[[अर्थसंग्रहः Source: EB]]
[
तन्त्रोद्यानपुष्पहारे शास्त्रसर—४
[TABLE]
विषयसूची॥ | ||
१ | उपोद्धातपरिच्छेदः | |
२ | लक्षणपरिच्छेदः | |
३ | विधिपरिच्छेदः | |
१ | विधिस्वरूपनिरूपणम् | |
२ | उत्पत्तिविधिप्रकरणम् | |
३ | विनियोगविधिप्रकरणम् | |
श्रुतिः ३० | ||
लिङ्गं ३८ | ||
वाक्यं ४१ | ||
प्रकारं ४५ | ||
स्थानं ५२ | ||
समाख्या ५४ | ||
अङ्गविभागः ५५ | ||
४ | प्रयोगविधिप्रकरणम् | |
५ | अधिकारविधिप्रकरणम् | |
४ | मन्त्रपरिच्छेदः | |
५ | नामधेयपरिच्छेदः | |
६ | निषेधपरिच्छेदः | |
७ | अर्थवादपरिच्छेदः | |
८ | निगमनपरिच्छेदः |
प्रस्तावना॥
————
अस्मदीयं मीमांसापरिभाषापरिष्कारमवलोकयन्तोऽस्मद्द्वितीयमीमांसागुरवो महामहोपाध्याय श्री कुप्पुस्वामिशस्त्रिपादा आपदेवीयस्य न्यायप्रकाशस्याप्यरमाभिर्विवरणं कर्तव्यमैच्छन्निति परिष्कारारम्भे मुद्रितात् तेषामेव वचनात् ज्ञायेत। अथापि न्यायप्रकाशस्य त्रिचतुराधिकानि व्याख्यानानि प्रकाशितानि पश्यन्तो वयं तत्र मन्द्रोद्यनाः सन्तः, तस्यैव संग्रहभूतमिममर्थसंग्रहं सम्यग्व्याख्याय गुरूणामभिसन्धिं कथञ्चित् पूरयितुं प्रावर्तामहि। एतेन विवरणेनागतार्थानां अवश्यव्याख्येयानां अन्यैरव्याख्यातदुर्व्याख्यातानां न्यायप्रकाशपंक्तीनां अतिसंक्षेपेण विवरणमस्यास्तन्त्रप्रकाशिकाया अन्ते योजयितुमभिसन्धिमकुर्मः न त्वयोजयाम; यस्मादरमत्परमसुहृदः तिरुपदि—श्रीवेङ्कटेश्वर संस्कृतकलाशालाध्यक्षाः सर्वशास्त्रविदः श्री वीरराघवाचार्यशिरोमणिमहाशयाः मीमांसासुधास्वादं नाम विशिष्टं न्यायप्रकाशव्याख्यानं विलिख्य प्रकाशनायसदयमस्मभ्यं प्रदायास्मत्प्रवृत्तिमनपेक्षितामकुर्वन्। अचिरात् प्रकाशयिष्यमाणं तद्व्याख्यानं नूनमभिज्ञानाराधयिष्यति।
अवलोकितास्मद्ग्रन्थाः प्राय इदं विदन्ति यद्वयं पंक्तीनां स्वरसवाहिसमीचीनार्थविशदीकरणे महान्तं निर्भरं वहाम इति। अर्थसंग्रहे बहुषु स्थलेषु पंक्तीनां नातिसामीचीन्यमिति तत्र तत्र सूचयन्त एव यथाशक्ति समञ्जसं व्याख्यातवन्तः स्मः। ग्रन्थेषु यत्रार्थप्रतीतिः किञ्चित् स्खलिता भवति तत्र पाठं प्रत्यस्माकं दृढः संशयेो जायते। सत्यां सामग्र्यां तदन्वेषणे क्रियमाणा प्रवृत्तिः प्रायो न वन्ध्या भवति। एवं जातचिरानुभवाः, अर्थसंग्रहेऽप्यनेकत्र पाठसामीचीन्यं प्रति संशयालवः महीशूरेषु स्थितानां श्री उ. वे. महामहोपाध्याय लक्ष्मीपुरं श्रीनिवासाचार्यमहाशयानां श्रीकाशीहिन्दुविश्वविद्यालये मीमांसाध्यापकानामस्मत्तृतीयमीमांसागुरूणां ब्रह्मश्री चिन्नस्वामिशास्त्रिमहाशयानां च संविधे; सन्दिग्धस्थलेषु तत्तत्पुस्तकालयस्थितलिखितपुस्तकानि समालोच्य पाठभेदा यदि सन्ति ज्ञापनीया इति प्रार्थनामकुर्म। उभयेऽपि ते दयया तं श्रममङ्गीकृत्य प्रत्येकमेकैकस्मिन्नेव स्थले उपलब्धं पाठभेदं ज्ञापयन्तिस्म। तत्र काशीपाठभेद इह निवेशितः— ८८ पुढे ५ पंक्तौ ‘व्रीहिभिर्यागानुष्ठान’ इति। मुद्रितकोशेषु दृश्यमानः पाठः ‘ब्रीहियागानुष्ठाने’ इति। महीशूरपाठभेदस्तु ९१ पुढे अधस्तात् तृतीयपंक्तौ ‘पुरुषार्थत्वाभावेऽपि निषिध्यमानस्य’ इत्यत्र ‘पुरुषार्थत्वाभावेऽपि क्रत्वर्थत्वेन निषिध्यमानस्य’ इति। उभावपीमौ पाठभेदौ युक्ततरौ भातः।
एतद्ग्रन्थमुद्रणोपयुक्तशुद्धमातृकालेस्वनेन सुबहूपकृतवते अस्मत्सकाशादधिगतमीमांसाय सुव्युत्पन्नमतये चिदम्बरविश्वविद्यालयमीमांसकाय कृ–श्रीनिवासाचार्यशिरोमणये उपर्युपरि विद्याभिवृद्ध्याशंसनेन, प्रत्युपकारस्थाने कृतकिञ्चित्कारमात्मानं मन्यामहे। व्याकरण—साहित्य—विशिष्टाद्वैतशिरोमणि—श्री—वे—र—श्रीनिवासताताचार्याः न्यायमीमांसाशिरोमणि—ब्रह्मश्री पञ्चापगेशशास्त्रिणश्च अस्मदीये ग्रन्थपरिश्रमे सर्वत्रैव सहकारिणो भागिनश्चेति नेह किंचिद्विशेषेण तेषां विषये वक्तुं समर्थः स्मः।
मीमांसाशास्त्रं ग्रन्थान् ग्रन्थकारांश्चाधिकृत्य, मन्ये बहवो विदन्ति, यावदस्मद्विदितं मीमांसाभ्युदये प्रतिपादितवन्तः स्मः। तस्य प्रकाशनात् परं केचन विषया अस्मद्बुद्विगोचरमागताः सन्ति। तानद्य लिख्यमाने सम्भाव्यमानाचिरप्रकटने ‘संस्कृतग्रन्थजातचरिते’ घटयितुनि— च्छन्तो नेह प्रस्तुमः। ये पुनरिदानीं शास्त्रमध्यापयन्ति ये चाधीयते तेषां सविधे किञ्चिन्निवेध स्थातुमिच्छामः।
समीचीनं वैदुष्यम्, अथ वा समीचीनां व्युत्पत्तिं लिप्तमानैः तर्कव्याकरणमीमांसालङ्काराणां चतुर्णामपि प्रकरणग्रन्थेषु तुल्यः परिश्रमः कर्तव्यः। अन्यतमस्याप्युपेक्षायां अपरिहार्यैव न्यूनतेति नेदानीमेतद्विस्तृणीमहे। चिन्तनाविषये तु अत्यन्तमवधानं कर्तव्यमित्यावेदयामः। सरलमिदं व्याख्यानं लिखितवन्तः स्मः। पाठनाय अध्यापकानान्, धारणाय विद्यार्थिनां वा अन्यापेक्षा यथा न स्यात् तथा वैशद्यमिह अस्माकं लक्ष्यमासीत्। यद्यध्यापकाः विद्यार्थिनां विषयावगमे श्रद्दधाना यावदवबोधं उपपादयन्तः, उपपादितमर्थं व्याख्यानपंक्तिप्रदर्शनेन संवादयेयुः, विद्यार्थिनश्च गृहीतमर्थं व्याख्यानदर्शनेन अविस्मरन्तः (न केवलमात्मना, किं तु अन्यैः सहाध्यायिभिः साकं वाचा प्रकटमुक्त्वा) चिन्तनां कुर्युः, तदा विशदव्याख्यानलेखनसाफल्यं भवेत्। तदेवमेतत्साफल्यसम्पादने सर्वे प्रयतन्तामिति।
<MISSING_FIG href="../books_images/U-IMG-1725371555321.png"/>
तन्त्रोद्यानपुष्पहारे शास्त्रसरः।४।
॥श्रीः॥
श्रीलौगाक्षिभास्करकृतः
अर्थसंग्रहः।
<MISSING_FIG href="../books_images/U-IMG-1725458230123456.png"/>
वासुदेवं रमाकान्तं नत्वा लौगाक्षिभास्करः।
कुरुते जैमिनिनये प्रवेशायार्थसङ्ग्रहम्॥
————
तन्त्रप्रकाशिका।
मीमांसापरिभाषायाः कृत्वा विवरणद्वयम्।
अर्थसङ्ग्रहमद्याहं विवृणोमि यथामति॥
नापंयाति हृदयान्मम क्षणं नाथ एष नलिनायतेक्षणः।
देशिका मयि दयार्द्रचेतसः केन मे न हृदयं प्रहृष्यतु॥
वासुदेवमिति। वसुदेवस्यापत्यमित्यर्थः। सर्वस्मिन् वस्तुनि वसतीति वासुः। दीव्यति प्रकाशत इति देवः। वासुश्चासौ देवश्च वासुदेव इति च ब्रह्मलक्षणमप्यभिसंहितम्। एवंलक्षणं ब्रह्म हिरण्यगर्भः शिवो वेति शङ्काव्यावर्तनायोक्तं रमाकान्तमिति। नत्वा नमस्कृत्य। कीर्त्यनुवृत्तये स्वनाम कीर्तयति लौगाक्षीति। कुरुत इत्यात्मनेपदमविवक्षितम्। क्रियाफलस्य प्रवेशस्याकर्त्रभिप्रायत्वात्। विवक्षितं वा। कर्त्रभिप्रायायाः कीर्तेः क्रियाफलत्वात्। जैमिनेर्नयः शास्त्रं मीमांसेत्यर्थः। प्रवेशः प्रतिपाद्यार्थज्ञानम्। व्युत्पत्तिरिति यावत्। अर्थाः मीमांसाशास्त्रप्रतिपाद्याः विषयाः तेषां सङ्ग्रहः अविस्तरेण प्रतिपादको ग्रन्थ इति॥
अथ परमकारुणिको भगवान् जैमिनिर्धर्मविवेकाय द्वादश लक्षणीं प्रणिनाय।
उद्यानपत्रिका-अनुबन्धः।
अथेति ग्रन्थारंभे निरर्थकं श्रुत्या मङ्गलार्थम्। स्तुतये जैमिनेः शास्त्रकरणप्रवृत्तिहेतुभूतं गुणं कीर्तयति परमकारुणिक इति। करुणा अस्यास्तीति कारुणिकः। महर्षेः शास्त्रकरणसामर्थ्यपूर्तिमनुसन्दधाति भगवानिति। धर्मविवेकाय ज्योतिष्टोमादिरेव धर्मः न चैत्यवन्दनादिः ज्योतिष्टोमादिधर्म एव नाधर्म इति धर्माधर्मनिष्कर्षायेत्यर्थः। प्रणिनाय चकार। अन्यत्सर्वमत्र परिभाषोपक्रमवाक्यवदनुसन्धेयम्।
** तत्रादौ धर्मजिज्ञासां सूत्रयामास—अथातो धर्मजिज्ञासेति। अत्राथशब्दो वेदाध्ययनानन्तर्यवचनः। अतश्शब्दो हि वेदाध्ययनस्य दृष्टार्थत्वं ब्रूते। स्वाध्यायोऽध्येतव्य इत्यध्ययमविधौ तदध्ययनस्यार्थज्ञानरूपदृष्टार्थकत्वेन व्यवस्थापनात्। तथाच वेदाध्ययनानन्तरं यतोऽर्थज्ञानरूपदृष्टार्थकं तदध्ययनमतो हेतोर्धर्मस्य वेदार्थस्य जिज्ञासा। कर्तव्येति शेषः। जिज्ञासापदस्य विचारे लक्षणा। अतो धर्मविचारशास्त्रमिदमारम्भणीयमिति शास्त्रारम्भसूत्रार्थः।**
ननु यदि धर्मविवेकाय द्वादशलक्षणी तर्हि साऽनारम्भणीया। धर्मविवेकस्यानपेक्षितत्वात्। न च स्वाध्यायोऽध्येतव्य इति विधिना स्वाध्यायपदवाच्यवेदार्थभूतधर्मनिर्णयोद्देशेन स्वाध्यायाध्ययनस्य विहितत्वात् स्वाध्यायमधीत्यावश्यं तदर्थभूतधर्मज्ञानं संपादनीयम् तच्च विचारमन्तरा न सम्भवतीति तद्विचारपरा द्वादशलक्षण्यारम्भणीयेति वाच्यम्। लोकतः प्राप्तत्वेनार्थज्ञानार्थतयाऽध्ययनस्याविधेयत्वात् तस्मिन् विधावध्ययनस्यादृष्टार्थतया विधानेनार्थज्ञानस्यासंपादनीयत्वादित्याशंक्य शास्त्रकारेणैवात्र परिहार उक्त इति प्रदर्शयितुमाह तत्रेति। द्वादशलक्षण्यामित्यर्थः। धर्मजिज्ञासां धर्मविचारम्। अथातोधर्मजिज्ञासेति सूत्रयामास अनेन सुत्रेण बोधयामासेत्यर्थः। कर्तव्यतया बोधनं विवक्षितम्। सूत्रं व्याख्याति अत्रेति। अस्मिन् सूत्र इत्यर्थः। वेदेति। वेदाध्ययनादानन्तर्यं तस्य वचनः वाच्चकः। ननु वेदाध्ययनस्य पूर्वमनुक्तत्वेनानुपस्थितत्वात् कथं तदानन्तर्यवाचित्वमस्याथशब्दस्येति चेदुच्यते। अथेत्यस्य अनन्तरमिति तावदर्थः। तत्र कस्मादनन्तरमित्याकांक्षायां यस्य पूर्ववृत्तत्त्वं विना उत्तरत्र क्रियमाणो विचारो नोपपद्यते तस्मादनन्तरमिति सामर्थ्यात् सिध्यति। तत्र वेदवाक्यान्युदाहृत्य तत्प्रतिपाद्यस्य धर्मस्योपरि विचारकरणात् वेदवाक्याधिगमस्तावत् विचारस्यावश्यापेक्षितः। न ह्यज्ञातवेदवाक्यः पुरुषः तत्प्रतिपाद्यं धर्मं विचारयितुं शक्नोति। सोऽयं वेदवाक्याधिगमोऽध्ययनमन्तरा न संभवतीति वेदाध्ययनमेव वेदवाक्यार्थविचारात् पूर्वं वृत्तमिति गम्यते। तस्माद्युक्तमथशब्दोऽयं वेदाध्ययनानन्तर्यवाचीति। सूत्रस्थातश्शब्दस्य प्रकृत्यर्थमाह् अतश्शब्द इति। नन्वत इत्यत्र इदंशब्दः सन्निहितपरामर्शित्वात् पूर्वमथशब्दार्थतयोपस्थितं वेदाध्ययनं पराम्रष्टुं शक्नोति। न तु तस्य दृष्टार्थत्वम्। पूर्वमनुपस्थितत्वादिति चेद् ब्रूमः। सत्यमध्ययनमात्रमिदंशब्दः परामृशति। तत्राप्यथशब्देन वृत्तत्वेनाध्ययनोपस्थित्या वृत्तमध्ययनमिह परामृश्यते। तस्यैव च पञ्चम्यर्थस्तसिर्हेतुत्वं बोधयति। तथाच वृत्ताद् वेदाध्ययनादित्यतश्शब्दस्यार्थः। एवं हि मत्वा प्राचां व्याख्यांन ‘अतः अध्ययनस्य वृत्तत्वाद्धेतो’ इति। तथापि ग्रन्थकारस्यायमभिप्रायः—वृत्ताद्वेदाध्ययनाद्धेतोर्विचारः कर्तव्य इतीममर्थं श्रुतवता यदि शंक्येत वृत्तस्य वेदाध्ययनस्य कथं विचारहेतुत्वम् वेदाध्ययनं तावत् कृतमस्तु विचारो न क्रियताम् वेदाध्ययने कृते सति विचारोऽवश्यं कर्तव्यं इति को निर्बन्ध इति तत्रेदं वक्तव्यम्। यदि वेदमधीत्य विचारो न क्रियेत तर्हि विचारसाध्यमर्थज्ञानं न स्यात्। तदभावे कृतं वेदाध्ययनं निष्प्रयोजनं स्यात्। अदृष्टं प्रयोजनमिति चेत् स एव दोषः। संभवतो दृष्टस्यापरित्याज्यत्वात्। एवं कृतमध्ययनमदृष्टफलकत्वस्यानुपपन्नत्वात् दृष्टफलकत्वाय विचारस्यावश्यकर्तव्यतां बोधयतीति विचारहेतुर्भवतीति। एवं प्रथमं वृत्तस्य वेदाध्ययनस्य विचारहेतुत्वमुक्त्वा तत्रोक्तरीत्या शङ्काया— मुत्थितायां परिहारकरणेऽयमर्थविस्तरः स्यान्नार्थसङ्ग्रह इति मत्वा तात्पर्यार्थ एव शब्दार्थतयोक्तः—इति। ननु वेदाध्ययनस्यार्थज्ञानार्थत्वं लोकत एव प्राप्तमिति तत्र विधिवैयर्थ्यात् स्वाध्यायोऽध्येतव्य इति विधिरदृष्टार्थतयैव वेदाध्ययनं विधत्त इति न वेदाध्ययनस्य दृष्टार्थत्वमित्युक्तमिति शङ्कायां मुलग्रन्थेष्वेव तद् व्यवस्थापितमित्याह स्वाध्याय इति। अध्ययनविधौ अध्ययनविधिवाक्ये। तदध्ययनस्य स्वाध्यायाध्ययनस्य। अर्थज्ञानेति। अर्थज्ञानरूपो दृष्टार्थो यस्य तत्त्वेन। दृष्टार्थो दृष्टप्रयोजनम्। अर्थज्ञानरूपं दृष्टं वस्तु अर्थः प्रयोजनं यस्य तत्त्वेनेति वा। व्यवस्थापनात् सिद्धान्तितत्वात्।
एवमथातःपदयोरर्थमुक्ता धर्मजिज्ञासापदविग्रहप्रदर्शनपुरस्सरं धर्मपदं विवृण्वन्नेव सूत्रवाक्यार्थं दर्शयति तथाचेति। अथातःपदयोरुक्तार्थकत्वे सतीत्यर्थः। क्रियापद पूरयति कर्तव्येति। जिज्ञासापदस्य विवक्षितमर्थं वदन् तत्र शक्त्यभावाद् वृत्यन्तरमाह जिज्ञासापदस्येति। विचारः पूर्वोत्तरपक्षयुक्त्यनुसन्धानम्। लक्षणा बोध्यसंबन्धः। जिज्ञासापदस्य शक्त्या ज्ञानेच्छाऽर्थः। तत्प्रयोज्यत्वं विचारस्य संबन्धः। धर्मं ज्ञातुमिच्छया हि विचारः क्रियत इति। नेनु किमर्थं धर्मविचारः कर्तव्य इति प्रथमं जैमिनिः सूत्रयति। शास्त्रमेव कस्मान्नारभते। न च धर्मोऽस्य शास्त्रस्य विषयः तज्ज्ञानं प्रयोजनमिति विषयप्रयोजनाभिधानाय तथा सूत्रितमिति वाच्यम्। चोदनालक्षणोऽर्थो धर्म इत्युपक्रम्यमाणस्य शास्त्रस्य स्वरूपपर्यालोचनादेव तदुभयप्रतीतिसिद्धेः संकोचदत्तदृष्टेः सूत्रकारस्य तदर्थं पृथक्सूत्रकरणप्रवृत्त्यसंभवादिति शङ्कायां अर्थाद् विषयप्रयोजने प्रतिपादयतोऽस्य सूत्रस्य पूर्वपक्षविशेषनिरसने तात्पर्यमिति सूचयन्नभिमतं सिद्धान्तमाह अत इति। वेदाध्ययनस्य दृष्टार्थतया विचारस्य कर्तव्यत्वादित्यर्थः। विचारशास्त्रमिदमारम्भणीयमिति सिद्धान्तकथनाद्विचारशास्त्रमनारम्भणीममिति पूर्वपक्षः सोऽनुपपन्न इति तन्निरासश्च फलितः। इयमत्राधिकरणरच— ना। चोदनालक्षणोऽर्थो धर्म इतिसूत्रोपक्रममिदं विचारशास्त्रं विषयः। तदारम्भणीयं न वेति संशयः। अध्ययनविधिनाऽध्ययनस्यादृष्टार्थतया विहितत्वेनार्थज्ञानस्यासंपादनीयत्वात् तदर्थं विचारस्याकर्तव्यत्वात् तद्विचारपरमिदं शास्त्रमनारम्भणीयमिति पूर्वः पक्षः। दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वादध्ययनं दृष्टार्थतया विहितमिति व्यवस्थापितत्वादर्थज्ञानस्यावश्य संपादनीयत्वात् तदर्थे विचारस्य कर्तव्यत्वात् तदिदं
शास्त्रमारम्भणीयमिति सिद्धान्तः। एवं शास्त्रारम्भसमर्थनपरमहाधिकरणप्रवर्तकतया महाफलमिदं सूत्रमिति नात्र मन्दफलत्वशङ्का युक्तेति ग्रन्थकारहृदयम्। तदिदमभिप्रेत्य सूत्रार्थं निगमयति इति शास्त्रारम्भसूत्रार्थ इति। शास्त्रारम्भे स्थितं मूत्रं शास्त्रारम्भसमर्थनपरं सूत्रमिति वा ॥
इत्युपोद्घातपरिच्छेदः प्रथमः ॥
——————
** अथ को धर्मः किं तस्य लक्षणमिति चेदुच्यते। यागादिरेव धर्मः। तल्लक्षणं वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म इति। प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति। भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति। अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणाय अर्थ इति।**
एवं द्वादशलक्षण्या अनारम्भणीयत्वे तदर्थसंग्राहकस्य स्वग्रन्थस्याप्यनारम्भणीयत्वं स्यादिति तदारम्भणीयत्वसमर्थनपरं प्रथमसूत्रं व्याख्यातम्। अथ द्वितीयसूत्रप्रतिपाद्यं धर्मविवेकायेति निर्दिष्टस्य विषयस्य धर्मस्य स्वरूपं लक्षणं च प्रतिपादयितुं प्रश्नं करोति अथ क इति। अथेति विषयान्तरप्रस्तावार्थः। को धर्म इति धर्मस्वरूपप्रश्नः। को धर्म इत्यस्योत्तरं यागादिरेव धर्म इति। यागादिः यागदानहोमादिः। एवकारेण चैत्यवन्दनादेः वैशेषिकसम्मतस्यादृष्टमात्रस्य च व्यवच्छेदः। प्रयोजनवदिति। प्रयोजनवांश्चासावर्थश्चेति विग्रहः। वेदप्रतिपाद्यत्वे सति प्रयोजनवत्त्वे सत्यर्थत्वं धर्मलक्षणम्। प्रयोजनवत्त्वमिष्टसाधनत्वम्। अर्थत्वमनर्थभिन्नत्वम्। तेनार्थशब्देनापीष्टसाधनत्वस्यैवोक्तत्वात् प्रयोजनवत्त्वमित्यनेन पौनरुक्त्यमिति परिहृतम्। लक्ष्ये लक्षणसंगमनमुपरिष्टात् करिष्यति। दलप्रयोजनान्याह प्रयोजन इति। स्वर्ग इत्यर्थः। वेदप्रतिपाद्यत्वे सत्यर्थत्वस्य तत्र विद्यमानत्वादतिव्याप्तिः। प्रयोजनवत्त्वस्य निवेशे स्वर्गस्य चरमप्रयोजनत्वेन प्रयोजनान्तररहितत्वात् तद्वारणम्। भोजनादाविति। आदिना कृषिवाणिज्यादि गृह्यते। प्रयोजनयत्त्वे सत्यर्थत्वस्य भोजनादौ सत्त्वादतिव्याप्तिः। वेदप्रतिपाद्यत्वनिवेशे लोकसिद्धस्य तस्य वेदप्रतिपाद्यत्वाभावान्नातिव्याप्तिः। ननु “एवमेवैतान्क्षेत्रज्ञोभूत्वाऽनुप्रविश्यान्नमत्ति” इति भोजनस्यापि वेदप्रतिपाद्यत्वमस्त्येवेति चेन्न। प्रयोजनवत्त्वेन वेदप्रतिपाद्यत्वे सत्यर्थत्वं धर्मलक्षणमिति विवक्षितत्वात्। क्षुन्निवारणरूपप्रयोजनवत्तया लोकतोऽवगतस्य भोजनस्य, स्वर्गकामो यजेतेति स्वर्गप्रयोजनवत्तया यागस्येव, क्षुन्निवृत्तिकामो भुञ्जीतेति वेदप्रतिपाद्यत्वाभावात्। अर्थपदप्रयोजनमाह श्येनादाविति नन्वनर्थभिन्नत्वनिवेशेन कथं श्येनादिव्यावृत्तिः। अनर्थ इत्यस्य ह्मनिष्टमित्यर्थः। न हि श्येनयागः स्वरूपेण इष्टं वाऽनिष्टं वा भवति। तेनानर्थभिन्न एव श्येन इति नातिव्याप्तिपरिहार इति शंकायां फलद्वाराऽनिष्टभिन्नत्वमेव लक्षणे विवक्षितमित्यनिष्टनरकप्रयोजकतया फलद्वाराऽनिष्टस्य श्येनस्य नानिष्टभिन्नत्वमिति समाधातव्यमित्यभिप्रेत्याह अनर्थफलकत्वादनर्थभूत इति। तथाच प्रयोजवत्त्वेन वेदप्रतिपाद्यत्वे सति बलवदनिष्टाननुबन्धित्वं धर्मलक्षणमिति पर्यवसितम्।
