत्र प्राभाकरप्रवराः प्र(त्या)चक्षते - परिधौ पशुं नियुञ्जन्तीति विकृताविदं विधानं नाश्रीयते । अथ श्रुत्यनुग्रहाय क्लृप्ते च कार्ये वैकृतो विधिः । क्लृप्तं पूर्वसम्बन्ध्येव नियोजनं कार्यमिति तत्रैव तथाभूते साधनत्वमात्रेणापि परिधेर्विधानमुपपद्यते तथाभूते हि तस्मिन् साधनता परिधेर्न प्रमाणान्तरेण समधिगम्यते इति तत्र वचनं भवति प्रमाणम् । अपूर्वस्य च प्रयुक्तिः तेन कारकत्वमात्रेणैव अपूर्वसम्बन्धिनियोजने परिधेर्विधानं (साधन) विशेषणविशिष्टतया
?Rच नियोजनस्य वाक्येनैव प्रतिपाद्यत्वात् विशेषणविशेष्यभावेन गुणप्रधानभावमाश्रित्यैकवाक्यतोपपत्तिः । अधिष्ठानलक्षणादोषेणाङ्गत्वेन विधानं नाश्रीयते । पुरोडाशकपालविधानं तु प्रकृताविति न क्लृप्तकार्याश्रयोऽसौ व्यपदेशः, किन्तु पदार्थापेक्षः तत्र पुरोडाशकपालो यद्यपूर्वं प्रति प्रथममेवैदमर्थ्येनान्वयं न यायात् तदा पदार्थस्वरूपमात्रसम्बन्ध्येव स्यात् । तथा च वाक्यस्याप्रामाण्यं प्रयुक्त्यभावश्च । न च तस्यैदमर्थ्यं तदीयैदमर्थ्यमन्तरेण प्रमातुं शक्यते । न च लक्षणामन्तरेणार्थान्तरं प्रत्यैदमर्थ्येन विनियोगां घटत इति बलादधिष्ठानलक्षणा आश्रीयते । तत्र तेन सिद्धं साधनमात्रेण विधानं अनङ्गत्वं च परिधेः । यच्च तदनङ्गस्य सतः कार्यकरणत्वं न तत् धर्मप्रयुक्तौ हेतुर्भवतीति परिधौ पुनराक्षेपः ।
?R ?R?0कस्मात् ? ?R?0उत्तरं - ?R?0ऐदमर्थ्यनिबन्धनं हि धर्मजातं ?R?0प्रकृतावुपलब्धम् य एव हि नियोगं प्रत्यैदमर्थ्यापन्नः तस्यैव धर्मसम्बन्धः प्रकृतौ दृष्ट इति विकृतावपि तथैव भवितव्यम् । ?R?0तेन नाङ्गे यूपकार्यापन्नेऽपि धर्मसम्बन्धानुपपत्तिः ।
?R राद्धान्तछायया चोदयति - ?R?0ननु चैदमर्थ्यमत्र कार्यार्थं नैदमर्थ्यार्थे-?R?0अस्यार्थः - प्रकृतावैदमर्थ्यं विना कार्यकारितैव नावगम्यत इति ऐदमर्थ्यं धर्मसम्बन्धं प्रत्याश्रितम् । न पुनरैदमर्थ्यमेव धर्मसम्बन्धनिमित्तम् । इह च कार्यकारितां विनापि ऐदमर्थ्यमवगम्यत इति किमैदमर्थ्येन । परिहरति - ?R?0सत्यमेवं तथापि नैदमर्थ्यमन्तरेण कार्यसंस्पर्शिनो धर्मा भवितुमर्हन्ति इति नियोगविभागान्नैदमर्थ्यापन्ने धर्मा भवेयुः ?R?0तदा यं प्रत्यनैदमर्थ्यं तस्य (वि) नियोगान्तरार्थत्वात् ?R?0नियोजनैदमर्थ्यंविना पशुनियोजनलक्षणकार्यसंस्पर्शिनो धर्मा न भवेयुः नियोगैक्यनिबन्धनश्च धर्मनियम इति सिद्धम् । ?R?0अस्यार्थः - यदि धर्माणां प्रधानानां च एक एव नियोगः साध्यो भवेत् तदा धर्मनियमो भवति । अन्यथा हि अनियोगार्थत्वे धर्माणामनियमः स्यात् । नियोगार्थान्हि धर्मान्नियोगः प्रयुङ्क्ते । यदि च नियोगसंस्पर्शिनो धर्मा न भवेयुः तदा तेषामनियोगार्थत्वे प्रयुक्त्यभावः प्रसज्येत । यत एव नियोगसंस्पर्शिनां धर्माणां प्रयुक्तिनियमः
?Rअनियोगार्थानां चाप्रयुक्तिः अत एव परिधिधर्मविरुद्धानां यूयधर्माणां तक्षणादीनामनवकाशः । इतरथा विरोधिनो यूपधर्माः पशुयागेन किमिति न प्रयुज्यन्ते प्रयुक्तौ विशेषाभावादित्यनेनाभिप्रायेणाह - ?R?0अन्यथा हि कोऽयं विरोधो नाम यूपधर्माणामननुष्ठानहेतुः । कथं वा परिध्यैदमर्थ्यस्य बलीयस्त्वं येन यूपधर्माणां बाधः परिधर्मैः ।?R?0 परिध्यर्थाः परिधेर्धर्माः यूप्धर्मास्तु परिधौ क्रियमाणा अपि न परिध्यैदमर्थ्यापन्ना इति परिधिधर्माणां बलीयस्त्वम् तच्चोभयेषामपि स्वनियोगप्रयुक्तत्वे सति नोपपद्यते । एवं च सति यूपायाज्यमानायेत्यत्रोहो न भवति इति भाष्यानुभाषणं आक्षेप्तुम् ।
?R ?R?0ननु चेदमयुक्तम् । ?R?0कथमित्याह - ऊहः - ?R?0प्रतिपाद्यते राद्धान्तिना । तदभावश्च पूर्वपक्षिणो युक्तिरिति । ?R?0समाधत्ते - ?R?0अन्याय्य ऊहो न भवतीति परिहारः । कथमन्याय्यत्वं । ?R?0उत्तरं - ?R?0साधनभावेन हि अभिधानं मन्त्राणां प्रतिपादितम् । न च परिधौ नियोजनसाधनताऽस्तीति परिहृत मन्याय्यमभिधानमिति अयुक्तम् । ?R?0अस्यार्थः - राद्धान्तिना तूहमिच्छता धर्मोहवत् मन्त्रोहोऽपि वदितव्यः । तत्र यूपायाज्यमानायेति परिधौ मन्त्रे प्रयुज्यमानें यूपाभावात् यूपशब्दस्तावन्न प्रयोज्यः । यदि परं परिधिशब्दः स च प्रयोक्तुमनुचितः परिधिशब्देन नियोजनसाधनभूतस्यानभिधानात् । साधनभूतश्चार्थो मन्त्रेणाभिधीयते । तदेतद्दूणं परिधौ यूपधर्माणामनूहे परिहृतं भवति ।
?R ?R?0एवं प्राप्तेऽभिधीयते - अत्राप्यूहेन भवितव्यम् नियोगैक्ये, नियोगैक्यं हि भवति सम्बन्धहेतुः । उपदेशेन पुनः कार्यप्रयुक्ततां वारयति नियोगभेदः ।?R?0 अस्यार्थः - उपदेशेन हि धर्माणां नियोगैक्यं शेषिणो नियोगैदमर्थ्यसिद्धौ हेतुः। अतादर्थतापन्ने हि धर्माः सम्बध्यमानाः न नियोगैदमर्थ्य लभन्ते, नियोगैदमर्थ्यापन्नेषु सम्बध्यमानास्तु लभन्ते । कार्यतस्तु धर्माणां प्राप्तौ नियोगैदमर्थ्यं तावत् प्रमितम् । प्रमिते तु तस्मिन्ननुष्ठानाय केवलमाश्रयापेक्षा साध्यं चाश्रयो धर्माणामिति कार्यप्रयुक्तता न शक्यते वारयितुम् । तत्कार्यता च परिधेरुपपादिता । तस्मान्न धर्माः कर्तव्यतया
?Rशक्या वारयितुम् ।
?R इदं चाधिकरणं यूयकार्यप्रयुक्ता यूपधर्मा न यूपोत्यत्त्यर्था इति कृत्वा चिन्तितम् । यत्त्वनभिधानो (नाय) मन्त्रः इति तत्रोच्यते, कार्यप्रयुक्तत्वे सति साधनान्तरस्याविवक्षितत्वात् तथैवाभिधानमिति नोहो विरुध्यते, तथैवाभिधानसिद्धेः परिधानसाधनस्याविवक्षितत्वात् नियोजनसाधनस्य विवक्षितत्वात् यूपशब्देन तस्याभिधातुं शक्तेः नोहः कर्तव्यः । ?R?0यदि पशुनियोगो यूपधर्मान् प्रयुङ्कते कथं तर्हि सत्वक्त्वादीनामनुग्रहः ? ?R?0उत्तरं - ?R?0तथाभूतस्य ?R?0परिधि भूतस्य ?R?0यूपकार्य उपदेशात् न स्वरूप?R?0विघाते तत्कार्यसमर्थमिति तदविरोधिधर्मावेश इति युक्तम् ।
?R?0॥ 14 ॥ परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् ॥ 44 ॥
?R?0 इह पुनः कार्यचोदनापि नास्तीति पूर्वपक्षवादी परिधिनान्यत्वं मत्वा धर्मा न भवन्तीत्याह । ?R?0एतदेव विवृणोति - ?R?0तत्र हि परिधौ पशुं नियुञ्जन्ती?R?0त्यत्र परिधेःकार्य चोदितम् । इह पुनः न दधनि चरुश्चोद्यते किं तर्हि उभयं दधितण्डुले प्रदात्रे । अतो न केवलमैदमर्थ्यमेव नास्ति अपि तु कार्यमपि न चोद्यत इति वैषम्यम् परिधानात् । अत्रोच्यते । कार्यं हि धर्माणां प्रयोजकं न चोदना, तदेव हि कार्यं क्वचित् चोदनात् यथा परिधौ पशुं नियुञ्जीतेति । ?R?0क्वचिदैदमर्थ्याद्यथा ?R?0प्रकरणाधीतेषु मन्त्रेषु लिङ्गविनियोज्येषु शेषिणामैदमर्थ्यं, क्वचिदर्थाद्यथाऽत्रैवेति न कश्चित् कार्यकारित्वे विशेषः । कार्यतश्चात्र प्राप्तिरुदिता नाभिधानविनियोगाभ्यामिति कार्येऽभिधानविनियोगाभ्यां धर्माश्रयस्य न घर्मसम्बन्धः. किन्तु कार्ययोगमात्रेणेति नात्र प्रणीताधर्मप्राप्तिरवैदिकीति शक्यते वक्तुम् । तस्मात् कर्तव्याः प्रणीताधर्माः दधिपयसोः
?R?0 ॥ 15 ॥ एकार्थत्वादविभागः स्यात् ॥ 46 ॥
?R स्थितं कार्यप्रयुक्ता धर्मा इति । बृहत्पृष्टं भवति रथन्तरं पृष्ठं भवतीत्यत्र
?Rकार्यभेदोऽस्ति नास्तीति विचार्यते । तत्र पूर्वपक्षवादी पृष्ठशब्दवाच्यं द्वयोरप्येककार्यं मन्वान उभयत्रोभयविहितधर्मावेशं मन्यते व्रीहियवयोरिव । यथा व्रीहियवयोरेककार्यकत्वात् कार्यप्रयुक्तत्वाच्च धर्माणां एकत्रापि श्रुता धर्मा उभयत्र भवन्ति तथा अत्रापि पृष्ठशब्दवाच्यस्य द्वयोर्बृहद्रथन्तरयोरेकत्वात् तत्प्रयुक्तैर्धर्मैः एकैकत्र श्रुतैः उभयत्र भवितव्यम् ।
?R ?R?0राद्धान्तस्तु उपदेशे तावच्छब्दभेदो विद्यते बृहद्रथन्तरमिति । ?R?0धर्मोपदेशे बृहद्रथन्तरशब्दोपादानात् शब्दभेदस्तावदस्ति । शब्दभेदाच्च व्यवस्थाऽवसीयते धर्माणाम् । ?R?0कार्यमेकमिति चेत् । ?R?0परिहरति - ?R?0दृश्यते च कार्यभेदः अन्यथा कवतीषु स्तुतिर्गम्यते अन्यथा बृहद्दक्षु । ?R?0गुणाभिधानलक्षणा स्तुतिः सा कवतीष्वन्येन प्रकारेण । अन्येन बृहदृक्षु । तेन व्यापारभेदस्तावदवगम्यते ।?R?0 पृष्ठशब्दाभिधेयत्वमेकमिति चेत् । ?R?0परिहरति - ?R?0नाभिधानतो धर्मप्राप्तिरित्युक्तम् । ?R?0तेनाभिधानैक्येपि न धर्मव्यतिकरः । किं तर्हि ? ?Rकार्यत एव धर्मप्राप्तिः कार्यतश्चोभय भेद उपलभ्यते बृहद्रथन्तरयोरित्युक्तम् । कर्षणछेदनयोरिव पर्वविभागफलयोः । न च फलतो धर्मा भवन्तीति नीवारादिषु दर्शितम् । किन्तु कार्यतः । तस्मात् सर्वकार्यभेदे सम्भवति बृहद्रथन्तरयोः लक्षणा अयुक्ता । अतो व्यवस्थयैव धर्माः कर्तव्याः व्रीहियवयोः पुरोडाशनिष्पत्तौ न कार्यभेद उपपद्यते उभयोः पुरोडाशनिर्वर्तकत्वात् ?R?0अन्यथा यवमयः पुरोडाशोऽन्यथा व्रीहिमय इति तत्रापि कार्यभेद इति चेत् । ?R?0उत्तरं - ?R?0न स्वभावप्रयुक्त धर्माः किन्तु कार्यप्रयुक्ता इत्युक्तम् । ?R?0स्वभावश्चात्र भिद्यते न निष्पत्तौ व्यापारः व्यापारप्रयुक्ता धर्माः अभिधानव्यापारान्यत्वं च बृहद्रथन्तरयोः प्रदर्शितम् । अन्यथा कवतीषु स्तुतिः अन्यथा बृहदृक्षिवति । अतो व्रीहियवाभ्यां वैषम्यं बृहद्रथन्तरयोः ।
?R?0 ॥ 16 ॥ अप्राकृते तद्विरोधाद्व्यवतिष्ठेरन् ॥ 48 ॥
?R?0 सामान्तरसाधने विकृतिषु पृष्ठे चिन्ता । किमेकस्य धर्माः कार्येण
?R?0कर्तव्या उत्तोभयधर्मा इति ।?R?0 किं विकल्पेन धर्माः कर्तव्याः उत समुच्चयेनेति सन्देहः ।?R?0 अत्र पूर्वपक्षवादी प्रकृतौ कार्यभेदात् इहापि तद्वदिति न प्राप्तिभेदं मन्वानः कार्येणेच्छति । ?R?0अस्यार्थः प्रकृतौ कार्यभेदात् भेदेन प्राप्तिं मन्वानः पूर्वपक्षी इहापि कार्येण प्राप्तिं तद्वति नेच्छति । अन्यथा तद्वद्भाव एव न स्यात् ।
?R?0 राद्धान्तस्तु तद्वति कार्यं प्राप्यते नोपायाः ।?R?0 अस्यार्थः - प्रकृतिवद्विकृतिरप्युपकारवती न पुनः पदार्थवती उपकारसादृश्यं ह्येतत् तद्वदिति । न पदार्थसादृश्यमिति । एतद्दशमाद्ये दर्शितम् । भवत्वेवं तथापि कथं समावेशो धर्माणामित्यत आह - ?R?0उपायतश्च प्रकृतौ कार्यान्यत्वमवगतम् । ?R?0ऋग्भेदात् प्रकृतौ स्तुतिव्यापारलक्षणकार्यभेदोऽवगतः । न चेहोपायभेदोऽस्ति उपायान्तरविधानात् । स्तुतौ सामान्तरविधानेन प्राकृतङ्निवृत्तेः ऋगन्तरापेक्षत्वात् तस्य चैकत्वात् । तस्मान्न कार्यान्यत्वं शक्यतेऽवगन्तुम् । अनन्यत्वे च कार्यप्रयुक्ताः केन वार्यन्ते नख इवोलूखलमुसलधर्माः अन्यत्र विरोधात् । यदि परं विरोधादेव धर्माणामकरणम् । अतोऽविरुद्धानां समावेश इति स्थितम् ।
?R?0॥ 17 ॥ उभयसाम्नि चैवमेकार्थापत्तेः ॥ 49 ॥
?R?0 अत्रापि कण्वरथन्तरवत् उभयमुभयत्र योज्यत इति पूर्वपक्षवादी मन्यते । एतदुक्तं ?R?0भवति - ?R?0यत् प्रकृतावुपायद्वयं विज्ञातं तस्य कार्ये इहोपायद्वयं विधीयते । ?R?0एतदेव विवृणोति - ?R?0बृहत्कार्ये बृहद्रथन्तरे, रथन्तर कार्येपि बृहद्रथन्तरे । तस्मात् समावेशो धर्माणाम् ।
?R?0 राद्धान्तस्तु उपायसमावेशः प्रत्यभिज्ञानात् । ?R?0अस्यार्थः - यौ तौ व्यापारौ स्तुतिं प्रति बृहद्रथन्तरयोरवगतौ तावेवेह समाविष्टौ प्रत्यभिज्ञायेते । तेनोपाययोरेव समावेशो न कार्ययोः । न च समावेशप्रयुक्ता धर्माः किं तर्हि कार्यप्रयुक्ता इत्युक्तम् । तेन कार्यभेदात् यथायथमेव धर्मैर्व्यवस्थितैर्भवितव्यम् । तदिदमुक्तं भाष्ये “?Rसाम्नापि दृष्टमदृष्टं वा क्रियत”?R इति । ?R?0उपायार्थसमाप्तिर्दृष्टकार्यं
?Rस्तुतिर्व्यापारविशेषलक्षणा उपायार्थसमाप्तिर्दृष्टं कार्यम् । समावेशतः किमप्यदृष्टम् । न च प्राकृते कार्यसम्बन्धेऽवगम्यमाने कार्यान्तरसम्बन्धो धर्माणामुपपद्यत इति व्यवस्थैव न्याय्या ।
?R?0॥18॥ पार्वणहोमयोस्त्वप्रवृत्तिस्समुदायार्थसंयोगात् तदभीज्या हि॥51॥
?R?0 ?R?0अत्र सूत्रे प्रवृत्तिशब्दश्रवणाद्भ्रान्तश्चोदयति ।?R?0 ननु चेयमतिदेशचिन्ता । कःप्रसङ्गोऽस्याः ??R। ?R?0किमनेन निष्फलेनोक्तेन । बाधोऽयं नातिदेश इति मत्वाऽऽह ?R?0अस्त्यत्र प्रसङ्गः कार्यप्रधानत्वादतिदेशानतिदेशयोः । ?R?0एतदेव विवृणोति ?R?0यदि हि प्राकृतदेवतार्थता होमयोः तदा सौर्यादिष्वप्रवृत्तिः । अथारादुपकारकत्वं तदा प्रवृत्तिः । ?R?0अस्यार्थः - प्रकृतानि यानि कर्माण्याग्नेयादीनि देवताभूतानि पर्वशब्दाभिधेयानि तदर्थता तत्स्मरणार्थता पार्वणहोमयोः स्याद् तदा विकृतिषु अप्रवृत्तिः, अथारादुपकारकत्वं तदा प्रवृत्तिः प्रयाजादिवदिति कार्यनिबन्धने प्रवृत्त्यप्रवृत्ती विचार्येते इति तदर्थं होमयोः द्वारकार्यं चिन्त्यते - ?R?0किं देवतासंस्कारः कार्यं उत करणोपकार एव प्रयाजादिवदिति । इह चाध्याये द्वारकार्यचिन्तैव क्रियते तन्निबन्धनत्वादूहस्येत्यस्ति प्रसङ्गः । ?R?0कश्चित्तत्वविच्चोदयति ?R?0नन्वेवं सति बाधचिन्तैवेयं प्राप्नोति कार्याभावान्निवृत्तिरिति । किमिति भवान् समाधाताऽनतिदेशमाह । ?R?0परिहरति - ?R?0सत्यमेवमेतत् तथापि कार्यस्वरूपमेवात्र निर्णीयतेऽर्थाद्वाध इत्यूहान्तः पातिन्येवेयं चिन्ता । ?R?0अनास्थया मया निर्बन्धो न कृत इति समाधाता दर्शयति - ?R?0सर्वथा कार्यचिन्तारूपत्वात् सङ्गतिः । अर्थाद्बाधो भवतु अनतिदेशो वा इति नास्माकमास्था ।
?R?0 ?R?0अत्र केचिन्मीमांसकाः तन्त्रे स्वातन्त्र्यमिच्छन्तः स्वबुद्धिलाघवमनाकलयन्तः भङ्गमापादयांबभूवुः । ननु कर्मसंस्कारकत्वेपि होमयोः किमिति बाधो यावता देवतान्तरेपि पशुपुरोडाशबदूहेन पार्वणहोमौ कर्तव्यावेवेति ।
?R अत्र ?R?0प्रभाकरपादसेवानिरस्तसमस्तजाड्याः ?R?0समर्थनमाहुः -
?Rकार्यप्रयुक्ताधर्मा इत्युक्तम् । यच्चाग्नेयादीनामवान्तरकार्यं परमापूर्वनिष्पत्तिं प्रति न तत् सौर्यादीनाम् । अत एव च प्रकृतावाग्नेयादीनां नान्योन्यधर्मसङ्कर इति ।
?R अत्र पूर्वपक्षवादी कालवचनत्वेपि पर्वशब्दस्य कालयोगात् कर्मणि प्रयोग उपपद्यत इति कालवचनत्वं मन्यते ।
?R ?R?0राद्धान्तस्तु नियोगैक्यं न सिद्ध्यतीति समुदायवचनतैव न्याय्या, ?R?0कर्मवचनत्वे हि पर्वशब्दस्य तत्संस्कारकत्वाद्धोमयोः तन्नियोगैक्यं सिद्ध्यति । इतरथा तु न सिद्धिः । नियोगैक्यं च गम्यते प्रकृतत्वात् । शक्यते च समुदायार्थत्वेपि कर्मवचनत्वेपि काले प्रयोगो वक्तुं कर्मयोगात् । यदि वा पर्वशब्दोऽयं यौगिकः पृणातेर्दानार्थत्वात् तत्र भावसाधनत्वे कर्मवचनता । अधिकरणसाधनत्वे कालवचनता । तत्र प्रकृतत्वात्कर्माणामिह कर्मण्येव पर्वशब्दः प्रयुक्त इति निश्चीयते । तदाह - ?R?0योगाद्वोभयत्र पर्वशब्दः । विद्यनुप्रवेशस्तु विशेषहेतुः ।
?R?0 ?R?0ननु कर्मवचनत्वेपि किमित्यारादुपकारकत्वं न भवतीत्याह - ?R?0प्रकृतत्वाच्चा रादुपकारकत्वनिराकृतिः । ?R?0प्रकृतकर्मणां संस्कारार्हत्वात् आरादुपकारकत्वनिरा- कृतिः । ?R?0शेषमुक्तम् ।
?R?0 ॥ 19 ॥ उभयोरविशेषात् ॥ 58 ॥
?R?0 प्रसक्तानुप्रसक्तमिदं कार्यचिन्ताप्रसङ्गेन । ?R?0पूर्वाधिकरणे होमयोः कर्मार्थत्वं प्रसक्तम्। तदनुप्रसक्तं चेदं भेदेन पार्वणहोमौ कर्तव्याविति ।
?R ?R?0कःपुनः पूर्वपक्षवादिनोऽभिप्रायः ??R ?R?0उत्तरं - ?R?0प्रकृतार्थत्वे सति एकनियोगकत्वादुभयमुभयत्रेति मन्यते । ?R?0उभयत्राधिकारनियोगैक्यात् तदर्थत्वाच्चोभयोः उभयत्रोभाभ्यां भवितव्यम् ।
?R ?R?0राद्धान्तस्तु व्यवस्थायामप्येकनियोगाविरोधात् न कार्यशून्यस्यानुष्ठानं युक्तम् । ?R?0अमावास्यादेवताकस्य हि अमावास्यासंस्कारकत्वं पौर्णमासीदेवताकस्य
?Rतत्संस्कारकत्वम् । यत्रैव तत्संस्कार्यं तत्रैव संस्कारेणापि भवितव्यम् । नान्यत्र । तस्माद्व्यवस्थैव न्याय्या । न च दृष्टे सम्भवत्यदृष्टकल्पनैव न्याय्येति कार्यान्तरविरोधः । न ह्येकस्यैव क्वचिद्दृष्टार्थत्वं युक्तं, येनामावास्यायां दृष्टार्थस्य होमस्य पौर्णमास्यामदृष्टार्थः प्रयोगः स्यात् । तथेतरस्यापीतरत्रेति।
?R?0 ॥ 20 ॥?R प्रयाजेऽपीति चेत् ॥ 55 ॥
?R?0 नामधेयाक्षेपमात्रमिदं प्रकृतप्रसङ्गेन । ?R?0अस्यार्थः - यथा पार्वणहोमयोः प्रकृतदेवतार्थत्वे विकृतिष्वप्रवृत्तिः तथेह प्रकृतार्थत्वेपि नास्ति विकृतावपि कार्यसम्भवात् । तेन नामधेयमात्रमिहाक्षिप्यते प्रसङ्गेन प्रकृतत्वात् । यथा पार्वणहोमयोः कर्मदेवतार्थत्वं तथेहापि समिदादीनां देवतार्थत्वं संस्कार्यत्वं च ।
?R राद्धान्तस्तु इह न तथा कल्पनामर्हति समिदादीनां देवतार्थत्वे प्रमाणाभावात् । कर्मवचनत्वेपि द्वितीयाया उपपत्तेः मन्त्रवर्णस्यायथार्थत्वे प्रमाणाभावात् । तस्मादुपादेयैवात्र मान्त्रवर्णिकी देवतेति सिद्धमारादुपकारकत्वम् ।
?R ?R?0इति श्रीमहामहोपाध्यायशालिकनाथमिश्रकृतौ ऋजुविमलायां पञ्चिकायां नवमस्याध्यायस्य द्वितीयः पाद?Rः ॥
?R?0ऋजुविमलायां
?R?0नवमाध्याये तृतीयः पादः
?R?0 ॥ 1 ॥ प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वात् ॥ 1 ॥
?R?0 ननु च आकृत्यधिकरणे आकृतिः शब्दार्थ इति दर्शितम् ।?R?0 राद्धान्तितम् ।?R?0 तस्य चैतदेव प्रयोजनम् ।
?R?0 तज्जातिविशिष्टे संस्काराभिधानं यथा स्यादिति । ?R?0संस्कारश्चाभिधान चतज्जातिविशिष्ट एव यथा स्यात् । व्यक्तिपक्षे हि साधनमात्रवचनता । प्रकृतौ विकृतौ च साधनभावाविशेषादनूहः तस्मादाकृतिवचनत्वस्यैतदेव प्रयोजनम् - ?R?0किमत्र पूर्वपक्षेऽभ्यधिकं क्रियते व्रीहिशब्देन नीवाराणामभिधानाशक्तेः तच्छब्द एव प्रयोक्तव्यः ।
?R?0 ननु चैवं सति यदि व्रीहिशब्देनाव्रीहिजातीयस्याभिधानं नास्ति तेषामर्थेनेत्यत्रापि पूर्वपक्षो न युक्तः । ?R?0यदि व्रीहिशब्देनाज्यसान्नाय्ययोरप्यभिधानं स्यात् तदा आज्यसान्नाय्ययोरपि औषधधर्मैर्भवितव्यमिति पूर्वपक्षः सम्भाव्येत । केवलम् व्रीहिजातीयाभिधाने तु न सम्भवतीति । परिहरति - ?R?0अन्यदेव हि तत्र निराकृतं अन्यस्तत्र पूर्वः पक्षः । ?R?0किं निराकृतमित्याह - ?R?0धात्वर्थकर्मविवक्षायां प्रयोगाङ्गता न प्राप्नोतीत्याशङ्क्य तत्र निराकृतम् । ?R?0विवक्षिते धात्वर्थस्यैव कर्मणि व्रीह्यादौ प्रयोजनत्वेन स्वीकृते अधिकारविध्यर्थता न स्यादवघातादीनाम् । अतो धात्वर्थकर्म न विवक्षितं किन्त्वारादुपकारकत्वमेवेत्याशङ्क्य तत्र निराकृतम् । इह पुनः न कार्यान्तरमुपलभामहे प्राकृतान्मन्त्रकार्यात् । प्रकृतौ हि हविः प्रकृतिद्रव्याभिधानं मन्त्रकार्यम् । इहापि तदेव, तच्चोहमन्तरेणाशक्यमित्यूहेन भाव्यम् । न चासमवेतार्थत्वं येन मन्त्रार्थस्य विवक्षितत्वेपि असमवेतार्थत्वमग्निव्रीहिशब्दयोर्गम्येत । तदपि नास्ति । यतः समवेतार्थत्वं
?Rअग्निव्रीहिशब्दयोः स्थितमेव । अतः वक्तव्यमत्र निराकरणीयम् ।
?R ?R?0तदिदमभिधीयते । सत्यमाकृतिवचनत्वं शब्दानां स्थितं, तथाप्यत्र साधनभावेनाभिधानात् प्रकृतिविकृत्योश्चाविशिष्टत्वात् तद्भावस्य ?R?0साधनभावस्य?R?0 नोहेन भवितव्यम् । शब्दार्थत्वेऽप्याकृतिस्तदवस्थैव भवति साधनत्वलक्षकत्वात् । ?R?0अस्यार्थः - प्रकृतावपि व्रीहिशब्देन न स्वरूपं प्रकाशितं, किं तर्हि साधनविशेषः स च विकृतावप्यविशिष्टः । अन्यथा हि ऊहोऽपि न स्यात् । ततश्च प्रकृतावप्याकृतेरप्रकाश्यत्वं साधनलक्षणोपलक्षणत्वात् । विकृतावपि न नीवारजातिः प्रकाश्येति नोहो युक्तः । ननूपलक्षणत्वेऽपि व्रीह्याकृतेर्विकृतौ तदभावादुपलक्षणत्वानुपपत्तेरुपलक्षणसमर्थनीवारादिजातिपर्युपस्थापनाय जात्यन्तरवचनमेव न्याय्यमिति वक्तव्यं, यज्जातीयं हि चोदितं तज्जातीयमेवोपलक्षणक्षमं व्रीहिजातिः नीवारव्यक्तिं न लक्षयितुं क्षमेत्यन्यत्प्रयोक्तव्यम् । न व्रीहिजातिवचनं प्रयोक्तव्यमिति ।
?R पूर्वपक्षी समाधत्ते - ?R?0अत्रोच्यते - स्यादेवं यदि नान्तरीयकस्य विवक्षास्यात् स्वजात्यभिधानेनोपलक्षणीयं साधनमिति । ?R?0प्रकृताविदं नान्तरीयकं, प्रकृतौ हि तज्जातेश्चोदितत्वात् सन्निकृष्टमुपलक्षणमिति नान्तरीयकभावः । यदि पुनः जात्यन्तरचोदना स्यात् न तदोपलक्षणं नान्तरीयकतयापि स्यात् । प्रकृतौ हि व्रीहीजातीयं चोदितं व्रीहिभिर्यजेतेति । मन्त्रेऽपि तज्जातिवाचक एव व्रीहिशब्दः प्रयुक्त इति सन्निकृष्टजातिरुपलक्षणम् । यदि पुनः तत्राप्यन्यजातीयं चोदितं भवेत् मन्त्रे(वा) च अन्यजातिवाचकः शब्दः तदा न सन्निकृष्टस्योपलक्षणं भवेदिति । तदेवं सम्पन्नं सन्निकृष्टस्योपलक्षणत्वम् । न च तद्विवक्षितुं न्याय्यम् । तेन सन्निकृष्टस्योपलक्षणत्व सिद्धये न स्वजातिवाचकशब्दोहो युक्तः ।
?R ?R?0कथं तर्हि व्रीहिशब्देन नीवारजातीयस्याभिधानं ? ?R?0उत्तरं -?R?0 यथा कथंचित् ?R?0अभिधानकल्पना ऐन्द्रीवत् । तस्मान्नान्तरीयकमभिधानमविवक्षितम् । अतः प्राकृतयोरेव शब्दयोः प्रकृतौ प्रयोगदर्शनात् विकृतावप्यभिधानं कल्पनीयम्
?Rतयोः कार्यतः प्राप्तेः । शब्दान्तरस्य न पुनः कार्यतः (या) प्राप्तिः नापि प्रयोगत इत्यनूहं मन्यते । समवेतार्थत्वं पुनः उपोद्बलकमेवास्य पक्षस्य यस्मात्साधनं कर्मणि समवेतं व्यक्तेश्च साक्षात् साधनभाव इति लक्षणार्थैव जातिः तेन नान्तरीयकत्वाज्जातेः अविवक्षितत्वान्न नीवारशब्दः प्रयोक्तव्य इति ।
?R युक्त्यन्तरं चानूहे दर्शयति - ?R?0विनियोगेऽपि च शब्दानामेवोपदेशः । ?R?0अस्यार्थः - मन्त्रस्य विनियोगो वर्णपर्यवसायी वर्णातिरिक्तस्य तस्याभावात् यथैवासौ कार्यार्थत्वेऽपि प्रकृतौ न पीडितः एवं विकृतावप्यसौ न पीडनीय एवेति पूर्वः पक्षः । प्रकृतावपि कार्यार्थमेव मन्त्रः प्रयुज्यते । तत्र यथा स ग्व शब्दः प्रयुज्यते तथा विकृतावपि स एव प्रयोक्तव्यः अङ्गभूतत्वात् ।
?R?0 अत्रोच्यते - भवितव्यमूहेन । कस्मात् ? ?Rकार्यान्तरे शक्त्यन्तर कल्पनायामग्न्यादीनामैन्द्रीवन्न्यायो न विद्यते । ?R?0कार्यान्तरे अभिधेयान्तरे शक्त्यन्तरकल्पनायां अग्न्यादिशब्दानां न्यायो नास्ति यथेन्द्रशब्दे । ?R?0कथं न्यायो नास्ति ? ?R?0उत्तरं - ?R?0प्रकृताविवात्र ?R?0मन्त्रेणात्र साधनप्रकाशनं कर्तव्यमिति प्राप्तम् । तदिदानीमभिधानान्तरकल्पनया, उत शक्त्यन्तरकल्पनयेति विचारणीयम् । ?R?0तत्र शक्त्यन्तरकल्पना न न्याय्या क्लृप्तशक्तेः शब्दस्य, प्रयोगान्तरे पुनः शक्त्यन्तरकल्पना ?R?0अग्न्यादिशब्दः क्लृप्तशक्तिः तस्य मन्त्रप्रयोगान्तरे पुनः शक्त्यन्तरकल्पना न युक्ता । कुतः ??R ?R?0तावन्मात्रस्याप्रयोगात् । यदि तावत् तावन्मात्रस्य प्रयोगो (न) भवेत् तदा बलाच्छक्त्यन्तरकल्पना स्यात् । न च तावन्मात्रस्य प्रयोगः किन्तु मन्त्रस्य । ?R?0तथापि किमित्याह -?R?0 मन्त्रस्य पुनरभिधानान्तरप्रक्षेपेऽपि न किञ्चित् दृष्टष्टादधिकं कल्पितं भवति । ?R?0नाभिधानान्तरप्रक्षेपे हि किञ्चित् कल्पितं भवति । शक्त्यन्तरकल्पनापक्षे तु स एव दोषः । तस्मात् गौरवाच्छक्त्यन्तरकल्पनापरिहारेण शब्दान्तरप्रक्षेप एव न्याय्यः ।
?R ?R?0ननु च मन्त्रत्वमेव हीयते । ऊहप्रवरनामधेयानाममन्त्रत्वमुक्तं यतः । ?R?0परिहरति - ?R?0न मन्त्रत्वं हीयते । निमित्ताभिप्रायं हि तदमन्त्रत्वं
?R?0नाभिधानाभिप्रायं प्रक्षेप्यस्य शब्दस्य ?R?0 तदमन्त्रत्वमुक्तं न पुनरभिधायकस्य वाक्यस्य अभिधायकत्वमौत्पत्तिक इत्यत्रोक्तम् । क्लृप्तकार्यतया प्राप्तिः कार्यवशेन मन्त्रस्यार्थवत्त्वमेव युक्तं समुदायापन्नस्य प्रत्यभिज्ञायमानत्वात् । यत एव च निमित्तमात्रनाशे मन्त्रनाशो नास्ति ?R?0अत एव च प्रतिनिधेरभावः ?R?0सकलमन्त्रनाशे हि प्रतिनिधेः आत्मलाभो न निमित्तमात्रविनाशे सकलमन्त्रविस्मृतेः न शक्यते तत्सदृशो ज्ञातुमिति । निमित्तमात्रविनाशे तु तत्त्वमेव मन्त्रस्य । ?R?0तस्मात् अभिधानान्तरप्रक्षेपो न्याय्यः ?R?0न शक्त्यन्तरकल्पना ?R?0। कुतः ? ?Rअभ्यासापेक्षत्वात्?R?0 शक्त्यन्तरकल्पना अभ्यासापेक्षा । यदि हि अग्न्यादिपदस्याभ्यासो (न) भवेत् मन्त्रान्तर्गतं तावत्प्रयुज्येत तथा केवलमिति । तथा केवलवचनप्रयोगे शक्त्यन्तरकल्पना अवश्यं कर्तव्या । अन्यथाऽभिधानाशक्तेः । नचाचोदिताभ्यासः कारयितुं शक्यते यत्र शब्दस्योपदेश इति । सत्यं, स तु कार्यार्थ इत्युक्तम् । कार्यतश्चात्र प्राप्तिर्नोपदेशतः । ?R?0तस्माद्यथाकार्यमभिधानम् ?R?0कार्यानतिक्रमेणाभिधानं आश्रयणीयम् । कार्यतश्चात्र प्राप्तिः, कार्यं चात्र नीवारप्रकाशनम् । न च तच्छक्त्यन्तरकल्पनया युक्तम् । अन्यथापि तत्सिद्धेरित्यूह एव न्याय्यः ।
?R ?R?0यत्पुनरिदं अन्तरागर्भिणीव्याख्यानं कृत्वा पुनराक्षेपोऽन्यथा च व्याख्यानं तत्र यद्याक्षेपणीय एवायमर्थः किमित्युपन्यस्तः । ?R?0किमिति तत्परत्वेन सूत्रव्याख्यानं कृतम् ।
?R उत्तरं - ?R?0उपन्यस्तस्तावत् उपन्यसनीयत्वादेव ?R?0न्याय्यत्वादेव । यदि न्याय्यः, ?R?0आक्षेपस्तर्हि कस्मात् ? ?Rउत्तरसूत्रासम्बन्धपरिहाराय । ?R?0उत्तरसूत्रमसम्बद्धं स्यादित्येतावता दोषेणाक्षेपः न पुनरन्याय्यतया । ?R?0यद्यस्मिन् व्याख्याने उत्तरसूत्रसम्बन्धो न स्यात् असूत्रितं तर्हि पूर्वव्याख्यानम् । ?R?0परिहरति - ?R?0न चासूत्रितं अनेकार्थसूचनात् सूत्रस्य । तस्मात्कौशलप्रदर्शनमिदं आक्षेपद्वारेण सूत्रकारेण (स्य) क्रियते ।?R?0 सूत्रकारेणात्रैवाधिकरणान्तरमपि सूत्रितमित्येकेनैव सूत्रेणानेकार्थसूचनात् महत्कौशलं सूत्रकारस्य प्रदर्श्यते । ?R?0शेषं
?R?0सलिङ्गमुक्तम् ।
?R?0 ॥ 3 ॥ लौकिके दोषसंयोगादपवृक्ते हि चोद्यते ॥ 9 ॥
?R?0 प्रासङ्गिकमिदमधिकरणम् । ?R?0यद्येकं यूपमित्यादि व्यवस्थार्थं वचनमिति ?R?0पूर्वमुक्तम् । ?R?0इदानीं प्रसङ्गेनेदमधिकरणमायातम् । ?R?0तत्राविशेषात् ?R?0यद्येकं यूपमुपस्पृशेदिति अविशेषश्रवणात् । ?R?0उभयार्थतां मन्यते पूर्वपक्षवादी । ?R?0पुरुषार्थतां क्रत्वर्थतां च मन्यते । अस्ति त्वयं विशेषः लौकिकेऽधिकारान्तरकल्पना । तस्माद्वैदिक एवास्तु इति पक्षान्तरम् ।
?R राद्धान्तमाह - ?R?0क्लृप्त एवात्राधिकारो दोषश्रवणात् । ?R?0अर्थवादाभिहितोऽपि दोषः पुरुषार्थत्वे आञ्जस्येनोपपद्यते । युक्त्यन्तरं चाह - ?R?0इष्टशब्दसंयोगाच्च इष्टोत्तरकालस्पर्शविषयमेव प्रायश्चित्तं मन्यते । ?R?0उच्छ्रयणादयश्च नेष्टोत्तरकालाः अपरामपि युक्तिमाह - ?R?0अपरिहार्यत्वाच्चोच्छ्रयणादेर्न विनापीति शक्यते कल्पयितुम् । ?R?0अस्यार्थः - तस्माद्यूपो नोपस्पृश्य इति प्रतिषेधोऽयं पुरुषार्थ एवोपपद्यते । क्रत्वर्थपक्षे विकल्पप्रसङ्गात् । न च विकल्पो युक्तः उच्छ्रयणादेः अपरिहार्यत्वात् । पुरुषार्थश्चेत् प्रतिषेधः तदतिक्रमप्रायश्चित्तमपि पुरुषार्थमेव । तस्माल्लौकिक एव स्पर्शनेऽयं मन्त्रः । ?R?0यत्तर्हीदमुक्तं प्रहरानेनेति पुनर्गण्य (पुनर्दण्ड)शब्दः संबध्यत इति तत्कथं ? ?R?0उत्तरं - ?R?0इत्थमेव यथा श्रूयते तथैवाभिप्रायः ।
?R?0 ?R?0प्रष्टा विवृणेति - ?R?0ननु च स्योनं त इत्यत्रापि एकवाक्यतापरिहारः प्राप्नोति । ?R?0परिहरति - ?R?0भवत्येव वाक्यार्थावगमे ।?R?0 अर्थप्रतीतिकाले तदपेक्षकत्वात् । प्रयोगे तु प्रयोगावस्थायां तु स
मन्त्रान्त (त्य) (रम्)
?R?0॥ 4 ॥ अन्यायस्त्वविकारेणादृष्टप्रतिघातित्वादविशेषाच्च तेनास्य ॥ 10 ॥
?R?0 ?R?0द्वितीयतृतीयपक्षयोस्साम्यं मन्वानो भेदप्रदर्शनायाह - ?R?0पक्षचतुष्टयमत्रोपन्यस्तम् । आद्यस्त्वयं पक्षो, बहुवचनान्त एवाविकारेण प्रवर्ततां एक?R?0वचनान्तो निवर्तत एव । द्वितीयस्तु बहुवचनान्तो निवर्तते एकवचनान्तः प्रवर्तते । स चोहितव्यः । तृतीयस्तूभयोरपि प्रवृत्तिः बहुवचनान्तस्याविकारः एकवचनान्तो विकृतः । चतुर्थस्तु उभयोरपि प्रवृत्तिः विकारश्चेति । ?R?0का युक्तिश्चतुष्टये ? ?R?0उत्तरं ?R?0प्रथमस्य तावत् पक्षस्येयं युक्तिः विकृताव?R?0भिधानाकाङ्क्षायां यद्यविकृतमपि अभधानं न शक्नोत्यभिधातुं तदा विकारनियोगो नियुङ्क्ते । सम्भवति त्वविकारेणैव बहुवचनान्तस्याभिधानं, प्रकृतौ पाशमात्रविवक्षया बहुवचनान्तस्य प्रयोगात् साधुदृष्टिः (ष्टम्) प्रकृतिवच्च द्विपाशकायामपि विकृतौ तेनैवाविकृतेनाभिधानं सम्भवति । एकवचनान्तस्तु एकसङ्ख्याकपाशाभिधायित्वात् विकृतावपि सङ्ख्याभिधानायोहितव्यः प्राप्नोति । न च तद्युक्तं अविकृतेनैवाभिधानसिद्धेर्न विकारं प्रयुङ्क्ते ।
?R द्वितीयस्येयं युक्तिः तामाह - ?R?0ऊहवाद्याह - ?R?0अनूहवादिना नाप्राप्तिरेकवचनान्तस्य शक्यते वक्तुम् । पाशमात्रस्य विवक्षितत्वादिति त्वयैवोक्तम् । ततश्च प्रातिपदिकार्थ(म) स्य सम्भवात् भवितव्यमेकवचनान्तेन मन्त्रेण । न च तस्याविकृतस्य प्रयोगस्सम्भवति, अन्वितस्वार्थत्वात् । प्रकृतौ समवेतार्थत्वात् स चेदेकवचनान्तो विकृतः तदा सम्पन्नमन्विताभिधानम् । एतदेव विवृणोति - ?R?0समवेतप्रकाशनमिति हेतोः किमनन्विताभिधानेन । ?R?0बहुवचनान्तेनेति वर्तते ।
?R तृतीये त्वियं युक्तिः । तामाह - ?R?0अयमभिप्रायः। त्वयैवोक्त पाशमात्रसमवायान्न शक्यते मन्त्रो?R?0 विनिवर्तयितुमिति तेन बहुवचनान्तेनापि मन्त्रेण भवितव्यम् । ?R?0ननु चानन्विताभिधानान्न तेन प्रयोजनमस्तीत्युक्तम् । ?R?0परिहरति - ?R?0नान्विताभिधानन्यायप्राप्तिः ?R?0अन्वितार्थाभिधाय्ययमित्यनेन रूपेण न प्राप्तिर्येन तदभावादप्राप्तिः स्यत् ।
?R ?R?0कथं ?R?0तर्हि ? ?R?0समवेताभिधानेन प्राप्तिकमित्युक्तम् । ?R?0तुल्यश्चायमर्थसमवायः
