०४ २,४

२,४.१-२

चतुर्थपादस्य प्रथमाधिकरणमारचयति-

यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा ।
कालत्वात्कर्मधार्मो ऽतः काम्य एकः प्रयुज्यताम् ॥ MJAINY_२,४.१ ॥
न कालो जीवनं तेन निमित्तप्रविभागतः ।
काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः ॥ MJAINY_२,४.२ ॥


बह्वृचब्राह्मणे श्रूयते- “यावज्जीवमाग्निहोत्रं जुहोति” इति ।
तत्रं यावज्जीवशब्दो मरणावधिकालपरः ।
तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् “जुहोति” इत्यनूदिते कर्मणि विधीयते ।
तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति ।
स च काम्यप्रयोगो ऽभ्यसितव्यः ।
सकृदनुष्ठानस्य “अग्निहोत्रं जुहुयात्स्वर्गकामः” इत्यनेनैव सिद्धत्वात् ।
“यावज्जीवम्” इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् ।
तस्मात्-अयं काम्यकर्मणो ऽभ्याससिद्धये कालरूपधर्मविधिः ।
इति प्राप्ते,- ब्रूमः-
यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः ।
वाच्यार्थस्तुकृत्स्नजीवनम् ।
न च-जीवनं कर्मधर्मत्वेन विधातुं शक्यम् ।
तस्य पुरुषधर्मत्वात् ।
तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते ।
न च - अत्र कर्मभेदः ।
तद्धेतूनां शब्दान्तरादीनामभावात् ।
न च-अभ्यासस्तद्धेतुः ।
निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् ।
अतः प्रयोगभेदः पर्यवस्यति ।
जीवनस्यात्र निमित्तत्वात् ।
सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् ।
न च-जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः ।
सायंप्रातःकालयोर्विहितत्वात् ।
तस्मात्-जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ ॥ MJAINYC_२,४.१-२ ॥

(द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि ८ - ३२)

नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् । JAIM_२,४.८ ।

एकं वा संयोगरूपचोदनाख्याविशेषात् । JAIM_२,४.९ ।

न नाम्ना स्याद् अचोदनाभिधानत्वात् । JAIM_२,४.१० ।

सर्वेषां चैककर्म्यं स्यात् । JAIM_२,४.११ ।

कृतकं चाभिधानम् । JAIM_२,४.१२ ।

एकत्वे ऽपि परम् । JAIM_२,४.१३ ।

विद्यायां धर्मशास्त्रम् । JAIM_२,४.१४ ।

अग्नेयवत्पुनर्वचनम् । JAIM_२,४.१५ ।

अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । JAIM_२,४.१६ ।
अर्थासन्निधेश् च । JAIM_२,४.१७ ।

न चैकं प्रतिशिष्यते । JAIM_२,४.१८ ।

समाप्तिवच् च संप्रेक्षा । JAIM_२,४.१९ ।

एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि । JAIM_२,४.२० ।

प्रायश्चित्तं निमित्तेन । JAIM_२,४.२१ ।

प्रक्रमाद् वा नियोगेन । JAIM_२,४.२२ ।

समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत । JAIM_२,४.२३ ।

लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् । JAIM_२,४.२४ ।
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् । JAIM_२,४.२५ ।

विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् । JAIM_२,४.२६ ।

सारस्वते विप्रतिषेधाद्यदेति स्यात् । JAIM_२,४.२७ ।

उपहव्ये ऽप्रतिप्रसवः । JAIM_२,४.२८ ।

गुणार्था वा पुनः श्रुतिः । JAIM_२,४.२९ ।

प्रत्ययं चापि दर्शयति । JAIM_२,४.३० ।

अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत । JAIM_२,४.३१ ।

विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् । JAIM_२,४.३२ ।


२,४.३-४

द्वितीयाधिकरणमारचयति -

शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते ।
दृष्टं काठकनामादि बहु भेदस्य कारणम् ॥ MJAINY_२,४.३ ॥
ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः ।
रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते ॥ MJAINY_२,४.४ ॥


काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् ।
तत्र शाखाभेदात्कर्म भिद्यते ।
कुतः ।
भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् ।
काठक-काण्वादिको नामभेदः ।
कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः ।
एकस्यां शाखायामधीताः “इषे त्वा” इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरे ऽप्यधीयन्त इति पुनरुक्तिः ।
एवमशक्त्यादयो भेदहेतव उदाहार्याः ।
न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् ।
तस्मात्-शाखाभेदेन कर्मभेदः ।
इति प्राप्ते-
ब्रूमः- रूपाद्यभेदादेकं कर्म ।
आग्नेयाष्टाकपालादियागरूपं षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते ।
“दर्शपूर्णमासाभ्यां यजेत” इति यागरूपः पुरूषव्यापारश्चैकविधः ।
“दर्शपूर्णमासौ” इति कर्मनामाप्येकम् ।
“स्वर्गकामः” इति फलसंबधो ऽप्येकः ।
तस्मात्- अभिन्नं कर्म ।
पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते ।
काठकादिकं ज्योतिरादिवन्न कर्मसाम, “काठकेन यजेत” इत्यश्रवणात् ।
“काठकवधीते” इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् ।
भूभोजनादिरध्ययनधर्मः ।
पुनरुक्तिरध्येतृभेदान्न दुष्यतिऽ ।
अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते ।
तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदे ऽपि कर्म न भिद्यते ॥ MJAINYC_२,४.३-४ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः

द्वितीयो ऽध्यायस्य समाप्तः

अथ तृतीयाध्यायस्य प्रथमः पादः ।