०३ १,३

१,३.१-२

तृतीयपादस्य प्रथमाधिकरणमारचयति -

अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा ।
निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता ॥ MJAINY_१,३.१ ॥
वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता ।
विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता ॥ MJAINY_१,३.२ ॥


“अष्टकाः कर्तव्याः"इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात् , विप्रलम्भकवाक्यत्वात् ।
अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् ।
तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते - ब्रूमः – “विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात् , उपनयानाध्ययनादिस्मृतिवत्” ।
न च वैयर्थ्ये शङ्कनीयम् ।
अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् ।
तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ MJAINYC_१,२.१-२ ॥


१,३.३

अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह -

न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः ।
तन्न स्मृतेर्मूलवेदे ऽनुमिते मात्वसंभवात् ॥ MJAINY_१,३.३ ॥


“यां जनाः प्रतिनन्दति” इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् ।
तेच्च श्राद्धं स्मार्तम् ।
न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे ।
तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् ।
न ।
तन्मूलस्य वेदस्यानुमेयत्वात् ।
अनुमानं च दर्शितम् ।
तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ MJAINYC_१,२.३ ॥

(द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्)

विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् । JAIM_१,३.३ ।


१,३.४-५

द्वितीयाधिकरणमारचयति -

औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः ।
अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् ॥ MJAINY_१,३.४ ॥
औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः ।
विरोधान्मूलवेदस्याननुमानादमानता ॥ MJAINY_१,३.५ ॥


ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते ।
तस्याश्र्च वाससा वेष्टनं स्मर्यते- “औदुम्बरी सर्वा वेष्टयितव्या” इति ।
सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते -
ब्रूमः - “औदुम्बरीं स्पृष्ट्वोद्गायेत्” इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते ।
न च सर्ववेष्टने स्पर्शः संभवति ।
अतो मूलवेदानुमानं कालात्ययापदिष्टम ।
अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ MJAINYC_१,२.४-५ ॥


१,३.६-७

अस्मिन्नेवाधिकरणे मतान्तरमाह -
प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् ।
अमात्वे शङ्किते बाधो ऽनुमानस्यात्र वर्ण्यते ॥ MJAINY_१,३.६ ॥
परप्रत्यक्षवेदो ऽत्र मूलं चेद्वेष्टनस्य तत् ।
अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः ॥ MJAINY_१,३.७ ॥


स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः ।
अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् ।
यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् ।
तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ MJAINYC_१,२.६-७ ॥

(तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) ।

हेतुदर्शनाच् च । JAIM_१,३.४ ।


१,३.८-९

तृतीयाधिकरणमारचयति -

वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः ।
प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ MJAINY_१,३.८ ॥
दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् ।
सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा ॥ MJAINY_१,३.९ ॥


ज्योतिष्टोम्ऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः ।
तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससो ऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति ।
तस्मिन्वासस्येवं स्मर्यते - “वैसर्जनहोमीयं वासो"ध्वर्युर्गृह्णातिऽ इति ।
सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते ।
ततो ऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते -
ब्रूमः- कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह ।
तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति ।
दृष्टामुसारिणी चैषां कल्पना ।
दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् ।
तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते ।
अतो बाधाभावे ऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ MJAINYC_१,२.८-९ ॥

(चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि ५ - ७)

शिष्टाकोपे ऽविरुद्धम् इति चेत् । JAIM_१,३.५ ।

न शास्त्रपरिमाणत्वात् । JAIM_१,३.६ ।

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् । JAIM_१,३.७ ।


१,३.१०-११

चतुर्थाधिकरणं भाष्यमतेनाऽरचयति -

आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् ।
वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः ॥ MJAINY_१,३.१० ॥
आचान्त्यादिः पदार्थो ऽत्र क्रमो धर्मः पदार्थगः ।
धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ॥ MJAINY_१,३.११ ॥