** न च चोदनालक्षणोऽर्थो धर्म इति सौत्रतल्लक्षणविरोधः। चोदनापदस्य विधिरूपवेदैकदेशपरत्वादिति वाच्यम्। तत्रापि चोदनाशब्दस्य वेदमात्रपरत्वात्। वेदस्य सर्वस्य धर्मतात्पर्यवत्त्वेन धर्मप्रतिपादकत्वात्।**
उक्तमर्थमाक्षेपपरिहाररूपेण सूत्रारूढं करोति **नचेति। सौत्रेति।**सूत्रेणोक्तं सौत्रम्। तस्य धर्मस्य लक्षणम्। सौत्रं च तत् तल्लक्षणं च। तेन तस्य वा विरोधः सौत्रतल्लक्षणविरोधः। विरोधमुपपादयति चोदनापदस्येति। विधीति। विधिरूपश्चासौ वेदैकदेशश्च तत्परत्वात् तद्वाचित्वात्। चोदना विधिः लक्षणं प्रमाणं यस्य स चोदनालक्षण इति विधिप्रमाणकत्वरूपं विधिप्रतिपाद्यत्वं धर्मलक्षणमिति सूत्रात् प्रतीयते। अत्र तु वेदप्रतिपाद्यत्वमुक्तमिति विरोध इति भावः। सूत्रपि वेदप्रतिपाद्यत्वमेवाभिसंहितमिति नास्ति विरोध इति परिहरति तत्रापीति। वेदमात्रपरत्वात् कृत्स्नवेदप्रतिपादकत्वात्। न तु वेदैकदेशपरत्वमिति। नन्वबद्धं कृत्वा कुचोद्यं करोतीति न्यायेन किमर्थं स्वयमन्यथा लक्षणमुक्त्वा सौत्रपदं विनाश्यते। तदनुरोधेन विधिप्रतिपाद्यत्वमेव लक्षणं भवता कस्मान्नोच्यत इति शंकायां ‘वेदोऽखिलो धर्ममूलम्’ इत्यादिप्रमाणानुसारेण अर्थवादेभ्यो मन्त्रेभ्यश्च धर्मप्रमितेरिष्टत्वात् विधिप्रतिपाद्यत्वमात्रस्य लक्षणघटकत्वे मन्त्रार्थवादप्रतिपाद्यधर्मेष्वव्याप्तिस्स्यादिति तत्परिहाराय वेदप्रतिपाद्यत्वस्य लक्षणेऽवश्यनिवेश्यत्वात् सौत्रपदस्यान्यथानयनमपरिहार्यमिति समाधानमभिप्रेत्याह वेदस्य सर्वस्येति। ननु विधेयप्राशस्त्याद्यन्यपरतया शक्यार्थतात्पर्यविरहाद् धर्मविशेषप्रतिपादकतया प्रतीयमानस्याप्यर्थवादादेर्वस्तुतो न धर्मप्रतिपादकत्वं सम्भवतीत्याशंक्योक्तं धर्मतात्पर्यवत्त्वेनेति। अयं भावः। न सर्वत्रार्थवादानां शक्यार्थे तात्पर्यविरहः। रात्रिसत्रे ह्मर्थवादप्रतिपाद्यमेव फलमाश्रितम्। विधिना फलस्याकांक्षितत्वात् सन्निहितस्यार्थवादस्य स्तुतिपरस्यापि फलेऽपि तात्पर्यस्यावगमात्। तथा ‘धन्वन्निव प्रपा असि’ इत्यादीनां देवतास्तुत्यर्थतयाऽन्यपराणामपि प्रपाकल्पनादिधर्मे तात्पर्यमवगम्यते। एवं तात्पर्यावगमे सत्यन्यपराणां स्वार्थतात्पर्यं न भवतीति निर्बन्धो न कर्तव्यः। यदाहुः “गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम्। वेदोऽयमाश्रयत्यर्थं को तं प्रतिकूलयेत्॥” इति। अत्रेदं भाति। न सूत्रपदमन्यथा नेयम्। तदनुरो— धेन तु विधिप्रतिपाद्यत्वमेव लक्षणे घटनीयम्। न चार्थवादादिप्रतिपाद्येषु धर्भेष्वव्याप्तिः। अर्थवादादिभ्यश्चोदनात इव साक्षाद्धर्मस्याप्रभितेस्तेभ्यो विधिं कल्पयित्वा तत एव धर्मस्य प्रमीयमाणत्वेन तेषामपि विधिप्रतिपाद्यत्वस्याक्षतत्वादिति।
** स च यागादिः यजेत स्वर्गकाम इत्यादिवाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते। तथाहि। यजेतेत्यत्रास्त्यंशद्वयं यजिधातुः प्रत्ययश्च। प्रत्ययेऽप्यस्त्यंशद्वयम्**—आख्यातत्वं लिङ्त्वं च। तत्राख्यातत्वं दशलकारसाधारणम्। लिङ्त्वं पुनर्लिङ्मात्रे \।\।
इदानीं प्रयोजनवत्त्वेन वेदबोध्यत्वं धर्मे संममयितुमारभते सचेति। सः यागादिरेव धर्म इत्युक्तलक्षणलक्ष्यतया पूर्वमुक्तः। स च यागादिरिति लक्ष्यमुक्तम्। प्रयोजनवत्त्वेन वेदप्रतिपाद्यत्वमित्यत्र वेदस्योक्तिः यजेतस्वर्ग काम इति वाक्येनेति। प्रयोजनवत्त्वेन प्रतिपाद्यत्वमुक्तं स्वर्गमुद्दिश्य विधीयत इति। विधीयते कर्तव्यत्वेन ज्ञाप्यते। ननु स्वर्गमुद्दिश्य विधीयत इत्यत्र स्यर्गमुद्दिश्येति किं स्वर्गकामपदस्यार्थः उत स्वर्गमित्यध्याहृतपदान्तरस्यार्थः। नाद्यः। बहुव्रीहिसमासत्वेन भावनायां कर्तृत्वेनान्वीयमानस्वर्गविषयककामनावत्पुरुषवाचकस्य स्वर्गकामपदस्य स्वर्गमात्रवाचित्वानुपपत्तेः। न द्वितीयः। स्वर्गकामपदस्य वैयर्थ्यापत्तेरित्याशंकायां स्वर्गमिति पदान्तरमध्याह्रियते। स्वर्गकामपदस्य तु अधिकारिसमर्पकत्वेन न वैयर्थ्यमिति परिहारमभिप्रेत्योक्तं पुरुषं प्रतीति। पुरुषमुद्दिश्येत्यर्थः। पुरुषस्य फलभोक्तृत्वतात्पर्येणेति यावत्। न च स्वर्गमुद्दिश्य पुरुषमुद्दिश्येत्यनेकोद्देश्यत्वं वाक्यस्य विरुद्धमिति शङ्क्यम्। सजातीयानेकोद्देश्यत्वस्यैव एकस्मिन् वाक्ये विरोधात्। निमित्तफलादिविजातीयानेकोद्देश्यत्वे विरोधाभावात्। अत्र च फलभोक्तृत्वेन पुरुषस्य साध्यत्वेन स्वर्गस्योद्देश्यत्वेन सजातीयानेकोद्देश्यत्वाभावात्। किं च नात्र स्वर्गकामोद्देश्यका स्वर्गोद्देश्यका भावनेति बोधः येनानेकोद्देश्यकत्वमाशंक्येत। किंतु स्वर्गका— मनावत्पुरुषवृत्ति धर्मफलसमानाधिकरणं यत्कर्तृत्वं तन्निरूपिका स्वर्गोद्देश्यका भावना विधिविषय इति बोधः। स्वर्गकाम इति प्रथमार्थकर्तृत्वस्य यजेतेत्यात्मनेपदवशात् यागजन्यफलसमानाधिकरणत्वप्रतीत्या पुरुषस्य फलसमानाधिकरणकर्तृत्वरूपाधिकारसिद्धौ तात्पर्यगत्या तस्य फलापेक्षयाऽप्युद्देश्यत्वं सिद्ध्यतीति न वाक्यस्यानेकोद्देश्यत्वमिति।
अन्यूनानतिरिक्तार्थं विशदं हृदयङ्गमम्।
लिखितुं शास्त्रसन्दर्भ कः सम्प्रति महीतले॥
उदाहृतस्य वाक्यस्य विधायकत्वप्रकारं प्रदर्शयति तथाहीति। यजेतेति। अत्रांशो भागः। प्रत्ययेपीति। अत्रांशो धर्मः। नन्वेकप्रत्ययवृत्तित्वे कथमाख्यातत्वलिङ्त्वयोर्भेदः। नहि घटत्वकलशत्वे परस्परं भिन्ने इत्यत्राह तत्रेति। आख्यातत्वलिङ्त्वयोरित्यर्थः। ‘दशलकारसाधारणम्। दशानां लकाराणां समाहारो दशलकारम्। तद्वृत्तीत्यर्थः। लिङ्मात्र इति। वर्तत इति शेषः। तथाच व्याप्यव्यापकभूतयोर्लिङ्त्वाख्यातत्वयोर्घटत्वपृथिवीत्वयोरिव भेद आवश्यक इति भावः।
उभाभ्यामप्यंशाभ्यां भावनैवोच्यते। भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः। सा द्विधा। शाब्दी भावना आर्थीभावना चेति। तत्र पुरुषप्रवृत्यनुकूलो भावयितुर्व्यापारविशेषः शाब्दी भावना। सा च लिङ्त्वांशेनोच्यते। लिङ्श्रवणेऽयं मां प्रवर्तयति मत्प्रवृत्त्यनुकुलव्यापारवानिति नियमेन प्रतीतेः। यद्यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्यम्। यथा गामानयेत्यस्मिन्वाक्ये गोशब्दस्य गोत्वम् \।\।
एवं वाचकरूपं दर्शितम्। सम्प्रति वाच्यमाह उभाभ्यामिति। रूपद्वयमपि पुरस्कृत्य लिङ्प्रत्ययो भावनामेव बोधयतीत्यर्थः। एवकारेण कर्तृव्यवच्छेदः। यद्यपि तत्र लिङ्त्वांशेन शब्दभावना, आख्यातत्वांशेनार्थभावना चोच्यत इति विभज्य वक्तुं युक्तम् तथापि भावनासामान्यस्य लक्षणं वक्तुमेवं सामान्येनोक्तिरिति ज्ञेयम्। भावनासामान्यलक्षणमाह भावनानामेति। भवितुः उत्पद्यमानस्य। अस्य भवनेऽन्वयः। भवनानुकूलः उत्पत्त्यनुकूलः। भावयितुः उत्पादकस्य। व्यापारविशेषः न शारीरचेष्टरूपः। किन्तु तदतिरिक्तः आत्मगतप्रयत्नरूपः। ननु एकस्या भावनायाः प्रतिपादनाय किमिति प्रत्ययः धर्मद्वयमपेक्षते। न खलु क्वचिदेकस्यार्थस्य वाचकतावच्छेदकद्वयं दृष्टम् इत्याशङ्कायां नात्र एकामेव भावनां धर्मद्वयावशिष्टः प्रत्ययः प्रतिपादयति। किंतु एकेन धर्मेण एकां भावनां अन्येन धर्मेणान्याञ्चेति समाधानाभिप्रायेण भावनाविभजते सेति। विभागवाक्यशाब्दबोधप्रकारः अक्षरार्थे द्रष्टव्यः। शब्दस्येयं शाब्दी। शाब्दीं लक्षयति तत्रेति। द्वयोर्मध्य इत्यर्थः। अनुकूलः प्रयोजकः। भावयितुः प्रेषयितुः लिङादेः। व्यापारविशेषः बाह्यक्रियाविलक्षणः आन्तरप्रयत्नविलक्षणश्च सविषयको व्यापारः। प्रवर्तनैव शाब्दीभावनेत्युक्तं भवति।
उक्तप्रत्ययवृत्त्यंशद्वये अस्या भावनाया वाचकतावच्छेदकमंश दर्शयति सा चेति। लिङंशेनेत्यपपाठः। लिङ्त्वांशेनेति लक्षणे तृतीया न कर्तरि। प्रत्ययेनेत्यध्याहर्तव्यम्। लिङ्त्वांशेन विशिष्टो यः तेनोच्यत इत्यर्थः। एवं यजेतेत्यत्र शाब्दीभावना लिङ्त्वावच्छिन्नप्रत्ययवाच्येतिः प्रतिज्ञानिर्देशः कृतः। हेतुं निर्दिशति लिङ्श्रवण इति। लिङ्त्वधर्मावच्छिन्नप्रत्ययश्रवणे सतीत्यर्थः। अस्य नियमेन प्रतीतेरित्यत्रान्वयः। नियमेन सर्वदा। अव्यभिचारेणेत्यर्थः। प्रतीतेः प्रतीयमानत्वात्। लिङ्त्वेन रूपेण प्रत्यये श्रुते नियमेन शब्दभावनायाः प्रतीयमानत्वात् शाब्दी भावना लिङ्त्वावच्छिन्न वाच्येत्युक्तं भवति। शब्दभावनारूपे पक्षे नियमेन प्रतीयमानत्वरूपस्य हेतोस्सद्भावं प्रदर्शयितुं तां प्रतीतिं अभिलपति अयं मां प्रवर्तयतीति। अयमाचार्यः। मां शिष्यम्। नन्वस्यां प्रतीतौ न शब्दभावनाया विषयत्वमस्तीत्याशङ्कायां अस्तीति प्रदर्शयितुं पुनः अयं मां प्रवर्तयतीत्येतद्विवृणोति मदिति। पुरुषप्रवृत्त्यनुकुलो व्यापारविशेषो हि शाब्दी भावनेत्युक्तम्। अयं मां प्रवर्तयतीत्यस्य मत्प्रवृत्त्यनुकूलव्यापारवानयमित्यर्थः। एवं च अयं मां प्रवर्तयतीति प्रतीतेः मत्प्रवृत्त्यनुकूलव्यापारवानयमित्येवंरूपत्वे मच्छब्दवाच्यशिष्यरूपपुरुषप्रवृत्त्यनुकूलव्यापारस्य तत्र भानसिद्धेः तादृशव्यापाररूपायाश्शब्दभावनायास्तत्र विषयत्वे कः सन्देह इति भावः। एवं प्रतिज्ञोक्ता हेतुश्च। अत उदाहरणमाह यदितिजातिवाचिनां शब्दानां नैयायिकमत इव नास्मन्मते जात्यवच्छिन्नव्यक्तिवाचित्वम्। अपितु जातिमात्रवाचित्वम्। व्यक्तेस्तु आक्षेपतो लाभ इत्यभिप्रायेणोक्तं गोशब्दस्य गोत्वमिति। अत्रेदं बोध्यम्। परार्थानुमानेऽस्मन्मते त्रय एवावयवा अभ्युपगम्यन्ते। न नैयायिकमत इव पञ्च। तदुक्तम्।
तत्तु पञ्चतयं केचिद्द्वयमन्ये वयं त्रयम्।
उदाहरणपर्यन्तं यद्वोदाहरणादिकम्॥ इति।
तस्मादत्र उदाहरणपर्यन्तस्यावयवत्रयस्यैवाभिधानं नोपनयनिगमनयोरपीति।
प्रदर्श्यमानं सारस्यं गृह्णाति यदि सज्जनः।
ग्रन्थकारस्य लोकेऽस्मिन् सा हि सम्भावना परा॥
स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः। वैदिकवाक्ये तु पुरुषाभावात् लिङादिशब्दनिष्ठ एव। अत एव शाब्दीभावनेति व्यवह्रियते ॥
ननु यदि प्रवर्तनेत्यभिधीयमानः उक्तविधव्यापार एवं शाब्दी भावना तर्हि लौकिकप्रवर्तनायाः शब्दभावनेति व्यवहारं कस्मान्न कुर्वन्ति। न हि कदाचित् लौकिकेषु गामानयेत्यादिवाक्येषु लिङः प्रवर्तना अर्थ इतिवत् शब्दभावना अर्थ इति कश्चिद्व्यवहरतीत्याशङ्क्य लौकिकप्रवर्तनामपेक्ष्य वैदिकप्रवर्तनाया अस्ति विशेषः येनेयं केवलं शाब्दी भावनेति व्यवहारं भजते न लौकिकप्रवर्तनापीति प्रदर्शयन् प्रथमं लौकिकप्रवर्तनास्वरूपमाह स चेति। पुरुषप्रवृत्त्यनुकूलः लिंङ्त्वांशेनाभिधीयमानश्चेत्यर्थः। लौकिकवाक्य इति। प्रतीत इति शेषः। लोके भवं लौकिकं पौरुषेयमित्यर्थः। पुरुषनिष्ठ इति। तादृशवाक्यप्रयोक्तृपुरुषवृत्तिरित्यर्थः। अभिप्राय इच्छा तस्य विशेषः अयमत्र प्रवर्ततामित्येवंरूपः। अथ वैदिकप्रवर्तनाया विशेषमाह वैदिकवाक्येत्विति। वैदिकवाक्ये प्रतीतस्त्वित्यर्थः। तुकारः लौकिकवाक्यप्रतीतव्यापारापेक्षया वैलक्षण्यं द्योतयति। पुरुषेति। वैदिकवाक्यवक्तृपुरुषेत्यर्थः। स व्यापारविशेष इत्यनुषञ्जनीयम्। लिङादीति। आदिना समिधो यजतीत्यादिर्लेट् स्वाध्यायोऽध्येतव्य इत्यादिस्तव्यप्रत्ययश्च गृह्यते। एवं लौकिकवाक्यप्रतीतव्यापारविशेषः पुरुषनिष्ठः वैदिकवाक्यप्रतीतस्तु शब्दनिष्ठ इत्येकं वैलक्षण्यं प्रकृतोपयोगितया कण्ठरवेणोक्तम्। अनेन वैलक्षण्यान्तरमप्याक्षिप्तं वेदितव्यम्। लौकिकवाक्ये हि स व्यापारविशेषः अयमत्र प्रवर्ततामित्येवंरूपेच्छा इत्युक्तम्। वैदिकवाक्ये न तथा भवितुमर्हति। ज्ञानसमानाधिकरणाया इच्छाया आत्ममात्रवृत्तित्वादनात्मनि लिङादिशब्दे वृत्त्यसंभवेन लिङादिवृत्तिव्यापारविशेषस्य अयमत्रप्रवर्ततामितीदृशाकारवत्त्वेनेच्छासदृशत्वेपि इच्छात्मकत्वस्य दुर्वचत्वात्। तथाच लौकिकवाक्यप्रतीतस्स व्यापारविशेष इच्छाविशेषरूपः। वैदिकवाक्यप्रमितस्तु न तद्रूपः किन्तु तत्सदृश इति वैलक्षण्यान्तरमिति। एवकारः वैदिकवाक्यस्यापि पौरुषेयत्वशङ्काप्रयुक्तां तत्राप्युक्तव्यापारविशेषस्य पुरुषनिष्ठत्वशङ्कां व्यावर्तयति। अनेन शब्दनिष्ठत्वविशेषेण वैदिकप्रवर्तनायाः शाब्दी भावनेति व्यवहारः न प्रेरकपुरुषनिष्ठाया लौकिकप्रवर्तनाया इत्याह अत एवेति। लिङादिशब्दनिष्ठत्वादेवेत्यर्थः। वैदिकवाक्य इति स व्यापारविशेष इति चात्रानुषज्य योज्यम्।
** सा च भावनांऽशत्रयमपेक्षते। साध्यं साधनमितिकर्तव्यताञ्च। किं भावयेत् केन भावयेत् कथं भावयेदिति। तत्र साध्याकांक्षायां वक्ष्यमाणांशत्रयोपेता आर्थी भावना साध्यत्वे—**
** नान्वेति। एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः।**
एवं यजेतेत्यत्र प्रत्ययेन लिङ्त्वांशेनाभिधीयमानायाः शब्दभावनायाः स्वरूपं विविच्य दर्शयित्वाऽथ तस्याः पदार्थान्तरैरन्वयं दर्शयन् प्रथमं तस्याः पदार्थान्तराकांक्षाऽस्तीत्याह सा चेति। अत्र सर्वत्र चकारः पूर्ववाक्योक्तार्थसमुच्चयार्थ इति ज्ञेयम्। साध्यं साधनमिति द्वितीया विभक्तिः। साध्यमपेक्षते साधनमपेक्षते इतिकर्तव्यताञ्चापेक्षते इत्थमंशत्रयमपेक्षत इत्यर्थः। अंशत्रयमेवापेक्षत इत्यत्र अंशत्रयमपेक्षत एवेत्यत्र च भावनास्वभावो हेतुः। तत्रेति। अंशत्रय इत्यर्थः। अपेक्षते आकांक्षति \। साध्याकांक्षामभिलषति किमिति। साधनाकांक्षामभिलषति केनेति। चरमाकांक्षामभिलषति कथमिति। ननु का आर्थी भावनेति मध्ये शिष्यस्य प्रश्नोत्सुक्यं शमयन्नाह वक्ष्यमाणेति। इदं पृथक्पदं भावनाविशेषणम्। ननु प्रत्ययवाच्यशब्दभावनायाः साध्याकांक्षायां प्रकृत्युपात्तो यागः कस्मान्नान्वेतीत्यत्राह एकेति। अयं भावः। स्ववाचकावयवघटितपदघटकावयवान्तरवाच्यत्वाद्यागस्य तदुपस्थितौ पदश्रुतिः प्रमाणं भवति। तदपेक्षया च स्ववाचकवाच्यत्वरूपा समानाभिधानश्रुतिः शीघ्रतरोपस्थितिजनकत्वात् प्रबला। इयञ्चार्थभावनोपस्थितौ प्रमाणमिति प्रबलप्रमाणोपस्थिताया अर्थभावनाया एव भाव्यत्वं नान्यस्येति। अभिधीयतेऽर्थोऽनेनेति अभिधानं वाचकः शब्दः। समानञ्च तदभिधानञ्च। तद्रूपा श्रुतिः। ननु कथमर्थभावनायां समानाभिधानश्रुतिरित्यत्रोक्तम् एकप्रत्ययगम्यत्वेनेति। एकः समानः। साध्याकाङ्क्षिणी या शब्दभावना तद्वाचकेनैव तप्रत्ययेन गम्यमानत्वेन अभिधीयमानत्वेनेत्यर्थः।
