३,१.१
द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् ।
बुभुत्सितः शेषशेषिभावो “तो"त्राभिधीयते ॥ MJAINY_३,१.१ ॥
अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम् ॥ MJAINYC_३,१.१ ॥
(प्रथमे प्रतिज्ञाधिकरणे सूत्रम् -)
अथातः शेषलक्षणम् । JAIM_३,१.१ ।
३,१.२-३
तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति–
अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः ।
क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् ॥ MJAINY_३,१.२ ॥
गुणप्रधानभावेन संसर्गे ऽन्तर्भवत्यसौ ।
व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत् ॥ MJAINY_३,१.३ ॥
यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् ।
कुतः ।
केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् ।
व्युत्पन्नो हि शब्दः प्रत्यायकः ।
व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा ।
लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् ।
अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् ।
मैवम् ।
अन्वये शेषशेषिभावस्यान्तर्भावात् ।
न हि गुणप्रधानभावमन्तरेणान्वयः संभवति ।
द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् ।
एवं द्वयोः प्रधानयोरपि ।
अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावो ऽपि शाब्दः ।
तस्मादयमध्याय आरम्भणीयः ॥ MJAINYC_३,१.२-३ ॥
( द्वितीये शेषलक्षणाधिकरणे सूत्रम् -)
शेषः परार्थत्वात् । JAIM_३,१.२ ।
३,१.४
द्वितीयाधिकरणमारचयति-
स्वरूपहेतू न स्तो ऽत्र स्तो वा नैवानिरूपणात् ।
पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम् ॥ MJAINY_३,१.४ ॥
न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते ।
तथा हि-शेषत्वं नाम किम्-अविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा ।
नाऽद्यः ।
षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् ।
न द्वितीयः ।
“पुरोडाशकपालेन तुषानुपवपति” इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् ।
न तृतीयः ।
बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् ।
तस्मान्नास्ति शेषतायाः स्वरूपम् ।
नापि हेतुरस्ति ।
ऽविमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते,-
ब्रूमः- “विमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्” इति हेतुः सुनिरूपः ।
अविनाभूतत्वादीनां लक्षणानां दुष्टत्वे “पि"परार्थः शेषःऽ इति लक्षणस्यादुष्टत्वात् ।
तेन लक्षित आकारः स्वरूपम् ।
न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् ।
आकारभेदेन तद्भेदात् ।
दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः ।
इतख्यावृत्त्या बोधक आकारो लक्षणम् ।
तस्माच्छेषताया हेतुस्वरूपे विद्येते ॥ MJAINYC_३,१.४ ॥
(तृतीये शेषलक्ष्याधिकरणे सूत्राणि ३-६)
द्रव्यगुणसंस्कारेषु बादरिः । JAIM_३,१.३ ।
कर्माण्यपि जैमिनिः फलार्थत्वात् । JAIM_३,१.४ ।
फलं च पुरुषार्थत्वात् । JAIM_३,१.५ ।
पुरुषश् च कर्मार्थत्वात् । JAIM_३,१.६ ।
३,१.५-६
तृतीयाधिकरणमारचयति-
किं द्रव्यगुणसंस्कारमात्रं शेषो ऽथवा फलम् ।
पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः ॥ MJAINY_३,१.५ ॥
शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः ।
पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः ॥ MJAINY_३,१.६ ॥
स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः ।
एतेषु त्रिष्वेव शेषत्वम् ।
स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म ।
न हि फलादीनां त्रयाणां शेषत्वमस्ति ।
उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् ।
पारार्थ्ये लक्षणमभिप्रेत्य “फलादयो"पि शेषाःऽ इति जैमिनेर्मतम् ।
तथा च त्रीणि सूत्राणि पठ्यन्ते- “कर्माण्यपि जैमिनिः फलार्थत्वात्” “फलं च पुरुषार्थत्वात्” “पुरुषश्च कर्मार्थत्वात्” इति ।
तत्रोपकारित्वमतिव्याप्तम् ।
प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् ।
तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ MJAINYC_३,१.५-६ ॥
(चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि ७ - १०)
तेषाम् अर्थेन संबन्धः । JAIM_३,१.७ ।
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च । JAIM_३,१.८ ।
अर्थलोपाद् अकर्मे स्यात् । JAIM_३,१.९ ।
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् । JAIM_३,१.१० ।
चतुर्थाधिकरणमारचयति-
३,१.७-८
श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः ।
