०४ १,४

१,४.१-२

चतुर्थपादस्य प्रथमाधिकरणं ।

वार्तिककारोन्नीतमारचयति -

उद्भिदादिपदं धर्मे किममानमुत प्रमा ।
विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा ॥ MJAINY_१,४.१ ॥
अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते ।
नामत्वेनान्वयो वाक्ये वक्ष्यते ऽतः प्रमैव तत् ॥ MJAINY_१,४.२ ॥


“उद्भिदा यदेत” “बलभिदा यजेत” “विश्वजिता यजेत"इत्येवं समाम्नायते ।
तत्रोद्भिदादिपदं न धर्मे प्रमाणम् ।
कुतः ।
प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् ।
तथा हि - विधिः साक्षात्प्रमाणम् ।
अर्थवादमन्त्रौ तु विध्यन्वयेन ।
तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति ।
विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् ।
नाप्यर्थवादत्वम् ।
स्तुतिबुद्धेरभावात् ।
नापि मन्त्रत्वम् ।
उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् ।
तथा चोक्तम् -
“उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः ।
मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते” ॥ इति ।
“अग्नये जुष्टं निर्वपामि"इत्युत्तमपुरुषः ।
“अग्ने यशस्विन्यशसे समर्पय"इत्यामन्त्रणम् ।
“उर्वी चासि, वस्वी चासि"इत्यस्यन्तरूपम् ।
“इषे त्वा, ऊर्जे त्वा"इति त्वान्तरूपम् ।
आदिशब्देव - आशीर्देवताप्रतिपादनादयः ।
एवमाद्यनन्तर्भावादमानमिति चेत् ।
न ।
विध्यंशे करणे ऽन्तर्भावात् ।
यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति ।
तस्मात्प्रमाणम् ॥ MJAINYC_१,४.१-२ ॥


१,४.३-४

(द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् )

अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात् । JAIM_१,४.२ ।

द्वितीयाधिकारणमारचयति -

गुणो “यं नामधेयं वा खनित्रे"स्य निरुक्तितः ।
ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना ॥ MJAINY_१,४.३ ॥
फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि ।
नामत्वमुचितं यागसामानाधिकरण्यतः ॥ MJAINY_१,४.४ ॥

“उद्भिदा यजेत पशुकामः"इत्यत्र तृतीयान्तेनोद्भित्पदेन योर्ऽथो विवक्षितः सो ऽयं यागे कश्चिद्गुणः स्यात् ।
“दघ्नाजुहोति"इत्यनेन गुणविधिना समानत्वात् ।
अथोच्येत - “दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः” इति ।
तन्न ।
रूढ्यभावे ऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः ।
“उद्भिद्यते भूमिरनेन” इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः ।
न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् ।
पशूनां गुणफलत्वात् ।
यथा"गोदोहनेन पशुकामस्य"इत्यत्र पशवो गोदोहनगुणस्य फलम् ।
तथेह खनित्रगुणस्य फलमस्तु ।
यदि"चमसेनापः प्रणयेत्"इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि"ज्योतिष्टोमेन यजेत ऽ इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् ।
तस्माद्गुणविधिरिति प्राप्ते , —-
ब्रूमः- “पशुकामो यजेत"इत्यस्य पदद्वयस्यायमर्थः– “पशुरुपं फलं यागेन कुर्यात्” इति ।
तत्र “केन यागेन” इत्यपेक्षायाम् “उद्भिदा” इति तृतीयान्तं पदं यागनामत्वेनान्वेति ।
“उद्भिद्यते पशुफलमनेन यागेन” इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते ।
एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् ।
मैवम् ।
सामानाधिकरण्यस्य निर्णायकत्वात् ।
“उद्भिन्नामकेन यागेन फलं कुर्यात्” इत्युक्ते सामानाधिकरण्यं लभ्यते ।
गुणत्वे तु “खनित्रेण साध्यो यो यागः, तेन”- इत्येवं वैयधिकरण्यं स्यात् ।
यदि “खनित्रवता यागेन” इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत ।
तस्मादुद्भिदादिपदं नामधेयम् ।
“दध्ना जुहोति” “व्रीहिभिर्यजेत” इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् ।
“सोमेन यजेत” इत्यत्रापि “अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम्” इत्यभिप्रेत्य “सोमद्रव्यवता यागेन” इति मत्वर्थलक्षणा स्वीकृता ।
उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् ।
प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव ।
न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु “अनेनाहं यक्ष्ये” इत्याख्यानोपायो लघुः कश्चिदस्ति ।
तस्मात् -
उद्भिदादीकं नामधेयम् ॥ MJAINYC_१,४.३-४ ॥


