०६ ३,६

३,६.१-२

षष्ठपादस्य प्रथमाधिकरणमारचयति-

प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः ।
प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥ MJAINY_३,६.१ ॥
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः ।
चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् ॥ MJAINY_३,६.२ ॥


अनारभ्य श्रूयते- “यस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोति” इति ।
तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- “या जुहूः सा पर्णमयी” इति ।
वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते ।
उभयत्राऽश्रयभूताया जुह्वाः सत्वात् ।
तस्मात्- प्रकृतिविकृत्योरूमयोरप्ययं विधिः- इति प्राप्ते, -
ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वे निविशते, पश्चाद्वा ।
नाऽद्यः ।
आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात् ।
द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते ।
तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः ।
एवं “यस्य स्वादिरः स्त्रुबो भवति” इत्युदाहरणीयम् ॥ MJAINYC_३,६.१-२ ॥

(द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्-)

प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् । JAIM_३,६.९ ।


३,६.३-४

द्वितीयाधिकरणमारचयति-

सामिधेनीः सप्तदश प्रकृतौ विकृतावुत ।
पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते ॥ MJAINY_३,६.३ ॥
विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् ।
पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः ॥ MJAINY_३,६.४ ॥


अनारभ्य श्रूयते- “सप्तदश सामिधेनीरनुब्रूयात्” इति ।
“प्रवो वाजा अभिद्यव” - इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः ।
तासां साप्तदश्यं पूर्वभ्यायेन प्रकृतिगतम् ।
यदि प्रकृतौ “पञ्चदश सामिधेनीरन्वाह” इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयाताम्- इति प्राप्ते, -
ब्रूमः- विकृतावेव साप्तदश्यं निविशते ।
प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात् ।
न च - प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधा भावः- इति शङ्कनीयम् ।
पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात् ।
तस्मात्- मित्रविन्दाध्वर कल्पादिविकृतौ साप्तदश्यमवतिष्ठते ।
न चात्र पूर्वन्यायो ऽस्ति ।
साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात् ॥ MJAINYC_३,६.३-४ ॥

(तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्-)

नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् । JAIM_३,६.१० ।


३,६.५-६

तृतीयाधिकरणमारचयति-

साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत ।
पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः ॥ MJAINY_३,६.५ ॥
गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् ।
भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः ॥ MJAINY_३,६.६ ॥


“सप्तदशानुब्रूयाद्वैश्यस्य” इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत् ।
मैवम् ।
नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात् ।
नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् ।
नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् ।
तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते ।
अत्र भाष्यकारो “न्यदुदाजहार-“चमसेनापः प्रणयेव्गोदोहनेन पशुकामस्यऽ इति ।
तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः ।
कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः ॥ MJAINYC_३,६.५-६ ॥

(चतुर्थे,- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि ११-१३)

इष्ट्यर्थम् अग्न्याधेयं प्रकरणात् । JAIM_३,६.११ ।

न वा तासां तदर्थत्वात् । JAIM_३,६.१२ ।

लिङ्गदर्शनाच् च । JAIM_३,६.१३ ।


३,६.७-८

चतुर्थाधिकरणमारचयति -

आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् ।
अग्नीनामिष्टिशेषत्वात्तद्द्वारास्य तदङ्गता ॥ MJAINY_३,६.७ ॥
अनारभ्य विधामात्तु नाङ्गं कस्यचिदाहितिः ।
अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ MJAINY_३,६.८ ॥


इदमाम्नायते- “अग्नये पवमानायाष्टादशकपालं निर्वपत्, अग्नये पावकाय, अग्नये शुचये” इति ।
“वसन्ते ब्राह्मणो"ग्नीनादधीतऽ इति च ।
तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत् ।
कुतः ।
दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवमनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽधानस्यापि तदङ्गताया अनिवार्यत्वात् - इति चेत् ।
मैवम् ।
न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् ।
किंतु - अनारभ्याधीतम् ।
अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का ।
ननु- पवमानेष्ठ्यङ्गत्वाभावे ऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत् ।
न ।
संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् ।
तस्मात्- नाऽधानमङ्गम् ॥ MJAINYC_३,६.७-८ ॥

