४,३.१-२
तृतीयपादे प्रथमाधिकरणमारचयति-
जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् ।
वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम् ॥ MJAINY_४,३.१ ॥
क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता ।
विभाति क्रतवे तस्मादर्थवादः फलं भवेत् ॥ MJAINY_४,३.२ ॥
इदमाम्नायते- “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” “यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते” “यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै” इति ।
तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते ।
कुतः ।
पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत् ।
मैवम् ।
फलं हि साध्यं भवति ।
न चात्र साध्यता प्रतिभासते ।
ऽन शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् ।
अतः क्रत्वर्था एते विधवः ।
तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः ।
संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् ।
तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः ॥ MJAINYC_४,३.१-२ ॥
(द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्-)
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् । JAIM_४,३.४ ।
४,३.३-४
द्वितीयाधिकरणमारचयति-
मृन्मये प्रणयेत्कामी नित्ये ऽप्येतदुतेतरत् ।
आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्ये ऽपि मृन्मयम् ॥ MJAINY_४,३.३ ॥
कामार्थत्वादयोग्यत्वं सामान्यविहितेन च ।
आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत् ॥ MJAINY_४,३.४ ॥
“अपः प्रणयति” इति प्रणयनस्य नित्यप्योगे ऽपि मृन्मयपात्रमेव साधनम् ।
कृतः ।
नित्ये “पि पात्रत्वा"फङ्क्षितत्वात् ।
न च लोकसिध्दं किंचित्पात्रमुपादीयते-इति वाच्यम् ।
औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते-
ब्रूमः- कामार्थ मृन्मयमाम्नातम् ।
तच्च सति कामे योग्यम् ।
न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति ।
पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते ।
“अपः प्रणयति"इति हि पात्रविशेषमनुपन्यस्य विहितम् ।
वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति ।
तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् ।
-ऽचमसेनापः प्रणयेत् इति नित्ये पात्रं विधीयते-इति विधीयते ।
इति चेत् ।
तर्हि कृत्वाचिन्तास्तु ॥ MJAINYC_४,३.३-४ ॥
(तृतीये-संयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति-
कोभयार्थताधिकरणे सूत्राणि५-७)
एकस्य तूभयत्वे संयोगपृथक्त्वम् । JAIM_४,३.५ ।
शेष इति चेत् । JAIM_४,३.६ ।
नार्थपृथक्त्वात् । JAIM_४,३.७ ।
४,३.५
तृतीयाधिकरणमाचरयति-
दघ्ना त्विन्द्रियकामस्य नित्ये ऽन्यदुत तद्दधि ।
अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥ MJAINY_४,३.५ ॥
अग्निहोत्रे श्रूयते- “दध्नेन्द्रियकामस्य जुहुयात्” इति ।
तत्र- दध्नः कान्यत्वान्नित्ये ऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् ।
किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत् ।
मैवम् ।
“दध्ना जुहोति” इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् ।
तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् ।
एवमग्नीषोमीयपशौ- “खादिरे बध्नाति” ऽखादिरं वीर्यकामस्य यूपं ।
कुर्वीतऽ इत्युदाहरणीयम् ॥ MJAINYC_४,३.५ ॥
(चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे ८-९)
द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात् । JAIM_४,३.८ ।
पृथक्त्वाद्व्यवतिष्ठेत । JAIM_४,३.९ ।
४,३.६
चतुर्थाधिकरणमारचयति-
पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवे ऽथवा ।
पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता ॥ MJAINY_४,३.६ ॥
ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- “पयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्य” इति ।
तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्-
मैवम् ।
इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् ।
क्रतुशेषत्वं तु प्रकरणादवगम्यते ।
ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते ॥ MJAINYC_४,३.६ ॥
(पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि १०-१२)
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते । JAIM_४,३.१० ।
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येत, आर्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्य् असमर्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः । JAIM_४,३.११ ।
वाक्यार्थश् च गुणार्थवत् । JAIM_४,३.१२ ।
४,३.७
पञ्चमाधिकरणमारचयति-
नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः ।
भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये ॥ MJAINY_४,३.७ ॥
इदमाम्नायते- “विश्वजिता यजेत” इति ।
