०१ २,१

२,१.१

प्रमाणमुपजीव्यत्वात्प्रथमे ऽध्याय ईरितम् ।
मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते ॥ MJAINY_२,१.१ ॥


अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ १ ॥

(प्रथमे “पूर्वस्या"ख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि १ - ४)

भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेत एष ह्य् अर्थो विधीयते । JAIM_२,१.१ ।

सर्वेषां भावो ऽर्थ इति चेत् । JAIM_२,१.२ ।

येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै । JAIM_२,१.३ ।

येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य । JAIM_२,१.४ ।


२,१.२-३

द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति -

विधिवाक्ये पदैः सर्वैरपूर्वे प्रतिपाद्यते ।
प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम् ॥ MJAINY_२,१.२ ॥
फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः ।
लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् ॥ MJAINY_२,१.३ ॥


विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम ।
विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि ।
कुतः ।
अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात ।
अपूर्वप्रतिपादनाभावे “पि क्रियाकारकयोः परस्परान्वयो"स्त्येवेति चेत् ।
सत्यम् ।
तथापि प्रधानान्वयो लभ्येत ।
फलं हि प्रधानम् ।
पुरूषार्थतया साध्यमानत्वादिति प्राप्ते , ब्रूमः - अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् ।
तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते ।
पदान्तरं तु तच्छेषतयान्वेति ।
ननु यस्य पदस्यार्थो ऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि ।
तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत् ।
मेवम् ।
“उद्भिदा यजेत पशुकामः” “श्येनेनाभिचरन्यजेत"इत्यादावुद्भिदादिशब्दानां नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् ।
तस्मादेकमेव पदमपूर्वप्रतिपादकम् ।
न च धर्मभेदचिन्तां प्रस्तुता परित्यज्य किमित्यपूर्वे चिन्त्यत इति वाच्यम् ।
अपूर्वस्यैव धर्मत्वात् ॥ MJAINYC_२,१.२-३ ॥

द्वितीयं वर्णकमारचयति –


२,१.४-७

द्रव्यादिशब्दतो ऽपूर्वधीर्भावार्थपदादुत ।
द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः ॥ MJAINY_२,१.४ ॥
क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते ।
भावनावाचिनो ऽपूर्वमाख्यातादवगम्यते ॥ MJAINY_२,१.५ ॥
धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् ।
सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना ॥ MJAINY_२,१.६ ॥
धात्वर्थः करणं तस्यां समानपदवर्णितः ।
द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका ॥ MJAINY_२,१.७ ॥


इदमाम्नायते -“सोमेन यजेत” “हिरण्यमात्रेयाय ददाति” “तस्मात्सुवर्णे हिरण्यं धार्यम्” “श्येनेनाभिचरन्यजेत” “चित्रया यजेत पशुकामः"इत्यादि ।
तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ ।
तैरेतैर्द्रव्यादिशब्दैरपूर्वे प्रत्येति कुतः ।
द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् ।
यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हप्ति ।
ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते - ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते ।
पचिक्रीयामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात् ।
अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वे प्रतीयते ।
ननु धात्वर्थ एव भावना, तदन्या वा ।
न तावद्धात्वर्थः ।
तस्य तां प्रति करणत्वोक्तेः ।
न द्वितीयः ।
धात्वर्थव्यतिरिक्तायाः क्रियायादुर्लक्ष्यत्वादिति चेत् ।
मैवम् ।
सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् ।
तदुक्तमाचार्यैः-
“धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते ।
तथापि सर्वसामान्यरूपेणैवावगम्यते"इति ।
अन्यैरप्युक्तम् -
“सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः ।
अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी"इति ।
“पचति” इत्युक्ते “पाकं करोत्रि” इत्येतमर्थे सर्वे जनाः प्रतियन्ति ।
तत्र पाकः, पक्तिः पचनम्, इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः ।
“करोति” इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाऽख्यातप्रत्ययविधिः ।
स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः ।
ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते - इति ।
अन्ये भावनापक्षा अयुक्ताः ।
प्रयत्नो भावनेति चेत् ।
न ।
“रथो गच्छति” इत्यत्र तदभावप्रसङ्गात् ।
स्पन्द इति चेत् ।
न ।
मानसत्यागरूपे यजतावव्याप्तेः ।
उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत् ।
न ।
शब्दभावनायामव्याप्तिः न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ति ।
लिङ् - लेट् - लोट्तव्यप्रत्ययमात्रगता शब्दभावना ।
सर्वाख्यातगतार्ऽथभावना ।
तदुक्तम् –
“अभिधां भावनामाहुरन्यामेव लिङ्ङादयः ।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते"इति ॥
किंच स्पन्दादिवादिनो ऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किंत्वन्योत्पादानुकूलं स्वरूपम् ।
तस्मादस्मदुक्तैव भावना ।
यथा “पचति, इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा"यजतिऽ इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला ।
तस्यां च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्यासम्नत्वात्प्रकृत्यर्थः करणम् , न तु द्रव्यादि ।
तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात् ।
साध्यरूपो ऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सञ्शक्नोति फलं साधयितुम् ।
द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः ।
द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेव केनापि नाभिधीयते ।
सर्वधात्वर्थानुयायिस्वात् ।
अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् ।
अस्तु तर्हि – धात्वर्थसामान्यमेव भावनेति चेत् ।
न ।
प्रतिधात्वर्थे विलक्षणरूपत्वात् ।
अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् ।
अन्यच्च चलनस्य संयोगविभागौ प्रति ।
अन्यथा फलविभागानुपपत्तेः ।
भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम ।
नैतावताप्रकृत्यर्थसामान्यं तद्भवति ।
तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाऽख्यातप्रत्ययवाच्या भावना ।
तथासति “यजेत” इत्यत्राऽख्यातस्य “भावयेत्” इत्यर्थो भवति ।
तत्र “किं भावयेत्, केन भावयेत्, कथं भावयेत्, इत्यकाङ्क्षायां” स्वर्गे भावयेत् “यागेन भावयेम्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत् , इत्येवं भाज्यकरणेतिकर्तव्यतासमर्पणेना"काङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः ।
भाव्याद्यंशत्रयवती सेयमार्थी भावनेत्युच्यते ।
सा सर्वापि शब्दभावनाया भाव्या, विधायको लिङ्ङादिः करणम् ।
अर्थवादसंपादिता स्तुतिरितिकर्तव्यता ।
सेयं शब्दभावना लिङ्ङादिभिरेव गम्यते ।
ऽ अर्थभावनां सर्वैराख्यातप्रत्यैयर्गम्यत इत्युक्तम् ।
तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते ।
प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या ।
तथा च श्रूयते -“दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"ऽ चित्रया यजेत पशुकामः ऽ इति ।
तच्च करणत्वमपूर्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते ।
तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वे गन्यते ।
चिन्ताप्रयोजनं तु - ऽपूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः ।
सिद्धान्ते तु तत्सद्भावः ऽ इति ॥ MJAINYC_२,१.४-७ ॥