१,४.५

अत्रैव गुरुमतमाह –

लौकिके गणयागे ऽस्य विधेः सापेक्षतेति चेत् ।
निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता ॥ MJAINY_१,४.५ ॥


“उद्भिदा यजेत” इत्ययं गुणविधिः ।
न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते ।
ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः ।
तस्मिन्योगे मैवम् ।
पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ MJAINYC_१,४.५ ॥


१,४.६-७

(तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्)

यस्मिन् गुणोपदेशः प्रधानतो ऽभिसम्बन्धः । JAIM_१,४.३ ।

तृतीयाधिकरणमारचयति —
यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् ।
चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ ॥ MJAINY_१,४.६ ॥
द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः ।
स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा ॥ MJAINY_१,४.७ ॥


“चित्रया यजेत पशुकामः"इत्याम्नायते ।
तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते ।
ततो न पूर्वन्यायेन नामत्वम् ।
तथा सति"अग्नीषोमीयं पशुमालभेत"इति विहितं पशुयागमात्रं “यजेत” इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते —
ब्रूमः - चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ ।
तयोर्द्वयोर्विधाने वाक्यं भिद्येत ।
तथा चोक्तम् –
“प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः” ॥ इति ।
अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् ।
तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति ।
चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते ।
“दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्” इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि ।
त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् ।
यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् ।
उत्पन्नस्य तस्य यागस्य “चित्रया यजेत पशुकामः” इत्येतत्फलवाक्यम् ।
एवं सति प्रकृतार्थो लभ्यते ।
अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् ।
लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत ।
तस्माच्चित्रापदं नामधेयम् ।
यथा चित्राशब्दे नामधेयत्वम् ।
तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् ।
एवं हि श्रूयते -“त्रिवृद्धहिष्पवमानम्” “पञ्चदशान्याज्यानि” “सप्तदशानि पृष्ठानि"इति ।
अस्य वाक्यत्रयस्यार्थो विव्रियते -
सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि ।
तत्र"उपास्मै गायता नरः"इत्याद्यं सूत्रम् ।
“दविद्युतत्या रुचा"इति द्वितीयम् ।
“पावमानस्य ते कवे"इति तृतीयम् ।
ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् ।
तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् ।
बहिः संबन्धाच्च ।
न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते ।
तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति ।
तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते —“तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो विष्टुतिः"इति ।
अयमर्थः — ऽ सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः -कर्तव्यम् ।
तत्र प्रथमे पर्याये - त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये – मध्यमाः, तृतीये पर्याये चोत्तमाः ।
तिसृभ्य इति तृतीयार्थे पञ्चमी ।
हिं करोति गायति ऽ इत्यर्थः ।
सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः ।
तस्या विष्टुतेरुद्यती नाम, इति ।
एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती ।
तयोः परिवर्तिन्येवमाम्नायते -“तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः"इति ।
पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः ।
कुलायिन्येवमाम्नायते –“तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः"इति ।
अत्र प्रथमसूक्ते पाठक्रम एव ।
द्वितीये मध्यमोत्तमप्रथमाः ।
तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः ।
तदिदं विष्टुतित्रयं विकल्पितम् ।
त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् ।
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि –“अग्न आ याहि वीतये"इत्याद्यं सूक्तम् ।
“आ नो मित्रावरुण” –इति द्वितीयम् ।
“आ याहि सुषुमा हि ते” —इति तृतीयम् ।
“इन्द्राग्नी आ गतं सुतम्” —इति चतुर्थम् ।
तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ।
तन्निर्वचनं च श्रूयते –“यदाजिमीयुः, तदाज्यानामाज्यत्वम्"इति ।
तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति ।
तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -“पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः"इति ।
एकं सूक्तं त्रिरावर्तनीयम् ।
तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः ।
द्वितीयावृत्तौ मध्यमायाः ।
तृतीयावृत्तावृत्तमायाः ।
सो ऽयं पञ्चदशस्तोमः ।
उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि - तेषु"अभि त्वा शूर नोनुम” -इत्याद्यम् ,“कया नश्चित्र आभुवत्"इति द्वितीयम् ।
“तं वो दस्ममृतीषहम्"इति तृतीयम् ।
“तरोभिर्वो विदद्वसुम्"इति चतुर्थम् ।
एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ।
“स्पर्शनात्पृष्ठानि"इत्येव निरुक्तिर्द्रष्टव्या ।
तेषु स्तोत्रेषु सप्तदशस्तोमो भवति ।
तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -“पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः"इति ।
अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सो ऽयं सप्तदशस्तोमः ।
अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः ।
यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् ।
गुणद्वयीवधानाद्वाक्यभेदः स्यात् ।
तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि ।
तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते ॥ MJAINYC_१,४.६-७ ॥