तत्र- फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत् ।
मैवम् ।
फलस्य कल्पनीयत्वात् ।
“विश्वजिन्नाम्ना यागेन कुर्यात्” इत्युक्ता भावना भाव्यमपेक्षते ।
“किं कुर्यात्” इत्याङ्काक्षाया अनिवृत्तेः ।
अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् ।
अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति ।
अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् ।
तस्मात्- फलं कल्पनीयम् ॥ MJAINYC_४,३.७ ॥
(षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि-
करणे सूत्रे १३-१४)
तत्सर्वार्थम् अनादेशात् । JAIM_४,३.१३ ।
एकं वा चोदनैकत्वात् । JAIM_४,३.१४ ।
४,३.८
षष्ठाधिकरणमारचयति-
सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः ।
एकेन तन्निराङ्क्षमतो ऽनेकं न कल्प्यते ॥ MJAINY_४,३.८ ॥
तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् ।
कुतः ।
“एतदेवास्य फलम्” इत्यत्र विशेषहेतोरभावात्- इति चेत् ।
मैवम् ।
लाघवस्यैव विशेषहेतुत्वात् ॥ MJAINYC_४,३.८ ॥
(सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे १५-१६)
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । JAIM_४,३.१५ ।
प्रत्ययाच् च । JAIM_४,३.१६ ।
४,३.९
सप्तमाधिकरणमारचयति-
एकं यत्किंचिदथवा नियतं न नियामकम् ।
तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत् ॥ MJAINY_४,३.९ ॥
विश्वजिति कल्प्यमानं यदेकं फलं तत् “इनमेव” इति नियामकं नास्ति ।
तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेर्ऽथात्सर्वफलत्वे गौरवमेव स्यात्- इति चेत् ।
मैवम् ।
स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम् ॥ MJAINYC_४,३.९ ॥
(अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्ऽऽथवादिकफलकताधिकरणे सूत्राणि १७-१९)
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः । JAIM_४,३.१७ ।
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् । JAIM_४,३.१८ ।
अङ्गेषु स्तुतिः परार्थत्वात् । JAIM_४,३.१९ ।
४,३.१०
अष्टमाधिकरणमारचयति-
स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः ।
पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम् ॥ MJAINY_४,३.१० ॥
सत्रकाण्डे प्रत्येकं श्रूयते- “प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति” इति, “ब्रह्मवर्चस्विनो"न्नादा भवन्ति, य एता उपयन्तिऽ इति च ।
द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः ।
त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सो ऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति ।
क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते ।
तद्यथा- “त एता विशतिं रात्रीरपश्यत्” इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते-
ब्रूमः- अस्य रात्रिसत्रविधेः स्तावकेर्ऽथवादे प्रतिष्ठा श्रुता ।
सा चास्मिन्वाक्ये ऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना ।
तस्मात्- “प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्” इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया ॥ MJAINYC_४,३.१० ॥
(नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि २०-२४)
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः । JAIM_४,३.२० ।
वीते च कारणे नियमात् । JAIM_४,३.२१ ।
कामो वा तत्संयोगेन चोद्यते । JAIM_४,३.२२ ।
अङ्गे गुणत्वात् । JAIM_४,३.२३ ।
वीते च नियमस् तदर्थम् । JAIM_४,३.२४ ।
४,३.११
नवमाधिकरणमारचयति-
श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये ।
आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात् ॥ MJAINY_४,३.११ ॥
“सौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामः” इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् ।
स्वर्गो ऽश्रुतं फलम् ।
तदुभयमप्यभ्युपेयम् ।
तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत् ।
मैवम् ।
श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् ।
तस्मात् - श्रुतमेव फलम् ॥ MJAINYC_४,३.११ ॥
(दशमे-दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण - मासादीनां सर्वकामार्थताधिकरणे सूत्रे २५-२६)
सर्वकाम्यम् अङ्गकामैः प्रकरणात् । JAIM_४,३.२५ ।
फलोपदेशो वा प्रधानशब्दसंयोगात् । JAIM_४,३.२६ ।
४,३.१२-१३
दशमाधिकरणमारचयति-
दर्शादिः सर्वकामेभ्यो ऽनुवादो वा फले विधिः ।
अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते ॥ MJAINY_४,३.१२ ॥
उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने ।
फलसंयोगबोधेन भवेदेष फले विधिः ॥ MJAINY_४,३.१३ ॥
इदमाम्नीयते- “एकस्मै वा अन्या इष्टयः कामाया"ह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौऽ इति ।
“एकस्मै वा अन्ये यज्ञक्रतवः कामाया"ह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमःऽ इति ।