(द्वितीये ऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्)

चोदना पुनर् आरम्भः । JAIM_२,१.५ ।


२,१.८-१०

द्वितीयाधिकरणमारचयति -

अपूर्वसदसद्भावसंशये सति नास्ति तत् ।
मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः ॥ MJAINY_२,१.८ ॥
क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् ।
विरुद्धं मान्तरेणातः श्रेयो ऽपूर्वस्य कल्पनम् ॥ MJAINY_२,१.९ ॥
अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते ।
अपूर्वमिति तद्भेदः प्रक्रियातो ऽवगम्यताम् ॥ MJAINY_२,१.१० ॥


पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम् -
“अपूर्वस्यैकमेव पदं प्रत्यायकम्” तच्च “यजेत” इत्याख्यातान्तभावार्थपदम्, इति ।
तदनुपन्नम् ।
अपूर्वसद्भावेमानाभावात् ।
“यजेत” इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् ।
अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत् ।
न ।
शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते -
ब्रूमः- “दर्शपूर्णमासाभ्याम्” इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम् ।
तद्यथोपपद्यते तथावश्यं भवतापि कल्पनीयम् ।
तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम् ।
नाऽद्यः ।
यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् ।
न द्वितीयः ।
मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात् ।
अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरूद्धमपूर्वकल्पनं ज्यायः ।
कल्पिते ऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत् ।
न ।
“यागावान्तरव्यापारो"पूर्वम् ऽ इत्यङ्गीकारात् ।
न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति ।
यदि व्यापारवतो यागस्य नाशे व्यापारे न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु ।
शक्तिव्यवधाने ऽपि यागस्य साधनत्वमविरूद्धम् ।
औष्ण्यव्यवहिते ऽप्यग्नौ दाहकत्वाङ्गीकारात् ।
यथाङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जले “नुवर्तते, तथा यागजन्यमपूर्वे नष्टे"पि यागे कर्र्तयात्मन्यवनुवर्तताम् ।
तस्मादस्त्यर्पूवम् ।
तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययावगन्तव्यः ।
तथा हि - प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता -“प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते - “यागेन स्वर्गे कुर्यात्” इति ।
“कथं विनश्वरेण फलं कर्तव्यम्” इत्यपेक्षायाम् “अपूर्वे कृत्वा” इत्युच्यते ।
“कथमपूर्वे क्रियते” इत्यपेक्षायां “यागानुष्ठानप्रकारेण” इति ।
तच्चापूर्वे दर्शपूर्णमासयोरनेकविधम् - फलापूर्वम् ।
समुदायापूर्वम् ष उत्पत्त्यपूर्वम्, अङ्गापूर्वे चेति ।
येन स्वर्ग आरभ्यते तत्फलापूर्वम् ।
अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम् ।
तयोरेकैकस्याऽ रम्भायैकैकसमुदायवर्तिनां त्रयाणां यागामां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयणन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि ।
तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि ।
तत्र त्वयं विभागः- संविपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते ।
तद्द्वारेण फलापूर्वे ।
आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते ।
एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि - इत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते ।
अनयैव दिशा सर्वत्रापूर्वप्रक्रियावगन्तव्या ॥ MJAINYC_२,१.८-१० ॥