** सङ्ख्यादीनामेकप्रत्ययगम्यत्वेऽप्ययोग्यत्वान्न साध्यत्वेनान्वयः।**
सङ्ख्यादिष्वपि समानाभिधानश्रुतेः साम्यात् कथं तेषां साध्यत्वेन नान्वय इत्याशङ्क्य परिहरति सङ्ख्यादीनामिति। आदिना फलगत—कर्त्रभिप्रायत्वादेर्ग्रहणम् न कालस्य। विधिप्रत्ययस्य कालवाचित्वाभावात्। लडादिषु कालवाचिषु शब्दभावनाया अप्रसक्तेश्च। अयोग्यत्वादिति। भाव्यत्वेनान्वेतुं योग्यताविरहादित्यर्थः। प्रागसिद्धं हि भाव्यत्वेनान्वेति। यजेतेन्यत्र एकवचनोपात्ता कर्तृगतैकत्वसङ्ख्या तु प्रागेव सिद्धेति न तस्या भाव्यत्वेनान्वेतुं योग्यतेति।
** साधनाकांक्षायां लिङादिज्ञानं करणत्वेनान्वेति। तस्य च करणत्वं न भावनोत्पादकत्वेन। तत्पूर्वमपि तस्याः शब्दे सत्वात्। किन्तु शब्दभावनाभाव्यनिर्वर्तकत्वेन। इतिकर्तव्यताकांक्षायामर्थवादज्ञाप्यप्राशस्त्य-ज्ञानमितिकर्तव्यतात्वेनान्वेति॥**
साध्यमुक्तम्। साधनमाह साधनेति। साधनाकांक्षायां साधनत्वेनान्वेतीति वक्तव्ये करणत्वेनान्वेतीत्युक्तिः साधनमिति करणं विवक्षितमिति विवरणाय। एवं लिङादिज्ञानस्य करणत्वेनान्वये लिङादिज्ञाननिष्ठकरणत्वनिरूपिका शब्दभावनेति बोधो भवति। करणत्वनिरूपकत्वं च कार्यस्यैव। तथाच यथा दण्डनिष्ठकरणत्वनिरूपको घट इत्युक्ते दण्डोत्पाद्यो घटः घटोत्पादको दण्ड इति प्रतीयते तथा लिङादिनिष्ठकरणत्वनिरूपिका शाब्दीभावनेत्युक्ते लिङादिज्ञानोत्पाद्या शब्दभावना तदुत्पादकं लिङादिज्ञानमिति प्रतीयते। नतु तथा प्रत्येतव्यमित्यभिप्रेत्याह तस्य चेति। लिङादिज्ञानस्य चेत्यर्थः। भावनेति। शब्दभावनेत्यर्थः। तत्र हेतुमाह तत्पूर्वमपीति। तस्मात् लिङादिज्ञानात्पूर्वं तत्पूर्वम्। न केवलं लिङादिज्ञानादनन्तरं अपितु ततः प्रागपीत्यर्थः। तस्याः शब्दभावनायाः। शब्दे यजेतेत्यादौ लिङ्प्रत्ययेसत्त्वात् वर्तमानत्वात्। नित्यत्वादिति समुदायार्थः। ज्योतिष्टोमेन यजेत स्वर्गकाम इत्यादौ लिङ्प्रत्ययस्तावदपौरुषेयवाक्यघटकत्वान्नित्यः। तद्वृत्तिश्च शब्दभावनारूपो व्यापारः अनेक इत्यत्र प्रमाणाभावादेक इति गम्यते। एकस्यच कालभेदेन बहुभिश्च प्रतीयमानस्य शब्दाकाशादिवन्नित्यत्वमवर्जनीयम्। एवं तस्य नित्यत्वेऽनुत्पाद्यत्वात् तदुत्पादकत्वं लिङादिज्ञानस्य न सम्भवतीति। एवं लिङदिशब्दनित्यत्वेनोपपादनीयं तद्व्यपारनित्यत्वमभिसन्धायैव शब्दे सत्त्वादिति शब्दपदमधिकमुपात्तमिति बोध्यम्। किञ्च घटोऽस्तीत्यादौ पदज्ञानं सर्वत्र पदार्थज्ञापकमेव दृष्टम्। न क्वचिदुत्पादकमिति लिङादिज्ञानमत्र लिङादिवाच्यशब्दभावनाया ज्ञापकमेव भवितुमर्हति नोत्पादकमित्यपि द्रष्टव्यम्। कथन्तर्हि शब्दभावनाकरणत्वं लिङादिज्ञानस्येत्यत्राह किन्त्विति। शब्देति। शब्दभावनाया भाव्यं भाव्यत्वेनान्विताऽर्थभावना तस्या निर्वर्तकत्वेन जनकत्वेन। तथाच शब्दभावनाकरणत्वमिति न साक्षाच्छब्दभावनानिरूपितं करणत्वं विवक्षितम्। किन्तु शब्दभावनाभाव्यार्थभावनानिरूपितं करणत्वमेवेति भावः। अत्र ‘किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिर्वर्तकत्वेन वा’ इति पाठो दृश्यते। स चिन्त्यार्थः। अथ शब्दभावनाया इतिकर्तव्यतामाह इतीति। अर्थवादेति। अर्थवादजन्यं प्राशस्त्यज्ञानमित्यत्रतात्पर्यम्। इतिकर्तव्यताशब्दार्थः प्राशस्त्यज्ञानस्य लिङादिज्ञानेतिकर्तव्यतात्वञ्च परिष्काराक्षरार्थयोर्द्रष्टव्यम्।
** प्रयोजनेच्छाजनितक्रियाविशेषो व्यापार आर्थी भावना। सा चाख्यातत्वांशेनोच्यते। आख्यातसामान्यस्य व्यापारवाचित्वात्। साऽप्यंशत्रयमपेक्षते। साध्यं साधनमितिकर्तव्यतां च। किं भावयेत् केन भावयेत् कथं भावयेदिति। तत्र साध्याकांक्षायां स्वर्गादि फलं साध्यत्वेनान्वेति। साधनाकांक्षायां यागादिः करणत्वेनान्वेति। इतिकर्तव्यताकांक्षायां प्रयाजाद्यङ्गमितिकर्तव्यतात्वेनान्वेति।**
एवं शब्दभावना निरूपिता। अथ अर्थभावनां निरूपयन् प्रथमं लक्षणमाह प्रयोजनेति। प्रयोजनस्य प्रयोजने वा इच्छा प्रयोजनेच्छा प्रयोजनविषयिणीच्छेत्यर्थः। प्रयोजनमिष्टं स्वर्गादि अनिष्टपरिहारो वा तया जनितः क्रिया धात्वर्थभूतयागादिर्विषयो यस्य स चासौ व्यापारश्चेति। प्रयत्न एवार्थी भावनेत्युक्तं भवति। स्वर्गादीच्छया हि यागादौपुरुषस्य जायमानो व्यापार + + + + + एव। स्पष्टञ्चेदमापदेवीये “स्वर्गेच्छा जनितो यागविषयो यः प्रयत्नः स भावनेति”॥ अत्र मतभेदादि न किञ्चिदिह प्रस्तुमः। एतद्भावनाद्वयस्वरूपनिष्कर्षकश्लोकावक्षरार्थे द्रष्टव्यौ। यजेतेत्यत्र प्रत्ययेऽस्त्यंशद्वयम्। तत्र लिङ्त्वांशेन शाब्दी भावनोच्यत इत्युक्तम् \। अद्यांशान्तरेण स प्रत्यय इमामर्थभावनामभिदधातीत्याह सा चेति। अत्र हेतुमाह आख्यातेति। आख्यातसामान्यस्य आख्यातत्वावच्छिन्नस्य सर्वस्य। आख्यातमिति व्यवह्रियमाणानां सर्वेषां लडादीनां लकाराणामित्यर्थः। व्यापारवाचित्वात् यत्नवाचित्वात्। सर्वेषामाख्यातानां यत्नवाचित्वात् आख्यातत्वं यत्ननिरूपितशक्ततावच्छेदकं भवति। यजेतेत्यत्र तप्रत्ययस्यापि आख्यातत्वात् तेन रूपेण स प्रत्ययो यत्नरूपामर्थभावनामभिदधातीत्यर्थः। ननु कथं सर्वाण्याख्यातानि यत्नवाचीनि। उच्यते। पचति पाकं करोति अपचत् पाकमकरोत् पक्ष्यति पाकं करिष्यतीति आख्यातानां कृञ्धातूना विवरणात् कृञर्थस्य कृतेर्यत्नरूपत्वादित्यन्यत्र विस्तरः। एवञ्चात्राप्याख्यातश्रवणे नियमेन प्रतीयमानत्वमेव हेतुरिति मन्तव्यम्। उक्तं ह्यापदेवेन ‘यजेतेत्याख्यातश्रवणे यागेन यतेतेति प्रतीतेर्जायमानत्वादिति’ अस्या भावनायाः पदार्थान्तरैरन्वयं प्रतिपादयितुमाह सापीति। अन्यदत्र पूर्ववत्। स्वर्गादेः साध्यत्वं षष्ठाद्यन्यायेनयागादेः करणत्वं भावार्थाधिकरणन्यायेन प्रयाजादेरितिकर्तव्यतात्वं च प्रकरणादिप्रमाणवशेनेति द्रष्टव्यम्। एवं स्वर्गभाव्यका यागविशेषकरणिकाप्रयाजादीतिकर्तव्यताका च याऽर्थभावना तद्भाव्यका लिङादिज्ञानकरणिका प्राशस्त्यज्ञानेतिकर्तव्यताका च शाब्दी भावनेति पूर्वमुदाहृतस्य यजेतस्वर्गकाम इति वाक्यस्य बोधो वर्णितो भवति। प्रातिस्विकवाक्येषु शब्दभावनायाः कर्तव्यत्वेन प्रतीतिर्नास्तीति भावनाप्रकरणे परिभाषातद्व्याख्यानेषु सुनिरूपितम्। तथा प्रतीत्यभावे च शब्दभावनायां अंशत्रयाकांक्षानुदयात् तदवगाही बोधोनात्र भवितुमर्हति। किन्तु अंशत्रयान्वितायामर्थभावनायां शब्दभावनायाः प्रयोज्यत्वसम्बन्धेनान्वयो भवति। अर्थभावनायामपि इतिकर्तव्यताकांक्षायां प्रयाजादिवाचकस्यास्मिन्वाक्येऽ + + + + + + + + + त्किञ्चित्त्वेनैवेतिकर्तव्यता भासते। ततश्च स्वर्गभाव्यका यागकरणिका यत्किञ्चिदितिकर्तव्यताकाऽर्थभावना विधिप्रयोज्या इति बोधनिष्कर्षः।
** अथ को वेद इति चेदुच्यते। अपौरुषेयं वाक्यं वेदः।**
ननु वेदप्रतिपाद्य इत्यत्र को वेदो नाम। यद्यप्येतावता निरूपणेन शब्दप्रमाणविशेषस्स इति ज्ञायते। तथापि लौकिकशब्दात् तस्य को विशेषः येन तन्मात्रस्य धर्मे प्रामाण्यं न लौकिकस्येति जिज्ञासोः प्रश्नमनुवदन् समाधत्ते अथेति। अपौरुषेयं पुरुषेणानिर्मितम्। बाक्यमिति वाक्यराशिविवक्षितः। प्रतिवाक्यं वेदत्वाभावात्। अपौरुषेयत्वं लोकाद्वेदस्य विशेषः। तस्मात् तन्मात्रं धर्मे प्रमाणम्। पौरुषेयत्वे हि पुरुषस्य भ्रमप्रमादविप्रलिप्साऽशक्तिदोषैर्वाचामप्रामाण्यं प्रसजतीति॥
॥इति लक्षणपरिच्छेदो द्वितीयः॥
———————
** स च विधिमन्त्रनामधेयनिषेधार्थवादभेदात् पञ्चविधः। तत्राज्ञातार्थज्ञापको वेदभागो विधिः। स च तादृशप्रयोजनवदर्थविधानेनार्थवान् यादृशं चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते। यथा—‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इति विधिर्मानान्तरेणाप्राप्तस्वर्गप्रयोजनवद्धोमं विधत्ते। अग्निहोत्रहोमेन स्वर्गं भावयेदिति वाक्यार्थबोधः। यत्र कर्म मानान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा दध्ना जुहोतीत्यत्र होमस्य अग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानं—दध्ना होमं भावयेदिति॥**
एवं विषयप्रयोजनाभिधानाय प्रथमसूत्रार्थ उक्तः। विषयस्वरूपपरिज्ञानाय द्वितीयसूत्रोक्तं लक्षणमप्युक्तम्। अथ शास्त्रार्थसङ्ग्रहं करिष्यन् शास्त्रे वेदं विभज्य विचारस्य कृतत्वात् स्वयमपि तथा कर्तुं वेदं विभजते स चेति। अपौरुषेयत्वाद्धर्मे प्रमाणभूत इत्यर्थः। विधीति। अत्रेदं चिन्त्यम्।
अर्थवादस्य विधेरनन्तर + + + + + कतव्यः। नान्ते। सूत्रकारेण तथा विचारितत्वात्। नन्वेतद्ग्रन्थकारस्य परमोपजीव्येनापदेवेन तथा कृतत्वादनेनापि तथा कृतमिति चेत् किञ्चित् सावधानं श्रोतव्यम्। आपदेवस्तावद्धर्मलक्षणं लक्ष्ये सङ्गमयितुं यजेत स्वर्गकाम इति वाक्यस्यार्थं वक्तुं प्रवृत्तः, तत्र लिङभिहितशब्दभावनासंबंधिनीमितिकर्तव्यतां प्राशस्त्यज्ञानरूपामर्थवादो लक्षणया समर्पयतीत्युक्त्वा, कथं तस्य शक्यार्थपरित्यागेन लक्षणयाऽर्थान्तरं स्वीक्रियत इति शंकां स्वार्थे प्रयोजनाभावादर्थान्तरस्वीकार इति परिहृत्य, कामं प्रयोजनं माऽस्त्वितीष्टापत्तिं, स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनं कर्तव्यमिति बोधयन् निरर्थकस्याध्ययनानुपपत्तेः सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयतीति निरस्य, यदि सर्वो वेदः प्रयोजनवदर्थपर्यवसायी तर्हि कः को वेदभागः कं कंप्रयोजनवदर्थं प्रतिपादयतीति प्रथममुच्यतां तदनन्तरमर्थवादस्यापि तथा प्रयोजनवदर्थपरत्वाय लक्षणामङ्गीकुर्म इति प्रत्यवस्थाने तत्समाधानाभिप्रायेण, प्रमाणाध्यायप्रथमपादनिरूपितो विधिः अर्थवादचिन्तानन्तरं द्वितीयपादान्ते चिन्तितो मन्त्रः चतुर्थपादे प्रतिपाद्यं नामधेयम् दशमान्त्ये विचारितो निषेधः इत्येतेषां वेदभागानां प्रथमं प्रयोजनवदर्थपरत्वदर्शनाय क्रमेण प्रथमं निर्देशं कृत्वा, तदनन्तरं तद्वत् प्रयोजनवदर्थपरत्वावश्यंभावप्रदर्शनायार्थवादस्य विधेरनन्तरं मन्त्रात् प्राक् निर्देष्टव्यस्याप्यन्ते निर्देशं चकार। एवमर्थवादस्य लक्षणयाऽपि प्रयोजनवदर्थसमर्थनाय विध्यादीनामन्येषां वेदभागानामपि प्रयोजनवदर्थपरत्वमस्तीति प्रदर्शयितुमेव स च वेद इत्याद्यापदेवग्रन्थारम्भ इति
तत्र विधिः प्रयोजनवदर्थविधानेनार्थवान्।
मन्त्राणाञ्च प्रयोगसमवेतार्थस्मारकतयाऽर्थवत्त्वम्।
नामधेयानां विधेयार्थपरिच्छेदकतयाऽर्थबत्त्वम्।
निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम्।
इति तत्तत्प्रकरणोपक्रमवाक्यैः तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यं एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः स्वार्थप्रतिपादने च प्रयोजनाभावात् लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम्।
इत्युपसंहारवाक्येन च स्फुटमवगम्यते। तस्मादापदेवकृतोऽर्थवादस्यान्ते निर्देशः सर्वथोपपद्यते। एतद्ग्रन्थकारस्तु शब्दभावनाऽर्थभावनासम्बंधिनं सर्वं विचारं समाप्य विध्यादीनां वेदभागानां स्वातन्त्र्येण निरूपणतात्पूर्येणैव स चेत्यादिना वेदभागान्निर्दिशतीति प्रादर्शयाम। तत्र मूलग्रन्थानुसारेणार्थवादानां विधिसन्निहितत्वात् तदेकवाक्यतापन्नत्वाच्च विध्यनन्तरमेव निर्देशे निरूपणे च कर्तव्ये चक्षुषी निमील्य परकीयनिर्देशानुसरणं न कथञ्चिदप्युपपद्यत इति।
श्वापदाक्रन्दबधिरे वने कूजसि पञ्चमम्।
पिक यद्वा न ते चिन्ता शृणोतु न च वा परः॥
** पञ्चविध इति।** पञ्चभाग इत्यर्थः। विधिं लक्षयति तत्रेति। अज्ञातस्य तदितरयावत्सजातीयविजातीयप्रमाणैरबोधितस्याऽर्थस्य बोधक इत्यर्थः। ननु ‘यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतञ्च तत्सुखं स्वःपदास्पदम्’ इति यत्किञ्चित्प्रमाणान्तरानवगतस्वर्गस्वरूपबोधकेऽर्थवादे, कलंजभक्षणे नरकसाधनत्वबोधके न कलंजं भक्षयेदिति निषेधे चाज्ञातार्थज्ञापकत्वस्य सत्त्वादतिव्याप्तिरित्याशंक्याह स चेति। स विधिः प्रमाणान्तरेणाप्राप्तं यादृशं पदार्थं विधत्ते तादृशस्य प्रयोजनवत्पदार्थस्य विधानेनार्थवान् प्रयोजनवान् फलवानित्यर्थः। प्रमाणान्तरानवगतप्रयोजनवदर्थविधानं विधिवाक्यफलम्। यत्र तदस्ति स एव विधिरित्युक्तं भवति। एवं चोक्तार्थवादनिषेधयोरनवगतार्थावगमकत्वेऽपि तादृशार्थविधानाभावात् न तत्र विधित्वप्रसङ्ग इत्याशयः। नन्वेवं विधायको बिधिरिति लक्षणमुच्यताम्। किमित्यज्ञातार्थज्ञापको विधिरित्युक्त्वाऽनन्तरमन्यदुच्यते। सत्यं तथैव वक्तव्यम्। तथाच चोदनासूत्रे भाष्यं चोदनेति क्रियायाः प्रवर्तकं वचनमाहुरिति। चोदना नाम विधिः। प्रवर्तकमिति च विधायकमुच्यते। तद्यथा पुरुषस्य निवर्तकं वाक्यं निषेध इति तल्लक्षणामित्युपरिष्टाद्वदिष्यति तथाऽत्र पुरुषस्य प्रवर्तकं वाक्यं विधिरिति वक्तव्यम्। तथापि सर्वत्र प्रवर्तकस्य विधेरज्ञातार्थज्ञापकत्वमपि स्वभाव इति बोधयितुमेवमाहेति वयं समर्थयामहे। वस्तुतस्तु ‘तत्र विधिः प्रयोजनवदर्थविधानेनार्थवान्। स चाप्राप्तमर्थं विधत्ते’ इति स्वग्रन्थोपक्रमानुगुणं आपदेवेन विशदमभिहितमर्थं अयं ग्रन्थकारो बह्वाकुलं वदतीति किं कुर्मः कलिशिष्या वयमाचार्यदोषमुद्धोषयामः। ननु विधिस्वभावबोधनाय प्रमाणान्तराप्राप्तार्थविधायकत्वमुच्यताम्। प्रयोजनवत्त्वमर्थस्य किमर्थमत्रोच्यत इति चेदुच्यते। विधानं हि कर्तव्यताबोधनम्। पुरुषस्य प्रवर्तनमिति यावत्। पुरुषस्य प्रवर्तनं च निष्प्रयोजने न संभवतीति प्रवर्तकत्वोपपत्त्यै तदभिधानमिति। अत्र वक्राभिधानेऽपि ‘स च तादृशप्रयोजनवदर्थविधानेनार्थवान् यादृशोऽर्थः प्रमाणान्तरेणाप्राप्तः’ इत्येतावति कर्तव्ये यादृशञ्चेति चकारोपादानं विधत्त इत्याख्यातोपादानञ्च बत रचनापाटवदौर्विध्यं प्रथयति। मानान्तरेणाप्राप्तमिति। न चाग्निहोत्रं जुहोतीति वचनान्तरेणाग्निहोत्रहोमः प्राप्त एवेति शंक्यम्। तत्र हि अग्निहोत्रहोमेन यत्किञ्चिदिष्ट भावयेदिति बोधात् यत्किञ्चिदिष्टसाधनत्वेनैव होमः प्राप्यते। अत्र तु स्वर्गसाधनत्वेन प्राप्यते। तथाचानेन रूपेण मानान्तराप्राप्त एव होम इति। अयमुदाहृतो विधिर्गुणवर्जं कर्ममात्रविधायकः। अथ कर्मवर्जं गुणमात्रविधायकः कश्चिद्विधिरस्तीति दर्शयति यत्रेति। यस्मिन् वाक्य इत्यर्थः। तदुद्देशेन तस्य कर्मण उद्देश्यत्वमङ्गीकृत्य। विधत्त इति। विधिरिति शेषः।
** यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते। यथा सोमेन यजेते त्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम्।सोमपदे मत्वर्थक्षणया सोमवती + + + + भावयेदिति + + + + क्यार्थबोधः। न चोभयविधाने वाक्यभेदः। प्रत्येकमुभयस्याविधानात्। किन्तु विशिष्टस्यैकस्यैव विधानात्। नच ज्योतिष्टोमेन स्वर्गकामो यजेतेति विधिना प्राप्तयागोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति; किं मत्वर्थलक्षणयेति वाच्यम्। तस्याधिकारविधित्वेनोत्पत्तिविधित्वासंभवात्। ननूद्भिदा यजेत पशुकाम इत्यस्येव ज्योतिष्टोमेनेत्यस्यापि उत्पत्त्यधिकारविधित्वमस्त्विति चेन्न। दृष्टान्त उत्पत्तिवाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् किञ्च ज्योतिष्टोमेनेत्यस्योभयविधित्वेऽनेनैव यागस्तस्य फलसम्बन्धोऽपि बोधनीय इति सुदृढो वाक्यभेदः। तद्वरं सोमपदे मत्वर्थलक्षणया विशिष्टविधानम्॥