तत्र- “सर्वेभ्यः” इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः ।
विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् ।
अनुवादस्तु भविष्यति ।
सर्वकामानां प्राप्तत्वात् ।
न च- “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम् ।
अङ्गोपाङ्गकामानामपि प्राप्तत्वात् ।
सामिधेन्यो दर्शपूर्णमासयोरङ्गम् ।
तत्र कामाः श्रृयन्ते- “एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्य” इति ।
तथा सांनाय्ययागस्य दोहनमङ्गम् ।
तत्साधनं वत्सापाकरणमुपाङ्गम् ।
तत्र पलाशशाखाहरणे काम आम्नातः- ऽयः कामयेत- पशुमान्स्यात्- इति, बहुपर्णा तस्मै बहुशाखामाहरेत् ।
पशुमन्तमेवैनं करोतिऽ इति ।
त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते, ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने ।
तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते ।
तस्मात्- एष फले विधिः ॥ MJAINYC_४,३.१२-१३ ॥
(एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे २७-२८)
तत्र सर्वे ऽविशेषात् । JAIM_४,३.२७ ।
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् । JAIM_४,३.२८ ।
४,३.१४-१५
एकादशाधिकरणमारचयति-
ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः ।
दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः ॥ MJAINY_४,३.१४ ॥
एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् ।
चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी ॥ MJAINY_४,३.१५ ॥
यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् ।
तत्रोभयत्र कामा नैमित्तिकाः ।
ज्योतिष्टोमादिस्वरूपं निचित्तम् ।
तच्च सर्वेषु कामेष्वविशिष्टम् ।
न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति ।
वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् ।
तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते-
ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते ।
कामानामननुष्ठेयत्वात् ।
किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते ।
यद्यपि “सर्वेभ्यः कामेभ्यः” इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि ।
उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् ।
न च शब्दतः साहित्यनियमाभावे ऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम् ।
स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् ।
तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते ।
अत एव “सर्वेभ्यः” इति निर्देशोपपत्तिः ।
अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते ।
तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः ।
एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति ।
किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति ।
तस्मात्प्रतिफलं पृथक्प्रयोगः ॥ MJAINYC_४,३.१४-१५ ॥
द्वादशे-द्गकाम्यानामैहिकामुष्मिकफलवत्त्वा-द्घसूत्रे २७-२८)
अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वे ऽविशेषात् ॥ MJAINYC_४,३.२७ ॥
योगसिद्धिर्वार्ऽथस्योत्पत्त्यसंयोगित्वात् ॥ MJAINYC_४,३.२८ ॥
४,३.१६-१७
द्वादशाधिकरणमारचयति-
चित्रया पशवो ऽमुष्मिन्नेव स्युर्नियता न वा ।
आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः ॥ MJAINY_४,३.१६ ॥
चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् ।
पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम् ॥ MJAINY_४,३.१७ ॥
काम्यकर्माण्येवं श्रूयन्ते - “चित्रया यजेत पशुकामः” ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामःऽ इति ।
तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि ।
यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् ।
मैवम् ।
वैषम्यात् ।
अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते ।
“चित्रया त्वन्यदेहो"वश्यमुत्पाद्यतेऽ इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति ।
अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् ।
अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् ।
न ।
प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् ।
तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् ॥ MJAINYC_४,३.१६-१७ ॥
(त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि २९-३१)
समवाये चोदनासंयोगस्यार्थवत्वात् । JAIM_४,३.२९ ।
कालश्रुतौ काल इति चेत् । JAIM_४,३.३० ।
नासमवायात्प्रयोजनेन स्यात् । JAIM_४,३.३१ ।
४,३.१८-१९
त्रयोदशाधिकरणमारचयति-
इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् ।
कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम् ॥ MJAINY_४,३.१८ ॥
क्त्वाश्रुत्या भाति कालो ऽत्र मैवमङ्गत्वबोधनम् ।
श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते ॥ MJAINY_४,३.१९ ॥
इदमाम्नायते- “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत” इति ।