?Rएकवचनान्तश्च बहुवचनान्तश्च मन्त्रः प्रतीयते । न प्राप्तिर्वारयितुं शक्यते । अनन्वितस्य प्रकृताविवात्रापि साधुता भविष्यति । एकवचनान्तस्य पुनः?R?0 स्वार्थेनैकत्वेनान्वितो यः ?R?0समवेतः पाशः ?R?0तदभिधानात्त?R?0दधायकत्वात् तथैवात्रापि ?R?0साधुत्वम?R?0भिधाने साधुतेति हेतोर्नो (न्) हः ।
?R ?R?0राद्धान्तस्तु मन्त्रद्वयं विकृतं प्रयोक्तव्यम् । ननु चासमवेताभिधायि बहुवचनान्तमन्त्र?R?0 (इत्युक्तम्) । (तस्य कथं) साधुता भविष्यतीति भावः । परिहरति - ?R?0सत्यं शक्यत इह द्विपाशके कर्मणि नोक्तम् । ननु च प्रकृतिवत्कुर्यादिति इहापि तद्वदेव प्राप्नोति । ?R?0प्रकृतौ विवक्षितं समवेतार्थं स्यात् नचैतत्तत्र विवक्षितम् । कुत इत्याह - ?R?0तत्र हि पाशमन्त्रान्वयादेव पाशार्थो विवक्षितः वचनयोगस्तु प्रयोगसाधुतासम्पत्त्यर्थः । नाभिधानान्वयः । (न च) यदि च प्रयोगोऽयं साधुः तदा साधुत्वे सति अत्रापि केन प्रयोगो वार्यते । ?R?0परिहरति - ?R?0नात्र शक्यते साधुतां वक्तुम् । ?R?0कुत इत्याह - ?R?0साधुता हि प्रयोगाद्भवति । अप्रयुक्तेऽपि लक्षणाद्वा । ?R?0तत्र प्रयोगस्तावत् बहुववचनान्तस्य पाशयोर्नास्ति । (पेदिकं) (वचन)लक्षणापि छन्दसि विद्यते सुपां सुपो भवन्तीति । नचोहः च्छन्द इत्युक्तम् । तस्मादपभ्रंश एवात्र बहुवचनान्तः । तेन साधुत्वाय द्विवचनान्त ऊहितव्यः । अत्र पूर्वप्रयोगात् भिन्नलक्षणमुक्तमिति मत्वा चोदयति - ?R?0कथमप्रयुक्तस्य लक्षणमिति । ?R?0अप्रत्यक्षप्रयोगस्येत्यभिप्रायः यस्यापि प्रकृतौ प्रत्यक्षेण प्रयोगो न दृश्यते तस्यापि लक्षणदर्शनात् साधुत्वमवगम्यत इत्यर्थः । ?R?0अतः प्रकृतौ प्रयुक्तस्य पाशद्वयमात्रे विवक्षिते मन्त्रार्थे किमिति वचनार्थ आद्रियते । ?R?0उत्तरं - ?R?0साधुत्वायेति ?R?0ब्रूमः । विभक्तिं विना न केवलस्य साधुत्वम् । तथापि किमित्याह - ?R?0असाधोः प्रतिषेधात् । ?R?0तथा गतार्थानामपि साधुत्वाय लौकिका वचनमाद्रियमाणा दृश्यन्ते देवदत्तयज्ञदत्ताभ्यामिदं कार्यं इदं कृतमित्येवमादिषु । तस्मात् सूक्तं विकृतयोरपि मन्त्रयोः प्रयोग इति ।
?R?0 ॥ 5 ॥?R विप्रतिपत्तौ विकल्पः स्यात् समत्वात् गुणे त्वन्याय्य कल्पनैकदेशत्वात् ॥ 1 ॥
?R?0 पाशमन्त्रद्वयमुदाहरणम् । ?R?0अनेन पाशमन्त्रसमाख्यामुत्कर्षोपयोगिनीमाह । ?R?0 ननु चोदकप्राप्तं बहुवचनान्तपाशमन्त्रमाश्रित्य विचारः कृतः । ननु प्रकृतावननुप्रविष्टस्य कथं चोदकतः प्राप्तिः । ?R?0अतः कथं पुनरुत्कर्षाशङ्केत्यत्राह ?R?0अर्थाच्चेदमधिकरणं ?R?0आधस्त्यात् पूर्वं द्रष्टव्यम् । एतदधिकरणसिद्धमेवानुप्रवेशं गृहीत्वा सा चिन्तेत्यभिप्रायः । साक्षादसङ्गतत्वाच्च पूर्वमियं चिन्ता न कृता । इदानीं पूर्वाधिकरणप्रसङ्गेन सङ्गतिः । ?R?0अत्र पूर्वपक्षवादी सकलवाक्यान्वयाभावात् बहुवचनयुक्तस्य मन्त्रस्योत्कर्षं मन्यते । ?R?0अस्यार्थः - लिङ्गविनियोज्योऽयं मन्त्रः तेन यत्रैव पाशबहुत्वान्वितं पाशोन्मोचनं प्रकाश्यते तत्रैव पाशमन्त्रसमाख्यया लब्धसामान्यसम्बन्धो
विनियुज्यते इति उत्कृष्यःतव । बहुवचनान्तः ननु पाशविमुक्त्यर्थत्वान्मन्त्रयोः बहुवचनविनियुक्तेपि तस्यार्थस्य सम्भवे नोत्कर्षो न्याय्यः । ?R?0पाशविमोकोऽयं मन्त्राभ्यां प्रकाश्यः । बहुवचनान्तेनापि मन्त्रेण शक्यत एवासौ प्रकाशयितुमिति कथमुत्कर्षः । ?R?0परिहरति - ?R?0सत्यं पाशविमोकार्थः स भवति बहुवचनत्यागेन तु ?R?0सःप्रकृतिगतेन । न चा (वाऽ)न्वितार्थस्य बहुवचनस्य त्यागे प्रमाणमस्ति । तस्माद्यत्र कर्मणि सहान्वयस्समवेतार्थोऽयं मन्त्रः तत्रानेन मन्त्रेण भवितव्यम् । अथाप्यवान्तरवाक्याश्रयणं स्यात् । न च महावाक्ये तदपाश्रयणमस्तीति हेतोरुत्कर्ष एव न्याय्यः
?R?0 एवं प्राप्तेऽभिधीयते - प्रातिपदिकाश्रितं ह्यत्र बहुत्वं प्रतीयते विभक्तितोऽवगमात् न यथा सङ्ख्याशब्दादिवत् स्वतन्त्रम् । ?R?0यथा सङ्ख्याशब्देन चतुरो मुष्टीन्निर्वपतीत्येवमादिषु प्रातिपदिकसम्बन्धनिरपेक्षा सङ्ख्या विधीयते न तथा विभक्ति (तः) प्रतीयते । विभक्ति (श्रुतयः) श्रुत्याऽभिहितं प्रातिपदिकाश्रितमेव स्ववार्थमाहुः । ?R?0ततः किं ?R?0उत्तरं?R?0 - इदं ततो भवति ?R?0पाशार्थाश्रयि(यी)
?Rबहुत्वस्यान्वयः प्रतीयते । तथापि किमित्याह - ?R?0पाशार्थश्च विमोकसम्बन्धितया प्रतीयमानोऽनेन मन्त्रेण नाभिधीयत इति (न)शक्यते वक्तुम् । अभिधीयते चेत् सोऽर्थः तदा तदर्थत्वान्मन्त्रस्य तदभि(धायकत्वा)हितो मन्त्रार्थः यदि विनियोगापेक्षो मन्त्रार्थो भवेत् ।?R?0 यदि विनियोगानपेक्षो मन्त्रार्थः, प्रातिपदिकस्थलिङ्गस्य प्रथमोपनिपातात् प्राधान्यात् प्रातिपदिकार्थविषयस्य विभक्तिलिङ्गात् बलीयस्त्वात् एकस्मिन्नपि पाशे मन्त्रस्य विनियोगात् बहुवचनमविवक्षितार्थमन्त्रफलमिति निश्चीयते । विनियोगतश्च मन्त्रार्थावगम इत्युक्तम् । अन्यथाहि कार्यार्थता मन्त्रस्य स्यात् । एवमेव यस्य कस्यचित् अनुवादः प्राप्नोति । ततश्च सापेक्षत्वप्रसङ्गादप्रामाण्यम् । विनियोगायत्ते तु मन्त्रार्थे यावत्येव विनियोगः तावदेव प्रकाश्यम् । अर्थान्तरस्योल्लापस्तु विषभक्षणवन्नान्तरीयकः इत्यनेन न्यायेन अविवक्षित एवेति नाप्रामाण्यम् । तेन विनियोगापन्नमेव मन्त्रार्थावधारणम् । यत एव प्रातिपदिकलिङ्गन्यायेनानुत्कर्षः ?R?0अत एव प्रकरणमभ्युच्चयवृत्तितयोपन्यस्तं भाष्यकारेण ।?R?0 यदि मूलयुक्त्यन्तरं न स्यात् तदा प्रकरणमेव मूलयुक्तिर्भवेत् । न च तस्य मूलयुक्तित्वसम्भवः । श्रुतिलिङ्गवाक्येभ्यः अप्रबलत्वात्तस्य । वाक्यबलेनोत्कर्षो न्याय्यो यतः कथं पुनः प्रकरणस्याभ्युच्चययुक्तिताप्यस्तीत्याह -?R?0 प्रत्यक्षे हि कर्तव्यता वचनसम्बन्धेऽ?R?0धिकारविधिसम्बन्धे ?R?0सम्भवति नाप्रत्यक्षेणाधिकारविधिना समबन्धो न्याय्य इत्यभिप्रायः
?R?0 ?R?0उपसंहरति - ?R?0अत आश्रयवशादनुगुणविभक्त्यर्थः प्रतिपत्तव्यः ?R?0सङ्ख्या श्रयभूतैकपाशानुगुणो विभक्त्यर्थो विज्ञेयः । ?R?0स च कर्ममात्रप्रतिपत्तिपरो भवति ?R?0सहैकत्वेन एकसङ्ख्याया अविवक्षितत्वात् कर्ममात्रप्रतीतिपरो मन्त्रः । यदि वा सङ्ख्या विवक्षिता तेनैवैकत्वेन सह मन्त्रार्थः ।
?R ?R?0ननु सहपक्षेऽर्थान्तरवचनतापि कल्पिता भविष्यति बहुवचनस्यै कत्वमपि । बहुवचनस्य वाच्याभाव इति कल्पितम् । ?R?0ततश्चैकार्थत्वप्रसङ्गो
?Rबहुवचनेऽपि सम्भवति । ततश्च स्वायत्तेपि प्रयोगे एकस्मिन् बहुवचनप्रसङ्गः । परिहरति - ?R?0न स्ववायत्ते प्रयोगे प्रसङ्गः अनियोगे लोकतोऽवगमात् । ?R?0एकत्वादि नियमेनैकवचनताद्यवगमात् । तस्मान् प्रयोगसाधुतैवात्रानभिधानसाधुत्वम् । कथं तर्हि एकत्वावगतिः तत्राह - ?R?0कर्ममात्रवचनत्वादपि एकत्वसिद्धेः ?R?0कर्ममात्रऽवगते निरपेक्षतया एकत्वमवगम्यते । द्वित्वादिका हि सङ्ख्या अपेक्षाबुद्धिनिबन्धना । यत एकस्मिन् बहुवचनमवाचकम् अत एव च लक्षणकारा अपि एकस्मिन् बहुवचनमिति यत्नान्तरमारभन्ते । अन्यथा हि स्वभावसिद्धत्वादवाच्यं स्यादिति । स्वभावसिद्धत्वान्न न वाच्यत्वम् । कथं तर्हि बहुषु वचनाप्राप्तौ एकस्मिन् बहुवचनमिति स्मरणं??R प्राप्त्यर्थमेव । तस्मात् प्रयोगसाधुतैवेति अर्थे समन्वयाभावात् ।
?R?0॥ 6 ॥?R अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत ॥ 20 ॥
?R?0 ?R?0इह पुनरेकपत्नीके प्रयोगे स्वार्थसम्बन्धसम्भवान्न द्वयोर्बहुषु वा साधुता शक्यते वक्तुम् । पाशे ह्यनन्यगतितया तथात्वाश्रयणम् । इह तु गतिरस्तीति न प्रयोगसाधुत्वाश्रयणम् ।
?R ?R?0ननु चात्रापि प्रयोगसाधुत्वाय भविष्यति । ?R?0परिहरति - न ?R?0एकस्मिन् स्वार्थसम्भवात् ?R?0न (स्वार्थे) सम्भवति प्रयोगसाधुता । तस्मात् साधुत्वायैव द्वयोः बहुषु चोहः कर्तव्यः ।
?R ?R?0अथ कस्मादेकपत्नीक एवास्य प्रयोगो न भवति । ?R?0यथा व्रीहिपक्षे स्योनं ते इति मन्त्रः । ततश्चोक्तोहो न युक्तः । परिहरति - ?R?0नैवमुपपद्यते सर्वत्र प्रातिपदिकार्थसम्भवात् पाशवत् सर्वत्रैव विनियोगः । ?R?0तत्र हि यवेषु समवेतार्थतैव नास्ति । इह पुनः द्वयोः बहुषु च पत्नीप्रातिपदिकस्य समवेतत्वमस्ति इति न वचनान्तरानुरोधेन नियमश्शक्यते वक्तुम् । न च समवेतार्थसम्भवे
?Rप्रयोगसाधुता वचनस्येति ऊहेन भवितव्यम् । अत्राभिधीयते - ?R?0न तावदेकवचनकार्ये द्वित्वं बहुत्वं वा श्रूयते नीवारवत् । ?R?0यथा नीवारा व्रीहीणां कार्ये विधीयन्ते तथा एकत्वकार्ये द्वित्वं बहुत्वं वा न श्रूयते । ?R?0ततः किम् । ?R?0उत्तरं - ?R?0इदं ततो भवति। तद्वत्समवेतार्थमिति न शक्यते वक्तुम् । ?R?0यथा प्रकृतौ व्रीहिशब्दः समवेतार्थः तथैकवचनमपीति न शक्यते वक्तुं सर्वेषामेकद्वित्वबहुत्वानां समन्वितत्वात् । ?R?0ननु च प्रयोगसाधुतापि न शक्यते वक्तुम् । ?R?0परिहरति - ?R?0न शक्यत एव वक्तुं प्रातिपदिकार्थमात्रस्य सन्नहनयोगात् द्वयोः बहुषु च समवेतार्थानवगमात् । ?R?0अस्यार्थः - पत्नीप्रातिपदिकमात्रस्यापेक्षितसङ्ख्याविशेषस्य मन्त्रेण सन्नहनेन योगात् । द्वयोः पत्न्योः बहुषु वा एकत्वाभावात् एकवचनस्य समवेतार्थत्वानवगमात् । अविशेषेणैकस्मिन्नपि समन्वयश्शक्यते वक्तुम् ।
?R एकत्वप्रतिपत्त्यर्थमिदमेकवचनं न भवति द्वयोः बहुषु च तदभावात् । किन्तु सर्वस्यापि सव्यापारतया कर्मत्वसम्बन्धार्थमिति । अतः प्रयोगसाधुतैवात्रापि इति न योप्रगविरोधः । ?R?0ननु चैकस्मिन् समन्वयो न शक्यते परिहर्तुम् । ?R?0परिहरति - ?R?0न शक्यं नाम प्रयोगविशेषात् द्वयोः बहुषु चार्थसमन्वयात् प्रयोगसाधुतैवेत्यदोषः ।
?R?0
?R?0 ॥ 7 ॥ विकृतौ चापि तद्वचनात् ॥ 21 ॥
?R?0 अत्र स्वायत्तं प्रयोगं मन्वानस्य पूर्वपक्षः । ?R?0यथा स्वायत्ते कर्मणि स्वायत्तः प्रयोग इति मत्त्वा द्विवचनमूहितव्यम् तथेहापि विकृतौ द्विपत्न्यामपि पत्नीशब्दे द्विवचनस्योह एव युक्तः स्वायत्तत्वात्प्रयोगस्येति पूर्वः पक्षः ।
?R राद्धान्तस्तु प्रकृतिवत् साधुत्वसम्भवात् (न) स्व(वा)यत्ते प्रयोगे प्रमाणमस्तीति । यदि वैदिकेन प्रयोगेण कार्यं न सिद्ध्यति तत्र स्वायत्तः प्रयोग आश्रीयते । पत्नीशब्दश्चैकवचनान्तो द्वित्वे बहुत्वे च सिद्धप्रयोग इति न स्वायत्तप्रयोगावकाशः । पाशे तु द्वित्वे बहुवचनान्तस्य प्रयोगादर्शनादस्ति
?Rस्वायत्तप्रयोगावकाशः । यत्पुनःभाष्ये तथैव च नाविवक्षा तद्वचनेनेत्युक्तम् । तदयुक्तम् । पाशाधिकरणविरोधात् अविवक्षितेपि विभक्त्यर्थे यथार्थमेव विभक्तिः प्रयोक्तव्येति । तेनात्रापि द्विवचनबहुवचनयोरेव प्रयोगः प्राप्नोतीति परिहरति - ?R?0यत एवायं पक्षो दृष्टः अत एवाथवेत्युक्त्वा ?R?0पक्षान्तरमुक्तम् पूर्व । परितोषेण । तद्व्याचष्टे - ?R?0तद्वदेव साधुत्वसम्भवात् । ?R?0यथा प्रकृतौ द्वित्वबहुत्वयोरपि प्रयोगात् एकवचनस्य साधुता पत्नीशब्दे तथा विकृतावप्यनूहः ।
?R
?R?0 ॥8॥?R?0 ?R?0अध्रिगौ सवनीयेषु तद्वत् समानविधानाश्चेत् ॥ 22 ॥
?R?0 समानविधानमिति कृत्वा चिन्तेयम् । अनेन विशेषेण तद्वदतिदेशोऽयं न विशेषान्तरं वक्तव्यम् । ?R?0समानविधानप्रयोजनमेतदित्यर्थः ।
?R?0 ॥ 9 ॥?R प्रतिनिधौ चाविकारात् ॥ 23 ॥
?R?0 प्रतिनिधौ ?R?0व्रीहिकार्यापत्तेः ?R?0मुख्ये च व्रीहिशब्दस्य समवेतार्थत्वात् ऊहं मन्यते ?R?0पूर्वपक्षवादी । यदि प्रतिनिधिः व्रीहयश्च स्वातन्त्र्येणोपदिष्टा भवेयुः तदा मन्त्रो न भवेदेव । व्रीहिकार्यापन्नश्च प्रतिनिधिः व्रीहिशब्दश्च समवेतार्थ इति युक्त एवोहः ।
?R ?R?0राद्धान्तस्तु न ?R?0व्रीहिकार्ये ?R?0नीवारा उपदिश्यन्ते । ?R?0किन्तु व्रीह्युपदेशोपपत्त्यर्थं किञ्चिद्विकलं व्रीह्युद्देशं सम्पादयन् नीवाराणामुपादानम् । न चोपदेशोपपत्तौ कार्यापत्तिः तस्मा एवेति तदभिधान एव भवितुमर्हतीति । तस्मात् प्रतिनिधावपि व्रीहय एवेतीह व्रीहिशब्देनैवाभिधानं युक्तम् ।
?R सम्यञ्चमर्थं बुद्ध्या चोदिति (?)?R तदेवेदमुत्पतितम् । यदि प्रतिपाद्यमप्रतिपादितं निराकृतं च । ?R?0अध्यासिततद्भावोऽध्यारोपिततद्भावो वा गौणार्थ इति । ?R?0अध्यासो भेदाग्रहणम् । अध्यारोपो विपरीतख्यातिः । उभयं चैतदयुक्तं भेदेन नीवाराणामवगतेरित्युक्तम् ।
?R स्वाभिप्रायं राद्धान्ती विवृणोति - ?R?0नायं दोषः भूयोऽवयवसामान्येनैव व्रीहीणामेवोपपादनं शक्तितः कृतमिति?R?0 तदभिधानमेव व्रीहिशब्देन क्रियत इति (न) शब्दान्तरापत्तिः । अवयवपर्यन्तत्वादाकृतेः साधनभावस्य । व्रीह्यभावेऽविकलावयवोपसंहाराभावेपि कतिपयव्रीह्यवयवस्वीकाराय प्रतिनिधेरुपादानमिति व्रीहितयोपात्तानां व्रीहिशब्देनैवाभिधानं युक्तम् । न चाध्यारोपाध्यासौ, तत्प्रत्ययादवयवान्तरप्रतीतेः । यदि तथैवावयवो (पायोः) पादानं किमिति तस्मिन्नीवारोपादानमिति तत्राह - ?R?0तद्व्यतिरिक्तस्य व्रीह्यवयवव्यतिरिक्तस्यात्रोपादानं?R?0 नान्तरीयकम् । तैर्विना व्रीहीणामेवोपादानाशक्तेः इत्यदोषः । तस्मान्नायमूहस्य विषयः तत्स्थानापत्त्यभावादिति ।
?R अत्र पूर्वपक्षवादी ब्रूते - व्रीह्यपचारेऽवश्यं (अ) मुख्ये कर्मणि द्रव्यान्तरोपादानेऽवश्यंभाविनि सादृश्येन तद्द्रव्योपादित्सानियम इति । राद्धान्ती तु उपदेशेनैव केवलं सम्पादयितुं सदृशमुपादीयत इति ।
?R?0 ॥ 10 ॥ संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् ॥ 27 ॥
?R अत्र भाष्यकारेणैवमुक्तम् - ननु प्रकृतावप्यन्यायनिगद एवायम् । द्वयोश्चक्षुषोरेकवचनान्तो यतः तेनोहो न युक्त”?R इति तदाक्षिपति - ?R?0येयं समवेतार्थ परिचोदना नैवासावनूहायालम् । कथं ??R?0 - उत्तरं - ?R?0द्वयोरेकवचनं दृष्टं द्विपशुकेषु कर्मसु अधिष्ठानबहुत्वे असाधुतैव प्राप्नोति पाशानितिवत् ।?R?0 द्वयोः पाशयोः पाशानित्यसाधु एकस्मिन् दर्शनात् । तथाऽत्र द्वयोर्दर्शनादेकववचनस्य बहुष्वसाधुता । ?R?0तस्मान्निष्प्रयोजनैवेयं परिचोदना । ?R?0समाधत्ते - ?R?0अयमभिप्रायश्चोदकस्य । समवेतत्वे पुनरूहः कथं स्यादिति । ?R?0अस्य(या)र्थः - चोदकस्यायमाशयः - अधिष्ठानभेदेनासमवेतार्थत्वं मया चोदितं, समवेतार्थसिद्धये पूर्वपक्षवादी तेजस एकत्वं नासमवेतार्थत्वमिति परिहारं वक्ष्यति । तथापि द्विपशुष्वपि तेजस एकत्वात् समवेतार्थत्वेपि अनूहो भवेदिति । एवं चोदनां
?Rसमर्थ्य परिहारभाष्यंव्याचष्टे - ?R?0तदिदमयुक्तम् । यद्भवता चोदितमन्यायनिगदोऽयमिति संसर्गित्वात्तेजसः सत्यप्यधिष्ठानभेदे तत्समवेतार्थत्वं मन्यते ।
?R?0 ?R?0परिहृते चोदकः स्वाभिप्रायमाह - ?R?0अयमभिप्रायः - एषामनयोरिति वा कृते मन्त्रे असाधुता न शक्यते वक्तुं पाशानितिवत् इति । ?R?0वैधर्म्यदृष्टान्तोऽयम् । यथा पाशानित्यसाधुता द्वयोः तथात्रासाधुना नास्ति एकवचनान्तस्यापि मन्त्रस्येति चोदना । अत्र पूर्ववादी सम्बन्धिभेदात् पशुभेदात्तेजसो भेदं मन्वानः ऊहं वदति । तेजोद्वये तेजोबहुत्वे च एकवचनान्तस्यासाधुत्वादूहो युक्तः तेजोभेदश्च पशुभेदात् । एवं पूर्वपक्षिते राद्धान्तच्छायया परिचोदयति - ?R?0अधिष्ठानतो वा किमिति भेदो न विवक्षितः ?R?0यदि सम्बन्धिभेदाद्भेदः तदा अधिष्ठानभेदादपि भेदःस्यात् । ततश्च प्रकृतावपि कथमेकवचनम् । अन्यस्य भेदेप्यन्यस्य भेदो नास्तीत्यधिष्ठानभेदो न विवक्षितः । ततश्च पशुभेदादपि भेदो न विवक्षणीय इति परिहारभाष्यं व्याचष्टे - ?R?0अनुपादानाधिष्ठानयोरिति परिहृतम् । अस्येति पुनः पशोः रुपादानमस्तीति । ?R?0अस्यार्थः - अधिष्ठाननिबन्धनो भेदो नाश्रीयते तदवच्छेदेन तेजसोऽनभिधानात् अस्येत्यन्येन तु शब्देन पशोरुपादानात् पश्चवच्छेदेन तेजसोऽभिधानात् तन्निबन्धनो युक्त एव भेदो विवक्षितुम् । तस्मादूहः ।
?R राद्धान्तस्तु न शब्दाभेदादूहो युक्तः । चक्षुश्शब्दस्य योऽर्थस्तेजोलक्षणतस्याभेदादेकत्वादूहो न युक्तः । भवतु सम्बन्धिनः पशोर्भेदः तथापि न शब्दान्तरार्थस्य चक्षुरादेः भेदो युक्तः । ?R?0शब्दान्तरार्थस्य पशोर्भेदे यदि तेजसो नास्ति (भेदः) कथं तस्मिन् चक्षुः?R?0 (पदप्रयोगः) ?R?0उत्तरं - अधिष्ठानभेदे लक्षणयैव । ?R?0भिन्नेऽस्मिन्नधिष्ठानत्वमेव विवक्षित्वा लोक एवं प्रयुङ्क्ते । चक्षुश्शब्दस्याधिष्ठानपरत्वात् तत्र तदभिधित्सावगमात् । इह पुनः सूर्यमस्य चक्षुर्गमयतादिति नाधिष्ठानाभिधित्साऽवगम्यते प्रकृतिगामित्वादधिष्ठानकमेव हि तद्वचनम् । नाधिष्ठानस्य सूर्यप्रकृतिता किन्तु तेजस इति तत्पुन(त्पर) श्चक्षुश्शब्द
?Rइत्यनूहः । ?R?0लिङ्गमुक्तम् ।
?R?0॥ 11 ॥ एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् ॥ 29 ॥
?R?0 ?R?0इदानीं चिन्त्यते - किं यथा प्रकृतौ मन्त्रार्थो वर्णितः तथैव विकृतावपि उत प्रकारान्तरेणापि समवेतार्थान्वयोपपत्तेः वर्णनीय इति । तत्र (यदि) तथैवविकृतावपि तदा एकधास्य त्वचमाच्छ्यतादिति प्रकृतौ सकृत्त्वाभिधानात् विकृतावपि तदेव कर्तव्यं इत्यभ्यासः स्यात् एकधैकधा इति । अन्यथापि यदि मन्त्रार्थवर्णना ततः सहायार्थतयाऽनूह इति । तत्र पूर्वपक्षवादी विनियोगान्तर (वत्) प्रयोगान्तरेपि मन्त्रस्यार्थान्तरं न दोषायेति मन्वानः प्रकारान्तरेणाप्यनूहमुक्तवान् । ?R?0ननु च प्रकृतिवदित्यस्यार्थान्तरकल्पनायां प्रमाणं नास्ति (?R?0शक्त्यै) वोपपत्तेः उपदेशान्तरे तु पूर्वस्यानुपपत्तिकारणमर्थान्तरवर्णनेन अन्यत्राप्यनूहो (भविता) तथाऽनूह एव स्यादिति । परिहरति - ?R?0कोऽयमनूहो नाम अर्थान्तरवर्णनहेतुः??R ?R?0उत्तरं - ?R?0आर्षानुग्रहः । ?R?0पुनः पृच्छति - ?R?0अर्षो नाम कः??R ?R?0उत्तरं - ?R?0स्वाध्यायकाले यत्स्वरूपम् । ?R?0राद्धान्त्याह - ?R?0अनुगृहीतं स्वरूपं प्रकृतौ विकृतौ च गौणं नास्ति कार्यतस्तु तत्प्राप्त्यवगमात् तथाकार्यमेव वर्णनं न्याय्यम् । ?R?0क्लृप्तं च सकृत्त्वप्रतिपादनं प्रकृतौ कार्यमिति विकृतावपि तत्सिद्ध्यर्थ ऊह एव युक्तः । उपदेशे तु स्वरूपत एव प्राप्तिरिति तदनुरूपं कार्यम् । भवतु कार्यतः प्राप्तिः तथापि किमित्याह ?R?0कार्ये चार्थान्तरक्लृप्तौ प्रमाणं नास्ति प्रकृतिक्लृप्त्यैवोपपत्तेः । ?R?0तस्मादूह एवात्र न्याय्य इति न्यायविदो मन्यन्ते नार्थान्तरानुग्रहम् ।
?R?0॥ 12 ॥ मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयक्तत्वात् ॥32 ॥
?R?0 ?R?0अत्रोभयस्य स्वामिदेवतस्य निमित्तत्वोपपत्तेः पदार्थत्वे उभयं स्वामिदेवतं
?Rमन्त्रार्थ इति मन्वानः पूर्वपक्षवादी प्रकृतावेव बहुषु द्विवचनैक (वचन) दर्शनात् विकृतावपि प्रयोगसम्भवादनूहं मन्यते । ?R?0ननु चैकेनैव पदार्थेन मेधपतिशब्दस्य निमित्तभावस्य चरितार्थत्वात् कथं द्व्यर्थता मन्त्रस्य ??R यमेव ?R?0हि पदार्थं उपस्थापयति मेधपतिशब्दः स एवैको मन्त्रार्थो युक्तः कथं द्व्यर्थता मन्त्रस्य गृह्यमाणविशेषत्वात् । ?R?0द्वयमपि मेधपतिशब्देनोपस्थाप्यते ?R?0द्विष्ठान्यपि वाक्यानि भवन्तीत्यभिप्रायः । पक्षान्तरं तु सत्यं द्वयमुपन्यस्तम् । यदि गृह्यते विशेषः तत्रोभयस्य निमित्तत्वं भवद्भवेत् । गृह्यते तु विशेषः । स्वामिपरत्वे द्विवचनैकवचनयोरुपपत्याऽर्थौ भवतः । स्वामिन्येकवचनस्य दम्पत्योर्द्विवचनस्योपपत्तेः । न देवतापरत्वे, एकत्वाद्देवतायाः । तस्मात् स्वामिपरोऽयं मन्त्रः तदनुसारेण चोहितव्यः । देवता परत्वं तु राद्धान्ती मन्यते । एवं प्रातिपदिकार्थो न भूतपूर्ववृत्त्या व्याख्यातो भवति । स्वामिनो हि तद्देयं प्रत्यायितम् । न च भूतपूर्वः सम्बन्धः (युक्तः) । न च भवत्यर्थे भूतपूर्वाश्रयणं युक्तम् । यत्पुनरिदं गणाभिप्रायमेकवचनं वर्णितं गणस्यैव देवतात्वमिति स्मारितं एकवचनान्तस्यानुत्कर्षार्थं तत् पाशबहुवचनन्यायेनानुत्कर्षहेतौ सम्भवति एकस्य हेतोः केन हेतुना अयं सम्भवति । अभिधानसाधुत्वे प्रयोगसाधुतैवाश्रयितुं न युक्तम् इति । पाशमन्त्रे हि बहुवचनस्य प्रयोगे साधुता अभिधानसाधुत्वा(त्)सम्भवति । अगतिका गतिः । तेनाभिधानसाधुत्वप्रदर्शनात् गणाभिप्रायमेकवचनं वर्णितं, किं प्रयोजनमित्याह - ?R?0ऊहे च विशेषोपपत्तिः प्रयोगसाधुत्वप्रदर्शनार्थत्वे बहिष्ठदेवतासु प्राप्नोति । ?R?0गणाभिप्रायत्वेऽभिधानसाधुत्वे सति स नेति ।
?R ?R?0ननु द्वयधिष्ठानाया देवताया एकत्वेपि वचनमनुपपन्नं भवति । ?R?0परिहरति - ?R?0नानुपपन्नं एकेन हेतुना समवेतार्थत्वेन । ?R?0कुतः पुनस्समवेतार्थमित्याह - ?R?0द्विष्ठस्याप्यधिष्ठानगतैक्योपपत्तेः
?R?0 ?R?0ननु च यद्यप्यधिष्ठानगतद्वित्वं समवेतं तथापि कारकगं न भवति
?Rतत्प्रकाशने मन्त्रस्यानर्थक्यं इत्यत्राह - ?R?0समवेतार्था?R?0भिधाने च मन्त्रस्यार्थवत्तोक्ता अधिष्ठानमपि स्मारितं कारकं स्मारयत्येवेति भावः तस्माद्देवतावशादूहः द्विवचनान्तस्य अधिष्ठानबहुत्वे एकत्वे चोहः एकबहुत्वयोरिति स्थितम् ।
?R?0॥ 13 ॥?R नियमो वा बहुदेवते विकारः स्यात् ॥ 13 ॥
?R?0 अत्रैकवचनान्तमन्त्रस्य निवृत्तिं मन्यते । एकवचनान्ततया ऊहेन न तु प्रवर्तत एव । कथं मन्यते ? ?R?0उत्तरं - ?R?0द्वित्वे हि एकवचनान्तस्यायं प्रयोग इति भ्राम्यतो बहुषु असभ्रंशः साध्वेकवचनमिति बहुष्वसाधुत्वादूहो युक्तः ।
?R?0 ननु संसर्गिदेवगणो देवतेत्युक्तम् । ?R?0तेनात्रापि तदभिधायकमुपपद्यत एवैकवचनम् । परिहरति - ?R?0स्यात् द्वित्व एव तदिति मन्यते । ?R?0अस्यार्थः द्वित्वे प्रयोगः स्थितः संसर्गोक्तेरित्युक्तम् । तेनात्रापि द्वित्वे वा संसर्गे वा तत्रैकवचनम् न बहुत्व इति मन्यते । तस्मात् बहुष्वपभ्रंश एवेति । निवृत्तिः भ्रमः यथा पाशानिति द्वयोः
?R राद्धान्तमाह - ?R?0प्रवर्तेत वा एकवचनान्तमेव । ?R?0 कुत इत्याह - ?R?0संसर्गो ह्यत्र विवक्षितः (न च) द्वयोः बहुषु वा सः ?R?0संसर्गमात्रं ह्यत्राविशिष्टम् । सर्वो हि संसर्ग एक एव । तेन तत्र युक्तमेकवचनम् । अभिधानाविप्रतिपत्तौ हि प्रयोगनियमो भवति । न पुनस्सम्प्रतिपत्तावपि अदर्शनमात्राम् अन्याभिधायिनोऽन्यत्र प्रयोगायोगात् न विप्रतिपत्तिर्भवति । तत्र यत्रैकवचनप्रयोगस्तत्रैव साधुत्वम् यस्य पुनरभिधानसम्प्रतिपत्तिः यत्रैवाभिधायकत्वं तत्रैव प्रयोगः तत्र तद्विध एवान्यत्र प्रयोगदर्शनमात्रेण नियमः । कुत इत्याह - ?R?0अद्य जातायां गवि गोशब्दस्यासाधुताप्रसङ्गात् । ?R?0न चासाधुता तस्मात् प्रकृतिवदत्राप्येकवचनं साधु ।
?R
?R?0॥ 4 ॥ अर्थान्तरे विकारः स्याद्देवतापृथकत्वात् एकाभिसमवायात् स्यात्
?R?0॥ 43 ॥
?R?0 ?R?0अत्र संसर्गमात्राविशेषात् साधुत्वं मन्यते पूर्वपक्षवादी । अधिष्ठानसंसर्गो वा भवतु, देवतासंसर्गो वा । सर्वथा तावत् संसर्गस्यैकत्वादेकवचनं साधु इति ।
?R ?R?0राद्धान्तस्तु देवतासंसर्गः (मन्त्रार्थ) न संसर्गमात्रम् । ?R?0अङ्गत्वाद्देवतागतसंसर्गो मन्त्रार्थः न संसर्गमात्रम् । तस्यानङ्गत्वात् । ननु अनङ्गस्यापि समवेतत्वादभिधानं युक्तमित्यत्राह - ?R?0अङ्गे हि समवेतार्थाभिधानं मन्त्राणामुक्तम् ।?R?0 न सम्भवमात्रेण । अङ्गे हीति निमित्तात्कर्मयोगे इति सप्तमी । तेनायमर्थः - अङ्गार्थमङ्गं प्रत्याययितुं समवेतार्थाभिधानं मन्त्रैः क्रियते . न पुनस्सम्भवन्मात्रसंसर्गः यागभेदैत् भिन्नेषु यागेषु या देवताः तासां संसर्गो न क्वचित् अङ्गम् । अङ्गभूतदेवतारूपप्रकाशकश्चैकवचनान्तो मन्त्रः तस्माद्देवताबहुत्वादसाध्वेकवचनम् । अत ऊह एवेति सिद्धम् ।
?R ?R?0ननु चैवं सति आकृत्यधिकरणाक्षेपः प्राप्नोति । क्रियाविशेषाणां चाभिधानदर्शनात् न तावन्मन्त्रार्थता सिद्ध्यति । ?R?0अस्यार्थः तथा क्रिया विशेषणतयैवाभिधानं दर्शितम् । एवं च दर्शयता आकृत्यधिकरणमक्षिप्तं भवति । आकृतेः क्रियाविशेषणत्वासम्भवात् अनभिधानप्रसङ्गात् । समाधत्ते - ?R?0अस्त्यत्र विशेषः देवताभिधानत्वे प्रातिपदिकस्य सिद्ध एव च नोपपत्त्यर्थ संसर्गस्य देवतात्वाश्रयणम् । ?R?0तेन भिन्नानां यागानां या एव देवताः तासां सेंसर्गो न देवते (ति) (न) मन्त्रस्याभिधेयः । तदभिधाने मन्त्रस्या (न)न्वयप्रसङ्गात् । तत्र पुनराकृतिप्रतिपत्तिरेवान्वयहेतुः सामान्यरूपेणान्वयावगमादिति तत्रैव प्रपञ्चेनोक्तम् । तस्मान्नागृहीतविशेषणेति वा इतो वा आकृत्या समानावेवान्विता क्रियायां न संसर्ग इति सिद्धं देवताभिधानमसंसर्गीभिधानम् । तस्मान्नाक्षेप आकृत्यधिकरणस्य ।
?R ?R?0इति महोपाध्यायशालिकनाथमिश्रकृतायां ऋजुविमलायां पञ्जकायां नवमस्य तृतीयः पादः
?R?0नवमस्याध्यायस्य चतुर्थः पादः
?R षङ्विशतिरभ्पासेन पशुगणे तत्प्रकृतित्वादुगुणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगच्च सर्वाभिः ॥ 1 ॥
?R अत्र पञ्चपक्षा उपन्यस्यन्ते । पञ्चाधा मन्त्रार्थप्रतिभानात् । तत्र पशुप्रधानो मन्त्रार्थ इत्येकः पक्षः । सङ्ख्याप्रधान इति द्वितीयः . वङ्क्रीप्रधान इति तृतीयः । अविवक्षित एवेत्यपरः, शङिशतिसम्बन्धितापरः पञ्चमः । अस्मिंश्च पञ्चमे पक्षे एवं सति सम्बन्धितोक्ता भवति षङ्विशतिष्षङिंशतिरनयोरेषां वङ्क्रय इति षङ्विशतिपदेऽभ्यस्ते पशुभ्यां पशुभि(र्वा) प्रत्येकं सम्बन्धिता प्रतिपादिता भवति । वीप्सा तु व्याप्तुमिच्छा तेन द्विर्वचनदर्शनात् षङिशतिसङ्ख्यैव पशुसम्बन्धितया प्रतिपादयितुमिष्टेति गम्यते । यथा “?Rपुरुषः पुरुषो निधनमुपैति” ?Rइति पुरुषे एकवचनोहः स्थित इति प्रतीकानुवादोऽयम् ।
?R षङ्विशतय इति वचनोहेन सङ्ख्यास्वरूपस्य गणनावगमात् । सङ्ख्याप्राधान्ये प्रतीतिकरणत्वेनाविनियोगातविवक्षैव प्राप्नोति मन्त्रार्थस्येति (अ) विकारेणैव प्रयोगः । येन हि मन्त्रेण स्मृतं क्रियते (स करणमन्त्रः) नयनकालत्वादध्रिगुवचनस्य तेनाकारणत्वादर्थस्मरणेऽविनियोगादविवक्षितार्थमुच्चारणमदृष्टार्थमित्यनूहः । वङ्क्रोप्राधन्ये समस्य वचनम् । मसस्य वचने हि वङ्क्रीगणना प्रतीयते । तेन तासां प्राधान्यावगतिः ।
?R कथं पुनर्विनियोगवशात् स्वीकृते मन्त्रार्थे पञ्चधा प्रतिभायात् । यावता यत्रैव विनियोगस्स एव मन्त्रार्थो युक्तः । उत्तरं - प्रकरणमात्रेण विनियोग ममन्वानस्य पञ्चधा प्रतिभाति मन्त्रार्थः । प्रकरणमात्रेणैव मन्त्रस्य विनियोगः । न च श्रुत्या, नापि वाक्येन, समाख्यया, स्थानेन वा ।
?R ननु चैतदयुक्तम् - प्रकरणविनियोज्यत्वे पञ्चधा प्रतिभानं उच्चारण
?Rमात्रेणैवाङ्गतासिद्धेरविवक्षैव न्याय्या । क्वोपयुज्यन्तेऽर्थविकल्पाः ? परिहरति -
?Rसत्यमाह भवान् आचार्यवानसि । यद्यपि प्रकरणविनियोज्यता तथा प्यर्थालोचनं युक्तमेव । कदाचिदालोक्यमाने मन्त्रार्थे कस्मिश्चिदर्थे दृष्टार्थता भवतीति न लिंङ्गं प्रकरणेन विरुद्ध्यते । प्रकरणस्य सामान्यसम्बन्धापादकत्वात् । लिङ्गस्य च विशेषसम्बन्धापादकत्वात् । लिङ्गेन च दृष्टार्थे सम्भवति नादृष्टार्थं (प्र)त्यर्थि (नी) भवितुमर्हति मन्त्रपदार्थालोचनेन लिङ्गात् क्वचिल्लिङ्गविनियोगो लभ्यो न विनियोगादित्यनेकधा मन्त्रार्थालोचना, तत्र पशुप्राधान्ये सङ्ख्याप्राधान्यसम्बन्धिनि च प्राधान्येऽन्यानुष्ठाने किञ्चिददृष्टेनोपकृतम् । यदि पशवः प्रधानं यदि वा सङ्ख्यास्वरूपेण पशुविशिष्टतया वा प्रतिपद्यमाना प्रधानं तत्प्रकासनस्यानुपयोगित्वात् (अ)दृष्टोपकारिता मन्त्रार्थस्य न भवतीति वङ्क्रीयप्रधानतैवोपकारिणो । ‘ता अनुष्ठ्योच्यावयतात’ इति सकलोद्धारणावगमात् वङ्क्री अनुष्ठ्य प्रयत्नेन शमितार उच्यावयतेति । अनेन सकलोद्धरणं वङ्क्रीणां प्रातिपद्यते । अनष्ठानं अनुष्ठ्या प्रयत्नः परस्यास्तृतीयाया भावः अतस्समस्यमेव वचनं न्याय्यम् । एतावतीर्वङ्क्रीरुद्धरतेति प्रतिपादयितुम् ।
?R ननु अत्रापि युगपदुद्धरणाशक्तेश्च बहुधा वाऽनुपक्लृप्तमेव समस्यवचनम् । यदि हि ताः समस्य युगपदुद्ध्रियेरन् तदा समस्यवचनमुप (वृत) पद्यत इति सूक्तं समस्यवचनमेव कार्यमिति ।
?R अश्वस्य चतुस्त्रिशत् तस्य वचनाद्वैशेषिकम् ॥ 2 ॥
?R अत्र पूर्वपक्षशङ्का - केवलपदप्रतिषेधबलेन । (न) चतुस्रिशदिति ब्रूयादिति केवलं चतुस्रिंशत्पदं प्रतिषिध्यते । न वैशेषिकमेवास्य वचनं कर्तव्यम् । कथं पुनरस्मिन् पक्षे न वाक्यभेदः चतुस्रिंशत्पदप्रतिषेधात् षड्विशतिपदविधानाच्च वाक्यभेधः प्राप्नोति । ऋक्प्रतिषेधे तु चोदकपाप्तमन्त्रानुवादोऽयम् षड्विशतिरित्येव ब्रूयादिति । तेन (न) वाक्यभेदः । उत्तरं - इरापदवद्भविष्यति इत्यभिप्रायः ।
?Rअस्यार्थः - यथैवेरापदे विधीयमाने वाक्यभेदो न भवति तथाऽत्रापि नास्ति षड्विशतिपदविधाने प्राप्त एव चतुस्रिंशत्पदाभावोऽनूद्यते ।
?R राद्धान्तस्तु न केवल (पद) प्रतिषेधोऽयम् । कुतः ? ब्रूयादिति श्रवणात् । अस्यार्थः - प्रसक्तस्य हि प्रतिषेधो भवति ऋचश्च वचनं प्रसक्तम् न तु पदमात्रस्य तस्यार्थप्रतिपादकत्वाभावात् । तदाह - न केवलं पदवचने अर्थप्रतिपादने व्याप्रियेते । वाक्यं हि वचः कारणमित्युक्तम् । तेन प्रसक्त ेव निषिध्यते न तु पदमात्रम् ।
?R ननु चेरापदवद्भविष्यति पदस्यापि प्रतिषेधः । परिहरति - न (तथाऽत्रसम्भवः । कस्मादित्याह - षड्विशतिरित्येव प्रतीयात् इत्युक्ते न चतुस्त्रिशत्पद प्रतिषेधे प्रतिमः । अस्यार्थः - गिरागिरेति ब्रूयादित्यनुवादोऽयम् । अनुवादश्च प्रमाणान्तरेण वर्ण्यमानो न दोषमावहति । तेन युक्तं तत्र पदमात्रोच्चारणानुवादः । इह षड्विशतिपदे विहितेपि न चतुस्रिंशत्पदनिवृत्तिः प्राप्ता तुल्यकार्यत्वाभावात् तत्रापि उद्गानपदसमभिव्याहाराति । तत्कार्यानुप्रवेशेन ऐरं कृत्वोद्गेयमिति उद्गानेन गानावयवेनेराप(दस्य)सम्बन्धः । तेनोद्गानकारकं गिरापदं निवर्तते । इह पुनः वाक्यभेदादृते नैककार्यावगतिरिति वैषम्यम् । तेन प्रतिषेधो युक्तः नानुवादः । पदप्रतिषेधो नावगम्यते ।