(पञ्चमे,- आधानस्य सर्वार्थताधिकरणे सूत्रे १४-१५)

तत्प्रकृत्यर्थं यथान्ये ऽनारभ्यवादाः । JAIM_३,६.१४ ।

सर्वार्थं वाधानस्य स्वकालत्वात् । JAIM_३,६.१५ ।


३,६.९-१०

पञ्चमाधिकरणमारचयति -

आधानं किं प्रकृत्यर्थे वह्निमात्रेण वा युतम् ।
संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् ॥ MJAINY_३,६.९ ॥
लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः ।
पर्णस्याऽहवनीयादौ शास्त्रीये ऽस्तु स्वतन्त्रता ॥ MJAINY_३,६.१० ॥


अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रनाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत् ।
मैवम् ।
वैषम्यात् ।
द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च ।
अरत्निमात्रदैर्घ्य हसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः ।
अपूर्वीयत्वाकारस्तु शास्त्रीयः ।
तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति ।
तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत् ।
काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात् ।
अचो ऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः ।
आहवनीयादीनां त्वेक एव शास्त्रीयाकारः ।
स च विङिबलादाधानेनैव जन्यते, नान्यथा ।
तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीवाहवनीयाद्याकारसंपादनसमर्थ त्वादग्निहोत्रेण तत्संयुज्यते ।
तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनुत्पाद्य क्रतुवत्स्वात त्र्येणावतिष्ठते ।
ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा मेवाऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगो ऽस्तु ॥ MJAINYC_३,६.९-१० ॥

(षष्ठे पवमानेष्टीनामसंस्कृते ऽग्नौ कर्तव्यताधिकरणे सूत्रे १६-१७)

तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् । JAIM_३,६.१६ ।

न वा तासां तदर्थत्वात् । JAIM_३,६.१७ ।


३,६.११-१२

षष्ठाधिकरणमारचयति-

संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः ।
वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ MJAINY_३,६.११ ॥
चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः ।
अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्यदसंस्कृते ॥ MJAINY_३,६.१२ ॥


पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते ।
संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादि क्रतवःप्रवर्तन्ते ।
तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत् ।
चोदको ऽप्येवं ।
सत्यनुगृहीतो भवति ।
एताभिरिष्टिभिः संस्कृते बह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते-
ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथापि चोदको न तस्यां पवमानेष्टौ पवमानेष्टि मतिदेष्टुं प्रभवति ।
प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् ।
किंच- “एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थ पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा” इत्यनवस्थायामिष्टिरेव न सिध्येत् ।
तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः ॥ MJAINYC_३,६.११-१२ ॥

(सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि १८-२७)

तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् । JAIM_३,६.१८ ।

स्थानाच् च पूर्वस्य । JAIM_३,६.१९ ।
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था । JAIM_३,६.२० ।

तेनोत्कृष्टस्य कालविधिर् इति चेत् । JAIM_३,६.२१ ।

नैकदेशत्वात् । JAIM_३,६.२२ ।

अर्थेनेति चेत् । JAIM_३,६.२३ ।

न श्रुतिविप्रतिषेधात् । JAIM_३,६.२४ ।

स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् । JAIM_३,६.२५ ।

लिङ्गदर्शनाच् च । JAIM_३,६.२६ ।

अचोदना वा गुणार्थेन । JAIM_३,६.२७ ।


३,६.१३-१५

सप्तमाधिकरणमारचयति -

अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी ।
उपाकरणमुख्यास्तु धर्माः साधारण न वा ॥ MJAINY_३,६.१३ ॥
ज्योतिष्टोमप्रकरणे पाठात्साधारण अमी ।
पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः ॥ MJAINY_३,६.१४ ॥
अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति ।
द्वयोरितरयोः पश्र्वोः प्राप्यन्ते चोदकेन ते ॥ MJAINY_३,६.१५ ॥


अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः ।
पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽम्नाताः ।
“प्रजापतेर्जायमानाः” “इमं पशुम्”- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम् ।
दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् ।
त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते ।
त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् ।
ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत् ।
न ।
तस्य सोमयागत्वात् ।
सोमो ह्यभिषवादीन्धर्मानाका ङ्क्षति, न तु यूपनियोजनविशसनादीन् ।
तस्मात्- अङ्गिन्यनर्थकाः सन्तो ऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते-
ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः ।
सौत्यनामकादह्नः प्राचीन औपवसथ्यनामके ऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः ।
अग्नीषोमीयस्यापि तदेव स्थानम् ।
सवनीयस्तु सौत्ये “हनि श्रूयते-“आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सवनीयं पशुमुपाकरोतिऽ इति ।
अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः ।
ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदिश्यन्ते ॥ MJAINYC_३,६.१३-१५ ॥

(अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे २८-२९)

दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् । JAIM_३,६.२८ ।

प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् । JAIM_३,६.२९ ।


३,६.१६-१७

अष्टमाधिकरणमारचयति-

शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः ।
प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः ॥ MJAINY_३,६.१६ ॥
आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते ।
बलिनो “तः प्रकरणात्प्रातर्दोहे"पि सन्ति ते ॥ MJAINY_३,६.१७ ॥


दर्शपूर्णमासंप्रकरणे - पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः ।
दोहौ च द्वौ विद्येते-अमावास्यायां रात्रावेको दोहः ।
प्रतिपदि प्रातरपरो दोहः ।
तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत् ।
मैवम् ।
वेषम्यात् ।
पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रति हतम् ।
इह तु नास्त्यानर्थक्यप्रतिहतिः ।
ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः ॥ MJAINYC_३,६.१६-१७ ॥

(नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्- )

तद्वत् सवनान्तरे ग्रहाम्नानम् । JAIM_३,६.३० ।


३,६.१८

नवमाधिकरणमारचयति-

ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते ।
त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः ॥ MJAINY_३,६.१८ ॥


ज्योतिष्टोमे प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः ।
तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते - “उपोप्ते"न्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवःऽ इति ।
“दशापवित्रेण ग्रहं संमार्ष्टि” इति च ।
ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा ।
पूर्वाधिकरणे शाशाहरणादयः प्रधानयोर्दधिपयसोर्र्धमाः समाम्नाताः ।
तच्च दधि पूर्वोद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थे केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारण त्वेन धर्मैः सहैकस्मिन्देशे पाठो ऽस्तीति स्थानं न निश्चितम्, इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत् ।
मैवम् ।
सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते ।
तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सबनेषु सादनादयो ऽवतिष्ठन्ते ॥ MJAINYC_३,६.१८ ॥

(दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्-)

रशना च लिङ्गदर्शनात् । JAIM_३,६.३१ ।

दशमाधिकरणमारचयति-


३,६.१९-१८*

एकत्रैवोत सर्वत्र रशनावेष्टनादयः ।
अग्नीषोमीय एवैते क्रमाल्लिङ्गादितो ऽन्तिमः ॥ MJAINYC_३,६.१८* ॥


अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- “परिव्ययति, ऊर्ग्वै रशना” इति, “त्रिषृद्भवति” इति, “दर्भमयी भविति” इति च ।
तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणा द्वाग्नीषोमीय एव स्युः- इति चेत् ।
मैवम् ।
सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते ।
“त्रिवृता यूपं परिनीया"ग्नेयं सवनीयं पशुमुपाकरोतिऽ इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादोलिङ्गम् ।
किंच तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता ।
यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते ।
तस्मात्- सर्वेषु पशुध्वेते धर्माः स्युः ॥ MJAINYC_३,१.१८* ॥

(एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि ३२-३४)

आराच् छिष्टम् असंयुक्तम् इतरैः संनिधानात् । JAIM_३,६.३२ ।

संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् । JAIM_३,६.३३ ।

निर्देशाद् व्यवतिष्ठेत । JAIM_३,६.३४ ।


३,६.१९

एकादशाधिकरणमारचयति -

ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि ।
विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥ MJAINY_३,६.१९ ॥


अनारभ्य द्वौ ग्रहौ श्रुतौ- “अंशुं गृह्णाति” इति, “अदाभ्यं गृह्णाति” इति च ।
तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते ।
कुतः ।
आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् - इति चेत् ।
मैवम् ।
“ग्रहाः साद्यन्ते” इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् ।
न चैन्द्रवायवादयः प्रकरणिनः ।
ज्योतिष्ठोमो हि प्रकरणी ।
तस्मात्सन्ति तयोर्र्धमाः ॥ MJAINYC_३,६.१९ ॥

(द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्-)

अग्न्यङ्गम् अप्रकरणे तद्वत् । JAIM_३,६.३५ ।


३,६.२०-२१

द्वादशाधिकरणमारचयति-

अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः ।
सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते ॥ MJAINY_३,६.२० ॥
प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः ।
अखण्डत्वादयो ऽग्न्यर्थचित्रिण्यादिषु सन्ति ते ॥ MJAINY_३,६.२१ ॥


अनारभ्य श्रूयते- “चित्रिणीरुपदधाति” इति ।
अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- “अखण्डामकृष्णां कुर्यात्” इति ।
पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वे ऽपि विनियोजकवाक्यं प्रकरणाधीतम् ।
चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् ।
तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते ।
अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः ।
तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते, -
ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापि “य एवं विद्वानग्निं चिनुते” इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयो ऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते ।
अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः ।
तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति ॥ MJAINYC_३,६.२०-२१ ॥

(त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्-)

नैमित्तिकम् अतुल्यत्वाद् असमानविधानं स्यात् । JAIM_३,६.३६ ।


३,६.२२-२३

त्रयोदशाधिकरणमारचयति-

विधयो ऽभिषवाद्याः स्युः फलाख्ये चमसे न वा ।
नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः ॥ MJAINY_३,६.२२ ॥
नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे ।
न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः ॥ MJAINY_३,६.२३ ॥


न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः ।
स च नैमित्तिकः ।
राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् ।
सोमस्तु नित्यः ।
उपाधिक्रममप्यनुपजीव्यैव “सोमेन यजेत” इति विहितत्वात् ।
तस्य च नित्वस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति ।
तस्मात् “सोममभिपुणोति” “सोमं क्रीणाति” इत्यादयो यागद्रव्य संस्कारविधयः सोम इव फलचमसे ऽपि प्रवर्तन्ते- इति प्राप्ते, -
ब्रूमः- नित्या अभिक्वादिसंस्कारा नित्यं सोमं संस्कार्य लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते ।
फलचमसस्तु सोयविकारत्वात्पश्चाद्भावी ।
ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते ।
न चैतावता संस्काराभावः ।
चोदकेन तत्सिद्धः ।
तस्मात्- सोममात्रसंबन्धिनो विधयः ॥ MJAINYC_३,६.२२-२३ ॥

(चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि ३७-३९)

प्रतिनिधिश् च तद्वत् । JAIM_३,६.३७ ।

तद्वत्प्रयोजनैकत्वात् । JAIM_३,६.३८ ।

अशास्त्रलक्षणत्वाच्च । JAIM_३,६.३९ ।


३,६.२४

चतुर्दशाधिकरणमारचयति-

नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः ।
पुरेवातुल्यता साम्यमाकाराद्ब्रीहिता यतः ॥ MJAINY_३,६.२४ ॥


