०३ २,३

२,३.१-३

तृतीयपादस्य प्रथमाधिकरणमारचयति –
रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत् ।
ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः ॥ MJAINY_२,३.१ ॥
रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः ।
गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः ॥ MJAINY_२,३.२ ॥
सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके ।
ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् ॥ MJAINY_२,३.३ ॥


ज्योतिष्टोमप्रकरणे श्रूयते -“यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् ।
यदि बृहत्सामा शुक्राग्रान् ।
यदि जगत्सामाऽग्रयणाग्रान्"इति ।
तत्र - सोमशब्देन सोमलतासाधनको यागो ऽऽभिधीयते ।
तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि ।
“अभि त्वा शूर”- इत्येतस्यां योनावुत्पन्नं रथंतरम् ।
“त्वामिद्धि हवामहे”- इत्येतस्यामुत्पन्नं बृहत् ।
जगतीछन्दस्कायामृच्युत्पन्नं जगत् ।
ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते ।
दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति ।
सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः ।
बृहत्सामोपेतत्वपक्षे शुक्रः ।
जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः ।
तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते ।
तस्मात् - ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते - इति प्राप्ते, ब्रूमः-“यदि रथंतरसामा सोमः स्यात्"इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते ।
समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते ।
न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति ।
तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वे ऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् ।
किं तर्हि व्यावर्त्यत इति चेत् ।
रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः ।
रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः ।
तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते ।
एवमितरत्रापि ।
तस्मात् - गुणविधिः ।
ननु यः प्रकृतो ज्योतिष्टोमः सो “न्येषां सो"न्येषां सोमयागानां प्रकृतिः ।
नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति ।
अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके"यदि जगत्तामा"इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्ये ऽहनि व्यवस्थापितम् ।
षाढम्, तथापि नात्र कश्चिद्विरोधः ।
आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु “अन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् -” इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात् ॥ MJAINYC_२,३.१-३ ॥

(द्वितीये ऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्)

अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । JAIM_२,३.३ ।


२,३.४-६

द्वितीयाधिकरणमारचयति –

राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुतात्र तु ।
विप्रक्षत्त्रियविड्भेदाद्धविषां व्यत्ययः क्रमे ॥ MJAINY_२,३.४ ॥
विप्रादेरनुवादः स्यात्प्रापणं वानुवादगीः ।
व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि ॥ MJAINY_२,३.५ ॥
न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः ।
अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता ॥ MJAINY_२,३.६ ॥


राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते -
“आग्नेयमष्टाकपालं निर्वपेत् , हिरण्यं दक्षिणा ।
ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा ।
वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा ।
मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा ।
बार्हस्पत्यं चरुम्, शितिपृष्ठो दिक्षणां"इति ।
तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते -“यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् ।
यदि राजन्य ऐन्द्रम् ।
यदि वैश्यो वैश्वदेवम्"इति ।
तत्र यथा पूर्वाधिकरणे - ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं “यदि रादन्यः” इत्यनुवादः ।
वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः ।
ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत् ।
न ।
तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, -
ब्रूमः- राजशब्दः क्षत्त्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् ।
प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् ।
“राज्ञः कर्म” इति विगृह्य राजप्रातिपदिकस्योपरि ।
प्रत्ययविशेषविधानात् ।
ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः ।
तस्मात् - अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते ।
ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् - इति चेत् ।
मैवम् ।
अन्तरवेष्टौ तदसंभवे ऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् ।
तस्मात् - अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् ।
यदिशब्दस्तु निपातत्वादनर्थकोर्ऽथान्तरवाची वेत्युन्नेयम् ॥ MJAINYC_२,३.४-६ ॥

(तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्)

आधाने सर्वशेषत्वात् । JAIM_२,३.४ ।


२,३.७-९

तृतीयाधिकरणमारचयति -

वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् ।
अनुवादः प्रापणं वानुवादः कालसिद्धये ॥ MJAINY_२,३.७ ॥
अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् ।
कॢप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥ MJAINY_२,३.८ ॥
लौकिकाग्नेः पुस्तकाञ्च तत्सिद्धेर्नास्ति कल्पनम् ।
कालविप्रादिसंयुक्तमतो ऽप्राप्तं विधीयते ॥ MJAINY_२,३.९ ॥


