३,५.१-२
पञ्चमपादस्य प्रथमाधिकरणमारचयति
उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा ।
भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ MJAINY_३,५.१ ॥
उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् ।
अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम् ॥ MJAINY_३,५.२ ॥
ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् ।
कुतः ।
“तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति” इति वाक्येन प्रापितत्वात्- इति चेत् ।
मैवम् ।
कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति ।
ध्रौवं त्वाज्यं न कृतार्थम् ।
तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् ।
तस्मात् - न तेन शेषकार्ये भवति ॥ MJAINYC_३,५.१-२ ॥
(द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् -)
साकंप्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् । JAIM_३,५.१३ ।
३,५.३-४
द्वितीयाधिकरणमारचयति-
आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा ।
जुह्वावदानात्प्रकृताविव शेषक्रियोचिता ॥ MJAINY_३,५.३ ॥
कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि ।
न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः ॥ MJAINY_३,५.४ ॥
“साकंप्रस्थायीयेन यजेत पशुकामः” इति विहिते कर्मणि श्रूयते- “सह कुम्भीभिरभिक्रामन्नाह” इति ।
तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशे ऽभिक्रमण मात्रं श्रुतम् ।
न तु तत्र कुम्भीभिर्होमः श्रुतः ।
तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्यो ऽवदाय होतव्यम् ।
हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यम्- इति प्राप्ते, -
ब्रूमः- नात्र कुम्भीषु हुतशेषः सिध्यति ।
सांनाय्यवज्जुह्वा तदवदानाभावात् ।
“अग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्” इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः ।
तत्र कुतः शेषकार्यम् ॥ MJAINYC_३,५.३-४ ॥
(तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे १४-१५)
सौत्रामण्यां च ग्रहेषु । JAIM_३,५.१४ ।
तद्वच् च शेषवचनम् । JAIM_३,५.१५ ।
३,५.५
तृतीयाधिकरणमारचयति-
सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् ।
शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः ॥ MJAINY_३,५.५ ॥
सौत्रामणिनामके यागे श्रूयते - “पयोग्रहाः सुराग्रहाश्च गृह्यन्ते” इति ।
तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति ।
न चात्र पूर्ववच्छेषाभावः ।
“उच्छिनष्टि, न सर्वे जुहोति” इत्यवशेषयितव्यत्वश्रवणात्- इति चेत् ।
मैवम् ।
अवशिष्टस्यान्यत्रोपयोगश्रवणात् ।
“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्” इति श्रूयते ।
“यदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्” इति च ।
“शतातृणायामवनेयत्” इति च ।
शतच्छिद्रा कुम्भी शतातृणा ।
तस्मात्- नास्ति स्विष्टकृदादिकम् ॥ MJAINYC_३,५.५ ॥
(चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे १६-१७)
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् । JAIM_३,५.१६ ।
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्टत्वात् । JAIM_३,५.१७ ।
३,५.६-७
चतुर्थाधिकरणमारचयति-
रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते ।
पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा ॥ MJAINY_३,५.६ ॥
भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः ।
शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम् ॥ MJAINY_३,५.७ ॥
“य इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्” इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- “इन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवताय” इति ।
तत्र स्वरूपेणैको ऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते ।
तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- ऽद्वादशकपालः पुरोडाशो भवति ।
वैश्वदेवत्वायऽ इति ।
तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्यो “वदानं श्रूयते-“समन्तं पर्यवद्यतिऽ इति ।
तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् - इति चेत् ।
मैवम् ।
शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् ।
तस्मात्- सकृदेव कार्यम् ॥ MJAINYC_३,५.६-७ ॥
(पञ्चमे - ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्)
