३,८.१-२
अष्टमपादे प्रथमाधिकरणमारचयति-
दक्षिणादिपरिक्रीतिऋत्विजः स्वामिनो ऽथवा ।
परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् ॥ MJAINY_३,८.१ ॥
परिक्रयात्पुराध्वर्युहोत्रादीनामभावतः ।
परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः ॥ MJAINY_३,८.२ ॥
दक्षिणादानेन कर्मकराः परिक्रेतव्याः ।
तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विव्यम्- इति निर्णीतम् ।
दक्षिणा च द्वादशशतरूपाध्वर्युवेद उद्गातृवेदे च समाम्नातै ।
अन्वाहार्यदक्षिणाध्वर्युवेदे ।
ततः समाख्यया परिक्रतृत्वमृत्विजः- इति चेत् ।
मैवम् ।
ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात् ॥ MJAINYC_३,८.१-२ ॥
(द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्-)
वचनाद् इतरेषां स्यात् । JAIM_३,८.२ ।
३,८.३
द्वितीयाधिकरणमारचयति-
इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः ।
स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् ॥ MJAINY_३,८.३ ॥
“य एतामिष्टकामुपदध्यात्, स त्रीन्वारान्दद्यात्” इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् ।
नह्वस्ति वचनस्यातिभारः ॥ MJAINYC_३,८.३ ॥
(तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि ३- ८)
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् । JAIM_३,८.३ ।
याजमानास् तु तत्प्रधानत्वात् कर्मवत् । JAIM_३,८.४ ।
व्यपदेशाच् च । JAIM_३,८.५ ।
गुणत्वेन तस्य निर्देशः । JAIM_३,८.६ ।
चोदनां प्रति भावाच् च । JAIM_३,८.७ ।
अतुल्यत्वाद् असमानविधानाः स्युः । JAIM_३,८.८ ।
३,८.४-५
तृतीयाधिकरणमारचयति-
संस्कारा वपनाद्याः किमध्वर्योः स्वामिनो ऽथवा ।
अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥ MJAINY_३,८.४ ॥
संस्कारैर्योग्यतां प्राप्य स्वकार्य कर्तुमृत्विजः ।
क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा ॥ MJAINY_३,८.५ ॥
“आप उन्दन्तु जीवसे” इत्याद्याः संस्कारमन्त्राः ।
तद्विधयश्चाध्वर्युवेदे समाम्नाताः- “केशश्मश्रु वपते”,ऽनखानि निकृन्ततेऽ इति ।
शक्तश्चाध्वर्युर्वपनादौ ।
तस्मात्- तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत् ।
मैवम् ।
वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते ।
तथा च ब्राह्मणम्- ऽकेशश्मश्रु वपते ।
मृता वा एषा त्वगमेध्या यत्केशश्मश्रु ।
मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैतिऽ इति ।
नह्यध्वयुवपनेन यजमानगता मृता त्वगपैति ।
योग्यस्य हि कर्माधिकार सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति ।
लोके ऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते ।
न तु तदौषधं भृत्यः सेवते ।
तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य ।
क्वचित्तु ।
वचनादृत्विजामपि संस्कारो ऽस्तु ॥ MJAINYC_३,८.४-५ ॥
(चतुर्थे तपसो याजमानताधिकरणे सूत्राणि ९-११)
तपश् च फलसिद्धित्वाल् लोकवत् । JAIM_३,८.९ ।
वाक्यशेषश् च तद्वत् । JAIM_३,८.१० ।
वचनाद् इतरेषां स्यात् । JAIM_३,८.११ ।
३,८.५*-६
चतुर्थाधिकरणमारचयति-
नाश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः ।
दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः ॥ MJAINY_३,८.५* ॥
फलान्तरायपापस्य नाशकत्वेन संस्कृतिः ।
लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः ॥ MJAINY_३,८.६ ॥
ज्योतिष्ठोमे- “द्व्यहं नाश्नाति” “त्र्यहं नाश्नाति"इत्यादिनोक्तं तपो ऽघ्वर्योर्युक्तम् ।
तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् ।
दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत् ।
मैवम् ।
भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात् ।
अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- ऽयदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति ।
यदास्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति ।
यदास्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति ।
यदास्य त्वचास्थि संधीयते, अथ मेध्यो भवति ।
पीत्वा दीक्षते, कृशो यजते ।
यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायतेऽ इति ।