१,४.८-१२

(चतुर्थे ऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्)

तत्प्रख्यं चान्यशास्त्रम् । JAIM_१,४.४ ।

चतुर्थाधिकरणमारचयति —

अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू ।
विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी ॥ MJAINY_१,४.८ ॥
अग्नये होत्रमत्रेति बहुव्रीहिगतो ऽनलः ।
गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते ॥ MJAINY_१,४.९ ॥
संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया ।
आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी ॥ MJAINY_१,४.१० ॥
अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् ।
चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः ॥ MJAINY_१,४.११ ॥
नासाधिते हि धात्वर्थे करणत्वं ततो ऽस्य सा ।
साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः ॥ MJAINY_१,४.१२ ॥


“अग्निहोत्रं जुहोति” “आघारमाघारयति"इत्यत्राग्निहोत्रशब्दस्य कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् ।
तस्मादग्निदेवतारूपोगुणो ऽनेन दर्विहोमे विधीयते ।
आघारशब्दश्च"घृ क्षरणदीप्त्योः"इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमातष्टे ।
तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते ।
तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति ।
तस्मात् “अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ” इति प्राप्ते —
ब्रूमः-“अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः"इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया ।
ततो “ग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणः” अग्निहोत्रम् ऽ इति यौगिकं नामधेयम् ।
योगश्च बहुव्रीहिणा दर्शितः ।
“चतुर्गृहीतं वा एतदभूत्तस्याऽघारमाघार्यः"इत्यनेनैवाऽज्यद्रव्यस्य प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दो ऽपि यौगिकं कर्मनामधेयम् ।
“यस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते” तस्य कर्मण एतंन्नाम ।
ननु नामधेयत्वे सति"उद्भिदा यजेत” “ज्योतिष्टोमेन यजेत"इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्याय “अग्निहोत्रेण जुहोति” “आघारेणा"घारयति ऽ इति तृतीयया भवितव्यम् ।
नैष दोषः ।
अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वे “पि ततः पूर्वे साध्यत्वाकारं वक्तुम्"अग्निहोत्रम् “ऽ आघारम्” इति द्वितीयाया युक्तत्वात् ।
न चात्र द्वितीयानुसारेण “व्रीहीन्प्रोक्षति” इत्रयदाविद्य संस्कारः शङ्कनीयः ।
व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् ।
तस्मात् - अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी ॥ MJAINYC_१,४.८-१२ ॥


१,४.१३-१५

(पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्)

तद्व्यपदेशं च । JAIM_१,४.५ ।

पञ्चमाधिकरणमारचयति –

श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः ।
विधीयते पक्षिरूपो नाम वा तस्य कर्मणः ॥ MJAINY_१,४.१३ ॥
श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया ।
न चित्रावद्वाक्यभेदो रूढोश्चैवमनुग्रहः ॥ MJAINY_१,४.१४ ॥
यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता ।
नैकस्मिंस्तेन गैंण्यास्य वृत्त्या स्यात्कर्मनामता ॥ MJAINY_१,४.१५ ॥


“श्येनेनाभिचरन्यजेत"इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् ।
ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते ।
तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते ।
न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः ।
चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते –
ब्रूमः-“यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति श्येनेन"इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते ।
तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् ।
“संदंशेवनाभिचन्यजेत” " ।
गवाभिचर्यमाणो यजेत"इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् ।
“यथा संदंशेन दुरादानमादत्ते” “यथा गावो गोपायन्ति"इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ MJAINYC_१,४.१३-१५ ॥


१,४.१५*-१८

(षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) ।

नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् । JAIM_१,४.६ ।

तुल्यत्वात् क्रिययोर् न । JAIM_१,४.७ ।

ऐकशब्द्ये परार्थवत् । JAIM_१,४.८ ।

षष्ठाधिकरणमारचयति-

यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः ।
नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ MJAINY_१,४.१५* ॥
साधारणयजेः कर्मकरणत्वेन तन्त्रता ।
त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ MJAINY_१,४.१६ ॥
उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ MJAINY_१,४.१७ ॥
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः ।
वाजपेयेतिशब्दो ऽपि कर्मनामाग्निहोत्रवत् ॥ MJAINY_१,४.१८ ॥