“आग्निं चित्वासौत्रामण्या यजेत” इति ।
तत्र- “इष्ट्वा” इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते ।
तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते, -
ब्रूमः- बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योर्ऽथः, ।
“समानकर्तृकयोः पूर्वकाले” (३ । ४ । २१) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् ।
यद्यपि सूत्रे “पूर्वकाले” इत्युक्तम्, तथापि तन्न नियतम् ।
“मुखं व्यादाय श्र्वपिति” इत्यत्र कालैक्ये ऽपि प्रयोगात् ।
वाजपेयप्रकरणमप्यङ्गत्वे ऽनुगृह्यते ।
अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत ।
अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दो ऽनुपपन्नः- इति चेत् ।
न ।
मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् ।
तस्मात्- वाक्यमिदमङ्गत्वबोधकम् ।
“अग्निंचित्वा” - इत्यत्राप्येवं योजनीयम् ॥ MJAINYC_४,३.१८-१९ ॥
(चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि ३२-३५)
उभयार्थाम् इति चेत् । JAIM_४,३.३२ ।
न शब्दैकत्वात् । JAIM_४,३.३३ ।
प्रकरणाद् इति चेत् । JAIM_४,३.३४ ।
नोत्पत्तिसंयोगात् । JAIM_४,३.३५ ।
४,३.२०-२१
चतुर्दशाधिकरणमारचयति-
संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः ।
द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात् ॥ MJAINY_४,३.२० ॥
उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् ।
तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता ॥ MJAINY_४,३.२१ ॥
दर्शपूर्णमासप्रकरणे श्रूयते- “संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति” इति ।
तत्र-इयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत् ।
न ।
वाक्यस्य प्रबलत्वात् ।
न च- “संस्थाप्य” इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम् ।
दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः ।
तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् ॥ MJAINYC_४,३.२०-२१ ॥
(पञ्चदशे - अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्)
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् । JAIM_४,३.३६ ।
४,३.२२-२३
पञ्चदशाधिकरणमारचयति-
किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति ।
अङ्गं कालो ऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा ॥ MJAINY_४,३.२२ ॥
पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा ।
अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये ॥ MJAINY_४,३.२३ ॥
ज्योतिष्टोमे श्रूयते -ऽआग्निमारुतादूर्ध्वमनुयाजैश्चरतिऽ इति ।
आग्निमारुतं नाम किंचिच्छस्त्रम् ।
अनुयाजाः “देवं बर्हिः”- इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः ।
तत्र-ऽआग्निमारुतशस्त्रस्यानुयाजा अङ्गम्ऽ इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः ।
यदि-अनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्य स्यात् ।
तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते-
ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् ।
अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् ।
ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थो ऽयं संयोगः ॥ MJAINYC_४,३.२२-२३ ॥
(षोडशे - सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्)
उत्पत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् । JAIM_४,३.३७ ।
४,३.२४-२५
षोडशाधिकरणमारचयति-
किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः ।
अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता ॥ MJAINY_४,३.२४ ॥
दर्शादिलक्षिते काले सोमयागो विधीयते ।
स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः ॥ MJAINY_४,३.२५ ॥
इदमाम्नायते- “दर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेत” इति ।
तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधको ऽयं संयोगः - इति चेत् ।
मैवम् ।
स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् ।
फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् ।
न च- अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम् ।
सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् ।
क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते ।
तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् ।
एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायते- ऽएष वै देवरथो यद्दर्शपूर्णमासौ ।
यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमिऽ इति ।
अवसनि निश्चिते ।
वरे मार्गे ।
“यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवति” इत्यर्थः ।
तस्मात्कालार्थः संयोगः ॥ MJAINYC_४,३.२४-२५ ॥
(सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे ३८-३९)