“क्षुत आचामेत्” इति विहितं पुरुषार्थमाचमनम् ।
यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते ।
“आचान्तेन कर्तव्यम्” इति ।
सेयं स्मृतिर्न प्रमाणम् ।
कुतः ।
विरूद्धत्वात् ।
“वेदं कृत्वा वेदिं करोति” इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते ।
वेदो नाम दर्भमयं संमार्जनसाधनम् ।
वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः ।
तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत ।
तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते -
ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः ।
क्रमस्तु पदार्थनिष्ठो धर्मः ।
स च पदार्थानुपजीवति ।
तत उपजीव्यविरोधात्क्रम एव बाध्यते ।
नतु क्रमेणाऽचमनस्य बाधो ऽस्ति ।
तस्मादियं स्मृतिः प्रमाणम् ।
अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ MJAINYC_१,२.१०-११ ॥


१,३.१२

तत्र प्रथमं विचारं दर्शयति -

शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः ।
न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् ॥ MJAINY_१,३.१२ ॥


“ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्” इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः ।
स एव धर्मः शाक्येनाप्युक्तः ।
तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् ।
न ।
स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् ।
तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः ।
तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् ॥ MJAINYC_१,२.१२ ॥


१,३.१३

विचारान्तरं दर्शयति -
सदाचारो ऽप्रमा मा वा निर्मूलत्वादमानता ।
अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता ॥ MJAINY_१,३.१३ ॥


होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् ।
न ।
वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् ।
अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टो ऽपि सदाचारः सामान्याकारेणोपदिष्टः ।
“श्रुतिः स्मृतिः सदाचारः"इत्येवं धर्मे प्रमाणोपन्यासात् ।
तस्माच्छिष्टचार प्रमाणम् ॥ MJAINYC_१,२.१३ ॥

(पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे ८ - ९)

तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् । JAIM_१,३.८ ।

शास्त्रस्था वा तन्निमित्तत्वात् । JAIM_१,३.९ ।


१,३.१४-१५

पञ्चमाधिकरणमारचयति -

यंवान्दिशब्दाः किं द्व्यर्था नो वार्ऽऽयम्लेच्छसाम्यतः ।
दीर्घशूकप्रियङ्ग्वाद्या द्वये ऽप्यर्था विकल्पिताः ॥ MJAINY_१,३.१४ ॥
यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी ।
शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते ॥ MJAINY_१,३.१५ ॥


“यवमयश्र्चरुर्भवति” “वाराही उपानहावुपमुञ्चते” इति श्रूयते ।
तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे ।
म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ ।
तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते -
ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी ।
प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च ।
शास्त्रे यवविध्यर्थवाद एवं श्रूयते - “यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्ति” इति ।
इतरौषधिविनाशकाले ऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु ।
तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् ।
वाराहोपानद्विध्यर्थवादश्र्चैवं भवति - “वराहं गावो"नुधावन्ति ऽ इति ।
गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ ।
तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः ।
अत्र वार्तिककारः पीलुशब्दमुदाजहार ।
तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे ।
तत्राविप्लुतव्यवहारस्यार्ऽऽयेषु संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ MJAINYC_१,२.१४-१५ ॥


१,३.१६

अस्मिन्नेवाधिकरणे गुरुमतमाह -

यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् ।
न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्यार्ऽथनिर्णयात् ॥ MJAINY_१,३.१६ ॥


स्पष्टो ऽर्थः ॥ MJAINYC_१,२.१६ ॥


१,३.१७-१८

अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति -

यो मातुलविवाहादौ शिष्टाचारः स मा न वा ।
इतराचारवन्मात्वममात्वं स्मर्तबाधनात ॥ MJAINY_१,३.१७ ॥
स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततो ऽत्र च ।
अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा ॥ MJAINY_१,३.१८ ॥


केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति ।
सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् ।
न ।
स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।
तथा च स्मृतिः-
“मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्” ॥ इति ।
न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् ।
होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् ।
नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति ।
येन शिष्टचारो मूलवेदमनुमापयेत् ।
शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् ।
तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः ।
अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते ।
अत एवाऽहुः-
“आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् ।
तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते” ॥ इति ।
तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ MJAINYC_१,२.१७-१८ ॥