“वाजपेयेन स्वाराज्यकामो यजेत"इत्यत्र वाजपेयशब्देन गुणो विधीयते ।
अन्नवाची वाजशब्दः ।
तच्चान्नं पेयं सुराद्रव्यम् ।
तच्चात्र गुणः ।
सुराग्रहाणामनुष्ठेयत्वात् ।
ननु गुणत्वे “वाजपेयगुणवता यागेन स्वाराजं भावयेत्” इति मत्वर्थलक्षणा प्रसज्येत ।
मैवम् ।
सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् ।
वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः ।
ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु “यागेन स्वाराज्यं संपादयेत्” इति करणकारकत्वम् ।
तत्कथं तदुभयसंबन्ध इति चेत् ।
नायं दोषः ।
यजेः साधारणत्वेन द्विरूपत्वसंभवात् ।
“यजेत” इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते ।
तच्च कर्मत्वकरणत्वयोः साधारणम् ।
न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते ।
अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति ।
एवं तन्त्रेण संबन्धाङ्गीकारे “वाजपेयद्रव्येण यागं कुर्यात्” इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वे ऽपि नास्ति मत्वर्थलक्षणा ।
यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते –
ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् ।
उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् ।
उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् ।
तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः ।
उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः ।
फलमुद्दिश्य यजिरुपसर्जनम् ।
फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः ।
यजेरुपादेयत्वं नामानुष्ठीयमानताकारः ।
तावुभौ मनः शरीरोपाधिकौ धर्मौ ।
अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ ।
ज्ञातस्य कथनमनुवादः ।
अज्ञातस्यानुष्ठेयत्वकथनं विधिः ।
फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे ।
एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति ।
ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते ।
ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् ।
वाक्यभेदप्रसङ्गात् ।
“द्रव्येण यागं कुर्यात्” इत्येकं वाक्यम् ।
“यागेन फलं कुर्यात्” इत्यपरम् ।
तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम् ॥ MJAINYC_१,४.१५*-१८ ॥


१,४.१९-२०

(सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्)

तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः । JAIM_१,४.९ ।

सप्तमाधिकरणमारचयति –

यदाग्नेयो “ष्टाकपाल इति नाम गुणो"थवा ।
नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि ॥ MJAINY_१,४.१९ ॥
मन्त्रो ऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः ।
देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ MJAINY_१,४.२० ॥

दर्शपूर्णमासयोः श्रूयते -“यदाग्नेयो “ष्टाकपालो"मावास्यायाम्, पौर्णमास्यां चाच्युतो भवति"इति ।
तत्र यथाग्निहोत्रशब्दः “अग्नये होत्रमत्र” इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दो ऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् ।
मैवम् ।
नामत्वे देवताराहित्यप्रसङ्गात् ।
अग्निहोत्रे तु"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति"इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते ।
इह तु न तादृशो मन्त्रो ऽस्ति ।
आग्नेयशब्दस्तु देवतां विधातुं शक्नोति ।
“अग्निर्देवतास्य” इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् ।
न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् ।
कर्मणो ऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् ।
तस्मात् - आग्नेयशब्देन देवतागुणो विधीयते ॥ MJAINYC_१,४.१९-२० ॥


१,४.२१

अत्र गुरुपतमाह -

यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् ।
इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ MJAINY_१,४.२१ ॥


उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्कयभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः । गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः ॥ MJAINYC_१,४.२१ ॥


१,४.२२-२३

(अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्)

बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः । JAIM_१,४.१० ।

अष्टमाधिकरणमारचयति -

वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः ।
जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः ॥ MJAINY_१,४.२२ ॥
जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः ।
विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः ॥ MJAINY_१,४.२३ ॥


दर्शपूर्णमासयोः श्रूयते -“बर्हिर्लुनाति” “आज्यं विलापयति” “पुरोडाशं पर्याग्नि करोति” इति ।
अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् ।
मैवम् ।
अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् ।
यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः ऽ इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः ।
संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते ।
क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते - “बर्हिरादाय गावो गताः” इति, “क्तय्यमाज्यम्” इति, “पुरोडाशेन मे माता प्रहेलकं ददाति” इति च ।
तस्माज्जातिवाचिनः ।
प्रयोजनं तु"बर्हिषा यूपावटमवस्तृणाति"इत्यत्र विना संस्कारेण स्तरणसिद्धिः ॥ MJAINYC_१,४.२२-२३ ॥


१,४.२४

अत्र गुरुमतमाह –
बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् ।
जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा ॥ MJAINY_१,४.२४ ॥


स्पष्टोर्ऽथः ॥ MJAINYC_१,४.२४ ॥


१,४.२५-२६

(नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्)

