३,२.१-२
द्वितीयपादे प्रथमाधिकरणमारचयति -
देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः ।
तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा ॥ MJAINY_३,२.१ ॥
शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् ।
प्रथमावगतत्वेन मुख्ये तद्विनियम्यते ॥ MJAINY_३,२.२ ॥
“बर्हिर्देवसदनं दामिऽ इति लवनप्रकाशको मन्त्र आम्नातः ।
तत्र - लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते ।
लवितव्यं च बर्हिर्द्विविधम् - मुख्यं गौणं च ।
मुख्यं - कुशकाशादिदशविधदर्भरूपम् ।
गौणं तु -तत्सदृशं तृणान्तरम् ।
तस्मिन्बर्हिःशब्दस्य माणवके ऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् ।
तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति - प्राप्ते -
ब्रूमः- मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति ।
तस्मात् - मुख्यस्यैव लवने मन्त्रो नियम्यते ॥ MJAINYC_३,२.१-२ ॥
(द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे ३-४) ।
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् । JAIM_३,२.३ ।
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् । JAIM_३,२.४ ।
द्वतीयाधिकरणमारचयति -
३,२.३-४
ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति ।
प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्ये ऽस्तु पूर्ववत् ॥ MJAINY_३,२.३ ॥
एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः ।
गौणतातो ऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ॥ MJAINY_३,२.४ ॥
अग्निचयने - “निवेशनः संगमनः”- इत्यादिका काचिदैन्द्री समाम्नाता ।
तस्या उत्तरार्धे “इन्द्रो न तस्थौ” इति पठ्यमानत्वात् ।
तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते - “निवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठते” इति ।
एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोर्ऽथे प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति ।
मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः ।
तत्रेन्द्रशब्दस्य रूढत्वात् ।
गौणस्त्विन्द्रो गार्हपत्यः ।
तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् ।
तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते, ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वे ऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति ।
ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् “ऐन्द्र्या” इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते ॥ MJAINYC_३,२.३-४ ॥
(तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि ४-९) ।
तथाहवानम् अपीति चेत् । JAIM_३,२.५ ।
नकालविधिश् चोदितत्वात् । JAIM_३,२.६ ।
गुणाभावात् । JAIM_३,२.७ ।
लिङ्गाच् च । JAIM_३,२.८ ।
विधिकोपश् चोपदेशे स्यात् । JAIM_३,२.९ ।
३,२.५-८
तृतीयाधिकरणमारचयति -
हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् ।
विनियोगो ऽवघाते स्यादाह्वाने वावघातके ॥ MJAINY_३,२.५ ॥
ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथान्यथा ।
पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः ॥ MJAINY_३,२.६ ॥
त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः ।
हन्तिना लक्ष्यते कालः प्राप्तो ऽसौ ह्वयतिस्तथा ॥ MJAINY_३,२.७ ॥
विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता ।
नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः ॥ MJAINY_३,२.८ ॥
दर्शपूर्णमासयोः श्रूयते - “हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति” इति ।
देवानामर्थे या हविः संपादयति सा हविष्कृत् ।
तामेनां संबोध्याध्वर्युः “एहि” इति ब्रूते ।
तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते - “हविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयति” इति ।
तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः ।
अनेन वाक्येन मन्त्रो ऽवघाते विनियुज्यते ।
ननु -आह्वाने समर्थः, न त्ववघाते - इति चेत् ।
न ।
तस्यावघातलक्षकत्वात् ।
यथा पूर्वोदाष्ट्ताया मैच्यामुचीन्द्वशब्दो गौणः, तद्वत् “एहि” इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति ।
अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् “अवघ्नन्” इति पदमनर्थकं स्यात् ।
प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत् ।
न ।
त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् ।
कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः ।
आह्वयतिपदं तु “एहि” इतिवदवघातपरतयोपचरणीयम्-इति प्राप्ते -
ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति ।
कस्यांचिच्छालायां द्विःपाठात् ।
कस्यांचित्सकृत्पाठात् ।
अतो ऽसौ नित्यवद्विधीयते ।
न च “अवत्रन्” इत्यस्य वैयर्थ्यम् ।
तस्य काललक्षकत्वात् ।
कालस्यापि विधौ वाक्यभेदः- इति चेत् ।
न ।
प्राप्तत्वात् ।
न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति ।
ततोर्ऽथप्राप्तः कालः ।
आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् ।
न हि “एहि” इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते ।
मन्त्रव्याख्यानं चोदहृतम् ।
तत्रायं वाक्यार्थः संपन्नः- “अवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यः” इति ।
अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते ।
“त्रिराह्वयति त्रिःसत्या हि देवाः” इति ।
एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् ।
लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते ।
न चैन्द्रीन्यायो ऽत्र प्रसरति ।
तृतीयाश्रुत्यभावात् ।
“बर्हिद्देवसदनं दामि” इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने ।
तस्मात् - आह्वानशेषो ऽयं मन्त्रः ॥ MJAINYC_३,२.५-८ ॥
(चतुर्थे - अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्) ।
तथोत्थानविसर्जने । JAIM_३,२.१० ।
३,२.९-११
चतुर्थाधिकरणमारचयति -
उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा ।
कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति ॥ MJAINY_३,२.९ ॥
मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः ।
विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ ॥ MJAINY_३,२.१० ॥
मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते ।
अगत्या लक्षणाप्यस्तु तेन कालो विधीयते ॥ MJAINY_३,२.११ ॥
ज्योतिष्टोमे समामनन्ति - “उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहर” इति ।
तथा - “व्रतं कृणुतेति वाचं विसृजति” इति ।
तत्र - आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रो ऽनेन वाक्येनोत्थानशेषतया विनियुज्यते ।
तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके “व्रतं कृणुत” इति मन्त्रो विनियुज्यते ।
न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ ।
तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् - इति प्राप्ते, ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च ।
अतो ऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते ॥ MJAINYC_३,२.९-११ ॥
(पञ्चमे - सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणं (प्रस्तरप्रहरणन्याये) सूत्राणि– ११-१४) ।
सूक्तवाके च कालविधिः परार्थत्वात् । JAIM_३,२.११ ।
उपदेशो वा याज्याशब्दो हि नाकस्मात् । JAIM_३,२.१२ ।
सदेवतार्थस् तत्संयोगात् । JAIM_३,२.१३ ।
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् । JAIM_३,२.१४ ।
३,२.१२-१३
पञ्चमाधिकरणमारचयति –
प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः ।
अङ्गाङ्गिता वा स्यात्कालो ऽजुपतेत्याद्यनन्वयात् ॥ MJAINY_३,२.१२ ॥
प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः ।
संपाद्यो देवताद्वारा तृतीयाश्रुतितो ऽङ्गता ॥ MJAINY_३,२.१३ ॥
दर्शपूर्णमासयोराम्नायते - “सूक्तवाकेन प्रस्तरं प्रहरति” इति ।
“इदं द्यावापृथिवी भद्रमभूत्” इत्यादिको मन्त्रः सूक्तवाकः ।
तस्मिन्मन्त्रे “ग्निं संबोध्य"त्वं सूक्तवागसिऽ इत्याम्नानात् ।
प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः ।
तत्र - “सूक्तवाकेन” इत्येतत्पदं कालं लक्षयति ।
होत्रा मन्त्रे “स्मिन्पठ्यमाने तत्पाठकाले"ध्वर्युः प्रस्तरं प्रहेरत् ।
न त्वत्र प्रहरणे मन्त्रो ऽयं विनियोक्तुं शक्यः ।
पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् ।
“अग्निरिदं हविरजुषतावीवृधत महो ज्यायो"कृतऽ- इत्यादिकं मन्त्रे पठ्यते ।
“पुरोडाशसेवया वृद्धो"ग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्ऽ इति तस्यार्थः ।
न चासौ प्रस्तरप्रहरणे ऽन्वेतुं शक्यः - इति प्राप्ते, -
ब्रूमः- “सूक्तवाकेन” इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते ।
न चात्यन्तमन्वयाभावः ।
मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति ।
प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः ।
अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते ।
ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः ।
यजिधातोरश्रवणात् ।
तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः- इति चेत् ।
मैवम् ।
देवतानां सद्भावात् ।
अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते ।
यदि प्रकरणे “ग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोर्"थो मन्त्रस्य लभ्येत ।
ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति ।
तस्मात् – देवताद्वारास्त्येवान्वयः ॥ MJAINYC_३,२.१२-१३ ॥
षष्ठे -द्गसूक्तवाकानामर्थानुसारेण विनि-द्घसूत्राणि – १५-१८) ।
योगाधिकरणे (सूक्तवाकन्याये)
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् । JAIM_३,२.१५ ।
यथार्थं वा शेषभूतसंस्कारात् । JAIM_३,२.१६ ।
वचनाद् इति चेत् । JAIM_३,२.१७ ।
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः । JAIM_३,२.१८ ।
३,२.१४-१५
षष्ठाधिकरणमारचयति -
प्रहृतेरखिलः सूक्तवाको ऽङ्गं स्याद्विभज्य वा ।
समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि ॥ MJAINY_३,२.१४ ॥
दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् ।
आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते ॥ MJAINY_३,२.१५ ॥
पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया ।
याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् ।
ततः सर्वो ऽपि प्रहरणाङ्गम् - इति चेत् ।
न ।
लिङ्गेन समाख्याया बाधितत्वात् ।
तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- “अग्नीषोमाविदं हविरजुषेताम्” इति ।
भागान्तरे तु दर्शदेवताम्नानम्- “इन्द्राग्नी इदं हविरजुषेताम्” इति, “इन्द्र इदं हविरजुवत” इति, “महेन्द्र इदं हविरजुषत” इति च ।
इन्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः ।
तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते ।
सूक्तवाकशब्दश्च भागे यौगिकः ।
“सूक्तं वक्ति” इति तद्व्युत्पत्तेः ।
यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः ।
अत एव ब्राह्मणेन व्याख्यातम्- “अग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाह” इति ।
अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः ।
तस्मादयं विभज्य विनियुज्यते ॥ MJAINYC_३,२.१४-१५ ॥
(सप्तप्ते काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्-) ।
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नातम् । JAIM_३,२.१९ ।
३,२.१६-१८
सप्तमाधिकरणमारचयति-
ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् ।
काण्डयोस्ता यथालिङ्गं संचार्या नियमो ऽथवा ॥ MJAINY_३,२.१६ ॥
लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः ।
अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः ॥ MJAINY_३,२.१७ ॥
समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् ।
अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः ॥ MJAINY_३,२.१८ ॥
काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- “ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुः” इत्यादिना ।
सजाता ज्ञातयः ।
वीयुर्विगता विप्रतिपन्ना इत्यर्थः ।
“इद्राग्नी रोचन” - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः ।
तत्र “इदं काम्ययाज्यानुवाक्याकाण्डम्” इति याज्ञिकानां समाख्ययो ऽवगम्यते ।
तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते ।
मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते ।
लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, -
ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते ।
उपजीव्यत्वात ।
इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् ।
न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः ।
ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते ।
विशेषतस्तु “अस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमः” इति क्रमादवगम्यते ।
ननु - “ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रः” इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् ।
न ।
लिङ्गसाधारण्ये क्रमापेक्षणात् ।
“ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्"इति द्वितीयेष्टिरपि ।
तत्रैन्द्राग्नी पठितौ ।
मन्त्रकाण्डे ऽपि"इन्द्राग्नी नवतिम्"इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् ।
न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् ।
न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् ।
क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् ।
ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- “यं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्” इति ।
यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- ऽअयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् ।
जातश्च शत्रून्मारयन्संचरेत्ऽ इति ।
तद्राजपुत्रार्थेयमिष्टिः ।
मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते ।
“इदं वामास्ये हविः-” - इत्येकं युगलम् ।
“अस्मे इन्द्राबृहस्पती” - इत्यादिकमपरम् ।
तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् ।
तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते ॥ MJAINYC_३,२.१६-१८ ॥
(अष्टमे, आग्नीध्नोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि २०-२३) ।
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् । JAIM_३,२.२० ।
तदाख्यो वा प्रकरणोपपत्तिभ्याम् । JAIM_३,२.२१ ।
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता । JAIM_३,२.२२ ।
सर्वेषां चोपदिष्टत्वात् । JAIM_३,२.२३ ।
३,२.१९-२०
अष्टमाधिकरणमारचयति -
आग्नेय्याऽग्नीध्रमित्यग्निदेवताका ऋचो ऽखिलाः ।
उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत ॥ MJAINY_३,२.१९ ॥
साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः ।
विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् ॥ MJAINY_३,२.२० ॥
ज्योतिष्टोमे श्रूयते - “आग्नेय्या"ग्नीध्रमुपतिष्ठतेऽ इति ।
तत्र- आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् ।
“अग्निर्देवता यस्या ऋचः सा"ग्नेयीऽ इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत् ।
मैवम् ।
क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् ।
“को"सौ व्यापारःऽ इति विशेषबुभुत्सायाम् “आग्नीध्रोपस्यानरूपो"यम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् ।
अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् ।
तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् ।
एवम् “ऐन्द्या सदो वैष्णव्या हविर्धानम्” इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम् ॥ MJAINYC_३,२.१९-२० ॥
(नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे २४-२५) ।
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य । JAIM_३,२.२४ ।
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् । JAIM_३,२.२५ ।
नवमाधिकरणमारचयति -
भक्षेहीत्यनुवाको ऽयं सर्वो भक्षणगाम्युत ।
ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते ॥ MJAINY_३,२.२१ ॥
अविधेर्ग्रहणादीनां भक्षणे निखिलो ऽस्तु सः ।
अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते ॥ MJAINY_३,२.२२ ॥
ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् ।
अत एवाऽम्नातम् - “अभिषुत्या"हवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्तिऽ इति ।
तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति ।
मन्त्रच्च “भक्षेहि”- इत्याद्यनुवाके समाम्नातः ।
तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि ।
न चाविहितेषु मन्त्रो विनियोगमर्हति ।