“व्रीहिभिर्यजेत” इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते ।
तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत् ।
मैवम् ।
व्रीहिशब्दो हि जातिविशेषेणाऽकारविशेषेण वोपेतं द्रव्यमाचष्टे ।
नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावे “प्याकारतो व्रीहिशब्दार्थत्वेन"व्रीहीनवहन्तिऽ इति विधिः प्रवर्तते ।
यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु ॥ MJAINYC_३,६.२४ ॥

(पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्-)

नियमार्था गुणश्रुतिः । JAIM_३,६.४० ।


३,६.२५

पञ्चदशाधिकरणमारचयति-

पूतीकाभिषवो ऽतुल्यस्तुल्यो वा सोमतुल्यता ।
नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः ॥ MJAINY_३,६.२५ ॥


“यदि सोमं न विन्देत, पूति(ती) कानभिषुणुयात्” इति श्रूयते ।
तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति चेत् ।
मैवम् ।
नीवारबत्प्रतिनिधित्वात् ।
ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः ।
अत एव नीवारेषु विधिर्न श्रुतः- इति चेत् ।
न ।
विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् ।
तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः ॥ MJAINYC_३,६.२५ ॥

(षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि ४१-४७)

संस्थास् तु समानविधानाः प्रकरणाविशेषात् । JAIM_३,६.४१ ।

व्यपदेशश् च तुल्यवत् । JAIM_३,६.४२ ।

विकारास् तु कामसंयोगे नित्यस्य समत्वात् । JAIM_३,६.४३ ।

अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति । JAIM_३,६.४४ ।

वचनात् तु समुच्चयः । JAIM_३,६.४५ ।

प्रतिषेधाच् च पूर्वलिङ्गानाम् । JAIM_३,६.४६ ।

गुणविशेषाद् एकस्य व्यपदेशः । JAIM_३,६.४७ ।


३,६.२६-२७

षोडशाधिकरणमारचयति-

उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा ।
एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता ॥ MJAINY_३,६.२६ ॥
उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः ।
अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः ॥ MJAINY_३,६.२७ ॥


ज्योतिष्टोमः- स्वयमेको ऽपि समाप्तिभेदाद्भिद्यते ।
यज्ञायज्ञियस्तोत्रेण समाप्तौ “अग्निष्टोमः” इत्युच्यते ।
तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ “उक्थ्यः” इत्युच्यते ।
एवं षोडश्यादयो ऽपि ।
तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः ।
स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषे ऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते ।
कुतः ।
प्रकरणसंबन्धस्य समानत्वात् ।
किंच- यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयो ऽपि ।
तेषां च फलमेवमाम्नायते-ऽपशुकाम उक्थ्यं गृह्णीयात्ऽ “षोडशिना वीर्यकामः स्तुवीत” “अतिरात्रेण प्रजाकामं याजयेत्” इति ।
तस्मात् - सप्तस्वपि संस्थासु समानो ऽङ्गविधिः- इति प्राप्ते, -
ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति ।
“काम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशते” इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति ।
ततो ऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु - अग्निष्टोमस्यै वासाधारणम ।
ननु- “ज्योतिष्टोमेन यजेत” इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत् ।
बाढम् ।
असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति ।
उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् ।
उक्थ्यादींस्तु व्यभिचरति ।
विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् ।
अतो ऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति ।
उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ MJAINYC_३,६.२६-२७ ॥

इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः


अथ तृतीयाध्यायस्य सप्तमः पादः ।

(प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि १-५)

प्रकरणविशेषाद् असंयुक्तं प्रधानस्य । JAIM_३,७.१ ।

सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् । JAIM_३,७.२ ।

आरादपीति चेत् । JAIM_३,७.३ ।

न तद्वाक्यं हि तदर्थत्वात् । JAIM_३,७.४ ।

लिङ्गदर्शनाच् च । JAIM_३,७.५ ।

सप्तमपादस्य प्रथमाधिकरणमारचयति -