प्रोक्षणीष्व् अर्थसंयोगात् । JAIM_१,४.११ ।

नवमाधिकरणमारचयति –

प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु ।
तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः ॥ MJAINY_१,४.२५ ॥
अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः ।
योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् ॥ MJAINY_१,४.२६ ॥


दर्शपूर्णमासयोः श्रूयते -“प्रोक्षणीरासादय"इति ।
तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् । कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः ।
लोके जलक्रीडायां “प्रोक्षणीभिरुद्वेजिताः स्मः” इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् ।
न च “प्रकर्षेणोक्ष्यत आभिः” इति योगो ऽत्र शङ्कनीयः ।
रूढेः प्रबलत्वादिति पक्षान्तरम् ।
तत्र न तावत्संस्कारो युक्तः ।
अन्योन्याश्रयत्वात् ।
विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः ।
तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापो ऽमूद्याभिमन्त्रणसिद्धिरिति ।
नापि जातिपक्षो युक्तः ।
उदकजातौ प्रोक्षणी शब्दस्य वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् ।
ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति ।
योगस्तु व्याकरणेन कॢप्तः ।
सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् ।
तस्मात् – प्रोक्षणीशब्दो यौगिकः ।
घृतादेः प्रोक्षणत्वं प्रयोजनम् ॥ MJAINYC_१,४.२५-२६ ॥


१,४.२७

(दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्)

तथा निर्मन्थ्ये । JAIM_१,४.१२ ।

दशमाधिकरणमारचयति –

रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् ।
आद्यौ पूर्ववदन्त्त्यो ऽचिरजातेर्नावनीतवत् ॥ MJAINY_१,४.२७ ॥


अग्निचयने श्रूयते -“निर्मन्थ्येनेष्टकाः पचन्ति"इति ।
तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ रूढिरित्येकः पक्षः ।
प्रोक्षणीशब्दवद्गूढेरकॢप्तत्वादरणिनिर्मन्थनजन्यसाच्च योग इति पक्षान्तरम् ।
लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया ।
आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतो ऽग्निश्चिरनिर्मथितः ।
चयनकाले निर्मथ्योखासु धृतो ऽग्निरचिरनिर्मथितः ।
सद्य एव लौकिकमथनेन जातो ऽग्निरचिरनिर्मथितः ।
तेनेष्टकाः पच्यन्ते ।
यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समाने “पि योगरूढ्या नूतनमेव” नावनीतम् ऽ इति व्यवह्रियते तद्वत् ॥ MJAINYC_१,४.२७ ॥


१,४.२८-३१

(एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि १३ - १६)

वैश्वदेवे विकल्प इति चेत् । JAIM_१,४.१३ ।

न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य । JAIM_१,४.१४ ।

मिथश् चानर्थसंबन्धः । JAIM_१,४.१५ ।

परार्थत्वाद् गुणानाम् । JAIM_१,४.१६ ।

एकादशाधिकरणमारचयति -

चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके ।
वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा ॥ MJAINY_१,४.२८ ॥
नामत्वे रूपराहित्यादविधिर्गुणता सतः ।
अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु ॥ MJAINY_१,४.२९ ॥
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् ।
अविधित्वे ऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ MJAINY_१,४.३० ॥
इज्यन्ते ऽत्र यजन्ते वा विश्वे देवा इतीदृशी ।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥ MJAINY_१,४.३१ ॥


चातुर्मास्ययागस्य चत्वारि पर्वाणि — वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति ।
तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः — आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति ।
तेषामष्ठानां यागानां संनिधाविदमाम्नायते —“वैश्वदेवेन यजेत"इति ।
तत्राऽग्नेयादीन्यागान् “यजेत” इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते ।
यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते ।
तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् ।
नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् – तस्मात् “गुणविधिः” – इति प्राप्ते - “ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान्"यजेतऽ इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते ।
न च विधित्वासंभवे “पि नामोपदेशवैयर्थ्यम्,“प्राचीनप्रवणे वैश्वदेवेन यजेत ऽ इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् ।
नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा - आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् ।
अथवा “विश्वे देवा अष्टानां कर्तारः” इति वैश्वदेवत्वम् ।
तथा च ब्राह्मणम् -“यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्"इति ।
देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते ।
आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः ।
तस्मात् – वैश्वदेवशब्दः कर्मनामधेयम् ॥ MJAINYC_१,४.२८-३१ ॥


१,४.३२

अत्र गुरुमतमाह –

गुणनामत्वसंदेहादप्रमा चोदनेति चेत् ।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ MJAINY_१,४.३२ ॥