समाख्या तु “भक्षानुवाकः” इत्येवंरूपा भक्षणमात्रविषया ।
तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते, -
ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि ।
तद्व्यतिरेकेण भक्षणासंभवात् ।
अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः ।
तत्र “भक्षेहि”- इत्यारभ्य “अश्विनोस्त्वा बाहुभ्यां साध्यासम्” ।
इत्यन्तो ग्रहणं प्रकाशयति ।
“एहि” इत्याह्वानस्य बाहुभ्यां स्वीकरवाणिऽ इत्येतस्य च दर्शनात् ।
“नृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्” इत्ययं भागो ऽवेक्षणं प्रकाशयति ।
“शोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीय” इत्यभिधानात् ।
“हिन्व मे गात्रा”- इत्यादिः “मा मे"वाङ्नाभिमतिगाःऽऐत्यन्तः सम्यग्जरणं प्रकाशयति ।
गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् ।
जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः- इति सेत् ।
न ।
जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् ।
न च - जरणे पुरुषव्यापाराभावः ।
सम्यगुपवेशनादेर्जरणार्थत्वात् ।
“मन्द्राभिभूतिः” - इत्यादिः “भक्षयामि” इत्यन्तो भक्षणं प्रकाशयति ।
तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः ॥ MJAINYC_३,२.२१-२२ ॥
(दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् - )
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् । JAIM_३,२.२६ ।
३,२.२३-२४
दशमाधिकरणमारचयति-
मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः ।
विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥ MJAINY_३,२.२३ ॥
लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतो ऽन्यतः ।
लिङ्गस्यासंभवे वाक्यशेषात्सर्वे ऽस्तु भक्षणे ॥ MJAINY_३,२.२४ ॥
“मन्द्राभिभूतिः” - इत्यादिः “जुषाणा सोमस्य तृप्यतु” इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति ।
“वसुमद्गणस्य”- इत्यादिः “भक्षयामि” इत्यन्तो भागो भक्षणप्रकाशकः ।
तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः- इति चेत् ।
मैवम् ।
न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते ।
किं तर्हि-भक्षणामुनिष्पादिनी हि सा ।
तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत ।
ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति ।
उपयुक्तश्च तत्रायं भागः ।
तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् ।
तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ॥ MJAINYC_३,२.२३-२४ ॥
(एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे २७ -२८) ।
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् । JAIM_३,२.२७ ।
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति । JAIM_३,२.२८ ।
३,२.२५-२७
एकादशाधिकरणमारचयति -
इन्द्रपीतस्येति मक्षमन्त्रांशः किमिहैन्द्रके ।
केवले ऽन्यत्र वोहाच्च सर्वत्रोत यर्थाश्रुतम् ॥ MJAINY_३,२.२५ ॥
ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् ।
ऊहो वान्येषु कर्मैक्ये ऽप्यस्त्यूहो भक्षभेदतः ॥ MJAINY_३,२.२६ ॥
इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् ।
सवनस्थेषु सर्वेषु मन्त्रो ऽनूहेन पठ्यताम् ॥ MJAINY_३,२.२७ ॥
भक्षमन्त्रे कश्चिदंशः “इन्द्रपीतस्य” इत्येवंविधः श्रूयते ।
तत्र- “इन्द्रेण पूतस्य सोमस्य शेषं भक्षयामि” इत्यर्थो भवति ।
तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे ।
तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः ।
“इन्द्रपीतस्य” इति पदस्यासमर्थत्वे “पि"मित्रावरुणपीतस्यऽ इत्येषमूहे सति सामर्थ्ये भविष्यति ।
ननु-आग्नेययागस्य प्रकृतित्वात्तद्वतस्य “अग्नये जुष्टम्” ।
इति मन्त्रस्य विकृतौ सौर्ये चरौ “सूर्याय जुष्टम्” इत्येवमूहः क्रियते ।
इह तु कर्मैक्यान्नोहः- इति चेत् ।
न ।
कर्मभेद इव भक्षभेदे ऽप्यूहितुं शक्यत्वात् ।
इति द्वितीयः पूर्वपक्षः ।
“इन्द्रपीतस्य” इत्यत्र बहुव्रीहिर्द्रष्टव्यः ।
तत्पुरूषत्वे “समासस्य” (पा.सू. ६.१.१२३) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् ।
आद्युदात्तं ह्येतत्पदमाम्नातम् ।
इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् ।