?R युक्त्यन्तराण्याह - वाक्यभेदश्चायुक्तः इत्युत्तराभिधायि । वङ्क्रि (वि) प्रतिप्त्तेश्चादृष्टार्थत्वप्रसङ्गः । यावत्यश्च वङक्रयः तावतीः अनुष्ठ्यादिति षड्विशतिशब्दो न शक्नोति । तस्मादृच एव प्रतिषेध इति स्थितम् ।
?R?0 वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् ॥ 3 ॥
?R अत्रापि विशेषविनियोगाभावात् मन्त्रार्थ एव दोषो लभ्यत इति तदर्थो
?Rविकल्प्यते । सैव दृष्टार्थत्वाश्रयणहेतुः गृद्धं वपां मन्यमाना वनिष्ठुं माराविष्टेत्युच्यमानेऽद्दष्टार्थता मन्त्रस्य । उलूकवचने हि अदृष्टार्थता ।
?Rवपोद्धरणकाले विरुद्धता च वनिष्ठोः लिपितुल्यत्वात् । यद्युलूके ध्यात्वा वनिष्ठुर्लवितव्येत्युच्यते तदाऽदृष्टार्थता । अथ उलूकसदृशो वनिष्ठुर्न लवितव्य इत्युच्यते तदा विरुद्धार्थत्वाद्वनिष्ठोः लवितव्यत्वात् । तस्मात्पदभेदमात्र एव न्यायः । उरुपदं विस्तीर्णवचनं कपदं च समुदायलक्षणया मेदोवचनं कशशब्दोपस्थापनमुखेन मेदस्विवपालक्षणा । पदभेदे च समासो भवतु मा वा न कश्चित्प्रयोजने विशेष इति । निर्णयहेत्वभावादनिर्णय इति । यदि पुनः स्वरादिभिः कश्चिद्विशेषार्थोऽविरोधेन स आश्रयणीय एव । तदभावे पुनः न किञ्चिद्वैयर्थ्यम् । इत्छातो नियमः । तथा चोभयं प्रदर्शितं भाष्यकारेण
।
?R
?R?0 प्रशसास्यभिधानम् ॥ 4 ॥
?R अत्रापि सैव बार्ता मन्त्रालोचनेन निर्णीयत इति । पूर्वस्मिन् या वार्ता सैवात्रापि प्रयोगकल्पिका भवतु प्रयोगकल्पनाभयात्तु पूर्वोत्थिता निरस्यते । असिवाचकत्वे हि असिना बाहूद्धारणप्रयोगः कल्पयितव्यः नान्यथा समवेतार्थप्रकाशनमुपपद्यते । न च प्रयोगान्तरं कल्पयितुं शक्यते स्वधितिसाधनस्य प्रयोगस्य क्लृप्तत्वात् ननु च प्राशस्त्ये बाह्वोर्वाक्येनाभिधीयमाने सुक्तभाक्तवेन तयोः देवतात्वं प्राप्नोति । अत्राह प्राशस्त्यं न पुनर्बाह्वोर्देवतात्वं प्रकल्पयति कृत्स्नोद्धरणतयाप्युपपत्तेः कृत्स्न उद्ध्रियते न सकृत् स्वोद्धारणो मन्त्रः तस्य भावस्तत्ता । यद्यपि मन्त्रर्थोपपत्तेर्न देवतापादकत्वं सम्भवाच्च कृत्स्नयोर्बाह्वोः प्रशस्ततायाः अयमेवार्थतो न्यायः । कथं पुनरस्यभिधानपक्षे ऊहो भाष्यकारेणोच्ये । उच्यते । मान्त्रवर्णिकादुपपन्नम् । मान्त्रवर्णिकोऽसिः । तेनैकस्मिन्नसौ प्रशसेत्येकवचनान्तं द्वयोः बहुषु च द्विवचनान्तं बहुवचनान्तं च ।
?R?0श्येनशलाकश्यपकवषस्रेकपर्णेष्वाकृतिक्चनं प्रसिद्धसन्निधानात् ॥ 5 ॥
?R अत्रापि दृष्टार्थे सम्भवति नादृष्टार्थकल्पना प्रत्यर्थिनी युक्तेति
?Rकृत्स्नोद्धारणतैवन्या (य्या) श्येनाकृतिः अस्य वक्षो यथा भवति तथा कुरुतेति मन्त्रार्थो भवेत् । कृत्स्नोद्धरणार्थतया दृष्टार्थता भवति । कृत्स्नोद्धारणे हि तथारूपता वक्षसः । ननु कृत्स्नोद्धारणे कथं दृष्टार्थतेत्यत आह - आन्यत्र न्यूनावदानप्राप्तेः । होमार्थ हि यदवदानं कृत्स्नोद्धारणे सति अन्यूनेभ्यो भवति । ननु (मा) भूदन्यूनावदानाकाङ्क्षेत्यत्राह - अत्राभिधानाच्च अवदानश्रुतेः श्येनादिशब्दानामुभयत्र (प्रयोगो) न सम्भवति । आकारमात्रोपलक्षणमितरस्मिन् पक्षे यतः । “?Rपक्षोक्तं प्रयोजनं” ?Rइत्युक्तं भाष्ये । विशसनेच तत्प्रयोजनं कथितं, नोहे । ऊहे च कथयितुमुचितम्, अन्यथा लक्षणासङ्गतेरिति परिचोदना । परिहारस्तु अयमभिप्रायः ईदृशार्थे यथाभिधानमुपपद्यते । तथा (ता) एवं चोदितान्यूनाकारेणाघ्रिगुरुपवर्णितो भवति सर्वस्याघ्रिगुमन्त्रस्यावैगुण्यं भवति कृत्स्नोद्धारणपरत्वात् ।
?R प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात् तदर्थे हि विधीयते ॥6॥
?R ननु चेयमधिकारचिन्ता । तस्याः कः प्रसङ्ग ऊहलक्षणे परिहरति कार्यतस्त्वधिकारनिर्णयो नोपदेश(त)इतीहैव चिन्त्यते । यदा ज्योतिष्मत्या अग्निरेव कार्यं तदा अग्निहोत्रार्थमुद्धृतम्युद्वानवत एवाधिकारः । यदा तु नैमित्तिकमिदं कर्मानुष्ठानं तदा प्रासङ्गिकोऽग्न्युद्वानवतोऽप्यधिकारः । तेन कार्यत एवाधिकारनिर्णयो नोपदेशादिति कार्यचिन्तायामूहचिन्ता । पूर्वपक्षवादी आर्त्यधिकरणन्यायं मन्वान ऐदमर्थ्यमुद्धरणेन विवक्षितमिति पूर्वपक्षितवान् । यथा आर्त्यधिकरण उभयत्वमविवक्षितं तथेहाप्यैदमर्थ्यमुद्धानस्याविवक्षितम् । तेन प्रासङ्गिकोद्वानेपि नैमित्तिकमेवेति पूर्वपक्षितम् ।
?R राद्धान्तस्तु कार्ययोगोऽन्यथाऽग्निहोत्रे न स्यात् यद्यैदमर्थ्यं नाद्रियते । अस्यार्थः - उद्वाताग्निर्निमित्तं नोद्वानमात्रं उद्वाताग्नेश्च पुरुषस्याग्निसमाधनमेव कार्यम्। तत्र यदि प्रासङ्गिकेपि अग्नावुद्वाते प्रायश्चित्तं स्यत् तदा तस्याग्नि होत्रासम्बन्धात्
?Rअग्निहोत्रसम्बन्धो ज्योतिष्मत्या न स्यात् तस्माद्ग्निहोत्रार्थमुद्धृतागन्युद्वान एव च तत्र नैमित्तिकमिति।
?R नन्वधिकारिणो विशेषणमविवक्षितमित्युक्तमार्त्यधिकरणे इत्यत आह विशेषणाविवक्षा च उपदेश उक्तो न कार्ये । तस्माद्धैषम्यमार्त्यधिकरणेन। विक्यभेदादविवक्षिततोक्ता ।कार्यतश्चात्रानुप्रवेशः । अतो वाक्यभेदौ नास्ति । अतोऽन्यार्थे (व्यभा) प्रायश्चित्तम् । नन्वग्नेरुद्वानं निमित्तं नोद्वानवानित्यत्राह - अग्निविशिष्टोद्वाननिमित्तता यथानिरस्ता तथा प्रदर्शितं भाष्ये यस्याग्निरुद्धात इति श्रुवणादग्निरेव निमित्तमिति । तस्मादुद्वानपरीतोऽग्निर्निमित्तमिति स्थिते युक्तो राद्धान्त इति स्थितम् ।
?R धारणे च परार्थत्वात् ॥ 7 ॥
?R पूर्वोक्तं सर्वमुपपद्यते निमित्ततया (प्रो) क्तम् । तादृशं नास्ति । कुत इत्याह कृतार्थस्य ह्यत्र धारणं अकृतार्थ च निमित्तमित्युक्तम् । अकृतार्थस्य समाधानमपेक्षितम् अपेक्षतार्थसप्राधानार्थमिदम् । (अ)कृतार्थश्चाग्निरत्र यदर्थमसौ उद्धृतः धार्यते तदनुष्ठितमेव । अतः परार्थवदत्रास्तु । परिसमुहनपरिहारस्तूक्तः प्रयोगाङ्गत्वेन । प्रयोगः परिसमूहनादीनामङ्गत्वात् ।
?R न तूत्पन्ने चोदनाऽप्राप्तकालत्वात् ॥ 8 ॥
?R कालोऽङ्गं, न चाङ्गाभावे प्रधानशास्त्रार्थान्यत्वं तस्मान्नाङ्गान्तरनिवृत्तिः । अस्यार्थः - यद्यपि दर्शार्थोद्धरणे अग्निहोत्रार्थोद्धरणकालो न लभ्यते तथापि मन्त्रः प्रयोक्तुमुचित एव । अङ्गाभावेति प्रधानानुष्ठानदर्शनात् आग्नेयवत् यथा
?Rव्रीह्यभावेपि आग्नेयशास्रार्थो न विद्यत (लुप्यत) इति तदनुष्ठानं तथेहापि युक्तम् ।
?R राद्धान्तस्तु सत्यमङ्ग (क)लोपस्तथापि निमित्तेन तुल्यम् । कुत इत्याह - काले हि सति कर्म चोद्यते न पुनः कर्मणि सति कालः उपादानाशक्तेः । तेन
?Rतदभावे अधिकाराभावन्नेदमग्निहोत्रर्थमेव ।
?R प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात् संसर्गच्च मधूदकवत् ॥ 9 ॥
?R पयो न पाकार्थमिति । अत्र पुनर्भेदे (वेदे)शब्दप्रमामका वयं शब्दतश्च वाक्यार्थता पयसो विद्यः न धात्वर्थताम् . चरुरादित्य इति आदित्यसम्बन्धश्चरोरवगम्यते न पयसः, तस्य च पाकार्थतैव युक्ता । न च पक्वा आमाश्शक्यते वक्तुं येन शब्दो विहन्येत । भोजनार्थस्यापि (स्ता)पाकसाधकत्वस्य लोके दर्शनात् । अथापि नान्तरीयक्यपि पाकसिद्धिर्न स्यात् सामान्यतो दृष्टं च वेदे न क्रमत इति तत्र तत्रोक्तं नियोगार्थस्त्वनन्यः ।
?R अभ्युदय दोहापनयः स्वधर्मा स्यात् प्रवृत्तत्वात् ॥ 10 ॥
?R अपनयो वाऽर्थान्तरे विधानाच्चरुपयोवत् ॥ 11 ॥
?R श्रृतशब्दश्रवणात् प्रायमीयेन वैषम्यम् श्रुतिसामान्यत्वं मन्यते पूर्वपक्षवादी। श्रपणं हि हविस्संस्कारः प्रतिपन्नः दद्दर्शनात् । पयसो हविष्ट्वं मन्यमानः प्रायणीयपयसा वैषम्यं मन्यते पूर्वपक्षवादी । अभ्युदयेष्टितुल्यत्वाच्च वाक्यानाम्
?R राद्धान्तस्तु नासति प्रदेयार्थत्वे सप्तम्यर्थोऽपह्वोतुं शक्यते इति यथाश्रत एव वाक्यार्थः अभ्युदयेष्टौ पूर्वावगतत्वात् प्रदेयतायास्सप्तम्यर्थापह्ववः कृत । इह तु तदभावान्न युक्तः । (श्रुत) शब्दोऽपि लक्षणयाप्यन्वित एव सप्तम्यर्थः पयोमात्रलक्षणतः शब्दः स हि पयति हविः श्रपणान्न(भ)वति । वृत्त इत्यर्थः ।
?R श्रयणानां त्वपूर्वत्वात् प्रदानार्थे विधानं स्यात् ॥ 12 ॥
?R पयसा मैत्रावरुणं श्रीमातीति दृष्टार्थालाभेन पूर्वपक्षवादी प्रदेयार्थतां
?Rपयश्शब्दस्य मन्यते । अवरूध्यः तृतीयान्तस्यापि देवतासम्बन्धः । सप्तम्यन्तस्येव पयसः प्रायणीये ।
?R राद्धान्तस्तु न ब्रूमस्तृतीयया देवतात्वस्यावरुद्धतया देयत्वेन न सम्बध्यत इति । किन्तु नित्यदेयसम्बद्धेन सोमेन संयोगश्रवणात् तदर्थतैवावसीयते ।
?Rमैत्रावरुणं गृह्णातीत्येतच्चोदनानुसारेण सोममात्रस्यैव देवतासम्बन्धः प्रतीयते । स प्रतीतदेवतासम्बद्धः सोमः श्रयणार्थमिहानूद्यते तेन सोमार्थ पयो न प्रदानार्थम् । कृतः ? श्रुत्यन्तरे हि देयद्रव्योपलक्षणायैव देवतारीतिर्विधीयेत । यो वा दीयते विधेयान्तरस्य संयोगात् (त(स्य) विधाने चावश्योपलक्षणीयत्वात् । द्वि ….शे हि शेषिसमर्पकं मैत्रावरूणपदम् । तस्मात् सोमस्य द्वितीयासंयोगात् सोमार्थतैव पयस इति न्याय्यम् । शेषमुक्तम् ।
?R पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् ॥ 13 ॥
?R कथं पुनरत्र पूर्वपक्षो देवताश्रवणे शक्यते वक्तुम् । ईशानाय परस्वत आलभत इति देवताश्रवणाद्यागः विधिनैवाधिगम्यते । कथं पूर्वपक्षाशङ्का? देवताश्रवणस्य च समाधिलेशं कं पुनरसौ (मन्यते ?) उत्तरं - त्यागादृते नान्यद्विधातुं शक्यत इति । राद्धान्ते राद्धान्तस्थापनमध्ये भाष्यकारेण शङ्कितव्यो विकल्पो द्ष्टव्यः । अस्यार्थः - तान् पर्यग्निकृतानुत्सृजतीत्यत्र त्याग एव विधेयः पर्यग्निकरणविशिष्टः विधेयान्तरस्यासम्भावात् । यदि हि ईशानाय परस्वत आलभत इत्यनेन यागो विधीयते तान् पर्यग्निकृतानुत्सृजतीत्यत्र न किञ्चिद्विधेयं गम्यते । पर्यग्निकरणस्य चोदकप्राप्तत्वादिति भाष्यकारेणोक्तम् । तस्मादीशानायेति शब्दमुच्चार्यालभ्भः कर्तव्य इति विधीयते । तदाह - देवताश्रवणं पुनः स्वरूपान्वयि भविष्यति मन्त्रवदीत्यभिप्रायः ।
?R एवं प्राप्तेऽभिधीयते - यागविधिरेवायम् । कुतः ? न हि अर्थान्वये सम्भवति स्वरूपान्वयश्शक्यते वक्तुम् । ननु च शब्दे कार्यस्यासम्भवात् अर्थे सम्प्रत्ययो युक्तः । तत्रार्थे कार्यं विज्ञायते । इह ति शब्दोऽस्तीति तत्रैव कार्यं
?Rभवितुं युक्तम् ।
?R राद्धान्तवादी वदति - केन वोक्तं यत्र शब्दे सम्प्रत्ययोऽस्ति तत्र न युक्तमिति किन्त्विह शब्द एव सम्प्रत्ययो नास्ति । न ह्यर्थाविवक्षायां प्रमाणं शक्यतेऽवगन्तुम् । यत्रोत्सर्गमृते विधानं न सम्भवति तत्र तत्र दर्शितः सम्भवः
?Rतदन्ताङ्गरीतिविधानेन शेषं सनिदर्शनमुक्तम् ।
?R आज्यसंस्थाप्रतिनिधिः स्यात् द्रव्योत्सर्गात् ॥ 14 ॥
?R स्पष्टेऽपि तदनेनोतसर्गविधाने शेषसंस्थापनशब्दात् भ्रान्तिरुपजायते तदन्तं कर्म न भवतीति । ततश्च पक्षद्वयसम्भवात् तस्या भ्रान्तेरपनयायेदमधिकरणमारभ्यते । न चैवमपि सन्देह एव युक्तः । कथं पूर्वपक्षाध्यवसानमित्यत्राह - पूर्वपक्षो हि शेषसंस्थान (श्रवणात्) एतद्वलेन तदन्ताङ्गरीतिविधानमेव न सम्भवति इति कल्पनिया ।
?R राद्धान्तस्तु परिसमापनीयमेवैतदित्युक्त्वा पुनस्तच्छेषाभिधानं विरुद्ध्यते । तेन शेषाभिधाने गौणसमन्वयः । न च परिसमाप्तिः असमाप्तावपि शक्यते वक्तुम् । शब्दाभिधेयस्य पक्षान्तरेऽप्यव्याघातात्। पूर्वपक्ष्याह - युक्तं संस्थानं कर्मान्तरपक्षे । शेषशब्दस्तु कथं ?राद्धान्त्याह - ननु सादृश्यादेवेत्युक्तं भाष्ये शेषवच्छेष इत्यर्थेन । पूर्वपक्ष्याह - सत्यमुक्तं भाष्ये तदयुक्तमभिहितम् । शेषशब्दश्रुतिभानात् । एकग्रन्थेनाह - उत्सर्गे वा कः पक्षपातः । स एव किमित्यन्यथा वर्णितः इति भावः । राद्धान्ती उत्तरमाह - अयमस्ति पक्षपातः पूर्वोक्तापेक्षोन्यः शेषशब्दः । न पुनः पूर्वोक्तं शेषमपेक्षते । शेषो ह्यवयवः पूर्वमवयविनमपेक्षते न पुनः पूर्वोक्तं शेषम् । तस्मान्निरपेक्षत्वात् उत्सर्गः श्रैतः । तदपेक्षया तु शेषशब्दो गौण इति न्याय्यम् । सनिदर्शनं शेषमुक्तम् ।
?R। इति महोपाध्यायशालिकनाथमिश्रकृतौ पञ्चिकायां नवमस्य चतुर्थः पादः
?R॥
?R?0दशमाध्यायस्य द्वितीयः पादः
?R?0 ॥ 1 ॥ कृष्णलेष्वर्थलोपादपाकः स्यात् ॥ 1 ॥
?R?0 कथं पुनरत्र पूर्वःपक्षः ? ?Rपूर्वपक्षेऽपि हि वचनमपि विद्यत एव । ?R?0समाधत्ते - ?R?0न वचनशतेनापि अशकनीयोऽर्थः शक्यते विधातुम् । ?R?0कथम- शक्यतेत्यत्राह - ?R?0पचेहिं विक्लृत्तिः प्रधानोऽर्थः । न चासौ कृष्णलेषु विद्यत इति किमत्र वचनं करिष्यति । ?R?0अस्यार्थः - महाभाष्यकारेणोक्तं - पचेर्हि विक्लृत्तिः प्रधानोऽर्थ इति । प्रधानो मुख्य इत्यर्थः । दृश्यते च लोकेऽपि पच्यन्ते तण्डुला इति विक्लृत्तिवचनता पक्तेः । देवदत्तः पचतीत्यादावपि तण्डुलसमवायिन्यामेव विक्लृत्तौ देवदत्तः कर्ता, तदधीनत्वात्तस्याः । विक्लृत्तिश्च गन्धरूप स्पर्शरसादिविशेषात्मिका । तेन पुरोडाशादीनामपि पाकस्सिद्धो भवति । न च तैजसानां कृष्णलादीनां रूपादिविशेषोस्तीति पाकस्याशक्यत्वान्न वचनशतेनापि विधानमुपपद्यते । एकग्रन्थेनाह - ?R?0अथ तु सन्तापजननमात्रं पाकः तथापि चोदकेनैव प्राप्नोतीति वचनेन किं ? ?R?0विक्लृत्तिफलको यो व्यापारः स एव यदि पचेरर्थः ततः प्रकृतावपि स एव विधीयते ततश्चोदकेनैव कृष्णलेष्वपि प्राप्नोतीति विधानमनर्थकम् । दोषान्तरं चाह - ?R?0अवघातादि च दुर्निवारं तदा भवति । ?R?0यदा व्यापारवचनता धातूनां तदा हन्तेरपि उद्यमननिपतनमात्रार्थत्वात् कर्तव्यतैव प्रतीयते ।
?R ?R?0अथोच्यते तुषकणविमोचनात्मकफलाभावात् अकरणं पाके तुल्यं उपदिष्टेपि पाके तुल्यं फलाभावादकरणम् । ?R?0तस्मादकर्तव्यतामेव मन्यमानस्य पूर्वःपक्षः । ?R?0वचनमिदानीं किमर्थं यदि पाकस्याकर्तव्यता । ?R?0उत्तरं-?R?0अनर्थकं च । ?R?0अवगम्यमानार्थतया हि वचनमर्थवत्, न वचनेनार्थवता भवितव्यमिति प्रमाणमस्ति
?R ?R?0राद्धान्तस्तु सत्यमाह भवान् फलाभावात् न कार्यतः प्राप्तिरस्तीति । ?R?0वचनं पुनः न निवारयितुं शक्यते । तेन वाचनिकः पाको भविष्यति ।
?R ?R?0ननु वचनशतेनाप्यशकनीयोऽर्थो न विधातुं शक्यत इत्युक्तम् । ?R?0परिहरति - ?R?0एतदपि सत्यम् अशकनीयोऽर्थो न विधातुं शक्यत इति । ?R?0पुनः पूर्वपक्षी पृच्छति - ?R?0कथं तर्हि पाकस्य कर्तव्यता अशकनीयतया विधानासम्भवात् । ?R?0सिद्धान्तीत्वाह - ?R?0शब्दार्थस्य सम्भवात् । ?R?0योऽसौ विक्लृत्तिफलको व्यापारः स एव पचिनोच्यते पूर्वभावित्वात् तत्कार्यतया लक्षणया विक्लृत्तौ पचेः प्रयोगः पच्यन्ते तण्डला इति । एवं च देवदत्तः पचतीति स्वसमवायिन्येव व्यापारे देवदत्तस्य कर्तृत्वम् । यश्चासौ गन्धादिपरावृत्तिहेतुभूतोऽग्न्यवयवसंयोगफलको व्यापारः स एव यदि शब्दार्थः कृष्णलेष्वपि सम्भवति । तेषापप्यवयवसंयोगोपलब्धेः । उष्णस्पर्शानुमेयो हि तेष्वग्न्यवयवसञ्चारः । तेन शब्दार्थसम्भवात् पाकस्तत्र विधातुं शक्यते ।
?R ननु विहितस्यापि फलाभावादननुष्ठानं कार्यप्रयुक्तत्वाद्धर्माणामित्यत्राह - ?R?0विहिते शब्दार्थे दृष्टमदृष्टं वा प्रयोजनं भवति । यस्य दृष्टं प्रयोजनमस्ति तस्य दृष्टमेव प्रयोजनं ?R?0 यथा प्रकृतौ पाकस्यावघातादीनां च । यस्य तु दृष्टं नास्ति तस्यादृष्टं कल्प्यते ग्राहकसम्बन्धनिर्वाहाय । द्वारेण विना तदनुपपत्तेः । यथा प्रकृतावेव प्रोक्षणस्य । तत्रापि द्वितीयाश्रवणात् तद्द्रव्यगतं तदिति कल्प्यते । तेनात्रापि कृष्णलेषु कोऽपि पाकजन्यः संस्कारः प्रयोजनमित्यध्यवसीयते न पुनः दृष्टं प्रयोजनं नास्तीति विधिनिवारणम् सम्भवति च शब्दार्थः ।
?R ननु विधाने सत्यदृष्टं प्रयोजनं विधानमेव प्राक् प्रयोजनावगमान्नोपपद्यते प्रयोजनपर्यन्ते व्यापारे पुरुषस्य नियोगादित्याशङ्क्याह - ?R?0यावत् पुरुषव्यापार एव हि विधेर्विषयः न फलोपपत्तिरपि । ?R?0 स्वव्यापारे हि पुरुषो नियुज्यते तेन तावन्मात्रे विहिते अदृष्टफलकल्पना युक्तैव । विक्लृत्तिश्च फलं पचेः पच्यर्थस्य न पुनः स एव पच्यर्थ इति पूर्वमुक्तम् । कथं तर्हि महाभाष्यकारस्य वचनमित्यत्राह ?R?0फलेनापि च धात्वर्थकथनं धातुपाठे दृष्टम् यथा गडिवदनैकदेशे इति । ?R?0क्रियावचनो हि धातुरिति गडिरपि क्रियावचन एव क्रियामेव
?Rवदनैकदेशारम्भलक्षणां वदति । तत्फलेन धात्वर्थकथनम् वदनैकदेशफलके व्यापारे गडिरित्यर्थः । एवं कः पचेः प्रधानार्थ इति फलत एव व्याख्यानं वक्तव्यम् विक्लृत्तिफलो व्यापार एव पचेः प्रधानोऽर्थ इत्यर्थः ।
?R एतेनेदं निराकृतं यदाह कश्चित् विक्लृत्तिमात्रसङ्कल्पविशेषैकावलम्बिनौ ज्ञायमानतदर्थत्वात् नेष्टावन्याभिधायिनाविति । तस्मात्सूक्तं वचनात् कृष्णलेषु पाक इति ।
?R?0 यत्तु व्यापारमात्रे धात्वर्थे अवघाताद्यपि दुर्निवारमिति । अत्रोच्यते प्राकृतकार्याभावादवघातादीनां निवृत्तिः । ?R?0अस्यार्थः व्यापारमात्रेऽपि धात्वर्थे तस्य प्रकृतौ दृष्टमेव द्वारं तुषकणविमोचनादि तत्कार्यस्यैव विकृतावपि प्राप्तिरिति प्राकृतकार्याभावात् अवघातादीनां निवृत्तिः । तथा पाकस्यापि प्राकृतकार्यपुरोडाश गन्धादिपरावृत्तेरभावान्निवृत्तिः । पश्चात्तु वाचनिकः पाकोऽपरो विधीयते तस्यादृष्टं द्वारं कल्प्यते । तदुक्तं यथोपपद्यते तथोपरिष्टाद्वक्ष्याम इति तदिदमुक्तम् .
?R ?R?0॥ 2 ॥ उपस्तरणाभिधारणयोरमृतार्थत्वादकर्म स्यात् ॥ 3 ॥
?R ननु च व्यक्त एव राद्धान्तः किमर्थमिदमधिकरणमित्यत्राह -?R?0 अत्र निवृति हेतवः परीक्ष्यन्ते । किमुपस्तरणाभिधारणयोरमृतार्थत्वं कृष्णलेषु निवृत्तौ हेतुः स्वादिम्नोऽसम्भवात् उत चतुरवत्तस्याप्त्या इति चतुरवत्ताप्तिवचन निवृत्तिहेतुः अथवा संसर्गाभावो निवृत्तौ हेतुरिति राद्धान्ताभासनिवृत्त्यर्थमिदमधिकरणमित्यर्थः
?R?0 ?R?0केचिद्धि मन्यन्ते स्वादिमप्रयोजनमुपस्तरणमभिधारणं च प्रकृतौ, कृष्णलेषु स्वादिम्नोऽभावान्निवर्तत इति ।
?R तथान्ये मन्यन्ते - चतुरवत्तप्रयोजनमुपस्तरणमभिधारणं च तच्चतुरवत्त कृष्णलचतुष्कावदानेनैव सम्पन्नमिति कार्याभावन्निवर्तते ।
?R तथान्यन्मतम् - उपस्तरणाभिधारणे स्रुचि हविस्संसर्गनिवृत्त्यर्थे । न च
?Rकृष्णलानां स्रुचि संसर्गोऽस्ति तेन तन्निवृत्त्यर्थं नोपस्तरणमभिधारणं च कार्यमिति । तत्रैकममृताहुतिसम्पादनं निवृत्तिकारणमर्थवादत्वेन परिहृतम् । न हि स्वादिमा परमार्थतः प्रयोजनं भवितुमर्हति अनुपयोगित्वात् । अस्वादुनापि यागसिद्धेः । ?R?0द्वितीयमपि निवृत्तिकारणं परिहृतमिति ?R?0सम्बन्धः । केन हेतुनेत्यत्राह ?R?0प्रधानावदेयविषयत्वाच्चतुस्सङ्ख्यायाः । ?R?0 चत्वारि कृष्णलान्यवद्यतीति येयं चतुस्सङ्ख्या सा यत्प्रधानं हविरवेदयं तद्विषया नावदानविषया तेन चतुरवत्तावाप्तिरेकेन अवदानेन नास्ति ।
?R ननु यद्यप्येकमवदानं तथापि तेन चतुरवत्तावाप्तिरर्थवादादवगम्यत इत्यत्राह - ?R?0आप्त्यर्थवादस्य चत्वारि कृष्णलान्यवद्यति तदेकमवदानं इत्यनेन?R?0 निराकरणमिति सम्बन्धः । तथा भिन्नविषयावगमात् सङ्ख्याया निराकरणम् । चतुस्सङ्ख्या भिन्नविषयाऽवगम्यते कृष्णलविषया, नावदानविषया । तेन स्तुतिमात्रमेतत् । कृष्णलचतुष्कावदानाभ्यासश्रुतिविरोधाच्च निराकरणम् । चत्वारि चत्वारि कृष्णलान्यवद्यति इति । अवदानान्तरे सति अभ्यास उपपद्यते । यदि च कृष्णलचतुष्कावदानेनैव चतुरवत्तसम्पत्तिः तदाऽवान्तरप्रसङ्ग एव नास्ति इत्यभ्यास श्रुतिर्विरुद्ध्येत ।
?R ननु स्विष्टकृदवदानापेक्षयाऽभ्यासश्रुतेरुपपत्तिरित्यत्राह - ?R?0प्रधानस्य चाभ्यासः प्रकरणात् इति दर्शितम् । ?R?0अतो निराकरणं प्रधानावदानविषय एवायमभ्यासः न स्विष्टकृदवदानापेक्षः प्रदानस्य प्रकरणं यत इति भाष्ये दर्शितम् । अतो हेतोराप्त्यर्थत्वादस्य निराकरणम् । तस्मात् कृष्णलानां स्त्रुच्यसंसर्ग एवोपस्तरणाभिधारणयोर्बाधे(रभावे) हेतुः । तयोस्संसर्गनिवृत्तिप्रयोजनत्वात् । कस्मात्तदेव प्रयोजनमित्यत्राह - ?R?0न च दृष्टे संसर्गनिराकरणे प्रयोजने सम्भवति प्रकृतावपि कार्यान्तरकल्पना शक्यते वक्तुमिति?R?0 युक्तमुक्तं असंसर्ग एव बाधहेतुरिति ।
?R ननु यद्युपस्तरणाभिधारणं नास्ति तदा प्रधानहविष्षु द्व्यवदाने सति
?Rचतुरवत्तत्वं कथं सेत्स्यतीत्यत्राह - ?R?0यत्पुनश्चतुरवत्तं जुहोतीति तदाप्तया सम्पादितमित्यदोषः । ?R?0चत्वारि कृष्णलान्यवद्यति चतुरवत्तस्याप्त्यै इत्यनेनैव आप्तिवचनेन चतुरवत्तताया अनुग्रहाभिधानात् ।
?R?0 ॥ 3 ॥ भक्षाणां तु प्रीत्यर्थत्वादकर्म स्यात् ॥ 13 ॥
?R?0 ननु भक्षणं द्रव्यप्रतिपत्त्यर्थं प्रकृतौ । केयं प्रीत्यर्थता बाधहेतुत्वेनाशङ्क्यते ।?R?0 समाधत्ते - ?R?0सत्यं द्रव्यप्रतिपत्त्यर्थं किन्तु भक्षणं सत् प्रतित्त्पर्थम् । ?R?0स्वरूपापरित्यागेन प्रतिपत्त्यर्थतेत्यर्थः । भक्षणं च प्रीत्यविनाभूतं, अभ्यवहार्यविषयं हि तल्लोके दृश्यते । यदेव पार्थिवं रसवद् द्रव्यं तद्विषयमेव लोके भक्षणमुच्यते । तच्च प्रीत्या तृप्तिरूपयाऽविनाभूतम् । तस्मात्तस्याः प्रीतेरभावात् पदार्थस्वरूपाभावादेव भक्षा निवर्तन्त इति युक्तमिति पूर्वपक्षः ।
?R ?R?0राद्धान्तस्तु - वचनाद्भक्षो भवतीति । ?R?0तदाक्षिपति - ?R?0नन्वेवं सति वचनमप्यनर्थकं प्राप्नोति अशक्यार्थविधानात् । ?R?0राद्धान्ती परिहरति - ?R?0नानर्थकं पदार्थमात्रस्य शक्यत्वात् । ?R?0प्रीत्यर्थेऽपि भक्षे योऽसौ व्यापारः स हि भक्षयतिना उच्यते । ततश्च तद्वचनेन विधानं भविष्यति । तस्य कृष्णलेष्वपि शक्यत्वात् । ननु चाभ्यवहार्यविषयं भक्षणं लोके दृष्टम् । तच्च प्रीत्यविनाभावि । न च कृष्णलेषु प्रीतिरस्तीत्युक्तम् । सत्यं दृष्टं न तु विधेः विषयतां प्रतिपद्यते । किन्तु व्यापारमात्रमेव । तच्च कृष्णलेष्वप्यस्ति । तदाह - ?R?0विधिविषयं च भक्षणं कृष्णलेष्वपि विद्यते । ?R?0विषयशब्देन भक्षणं परामृश्यमिति विषयमिति नपुंसकनिर्देश इति युक्तं वचनम् । तच्च कृष्णलविषयमेव । न घृतविषयं तस्य गुणत्वात् प्रधानत्वाच्च कृष्णलानामित्युक्तं भाष्ये ।
?R ननु च घृतविषयमेव भक्षणविधानमेतदिति युक्तम् । तस्मिन् भक्षणे चुच्छूषादीनामनुवादसम्भवात् । हिरण्ये तु भक्ष्यमाणे चुच्छूषादीनामप्राप्तेः तेपि विधातव्या इति विधिगौरवमित्यत्राह - ?R?0चुच्छूषादीनामनुवादासम्भवात् । ?R?0हिरण्ये
?Rश्रपणाधाराज्यसंसृष्टे भक्ष्यमाणे प्राप्तमेव चुच्छूषाकरणमिति न विशिष्टविधिगौरवापत्तिः ।
?R ?R?0॥4॥ एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् ॥17॥
?R?0 ?R?0अत्र भाष्यकारः सकृत्त्वपक्षे चोदकप्राप्ते भक्षान्तरबाधप्रसङ्गेन सहत्वपक्षमाश्रित्य चोदितवान् । “?Rननु वाचनिक एवायं भक्षो न चोदकप्राप्त " ?Rइति । तत्र पुनरेवमुक्तवान् - द्रव्यप्रतिपत्त्यर्थतया चोदकप्राप्त एवायं भक्षः । वचनं चुच्छूषादि विधानार्थमिति । तदाक्षिपति - ?R?0पूर्वाधिकरणे वाचनिकं भक्षमभिधाय कथं प्रतिपत्त्यर्थत्वेन पुनः प्राप्तिरुच्यते । कथं वा चुच्छूषादीनां अनुवादमभिधाय पुनर्नियमोऽभिधीयते । ?R?0समाधत्ते - ?R?0नायं विरोधः सम्भवति प्रकृतौ यथा लौकिकस्य भक्षस्याभ्यवहार्यविषयस्य यत् कार्यं प्रीतिरूपं तस्य ?R?0दर्शनात् तदभावेन विकृतौ न विधेयप्राप्तिरित्यधस्तादुक्तम् । वचनं च विधेयविषयतयोपपद्यते पाकवत् । इह पुनरिदमुच्यते यदि विकृतावेतदेव व्यापारमात्रं विधेयम् । विधेश्च कार्यकल्पना न पदार्थस्य सम्भवति चात्रापि । प्रकृतावपि तद्विधेः कार्यं द्रव्यप्रतिरूपं तस्मान्न बाधः शक्यते वक्तुम् । तेन भक्षश्चोदकेनैव प्राप्तो न विधेयः । चुच्छुषादीनामेव वचनविषयत्वम् । चुच्छुषादीनां चानित्यत्वात् नित्यार्थं वचनविषयतापि शक्यते वक्तुमिति सूक्तम् । एतदुक्तं भवति यथा विकृतौ व्यापारमात्रस्य विधानं तथा प्रकृतावप्यस्तु । तस्य च द्रव्यप्रतिपत्तिः प्रधानं फलं आनुषङ्गिकी पुरुषप्रीतिरिति चोदकतोऽस्त्येव भक्षप्राप्तिः । वचनं तु प्रकारविशेषनियमार्थं वचनविशेषनियमार्थम् । कथं तर्हि प्राग्वाचनिकी प्राप्तिरुक्ता । अत आह - ?R?0आधस्त्यमधिकरणमिदानीं किमर्थं ? - ?R?0उत्तरं ?R?0एतद्युक्ति प्रसिद्ध्यर्थम् । ?R?0एतामेव युक्तिं प्रसाधयितुं तदित्यर्थः । व्यापारमात्रमेव विधिविषय इत्येतत्साधने तत्र तात्पर्यम् न पुनर्वाचनिको भक्ष इत्यत्र । तेन नास्ति
?Rदोषः । युक्तिसाधनं किमर्थमित्यत्राह - ?R?0न ह्यप्रसाधिता युक्तिर्युक्तिर्भवति कार्याकरणात् ।
?R?0 ॥ 5 ॥ सर्वत्वं च तेषामधिकारात् स्यात् ॥ 18 ॥
?R?0 कस्यचिदपरिहृरणीयस्य परिहारविधानं सम्भवतीति पूर्वःपक्षः । ?R?0यद्येषा?R?0 ?R?0वचनव्यक्तिः यद्ब्रह्मणे परिहरति तत्सर्वमिति तथापि ब्रह्ममागभूतस्यापि यस्य परिहरणीयत्वं प्राप्तं तस्य परिहारार्थं सर्वमिति विधीयते । योऽपि ब्रह्मभागः स न सर्वो नियमेन ब्रह्मणे देय इति न प्राप्त एव । एकदेशद्वारेणापि तादर्थ्योपपत्तेः । तथा यदि यद्ब्रह्मणे सर्वं तत्परिहरतीति वचनव्यक्तिः तथापि अपरिहरणीयपरिहारार्थमेव परिहरतीति विधेयमित्यर्थः । यद्येक एवार्थो वचनव्यक्तिद्वयेपि किमर्थं तर्हि द्वयमुक्तमित्यत्राह - ?R?0वचनव्यक्तिप्रदर्शनं तु सम्भवमात्रकथनम् ।
?R?0 ?R?0राद्धान्तस्तु - ?R?0सर्वशब्दानुपपत्तेः नाप्राप्तविधानं सम्भवतीति भागापनय एव । ?R?0अस्यार्थः - यद्ब्रह्मणे परिहरति तत्सर्वमित्यस्यां वचनव्यक्तौ सर्वशब्दार्थो न विधेयः प्राप्तत्वात्, यत्खलु ब्रह्मणे परिहारार्थं तत्सर्वमेव परिहारार्थं प्राप्तं द्रव्यप्रतिपत्त्यर्थत्वात् परिहारस्य यावद्द्रव्यमेव परिहारो युक्तः यदि हि द्रव्यं गुणभूतं स्यात् तदा एकदेशेनापि व्यापारे कृतः शास्त्रार्थो भवेत् । प्राधान्ये तु द्रव्यस्य यावद्द्रव्यमेव परिहारो युक्तः । अन्यथाऽनेन संस्कारेण तस्य वर्जनं स्यात् । तथा यद्ब्रह्मणे तत्सर्वं परिहरति इत्यस्यामपि वचनव्यक्तौ सर्वपदार्थस्यानुपपत्तिरेव विशेष्यापरिज्ञानात् । तस्मात् सर्वं चरुं ब्रह्मणे परिहरति इति। यदि स्यात् यत्सर्वं परिहरति तद्ब्रह्मण इति अन्यतरवचनव्यक्त्याश्रयणेन पुरुषान्तरभागानामपनयोऽयं विधीयते असम्भवश्च सर्वशब्दार्थस्य सर्वासु वचनव्यक्तिष्विति दर्शितम् ।
?R?0 ॥ 6 ॥ पुरुषापनयात् स्वकालत्वम् ॥ 20 ॥
?R?0 कियदनेन बाध्यत इति चिन्त्यते । ?R?0तत्र पूर्वपक्षवादी यावच्छ्रवणमबाधं मन्वानः र्पूवपक्षितवान् । सर्वं ब्रह्मणे परिहरतीति श्रुतेः एकस्मिन्नेव काले परिहरणं प्रतीयत इति कालोऽपि बाध्यत इति पूर्वपक्षितम् ।
?R राद्धान्तस्तु - ?R?0एकार्थत्वान्नियोगस्य नार्थान्तरं सम्भवतीति अपनयमात्रेण पर्यवसानम् यदन्यत् तदवाधितत्वात् कर्तव्यम् । ?R?0अस्यार्थः - यद्यप्येककालता श्रूयते तथापि नियोगस्यानेकार्थविधायकत्वासम्भवात् भागापनयमात्रं विधीयते । न कालोऽपि । तेन कालान्तराविधानात् यथाप्राप्तस्य कालस्यावाधितत्वात् स्वकाल एव परिहरणं कर्तव्यम् ।
?R कस्मात्पुनः श्रूयमाणाप्येककालता न विधीयत इत्यत्राह - ?R?0न यावदभिधानं यावद्विनियोगं वा नियोग इति स्थापितम् । ?R?0नियोगस्य प्रधानत्वान्नाभिधान विनियोगवशेन वर्णनम् किन्तु नियोगवशेनैव तयोर्वर्णनविति ।
?R ?R?0॥ 7 ॥ एकार्थत्वादविभागःस्यात् ॥ 21 ॥
?R?0 अपनयमात्रस्य चोदितत्वात् यदन्यत् तदबाधितमिति पूर्वाधिकरणन्यायेन व्यादेशमपि प्रति अबाधबुद्धौ प्रसक्तायां न्यायोक्तिः । ?R?0कीदृशी सेत्याह - ?R?0सत्येतस्मिन्नपनयवचने यस्यार्थादपि ?R?0प्रयोजनमपैति तदपि न कर्तव्यमिति । प्रयोजनापनयेन ह्यकरणं तद्यस्य साक्षाद्विहिते नापैति । यस्य च तदाक्षेपलभ्येन तस्यापि बाधो न्याय्यः प्रयोजनापायस्य समत्वात् । तस्माद्व्यादेशस्य न प्रयोजनं पुरुषापनये सति येभ्यो यद्देयं तत्तेभ्यो व्यादिश्येत । न च ब्रह्मव्यतिरेकेणान्येभ्यो दानमस्तीति नास्ति व्यादेशस्य प्रयोजनम् ।
?R?0 ॥ 8 ॥ ऋत्विग्दानं धर्ममात्रं स्याद्ददातिसामर्थ्यात् ॥ 22 ॥
?R?0 अत्र पूर्वपक्षोनियतपरिमाणतया, वचनाच्च । ?R?0अस्यार्थः -
?Rपुरुषाणामानतेरनियतोपायत्वात् नियतपरिमाणविधानं नोपपद्यते । अदृष्टार्थत्वे तूपपद्यते । तथा?R?0 ?R?0आनत्यर्थे दाने किं वचनेन । विनापि वचनेन दानं प्राप्तमेव । न च नियमार्थं वचनं नियमस्यैवाशक्यत्वात् पुरुषानतीनां अनियतत्वादेव । तदाह - नह्यानत्यर्थे वचने किञ्चित्प्रयोजनमस्तीति मन्यते ।
?R ?R?0राद्धन्तस्तु नियमे सम्भवति नादृष्टार्थता शक्यते वदितुम् व्रतस्येव । ?R?0यदि दृष्टं पुरुषानतिरेव प्रयोजनं दानस्य न स्यात् वचनानर्थक्यं इदं तावदवश्यं कर्तव्यमिति नियमार्थत्वाद्वचनस्य नानर्थक्यम् नियमार्थमपि वचनं भवत्येव । यथा पयो व्रतं ब्रह्मणस्येति। नियमार्थता वचनमात्रेण दृष्टान्तः । अन्यनिवृत्त्यर्थो व्रतनियमः । अयं तु अयोगनिवृत्त्यर्थः नियमेनापि नियोगानां अर्थवत्तोदिता चतुर्थे । तस्मात्परिक्रयार्थं दक्षिणादानमिति स्थितम् । ?R?0लिङ्गमुक्तम् ।
