०१ ४,१

४,१.१

शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् ।
इत्यपेक्षोदयाद्वक्ति चतुर्थ तप्रत्युक्तये ॥ MJAINY_४,१.१ ॥


अनेन तृतीय- चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ MJAINYC_४,१.१ ॥

(प्रथमे प्रतिज्ञाधिकरणे सूत्रम्-)

अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा । JAIM_४,१.१ ।


४,१.२-३

चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-

चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः ।
अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम् ॥ MJAINY_४,१.२ ॥
क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् ।
क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते ॥ MJAINY_४,१.३ ॥


“क्रत्वर्थो"यम्, पुरुषार्थो “यम्” इति विवेकस्य प्रयोजनं किमपि न पश्यामः ।
तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत् ।
मैवम् ।
तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् ।
साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम् ॥ MJAINYC_४,१.२-३ ॥

(द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्-)

यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् । JAIM_४,१.२ ।


४,१.४

द्वितीयाधिकरणे प्रथमवर्णकमारचयति-

क्रत्वर्थादेर्नास्ति वास्ति लक्ष्म नास्त्यनिरूपणात् ।
क्रतवे यस्तदर्थो ऽसाविति तस्य निरूपणम् ॥ MJAINY_४,१.४ ॥


“क्रतावनुष्ठेयः क्रत्वर्थः” इत्युक्ते गोदोहनादावतिव्याप्तिः ।
“पुरुषेणार्थ्यमानः पुरुषार्थः” इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः ।
तस्मात्- तयोरद्रुष्टं लक्षणं दुर्निरूपम- इति चेत् ।
मैवम् ।
ऋतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः ।
प्रयाजादयस्तादृशाः ।
नहि प्रयाजादिमिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः ।
दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति ।
तस्मात्- ते क्रत्वर्थाः ।
पुरुषप्रीतये विधीयमानः पुरुषार्थः ।
दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः ।
न हि दर्शपूर्णमासाभ्या कस्यचित्क्रतोः पौष्कस्यं भवति ।
त्रयोरेव क्रतुत्वात् ।
नापि गोदोहनं क्रत्वर्थम् ।
तदभावे ऽपि चमसेन क्रतुपौष्कल्यसिद्धिः ।
तस्मात्- सुनिरूपणं तदुभयलक्षणम् ॥ MJAINYC_४,१.४ ॥


४,१.५

द्वितीयवर्णकमारचयति-

फलं विधेयं नो वाऽद्यो भावनांशत्वतो ऽन्यवत् ।
न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात् ॥ MJAINY_४,१.५ ॥


“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति स्वर्गः फलत्वेन श्रूयते ।
तत्र-विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च - इति चेत् ।
मैवम् ।
अप्रवृत्तप्रवर्तनं हि विधानम् ।
फलं तु पुरुषः सौन्दर्य जामन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः ॥ MJAINYC_४,१.५ ॥


४,१.६

तृतीयवर्णकमारचयति-

गोदोहनं द्वयार्थ स्याम्न वा भानाद्द्वयार्थता ।
अन्यथापि क्रतोः सिद्धिःकेवलं पुरुषाय तत् ॥ MJAINY_४,१.६ ॥


दर्शपूर्णमासयोः श्रूयते- “चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य” इति ।
तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजनमेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत् ।
मैवम् ।
गोदोहनमन्तरेण फलासिद्धिर्भवतु पुरुषार्थत्वम् ।
क्रतुस्तु तदभावे ऽपि चमसेन सिध्यतीति न क्रत्वर्थता ॥ MJAINYC_४,१.६ ॥


४,१.७

चतुर्थवर्णकमारचयति -

द्रव्यार्णनं स्यात्क्रत्वर्थ पुमर्थ वा क्रताविदम् ।
नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थताऽर्थिकी ॥ MJAINY_४,१.७ ॥


ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम् ।
तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम् ।
कुतः ।
अर्जनोपायानां नियतत्वात् ।
पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः ।
क्रतौ तु नियमापूर्व परमापूर्वापयोगीति सार्थको नियमः- इति प्राप्ते ।
ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते ।
फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव ।
अत एव स्मर्यते-
ऽषण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इत ।
क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत् ।
पुरुषार्थतायां स्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थष्वन्तर्भावात्क्रत्वर्थताप्यार्थिकी सिध्यति ।
उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते ।
तस्मात्- द्रव्यार्जनं पुरुषार्थम् ॥ MJAINYC_४,१.७ ॥

(तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि ३-६)

तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः । JAIM_४,१.३ ।

अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः । JAIM_४,१.४ ।

अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसंबन्धात् । JAIM_४,१.५ ।

तथा च लोकभूतेषु । JAIM_४,१.६ ।


४,१.८-९

तृतीयाधिकरणमारचयति-

नेक्षेतोद्यन्तमादित्यं क्रत्वर्थ तन्न वाग्रिमः ।
फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते ॥ MJAINY_४,१.८ ॥
व्रतोक्त्या पर्युदासत्वे संकल्पो “नीक्षणे"त्र सः ।
न क्रत्वङ्गसमानत्वात्पुमर्थः पापहानये ॥ MJAINY_४,१.९ ॥


अनारभ्य श्रूयते- “नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन” इति ।
अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम् ।
प्रतिषेधश्च प्राप्तिपूर्वकः ।
प्राप्तिश्च वैदिकस्य निपेधस्य वैदिकी प्रत्यासन्ना ।
तथा सति क्रतौ यत्राऽदित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते ।
एवं च सति फलं न कल्पनीयम् ।
पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारे ऽधिकारसिद्धये फलं कल्पनीयं स्यात् ।
तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते-
ब्रूमः- “तस्य व्रतम्” इत्युपक्तम्य “नेक्षेतोद्यन्तमादित्यम्” इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम् ।
तच्च पर्युदासत्वे सत्यवकल्पते ।
ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः ।
पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते ।
स च संकल्पो ऽत्रानुष्ठेयव्रतत्वेन विधीयते ।
यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथापि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते ।
संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः ।
तथा सतिऽउद्यन्तम्, अस्तं यन्तं चाऽदित्यं नेक्षिष्येऽ इत्येवंरूपः संकल्पो ऽत्रानुष्ठेयत्वेन विधीयते ।
न च तस्य संकल्पस्य क्रत्वङ्गत्वम् ।
तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात् ।
न च पुरुषार्थत्वे ऽपि प्रमाणाभावः ।
“एतावता हैनसा मुक्तो भवति” इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात् ।
क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत ।
तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि ॥ MJAINYC_४,१.८-९ ॥

(चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि ७-१०)

द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् । JAIM_४,१.७ ।

स्वेन त्वर्थेन सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः । JAIM_४,१.८ ।
चोद्यन्ते चार्थकथासु । JAIM_४,१.९ ।

लिङ्गदर्शनाच् च । JAIM_४,१.१० ।


४,१.१०-११

चतुर्थाधिकरणमारचयति-

दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा ।
आद्यो ऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते ॥ MJAINY_४,१.१० ॥
सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते ।
स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः ॥ MJAINY_४,१.११ ॥


दर्शपूर्णमासयोः- “स्फ्यश्च कपालानि च-” इत्याद्युपक्रम्य “एतानि वै दशयज्ञायुधानि” इत्याम्नातम् ।
तानि चात्र हविष्ट्वेन विधीयन्ते ।
कुतः ।
मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात् ।
यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वास्तु- इति प्राप्ते, ।
ब्रूमः- “आग्नेयो"ष्टाकपालःऽ इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति ।
आयुधत्वं यज्ञसाधनत्वम् ।
तच्च “स्फ्येनोद्धन्ति, कपालेषु श्रपयति” इत्यादिशास्त्रसिद्धमेवात्रानूद्य “यज्ञायुधानि संभरति” इत्येष संभरणविधिः स्तूयते ।
तस्मात्- नास्ति हविष्ट्वम् ॥ MJAINYC_४,१.१०-११ ॥

(पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि ११-१६)

तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् । JAIM_४,१.११ ।

एकश्रुतित्वाच् च । JAIM_४,१.१२ ।

प्रतीयत इति चेत् । JAIM_४,१.१३ ।

नाशब्दं तत्प्रमाणत्वात् पूर्ववत् । JAIM_४,१.१४ ।
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । JAIM_४,१.१५ ।

तद्वच् च लिङ्गदर्शनम् । JAIM_४,१.१६ ।


४,१.१२-१३

पञ्चमाधिकरणमारचयति-

पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता ।
नास्त्यस्ति वाऽद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः ॥ MJAINY_४,१.१२ ॥
आदौ स्वप्रत्ययोपात्त आसन्नतरकारके ।
योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता ॥ MJAINY_४,१.१३ ॥


“अग्नीषोमीयं पशुमालभेत” इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति ।
तस्य श्रुत्या पशुसंबन्धावगमात् ।
“पशुम्” इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धो ऽवगम्यते ।
यागस्तु “आलभेत” इत्यनेन पदान्तरेणोपात्तः ।
तत्र वाक्येन संबन्धावगतिः ।
वाक्याच्च श्रुतिर्बलीयसी ।
तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागो “नुष्ठातुं शक्यते- इति प्राप्ते, ब्रूमः-“पशुम्ऽ इति पदं यद्यप्येकम्, तथापि प्रकृत्या पशुर्मिर्दिष्टः ।
प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम् ।
तत एकत्वस्याऽसन्नतरे कारके प्रथमं संबन्धो भवति ।
कारकत्वं नाम क्रियाहेतुत्वम् ।
तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः ।
क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति ।
तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थ सत्तत्र समर्थे पशुद्रव्यं पश्चादवच्छिनत्ति ।
तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः ।
एवम्- “अनड्वाहौ युनक्ति” “वसन्ताय कपिञ्जलानालभते” इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम् ॥ MJAINYC_४,१.१२-१३ ॥

(षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्-)

तथा च लिङ्गम् । JAIM_४,१.१७ ।


४,१.१४

षष्ठाधिकरणमारचयति-

न पुंलिङ्गे विवक्षा वा विवक्षानुपयोगतः ।
आद्यो ऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम् ॥ MJAINY_४,१.१४ ॥


“पशुमालभेत” इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम् ।
कुतः ।
शब्दार्थविचारे ऽनुष्ठानविचारे च तदुपयोगादर्शनात् ।
अलिङ्गे ऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते ।
तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः ।
ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षास्ति ।
अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम् ।
एकत्वावच्छिन्नपशुत्वे वैषम्याभावात् ।
तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते,-
ब्रूमः- यथा पशुत्वजातिः, यथा वा -तदेकत्वम्, वृद्धव्यवहारे ऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात् ।
वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम् ।
न चानुष्ठाने साम्यम् ।
अपुंस्पशौ विशेषसद्भावात् ।
“वाक्त आप्यायताम्” इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायमनकाले “मेढ्रं तु आध्यायताम्” इति मन्त्रेण तदवयवस्याऽप्यायनश्रवणात् ।
तस्मात्-एकत्ववत्पुंलिङ्गमपि विवक्षितम् ॥ MJAINYC_४,१.१४ ॥

(सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि १८-२०)

आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत । JAIM_४,१.१८ ।

चोदनायां त्व् अनारम्भो विभक्तत्वान् न ह्य् अन्येन विधीयते । JAIM_४,१.१९ ।

स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतत्वाश्रयाद् विगुणीभावः । JAIM_४,१.२० ।


४,१.१५-१६

सप्तमाधिकरणमारचयति-

स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि ।
प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः ॥ MJAINY_४,१.१५ ॥
मन्त्रेण देवसंस्कारः प्रक्षेपाठ्द्रव्यसंस्कृतिः ।
त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत् ॥ MJAINY_४,१.१६ ॥


यो “यं स्विष्टकृद्यागः सो"यमुपयुक्तहविःसंस्कारः- इत्यविवादम् ।
तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति ।
न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते, -
ब्रूमः- कर्मण एकत्वे ऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते ।
मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रय्ॐऽशाः ।
तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते ।
तस्मात्- स्विष्टकृदुभयार्थः ।
एवम्- अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै ॥ MJAINYC_४,१.१५-१६ ॥

(अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्-)

अर्थे समवैषम्यतो द्रव्यकर्मणाम् । JAIM_४,१.२१ ।


४,१.१७

अष्टमाधिकरणमारचयति-
शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् ।
शेषो मानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात् ॥ MJAINY_४,१.१७ ॥


वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः ।
यथा - अतीतेष्वधिकरणेषु क्रतुशेषो “यम्, पुरुषशेषो"यम्, इति चिन्तितम्, तद्वत् ।
कुतः ।
उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत् ।
मैवम् ।
शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते ।
शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः ॥ MJAINYC_४,१.१७ ॥

(नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि २२-२४)

एकनिष्पत्तेः सर्वं समं स्यात् । JAIM_४,१.२२ ।

संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् । JAIM_४,१.२३ ।

मुख्यशब्दाभिसंस्तवाच् च । JAIM_४,१.२४ ।


४,१.१८-१९

नवमाधिकरणमारचयति-

आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् ।
उताऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततो ऽग्निमः ॥ MJAINY_४,१.१८ ॥
आमक्षी पय एवात्र तच्छब्दान्मन्त्रतो रसात् ।
प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम् ॥ MJAINY_४,१.१९ ॥


इदमाम्नायते- “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इति ।
तत्र-पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपिऽ इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव ।
तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,-
ब्रूमः- “न द्रव्यान्तरमामिक्षा, किं तु पय एव” इति तच्छब्दादिभिरवगम्यते ।
“यस्मिन्पयसि दधिप्रक्षेपः, सा"मिक्षाऽ इति तच्छब्देन पयः परामृश्यते ।
आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- “जुपन्तां युज्यं पयः” इति ।
पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने ।
ततः- प्राधान्येन पयसो वनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका ।
अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम् ॥ MJAINYC_४,१.१८-१९ ॥

(दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्-)

पदकर्माप्रयोजकं नयनस्य परार्थत्वात् । JAIM_४,१.२५ ।


४,१.२०-२१

दशमाधिकरणमारचयति-

सोमक्रयण्यानयने पदकर्म प्रयोजकम् ।
न वाऽद्यो ऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः ॥ MJAINY_४,१.२० ॥
तृतीयया क्रयार्था गौस्तद्द्वाराऽनयनस्य च ।
तादर्थ्यत्तत्प्रयुक्तं तन्न प्रयोजकता पदे ॥ MJAINY_४,१.२१ ॥


ज्योतिष्टोमे सोमक्रय आघ्नायते- “एकहायन्या क्रीणाति” इति ।
सेवमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाध्वर्युस्तस्याः पृष्ठतो ऽनुगच्छति ।
तदप्याम्नातम्- “षट्पदान्यनुनिष्क्रामति” इति ।
ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात् ।
एतदपि श्रूयते- “सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति” इति ।
तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसां संयुक्तमञ्जनं प्रक्षिपेत् ।
एतदपि श्रुतम्-ऽयज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्ऽ इति प्रस्तुत्य “यर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्” इति ।
तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम् ।
अथोच्येत-
दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति ।
तन्न ।
क्रये ऽपि तदसंयोगस्य तुल्यत्वात् ।
अथ- असंयुक्तो ऽपि क्रयो गवानयनेन निष्पद्यते ।
_ तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते- इति समानत्वात् ।
क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते,-
ब्रूमः- “एकहायन्या क्रीणाति” इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते ।
गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽनयने प्रयोजकः ।
न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् ।
तस्मात्- तदप्रयोजकम् ॥ MJAINYC_४,१.२०-२१ ॥

(एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् । )

अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते । JAIM_४,१.२६ ।


४,१.२२-२३

एकादशाधिकरणमारचयति-

श्रपणं तुषवापश्च कपालस्य प्रयोजकौ ।
उत श्चपणमेवाऽद्यो वापार्थत्वात्तृतीयया ॥ MJAINY_४,१.२२ ॥
पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता ।
प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम् ॥ MJAINY_४,१.२३ ॥