व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः ॥ MJAINY_३,१.७ ॥
अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ ।
श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा ॥ MJAINY_३,१.८ ॥
व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः ।
ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते ।
अवान्तरापूर्वस्य कस्यचिदभावात् ।
एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् ।
फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठिताः फलापूर्वे जनयन्त्येव- इति सांकर्ये प्राप्ते, -
ब्रूमः- आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति ।
ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि ।
तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् ।
फलापूर्वे तु तेन व्यवहितम् ।
एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः ।
तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते ।
ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् ।
तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् ।
अथोच्येत-ऽतुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः ।
एवं विलापनमाज्य एव ।
दोहनादिकं सांनाय्य एवऽ - इति ।
बाढम् ।
दृष्टार्थानां धर्माणां व्यवस्थितत्वे ऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन-इति चेत् ।
मैवम् ।
“व्रीहीन्प्रोक्षति” “आज्यमवेक्षते” इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् ।
श्रुतिश्च प्रकरणाद्बलीयसी ।
तस्माद्व्यवस्थिता धर्माः ॥ MJAINYC_३,१.७-८ ॥
(पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्)
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत । JAIM_३,१.११ ।
३,१.९-१०
पञ्चमाधिकरणमारचयति-
द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः ।
यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः ॥ MJAINY_३,१.९ ॥
वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति ।
अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् ॥ MJAINY_३,१.१० ॥
दर्शपूर्णमासयोः श्रूयते - “स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानि” इति ।
स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते ।
तत्र-व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृते ऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् ।
येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् ।
नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति - इति प्राप्ते, –
ब्रूमः- “स्फ्येनोद्धन्ति” “कपालेषु श्रपयति” “अग्निहोत्रहवण्या हवींषि निर्वपति” “शूर्पेंण विविनक्ति” “कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति” ऽशम्यया ।
दृषदमुपदधातिऽ “उलूखलमुसलाभ्यामवहन्ति” “दृषदुपलाभ्यां पिनष्टि” इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत ।
व्यवस्थापक्षे ऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् - इति चेत् ।
न ।
उद्धननादिवाक्यसिद्धार्थानुवादत्वात् ।
न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् ।
बहुवैयर्थ्यस्य जघन्यत्वात् ।
न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् ।
“यज्ञायुधानि संभरन्ति” इत्यासादनबिधानायोपयुक्तत्वात् ।
तस्मात् - अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि ॥ MJAINYC_३,१.९-१० ॥
(षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् -)
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् । JAIM_३,१.१२ ।
३,१.११-१२
षष्ठाधिकरणमारचयति-
क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् ।
क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा ॥ MJAINY_३,१.११ ॥
द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः ।
साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ ॥ MJAINY_३,१.१२ ॥
ज्योतिष्टोमे श्रूयते - “अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति” इति ।
तत्र - अरुणाशब्दो ऽरुणिमानं गुणमाचष्टे ।
गुणिविषयतया प्रयुज्यमानस्यापि “नागृहीतविशेषण विशिष्टेर् बुद्धः” इति न्यायेन गुणबोधकत्वात् ।
अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च ।
तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् ।
अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् ।
ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् ।
प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति ।
न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् ।
तयोः शब्दयोर्द्रव्यवाचित्वात् ।
पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी ।
एवमेकहायनी ।
यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् ।
तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति ।
न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् ।
अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते ।
तत्रैषाक्षरयोजना - “अरुणया” इत्येतत्पृथग्वाक्यम् ।
तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते-ऽयानि ज्योतिष्टोम् साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानिऽ इति ।
तस्मात् - गुणः संकीर्णः- इति प्राप्ते, -
ब्रूमः- यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति ।
तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति ।
एवं सति वाक्यभेदो न भविष्यति ।
ननु वाक्यभेदाभावे ऽपि लक्षणा दुर्वारा ।
गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् ।
मैवम् ।
गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते ।
तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते ।
तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् - इति चेत् ।
न ।
तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः ।
तर्हि - “वाससा क्रीणाति” “अजया क्रीणाति” इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदो ऽस्तु - इति चेत् ।
न ।
तेषां क्रयान्तरसाधनत्वात् ।
न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते ।
अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् ।
ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः ।
नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः ।
तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः ।
तथा सति “आरुण्यविशिष्टैकहायन्या क्रीणाति” इत्यर्थः पर्यवस्यति ।
तस्मात् - आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते ॥ MJAINYC_३,१.११-१२ ॥
(सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि १३ - १५)
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् । JAIM_३,१.१३ ।
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् । JAIM_३,१.१४ ।
चोदिते तु परार्थत्वाद् यथाश्रुति प्रतीयेता । JAIM_३,१.१५ ।
३,१.१३-१४
सप्तमाधिकरणमारचयति -
संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः ।
एक उद्देश्यसंख्याया उपादेयवदादरात् ॥ MJAINY_३,१.१३ ॥
प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् ।
तद्विधौ वाक्यभेदो ऽतो द्रव्योक्त्या सर्वशोधनम् ॥ MJAINY_३,१.१४ ॥
सोमे श्रूयते- “दशापवित्रेण ग्रहं संमार्ष्टि” इति ।
दशापत्रित्रं वासःखण्डः ।
तत्र - यथा “पशुना यजेत” इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् ।
किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति ।
तस्मात् - एक एव ग्रहः शोधनीयः-इति प्राप्ते, -
ब्रूमः- “ग्रहम्” इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते ।
ग्रहं प्रति गुणः संमार्गः ।
“प्रतिप्रधानं च गुण आवर्तनीयः” इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः ।
एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् ।
अथोच्येत - नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्-इति ।
तन्न ।
वाक्यभेदापत्तेः ।
“ग्रहं संसृज्यात्, तं चैकम्” इत्येवं विधेयार्थभेदाद्वाक्यभेदः ।
“पशुना यजेत” इत्यत्र तु यागं प्रति गुणभूतः पशुः ।
न हि “प्रतिगुणं प्रधानस्या"वृत्तिःऽ इति कश्चिन्यायो ऽस्ति ।
तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् ।
न च जातिः संस्कार्या ।
तस्या अभूर्तत्वात् ।
ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः ।
तत्र चाऽवृत्तिरुक्ता ।
तस्मात्- सर्वे ग्रहाः संमार्जनीयाः ॥ MJAINYC_३,१.१३-१४ ॥
(अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे १६ - १७)
संस्काराद् वा गुणानाम् अव्यवस्था स्यात् । JAIM_३,१.१६ ।
व्यवस्था वार्थस्य श्रुतिसंयोगात् तस्य शब्दप्रमाणत्वात् । JAIM_३,१.१७ ।
३,१.१५-१६
अष्टमाधिकरणमारचयति -
चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् ।
एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात् ॥ MJAINY_३,१.१५ ॥