**
अथोभय विधायकोऽप्यस्तीति दर्शयति यत्रत्विति। उभयम् गुणः कर्मच। विशिष्टम् एकविशेषितमपरम्। विशिष्टमित्युक्तं तत्र यागविशेषितसोमविधानमिति न मन्तव्यमिति मन्वान आह सोमविशिष्टवागेति। भावार्थाधिकरणन्यायोऽत्रानुसन्धेयः। नन्वत्र सोममात्रवाचि यागमात्रवाचि च पदमस्ति न। तद्वैशिष्ट्यवाचकं किञ्चित्। तत्कथमत्र विशिष्टप्रत्यय इत्याशंक्य लक्षणया तत्प्रत्यय इति समादधान एव प्रकृतवाक्यार्थबोधमभिलषति सोमपद इति। मत्वर्थेति। मतोः मतृष्प्रत्ययस्य योऽर्थः सम्बन्धीति तस्य लक्षणयेति। नन्वेकस्मिन् वाक्ये एकेनैव विधेयेन भवितव्यम्। अन्यथा वाक्यस्य एकत्वानुपपत्तेः। अथैकत्वादेकं वाक्यमिति ह्युक्तम्। अत्र च सोमस्य यागस्य चोभयोर्विधाने विधेयानेकत्वाद्वाक्यस्याप्यनेकत्वप्रसङ्गः। न च विशिष्टविधानान्न वाक्यभेदः, अत एव पूर्वं ‘यत्र तूभयमप्राप्तं तत्र विशिष्टं विधीयते’ इत्युक्तम् नोभयं विधीयत इतीति वाच्यम्। विशिष्टं वा विधीयतां शुद्धं वा। उभयोर्विधानमस्ति++ वा। नास्ति चेदन्यतरस्यवेिधत्वप्रसङ्गः। अस्ति चेद्वाक्यभेदः। तत्र विशिष्टविधानमित्यनेन न कश्चित्परिहार उक्तो भवतीति शङ्कां परिहरति न चेति। वाक्यस्यानेकत्वं वाक्यभेदः। प्रत्येकमिति। एकस्येतरविशेषणत्वमन्तरेत्यर्थः। स्वातन्त्र्येणेति यावत्। सोमेन भावयेत् यागेन भावयेत् इति नात्र विधानप्रकारः। किन्तु सोमवता यागेन भावयेदिति। तथाच सोमवता यागेनेति पदद्वयेनापि एकस्यैवार्थस्योपादानात् तस्य विधाने अग्निहोत्रण होमेनेति नामधेयस्थल इव न विधेयानेकत्वप्रयुक्तो वाक्यभेदो भवति। विशिष्टे विशेष्यं साक्षाद्विषयीकुर्वन् श्रूयमाणो विधिर्विशेषणविधायकं विध्यन्तरमाक्षिपतीत्यन्यतरस्यावैधत्वमपि नास्तीति भावः। एवमुभयविधाने वाक्यभेदो भवतीति विशिष्टविधानं तदर्थं सोमपदे मत्वर्थलक्षणा चाश्रीयत इत्युक्तम्। तत्र गुणमात्रस्य एकस्यैव विधानाङ्गीकारात् वाक्यभेदो नास्तीति न तदर्थं विशिष्टलक्षणावश्यंभावः। तदभावे च मत्वर्थलक्षणक्लेशोऽपि नाङ्गीकर्तव्य इत्याक्षेपं परिहरति नचेति। तस्येति। ज्योतिष्टोमवाक्यस्येत्यर्थः। अयं भावः। सर्वत्र प्रवर्तनात्वेनैकरूपेण प्रतीयमानस्यापि विधेस्तात्पर्यगत्या उत्पादनं विनियोजनं अधिकारबोधनं अनुष्ठापनम् इति मिथो भिन्नाश्चत्वारो व्यापाराः प्रतीयन्ते। तत्रैकव्यापारवतो विधेर्व्यापारान्तरं न संभवतीति ज्योतिष्टोमवाक्ये फलपदश्रवणादधिकारबोधनरूपव्यापारवत्त्वेन प्रतीयमानस्योत्पादनव्यापारवत्त्वं नाङ्गीकर्तुमुचितमिति। अन्यत्र क्वचिदुक्तव्यापारद्वयमप्येकस्य विधेरङ्गीकृतमिति प्रदर्श्य तद्दृष्टान्तेनात्रापि व्यापारद्वयमस्त्विति प्रत्यवतिष्ठते नन्विति। उद्भिदा उद्भिन्नामकेन। उत्पत्तीति। उत्पत्तिश्चाधिकारश्च तयोर्विधिस्तत्त्वम्। दृष्टान्त इति। उद्भिद्वाक्य इत्यर्थः। तथात्त्वेत्यत्रान्वयः। तथात्त्वं उत्पत्त्यधिकांरोभयविधित्वं। अयमाशयः। एकव्यापारशालिनो विधेर्गौरवाद्व्यापारान्तरं नाङ्गीकर्तव्यमित्युत्सर्गः। गत्यभावे सर्वमपि गौरवं सह्येत। प्रामाणिकस्य गौरवस्यादोषत्वात्। तदत्र ‘उद्भिदा यजेत’ ‘उद्भिदा यजेत पशुकाम’ इति वाक्येद्वयञ्चेत् श्रूयेत + + + + + +विधिरुत्पादकः + + + धिकारबोधक इत्यङ्गीक्रियेतैव। तदभावात्तु एकत्रैव व्यापारद्वयमङ्गीकृतम्। प्रकृते तु सोमेन यजेतेति ज्योतिष्टोमेन स्वर्गकामो यजेतेति च वाक्यद्वयश्रवणात्तथाऽङ्गीकारो नोचित इति। एवं सकृच्छ्रुतस्य विधरेकेव्यापारवत्त्वस्वाभाव्यात् तस्य भंगप्रसङ्गो यदि ज्योतिष्टोमवाक्यस्योभयविधित्वमिति दूषणमुक्तम्। अथाद्य ‘वृश्चिकभिया पलायमानस्य आशीविषमुखे निपातः’ इति न्यायेनाल्पं दोषं परिहर्तुमुद्यतेन महान्दोषोऽङ्गीकृतो भवतीति दर्शयति किञ्चेति। उभयेति। उत्पत्त्यधिकारोभयेत्यर्थः। याग इति। उत्पत्तिविधित्वाद्विजातीयेन यागेनेष्टं भावयेदिति यागो बोधनीयः। अधिकारवाक्यत्वात् तेन विजातीयेन यागेन स्वर्गं भावयेदिति फलसंबन्धोऽपि बोधनीय इत्यर्थः। सुदृढः दुष्परिहरः। वाक्यभेद इति। ज्योतिष्टोमेन यजेत ज्योतिष्टोमेन स्वर्गकामो यजेतेति भिन्नवाक्यसत्वे उभयोर्यावान्व्यापारः तावानेकस्य ज्योतिष्टोमेन यजेतेत्यस्य प्रसज्यत इत्याशयः।
नन्वस्त्वयं दोषः। स कथं मत्वर्थलक्षणामपेक्ष्यमहानित्याशंक्य एकस्य वाक्यस्य वाक्यद्वयव्यापारांगीकारो हि वाक्यगतो दोषः। मत्वर्थलक्षणा चैकपदमात्रगता। तत्र पदसमुदायरूपवाक्यगतदोषापेक्षया एकपदमात्रवृत्तिदोषोऽल्प इति किमिदमुपपादनीयमिति समाधानाभिप्रायेणाह तद्वरं सोमपदं इति॥
इति विधिपरिच्छेदे विधिस्वरूपनिरूपणम्।
——————
** विधिश्चतुर्विधः। उत्पत्तिविधिः विनियोगविधिः अधिकारविधिः प्रयोगविधिश्चेति। तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः। यथा**—अग्निहोत्रं जुहोतीति॥
एवं विधायकं वाक्यं विधिरिति विधिस्वरूपं लक्षितम्। तस्याज्ञातार्थज्ञापकत्वं स्वभाव इति दर्शितम्। अज्ञातश्चार्थः क्वचित्कर्म क्वचिद्गुणः क्वचिदुभयमिति तत्तद्विधायकत्वेन विधिवाक्यविभागोऽपि कश्चिदत्र व्यञ्जितः। अत्र + + धेस्त्रिविधः—फलसम्ववजे कर्ममात्रविधिः, प्राप्तस्यैव कर्मणः फलोद्देशेन विधिः, अप्राप्तस्य कर्मणः फलोद्देशेन विधिरिति। यथा क्रमेण अग्निहोत्रं जुहोति, अग्निहोत्रं जुहुयात्स्वर्गकामः, उद्भिदा यजेत पशुकाम इति। गुणविधिरपि द्विविधः फलोद्देशेन गुणविधिः अन्योद्देशेन गुणविधिरिति। आद्यः दध्नेन्द्रियकामस्य जुहोतीति। द्वितीयः दध्ना जुहोतीति। विशिष्टविधिरपि द्विविधः। फलसम्बन्धरहितविशिष्टविधिः। तत्सहितविशिष्टविधिरिति। आद्यः सोमेन यजेतेति। अन्त्यः सौर्यञ्चरुन्निर्वपेद्ब्रह्मबर्चसकाम इति। एतद्विस्तरः परिभाषायां तद्व्याख्याने च। एतादृशानन्यान् विधिविभागप्रकारानभिसन्धाय सूत्रकारेणाध्यायक्रमस्यापरिकल्पितत्वात् तान्सर्वानुपेक्ष्य द्वितीयप्रभृति षष्ठपर्यन्ताध्यायपञ्चकाभिप्रेतविधिव्यापारभेदानुसारेण संभवन्तं विधिविभागं केवलं कतिपयाध्यायार्थनिरूपणोपयोगितया करोति विधिश्चतुर्विध इति। द्वितीयाध्याये उत्पत्तिविधिविषयस्य तृतीये विनियोगविधिविषयस्य चतुर्थपञ्चमयोः प्रयोगविधिविषयस्य षष्ठेऽधिकारविधिविषयस्य च विचारः सूत्रकृता क्रियते। अयमपि ग्रन्थकारस्तेनैव क्रमेण इमान्विधीन् विचारयिष्यति। तथा सति प्रयोगविधिरधिकारविधिश्चेति निर्देशेऽत्र कर्तव्ये तयोर्व्युत्क्रमेण निर्देशकरणमविचार्यापदेवीयक्रमानुसरणशीलतां ग्रन्थकारस्य दृढीकरोति। अत एव संप्रति आपदेवीये क्वचित्प्रयोगविधिरधिकारविधिश्चेति मूलानुरोधिक्रमेण पाठउपलभ्यमानोऽर्वाचीनः। प्राचीनस्तु व्युत्क्रमेणैवेति ज्ञेयम्। एतं पितुर्व्युत्क्रमनिर्देशं समर्थयन्नापदेवपुत्रोऽनन्तदेवः स्वव्याख्याने भाट्टालङ्कारे यत्किञ्चिदाह। वयन्तु पश्यामः प्रामादिक एवायं व्युत्क्रमनिर्देश इति।
उत्पत्तिविधिं निरूपयति तत्र कर्मेति। कर्मस्वरूपमेव कर्मस्वरूपमात्रं तस्य बोधकः। अग्निहोत्रहोमेन इष्टं भावयेदिति बोधजनकत्वेऽपि इष्टविशेषस्य वाक्यान्तरेण बोध्यमानत्वात् इष्ठसाधनीभूतः, अग्निहोत्रं जुहोतीति वाक्यभिन्नयावद्वाक्यबोध्यकर्मविलक्षणो विजातीयहोमरूपः कर्माविशेषोऽस्तीति बोधन एव + + + + वाक्यस्य + + + + । तेन कर्मस्वरूप + + + + मस्य विधेरवगन्तव्यम्। एवं कर्मस्वरूपप्रथमवधि एव उत्पत्तिरित्युच्यते। कारकहेतुभृतात् दण्डादेः घटादिकार्यस्योत्पत्तिः आद्यक्षणसम्बन्धः। ज्ञापकहेतोस्तु वाक्यात् कर्मण उत्पत्तिः आद्यज्ञानमेवेति। मात्रपदेन स्वर्गादिफलसम्बन्वादिव्यवच्छेदः। ननु उद्भिता यजेतेत्यत्र फलसम्बन्धस्यापि बोधेन उत्पत्तिविधित्वानुपपत्तेः उक्तमुभयविधित्वं तस्यासङ्गतं स्यादिति चेदुच्यते। अत्र विधिरिति न विधिवाक्यं विवक्षितम्। उद्भिदेत्युत्पत्त्यधिकारोभयविधेः सोमेन यजेतेत्युत्पत्तिविनियोगोभयविधेः सौर्यं चरुं निर्वपद्ब्रेह्मवर्चसकाम इति उत्पत्तिविनियोगाधिकारत्रयविधेश्च सत्त्वेन तेषामनिर्देशेन विधिवाक्यविभागपरत्वे न्यूनतापत्तेः। किन्तु अज्ञातज्ञापनरूपो विधिव्यापारः। तच्चाज्ञातज्ञापनं, यागादिस्वरूपस्य, दधिहोमादेः अङ्गाङ्गिभावसम्बन्वस्य, फलसम्बन्धस्य, कर्तव्यतायाश्चेति चतुर्थी भवति। तत्र केषुचिद्विधिवाक्येषु विधेर्व्यापारद्वयस्य त्रयस्य च समावेशेऽपि विधिव्यापारश्चतुर्विध एवेत्यस्य नानुपपत्तिः। नन्वेवमुत्पत्तिविधिव्यापारलक्षणे मात्रपदं व्यर्थम्। व्यापारान्तरस्य स्वरूपबोधकत्वाभावेन स्वरूपबोधकत्वमात्रस्य लक्षणत्वेऽप्यतिव्याप्तिविरहात्। सत्यं नातिव्याप्तिः। एवमेकव्यापारबोध्यस्य अपरव्यापाराबोध्यत्वादतिव्याप्त्यभावादेव विनियोगादिलक्षणेषु न मात्रशब्दोपादानं पश्यामः। तथापि सर्वेषु विधिव्यापारेषु प्रवर्तनारूपस्य विधेरेकरूपेण प्रतीयमानत्वात् उत्पत्तेरसङ्कीर्णरूपेणाप्रतीयमानतया अङ्गाङ्गिभावसम्बन्धः फलसम्बन्धः विलक्षणर्कमस्वरूपं इत्येवं बहुविधेषु ज्ञाप्यांशेषु अन्यपरिहाणेन विलक्षणकर्मस्वरूपमात्रे यो विधिव्यापारः स उत्पत्तिव्यापार इति विवेकसिद्धये तदुपादानम्। भाट्टालङ्कारकारोऽपि सर्वमिदं मनसि निधायातिसंग्रहेणाह मात्रशब्दो भिन्नक्रमः कर्मस्वरूपबोधकतामात्रं उत्पत्तिविधित्वमित्यर्थं इति।
अत्र च विधौ, कर्मणः करणत्वेनान्वयः। अग्निहोत्रहोमेनेष्टं भावयेदिति।
-
-
-
-
- विधिवाक्ये + + + + नायां साध्य + + + न्वय इति मतान्तरमनुषपन्नमित्यभिप्रायेणाह अत्रचेति। इदमापदेवीयप्रकरणानुसार्यवतरणम्। वस्तुतस्तु धात्वर्थस्य भावनायां साध्यत्वादिनाप्यन्वयोऽस्तीति विध्यन्तरप्रकरणे प्रतिपादयिष्यन् भावनाप्रकरणे यदुक्तं यागादिर्धात्वर्थः करणत्वेनान्वेतीति तदस्मिन्नेव विधौ द्रष्टव्यमिति ज्ञापयतीति वयमेतद्ग्रन्थानुसारेणावतरणमुचितं मन्यामहे।
-
-
-
** ननु यागस्य द्वे रूपे द्रव्यं देवताच। तथाच रूपाश्रवणे अग्निहोत्रं जुहोति इति कथमुत्पत्तिविधिः। अग्निहोत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न। रूपाश्रवणेऽप्यस्योत्पत्तिविधित्वाद्। अन्यथा रूपश्रवणाद् दध्ना जुहोतीत्ययमेवोत्पात्तविधिः स्याद्। तथा च अग्निहोत्रं जुहोतीति वाक्यमनर्थकं स्याद्॥**
अग्निहोत्रं जुहोतीति वाक्यस्योत्पत्तिविधित्वं न भवितुमर्हतीति शङ्केत नन्विति। आपदेवीयेऽन्यस्मिन् प्रकरणे उक्तमर्थमत्र घटयितुं शङ्कोपक्षेप इति ज्ञेयम्। यागस्येति। यागहोमयोः प्रक्षेपांशघटनाघटनाभ्यां भेदः रूपद्वयसापेक्षत्वन्तु समानम्। तेन यागस्य द्विरूपापेक्षत्वमादाय होमस्यात्रोत्पत्त्याक्षेपः कथमिति नाशङ्कनीयम्। रूपं स्वरूपनिरूपकम्। नन्वग्निहोत्रमिति पदेनाग्नेरुपादानात् रूपं श्रूयत एवेति शङ्कां परिहरति अग्नीति, तत्प्रख्यन्यायो नामधेयपरिच्छेदे निरूपयिष्यते, नामधेयत्वादिति, तथाच तेन पदेन देवताविधानं नास्तीति भावः। उत्सर्गोऽयं यत्र रूपं श्रूयते तत्र कर्मविधिरिति, अत्र तु तस्यापवाद इत्याशयेन समादधाति रूपाश्रवणेपीति, तथाचेति, सोमेनयजेतेतिवत् दध्नेतिवाक्यस्य विशिष्टविधित्वऽत्रोत्पन्नस्य होमस्य अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यनेन फलसम्बन्धे कृते उत्पत्तिप्रयोगाधिकारत्रयबोधस्य प्रकारान्तरेणैव सिद्धत्वात् तेष्वन्यतमस्याप्यबोधकत्वादिदं वाक्यंव्यर्थं स्यादिति। अत्र दूषणान्तरमप्यन्यत्र।
इत्युत्पत्तिविधिप्रकरणम्।
—————
** अंगप्रधान + + + + न्धबोधको + + + + योगविधिः। यथा दध्नां जुहोतीति। सहि तृतीयया प्रतिपन्नांगभावस्य दध्नो होमसम्बन्धं विधत्ते दध्ना होमंभावयेदिति। गुणविधौ च धात्वर्थस्य साध्यत्वेनान्वयः। क्वचिदाश्रयत्वेनापि। यथा दध्नन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेनेन्द्रियं भावयेत् तच्च किन्निष्टमित्याकांक्षायां सन्निधिप्राप्तहोम आश्रयत्वेनान्वेति॥**
विनियोगविधिं निरूपयति अङ्गेति। अङ्गप्रधानयोः सम्बन्धः अस्य प्रधानस्य इदमङ्गमिति अङ्गाङ्गिनोनिरूप्यनिरूपकभावः तद्बोधक इति। अङ्गस्य प्रधानेन सम्बन्धबोधक इति विग्रहः। प्रधानं अङ्गि। लक्षणसमन्वयं दर्शयति स हीति। प्रतिपन्नेति। प्रतिपन्नः ज्ञातः अङ्गभावः अङ्गत्वं यस्य तस्य \। दध्न इति। दध्नेति तृतीयया दध्नः करणत्वे प्रतीते करणस्य सर्वस्य परोद्देशप्रवृतपुरुषकृतिव्याप्यत्वनियमात् तादृशकृतिव्याप्यत्वरूपमङ्गत्वं दध्नः प्रतीतं भवति। एवमस्याङ्गत्वे प्रतीते किमङ्गीति अङ्गिन्यपेक्षिते समभिव्याहृतधात्वर्थस्य होमस्य अङ्गित्वमर्थात् सिद्ध्यति। एवमेकस्यं प्राधान्ये अन्यस्याङ्गत्वे च सति तयोः परस्परसम्बन्धोऽनेन वाक्येन क्रियत क्रियत इत्यर्थः। तदिदं विशदयितुं उदाहृतवाक्यजन्यं बोधमभिलषति दध्ना होममिति। भावयेदित्येवं विधत्ते बोधयतीत्यन्वयः। अत्र केचित् अङ्गप्रधानयोःसम्बन्धो नाम अङ्गाङ्गिभावः। तथाच अङ्गताबोधको विधिर्विनियोगविधिरित्यर्थं इति व्याचक्षते। तथा सत्यत्र आपदेवीये च तृतीयया प्रतिपन्नाङ्गभावस्य दध्न इत्युक्तिरसङ्गता स्यादिति ज्ञेयम्। नन्वेवं तृतीययां दध्नोऽङ्गत्वे अर्थाद्धोमस्य प्राधान्ये परस्परसमभिव्याहाररूपवाक्यप्रमाणेन परस्परसम्बन्धे च सिद्धे विधेरनपेक्षणाद्वैयर्थ्यमिति चेत् अवहितमनाः शृणु। विधेरभावे सत्यं दधिं होमाङ्गमिति सिद्ध्यति। होमाङ्गमिति होमसाधनं होमनिर्वर्तकमित्यर्थः। तत्र होमाय कस्मिंश्चिद्द्रव्येऽपेक्षिते तत्साधनत्वाद्दधि कदाचिदुपादीयताम्।
यवा + + + अपितु तत्तावन + + + साऽपि + + दाचिदुपादीयतामिति प्रसङ्गेः कथं वार्येत यदि दध्नैव होतव्यमिति विधिर्न नियमयति। विधिरहितपाठादेव तत्सिद्धिरिति चेत् अनालोच्यकथनमिदम्। विधिरहितपाठे ह्यनुवादमात्रं भवेत् न तस्य द्रव्यान्तरप्रतिषेधे शक्तिरिति। पाठवैयर्थ्यादेव नियमसिद्धिरिति चेत् विधिरेवायमङ्गीकृत इति।
पाण्डित्यख्यातये कुर्वन्ननपेक्षितविस्तरम्।
भाट्टालङ्कारकारोपि स्थूलदृश्वाऽत्र दृश्यते॥
ननु दध्ना होमं भावयेदिति भावनायां धात्वर्थस्य साध्यत्वेनान्वयकथनमनुपपन्नं पूर्वमर्थभावनाप्रकरणे धात्वर्थस्य करणत्वेनान्वयस्य प्रतिपादितत्वादित्याशङ्क्य यत्र धात्वर्थस्य विधिस्तत्रैव तस्य करणत्वेनान्वयो नान्यत्र। तदिदं पूर्वमेवोक्तं ‘अत्रचविधौ कर्मणः करणत्वेनान्वयः’ इति। यत्र तु गुणस्य विधिस्तत्र तस्यैव करणत्वेनान्वयात्करणान्तरस्यानपेक्षितत्वात् साध्यस्यापेक्षितत्वाच्च धात्वर्थस्य भाव्यत्वेनैवान्वय इति समाधानाभिप्रायेणाह गुणविधौचेति। प्रथममेकधाऽन्वयमुपपाद्य पश्चादन्यथाप्यन्वयोऽस्तीति प्रतिपादने शंकमानं शिष्यं प्रति न केबलं पूर्वोक्तकरणत्वातिरिक्तसाध्यत्वरूपेण क्वचिद्धात्वर्थस्य भावनायामन्वयोऽस्ति किन्तु करणत्वसाध्यत्वोभयातिरिक्तेनापि रूपेण क्वचिदस्तीत्याह क्वचिदिति। फलाय गुणविधिस्थल इत्यर्थः। उदाहरति अथेति। अस्य उत्तरताश्रयत्वेनान्वेतीत्यत्रान्वयः। अस्मिन्वाक्ये दध्नेत्यत्र प्रातिषदिकार्थस्य दध्नः प्रत्ययार्थे करणत्वेऽन्वयः दधिनिष्ठं करणत्वमिति। तस्यच भावनायां न गुणविधाविव निरूपकतासम्बन्धेनान्वयः किन्तु करणत्वसम्बन्धेन। तथाच दधिनिष्ठकरणत्वकरणिका इन्द्रियभाव्यका भावना विधिविषय इति बोध इति प्राचां मतेनोक्तं दधिकरणत्वेनेति। इन्द्रियं भावयेदित्यस्यानन्तरं इति बोधो भवतीति शेषं पूरयित्वा व्याख्येयम्। तच्च दधिकरणत्वञ्च। किन्निष्टं किन्निरूपितम्। किंप्रतियोगिकमिति पाठः साधीयान्। तस्याप्ययमेवार्थः। आश्रयत्वेन निरूपकत्वेन। होमनिरूपितं यद्दविनिष्ठं करणत्वं + + तत्करणिका + + + इति भावः॥ + + + प्रकृतिभूतधात्वर्यस्य प्रत्ययार्थभावनायामेवान्वयो व्युपत्तिसिद्धः। न दध्नेति पदान्तरोपात्ते कारक इत्याशङ्कायामुक्तं सन्निधिप्राप्त इति। प्राप्तः उपस्थितः। अयमाशयः। न वयं दधिकरणत्वस्य निरूपकापेक्षायां धातूपात्तो होमस्तत्र निरूपितत्वसम्बन्धेनान्वेतीति ब्रूमः येनान्वयाव्युत्पत्तिराशङ्क्येत। किन्तु अग्निहोत्रहोमसन्निधिपठितेऽस्मिन्वाक्ये प्रतीतस्य दधिकरणत्वस्य निरूपकापेक्षायां सन्निधिरेव होमं तत्त्वेन समर्पयति। तेन दध्नेति पदमेव सन्निधिपर्यालोचनासहितं अग्निहोत्रहोमनिरूपितं दधिनिष्ठं करण्वं बोधयति। यथा घटादिपदं प्रकरणदिवशात् घटविशेषं बोधयति तद्वदिति। ननु धात्वर्थस्य भावनायां करणत्वसाध्यत्वातिरिक्तरूपेणान्वयोऽस्तीति प्रतिपादयितव्ये सन्निधिप्राप्तार्थस्य दध्नेत्युपपदार्थे आश्रयत्वेनान्वयप्रतिपादनस्य का सङ्गतिरिति चेदुच्यते। अस्मिन्वाक्ये इन्द्रियरूपस्य भाव्यस्य दधिकरणत्वरूपस्य करणस्यच लब्धत्वाद्धातूपात्तो होमः भाव्यत्वेन करणत्वेन वा भावनायामन्वयमलभमानः सन्निधिवशात्प्रतीतेन आश्रयत्वसम्बन्धेन तत्रान्वीयमानोऽनुवादाभवति। तथाचानुवादत्वेपि धात्वर्थस्य करणत्वसाध्यत्वातिरिक्तेन रूपेण भावनान्वयो भवतीत्येतदत्रावश्यंभावीति तत्प्रदर्शन एव तात्पयार्न्न प्रकृतासङ्गतिः। अथवा दधिकरणत्वं किन्निरूपितमिति निरूपकाकांक्षायां सन्निधिना प्राप्तः निरूपकत्वेन दध्नेत्यत्र सम्बद्धो होम आश्रयत्वेनान्वेति धातूपात्तस्सन् भावनायामाश्रयत्वेनान्वेतीत्यर्थाङ्गीकारान्नासङ्गतिरिति।