१,३.१९

तत्रैवापरं वर्णकमारचयति -

लौकिको वाक्यगो वार्ऽथस्त्रिवृदादेः समत्वतः ।
उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ॥ MJAINY_१,३.१९ ॥


“त्रिवृद्वहिष्पवमानम्” इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोर्ऽथः ।
वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् “उपास्मै गायता नरः” – इत्यादीनामृचां नवकमर्थः ।
तत्र धर्मनिणये वेदस्य प्रबलत्वे ऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् ।
मैवम् ।
लौकिकार्थस्वीकारपक्षे विधिवाक्येर्ऽथस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् ।
अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोर्ऽथः ॥ MJAINYC_१,२.१९ ॥

(षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्)

चोदितं तु प्रतीयेताविरोधात् प्रमाणेन । JAIM_१,३.१० ।


१,३.२०-२१

षष्ठाधिकरणमारचयति -

कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः ।
कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् ॥ MJAINY_१,३.२० ॥
ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति ।
पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ MJAINY_१,३.२१ ॥


आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः ।
तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् ।
मैवम् ।
आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् ।
कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः ।
यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः ।
तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, नेमशब्दोर्ऽधवाची , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ MJAINYC_१,२.२०-२१ ॥


१,३.२२

अस्मिन्नेवाधिकरणे गुरुमतमाह -

अर्थाबोधादप्रमाणं पिकालम्भनचोदना ।
मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया ॥ MJAINY_१,३.२२ ॥


स्पष्टो ऽर्थः ॥ MJAINYC_१,२.२२ ॥

(सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि ११ - १४ ) ।

प्रयोगशास्त्रम् इति चेत् । JAIM_१,३.११ ।

नासंनियमात् । JAIM_१,३.१२ ।

अवाक्यशेषाच् च । JAIM_१,३.१३ ।

सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च । JAIM_१,३.१४ ।


१,३.२३-२४

सप्तमाधिकरणमारचयति -

अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः ।
श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ MJAINY_१,३.२३ ॥
पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः ।
तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ MJAINY_१,३.२४ ॥


बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् ।
न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् ।
उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् ।
मैवम् ।
उक्तानुमानस्य कालात्ययापदिष्टत्वात् ।
बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते ।
न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् ।
तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् ।
तच्चाविच्छिन्नपारम्पर्येणानुवर्तते ।
ततः कालिदासादिग्रन्थवत्पौरुषेयाः ।
तथापि वेदमूलत्वात्प्रमाणम् ॥ MJAINYC_१,२.२३-२४ ॥


१,३.२५

अत्रैव गुरुमतमाह -

कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा ।
न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः ॥ MJAINY_१,३.२५ ॥


सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह -“सर्वासु तिथिष्वमावास्या कर्तव्या"इति ।
श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते ।
ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् ।
मैवम् ।
कल्पस्य वेदत्वं नाद्यापि सिद्धम् ।
किन्तु यत्नेन साध्यम् ।
न च तत्साधयितुं शक्यम् ।
पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् ।
अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ MJAINYC_१,२.२५ ॥

(अष्टमे होलाकाधिकरणे सूत्राणि १४ - २३)

अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् । JAIM_१,३.१५ ।

अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद् विधानस्य । JAIM_१,३.१६ ।

दर्शनाद् विनियोगः स्यात् । JAIM_१,३.१७ ।

लिङ्गाभावाच् च नित्यस्य । JAIM_१,३.१८ ।
आख्या हि देशसंयोगात् । JAIM_१,३.१९ ।

न स्याद् देशान्तरेष्व् इति चेत् । JAIM_१,३.२० ।

स्याद्योगाख्या हि माथुरवत् । JAIM_१,३.२१ ।

कर्मधर्मो वा प्रवणवत् । JAIM_१,३.२२ ।

तुल्यं तु कर्तृधर्मेण । JAIM_१,३.२३ ।


१,३.२६

अष्टमाधिकरणमाचरयति –

होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः ।
देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ MJAINY_१,३.२६ ॥


होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् ।
कुतः ।
देशविशेषे तेषां दृष्टत्वात् ।
होलाकादयः प्राच्यैरेव क्रियन्ते ।
वसन्तोत्सवो होलाका ।
आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते ।
उद्वृषभयज्ञादय उदीच्यैः ।
ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सो ऽयमुद्वृषभयज्ञः ।
एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते ।
तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् ।
मैवम् ।
तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् ॥ MJAINYC_१,२.२६ ॥


१,३.२७

अत्रैव गुरुमतमाह -

प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे ।
अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः ॥ MJAINY_१,३.२७ ॥


प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या ।
तत्र प्राच्यादिपदस्यार्थो न बुध्यते ।
ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते ।
तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् ।
मैवम् ।
अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् ।
अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ MJAINYC_१,२.२७ ॥

(नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि २४ - २९ )

प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् । JAIM_१,३.२४ ।

शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् । JAIM_१,३.२५ ।

अन्यायश् चानेकशब्दत्वम् । JAIM_१,३.२६ ।

तत्र तत्त्वम् अभियोगविशेषात् स्यात् । JAIM_१,३.२७ ।

तदशक्तिश् चानुरूपत्वात् । JAIM_१,३.२८ ।

एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् । JAIM_१,३.२९ ।


१,३.२८-२९

नवमाधिकरणमारचयति -
गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन ।
नियमो ऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् ॥ MJAINY_१,३.२८ ॥
साधूनेव प्रयुञ्जीत गवाद्या एव साधवः ।
इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥ MJAINY_१,३.२९ ॥


व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि “गौः” इत्येष शब्दः प्रयुज्यते ।
तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते ।
तत्र - “ईदृष एव शब्दः साधुः, नेदृशः” – इत्यस्मिन्नर्थे नियामकं नास्ति ।
तथा योगे “पि तन्नास्ति -” ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशः ऽ इति न तावद्वृद्धव्यवहारो नियामकः ।
तस्य सर्वेषु शब्देषु समानत्वात् ।
नापि व्याकरणस्मृतिर्नियामिका ।
तस्या निर्मूलत्वेनाप्रमाणत्वात् ।
न ह्यभियुक्तप्रयोगस्तन्मूलम ।
अन्योन्याश्रयत्वप्रसङ्गात् ।
व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः ।
तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् ।
तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते –
ब्रूमः- “साधूनेव प्रयुञ्जति, न त्वपभ्रंशान्” इत्यस्ति नियमः ।
उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् ।
“एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति"इति गुणवाक्यम् ।
“तस्माद्ब्राह्मणेन न म्लेच्छितवै ऽ नापभाषितवै , म्लेच्छो ह वा एष यदपशब्दः"इति दोषवाक्यम् ।
यथा प्रयोगे नियमस्तथा साधुत्वे “पि नियमो द्रष्टव्यः -“गवाद्या एव साधवः, न तु गाव्यादयः ऽ इति ।
अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् ।
न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् ।
एतदेवाभिप्रेत्योक्तम् - “तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भः” इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् ।
तथाऽचार्थवणिका आमनन्ति -“द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ।
तत्रापरा - ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम"इति ।
तैत्तिरीयकब्राह्मणे “पि व्याकरणस्योपादेयता श्रूयते -“वाग्वै पराच्यव्याकृतावदत् ।
ते देवा इन्द्रमब्रुवन् - “इमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतो"पक्रम्य व्याकरोत् ।
तस्मादियं व्याकृता वागुद्यते ऽ इति ।
व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः ।
तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ MJAINYC_१,२.२८-२९ ॥


१,३.३०

अत्रैव गुरुमतमाह -

अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् ।
अमात्वे ऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् ॥ MJAINY_१,३.३० ॥