“कपालेषु श्रपयति” इति श्रपणं पुरोडाशस्य श्रुतम् ।
तथा- “पुरोडाशकपालेन तुषानुपवपति” इति कपाले तुषधारणं श्रुतम् ।
ते च तुषाः सकपालाः “रक्षसां भागो"सिऽ इति मन्त्रेण नैऋत्यां दिश्यवस्थापनीयाः ।
तत्र श्रपणं यथा कपालसंपादस्य प्रयोजकम्, तथा तुषवापो ऽपि प्रयोजकः ।
“एकहायम्या” इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा “कपालेन” इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्-
इति चेत् ।
मैवम् ।
नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम् ।
किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम् ।
एतच्च “पुरोडाशकपालेन” इति सविशेषणनाम्ना तद्विधानादवगम्यते ।
तथा सति प्रथम् श्रपणेन कपालं प्रयुज्यने ।
न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति ।
तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापे ऽपि प्रसङ्गात्सिध्यति ।
ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते ॥ MJAINYC_४,१.२२-२३ ॥

(द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्-)

पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् । JAIM_४,१.२७ ।


४,१.२४-२५

द्वादशाधिकरणमारचयति-

हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः ।
हृदादिरेव वाऽद्यो ऽस्तु प्रकृतत्वेन साम्यतः ॥ MJAINY_४,१.२४ ॥
हविषो वागशेषत्वाद्धृदादेर्हविरात्मनः ।
प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः ॥ MJAINY_४,१.२५ ॥


अग्नीषोमीयपशौ श्रुतम्-“हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,“इति ।
तथान्यदपि श्रुतम्- “शकृत्संप्रविध्यति” “लोहितं निरस्यति” इति ।
तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याञ्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत् ।
मैवम् ।
पशुयागो हि हविःसाध्यः ।
हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः ।
तस्मात्- हृदयादिरेव प्रयोजकः ।
शकृत्संप्रबेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम् ॥ MJAINYC_४,१.२४-२५ ॥

(त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि २८-३२)

एकदेशद्रव्यश् चोत्पत्तौ विद्यमानसंयोगात् । JAIM_४,१.२८ ।

निर्देशात् तस्यान्यद् अर्थाद् इति चेत् । JAIM_४,१.२९ ।

न शेषसंनिधानात् । JAIM_४,१.३० ।

कर्मकार्यात् । JAIM_४,१.३१ ।

लिङ्गदर्शनाच् च । JAIM_४,१.३२ ।


४,१.२६-२७

त्रयोदशाधिकरणमारचयति-

प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः ।
यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये ॥ MJAINY_४,१.२६ ॥
उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति ।
अग्न्याद्यर्थ पुरोडाशमुपजीव्यैष वर्तताम् ॥ MJAINY_४,१.२७ ॥


दर्शपूर्णमासयोः श्रूयते- “उत्तरार्धात्स्विष्टकृते समवद्यति” इति ।
सो ऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः ।
तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत् ।
मैवम् ।
उत्तरशब्दोर्ऽधशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भाणिनमाराभ्क्षकः ।
अग्न्यादिदेवतार्थः पुरोडाशः प्रकृता भागवांश्च ।
तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते ।
न त्वन्यस्य प्रयोजकः ॥ MJAINYC_४,१.२६-२७ ॥

(चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि ३३-३९)

अभिघारणे विप्रकर्षाद् अनुयाजवत् पात्रभेदः स्यात् । JAIM_४,१.३३ ।

न वापात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् । JAIM_४,१.३४ ।

हेतुत्वाच् च सहप्रयोगस्य । JAIM_४,१.३५ ।

अभावदर्शनाच् च । JAIM_४,१.३६ ।

सति सव्यवचनम् । JAIM_४,१.३७ ।

न तस्येति चेत् । JAIM_४,१.३८ ।

स्यात् तस्य मुख्यत्वात् । JAIM_४,१.३९ ।


४,१.२८-२९

चतुर्दशाधिकरणमारचयति-

अभिघार्य प्रयाजानां शेषेण हविरत्र किम् ।
शेषधारणतत्पात्रे कार्ये नो वाभिघारणम् ॥ MJAINY_४,१.२८ ॥
नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः ।
प्राजापत्यवपायाश्च न को “प्यर्थो"भिधारणात् ॥ MJAINY_४,१.२९ ॥