?R?0 कः इह पुनः प्रसङ्गोऽस्याधिकरणस्य बाधलक्षणे ? ?R?0उत्तरं - ?R?0अपरिक्रेतव्येषु पुरुषेषु सत्रे दक्षिणा बाध्यत इति प्रसङ्गः ॥
?R?0 ॥ 9 ॥ शेषभक्षाश्च तद्वत् ॥ 29 ॥
?R?0 ?R?0कथं पुनरन्यार्थं द्रव्यं परिक्रयार्थं मन्यते ? ?Rविनियुक्तविनियोगविरोधादित्यत्राह - ?R?0अत्रापि द्व्यवदानोपसंहारं सोमे च यावद्धोमं यागार्थमिति मन्वानः परिक्रयार्थतां मन्यते । ?R?0यागं प्रति तादर्थ्यं न पुरोडाशमात्रे ?R?0किन्तु द्व्यवदानमात्रे ?R?0(एवोपसंहृतम्) । सोमे तु यावदेव हूयते तावत्येव परिशिष्टमानत्यर्थमिति विनियुक्तविनियोगविरोधाभावात् तेन परिक्रयो युक्त इति पूर्वः पक्षः ।
?R कथं पुनस्तावता द्रव्येणाल्पीयसा परिक्रय इत्यत्राह - ?R?0भवति च या च यावतीव मात्रा प्रीतेः द्रव्येषु भक्ष्यमाणेषु ?R?0प्रीयते चानमन्ते । तस्मादानत्यर्था भक्षाः ।
?R ?R?0एवं प्राप्तेऽभिधीयते - आनत्यर्थे हि द्रव्यमुपादेयं प्राप्नोति ।
?Rयद्यानत्यर्था भक्षाः भक्षणीयं द्रव्यं आनत्यर्थमुपादेयं प्राप्नोति । ततः किं उपात्तद्रव्यविषया भक्षाः श्रूयन्ते । यागार्थं च तदुपादानम् । कुत्स्नस्यैव यागार्थत्वात् । एकदेशेन तु व्यापारः । न चान्यार्थस्यान्यार्थतोपपद्यते । तस्माद्यागार्थस्यैवायं संस्कारः प्रतिपत्तिरूपः नानत्यर्थ इति सिद्धम् । ?R?0सनिदर्शनं शेषमुक्तम् ।
?R?0 ॥ 10 ॥ वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात् स्वकर्मत्वात् ॥ 24 ॥
?R?0 ?R?0ननु वरणं प्रार्थनात्मकमानत्यर्थमेव कथमदृष्टार्थशङ्केत्यत्राह - ?R?0परिक्रयेणैवानतिः सिद्धेति
वरणमदृष्टार्थं मन्यते ऋतुवरणवत् ।
?R?0 ?R?0एवं प्राप्तेऽभिधीयते - न हि प्रयोजनवतः सन्निधौ प्रार्थना दृष्टार्था शक्यते कल्पयितुम् । उत्तरकालभावित्वाच्च दक्षिणादानस्य न कृतार्थता । ?R?0यदि पूर्वकालभावि वरणं दक्षिणादानं तर्हि तेनैव कृतार्थम् । ?R?0परिहरति - ?R?0नानत्यर्थता वरणस्य दानं विहन्ति । ?R?0कुत इत्याह - ?R?0तदनुगृहीतैव ह्यानत्यर्थता सिद्ध्यति ?R?0प्रयोजनवती भवति ?R?0न केवला । ?R?0कुत इत्यत्राह - ?R?0सम्मानपूर्वकं हि सतां दानं प्रयोजनसिद्धौ लोके दृष्टम् । ?R?0यत्र हि लोके प्रयोजनसिद्ध्यर्थं सतां दानं तत् सम्मानपूर्वकं दृष्टम् । तेन सम्मानं दानस्येतिकर्तव्यताभावेनोपकारकं न दानमेव निराकर्तुमर्हति । ऋतुवरणं तु कृतार्थतयाऽदृष्टार्थमिति प्रत्युक्तम् । वरणभरणयोः कृतत्वान्न वरणान्तरं दृष्टार्थम् ।
?R ?R?0॥ 11 ॥ परिक्रयश्च तादर्थ्यात् ॥ 35 ॥
?R?0 ननु परिक्रय इत्युक्तम् परिक्रीयतेऽनेनेति व्युत्पत्त्या परिक्रयः । स चात्मनि न सम्भवतीति कथं पूर्वपक्षः । प्रतिषेधदर्शनाशङ्क्या मन्दविषन्यायेन । “?R?0नह्यत्र गौर्दीयत”?R इति दृष्ट्वा मन्दाशङ्का भवति तया पूर्वःपक्षः । न ह्यसत्यां प्राप्तौ प्रतिषेधो भवतीति ।
?R ?R?0राद्धान्तस्तूक्तः । नायं प्रतिषेधः । किन्तर्हि ? ?Rनित्यानुवादोऽयमिति ।
?R?0
?R?0 ॥ 12 ॥ उदवसानीयः सत्रधर्मा स्यात् तदङ्गत्वात् तत्र दानधर्ममात्रं स्यात् ॥ 39 ।
?R?0 सत्रसमभिव्याहारान्नाधिकारान्तर कल्पना न्याय्या । फलवत्सन्निधावफलं तदङ्गमिति न्यायसिद्धेः । ?R?0सत्रादुदवसाय पृष्ठशमनीयेन ज्योतिष्टोमेन सहस्रदक्षिणेन यजेरन् इति सत्रेण सहैकस्मिन् वाक्ये तावत्पृष्ठशमनीयः समभिव्याह्रियते । तेन सत्रसन्निधौ तस्य श्रवणं फलवत्सन्निधौ अफलं तेन सहैकाधिकारम् । एकाधिकारत्वे च फलवदङ्गता । सत्रं च फलवत् अफलः उदवसानीयः । अतः सत्राङ्गम् । सत्राङ्गत्वे च स्वयंकर्तृत्वेन अदृष्टार्थमेव सहस्रदक्षिणावचनम् । कामेष्टौ सारस्वतसत्राङ्गभूतायां “?Rअश्वां च पुरुषीं च धेनुके”?R इतिवत् । किञ्च यद्यधिकारान्तरमुदवसानीये स्यात् तदा सत्रादुदवसायेति काललक्षणा स्यात् । सा चायुक्ता । तस्मात् सत्राङ्गत्वे सति समानकर्तृकतैव क्त्वाप्रत्ययस्यार्थः ।
?R ?R?0एवं प्राप्तेऽभिधीयते - नैतद्युक्तं यददृष्टार्थं सहस्रदक्षिणावचनमिति । यस्मान्न सत्राङ्गमुदवसानीयः । नात्र सत्रसमभिव्याहारः किन्तु सत्रत्यागसमभिव्याहारोऽयम् । ?R?0न हि यजेः क्तान्तता श्रूयते । किं तर्हि??R अवस्यतेः उदवसायेति । न चावस्यतिर्यागमाचष्टे वाजपेयेनेष्ट्वेतिवत् । यदि चेदमङ्गं सत्रस्य स्यात् तदा सत्रत्याग एव न भवेत् । ततश्च त्यागश्रवणं बाध्येत । तेन त्यागश्रवणात् सत्राननुप्रवेश्येतत्कर्मेति ज्ञायते ।
?R?0तस्मादुत्सृष्टसत्राणामधिकारान्तरमेतदिति सिद्धम् । दृष्टार्था च दक्षिणा भवति । ?R?0तेन दक्षिणाशब्दो न पीड्यते । स्वतन्त्रकर्मपक्षे चोदकप्राप्तपरकर्तृकत्वाबाधात् आनत्यर्थमेव सहस्र दक्षिणादानम् ।
?R एवं स्थिते पृच्छति - ?R?0किमुत्सृष्टसत्रता निमित्तं तेन
?R?0निमित्ताधिकारोऽयम्, किं वा विश्वजिद्वदधिकारान्तरकल्पना । ?R?0यद्यधिकारान्तरकल्पना तदा काललक्षणेति मन्यते । उत्तरमाह - ?R?0 नेदमत्र विचार्यते अनङ्गत्वं तावत्सिद्धम् ?R?0तत्र यदि निमित्ताधिकारो न्याय्यः तदा स एवाश्रीयताम् । अथान्याय्यस्तदा अधिकारान्तरं कल्प्यताम् । न च काललक्षणादोषः त्यागसमभिव्याहारेणानङ्गत्वादुदवसानीयस्येति ।
?R ?R?0॥ 13 ॥ तेषां तु वचनात् द्वियज्ञवत्सह प्रयोगः स्यात् ॥ 41 ॥
?R?0 ?R?0ननु कथमत्र बहुकर्तृकत्वमाशङ्क्यते यावतोत्सृष्टसत्राणामेतदधिकारान्तरम् । तेच बहव एवेति प्राप्तमेव बहुत्वमनूद्यते । न पुनर्बहुकर्तृके कर्मण्यधिकार इत्याशङ्क्याह - ?R?0अत्र यजेरन्निति बहुवचननिर्देशात् पदार्थस्य च पदार्थान्तरेण सम्बन्धात् अवगताविव कार्येऽपि अन्वयं मन्यते पूर्वपक्षवादी बहुत्वस्य । ?R?0अस्यार्थः - यजेरन्निति तावद्बहुवचननिर्देशेन बहुकर्तृके विषयेऽधिकारः प्रतीयते । न चोदवसानीयेत्येतदपेक्षया तद्बहुत्वमनुवादभूतमिति शक्या कल्पना । परिपूर्णस्य पदार्थस्य बहुकर्तृकयागविषयविध्यर्थात्मकस्यावगतत्वात् । यस्मात् पदार्थान्तरेणोदवसानेन सम्बन्धः । यदि बहुत्वमनपेक्ष्यैव केवलयागमात्रविषयो विधिरुदवसानेन सम्बध्यते तदा बहुत्वमनूद्यत इत्युच्येत । यदा तु परिपूर्णस्य सतः पदार्थस्यान्येन सम्बन्धः तदापि बहुकर्तृकयागविषयस्य विध्यर्थस्यावगतत्वान्नानूद्यमानता बहुत्वस्य । अतो यथा प्रतीतौ बहुत्वस्यान्वयः तथा कार्येऽपीति बहूनामेवोदवसानीये कर्तृत्वम् । एवं बहुकर्तृकत्वे स्थिते स्वयंकर्तृकता शक्या चिन्तयितुम् । अन्यथा हि एककर्तृकत्वे शक्त्यभावादेव स्वयमृत्विक्कार्यत्वं न शक्येताशङ्कितुमित्यन्तरागर्मिण्युपन्यासः ।
?R तत्र स्थितं तावदपर्यवसितमित्युक्त्वा आत्मकर्तृकः प्रयोग इति पूर्वपक्षितम् । तदयुक्तमिव प्रतिभाति । यदि हि यजमानानामेवार्त्विज्ये विधानं स्यात् तदैतद्युक्तं पूर्वपक्षयितुम् । न च यजमानानामार्त्विज्यं श्रूयते । यदि हि
?Rउदवसातारो यजमानाः पुरुषान्तरप्रयोज्यतया श्रूयेरन् तदा आर्त्विज्ये तेषां श्रवणं स्यात् । न चैतदस्ति । तदाह - ?R?0न ह्युदवसानीये कर्तारस्ते परप्रयोज्यतया ?R?0पुरुषान्तर प्रयोज्यतया ?R?0प्रतीयन्ते ?R?0येन यागे तथाभूता भवितुमर्हन्ति । ?R?0ननु यजेरन्नित्यनेनार्त्विज्येऽपि कर्तृत्वमुच्यत ?R?0इत्यत्राह - ?R?0न हि ते यजन्ति । किं तर्हि ? ?Rयाजयन्ति । ?R?0 ऋत्विजो न यजन्ते किं तर्हि याजयन्ति । यजेरन्निति च यजने कर्तृता प्रतीयते न याजने । ?R?0यदि यजने ऋत्विजां कर्तृता नास्ति कथं तर्हि यजन्ति याजका इति प्रत्युदाहरणम् । ?R?0उत्तरं - ?R?0प्रयोगे सति तद्द्रष्टव्यम् ।?R?0 यदा प्रयोज्ययजमानव्यापार एव यजिः प्रयोजकऋत्विग्व्यापारे याजने लक्षणया प्रयुक्त इति गम्यते तदैतत्प्रत्युदाहरणम् । तत्र याजकशब्द एव प्रमाणम् । याजकशब्देनर्त्विजामभिधानम् । ण्यन्ताद्यजेः ण्वुलुत्पत्तेः ।
?R अयं पुनर्यजेरन्निति प्रयोगः स्वतन्त्र एव कर्तर्युपपद्यते आत्मनेपदश्रवणादिति नर्त्विजामवगतिः । तेन कथमार्त्विज्ये यजमानकृताशङ्का इति । समाधत्ते - ?R?0सत्यं यथा भवानाह । इह पुनः सत्रसमभिव्याहृतमुदवसाने बहुत्वमिति तथा भूताशङ्कोपपद्यत इति तन्निराकरणाय पूर्वपक्षितम् । ?R?0अस्यार्थः सत्रे यथाभूताः कर्तारः तथाभूता उदवसानेऽपि प्रतीयन्ते । ये एवोदवसाने कर्तारः स एव पृष्ठशमनीयेऽपि । सत्रे च स्वयमार्त्विज्यकारिणः कर्तार इति इहापि तथाभूता एव ते कर्तार इति पूर्वपक्षाशङ्कानिराकरणाय पूर्वपक्षितम् ।
?R राद्धान्तस्तु - ?R?0परिचोदनयैवोक्तः । येयं प्राक् परिचोदना कृता यजमानानामार्त्विज्ये विधानं नास्तीति तयैव हि राद्धान्त उक्तः । ?R?0न तेनापरकर्तृकता बाधिता इति प्रकृतिवदुवसानीयः कर्तव्य इति वचनं परकर्तृकता प्रापकमबाधितमेव द्रष्टव्यम् ।
?R यदि हि सत्रप्रकृतित्वं स्यात् स्यादपि स्वयं कर्तृत्वं, न च सत्रप्रकृतित्वं पृष्ठशमनीयस्य । तस्मादृत्विजो वरितव्या इति स्थितम् ।
?R ?R?0कथं पुनरवगम्यमाना तथाभूतता स्वयमार्त्विज्यकारिता निराकृता ।
?Rउत्तरं - ?R?0प्रकृतिवदित्युक्तम् । ?R?0यथा प्रकृतौ परकर्तृता तथा पृष्ठशमनीयेपि इति यदिदं चोदकादवगम्यते तदेव तथाभूतत्वनिराकरणे कारणमित्युक्तम् । तस्माद्या- वच्छ्रुतमेवोत्सृष्टसत्रत्वमादरणीयं न पुनः स्वयमार्त्विज्यकारित्वमिति ।
?R?0॥ स्थितादुत्तरम् ॥
?R?0 सत्यं परिपूर्णं पदं पदान्तरमाकाङ्क्षति । पूर्वावगतस्त्वत्र प्रयोगः । स चेतरेतरनिरपेक्षाणां बहूनाम् । ?R?0 अस्यार्थः - उदवसायेति क्त्वाप्रत्ययश्रवणात् उदवसानप्रयोगस्तावत् पूर्वमवगन्तव्यः पूर्वावगम्ये क्त्वाप्रत्ययप्रयोगात् । स च परस्परनिरपेक्षबहुकर्तृकः । आक्षिपति - ?R?0बहवश्चेतरेतरनिरपेक्षाश्चेति भवतोच्यन्ते । किंनिबन्धनं तर्हि बहुत्वम् । ?R?0इतरेतरापेक्षत्वनिबन्धनं हि बहुत्वं नान्यथा बहुत्वोपपत्तिः । अपेक्षाबुद्धिनिबन्धनत्वात् । समाधाता आह - ?R?0 सत्रनिबन्धनमिति ब्रूमः । ?R?0सत्रे परस्परापेक्षत्वात् बहुत्वमुपपन्नम् । निरपेक्षता तूदवसाने एकैकस्य तत्प्रयोगात् ।
?R भवत्वेवं तथापि किमित्याह - ?R?0तथाभूतानां च पूर्वं प्रयोगावगमात् उत्तरत्रापि तथैवावसीयते । ?R?0अस्यार्थः - निरपेक्षा बहव उदवसानप्रयोगे पूर्वावगते तावत् कर्तारः प्रतीयन्ते । समानकर्तृकता च द्वितीयं प्रयोगमन्तरेण न स्यात् । योऽपि चासौ द्वितीयः प्रयोगः स पूर्वप्रयोगसमानकर्तृकः इति इतरेतरनिरपेक्ष बहुकर्तृक एव प्रतीयते । तस्मादेककर्तृकतैवोदवसानीयस्य ।
?R ननु यजेरन्निति श्रवणात् द्वितीयप्रयोगो बहुकर्तृक एव विधीयत इत्यत्राह ?R?0यजिमात्रं त्वनवगतमिति तदर्थविधानमवशिष्यत इति तत्रैव पर्यवसानम् । ?R?0अस्यार्थ - समानकर्तृकतावगमात् तावत् पूर्वप्रयोगविलक्षणकर्तृकप्रयोगसमर्पणार्थं न विधानं, किन्तु अनवगतद्वितीयप्रयोगस्वरूपमात्रप्रतिपादनार्थमिति तत्रैव पर्यवसानम् । न कर्तृबहुत्वेऽपि व्यापारो विधेः । नन्वेवं राजपुरोहितादिष्वपि किमित्येवमेव न स्यात् इत्यत आह - ?R?0राजपुरोहितादिषु ?R?0 तु प्रयोगान्तरानवगमात्
?Rअगृह्यमाणविशेषतया यजिवद्वचनार्थोऽपि विधेय इति वैषम्यम् । यथा यज्यर्थोऽनवगतस्तत्र विधीयते तथा वचनार्थोऽपि । इह तु वचनार्थो न विधेयः । पूर्वप्रयोगसमानकर्तृकत्वादेव तत्कर्तृसङ्ख्यावगमात् केवलं यागमात्रं विधेयम् । तस्मात् प्रकृतिवदेककर्तृत्वं विवक्षणीयमुदवसानीये । अतः प्रत्येकं प्रयोग इति सूक्तम् ।
?R ?R?0॥ 15॥ कामेष्टौ च दानसंयोगात् ॥ 44 ॥
?R?0 अत्र पूर्वपक्षवादी देयविशेषं मन्वानः अङ्गेषु परकर्तृकतां मन्यते । ?R?0अस्यार्थः - सत्राङ्गभूतायामपि कामेष्टौ चोदकप्राप्तपरकर्तृकतैव । ततश्च दक्षिणादाने चोदकप्राप्ते देयविशेषविधानभेतत् । न च ये यजमाना इति वचनं परकर्तृकतां बाधते समर्थं च ये यजमानास्त ऋत्विज इति प्रधाने वचनम् । प्रधानमात्रेऽपि स्वयंकर्तृकत्वविधेर्बहुवचनमुपपन्नमेवेति नाङ्गेषु चोदकप्राप्तां परकर्तृकतां बाधते । तस्मात् परिक्रय एवायं ‘?Rअश्वां च पुरुर्षी ?Rच’ ?Rइति ।
?R ?R?0अत्रोच्यते - प्रयोगाङ्गं हि आनमनम् ।?R?0 यदेतदानमनं तत्प्रयोगाङ्गम् । एकश्चायं सत्रप्रयोगः अङ्गविधिः पुनः पदार्थविषय एव न प्रयोगविषयः । न च पदार्थाङ्गं दक्षिणेत्युक्तम् । तस्माददृष्टार्थं वचनं न देयविशेषविधानार्थम् । एषोऽत्र तत्त्वार्थः - योऽयमङ्गविधिः स पदार्थमात्रसत्तां ज्ञापयति । न प्रयोगम् । प्रधानविधिरेव प्रयोगज्ञापकः । स चाविशेषेणाङ्गप्रधानानामेकमेव प्रयोगं ज्ञापयति । प्रयोगाङ्गभूता च दक्षिणा । तत्र यद्येषा दक्षिणा स्यात् ततः प्रतिप्रयोगं भवेत् । न च प्रयोगाङ्गं भवितुमर्हति । प्रधाने स्वयंकर्तृकत्वाभिधानात् । तेन नेयं दक्षिणा युक्ता पदार्थमात्रानङ्गत्वात् । अतोऽदृष्टार्थं दानमिति निश्चीयते ।
?R ?R?0॥ 16 ॥ द्वेष्ये च चाचोदनाद्दक्षिणापनयः स्यात् ॥ 46 ॥
?R ननु कथमन्वाहार्थे विहिते दक्षिणान्तराशङ्खेत्यत्राह - ?R?0नैमित्तिकत्वात्
?R?0दक्षिणाविकारो न्याय्य इति पूर्वः पक्षः । ?R?0 नित्यामन्वाहार्यदक्षिणां नैमित्तिकैकहायनीविधिर्बाधते । दक्षिणाशब्दश्च समर्थितो भवति । दक्षकरी हि दक्षिणा । यदि द्वेष्योऽपि ऋत्विग्भवेत् तदा .तस्मै दीयमाना दक्षकारिणी भवति अनृत्विजि तु दक्षिणात्वे नोपपद्यते । न चादृष्टपरिकल्पना । ऋत्विजे तु द्वेष्यायाभ्युपगम्यमाने दाने नैवादृष्टकल्पना ।
?R ?R?0अत्रोच्यते - नर्विजे दानमेतत् । स्मृतिविरोधात् । यदि हि द्वेष्यो?R?0 ?R?0ऋत्विग्भवति तदा भवेदिदं ऋत्विग्दानं, न च ऋत्विक् द्वेष्यः ?R?0न द्वेषणीय इत्यर्थः । स्मृतिवचनात् ऋत्विगाचार्यौ नातिचरितव्यौ इति । तेन द्वेष्यस्यर्त्विजोऽभावात् नेदमृत्विजे दानम् ।
?R ?R?0ननु लङ्घितशास्त्रार्थस्य कदाचित् ऋत्विगपि द्वेष्यः सम्भवति । ?R?0 यत एव द्वेष्यसम्भवः अत एव प्रतिषेधशास्त्रम् । अन्यथाऽप्रसक्तौ प्रतिषेधवचनं नावतरेत् परिहरति - ?R?0शास्त्राच्च तद्विषयद्वेषनाशनं यत्रतः प्राप्तम् । ?R?0अस्यार्थः - शास्त्रस्थान् गृहीत्वा शास्त्रव्यापारः । न च शास्त्रस्थस्य ऋत्विग्द्वेषणीयः । यः पुनः शास्त्रं नाद्रियते तस्य वरणेप्यनधिकार ऐव उच्छृङ्खलत्वात् । एतदेवाह - ?R?0 न चेष्छास्त्रमनुवर्तते वृणोति वा किमिति । ?R?0शास्त्राच्चेत् कृतनिश्चयः न तर्हि द्वेष्य ऋत्विक् । तस्मात् द्वेष्यस्यर्त्विजोऽसम्भवात् नेदं नैमित्तिकमानत्यर्थं दानमिति । शास्त्रान्तरमदृष्टायेति स्थितम् ।
?R
?R?0 ॥ 17 ॥ अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादथ्नाम् ॥ 47 ॥
?R?0 ?R?0कथं पुनरस्थ्नां यागाशङ्गा अचेतनत्वात् । न ह्यचेतनो यागं कर्तुं शक्रति । न चाधिकारोऽप्यचेतनानामुपपद्येत । बोद्धा ह्यधिक्रियते । नापि तानि नियुज्यन्ते । अत एव तिरश्चामनधिकार इत्यत्राह - ?R?0अत्र श्रुतिबलेन अभिधानविनियोगयोः नियोगस्य च शक्त्यपेक्षत्वात् श्रुतापरित्यागेन यथा शक्यते तथा
?R?0नियोगार्थोऽनुष्ठातव्यः इति पूर्वपक्षवादिनोऽभिमानः ।
?R?0 ?R?0अस्यार्थः - नास्थ्नामधिकारः शक्यते, अङ्गत्वादस्थियज्ञस्य । अस्थ्नां यागे कर्तृत्वाशङ्का अभिधानविनियोगयोः श्रुतिबलेन । अस्थीनि याजयेत् इत्यभिधानं तावदस्थिषु श्रौतम् । तथा याजनान्वयोऽप्यस्थ्नां श्रौत एव । तेन यागकर्तृता तावदस्थ्नां श्रौती । योऽपि चायं नियोगार्थोऽस्थिकर्तृके यागेऽभूतेन यथा शक्यते तथाऽनुष्ठातव्यः यस्मात् सत्रे नियोगः शक्त्यपेक्षः । प्रदर्शिता च यथाशक्तिशवद्रव्यं गृहीत्वा पुरुषान्तरेषु यागं कुर्वाणेषु भवति यागे अस्थीनि कर्तॄणीति पूर्वपक्षवादिनोऽभिमानः । लिङ्गं च दर्शितम् । यजमानभूतानां स्तोत्रान्तेऽस्थ्नामुपस्थितिः अस्थीनि यजमानानि दर्शयति ।
?R ?R?0एवं प्राप्तेऽभिधीयते - सत्यं शक्त्यनुरोधी नियोगः । किन्तु अभिधानविनियोगयोरेव श्रौतार्थो न सम्भवति ?R?0अस्थ्नां यागे कर्तृत्वासम्भवात् । न च परिक्रयद्वारा कर्तृता परिक्रयाभावात् । यदि हि तानि याजयतः पुरुषान् परिक्रीणीत स तदा संभवेदपि परिक्रयः । नचैतदस्ति । न चास्थ्नां स्वमस्ति येन परिक्रयः स्यात् न च तद्विषया यथाशक्तिः । न ह्यशवत्यन्यः शास्त्रार्थो भवति ।
?R ?R?0कथं तर्हि प्रतिनिधौ यथाशक्ति । ?R?0उत्तरं - ?R?0सा नियोगस्यैवेति वर्णिता । नियोगार्थ एव यथा शक्यते तथाऽनुष्ठीयते । सदृशग्रहणं तु अभिधानसम्पत्त्यर्थम् यथाभिहितार्थसम्पत्तये । ?R?0न पुनरर्थान्तराभिधानस्य सम्पत्तये । तस्मादभिधानविनियोगयोरेव यथाश्रुतनिमित्तसामञ्जस्यं न सम्भवतीति गङ्गायां घोष इतिवत् लक्षणा आश्रयणीया । अस्थिशब्देन अस्थिमन्तः जीवन्तः सत्रिण एव लक्षणीयाः । अतो येन सह सत्रिणः प्रवृत्ताः तदङ्गवतां तदस्थिमतां कर्तृत्वमिति सामञ्जस्यम् । तस्मात् जीवतामेव यागं इति युक्तम् । ?R?0लिङ्गं पुनः तत्सरूपं याजमानकुम्भोपस्थितिसरूपं वाचनिकमित्युक्तं भाष्ये
?R?0 ॥ 18 ॥ यदि तु वचनात् तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात्
?R?0॥ 49 ॥
?R?0 कृत्वाचिन्तोपन्यासोऽयम् पूर्वाधिकरणपूर्वपक्षप्रयोजनकथनाय । ?R?0प्रयोजनकथने पुनः प्रयोजनं न वक्तव्यम्, स्वयं प्रयोजनरूपत्वात् । तत्र च जपसंस्कारेष्टीनां यथासङ्ख्यं बाधः । केशश्मश्रुणोऽर्भावात् वाचो मनसश्चाभावात् निवृत्तिः ।
?R?0 ॥ 19 ॥ क्रत्वर्थं तु क्रियेत गुणभूतत्वात् ॥ 50 ॥
?R?0 अत्रापि स्वातन्त्र्याभावादेवास्थ्नामौदुम्बरीसम्मानादावपि कर्तृता न सम्भवतीति पूर्वः पक्षः । न ह्यस्थीन्यचेतनानि स्वयं क्वचित् कर्तृणि ब्याप्रियन्ते इत्यभिप्रायः ।
?R?0 अभिधेयसम्भवात् स्वातन्त्र्योपपत्तिरिति राद्धान्तः । ?R?0अस्यार्थः - धात्वभिधेयव्यापारयोगिता स्वातन्त्र्यम्, न पुनः स्वयं प्रवर्तमानता । एतदेव विवरीतुं पृच्छति - ?R?0किं क्रियासम्पादनमेव स्वातन्त्र्यम् । ?R?0उत्तरं - ?R?0ओमित्युच्यते धात्ववच्छिन्नव्यापारव्याप्तिः कर्तृत्वे हेतुः । ?R?0धातुना योऽवच्छिन्नः प्रतिपादितो व्यापारः तद्योगिता स्वातन्त्र्यमिति सैव कर्तृत्वे हेतुः । तथा च स्वव्यापारापेक्षं काष्ठादिव्यापारभूतज्वलनाद्यपेक्षं काष्ठादीनि पचन्तीति वाक्यं प्रयुज्यते । तस्मादस्थ्नां कर्तृत्वसम्भवात् अबाधः सम्मानान्वारम्भयोः ।
?R ?R?0॥ 21॥ काम्यानि तु न विद्यन्ते कामाज्ञानाद्यथेतरस्यानुच्यमानानि ॥ 51 ॥
?R?0 अत्र कामाभावेपि यजमानस्य वृष्टिर्भवतीति कोऽभिप्रायः??R ?R?0यावता सत्येव यजमानस्य ?R?0कामे काम्यमानेन फलेन भवितव्यम् । ?R?0उत्तरं - ?R?0अयमभिप्रायः - न कामनायां यजमानोऽङ्गं?R?0 ?R?0फलं च पुरुषार्थत्वादिति प्राधान्यात् ।?R?0 अस्यार्थः - यत्र कामनायां सत्यां पुरुषस्याधिकारः
?Rतत्राधिकारिणोऽङ्गता नास्ति प्रधानत्वादधिकारिणः । कामना चाधिकारिविशेषणमिति सापि नाङ्गमिति । ततः किमित्याह - ?R?0अङ्गाभावेन फलानुत्पत्तिः । ?R?0न पुनरनङ्गेऽप्युपादीयमाने । तेन कामनाया विनापि फलेन भाव्यम् । तस्मान् नीचैस्त्वादिगुणयुक्तात् सदोमानात् वृष्ट्यादिफलेन भवितव्यं असत्यामप्यस्यां कामनायामिति युक्तम् ।
?R ?R?0कथं तर्ह्यस्मिन् पक्षे आत्मनेपदम् ? ?R?0अस्यार्थः - आत्मनेपदं हि कर्तृगामितां फलस्यापादयति । यदि तु अकामेऽपि कर्तरि फलं भवति न तर्हि कर्तृगामिता फलस्य । भोग्यतया हि फलस्य सम्बन्धो नान्यथा । उत्तरं ?R?0उक्तस्तावदयं न्यायः । स्थिते च न्याये यथासम्भवमात्मनेपदमेव कर्तृगामितां फलस्याह ?R?0किन्तु अधिकारप्राप्तां द्योतयति । तत्र यत्राधिकारतः प्राप्तिरस्ति तत्र भवति कर्तृगामिक्रियाफलद्योतकता । यत्र न सम्भवति तत्र माभूत् । प्रवृत्तत्वाञ्चास्य ?R?0जीवदवस्थायां इति सिद्धं साध्वभिधानं पाणिनेः । ?R?0अस्यार्थः - यदेतत् वृष्ट्यादि सदोमानफलमिहास्थियज्ञे न तत् साक्षाच्छ्रुतम् । किन्तु आश्रयसद्भावेन ज्योतिष्टोमतः प्रवृत्तम् । ज्योतिष्टोमे च जीवदवस्थायां कर्तृगामिक्रियाफलप्रतिपादकमात्मनेपदं प्रयुक्तम् । सम्भवति च तदिति साध्वभिधानं पाणिने
?R ?R?0एवं प्राप्तेऽभिधीयते - सत्यमनङ्गं यजमानः तथापि कामनायाम सत्यामधिकृत एव । ?R?0अधिकारे च सति साधनत्वमधिगम्यते कर्मणः, अधिकृतस्य फलं जनयितुं शक्नोति नानधिकृतस्यं । ?R?0कथमनधिकारः ? ?R?0उत्तरम् ?R?0कामिता ह्यधिकारे हेतुः । तदभावे नाधिकारः । तस्मिश्चासति असाधनं कर्म । साधनाभावाच्च फलाभाव किमत्रानङ्गचिन्तया । ?R?0एतदुक्तं भवति - यद्यप्यधिकारी नाङ्गं तथापि प्रधानस्यापि फलोत्पत्तौ साधनभावात् तदभावात् फलाभाव इति । तस्मात्फलाभावान्निवृत्तिः काम्यादीनां सदोमानादीनाम् ।
?R भाष्ये पुनरात्मनेपदोपन्यासोऽधिकारलक्षणार्थः । अधिकारवशेनैव
?Rफलाभावः । आत्मनेपदं तु तदेव द्यातयतीत्यात्मनेपदोपन्यासः ।
?R ?R?0॥ 21 ॥ ईहार्थाश्चाभावात् सूक्तवाकवत् ॥ 52 ॥
?R?0 का पुनरत्र विशेषाशङ्का । ?R?0अस्यार्थः - यथा फलाभावात् काम्यानां निवृत्तिः तथा सूक्तवाकस्य फलाभावात् निवृत्तिरेव युक्ता । समाधत्ते - ?R?0ननु चार्थवादत्वमुक्तम् नेदं फलमायुरादिकम् किन्तु अर्थवादोऽयम् । ?R?0पुनराक्षिपति?R?0 विध्युद्देशाशेषत्वेनायुक्तं तदर्थवादत्वम् । ?R?0अर्थवादो हि विध्युद्देशशेषो भवति । तदभावान्नायमर्थवादः । पुनस्समाधत्ते - ?R?0अनुष्ठानेऽपि प्रोत्साहनमर्थवदित्युक्तं चत्वारि श्रृङ्गेत्यत्र । ?R?0तेनानुष्ठानावस्थायामर्थवादोऽस्त्विति पूर्वः पक्षः । राद्धान्तस्तु असमवायिन्यर्थे हि एवम् यथा चत्वारि श्रृङ्गेति । इह तु फलतया समवायोऽर्थ- स्योपपद्यत एव । तथा च भाष्यकारेण ह (द) रतिर्यजतिः मान्त्रवर्णिकी देवतादिका विधिः आयुरादीनि फलानीति दर्शितम् । तस्मात् सति फलत्वे फलाभावात् फलप्रतिपादकसूक्तवाकस्य पूर्ववदत्रापि बाधः ।
?R?0 ॥ 22॥ स्युर्वा होतृकामाः ॥ 55॥
?R?0 नात्राधिकारश्शक्यते वक्तुम् । आयुरादीनामिव कामानां विद्यमानत्वात् । ऋत्विजो ह्यर्ककामिनः । तस्माद्भवितव्यं होतृकामैः ।?R?0 यथा ह्यायुरादीनां यजमान एव काम्याधिकारी न तथा होतृकामानां ऋत्विजामप्यधिकारात् । तेन सन्त्येव कामिन इति भवितव्यं होतृकामैः ।
?R एवं प्राप्ते ?R?0अत्राभिधीयते?R?0 - सत्यमनधिकारो नास्ति । विषयाभावात्तु निवृत्तिः । यजमानो हि आशास्यफलस्य विषयः तद्विषयफलकामना होतुणामधिकारे हेतुः । न चास्थ्नां फलविषयता सम्भवति, अचेतनत्वात् तेन निर्विषयकामिनां अधिकारनिमित्तभावं होतृकामाः प्रतिपद्यन्ते । तस्मादत्राप्यधिकाराभावाद्धोतृकामानामपि निवृत्तिः ।
?R अत्र चोदयति - ?R?0विषयाधिकारयोः कःसम्बन्धः ? ?Rयेन विषयाभावादधिकाराभावः । ?R?0उत्तरं - ?R?0बाढमस्ति सम्बन्धः । न निर्विषया कामिता अधिकारनिमित्तभावं प्रतिपद्यते । तस्मादत्राप्यनधिकार एव । किमर्थं तर्हि इदमुक्तं पूर्व सत्यमनधिकारो नास्ति विषयाभावत्तु निवृत्तिः यजमानो हि विषय इति । ?R?0उत्तरं - ?R?0अधिकृतापेक्षमिदमुक्तम् । ?R?0अधिकृतानां हि ऋत्विजां चेतनवतां कामनायोग्यानां विद्यमानत्वाभिप्रायेणानधिकारो नास्तीत्युक्तम् । परमार्थतस्तु सत्स्वपि कामयितृषु विषयाभावान्न कामना कामनाभावादनधिकार इति ।
?R ?R?0॥ 23 ॥ सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् ॥ 57 ॥
?R?0 ?R?0अत्र भाष्यकारः एवं चिन्तयति - किं तद्दिष्टगत्यन्तं कर्मोत्स्रष्टव्यं उत समापनीयमेवेति । तत्र कारणसन्देहमाह - ?R?0अथेदानीमिदं सन्दिह्यते किं यावद्दिष्टां गतिं न गच्छति तावदेवाधिकारः । गते त्वधिकारभावात् कर्मत्यागः उत मृतस्याप्यधिकारानुवृत्तिरिति मराणादप्युपरि फलेष्वधिकारोऽस्तीति ।?R?0 तत्र पूर्वपक्षवादी पूर्वपक्षितवानिति सम्बन्धः । कथा युक्त्येत्यत्राह - ?R?0न कश्चिदेवं शास्त्रादधिकारं प्रतिपद्यते मृतस्यापि ममात्राधिकार इति । ?R?0तस्मात् यावद्दिष्टां गतिं न गच्छति तावदेवेदं मया कर्तव्यमिति शास्रादवगम्यते । अत ?R?0ऊर्ध्व कर्मणो निवृत्तिः अधिकाराभावात् काम्यस्येव ?R?0(फलस्येव) यथाऽधिकाराभावात् काम्यं फलं न भवति तथा मरणादुपरितनेनापि कर्मणा न भवितव्यं यदैव तस्य जीवनं तदैव तस्य कर्मणि कर्तृत्वमुपपद्यते कर्तृत्वपर्यन्तश्चाधिकार इति मरणादुपरितनेष्वनधिकारः ।
?R ?R?0राद्धान्तस्तु आपरिसमाप्तेरधिकारावगमात् नाधिकारनिवृत्तिरवसीयते । ?R?0सङ्गे प्रधानेऽधिकारः प्रतीयते । ?R?0ननु मृतेन कर्तव्यमिति प्रतीयते मृतस्य
?R?0कर्तृत्वानुपपत्तिरित्युक्तम् । ?R?0परिहरति - ?R?0केन वोक्तं प्रतीयत इति । कथं तर्हि कर्तव्यतोक्ता । ?R?0उत्तरं - ?R?0जीवत एव सा कर्तव्यता जीवन्नेव मरणादुपरितनानपि पदार्थानधिकरोति । जीवतैव च तथा कर्तव्यं यथा दिष्टापन्नस्य स्वाम्यं प्रति यतऽधिकारो निवर्त्यते । कथं वा निवर्तते??R सम्भारविधानात् । ?R?0जीवन्नेव सम्भारसामग्रीमुपदिशतीति शास्त्रादवगम्यते ।
?R यत्पुनर्न सम्भवति याजमानं बाधस्तस्यासम्भवादेव यथाऽन्येषामसम्भवतां जीवत्यपि यजमाने । यथा सत्रेषु परिक्रयादीनाम् । सम्भारसम्भरणेन च स्वामिनां कर्तृत्वमिति नाधिकारो निवर्तते । तदिदमुक्तम् - ?R?0असंशयं जीवतो मृतस्य च न कश्चिद्विशेष इति । सम्भारद्वारेण कर्तृत्वादुभयोः ।
?R?0 यत्पुनरिदमुक्तं कथमविद्यमानस्य कर्तृत्वमिति । अत्रोच्यते । नाविद्यमानता । शाश्वतत्वादात्मनः तस्य च कर्तृत्वात् । ?R?0(यदा) ?R?0परं मृते उपायासम्भवस्तुवोदितः स सम्भरणोपायेन परिहृतः । ?R?0ब्राह्मणाः समापयत मे यज्ञं इति प्रैषस्य चैवं दृष्टार्थतोपपन्ना यदि समापनीयः क्रतुः । अन्यथाऽदृष्टार्थता स्यादिति समापनीयः क्रतुरिति स्थितम् ।
?R ?R?0॥ 24 ॥ गते कर्मास्थियज्ञवत् ॥ 59 ॥
?R?0 कृत्वाचिन्ताप्रयोजनमिहानुष्ठाने उपयुज्यत इति अतिदेशो विषयसम्भवप्रदर्शनार्थः । ?R?0कृत्वाचिन्तया व्युत्पादितस्य न्यायस्यानुष्ठाने फलं दर्शयितुमिदमुक्तम् ।
?R ?R?0॥ 25 ॥ जीवत्यवचनमायुराशिषस्तदर्थत्वात् ॥ 60 ॥
?R?0 इदानीं यावद्दिष्टां गतिं न गच्छति तावन्मरणविरोधिनीषु चोदनासु अधिकारो विद्यते नेति चिन्त्यते । ?R?0अनेन भाष्यकारसन्देहे कारणसन्देहः कृतः ।
?R ?R?0तत्र मरणनिमित्तत्वादधिकारस्य तद्विरोध्यधिकारो निवर्तत इति पूर्वः
?R?0पक्षः ।
?R?0 राद्धान्तस्तु नियतकालत्वान्मरणेच्छायाः तत्पूर्वकालीनेषु नाधिकार विरोधोऽवगम्यत इति बाधाभावः । ?R?0नियतकालमरणार्थमेव पूर्वमायुराशासितव्यमिति नास्ति विरोधः । अतो नायुराशिषो निवृत्तिः ।
?R ?R?0॥ 26 ॥ क्रिया स्याद्धर्ममात्राणाम् ॥ 62 ॥
?R आक्षेप्तुं सन्देहमनुभाषते?R?0 ?R?0तावत् -?R?0 द्वादशाहमृद्धिकामा उपेयुरितिश्रूयते । तत्र ऋतुयाज्यावरणं आत्रेयहिरण्यदानं च भवति न भवतीति सन्दिह्यते । ?R?0अक्षिति - ?R?0ननु च सन्देह एवायमयुक्तः पूर्वपक्षाभावात् । नह्यदृष्टार्थस्यार्थलोपः शक्यते वक्तुम् । ?R?0अस्यार्थः - अदृष्टार्थमृतुयाज्यावरणं आत्रेयदानं च न तयोस्सत्रेपि द्वारलोपः शक्यते वक्तुम्, तत्राप्यदृष्टसम्भवादिति पूर्वपक्षासम्भवात् सन्देहो न युक्तः । समाधत्ते - ?R?0सत्यमेवं तथापि लौकिकन्यायानुसारेण यदप्यन्यस्मै दीयते साम वा प्रयुज्यते तत्रापि भृत्यानां भवत्येवानतिः साधुरुदारोऽयमिति मन्वानाः सुतरां तत्कार्ये यतन्त इति लोपं मन्यते पूर्वपक्षवादी । ?R?0अस्यार्थः - लौकिकन्यायानुसारेणार्थस्य लोपं मन्यते पूर्वपक्षवादी । लोके हि यदन्यस्मै दीयते दानं सामप्रयोगश्च तत्रापि भृत्यानां भवत्येव दातारं प्रत्यानतिः । तथाहि - भृत्याः साधुरयं प्रियंवद उदारो दानशीलश्चेति मत्वा सुतरां तस्य दातुर्यजमानस्य कार्ये यतमाना दृश्यन्ते । ततश्च परपुरुषवर्तिनोरपि सामदानयोः ऋत्विगानतिरेव प्रयोजनम् । न च सत्रे सास्तीत्यर्थलोपान्निवृत्तिः सामदानयोः ।
?R ?R?0राद्धान्तस्तु - नानुषङ्गिकं शास्त्रप्रयोजनं भवितुमर्हतीति । ?R?0अस्यार्थः - अनुषङ्गिकी ऋत्विगानतिः न शास्त्रप्रयोजनं भवितुमर्हतीति न सामदानयोः प्रयोजिका भवितुमर्हतीति । किन्त्वदृष्यमेव प्रयोजनम् । तदाह - ?R?0मुख्यश्च शास्त्रार्थोऽदृष्टायैवेति प्रकृतौ निरूपितम् । तस्मान्न निवृत्तिरनयोः सामदानयोः
?R?0।
?R?0
?R?0 ॥27 ॥ गुणलोपे च मुख्यस्य ॥ 63॥
?R?0 सहैवाग्निहोत्रहवण्या निर्वापशास्त्रं परिसमाप्यते । ?R?0अस्यार्थः - अग्निहोत्रहवण्या हवींषि निर्वपतीति निर्वापशास्त्रं अग्निहोत्रहवण्या सह समाप्यते । तथापि किमित्याह - ?R?0न च शास्त्रार्थस्य विभागो विद्यते । ?R?0शास्त्रैक्ये शास्त्रार्थोऽप्येकः । पदार्था हि विभक्ताः न तु शास्त्रार्थः । अग्निहोत्रहवण्या विना शास्त्रार्थ एव नास्तीति पवमानेष्टिषु निर्वापस्याकरणं मन्यते पूर्वपक्षवादी । केवलोऽपि निर्वापः कृतोऽप्यकृत एव अशास्त्रार्थत्वात् ।