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् । JAIM_३,५.१८ ।
३,५.८
पञ्चमाधिकरणमारचयति-
ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् ।
पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् ॥ MJAINY_३,५.८ ॥
ज्योतिष्टोमे यो “यमैन्द्रवायवग्रहः” तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत् ।
मैवम् ।
“द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति” इति वचनाद्विर्भक्षणम् ॥ MJAINYC_३,५.८ ॥
(षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि १९-२१)
सोमे ऽवचनाद् भक्षो न विद्यते । JAIM_३,५.१९ ।
स्याद् वान्यार्थदर्शनात् । JAIM_३,५.२० ।
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः । JAIM_३,५.२१ ।
३,५.९
षष्ठाधिकरणमारचयति -
सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः ।
अल्पोक्तेरस्ति शेषो “स्य भक्षो"पूर्ववचोबलात् ॥ MJAINY_३,५.९ ॥
सोमयागेषु शेषभक्षो नास्ति, “यद्ग्रहाञ्जुहोति” इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत् ।
मैवम् ।
“अल्पं जुहोति” इति विशेषवचनाच्छेषः सिध्यति ।
तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्यो ऽवगम्यते ।
“आश्विनं भक्षयन्ति” द्विरैन्द्रवायवस्य भक्षयन्तिऽ “सदसि भक्षयन्ति” इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति ।
ततो भक्षविधानादस्ति सोमेषु भक्षः ॥ MJAINYC_३,५.९ ॥
(सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्-)
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् । JAIM_३,५.२२ ।
३,५.१०
सप्तमाधिकरणमारचयति-
किं प्रैतु होतुश्र्चमस इत्यभक्षो ऽथ भक्षणम् ।
अभक्षो ऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत् ॥ MJAINY_३,५.१० ॥
ज्योतिष्टोमे श्रूयते- “प्रैतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्” इति ।
तत्र- वचनामावादभक्षः- इति चेत् ।
मैवम् ।
समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् ।
“चम्वते भक्ष्यते सोमो"स्मिन्पात्रविशेषेऽ इति हि तद्व्युत्पत्तिः ।
तस्मात्-ःअस्ति तद्भक्षणम् ॥ MJAINYC_३,५.१० ॥
(अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि - २३-२६)
उद्गातृचमसमेकः श्रुतिसंयोगात् । JAIM_३,५.२३ ।
सर्वे वा सर्वसंयोगात् । JAIM_३,५.२४ ।
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः । JAIM_३,५.२५ ।
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् । JAIM_३,५.२६ ।
३,५.११-१३
अष्टमाधिकरणमारचयति -
प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत ।
सर्वे ऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः ॥ MJAINY_३,५.११ ॥
सहितास्तेन ते वाऽद्य उद्गातृश्रुतितो ऽखिलाः ।
बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते ॥ MJAINY_३,५.१२ ॥
योगे समाख्यया दण्डिन्यायादन्त्यो ऽत्र भाष्यगः ।
सदसि स्थित्यभावेन तृतीयो वातिंकोदितः ॥ MJAINY_३,५.१३ ॥
पूर्वोदाहृतवाक्ये “प्रोद्वातॄणाम्” इत्यत्रैकस्यैव भक्षः ।
उद्वीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात् - इत्येकः पूर्वपक्षः ।
“उद्गातॄणाम्” इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वे ऽपि भक्षयेयुः- इति द्वितीयः ।
उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति ।
“उदुत्कर्षेण गायन्ति” इति योगेनोद्वातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः ।
“रूढिर्योगमपहरति” इति न्यायादेक एवोद्गाता ।
तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते ।
प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति ।
सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् ।
तस्मात्- “सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः”- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः ।
वार्तिककारस्तु - सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार ॥ MJAINYC_३,५.११-१३ ॥
(नवमे प्रावस्तुतो ऽपि सोमभक्षणाधिकरणे सूत्राणि २७-३०)
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् । JAIM_३,५.२७ ।
हारियोजने वा सर्वसंयोगात् । JAIM_३,५.२८ ।
चमसिनां वा संनिधानात् । JAIM_३,५.२९ ।
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः । JAIM_३,५.३० ।
३,५.१४-१५
नवमाधिकरणमारचयति-