२,१.११-१२

अत्र गुरुमतमाह -

यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता ।
यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत् ॥ MJAINY_२,१.११ ॥
मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना ।
अभिधेयः पृथग्यागादपूर्वे कार्यमस्त्यतः ॥ MJAINY_२,१.१२ ॥


गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति ।
कुतः ।
अन्तरेणैव तदपूर्वे फलनिष्पत्तेः ।
न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् ।
न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूषत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्र्तयात्मनि वावस्थाय फलमारभत इति पूर्वपक्षः ।
नैतद्युक्तम् ।
उक्तेर्ऽथे प्रमाणाभावात् ।
न च नियोगे ऽपि प्रमाणाभावः शङ्कनीयः ।
वैदिकलिङादीनां तदभिधायकत्वात् ।
ततो धात्वर्थातिरिक्तं कालान्तरभाव्यकाम्यफलसाधनमपूर्वमत्वित ॥ MJAINYC_२,१.११-१२ ॥

(तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि ६ - ८)

तानि द्वैधं गुणप्रधानभूतानि । JAIM_२,१.६ ।

यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् । JAIM_२,१.७ ।

यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् । JAIM_२,१.८ ।


२,१.१३-१४

तृतीयाधिकरणमारचयति –

अवघातादिनापूर्वमुत्पाद्यं विद्यते न वा ।
यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा ॥ MJAINY_२,१.१३ ॥
दृष्टे तुषविमोके तु नापूर्वे द्रव्यतन्त्रतः ।
स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः ॥ MJAINY_२,१.१४ ॥


दर्शपूर्णमासयोः श्रूयते -“व्रीहीनवहन्ति” “तण्डुलान्पिनष्टि"इति ।
तत्र अक्धातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिघात्वर्थवत् ऽ ।
विपक्षे - विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्को ऽवगन्तव्यः ।
तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्ये ऽवघातपेषणयोर्विधिर्र्व्यथः स्यात् ।
तस्मात् - अस्त्यपूर्वमिति प्राप्ते, ब्रूमः- दृष्टफले संभवत्यपूर्वे न कल्पनीयम् ।
यजत्यादिदृष्टान्तस्तु विषमः ।
तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् ।
इह तु “व्रीहीन्” इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रो ऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वे जनयति ।
न च विधिवैयर्थ्यम् ।
नखनिर्भेदनादिना तुषविमोकसंभवे “पि"अवघातेनैवासौ कर्तव्यः ऽ इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात् ।
तस्मान्नास्त्यववातादिजन्यमपूर्नम् ॥ MJAINYC_२,१.१३-१४ ॥

अत्र गुरुमतमाह -


२,१.१५

द्वितीयां सक्तुवद्भङ्क्त्वा नियोगे ऽन्वयितां क्रीया ।
साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः ॥ MJAINY_२,१.१५ ॥


“सक्तूञ्जुहोति"इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय"सक्तुभिर्जुहोति"इति तृतीयात्वेन विपरिणामो वक्ष्यते ।
तथा"व्रीहिभिरवहन्ति"इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगे ऽन्वेतव्येति चेत् ।
मैवम् ।
वैषम्यात् ।
तत्र"होमेन सक्तुषु संस्कारो न भवति"भस्मीभूतानामन्यत्र विनियोगासंभवात् , इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् ।
इह दृष्टस्तुषविमाकेसंस्कार उपपद्यते ।
वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् ॥ MJAINYC_२,१.१५ ॥

(चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि ९ - १२)
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् । JAIM_२,१.९ ।

तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् । JAIM_२,१.१० ।

द्रव्योपदेश इति चेत् । JAIM_२,१.११ ।
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् । JAIM_२,१.१२ ।


२,१.१६-१७

चतुर्थाधिकरणमारचयति –

संमार्ष्ट स्त्रुच इत्यत्र किं प्रधानाख्यकर्मता ।
गुणकर्मत्वमथवा दृष्टाभावे ऽवघातवत् ॥ MJAINY_२,१.१६ ॥
गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् ।
अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया ॥ MJAINY_२,१.१७ ॥


दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् -“स्त्रुचः संमार्ष्टि"इति ।
तत्र संमार्जनं प्रधानकर्म ।
कुतः ।
गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च ।
सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास-“तानि द्वैधं गुणप्रधानभूतानि"“यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्"“यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्"च्च्पू.मी.सू. २ । १ । ६ - ८ छ्तैति ।
यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तु वेष्यते, तेषु कर्मसु गुणत्वम् ।
कुतः ।
तस्य कर्मणो द्रव्यप्रधानत्वात् ।
द्रव्यं प्रधानमस्य, इति बहुव्रीहिः ।
“यूपं तक्षति"आहवनीयमादघाति” इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते ।
“व्रीहीनवहन्ति” “तण्डुलान्पिनष्टि"इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् । प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम् ।
एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः ।
अतो ऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते –
ब्रूमः- “स्त्रुच” इति द्वितीया कर्मकारके विहिता ।
कर्मत्वं चेप्सिततमत्वेसति भवति ।
“कर्तुरीप्सिततमं कर्म"च्च्पा.सू. १ । ४ । ४९ छ्तैति कर्मसंज्ञाविधानात् ।
क्रतुसाधनत्वेन च स्त्रुचां युक्तमीप्सिततमत्वम् ।
अतः प्रधानभूताः स्त्रुचः ।
तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति ।
यदि स्त्रुक्षुदृष्टो ऽतिशयो न स्यात्, तर्ह्यपूर्वे कल्पनीयम् ॥ MJAINYC_२,१.१६-१७ ॥

(पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि १३ - २९)

स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् । JAIM_२,१.१३ ।

अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् । JAIM_२,१.१४ ।

वशावद् वा गुणार्थं स्यात् । JAIM_२,१.१५ ।

न श्रुतिसमवायित्वात् । JAIM_२,१.१६ ।

व्यपदेशभेदाच् च । JAIM_२,१.१७ ।
गुणश् चानर्थकः स्यात् । JAIM_२,१.१८ ।

तथा याज्यापुरोरुचोः । JAIM_२,१.१९ ।

वशायाम् अर्थसमवायात् । JAIM_२,१.२० ।

यत्रेति वार्थवत्त्वात् स्यात् । JAIM_२,१.२१ ।

न त्वाम्नातेषु । JAIM_२,१.२२ ।

दृश्यते । JAIM_२,१.२३ ।

अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् । JAIM_२,१.२४ ।

शब्दपृथक्त्वाच् च । JAIM_२,१.२५ ।

अनर्थकं च तद्वचनम् । JAIM_२,१.२६ ।

अन्यश् चार्थः प्रतीयते । JAIM_२,१.२७ ।

अभिधानं च कर्मवत् । JAIM_२,१.२८ ।

फलनिर्वृत्तिश् च । JAIM_२,१.२९ ।


२,१.१८-१९

पञ्चमाधिकरणमारचयति -

प्रौगं शंसतीत्यादौ गुणतोत प्रधानता ।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥ MJAINY_२,१.१८ ॥
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।
तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ॥ MJAINY_२,१.१९ ॥


ज्योतिष्टोमे श्रूयते -“प्रौगं शंसति” “निष्केवल्यं शंसति” “आज्यैः स्तुवते” “पृष्टैः स्तुवते"प्रौगनिष्केवल्यशब्दौ शस्त्रविशेषनामनी ।
आज्यपृष्टशब्दौ तु व्याख्यातौ ।
अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् ।
प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम् ।
तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् ।
कुतः ।
तुषविमोकवद्दृष्टार्थलाभात् ।
षठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते –
ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वाच्योर्ऽथः ।
यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि , तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति ।
यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूप प्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योर्ऽथो न स्यात् ।
लोके हि “देवदत्तश्चतुर्वेदाभिज्ञः” इत्युक्ते स्तुतिः प्रतीयते ।
तस्य वाक्यस्य गुणसंबन्धपरत्वाभावात् ।
यदा तु देवदत्तरूपपरता ऽ यश्चतुर्वेदी तमानय, इत्यादौ, तत्र न स्तुतिप्रतीतिः ।
तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् ।
ततश्च - “आज्यैर्देवं प्रकाशयेत् ,” पृष्टैर्देवं प्रकाशयेत्, इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत ।
ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् ।
तत्र दृष्टं प्रयोजनं नास्तीति चेत् ।
तर्ह्यपूर्वमस्तु ॥ MJAINYC_२,१.१८-१९ ॥

(षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे ३० - ३१)

विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् । JAIM_२,१.३० ।

अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् । JAIM_२,१.३१ ।


२,१.२०-२१

षष्ठाधिकरणमारचयति -

देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् ।
विधायकं न वान्येन समत्वात्तद्विधायकम् ॥ MJAINY_२,१.२० ॥
यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः ।
आख्यातमभिधानं च प्रधानगुणकर्मणी ॥ MJAINY_२,१.२१ ॥