?R ?R?0राद्धान्तस्तु सत्यं यद्युपदेशतोऽनुष्ठानं स्यात् । इह तु कार्यतोऽनुष्ठानं कार्यैकदेशस्य च सम्भवे तु तत्त्यागो निष्प्रमाणकः ।?R?0 अग्निहोत्रहवण्या अभावेऽपि तावत् निर्वापस्य कार्ये सम्भवति । न च सम्भवतः कार्यैकदेशस्य त्यागे प्रमाणमस्ति । तत्त्यागे च तज्जनकतया निर्वापोऽपि कर्तव्यक एव कार्यप्रयुक्तत्वादनुष्ठानस्य । यद्युपदेशसम्पादनायानुष्ठानं स्यात् स्यादप्यननुष्ठानम् । इह तु कार्यसम्पादनायैवानुष्ठानमिति कर्तव्यो निर्वापः । यदि चाग्निहोत्रहवण्येव निर्वापेन संस्क्रियते तदा संस्कार्याभावे निर्वापस्याकरणं स्यात् न च तदस्तीत्याह - ?R?0(न (नु) चाग्निहोत्रहवणी संस्कार्या येन ?R?0तदभावे कार्यावलोपः ?R?0स्यात् । ?R?0निर्वापस्य तु निरुप्यमाणद्रव्यं संस्कार्यं कार्यम् । ?R?0अलुप्ते च तस्मिन् कार्ये न बाधः शक्यते वक्तुमिति स्थितो निर्वापः ।
?R?0 ॥ 28 ॥ मुष्टिलोपात्तु सङ्ख्याला पस्तद्गुणत्वात्स्यात् ॥ 4 ॥
?R?0 ननु चतुरो मुष्टीन् निर्वपतीति चतुस्सङ्ख्या मुष्टयश्च निर्वापेश्रूयन्ते । सप्तदशसङ्ख्याशरावद्रव्यन्त्वोदनपरिमाणे?R?0 । ततश्च कथं भिन्नविषयतया विरोधाभावेन उभयमुभयस्य बाधकमित्याशङ्क्यत इत्यत्राह - ?R?0अत्र
?R?0भिन्नविषयत्वेपिशास्त्रस्य कार्यत एकविषयतां मन्वानः उभयोर्लोपं वर्णितवान् अन्यथा हि अन्यतरस्यापि लोपः केन हेतुनेत्यभिप्रायः । ?R?0अस्यार्थः - यद्यपि निर्वापविषयात् चतुरो मुष्टीन्निर्वपतीति शास्रात् सप्तदशशरावशास्त्रं ओदन परिमाणवचनं भिन्नविषयं तथापि कार्यपर्यालोचनया भवत्येवैकविषयत्वम् । तावत्परिमाणनिर्वापमन्तरेण तावदोदनस्यानुपपत्तेः । तेनार्थात् तुल्यार्थतां प्राप्य गोदोहनादिनेव पुरुषार्थेन क्रत्वर्थस्य चमसस्य सप्तदशसङ्ख्यायाः शरावद्रव्येण चतुस्सङ्ख्यायाः मुष्टिद्रव्यस्य च बाधो युक्तः । यदि पुनः कार्यतः समानविषयता नाश्रीयते तदा अन्यतरस्य बाधो राद्धान्ताभिमतो न सिद्ध्यतीति पूर्वपक्षवादिनोऽभिप्रायः ।
?R ?R?0राद्धान्तस्तु श्रुतिस्तावद्भिन्नविषयिणी सप्तदशशरावपरिमाणश्चरुः श्रूयते । चतुर्मुष्टिपरिमाणश्च निर्वापः । तत्रैककार्यत्वे प्रमाणं नास्ति । ?R?0अस्यार्थः - यदि सङ्ख्याद्रव्ययोर्वैकृतयोः प्राकृतसङ्ख्याद्रव्यकार्ये विधानं स्यात् तदा भवेदेव द्वाभ्यां द्वयोर्बाधः समानविषयत्वे च सति बाधेन भवितव्यम् । न च समानविषयतास्ति प्राकृतयोः सङ्ख्याद्रव्ययोः निर्वापविषयत्वेन वैकृतयोश्चरुविषयत्वेन श्रवणात् ।
?R ?R?0ननु तावत्परिमाणके निर्वापे सति सप्तदशशरावपरिमाणता चरोर्न सिद्ध्यतीत्युक्तम् । ?R?0परिहरति - ?R?0एवं तर्ह्यर्थो बाधः न तु कृतकृत्यतया । ?R?0तथापि किमित्यत्राह - ?R?0आर्थश्चेदयं बाधः तदा?R?0 यावदर्थं भवितुमर्हति । यावतैव बाधेन विना चरोः परिमाणं न सिद्ध्यति तावदेव बाधितव्यम् । सङ्ख्याद्रव्ययोश्चान्यतरबाधेनाप्यर्थः सिद्ध्यतीति नोभयबाधो भवितुमर्हति । तावतैवेदमधिकरणं समाप्तम् । द्वयोर्बाध इति पूर्वपक्षः । अन्यतरस्य बाध इति राद्धान्तः ।
?R स पुनः अन्यतरस्य किं मुष्टिद्रव्यस्य उत सङ्ख्याया इति न्यायान्तरमेतत्प्रतिपादितम् । तत्रापि ग्रहणमेव मुख्यस्येत्युक्तम् । यथा
?Rआद्यस्योपादानं अन्त्यस्यत्यागः तथाऽत्रापि पूर्वभाविन्या मुख्यभूतायास्सङ्ख्यायाः उपादानं जघन्यस्य द्रव्यस्य लोपः उभयोः सङ्ख्याद्रव्ययोः निर्वापगुणत्वात् । यदि सङ्ख्या द्रव्ये गुणभूता भवेत् ततो द्रव्यमेवानुरुद्ध्येत सङ्ख्या च लुप्येत । अत्र तु भिन्नप्रातिपदिकाभिधेया सङ्स्या निर्वापमेव प्रति गुणभूता आरुण्यमिव क्रयं प्रति ।
?R?0॥ 29 ॥ औत्पत्तिके तु द्रव्यतो विकारः स्यादकार्यत्वात् ॥ 68 ॥
?R?0 अत्रोपपदस्थानीयं चोदकं मन्वानः पूर्वपक्षवादी नाजद्रव्यस्य बाधं मन्यते । ?R?0अस्यार्थः - यथा अज ऋषभ इत्यत्र उपपदभूताजशब्दश्रवणे अज एव ऋषभः परिगृह्यते तथेहापि अजोपस्थापिनि चोदके सति अजस्यैव ऋषभस्य ग्रहणमिति अजद्रव्यस्यानिवृत्तिः । ननु ऋषभादिशब्दश्रवणमात्रेण गौः प्रतीयत इति अजस्य चोदकप्राप्तस्य बाध एव न्याय्य इत्यत्राह - ?R?0यदि पदोच्चारणसमनन्तरमेव गोद्रव्यं प्रतीयत ?R?0इति मन्यते तदा अज ऋषभ इत्यपि प्रयोगो न स्यात् परस्परमनन्वयात् यथा अजो गौरिति ।
?R अथ श्रौतेऽर्थेऽनन्वयात् गौणोऽयमृषभशब्द इति घटत एव प्रयोगो अज एव ऋषभ इति तत्राह - ?R?0न चायं गौण इति शक्यते वक्तुम् । स्वार्थापरित्यागात् । ?R?0 यो हि स्वार्थपरित्यागेनान्यत्र वर्तते स गौणोऽग्निर्माणवक इति । ऋषभादयश्च शब्दाः अजेपि वर्तमाना न स्वार्थमुज्झन्ति येनैव च वयः प्रभृतिनार्थेनाभिधेयेन ऋषभादयः शब्दा गवि वर्तन्ते तेनैव अत्राप्यजे वर्तन्त इति न ऋषभादि शब्दश्रुतिविरोधः अजद्रव्येऽपि चोदकप्राप्तेऽनुगृह्यमाणे इत्यजस्याबाधः ॥
?R ?R?0राद्धान्तस्तु उपदेशपरिसमाप्तौ सतयां चोदकः प्रवर्तते । अवगते हि औपदेशिके शब्दार्थे पश्चात् चोदकस्य प्रवृत्तिः तेन चोदकानुसारेण शब्दार्थो न शक्योऽन्यथाकर्तुम् । ?R?0धेन्वादयस्तु शब्दाः गोगतगुणवचनाः न गुणमात्रवचनाः
?R। न चोपदेशकाले धेन्वादीनां गौरूपस्वाधिष्ठानप्रत्यर्थिभूतं किञ्चिदजादिद्रव्यमस्ति येनाधिष्ठानान्तरगतानां अनभिधेयानामपि गुणानां गौणमभिधानं कल्प्येत । चोदकस्सु पश्चाद्भावी न शब्दार्थं प्रथमभाविनमन्यथाकर्तुमुत्सहते । ?R?0यदि गवाधिष्ठानगुणवचना धेन्वादयश्शब्दाः कथं तर्हि अज ऋषभ ?R?0इति प्रयोगः ? ?Rउत्तरं - ?R?0उपदेशापरिसमाप्तेर्गौणः प्रयोगो भविष्यति । ?R?0द्वयोरपि पदयोः श्रुतत्वात् अन्वयं विना नोपदेशः समाप्यते । न च गौणत्वं विनान्वयोपपत्तिरस्तीति गौणत्वाध्यवसानम् ।
?R ?R?0कथं पुनस्तदर्थसम्भवे गौणत्वम् ? ?R?0उत्तरं -?R?0 अभिधानादर्शनात् । ?R?0यदि गुणमात्राभिधानं दृष्टं लोके स्यात् स्याद्गुणमात्रवाचित्वम् । न च तदस्ति । तस्मान्नगुणमात्रं तस्य शब्दस्यार्थः । कथं पुनरभिधानादर्शनं ??R केवलपदश्रवणे तन्मात्रानवगमात् गवाधिष्ठानगुणावगमात् । तस्मात् वाक्यबलेन कथञ्चित् गौण्या वृत्त्या अजाधिष्ठानगुणप्रतिपत्तिः वक्तव्या । इह तु तथा गोगतप्रतिपत्तौ प्रत्यर्थिभूतं नास्तीति न श्रौतोऽर्थः परित्यक्तुं शक्यते । धेन्वादयश्चैते शब्दाः गौगततद्गुणं वदन्ति न गोत्वमपि ।
?R ननु यदि गोत्वमेते शब्दा नाभिदधति कथं तर्हि विशिष्टगुणवचनाः । उच्यते । किञ्चिद्धि स्वत एव विशिष्टं वस्तु यदाश्रयभेदेन भिन्नं तत्स्वत एव विशिष्टत्वान्न विशेषणाभिधानमपेक्षते । धानादयश्च प्रत्याश्रयं भिद्यन्ते । तत्र गवाश्रिता ये पयोधानादयस्ते धेन्वादिशब्दैरभिधीयन्त इति न विशेषणतया आश्रयाभिधानमपेक्षन्ते । किञ्चिद्वस्तु स्वतो न विशिष्टं केवलविशेषणबलेनैव विशिष्टतामापद्यते । तत्तु विशिष्टमभिधीयमानं न विशेषणाभिधानमन्तरेण तथाऽभिधातुं शक्यते यथा गोत्वादि । इह च धानाद्युपहितगोत्वादिवचना धेन्वादयः शब्दा न भवन्ति । धानाद्यभिधानमन्तरेण गोत्वस्य विशिष्टस्याभिधातुमशक्तेः स्वतो गोत्वस्याभेदात् । विशेषणविशेष्याभिधाने शक्तिकल्पनागौरवत् । गवापेक्षधानादिवचनत्वे तु तेषां स्वतो़ऽभिधानात्
?Rविशेषणाभिधानापेक्षा नास्तीति लाघवात् धानावाचित्वमेव धानादिशब्दानाम् । तत्र यद्यपि गुणवचनास्तथापि शास्त्रान्तरेण गोद्रव्यानुपादाने गुणवद्द्रव्यपरत्वेन प्रयुज्यन्ते । तस्मात् द्रव्यान्तरविधानात् बाधितमजद्रव्यम् ।
?R ?R?0॥ 30 ॥ नैमित्तिके तु कार्यत्वात्प्रकृतेः स्यात्तदापत्तेः ॥ 69 ॥
?R?0 ?R?0इह तु यदि गुणवचनः शब्द उपदेशे श्रूयमाणः पूर्वन्यायेन स्वाधिष्ठानपर्यन्त एव निमित्ततां प्रतिपद्यते । तर्ह्ययमपि श्वेतशब्दो द्रव्यमात्रं अनपेक्षितजातिविशेषं यदधिष्ठानं तत्पर्यन्ततया स्वार्थे प्रत्याययतीति चोदकेन यद् द्रव्यं प्राप्यते तद्बाध एव । सामान्यं हि द्रव्यमात्रमुपदेशार्थ इति विशेषश्चोदकप्राप्तो बाध्यते ।
?R ?R?0अत्रोच्यते । त्वयैवोक्तं द्रव्यमात्राधिष्ठानं स्वार्थे श्वेतशब्दः प्रत्याययतीति । ?R?0ततः किमित्याह - ?R?0तर्हि(न)विशेषमवगमयति, नाधिष्ठानविशेषमवगमयति?R?0 । विशेषेऽनवगते विशेषान्तरनिवृत्तिर्दुर्भणा विरोधाभावात् । यदि भिन्नमधिष्ठानविशेषं श्वेतशब्दोऽवगमयेत् तदा चोदकप्राप्तेन सह विरोधः स्यात् । न चैतदस्ति तस्मादबाधः चोदकस्येति युक्तम् ।
?R ?R?0॥ 31 ॥ विप्रतिषेधे तद्वचनात् प्राकृतगुणलोपः स्यात् तेन च कर्मसंयोगात् ॥ 70 ॥
?R?0 ?R?0अत्र ?R?0भाष्यकारः खदिरादीनामेव बाधाबाधौ चिन्तयति । ?R?0तत्र यावदुक्तग्राहिणः कस्यचित् तन्मात्रबुद्धिर्माभूदिति तुल्यन्यायतया सर्वेषामेव यूपोत्पत्त्यर्थानां द्रव्याणां संस्काराणां चोदाहरणतामाह - ?R?0खलेवाली ?R?0यूपो भवतीत्यत्र संशयः - किं यूपोत्पत्त्यर्था धर्माः साद्यस्क्रे कर्तव्या नेति । ?R?0कथं कर्तव्याः कथं वा न कर्तव्या इति ।
?R?0 ?R?0उत्तरं - ?R?0यदि लुप्तार्थास्तदा न कर्तव्याः अथालुप्तार्थाः कर्तव्याः ।
?Rयद्यत्र यूपो बाधितस्तदा न कर्तव्याः यूपोत्पत्त्यर्थत्वात् । अथ न बाधितस्तदा कर्तव्याः । ?R?0कथं पुनर्लोपालोपावर्थस्य ? ?R?0उत्तरं - ?R?0यूपबाधाबाधसन्देहात् । यूपस्यौव बाधाबाधौ कथं सन्दिह्येते । ?R?0उत्तरं - ?R?0वचनव्यक्तिभेदात् सन्देहः यदाऽयं वचनव्यक्तिः या खलेवाली सा यूपो भवतीति तदाऽर्थलोपः ।?R?0 तदा खलेवाली यूपकार्ये विहिता भवति । ततश्च तयैव यूपकार्ये कृते यूपो लुप्येत । अथ यूपः खलेवाली भवतीत्युच्यते तदा अलुप्तार्थत्वात् प्रवृत्तिर्धर्माणां, तदाहि सतो यूपस्य खलेवालीत्वं विधीयते । किं पुनरत्र युक्तम् ??R पूर्वपक्षं परिगृह्णाति - ?R?0यूपः खलेवाली कर्तव्य इति वाक्यार्थो युक्तः ।?R?0 का पुनत्र युक्तिः ? ?Rश्रौतो यूपशब्दः समर्थितो भवति चोदकश्च न पीडितः ।
?R ?R?0नन्वस्मिन् पक्षे खलेवालीशब्दः श्रौतमर्थं त्याजितः ।?R?0 कुत इत्याह ?R?0खलेवालीशब्दो हि काष्ठवचनः ?R?0खलेवारयतीति व्युत्पत्त्या यौगिकः खलेवालीशब्दो मेधिकाष्ठमाह, न पुनः खलेवारणक्रियामात्रम् । तथापि किमित्याह ?R?0न च निर्ज्ञातकाष्ठे यूपे काष्ठान्तरं विधातुं शक्यते । ?R?0अस्यार्थः निर्ज्ञातंकाष्ठं खदिरादि यस्य स निर्ज्ञातकाष्ठो यूपस्तत्र काष्ठान्तरं विधातुं न शक्यते । खदिरादिकाष्ठं (काष्ठा)न्तरं भवतीति विधातुं न शक्यते । तस्मात् काष्ठात्मके यूपे खले वारणक्रिया कर्तव्या । यूपः खलेवाली कर्तव्यः । यूपे खलेवारणक्रिया संस्कारार्था कर्तव्या इति । ततश्च श्रौतस्य द्रव्यस्य हानं क्रियायाश्च विधानं लक्षणया यथा पाचकशब्दे पचिक्रियामात्रपरे ।
?R?0 अथाऽयमभिप्रायः यदि स्वार्थेपि (यूपः)खलेवाली सम्भवति तस्मिन्नर्थे श्रौतविधानमुपपद्यत एवेति ।?R?0 अस्यार्थः - यदि काष्ठान्तरमयीं खलेवालीमाश्रित्य विधानमुच्यते तदा शक्यविधानं स्यात् । यदि तु खादिरीं खलेवालीमाश्रित्य यूपे खलेवाली विधिराश्रीयते तदा नास्ति विरोध इति श्रौतार्थविधानमेवेत्यभिप्रायः पूर्वपक्षिणः । आक्षेप्ता दूषयति - ?R?0सुतरां तर्हि विधानानुपपत्तिः ।
?R?0प्राप्तत्वात्खदिरस्य । ?R?0खदिरता प्राप्तैव न विंधेया । एकग्रन्थेन स एव पूर्वपक्षिणा
?Rशङ्कामाह -?R?0 अथ खलेवारणसंस्कृतं तद्विधीयत इत्युच्यते । यद्यपि खदिरतः प्राप्तत्वान्न विधेया तथापि खलेवारणसंस्कृततया विधीयते । ?R?0दूषयति - ?R?0सैव तर्हि लक्षणा खलेवालीशब्दस्य काष्ठवचनस्य खलेवारणसंस्कृतपरत्वात् । ?R?0एवमाक्षिप्ते पूर्वपक्षे पूर्वपक्षी वदति । ?R?0एवं तर्हि यश्चोभयोस्समो दोषो न तमेकश्चोद्यो भवति । ?R?0तथाहि - विपरीतायामपि सिद्धान्तवचनव्यक्तौ यूपशब्दो लक्षणया वर्णनीयः । पुनराक्षेप्ता आह - ?R?0कस्तर्हि तव पूर्वपक्षिणो विशेषहेतुः ।?R?0 पूर्वपक्षी वदति - ?R?0अयमस्ति विशेषहेतुः खलेवाली यूपो भवतीत्युच्यमाने - ?R?0यूपशब्दो धर्मान् लक्षयति, न कार्यं, कार्ये हि लक्ष्यमाणे खलेवाली विधेया । तस्यां च विधीयमानायां व्यवहितः सम्बन्धः स्यात् यूपकार्ये खलेवाली भवतीति यूपशब्दात् व्यवहितो भवति इतिशब्दः खलेवालीशब्देन सम्बन्धनीयः । भवतु धर्मलक्षणा तथापि किमित्यत्राह - ?R?0ते च धर्माः खलेवाल्यां विधीयमानाः तत्संस्कारका एव प्राप्नुवन्ति ?R?0खलेवालीसंस्कारका इत्यर्थः । ततश्च प्रकरणे खलेवाल्या असम्भवात् प्रकरणबाधः अधिकारान्तरकल्पना अदृष्टकल्पना चेत्ययमेव पक्षो न्याय्यः यूपः खलेवाली भवतीति ।
?R ?R?0एवं प्राप्तेऽभिधीयते - ?R?0अव्यवधानात् खलेवाली यूपो भवतीति वाक्यार्थः न पुनर्यूपः खलेवाली भवतीति ।
?R ?R?0नन्वेवं सति यूपशब्दो लक्षणयेत्युक्तम् ।?R?0 परिहरति -?R?0 परिहृतमिदं चोद्यं पूर्वपक्षिणैव यश्चोभयोर्दोष इति वदता । ?R?0यस्मात् पूर्वपक्षेऽपि खलेवाली शब्दो लक्षणया वर्णितः।
?R ?R?0ननु चाधिकारान्तरकल्पनादयो दोषाः । ?R?0परिहरति - ?R?0धर्मलक्षणायां ह्यमी दोषाः । ?R?0इह तु ?R?0कार्यं लक्षयति यूपशब्दः । ?R?0किमिति धर्मानेव न लक्षयतीत्यत्राह - ?R?0दोषपरिहारायैवाधिकारान्तरादि?R?0दोषपरिहारार्थे कार्यलक्षणा न धर्मलक्षणा ।
?R ननु चैवं सति खलेवाली भवतिना सम्बध्यते (विधे) यत्वात् । कार्ये हि
?Rखलेवाली विधेया न खलेवाल्यां कार्यं तदाह - ?R?0न यूपः खलेवाल्यां विधेयः लक्षणत्वात् उद्देश्यत्वात् । ?R?0ततश्च स एव व्यवहितसम्बन्धः । कथमव्यवधानादित्युक्तम् ? ?R?0उच्यते । कथं वा यूपो भवतीति ?R?0कार्ये हि लक्ष्यमाणे न प्रथमान्ततया सम्बन्धो घटते । न हि भवति खलेवाली यूपकार्यं भवतीति । किन्तु खलेवाली यूपकार्ये भवतीति ।
?R ?R?0अत्रोच्यते खलेवालीविशिष्टो ?R?0यूपार्थश्चोद्यते । ?R?0किमिदं खलेवाली विशिष्टो यूपार्थश्चोद्यत इति । ?R?0 उत्तरं - ?R?0इदमिदं,?R?0 यथा दध्ना जुहोतीति दध्यनुरक्तहोमविधानं एवं खलेवाल्यनुरक्तयूपकार्यविधानं भावार्थविषयो विधिरिति भावार्थात्मकं यूपकार्यमेव खलेवालीविशिष्टं विधीयत इति न व्यवहितान्वयः । खलेवाली यूपो भवतीत्यर्थोऽस्य वाक्यस्य । कुतोऽयमर्थोऽस्येत्यत्राह - ?R?0भवतियोगाद्यूपस्य । ?R?0कथं यूपतीति शब्द इत्यत्राह - यथा श्वतिगर्दभति इति सर्वप्रातिपदिकेभ्य इत्येके इत्याचारे क्किप् । एवं च प्रथमान्तशब्दोऽप्युपपन्नः । यूपशब्दोऽयं गौणो यूपसदृशे वर्तते । तेनायमर्थः - खले वाली यूपसदृशी भवतीति । कार्यनिबन्धनं च सादृश्यमुच्यते । ततश्च खलेवाल्यनुरक्तः यूपः कार्यं यदि विधीयते तदा कथमिदमुच्यते यूपकार्ये खलेवाली विधीयत इति । तत्राह - ?R?0यावदप्राप्तं च विहितं भवति?R?0 प्राप्ताप्राप्तविवेकेन खलेवालीविधिरुच्यत इति न प्रकरणबाधादयो दोषाः । नापि व्यवधानम् । अतो लुप्तद्वाराणां खदिरादीनां यूपोत्पत्त्यर्थानामप्राप्तिः ।
?R अथ कस्मात् यूप एव खलेवालीकृत्ये न व्यापार्यते । तथाहि न यूपार्थे बाधितो भवति खलेवाल्या च यूपकार्य कृतं भविष्यतीति । कुतो यूपस्याप्राप्तिरित्यत्राह - ?R?0आक्षिप्तविशेषाभिधानात् खलेवालीशब्दस्य धेनुवत् । ?R?0अस्यार्थः - यथा धेनुशब्दो द्रव्यपर्यन्तो न गुणमात्रपर्यवसायी तथा
?Rखलेवालीशब्दोऽप्याक्षिप्तद्रव्यविशेषवचनो न खलेवारणक्रियामात्रवचनः । तत्र यदि यूप एव खलेवालीकृत्येव्यापार्यते तदा यूपसंस्काराय
?Rखलेवारणक्रियामात्रविधिरापद्यते तत्र च लक्षणादोषः । तस्माद्यूपबाधेनैव श्रौतार्थानुग्रह इति ।
?R
?R ?R?0॥ 31 ॥ परेषां प्रतिषेधः स्यात् ॥ 71 ॥
?R?0 ?R?0खदिरादयस्तावदाक्षिप्तविशेषवचनत्वान्निवृत्ता इत्युक्तम् द्रव्यान्तरविधाने द्रव्यान्तरनिवृत्तेः । ?R?0इदानीं तक्षणादयश्चिन्त्यन्ते किं खलेवाल्यां कर्तव्या नेति । तत्र पूर्वपक्षवादी उपदेशाविरोधात् कर्तव्या इति मन्यते । ?R?0खलेवाल्यां यूपकार्ये कर्तव्यमिति योऽयमुपदेशार्थः असौ तक्षणादिषु क्रियमाणेष्वपि न विरुद्ध्यत इति कर्तव्यास्तक्षणादयः न ह्यत्रोपदेशेन विरोधः खदिरादीनामिव ।
?R ?R?0ननु कार्यं नास्ति तक्षणादीनां किमत्राविरोधः करिष्यति । ?R?0जोषणछेदने तावत् जोषितायां छिन्नायां च खलेवाल्यां लुप्तकार्ये । तक्षणमपि खलेवालीविरोधादविद्यमानकार्ये किमत्राविरोधः करिष्यति । उत्तरं - ?R?0तदेव तु कार्यमविरोधे सति निवृत्तमिति न शक्यते वक्तुमित्यभिप्रायः । ?R?0अयमभिप्रायः स्वरूपतस्तावद्विरोधो नास्ति । तेनाविरोधे सति कर्तव्यतया प्रतिभासमानानामेषां कार्यं कल्पयितव्यम् । तेनादृष्टार्थे न पुनरपि जोषणछेदने करिष्येते अदृष्टार्थे च तक्षणमिति । अत्रोच्यते । ?R?0दृष्टकार्यत्वात् तस्य खलेवाल्यां चाशक्यत्वात् न कार्यान्तराकाङ्क्षा । ?R?0अस्यार्थः - क्लृप्तकार्याणां प्रकृतितः प्राप्तानां तदेव कार्यं प्रतिभातीति न कार्यान्तराकाङ्क्षास्ति येनाविरोधेन कार्यान्तरं कल्प्येत । तस्मान्न कार्याविरोधमात्रेण कार्यास्तित्वं शक्यते वक्तुम् । प्राकृते च कार्यं यत्तदेषां लुप्तम् । यदा चैषां प्राकृतमेव कार्यं तदा प्रकृतौ यूपोत्पत्त्यर्थत्वात् इहापि यूपोत्पत्त्यर्थैरेवैतैर्भवितव्यम् । न चात्र यूपेन प्रयोजनं अयूपस्य तत्कार्ये विधानात्
?Rखलेवाल्या यूपस्य च भिन्नत्वात् । ततश्च कार्याभावान्न कार्यास्तक्षणादयः । तदाह - किञ्च?R?0 यूपोत्पत्त्यर्थास्तक्षणादय इति प्रकृतावुक्तम् । अयूपश्चायं नियोजने विहित इति न तक्षणादयो भवितुमर्हन्ति जोषणादयश्च कृतत्वान्न कर्तव्या इति
?R?0प्रदर्शितम् ।
?R?0 ॥ 32 ॥ अर्थाभावे संस्कारत्वं स्यात् ॥ 73 ॥
?R ?R?0कृतत्वात् कार्यस्य कार्यान्तराकाङ्क्षा नास्तीति पूर्वः पक्षः ।?R?0 अद्भिरव सेचनादिभिः कृतं तत्कार्यमिति पुनः कार्यमपरं नाकाङ्क्षते । तेन निवृत्तिरेषामिति पूर्वः पक्षः । ?R?0सत्यं यदि दृष्टमेव कार्यं न स्यात् । दृष्टे पुनः कार्ये कृतमित्येव नास्ति खलेवारणशिथिलीकृतायां खलेवाल्याम् । ?R?0अस्ति च दाढ्र्यापादनं कार्यमिति कृतकार्यता नास्ति कृतस्याप्यननुवर्तनात् । ?R?0तस्मादलुप्तार्थानां तेषामबाधः ।
?R?0॥ 33 ॥ अर्थेन च विपर्यासे तादर्थ्यात् तत्त्वमेव स्यात् ॥ 74 ॥
?R?0 इह पूर्ववादी क्रमपदार्थोऽपि बाध्यत इति मन्यते । ?R?0अस्यार्थः - प्रकृतौ पाकात्पूर्वमवघातः इह पाकोत्तरकालताऽवघातस्य स्यादिति क्रमबाधः । तेन क्रमे बाधितेऽवघातोऽपि बाध्यत इति मन्यते पूर्वपक्षवादी ।
?R ?R?0ननु चाग्निहोत्रहवण्या निर्वपतीति न गुणानुरोधेन प्रधानं बाध्यत इति स्थितमेव । गुणश्च क्रमः पदार्थाः प्रधानभूताः । तेन गुणबाधेपि प्रधानं कर्तव्यमेव कार्यतश्चात्र प्राप्तिरित्युक्तम् । ?R?0तस्य च तुषकणविमोकलक्षणस्य च कार्यस्य दर्शनादलोपोऽर्थस्येति युक्तमेवावघातानुष्ठानम् । ?R?0 तस्मात् गतार्थमेवेदं प्रतिभाति उक्तत्वान्न्यायस्य ।
?R?0 ?R?0अत्रोच्यते - ?R?0विधिवितानमात्रं क्रम इत्युक्तम् । न क्रमो नामाग्नि
?R?0होत्रहवणीवत् कश्चिद्व्यतिरिक्तो यस्य पृथग्बाधं वर्णयामः । ?R?0तस्माद्वितानान्यत्वे पदार्थबाध ऐवति पूर्वपक्षः ।
?R यदि हि स्वतन्त्रः पदार्थक्रमः स्यात् तदा तदभावे पदार्थस्वरूपानपायात् क्रियेतैवानुष्ठानम् । वितानस्तु पदार्थस्य स्वरूपानुप्रविष्टः पदार्था एव वितताः
?Rप्रतीयन्त इति तदभावे पदार्थस्वरूपस्याप्यभाव इति क्रमबाधे पदार्थोऽपि यथाचोदितो बाध्यते ।
?R ?R?0राद्धान्तस्तु - कार्यदर्शने सति प्रयुक्तं बाधितुं (न) शक्यते । ?R?0तुषकणविमोचनस्य कार्यस्य सम्भवादवघातो न शक्यते बाधितुम् । यदि कार्यप्रयुक्तोऽवघातो न बाध्यते ?R?0कस्य तर्हि बाधः ? ?R?0उत्तरं - ?R?0अनुष्ठानाभ्यासस्येति वदामः । ?R?0प्रकृतौ त्रिः फलीकरणविधानात् साभ्यासोऽवघातः । इह धानास्वभ्यासे तस्मिन् क्रियमाणे सक्तवो भवेयुः तेन स्वरूपविरोधादवघातस्याभ्यासो बाध्यते । सकृदवघातस्तु क्रियते तावन्मात्रेण यावत्तुषकणविमोचनं तावदेव कार्यं क्रियते । स चाभ्यासोऽर्थप्रयुक्तत्वात् गुण इति शक्यते वक्तुं अवघाताभ्यासमन्तरेण सम्यक् तण्डुलनिर्वृत्त्यभावात् अर्थाक्षिप्तोऽवघाताभ्यास इति गुणत्वाद्बाध्यते ।
?R ?R?0कःपुनरयं व्यतिक्रमो भाष्यकारेणोच्यते ? ?R?0यदि व्यतिक्रमः तदा पूर्वोक्तन्यायेनावघातस्यापि बाधः प्राप्नोति । उत्तरं - ?R?0श्रुतद्रव्याभिप्रायेण तदुच्यते । ?R?0यच्छ्रुतं धानाद्रव्यं तदभिप्रायेणेदमुयते । प्रकृतौ पाकात्प्रागवघातः क्रियते । इह तु पाकोत्तरकालमिति व्यतिक्रमो भण्यते ।
?R परमार्थतस्तु व्यतिक्रम एवायं न भवति यदेव द्रव्यं श्रुतं तस्यैव
निर्वापप्रोक्षणानन्तरमवघातः । इह च न पूर्वावस्था धानानां श्रुता किन्तु धानावस्थैव । तदाह - ?R?0अश्रुता तु पूर्वावस्था प्रधानानाम् । तस्मात्सूक्तं धानास्ववहन्तिः कर्तव्य इति ।
?R?0इति ऋजुविमलायां पञ्चिकायां
?R?0 दशमस्य द्वितीयः पादः ॥
?R?0॥ दशमाध्यायस्य तृतीयः पादः ॥
?R?0 ॥ 1 ॥ विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् ॥ 1 ॥
?R?0 ?R?0अत्र भाष्यकारेण यासु विकृतिषु प्राकृतेष्वङ्गेषु गुणविधयः ता उदाहृताः । तत्र यथाश्रुतमात्रग्राही कश्चित् तन्मात्रमेव माग्रहीत् इत्याह
-?R?0 उपदेशविधानयुक्तानि सर्वाण्येव वैकृतान्युदाहरणानि ।?R?0 राद्धान्ते नाम्नोऽप्यनेकार्थकल्पना स्यादित्यभ्युच्चयोपपत्त्यर्थं भाष्यकारेणोदाहरणविशेषः परिगृहीतः ।
?R ?R?0कःपुनरत्र पूर्वपक्षवादिनोऽभिप्रायः उत्तरं - अयमभिप्रायः कार्यतश्चोदकप्राप्तिः । ?R?0तथापि किमित्याह - ?R?0 कार्यतश्चेत् तदा तत्प्राप्त्यैव निराकाङ्क्षं प्रधानम् । ?R?0कार्यतो हि करणोपकारलक्षणात् या प्राप्तिः सा उपकार जनकतयैव । ततश्चोपकारजनकपदार्थप्राप्त्यैव निराकाङ्क्षं प्रधानं, निराकाङ्क्षे च तस्मिन् विहितस्यापि गुणस्य प्रधानविधिना सम्बन्धाभावात् अननुष्ठानापत्तिः, गुणविध्यभावे चानर्थकत्वं वाक्यस्य । न च गुणेऽधिकाकारान्तरकल्पना सम्भवति प्रकृताधिकारैक्यावगमात् । तस्मात् गुणविध्यसम्भवात् कर्मान्तराण्येवैतानीति युक्तम् ।
?R अत्र चोदयति - ?R?0कर्मान्तरकल्पनायां वा कथं चोदकस्य निरोधः असति च निरोधेऽर्थवत्ता दुर्भणैव । तस्मात् कर्मान्तरवादिनापि प्रधानसम्बन्धे समाधिर्वक्तव्यः । ?R?0उच्यते ?R?0। अयमस्ति समाधिः । प्रधानं हि वृत्त्युपायापेक्षम् । यावदुपदेशविधानानिवृत्तं प्राकृतमुपायमालोचयति तावदत्रापि प्रकृतिवदुपदेश एवास्तीति न परोपदेशनिबन्धनमुपायमपेक्षते । ?R?0अस्यार्थः - कर्मान्तरविधिपक्षे नियोगैक्येन प्रतिपन्नकार्यानुप्रवेशानां प्राकृतेतिकर्तव्यतास्वीकारेण निरपेक्षतया औपदेशिकानामनुप्रवेशबाधो माभूदिति चोदको नाङ्गीक्रियते । ?R?0किन्तु दर्विहोमन्यायेन यावच्छ्रुतैरुपकारः कल्प्यते ; ?Rगुणविधौ पुनः कार्याभिनिर्वृत्तेर्नायं परिहारस्सम्भवति ।
?R?0 ?R?0अस्यार्थः - गुणविधिपक्षे स्वाश्रयतया प्रकृतपदार्थतया प्राकृतपदार्थग्रहणमनुमन्तव्यम् । ततश्च प्राकृतेनैव पदार्थवर्गेण निराकाङ्क्षतया पुनर्गणानुप्रवेशो न सम्भवति इत्युक्तो विशेषः । प्रागेव प्रयाजादयश्च शब्दाः स्फुटे कर्मान्तरत्वे प्रकृताविव बहूनां वाचका इहापि भवितुमर्हन्ति अनेकार्थत्वाभ्युपगमात् । यथा एक एव प्रयाजशब्दः प्रकृतौ बहूनां समिदादीनां वाचकः यथाऽमीषामपि कर्मान्तराणामुत्पद्यमानानां वाचकः प्रयोगबलेनानेकार्थत्वात् ।
?R ?R?0एवं प्राप्तेऽभिधीयते - सत्यं कार्यतः कारणोपकारलक्षणात् प्राकृतानां पदार्थानां अतिदेशो विकृत्यपूर्वतादर्थ्येनाभिसम्बन्धः, सत्यं च निर्ज्ञातोपायत्वात् नैराकाङ्क्ष्यम् । नियोगैक्यमपि तु सन्निधानान्नैवापन्होतुं शक्यते ?R?0प्रकृतिवदेव । यथा प्रकृतौ सन्निधानमात्रेणाङ्गानां प्रधानानां च एक एव नियोगः साध्योऽभ्युपेयते तथा विकृतावपि तावत्तथैव प्रतीयते तदैक्याच्चाधिकाङ्गोपसंहारो न निष्प्रमाणकः नियोगैक्येऽवगते यथोपदिष्टाङ्गानामेव प्राकृतोपकारं प्रति जनकता परिकल्प्यते । असति ह्युपदेशे प्राकृतेनैव पदार्थजातेन तस्योपकारस्येहापि सिद्धिरवसीयते प्रकृतिक्लृप्तमेवोपकारसाधनं वैकृतो विधिरनुमन्यते । उपदिष्टेष्वधिकेष्वङ्गेषु तदनुप्रवेशसिद्ध्यर्थं तेषामपि तदुपकारजननानुप्रवेशः कल्प्यते । न च शङ्क्यं चोदक एव न प्रवर्तिष्यत इति, नियमानवाप्तेः । भवन्ति चात्र गाथाः -
?R नियमानवाप्तिविकलो लिङ्गबलोप (हितं) स्थितं विधिः प्रथमम् ।
?R उपकार परकीयं स्वीकुरुते तावदिति सिद्धम् ॥ 1॥
?R उपकारजनकभूतः पदार्थवर्गो विवक्षितः प्रकृतौ ।
?R तादर्थ्यमात्रेण प्रकारतः सन्निधिमुपैति विकृतौ ॥ 2 ॥
?R उपदेशनिपतिताः श्रूयन्ते कतिपये च ये धर्माः ।
?R ते नियोगैक्यवशात् तादर्थ्यं तत्र गच्छन्ति ॥ 3 ॥
?R प्राकृतपदार्थराशेः वैकृतमुपदे (शिकीं)शढौकिंत तु ततः ।
?R विधिरुपकारजनने सहायभावेन कल्पयति ॥ 4 ॥
?R ननु गुणविधौ वाक्येन विधानं, कर्मविधौ तु श्रुत्येत्यत्राह - ?R?0न च गुणे कर्णणि विनियोगस्य कश्चिद्विशेषः । गुणविधावपि भावार्थविषय एव विधिरित्युक्तं यतः । अतो गुणविधि सरूपेषु वाक्येषु सम्भवत्पदार्थेषु न विशिष्टविधानं विधिगौरवापादकं आत्मानं लभते । ?R?0चोदकाच्चोक्तः सम्भवः । ?R?0तस्माद्गुणविधानान्येवैतानीति युक्तम् । शेषं सनिदर्शनमुक्तम् ।
?R?0 ॥ 2 ॥ हिरण्यगर्भे पूर्वस्य मन्त्रलिङ्गात् ॥ 13 ॥
?R?0 लिङ्गात् प्रकाशनसामर्थ्यात्मकात् पूर्वस्यैवाधारस्य मन्त्रविधिरिति पूर्वपक्षवादी मन्यते । अन्यथा हि अदृष्टार्थो मन्त्रः स्यात् । इन्द्रप्रकाशनासामर्थ्यात् । ?R?0द्वितीये आधारे एतस्यैव विनियोगाभ्युपगमे दृष्टार्थो मन्त्रः स्यात् । ‘?Rऊर्ध्वो अध्वर’?R इति मन्त्रान्तरस्य चोदकप्राप्तस्य बाधश्च न कल्पितो भवति । ?R?0अतत्कार्यकरणेनाभ्युपगतेन तत्कार्यकरणे त्वभ्युपगम्यमाने मन्त्रान्तरेण मन्त्रान्तरस्य बाधः स्यात् ।
?R?0 एवं प्राप्ते अभिधीयते। न कार्यान्तरकल्पना सम्भवति । उपायान्तरमात्रविधानोपक्षीणत्वादुपदेशस्य । ?R?0अस्यार्थः - द्वितीय आधारे मन्त्रकार्यं क्लृप्तमस्ति पूर्वस्मिंश्चाधारे मन्त्रान्तरकार्यं कल्पयितव्यम् । न च कल्पनायां प्रमाणमस्ति मन्त्रान्तरविधिमात्रेणोपदेशस्योपपत्तेः मन्त्रस्य चेन्द्राभिधानेऽपि तुल्यत्वात् । ?R?0दर्शितं च भाष्यकारेण तुल्यत्वं च । तस्मादुत्तरस्यैव मन्त्रान्तरविधिरिति सूक्तम् ।
?R?0 ॥ 3 ॥ संस्करे तु क्रियान्तरं तस्य विधायकत्वात् ॥ 18 ॥
?R?0 ननु च एकादश प्रयाजान् यजतीत्यनेवैव गतम् । गुणविधौ सम्भवति न विशिष्टविधानं सम्भवतीति । ?R?0अस्यार्थः - प्राकृतयोरेवासादननियो जनयोरुत्करपरिधिलक्षणगुणविधानेन वाक्ययोरुपपन्नत्वात् न विशिष्टविधानं युक्तमाश्रयितुम् । समाधत्ते - ?R?0सत्यमेतदेवं अशक्यत्वात्तु पुनराशङ्क्यते ?R?0यथावगतस्वरूपयोरुत्करपरिध्योरुत्तुङ्गतीक्ष्णाग्रकृशयोः प्राकृतमासादनं नियोजनं च दृष्टार्थंमशक्यमिति अदृष्टार्थं कर्मान्तरविधानमिति पुनराशङ्का । तदाह - ?R?0नासादन नियोजने प्राकृते दृष्टार्थे तूत्करपरिध्योः ?R?0तुङ्गतीक्ष्णाग्रकृशयोः सम्भवत इत्यभिप्रायः । एतच्च गुणविधावपि वाक्यभेदो नास्तीत्यभ्युपगम्यैव पूर्वपक्षितम् ।
?R ?R?0राद्धान्तस्तु - यावच्छक्यं नियोगार्थोऽनुष्ठेयः । ?R?0अस्यार्थः - प्राकृतयोरेव गुणविधिरस्तु । तत्र यच्छक्यं तदनुष्ठास्यते तत्र तुङ्गाग्रता कृशता च अशक्येति नापेक्ष्यते पृथ्वग्रता स्थविमा च कल्पयिष्यते यथा भविष्यति शक्तिः । तदाह - ?R?0(स) च पृथ्वग्रकरणेनोत्करस्य स्थविम्ना च परिधेः नियोगर्थोऽनुष्ठास्यते । ?R?0अतो नादृष्टप्रयोजनकल्पना युक्ता, कर्तव्यतानिष्ठत्वान्नियोगावगतेः । कर्तव्यतानिष्ठो हि नियोगो न प्रयोजननिष्ठः । तेन प्रयोजनान्तरकल्पना नास्ति । क्लृप्तकार्याश्रयणेऽपि अनुष्ठानोपपत्तेः । तस्मादत्रापि गुणविधिरेव न्याय्यः ।
?R एवं समाप्तेऽधिकरणे कृत्वा चिन्तामुद्धाटयति - ?R?0विशिष्टानुवादादि चात्र नाशङ्कनीयम् । ?R?0निर्ज्ञातकार्यविषयत्वादेवमादेरुपदेशस्य विशिष्टविधानेऽप्यदोषः । ?R?0यद्यप्यनेकगुणश्रवणात् नासादननियोजनान्तरविधिः तथापि प्राकृतकार्ये विधानान्न दोषः फलस्य तुल्यत्वात् । ?R?0गुणविधौ यादृशं फलं तादृशमेव विशिष्टविधावपि । सर्वत्र चेदमुक्तम् ।
?R?0॥ 4 ॥ षड्भर्दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् ॥ 23 ॥
?R?0 अत्र पूर्वः पक्षः वैकृतास्तावन्मन्त्राः प्राकृतकार्य एव विनियुक्ताः शरा
?R?0इव बर्हिषां कार्ये । अतः कार्यापहारात् प्राकृतानां निवृत्तिः ।
?R?0 ?R?0ननु होमानामभ्यासात् प्राकृता वैकृताश्च मन्त्राः समुच्चीयन्त इत्यत्राह ?R?0न चाभ्यासे कार्यान्तरं मन्त्राणां सम्भवति होमानामभ्यसेऽपि ?R?0मन्त्राणां कार्यान्तरं नास्ति कार्यान्यत्वे हि अभ्यासानुपप(त्तिः)त्तेः तथाभूतस्यैव पुनरनुष्ठानमभ्यासः । मन्त्रकार्यभेदे च न तथाभूतत्वं एकत्वे च कार्यस्य तस्मिन्नेव मन्त्रान्तरविधानम् । तस्माद्वाधो न्याय्यः
?R ?R?0राद्धान्तस्तु सत्यं प्रकृतकार्ये विधानं कृतत्वात्तु कार्यस्य न मन्त्राभ्यासं न्याय्यं मन्यामहे । ?R?0सकृदुपदिष्टैः कार्ये कृतेऽर्थवत्ता तदुपदेशस्य जातेति न मन्त्राभ्यासो युक्तः कार्याभ्यासेऽपि । ?R?0ननु तस्मिन्नेव कार्ये सत्यभ्यास उपपद्यते न कार्यान्तरे ; ?R?0परिहरति - ?R?0एतदपि सत्यं न कार्यान्तरे सत्यभ्यास इति । किमिति तर्ह्यनभ्यासो मन्त्राणाम् । ?R?0कार्यवन्मन्त्राभ्यासोऽपि न्याय्य इति भावः । उत्तरं - ?R?0कुतं तदुपदेशेनेति वदामः । ?R?0अस्यार्थः - मन्त्रोपदेशेन मन्त्रानुष्ठानं कृतम् । अकृते च तस्मिन् मन्त्राभ्यासे न प्रमाणमस्ति । ?R?0उपदेशसम्पत्त्यर्थो ह्यत्र कार्ययोगो वैकृतानाम् । न कार्यतः कार्ययोगः । ?R?0कार्यमस्तीत्येतावता कार्यं न कर्तव्यम् किन्तूपदेशसम्पत्तये । तस्मात् सकृत्करणेनैवोपदेशः सम्पन्न इत्यभ्यासान्तरे बाधायालं भवितुमर्हति । यदि पुनः कार्यत एव कार्यं स्यात् तदा कार्यस्य विद्यमानत्वात् मन्त्रप्राप्तेः प्राकृतबाध एव स्यत् । न चैतदस्ति तदाह - ?R?0कार्यतस्तु बाध एव । न चायं कार्यत इत्युक्तम् । तस्मात्समुच्चयः । शेषमुक्तम् ।