स्पष्टोर्ऽथः ॥ MJAINYC_१,४.३२ ॥


१,४.३३-३५

(द्वादशे वैश्वानरे ऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि १७ - २२ )

पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये । JAIM_१,४.१७ ।

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति । JAIM_१,४.१८ ।

तच्छेषो नोपपद्यते । JAIM_१,४.१९ ।

अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् । JAIM_१,४.२० ।

कारणं स्याद् इति चेत् । JAIM_१,४.२१ ।

आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते । JAIM_१,४.२२ ।

द्वादशाधिकरणमारचयति –

यद्द्वादशकपालेष्टेर्वैश्वानयां अनन्तरम् ।
श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ MJAINY_१,४.३३ ॥
अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् ।
द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ MJAINY_१,४.३४ ॥
वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते ।
नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः ॥ MJAINY_१,४.३५ ॥

काम्येष्टिकाण्डे श्रूयते -“वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते” “यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी पशुमान्भवति"इति ।
अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता ।
इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः ।
नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः ।
“द्वादशसु कपालेषु संस्कृतः” इति व्युत्पत्तेः ।
एवमष्टाकपालादिशब्दा अपि ।
तथा सति द्रव्यस्य द्रव्यान्तरे ऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत् , एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् ।
न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् ।
ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः ।
अयमप्युपपन्नः ।
बहूनां गुणानां विधौ वाक्यभेदापत्तेः ।
न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् ।
“वैश्वानरं द्वादशकपालं निर्वपेत्"इति विहितस्य"यस्मिञ्जात एताम्” -इत्युपसंहारेण वाक्यैकत्वावगमात् ।
तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते ॥ MJAINYC_१,४.३३-३५ ॥


१,४.३६

अत्र गुरुमतमाह –

अगुणत्वादनामत्वादमन्त्रत्वादनन्वये ।
अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् ॥ MJAINY_१,४.३६ ॥


उक्तरीत्या गुणत्वं नामत्वं च न संभवति ।
उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् ।
अतो ऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् ।
मैवम् ।
स्तावकत्वेनान्वयस्योक्तत्वात् ॥ MJAINYC_१,४.३६ ॥


१,४.३७-३९

(त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्)

तत्सिद्धिः । JAIM_१,४.२३ ।

त्रयोदशाधिकरणमारचयति —

यजमानः प्रस्तरो ऽत्र गुणो वा नाम वा स्तुतिः ।
सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ MJAINY_१,४.३७ ॥
गुणो वा यजमानो ऽस्तु कार्ये प्रस्तरलक्षिते ।
अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः ॥ MJAINY_१,४.३८ ॥
अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः ।
यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ MJAINY_१,४.३९ ॥


इदमाम्नायते -“यजमानः प्रस्तरः"इति ।
तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् ।
कुतः - “उद्भिदा यानेन” इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः ।
गुणविधिरित्यपरः पक्षः ।
तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति ।
प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते ।
एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वे ऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति ।
न चात्र पूर्वन्यायेन स्तुतिः संभवति ।
अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् ।
“वायुर्वै क्षेपिष्ठा देवता"ऊर्जो ऽवरुध्यै"इत्यादिवत्स्तुतिरिति चेत् ।
न ।
क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः ।
तस्मात् - ऽ नामगुणयोरन्यतरत्वम्"इति प्राप्ते , –
ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् ।
गुणपक्षे तु - अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् ।
तस्मात् - विधेयः प्रस्तरो यजमानशब्देन स्तूयते ।
यथा “सिंहो देवदत्तः” इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते ।
एवं"यजमान एककपालः"इत्यादिषु द्रष्टव्यम् ॥ MJAINYC_१,४.३७-३९ ॥


१,४.४०

(चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्)

जातिः । JAIM_१,४.२४ ।

चतुर्दशाधिकरणमारचयति -

आग्नेयो ब्राह्यणो ऽत्रापि पूर्ववत्सर्वनिर्णयः ।
द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे ॥ MJAINY_१,४.४० ॥


इदमाम्नायते -“आग्नेयो वै ब्राह्मणः"इति ।
अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् ।
नाप्यग्निदेवतारूपो गुणो विधीयते ।
“आग्नेयं सूक्तम्” ऽ आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् ।
नहि ब्राह्मणः सूक्तम्, नापि हविः ।
अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते ।
यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते ।
तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते -“प्रजापतिरकामयत, प्रजाः सृजेत, इति ।
स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त"इति ।
तस्मात् - आग्नेयशब्दः स्तावकः ।
एवम्"ऐन्द्रो राजन्यः” “वैश्यो वैश्वदेवः"इत्यादिषु द्रष्टव्यम् ॥ MJAINYC_१,४.४० ॥