** एतस्य विधेः सहकारिभूतानि षट्प्रमाणानि—श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि। एतत्सहकृतेन विधिनाऽङ्गत्वं परोद्देशप्रवृत्तंपुरुषकृतिसाध्यत्वरूपं पारार्थ्यापरपर्यायं ज्ञाप्यते॥**
एवमङ्गप्रधानसम्बन्धबोधकस्य विनियोगविधेरुदाहरणं वदता तृतीयया प्रतिपन्नांगभावस्य दध्न इति अङ्गताप्रतिपत्तिहेतुः तृतीयाविभक्तिरुक्ता। त+ +तृतीयाविभक्तिमात्रमा+ + + +णातहेतुरिति न मन्तव्यम्। किन्तु बहवोऽन्ये हेतवस्तत्र सन्तीत्यभिप्रेत्य तान् विभजते एतस्येति। सहकारीति। सह प्रधानकारणेन सह कुर्वन्ति निष्पादयन्ति कार्यमिति सहकारीणि उपकारकाणीत्यर्थः। इदमेवाङ्गं अस्य अस्यैवाङ्गं इदमिति बोधयन्निह विनियोगविधिः प्रथममिदमङ्ग इदमङ्गीति इदमङ्गीति प्रतिपत्तिमपेक्षते। तेन तादृशप्रतिपत्तिजनकानां श्रुत्यादिप्रमाणानां सहकारित्वं बोध्यम्। किमङ्गत्वं नामेति जिज्ञासायां तल्लक्षणं कथयन्नेव श्रुत्यादिषट्कस्यैवाङ्गत्वप्रमाणत्वे विधिरनपेक्षित इति न शङ्कितव्यम् उक्तरीत्यां श्रुताङ्गमात्रानुष्ठानस्य विधूरेभावेऽसिद्ध्याऽनुष्ठाननियामकत्वेन विधेरवश्यापेक्षितत्वादित्यभिप्रायेणाह एतेनेति। एतैः प्रमाणैः सहकृतेन। अङ्गत्वलक्षणमुच्यते परोद्देशेति। ननु सूत्रकारेणेदं लक्षणं नोक्तम्। शेषः परार्थत्वादिति पारार्थ्यस्यैव लक्षणत्वेन तत्र कथनादिति शङ्कायां परोद्देशप्रवृत्तकृतिव्याप्यत्वस्यैवायं पर्यायशब्दः पारार्थ्यमिति। तेन तदेवेदं लक्षणमित्यभिसन्धायोक्तं पारार्थ्यापरपर्यायमिति। अत्र विस्तरः परिभाषाव्याख्यानयोः॥
** अत्र निरपेक्षो रवः श्रुतिः॥ सा च त्रिविधा विधात्री अभिधात्री विनियोक्त्री च॥ तत्र अभिधात्री लिङाद्यात्मिका। द्वितीया व्रीह्यादिश्रुतिः। यस्य च शब्दस्य श्रवणादेव संबंधः प्रतीयते सा विनियोक्त्री। सा त्रिविधा। विभक्तिरूपा समानाभिधानरूपा एकपदरूपा चेति॥ तत्र विभक्तिश्रुत्या अङ्गत्वं यथा—तृतीयाश्रुत्या ब्रीहीणां यागाङ्गत्वम्॥ तदपि पुरोडाशप्रकृतितया। यथा पशोर्हृदयादिरूपहविःप्रकृतितया यागाङ्गत्वम्॥**
श्रुतिं निरूपयति तत्रेति। रवः शब्दः। रु शब्द इति धातोः अण्प्रत्ययात्। पदान्तरसमभिव्याहृतपदरूपस्य वाक्यस्य समाख्यायाश्च शब्दत्वादतिप्रसंग इति निरपेक्ष इति विशेषणम्। अङ्गताबोधकपदान्तरनिरपेक्षः सन् अङ्गताबोधको + + + शब्दः स + + + + + । तथाच वाक्य + + ख्यायाश्च पूर्वपूर्वप्रमाणकल्पनयैव अङ्गताबोधकत्वान्नैरपेक्ष्यं नास्तीति नातप्रसंगः। इममङ्गतावाचकशब्दंविना अन्ययोरपि शब्दयोः शास्त्रकारास्तत्रतत्र श्रुतिव्यवहारं कुर्वन्ति। ताभ्यां प्रकृतश्रुतेर्विवेकं कर्तुं प्रकृताप्रकृतसाधारण्येन श्रुतिं विभजते सेति। विधात्री प्रवर्तनाबोधिका। अभिधात्री शक्त्याऽर्थबोधिका। विनियोक्त्री अङ्गताबोधिका। ननु विधात्र्या विनियोक्त्र्याश्च शक्त्या स्वस्वार्थबोधकत्वेन अभिधात्रीत्वस्यापि सत्त्वात् त्रेधा विभागो नोपपन्न इति चेन्न। ब्राह्मणपरिव्राजकन्यायेन अभिधात्रीति प्रवर्तनांगतातिरिक्तार्थबोधकत्वस्य विवक्षितत्वात्। द्वितीयेति। ब्रीहीन् प्रोक्षतीत्यादौ ब्रीह्यादिरूपः शब्दः अभिधात्री श्रुतिरित्यर्थः। नमे श्रुती प्रकृते विवक्षिते। किन्तु विनियोक्त्रीत्युक्का तृतीयैव। निरपेक्षो रव इत्युक्तलक्षणशालिन्या एव विनियोक्त्रीत्वादित्यभिप्रायेणाह यस्य चेति। श्रवणादेव न वाक्यादिप्रमाणेष्विव अन्यकल्पनया विलम्बेन संबन्धः अङ्गाङ्गिभावपर्यवसायी साध्यत्वसाधनत्वादिरूपः। अनन्तदेवस्तु अत्र अन्यथा व्यचख्यौ। तदनुसारेण निरपेक्षो रव इति विधात्र्यादीनां तिसृणामपि श्रुतीनां सामान्यलक्षणमिति तत एवावगन्तव्यम्। विनियोक्त्रीं विभजते सेति। एकाभिधानैकपदश्रुतिस्वरूपं सर्वमेव शब्दभावनाप्रकरणेऽस्माभिर्विवृतम्। अङ्गत्वं यथेति। तथा दर्शयाम इति शेषः। प्रथमं तृतीयाविभक्त्या अङ्गत्वं दर्शयति व्रीहिभिरिति। तृतीयाश्रुत्या यागांगत्वं यत्र तत्र क्वचित् तस्याङ्गस्य प्रधानोपकारकत्वं साक्षाद्भवति। यथा दध्ना जुहोतीति पूर्वोदाहृतस्थले दध्नो होमोपकारकत्वम्। क्वचित्पुनः परंपरया। तदिदं प्रकृतोदाहरणे द्रष्टव्यमित्यभिप्रायेणाह तदपीति। यागाङ्गत्वप्रयुक्तं यागोपकारकत्वमपीत्यर्थः। विस्तरः परिभाषाव्याख्यानयोः सन्निपत्योपकारकांगत्वप्रकरणे। ननु साक्षादुपकारकत्वं परित्यज्य परंपरयोपकारकत्वाङ्गीकारोऽनुचित इति न शङ्कितव्यम्। प्रभाणानुसारेण सर्वस्याप्यङ्गीकर्तव्यत्वादित्यभिप्रेत्य परंपरयोपकारकत्वे स्थलान्तरमुदाहृरति यथेति। अत्र+ + + + + + देवीये। हविः।
** अरुणया एकहायन्या गवासोमं क्रीणातीत्यास्मिन्वाक्येअरुणस्यापि तृतीयया श्रुत्या क्रयाङ्गत्वम्। तदापे गोरूपद्रव्यपारीच्छेदद्वारा नतु साक्षात्। अमूर्तत्वाद्। व्रीहीन्प्रोक्षतति प्रोक्षणस्य व्रीह्यङ्गत्वं द्वितीयाश्रुत्या। तच्च प्रोक्षणं न व्रीहिस्वरूपार्थन्। तस्य तेन विनाप्युपपत्तेः। किन्तु अपूर्वसाधनत्वप्रयुक्तम्। व्रीहीनप्रोक्ष्य यागानुष्ठानेऽपूर्वानुपपत्तेः॥ एवं सर्वेष्वङ्गेषु अपूर्वप्रयुक्तमङ्गत्वं बोध्यम्। एवं इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त इत्यत्र द्वितीयया श्रुत्या मन्त्रस्याङ्गत्वम्। यदाहवनीये जुहोतीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या। एवमन्योऽपि विभाक्तेश्रुत्या विनियोगो बोध्यः॥**
एवं तृतीयाश्रुतिकृतं अङ्गत्वं द्रव्यस्य दर्शितम्। सम्प्रति गुणस्य दर्शयति अरुणयेति। अरुणस्यापि आरुण्यगुणस्यापि। अत्रापि परंपरया अङ्गत्वमित्याह् तदपीति। अयमाशयः। हिरण्येन क्रीणाति वाससा क्रीणातीत्यादिना विहितं हिरण्यवासः प्रभृतिकं आनयि सोमविक्रेत्रे दत्वा सोमक्रयः क्रियते। ततश्च क्रयेाद्देशप्रवृत्तदानादिक्रियाव्याप्यत्वात् हिरण्यवातः प्रभृतिकं सोमक्रयाङ्गं भवति। तद्वत् अरुणया क्रीणातीति विहितमारुण्यं आनीय दातुं न शक्यम्। हिरण्यादिवत् मूर्तिरहितत्वेन हस्तेनोपादातुमशक्यत्वात्। ततश्च तस्य क्रयाङ्गत्वं न साक्षात् भवति। किन्तु अस्मिन्नेव वाक्य एकहायनीरूपस्य मूर्तगोद्रव्यस्य विहितत्वात् तस्य परिच्छेदकगुणाकांक्षत्वात् तत्रायं अरुणगुणः परिच्छेदकत्वेनान्वेति। अमूर्तस्यापि हि परिच्छेदकत्वं भवति। परिच्छेदो नाम इतरव्यावृत्तिः। अरुणां गां दृष्ट्वा अनया क्रयः साध्यः नान्येयति हि व्यावृत्तिर्जायते। तस्मात् क्रयसाधनीभूतैकहायनीरूपद्रव्यपरिच्छेदकरणद्वारा क्रयांगमरुणगुणो न साक्षादिति। नच अरुणयेत्यत्र अरुणयापदेन विशेष्यनिघ्नेन आरुणागुणवतो द्रव्यस्यैवा+ + + +त् तस्यैव तृतीय, या अङ्गत्वबोधात् आरुण्यगुणस्याङ्गत्वं कृत्वा तस्य साक्षात्परंपराविचारो नोपपद्यत इति शंक्यम्। आकृत्यधिकरणन्यायेन अरुणादिपदानां गुणमात्रवाचित्वेन द्रव्यवाचित्वाभावात्। सिद्धान्तरीत्या लक्षणां विनैव विवक्षितार्थोपपत्तेः लक्षणया प्रकृते द्रव्यपरत्वाभावाच्चेत्यलम्। अथ द्वितीयाविभक्तिरूपश्रुतिकृतमङ्गत्वं दर्शयति व्रीहीन प्रोक्षतीति। ननु प्रथमं द्वितीयाकृतमङ्गत्वं उक्त्वा पश्चात् तृतीयाकृतं वक्तुमुचितम्। सत्यम्। किन्तु अत्र व्रीहीणामुद्देश्यत्वात् मानान्तरप्राप्तस्यैव उद्देश्यत्वेन मानान्तरप्राप्तिप्रदर्शनाय प्रथमं व्रीहिविधिवाक्यप्रदर्शनमिति। तदुक्तमनन्तदेवेन ‘तृतीयावगतव्रीहिविनियोगोपजीवनेन द्वितीयाश्रुत्या प्रोक्षणविनियोग इत्याह’ इति। उद्देश्यतावच्छेदकं व्युत्पादयितुमाह तच्चेति। न व्रीहिस्वरूपार्थं न व्रीहित्वावच्छिन्ननिष्पत्त्यर्थं व्रीहित्वावच्छिन्नोद्देशेन न विधीयत इत्यर्थः। कस्मादित्यत्राह तस्येति। व्रीहिस्वरूपस्य व्रीहित्वावच्छिन्नस्येति यावत्। तेन विना प्रोक्षणाभावेपीत्यर्थः। उपपत्तेः निष्पन्नत्वात्। अनिष्पन्नस्य हि साध्यत्वेन उद्देश्यत्वं भवति। व्रीहित्वावच्छिन्नद्रव्यं तु प्रोक्षणाभावेऽपि प्रागेव स्वयं सिद्धमिति न तस्य उद्देश्यत्वं भवितुमर्हतीति व्रीहीनिति शब्दोपात्तमपि व्रीहित्वं नोद्देश्यतावच्छेदकमिति भावः। किमर्थं तर्हि प्रोक्षणमित्यत्राह किन्त्विति। व्रीहीणामपूर्वसाधनत्वसिद्ध्यै प्रोक्षणमिति भावः। तथाच अपूर्वसाधनत्वावच्छिन्नस्य पूर्वमसिद्धत्वात् तदुद्देशेन प्रोक्षणं विधीयत इति अपूर्वसाधनत्वमिह उद्देश्यतावच्छेदकमिति भावः। प्रोक्षणस्य व्रीहिनिष्ठापूर्वसाधनत्वार्थत्वमुपपादयति व्रीहीनिति। अत्र विस्तरोऽक्षरार्थेऽपूर्वविधिप्रकरणे। तदिदमपूर्वसाधनत्वावच्छिन्नोद्देश्यकत्वं प्रोक्षणादिवददृष्टार्थेषु, अवघातादिवत् दृष्टार्थेषु विनियुक्तसंस्कारेषु विनियोक्ष्यमाणसंस्कारेषु चेति सर्वत्रावगन्तव्यमित्याशयेनाह एवमिति। श्रुत्याः दिप्रमाणषट्कावगम्येषु सर्वेषु अङ्गेष्विति चात्र अभिप्रायो बोध्यः। द्वि+ + +प्रयाश्रुतिकृत एव + + + +हरणान्तरमाहएवमेति। ननु किमर्थमिदमुदाहरणान्तरमिति चेत् इमामगृभ्णन्नित्यत्र वाक्यकृतमङ्गत्वमिति केचिद्वदन्ति। तन्निराकरणाय श्रतिकृतमेवात्राङ्गत्वमिति बोधयितुमस्येहोदाहरणमिति स्पष्टमापदेवीये। सप्तमीश्रुतिकृतमङ्गत्वमुदाहरति एवमाहवनीय इति। जुहोतीतीति। इत्यास्मिन्वाक्ये स्थितं यत् होमाङ्गत्वं तत् सप्तमीश्रुत्येत्यन्वयः। एवं द्वितीयातृतीयासप्तमीरूपश्रुतित्रयेण कृतमङ्गत्वमुदाहृतम्। अथ विभक्तिरूपश्रुतिप्रकरणमुपसंहरन्, चतुर्थीपञ्चमीषष्ठीति इमा अपि विभक्तयः श्रुतयो भवन्ति। तत्कृतमङ्गत्वं विस्तरभयात् नास्माभिरुदाह्रियते। ग्रन्थान्तरेषु तु ज्ञेयमित्याह एवमन्योऽपीति। क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीत्यत्र चतुर्थीश्रुत्या दण्डप्रदानस्य मैत्रावरुगाङ्गत्वम्। चात्वालान्मृदमाहरतीत्यत्र पञ्चमीश्रुत्या चात्वालस्य मृदाहरणक्रियाङ्गत्वम्। दध्नेन्द्रियकामस्य जुहुयादित्यत्र पष्ठीश्रुत्या दध्न इन्द्रियाङ्गत्वम्। अनैयव यजमानस्य याज्येत्यत्र यजमानस्य याज्याङ्गत्वमित्येवं चतुर्थ्यादिविभक्तिकृतोऽपि विभक्तिश्रुतिप्रमाणको विनियोगो ज्ञेय इत्यर्थः। अत्र द्वितीयाविभक्त्यादिभेदेन षड्विधायां विभक्तिश्रुतौ काचित् शेषत्वस्यैव साक्षात् बोधिका। यथोदाहृता तृतीया पञ्चमी सप्तमी च। काचिदङ्गित्वबोधनद्वाराऽङ्गत्वबोधिका। यथा द्वितीया चतुर्थी च। काचिदुभयथाऽपि। यथा षष्ठीत्यपि बोध्यम्।
पशुना यजेतेत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्। यजेतेत्याख्याताभिहितसङ्ख्यायाः आर्थीभावनाङ्गत्वं समानाभिधानश्रुतेः। एकपदश्रुत्या च यागाङ्गत्वम्। न च अमूर्तायास्तस्याः कथं भावनाङ्गत्वमिति वाच्यम्। कर्तृपरिच्छेदद्वारा तदुपपत्तेः। कर्ता च आक्षेपलभ्यः। आख्यातेन हि भावनोच्यते॥ सा च कर्तारं विना अनुपपन्नेति॥
एवं विभक्तिश्रुत्याऽङ्गत्वमुक्तम्। संप्रति एकाभिधानरूपयाऽऽह पशुनेति। कारकाङ्गत्वमिति। कारकं तृतीयाविभक्त्युपात्तं करणत्वं तदङ्गत्वं तत्र विशेषणत्वम्। नतु पूर्ववत् तदु+प्रवृत्तकृतिसाध्यत् + + + बोध्यम्। अत्र बोधकारः अक्षरार्थे वाक्यभेदान्नामधेयप्रकरणे दृष्टव्यः। एवं पशुना यजेतेति विधिवाक्ये पशुनेत्युपपदे समानाभिधानश्रुतिदर्शिता। अथ यजेतेत्याख्यातेऽपीयमस्तीत्युदाहरति यजतेति। भावनाङ्गत्वमिति। अत्रापि विशेषणत्वरूपं गौणमङ्गत्वम्। समानाभिधानश्रुतेरिति पञ्चमी। अत्रैव पदश्रुत्या अङ्गत्वं दर्शयति। एकपदश्रुत्या चेति। आख्याताभिहितसंख्याया इत्यनुषङ्गेण बोध्यम्। अत्र तु मुख्यमेवाङ्गत्वम्।
विभक्तासु तिसृषु विनियोजकश्रुतिषु तृतीयाया एकपदरूपाया उदाहरणपरस्यास्य एकपदेत्यादिग्रन्थस्य अनन्तदवेन आख्यातस्य कर्तृवाचित्वेऽपि संख्याया यागाङ्गत्वमेवेत्येतदुपपादनपरतया कृतमवतरणमयुक्तमिति वेदितव्यम्। तदनुगुणं पदमपि नात्र किञ्चिदस्तीति। ननु प्रबलया समानाभिधानश्रुत्या भावनाङ्गत्वेनावधारितायाः संख्यायाः कथं दुर्बलया पदश्रुत्या यागाङ्गत्वमपि भवितुमर्हति। अन्यथा पशुनेत्यत्रापि कारकाङ्गत्वेनावधारितयोरेकत्वपुंस्त्वयोः पदश्रुत्या पश्वङ्गत्वमपि स्यादिति चेत् सत्यम्। आख्यातोपात्ता संख्या किं यागे अन्वेति उत भावनायामिति संशये समानाभिधानश्रुतेः बलीयस्त्वात् भावनायामेव अन्वेति। पशुयागकरणिका एकत्ववती भावना विधिविषय इति। एवं समानाभिधानश्रुत्या भावनायाः संख्यां प्रति विशेष्यत्वेऽपि अङ्गित्वं न भवति। न हि अर्थभावना अङ्गोपकारमपेक्षते। फलं प्रत्यकरणत्वात्। फलकरणभूतस्य यागस्य हि अङ्गापेक्षा। तस्मात् अन्वयबोधने बाधितापि पदश्रुतिः पश्चात् अङ्गत्वबोधने व्याप्रियत एवति न तद्विषये पदश्रुतेर्बाध इति। नच एकत्वपुंस्त्वयोरपि पश्चात् पश्वंगत्वं पदश्रुत्या स्यादिति वाच्यम्। एकस्मिन् करणकारके अन्वितानां पशोरेकत्वपुंस्त्वयोश्च परस्परं अङ्गाङ्गिभावे प्रमाणाभावादिति दिक्। अमूर्तायास्तंख्यायाः कथं यागाङ्गत्वमिति नाशंक्यम्। आरुण्यवत् द्रव्यपरिच्छेदद्वारा तदुपपत्तेरित्याह न चेति।
अथात्रामूर्त + + + + याङ्गत्वं नोपपद्यत इति न युक्तं वक्तुम्। अमूर्ताया अपि अवघातयागादिक्रियायास्तत्तदङ्गत्वदर्शनात्। नहि मूर्तिमत्यः क्रिया भवन्तीति चेदुच्यते। सिद्धत्वे सत्यमूर्तत्वस्य विवक्षितत्वात्। अङ्गानि हि सिद्धसाध्यभेदेन द्विविधानीति वक्ष्यते। तत्र क्रियारूपस्य साध्यस्य अमूर्तस्यापि पुरुषेणोत्पाद्यत्वात् परोद्देशप्रवृत्तकृतिसाध्यत्वरूपाङ्गत्वस्य तत्र न काचिदनुपपत्तिः। सिद्धस्य तु दधिसोमादेर्न पुरुषकृतिसाध्यत्वमिति न तद्रूपमङ्गत्वं संभवति। अपितु होमाद्युद्देशेन उपादीयमानत्वेन पुरुषकृतिव्याप्यत्वात् तदङ्गत्वं भवति। इदन्तु उपादानविषयत्वं आरुण्यादिगुणस्य सिद्धस्यामूर्तस्य च न संभवतीत्यङ्गत्वानुपपत्तिशङ्का युक्तेति। अत्रेदं बोद्ध्यम्। सर्वेषु गुणजातिविधिषु एवममूर्तत्वादङ्गत्वानुपपत्तिशंका, परिच्छेदसाधनत्वात्तदुपपत्तिरिति परिहारश्च समानौ। तत्र ‘तस्य द्वादशशतम्’ ‘एकादश प्रयाजान्’ इत्यादिषु अङ्गिन एवं उद्देश्यस्य परिच्छेदः। क्रये यागे च तदङ्गद्रव्यपरिच्छेद इति विशेषः। तत्र प्रकृते आरुण्यस्य क्रयेऽसंभवात् तदङ्गद्रव्यपरिच्छेदकत्वावश्यंभावेऽपि आख्यातोपात्ताया एकत्वसंख्यायाः साक्षादङ्गभूतयागपरिच्छेदकत्वस्य ‘तिस्र आहुतीः’ इत्यादाविव संभवात् तदङ्गकर्तृपरिच्छेदकत्वं कथमुच्यत इति यद्यपि शंका जायते। तथापि अनेन कर्त्राख्यातेनोपात्तायाः संख्यायाः कर्त्रितरपरिच्छेदकत्वस्याव्युत्पन्नत्वात्तथा न भवतीति।