अबाधो “त्रा"दरे हेतुर्वाक्यभेदस्तु नैव हि ।
चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् ॥ MJAINY_३,१.१६ ॥
“ग्रहम्” इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते ।
ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयो ऽपि मार्जनीयाः- इति प्राप्ते, -
ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् ।
अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत ।
ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः ।
न च विपयापेक्षया तत्कल्पनम् ।
ग्रहश्रुत्यैव तद्विषयसमर्पणात् ।
तस्मान्नास्ति संमार्गः ॥ MJAINYC_३,१.१५-१६ ॥
(नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्)
आनर्थक्यात्तदङ्गेषु । JAIM_३,१.१८ ।
३,१.१७-१९
नवमाधिकरणमारचयति -
भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः ।
उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥ MJAINY_३,१.१७ ॥
आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः ।
ऊर्ध्वपात्रे खादिरे ऽग्ने संयुज्यान्वेति कर्मणा ॥ MJAINY_३,१.१८ ॥
यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः ।
सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ॥ MJAINY_३,१.१९ ॥
वाजपेयप्रकरणे श्रूयते - “सप्तदशारत्निर्वाजपेयस्य यूपो भवति” इति ।
तत्र - यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणो ऽङ्गम् ।
सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् ।
प्रकरणं चैवमनुगृह्यते ।
यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति - इति प्राप्ते, -
ब्रूमः- “सप्तदशारत्निर्यूपः” इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते ।
तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति ।
तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणो ऽङ्गम् ।
यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा-
त्पशुव्यवधानमभ्युपेयम् ।
“वाजपेयस्य” इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते ।
“देवदत्तस्य नप्ता” इति प्रयोगात् ।
यत्तु-सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्ऽ तदुभयमप्यविरुद्धम् ।
पश्वङ्गत्वे ऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् ।
किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् ।
सिद्धान्ते तु नासौ देषः ॥ MJAINYC_३,१.१७-१९ ॥
(दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे १९ - २०)
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् । JAIM_३,१.१९ ।
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण । JAIM_३,१.२० ।
३,१.२०-२२
दशमाधिकरणमारचयति -
अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् ।
किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् ॥ MJAINY_३,१.२० ॥
प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि ।
मिथः संबन्धराहित्यान्मैवं ते ऽपि समत्वतः ॥ MJAINY_३,१.२१ ॥
कर्तृयोगाददोषश्चोत्समानेयं समाहितिः ।
ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः ॥ MJAINY_३,१.२२ ॥
दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते- “अभिक्रामं जुहोति” इति ।
तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा ।
कुतः ।
अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाञक्रियया संबन्धासंभवात् - इति चेत् ।
मैवम् ।
क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् ।
अथोच्येत-अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति ।
तदेतत्समाधानं प्रयाजसंबन्धे ऽपि समानम् ।
अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते ॥ MJAINYC_३,१.२०-२२ ॥
३,१.२३-२४
एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति -
यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः ।
दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता ॥ MJAINY_३,१.२३ ॥
अवान्तरप्रकरणं समिधो यजतीत्यतः ।
तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता ॥ MJAINY_३,१.२४ ॥
अस्मिन्नपि मते तावेव विषयसंशयौ ।
पूर्वोत्तरपक्षहेतुमात्रमन्यत् ।
प्रयाजसंनिधितो ऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते - इति पूर्वःपक्षः ।
“समिधो यजति"इत्यारंभ्याऽम्नातमवान्तरप्रयाजप्रकरणम् ।
तन्मध्ये ऽभिक्रमणमाम्नातम् ।
तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते - इति राद्धान्तः ।
अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते ।
प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ MJAINYC_३,१.२३-२४ ॥
(एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्)
संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् । JAIM_३,१.२१ ।
३,१.२५-२६
एकादशाधिकरणमारचयति-
उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा ।
दर्शाङ्गता प्रक्रियैषावान्तरातो ऽस्त्विहाग्रिमः ॥ MJAINY_३,१.२५ ॥
लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः ।
विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः ॥ MJAINY_३,१.२६ ॥
दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै त्वाष्ट्रः”- इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम् ।
नवमे - निवित्संज्ञकानाम्"अग्ने महां असि ब्राह्मणभारतऽ - इत्यादीनां मन्त्राणां ब्राह्मणम् ।
दशमे - काम्याः सामिधेनीपक्षाः ।
एकादशे तु - उपवीतमेवं विहितम् - ऽनिवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते"इति ।
तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् ।
न ।
निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् ।
न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् ।
लिङ्गेन निविदामग्न्यङ्गत्वावगमात् ।
आहुत्यधिकरणभूतमग्निं संबोध्य"महानसि”-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते ।
अत एव निर्वचनमेवं श्रूयते -“निविद्भर्न्यवेदयेत्, तन्निविदां निवित्त्वम्"इति ।
ननु - “सम्यगिध्यते"ग्निर्याभिऋग्भिस्ताः सामिधेन्यःऽ इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् ।
सन्तु नाम ।
नैतावता परस्परमङ्गाङ्गिभावः ।
ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् ।
न ।
पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् ।
संनिधिना तदङ्गत्वम् - इति चेत् ।
न ।
काम्यसामिधेनीभिर्व्यवधानात् ।
न च काम्यसामिधेन्यङ्गता शङ्कनीया ।
संनिधितः प्रकरणस्य प्रबलत्वात् ।
तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् ॥ MJAINYC_३,१.२५-२६ ॥
(द्वादशे गुणानां मिथो ऽसंबन्धाधिकरणे सूत्रम्) ।
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् । JAIM_३,१.२२ ।
३,१.२७-२८
द्वादशाधिकरणमारचयति -
वैकङ्कतादिकं पात्रं पवमानहविःष्वथ ।
यज्ञे “खिले प्रकरणादाधाने"न्वितमत्र तत् ॥ MJAINY_३,१.२७ ॥
अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते ।
नाऽधानहविषां साम्याद्वाक्याद्यज्ञे ऽखिले भवेत् ॥ MJAINY_३,१.२८ ॥
आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते -“तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन"इति ।
यज्ञावचरो यज्ञप्रचारहेतुः ।
तत्र - वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति ।
एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते ।
अस्ति हि पवमानहविषामाधानाङ्गत्वम् ।
तत्प्रकरणे पाठात् ।
“कृत्तिकास्वग्निमादधीत” इत्यस्मिन्प्रकरणे “प्रजापतिर्वाचः सत्यमपश्यत्” इत्यस्मिन्ननुवाके “त्रीणि हवींषि निर्वपति” इत्यादिना तानि विहितानि ।
ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि – इति प्रापते, ब्रूमः- अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि ।
“यदाहवनीये जुह्वति तेन सो"स्वाभीष्टः प्रीतःऽ इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् ।
तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः ।
तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् ।
“वैकङ्कतो यज्ञावचरः” इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते ॥ MJAINYC_३,१.२७-२८ ॥
(त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् -)
मिथश् चानर्थसंबन्धात् । JAIM_३,१.२३ ।
३,१.२९-३१
त्रयोदशाधिकरणमारचयति –
वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे ।
इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः ॥ MJAINY_३,१.२९ ॥
क्रमेण प्रापिता मन्त्राश्चत्वारो ऽप्याज्यभागयोः ।
क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता ॥ MJAINY_३,१.३० ॥
न मुख्ये सोम एको “स्ति ना"धारत्वादिकालयोः ।
दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः ॥ MJAINY_३,१.३१ ॥
दर्शपूर्णमासप्रकरणे श्रूयते - “वार्त्रघ्नी” पूर्णमासे “नूच्येते, वृधन्वती अमावायायाम्” इति ।