“वसन्ते ब्राह्मणो ऽग्नीनादधीत ।
ग्रीष्मे राजन्यः ।
शरदि वैश्यः"इति श्रूयते ।
“वसन्ते ब्राह्मणमुपनयीत ।
ग्रीष्मे राजन्यम् ।
शरदि वैश्यम्"इति च ।
तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयो ऽनूद्यन्ते ।
न च तेषां प्राप्त्यभावः ।
क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् ।
न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति ।
अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति - इति तत्र प्राप्तिः- इति चेत् ।
मैवम् ।
लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः ।
तस्मात् - वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते ॥ MJAINYC_२,३.७-९ ॥

(चतुर्थे दाक्षयणादीनां गुणताधिकरणे सूत्राणि ५-११)

अयनेषु चोदनान्तरं संज्ञोपबन्धात् । JAIM_२,३.५ ।

अगुणाच् च कर्मचोदना । JAIM_२,३.६ ।

समाप्तं च फले वाक्यम् । JAIM_२,३.७ ।

विकारो वा प्रकरणात् । JAIM_२,३.८ ।

लिङ्गदर्शनाच् च । JAIM_२,३.९ ।

गुणात् संज्ञोपबन्धः । JAIM_२,३.१० ।

समाप्तिर् अविशिष्टा । JAIM_२,३.११ ।


२,३.१०-११

चतुर्थाधिकरणमारचयति -
यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत् ।
कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये ॥ MJAINY_२,३.१० ॥
गुणस्यास्याप्रसिद्धत्वात्कर्मभेदो ऽत्र संज्ञया ।
गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत् ॥ MJAINY_२,३.११ ॥


दर्शपूर्णमासप्रकरणे श्रूयते -“दाक्षायणयज्ञेन स्वर्गकामो यजेत"इति ।
तत्र - दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् ।
“अथैष ज्योतिः"इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत् ।
न ।
दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् ।
तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते ।
तथा हि - “अयनम्” इत्यावृत्तिरुच्यते ।
“दक्षस्येमे दाक्षाः, तेषामयनम्” इति तन्निर्वचनम् ।
दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः ।
तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः ।
तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः ।
आवृत्तिप्रकारस्तु"द्वे पौर्णमास्यौ यजेत ।
द्वे अमावास्ये"इत्यादिवाक्यशेषादवगम्यते ।
ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् ।
एवं"साकंप्रस्थाप्येन यजेत पशुकामः"इत्यत्रापि द्रष्टव्यम् ।
अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः ।
तद्युक्तो यागः साकंप्रस्थाप्यः ।
तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते ॥ MJAINYC_२,३.१०-११ ॥

(पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि १२ - १५)

संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् । JAIM_२,३.१२ ।

यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् । JAIM_२,३.१३ ।

यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् । JAIM_२,३.१४ ।

लिङ्गदर्शनाच् च । JAIM_२,३.१५ ।


२,३.१२-१४

पञ्चमाधिकरणमारचयति -

वायव्यः श्वेत आलभ्यो भूत्यै सौर्ये चरुं तथा ।
निर्वपेद्बह्मतेजोर्थमीषामुष्टिनिरुप्तयोः ॥ MJAINY_२,३.१२ ॥
गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी ।
फलार्थे अथवा यागे विशिष्टौ विहिताविह ॥ MJAINY_२,३.१३ ॥
श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे ।
चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ॥ MJAINY_२,३.१४ ॥
फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत् ।
द्रव्यादिरूपसंपत्तेरवार्या यागताऽर्थिकी ॥ MJAINY_२,३.१५ ॥