ननु आरुण्यस्य परिच्छेद्याकांक्षायां तस्मिन्नेव वाक्ये क्रयाङ्गभूतस्य गोद्रव्यस्य एकहायनीपदेन उपस्थितत्वात्तत्परिच्छेदकत्वं सिद्ध्यति। अत्रतु यागाङ्गभूतस्य कर्तुरनुपात्तत्वात् संख्याया न तत्परिच्छेदकत्वलाभः। न हि पशुनेति पदेन कर्तुरुपस्थितिः शक्यशंका। यजेतेत्यत्रापि प्रकृत्या यागस्य, प्रत्ययेन च आख्यातत्वेन अर्थभावनायाः, लिङ्त्वेन शब्दभाक्तायाः, एकवचनत्वेन एकत्वसंख्यायाश्चोपस्थितिरिति कर्तुरुपस्थापकं न किञ्चिदत्र वत+ + तस्मात् कर्तृपार+ + +नारा यागाङ्गत्वोपप+ मनुपपन्नमित्यत्राह कर्ता चेति। शब्दनिष्ठशक्तिलक्षणावत् अर्थनिष्ठः अर्थान्तरोपस्थापनशक्तिविशेष आक्षेपः तेनोपस्थित इत्यर्थः। कस्तर्हि अर्थः अत्र कर्तुराक्षेपक इत्याशंकायां आक्षेपकमर्थं वदन् तस्याक्षेपकत्वमुपपादयति आख्यातेन हीति। आख्यातेनोच्यमाना भावना कर्तुराक्षेपिका। पुरुपमन्तरा प्रवृत्तिरूपाया भावनाया अनुपपन्नत्वात् तस्याः कर्त्राक्षेपकत्वमवश्यंभावीत्यर्थः। तथाच पश्वादिविशिष्टयागकरणिका एकत्ववती यत्किञ्चित्कर्तृका भावना विधिविषय इति बोधात् आरुण्यस्य एकहायनीपरिच्छेदकत्ववत् एकत्वस्य कर्तृपरिच्छदकत्वं सुलभमिति भावः। अनुपपन्नेति कर्ताऽऽक्षेपलभ्य इत्यन्वयः। अत्राप्यनन्तदेवकृतमवतरणं असमीचीनमिति वेदितव्यम्।
बहुज्ञत्वप्रकटनकौतूहलवंशवदः।
बुधोऽपि ग्रन्थपङ्क्तीनां भावेषु स्थूलदर्शनः॥
सेयं श्रुतिर्लिङ्गादिभ्यः प्रबला॥ लिङ्गादिषु न प्रत्यक्षो विनियोजकः शब्दोऽस्ति। किन्तु कल्प्यः॥ यावच्च तैर्विनियोजकः कल्प्यते तावत् प्रत्यक्षया श्रुत्या विनियोगस्य कृतत्वेन तेषां कल्पकत्वशक्तेर्व्याहतत्वात्॥ अत एव एैन्द्रया लिङ्गान्नेन्द्रोपस्थानार्थत्वम्॥ किन्तु एैन्द्रया गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाश्रुत्या गार्हपत्योपस्थानार्थत्वम्॥
एवं निरूपिताया अङ्गत्वप्रमाणभूतायाः श्रुतेस्सति विरोधे लिङ्गादिभ्यः पञ्चभ्यः प्रमाणान्तरेभ्यः प्राबल्यमाह सेयमिति। सा शास्त्रप्रसिद्धा। इयं उक्तविधा। प्राबल्ये हेतुमाह लिङ्गादिष्विति। व्याहतत्वादिति। प्रबलेति पूर्वेणान्वयः। तेषां लिङ्गादीनाम् कल्पकत्वशक्तेः अङ्गत्वबोधकश्रुतिकल्पनसामर्थ्यस्य। लिङ्गविरोधे श्रुतिप्राबल्यमुदाहरति अत एवेति। श्रुतेरितरापेक्षया प्राबल्यादेवेत्यर्थः। द्वितीयाश्रुत्येति। ऐन्द्र्येति तृतीयाश्रुत्या चेति बोध्यम्। अत्र सर्वत्र विस्तरोऽक्षरार्थे। यद्यपि षडपि प्रमाणानि निरूप्य तदनन्तरं मूलग्र + + या बलाबलविचार + + + + युक्तन्। न हि लिङ्ग+ + + कमजानतः तेन सह श्रुतर्विरोधप्राबल्यादिविचारो युज्यते। तथापि तत्तत्प्रमाणनिरूपणान्ते तस्य तस्य इतरापेक्षया विद्यमानस्य प्राबल्यस्य कथने लाघवमित्यभिमानेन एवं क्रियत इति द्रष्टव्यम्।
** शब्दसामर्थ्यं लिङ्गम्। यथाऽऽहुः ‘सामर्थ्यं सर्वशब्दानां लिङ्गमित्याभिधयीते’॥ सामर्थ्यं रूढिरेव॥ तेन समाख्यातो नाभेदः॥ यौगिकशब्दसमाख्यातो रूढ्यात्मकलिङ्गशब्दस्य भिन्नत्वात्॥ तेन बर्हिर्देवसदनं दामीति मन्त्रस्य कुशलवनाङ्गत्वम्। नतु उलपादिलवनाङ्गत्वम्। तस्य बर्हिर्दामीति लिङ्गातल्लवनं प्रकाशायितुं समर्थत्वात्॥ एवमन्यत्रापि लिङ्गाद्विनियोगो द्रष्टव्यः। तदिदं लिङ्गं वाक्यादिभ्यो बलवत्। अत एव ज्योनन्ते सदनं कृणोमि’ इति मन्त्रस्य पुरोडाश सदनकरणाङ्गत्वम्। सदनं कृणोमीति लिङ्गात्। नतु वाक्यात्सादनाङ्गत्वम्।**
लिङ्गं निरूपयति शब्देति। शब्दस्य सामर्थ्यं अर्थबोधनानुकूला शक्तिः। यद्यप्यत्र सामर्थ्यं लिङ्गमित्येतावन्मात्रं वक्तव्यम्। अत एव आपदेवादिभिः एवमेवोच्यते। अन्यथा अर्थगतसामर्थ्यरूपस्य लिङ्गस्यासंग्रहापत्तेः। अत एवचात्र, आपदेवादिभिः ‘सामर्थ्यं सर्वभावानां लिङ्गं’ इत्युदात्दृतस्य श्लोकस्य सर्वशब्दानामिति पाठान्तरेणोदाहरणमप्यसंगतम्। तथापि शब्दसामर्थ्यरूपत्वेनेह लिङ्गं व्याचक्षाणस्य ग्रन्थकारस्यायमाशयः। सत्यं वस्तुतो लिङ्गं द्विविधं शब्दगतं अर्थगतञ्चेति। तथाऽप्यर्थगतस्य सूत्रकारेण ‘अर्थाद्वा कल्पनैकदेशत्वात्’ इति प्रथमाध्याये निरूपितत्वात् शब्दगतमात्रस्य च ‘अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्’ इति तृतीयेऽङ्गाध्याये निरूपितत्वात् अस्माभिरपि तदनुसारेण शब्दगतमात्रमिहाङ्गप्रस्तावे वक्तमुचितम् नान्यदिति। तदत्रार्थगतस्य सामर्थ्यस्य लिङ्गत्वं ग्रन्थकारानभिमतमिति न मन्तव्यम्। तथाच सोमनाथग्रन्थः—‘मन्त्राधिकरणसिद्धं लिङ्गस्य विनियोजकत्वमित्युक्ते मन्त्राधिकरणेऽर्थप्रकाशनसामर्थ्यस्य शब्दगतस्य विनियोजकत्वसिद्धेः शब्दसामर्थ्यमेव लिङ्गमिति + + + + स्यात्। तद्व्युदाहरणमाह लिङ्गं सामर्थ्यमिति। शब्दार्थोभयसाधारण्येन सामर्थ्यमात्रमेव लिङ्गम्। तथाप्यत्र क्रियमाणविशेषविचारस्य शब्दसामर्थ्यरूपलिङ्गविनियोगविशेषरूपत्वात् तदुपयुक्ततया शब्दगतस्य सामर्थ्यस्य विनियोजकत्वं मन्त्राधिकरणे सिद्धमित्युक्तम्। नतु तावता तदेव लिङ्गमिति भ्रमः कर्तव्य इति भावः। अर्थसामर्थ्यरूपस्य च लिङ्गस्य विनियोजकत्वं अर्थाद्वाकल्पनेत्यधिकरणे वर्णितम्’ इति। ननु यदि शब्दसामर्थ्यं लिङ्गं तर्हि वक्ष्यमाणायाः समाख्याया अस्य लिङ्गस्य भेदो न भवति। समाख्या हि वाचकशब्द एव। वाचक इति च अर्थबोधनानुकूलतामर्थ्यवानुच्यते। तथाच शब्दनिष्टं सामर्थ्यं लिङ्ग सामर्थ्यमान् शब्दस्समाख्येत्युक्ते विशेषणविशेष्यभावविपर्यासमन्तरा न कश्चिद्वस्तुतो भेदो दृश्यत इत्याशंक्याह सामर्थ्यं रूढिरेवेति। एवकारेण योगो व्यवच्छिद्यते। समुदायशक्तिः रूढिः। अवयवशक्तिर्योगः। तेनेति। शब्दसामर्थ्यमिति सामर्थ्यस्य रूढिमात्ररूपत्वस्य विवक्षितत्वादित्यर्थः। अभेदाभावमेवोपपादयति यौगिकेति। यौगिकशब्दरूपायाः समाख्याया इत्यर्थः। रूढीति। रूढ्यात्मकं लिङ्गं तद्वान् शब्दः रूढ्यामकलिङ्गशब्द इति। नन्वेवमपि अभिधात्रीश्रुतेर्लिङ्गस्य भेदो न स्यात्। व्रीह्यादिपदानां रूढशब्दत्वादिति चेन्न। शब्दसामर्थ्यमित्यत्र मन्त्रशब्दस्य विवक्षितत्वात्। वस्तुतस्तु लिङ्गभूतस्य शब्दसामर्थ्यस्य रूढिरूपत्वनियमो नास्ति। ‘स्योनन्ते सदनं कृणोमि’ इत्यत्र सदनशब्दस्य षढ्ल्—धातोरधिकरणल्युटा निष्पन्नस्य पाचकादिपदवत् यौगिकत्वेन रूढ्यभावात्। एवं हविष्कृदेहीत्यादावपि। तस्मादङ्गभूतशब्दनिष्ठं अङ्गिबोधनानुकूलसामर्थ्यं योगरूपं रूढिरूपं वा लिङ्गं; अङ्गभूतो योऽर्थः अध्वर्य्वादिः तद्बोधनानुकूलसामर्थ्यवान् यौगिकशब्दः आध्वर्यवादिः समाख्यति भेदो बोध्यः। लिङ्गकृतमङ्गत्वमुदाहरति तेनेति। लिङ्गेनेत्यर्थः। कुशेति। कुशानां बर्हिषां लवनं तदङ्गत्वमिति। कुशलवनाङ्गत्वं लि+ +रादेवेत्येतत् द्रढयितु+ + +नाविनान्याङ्गत्वं नास्ती+ +ह नत्विति। उलपाः तृणविशेषाः यज्ञेऽपि बर्हिर्वदुपयुक्ताः कुशलवने अस्य मन्त्रस्य लिङ्गसत्त्वमुपपादयति तस्येति। उक्तस्य मन्त्रस्येत्यर्थः। बर्हिः पदस्य कुशप्रकाशनसामर्थ्यं दामीति पदस्य लवनप्रकाशनसामर्थ्यमित्युभयोपादानम्। तल्लवनं कुशलवनम् ।समर्थत्वादिति। एतेनैवोलपादिलवनं प्रकाशयितुमसमर्थत्वादित्यप्युक्तं वेदितव्यम्। आपदेवीये पूषानुमन्त्रणमन्त्राणामपि लिङ्गाद्विनियोगः प्रदर्शितः। स इह विस्तरभयान्न प्रदश्यते। तत्रैव त्वनुसंधेय इत्यभिप्रेत्याह एवामिति। अन्यत्रापि पूषानुमन्त्रणमन्त्रादावपीत्यर्थः।
ननु आपदेवेन ‘तच्च लिङ्गं द्विविधं सामान्यसम्बन्धबोधकप्रमाणान्तरसापेक्षं तदनपेक्षञ्चेति। आद्यं बर्हिर्देवसदनं दामीति मन्त्रः पूषानुमन्त्रणमन्त्रा इत्येवमादेर्विनियोजकम्। द्वितीयं अर्थज्ञानस्य कर्मानुष्ठाने विनियोजकम्।’ इति निरूपणात् अत्रापि ग्रन्थकारेण प्रथमं बर्हिर्मन्त्रस्य लिङ्गेन विनियोगे उक्ते अर्थज्ञानस्य कर्मानुष्ठानविनियोग एव एवमन्यत्रापीत्यत्राभिसंहित इति युक्तम्। अन्यत्रापि अर्थज्ञानादावपीत्यर्थादिति चेन्न। आपदेवेन हि शब्दगतार्थगतोभयलिङ्गसाधारण्येन सामर्थ्यं लिङ्गमिति प्रथमं लक्षितत्वात् अर्थज्ञानरूपवस्तुगतसामर्थ्यस्याप्युदाहरणं तत्र युज्यते। अत्र तु शब्दगतसामर्थ्यस्यैव लिङ्गत्वेन विवक्षितत्वात् अर्थगतनिरूपणस्याविवक्षितत्वात् तदुदाहरणाभिप्रायो नोपपद्यत इति। ननु आपदेवस्यापि अर्थगतसामर्थ्यनिरूपणमविवक्षितमेव। न च कथं तर्हि लिङ्गस्य द्वेधा विभाग इति वाच्यम्। मिश्रैर्लिङ्गक्रमसमाख्यानाधिकरणे एवं लिङ्गविभागस्य दर्शितत्वात् तदनुयायिनाऽऽपदेवेन एवं विभागः क्रियते। तत्र यद्यप्यर्थज्ञानमर्थ एव न शब्दः तथापि तद्गतं लिङ्गमर्थगतलिङ्गत्वेन नापदेवस्य विवक्षितम्। सम्बन्धसामान्यबोधकप्रमाणान्तरसापेक्षं तदनपेक्षंचेत्यन्यथैव विभागकरणात्। अन्यथा हि शब्दगतमर्थगतञ्चेत्यव विभागमकरिष्यत्। एवमकरणात्तु एतद्ग्रन्थकारवदेव प्रथमाध्यायान्ते निरूपितस्यार्थगतसामर्थ्यस्य इह निरूपणे तात्पर्याभावोऽवसीयत इति चेन्नैतदेवम्। आपदेवकृतविभागोऽपि शब्दगतमर्थगतं चेति विभागतुल्य एवेति परिष्कार एवेदं संग्रहेणोक्तमिति न दूरं गम्यते।
लिङ्गस्य तदुत्तरप्रमाणेभ्यः प्राबल्यमुक्त्वा वाक्यात्प्राबल्यमुदाहरति तदिदमिति। कृणोमीति तैत्तिरीया अधीयते॥
** समभिव्याहारो वाक्यम्। समभिव्याहारश्च साध्यत्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम्। यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीति। अत्र पर्णताजुह्वोः समभिव्याहारादेव पर्णताया जुह्वंगत्वम्। न चानर्थक्यम् अन्यथाऽपि जुह्वाः सिद्धत्वादिति वाच्यम्। जुहूशब्देन तत्साध्यापूर्वलक्षणात्। तथाच वाक्यार्थः। पर्णतयाऽवत्तहाविर्धारणद्वारा जुह्वपूर्व भावयोदेति। एवं च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्वं भवति नान्यथेति गम्यत इति न पर्णतया वैयर्थ्यम्। अवत्तहविर्धारणद्वारेति चावश्यं वक्तव्यम्। अन्यथा स्रुवादिष्वपि पर्णतापत्तेः॥**
वाक्यं लक्षयति समभिव्याहार इति। ननु समभिव्याहारो नाम सहोच्चारणन् कयोरिह सहोच्चारणं विवक्षितम्। अपि च श्रुत्युदाहरणत्वेनोदाहृतेष्वपि वाक्येषु समभिव्याहारस्य विद्यमानत्वादतिव्याप्तिरित्यत्राह समभिव्याहारश्चेति। द्वितीयादिश्रुतिरहितत्वे सति शेषशेषिवाचकपदसहोच्चारणं वाक्यमिति निष्कर्षः। सत्यन्तेन उक्ताऽतिव्याप्तिर्वारिता। प्रयाजशेषेण हवींष्यभिधारयति सक्तून जुहोतीत्यादौ विद्यमानाऽपि द्वितीयादिविभक्तिर्न श्रुतिः। तृतीयायाः कर्मत्वे द्वितीयायाः करणत्वे च लाक्षणिकत्वात्। शक्यार्थपरायाएव विभक्तेः श्रुतित्वात्। किन्तु तत्र वाक्यादेवांगत्वम्। तथा च तत्र द्वितीयादिरहितत्वाभावादव्याप्तिः स्यादिति साध्यत्वादिवाचकेति विभक्तिविशेषणम्। शक्यार्थपरत्यर्थः। वाचकं शक्तम्। शेषेति। शेषेशषिणोर्वाचके पदे। तयोः शेषत्वेन शेषित्वेन च वाचकत्वासंभवात् वस्तुत इति। यावर्थौ वस्तुतः शेषशेषिणौ न तु तथा प्रतीयमानौ द्वितीयाद्यभावात् तद्वाचकेति।
वाक्यकृतमङ्गत्वमुदाहरति यथेति। पर्णताजुह्वोः तद्वाचकयोः पर्णमयीजुहूपदयोरित्यर्थः। समभिव्याहारादेव न तु द्वितीयादिविभक्त्या। पर्णताया इति। न च पर्णमयीशब्देन पर्णवृक्षविकारस्योक्तत्वात् कथं पर्णतारूपजातिमात्रस्येह प्रतिपादनं क्रियत इति चेदुच्यते। जुह्वादिपात्राणां दारुमयत्वात् यत्किञ्चिद्वृक्षविकारत्वस्य सामान्येनावगतत्वात् किंजातीयस्य वृक्षस्यायं विकार इति जातिमात्रस्य जिज्ञासितत्वात् तात्पर्यगत्या पर्णतामात्रस्यात्र प्रतिपादनमिति। एवं सर्वेष्वंगेषु अपूर्वप्रयुक्तत्वं वेदितव्यमिति यत् पूर्वमुक्तं तदत्र शङ्कापरिहारव्याजेन दर्शयति नचेति। आनर्थक्यं पर्णताया निष्फलत्वम्। अन्यथाऽपि पर्णतां विनापि। अन्यजातीयवृक्षोपादानेनापीत्यर्थः। सिद्धत्वात् निष्पादनसंभवात्। एवं नैष्फल्यं कण्ठरवेणोक्तम्। इत्थमन्यथाऽपि सिद्ध्यन्त्या जुह्वाः प्रयोजनत्वाभावे तदुद्देश्यकत्वावगाही बोधोऽस्मिन् पर्णमयी जुहूरिति वाक्ये न संभवतीति इदं विधिवाक्यमबोधकमित्यपि पूर्वपक्षिणो हृदये स्थितम्। जुहूपदशक्यार्थस्य नात्र उद्देश्यत्वमिप्यते येनोक्ता सर्वाऽनुपपत्तिः स्यात्। किन्तु तेन प्रयोजनीभवितुं योग्यमपूर्वं लक्ष्यते। तेन न काचिदनुपपत्तिरित्यभिप्रेत्याह जुहूशब्देनेति। अपूर्वलक्षणात् अपूर्वस्य लक्षणया प्रतिपादनादुक्तानुपपत्तिपरिहारादिति। न च वाच्यमित्यन्वयः। तत्र प्रथमं वाक्यार्थबोधानुपपत्तिर्नास्तीत्यभिप्रेत्य तं दर्शयति तथाचेति। तदयमित्यापदेवीयपाठ एवायं प्रमादादन्यथाकृत इति प्रतीमः। जुह्वपूर्वमिति। जुहूसाध्यमपूर्वमित्यर्थः। वैपरीत्येन अपूर्वसाधनीभूतपात्रमित्यत्रैव तात्पर्यं बोध्यम्। अवत्तेति। इदं अवत्तहविर्धारणरूपं द्वारं जुह्वा एवापूर्वोत्पादने इति वेदितव्यम्। न तु यथाश्रुतेन पर्णतया जुह्वपूर्वसाधने। अत एव पर्णतया अवत्तहविर्धारणद्वारा यदपूर्वसाधनं तद्भावयेदित्यापदेवीयस्य बहुरमणीयस्य पाठस्य विनाशेन कृ+ + + +मं पाठं वाक्यव्युत्पत्तिशालिनो न रोचयन्ते। ए मपूर्वस्योद्देश्यत्वे सति पर्णताया आनर्थक्यं नास्तीत्याह एवंचेति। उद्देश्यकोटौ द्वारविवक्षायाः प्रयोजनं वदन्नाह अवत्तेति। अवत्तं अवदानेन संस्कृतं हविः तस्य धारणम्। अवत्तं हि हविः जुह्वां निधाय होमः क्रियत इति। अन्यथा द्वारमविवक्षित्वा अपूर्वसाधनीभूतं पात्रं पर्णतया भावयेदित्येवोद्देश्यांगीकारे। स्रुवेति। जुहूः उपभृत् ध्रुवा एषां त्रयाणां पात्राणां
स्रुगिति नाम। येन उपभृतः ध्रुवायाश्च होमायाज्यं उद्ध्रियते तस्य पात्रान्तरस्य स्रुव इति नाम॥
सेयमनारभ्याधीताऽपि पर्णता सर्वप्रकृतिष्वेवान्वेति न विकृतिषु। तत्र चोदकेनापि तत्प्राप्तिसम्भवात् पौनरुक्त्यापत्तेः। यत्र समग्राङ्गोपदेशः सा प्रकृतिः। यथा दर्शपूर्णमासादिः। तत्प्रकरणे सर्वाङ्गपाठात्। यत्र न सर्वाङ्गोपदेशः सा विकृतिः। यथा सौर्यादिः। तत्र कतिपयाङ्गानामतिदेशेन प्राप्तत्वात्। अनारभ्याधीतविधिः सामान्यविधिः। तदिदं वाक्यं प्रकरणादिभ्यो बलवत्। अत एव इन्द्राग्नी इदं हविरित्यादेः एकवाक्यत्वाद्दर्शाङ्गत्वं न तु प्रकरणात् दर्शपूर्णमासाङ्गत्वम्॥