तत्र - इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे “अग्निर्वृत्राणि जङ्घनम् -” इत्यनुवाकेनाऽम्नातम् ।
उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते ।
तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् - इति प्राप्ते, -
ब्रूमः- “अग्निर्वृत्राणि जङ्गनत्” इत्याग्नेयी प्रथमा वार्त्रघ्नी, “त्वं सोमासि सत्पतिः” इति सौम्या द्वितीया वार्त्रघ्नी ।
“अग्निः प्रत्नेन जन्मना” - इत्याग्नेयी प्रथमा बृधन्वती, “सोम गीर्भिष्ट्वा वयम्” इति सौम्या द्वितीया वृधन्वती ।
तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु ।
सौम्ययोस्तु तन्न संभवति ।
सोमदेवताया अभावात् ।
नह्यग्नीषोमीये ऽपि केवलः सोमो विद्यते ।
किंच “पूर्णमासे, अमावास्यायाम्” इति सप्तमीभ्यामाधारत्वं गम्यते ।
तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति ।
कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् ।
किंच - प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः ।
स चाऽज्यभागयोरङ्गयोः क्रमः ।
न तु मुख्ययोदर्श पूर्णमासयोः ।
तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् ।
ननु - एतत्क्रमेणैव लब्धम् ।
तत्रापि “आग्नेये प्रथमाज्यभागे मन्त्रो"प्याग्नेयः ।
सौम्ये द्वितीये सौम्यःऽ इत्येषा व्यवस्था लिङ्गेनैव लभ्यते ।
बाढम् ।
तथापि “वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्” इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते - इति न वैयर्थ्यम् ॥ MJAINYC_३,१.२९-३१ ॥
(चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे २४ - २५ )
आनन्तर्यम् अचोदना । JAIM_३,१.२४ ।
वाक्यानां च समाप्तत्वात् । JAIM_३,१.२५ ।
३,१.३२-३३
चतुर्गशाधिकरणमारचयति -
हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् ।
दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले ॥ MJAINY_३,१.३२ ॥
तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् ।
लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता ॥ MJAINY_३,१.३३ ॥
दर्शपूर्णमासप्रकरणे श्रूयते - “हस्ताववनेनिक्ते,” “उलपराजिं स्तृणाति” इति ।
वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः ।
तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् ।
मैवम् ।
अवनेजनं हस्तसंस्कारः ।
“संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ” इत्येतादृशं सामर्थ्यो लिङ्गम् ।
प्रकरणं च दर्शपूर्णमासयोः स्फुटम् ।
अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः ।
अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः ।
स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- “मुष्टी करोति” “वाचं यच्छति” इति ।
तदनन्तरमेवेदं श्रुतम् - “दीक्षितमावेदयति” इति ।
आवेदनप्रकारश्चैवं श्रुतः- “अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह” इति ।
अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् ।
तेन क्रमो बाध्यते ॥ MJAINYC_३,१.३२-३३ ॥
(पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे २६-२७) ।
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् । JAIM_३,१.२६ ।
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः । JAIM_३,१.२७ ।
३,१.३४-३६
पञ्चदशाधिकरणमारचयति -
चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् ।
चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम् ॥ MJAINY_३,१.३४ ॥
उपलक्षणताऽग्नेये युक्तातः सर्वशेषता ।
अग्नीषोमीय ऐन्द्राग्ने यतो ऽस्त्वाग्नेयता ततः ॥ MJAINY_३,१.३५ ॥
नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् ।
तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः ॥ MJAINY_३,१.३६ ॥
दर्शपूर्णमासयोः श्रूयते - “आग्नेयं चतुर्धा करोति” इति ।
तत्र -आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रययुपलक्ष्यते ।
ततस्त्रयाणां शेषः- इति चेत् ।
मैवम् ।
नहि “आग्नेयः” इत्ययर्ं तद्धतः संबन्धमात्रे विहितः, किंतु द्देवतासंबन्धे ।
आग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता ।
ततो द्देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽग्नेये चतुर्धाकरणं व्यवतिष्ठते ॥ MJAINYC_३,१.३४-३६ ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः
अथ तृतीयाध्यायस्य द्वितीयः पादः ।
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धो ऽर्थेन नित्यसंयोगात् । JAIM_३,२.१ ।
संस्कारकत्वाद् अचोदितेन स्यात् । JAIM_३,२.२ ।