प्रकृतौ श्रुतम्- “प्रयाजशेषेण हवींष्यभिधारयति” इति ।
तदेतद्विकृतावतिदिष्टम् ।
विकृतयश्च वाजपेयगताः पशवः ।
ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति ।
“आग्नेयं पशुमालभते” इत्यादिना विहिताः क्रतुपशवः ।
इतरे तु “सप्तदश प्राजापत्यान्पशूनालभते” इति विहिताः ।
एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते ।
ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते ।
तत्र क्रतुपशूनां प्रातःसवन एवाऽलब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति ।
प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् ।
आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य “ब्रह्मसाम्न्यालभते” इति विधानात् ।
तेषां च प्राजापत्यादीनां हविषामभिधारणार्थ प्रातःकालीनः प्रयाजशेषो धारयितव्यः ।
न चात्र जुह्वां तद्धारणं संभवति ।
क्रतुपश्वनुष्ठाने जुह्वाया व्यापृतत्वात् ।
अतः पात्रान्तरं संताद्य तस्मिन्नयं शेषो धारयितव्यः ।
अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिधारणात्सिद्धिः ।
तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते-
ब्रूमः- ते उभे न कर्तव्ये ।
कुतः ।
अभिधारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्त् ।
न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः ।
दृष्टं च जुह्वा रिक्तीकरणम् ।
अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत ।
ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम् ।
अस्तु वा तत्र हविःसंस्कारो ऽपि तथापि प्राजापत्यवपायामभिधारणं व्यर्थम् ।
रूक्षत्वनिवारणाय ह्यभिधार्यते ।
न च प्राजापत्यवपाया रूक्षतास्ति ।
ब्रह्मसाम्नैवतद्रूक्षताया निवारितत्वात् ।
अत एव- श्रूयते- ऽशम्या वा एतर्हि वपा यर्ह्यनभिधृता ।
ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते ।
तेनाशम्यास्तेनाभिधृताः इति ।
शम्या रूक्षैत्यर्थः ।
तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये ॥ MJAINYC_४,१.२८-२९ ॥

(पञ्चदशे समानयनस्याऽज्यधर्मप्रयोजकताधिकरणे सूत्रे ४०-४१)

समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् । JAIM_४,१.४० ।

वचने हि हेत्वसामर्थ्ये । JAIM_४,१.४१ ।


४,१.३०-३२

पञ्चदशाधिकरणमारचयति-

चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् ।
जुह्वामानयतीत्यौपभृतं नैषां प्रयोजयेत् ॥ MJAINY_४,१.३० ॥
प्रयोजयेदुताऽनीतिः प्रयाजाद्यखिलार्थता ।
श्रुतौपभृत आज्ये ऽतो जौहवेन विकल्पनात् ॥ MJAINY_४,१.३१ ॥
न प्रयोजकता मैवं नियतार्थ तु जौहवम् ।
अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत् ॥ MJAINY_४,१.३२ ॥


दर्शपूर्णमासयोः श्रूयते-ऽअतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्ऽ इति ।
अस्यायमर्थः- ऽपञ्चामां प्रयाजानां मध्ये तृतीयः प्रयाज इट् शब्देन बहुवचनान्तेनाभिधीयते ।
तं तृतीयं प्रयोजमतिक्रम्य बर्हिर्नामकं चतुर्थ प्रयाजं होतुमुपभृत्संज्ञकायां स्त्रुचि स्थितं घृतं जुह्वामानेतव्यम्ऽ इति ।
तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् ।
तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्त्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते- चतुर्जुह्वां गृह्णाति, अष्टावुपभृति, “ऽचतुघ्रुवायां,” यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्ऽ “यदुपभृति प्रयाजामुयाजेभ्यस्तत्” “सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्” इति ।
तत्र- जौहवं केवलप्रयाजार्थम् ।
औपभृतं तु प्रयाजानुयाजार्थामिति प्रयाजेषु जौहवमौपभृतं च विकल्पते ।
तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्याऽनयनमेव मास्ति, कुत आनयनस्य प्रयोजकत्वम् ।
यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यर्ध पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम् ।
तयोः प्रयाजसाधनमर्थ प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते ।
यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् ।
तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्याऽनयनं प्रयोजकम्- इति प्राप्ते-
ब्रूमः- “यज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थ च”- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाऽश्रयितुं शक्यः ।
यदा जौहवस्वीकारः, तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वी क्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः ।
जौहववाक्ये ऽप्येवं चत्वारः, इत्यष्टौ दोषाः ।
यथोक्तव्यवस्था च “अतिहायेड” इतिवाक्यादध्यवसीयते ।
तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव ॥ MJAINYC_४,१.३०-३२ ॥

(षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि ४२-४५)

तत्रोत्पत्तिर् अविभक्ता स्यात् । JAIM_४,१.४२ ।

तत्र जौहवम् अनुयाजप्रतिषेधार्थम् । JAIM_४,१.४३ ।

औपभृतं तथेति चेत् । JAIM_४,१.४४ ।

स्याज् जुहूप्रतिषेधान् नित्यानुवादः । JAIM_४,१.४५ ।


४,१.३३-३४

षोडशाधिकरणमारचयति-

जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थ वा व्यवस्थितिः ।
सर्वार्थमविशेषात्स्यत्प्रयाजार्थ हि जौहवम् ॥ MJAINY_४,१.३३ ॥
प्रयाजानुयाजहेतुः स्यादौपभृतभाज्यकम् ।
ध्रौवमग्न्यार्थमित्येषा व्यवस्था वचनैर्मता ॥ MJAINY_४,१.३४ ॥


“चतुर्जुह्वां गृह्णाति” इत्यादिषु ग्रहणवाक्येषु “एतदर्थम्” इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् ।
मैवम् ।
“यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्” - इत्यादिभिर्वाक्यैर्व्यवस्थावगमात् ॥ MJAINYC_४,१.३३-३४ ॥

(सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि ४६-४८)

तदष्टसंख्यं श्रवणात् । JAIM_४,१.४६ ।

अनुग्रहाच् च जौहवस्य । JAIM_४,१.४७ ।

द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने । JAIM_४,१.४८ ।


४,१.३५-३६

सप्तदशाधिकरणमारचयति-

अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः ।
चतुर्द्वयग्रहे वाऽद्यः स्यादष्टश्रुतिमुख्यतः ॥ MJAINY_४,१.३५ ॥
चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते ।
चतुर्द्वित्वं लक्ष्यते ऽतः सहानीत्यर्थयष्टता ॥ MJAINY_४,१.३६ ॥


ग्रहणवाक्ये “चतुर्जुह्वां गृह्णाति” इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव “अष्टावुपभृति” इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्ऽ न तु चतुर्गृहीतद्वयम् ।
तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् ।
अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते-
ब्रूमः- प्रसज्यतां नाम लक्षण ।
मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः ।
“चतुर्गृहीतं जुह्रोति” इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति ।
यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न तूपसर्जनानुसारेणाष्टगृहीतम् ।
तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते ।
तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् ।
अपरं त्वनुयाजार्थम् ।
नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् “चतुरुपभृति” इत्येव विधातव्यम्, न तु “अष्टावुपभृति” इति विधिर्युक्तः- इति चेत् ।
मैवम् ।
तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् ।
अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत ।
यदि “उपभृति” इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् ।
अत उभयस्य समीपभूम्यानयनार्थम् “अष्टावुपभृति” इत्युच्यते ।
तस्मात्साहित्यार्थमष्टशब्दप्रयोगे ऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते ॥ MJAINYC_४,१.३५-३६ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः


अथ चतुर्थाध्यायस्य द्वितीयः पादः ।

(प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि १-६)

स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । JAIM_४,२.१ ।

जात्यन्तराच् च शङ्कते । JAIM_४,२.२ ।

तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । JAIM_४,२.३ ।

शकलश्रुतेश् च । JAIM_४,२.४ ।

प्रतियूपं च दर्शनात् । JAIM_४,२.५ ।

आदाने करोतिशब्दः । JAIM_४,२.६ ।