एवं जुहूपदलक्षितमुद्देश्यकोटिप्रविष्टमपूर्वं कस्य यागस्येति विचारे यस्य यागस्य जुहूरङ्गं तस्य यागस्येति वक्तव्यम्। जुहूश्च उपदेशेन दर्शपूर्णमासयोः अतिदेशेन दर्शपूर्णमासविकृतीनां सौर्यादीनां चाङ्गं भवति। तत्र किं प्रकृतिभूतदर्शपूर्णमासापूर्वं विकृतिभूतसौर्याद्यपूर्वमिति। सर्वमुद्देश्यकोटिप्रविष्टं आहोस्वित् प्रकृतिभूतदर्शपूर्णमासापूर्वमात्रमिति संशये सर्वमपूर्वमिति पूर्वपक्षं कृत्वा प्रकृतिभूतदर्शपूर्णमासापूर्वमात्रमिति कस्मिंश्चिदधिकरणे सिद्धान्तितम्। प्रसंगात्तदाह सेयमिति। अनारभ्याधीतापीति। कर्मविशेषमप्रकृत्येत्यर्थः अनेन पूर्वपक्षयुक्तिरुच्यते। यदाग्नेयोऽष्टाकपाल इति प्रकम्य व्रीहीनवहन्तीति विधानाद्धि आग्नेयापूर्वमात्रव्रीह्मर्थत्वमवघातस्य सिद्ध्यति न सौर्यादिव्रीह्मथत्वम्। अत्र तु दर्शपूर्णमासयोरनुपक्रमात् सर्वयागसंवन्धिजुह्वर्थत्वं पर्णताया भवतीत्याशयः। सर्वप्रकृतिषु आग्नेयादिषु षट्सु गृहमेधीयादौ च। एतदपूर्वसाधनत्वाविशिष्टजुह्वामेवेत्यर्थः अन्वेति यस्य पर्णमयी जुहूरिति वाक्येन विधीयत इत्यर्थः। पूर्वपक्षं निरस्यति न विकृतिष्विति। न विकृतिष्वपीत्यर्थः। अत्र युक्तिमाह तत्रेति। तत्र विकृतिषु। चोदकोऽतिदेशः। तत्प्राप्तीति। पर्णताप्राप्तीत्यर्थः। पौनरुक्त्यापत्तेः द्विर्विधानापत्तेः। अयं भावः। दर्शपूर्णमासयोरुपदिष्टा जुहूः अतिदेशेन सौर्यादिषु प्राप्नोतीति तावत् स्थितम्। तत्र यदि पर्णमयीवाक्ये प्रकृतिविकृतिसर्वपूर्व साधनीभूतजुहूद्देशेन पर्णता विधीयते तदाऽनेन वाक्येन दर्शपूर्णमासयोरिव सौर्यादिष्वपि उपदेशादेव पर्णता प्राप्यते। पुनश्च सौर्यादिषु विकृतिषु जुह्वादिप्रापणाय प्रवृत्तोऽतिदेशः जुहूमिव तदङ्गभूतां पर्णतामपि प्रापयतीति उपदेशातिदेशाभ्यां पर्णताया विकृतिषु द्विर्विधानापत्तिः। न चैकस्य द्विर्विधानं युज्यते। प्रकृत्यपूर्वसाधनीभूतजुहूमात्रोद्देशेन पर्णताविध्यंगीकारे तु पर्णताया उपदेशात् दर्शपूर्णमासमात्रांगत्वं अतिदेशात् सौर्याद्यंगत्वमिति न स दोष इति। प्रकृतिशब्दस्य प्रकृते विवक्षितमर्थमाह यत्रेति। यस्मिन् कर्मणि अन्यस्मात्कर्मणोऽङ्गानि नानीयन्ते सा प्रकृतिरित्यत्रैव तात्पर्यम्। प्रकृतिशब्दस्य मुख्यार्थस्तु यस्यांगानि अन्यत्रातिदिश्यन्ते तत्कर्म। विकृति लक्षयति यत्र नेति। सर्वाङ्गोपदेशाभावमुपपादयति तत्रेति। ननु कोऽनारभ्य विधिः तत्राह अनारभ्येति। सामान्येन विधिःसामान्यविधिः। दर्शपूर्णमासीयत्वादिना विशेषणमन्तरा अपूर्वसामान्यसाधनाभूतपात्रत्वावच्छिन्नोद्देशेन पर्णतादिविधायको विधिरित्यर्थः। वस्तुतस्तु प्रामादिकोऽयमत्र एतद्ग्रन्थपाठः। आपदेवीये हि पूर्णतान्यायापवादेन अनारभ्याधीतं साप्तदश्यं विकृतिष्वेव गच्छतीति प्रदर्श्य तदर्थमुपसंहारमुक्त्वा तत्रोपष्टम्भकतया ‘सामान्यविधिरस्पष्टः संह्रियेत विशेषतः’ इति वार्तिकमुदात्दृत्य इमं वार्तिकन्यायं प्रकृते योजयितुमुक्तं अनारभ्यविधिः सामान्यविधिः मित्रविन्दादिप्रकरणस्थस्तु विशेषविधिरिति। नतुअनारभ्यविधेर्लक्षणमुक्त.. सामान्यविधिरिति। न चात्र सामान्यविधेर्वि उपसंहार उच्यते। तस्मादत्रायं ग्रन्थोऽनन्वित इति बोध्यम्। वार्तिके विशेषत इति विशेषविधिनेत्यर्थः। वाक्यस्य स्वानन्तरप्रमाणेभ्यः प्राबल्यमुक्त्वा उदाहरति तादेदमिति। इन्द्रेति। अत्र इन्द्रग्नी इति पदं विना पाठः श्रयान्। अथवा आपदेवीये स्थितेन पाठेन भवितव्यम्॥
उभयाकाङ्क्षा प्रकरणम्। यथा प्रयाजादिषु समिधो यजतीत्यादिवाक्ये फलविशेषस्य अनिर्देशात् समिद्यागेन भावयेदिति बोधानन्तरं किमित्युपकार्याकाङ्क्षा। दर्शपूर्णमासादिवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्गं भावयोदेति बोधानन्तरं कथामेत्युपकारकाकाङ्क्षा। इत्थं च उभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्। तच्च प्रकरणं द्विविधम्। महाप्रकरणभवान्तरप्रकरणं चेति। तत्र मुख्यभावनासम्बन्धि प्रकरणं महाप्रकरणम्। तेन च प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्। एतच्च प्रकृतावेव। उभयाकाङ्क्षायाः संभवात्। न तु विकृतौ। तत्र प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशेन कथंभावाकाङ्क्षाया उपशमेन अपूर्वाङ्गानामप्युभयाकाङ्क्षया विनियोगासंभवात्। तस्मादपूर्वांगानां स्थानादेव विकृत्यर्थत्वमिति॥
प्रकरणं दर्शयति उभयेति। उभयस्य उभयी वा आकांक्षाउभयाकांक्षा। अङ्गस्य भाव्याकांक्षां दर्शयति प्रयाजादिष्विति। अङ्गिनः कथंभावाकाक्षां दर्शयतिदर्शोति। प्रकरणं विभजते तच्चेति। आद्यं निरूपयति मुख्येति। मुख्यं अङ्गि तस्य भावना तत्संबन्धि यत्प्रकरणं, तन्महाप्रकरणमित्यर्थः। फलवद्यागाद्यन्वयिभावनासम्बन्धीतिकर्तव्यताकांक्षाघटितोभयाकांक्षारूपं प्रकरणं महाप्रकरणमित्युक्तं भवति। इदमुदाहरन् उक्तं प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं महाप्रकरणेनैवेत्याह तेनचेति। दर्शपूर्णमासौ हि स्वर्गरूपफलवत्वादङ्गिनौ। तेन तदन्वितभावनासम्बन्धीतिकर्तव्यताकांक्षाघटितत्वादत्राङ्ग-अनुबन्धः।
….घकं प्रकरणं महाप्रकरणमित्यर्थः। महाप्रकरणगतंविशेषमाह एतच्चेति। एवकारं विवृणोति नत्विति। अत्र हेतुमुभयाकांक्षाया असंभवमुपपादयति तत्रेति। विकृतावित्यर्थः। उभयाकांक्षाया असंभवे हेतुः कथंभावाकांक्षोपशमः उपशमकारणं अतिदेशः अतिदेशस्वरूपं प्रकृतिवद्विकृतिः कर्तव्येति। ननु विकृतिषु द्वेधाऽङ्गानि भवन्ति कानिचित् अतिदिश्यमानानि कानिचित् उपदिश्यमानानीति। उपदिश्यमानान्येव अपूर्वाङ्गानीत्युच्यन्ते। तत्र केषां विषये प्रकरणं नास्तीत्युच्यते। यद्यतिदिश्यमानविषये तर्हि इष्टापत्तिः। प्राकृताङ्गभावनानां प्रकृत्यन्वयादेव भाव्याकांक्षायाः शान्तत्वात्। यद्यपूर्वाङ्गविषये तन्नोपपद्यते। अपूर्वाङ्गभावनानां भाव्याकांक्षायी अशान्तत्वात्। विकृतिभावनाया अपि कथंभावाकांक्षायाः सद्भावादिति पूर्वपक्षं सूचयता उक्तं अपूर्वांगानामपीति। कल्प्योपकारापूर्वाङ्गविषयं उपदेशमपेक्ष्य क्लृप्तोपकारप्राकृताङ्गविषयोऽतिदेशः प्रबलत्वात् प्रथमं प्रवृत्तः बिकृतेः कथंभावाकांक्षां शमयतीति अपूर्वाङ्गविषये विकृतेः कथंभावाकांक्षाया अभावान्न तद्विषयेपि उभयाकांक्षासंभव इति समाधानं अतिदेशेन कथंभावाकांक्षाया उपशमेनेत्यत्रैव अभिसंहितम्। तर्हि अपूर्वाङ्गानां विकृत्यङ्गत्वं केन प्रमाणेनेत्यत्राह तस्मादिति। स्थानं वक्ष्यते।
अङ्गभावनासम्बन्धि प्रकरणं अवान्तरप्रकरणम्। तेन च अभिक्रमणादीनां प्रयाजाद्यङ्गत्वम्। तच्च सन्दंशेनैव ज्ञायते। तदभावे चाविशेषात् सर्वेषां फलभावनाकथंभावेन ग्रहणप्रसङ्गेन प्रधानाङ्गत्वापत्तेः। एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वं सन्दंशः। यथाऽभिक्रमणे। तद्धि समानयते जुह्वामुपभृतः तेजो वा इत्यादिना प्रयाजानुवादेन किञ्चिदङ्गं विधाय विधीयते यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदतेऽभिक्रामं जुहोत्याभिजित्यै इति। तदनन्तरं यो वै प्रयाजानां मिथुनं वेदेत्थादिना कि—
उद्यानपत्रिका-
ञ्चिदङ्गं विधीयते। अतः प्रयाजाङ्गमध्ये विहितमभिक्रमणं तदंगम्। प्रयाजैरपूर्वं कृत्वा यागोपकारं भावयेदिति ज्ञाते कथमेभिरपूर्वं कर्तव्यामेति कथंभावाकाङ्क्षायाः सत्त्वात्। सा च सन्दंशपठितैरभिक्रमणादिभिः शाम्यति। न चाङ्गभावनायाः कथंभावाकांक्षाभावः। भावनासामान्येन तत्रापि तत्संभवात्॥
अवान्तरप्रकरणं निरूपयति अंगेति। अङ्गभावनासंबन्धीतिकर्तव्यताकांक्षाघटितोभयाकांक्षाऽवान्तरप्रकरणमित्यर्थः। तेन कृतमङ्गत्वं उदाहरति तेनचेति। ननु यद्यंगभावनानामपि प्रकरणमस्ति तर्हि प्रयाजादीनां अनुयाजादिकमप्यङ्गं स्यात्। आग्नेयादिप्रधानभावनानामिव प्रयाजाद्यङ्गभावनानामपि प्रकरणसत्त्वात्। यदि त्वेवं आग्नेयादिफलवत्प्रधानयागप्रकरणपठितानामेषां परस्परमङ्गाङ्गिभावो न भवतीत्युच्यते तर्हि अभिक्रमणमपि प्रयाजाङ्गं न स्यात्। अथात्रास्ति विशेष इति चेत् तर्हि स उच्यतामित्यत्राह तच्चेति। अवान्तरप्रकरणं चेत्यर्थः। फलवत्प्रधानयागप्रकरणपठितानां अङ्गभावनानां परस्पराङ्गाङ्गिभावबोधकं प्रकरणरूपं प्रमाणं न भवतीत्युत्सर्गः। यत्र तु सन्दंशोऽस्ति तत्र तस्याङ्गस्य अङ्गान्तरबोधकतया प्रकरणं भवत्येवेत्यपवादः। तथा च प्रयाजेषु सन्दंशसत्त्वात् प्रकरणमस्तीति ज्ञायते। तेनाभिक्रमणं प्रयाजाङ्गं भवति। अनूयाजादिविषये तु संदंशो नास्तीति न प्रकरणं नतरां तदङ्गत्वम्। किन्तु प्रयाजवदेव प्रधानयागप्रकरणात् प्रधानाङ्गत्वमेवेति भावः। एवं सन्दंशाभावे उत्सर्गप्राप्तं यागाङ्गत्वमेवाभिक्रमणस्यापि स्यादित्यभिप्रेत्याह तदभाव इति। सन्दंशाभाव इत्यर्थः। अविशेषात् प्रयाजादि प्रधानाङ्गं अभिक्रमणादि तु तस्याङ्गस्याङ्गमिति प्रमाणविशेषाभावादित्यर्थः। फलभावनाकथंभावेन प्रधानभावनेतिकर्तव्यताकांक्षया। ग्रहणप्रसङ्गेन विषयीकरणप्रसङ्गेन। ननु कः सन्दंशो नाम तदाह एकेति। वाक्यान्तरेण विहितमङ्गमनूद्य वाक्यान्तरेण तत्र किञ्चिदङ्गं विधातव्यम्। पुनरपि तदेवाङ्गमनूद्य उत्तरत्र वाक्यान्तरेण किञ्चिदङ्गं विधा—….व्यम्। अनयोर्वाक्ययोर्मध्ये उभयत्रोद्देश्यत्वेन अनूदितस्याङ्गस्यानुवादमन्तरा किञ्चिदङ्गं विधातव्यम्। तत्र सन्दंश इत्यर्थः। सोऽयं सन्दंशोऽभिक्रमणेऽस्तीत्याह यथेति। उपपादयति तत्रहीति। समानयत इति। उपभृति स्थितमाज्यं जुह्वामानयतीत्यर्थः। अत इति। उक्तरीत्या सन्दंशस्य सत्त्वात् तेन चावान्तरप्रकरणस्य प्रतीयमानत्वादित्यर्थः। प्रयाजाङ्गेति। प्रयाजाङ्गयोर्मध्य इत्यर्थः। नन्ववान्तरमपि प्रकरणं उभयाकांक्षारूपमेव। तत्राभिक्रमणादेभाव्याकांक्षायां सत्यामपि प्रयाजादेरन्याङ्गत्वात् इतिकर्तव्यताकांक्षा नास्तीति उभयाकांक्षारूपप्रकरणाभावात् कथमभिक्रमणादेः प्रयाजाङ्गत्वमिति शङ्कां मनसि कृत्वा प्रयाजादेरपीतिकर्तव्यताकांक्षाऽस्तीत्याह प्रयाजेति। प्रयाजादीन् यजतीत्यत्र शब्दतो लब्धोंऽशः प्रयाजैर्भावयेदिति। प्रकरणात् यागोपकारमिति। अपूर्वप्रकरणोक्तरीत्या सर्वाङ्गसाहित्यान्यथानुपपत्त्या लब्धं अपूर्वंकृत्वेति। एवं प्रयोजान् यजतीत्यत्र आख्यातोपात्तभावनायाः प्रकरणात् भाव्यांशस्य वाक्य एव करणांशस्य लाभे सत्यनन्तरं इतिकर्तव्यताकांक्षापि भवत्येवेति भावः। अस्या आकांक्षाया अभिलापः कथमेभिरपूर्वं कर्तव्यमिति। एभिः प्रयाजैः। सत्त्वात् प्रकरणसंभवात् अभिक्रमणं तदङ्गमिति पूर्वेणान्वयः। नन्वेवं प्रयाजाद्यङ्गभावनानामपि इतिकर्तव्यताकांक्षासत्त्वेऽनूयाजादीनामपि तत्रान्वयस्स्यादित्यत्र पूर्वोक्तमेव संदंशकृतं विशेषं स्मारयन्नाह साचेति। संदंशेति। संदंशे प्रयाजानुवादेन विहितयोरङ्गयोर्मध्ये पठितैरिति। पूर्वं त्दृदि स्थितां अङ्गभावनानामितिकर्तव्यताकांक्षाराहित्यशंकान्निराकरोति नचेति। भावनेति। आग्नेयादिप्रधानभावनातुल्यत्वेनेत्यर्थः भावयेदिति ह्युक्ते किं केन कथमिति सर्वत्रैवाकांक्षात्रयं भवति। नतु आग्नेयेन भावयेदित्यत्रैव कथंभावाकांक्षा जायते प्रयाजैर्भावयेदित्यत्र न जायत इत्यत्र नियामकं किञ्चिदस्तीत्यर्थः।
तदिदं प्रकरणं क्रियाया एव साक्षाद्विनियोजकम्। द्रव्यगुणयोस्तु तद्द्वारा। तथाहि। यजेत स्वर्गकामइत्यत्र फलभावनायां कथंभावाकांक्षायां सन्निधिपठिताश्रूयमाणफलकं क्रियाजातमुपकार्याकांक्षया इतिकर्तव्यतात्वेनान्वेति। क्रियाया एव लोके कथंभावाकांक्षायामन्वयदर्शनात्। नहि कुठारेण छिन्द्यादित्यत्र कथंभावाकांक्षायां उच्चार्यमाणोऽपि हस्तोऽन्वेति। किन्तु हस्तेन उद्यम्य निपात्येति उद्यमननिपातने एव। हस्तश्च तद्द्वारेणैवान्वेतीति सर्वजनीनमेतत्। इदं च स्थानादिभ्यो बलवत्। अत एव अक्षैर्दीव्यति राजन्यं जिनातीति विदेवनादयो धर्मा अभिषेचनीयसन्निधौ पठिता अपि स्थानान्न तदङ्गम्। किं तु प्रकरणात् राजसूयाङ्गमिति।
सिद्धरूपाणि क्रियारूपाणि चेत्यङ्गानामनुपदं द्वेधा विभागं करिष्यति। तत्रेदं प्रकरणं क्रियारूपाणामेवाङ्गानां साक्षादङ्गत्वबोधकं न तु श्रुत्यादिप्रमाणान्तरवत् सिद्धरूपाणामपि। क्रियाद्वारा परम्परया त्वेषामिदमङ्गताबोधकमिति प्रकरणस्य प्रमाणान्तरापेक्षया विशेषमाह तदिदमिति। उक्तविधमितिकर्तव्यताकांक्षाघटितमित्यर्थः। क्रियाया एव न द्रव्यगुणादेस्तिद्धवस्तुनः। साक्षात् द्वारमनपेक्ष्य। किन्तर्हि प्रकरणेन द्रव्यगुणादेर्ग्रहणमेव नास्ति? न। अस्त्येव। किन्तु क्रियाविशेषणत्वेनेत्याह द्रव्यगुणयोस्त्विति। तद्द्वारेति। क्रियाविशेषणत्वेनेत्यर्थः। अत्रोदाहरणं जाघन्या पत्नीः संयाजयन्तीति। अत्र हि जाघनीविशिष्टपत्नीसंयाजविधौ पत्नीसंयाजस्य साक्षात्, तद्विशेषणत्वेन च जाघन्याः प्रकरणेन ग्रहणम्। क्रियाया एव साक्षाद्विनियोजकमित्येतदुपपादयति तथाहीति। क्रियैव इतिकर्तव्यतात्वेनान्वेतुं येाग्या न द्रव्यगुणादीत्यत्र हेतुं वदिष्यन् प्रथमं क्रियैव उभयाकांक्षारूपप्रकरणवशादितिकर्तव्यतात्वेनान्वेतीति प्रतिज्ञां करोति यजेतेति। उभयाकांक्षासद्भावोपपादनायोक्तं अश्रूयमाणफलकमिति। स्ववाक्ये फलश्रवणे सति हि उपकार्याकांक्षा न स्यात्। तत्तु नास्ति प्रयाजादीनामिति। अश्रूयमाणफलकानामपि ज्योतिष्टोमसन्निधौ पठितानां कर्मणां दर्शपूर्णमासभावनायामितिकर्तव्यतात्वेनान्वयाभावात् सन्निधिपठितेति। सन्निधिपठितं च तत् अश्रूयमाणफलकं चेति कर्मधारयः। **क्रियाजातमिति।**एवेति शेषः। हेतुमाह क्रियाया एवेति। अन्वयदर्शनात् अन्वयदर्शनेन योग्यत्वावसायादित्यर्थः। सिद्धवस्तुनो योग्यताविरह उदाहरणेनदर्शयति न हीति, उच्चार्यमाणोऽपि पदेनोपात्तोऽपि। अत्र इतिकर्तव्यतात्वेनान्वययोग्ये क्रिये दर्शयति किन्त्विति। इतीति। इत्येतत्पदप्रतिपाद्येइत्यर्थः। उद्यमनेति। उद्यमननिपातने एव अन्वीयेते इति योज्यम्।द्रव्यगुणयोस्तु तद्द्वारेति यदुक्तं तदस्मिन् लौकिके उदाहरणे दर्शयति हस्तश्चेति। नात्राधिकमुपपादनमावश्यकमित्यभिप्रायेणाह सर्वेति।
नन्वेवं यत्र द्रव्यगुणादिविशिष्टानामारादुपकारकाङ्गानामुपदेशः तत्र क्रियाविशेषणत्वेन द्रव्यगुणादेर्भावनान्वयेऽपि यत्रगुणमात्रोपदेशः यथा सामविशेषाणांमन्त्रविशेषाणां च तत्र तस्य इतिकर्तव्यतात्वेन अन्वयाय प्रकरणविषयत्वंसाक्षाद्वक्तव्यमेवेति चेन्न। सिद्धवस्तुन इतिकर्तव्यतात्वासंभवेन प्रकरणग्रहणासंभवात्। तदुक्तं वार्तिककृता
गुणद्रव्ये कथंभावैर्गृह्णन्ति प्रकृताः क्रियाः।
इति। पूर्वार्धस्थो नञिह संबध्यते। प्रकृताः क्रियाः फलवन्ति कर्माणि फलभावना एव वा। कथंभावैः इतिकर्तव्यताकांक्षया। प्रकरणेनेति पर्यवसितम्। गुणद्रव्ये न गृंह्णन्ति तदन्वितानि न भवन्तीत्यर्थः। नन्वेवमुपदिष्टस्य सिद्धवस्तुन आनर्थक्यं स्यात्। न खल्वितिकर्तव्यतातिरिक्तेन सम्बन्धेन तस्यफलभावनायामन्वयः सम्भवति। अंशत्रयवत्या भावनाया अंशद्वयस्य फलकरणाभ्यां पूरितत्वात् तदतिरिक्तस्य सर्वस्य इतिकर्तव्यतांशपातित्वस्यैववक्तव्यत्वादिति चेदुच्यते। इतिकर्तव्यताभूतां क्रियां द्वारीकृत्यान्वयात् नानर्थक्यमिति। ननु क्रिया नास्तीत्युक्तम्। सत्यम्। किन्तु कल्प्यते। कथम्।तेनैव द्रव्यगुणविधिवाक्येन पदाध्याहारादिना। तदिदमभिप्रेत्याह–
नावान्तरक्रियायोगादृते वाक्योपकल्पितात्।
इति।सोमनाथोऽप्याह चित्राधिकरणपूर्वपक्षे–अवान्तरप्रकरणेनेति। यद्यपि‘नावान्तर’ इत्यभियुक्तोक्तेः संख्याविशिष्टाज्यद्रव्यमात्रस्य प्रकरणविनियोज्यत्वमनुपपन्नम्। तथाप्याज्यस्य न स्वरूपेण स्तोत्राङ्गत्वं सम्भवति। किन्तुसन्निधानेन। तच्च सन्निधापनं विना न संभवतीति संख्याविशिष्टाज्यानि सन्निधापयेदित्येवमयं विधिः पर्यवसित इति सन्निधापनक्रियायोगादाज्यलक्षण द्रव्यस्य प्रकरणविनियोग उपपद्यत इति भावः– इति। तदत्र सिद्धवस्तुन इतिकर्तव्यतात्वन्नास्ति। तेन प्रकरणग्राह्यत्वं च नास्तीति वार्तिके उत्तरार्धस्यार्थः।इतिकर्तव्यताभूतक्रियाविशेषणत्वेन भावनान्वयस्तु न्यायनिरपेक्षं सिद्धः। तत्रक्रियायां स्ववाक्योपात्तायां तद्द्वारा द्रव्यगुणादेर्भावनान्वय इत्यनुक्तिसिद्धम्।यत्रापि तु नोपात्ता तत्रापि तां कल्पयित्वा तद्द्वारा तदन्वय इति वार्तिकेपूर्वार्धस्यार्थ इति विवेचनीयम्।
प्रकरणस्य स्वानन्तरप्रमाणापेक्षया प्राबल्यमाह इदं चेति। स्थानादिभ्य इति बहुवचनमविवक्षितम्। स्थानसमाख्ययोर्द्वयोरेव प्रकरणानन्तरप्रमाणत्वात्। तदुक्तमापदेवेन तदिदं स्थानादिप्रमाणाद्बलवदिति।प्राबल्यमुदाहरति अतएवेति। प्रकरणस्य प्राबल्यादेवेत्यर्थः। अभिषेचनीयःसोमयागविशेषः राजसूयान्तर्गतः। स्थानात् सन्निधिपाठरूपात्। तदंगंअभिषेचनीयाङ्गम्। नात्रस्वारसिकं प्रकरणं किन्तु संदंशसंपादितमित्यन्यत्रस्थितम्।