?R?0 ॥ 5 ॥ अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् ॥ 30 ॥
?R?0 अत्र एकस्मिन् कार्ये विधानादनभ्यासाच्च निवृत्तिरिति स्थिते कथं पूर्वः पक्षः ? ?Rपुनराधाने या दक्षिणा सा प्राकृतदक्षिणाकार्ये विहिता । न च
?R?0पुनराधेयस्याभ्यासोऽस्तीति बाध एव युक्तो न समुच्चय इति स्थिते कथं पूर्वः पक्षः ? ?R?0समाधत्ते -?R?0 वचनभ्रान्त्या उभयीर्ददातीति वचनमिति भ्राम्यतः पूर्वपक्षः । भ्रान्तिप्रदर्शनेन च राद्धान्तः । ?R?0वचनमिदमिति भ्रान्तिरेषा । किन्त्वनुवादोऽयं अग्न्याये आग्न्याधेयिकीर्ददाति, पुनराधेये पौनराधेयिकीरिति राद्धान्तः । ?R?0लिङ्गमुक्तम् ।
?R?0 ॥ 6 ॥ वासोवत्सं च सामान्यात् ॥ 34 ॥
?R?0 उत्तरविवक्षयेति - ?R?0सत्यमुत्तरन्यायं वक्तुमिदमुक्तमिति सत्यं नान्यत्
?R ?R?0॥ 7 ॥ अर्थापत्तेस्तद्धर्मा स्यान्निमित्तस्याभिसंयोगात् ॥ 35 ॥
?R?0 अत्र तद्धर्मर्त्व न ताबन्न्यायोऽभिधीयत इत्युक्तं भाष्ये । तदयुक्तम् । उक्त हि यो यस्य कार्ये वर्तते स तद्धर्मान् लभत इति नवमे । ?R?0तस्मादयुक्तैवान्वाहार्यधर्मबाधाशङ्का वासोवत्सयोः । एकग्रन्थेनाह - ?R?0यदि धर्मप्राप्तिर्नास्ति कथं प्राप्तिपूर्वको बाधः ।?R?0 प्राप्तिश्चेत् सिद्धं तर्हि तद्धर्मत्वम् । समाधत्ते - ?R?0प्राप्तिरुत्तरविवक्षयेत्येदतर्थमेव तद्द्रष्टव्यम् । कथं तर्हि पूर्वमधिकरणम् ??R प्राप्तिः स्मारणीयेति ।?R?0 प्राप्तिं स्मारयितुमेव पूर्वमघिकरणम् । यदि प्राप्तिः स्मर्यते तदा तत्स्मृतौ पूर्वपक्षाश्रयणमयुक्तम् । सिद्ध एवार्थः स्मरणीयः । समाधत्ते - ?R?0नायुक्तं पूर्वपक्षस्मारणम् । ?R?0सहेतुकं हि स्मारणं निर्विशङ्कमुत्तरोपयोगि भवतीति सप्रतिपक्षमुक्तम् । पूर्वपक्षे ह्यस्मारिते तन्निराकरणपूर्वकः सिद्धान्तहेतुर्न शक्यते वदितुम् अनुक्ते च सिद्धान्तहेतौ मन्दबुद्धेः कथमेतदेवमिति शङ्का स्यात् । ततश्चोत्तरचिन्ता न शक्या कर्तुमिति सप्रतिपक्षमुपन्यस्यते ।
?R ?R?0॥ 8 ॥ दाने पाकोऽर्थलक्षणः ॥ 36 ॥
?R?0 ?R?0यदर्थो प्राप्तिः स्मारिता तदेवेदानीं चिन्त्यते । ?R?0तत्र वत्से तावत् पाकश्चिन्त्यते - किं कर्तव्यो नेति । तत्र पूर्वपक्षवादी न्याय्यं पाकं मन्यते । एवं प्राकृतं अन्नं साधनं यस्य तदन्ननसाधनं दक्षिणादानं न पीडितं भविष्यति ।
?R?0 ?R?0ननु वत्सो दक्षिणेति श्रूयते कथं तन्मांसं दक्षिणा तत्राह
-?R?0 वत्सोपदेशश्च प्रकृतिद्रव्यतयाप्युपपन्नो भवति व्रीहिभिर्यजेतेतिवत् ।
?R?0 ?R?0ननु चात्र वस्सः पच्यमानोऽपि नान्नं भवतीत्यत्राह - ?R?0भवति च मांसे अन्नशब्दः परमं वा एतदन्नं यन्मांसं इति ।
?R?0 एवं प्राप्तेऽभिधीयते - वत्सो दक्षिणेति वत्सस्य दक्षि?R?0णात्वं श्रूयते । या च दक्षकरणी सा दक्षिणा । यच्च दीयते तत् दक्षकरम् यद्यत्र श्रपणेन वत्समांसं दीयते न तर्हि वत्सो दक्षिणा । न च प्रदेयप्रकृतितया प्रदेयता भवति । तस्मान्न मांसलक्षणार्थो वत्सशब्दो वर्णनीयः । व्रीहिभिर्यजेतेत्यत्र तु यागं प्रति करणत्वं ब्रीहीणामवगम्यते । भवति च पुरोडाशनिष्पत्तिं अवान्तरव्यापारीकृत्य करणता व्रीहीणामपि । तेन न तत्र लक्षणा । इह तु दर्शिता लक्षणा । न च कारणादृते लक्षणा न्याय्येत्युक्तम् ।
?R ननु प्रकृतिवदिति लक्षणाकारणमुपन्यस्तम् । न कारणं भवितुमर्हति प्रकृतिवदिति कार्यमात्रस्यातिदेशात् । अन्वाहार्यकार्यं प्रकृतिवदित्यतिदिश्यते तदाक्षेपेणचान्वाहार्यं तत्र । वत्सेनान्वाहार्यकार्ये विहिते बाधितेऽन्वाहार्ये न लक्षणाकार्यमस्ति अनन्नस्यैवान्नकार्ये विधानात् । तदाह - ?R?0वत्सेन च तस्यान्वाहार्यकार्यस्य सिद्धेः न पाकप्राप्तौ प्रमाणमस्ति पाकस्यान्नहेतुत्वात् । ?R?0तस्मात् ?R?0श्रुतोपदेशसिद्ध्यर्थं वत्स एव दातव्यः ।?R?0 पाके हि उपदिष्टार्थविनाशः स्यात् । ?R?0ननु च अदनीयेनानमनं प्रकृतौ तेन विकृतावप्यदनीयेनैवानतिः कर्तव्या । ततश्च तत्सिद्ध्यर्थ पाकोऽपि कर्तव्य इति ।
?R?0 ?R?0परिहरति -?R?0 न, तस्यादनीयत्वस्यानुषङ्गिकत्वात्
?R?0अन्वाहार्यस्वरूपेणादनीयत्वमनुषज्यते न तु पृथक् शब्देन तस्य विधानमस्ति?R?0 । अन्नमात्रं शब्दार्थो नादनीयत्वं;?R तदिदमुक्तं - ?R?0न पुरुषसंस्कारायेदं दानं भवतीति । न ?R?0पुरुषतृप्त्यर्थमिदं दानं भवतीत्यर्थः ।
?R ?R?0॥ 9 ॥ पाकस्य चान्नकारितत्वात् ॥ 37 ॥
?R?0 युक्तं वत्से उपदेशार्थविनाशात् पाको न क्रियत इति । ?R?0एकग्रन्थेनाह - ?R?0वाससि तर्हि अविनाशात् क्रियतां पाकः । ?R?0पक्कमपि वासो वास एव । इदानीमाक्षिपति - ?R?0ननु वासस्यपि कार्याभावान्निवृत्तिः ?R?0सिद्धैव । पाककार्यमन्वाहार्ये प्रसिद्धं वाससि नास्ति द्वारलोपात् वासस्यपि पाको बाधनीयः । न च शब्दार्थसम्पत्तये पदार्थाः क्रियन्ते, किं तर्हि ??R कार्यार्थतयेत्युक्तम् । तस्मान्मन्दमत्र नीराकरणीयम् । समाधत्ते - ?R?0विकारमात्राशङ्कया कार्यसम्भवं मन्यते पूर्वपक्षवादी ।?R?0 अस्यार्थः - पूर्वपक्षवादी पाक्यविकारमात्रं पाककार्यं मन्यते । सम्भवति च वासस्यपि पाकाद्विकारः तेन नास्ति द्वारलोप इति पूर्वः पक्षः ।
?R ?R?0राद्धान्तस्तु विशिष्टविकारार्थो लोके पाकः प्रसिद्धः । कोऽसौ विशिष्टो विकारः ? ?Rअन्नशब्दाभिधाननिमित्तमिति ब्रूमः । ?R?0यस्मिन् सति अन्नशब्दवाच्यता भवति स विकारोऽन्वाहार्ये कार्यतया सम्मतः । न च पच्यमानं वासोऽन्नतां प्रतिपद्यते इत्यत्रापि वत्स इव पाकस्य निवृत्तिः ।
?R ?R?0॥ 10 ॥ तथाऽभिधाराणस्य ॥ 38 ॥
?R?0 अभिधारणमिदानीं चिन्त्यते - किं वत्से वाससि चाभिधारणं कर्तव्यं नेति । अत्र पूर्वपक्षवादी अदृष्टसंस्कारमभिधारणेनान्वाहार्यस्य मन्वानोऽभिधारणस्य कर्तव्यतां मन्यते ।
?R?0 राद्धान्तस्तु - न हि दृष्टे सम्भवति अदृष्टकल्पना न्याय्येति हेतोः स्वादिमैवाभिघारणस्य प्रयोजनं ऋत्विजामानतावुपयोगात् । ?R?0यथा हि
?Rस्वादुनाऽन्नेनानमन्ते न तथेतरेणेति लोकप्रसिद्धम् । न च तेन स्वादिम्ना वत्से वाससि च प्रयोजनमस्ति अनदनीयत्वात्तयोः । अदनीयद्रव्यवर्ती हि स्वादिमा पुरुषानतावुपयुज्यते । न पुनरनदनीयवर्त्यपि इति प्रयोजनाभावादभिधारणं बाध्यते ।
?R ?R?0॥ 11 ॥ द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् ॥ 39 ॥
?R?0 कःपुनरस्याधिकरणस्य बाधलक्षणे प्रसङ्गः ? ?R?0उत्तरं - ?R?0दक्षिणाबाधसिद्ध्यर्थमौपोद्धातिकमिदमधिकरणम् । ?R?0वर्णयिष्यते हि सङ्ख्यायुक्तानां भागशः कार्त्स्न्येन च बाधः । यदि हि गवां सङ्ख्यासम्बन्धः तदा विकृतिषु सङ्ख्यान्तरश्रवणे तासामेव बाधः ।
तत्रर्त्विग्भागे सङ्ख्यान्तरश्रवणे गोगतस्यैव भागस्य बाधः केवलसङ्ख्यान्तरश्रवणे कृत्स्नानामेव गवां बाध इति । न केवलमिदमधिकरणमेवमर्थं ?R?0विभागेन च दानमिदमर्थतयैव चिन्त्यते । ?R?0परिषदधिकरणमप्युपोद्धातभूतमित्यर्थः । तस्मादस्ति बाधलक्षणे प्रसङ्गोऽस्याधिकरणस्य ।
?R ननु ‘?Rतस्य द्वादशशतं’?R इति तच्छब्देन प्रकृतत्वात् क्रतुरेवोच्यते न गवादिःतत्कथं गवादिपरं तच्छब्दं गृहीत्वा विचार इति तत्राह - ?R?0तस्य शब्दं क्रतोरपनीयैषा चिन्ता । ?R?0द्रव्याणामेव तच्छब्देनावमर्श इति चिन्तेयम् । अभ्युपगम्यापि तस्य शब्दान्तः पातिनां द्रव्याणां गवामेव सङ्ख्यासम्बन्ध इति वक्तुं कृत्वा चिन्तेयम् । ?R?0तत्रागृह्यमाणविशेषो वा सर्वेषां सङ्ख्या सम्बन्धहेतुः । तेन प्रत्येकं सङ्ख्यासम्बन्धः एकेन वा कृतार्थत्वात् येन केनचित् एकेनेत्ययमेव विशेषहेतुः । ?R?0अस्यार्थः क - सङ्ख्या गवादयश्च दक्षिणया सम्बध्यन्ते । तत्रारुणैकहायनीन्यायेन द्रव्यमाश्रित्य सङ्ख्याया अन्वयोऽनुभवनीय इति यत्किञ्चिद् द्रव्यमाश्रीयते न सर्वाणीति । चशब्दयोगाद्वा संहतिः सङ्ख्यासम्बन्धिनीति प्रतिभा । यद्यपि सङ्ख्या ?R?0आश्रय?R?0मात्रमपेक्षते तथापि चशब्दश्रवणे द्रव्याणां समुच्चयोऽवगम्यते
?R। स एव च सङ्ख्यासम्बन्धी भविष्यतीति प्रतिभामात्रम् ।
?R ?R?0आनन्तर्याद्वा माषाः सम्बन्धिनः तदनन्तरं सङ्ख्याश्रवणात् । ?R?0सङ्ख्यामात्रव्यावहारिकतया प्राणिनः सङ्ख्यासम्बन्धिनः । सङ्ख्यामात्रेण व्यावहारिकाः व्यवहाराय प्रभवन्ति प्राणिनः न माषादय इव कुडबाद्यवच्छेदापेक्षिणः । तेन सापेक्षत्वात् व्रीह्यादीनां न सङ्ख्यासम्बन्धः । किन्तु प्राणिनामेव । उपकाराधिक्याद्वा गोष्वश्वेषु च प्रसक्तिः । ऋत्विजो हि महत्युपकारे वर्तन्ते । उपकुर्वतां चोपकारः कर्तव्य इति सदाचारः । तेन महोपकारा गावोऽश्वा वा सङ्ख्यासम्बन्धिनः । अस्मिंश्च पक्षेऽश्वः प्रतिषेधान्निवर्तते । उभयतोदतां व्यवहारो हि विप्रतिषिद्ध इति न प्रचुरोपयोगा अश्वाः तेन तेऽपि सङ्ख्यया न सम्बध्यन्ते । किन्तु गाव एव प्रचुरोपयोगित्वात् । महाभागा हि ताः ।
?R अत्राधिकरणे प्रत्येकं सङ्ख्यासम्बन्धो द्रव्यप्राधान्येनाशङ्कितः । तत्र चोद्यमाह - ?R?0ननु द्रव्यप्राधान्यपक्षोपन्यासोऽसकृन्नवमे निराकृतः । तेन किमित्युपन्यस्यते ?R?0द्रव्यमात्रसम्बन्धे हि आनर्थक्यमुदितम् । परिहारमाह ?R?0उपादानत आनर्थक्यं परिह्वियत इत्यभिप्रायो द्रव्यप्राधान्यवादिनः ।?R?0 यथा पश्वादीनामेकत्वादिकं द्रव्यमात्रसम्बन्ध्युपादानतोऽनर्थकं न भवति उपादानशेषत्वात् तथेयमपि सङ्ख्येति । ?R?0कथं तर्हि अयं पक्षो निराक्रियते निराकरणीयश्चायम् । अनिराकृते हि अरुणान्यायो नावतरति । ?R?0अनवतीर्णे च तस्मिन् गोमात्रसम्बन्धो न सङ्ख्यायाः स्यादित्यत्राह - ?R?0प्रातिपदिकोपात्ततया नोपादानतः शेषत्वं सम्भवतीति निराकरणम् । ?R?0प्रातिपदिकोपात्ता हि सङ्ख्याक्रिययैव शब्दात् सम्बन्ध्यते इत्यरुणान्यायेन विनियोगशेषत्वमेव स्यात्, नोपादानशेषत्वम् । विभक्त्यभिहिता तु प्रातिपदिकमात्रसम्बन्धिनी श्रुत्यैव विभक्त्याऽभिधीयत इति भवत्युपादानशेषः । भवत्वरुणान्यायः तथापि चशब्दार्थः किमिति सङ्ख्यासन्बन्धी न भवतीत्यत्राह - ?R?0चशब्दार्थः पुनः नैवान्वयी । अन्वितार्थाभिधायिनो ह्येते । ?R?0अस्यार्थः - चशब्दस्यार्थो न पदार्थान्वयभाग्भवति
?Rसमुच्चयशब्दवत् निष्कृष्टस्यार्थस्य चशब्देनानभिधानात् । न हि भवति चः शोभन इति । किन्तु परान्वितं परोपश्लिष्टं स्वार्थं निपाता अभिदधति ।
?R ननु च यदीह न समुच्चितानां सङ्ख्यासम्बन्धः कुतस्तर्हि तेषां समुच्चयश्चशब्देन द्योत्यत इत्यत्राह - ?R?0दक्षिणान्वयेन चशब्दश्चरितार्थः समुच्चितानां दक्षिणात्वमिति वक्ष्यते ?R?0इति चशब्दार्थे निरस्तः । सङ्ख्यासम्बन्धितया व्यवहाराभावात् अप्राणितो निरस्ताः । न हि कुडबादिनिरपेक्षं केवलसङ्ख्यामात्रावच्छिन्नैः व्रीह्यादिबीजैः लोके व्यवहारोऽस्ति । तेन व्यवहाराननुरूपत्वात् न तेषां सङ्ख्यासम्बन्धः ।
?R ननु सर्वे प्राणिनः संहताः सङ्ख्यया किमिति न सम्बध्यन्ते इत्यत्राह ?R?0एकेनापि प्राणिना सङ्ख्योपपद्यत इति प्राणिमात्रनिरासः । मात्रशब्दश्चात्र साकल्यार्थः । निरस्ते च प्राणिमात्रे एकप्राणिमात्रसम्बन्धे स्थिते मुख्यत्वात् प्रथमोपनिपातित्वात् महोपकारित्वात् अप्रतिषिद्धत्वाच्च गाव एव सङ्ख्यासम्बन्धिन्यः इति निरूपितम् । ?R?0तथा च दर्शनमित्युक्तम् ।
?R ?R?0॥ 12 ॥ तत्र दानं विभागेन प्रदानानां पृथक्त्वात् ॥ 50 ॥
?R?0 ननु परस्वत्वापादनान्तो ददातिरिति लोके प्रसिद्धत्वात् पृथक्त्वेन चर्त्विजामुत्पत्तेः पूर्वपक्ष एवात्र न संवर्तते । ?R?0यदि हि स्वत्वत्यागमात्ररूपो ददात्यर्थः स्यात् तदा विभागमन्तरेणापि त्यागस्य शक्यत्वात् अनियमेन दानं युक्तमेवाशङ्कितुम् । न च तदस्ति । न हि त्यागमात्रे दानशब्दं लोकः प्रयुङ्क्ते । किन्तु य एव परस्वत्वापादनान्तः त्यागः तत्रैव दानशब्दो लोके प्रसिद्धः। यदि च भेदेनर्त्विजामुत्पत्तिः न स्यात् एक एवर्त्विक् तदापि विभागानियमेन दानं संवर्तेत । भिन्नाश्चर्त्विजः । तान् प्रत्यविभागेन न शक्यं दानं कर्तु, (म्) मिति ।
?R ननु कथमशक्तिः ??R यदि तावत् स्वत्वापादनान्तत्वं न सम्भवतीत्युच्येत कथमसम्भवः । भवति हि अविभक्तमपि मध्यगं द्रव्यं सम्भूयसमुत्थायिनां भ्रातॄणां
?Rच पितापुत्रयोर्दम्पत्योश्च । अन्यथा हि कुलाययज्ञादीनामनुत्पत्तिरेव आर्जनं स्वत्वापादकमित्युक्तं चतुर्थे । यदाऽऽर्जनमेव साधारणं तत्र स्वत्वमपि साधारणमेव कथमन्यदीयमन्यस्येति नाशङ्कनीयम् । प्रतिपत्तिविरोधोऽयं न वस्तुविरोधः । तत्र यन्मध्यगं स्वं तत्रान्यदीयस्य सतो नान्यदीयतयाऽवगतिः किन्तु युगपदेव साधारणतया ;?R यथा - यदातिथ्यायां बर्हिरिति ।
?R अथोच्येत यद्यपि भवति किञ्चित्स्वं मध्यगमपि तथापि युगपत् बहून् स्वमिनः प्रति न शक्यते स्वत्वमापादयितुमिति नाशक्तौ कारणं वाच्यम् ।
?R इदमुच्यते - परमुद्दिश्य त्यागं कुर्वाणो हि दाता परस्वत्वापादनान्तं ददात्यर्थमभिनिष्पादयति । न च युगपत् बहव एकेनोद्देष्टुं शक्यन्ते अन्योन्यनिरपेक्षाः अनापन्नसमुदायभावाश्च । देयास्तु बहवोऽन्योन्यनिरपेक्षा अपि सङ्ख्याद्यवच्छेदात् । गवादयश्च शतं सहस्रं वा शक्यन्त एव युगपद्बुद्धिस्थीकर्तुम् । परमुद्दिश्य च त्यक्तुम् । क्रमेण तूद्दिश्य त्यागे त्यक्तस्य पुनस्त्यागानुपपत्तेः द्वितीयादित्यागानुपपत्तिः । नाप्यन्योन्यसापेक्षान् युगपदुद्दिश्य त्यागोपपत्तिः । तथाभावेन च तेषां अनपेक्षत्वात् । चैतन्येन हि स्वामी । न चैतन्येऽन्योन्यापेक्षत्वं पुरुषाणाम् । अतोऽन्योन्यापेक्षाणां स्वामित्वं न सम्भवतीति पूर्वपक्ष एवात्राधिकरणे न संवर्तते । समाधत्ते । ?R?0सत्यं तथापि लोकव्यवहारोऽयथार्थो दृश्यते ?R?0व्यामोहमूलः । यथा केनचिन्मीमांसाज्ञानविकलचेतसा परिषदे दीयतेऽदृष्टार्थम् । यदा च कृपया दृष्टार्थं महाजनाय दीयते । ते च स्वयमेव विभजन्ति विभागेन च कर्म कुर्वते । तद्दर्शनात् कस्य चिन्मन्दधियः इयमाशङ्कोदयते - अविभज्यापि च दक्षिणा दातव्येति । तस्मात् व्यावहाराद्व्यामोहमूलात् कस्यचिदविभज्यापि दातव्येति भ्रान्तिरुदयते । तदपनयनार्थमिदमधिकरणम् ।
?R अत्र चोदयति - ?R?0यद्येवं यदि लोके परिषदेऽपि दानव्यवहारोऽस्ति तदा कथमिदमुपगम्यते प्रत्येकं दानपदार्थौ निष्पद्यते न परिषदीति । यावता
?R?0लोकव्यवहारबलेन एवमेव किमिति न भवति । ?R?0परिहरति - ?R?0अत्र पदार्थबिदः स्वीकरणपर्यन्तं ददात्यर्थं ब्रुवते । ?R?0परस्वीकारपर्यन्तो ददात्यर्थ इति शब्दार्थंविदो वदन्ति । ?R?0किंपुनस्तत्र भवतां प्रमाणं ?R?0स्वीकारपर्यन्तो ददातिरित्यत्रेति ।?R?0 षष्ठ्यन्तादितरेभ्योऽपि दृश्यत इति ?R?0त्रल् । उत्तरं - ?R?0लोक एवैषां प्रमाणम् त्यागमात्रे ददातेरप्रयोगात् । ?R?0भवतु परस्वीकरणान्तो ददातिः तथापि कथं परिषदे दानानुपपत्तिः इत्यत्राह - ?R?0परिषदे यद्दत्तं तत्र परिषदिनो वक्तारो भवन्ति परेण प्रापितं नास्माकमिदमद्यापि स्वमिति ।?R?0 तथा च लोकयात्राविदः परिषद्येकेन कृतं दत्तमकृतमदत्तं मन्यन्ते । तत्कस्य हेतोः अस्वामित्वादिति गम्यते । दत्ते परिषदः स्वामित्वाभावात् न स्वीकरणान्तो ददातिः परिषद्युपपद्यते । प्रत्येकदाने नैतद्द्वयं पूर्वोक्तमस्ति । तत्र प्रतिग्रहीतारोऽस्माकमिदमिति मन्यन्ते । लोकयात्राविदश्च दत्तमेतदिति मन्यन्ते । तेन तत्र स्वीकरणमस्ति । तस्मात् पदार्थविदां साधुनिर्णयः स्वीकरणपर्यन्तो ददातिः इति । स च परिषदि नोपपद्यत इति । यावेव चोद्यपरिहारौ तावेव पूर्वोत्तरपक्षाविति । शेषमुक्तम् ।
?R अत्र चोदयति - ?R?0युक्तमेतत्परिषदि स्वत्वं न निष्पद्यत इति दानानिर्वृत्तिस्तु कथं?R?0 ? ?Rत्यागमात्रं दानं मन्वानस्य चोद्यम् . तदेवाह - ?R?0उभयत्र दत्तमिति प्रयुञ्जते दातारः प्रतिग्रहीतारश्च ?R?0यत्परिषदे दत्तं यच्च प्रत्येकं तत्रोभयत्रापि दत्तमिति प्रयोगः तेन परिषद्यपि दानं निष्पद्यत एव । तस्मान्नायं निर्णयहेतुः ।
?R अत्रोच्यते - अयमेव निर्णयहेतुः यः पूर्वमुक्तः यदि हि स्वीकरणादृतेऽपि दानानिर्वृत्तिः तदा त्यागदानशब्दौ पर्यायौ स्याताम् । पर्यायत्वं लोके प्रसिद्धम् । नचान्यथा पर्यायत्वसिद्धिः । तस्मात् स्वीकरणान्तो ददातिः । तथा च लौकिकाः परेणास्वीकृते दत्तेऽपि स्वामिना सङ्कल्पितमिदं नाद्यापि दीयत इति ब्रूवते । तस्मात् स्वीकरणान्तो ददातिः । अतः परिषदे दत्तमिति यः प्रयोगः असावुपक्रम एव समाप्तिपर्यन्तस्य वाचकः प्रयुज्यते । त्यागोपक्रमः स्वीकरणपर्यन्तो ददातिरिति
?R। तेन त्यागमात्रे दानोपक्रमे लक्षणया प्रयुज्यते । न केवलं लक्षणया त्यक्तमात्रे दत्तशब्दः अपि तु सङ्कल्पितेऽपि ददातिं प्रयुञ्जाना दृश्यन्ते दत्तमेदायुष्मता यत्सङ्कल्पितमिति । तस्माल्लक्षणयापि प्रयोगदर्शनात् न प्रयोगमात्राच्छब्दार्थव्यवस्थितिः । ?R?0यदि न प्रयोगाच्छब्दार्थव्यवस्थितिः कथं तर्हि ? ?R?0उत्तरं - ?R?0यत्र न सम्बन्ध्यन्तरबलादवगतिः स शब्दार्थः इति । ?R?0यः पदार्थान्तरसम्बन्धानपेक्षः शब्दादर्थोऽवगम्यते स शब्दार्थः । यः पुनः सम्बन्ध्यन्तरबलेनार्थोऽवगम्यते स गौणो लाक्षणिको वा भवति । अत्र च देवदत्ताय गावो दीयन्तां इत्युक्ते स्वीकरणान्त एव ददात्यर्थः प्रतीयते परित्यागमात्रेऽप्यनन्वयो नास्ति । तथापि येयं स्वीकरणान्तप्रतीतिः सैव शब्दमात्रनिबन्धनेति गम्यते । परिषदे दत्तमिति या त्यागमात्रावगतिः परिषत्पदार्थसम्बन्धबलादिति नासौ शब्दमात्रनिबन्धना । ?R?0यदि परिषदे दानानुपपत्तिः कथं तर्हि परिषदे दानं लौकिकानाम् । ?R?0उत्तरं - ?R?0भ्रान्त्येति वदामः चैत्यवन्दनादिवत् । ?R?0यथा निर्मूलमपि चैत्यवन्दनात् स्वर्गो भवतीति व्यामोहेनाद्रियमाणा भ्रान्त्या चैत्यवन्दनादिकं कुर्वते तथेहापि नावश्यमव्यामोहादेव लौकिकव्यवहारः प्रायेण व्यामोहपूर्वक एव लौकिको व्यवहारः । अत एव परीक्षणमपि न्यायविदां प्रवृत्तम् । यदि भ्रान्त्या लोको न व्यवहरति तदा किं परीक्षणेन ? ?Rतदाह ?R?0परीक्षणं च न्यायविदां लौकिकव्यवहारमूढतयैव प्रवृत्तम् । ?R?0तस्मात् सप्रमाण एवायं निर्णयः पदार्थविदां स्वीकरणपर्यन्तो ददातिरिति स्थितम् ।
?R ?R?0॥ 23 ॥ समं स्यादश्रुतत्वात् ॥ 53 ॥
?R कथं पुनः पक्षद्वयेऽपि समाख्यानिर्देशः यदा समं दानं यदा च कर्मानुरूप्येण तदा कथमर्ध्यादिसमाख्यानिर्देशः ? ?Rपरिहरति - ?R?0अभ्युदय एव द्वादशाह एवेति मन्यते । ?R?0 अस्यार्थः - द्वादशाहे समाख्यानिर्देशः तेन परं तत्रैव भवत्वेषा भागकल्पना न पुनः क्रत्वन्तरे भवितुमर्हति । द्विविधश्च द्वादशाहः -
?Rसत्रमहीनश्च । तत्र यद्यपि सत्रे दानानुपपत्तिः तथाप्यहीने भविष्यति । ?R?0राद्धान्तवादी त्वविधानात्प्राकृतं तदित्याह - ?R?0अस्यार्थः - इदं वाक्यं सत्रभूते, तत्र न दानभागविधिः किन्तु सिद्धवद्भागसन्बन्धेनायमृत्विजां व्यपदेशो यजमाने प्रयुक्तः । न ह्यन्यथा प्राकृतं (तिकं) विना सिद्धवदभिधानोपपत्तिः । अतः समाख्यातः तथाभूतो भाग इत्यवगम्यते । तथाभूतभागसम्बन्धश्च कर्मकरस्योपकारविशेषं विना न भवतीत्युपकारविशेषोऽपि कल्प्यते । तदाह - ?R?0अतस्समाख्यात उपकारविभागवत् दक्षिणाविभागः ।?R?0 कथं पुनरुपकारविशेषोऽवगम्यते कर्मविशेषमन्तरेणेत्याशङ्क्याह - ?R?0सर्व शब्दावगम्यं चोदनास्विति स्थितम् । ?R?0यद्यल्पमपि कर्म कुर्वाणो महान्तमुपकारं करोतीति शब्दात् प्रतीयते कः शक्नोत्यन्यथाकर्तुमिति ।
?R ?R?0॥ 14 ॥ तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात् सामान्यात्तद्विकारः स्यात् यथेष्टिर्गुणशब्देन ॥ 56 ॥
?R?0 ?R?0ननु तस्य धेनुर्दक्षिणेति श्रूयते । ततश्च सर्वेषां गवादोनां धेन्वा निवृत्तिर्युक्ता । कथमत्र संशयः??R किं धेनुर्गवा उत कृत्स्नक्रतुदाक्षिण्यस्येति । अत्राह - ?R?0अत्र विभागाविभागनिबन्धनः संशयः । ?R?0यदि विभक्ता दक्षिणा तदा गोरन्यापि दक्षिणा धेनुर्गवां निवर्तिका । अथ त्वविभक्ता ततः सर्वेषां निवर्तिकेति । ?R?0विभागा विभागासंशयः पुनः कथं ? ?R?0उत्तरं - ?R?0विशेषानवगमात् । ?R?0उभयथा च वाक्यार्थोपपत्तेः यदि गवादयः आनतय इत्युच्यन्ते तथापि वाक्यार्थ उपपद्यते, प्रत्येकं दक्षिणात्वेऽप्युपपद्यत इत्यर्थः । अथानतिर्गवादय इत्युच्यते तथाप्युपपद्यते वाक्यार्थः यदि समस्तं दाक्षिण्यं तथाप्युपपद्यत इत्यर्थः । यस्मादुभयथापि वाक्यार्थोपपत्तिः तस्माद्वरं गवादय आनतय इत्युक्तम् । एवं चोदकानुग्रहो भविष्यति द्रव्यान्तराणामबाधात् । स्वतन्त्रनिर्देशश्च समर्थितो भविष्यति । गौश्चाश्वश्चेति ।
?R ?R?0ननु शब्दान्न स्वतन्त्रावगतिः । अपितु समुच्चीयमानानामवगतिः । ?R?0परिहरति । ?R?0नास्वतन्त्रावगतिः । ?R?0अवगम्यमाननिर्देशार्थत्वाच्चकारस्य योऽर्थः प्रमाणान्तरेण प्राप्तः तमेव निपाता वदन्तीत्यर्थः । तदाह - ?R?0सत्यन्वये योऽर्थोऽवगम्यते तस्यायं प्रतिनिर्देशकः न पुनरन्वयभाजमर्थमाचष्टे । ?R?0चशब्दाभिहितो नार्थान्तरेणान्वयं भजते समुच्चयशब्दावदिति वैधर्म्यदृष्टान्तः । दर्शितं चैतत् । न चात्र समासः येनेतरेतरयुक्ताः समाहृताश्च दक्षिणया सम्बध्यन्ते । तस्माद्विभक्तं दाक्षिण्यमिति सिद्धम् । अतश्च गवां निवर्तिका धेनुः ।
?R एवं प्राप्तेऽभिधीयते - ?R?0एकं दाक्षिण्यं, कुतः ? ?Rएकवचननिर्देशात् दक्षिणेति । यदि गवादीनां प्राधान्येन निर्देशः तदा दक्षिणाः इति बहुवचनं स्यात् । गुणवचनानां आश्रयतो लिङ्गवचननिर्देशात् । यथा अग्नीषोमौ देवतेति । ?R?0अस्यार्थः - यदि प्रत्येकं दक्षिणा स्यात् तदा गवादीनां दक्षिणात्वं ज्ञापनीयम् । ततश्च गवादयः प्रधानं प्रधानसङ्ख्यानुरोधेन गुणेषु सङ्ख्यानिवेश इति बहुवचनं स्याद्दक्षिणा इति । यथा अग्नीषोमौ देवते । आग्नेये सौम्ये च कर्मणि अग्नीषोमीयचोदनार्थाभिप्रायेणेदमुच्यते इति मत्वा चोदयति -
?R ?R?0ननु चाग्नीषोमौ देवता किमिदमुच्यते देवते इति । ?R?0परिहरति - ?R?0प्राधान्यनिर्देशप्रदर्शनपरमिदं भाष्यकारस्य न पुनररग्नीषोमीयचोदनार्थपरम् । ?R?0तत्राग्नेः सोमस्य च देवतात्वं गुणभूतं निर्दिश्यते तत्प्रदर्शनपरमिदं भाष्यकारस्य वचनं न पुनरग्नीषोमीयं पशुमित्यादिचोदनासिद्धो योऽर्थः तत्परमिदमुच्यते । कथमिदमवगम्यते प्राधान्यनिर्देशप्रदर्शनपरमिति अग्निरदेवतेति चोदनार्तपरे दर्शनात् । मनोताधिकरणेऽग्नीषोमीयचोदनार्थं प्रदर्शयन्नग्नेरदेवतात्वमाह भाष्यकारः । तेनाग्नीषोमीयचोदनासिद्धमिदं नोच्यते । अन्यथाहि तेन सह विरोधः स्यात् । चशब्दबलेन समुच्चितं दक्षिणेत्युक्तमिति मन्वानश्चोदयति - ?R?0ननु न चशब्दोऽन्वयभाजं निर्दिशति । ?R?0परिहरति - ?R?0केनोक्तं निर्दिशतीति । अत्राप्यन्यतोऽन्वितस्यैव निर्देशकः ?R?0एकवचनान्तदक्षिणाशब्देन योऽवगतः स एव
?Rचशब्देन द्योत्यते ।
?R ?R?0नन्वेवं सति इतरेतरयोगः समाहारो वा प्राप्नोति । ?R?0यदि परस्परसापेक्षत्वं दाक्षिण्ये तदा इतरेतरयोगः समाहारो वा प्राप्नोति । उत्तरं - ?R?0प्राप्नोतु को दोषः । ?R?0दोषं दर्शयति - ?R?0समासेन भवितव्यम् । ?R?0परिहरति - ?R?0न भवितव्यं सामासेन वावचनाद्भगवतः पाणिनेः । ?R?0एवं चैकं दाक्षिण्यं दृष्टप्रयोजनं भवति इतरथा बहूनां मध्ये एकेनैव दृष्टार्थस्य सिद्धत्वात् अन्येषां दाक्षिण्यानां अदृष्टार्थ कल्पना ।
?R ?R?0ननु विकल्प भविष्यति । उच्यते । उपदेशाभिप्रायेणेदमुच्यते । ?R?0एकस्मिन्नुपदिष्टे परोपदेशोऽदृष्टार्थः अनपेक्षितविधिः स्यादित्यर्थः । एष दोषः परिहृतो भविष्यति एकस्मिन् दाक्षिण्ये । अतश्चैकं दाक्षिण्यं कृत्स्नस्य च धेनुर्निवर्तिकेति सिद्धम् ।
?R ?R?0॥ 15 ॥ एकां पञ्चेति धेनुवत् ॥ 59 ॥
?R?0 ननु च गोष्वेव सङ्ख्यामात्रविधिर्युक्तः अतः कथं कृत्स्नक्रतु दाक्षिण्यस्य निवृत्त्याशङ्का ? ?R?0यदि च दाक्षिण्ये गोमात्रविधिः सङ्ख्याविधिश्च तदा वाक्यभेदः। तत्राह - ?R?0अत्र विशिष्टविधानात् पूर्वपक्षः ?R?0दक्षिणैव गौविशिष्टा सङ्ख्याविशिष्टा च विधीयते । नन्वेवं दक्षिणान्तरे विहिते कथं प्राकृतस्य निवृत्तिः इत्यत्राह - ?R?0कृतत्वात्प्राकृतस्य कार्यस्य धेन्वा । ?R?0ननु ते लक्षणा स्यात् क्रतु- दाक्षिण्यस्य प्राकृतस्य निवृत्तिः ।
?R अत्र भाष्यकार ?R?0त्रिवत्सश्च तथा च लिङ्गदर्शनम् ?R?0इति सूत्रद्वयं अन्तरा गर्भिण्याश्रयणेन व्याख्याय पुनश्च तत्परित्यज्य पूर्वपक्षे लिङ्गदर्शनपरत्वेन वर्णितवान् । तदाह - ?R?0अन्तरागर्भिणीन्यायमुपन्यस्य तस्यानुचितत्वात् तत्परिहाराय लिङ्गत्वेन सूत्रद्वयमुपवर्णितवान् । ?R?0ततश्च सङ्ख्यामात्रविधानेन राद्धान्तमभिधाय गोषु सङ्ख्यामात्रं विधीयत इत्येवं राद्धान्तमभिधाय न
?Rलिङ्गवैषम्यमुपवर्णितम् यत्पूर्वपक्षे सूत्रद्वयेन लिङ्गमुक्तम् तेन सह वैषम्यं नोक्तम् । तत्रायमभिप्रायः –अन्तरागर्भिण्यैव वैषम्यमुक्तं या सा पूर्वमन्तरागर्भिण्युक्ता तयैव लिङ्गवैषम्यमुक्तं युक्तम् । साण्डस्य क्रयद्रव्यमात्रनिवर्तकत्वं क्रीणातिसम्बन्धेन विधानात् तस्य । इह तु न दक्षिणासम्बन्धेन गवां विधानम् । किन्तु गोसम्बन्धितया सङ्ख्यामात्रविधानमिति । ननु त्यक्ताऽन्तरागर्भिणी । कथं तया वैषम्यमुक्तं इत्यत्राह – ?R?0इह त्वन्तरागर्भिणीत्वं निराक्रियते न पुनर्युक्त्यभिधानम् । ?R?0अन्तरानुप्रवेशो नास्तीत्युक्तम् । न्यायस्तु शोभन एव । तेन भवति वैषम्यमित्युक्तम् ।
?R ?R?0ननु तत्रापि त्रिवत्सेऽपि वयोमात्रविधानात् एकां पञ्चेत्यनेन तुल्यम् । ?R?0यथा गोषु सङ्ख्यामात्रविधिः तथाऽत्र ऋषभे त्रिवत्सविधिः । परिहरति ?R?0न तुल्यम् विशिष्टवयोवचनत्वात् । ?R?0न च द्रव्यं द्रव्यान्तरे विधातुं शक्यते । द्रव्ये तु सङ्ख्यामात्रविधानं पुकरम् । तस्माद्वैषम्यम् । केवलं तु वयोमात्रविधानेऽङ्गी क्रियमाणेऽशब्दार्थतैवाभ्युपगता भवति ।
?R ?R?0॥ 17 ॥ प्राकाशौ तथेति चेत् ॥ 63॥
?R?0 ?R?0ननु हिरण्मयौ प्राकाशावध्वर्यवे ददाति इत्यध्वर्युसम्बन्धेऽवगम्यमाने कथं कृत्स्नस्य क्रतुदाक्षिण्यस्य निवृत्त्याशङ्का यावता तद्भागविकार एवेत्याशङ्क्याह – ?R?0अत्र विशिष्टानुवादाभयात्पूर्वपक्षः । ?R?0यद्यध्वर्युविशिष्टदानानुवादेन प्राकाशविधिः स्यात् तदा विशिष्टानुवादलक्षणो वाक्यभेदः स्यात् । तस्मादध्वर्युशब्दो न विशेषकः । तेन दानमात्रे प्राकाशविधिः ऋत्विङ्मात्रप्रदर्शनार्थश्चाध्वर्युशब्दो यौगिकः ।
?R ननु चाध्वर्युप्राकाशसम्बन्ध एव विधीयतामित्यत्राह – ?R?0आनन्तर्यं च विभक्त्योः सम्बन्धायोग्यत्वेन नादृतम् । ?R?0यद्यप्यानन्तर्यमनयोः तथापि द्वितीयाचतुर्थ्योः परस्परसम्बन्धायोग्यत्वान्नाध्वर्युपरित्यागेन प्राकाशयोस्सम्बन्धः ।
?Rततश्च कथं तस्य विधिः । तस्माद्दानमात्रसम्बन्धित्वेन विधानात् कृत्स्नस्य निवर्तकौ प्राकाशाविति ।
?R ?R?0राद्धान्तस्तु - प्रतीयते तावद्विभागो दक्षिणानां न चात्र ददातिः पदान्तरपरित्यागेनाध्वर्युपरित्यागेन प्राकाशपदेन सम्बध्य इति प्रतीतिरस्ति । ?R?0न चाध्वर्युः प्राकाशपदेन न सम्बध्यते । भवति हि कारकयोरपि क्रियानिमित्तकः सम्बन्धः
?R ?R?0ननु विभक्त्यर्थो विहन्यते प्रथमाषष्ठ्यौ हि तदा स्याताम् । न द्वितीयाचतुर्थ्यावित्युक्तम् ।
?R?0 ?R?0परिहरति - ?R?0न विहन्यतेऽथप्राप्तत्वाद्विभक्त्यर्थस्य प्राकाशावध्वर्यु सम्बन्धिनौ कर्तव्याविति ?R?0 विहितेऽर्थे द्वितीयाचतुर्थ्योरर्थप्राप्तिः । यदि हि तौ तस्मै दद्यात् तौ तत्सम्बन्धिनौ कुर्यात् । तस्मादार्थो विभक्त्यर्थो विभक्तिभ्यामानूद्यते ।
?R कथं पुनरध्वर्युप्राकाशयोः सम्बन्ध इत्यत्राह - ?R?0आनन्तर्यस्य सम्बन्धहेतुत्वात् । ?R?0तदिदमुक्तं असत्यानन्तर्ये सम्बन्धो नोपपद्यत इति । प्रत्युत चतुर्थीक्रियाविशेषस्य लिङ्गं भविष्यति । सा क्रिया सम्बन्धहेतुराश्रीयते यस्यां सत्यां चतुर्थ्यर्थो लभ्यत इति दानमेव क्रिया कल्प्यते । एषा कल्पनाऽध्वर्युशब्दबलेनाश्रिता । अन्याथाऽविवक्षितार्थोऽध्वर्युशब्दः स्यात् । रूढिं च परित्यज्य यौगिकाश्रयणे प्रकारान्तरं चाऽऽह - ?R?0विशिष्टविधानं वाऽभ्युपगम्यताम् । ?R?0दानमेवाध्वर्युप्राकाशविशिष्टं विधीयते । न पुनर्भागावगतिः शक्यतेऽपन्होतुम् तस्मादध्वर्युभागस्य प्रत्याम्नायो दानम् । तस्यापि दृष्टार्थत्वेन तत्कार्यकरणत्वादिति सूक्तम् ।
?R ?R?0॥ 18 ॥ धेनुवच्चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य ॥ 65 ॥
?R?0 कथं पुनरत्र ब्रह्मभागस्य निवर्तकोऽश्व इत्येतस्मिन् पूर्वपक्षे