किं स्याच्चमसिनामेव हारियोजनभक्षणम् ।
सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः ॥ MJAINY_३,५.१४ ॥
लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः ।
प्रावस्तुतो ऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥ MJAINY_३,५.१५ ॥
“हरिरसि हारियोजनः” इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः ।
होतृब्रह्मादय श्चमसिमः ।
यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामके ऽस्ति, नासौ चमसी ।
तत्र चमसिनामेव हारियोजनभक्षणम् ।
कुतः-“यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्तेऽ इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् ।
अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते-
ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतो ऽपि भक्षः ।
तस्मात्- चमसित्वं न भक्षणे कारणम् ॥ MJAINYC_३,५.१४-१५ ॥
(दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् -)
वषट्काराच् च भक्षयेत् । JAIM_३,५.३१ ।
३,५.१६-१७
दशमाधिकरणमारचयति-
आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् ।
किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके ॥ MJAINY_३,५.१६ ॥
अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् ।
विशिष्टस्य विधिस्तस्माद्वषट्कारो ऽपि कारणम् ॥ MJAINY_३,५.१७ ॥
“वषट्कर्तुः प्रथमभक्षः” इत्येवं श्रूयते ।
वषट्कर्ता होता ।
तस्य भक्षणं समाख्याया प्राप्तम् ।
प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते - इति चेत् ।
मैवम् ।
“प्रथमभक्षः” इत्यस्य समस्तपदत्वेन “यो भक्षः, स प्रथमः” इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते ।
तस्मिन्भक्षणे वषट्कारः कारणम् ॥ MJAINYC_३,५.१६-१७ ॥
(एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्-)
होमाभिषवाभ्यां च । JAIM_३,५.३२ ।
३,५.१८-१९
एकादशाधिकरणमारचयति-
आख्यावचोवषट्कारा एव किं भक्षहेतवः ।
किंवाभिषवहोमौ च तत्राऽद्यो ऽस्तूक्तया दिशा ॥ MJAINY_३,५.१८ ॥
हविर्धाने ऽभिषुत्याथ हुत्वा सदसि भक्षयेत् ।
इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे ॥ MJAINY_३,५.१९ ॥
“प्रैतु होतुश्चमसः” इत्यत्र समाख्या भक्षहेतुः ।
हारियोजने वाक्यम् ।
“वषट्कर्तुः प्रथमभक्षः” इत्यत्र वषट्कारः ।
इत्येवमुक्तत्वात्रय एव भक्षहेतवः- इति चेत् ।
मैवम् ।
“हविर्धाने ग्रावभिरभिषुत्या"हवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्तिऽ इति श्रूयते ।
उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डले ऽमिषवः ।
उत्तरवेद्यां होमः ।
सदसि भक्षणम् ।
तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते ।
तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति ॥ MJAINYC_३,५.१८-१९ ॥
(द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि ३३-३५)
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे । JAIM_३,५.३३ ।
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् । JAIM_३,५.३४ ।
चमसे चान्यदर्शनात् । JAIM_३,५.३५ ।
३,५.२०-२१
द्वादशाधिकरणमारचयति-
हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः ।
साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया ॥ MJAINY_३,५.२० ॥
नैव वाचनिकं बाध्यं भक्षणे ऽत्र विभागशः ।
सिद्धेविकल्पो नो युक्तः स्वीकार्यो ऽतः समुच्चयः ॥ MJAINY_३,५.२१ ॥
“प्रैतु होतुश्चमसः, प्र ब्रह्मणः”- इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः ।
“वषट्कर्तुः प्रथमभक्षः” इत्यत्र वषट्कारो होतुर्भक्षहेतुः ।
“हविर्धाने ग्रावमिरभषुत्या"हवनीये हुत्वा सदसि भक्षयन्तिऽ इत्यत्राभिषवसहितो होमो ऽध्वर्योर्भक्षहेतुः ।
तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः ।
चमसाभिषवसंघो ऽध्वर्यौ प्राप्तः ।
तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणम्- इत्याद्यः पक्षः ।
वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः ।
“वषट्कर्तुः” इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः ।
मिरवकाशतया सापि प्रबला- इति चेत् ।
तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयो ऽभ्युपेयः, न च व्रीहियववद्विकल्पः ।
तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् ।
इह तु नियमादृष्टार्थे भक्षणम् ।
तच्चादृष्टं यथावचनं द्विविधम् ।
तस्मात्समुच्चयः ॥ MJAINYC_३,५.२०-२१ ॥