१,४.४१

(पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्)

सारूप्यात् । JAIM_१,४.२५ ।

पञ्चदशाधिकरणमारचयति -

आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः ।
द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसे ऽस्ति तत् ॥ MJAINY_१,४.४१ ॥


आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपे ऽप्यस्ति ।
घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् ।
ततः- आदित्यशब्देन यूपः स्तूयते ।
एवं"यजमानो यूपः"इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ MJAINYC_१,४.४१ ॥


१,४.४२-४४

(षोडशे ऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्)

प्रशंसा । JAIM_१,४.२६ ।

षोडशाधिकरणमारचयति -

पशवो “न्ये गवाश्वेभ्यो"पशवो वा इति श्रुतम् ।
अजादिष्वपशुत्वं यद्गुणो वादो ऽथवास्तु तत् ॥ MJAINY_१,४.४२ ॥
स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् ।
अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना ॥ MJAINY_१,४.४३ ॥
पशवो ऽपशुशब्देन प्राशस्त्याभावसाम्यतः ।
लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः ॥ MJAINY_१,४.४४ ॥


इदमाम्नायते –“अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः"इति ।
तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति ।
पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् ।
ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् ।
मैवम् ।
अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् ।
अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति ।
तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति ।
सो “यं प्राशस्त्याभावो"जादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तो ऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते ।
पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् ।
तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा ।
इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च ।
द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः ।
स्तावकेन शब्देन संपादितो गुणोत्कर्षो ऽपरः प्रकारः ।
गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सो ऽत्र निमित्तम् ।
“अजादयः स्वभावतः पशवो"पि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः ।
ईदृशो गवाश्वयोर्महिमा ऽ इति स्तुतिफलम् ।
तस्मात् –“अपशवो वै"इत्ययमर्थवादः ।
अयमेव न्याय उदाहरणान्तरे “पि योजनीयः-“अयज्ञो वा एष यो"साम"इत्येकमुदाहरणम् ।
“असत्रं वा एतद्यच्छन्दोगम्"इत्यपरमुदाहरणम् ।
“अग्निहोत्रदर्शपूर्णमासादिर्यज्ञो ऽपि सामहीनत्वादयज्ञो भवति ।
ईदृशः साम्नो महिमा ।
छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते ।
अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् ।
तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या ।
अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति ।
ईदृशश्छन्दोगानां महिमा ।
इत्येवं स्तावकत्वादर्थवादत्वम् ॥ MJAINYC_१,४.४२-४४ ॥


१,४.४५-४८

(सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्)

भूमा । JAIM_१,४.२७ ।

सप्तादशाधिकरणमारचयति —-

सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः ।
विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः ॥ MJAINY_१,४.४५ ॥
आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः ।
लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् ॥ MJAINY_१,४.४६ ॥
ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः ।
यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥ MJAINY_१,४.४७ ॥
एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि ।
सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः ॥ MJAINY_१,४.४८ ॥


अग्निचयने श्रूयते –“सृष्टीरुपदधाति"इति ।
सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते ।
“सृष्टिमानासामुपधानो मन्त्रः” इति विगृह्य"तद्वामासामुपधानः” [पा. सू. ४.४.१२५] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् ।
सृष्टिशब्दोपेताश्चोपधानमन्त्राः"एकयास्तुवत"इत्यस्मिन्ननुवाके समाम्नाताः ।
“ब्रह्मासृज्यत, भूतान्यसृज्यन्त"इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात् ।
ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते ।
कुतः- “उपदधाति” इत्यनेनाऽख्यातेनाभिसंबन्धात् ।
न चार्थवादत्वमस्य संभवति ।
विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते, –
ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धो ऽवगन्यते ।
विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः ।
तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किन्तु - तान्मन्त्राननूद्येष्टकोपधानं विधीयते ।
सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः ।
“यथासृष्टमेवावरून्धे"इति हि वक्ष्यर्माणोर्ऽथवादः ।
यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् , तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् ।
तस्मान्मन्त्रानुवादी सृष्टीशब्दो न गुणविधायकः , किन्त्वर्थवादः ।
ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः , किन्तु दधातिधातुः प्रयुक्तः ।
“एकयास्तुवत” “प्रजाअधीयन्त"इति तत्पाठात् ।
बाढम् ।
तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्धूमरूपं सादृश्यमस्ति ।
यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः ॥ MJAINYC_१,४.४५-४८ ॥


१,४.४९

(अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्)