न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति ।
यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् ।
तस्मात्- वपनादिसंस्कारवत्तपो ऽपि यजमानस्यैव ॥ MJAINYC_३,८.५-६ ॥
(पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्-)
गुणत्वाच् च वेदेन न व्यवस्था स्यात् । JAIM_३,८.१२ ।
३,८.७-८
पञ्चमाधिकरणमारचयति-
हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः ।
ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत ॥ MJAINY_३,८.७ ॥
आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः ।
प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि ॥ MJAINY_३,८.८ ॥
वाजपेये श्रूयते- “हिरण्यमालिन ऋत्विजः प्रचरन्ति” इति ।
श्येने श्रूयते- “लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति” इति ।
यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथापि वचनादय मृत्विक्संस्कारः ।
तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत् ।
मैवम् ।
“हिरण्यमालिन ऋत्विजः प्रचरन्ति” इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते ।
किंच- संरकार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारो ऽभ्युपतेव्यः ॥ MJAINYC_३,८.७-८ ॥
(षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे - १३-१४)
तथा कामो ऽर्थसंयोगात् । JAIM_३,८.१३ ।
व्यपदेशाद् इतरेषां स्यात् । JAIM_३,८.१४ ।
३,८.९-१०
षष्ठाधिकरणमारचयति-
वृष्टिकामी सदो नीचैर्मिनुयादिति कामना ।
अध्वर्योः स्वामिनो वाऽद्यो वाक्यान्मातुस्तदुच्यते ॥ MJAINY_३,८.९ ॥
परस्मैपदतो ऽध्वर्युव्यापारस्य परार्थता ।
प्रतीतातो वाक्यबाधे तपोवत्स्वामिनो ऽस्तु तत् ॥ MJAINY_३,८.१० ॥
ज्योतिष्ठोमे श्रूयते- “यदि कामयेत- वर्षुकः पर्जन्यः स्यात्- इति नीचैः सदो मिनुयात्” इति ।
-यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्- इत्यर्थः ।
अत्र- वृष्टिकामनाध्वर्योर्युक्ता ।
“यः कामयेत्, स मिनुयात्” इति वाक्येन कामयितृमात्रोरेकत्वावगमात् ।
मातृत्वं चाध्वर्योरित्यबिवादम् ।
तस्मात्- स कामयिता- इति चेत् ।
मैवम् ।
“मिनुयात्” इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते ।
ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् ।
_ “यजमानकामितां वृष्टिं पर्जन्यः संपादयतु” इत्येव यो ऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम् ।
_ “एवंविदुद्वाता"त्मने वा यजमानाय वा यं कामं कामयते, तमागायतिऽ इति ऋत्विजो ऽपि कामः- इति चेत् ।
तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजो ऽपि फलमस्तु ॥ MJAINYC_३,८.९-१० ॥
(सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे १५-१६)
मन्त्राश् चाकर्मकरणास् तद्वत् । JAIM_३,८.१५ ।
विप्रयोगे च दर्शनात् । JAIM_३,८.१६ ।
३,८.११
सप्तमाधिकरणमारचयति-
आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया ।
तद्बाधे लिङ्गतः स्वामिगामिता कामबन्मता ॥ MJAINY_३,८.११ ॥
इदमाम्नायते-ऽआयुर्दा अग्ने “स्यायुर्मे देहि” इति ।
तस्यैतस्य मन्त्रस्य पाठो “ध्वर्योर्यजमानस्य वा -इत्ययं संशयः"कस्यऽ इत्यनेन पदेन सूचितः ।
अस्मिन्मन्त्रे “आयुर्मे देहि” इति फलस्य स्वात्मसंबन्धः प्रतीयते ।
स च यजमानस्य युक्तः, नाध्वर्योः ।
तस्मात्- कामवन्मन्त्रो ऽपि याजमानः ॥ MJAINYC_३,८.११ ॥
(अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्-)
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् । JAIM_३,८.१७ ।
३,८.१२
अष्ठमाधिकरणमारचयति-
वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः ।
एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ ॥ MJAINY_३,८.१२ ॥
दर्शपूर्णमासयोः- “वाजस्य मा प्रसवेन” इत्ययं मन्त्रो “ध्वर्युकाण्डे यजमानकाण्डे चा"म्नातः ।
तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् ।
मैवम् ।
काण्डान्तरपाठवैयर्य्थप्रसङ्गात् ।
तस्मादुभाभ्यां पठनीयः ।
तयोः पठतोराशयभेदो ऽस्ति ।
“अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि” इत्यध्वर्युर्मनुते ।
“अत्र न प्रमदिष्यामि” इति यजमानः ॥ MJAINYC_३,८.१२ ॥
(नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्-)
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति । JAIM_३,८.१८ ।
३,८.१३
नवमाधिकरणमारचयति-
वाचयेत्स्वामिनं ज्ञाज्ञौ वाचमीयौ ज्ञ एव वा ।
अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम् ॥ MJAINY_३,८.१३ ॥
वाजपेये श्रूयते-ऽकॢप्तीर्यजमानं वाचयतिऽ इति ।
“आर्युयज्ञेन कल्पताम्” इत्यादयो मन्त्राः कॢप्तयः ।
तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् ।
“विद्वासं वाचयेत्” इत्येवं विशेषस्याश्रवणात् ।
अनभिज्ञं तदैव शिक्षयित्वापि वाचयितुं शक्यत्वात्- इति चेत् ।
मैवम् ।
अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् ।
तस्मात्- अभिज्ञमेव वाचयेतु ॥ MJAINYC_३,८.१३ ॥
(दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे १९-२०)
याजमाने समाख्यानात् कर्माणि याजमानं स्युः । JAIM_३,८.१९ ।
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् । JAIM_३,८.२० ।
३,८.१४-१५
दशमाधिकरणमारचयति-
वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयोदिति ।
द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा ॥ MJAINY_३,८.१४ ॥
आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् ।
महाकाण्डोक्तितो “न्त्यो"स्तु द्वंद्वतैवात्र कीर्त्यते ॥ MJAINY_३,८.१५ ॥
दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते- “द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयति” अयं च हन्ति, दृषदौ च समाहन्तिऽ इत्यादि ।
तत्र- पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभवमेकं द्वंद्वम् ।
तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम् ।
एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि ।
तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते-
ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः ।
किंच- यजुर्वेदे याजमानमिदमवान्तर काण्डम्, महाकाण्डं त्वाध्वर्यवमेव ।
तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः ।
तस्मादर्ध्वयुरेव ताननुतिष्ठेत् ।
याजमाने तु काण्डे न येवामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् ।
तेन यजमानस्तामानुपूर्वी मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति ।
तस्मादध्वर्योरेवानुष्ठानम् ॥ MJAINYC_३,८.१४-१५ ॥
(एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्- )
विप्रतिषेधे करणः समवायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् । JAIM_३,८.२१ ।
३,८.१६-१७
एकादशाधिकरणमारचयति-
यो होताध्वर्युरेव स्यादित्याध्वर्यवमाचरन् ।
हौत्रं कुर्यान्न वा त्यागहेत्वमावात्करोति तत् ॥ MJAINY_३,८.१६ ॥
होतैको युगपत्कर्मद्वयं कर्तु नहि प्रभुः ।
त्यजोच्चोदकतः प्राप्तं हौत्रं वाचनिकार्यकृत् ॥ MJAINY_३,८.१७ ॥
अग्नीषोमीयवशौ “परिवीरसि” इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिष्याणं करोति ।
तदानीं क्रियमाणं तत्परिव्यणं होता “युवा सुवासाः”- इत्यनेन मन्त्रेणानुवदति ।
तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम् ।
तत्राध्वर्योर्होतुश्च समास आम्नातः- “यो होता सो"ध्वर्युःऽ इति ।
होतारमनूष्ठा ध्वर्युत्वविधानादध्वर्युकार्ये होत्रानुष्ठेयम् ।
ततः “परिवीरसि” इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत ।
तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत् ।
नहि त्यागहेतुं कंचिन्निषेधं पश्यामः ।
तस्मात्क्रियमाणं तत्परिव्याणं “युवा स्त्रुषासाः” इत्यनेन मन्त्रेण होतानुवदेत्- इति प्राप्ते-
ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तु न शक्नोति ।
ततो ऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् ।
आद्वयव तु “यो होता सो"ध्वर्युःऽ इत्यनेन प्रापितत्वादनुष्ठेयम् ॥ MJAINYC_३,८.१६-१७ ॥
(द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्- )
प्रैषेषु च पराधिकारात् । JAIM_३,८.२२ ।
३,८.१८
द्वादशाधिकरणमारचयति -
प्रोक्षण्यासादनं कुर्यादध्वर्युरितरो ऽथवा ।
आख्ययाऽद्यः सादयेति प्रेषितो “न्यो"स्तु लिङ्गतः ॥ MJAINY_३,८.१८ ॥
दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामातादनं श्रुतम् ।
तदेतद्यजुर्वेदोक्तत्वादाध्वर्यम्- इति चेत् ।
मैवम् ।
प्रैषमन्त्रविरोधप्रसङ्गात् ।
ऽप्रोक्षणीरासादय ।
इद्मावर्हिरुपतादव ।
अग्नीदग्नीन्विहर ।
वर्हिः स्तृणीहिऽ इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नींप्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते ।
तस्मात्- नाऽध्वर्थवम् ॥ MJAINYC_३,८.१८ ॥
(त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे २३-२४)
अध्वर्युस् तु दर्शनात् । JAIM_३,८.२३ ।
गौणो वा कर्मसामान्यात् । JAIM_३,८.२४ ।
३,८.१९
त्रयोदशाधिकरणमारचयति-
अग्नीत्प्रेष्यदुताध्वर्युरग्नीदस्त्वविरोधतः ।
आख्याविरोधादध्वर्युः प्रैषद्वारार्ऽथकृद्यतः ॥ MJAINY_३,८.१९ ॥
यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु ।
विरोधाभावात् - इति चेत् ।
मैवम् ।
आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् ।
न च - प्रोक्षण्यासादनादीनाम ध्वर्युकर्तृकत्वाभावे ऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम् ।
प्रैषद्वारा प्रयोजककर्तृत्वे ऽपि तदविरोधात् ।
तस्मात् - अध्वर्योरेव प्रैषमन्त्रः ॥ MJAINYC_३,८.१९ ॥
(चतुर्दशे -द्गकरणमन्त्रेषु स्वामिफलस्याऽशासितव्यताधिकरणे (वर्चोन्याये)द्घसूत्राणि – २५-२७)
ऋत्विक् फलं करणेष्व् अर्थत्वात् । JAIM_३,८.२५ ।
स्वामिनो वा तदर्थत्वात् । JAIM_३,८.२६ ।
लिङ्गदर्शनाच् च । JAIM_३,८.२७ ।
३,८.२०
चतुर्दशाधिकरणमारचयति -
ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम् ।
श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥ MJAINY_३,८.२० ॥
“ममाग्ने वर्चो विहवेष्वस्तु” इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रो ऽध्व- ।
र्पुणा पठ्यते ।
“विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तु” इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् ।
मैवम् ।
“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते ।
न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः ।
तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् ।
“मदीययजमानस्य तद्वर्चो"स्तुऽ इति ह्युपचारः ।
तस्मात्- यजमानेन पाठ्येषु “आयुर्दा अग्ने"स्यायुर्मे देहिऽ इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥ MJAINYC_३,८.२० ॥
(पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् - )
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् । JAIM_३,८.२८ ।
३,८.२१
पञ्चदशाधिकरणमारचयति -
मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् ।
अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः ॥ MJAINY_३,८.२१ ॥
दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्त्रुक्स्त्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयते ।
तत्रायं करणमन्त्रो “ध्वर्युणा पठ्यते -“अग्नाविष्णू मा वामवक्रमिवं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कुणुतम्ऽ इति ।
ऽभो स्त्रुक्स्त्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि ।
युवां च मत्तो वियुक्तौ मा भवतम् ।
ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम् ।
स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्ऽ इत्यर्थः ।
तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावो ऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत् ।
मैवम् ।
अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते ।
तस्मात् - अध्वयुर्गतो ऽपि संतापाभावो यजमानस्यैव फलम् - इति नात्र मच्छब्दस्योपचारः ॥ MJAINYC_३,८.२१ ॥
(षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्- )
व्यपदेशाच् च । JAIM_३,८.२९ ।
३,८.२२
षोडशाधिकरणमारचयति-
भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते ।
द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः ॥ MJAINY_३,८.२२ ॥
ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते ।
तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति ।
तदा यजमानः “किमत्र” इत्यनेन मन्त्रेण फलं पृच्छति ।