अयं मन्त्र आम्नायते -“देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह"इति ।
अयमर्थः-
गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोके ऽवतिष्ठते इति ।
तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत् ।
मैवम् ।
यच्छब्दादिना विधिशक्तेः क्षीणत्वात् ।
सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम् ।
“यच्छब्दादेः” इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः ।
“बर्हिर्देवसदनं दामि” इत्युत्तमपुरूमः ।
“अग्नीदग्नीन्विहर” इत्यामन्त्रणम् ।
एवं ब्रह्मणे “पि -” यस्योभयं हविरार्तिमार्च्छत् ऽ इत्युदाहरणीयम् ।
तस्मात् - “आख्यातस्य प्रधानकर्मविधायत्वं, गुणविधायकत्वं वा” इत्येवं द्वावेव प्रकारौ न भवतः, किंतु - “अभिधायकत्वम्” इत्यप्यस्ति तृतीयः प्रकारः ।
ततो न मन्त्रगताख्यातस्य विधायकत्वम् ॥ MJAINYC_२,१.२०-२१ ॥

(सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्)

तच्चोदकेषु मन्त्राख्या । JAIM_२,१.३२ ।


२,१.२२-२३

सप्तमाधिकरणमारचयति –

अहे बुधिण्य मन्त्रं म इति मन्त्रस्य लक्षणम् ।
नास्त्यस्ति वास्य नास्त्येतदव्याप्त्यादेरवारणात् ॥ MJAINY_२,१.२२ ॥
याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् ।
ते ऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ॥ MJAINY_२,१.२३ ॥


आधान इदमाम्नायते -“अहे बुधिण्य मन्त्रं मे गोपाय"इति ।
तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् ।
“विहितार्थाभिधाय को मन्त्रः” इत्युक्ते “वसन्ताय कपिञ्जलानालभेत” इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः ।
“मननहेतुर्मन्त्रः” इत्युक्ते - ब्राह्मणे ऽतिव्याप्तिः ।
एवम् - “असिपदान्तो मन्त्रः” “उत्तमपुरुषान्तो मन्त्रः” इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत् ।
मैवम् ।
याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् ।
तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति ।
“उरु प्रथस्व” - इत्यादयो ऽनुष्ठानस्मारकाः ।
“अग्निमीले पुरोहितम्” इत्यादयः स्तुतिरूपाः ।
“इषे त्वा” - इत्यादयस्त्वान्ताः ।
“अग्न आ याहि वीतये” इत्यादय आमन्त्रणोपेताः ।
“अग्नीदग्नीन्विहर” - इत्यादयः प्रैषरूपाः ।
“अधः स्विदासीदुपरि स्विदासीत्” इत्यादयो विचाररूपाः ।
“अम्बे अम्बिके अम्बालिके न मानयति कश्र्चन” - इत्यादयः परिदेवनरूपाः ।
“पृच्छामि त्वा परमन्तं पृथिव्याः” इत्यादयः प्रश्नरूपाः ।
“वेदिमाहुः परमन्तं पृथिव्याः” इत्यादय उत्तररूपाः ।
एवमन्यदप्युदाहर्तव्यर्म् ।
इदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मो ऽस्ति, यस्य लक्षणत्वमुच्येत ।
लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः-
“ऋषयो ऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः” ॥ इति ।
तस्मात् - अभियुक्तानाम् “मन्त्रो"यम् ऽ इति समाख्यानं लक्षणम् ॥ MJAINYC_२,१.२२ः२३ ॥

(अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्)

शेषे ब्राह्मणशब्दः । JAIM_२,१.३३ ।


२,१.२४-२५

अष्टमाधिकरणमारचयति –

नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यते ऽथवा ।
नास्तीयन्तो वेदभागा इति कॢप्तेरभावतः ॥ MJAINY_२,१.२४ ॥
मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः ।
अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् ॥ MJAINY_२,१.२५ ॥