लिङ्गसमवायात् । JAIM_१,४.२८ ।

अष्टादशाधिकरणमारचयति –

सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः ।
अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते ॥ MJAINY_१,४.४९ ॥


“प्राणभृत उपदधाति"इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः ।
लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः ।
“एतस्यैव प्राणान्दधाति"इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः ।
पूर्वत्र - द्वितीया - दिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् ।
इह तु - प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते -“अयं पुरोभुवस्तस्य प्राणो भौवायनः"इति ।
एकस्यैव मन्त्रस्य प्राणभृत्त्वे “पि” छत्रिणो गच्छन्ति ऽ इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते ।
तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः ।
तथा चोक्तम् —
“तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः ।
षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता” ॥ इति ।
॥ MJAINYC_१,४.४९ ॥


१,४.५०-५३

(एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्)

संदिग्धेषु वाक्यशेषात् । JAIM_१,४.२९ ।

एकोनविंशाधिकरणमारचयति —

शर्करा उपधत्ते ऽक्तास्तेजो वै घृतमत्र किम् ।
तैलादिनाञ्जिता अक्ता घृतेनैवाथवाञ्जनम् ॥ MJAINY_१,४.५० ॥
तैलादिनापि मुख्यत्वादसंजातविरोधनात् ।
अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः ॥ MJAINY_१,४.५१ ॥
सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि ।
घृतेनैवाञ्जनं वाक्यशेषात्संदिग्धनिर्णयात् ॥ MJAINY_१,४.५२ ॥
अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी ।
बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम् ॥ MJAINY_१,४.५३ ॥


“अक्ताः शर्करा उपदधाति” “तेजो वै घृतम्"इति श्रूयते ।
मृत्तिकामिश्राः क्षुदापाषाणाः शर्कराः ।
ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः ।
कुतः ।
अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थबादात्प्रबलत्वात् ।
तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः ।
स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाच्चासंजातविरोधित्वम् , अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु - विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः ।
तस्मात् - “येन केनाप्यञ्जनम्” इति प्राप्ते, –
ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा ।
नाऽद्यः ।
सामान्यस्याननुष्ठेयत्वात् ।
न द्वितीयः ।
घृततैलादिविशेषवाचकशब्दाभावात् ।
तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते ।
अर्थवादे ऽपि घृतस्य विधिर्नास्तीति चेत् ।
न ।
विधेरुन्नेयत्वात् ।
“तेजो वै घृतम्” इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते ।
“स्तूयते स विधीयते"इति न्यायात् ।
तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते - घृतेनाक्ता इति ।
तस्मात् - घृतेनैवाञ्जनम् ॥ MJAINYC_१,४.५०-५३ ॥


१,४.५४-५५

(विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्)

अर्थाद् वा कल्पनैकदेशत्वात् । JAIM_१,४.३० ।

विंशाधिकरणमारचयति –

स्त्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी ।
आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः ॥ MJAINY_१,४.५४ ॥
व्यवस्थापकराहित्यात्स्त्रूवाद्या अव्यवस्थिताः ।
व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः ॥ MJAINY_१,४.५५ ॥


“स्त्रुवेणावद्यति” “स्वधितिनाद्यति” “हस्तेनावद्यति"इति श्रूयते ।
तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्त्रुवाद्या अवदानहेतवः संकीर्णाः ।
कुतः ।
व्यवस्थापकस्य शब्दस्याभावादिति चेत् ।
मैवम् ।
शक्तेर्व्यवस्थापकत्वात् ।
“आख्यातानामर्थे ब्रुवतां शक्तिः सहकारिणी” इति न्यायात् ।
“कटे भुङ्क्ते” “कांस्यपात्र्यां भुङ्क्ते” इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति –ऽ कट आसीनः , “कांस्यपात्र्यामोदनं निधाय” इति ।
वेदे “पि -“अञ्जलिना सक्तून्प्रदाय जुहुयात्"इत्यत्र यद्यपि द्विहस्तसंयोगो"ञ्जलिः, तथापि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति ।
तादृशे ऽञ्जलौ सक्तूनामवकाशाभावात् ।
अतः सापर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतो ऽञ्जलिर्गृहीतः ।
एवमत्रापि द्रवद्रव्यस्याऽज्यस्य स्त्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः ।
संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्त्रुवाद्या व्यवस्थिताः ॥ MJAINYC_१,४.५४-५५ ॥

इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः

समाप्तश्च प्रथमो ऽध्यायः

श्रीः

अथ द्वितीयो ऽध्यायः ।
(तत्र प्रथमः पादः)