?R?0रुक्मललाटो दक्षिणेति वाक्यम् । ?R?0अस्मिन् वाक्ये सामान्येन दक्षिणासम्बन्धः प्रतिभाति । अतः कृत्स्नस्य क्रतुदाक्षिण्यस्य निवृत्तिरेव युक्ता । उत्तरं - ?R?0विशेषसम्बन्धेऽपि सामान्यं न विरुद्ध्यत इत्यभिप्रायः ।?R?0 ऋत्विग्विशेषदक्षिणात्वेऽपि दक्षिणाशब्दस्य सामान्यवाचिनो न विरोधः। अतो न कृत्स्नस्य क्रतुदाक्षिण्यस्य प्राप्तस्य निवर्तकोऽश्वः दर्शनलोभात् भ्रमः यथा स्रजमुद्गात्रे ददातीत्युद्गातृभागस्य निवर्तिका तथा कृत्स्नस्य निवर्तिकेति दृष्टान्तलोभात् भ्रमोऽयं पूर्वपक्षिणः । दृश्यतेऽस्मिन्निति दर्शनम् ।
?R?0 राद्धान्तस्तु सत्यं सामान्यस्य विशेषेणाविरोधः एकवाक्यत्वे हेतुः सः यथा शाबलेयो गौरिति । ?R?0वाक्यभेदे पुनः यथाप्रतिपन्नमेव ग्रहीतव्यम् । एकवाक्यत्वेऽपि विशेषान्वितमेव सामान्यमभिधीयते । वाक्यभेदे तु स्वतन्त्रार्थद्वयावगतिः तेन प्रथमवाक्येऽश्वस्य सामान्येन दक्षिणात्वम् । अतः कृत्स्नस्य क्रतुदाक्षिण्यस्य निवृत्तिः । द्वितीये तु वाक्ये तस्यैव ब्रह्मसम्बन्ध इति । यद्यश्च एव कृत्स्नक्रतुदक्षिणा ब्रह्मण एव देयः । तदा कथं दक्षिणामन्तरेण ऋत्विगन्तराणां प्रवर्तनम् तदाह - ?R?0कथं पुनरस्मिन् पक्षे कर्त्रन्तरं प्रवर्तनीयम् ? ?R?0उत्तरं - ?R?0 नात्र आर्थस्य बाधः । अर्थाद्येन केनचित्तेषामानतिः वाचनिकश्चायं प्रत्याम्नायश्चिन्त्यते । ?R?0वचनादप्रतिहतस्वार्थोऽभ्युपायः ।
?R ?R?0ननु चार्थस्यैवायं नियमः । ?R?0 अस्यार्थः - परकर्तृकं कर्म दक्षिणामन्तरेण न शक्यते कर्तुमिति अर्थाद्या दक्षिणा प्राप्ता तत्रैवायं नियम इति । ?R?0कथमपर आर्थोऽभ्युपायः । ?R?0परिहरति - ?R?0नायं नियमः । कुतः ? ?Rवरणभरणनिमित्तत्वात्परकर्तृकावगतेः । ?R?0अस्यार्थः - न साक्षात्परकर्तृकत्वं श्रुतौ श्रूयते येन सामान्येनानमने अदो नियमो भवेत् । किन्तु वरणभरणविधानादेव परकर्तृकतावगमः तेनायं नियमो भवतीति वरणभरणविधानात् प्राक् सामान्येनाप्राप्तेरिति सुक्तमुक्तम् । अतः कर्त्रन्तरापनये सर्वत्र न्यायो द्रष्टव्यः ।
?R?0 ॥ 19 ॥ तथा सोमचमसः ॥ 68 ॥
?R?0 ?R?0केन विशेषेणात्र पूर्वपक्ष इत्यत्राह - ?R?0एकवाक्यत्वेनात्र सामान्यं विशेषगतं मन्वानस्य पूर्वपक्षः । ?R?0एवं हि श्रूयते -औदुम्बरः सौमचमसो दक्षिणा स प्रियाय सगोत्राय ब्रह्मणे देयः इति । एकवाक्यत्वात् सामान्यं विशेषनिष्ठमेव, तेन न कृत्स्ननिवृत्तिः एवं प्राप्तस्य बाधोऽन्यस्य न कल्पितो भवति ।
?R?0 राद्धान्तस्तु - दक्षिणाशब्दश्रवणात् देयं सम्प्रदानं च कृत्स्नसम्बन्धि तयाऽवगम्यते । ?R?0उक्तं हि अविभक्तं दाक्षिण्यमिति । येन दक्षिणाशब्दश्रवणात् दक्षिणाकार्य एव सोमचमसस्यापि विधानमवगम्यते । तेन न दक्षिणाशब्दो विशेषेऽवस्थापयितुं शक्यते । द्वयस्य देयस्य प्रदानात्मकस्य तत्सम्बन्धित्वेनापि सामान्यदक्षिणासम्बन्धित्वेनाप्युपपत्तेर्न लक्षणाप्रमाणास्ति । दक्षिणाशब्देन दक्षिणाभागलक्षणात्वे प्रमाणं नास्तीति युक्तमुक्तं कृत्स्नस्य निवृत्तिरिति ।
?R नन्वेवं पौरस्त्यमधिकरणं दूरोत्सारितम् । नैवम् । इह दक्षिणाशब्दश्रवणाद्राद्धान्तः । पूर्वस्मिन्नधिकरणे तु दक्षिणाशब्दश्रवणेऽपि वाक्यभेदे कृत्स्नस्य निवृत्तिरिति द्रष्टव्यम् ।
?R?0 ॥ एवं वा ॥
?R ?R?0प्रयोजनत्वेन ‘?Rयदि तु ब्रह्मण’?R इति पूर्वत्र द्वयमुपवर्ण्य एवं वेति वदः कोऽभिप्रायः । ?R?0अस्यार्थः - निराकरणीयाभावात् पृथगधिकरणान्तरं नारब्धव्यम् । उत्तरं – ?R?0कार्योपदेशं वर्णयित्वा बाधोऽपि सयुक्तिक एव वक्तव्य इति मन्यते । ?R?0अस्यार्थः - अस्त्यत्र निराकरणीयं पूर्वपक्षी मन्यते । यदि कृत्स्नं दक्षिणाकार्यं सोमचमसेन क्रियते तदा भवेत् कृत्स्ननिवृत्तिः । नचैतदस्ति सोमचमसेन ब्रह्मणे दीयमानेन न ऋत्विगन्तरवर्तिन्यानतिः दक्षिणाकार्यं सम्पद्यते तस्मान्न तेन कृत्स्ननिवृत्तिरित्यस्यामाकाङ्क्षायां कृत्स्नदक्षिणाकार्ये सोमचमसस्योपदेशं वर्णयित्वा बाधोऽपि सयुक्तिक एव वक्तव्यः । अत
?Rइदमधिकरणमारब्धम् ।
?R कथं पुनः कुत्स्नकार्ये विधानम् । उच्यते । द्विविधं हि कार्यम् । एकं क्रतौ, अपरं तदङ्गेषु । तत्र क्रतौ कार्यं केवलागमादवगम्यते । तत्र यद्यपि सोमचमसेन क्रत्वन्तर्भूतपुरुषगतं कार्यं न क्रियते तथापि क्रत्वङ्गे क्रियत इति आगमप्रामाण्यादवगम्यते । तदर्थं चाङ्गगतं कार्यत् । तेन प्रधानकार्ये सोमचमसेन सिद्धे दक्षिणान्तरनिवृत्तिः । यद्यत्र दक्षिणाकार्यसम्पादकत्वाभावाशङ्कया पूर्वपक्षः?R?0 कथं तर्हि भाष्यकार एवमाह - “?Rसोमचमसो ब्रह्मण इत्येष सम्बन्ध इति कृत्वा चिन्ता”?R इति । ?R?0एवं हि वदन् कृत्वाचिन्तेति दर्शयति । न चेयं कृत्वाचिन्ता । किन्तु पूर्वपक्षबलेनैवायं सम्बन्ध इति ।
?R?0 ?R?0उत्तरं - ?R?0एवं कृत्वा पूर्वपक्षोऽत्र वर्ण्यत इति वर्णनीयमिदं भाष्यम् । ?R?0न्यायबलेनैव सोमचमसो ब्रह्मण इति कृत्वा पूर्वपक्ष इत्यर्थो भाष्यस्य ।
?R ?R?0॥21॥?R?0 ?R?0यजुर्युक्ते त्वध्वर्योः दक्षिणाविकारः स्यात् ॥ 74 ॥
?R?0 ?R?0इहाधिकरणे सप्तसप्तदशकानि देयानि श्रुतानि । तथा यजुर्युक्तं रथं अध्वर्यवे ददातीति । अतश्च भागनियमोऽयं भवति । अथ तु स्वतन्त्रं ततो भागविकार इति । तत्र पूर्वपक्षी स्वातन्त्र्यं मन्यते । न हि स्वातन्त्र्ये सति पारतन्त्र्यं युक्तमिति भागोऽध्वर्योः तस्यायं विकारः । पुनर्दक्षिणाविकारपक्षे(रथा) दीनां दक्षिणा सम्बन्धं मन्यते कस्मै तानि देयानीति भावः ।
?R उत्तरं - ?R?0दीयते तेभ्योऽध्वर्य्वादिभ्योक येऽन्ये तेभ्यः तद्युग्यादिकमिति शक्यते वक्तुम् । ?R?0एवं पूर्वपक्षिते उच्यते -
?R नायं यागविकारश्शक्यते वक्तुम् । अप्राप्तस्य विशेषावगतौ भागविकारो युक्तः । यदि रथदानेऽध्वर्युः प्राप्तः तदा रथविशेषविधानं भागविकाराय स्यात् । इह तु प्राप्तानामध्वर्य्वादीनां नियममात्रेणैवोपदेशसिद्धेः न भागान्तरानुवृत्तिश्शक्यते वक्तुं चोदकानुग्रहाय । सप्तदशरथा इत्येतद्वाक्यपूर्वकमिदमिति राद्धान्तः
?Rतावन्मात्रेणैवोपदेशोपपत्तेः ।
?R ननु यदि सामान्येन प्राप्तौ सत्यां विशेषश्रवणं नियममात्रफलं, न भागविकारः तर्हि प्राकाशावपि नियमार्थावेव स्याताम् । अश्वमेधेऽपि सामान्येन प्राकाशविधिरस्ति हिरण्मयावध्वर्योर्नियम्येते इति तत्राह - ?R?0ये पुनरश्वमेधेप्यस्य प्राप्तिं मन्यन्ते न ते युक्तमिव मन्यन्ते । ?R?0कुतः ? ?R?0न्यायाभिधानमात्रविवक्षायां हि तदनुगुणमुदाहरणं प्रदर्श्यते । ?R?0तेन सन्तमपि सामान्यं प्राकाशे एककार्यावगमात् । परिहरति - ?R?0उदाहरणमात्रं त्वेतदिति नादर्तव्यम् ?R?0अदृष्टार्थमन्यार्थमपि अदृष्टार्थमपि कृत्वोदा(हरणम्) विधिमसन्तमिव कृत्वोदाहरणं स्यान्न पुनः लक्ष्यनिर्णयायोदाहरणदानम् । सामान्यन्यायाभिधित्सयेदं शास्रम् । एवं सति अयं न्यायो भवतीति यत्र सामान्य वचनं नास्ति तत्र भागविकार इति न्यायः कथ्यते न पुनः ग्रन्थविशेषाभिधीत्सया न वाक्यविशेषस्यार्थः कथ्यत इत्यर्थः । अन्यथा हि पौर्वापर्येणानुसरणं स्यात् । यदि हि वेदवाक्यव्याख्यार्थमिदं स्यात् तदा यथाक्रमं वेदवाक्यानि व्याख्येयानि न्यायपरत्वे तुनायं दोषः । तस्मान्न्यायनिष्ठं व्याख्यान- मिति न दोषः
?R?0इति ऋजुविमलायां पञ्चिकायां
?R?0दशमस्य तृतीयः पादः ॥
?R?0दशमाध्यायस्य चतुर्थः पादः ॥
?R?0॥ 1 ॥ प्रकृतिलिङ्गासंयोगात् कर्मसंस्कारं विकृतावधिकं स्यात् ॥ 1 ॥
?R कथं पुनरुपहोंमादिभिः नारिष्ठहोमादीनां निवृत्तिरित्यत्राह - ?R?0अभिधान सामान्येन तुल्यार्थतां मन्वानस्य पूर्वः पक्षः । ?R?0अस्यार्थः - यथैषामभिधानं तुल्यं तथा कार्यमपि भवितुमर्हति । अभिधानैक्ये च कार्यभेदानुपपत्तिः ।
?R ?R?0राद्धान्तस्तु विधेयत्वादभिधेयानां कार्यैक्यानवगमाच्च । ?R?0अस्यार्थः - यद्यप्यभिधानमेकं तथापि अभिधेयानां विधेयत्वेनान्यत्वमेव । अन्यत्वेपि च यदि कार्यमेकं, स्यात् निवृत्तिः । न च कार्यैक्यमवगम्यते । यथा च कार्यैक्यं नावगम्यते तथा दर्शितमदृष्टार्थानामेककार्यत्वानवगमादिति । ननु च निवीते वासोविन्यासस्य दृष्टार्थत्वात् विन्यासान्तरोपमर्देन च विन्यासान्तरस्य आत्मलाभाद्बाध एव युक्तः । तस्माददोषः ।
?R?0एवं वा
?R?0 उपवर्णनापरिहारात् किमभ्यधिकमाशङ्कनीयं यन्निरस्यते ? ?R?0उत्तरं ?R?0सिद्धे?R?0 ?R?0प्रकृतिलिङ्गत्वे भवतूपबर्णनापरिहारः इह तु प्रकृतिलिङ्गत्वं बर्हिरित्यस्य साध्यत इति । ?R?0विशेषान्तरं व्यक्तमेव वर्हिषः प्रकृतिलिङ्गत्वम् । ?R?0किं परं साध्यते ? ?R?0अतस्तत्राशङ्का । ?R?0का पुनरसौ ? ?Rइयम् । ?R?0बर्हिः शब्देन कुशोऽभिधीयते । तस्य शरमयता विधीयते । न पुनः स्तरणे शरविधिरयम् । तत्र कुशानां शरमयता बहुतरशरयोगेन भवति “?Rशालिमया मागधा जनपदा’’ ?Rइति यथा ।
?R ?R?0कथ पुनरिदं निराक्रियते ??R ?R?0इत्थम् । ?R?0क्लृप्तकार्याविवक्षया वैकृताविधयः । तत्र यदि वर्हिः कार्ये शराणां विधिः स्यात् तदा कार्यान्तरकल्पना नास्ति । इतरथा तु कार्यान्तरं प्रकल्प्यं स्यात् ।?R?0 तेन बर्हिः शब्दः कार्यसमर्पणार्थ ?R?0एव । ?R?0शरमयमिति च मयट्प्रत्ययो नित्यं वृद्धशरादिभ्य इति विकारे । यद्यपि स्तरणं न विकारः तथापि शरकार्यतया तद्विकार इत्युपचर्यते ।
?R?0एवं वा
?R?0 तत्र रथघोषेणेति किं वाक्यार्थो विवर्तकः उत प्रत्येकं पदार्थ इति चिन्त्यते । ?R?0आक्षिपति - किमिदं प्रलप्यते ? ?Rएकग्रन्थेनाह - ?R?0ननु चोभयत्रापि वाक्यार्थ एव निवर्तकः ?R?0रथघोषश्चेति पूर्वपक्षेऽपि वाक्यार्थ एव निवर्तकः । ?R?0स तु ?R?0माहेन्द्रस्तोत्रोपाकरणसम्बन्धी निवर्तकः तथा राद्धान्तेऽपि रथसम्बन्धी शब्दो वाक्यार्थ एव सन् मन्त्रदर्भनिवर्तक इति प्रतिपक्षत्वाभावात् संशयोऽयं प्रलापभूतः । समाधत्ते - ?R?0सत्यमेवं श्रुताभिप्रायेणेदमुच्यते वाक्यार्थः पदार्थ इति । रथ?R?0सम्बन्धी घोषो रथघोषशब्दाभ्यामुच्यत इति वाक्यार्थ इत्युच्यते । रथस्तु रथशब्देन घोषश्च घोषशब्देनोच्यत इति पदार्थ इत्युच्यते । न पुनर्माहेन्द्रस्तोत्रोपाकरणसम्बन्धाभिप्रायेण पदार्थत्वं वाक्यार्थत्वं वाऽभिमतम् । एतदेव विवृणोति - ?R?0किं प्रतिपदं वाक्यसमाप्तिरुत समुदाय इति । ?R?0रथोऽपि स्तोत्रोपाकरणसम्बन्धी घोषऽपीति प्रतिपदं वाक्यासमाप्तिः । यदि रथसम्बन्धी धोषः स्तोत्रोपाकरणसम्बन्धी तदा समुदाये वाक्यपरिसमाप्तिरिति ।
?R ?R?0किं तावत्प्राप्तम् ? ?Rप्रतिपदं वाक्यपरिसमाप्तिः ?R?0द्वन्द्वसमासोऽयम् ;?R तेन प्रतिपदं वाक्यपरिसमाप्तिः । का युक्तिरित्यत आह - ?R?0एवं स्वार्थपरता द्वयोरपि पदार्थयोः । ?R?0षष्ठीतत्पुरुषे तु पूर्वपदार्थो विशेषणतया परार्थः । स्वार्थत्वं परार्थत्वाद्युक्तम् । ?R?0ननु चैवं सति द्विवचनेन भवितव्यम्, रथघोषयोद्विंत्वात् । न भवितव्यं द्विवचनेन द्विवचनाभावात् । ?R?0वेदे हि प्रतिपत्तारो वयं न कर्तारः । तेन द्विवचनोपदर्शने द्वित्वेऽपि द्विवचनमत्र नास्तीत्यवगम्यते । द्विवचनाभावे कथं तर्हि द्वन्द्वावगतिरित्यत्राह - ?R?0एतस्मादेव कार्यात् द्वन्द्वावगमः ।?R?0 यदिदं पदानां कार्यं स्वार्थस्य कार्यत्वापादनं एतस्मादेव द्वन्द्वावगतिः एकवद्भवं वा मन्यते । तेन द्विवचनानुत्पत्तिर्न दोषः ।
?R ?R?0एवं प्राप्तेऽभिधीयते - तत्पुरिषोऽयं न द्वन्द्वनिर्देशः । कुतः ? ?R?0उत्तरं - ?R?0एकवचननिर्द्देशात् - ननु चैतस्मादेवकार्या द्वन्द्वावगतिरित्युक्तः परिहारः । नायं परिहारः । ?R?0यदि तस्माद्द्वन्द्वावगतिः न तर्हि द्वन्द्वार्थस्य विधानं द्वन्द्वत्वे
?Rप्रमाणाभावात् कार्यं चेत्प्रमाणं इतरेतराश्रयम् । द्वन्द्वेऽवगते कार्यावगमः कार्यावगमाच्च द्वन्द्वावगतिरिति तत्पुरुषावगतिस्तु अभिधानादेव एकवचनानु (ग्या) ज्ञा न्याय्या ।
?R ?R?0यत्पुनरेकवद्भावादप्युपपद्यत इत्युक्तं सिद्धं तर्हि समुदायविधानं वाक्यार्थविधानं सिद्धम् । ?R?0भवत्वेवमित्यत्राह - ?R?0इयांस्तु विशेषः द्वन्द्वे द्वयोरपि पदार्थयोः समाहारपरत्वात् गुणभावोऽभ्युपगतो भवति । ?R?0तत्पुरुषे पुनः एकस्यापि तावत् प्राधान्यमिति न्याय्यं तदाश्रयणम् । ?R?0प्रयोजनमुक्तम् । ?R?0यदि द्वन्द्वो भवेत्तदा निश्शब्दोऽपि रथो निवर्तको भवेत् अन्यसम्बन्ध्यपि घोषः । तत्पुरुषे तु रथसम्बद्धस्य निवर्तकत्वमिति ।
?R ?R?0॥ 2 ॥ सर्वत्र तु ग्हाम्नानमधिकं स्यात् प्रकृतिवत् ॥ 3 ॥
?R?0 अत्र केचिदेवं?R?0 चिन्तयन्ति विकृतिषु ग्रहेषु गुणविधानात् किं गुणान्तरनिवृत्तिः नेति । तदाश्रयणेन चोदयति -?R?0 ननु च युक्तं बार्हम्पत्यं गृह्णातीत्युदाहरणम् ।?R?0 अत्र ग्रहानुवादेन बृहस्पतिविधिराशङ्कितुं शक्यते तेनेदमुदाहरणं युक्तम् । ?R?0ये पुनःनामविशिष्टा ग्रहा उदाहृताः अर्कं गृह्णातीत्येवमादयः तेषां संज्ञा चोत्पत्तिसंयोगादिति कर्मान्तरत्वसिद्धेः नोदाहरणत्वमुपपद्यते । कार्यान्तरावगमात् समुच्चयस्यैव तत्र युक्तत्वात् ।
?R?0 ?R?0परमसिद्धान्ती वदति - ?R?0सत्यमाह भगवान् यद्यव गुणनिवृत्तिश्चिन्त्यते किं गुणान्तरविधानेन प्राकृतगुणनिवृत्तिरुत नेति यद्यत्र चिन्त्यते तदा स्यादेव पूर्वोक्तदोषः । ?R?0इह तु ग्रहा एव निवर्त्या उत नेति चिन्त्यते । वैकृतग्रहान्तरविधानात् किं प्राकृतग्रहा निवर्तन्ते नेति चिन्त्यते । ततश्च तत्रापि संज्ञान्तरयुक्त ग्रहान्तरविधेः सोऽप्युदाहरणम् । ?R?0यद्येवं यदि ग्रहान्तरेण ग्रहनिवृत्तिरेव चिन्त्यते तर्हि गुणविधिप्रदर्शनं किमर्थं ??R ?R?0आग्नेया ग्रहा इति पूर्वपक्षसिद्धान्तयोरसद्भूतत्वात् ।
?R उत्तरं - ?R?0बाधप्रकारदर्शनार्थं तत् स्वार्थम् । ?R?0सिद्धान्ते हि समुच्चयं वर्णयित्वा भाष्यकारेण बाधप्रकारो दर्शितः । यदि ग्रहशब्दमुच्चार्य गुणो विधीयते ततः प्राकृता एव ग्रहाः गुणविकृता भवेयुः । गुणमात्रं तदा बाध्येत । अथ ग्रहसम्बन्धेनाग्रहा विधीयन्ते ततोऽग्रहो ग्रहकार्ये वर्तत इति प्राकृतो निवर्तते । तत्र योऽयं बाधप्रकारः प्रदर्शितः तत्सिद्ध्यर्थमाग्नेया ग्रहा इत्युक्तम् । यावत् गुणमात्रविधिरत्र न साध्यते तावदिदं बाधप्रकारदर्शनं न घटत इति गुणमात्रविधिं साधयित्वा आग्नेया इति गुणविकृतिप्रदर्शनं कृतम्, न पुनः पूर्वपक्षद्दष्टान्तत्वेन । ?R?0यद्यत्र गुण निवृत्तिरेव न चिन्त्यते किमर्थं पुनः बार्हस्पत्यपुनरुपन्यासः??R किमिति उत्तरं विधातव्यम् नात्रास्याभिधेयैक्यमस्ति । ?R?0अस्याभिधेयेन सह एकत्वं नास्ति कल्पनाविरोधस्त्वतन्त्रमित्युक्तम् । तस्मात् बार्हस्पत्यं गृह्णातीति कर्मान्तरविधानमत्र । यद्यत्र कर्मान्तरविधानं ?R?0कथं तर्हि इदं ‘?Rएकादश प्रयाजान् यजति’?R इति गुणविधानं ??R ?R?0उत्तरं - ?R?0न सङ्ख्याऽनुरञ्जिकेत्युक्तं द्वितीये । ?R?0पृथकत्व निवेशित्वमात्रं हि ?R?0विधेयसङ्ख्या प्रभवति कर्तुं न पुनः स्वानुकारि कर्मावगमयति यथाद्रव्यम् । ?R?0 अस्यार्थः - सङ्ख्यायां श्रुतायां तावत्सङ्ख्याकानि
?Rकर्माण्यवगम्यन्ते न पुनस्तेषां सङ्ख्यातोरूपविशेषप्रतियतिः यथा द्रव्यं स्वानुरक्तं कर्मावगमयति न तथा सङ्ख्या, अननुरञ्जकत्वात् । तत्र च नियोगव्यापार एव वर्धते एक एव नियोगो बहूनि कर्माणि विधत्त इति । भवत्वेवं तथापि किमितरविधिनेत्यत्राह शन्कोत्य?R?0तिदेशेऽपि कल्पनां विषयविषयिर्णीं वारयितुम् । ?R?0अस्यार्थः - अरूपत्वात्सङ्ख्यायाः अरूपस्य च यज्यर्थस्य विधानानुपपत्तेः रूपवान् यागो विषयभूतः कल्पयितव्यः । तत्र चातिदेशोऽपि कल्पनां निरोद्धुं शक्नोतीति । यद्युपदेशप्राप्त एव विषयो न विषयान्तरं ?R?0कथं तर्हि सङ्ख्या शास्त्रान्तरत्वे हेतुः एकादश प्रयाजान् यजतीति नेदं शास्रान्तरं स्यात् ।?R?0 अनुवादशास्रमेवेदं भवतीत्यर्थः ।
?R परिहरति - ?R?0केन चोक्तं सङ्ख्या शास्रान्तरत्वे हेतुर्भवतीति ।
?Rभवत्येवेत्यर्थः । चोदयिता पृच्छति ?R?0कथं विषयादृते सङ्ख्या शास्त्रं भिनत्ति । ?R?0समाधाता उत्तरमाह - विषयाभ्यासादत्र सविषयः सिद्ध्यति । अभ्यासं विदधदिदं शास्रान्तरं भवति । यथा - एकादश प्रयाजात् कुर्यादित्येतावन्मात्रं श्रूयते । तत्र यथाऽभ्यासविषयस्तथेहापि । यतः एवमादिष्वभ्यासविधानं ?R?0अत एव भगवतःपाणिनेः कृत्वसुज् विधानं यथार्यमुपपन्नं भवति अन्यथा हि प्रतिक्षणमपवर्गवतः कर्मणोऽभ्यास एव नास्ति क्रियाभ्यासावृत्त्यसम्भवात् अयथार्थ पाणिनेर्वचनं स्यात् - ‘?R?0सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वपुच्’?R इति तथा स्तोमे डविध नमप्येवमेवोपपद्यते सप्तदशान्याज्यानीत्यावृत्तिविधानात् स्तोमावृत्तौ इति वार्तिकमुपपद्यते ।
?R एवं स्वमतं निबन्धनकारो दर्शयित्वा परमतमाह - ?R?0अत्र पुनः केचित् एकादश प्रयाजानिति परिहारान्तर बुवते - नामयोगात् प्रकृतेषु सङ्ख्याविधानम् । ?R?0अन्यथाहि नाम्नोऽनेकार्थकल्पना स्यात् । इह पुनर्नामान्तरं ग्रहशब्दे नास्तीति धात्वर्थविधानमेव । यतश्च ग्रहशब्दाभावात् कर्मविधितया आग्नेया ग्रहा भवन्तीति । यत्र ग्रहशब्दः श्रूयते तत्र गुणविकारस्सिद्धो भवतीति । शक्नोति हि विधेयावगतिकल्पनां अतिदेशो वारयितुमिति वदन्ति
?R केचिद्ब्रुवन्ति इति पूर्वेण सम्बन्धः परिहरति - ?R?0तदयुक्तमिति भाष्यविदः ?R?0प्रभाकरमिश्राः । इहापि बार्हस्पत्ये ग्रहशब्दश्रवणात् नामयोगात् गुणविधिः स्यात् । किञ्च दधिग्रहे ग्रहशब्दश्रवणादभिधेयनिरोधः स्यात् । ततश्च ग्रहणे क्रत्वङ्गसंस्काररूपे दधिश्रवणात् क्रतावेव द्रव्यान्तरविधाने दध्ना सोमस्य विकारः स्यात् पूतीकैरिवाभिषवे श्रुतैर्द्रव्यान्तरस्य प्रतिनिधेयस्य विकारः ।
?R ?R?0ननु सोमाभावे तेन विकारः तेन नास्ति तुल्यता दृष्टान्तदार्ष्टान्तिकयोः । ?R?0परिहरति - ?R?0नात्रैताद्विवक्षितव्यम् एतदभावे सति विकार इति न ?R?0 विवक्षितव्यम् । किन्तु द्रव्यविधानं प्राप्नोतीति । ततश्च द्रव्यान्तरं विक्रियते । चोदकाद्वा प्राप्तमुपादानतो वा सम्भवादिति को विशेषो विकारावगतौ । तस्मात्
?Rसहैव ग्रहशब्देन पूर्वोक्तः परिहारः । यदि विकृतौ कर्मान्तरविधिः ?R?0कस्तर्हि पुरोडाशदेवतयोः हविरन्तरं च सौत्रमण्यां विधीयते । ?R?0पुरोडाशेऽग्नीषोमीये चोदकप्राप्ते देवतान्तराणामिन्द्रादीनां विधानम् देवतायां चाग्नीषोमयोः हविरन्तरस्य ग्रहस्य विधानं सौत्रामण्यामयुक्तम् । तत्र कर्मान्तरविधिरेव युक्तः । (उत्तरं) - ?R?0युक्तमुक्तं पशुपुरोडाशाधिकरणे कार्यप्रत्यभिज्ञानात् स एवायं याग इति । ?R?0आग्नेया ग्रहा इति कथं तर्हि गुणविधिरित्यत्राह ?R?0आग्नेया ग्रहा इति विधेयाभिधानमतिदेशोऽपि शक्नोति निरोद्धुम् । ?R?0विधेयाभिधानमत्र श्रूयते ग्रहा इत्यभिधानार्थत्वात् तेन भावार्थोऽत्र कल्पयितव्यः तत्कल्पनामतिदेशो वारयितुं शक्नोति । ?R?0लिङग्मुक्तम् विरण्यादर्शनम् । ?R?0ननु च यदुक्तमाधस्त्येऽधिकरणे पृथक् होमविधानान्न मन्त्रविधिः । समन्त्रश्रवणे तु मन्त्रविधिरेवेति । तदयुक्तम् । समन्त्रकश्रवणेपि कर्मान्तरविधिरेव स्यात् यद्यसौ न नारिष्ठहोमे गुणविधिरित्याशङ्क्याह - ?R?0युक्तमग्नौ यदुक्तं भाष्यकारेण यस्मात् प्रकृतिरेव हि सा । ज्योतिष्टोम एवासौ ?R?0। तेनोपदेशतः सन्निहितेषु होमेषु समन्त्रकश्रवणे मन्त्रमात्रविधिरेव स्यात् यद्यसौ प्रकृतिः । ?R?0कथं तर्हि ?R?0चोदकप्राप्तो नारिष्ठहोम इत्युच्यते तत्राह - ?R?0नैमित्तिकं त्वभ्यधिकम् । ?R?0अस्यार्थः - नैमित्तिकोऽयं तस्यैव ज्योतिष्टोमस्य गुणविकारः । तेन प्रकृतिरपि विकृतिरित्युच्यते । यथाग्निहोत्रहोमो दध्नोन्द्रियकामस्येति दधिविकृतौ विकृतिर्भवतीति । तेन न दोषः । नन्वेवमपि ग्रहाणां समुच्चयो न युक्तः किन्तु एककार्यत्वाद्बाध इत्याशङ्क्याह - ?R?0कार्यं पुनः यागनिर्वृत्तिर्ग्रहाणां न तां ग्रहचोदनयैवेति वैषम्यं?R?0 न ग्रहा यागोद्देशेन विधीयन्ते । किन्तु यागार्थद्रव्यसम्बन्धेन तेषां क्रत्वनुप्रवेशः । तेन ग्रहाणां सतां यगनिर्वृत्तिः कार्यं, न पुनः ग्रहचोदनाभिरेव यागसाधनत्वेन विधानम् । अतश्च समुच्चयस्तेषामिति दर्शितं द्वितीये इति वैषम्यं साक्षाद्यागसाधनत्वेनोपदिष्टैः द्रव्यादिभिः ।
?R?0॥ 3 ॥ प्राजापत्येषु चाम्नानात् ॥ 6 ॥
?R?0 पशुशब्दः कार्यं लक्षयतीति मन्वानः पूर्वपक्षयति । ?R?0अस्यार्थः - सप्तदश प्राजापत्यान् पशूनालभत इति पशुशब्देन प्राकृतान् क्रतुपशून् लक्षयित्वा प्रजापतिदेवताया विधिः तेन पशुशब्दः उद्देश्यविशेषं समर्पयन् प्रकृतकार्य एव विधानमेतदिति ज्ञापयति । तेनाभिप्रायेणोच्यते पशुशब्दः कार्यं लक्षयतीति । ननु च सङ्ख्याविधानं नोपपद्यते देवतायां विधीयमानायाम् कुत इत्याह - ?R?0तद्विधाने च वाक्यभेदः प्रसज्यते यतः । ?R?0परिहरति - ?R?0नैव सङ्ख्या विधेयेति मन्यते । ?R?0कथमित्याह - ?R?0कर्मणि सङ्ख्या नैव विधीयते ?R?0यथा तिस्र आहुतीर्जुहोतीति । यथा वाऽस्मिन्नेवोदाहरणे सङ्ख्याधिकरणे द्वितीये उक्तम् - कर्मगता सङ्ख्या नैव विधीयत इति ।
?R ?R?0राद्धान्तस्तु सत्यं न विधेया सङ्ख्या यदि कर्मान्तरविधानं स्यात् । ?R?0यदि प्रजापतिदेवताकपशुद्रव्यककर्मविधिःस्यात् तदा कर्मभेदकारिका सङ्ख्या न विधीयेत । कर्मान्तरत्वे च पशुशब्दोपलक्षणत्वे नोपपद्यते विधेयत्वेनावगमात् । देवतामात्रविधाने पुनरविधीयमानार्थः सङ्ख्याशब्दो नैवान्वेतीत्यसावपि सङ्ख्या न विधिशब्दार्थो विधातव्यः । ततश्च वाक्यभेदः । अतः सङ्ख्याशब्दश्रवणात् कर्मान्तरविधानमेवैतदिति स्थितम् । कर्मान्तरविधाने च नैव प्राकृतकार्यापत्तिरवगम्यते प्रमाणाभावात् । तत्र (कथं) गुणविधिराशङ्कितः पूर्वपक्षानौपयिकत्वात् ? ?Rउत्तरं - ?R?0प्रकारनिदर्शने सति प्रसङ्गादिदमुपजातम् । ?R?0भाष्यकारेण प्रथमं बाधप्रकारे दर्शिते प्रसङ्गादिदमुपजातं प्रासङ्गिकमिदं न पुनः पूर्वपक्षौपयिकमित्यर्थः । ?R?0कः प्रसङ्गो येनेदमाख्यातम् ! ?R?0उत्तरं - ?R?0यद्ययं बाधप्रकारः स्यात् योऽयं भाष्यकारेणोक्तः ।?R?0 यदि ग्रहशब्दमुच्चार्य गुणो विधीयेत ततः प्राकृता एव ग्रहाः गुणविकृता भवेयुरिति । ?R?0न तर्हि बार्हस्पत्ये समुच्चयः तत्रापि गुणविकार एव स्यात् ।?R?0 भवतु का क्षतिरित्यत्राह - ?R?0समुच्चयार्थं चैतदुदाहृतम् । वृहस्पतिसवे श्रूयते बार्हस्पत्यं गृह्णातीति । तस्मान्न शुक्रवत्
?R?0बार्हस्पत्ये समुच्चयः सम्भवति?R?0 यथाशुके समुच्चयः तथा बार्हस्पत्ये न सम्भवति गुणमात्रविकारोपपत्तेरिति । कथं तर्हि समुच्चयसिद्धिरित्यत्राह
?R ?R?0राद्धान्तस्तु बार्हस्पत्ये सत्यं न सिद्ध्यति समुच्चयः यदि गृह्णातीत्यस्यां चोदनायां नाम्नि गुणे वा कश्चिद्विशेषः ।?R?0 अस्यार्थः - गृह्णा तीत्यस्यां चोदनायां श्रुत्या ग्रहविधान भातीति राद्धान्तयुक्तिः या, सा गुणश्रवणे नाममात्रश्रवणे वाऽविशिष्टा, तेन बार्हस्पत्येपि समुच्चयः । ?R?0कथं पुनरविशेषं मन्यते यावता आधस्त्य एवाधिकरणे उक्तम् -पृथगेव होमविधानं न मन्त्रविधानमिति । ?R?0तथापि किमित्याह - ?R?0यदि समन्त्रकं स्यात् स्यान्मन्त्रविधिरिति ?R?0भाष्यकारेण मन्त्ररहितहोमविधानात् न मन्त्रविधिमात्रं भवतीति वदता उक्तं विकृतावपि यत्र गुणः श्रूयते तत्र गुणविधिर्भवति । अपि च दध्ना जुहोतीत्येवमादिभिः सहाविशेषो बार्हस्पत्यं गृह्णातीत्यस्य । यथा तत्र होमानुवादेन दधिविधिः तथेहापि ग्रहानुवादेन गुणविधिरेव युक्तः ।
?R अथायमभिप्रायः - तत्र दध्ना जुहोतीत्येवमादौ उपदेशादेव प्रकृतत्वाद्धोमस्य युक्तं गुणविधानं इह पुनः कार्यतः प्राप्तौ सत्यां नानुवादो धात्वर्थस्येति । यावदेव हि कार्यतः प्राप्तिमाश्रित्य गुणविधिर्न शक्यते दर्शयितुं तस्य जघन्यत्वादिति । तदयुक्तम् । एकादश प्रयाजान्
यजतीति का कथा । तत्रापि तर्हि यागविधिरेव स्यान्न सङ्ख्याविधिः । इष्यते च सङ्ख्याविधिः । कथं वा सोमरसो ग्राह्यः यदि कार्यतः प्राप्तिमाश्रित्योपदेशवर्णना नास्ति तदा कथं सोमरसो वैकृतेषु ग्रहेषु गृह्यते । तस्मान्नातीव विशेषो लक्ष्यते उपदेशकार्यतः प्राप्त्योः ।
?R एवं तावत् बार्हस्पत्ये समुच्चयानुपपत्तिः यत्रापि शुक्रं गृहणातीति सगुणश्रवणं तत्रापि नामश्रवणं नोपपद्यत इत्याह - ?R?0शब्दस्य च ग्रहलक्षाणार्थत्वं न शक्यतेऽपह्नेतुम् । ?R?0ग्रहशब्देन प्राकृतं ग्रहकार्यं लक्षयित्वा ग्रहान्तरविधिर्युक्तः क्लृप्तकार्य विषयत्वाद्वैकृतानामुपदेशानां प्रकृतितोऽप्यर्थवत्ता भवति । प्रकृतौ हि ग्रहशब्दः प्रबृत्तिविशेषकरो न भवति । इह तु लक्षण (के)त्वेन
?Rप्रवृत्तिविशेषकरत्वेनार्थवान् भवति । प्रकृतौ हि अर्थासम्भवात् किं क्रियताम् । इह पुनः सम्भवत्यर्थे नानर्थको ग्रहशब्दो युक्त इति पूर्वपक्ष एव श्रेयानिति ब्रुवते ।
?R ?R?0अत्राभिधीयते - गृह्णात्यर्थाविशेषात् ग्रहशब्दस्य केयमर्थान्तरकल्पना । ?R?0अस्यार्थः - यथा प्रकृतावैन्दर्वायवं गृह्णातीति गृह्णातिः ग्रहणं ब्रूते तथा विकृतावपि । (त) यथा ग्रहणं ग्रह इति व्युत्पत्त्या प्रकृतौ ग्रहशब्दो मुख्यार्थः तथेहापि युक्तः न पुनर्यथा ग्रहशब्दो ग्रहणमात्रं ब्रूते तथा कार्यमित्याह - ?R?0प्रयोजनं हि ग्रहकार्यं ग्रहशब्दस्य नाभिधेयं?R?0 ग्रहकार्ये लक्ष्यमाणे ग्रहशब्दोऽर्थवान् भवतीति प्रयोजनं ग्रहकार्यं ग्रहशब्दस्य नाभिधेयम् । अभिध्यं तु ग्रहणमेव । तस्मिन् विद्यमाने न लक्षणाप्रमाणमस्ति । अभिधेयार्थापरित्यागेन च कार्यं सर्वे शब्दा लक्षयितुं क्षमाः न परित्यज्यभिंधेयार्थमनर्थका लक्षयेयुः । अत्रापि चायं गृह्णाति ;?R श्रूयते । अभिन्नार्थश्चायं गृह्णातिना ग्रहशब्दः प्रकृतिवत् । न चायं (किं चायं) गृह्णातिः यदि कार्यलक्षणार्थस्तदा ग्रहशब्दोऽपि । अथ तु विधेयार्थः सः तदा सग्रहशब्दक एव विधेयार्थः न तु ग्रहशब्दं परित्यज्य । नामयोगाच्च वश्यं शुक्रादिषु गृह्णातिरपूर्वो विधातव्यः । उक्तं द्वितीये - संज्ञा शास्रं भिनत्तीति । न च विधेयाद्भिन्नादृते शास्रभेदः सम्भवति, अनुबन्धस्य शास्रभेदहेतुत्वादिति सिद्धं गृह्णातिविधानम् । ग्रहशब्दश्च तत्समानाधिकरणो न कार्यलक्षणार्थः । किन्तु मुख्यवृत्तिरेव । पूर्वपक्ष्याह -?R?0 युक्तं सामसु, बर्हस्पत्ये तु का कथा ?R?0तत्र गुणविधानमेव युक्तमित्यर्थः । सौवर्णरजताभ्यामिति प्राकृतयोर्भेदोऽध्वर्योरभावात् युक्तः गुणविधिपरिहार इति मन्यते । यदि द्वौ स्यातां तत्र सौवर्णराजतमिति विधिः स्यात् यथा वार्त्तघ्नी पौर्णमास्यामनूच्येते इति । न च प्रकृतौ द्वौ स्त इति । तदयुक्तम् । अंश्वदाभ्ययोर्विद्यमानत्वात् अश्वदाभ्यौस्तः तत्र गुणविधिः सम्भवतीति । राद्धान्ती त्वाह ?R?0महिमानावित्यनेनैकवाक्यत्वात्परिहारः केवलं बार्हस्पत्ये परिहारो वक्तव्यः सोऽयमभिधीयते । ?R?0दध्ना जुहोतीति धात्वर्थविधानं गुणानुरक्तमिष्टम् । न केवलं गुणविधानं क्रियाविषयत्वान्नियोगानाम् । यदि
?Rहोमविधानं तर्हि अग्निहोत्रहोमाद्धोमान्तरं स्यादित्यत्राह - ?R?0अनुरज्यमानं तु स्वरूपत एवोपदिष्टमस्त्विति क्रियान्तरविधानम् । ?R?0प्रकृते हि जुहोतिस्तस्मिन् वर्तते । अत एव गुणानुरक्तो विधेयः तद्रूपस्य तस्य विहितत्वादिति न होमान्तरविधानम् ।
?R नन्वत्राप्यवं भवत्वित्यत्राह - ?R?0उपदेशश्चोपदेशमुपोद्बलयति ?R?0 तद्बुद्धिहेतुत्वान्नातिदेशः उपदेशेन सन्निहिते होमे पुनरुपदेशान्तरे जुहोतिः श्रूयमाणः तत्रैव बुद्धिं जनयतीत्युपदेशान्तरसहायो भवति । पुनरतिदेशः ?R?0कार्यनिष्ठत्बात् ?R?0कार्यप्रधानत्वात् भवतु कार्यः तथापि किमित्याह - ?R?0न कार्य कर्मणि बुद्धिमुत्पादयितुं क्षमम् अतत्स्वाभाव्यात् । ?R?0अस्यार्थः - अतिदेशेन प्राप्तं तावत् करणापकारलक्षणं कार्यम् न प्राकृतकर्मविशेषे बुद्धिं जनयितुं क्षमम् । अकर्मस्वभावत्वात् । एतदुक्तं भवति - विकृतिषु श्रुतमाख्यातं, तेन कार्यबलेन पदार्था उपतिष्ठमाना न प्रत्येकं भेदेनोपतिष्ठन्ते इति नाख्यातं विशेषेऽबस्थापयितुं शक्तुवन्ति ।
?R नन्वेवमपि प्राकृते पदार्थे विद्यमाने किमिति पदार्थान्तरमभ्युपगम्यते तेन गुणविधिरेव युक्तः न कर्मान्तरविधिः । दघ्ना जुहोतीत्यत्रापि प्रकृताभिधाने अयमेव हेतुः सन्निहिते होमे कर्मान्तरकल्पना नोपपद्यत इति यो मन्यते तत्राह - ?R?0न च कल्पनानिरोधो दन्धा जुहोतीत्येकाभिधेयता अग्निहोत्रं जुहोतीत्यनेन । किं?R?0 तर्हि तद्बुद्ध्यैव । न चात्र तद्बुद्धिरस्ति कारणाभावात्
?R यदि कल्पनाविरोधो न भवति युक्तिः किमिति तत्र भाष्यकार एवमाह “?Rक्लृप्ते न कल्पनोपपद्यत”?R इति अत्राह - ?R?0यत्पुनः कल्पनेति काचिद्वचोव्यक्तिः सा नियोगविषयेति मन्तव्यम् । ?R?0क्लृप्तेऽधिकारनियोगे नियोगन्तरकल्पना न युक्तेति तत्रार्थः । ?R?0इह च गुणादिति समुच्चयः क्रतुपशुभिस्सह प्राजापत्यानाम् । लिङ्गमुक्तम् ।
?R?0 ॥ 4 ॥ आमने लिङ्गदर्शनात् ॥ 7 ॥
?R?0 अत्र सङ्ख्या प्रकृतिलिङ्गत्वे नोपपद्यत इति मन्वानो मन्त्रविधानाच्चो
?R?0पदेशोपपत्तिं अनूयाजानां निवृत्तिं मन्यते । ?R?0अस्यार्थः - आमनमस्यामनस्य देवा ये सजाता इति तिस्र आहुतीरिति तिस्रः शब्देन त्रयाणामनूयाजानां कार्यं लक्षयित्वा मन्त्रविशेषवत्य आहुतयो विधीयन्ते तेनानूयाजानां निवृत्तिरिति पूर्वपक्षः । अथवा मन्त्र एवानूयाजाहुतिषु विधीयत इति प्राकृतमन्त्रवत्तया अनूयाजानां निवृत्तिरिति ।