चातुर्मास्येष्विदमाम्नायते - “एतद्ब्राह्मणान्येव पञ्च हर्वीषि” इति ।
तत्र - ब्राह्मणस्य लक्षणं नास्ति ।
कुतः ।
वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् ।
पूर्वोक्तो मन्त्रभाग एकः ।
भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि -
“हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः ।
परक्रिया पुराकल्पो व्यवधारणकल्फना ।
“इति ।
“तेन ह्मन्नं क्रियते” इति हेतुः ।
“तद्दधणे दधित्वम्” इति निर्वचनम् ।
“अमाध्या वै माषाः” इति निन्दा ।
“वायुर्वै क्षेपिष्ठा देवता” इति प्रशंसा ।
“तद्व्यचिकित्सज्जुहवानि , मा हौषम्” इति संशयः ।
“यजमानेन संमितौदुम्बरी भवति” इति विधिः ।
“भाषानेव मह्यं पचत” इति परकृतिः ।
“पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः ।
“यावतो"श्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत् ऽ इति विशेषावधारणकल्पना ।
एवमन्यदप्युदाहार्यम् ।
न च “हेत्वादीनामन्यतमं ब्राह्मणम्"इति लक्षणम् ।
मन्त्रेष्वपि हेत्वादिसद्भावात् ।
तथा हि - “इन्दवोवामुशन्ति हि” इति हेतुः ।
“उदानिषुर्महीरीति तस्मादुदकमुच्यते” इति निर्वचनम् ।
“मोघमन्नं विन्दते अप्रचेताः” इति निन्दा ।
“अग्निर्मूर्धा दिवः ककुत्पतिः” इति प्रशंसा ।
“अधः स्विदासीदुपरि स्विदासीत्” इति संशयः ।
“कपिञ्जलानालभेत” इति विधिः ।
“सहस्त्रमंयुतं ददत्” इति परकृतिः ।
“यज्ञेन यज्ञमयजन्त देवाः” इति पुराकल्पः ।
“इतिकरणबहुलं ब्राह्मणम्” इति चेत् ।
न ।
“इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्” इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः ।
“इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम्” इति चेत् ।
न ।
“राजा चिद्यं भगं भक्षीत्याह” “यो वा रक्षाः शुचिरस्मीत्याह” इत्यनयोर्मन्त्रयोरतिव्याप्तेः ।
“आख्यायिकारूपं ब्राह्मणम्” इति चेत् ।
न ।
यमयमीसंवादसूक्तादावतिव्याप्तेः ।
तस्मात् - “नास्ति ब्राह्मणस्य लक्षणम्” इति प्राप्ते -
ब्रूमः- “मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ” इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् “अवशिष्टो वेदभागो ब्राह्मणम्” इत्येतल्लक्षणं भवति – इति ॥ MJAINYC_२,१.२४-२५ ॥

(नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्)

अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः । JAIM_२,१.३४ ।


२,१.२६

नवमाधिकरणमारचयति -

ऊहप्रवरनाम्नां किं मन्त्रतास्त्यथवा न हि ।
मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् ॥ MJAINY_२,१.२६ ॥

“अग्नये जुष्टं निर्वपामि"इत्यस्य सौर्ये चरौ “सूर्याय जुष्टं निर्वपामि” इत्येवं पदान्तरप्रक्षेप ऊहः ।
“अदीक्षिष्टायं ब्राह्मणः” इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति -“असौ देवदत्तो “मुष्य पुत्रो"मुष्य पौत्रो “मुष्य नप्तामुष्याः पुत्रो"मुष्याः पौत्रो “मुष्या नप्ता” इति ।
“आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः” इति च ।
एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति ।
कुतः ।
मन्त्रेण सहैकवाक्यत्वादिति चेत् ।
मैवम् ।
याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् ।
न ह्यध्येतार ऊहादीन्मन्त्रकाण्डे ऽवीयते ।
तस्मात् - नास्ति मन्त्रत्वम् ॥ MJAINYC_२,१.२६ ॥

(दशम ऋग्लक्षणाधिकरणे सूत्रम्)

तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था । JAIM_२,१.३५ ।

(एकादशे सामलक्षणाधिकरणे सूत्रम्)

गीतिषु समाख्या । JAIM_२,१.३६ ।

(द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्)

शेषे यजुः शब्दाः । JAIM_२,१.३७ ।


२,१.२७

दशमैकादशद्वादशाधिकरणमारचयति –

नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते ।
पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः ॥ MJAINY_२,१.२७ ॥


इदमाम्नायते - ऽ अहे बुधिण्य मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः ।
ऋचः सामानि, यजूंषि ऽ इति ।
“त्रीन्वेदान्विदन्ति"इति त्रिविदः, त्रिविदां संबन्धिनो ऽध्येतारस्त्रैविदाः ।
ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय, इति योजना ।
तत्र त्रिविधानामृक्समयजुषां व्यवस्थितं लक्षणं नास्ति ।
कुतः ।
सांकर्यस्य दुष्परिहरत्वात् ।
“अध्यापकप्रसिद्धेर्ह्यृग्वेदादिषु पठितो मन्त्र ऋगादिः” इति हि लक्षणं वक्तव्यम् ।
तच्च संकीर्णम् ।
“देवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” इत्ययं मन्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः ।
न च तस्य यजुष्ट्वमास्ति ।
तद्ब्राह्मणे “सावित्र्यर्चा” इत्यृक्त्वेन व्यवहृतत्वात् ।
“एतत्साम गायन्नास्ते” इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् ।
“अक्षितमसि” “अच्युतमसि” “प्राणसंशितमसि” इति त्रीणि यजूंषि सामवेदे समाम्नातानि ।
तथा गीयमानस्य साम्ना आश्रयभूता ऋचः सामवेदे समाम्नायन्ते ।
तस्मात् - नास्ति लक्षणम् - इति चेत् ।
न ।
पादादीनामसंकीर्णलक्षणत्वात् ।
ऽ पादेनार्थेन चोपेता वृत्तबद्धामन्त्रा ऋचः ।
गीतिरूपा मन्त्राः सामानि ।
वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ऽ इत्युक्ते न क्वापि संकरः ॥ MJAINYC_२,१.२७ ॥