तथा सति “बहुव्रीहौ प्रकृत्या पूर्वपदम्”[पा.सू. ६.२.१] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते ।
“इन्द्रेण पीतः सोमो यस्मिन्सवने” इति विग्रहात्सवनपरत्वे सति “ऐन्द्रभक्षण एव” इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः ॥ MJAINYC_३,२.२५-२७ ॥
(द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि २९-३१) ।
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् । JAIM_३,२.२९ ।
अपनयाद् वा पूर्वस्यानुपलक्षणम् । JAIM_३,२.३० ।
ग्रहणाद् वापनयः स्यात् । JAIM_३,२.३१ ।
३,२.२८-३०
द्वादशाधिकरणमारचयति-
ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके ।
इन्द्रे हुते ऽथ तच्छेषे होत्रकैश्चमसस्थिते ॥ MJAINY_३,२.२८ ॥
सोमो ऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा ।
इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषे ऽन्यार्थता यतः ॥ MJAINY_३,२.२९ ॥
उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः ।
अत इन्द्रस्य सिद्ध्यर्थे लक्ष्यो ऽसावितरैः सह ॥ MJAINY_३,२.३० ॥
पूर्वाधिकरणे यो ऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते ।
मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः ।
तेषां च सन्ति चमसाः ।
पात्रविशेषस्थिताः सोमरसाश्चमसाः ।
तैर्वषट्कारानुवषट्कारयोर्होतव्यम् ।
चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः ।
अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति ।
तत्र मैत्रावरुणः “मित्रं वयं हवामहे” - इति मन्त्रेण मित्रावरुणौ यजति ।
ब्राह्मणाच्छंसी “इन्द्र त्वा वृषभं वयम्” - इति मन्त्रेणेन्द्रं यजति ।
पोता “मरुतो यस्य हि क्षये”- इति मन्त्रेण मरुतो यजति ।
एवं हुत्वा पश्चात्सोमो भक्ष्यते ।
तस्मिन्भक्षणे “मित्रावरुणपीतस्य” इति मन्त्र ऊहनीयः ।
तदानीम् “इन्द्रमित्रावरुणपीतस्य” इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः ।
कुतः ।
इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् ।
पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत् ।
न ।
उन्नयनकाले “मित्रावरुणाद्यर्थो"यम्ऽ इति संकल्पाभावात् ।
प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते ।
तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते -
ब्रूमः- मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव ।
न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति ।
तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रो ऽप्युपलक्षणीयः ॥ MJAINYC_३,२.२८-३० ॥
(त्रयोदशे पात्नीवतमक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे ३२-३३) ।
पात्नीवते तु पूर्ववत् । JAIM_३,२.३२ ।
ग्रहणाद् वापनीतं स्यात् । JAIM_३,२.३३ ।
३,२.३१-३३
त्रयोदशाधिकरणमारचयति -
द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् ।
स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥ MJAINY_३,२.३१ ॥
तद्भक्षणे द्विदेवाः किं सार्धे पात्नीवतेन ते ।
उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥ MJAINY_३,२.३२ ॥
अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते ।
आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते ॥ MJAINY_३,२.३३ ॥
ऐन्द्रवायवादयो द्विदेवत्याः ।
तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति ।
तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते ।
तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः ।
पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् - इति प्राप्ते, -
ब्रूमः- “यदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धे ऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति ।
तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति ।
पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः ।
तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् ।
तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः ॥ MJAINYC_३,२.३१-३३ ॥
(चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे ३४-३५) ।
