०२ ४,२

४,२.१-२

द्वितीये पादे प्रथमाधिकरणमारचयति-

स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् ।
प्रयोजयोन्न वाऽद्यो ऽस्तु विशिष्टस्य विधानतः ॥ MJAINY_४,२.१ ॥
आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे ।
विहिते लाघवं तस्मादनुनिष्पन्न एव सः ॥ MJAINY_४,२.२ ॥


अग्नीषोमीयपशौ श्रूयते- “यूपस्य स्वरुं करोति” इति ।
तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति ।
कुतः- “करोति” इत्यनेन विशिष्टविधिप्रतीतेः ।
करोतिधातोर्हि भावना मुख्योर्ऽथः ।
तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् ।
छेदनादिरितिकर्तव्यता, “छिम्नेन वृक्षेण स्वरुरुत्पादनीयः” इति विशिष्टविधिः ।
उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- “स्वरुणा पशुमनक्ति” इति ।
तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते-
ब्रूमः- “छिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुः” इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः ।
किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ॥ MJAINYC_४,२.१-२ ॥

(द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् -)

शाखायां तत्प्रधानत्वात् । JAIM_४,२.७ ।


४,२.३

द्वितीयाधिकरणमारचयति-

प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः ।
आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते ॥ MJAINY_४,२.३ ॥


दर्शपूर्णमासयोः “यत्पलाशशाखया वत्सानवाकरोति” इति पलाशशाखां प्रकृत्य श्रूयते- “यत्प्राचीमाहरेत्, देवलोकमभिजयेत्” इति ।
तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् ।
मैवम् ।
अशक्यत्वात् ।
अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते ।
तथा सति प्रकृतानुग्रहो भवति ॥ MJAINYC_४,२.३ ॥

(तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे ८-९)

शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् । JAIM_४,२.८ ।

श्रुत्यपायाच् च । JAIM_४,२.९ ।


४,२.४-६

तृतीयाधिकरणमारचयति-

शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया ।
नुदेद्वत्साङ्कपालानि स्थापयेदुपवेषतः ॥ MJAINY_४,२.४ ॥
द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा ।
आद्यो ऽग्रमूलयोरत्र विभज्य विनियोगतः ॥ MJAINY_४,२.५ ॥
उपवेषं करोतीति साकाङ्क्षो ऽन्यार्थमूलतः ।
पूर्यते “तो"नुनिष्पादी स तस्माद्युज्यते ऽन्तिमः ॥ MJAINY_४,२.६ ॥


दर्शपूर्णमासयोः श्रूयते- “मूलतः शाखां परिवास्योपवेषं करोति” इति ।
येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः ।
तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- ऽशाखया वत्सानपाकरोति ।
उपवेषेण कपालान्युपदधातिऽ इति ।
तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते ।
तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् ।
मैवम् ।
“उपवेषं करोति” इत्युक्ते “केन द्रव्येण इत्याकाङ्क्षायां"मूलतःऽ इति वक्तव्यम् ।
पुनरपि “कस्य मूलम्” इत्याकाङ्क्षायां “वत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्” इत्याकाङ्क्षा पूरणीया ।
तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् ।
उपवेषस्त्वनुनिष्पादी ।
ननु-आद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः ।
परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् ।
अन्यथा “परिवास्योपवेषं करोति” इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् ।
मैवम् ।
परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते ।
शाखासंबन्धस्तु “शाखाम्” इति द्वितीयाश्रुत्या ।
पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदो ऽपेक्षितः ।
अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् ।
अत एव “मूलतः” इत्यपादाने पञ्चमौ श्रुता ।
तथा सति प्रथमच्छेदनापादानभूतो वृक्षो ऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम् ।
अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र “उपवेषं करोति” इत्यनूद्यते ।
शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः ।
एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः ॥ MJAINYC_४,२.४-६ ॥

(चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि १०-१३)

हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् । JAIM_४,२.१० ।

प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् । JAIM_४,२.११ ।

अर्थे ऽपीति चेत् । JAIM_४,२.१२ ।

न तस्यानधिकाराद् अर्थस्य च कृतत्वात् । JAIM_४,२.१३ ।


४,२.७-९

चतुर्थाधिकरणमारचयति-

प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् ।
शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता ॥ MJAINY_४,२.७ ॥
विहितः प्रस्तरे यागः शाखायाः साहचर्यतः ।
तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत् ॥ MJAINY_४,२.८ ॥
हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् ।
पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत् ॥ MJAINY_४,२.९ ॥


दर्शपूर्णमासयोः श्रूयते- “सह शाखया प्रस्तरं प्रहरति” इति ।
तत्र शाखाप्रहरणमर्थकर्म ।
कुतः ।
प्रहृतिशब्देन यागस्याभिधानात् ।
एतच्च “सूक्तवाकेन प्रस्तरं प्रहरति” इत्येतद्वाक्यमुदाहृत्य विचारितम् ।
प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् ।
अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म ।
ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते, ब्रूमः- “सूक्तवाकेन प्रस्तरं प्रहरति” इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् ।
किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः ।
शाखाप्रहरणे तु नास्ति देवता ।
ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे ।
तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशे “वकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणा"हवनीय एव त्यागो नियम्यते ।
अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति ।
प्रतिपत्तिर्नाम संस्काररूपो दृष्टोर्ऽथः ।
यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् ।
ततः प्रहरणं प्रतिपत्तिकर्म ।
तेने च तदभावे ऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति ॥ MJAINYC_४,२.७-९ ॥

(पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे १४-१५)

उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् । JAIM_४,२.१४ ।

संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् । JAIM_४,२.१५ ।


४,२.१०-११

पञ्चमाधिकरणमारचयति-

प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् ।
अपां द्वे प्रापके किंवा हविःसंयवनं तथा ॥ MJAINY_४,२.१० ॥
अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता ।
श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता ॥ MJAINY_४,२.११ ॥


दर्शपूर्णमासयोः श्रूयते- “अपः प्रणयति” इति ।
चमसेन पात्रेण प्रणीतानां तासामपां ।
प्रयोजनमेवं श्रूयते- “प्रणीताभिर्हवींषि संयौति” इति, “अन्तर्वेदि प्रणीता भिनयति” इति च ।
हवींषि पुरोडाशार्थानि पिष्ठानि ।
तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् ।
कुतः ।
“अपः व्रजयति” इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् ।
न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत् ।
मैवम् ।
विनियोगवाक्ये “प्रणीताभिः” इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् ।
निनयनवाक्ये तु “प्रणीताः” इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् ॥ MJAINYC_४,२.१०-११ ॥

(षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि १६-१८)

प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् । JAIM_४,२.१६ ।

अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् । JAIM_४,२.१७ ।

कर्मयुक्ते च दर्शनात् । JAIM_४,२.१८ ।


४,२.१२-१३

षष्ठाधिकरणमारचयति-

मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता ।
उतार्थकर्मताऽद्यो ऽस्तु धारणे कृतकृत्यतः ॥ MJAINY_४,२.१२ ॥
युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया ।
स्थित्वा प्रैषानुवचने दण्डो “पेक्ष्योर्"थकर्म तत् ॥ MJAINY_४,२.१३ ॥


ज्योतिष्टोमे श्रूयते- “क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति” इति ।
तदेतद्दण्डदानं प्रतिपत्तिकर्म ।
कुतः ।
दण्डस्य यजमानधारणेन कृतकृत्यत्वात् ।
यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति ।
अत एवाऽम्नातम्- “दण्डेन दीक्षयति” इति, “यद्दीक्षिताय दण्डं प्रयच्छति” इति च ।
तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत् ।
मैवम् ।
दण्डे भविष्यदुपयोगस्यापि सद्भावात् ।
यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डो ऽपेक्षितः ।
अत एवाऽम्नातम्- “दण्डीप्रैषानन्वाह” इति ।
तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः ।
उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः ।
उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् ।
तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म ।
तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् ॥ MJAINYC_४,२.१२-१३ ॥

(सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्)

उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् । JAIM_४,२.१९ ।


४,२.१४

सप्तमाधिकरणमारचयति-

चात्वाले कृष्णशृङ्गस्य प्रासो यः सोर्ऽथकर्म वा ।
प्रतिपत्तिः सार्थकत्वादाद्यो “न्त्यो"न्त्यो ऽस्तूपयोगतः ॥ MJAINY_४,२.१४ ॥


ज्योतिष्टोमे श्रूयते- “प्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति” इति ।
यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् ।
सो “यं परित्यागोर्"थकर्म ।
कुतः ।
सप्रयोजनत्वात् ।
प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् ।
अतो ऽपूर्वलाभायार्थकर्मत्वम्- इति चेत् ।
मैवम् ।
“कृष्णविषाणया काण्डूयते” इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् ।
न च प्रतिपत्तावत्यन्तमपूर्वाभावः ।
“चात्वाल एव प्रासनम्” इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावे ऽपि नियमापूर्वसद्भावात् ।
तस्मात्- प्रासनं प्रतिपत्तिकर्म ॥ MJAINYC_४,२.१४ ॥

(अष्टमे- अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि २०-२२)

सौमिके च कृतार्थत्वात् । JAIM_४,२.२० ।

अर्थकर्म वाभिधानसंयोगात् । JAIM_४,२.२१ ।

प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः । JAIM_४,२.२२ ।


४,२.१५-१६

अष्टमाधिकरणमारचयति-

पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् ।
साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः ॥ MJAINY_४,२.१५ ॥
प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः ।
पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये ॥ MJAINY_४,२.१६ ॥


ज्योतिष्टोमे श्रूयते- “चतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्ति” इति ।
निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम् ।
तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते ।
तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् ।
कुतः ।
“तेनावमृथं यन्ति” इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् ।
तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते- इति चेत् ।
मैवम् ।
“वारुणेनकपालेनावभृथमवयन्ति” इत्यनेनोत्पत्तिवाक्यशिष्ठपुरोडाशहविषावरुद्धिऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् ।
तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते ।
तच्च नयनं प्रतिपत्तये भवति ।
पात्रस्य पूर्वमुपयुक्तत्वात् ।
तस्मात्- एतत्प्रतिपत्तिकर्म ॥ MJAINYC_४,२.१५-१६ ॥

(नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे २३-२४)

कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् । JAIM_४,२.२३ ।

नियमार्था वा श्रुतिः । JAIM_४,२.२४ ।


४,२.१७-१८

नवमाधिकरणमारचयति-

समे यजेत देशादेरनुवादो ऽथवा विधिः ।
प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता ॥ MJAINY_४,२.१७ ॥
समे वा विषमे वेति पाक्षिकत्वनिवृत्तये ।
अप्राप्तांशानुपातेन नियमो ऽत्र विधीयते ॥ MJAINY_४,२.१८ ॥


इदमाम्नायते- “समे दर्शपूर्णमासाभ्यां यजेत”, “प्राचीनप्रवणे वैश्वदेवेन यजेत” “पौर्णमास्यां पौर्णमास्या यजेत” “अमावास्यायाममावास्यया यजेत” “पशुबन्धस्य यज्ञक्रतोः षडृत्विजः” “दर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजः” “चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः” “अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्” “सौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजः” “सोमेन यजेत” इति ।
क्रतुशब्दे मानस उपासने ऽपि वर्तते ।
“स क्रतुं कुर्क्षीत मनोमयः प्राणशरीरः” इत्यत्र क्रतुशब्देन ध्यानविधानात् ।
तद्व्यावृत्तये “यज्ञक्रतोः” इति विशेष्यते ।
तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते ।
कुतः ।
प्राप्तत्वात् ।
न हि देशादिभिर्विना प्रयोगः संभवति ।
अतोर्ऽथापत्त्या तत्प्राप्तिः- इति चेत् ।
मैवम् ।
अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः ।
विषमदेशादीनामपि संभवात् ।
ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते ॥ MJAINYC_४,२.१७-१८ ॥

(दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्-)

तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् । JAIM_४,२.२५ ।


४,२.१९

दशमाधिकरणमारचयति-

श्वेतालम्भो ऽनुवादो वा श्वैत्यस्य विधिरग्रिमः ।
द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते ॥ MJAINY_४,२.१९ ॥


इदमाम्नायते- “वायव्यं श्वैतमालभेत भूतिकामः” इति ।
तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत् ।
मैवम् ।
पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात् ॥ MJAINYC_४,२.१९ ॥

(एकादशे- अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्)
संस्कारे च तत्प्रधानत्वात् । JAIM_४,२.२६ ।


४,२.२०

एकादशाधिकरणमारचयति-

अवघाते ऽपि नियमो देशादाविव तेन सः ।
प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः ॥ MJAINY_४,२.२० ॥


यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातो “पि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्ते"पि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते ।
सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते ।
न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् ।
प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः ।
तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च ॥ MJAINYC_४,२.२० ॥

(द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे २७-२८)

यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । JAIM_४,२.२७ ।

तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् । JAIM_४,२.२८ ।


४,२.२१-२३

द्वादशाधिकरणमारचयति-

अनिरूप्या निरूप्या वा यागहोमददातयः ।
त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते ॥ MJAINY_४,२.२१ ॥
आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते ।
यागस्योपरि होमस्य विधेः क्षेपावसानता ॥ MJAINY_४,२.२२ ॥
स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् ।
तथा संपादनं दानं त्यागे ऽप्येषामियं भिदा ॥ MJAINY_४,२.२३ ॥


इदमाम्नायते- “सोमेन यजेत” अग्निहोत्रं जुहोतिऽ “हिरण्यमात्रेयाय ददाति” इति ।
तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते ।
त्रिष्वपि द्रव्यत्यागस्य सद्भावात् ।
ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत् ।
मैवम् ।
देवतामुद्दिश्य द्रव्यत्यागो यागः ।
त्यक्तस्य वह्नौ प्रक्षेपो होमः ।
स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् ।
इति सुनिरूपा एते पदार्थाः ।
“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इतिविहितस्य यागस्योपरि “चतुरवत्तं जुहोति” इति होमस्य विधानात् “त्यागमात्रात्मको यागः, प्रक्षेपाधिको होमः” इत्यवगम्यते ।
यत्र तु यजत्यादिपदं न श्रुतम्, किंतु “आग्नेयो"ष्टाकपालःऽ इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागो ऽथसिद्धः ।
तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः ॥ MJAINYC_४,२.२१-२३ ॥

(त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे २९-३०)

विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् । JAIM_४,२.२९ ।

अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् । JAIM_४,२.३० ।


४,२.२४-२५

त्रयोदशाधिकरणमारचयति-

यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् ।
साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः ॥ MJAINY_४,२.२४ ॥
वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा ।
आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते ॥ MJAINY_४,२.२५ ॥


ज्योतिष्टोमे श्रूयते- “यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य च” इति ।
क्रीतं सोमं शकटे “वस्थाप्यप्राचीनवंशं प्रत्यानयने"भिमुखो यामिष्टिं निर्वपति सेयमातिथ्या ।
तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः ।
औपवसथ्ये दिने “नुष्ठेयो"ग्नीषोभीयः ।
तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् ।
यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् ।
तस्मात्- आतिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते, -
ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत ।
श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति ।
अतः साधारण्यमत्र विधेयम् ।
आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः ।
तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयो ऽप्यस्य बर्हिषः प्रयोजकाः ॥ MJAINYC_४,२.२४-२५ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः


अथ चतुर्थाध्यायस्य तृतीयः पादः ।

(प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि - १-३)

द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् । JAIM_४,३.१ ।

उत्पत्तेश् चातत्प्रधानत्वात् । JAIM_४,३.२ ।

फलं तु तत्प्रधानायाम् । JAIM_४,३.३ ।