(त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि ३६-३९)
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् । JAIM_३,५.३६ ।
होता वा मन्त्रवर्णात् । JAIM_३,५.३७ ।
वचनाच् च । JAIM_३,५.३८ ।
कारणानुपूर्व्याच् च । JAIM_३,५.३९ ।
३,५.२२-२३
त्रयोदशाधिकरणमारचयति-
एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः ।
तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् ॥ MJAINY_३,५.२२ ॥
पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता ।
वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि ॥ MJAINY_३,५.२३ ॥
एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणम्- तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् - इति चेत् ।
मैवम् ।
लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् ।
“होतेव नः प्रथमः पाहि” इति ऋत्विजो “ध्वर्यु संबोध्यैवं प्रार्थयन्ते-“यथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहिऽ इति ।
तदेतद्धोतुः प्रथमभक्षे लिङ्गम् ।
वाक्यं चैवमाम्नातम्- “वषट्कर्तुः प्रथमभक्षः” इति ।
तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति ।
न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् ।
तस्मात् - होता प्रथमं भक्षयेत् ॥ MJAINYC_३,५.२२-२३ ॥
(चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् -)
वचनाद् अनुज्ञातभक्षणम् । JAIM_३,५.४० ।
३,५.२४
चतुर्दशाधिकरणमारचयति-
नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् ।
आद्यो नानुपहूतेन पेय इत्युक्तितो ऽन्तिमः ॥ MJAINY_३,५.२४ ॥
अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् - इति चेत् ।
मैवम् ।
“तस्मात्सोमां नानुपहूतेन पेयः” इति वचनेनानुज्ञाया आवश्यकत्वात् ॥ MJAINYC_३,५.२४ ॥
(पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्)
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेल् लिङ्गात् । JAIM_३,५.४१ ।
३,५.२५
पञ्चदशाधिकरणमारचयति-
किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा ।
अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी ॥ MJAINY_३,५.२५ ॥
“उपहूत उपह्वयस्य”- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते ।
तस्मात्- वैदिकोक्त्या तदनुज्ञानम् ॥ MJAINYC_३,५.२५ ॥
(षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्-)
तत्रार्थात् प्रतिवचनम् । JAIM_३,५.४२ ।
३,५.२६-२७
षोष्ठशाधिकरणमारचयति -
उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् ।
अनुज्ञानुज्ञापनयोरथवासौ विभज्यते ॥ MJAINY_३,५.२६ ॥
विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः ।
उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः ॥ MJAINY_३,५.२७ ॥
“उपहूत उपहूवयस्व” इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितो ऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः ।
प्रथमैकवचनान्तस्तु प्रथमपठितो ऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः ।
तस्मात्- लिङ्गेन विभज्य विनियुज्यते ॥ MJAINYC_३,५.२६-२७ ॥
(सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् - )
तदेकपात्राणां समवायात् । JAIM_३,५.४३ ।
३,५.२८
सप्तदशाधिकरणमारचयति-
उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् ।
अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितो ऽन्तिमः ॥ MJAINY_३,५.२८ ॥
अनुज्ञापनस्यादृष्टं प्रयोजनम् ।
तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत् ।
न ।
दृष्टप्रयोजनस्य सद्भावात् ।
साधारणे वस्तुनि कथंचिद्भागाधिक्ये ऽपराधो भवति ।
अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव ॥ MJAINYC_३,५.२८ ॥
(अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि ४४-४५)
याज्यापनयेनापनीतो भक्षः प्रवरवत् । JAIM_३,५.४४ ।
यष्टुर् वा कारणागमात् । JAIM_३,५.४५ ।
प्रवृत्तत्वात् प्रवरस्यानपायः । JAIM_३,५.४६ ।
३,५.२९-३०
अष्टादशाधिकरणमारचयति-
होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः ।
अपनीतिरुतापायो नापनीतिर्विभेदतः ॥ MJAINY_३,५.२९ ॥
यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् ।
वषट्कारो याज्ययातः सहापैत्यदनं तथा ॥ MJAINY_३,५.३० ॥
ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-“यजमानस्य याज्या सो ऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य यजति"इति ।
हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः ।
तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते ।
ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति ।
तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते ।
तयोर्याज्यायामनन्तर्भावात् ।
अतो होता वषट्करोति भक्षयति च इति प्राप्ते, -
ब्रूमः- “स्वयं वा निषद्य यजति” इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः ।
स च यागो वषट्कारमन्तरेण न संभवति ।
“याज्याया अधि वषट्करोति” इति तद्विधानात् ।
ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत् ।
मैवम् ।
“अनवानं यजति” इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् ।
अतो याज्यया सह वषट्कारो होतुरपैति ।
तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ MJAINYC_३,५.२९-३० ॥
(एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि ४७-५१)
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । JAIM_३,५.४७ ।
इज्याविकारो वा संस्कारस्य तदर्थत्वात् । JAIM_३,५.४८ ।
होमात् । JAIM_३,५.४९ ।
चमसैश् च तुल्यकालत्वात् । JAIM_३,५.५० ।
लिङ्गदर्शनाच् च । JAIM_३,५.५१ ।
३,५.३१-३३
एकोनविंशाधिकरणमारचयति-
न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः ।
भक्षमात्रे विकुर्यात्तत्सोमयागे ऽपि वा तथा ॥ MJAINY_३,५.३१ ॥
बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् ।
भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः ॥ MJAINY_३,५.३२ ॥
फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः ।
इज्यायां च विकारो ऽस्ति यागार्था भक्षसंस्कृतिः ॥ MJAINY_३,५.३३ ॥
ज्योतिष्टोमे श्रूयते- “यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्” इति ।
स्तिभिन्यो मुकुलानि ।
तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते - इति चेत् ।
मैवम् ।
“यदान्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोषहत्य जुहोति” इति श्रुतम् ।
तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते ।
किंच - इष्टद्रव्य संस्कारो हि भक्षः ।
स च यागमन्तरेणानुपपन्नः ।
तस्मात्- यागे ऽपि विकारः ॥ MJAINYC_३,५.३१-३३ ॥
(विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे ५२-५३)
अनुप्रसर्पिषु सामान्यात् । JAIM_३,५.५२ ।
ब्रह्मणा वा तुल्यशब्दत्वात् । JAIM_३,५.५३ ।
३,५.३४-३५
विंशाधिकरणमारचयति-
राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः ।
मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥ MJAINY_३,५.३४ ॥
आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश ।
चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥ MJAINY_३,५.३५ ॥
राजसूये दशपेयनामके यागे श्रूयते- “दश दशैकैकं चमसमनुप्रसर्पन्ति” इति ।
तत्र यजमानस्य राजन्यस्य यश्चमसः, सो ऽयं राजन्यैरेव दशभिर्भक्षणीयः ।
कुतः ।
“दश” इति संख्याया जात्येकत्वप्रतिभानात् ।
तथा हि - दशपोयस्य ज्योतिष्टोमविकृत्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् ।
प्रकृतौ च - यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्रप्तम् ।
यदि- अत्र “दश” इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम् ।
तस्मात्- राजन्यो यजमानो “न्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते,- ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायामुप्रसर्पतां पुरुषाणां"दश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते -ऽङ्घ शतं ब्राह्मणाः पिबन्तिऽ इति ।
तथा सति- यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतो ऽन्ये राजन्या भक्षयेयुः ।
तस्मात् - ब्राह्मणा एव भक्षकाः ॥ MJAINYC_३,५.३४-३५ ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः
अथ तृतीयाध्यायस्य षष्ठः पादः ।
(प्रथमे स्त्रुवादिषु खादिरतादिविधैः प्रकृतिगामिताधिकरणे सूत्राणि १-८ )
सर्वार्थम् अप्रकरणात् । JAIM_३,६.१ ।
प्रकृतौ वाद्विरुक्तत्वात् । JAIM_३,६.२ ।
तद्वर्जं तु वचनप्राप्ते । JAIM_३,६.३ ।
दर्शनाद् इति चेत् । JAIM_३,६.४ ।
न चोदनैकार्थ्यात् । JAIM_३,६.५ ।
उत्पत्तिर् इति चेत् । JAIM_३,६.६ ।
न तुल्यत्वात् । JAIM_३,६.७ ।
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः । JAIM_३,६.८ ।