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् । JAIM_४,३.३८ ।
अङ्गानां तूपघातसंयोगो निमित्तार्थः । JAIM_४,३.३९ ।
४,३.२६-२७
सप्तदशाधिकरणमारचयति-
पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः ।
कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि ॥ MJAINY_४,३.२६ ॥
जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत ।
तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते ॥ MJAINY_४,३.२७ ॥
काम्योष्टिकाण्डे “वैश्वानरं द्वादशकपालं निवषेत्पुत्रे जाते” इति प्रकृत्य श्रूयते- “यस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवति” इति ।
तत्र- पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य ।
ततो ऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत् ।
मैवम् ।
“यस्मिञ्जाते निर्वपति स पूतः” इति वाक्येन फलस्य पुत्रसंबन्धावगमात् ।
न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् ।
पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् ।
तस्मात्- पुत्रस्य पूतत्वादिकम् ॥ MJAINYC_४,३.२६-२७ ॥
(अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता-
धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्-)
अङ्गानां तूपघातसंयोगो निमित्तार्थाः ॥ MJAINYC_४,३.३१ ॥
४,३.२८-२९
अष्टादशाधिकरणमारचयति-
जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते ।
निमित्तानन्तरं कार्य नैमित्तिकमतो ऽग्रिमः ॥ MJAINY_४,३.२८ ॥
जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् ।
प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा ॥ MJAINY_४,३.२९ ॥
पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः- इति चेत् ।
मैवम् ।
स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् ।
यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत ।
तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् ।
तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः ॥ MJAINYC_४,३.२८-२९ ॥
(एकोनविंशे-जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो-
त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्- )
अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ MJAINYC_४,३.३९ ॥
४,३.३०
एकोनविंशाधिकरणमारचयति-
जातकर्मानन्तरं स्यादाशौचे “पगते"थवा ।
निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः ॥ MJAINY_४,३.३० ॥
यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् ।
जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता ।
ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात् ॥ MJAINYC_४,३.३० ॥
(विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे ४०-४१)
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् । JAIM_४,३.४० ।
अप्रवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् । JAIM_४,३.४१ ।
४,३.३१-३२
विंशाधिकरणमारचयति-
अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी ।
अङ्गिकाले स्वकाले वा स्यादाद्यो ऽन्याङ्गवन्मतः ॥ MJAINY_४,३.३१ ॥
निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः ।
स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम् ॥ MJAINY_४,३.३२ ॥
“अग्निं चित्वा सौत्रामण्या यजेत” “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत” इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् ।
तच्चाङ्गमङ्गिकाले ऽङ्गिना सह प्रयोक्तव्यम् ।
इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत् ।
मैवम् ।
क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् ।
यदि-अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत ।
न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् - ततः पृथग्प्रयोगे ऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् ।
सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः ।
चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत ।
तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः ।
वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवो ऽपि शरदि प्रसज्येत ।
तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् ।
ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकम्- इति चेत् ।
न ।
तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् ।
तस्मात्- नाङ्गिनः काले ऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम् ॥ MJAINYC_४,३.३१-३२ ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः
अथ चतुर्थाध्यायस्य चतुर्थ पादः ।
(प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे १-२)
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् । JAIM_४,४.१ ।
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् । JAIM_४,४.२ ।