?R ?R?0राद्धान्तस्तु - न तावत् सङ्ख्यानूयाजकार्यं त्रिशब्देन लक्ष्येत सङ्ग्या मात्रवचनस्त्वयं त्रिशब्दः । (?R?0तिसङ्ख्या) नामाहुतीनां … लौकिकस्य कर्मण उपपद्यत इति न त्रिशब्देनानूयाजानामेवोपादानमिति न तत्कार्ये होमान्तर विधानम् ।
?R ननु न लौकिके त्रिशब्दो वर्तते यस्मात् प्रकरणसम्बन्धे त्रिशब्दो वर्तत इति चेत् तदाह - ?R?0प्रकरणादवच्छेद इति चेत् । ?R?0उत्तरं - ?R?0विधेयेऽपि तुल्यं प्रकरणं यतः ।?R?0 श्रत्र भाष्यम् - लिङ्गं त्विदं प्राप्तिरुच्यतां’?R इति । तदाक्षिपति - ?R?0एवमुक्तेन न्यायेन त्रिशब्दस्य प्रकृतिलिङ्गत्वे निरस्ते” ?R?0लिङ्गं त्विदं प्राप्तिर्वक्तव्या”?R इति वदतः ?R?0कोऽभिप्रायः ??R?0 एकग्रन्थेनाह - ?R?0ननु ?R?0प्रकृतिलिङ्गासंयोगादुक्तैव प्राप्तिः । उक्तायां च पुनः प्रश्नो
नोपपद्यते । समाधत्ते - ?R?0अयमभिप्रायः ?R?0किमिति सङ्ख्यावन्तमनृद्य गुणो विधातुं न शक्यते । एकग्रन्थेनाह न नाम सङ्ख्या कार्यं लक्षयति । सङ्ख्यावन्त एव हि त्रिशब्दात् प्रतीयन्ते न सङ्ख्यावतां कार्यम् यज्जुहोति तदामनमस्यामनस्य देवा इत्यनेन मन्त्रेणेति । तेनानूयाजेष्वेव मन्त्रमात्रविधानात् न समुच्चय इत्युच्यते भाष्यकारेणेति सम्बन्धः ।
?R ?R?0परिहारस्तु गृह्णातिवज्जुहोतेः श्रुत्यर्थत्वाद्विधानमित्युक्तम् ।?R?0 यथा बार्हस्पत्यं गृह्णातीति श्रुत्या ग्रहणविधानं तथेहापि होमविधा मेव न मन्त्रबिवानमिति परिहारः । ?R?0वाजपेयवच्च वाक्यभेदः सङ्ख्यामन्त्रयोर्विधानात् । ?R?0यदि तु त्रिशब्दार्थो न विधीयेत किन्तु आहुतीर्विशिनेष्टि तदा विशिष्टानुवादलक्षणो वाक्यभेदः । तस्मात् कर्मान्तराण्येवैतानि ।
?R एवं च सति यदा कर्मान्तरविधानं तदा
?Rविधीयमानकर्मान्तरभेदापादकतयापि सङ्ख्या समर्थितैवेति । ?R?0समुच्चयलिङ्गमुक्तम् ।
?R?0 ॥ 5 ॥ उपगेषु शरवत्स्यात् प्रकृतिलिङ्गसंयोगात् ॥ 8 ॥
?R?0 ?R?0अत्र भाष्यकारः पत्नीभिरुपगायन्तीभिः ऋत्विजो निवर्त्यन्ते नेति चिन्तयति तद्यथाश्रुतमिति मन्वानो न्याय्यं सन्देहमाह - ?R?0प्राकृतमुपगानं विक्रियते नेति चिन्त्यत इति । ?R?0कथं पुनर्यथाश्रुतमयुक्तम् ? ?Rउच्यते । यदि हि प्राकृते उपगाने पत्नीमात्रविधिमाश्रित्य पूर्वपक्षो भवेत् अपूर्वोपगानेन च राद्धान्तः तदा युक्तो यथाश्रुतस्सन्देहः । यदातु (अपमेव) पूर्वमेव गानापचयकरं गानमाश्रित्य पूर्वपक्षितं तदङ्गीकारेणैव च राद्धान्तितं तदा निबन्घनोक्त एव सन्देहो युक्तः । भाष्यवाक्यानि उपगानविवृत्तावपि ऋत्विजां निवृत्तिरस्तीत्यनेनैवाभिप्रायेण वर्णनीयानि ।
?R ?R?0कथं पुनरुपगानं विक्रियते कथं वा न ??R ?R?0उत्तरं - ?R?0यदि प्रकृति- लिङ्गसयोगोऽस्ति तदा विकारः अथ नास्ति तदा समुच्चथः । कथं प्रकृतिलिङ्गसंयोगो भवति कथं वा न सम्भवति । ?R?0उत्तरं - ?R?0यद्यत्रापि प्रकृतिगानस्यैव शारीरस्य उपार्थ उपचथश्चोद्यते तदा प्रकृतिलिङ्गसंयोगः अवयवो ह्युपचयकार्थे वर्तत इति युक्तम् ।?R?0 अथापि गृह्णा - तिवन्न विकृतौ केवलो पार्थविधानं सम्भवतीति उपार्थविशिष्टधात्वर्थविधानेऽपि तुल्यकार्यत्वान्निवृत्तिः प्राकृतस्योपगानस्य । यद्यपि गानोपचयकरि गानान्तरं विधीयते तथापि तुल्यकार्यत्वात् प्राकृतमुपगानं निवर्तत इति यथ पूर्वप्रकाशदानविधावपि प्राकृतदाननिवृत्तिः । ?R?0कथं पुनः तुल्यकार्यत्वं ??R ?R?0उत्तरं - ?R?0उपान्वयात् । उपशब्दो हि उपचयकारितां द्योतयति । ?R?0ननूपशब्दोऽनर्थको दृष्टः यथा गमनमेवापगमनं तद्वदत्रकिमिति न भवतीत्यत्राह - ?R?0न ह्यर्थे सम्भवत्यानर्थक्यं शक्यते कल्पयितुमित्युभयथा उपार्थविधौ धात्वर्थविधौ च प्राकृतं निवर्तयति । ?R?0यदि पुनर्वादित्रस्योपगानं वादित्रमेवोपगानमिति तदा प्रकृतिलिङ्गासंयोगात् समुच्चयः । यस्मादेतस्मिन्नुभयविधेपि पक्षे वादित्रोपचयः कार्यं
?Rन सामगानोपचयः । ?R?0यद्येवं यद्युभथापि समुच्चयः तदा राद्धान्ते धात्वर्थोरन्यासतन्त्रेपि गानशब्दो दृश्यते इत्येतदेव वक्तव्यम् । तावतैव राद्धन्तसिद्धेः यदा हि क्वोपयुज्येत । ?R?0भाष्यकारः किमिति धात्वर्थविधानमाहेत्यर्थः । धात्वर्थविधानेपि हि प्रकृतिलिङ्गसंयोग उक्त एव । तस्माद्वादित्रगानेपि गानशब्दो वर्तत इति तदैव चोदकानुग्रहाय वैकृते वादित्रे उपचयः कार्यमिति शब्दाविरोधेनाङ्गीक्रियत इति ।
?R समाधत्ते - ?R?0अस्त्यत्राभिप्रायः यदि केवलोपसर्गार्थश्चोद्यते तदा न प्राकृताद्गानात् अन्यच्छक्यते वक्तुम् । ?R?0अस्यार्थः - वादित्रमेव गानमित्युक्तं तन्न सिद्ध्यति यद्युपसर्गार्थः केवलो विधीयते । तदा श्रौ(तगान) विधानमित्युत्त्के वाक्येन प्राकृत एवोपगानोपचयः (कृतः) इहापि तथैव मा प्रसाङ्क्षीत् इत्याघाटलिकादिविधिः । धात्वर्थविधाने पुनः कार्यान्तरेणाप्युपार्थान्वयः सम्भवतीति नावश्यं प्राकृतमेव कार्यं गानोपचयकारि । धात्वर्थे विधीयमाने उपचयः कार्यभूत आश्रयणीयः । न च स प्राकृत एव, दिक्षु दुन्दुभयो नदन्ति इत्यत्रापि उपचयस्य कार्यस्य सम्भवात् । स एव चोदकानुग्रहायाश्रीयते । तदिदमुक्तं वादित्रस्योपगानमिति ।
?R कथं तर्हि उपसर्गार्थविधानेपि राद्धान्तो दर्शित इत्यत्राह - ?R?0अथाति प्रकृतत्वाद्वादित्रस्य तस्यापि गानशब्दवाच्यत्वात् वादित्र एवोपचये ?R?0उपगायतिर्वर्तते तदा वादित्रस्य उपार्थविधानेप्येतत्सिद्ध्यति वादित्रोपगानमिति । तस्मात् सर्व सूक्तम् । पूर्वपक्षोत्तरपक्षावपि विषयाभिधानेनैवोपवर्णितावित्युपरम्यते । तत्र शारीरमेव गानं न वादित्रमिति पूर्वःपक्षः । न हि वादयन् गायतीत्युच्यते ।
?R ?R?0राद्धान्तस्तु वादित्रमपि गानमुच्यते, स्वरविशिष्टाभिव्यक्तिर्हि गानं सा च वादित्रेऽपि विद्यते तदपि गानमिति ।
?R?0 ॥ 6 ॥ संस्कारे चान्यसंयोगात् ॥ 10 ॥
?R?0 अत्र अञ्जत इत्युपदेशार्थत्वात् तुल्यं कार्यं मन्वानस्य पूर्वःपक्षः । ?R?0गौग्गुलवेन प्रातस्सवनेऽञ्जते इत्यञ्जनस्येह लेपनमात्रमेव कार्यम् । नवनीतस्यापि लेनमेव कार्यमिति मन्वानः पूर्वपक्षी नवनीतस्य निवृत्तिमाह ।
?R ननु दीक्षाकाले नवनीतेनाभ्यञ्जनं सुत्याकाले च गौग्गुलवं कषायाञ्जनं इति कथं तस्य तेन निवृत्तिरित्यत्राह - ?R?0तुल्यकार्यत्वे च न कालान्यत्वमुपघाते हेतुः ?R?0कालान्यत्त्वं नावनीवस्यघोपकघाते हेतुः प्रयाजवत् । यथा कालान्तरीयैरपि पाशुकैः प्रयाजैः कृते कार्ये पौरोडाशिकप्रयाजनिवृत्तिः तथेहापीत्यभिप्रायः ।
?R ?R?0राद्धान्तस्तु नोपदेशार्थ एव प्रकृतौ कार्यं नावनीतस्पाभ्यञ्जनस्य । किं तर्हि वैशद्यमङ्गानां स्नेहनेन नवनीतेन कृतम् । ?R?0इह गौग्गुलवे कषाये स्नेहनं कार्यं नास्तीति कार्यान्तरकल्पना । तच्च कार्यं दृष्टमदृष्टं वा यथार्थं अर्थस्वरूपानतिक्रमेण कल्पनीयम् । अतः कालान्तरात्समुच्चयः न तु कार्यन्यत्वमेव समुच्चयहेतुः ।
?R ?R?0किमिदं कालान्यत्वात्समुच्चय इत्युच्यते । समाधत्ते - एककालीनानां हि कार्यभेदेऽपि कालान्तराभावात् भवति बाध इति प्रदर्शितं भवति ।?R?0 भिन्नकार्ये अपि नवनीताञ्जनगौग्गुलवाञ्चने वैशद्यविरूक्षकरणे समानकाले विरूध्येते इति वा एतत् त्यादिति दर्शयित्तुं कालभेद उक्तः । नवनीताञ्जने स्थिते गौग्गुलवाञ्जनं पश्चात् विरूक्षीकरणमिति ।
?R?0॥ 7 ॥ आच्छादने त्वैकार्थ्यात् प्राकृतस्य विकारः स्यात् ॥ 13 ॥
?R?0 अत्र कौपीनाच्छादनार्थेन वाससो दृष्टार्थत्वात् बाधं मन्यते पूर्व- पक्षवादी । ?R?0तार्प्यादिभिः कौपीनस्य गुह्यदेशाच्छादितत्वात् अहतं वासो निवर्तते । दृष्टं चैतत् । इदमेव कार्यं वाससोऽपि कौपीनाच्छादनमिति राद्धान्तवादी मन्यते ।
?R उक्तं वैकृतमन्त्रोपदेशे षडभिर्दिक्षयतीत्यत्र नाभ्यासोमन्त्राणाम् उपदेशार्थ वत्त्वाय हि ते क्रियन्ते । कार्यप्रयुक्तत्वेन कार्यमस्तीत्येतावता न क्रियन्ते । किन्तु
?Rउपदेशभ्यार्थवत्त्वायेति । एवमत्राप्यपदेशस्यार्थवत्ता करणीया उपदेशतः प्राप्तेः स्वार्थादीनाम् । परिधानं चोपदेशार्थः ।
?R ?R?0॥ 8 ॥ सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत ॥ 16 ॥
?R?0 सामान्तराणिं मिवर्तन्त इति । कोऽभिप्रायोऽस्याश्चिन्तायाः??R यावता युक्तैव निवृत्तिः स्तुतौ साधनान्तरविधानेन साधनान्तरस्य । ?R?0उत्तरं - ?R?0नात्र किञ्चित् प्राकृतलिङ्गं श्रूयते येन प्राकृतनिवृत्तिः । स्तुत्यर्थस्यानवगमात् । ?R?0यदि हि स्तुतिमुद्दिश्य सामान्तरविधानं स्यात् स्यात् सामान्तरनिवृत्तिः । न चैतदस्ति । तस्मात् परिसामादावनुच्चारणमात्रं विधीयमानसामान्तराणामदृष्टा येति समु़च्चय एव युक्त इति पूर्वःपक्षः । राद्धन्तस्तु उक्तं तावत्साम्नामविशेषेण संस्कारकत्वम् तेन क्रौञ्चादयोऽपि संस्कारकारका एव । सामान्येन चायंन्यायः - स्वभावतः कार्यसिद्धौ सम्भवन्त्यां पदार्थस्वभावत्यागेन कार्यान्तरकल्पना न युक्तेति । ?R?0एवं चाक्षराभिव्यक्त्या स्तुत्यभिनिर्वृत्या च दृष्टे उपदेशार्थवत्त्वे सम्भवति नादृष्टकल्पना द्रव्याणां सम्भवति । ?R?0अस्यार्थः - साम्नां हि साधनत्वं गुणाभिधानसमर्थाक्षाराभिव्यक्तिद्वारेण । तच्च स्वभावापरित्यागात् दृष्टेनैव व्यापारेण । उच्चारणमात्रेण त्वदृष्टार्थत्वम् । स्वभावपरित्यागेन हि तत्राक्षराभिव्यञ्जकत्वमुपयोगि । तस्मात् स्तुति (रा) श्रीयताम् न पुनरुच्चारणमात्रेणादृष्टम् । ?R?0ननु च कार्यप्रवृत्तिरस्ति । ?R?0अस्यार्थः - यद्यपि साम्नामुपदेशस्तथापि कार्यतोऽपि सामान्तराणां प्राप्तत्वात् तैस्सह समुच्चय एव न्याय्यः । ?R?0न बाधः । उत्तरं बाढमस्ति कार्यात् प्राप्तिः । ?R?0सा तु कार्यसिद्धावसत्याम् । इह तु उपदेशत एव सिद्धं कार्यमिति प्रति (निवृत्तितं) विवर्तितं विधेस्तं प्रति प्रयोजकत्वम् । तस्माद्बाधो युक्तः । अयं च सर्वत्र न्यायो द्वष्टव्यः प्राकृतपदार्थप्रयुक्तिबाधेन वैकृतं तत्कार्ये साधानान्तरं विधीयत इति ।
?R नन्वेवं तर्हि परिसामस्वपि स्तुतिरेव स्यात् इत्यत्राह - ?R?0परिसामसु पुनरुप
?R?0देशान्तरे विधानात् दृष्टं न सम्भवतीत्यदृष्टमेव कार्यमिति युक्तं ?R?0उपदेशान्तरे कार्ये स्तुतेरन्यस्मिन् कार्यान्तरे वचनेनैव विधानात् युक्तं परिसाम्नामदृष्टं कार्यम् । यदस्माभिरुक्तं तदिदमुक्तं देवदत्तवद्यज्ञदत्तस्तैलेनेति । कथमनेनैतदुक्तमित्यत्राह ?R?0स्वभावापरित्यागेन?R?0 तैलं ?R?0स्नेहररूपं न कार्यान्तरे वर्तत इत्यर्थोऽस्य तैलदृष्टान्तस्य । ?R?0तथापि स्वभावापरित्यागेनापि उपदेशे सिद्धे सर्वेषां भाष्यकारीये सन्देहे कारणसन्देहमाह - ?R?0अत्रेदीनीं स्थिते सामान्तम्बाधकत्वे चिन्त्यते ।?R?0 किं कार्यविशेषाज्ञानात् स्तुतिमात्रकार्यविज्ञानात् (सर्वकार्य) प्राकृतसामकार्यार्थत्वात्
वैकृतानां साम्नामुपदेशस्य उपदेशार्थनिवृत्तिमात्रमेवानुष्ठानेनोपदेशार्थः स्वीकृतो भवति तावदेवानुष्ठानं कार्यमिति ।
?R ?R?0ननु चायमस्मदुक्तोऽर्थः उपदेशार्थनिर्वृत्तिमात्रमेवानुष्ठानमिति किं चिन्त्यते निर्णीतत्वात् ।
?R?0 ?R?0परिहरति - ?R?0सत्यमुक्तम् कार्यविशेषानवगमादुपदेशमात्रमेवाप्रतिपन्नं मन्यते । ?R?0यथा षडीनर्दीक्षयतीत्यादौ कार्यविशेषो ज्ञातः तथेह कार्यविशेषज्ञानं नास्ति तेनोपदेशार्थ एव न प्रतिपन्नः । तेन सामान्युपदिष्टानि तावतां प्रयोगे यत्कार्थं तदेतदेव तत्कार्यं न कार्यत उपदेशनिर्णयः परिवासस्यप्युपपद्यत इति न कार्यार्थं कार्यतः प्राप्तमहतं वासो न विहन्ति कौपीनाच्छादनादन्यद् दृष्टमपि कार्यं सम्भवति । परिधानस्य सम्भवादुपरिवासस्यपि । उपदेशे हि शब्दार्थानुष्ठानं ततःकार्यम् । न कार्यतोऽनुष्ठानं यथा कार्यतः प्रवृत्तानां कार्यतोऽनुष्ठानं न तथा साक्षादुपदिष्टानां, किन्तु तेषां कार्यं कल्प्यम् । न च शब्दार्थविशिष्टस्य दधात्यर्थस्य कौपीनाच्छादनेनैव कार्यम् कार्यान्तरस्याप्युपरिवाससि दर्शनात् । तेनानैकान्तिकत्वात् न कार्यविशेषावधारणम् । ?R?0दर्शनमुक्तम् । ?R?0अदृष्टार्थे हि नोपरिवाससापि सह समुच्चय इति वासांसीति बहुवचनं लिङ्गम् ।
?R ?R?0॥ 8 ॥ सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत ॥ 16 ॥
?R?0 अत्र कालविघानमेव मन्वानो न शक्नोति पूर्वपक्षयितुम् । विकृतौ भावार्थविधानात् । दर्शनग्रहाधिकरणवदप्रतिपक्षत्वाच्च भावार्थविधानस्येत्युक्तम् । ?R?0अनेकगुणश्रवणाच्चेत्यपि द्रष्टव्यम् । अतः स्तुत्यन्तरमेवेदं सामविशिष्टं विधीयते दानवद्दानान्तरकार्ये, स्तुतिरपि स्तुत्यन्तरकार्ये वर्तत इति पूर्वपक्षयति - ?R?0समानजातीयत्वात् स्तुत्यन्तरकार्ये वर्तत इति शक्यते वक्तुमिति प्राकुतस्तुतिनिवृत्तिः
?R?0 राद्धान्तस्तु स्यादेतदेवं यदि गुणमात्रविधिः स्यात् क्रौञ्चादिवत् इह तु विशिष्टविधानम् । ?R?0 अन्यथा यदि विशिष्टविधानं नाश्रीयते तदा यथाश्रुतान्वयानुपपत्तिः देशविशिष्टस्याप्यन्वयावगमात् । ततः किं ??R यदि विशिष्टविधानं न स्तुत्यन्तरकार्ये वर्तत इतिक शक्यते वक्तुं अदृष्टार्थत्वात् स्तुतीनाम् । दानेन दृष्टार्थ तया युक्तो दानान्तरेण वैकृतेन प्राकृतदानप्रत्याम्नायः ।
?R ?R?0ननु च भाष्यकारेण साम्नां निवृत्तिरित्युक्तं न स्तुत्यन्तरेण स्तुतीनां निवृत्तिरित्युक्तम् । अतो भाष्यविरोधः । उत्तरं फलतस्तद्व (चनम्) ।
?R?0॥ अत्र पातः ॥
?R?0॥ द्वादशाध्यायस्य प्रथमः पादः ॥
?R?0 ?R?0अत्र भाष्यकारः फलमाह - एकादशाध्याये तन्त्रावापलक्षणं व्याख्यातम् । अधुना द्वादशे प्रसङ्गलक्षणं व्याख्यास्यामः तच्चैतद्वृत्तवर्तिप्यमाणानुकीर्तनं सम्बन्धकथनार्थम् । तत्र पृच्छति - ?R?0कःपुनरनयोर्लक्षणयोः सम्बन्धः यत्कथनार्थंइदं भाष्यमिति । ?R?0पृच्छतश्चायमाशयः तन्त्रेऽपि सकृदनुष्ठानं प्रसङ्गेऽपि । तदनयोर्न हेतु हेतुमद्भावस्सम्भवति । न च सम्बन्धान्तरस्य शङ्कापि युक्तेति । उत्तरं
-?R?0 हेतुहेतु - मद्भावकृत एव सम्बन्ध इति । ?R?0कुत इत्याह - ?R?0स्थिते ह्येकप्रयोगवचनादभिन्नाकाशकालकतृत्वे तन्त्रमनुष्ठानमगृह्यमाणविशेपत्वादिति
?R?0इदानीं गृह्यमाणे विशेषे अन्यतोऽपि प्रयोगसिद्धेः देशकालकर्तृत्वाभेदे किं तन्त्रमेवाष्ठानं उत भेदेनेति चिन्त्यते । ?R?0अस्यार्थः - दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येकस्मात् प्रयोगवचनात् प्रयोगविधिशेषभूतानां देशकालकर्तृणामभेदे स्थिते प्रयाजादीनामङ्गानां तन्त्रमनुष्ठानमिति यत् तदगुह्यमाणविशेषत्वात् न प्रयाजाद्यनुष्ठानस्य विशेषे गृह्यते अस्य प्रधानस्येदं नास्येति ।
?R एतदुक्तं भवति – यद्येकः प्रयोगवचनो न स्यात् तदा प्रयोगचोदनाशेषभूता देशकालकर्तारोऽपि भेदेन सम्बध्येरन् सौर्यार्यमणप्राजाप्तयेष्विव ; ?Rयदा त्वेक एव प्रयोगवचनः तदा देशत्वं देशस्य कालत्वं कालस्य कर्तृत्वं कर्तुर्न भिद्यते । ततश्च प्रयोगानुबन्धभूतानां तेषां भेदादेक एव प्रयोगो गृह्यमाणविशेषत्वादिति ।
?R?0 इदानीं पश्वर्थमनुष्ठानं न पुरोडाशर्थमिति गृह्यमाणेपि विशेषे अन्यतोऽपि प्रयोगसिद्धेः अनुष्ठानस्यागृह्यमाणविशेषत्वात् देशकालकर्तृत्वाभेदसाधकादन्यतः तन्त्रमध्यविधानादेकप्रयोगसिद्धेः देशकालकर्तृत्वाभेदेपि किं तन्त्रमेव सकृदेवानुष्ठानं प्रयाजादेः उत भेदेनेति चिन्त्यते ?R?0यतः ततो हेतुहेतुमद्भावोऽस्तीति । एतश्च ग्रहणवाक्यम् ।
?R एतदेव चोद्यपरिहारद्वारेण विवरीतुं चोदयति - ?R?0कःपुनरत्र पूर्वस्य हेत्वर्थः । हेतुर्हि भवन् कञ्चिदर्थमुपकुर्वन् हेतुर्भवति । ?R?0अत्र पूर्वस्य को हेत्वर्थः । एकदेश्याह - ?R?0एकदेशकालकर्तृत्वसिद्धिः । ?R?0देशकालकर्तृणामेकता पूर्वध्याये सिद्ध्यति । भवत्वेवं तथापि केन हेत्वर्थतेत्यत्राह -?R?0 तस्यां हि सत्यां गृह्यमाणे विशेषे सकृदनुष्ठानम् ।
?R?0 ?R?0यद्यपि क्रम(सङ्ख्या) (समाख्या ??R) अप्यविशेषेण गृहान्ते विशेष (त)ः पाशुकमिदमननुष्ठानमिति तथापि देशकालकर्त्रेकतया सकृदनुष्ठानम् । नन्वेवमपि कथं पूर्वस्य हेतुत्वमित्यत्राह - ?R?0सा चैकप्रयोगवचनतया साधिताऽधस्तात् ।
?R?0 ?R?0आक्षेप्ताऽह - ?R?0नन्वत्रापि तुल्यम् । ?R?0अस्यार्थः - यदिदं एकप्रयोगवचनतया देशादीनामेकत्वसाधनं तत्तुल्यमत्रापि । ज्योतिष्टोम एव प्रयोगः पशोः पुरोडाशस्य
?Rच ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यनेन प्रधानस्याङ्गनां च प्रयोगा उच्यत इति । उपदेशात् ज्योतिष्टोमाङ्गस्य पशुपुरोडाशस्य च पश्वङ्गस्यैकः प्रयोगवचनः । ?R?0पाशुक एव वा पुरोडाशस्य तदङ्गत्वात् । ?R?0यद्वा पाशुक एव प्रयोगवचनः अग्नीषोमीयं पशुमालभत इति पुरोडाशस्थप्रयोगं वक्ति । पुरोडाशस्य पश्वङ्गत्वात् साङ्गस्य च प्रधानस्य चोदनायैव प्रयुक्तोऽयं इति चोदयति - ?R?0स एव तदह्गमपीति । ?R?0यत एवमेकप्रयोगवचनताऽत्रापि तन्निवन्धनश्च देशादीनामभेदः तन्निबन्धनं च सकृदनुष्ठानं अतः तन्त्रप्रसङ्गयोः भेद एव दुर्लभः हेतुहेतुमद्भावस्तु दूरत एव नास्तीत्याह ?R?0तस्मान्नानयोर्हेतुहेतुमद्भाबस्सम्भवति ।
?R?0 ?R?0इदानीमाक्षेप्ता तन्त्रप्रसङ्गयोः भेदमाशङ्कते - ?R?0अथात्राङ्गप्राप्तिर्भिन्ननियोगलभ्या प्रसङ्गे । तन्त्रे तु पुनरेकनियोगलभ्या इति भेदः । ?R?0किं तौ पशुनियोग पुरोडाशनियोगावतिदेशतः प्रापयतः प्रसङ्गे, तन्त्रे पुनरेक एव दर्शपूर्णंमासाधिकारनियोगः प्रयाजादिकमङ्गजातं प्रति करणं प्रापयति । तेनैकनियोगप्रापितानां सकृदनुष्ठानं तन्त्रम् । भिन्ननियोगप्रापितानां तु प्रसङ्ग इति विशेषः । निराकरोति - ?R?0अयमपि विशेषो नैव शक्यते वक्तुं यस्मात् ज्योतिष्टोंमनियोगलभ्यैवेयमुभयोरितिकर्तव्यता । ?R?0अस्यार्थः - यद्यपि प्रापकभेदः तथापि प्रयोजकभेदस्तावन्नास्ति । प्रसङ्गेपि ज्योतिष्टोमनियोगस्य यत्तन्त्रं प्रयुक्तिः तल्लभ्यैव तत्प्रयोज्यैवोभयोः पशुपुरोडाशयोरितिकर्तव्यता । प्रयोजकविशेषनिबन्धनश्चानुष्ठानविशेषो न्याय्यः तदधीनत्वात्तस्य। तन्त्रप्रसङ्गौ च अनुष्ठानस्य विशेषौ । तेनोभयत्रापि प्रयोजकविशेषाभावान्नानुष्ठानविशेषो युक्तः । एवमेव चायं ग्रन्थो व्याख्येयः । न ज्योतिष्टोमस्य प्रापकत्वमाश्रित्य कृत्स्नविधानाधिकरणे तस्य प्रापकत्वनिषेधात् । न चानेन प्रसङ्गनतन्त्रयोः विशेषेण हेतुहेतुमद्भावसिद्धिः।
?R पुनरपि तन्त्रप्रसङ्गयोः विशेषमाशङ्कते - ?R?0अथेदमुच्यते गुणादिविकारेपि तुल्यमनुष्ठानमिति प्रसङ्गः । ?R?0यद्यपि वृत्तादिना सङ्ख्यया च एकादशादीकया
?Rविकृताः पदार्थाः तथाप्येकमेवानुष्ठानमित्येवरूपः प्रसङ्गः । विकारे तु तन्त्रमिति किं तन्त्रप्रसङ्गयोर्विशेषः इति । निराकरोति - ?R?0यद्यप्ययं विशेषः तथापि ?R?0हेतुहेतु- ?R?0मद्भावो वक्तव्यः । ?R?0स एवाह - ?R?0कः खलु?R?0 कृतस्य विकारे हेतुभावः ।
?R ननु किमत्र हेतुहेतुमद्भावेनेत्यत्राहं - ?R?0न च हेतुहेतुमद्भावं विना इदं वृत्तं इदं वतिंष्यमाणमिति युक्त वक्तुं ?R?0सम्बन्धान्तरस्य विद्यमानत्वात् । आक्षेप्तैव शङ्कामाह - ?R?0अथङ्गानां सकृदनुष्ठानलक्षणस्सम्बन्ध उच्यते । ?R?0अस्यार्थः - तन्त्रेपि सकृदनुष्ठानं प्रसङ्गेपि । तेन सकृदनुष्ठानरूपतन्त्रप्रसङ्गात् प्रसङ्गश्चिन्तयत इति । तेन प्रासङगिकस्सम्बन्ध इति । निराकरोति - ?R?0तथापि वृत्तग्रहणमकिञ्चित्करम् विपरीतस्यापि प्रसङ्गस्य सम्भवात् प्रसङ्गप्रसङ्गेन तन्त्रमेव कस्मान्नोच्यते ?R?0तेन तन्त्रे वृत्ते प्रसङ्ग इति वृत्तग्रहणमकिञ्चित्करम् । तत्तु एवमुपयोगि स्याद्यदि वृत्त एव तस्मिन्निदं विचार्यते । यावता वर्तिष्यमाणेपि तस्मिन्निदं शक्यमेव चिन्तयितुम् ।
?R दूषणान्तरमाह - ?R?0तद्धेतूपजीवनं चात्र लक्ष्यते ।?R?0 तद्भेतूपजीवनञ्च प्रसङ्गे कृते । कस्यासौ तद्धेतुरित्यत्राह - ?R?0अभिन्नदेशकालकर्तृत्वमिति । ?R?0तन्त्रे प्रसङ्गे च तदेव हेतुरिति समानहेतुकतया परस्परं हेतुहेतुमद्भावो नास्तीत्यभिप्रायः । उपसंहरति - ?R?0तस्माद्वक्तव्योऽत्र हेतुहेतुमद्भावः ।
?R?0 ?R?0समर्थयिता आह - ?R?0अयमभिधीयते । ?R?0हेतुहेतुमद्भावदेशकालकर्तृशास्रार्थाविशेषेण हि तन्त्रे सकृदनुष्ठानात् तन्त्रेण कार्यसिद्धिरुक्ता अनुष्ठानोद्देशविशेषाग्रहणादिति । समे दर्शपूर्णमासाभ्यां यजेत पौर्णमास्यां पौर्णमास्या यजेत दर्शपूर्णमासयोर्यज्ञक्रत्वोः चत्वारऋत्विज इति यानि देशकालकर्तॄणां शास्राणि तेषां योऽर्थः तस्याविशेषेण प्रयाजादीनां सकृदनुष्ठानात् कार्यसिद्धिः तन्त्रमित्यनुष्ठानोद्देशे अनुष्ठाने यद्देशः अस्मा इदमनुष्ठानमिति तस्य विशेषाग्रहणादिति तन्त्रे तन्त्रलक्षणे उक्तम् ।
?R ?R?0इदानीमनुष्ठानोद्देशे विशेषग्रहणेपि देशकालकर्तृशास्रार्थविशेषात्
?R?0अङ्गकार्यस्य किमन्यत्वं भवति नेति संशयः । ?R?0यदि हि अङ्गकार्यस्य भेदो भवति एकस्यार्थेन कृतमङ्गजातं अपरस्योपकर्तुं न शक्नुयात् तदा भेदेनाङ्गानामनुष्ठानं भवति । अथ न भिन्नं कार्यं तदा सकृदनुष्ठानमिति अनुष्ठानभेदाभेदेन कार्यस्य भेदाभेदौ चिन्त्येते ।
?R नन्वेवमपि पूर्वस्य कथं हेतुहेतुमद्भावः इत्यत्राह - ?R?0सत्यं उद्देश्याविशेषेण सर्वार्थमनुष्ठानमिति स्थितम् । कार्याविशेषस्तु कर्त्राद्यभेदनिबन्धन एव इति अनुष्ठानविशेषेण साधितस्तन्त्रे प्रसङ्गे हेतुतां प्रतिपद्यत इति सोऽयं हेतु- हेतुमद्भावः । ?R?0अस्यार्थः - सत्यं तत्रोद्देश्याविशेषेण सर्वार्थमनुष्ठानमिति स्थितम् । कार्याविशेषस्तु यस्तत्र कर्त्राद्यभेदनिबन्धन एव । कर्त्रादीनां हि प्रयोगचोदनाशेषत्वात् सप्त(र्व)पदार्थेष्बभेदेन कर्तृत्वं देशत्वं कालत्वं च शास्रार्थः । तत्र येषां पदार्थानां स्वरूपभेदः तत्र प्रधानभेदादङ्गभूतानां कर्त्रादीनां कर्तृत्वादीकमावर्तते प्रतिप्रधानमावर्तन्ते गुणा इति न्यायात् । ये तु पदार्थाः न स्वरूपतो भिन्नाः तान् प्रति कर्तृत्वादिकं न भिद्यत इति बलात् सकृदेवानुष्ठानम् । अन्यथा हि कर्तृत्वादिकमपि भिद्यते । ततश्च सकृदनुष्ठाने निश्चिते कार्यमप्यङ्गानां तन्त्रमेवेति निश्चीयते अनुष्ठितानां कार्यासाधकत्वात् । प्रतिप्रधानं चाङ्गानां विनियोगादवश्याभ्युपगमनीयत्वात् कार्यस्येति । अत इदमुच्यते - कार्याद्यभेदस्तु कर्त्राद्यभेदनिबन्धन एवेति योऽयं कार्याविशेषस्तन्त्रे तन्त्रलक्षणे अनुष्ठानाविशेषेण साधितः अनुष्ठानोद्देशाविशेषात् कर्त्राद्यभेदः तदभेदादनुष्ठानाभेदः अनुष्ठानाभेदात् कार्याभेद इति मत्वा उक्तमनुष्ठान विशेषेण साधितस्तन्त्रै कार्याविशेष इति ।
?R स चायं कार्याविशेषः अङ्गकार्यं तन्त्रता तन्त्रलक्षणेन साधिता । सति(ती) च प्रसङ्गे परोद्देशानुष्ठितेनापि परोपकारलाभे निश्चेतव्ये हेतुतां प्रतिपद्यत इति सोऽयं हेतुहेतुमद्भावः .
?R तदेष सङ्क्षेपार्थः - पशूद्देशेनानुष्ठितानामप्यङ्गानां यदवान्तकार्यं तत् पशुपुरोडाशयोर्द्वयोरपि साधारणमिति स्थिते अङ्गावान्तरकार्यतन्त्रत्वे तन्त्रलक्षणे
?Rसिद्धे परार्थाष्ठितैरपि पदार्थैः परस्योपकारलक्षणकार्यसिद्धेः उदासीना प्रधानान्तरप्रयुक्तिर्भवतीति प्रसङ्गनिश्चयो जायत इति भवति तन्त्रस्य प्रसङ्गं प्रति हेतुभावः । दृष्टं हि परार्थानुष्ठितस्यापि परं प्रत्युपकारत्वमिति ।
?Rतत्र भवन्ति श्लोकाः -
?R परोद्देशप्रवृत्तानामङ्गानां यत्परान् प्रति ।
?R महोपकारसामथ्य स प्रसङ्ग उदाहृतः ॥ 1 ॥
?R अङ्गावान्तरकार्याणां तन्त्रता तस्य बोधिका ।
?R हेतुता हेतुमत्ता च तेन तन्त्रप्रसङ्गयोः ॥ 2 ॥
?R कर्तृत्वाद्यविशेषेण कर्त्रादीनां प्रसिद्ध्यति ।
?R अनुष्ठानसकृद्भावः तेन कार्यस्य तन्त्रता ॥ 3 ॥
?R अनुष्ठानाविशेषेण तन्त्रे कर्त्राद्यभिन्नता ।
?R तन्त्रमध्यनिपातेन प्रसङ्गे सा च सिद्ध्यति ॥ 4 ॥
?R एकप्रयोगातसिद्धिः तन्त्रमध्यविधानतः ।
?R ऐक्येन च प्रयोगस्य कर्त्रादीनामभिन्नता ॥ 5 ॥
?Rयत एव तन्त्रे अनुष्ठानविशेषाग्रहणात् कार्याविशेषः अत एवात्र पूर्वःपक्षः अनुष्ठाने विशेषाग्रहणात् कार्यविशेषो नास्तीत्येवरूपः । पशूद्देशेन हि क्रियमाणाः प्रयाजादयः पशूपकारानुगुणमेवावान्तरकार्यं कुर्वन्ति इति युक्तम् । तेन पुरोडाशार्थं भेदेनानुष्ठातव्या इति पूर्वः पक्षः ।
?R राद्धान्तस्तु - ?R?0सत्यं अनुष्ठाने विशेषो गृह्यते न पुनः देशकालकर्तॄणां विशेषः तत्कृतश्चायं कार्याविशेषः । ?R?0अस्यार्थः - यद्यप्युद्देशे विशेषो गृह्यते तथापि देशादीनां देशत्वा(न्य)द्यभेदात् सकृदनुष्ठानेन भवितव्यम् । ततश्चाङ्ग- कार्येणापि सकृदेवेत्यङ्गावान्तरतन्त्रता तावद्गम्यते । ततश्च परमोपकारोऽपि तद्द्वारकत्वात् पुरोडाशस्यापि तेन सिद्धयति यथा प्रासादोद्देशेनापि कृतस्य प्रदीपस्य यदवान्तरकार्यं प्रभालक्षणं तस्य साधारणत्वात् गमनकार्यजनकता
?Rराजमार्गेपि भवति । तथेहापि प्रष्टव्यम् ।
?R?0 यद्यनुष्ठानविशेषग्रहणेऽपि कार्याविशेषः किमर्थ तर्हि तन्त्रे अनुष्ठान- विशेषाग्रहणं प्रयत्नेनोच्यते । ?R?0उत्तरं - ?R?0कर्त्राद्यविशेषसिद्धये । ?R?0यत्र ह्यनुष्ठाने विशेषो गृह्यते तत्र कर्त्रादीनां कर्तृत्वादिकं भिद्यते यथा संस्पर्शिषु (संसर्पिषु??R) यथा वा आग्रनेयकृष्णाग्रीवयोः । तेन कर्त्रादीनामभेदसिद्ध्यर्थं विशेषाग्रहणं साध्यते । यदि विशेषाग्रहणे कर्त्रादीनामभेदः इह तर्हि तदभावात् विशेषाग्रहणा भावात् कर्त्राद्यभेदः (न) प्राप्नोति । ततश्च कुतःकार्याविशेषः कुतस्तरां च प्रसङ्गः इति । परिहरति - ?R?0अन्यत - प्रयोगैक्यसिद्धेः न प्राप्नोति कर्त्रादीनां भेदः । अन्यतः तन्त्रमध्य?R?0विदानात् प्रयोगैक्यं पशुपुरोडाशयोः अवगम्यते । एकप्रयोगत्वे च प्रयोगशेषाणां कर्त्रादीनामभेदोऽवगम्यते । अतः अङ्गेषु सिद्धेपि प्रयोगविशेषग्रहणे अन्यतः कर्त्राद्यभेदलाभात् कार्याविशेषात् तन्त्रवत्प्रसङ्गसिद्धिरिति स्थितम् ।
?R तन्त्रेपि सकृदनुष्ठानेनोपकारसिद्धिरेवाभेदानुष्ठानहेतुः इहापि चोक्तेन न्यायेन अस्ति सकृदनुष्ठानेनाप्युपकारसिद्धिरिति युक्तमभेदेनानुष्ठानम् । यत एव कर्त्रादीनामभेदेनानुष्ठानस्यैक्यनिश्चयः ?R?0अत एव पदार्थद्वारकाः क्रमसङ्ख्यादयः न पदार्थकार्यं विहन्तुं क्षमाः तदानुगुण्यात् । ?R?0अस्यार्थः - पूर्वपक्षिणा ह्येतदुक्तम् तिष्ठन्तं पशुं प्रयजति पृषदाज्येनानूयान् यजति एकादश प्रयाजान् यजति इति पशौ प्रयाजादीनां गुणकालविकारविधानात् विकृताः पशोरुपकुर्वन्ति न पुरोडाशानामिति।
?R तत्रेदमुच्यते - यदा तन्त्रमध्यविधानसिद्धैकप्रयोगनिबन्धनकर्त्राद्यभेदबलादायातः कार्याविशेषः पशौ पुरोडाशे च प्रयाजादीना तदा ये पदार्थद्वारकाः क्रमसङ्ख्यादयः ते पदार्थकार्यं साधारणं न विहन्तुं क्षमाः कार्यानुगुणत्वात् गुणविधानस्य । ये हि प्रयोगाद्वाराकाः ते प्रयोगभेदमावहन्तो भवन्त्येव कार्याभेदविघातकाः । या तु सङ्ख्या यच्च द्रव्यं
?Rतन्न प्रयोगद्वारकम् । यःपुनः तिष्ठन्तं पशुं प्रयजतीति कालविधिः स कालस्य वचनान्तरेण सुत्यालक्षणस्य विहितत्वात् क्रममात्रपर एवेति न भेदेनानुष्ठानमापादयितुं क्षमः । अत एव क्रमसङ्ख्यादय इति क्रमग्रहणं कृतमिति हेतोः नानुष्ठानान्तरमावहन्ति क्रमसङ्ख्यादयः ।
?R ?R?0यत्पुनरिदं भाष्यकारेण पदार्थान्तरनिराकृतौ प्रयाजादयः सङ्ख्या- भेदेऽपि न प्राकृतेभ्योऽर्थान्तरभृता इत्यत्र यतितं प्रयाजादिषु । ?R?0यतिः प्रकृत्यन्तरमस्ति न पुनर्यती प्रयत्ने इत्यस्येदं रूपम्, श्वीदित इति इडभावप्रसङ्गात् । तदबुद्धिपूर्वकमिव प्रतिभाति । ?R?0पदार्थान्तरत्वेपि पशावेव तत्कार्यं भविष्यति ?R?0तस्य पदार्थान्तरस्य कार्यं पशावेव भविष्यति पशोरेव तस्य विहितत्वात् सङ्ख्यादी - नामिव ।?R?0 यथा सङ्ख्यादीनां पशावेव कार्यं तस्मात् कर्मान्तरत्वेपि न पुरोडाशे प्रकृतिवत्कार्यविघातः शक्यते वक्तुम् ।?R?0 अस्यार्थः - प्राकृतानां प्रयाजादीनां पश्वर्थंमनुष्ठितानां पुरोडाशे प्रकृतिवत्कार्यविघातो न शक्यते वक्तुं ये प्रयाजादयः प्रकृताः तदभिप्रायेणापि प्रसङ्गो भवत्येवेति किं पदार्थान्तरनिराकरणप्रयत्नेनेति भावः
?R परिहरति - ?R?0सत्यमाह भवान् किन्त्वत्र गुणविकारस्तन्त्रमित्युक्तम् । तत्सिद्ध्यर्थ प्रयाजादीनां स्वरूपवत् कार्यमपि नान्यद्भवितुमर्हति प्राप्ति - सिद्ध्यर्थोऽयं यत्नः ।
?R अस्यार्थः - यद्यपि पदार्थान्तरत्वेपि पृषदाज्येनानूयाजान् यजतीत्येवमादीनां प्रसङ्गश्चिन्तयितुं शक्यते तथापि भाष्यकारेणापि तु गुणविकारस्तन्त्रमित्युक्तम् । गुणेन पृषत्तादिना अनूयाजादीनां विकारो यस्मिन् अङ्गवान्तरोपकारे स गुणविकारस्तन्त्रमित्युक्तम् तस्य तन्त्रत्वसिद्ध्यर्थम् । केन हेतुना तत्सिद्वयर्थत्वं इत्याह - ?R?0स्वरूपवत् कार्यमपि नान्यद्भवितुमर्हति इति । ?R?0यथा स्वरूपं पदार्थस्य तदेवेत्येकरूपतया कार्यस्य तन्त्रतां साधयितुं प्राप्तिसिद्ध्यर्थो अनूयाजादिप्राप्तिप्रतिपादनार्थोऽयं भाष्यकारस्य पदार्थान्तरनिराकरणे यत्नः । कथं
?Rपुनः प्राप्तिसिद्ध्या कार्येक्यसिद्धिरित्यत्राह - ?R?0कार्यविशेषे हि प्राप्तिः यदा प्रकृतिविकृत्योः । अङ्गकार्याविशेषो भवति तदाऽस्तु तावदङ्गानां प्राप्तिर्भवति विकृतिभूतश्च पशुः ।
?R?0॥ एतावत्येव मातृका ॥
?R
]