(त्रयोदशे निगदानां यजुष्ट्रवाधिकरणे सूत्राणि ३८ - ४५)

निगदो वा चतुर्थं स्याद् धर्मविशेषात् । JAIM_२,१.३८ ।

व्यपदेशाच् च । JAIM_२,१.३९ ।

यजूंषि वा तद्रूपत्वात् । JAIM_२,१.४० ।

वचनाद् धर्मविशेषः । JAIM_२,१.४१ ।

अर्थाच् च । JAIM_२,१.४२ ।

गुणार्थो व्यपदेशः । JAIM_२,१.४३ ।

सर्वेषाम् इति चेत् । JAIM_२,१.४४ ।

न ऋग्व्यपदेशात् । JAIM_२,१.४५ ।


२,१.२८-२९

त्रयोदशाधिकरणमारचयति -

प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः ।
यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता ॥ MJAINY_२,१.२८ ॥
परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः ।
तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् ॥ MJAINY_२,१.२९ ॥


“प्रोक्षणीरासादय” “इध्मं बर्हिरुपसादय” “अग्नीदग्नीन्विहर” “बर्हिः स्तृणीहि” “इन्द्र आगच्छ” “हरिव आगच्छ” इत्यादयो निगदा आम्नाताः ।
परप्रत्यायनार्था मन्त्रा निगदः ।
एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः ।
कुतः ।
पादगीत्कयोरृक्सामलक्षणयोरभावात् ।
प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वे ऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः ।
ब्रूमः- “वहिर्ब्राह्मणा भोज्यन्ताम्” “पिरव्राजकास्त्वन्तः” इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः ।
ततो मन्त्राणां त्रैविध्यं सुस्थितम् ॥ MJAINYC_२,१.२८-२९ ॥

(चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्)

अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् । JAIM_२,१.४६ ।


२,१.३०-३१

चतुर्दशाधिकरणमारचयति -

देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता ।
ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता ॥ MJAINY_२,१.३० ॥
विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् ।
तस्माद्वाक्यैक्यमेतेन यजुरन्तो ऽवर्धायते ॥ MJAINY_२,१.३१ ॥


दर्शपूर्णमासयोराम्नायते -
“देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि"इति ।
तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति ।
कुतः ।
एकत्वनियामकस्य दुर्वोधत्वात् ।
अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् ।
न ।
एकस्मिन्पदे ऽतिव्याप्तेः ।
पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् - इति चेत् ।
मैवम् ।
“यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम्” इति प्रयोजकस्य बोद्धुं शक्यत्वात् ।
“विभागे साकाङ्क्षम्” इत्युक्ते ऽतिव्याप्तिः स्यात् ।
“स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध सुमनस्यमानः"इत्यत्र “तस्मिन्” - इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् “एकार्थम्” इत्युच्यते ।
नहि तत्रैकार्थत्वमस्ति ।
पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् ।
स्योनं समीचीनम् ।
सुसेवं सुष्ठु सेवितुं योग्यम् ।
मेध सारभूतपुरोडाशेत्यर्थः ।
अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् ।
तत् “एकार्थम्” इत्यनेन व्यावर्त्यते ।
“एकार्थम्” इत्युक्ते ऽतिव्याप्तिः स्यात् ।
“भगो वां विभजतु, पूषा वां विभजतु"इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात् , तद्रव्यवच्छेत्तुं “विभागे साकाङ्क्षम्” इत्युक्तम् ।
प्रकृते तु “अग्नये जुष्टम्” इत्यादिसमूहे पृथक्कृते पूर्वो “देवस्य त्वा"इति समूहः साकाङ्क्षो भवति ।
एकीकृते तु कृत्स्नस्यैक एव निर्वापोर्ऽथः ।
एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषो ऽवसानं निश्चेतुं शक्यम् ॥ MJAINYC_२,१.३०-३१ ॥

(पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्)

समेषु वाक्यभेदः स्यात् । JAIM_२,१.४७ ।


२,१.३२-३३

पञ्चदशाधिकरणमारचयति -

इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे ।
असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् ॥ MJAINY_२,१.३२ ॥
छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे ।
अध्याहृते स्मारकत्वान्मन्त्रभेदोर्ऽथभेदतः ॥ MJAINY_२,१.३३ ॥


