०२ १,२

१,२.१-३

वायुर्वा इत्येवमादेरर्थवादस्य मानता ।
न विधेये ऽस्ति धर्मे किं किंवासौ तत्र विद्यते ॥ MJAINY_१,२.१ ॥
विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् ।
नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः ॥ MJAINY_१,२.२ ॥
विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः ।
तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ MJAINY_१,२.३ ॥


काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते ।
“वायव्यं श्वेतमालभेत भूतिकामः” इति विधिः ।
“वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति” इत्यर्थवादः ।
तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति ।
अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते ।
“क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छति” इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित् प्रतीयते, न त्वनुष्ठेयं किञ्चित् ।
अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते -
ब्रूमः _ मा भूत्पदैकवाक्यता ।
वाक्यैकवाक्यता तु विद्यते ।
विधिवाक्यं तावत् पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते ।
अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते ।
तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते ।
“यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेत” इति वाक्ययोरन्वयः ।
तस्मादर्थवादा धर्मे प्रमाणम् ॥ MJAINYC_१,२.१-३ ॥


१,२.४

अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह -

वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् ।
सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ ॥ MJAINY_१,२.४ ॥


“यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेत” इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते ।
ततः सापेक्षत्वादप्रमाणमिति पूर्वपक्षः
“विमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्” इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् ।
न त्वेवं विवक्षितम् ।
किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते ।
तथा सति “प्रशस्तं कर्मानुष्ठेयम्” इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते ।
तत्र कुतः सापेक्षत्वम् ।
तस्मात् विधिः प्रमाणम् इति सिद्धान्तः ॥ MJAINYC_१,२.४ ॥

(द्वितीये विधिवन्निगदाधिकरणे सूत्राणि १९-२५)

विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् । JAIM_१,२.१९ ।

लोकवद् इति चेत् । JAIM_१,२.२० ।

न पूर्वत्वात् । JAIM_१,२.२१ ।

उक्तं तु वाक्यशेषत्वम् । JAIM_१,२.२२ ।

विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् । JAIM_१,२.२३ ।

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति । JAIM_१,२.२४ ।

विधौ च वाक्यभेदः स्यात् । JAIM_१,२.२५ ।


१,२.५-७

द्वितीयाधिकरणमारचयति -

ऊर्जो ऽवरुध्या इत्येष विधिवन्निगदो न किम् ।
यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया ॥ MJAINY_१,२.५ ॥
चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् ।
ऊर्जो ऽवरोधं कथयन्कथं स्तुतिपरो भवेत् ॥ MJAINY_१,२.६ ॥
अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् ।
अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः ॥ MJAINY_१,२.७ ॥


इदमाम्नायते - “औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जो"वरुध्यैऽ इति ।
अमृतशब्दाभिधेयो “त्यन्तसारभूतः सूक्ष्मो"न्नरसः ऊर्गुच्यते ।
उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति ।
ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः ।
अत्र “अवरुध्यै” इति तादर्थ्ये चतुर्थी ।
तया फलत्वं गम्यते ।
“धनलाभाय राजसेवा” इत्यादौ तद्दर्शनात् ।
न च फलपरस्य वचनस्य स्तावकत्वं युज्यते ।
अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते -
ब्रूमः _ अयमूर्जो ऽवरोधः कस्य फलं स्यात् - किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य ।
नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात् फलानुत्पत्तेः ।
द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः ।
नाऽद्यः, “औदुम्बरो यूपो भवति” इत्यत्र लिङ्प्रत्ययाश्रवणात् ।
द्वितीये स्तुत्या स उन्नेयः ।
न चात्र स्तुतिमङ्गीकरोषि ।
अथोच्येत - “विधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यते” इति ।
तर्हि वाक्यं भिद्येत ।
ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ MJAINYC_१,२.५-७ ॥


१,२.८

अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह -

आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् ।
न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः ॥ MJAINY_१,२.८ ॥


ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् ।
अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः
एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते ।
अतः प्रमाणं चोदना इति राद्धान्तः ॥ MJAINYC_१,२.८ ॥

(तृतीये हेतुवन्निगदाधिकरणे सूत्राणि २६ - ३० )

हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् । JAIM_१,२.२६ ।

स्तुतिस् तु शब्दपूर्वत्वाद् अचोदना तस्य । JAIM_१,२.२७ ।

अर्थे स्तुतिर् अन्याय्येति चेत् । JAIM_१,२.२८ ।

अर्थस् तु विधिशेषत्वाद् यथा लोके । JAIM_१,२.२९ ।

यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् । JAIM_१,२.३० ।

तृतीयाधिकरणमारचयति -


१,२.९-१०

तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः ।
हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम् ॥ MJAINY_१,२.९ ॥
शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते ।
अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका ॥ MJAINY_१,२.१० ॥


इदमाम्नायेत - “शूर्पेण जुहोति तेन ह्यन्नं क्रियते” अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति ।
हिशब्दस्य हेतुवायित्वात् ।
“यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम्” इत्युक्ते “यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम्” इति लभ्यते ।
ततः “पिठरादयः शूर्पेण सह विकल्प्यन्ते” इति प्राप्ते -
ब्रूमः– शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् ।
पिठरादीनां त्वानुमानिकम् ।
अतो ऽसमानबलत्वान्न विकल्पो युक्तः ।
ततो हेतुर्व्यर्थः ।
स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः ॥ MJAINYC_१,२.९-१० ॥

(चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि ३१ - ५३ )

तदर्थशास्त्रात् । JAIM_१,२.३१ ।

वाक्यनियमात् । JAIM_१,२.३२ ।

बुद्धिशास्त्रात् । JAIM_१,२.३३ ।

अविद्यमानवचनात् । JAIM_१,२.३४ ।

अचेतने ऽर्थबन्धनात् । JAIM_१,२.३५ ।

अर्थविप्रतिषेधात् । JAIM_१,२.३६ ।

स्वाध्यायवद्वचनात् । JAIM_१,२.३७ ।

अविज्ञेयात् । JAIM_१,२.३८ ।

अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् । JAIM_१,२.३९ ।

अविशिष्टस् तु वाक्यार्थः । JAIM_१,२.४० ।

गुणार्थेन पुनः श्रुतिः । JAIM_१,२.४१ ।

परिसंख्या । JAIM_१,२.४२ ।

अर्थवादो वा । JAIM_१,२.४३ ।

अविरुद्धं परम् । JAIM_१,२.४४ ।

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । JAIM_१,२.४५ ।

अभिधाने ऽर्थवादः । JAIM_१,२.४६ ।

गुणाद् अप्रतिषेधः स्यात् । JAIM_१,२.४७ ।

विद्यावचनम् असंयोगात् । JAIM_१,२.४८ ।

सतः परमविज्ञानम् । JAIM_१,२.४९ ।

उक्तश् चानित्यसंयोगः । JAIM_१,२.५० ।

लिङ्गोपदेशश् च तदर्थवत् । JAIM_१,२.५१ ।

ऊहः । JAIM_१,२.५२ ।

विधिशब्दाश् च । JAIM_१,२.५३ ।

चतुर्थाधिकरणमारचयति -


१,२.११-१२

मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः ।
यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ MJAINY_१,२.११ ॥
ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः ।
न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः ॥ MJAINY_१,२.१२ ॥


“उरु प्रथस्व” इत्ययं कश्चिन्मन्त्रः ।
तस्यायमर्थः - भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसर ऽ इति ।
एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति ।
नत्वर्थप्रकाशनाय तदुच्चारणम् ।
पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् थ “उरु प्रथस्वेति पुरोडाशं प्रथयति” इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट ।
नैतद्युक्तम् ।
अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् ।
तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् ।
ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे “मन्त्रेणैवानुस्मपणीयम्” इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ MJAINYC_१,२.११-१२ ॥


१,२.१३

अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह -

मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने ।
न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ MJAINY_१,२.१३ ॥


अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् ।
वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत ।
इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः ।
नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति -
राद्धान्तः ॥ MJAINYC_१,२.१३ ॥

इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः


अथ तृतीयः पादः

(प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे १-२)

धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् । JAIM_१,३.१ ।

अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् । JAIM_१,३.२ ।