अध्वर्युश्च “भद्रम्-” इत्यनेन मन्त्रेणोत्तरं ब्रूते ।
ततो यजमानः “तन्नौ सह -” इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति ।
तस्मात्- यजमानस्यैव तत् -
इति चेत् ।
मैवम् ।
“नौ” इत्यनेन द्विवचनेन, “सह” इत्यनेन चोभयगामितयैव स्वीकारात् ॥ MJAINYC_३,८.२२ ॥
(सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे - ३०-३१)
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् । JAIM_३,८.३० ।
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः । JAIM_३,८.३१ ।
३,८.२३-२४
सप्तदशाधिकरणमारचयति-
धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः ।
प्राप्तिर्विशेषतो वाऽद्यो विशेषस्यानिरूपणात् ॥ MJAINY_३,८.२३ ॥
प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे ।
यूपावटास्तृतिः कार्य न हि प्राकृतबर्हिषः ॥ MJAINY_३,८.२४ ॥
दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्र्धमाश्च हविरासादनादयो ऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम् ।
ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वे ऽप्यतिदिश्यन्ताम्- इति प्राप्ते, -
ब्रूमः- कार्यमत्र नियामकम् ।
प्रकृतौ हि हविरासादनं वेदिकार्यम् ।
तच्च विकृतावपि प्राप्यमाणं स्वसिद्धयेखननादीन्वेदिधर्मान्प्रापयति ।
यूपावटास्तरणरूपं तु कार्य न प्रकृतावस्ति ।
दर्शपूर्णमासयोर्यूपावटाभावात् ।
तर्च्चऽऽस्तरणकार्ये विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लंवनादीन्वर्हिः संस्कारान्न प्रापयन्ति ।
तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते ॥ MJAINYC_३,८.२३-२४ ॥
(अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्)
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे । JAIM_३,८.३२ ।
३,८.२५
अष्टादशाधिकरणमारचयति -
यद्वर्हिस्तत्पवित्रार्थ न वाऽद्यस्तस्य संभवात् ।
संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत् ॥ MJAINY_३,८.२५ ॥
दर्शपूर्णमासयोरामनन्ति- “समावप्रच्छिन्नाग्नौ दर्मौ प्रादेशमात्रौ पवित्रे करोति” इति ।
तत्र- यदेतद्वेदिस्तरणार्थ लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिपः कार्यम् - इति चेत् ।
मैवम् ।
आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् ।
न हि “वेदिं स्तृणाति” इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः ।
तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया ॥ MJAINYC_३,८.२५ ॥
(एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्)
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् । JAIM_३,८.३३ ।
३,८.२६-२७
एकोनविंशाधिकरणमारचयति-
पुरोडाशस्य शकलमैन्द्रवायवपात्रके ।
अवदध्यात्पुरोडाशो नवो ऽथ सवनीयकः ॥ MJAINY_३,८.२६ ॥
सिद्धस्य यजनार्तत्वान्नवं संपाद्य तत्क्रिया ।
सवनीयेन तत्कार्ये संस्कार्यत्वाद्द्वितीयया ॥ MJAINY_३,८.२७ ॥
ज्योतिष्टोमे श्रूयते - “पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति” इति ।
तत्र- स्त्रवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथापि तस्य यजमार्थत्वेन संस्कृतबर्हिर्बदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशफलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या - इति चेत् ।
मैवम् ।
सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम् ।
कुतः ।
संस्कार्यत्वात् ।
“शकलं निदधाति” इति द्वितीयया संस्कार्यत्वं गम्यते ।
इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः ।
न चात्र कृत्स्नं यजनार्थम् ।
अवदानस्येयत्तपापुरोडाशभागस्यावशेषितत्वात् ।
यथात्र पूर्वसिद्धपुरोडाशशकलम्, तथाऽधाना आश्चिनपात्रेऽ “पयस्यां मैत्रावरुणपात्रे” इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः ॥ MJAINYC_३,८.२६-२७ ॥
(विंशे ताम्येष्टिपूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे -३४-३५)
विकृतौ सर्वार्थः शेषः प्रकृतित्वात् । JAIM_३,८.३४ ।
मुख्यार्थो वाङ्गस्याचोदितत्वात् । JAIM_३,८.३५ ।
३,८.२८-२९
विंशाधिकरणमारचयति -
काम्या उपांशु यष्ठव्याः किं तदङ्गप्रधानयोः ।
प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः ॥ MJAINY_३,८.२८ ॥
मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना ।
अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् ॥ MJAINY_३,८.२९ ॥
इदमाम्नायते - “यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु षष्टव्याः” इति ।
अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोम्याः ।
तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः ।
यथा वेदिधर्माणां बर्हिर्र्धमाणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि ।
नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत् ।
मैवम् ।
काम्यत्वस्यैवात्र विशेषनियामेकत्वात् ।
न त्वङ्गानां काम्यत्वमस्ति ।
करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् ।
ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम् ।
अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः ॥ MJAINYC_३,८.२८-२९ ॥
(एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३६-३८)
संनिधानाविशेषाद् असंभवे तदङ्गानाम् । JAIM_३,८.३६ ।
आधाने ऽपि तथेति चेत् । JAIM_३,८.३७ ।
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् । JAIM_३,८.३८ ।
३,८.३०-३१
एकविंशाधिकरणमारचयति -
नवनीतं श्येन आज्यं मुख्ये ऽङ्गे वास्तु मुख्यगम् ।
विधेयमाज्यमप्रप्तं दृतिस्थनवनीतकम् ॥ MJAINY_३,८.३० ॥
मुख्यः सोमविकारो ऽङ्गे चोदकप्राप्तमाज्यकम् ।
अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः ॥ MJAINY_३,८.३१ ॥
श्येने श्रूयते - “दृतिनवनीतमाज्यं भवति” इति ।
दृतौ चिरं संगृहीतं नवनीतं यस्याऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत् ।
मैवम् ।
प्रधानश्येनस्य सोमयागविकारत्वेनाऽज्यापेक्षाया अभावात् ।
अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते ॥ MJAINYC_३,८.३०-३१ ॥
(द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३९-४१)
तत्काले वा लिङ्गदर्शनात् । JAIM_३,८.३९ ।
सर्वेषां वाविशेषात् । JAIM_३,८.४० ।
न्यायोक्ते लिङ्गदर्शनम् । JAIM_३,८.४१ ।
३,८.३२
द्वाविंशाधिकरणमारचयति-
सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः ।
आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः ॥ MJAINY_३,८.३२ ॥
यो “यं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः सो"यं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु ।
विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत् ।
यथा “सह पशूनालभते” इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा - नवनीतमपि- इति प्राप्ते -
ब्रूमः- “यदाज्यं तद्दृतिनवनीतम्” इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् ।
तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम् ॥ MJAINYC_३,८.३२ ॥
(त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि ४२-४४)
मांसं तु सवनीयानां चोदनाविशेषात् । JAIM_३,८.४२ ।
भक्तिर् असंनिधावन्याय्येति चेत् । JAIM_३,८.४३ ।
स्यात् प्रकृतिलिङ्गाद् वैराजवत् । JAIM_३,८.४४ ।
३,८.३३-३४
त्रयोविंशाधिकरणमारचयति -
शाक्यायने पुरोडाशास्तरसा इति मांसता ।
सर्वत्र सवनीये वा सर्वत्र नवनीतवत् ॥ MJAINY_३,८.३३ ॥
तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः ।
पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते ॥ MJAINY_३,८.३४ ॥
षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् ।
तत्र श्रूयते - संस्थितो “हनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवमीयाः पुरोडाशा भवन्ति” इति ।
तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते - इति चेत् ।
मैवम् ।
तदा हि “ये पुरोडाशास्ते तरसाः” इति वचनव्यक्तौ व्यवहितान्वयः स्यात् ।
तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् ।
इह तु “तरसाः सवनीयाः” इत्यनयोः संनिधिः श्रूयते ।
तथा सति “ये सवनीयास्ते तरसाः” इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते ॥ MJAINYC_३,८.३३-३४ ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याष्टमः पादः
समाप्तश्चायं तृतीयो ऽध्यायः
अथ चतुर्थाध्यायस्य प्रथमः पादः ।