त्वष्टारं तूपलक्षयेत् । JAIM_३,२.३४ ।
अतुल्यत्वात् तु नैवं स्यात् । JAIM_३,२.३५ ।
३,२.३४-३५
चतुदर्शाधिकरणमारचयति-
सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा ।
सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सो ऽपि लक्ष्यते ॥ MJAINY_३,२.३४ ॥
सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् ।
चोदनाया अभावाच्च न देवो ऽतो न लक्ष्यते ॥ MJAINY_३,२.३५ ॥
तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः ।
कुतः ।
त्वष्टुरपि तद्देवत्वात् ।
तच्च होममन्त्रादवगतम् ।
“अग्नी ३ इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा” इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्यऽत्वष्ट्रा देवेन सह पिबऽ इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् ।
ततः- “पत्नीवत्त्वष्टृपीतस्य” इत्युपलक्षणम्-इति प्राप्ते -
ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः “सजूः” इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् ।
असंबोधितस्य त्वष्टुः “पिब” इत्यनेन शब्देन सामानाधिकरण्याभावात् ।
न च पातृसहभावमात्रेण पातृत्वम् -
“सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री” ।
इत्यत्र पुत्राणां वोढृत्वादर्शनात् ।
आस्तां मन्त्रः ।
विधिबलात्वष्टुर्देवत्वम् - इति चेत् ।
न ।
ऽपात्नीवतमाग्रयणाद्गृह्णाति"इत्यत्र त्वष्टुरप्रतीतेः ।
तस्मात् - अदेवत्वात्त्वष्टा नोपलक्षणीयः ॥ MJAINYC_३,२.३४-३५ ॥
(पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्) ।
त्रिंशच् च परार्थत्वात् । JAIM_३,२.३६ ।
३,२.३६-३७
पञ्चदशाधिकरणमारचयति -
पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी ।
लक्ष्या न वा याज्ययाक्तेर्देवत्वादुपलक्षणम् ॥ MJAINY_३,२.३६ ॥
एको “ग्निर्यजमानेन मादितो"न्ये तु वह्निना ।
अतो ऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम् ॥ MJAINY_३,२.३७ ॥
तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य “पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादय” इत्यभिधीयते - “पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व” इति ।
अनुष्वधमनुप्रदानम् ।
अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् ।
अत्तस्ते ऽपि भक्षणे लक्षणीयाः- इति चेत् ।
न ।
यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् ।
त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् ।
तस्मान्नोपलक्षणम् ॥ MJAINYC_३,२.३६-३७ ॥
(षोडशे भक्षणे ऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्) ।
वषट्कारश् च पूर्ववत् । JAIM_३,२.३७ ।
३,२.३८-३९
षोडशाधिकरणमारचयति-
सोमस्याग्न इति प्रोक्तानुवषट्कारदेवता ।
लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥ MJAINY_३,२.३८ ॥
प्रकृतौ विद्यमानो ऽग्निरनुद्देशदिलक्षितः ।
उद्देश्येन्द्रो लक्षितो ऽत्तो विकृतावपि तत्तथा ॥ MJAINY_३,२.३९ ॥
“सोमस्याग्ने वीही ।
त्यनुयजति"इति श्रूयते ।
तत्र-अनुवषट्कारस्य मान्त्रवर्णिको ऽग्निर्देवता ।
न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् ।
मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् ।
तस्मात्-अग्निर्लक्षणीयः- इति चेत् ।
न ।
प्रकृतावलक्षितत्वात् ।
ऐन्द्रश्वमसः प्रकृतिः ।
इतरे विकृतिरूपाः ।
तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च ।
तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव ।
अनैन्द्रा अधर्मकाः ।
धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् ।
गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् “इन्द्राय त्वा वसुमते” इत्यादिग्रहणमन्त्रादवगम्यते ।
तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणे ऽग्निरनुवषट्कारदेवो नोपलक्षितः ।
कुतः ।
ग्रहणे तदुद्देशाभावात् ।
इन्द्रस्तूद्देश्यत्वादुपलक्षितः ।
एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् ।
तस्मात्- अग्निर्नोपलक्ष्यः ॥ MJAINYC_३,२.३८-३९ ॥
(सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधि करणे सूत्रम्) ।
छन्दः प्रतिषेधस् तु सर्वगामित्वात् । JAIM_३,२.३८ ।
३,२.४०-४१
सप्तदशाधिकरणमारचयति -
अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् ।
ऊहो “स्ति नो वा सो"स्त्यत्र विकृतौ तस्य संभवात् ॥ MJAINY_३,२.४० ॥
सोमेनेति विधेः सर्वप्रदानेषु समत्वतः ।
अविकारे “प्यनूहो"तो नैन्द्रो निर्मन्त्रभक्षणम् ॥ MJAINY_३,२.४१ ॥
उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे यो “यम्"अनैन्द्रेष्वमन्त्रकं भक्षणम्ऽ इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते - अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः- इति चेत् ।
न ।
अनैन्द्रणां विकृतित्वासंभवात् ।
“सोमेन यजेत” इत्युत्पत्तिश्रुतः सोमः कर्मणो ऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् ।
स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि ।
अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः ।
“इन्द्राय त्वा वसुमते” इत्यादिमन्त्रो लिङ्गादैन्द्रविषयो ऽस्तु ।
नैतावता प्रकृतिविकृतिभावः सिध्यति ।
तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम् ॥ MJAINYC_३,२.४०-४१ ॥
(अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे - ३९ -४०)
ऐन्द्राग्ने तु लिङ्गभावात् स्यात् । JAIM_३,२.३९ ।
एकस्मिन् वा देवतान्तराद् विभागवत् । JAIM_३,२.४० ।
३,२.४२-४३
अष्टादशाधिकरणमारचयति -
समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् ।
ऐन्द्राग्ने ऽतीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥ MJAINY_३,२.४२ ॥
न पानमशरीरस्य युक्तं दानं तु मिश्रगम् ।
मन्त्रो ऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् ॥ MJAINY_३,२.४३ ॥
यदेतत् “ऐन्द्राग्नं गृह्णाति” इति विहितं शेषभक्षणम्, तत्र- इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवतिऽ इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् - इति चेत् ।
मैवम् ।
नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् ।
अथ- पतिशब्देन दानं विवक्ष्येत, तदानीम् “इन्द्राय दत्तः सोमः” इति मन्त्रार्थो भवति ।
न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य ।
तस्मात् ऽदानं मिश्रविषयम् ।
मन्त्रस्तु न मिश्रविषयःऽ इत्यमन्त्रकं भक्षणम् ॥ MJAINYC_३,२.४२-४३ ॥
(एकोनविंशे “गायत्रच्छन्दसः” इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि ४१-४३) ।
छन्दश् च देवतावत् । JAIM_३,२.४१ ।
सर्वेषु वाभावाद् एकच्छन्दसः । JAIM_३,२.४२ ।
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपावनत्वात् सवनाधिकारो हि । JAIM_३,२.४३ ।
३,२.४४-४६
एकोनविंशाधिकरणमारचयति -
ऐन्द्रदाने “पि गायत्रमात्रयुक्ते"थवेतरैः ।
छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः ॥ MJAINY_३,२.४४ ॥
द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् ।
नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता ॥ MJAINY_३,२.४५ ॥
सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् ।
तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः ॥ MJAINY_३,२.४६ ॥
तस्मिन्नेव भक्षमन्त्रे “गायत्रच्छन्दस इन्द्रपीतस्य” इति श्रूयते ।
“गायत्रमेव छन्दो यस्य” इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् ।
मैवम् ।
बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् ।
एवकारं परित्यज्य “गायत्रं छन्दो यस्य” इति विग्रहसंभवात् ।
एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति ।
तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र ।
तदेवं कृत्वाचिन्तात्रयं समाप्तम् ।
द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ MJAINYC_३,२.४४-४६ ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः
अथ तृतीयाध्यायस्य तृतीयः पादः ।
(प्रथमे - उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि १-८) ।
श्रुतेर् जाताधिकारः स्यात् । JAIM_३,३.१ ।
वेदो वा प्रायदर्शनात् । JAIM_३,३.२ ।
लिङ्गाच् च । JAIM_३,३.३ ।
धर्मोपदेशाच् च न हि द्रव्येण संबन्धः । JAIM_३,३.४ ।
त्रयीविद्याख्या च तद्विद् धि । JAIM_३,३.५ ।
व्यक्तिक्रमे यथाश्रुतीति चेत् । JAIM_३,३.६ ।
न सर्वस्मिन् निवेशात् । JAIM_३,३.७ ।
वेदसंयोगान् न प्रकरणेन बाध्यते । JAIM_३,३.८ ।