अनारभ्येदमाम्नायत् - “वायव्यं श्वेतमालभेत भूतिकामः” इति, “सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामः” इति च ।
तथा -दर्शपूर्णमासयोरिदमाम्नायतेर् -“इषामालभेत"इति,“चतुरो मुष्टीन्निर्वपति"इति चर् ।
इषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः ।
तस्या आलम्भः स्पर्शः ।
तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते ।
तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति ।
तथा - चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते ।
चरुः स्थाली ।
सा च निर्वापस्याऽश्रयः ।
निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् ।
भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते ।
तस्मात् - गुणविधी - इत्येकः पूर्वपक्षः ।
नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् ।
तस्मात् –गुणफलविशिष्टे कर्मान्तरे विधीयेते ।
तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः ।
श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः ।
“भूतिकामो वायव्येन श्वेतेन पशुना यजेत” “ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत” इत्येवंविधोर्ऽथसिद्धो विधिः ।
द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत् ।
“अनुवादः” इति ब्रूमः- इति सिद्धान्तः ॥ MJAINYC_२,३.१२-१५ ॥

(षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे १६-१७)

विषये प्रायदर्शनात् । JAIM_२,३.१६ ।

अर्थवादोपपत्तेश् च । JAIM_२,३.१७ ।


२,३.१६

षष्ठाधिकरणमारचयति -

षत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः ।
स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः ॥ MJAINY_२,३.१६ ॥


अग्निहोत्रदोहाधिकारे श्रूयते -“वत्समालभेत"इति ।
तत्र “विमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्” इति चेत् ।
न ।
देवताराहित्येन तद्वैषम्यात् ।
किंच - “अयं वत्सालम्भो"ग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्ऽ ।
तस्मात् - अये स्पर्शमात्रविधिः ॥ MJAINYC_२,३.१६ ॥

(सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्)

संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् । JAIM_२,३.१८ ।


२,३.१७-१८

सप्तमाधिकरणमारचयति -

चरुर्भवति नैवार उपधत्ते चरुं त्विति ।
यागः स्यादुपधानं वा यागः शेषोक्तदैवतः ॥ MJAINY_२,३.१७ ॥
यागत्वानिश्चये शेषो नापेक्ष्यो ऽतो यजिः कुतः ।
किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् ॥ MJAINY_२,३.१८ ॥


अग्नौ श्रूयते - “नैवारश्चरुर्भवति” इति, “चरुमुपदधाति” इति च ।
तत्र - नीवारचरुद्रव्यको यागो विधीयते ।
न चात्र देवताया अभावः ।
“बृहस्पतेवां एतदन्नं यद्मीवाराः” इति वाक्यशेषेण देवतासिद्धेः ।
उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् - इति प्राप्ते, ब्रूमः- ऽयागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः ।
इत्यन्योन्याश्रयः ।
तस्मात् - इहोपधानमात्रं विधीयते ॥ MJAINYC_२,३.१७-१८ ॥

(अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्)

पात्नीवते तु पूर्वत्वाद् अवच्छेदः । JAIM_२,३.१९ ।


२,३.१९-२१

अष्टमाधिकरणमारचयति –

पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ ।
यागौ गुणो वा यागः स्यादन्वयाव्यवधानतः ॥ MJAINY_२,३.१९ ॥
प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः ।
गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये ॥ MJAINY_२,३.२० ॥
न दुष्टा परिसंख्यात्र चोदकात्प्राग्विधौ सति ।
पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः ॥ MJAINY_२,३.२१ ॥


“त्वाष्ट्रं पात्नीवतमालभेत” इति प्रकृत्येदमाम्नातम्-ऽपर्याग्निकृतं पात्नीवतमुत्सृजन्तिऽ इति ।
तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः ।
एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते ।
सिद्धान्ते तु “पर्यग्निकृतमुत्सृजन्ति” इत्यन्वयं वाञ्छन्ति ।
तदा व्यवहितान्वयो दुर्वारः ।
तस्मात्-षायव्यपशुवद्यागविधिः- इति प्राप्ते, ब्रूमः- अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा ।
इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते ।
तमनूद्य पर्यग्निकृतशब्दान्वितेन “उत्सृजन्ति” इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते ।
न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थको ऽयं विधिरिधिवाच्यम् ।
उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् ।
नन्वेवं सति परिसंख्या स्यात् ।
सा च दोषत्रयदुष्टा ।
स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः ।
पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् ।
मैवम् ।
“पर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानि” इत्येतस्याः परिसंख्याया अनङ्गीकारात् ।
कथं तर्हि तन्निवृत्तिः- “आर्थिकी” इति ब्रूमः ।
चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् ।
तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते ।
न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् ।
विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् ।
प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति ।
एवं च सति “उत्सृजन्ति” इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते ।
तदेग्मत्र गुणविधिः ॥ MJAINYC_२,३.१९-२१ ॥

(नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्)

अद्रव्यत्वात् कवेले कर्मशेषः स्यात् । JAIM_२,३.२० ।


२,३.२२-२३

नवमाधिकरणमारचयति -

यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् ।
तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥ MJAINY_२,३.२२ ॥
ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः ।
गुणो ऽस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना ॥ MJAINY_२,३.२३ ॥


अमारभ्य श्रूयते - “एष वै द्दविषा हविर्यजते, यो"दाभ्यं गृहीत्वा सोमाय यजतेऽ इति “परा वा एतस्या"युः प्राण एति, य्ॐऽशुं गृह्णातिऽ इति च ।
तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो “यजते” इत्याख्यातेन विधीयते ।
“अंशुम” इत्यत्र यजतेरवश्रवणे ऽपि नामविशेषबलादेवापूर्वयागविधिः ।
न चात्र द्रव्यदेवतयोरभावः ।
ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः - इति प्राप्ते, ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम् ।
ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः ।
“गृहीत्वा” इतिशब्दस्यानन्तरमेव पाठात् ।
यजतिस्तु व्यवहितः ।
तादृशो ऽपि यजिरंशुवाक्ये नास्ति ।
तस्माद्ग्रहयोरेवात्र विधिः ।
ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् ।
यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् ।
अत एव “सोमायादाभ्यं गृहीत्वा” इति निर्दिश्यते ।
अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् ।
तस्मात्-ज्योतिष्टोमे गुणविधिः ॥ MJAINYC_२,३.२२-२३ ॥

(दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि २१-२३)

अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत । JAIM_२,३.२१ ।

द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् । JAIM_२,३.२२ ।

तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि । JAIM_२,३.२३ ।


२,३.२४-२५

दशमाधिकरणमारचयति-

अग्निं चिनुत इत्यत्र यागो वा संस्कृतियंजिः ।
लिङ्गेन यागनामत्वाद्यजिमा चानुवादतः ॥ MJAINY_२,३.२४ ॥
रूढ्या द्रव्यस्य नामैतद्वहनेराधानवच्चितिः ।
संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते ॥ MJAINY_२,३.२५ ॥


“य एवं विद्वानग्निं चिनुते” इत्येवं विधाय श्रूयते-ऽअथातो “ग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येन"तं षोडशिना, तमतिरात्रेण, इत्यादि ।
अत्र - अग्निशब्दो यागवाची ।
स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् ।
तच्च लिङ्गमेवं श्रूयते-ऽअग्नेः स्तोत्रं,अग्नेः शस्त्रम्ऽ इति, “षडुपसदो"ग्निश्रित्यस्य भवन्तिऽ इति च ।
यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापके ऽस्तु ।
अग्निमग्निष्टोमेनानुयजतिऽ इत्यतेस्मिन्वाक्ये “अग्निं यजति” इति यजिसामानाधिकरण्यात् “उपांशु यजति” इतिवद्यागनामत्वम् ।
अथोच्येत - अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयो ऽग्निष्टोमस्य, इति ।
तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति ।
“देवदत्तमनुगच्छति यज्ञदत्तः” इत्यत्र देवदत्ते पुरोगमनदर्शनात् ।
तस्मात् “अग्निं चिनुते” इत्यत्राग्निनामको याग आख्यातेन विधीयते ।
चिनोतिस्तु “इष्टकाभिरग्निं चिनुते” इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते, ब्रूमः- अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे ।
रूढिश्च कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा-
द्बलीयसीति न यागनामत्वम् ।
न चात्र षागरुपमस्ति ।
द्रव्यदेतयोरसिद्धेः ।
अतः “अग्निमादधीत” इत्युक्ताधानत्वात् “अग्निं चिनुते” इत्युक्तं चयनमग्निद्रव्यसंस्कारः ।
न च संस्कृतस्य विनियोगाभावः ।
“अग्निमग्निष्टोमेन यजते” इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् ।
तस्मात्-संस्कारविधिः ॥ MJAINYC_२,३.२४-२५ ॥

(एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्)

प्रकरणान्तरे प्रयोजनान्यत्वम् । JAIM_२,३.२४ ।


२,३.२६-२७

एकादशाधिकरणमारचयति-

मासं जुहोत्यग्निहोत्रं गुणो ऽन्यत्कर्म वा गुणः ।
अनूद्य प्राप्तकर्मात्र मासो ऽप्राप्तो विधीयते ॥ MJAINY_२,३.२६ ॥
उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् ।
अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात् ॥ MJAINY_२,३.२७ ॥


कुण्डपायिनामयने श्रूयते-ऽउपसद्भिश्चरित्वाऽ “मासमग्निहोत्रं जुहोति” “मासं दर्शपूर्णमासाभ्यां यजेत” इति ।
अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणो ऽप्राप्तत्वाद्विधीयते - इति चेत् ।
मैवम् ।
किं मास एव विधीयते,ऽउपसद्भिश्चरित्वाऽ इत्युक्तोपसदो ऽपि ।
नाऽद्यः ।
उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् ।
न द्वितीयः ।
प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः ।
ननु मा भूत्तर्हि गुणविधिः ।
कर्मान्तरत्वे किं प्रमाणम् - इति चेत् ।
“प्रकरणान्तरम्”- इति ब्रूमः ।
न सेतग्नित्याग्निहोत्रस्य प्रकरणम् ।
असंनिहितत्वात् ।
अयनस्य ह्येतत्प्रकरणम् ।
अयनमारभ्याधीतत्वात् ।
का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का - इति चेत् ।
प्रकरणस्यासमर्पकत्वे ऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति ।
सा च वाक्यभेदापत्त्या निराकृता ।
तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति ।
अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते ।
ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते ।
ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् ।
न ।
वैषम्यात् ।
ऽउपादेयतया विधेयो गुणो वाजिनम् ।
मासो न तथा इत्यपरं वैषम्यम् ।
परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति ।
ततः प्रकरणान्तरमेवात्र भेदहेतुः ॥ MJAINYC_२,३.२६-२७ ॥

(द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्)

फलं चाकर्मसंनिधौ । JAIM_२,३.२५ ।


२,३.२८-२९

द्वादशाधिकरणमारचयति-

अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् ।
कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् ॥ MJAINY_२,३.२८ ॥
मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः ।
अनारभ्याधीतमेतद्रूपं त्वन्यूनमीक्षते ॥ MJAINY_२,३.२९ ॥


अनारभ्य श्रूयते- “आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः” इति ।
रुक्कामस्तेजस्कामः ।
अत्र - इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते ।
कुतः ।
वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् ।
न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् ।
वैषम्यात् ।
तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् ।
इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतो ऽत्र प्रकरणान्तरत्वम् ।
किंच मासो ऽनुपादेयः ।
अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् ।
फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् ।
तस्मात्-फलविधिः- इति प्राप्ते, ब्रूमः- प्रकरणान्तरत्वाभावे ऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव ।
स एवात्र कर्म भिनत्ति ।
न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् ।
यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चो ऽस्तु ।
फलं च मासवदनुपादेयम् ।
अन्यथा साधनवदफलत्वप्रसङ्गात् ।
कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते ।
न तु विधिश्रवणात्संपद्यते ।
यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् ।
सर्वथा तेजस्कामेष्टिः कर्मान्तरम् ।
काम्येष्टिकाण्डपठितेषु “ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः” इत्यादिष्वयमेव न्यायो द्रष्टव्यः ॥ MJAINYC_२,३.२८-२९ ॥

(त्रयोदशे - अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्)

संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः । JAIM_२,३.२६ ।


२,३.३०-३२

त्रयोदशाधिकरणमारचयति-

यजोत्समे पौर्णमास्यां यावज्जीवं तथैतया ।
अन्नाद्यकाम इत्यादौ कर्मभेदौऽथवा गुणः ॥ MJAINY_२,३.३० ॥
विध्युपादानयोरैक्याद्देशादेरनुत्र्व्पत्तितः ।
आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः ॥ MJAINY_२,३.३१ ॥
देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः ।
पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते ॥ MJAINY_२,३.३२ ॥


दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- “समे यजेत” पौर्णमास्यां यजेतऽ “यावज्जीवं दर्शपूर्णमासाभ्यां यजेत” इति ।
अवेष्टिप्रकरणे फलमाम्नातम्-ऽएतयान्नाद्यकामं याजयंत्ऽ इति ।
आदिशब्देन संस्कारो गृहीतः ।
स च दर्शपूर्णमासप्रकरणे समाम्नातः-ऽशेषं स्विष्टकृते समवद्यतिऽ इति ।
तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः ।
अत एव न विधेयाः ।
उपादानविधिशब्दयोः पर्यायत्वात् ।
ततः-कर्मविधिः - इत्यवश्यमभ्युपेयम् ।
तत्र-प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने “समिधो यजति” इत्यादिवदभ्यासादेव कर्मभेदः - इति प्राप्ते, ब्रूमः- देशादीनामविधेयत्वे ऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् ।
स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति ।
यदुक्तम- उपादानविधिशब्दौ पर्यायौ - इति ।
तदसत् ।
ऽअप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः ।
अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारःऽ इति महान्भेदः ।
यो “पि-दर्शादीनां पुनर्विधिः सो"पि देशादिसंबन्धं विधातुं कर्मानुवादः - इति न कर्मभेदमावहति ।
समिधो “यजति” इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः- इति वैषम्यम् ॥ MJAINYC_२,३.३०-३२ ॥

(चतुर्दशे,आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि २७-२९)

आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत । JAIM_२,३.२७ ।

अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते । JAIM_२,३.२८ ।

अन्यार्था वा पुनः श्रुतिः । JAIM_२,३.२९ ।


२,३.३३-३४

चतुर्दशाधिकरणमारचयति-

दर्शपूर्णमासप्रोक्त आग्नेयः केवलो ऽप्यसौ ।
दर्शे यदिति वाक्याभ्यां कर्मान्यद्वानुवादगीः ॥ MJAINY_२,३.३३ ॥
अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् ।
एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ॥ MJAINY_२,३.३४ ॥


यदाग्नेयो “ष्टाकपालो"मावस्यायां पौर्णमास्यां चाच्युतो भवति ।
इति कालद्वये विहितम् ।
“यदाग्नेयो"ष्टाकपालो “मावास्यायां भवति” इत्येकस्मिन्काले पुनर्विहितम् ।
तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः ।
तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् ।
न ।
प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् ।
न चानुवादो व्यर्थः ।
विधेयैन्द्राग्नस्तुत्यर्थत्वात् ।
यद्यप्याग्नेयो “ष्टाकपालो"मावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति ।
इन्द्रसहितो ऽग्निः समीचीनतरः ।
तस्मात्—
“ऐन्द्राग्नः कर्तव्यः” इति विधेयस्तुतिः ।
प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् ॥ MJAINYC_२,३.३३-३४ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः


(अथ द्वितीयाध्यायस्य चतुर्थः पादः)

(प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि १ - ७)

यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् । JAIM_२,४.१ ।

कर्तुर् वा श्रुतिसंयोगात् । JAIM_२,४.२ ।

लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् । JAIM_२,४.३ ।

अपवर्गे च दर्शयति कालश् चेत् कर्मभेदः स्यात् । JAIM_२,४.४ ।

अनित्यत्वात् तु नैवं स्यात् । JAIM_२,४.५ ।

विरोधश् चापि पूर्ववत् । JAIM_२,४.६ ।

कर्तुस् तु नियमात् कालशास्त्रं निमित्तं स्यात् । JAIM_२,४.७ ।