“अश्र्वमालभेत"इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वे “स्वं धनम् , तद्रहितं दरिद्रमालभेत” इत्यर्थो भवति ।
तालव्यत्वे तुरङ्गमवाचित्वम् ।
ततः संशयादप्रामाण्यमिति चेत् ।
न ।
व्याकरणानुसारेण"अशू व्याप्तौ"इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् ।
तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् ॥ MJAINYC_१,२.३० ॥

(दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि ३० - ३५) ।

प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् । JAIM_१,३.३० ।

अद्रव्यशब्दत्वात् । JAIM_१,३.३१ ।

अन्यदर्शनाच् च । JAIM_१,३.३२ ।

आकृतिस् तु क्रियार्थत्वात् । JAIM_१,३.३३ ।

न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् । JAIM_१,३.३४ ।

तदर्थत्वात् प्रयोगस्याविभागः । JAIM_१,३.३५ ।


१,३.३१-३२

दशमाधिकरणे प्रथमं वर्णकमाचरयति -

लोके पदापदार्थौ यौ न तौ वेदे ऽथवात्र तौ ।
रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा ॥ MJAINY_१,३.३१ ॥
वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता ।
प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम् ॥ MJAINY_१,३.३२ ॥


वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ ।
कुतः ।
रूपभेदात् ।
पदे तावद्रूपभेदो दृश्यते ।
आत्मशब्द आकारादित्वेन लोके नियतः ।
वेदे तु क्वचिदाकाररहितः पठ्यते -“प्रयतं पुरूषं त्मना"इति ।
“ब्राह्मणाः” इति लोके ।
वेदे त्वन्यथा पठ्यते -“ब्राह्मणासः पितरः सोम्यासः"इति ।
अर्थभेदो ऽपि स्फुटः ।
उत्ताना वै देवगवा वहन्ति"इति श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्"इति ।
तस्मात् “लोकवेदयोः पदपदार्थावन्यौ” इति प्राप्ते -
ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः ।
तथा हि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् ।
यथा प्रयोक्तॄणां पुरुषाणां भेदे “प्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदे"पि “त एवामी वर्णाः” इति प्रत्यभिज्ञानाद्वर्णैक्यम् ।
तथा “यानि लोके गवादिपदानि , तान्येव वेदे"धीयमानानि ऽ इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् ।
“त्मना, देवासः” इत्यादिपदभेदस्तु क्वाचित्कः ।
नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् ।
अन्यथा “सो"यं देवदत्तः ऽ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत ।
पदैक्ये चार्थैकत्वमवश्यंभावि ।
अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत ।
एतदेवाभिप्रेत्योक्तम् -
“लोकावगतसामर्थ्थः शब्दे वेदे ऽपि बोधकः"इति ।
स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वे ऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति ।
उत्तानवहनादिकं त्वर्थवादः ।
अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव ।
तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ MJAINYC_१,२.३१-३२ ॥


१,३.३३-३४

द्वितीयवर्णकमारचयति -

व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् ।
व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते ॥ MJAINY_१,३.३३ ॥
शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता ।
क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् ॥ MJAINY_१,३.३४ ॥


“व्रीहीनवहन्ति” “पशुमालभेत” “गामानया” “ब्राह्मणो न हन्तव्यः"इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः ।
कुतः ।
अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् ।
नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या ।
नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति ।
अनन्ता हि व्यक्तयः ।
अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् ।
किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् ।
तत्र कथं व्युत्पत्तिरिति चेत् ।
एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते -
ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् ।
किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् ।
तस्मादाकृतेरेवाभिधेयत्वम् ।
यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया ।
किञ्च"श्योनर्चित्तं चिन्वीत"इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते ।
तस्मात् - आकृतिः शब्दार्थः ॥ MJAINYC_१,२.३३-३४ ॥


१,३.३५

अत्रैव गुरुमतमाह -

गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् ।
आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः ॥ MJAINY_१,३.३५ ॥


स्पष्टो ऽर्थः ॥ MJAINYC_१,२.३५ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः


(अथ चतुर्थः पादः)

(प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्)

उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् । JAIM_१,४.१ ।