“इषे त्वोर्जे त्वा"इति श्रूयते ।
सो ऽयं पदसमुदाय एको मन्त्रः ।
कुतः ।
अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात् ।
न च"उरु प्रथस्व"इत्यादिमन्त्रवदनुष्ठेयार्थस्मारकत्वं संभवति ।
क्रियापदाभावेन तदर्थप्रतीत्यभावात् – इति प्राप्ते, ब्रूमः- “इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि” इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ ।
ततस्तदमनुसारेण"छिनद्मि"इति क्रियापदे ऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः ।
इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि “ऽ ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि” इत्यर्थभेदः ।
एवम्"आयुर्यज्ञेन कल्पताम्” “प्राणो यज्ञेन कल्पताम्"इत्यादौ कॢप्तिसामान्यरूपस्यार्थस्यैकत्वे “प्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्य भेदयोः स्पष्टत्वात् ,” कॢप्तीर्वाचयति ऽ इति कॢप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः ॥ MJAINYC_२,१.३२-३३ ॥

(षोडशे (सप्तदशे च) अनुषङ्गाधिकरणे सूत्रम्)

अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । JAIM_२,१.४८ ।


२,१.३४-३५

षोडशाधिकरणमारचयति -

या ते अग्ने रजेत्यध्याहारो यद्वानुषञ्जनम् ।
तनूरित्यन्यशेषत्वादध्याहारो ऽत्र लौकिकः ॥ MJAINY_२,१.३४ ॥
वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् ।
अन्यशेषो ऽपिर् बुद्धस्थो लौकिकस्तु न तादृशः ॥ MJAINY_२,१.३५ ॥


ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते –
“या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा ।
या ते अग्ने रजाशया, या ते अग्ने हराशया"इति ।
अयमर्थः- “अयसा रजतेन हिरण्ये न च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनुः सातिशयेन वृद्धं, गह्वरे तीक्ष्णे द्रव्ये लोहे"वस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि ऽ इति ।
तथा च ब्राह्मणम्,“यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति ।
अशनायापिपासे हवा उग्रं वचः ।
एनश्च वैरहत्यं च त्वेषं वचः"इति ।
तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निशेषो ऽध्याहर्तव्यः ।
न हि “तनूर्वर्षिष्ठा” इत्यादिभागस्तयोरन्वेतुं योग्यः ।
तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते, ब्रूमः- वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया ।
ततः “तनूर्वर्षिष्ठा” इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते ।
यद्यप्यसावन्यशेषः, तथापिर् बुद्धस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते ।
तस्मात् - अनुषङ्गः कर्तव्यः ॥ MJAINYC_२,१.३४-३५ ॥


२,१.३६-३७

सप्तदशाधिकरणमारचयति –

नानुषङ्गो ऽनुषङ्गो वाच्छिद्रोणोत्यस्य शेषिणौ ।
चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते ॥ MJAINY_२,१.३६ ॥
करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति ।
मन्त्रत्रये “तस्तद्द्वारा सर्वशेषो"नुषज्यते ॥ MJAINY_२,१.३७ ॥


ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते -“चित्पतिस्त्वा पुनातु” “वाक्पतिस्त्वा पुनातु” “देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः"इति ।
तत्र तृतीयमन्त्रशेषः “अच्छिद्रेण” - इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते ।
कुतः ।
निराकाङ्क्षत्वात् ।
न हि"चित्पतिस्त्वा पुनातु"“वाक्पतिस्त्वा पुनातु"इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति - इति प्राप्ते -
ब्रूमः- “मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्या"काङ्क्षास्ति ऽ इति ।
“पवित्रेण रश्मिभिः” इत्युक्तं करणत्वं हि क्रियामपेक्षते ।
क्रिया च “पुनातु” इत्येषा त्रिष्वपि मन्त्रेष्वेका ।
तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षे ऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति ।
तस्मात् - अस्त्यनुषङ्गः ॥ MJAINYC_२,१.३६-३७ ॥

(अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्)

व्यवायान् नानुषज्येत । JAIM_२,१.४९ ।


२,१.३८-३९

अष्टादशा(सप्तदशा) धिकरणमारचयति -

गच्छतामितिशब्दस्यामुषङ्गो ऽस्ति न वोपरि ।
सं यज्ञपतिरित्यत्र योग्यत्वात्सो ऽस्ति पूर्वबत् ॥ MJAINY_२,१.३८ ॥
तदेकवचनं मध्यमन्त्रे ऽङ्गानीत्यनेन हि ।
नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ॥ MJAINY_२,१.३९ ॥


अग्नीषोमीयपशौ श्रूयते –“सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा"इति ।
अयमर्थः- “भोः पशो तव प्राणो” वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम् ऽ इति ।
तत्र"यज्ञपतिः"इत्यस्मिंस्तृतीये मन्त्रे “सम्” इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य “गच्छताम्” इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते – इति प्राप्ते , -
ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन “अङ्गानि” इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः ।
ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषो ऽध्याहर्तव्यः ॥ MJAINYC_२,१.३८-३९ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः


(अथ द्वितीयाध्यायस्य द्वितीयः पादः)

(प्रथमे ऽङ्गापूर्वभेदाधिकरणे सूत्रम्)

शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । JAIM_२,२.१ ।