** देश सामान्यं स्थानम्। तद् द्विविधम्। पाठसादेश्यंअनुष्ठानसादेश्यं चेति। स्थानं क्रमश्चेत्यनर्थान्तरम्।पाठसादेश्यमपि द्विविधम्। यथासंख्यपाठः सन्निधिपाठश्चेति। तत्र ऐन्द्राग्नमेकादशकपालं निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेदित्येवं क्रमविहितेषु इन्द्राग्नीरोचना दिव इत्यादीनां याज्यानुवाक्यामन्त्राणां यथासंख्यं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयमित्येवंरूपोविनियोगो यथासंख्यपाठात्। प्रथमपठितस्य हि मन्त्रस्य कैमर्थ्याकांक्षायां प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते समानदेशत्वात्। एवं द्वितीयमन्त्रस्यापि।**
अङ्गत्वे पञ्चमं प्रमाणं स्थानं दर्शयति देशेति। समानस्य भावः सामान्यं देशस्य सामान्यं देशसामान्यं तुल्यदेशत्वमित्यर्थः। पाठेति। समानो देशो यस्य सःसदेशः तस्य भावः सादेश्यं पाठस्य सादेश्यं पाठसादेश्यं पाठप्रयुक्तं सादेश्यमित्यर्थः। एवमनुष्ठानसादेश्यमित्यत्रापि। ननु वार्तिके ‘तत्र क्रमोद्विधैवेष्टो देशसामान्यलक्षणः, इति क्रमलक्षणत्वेनोक्तस्य देशसामान्यत्वस्य कथं स्थानलक्षणत्वेन भवता अभिधानमित्याशङ्कापरिहाराय स्थानमेव तत्रक्रमपदेनाभिधीयत इत्यभिप्रेत्याह स्थानमिति। अन्योऽर्थः अर्थान्तरं न अर्थान्तरमनर्थान्तरम्। स्थानं क्रमश्चेत्यनयोः पदयोरर्थभेदो नास्तीत्यर्थः। यथासंख्यपाठमुदाहरति तत्रेति। क्रमविहितेष्विति। कर्मस्विति शेषः। ‘क्रमविहितेष्टिषु’ इति त्वापदेवीये दृश्यते। तथैवात्रापि भाव्यमिति पश्यामः। यथासंख्यं संख्यामनुसृत्य। अस्यैव विवरणं प्रथमस्येति। प्रथमस्य कर्मणः प्रथमंयाज्यानुवाक्यायुगलम्। उक्तमेवोपपादयति प्रथमेति। अत्र प्रथमविहितस्य कर्मणः स्मारकापेक्षायां प्रथमपठितमेव याज्यानुवाक्यायुगलं उपतिष्ठत इत्याकांक्षान्तरमप्युपपादनीयम्। कैमर्थ्येति। कोऽर्थो यस्य सकिमर्थः। कस्मै अयं किमर्थ इति वा। तस्य भावः कैमर्थ्यं तस्याकांक्षेति।समानदेशत्वात् उभयोः प्रथमपठितत्वेन तुल्यदेशत्वादित्यर्थः। एवमपेक्षितांगिसमर्पणद्वारैवास्य प्रमाणस्य अङ्गताबोधकत्वरूपं विनियोजकत्वमिति वेदितव्यम्॥
** वैकृतांगानां प्राकृतांगाननुवादेन विहितानां संदंशापतितानां विकृत्यर्थत्वं सन्निधिपाठात्। यथा उपहोमानाम्। तेषांहि कैमर्थ्यापेक्षायां फलवद्विकृत्य पूर्वमेव भाव्यत्वेन संबध्यते। उपस्थितत्वात्। स्वतन्त्रफलकत्वे विकृतिसन्निधिपाठानर्थक्यापत्तेश्च॥**
सन्निधिपाठं दर्शयति वैकृतेति। विकृतौ भवानि वैकृतानि। वैकृतस्यापि औदुम्बरो यूपो भवतीति प्राकृतांगानुवादेन विधीयमानस्य औदुंबरत्वादेरुभयाकांक्षालक्षणेन प्रकरणेनैव ग्रहणमित्यापदेवीय उपपादितम्। तस्मात् तद्व्यावृत्तये प्राकृतांगाननुवादेन विहितानामिति। तथा विकृतौ प्राकृतधर्मानुवादेन विधीयमानयोर्धर्मयोरन्तराले सन्दंशाभिधाने विधीयमानानामामनहोमादीनामपि प्रकरणेनैव विनियोग इत्येतदपि तत्रैवोपपादितम्। तेषां व्यावर्तनायोक्तंसन्दंशापतितानामिति। तादृशांगयोर्मध्येऽपठितानामित्यर्थः। उदाहरणमाहयथेति। नक्षत्रेष्टौ सोत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा इत्याम्नाताहोमा उपहोमा इत्युच्यन्ते। अत्र यथा आमनहोमानामित्यपपाठः। ननुपूर्वोक्तरीत्या विकृतेरितिकर्तव्यताकांक्षायाः प्राकृतांगैरेव शान्तत्वेन उपहोमादिविषये अभावात् कथमेषां विकृत्यर्थत्वमंगीक्रियते। एषां भाव्याकांक्षाऽन्यथान निवर्तत इति चेत् तदर्थं स्वतन्त्रमेव किञ्चित् फलं कल्प्यतामित्याशंकांपरिहरन् विकृत्यर्थत्वमेव तेषां वक्तव्यम् न स्वतन्त्रं किंचित् फलं कल्पयित्वातदर्थत्वमित्याह तेषां हीति। उपहोमानामित्यर्थः। वैकृताङ्गानामिति वा।व्रीह्यादिवत् विकृतेः स्वरूपेण भाव्यत्वाभावादुक्तं विकृत्यपूर्वमिति। अत्रहेतुमाह उपस्थितत्वादिति। भावनाया भाव्याकांक्षायां सत्यां यस्य प्रमाणवशेन उपस्थितिर्भवति तस्य ह्यन्वयो न्याय्यः। नानुपस्थितस्यस भवितुमर्हति। तत्र सन्निधिवशात् विकृत्यपूर्वस्य उपस्थितिरस्ति नान्यस्य। तथाविधस्य प्रमाणस्य कस्यचिदभावादित्यर्थः। ननु विश्वजितायजेतेत्यत्राश्रुतस्यापि स्वर्गस्य भाव्यत्वेनान्वयः सिद्धान्ते अङ्गीकृतः।तथाच तत्र तस्य येन प्रमाणेनोपस्थितिः तेनैवात्रापि भविष्यतीत्याशंक्याहस्वतन्त्रेति। कथंचित् विकृत्यपूर्वसंबन्धे सति हि विकृतिसन्निधिपाठस्यसार्थक्यं स्यात्। स्वतन्त्रफलार्थत्वे कथमपि विकृतिसंबन्धस्य वक्तुमशक्यत्वात्तत्सन्निधौ विधानं निष्फलं स्यादित्यर्थः। स्वतन्त्रं विकृत्यपूर्वव्यतिरिक्तम्।
** पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात्। औपवसथ्येऽह्नि अग्नीषोमीयः पशुरनुष्ठीयते। तस्मिन्नेव दिनेते धर्माः पठ्यन्ते। अतस्तेषां कैमर्थ्याकांक्षायां अनुष्ठेयत्वेनोपस्थितं पश्वपूर्वमेव भाव्यत्वेन सम्बध्यते।तच्च स्थानं समाख्यातः प्रबलम्। अत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं पाठसादेश्यात्। न तु पौरोडाशिकमिति समाख्यया पुरोडाशपात्राङ्गम्।**
अनुष्ठानसादेश्यमुदाहरति पश्विति। पशोः पशुद्रव्यकस्य यागस्य धर्माःअङ्गानि यूपच्छेदनादीनि। अनुष्ठानेति। पञ्चदिनसाध्यः सोमप्रयोगः।तत्र प्रथमोपसद्दिने। सोमक्रयसन्निधौ अग्नीषोमीयपशुर्विधीयते। चतुर्थे तु औपवसथ्याभिधाने दिने यूपच्छेदनादयो धर्मा विधीयते। तेनउपहोमानामिव सन्निधिपाठरूपं स्थानं न संभवतीति बोध्यम्। अनुष्ठानसादेश्यमुपपादयति औपवसथ्य इति। न च यस्मिन् दिने आम्नानंतत्रैवानुष्ठानं कथं न भवतीत्याशंक्यम्। स एष उपवसथीयेऽहन् द्विदेवत्यःपशुरालभ्यत इति वचनबलेन औपवसथ्येऽहन्येव तस्यानुष्ठेयत्वात्। अनुष्ठानसादेश्यस्यांगताग्राहकत्वमुपपादयति अत इति। तेषां धर्माणां अग्निषोमीयपश्वनुष्ठानदिने पठितत्वादित्यर्थः। स्थानस्य स्वानन्तरप्रमाणात् प्राबल्यमाह तच्चेति। अत्रोदाहरणमाह अतएवेति॥
** समाख्या यौगिकः शब्दः। सा च द्विविधा वैदिकी लौकिकी च। तत्र होतुश्चमसभक्षणांगत्वं होतृचमस इतिवैदिक्या समाख्यया। अध्वर्योस्तत्तत्पदार्थांगत्वं लौकिक्याआध्वर्यवमिति समाख्ययेति संक्षेपः। तदेवं निरूपितानिसंक्षेपतः श्रुत्यादीनि षट्प्रमाणानि ॥**
समाख्यां निरूपयति समाख्येति। योगोऽवयवार्थव्युत्पत्तिः तेनार्थप्रतिपादको यौगिकः। वैदिकीं समाख्यामुदाहरति तत्रेति। चमसः सोमधारणार्थः पात्रविशेषः तस्मिन् कर्तव्यं यत् सोमरसभक्षणं तत्र होतुरंगत्वमिति।लौकिकीमुदाहरति अध्वर्योरिति। तत्तत्पदार्थेति। यजुर्वेदाम्नातप्रयाजादीत्यर्थः। संक्षेप इति। एवमेषां प्रमाणानां पूर्वपूर्वस्य स्वानन्तरोत्तरप्रमाणेन विरोधे प्राबल्यदौर्बल्यमुक्तम्। एषामेवसजातीयविरोधेविजातीयेष्वपि एकान्तरितद्व्यन्तरितादिविरोधे च मूलग्रन्थेषु बलाबलनिरूपणं विस्तरेण कृतम्। तत्सर्वमिह विस्तरभिया उपेक्षितमित्यभिप्रायः।
आध्वर्यवमित्यादिसमाख्याया आपदेवोक्तप्रकारेण स्थानापेक्षया प्राबल्यं न भवतीत्यभिप्रेत्यापीदमुक्तं संक्षेप इति। एतस्य विधेः सहकारिभूतानि षट्प्रमाणानीत्युपक्रान्तं अङ्गत्वप्रमाणानिरूपणमुपसंहरति तदेवमिति।
** एतत्सहकृतेन विनियोगविधिना समिदादिभिरुपकृत्यदर्शपूर्णमासाभ्यां यजेतेत्येवंरूपेण यानि विनियुज्यन्तेअङ्गानि तानि द्विविधानि। सिद्धरूपाणि क्रियारूपाणिचेति। तत्र सिद्धरूपाणि जातिद्रव्यसंख्यादीनि। तानिचदृष्टार्थान्येव। क्रियारूपाणि च द्विविधानि। गुणकर्माणिप्रधानकर्माणि चेति। एतान्येव सन्निपत्योपकारकाणिआरादुपकारकाणि चोच्यन्ते॥**
एवं श्रुत्यादिप्रमाणषट्कसहितं विनियोगविधिं निरूप्य संप्रति तत्प्रमेयान्यंगान्यतिसंग्रहेण निरूपयिप्यन् विधिवाक्यनिरूपणावसरे कथमङ्गनिरूपणमिति सङ्गत्यभावशंकायां प्रमाणनिरूपणे सति तत्प्रमेयजिज्ञासायाःस्वरसवाहित्वान्न तन्निरूपणमसंगतमिति समाधानाभिप्रायेण उक्तप्रमाणप्रमेयत्वेनांगान्यनुवदन् विभजते एतदिति। विधेराकारं दर्शयतिसमिदादिभिरिति। समिध इति समिधो यजतीति प्रथमप्रयाजसंज्ञा। ननु विनियोगविधौ अङ्गस्य करणत्वादिरूपेण अङ्गिनउद्देश्यत्वेन चान्वयो वक्तव्यः दध्ना होमं भावयेदितिवत्। तत्र प्रकृते समिदादिभिरिति समिदादीनामङ्गानां करणत्वेन प्रतिपादनं युज्यते। अङ्गिनां तु दर्शपूर्णमासयागानां उद्देश्यत्वेन निर्देशमन्तरा कथं दर्शपूर्णमासाभ्यामिति करणत्वेन निर्देशः क्रियत इति चेत् श्रूयताम्। अत्र उपकृत्येत्यतः पूर्वं दर्शपूर्णमासयोरित्यध्याहर्तव्यं समिदादिभिर्दर्शपूर्णमासयोरुपकृत्येति। तत्र षष्ठीश्रुत्या दर्शपूर्णमासयोरुद्देश्यत्वाभिधानात् दर्शपूर्णमासभाव्यका समिदादिकरणिका भावनेति बोधान्नानुपपत्तिरिति। नन्वेवं समिदादिभिर्दर्शपूर्णमासयोरुपकुर्यादित्येतावतैव विनियोगविधेः पर्यवसानात्।
किमर्थं उपकृत्य दर्शपूर्णमासाभ्यां यजेतेत्यधिकतया दर्शपूर्णमासकरणकभावनाय उपादानम्। उच्यते। समिदादीनामङ्गानामुत्पत्तिविधिः समिधो यजतीत्येवमादिरूपः पठ्यते। विनियोगविधिस्तु उक्तरीत्या कल्प्यते। इत्येवं स्थिते यदिकश्चिन्मन्यते प्रयोगविधिरपि कश्चिदतिरिक्तः कल्पनीय इति तस्य नाङ्गानां पृथक्प्रयोगविधिः कल्पनीय इति प्रतिबोधनाय एवं प्रतिपाद्यते। प्रकरणादिवशेन हि समिदादिभिर्दर्शपूर्णमासयोरुपकुर्यादिति विनियोगे सिद्धेअङ्गानां प्रधानानां च एकवाक्यतया समिदादिरूपाङ्गकलापजन्योपकारपूर्वकं दर्शपूर्णमासयागैरिष्टं भावयेदिति एक एव अङ्गप्रधानानां प्रयोगविधिःकल्प्यते नातिरिक्त इत्यलम्। सिद्धरूपाणि निष्पन्नत्वेन भासमानस्वरूपाणि। पचति पपाचेत्येवमादौ हि पाकादिक्रियायाः पुरुषप्रयत्नसाध्यतया भानमिति तिङन्ताभिधेया क्रिया साध्यरूपा भवति। घटोबर्हिः–एकं द्वे इत्यादौ तु न तथा भानमिति सिद्धरूपता। संख्यादीत्यादिनाआरुण्यश्चैत्यादिगुणान्तराणां ग्रहणम्। एषां सिद्धरूपाणामङ्गानां क्रियारूपेभ्यो विशेषमाह तानिवेति। दृष्टार्थानि दृष्टफलानि। न तु क्रियारूपाणीव दृष्टार्थान्यदृष्टार्थान्युभयार्थानि चेत्येवकारार्थः। एवं दृष्टार्थत्वेन एकविधत्वादेवात्र नाधिकं वक्तव्यमिति हृदयम्। क्रियारूपाणि निरूपयितुंविभजते क्रियेति। गुणभूतानि कर्माणि गुणकर्माणि। प्रधानभूतानिकर्माणि प्रधानकर्माणि। उभयेषामेषां क्रियारूपाणां व्यावहारिकीं संज्ञामाह एतान्येवेति। यथासंख्यमिति शेषः।
** कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सन्निपत्योपकारकम्।यथाऽवघातप्रोक्षणादि। तच्च त्रिविधं दृष्टार्थं अदृष्टार्थंदृष्टादृष्टार्थं चेति। तत्र दृष्टार्थमवधातादि। अदृष्टार्थं प्रोक्षणादि। दृष्टादृष्टार्थं पशुपुरोडाशादि। तद्धि द्रव्यत्यागांशेनैवादृष्टंदेवतोद्देशांशेन च देवतास्मरणं दृष्टं करोति। इदमेवच आश्रयिकर्मेत्युच्यते। द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्मारादुपकारकम्। यथा प्रयाजादि। आरादुपकारकं चपरमापूर्वोत्पत्तावेवोपयुज्यते। सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते। तदेवं निरूपितः संक्षेपतो विनियोगविधिः।**
सन्निपत्योपकारकं लक्षयति कर्मेति। कर्मणो यागादेरङ्गं यत् द्रव्यंव्रीह्मादि तदाद्युद्देशेनेत्यर्थः। एतेन द्रव्यादिकं प्रति गुणत्वादेव गुणकर्मत्वमिति गुणकर्मत्वोपपादनमपि कृतं वेदितव्यम्। तदिदं सन्निपत्योपकारकं त्रिविधमित्यभिप्रेत्याह तच्चेति। ननु कथमेकस्य कर्मणउभयार्थत्वमित्याशङ्क्य अंशभेदेन तदुपपत्तिरिति समाधानमभिप्रेत्याह तद्धीति। देवतोद्देशेन द्रव्यत्यागो हि यागः। तत्र एकांशो दृष्टार्थः।अन्योऽदृष्टार्थ इति न विरोध इति। उभयार्थस्य कर्मणो नामान्तरमाहइदमेवेति। प्रयाजादिवत् अदृष्टार्थत्वे सत्येव द्रव्यादिकमपि गुणकर्मवदाश्रयतीति आश्रयीत्यभिधानम्। अस्य इदमेव चेत्यादिग्रन्थस्य सर्वेषुमुद्रितपुस्तकेष्वन्यत्र पाठः प्रामादिकः। आरादुपकारकं लक्षयतिद्रव्याद्युद्देशेनेति। अस्यैव विवरणं केवलमिति। एतेन द्रव्यादीनामुद्देश्यत्वाभावाभिधानद्वारा गुणत्वप्रत्यायनात् द्रव्यादिकमपेक्ष्य प्राधान्यात् प्रधानकर्मत्वमिति ज्ञापितमिति ज्ञेयम्। पूर्वं श्रुतिनिरूपणप्रकरणेएवं सर्वेष्वङ्गेष्वपूर्वप्रयुक्तमङ्गत्वं बोध्यमित्युक्तम्। तत्रेदानीं आरादुपकारकसन्निपत्योपकारकयोर्विषये विशेषमाह आरादुपकारकं चेति। उत्पत्तावेवेति। न तु सन्निपत्योपकारकवत् यागस्वरूपनिष्पत्तिद्वारा इति एवकारार्थः। यागस्वरूपेऽपीति। अपिना उत्पत्त्यपूर्वसमुच्चयः। यागस्वरूपद्वारा उत्पत्त्यपूर्व उपयुज्यत इत्यर्थः। यागस्वरूप उपयुज्यमानानामेवाङ्गानां उत्पत्त्यपूर्वार्थत्वमिति ज्ञापनाय एवं वक्राभिधानमिति ज्ञेयम्।ननु कथं सन्निपत्योपकारकाणां यागस्वरूपोपयोगित्वमित्याशङ्क्योक्तं द्रव्यदेवतासंस्कारद्वारेति। द्रव्यदेवते हि यागस्य रूपे। सन्निपत्योपकारकाणि चाङ्गानि द्रव्यदेवतान्यतरसंस्काररूपाणि भवन्ति। तेन सन्निपत्योपकारकाणां यागस्वरूपनिष्पादकत्वमिति भावः। तथा च परमापूर्वप्रयुक्तत्वमारादुपकारकाणां उत्पत्त्यपूर्वप्रयुक्तत्वं सन्निपत्योपकारकाणामितिविशेष उक्तो भवति। विनियोगविधिप्रकरणमुपसंहरति एवमिति।
इति विनियोगविधिप्रकरणम्।
–––––––––
प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः। स चाङ्गवाक्यैकवाक्यतापन्नः प्रधानविधिरेव। स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बेप्रमाणाभावात् अधिलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते। न च तदविलम्बेऽपि प्रमाणाभाव इति वाच्यम्। विलम्बेहि अङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्तिः। विलम्बेन क्रियमाणयोः पदार्थयोः इदमनेन सह कृतमितिसाहित्यव्यवहाराभावात्।
** स चाविलम्बोनियते क्रमे आश्रीयमाणे भवति।अन्यथा हि किमेतदनन्तरमेतत्कर्तव्यमेतदनन्तरं वेतिप्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपि पदार्थविशेषणतया विधत्ते। अत एव अङ्गानां क्रमवोधको विधिः प्रयोगविधिरित्यपि लक्षणम्।**
प्रयोगविधिं निरूपयति प्रयोगेति। प्रकर्षेण आशुः प्राशुः तस्य भावःप्राशुभावः प्रयोगस्य यः प्राशुभावः शैघ्रयं अविलम्बः तस्य बोधकः प्रयोगविधिरित्यर्थः। प्रयोगोऽनुष्ठानम्। नन्वस्य लक्षणस्य किं लक्ष्यं तत्राहसचेति। प्रयाजानुयाजादिप्राच्योदीच्याङ्गसहिताभ्यां दर्शपूर्णमासाभ्यांस्वर्गकामो यजेतेत्ययमेव प्रयोगविधिरित्यर्थः। न त्वङ्गविधिप्रधानविधिभ्योऽतिरिक्तः प्रयोगविधिर्नाम कश्चिच्छ्रूयत इत्येवकारार्थः। नन्वस्य साङ्गदर्शपूर्णमासकर्तव्यताबोधकस्य कथं प्रयोगप्राशुभावबोधकत्वमित्यत्राह सहीति। अयं भावः। प्रयोगविधिस्तावत् फलकामस्य सर्वाण्यङ्गप्रधानानि कर्तव्यानीति बोधयति। तत्र बहुषु कर्तव्येषु युगपदशक्यत्वात् प्रथममेकंकृत्वाऽनन्तरमन्यत् कर्तव्यम्। तत्र किमेकमङ्गं कृत्वा कञ्चित् कालं विलम्ब्यानन्तरं अङ्गान्तरं प्रधानं च कर्तुं युक्तं उत एकस्यापि क्षणस्य विलंबमन्तराऽनन्तरक्षण एव कर्तव्यमिति विमर्शे विलम्ब्यकर्तव्यमिति वचनविशेषस्यादर्शनात् सर्वाण्यङ्गप्रधानान्यविलम्बेन कर्तव्यानीत्यत्र प्रयोगविधिस्तात्पर्यवानिति निश्चीयते। तथा च तस्य प्राशुभावबोधकत्वमिति।अत्र यदि कश्चिदाशङ्केत–विलम्ब्य कर्तव्यमिति वचनाभावमात्रेण अविलम्ब्य कर्तव्यमिति कथं सिद्ध्यति। न ह्यविलम्ब्यकर्तव्यमिति वचनान्तरमस्ति। प्रयोगविधिस्तु सर्वाण्यङ्गानि प्रधानं च कर्तव्यानीत्येतावन्मात्रंबोधयति। न तु तेषामनुष्ठानेऽविलम्बमपि–इति, तन्निरस्यति नचेति। सर्वाण्यङ्गप्रधानानि कर्तव्यानीति बोधयता प्रयोगविधिना सर्वेषामङ्गप्रधानानांमिथः साहित्यमपि बोध्यत इत्यन्यत्र स्थितम्। तच्च साहित्यं विलम्बे सतिनोपपद्यत इति श्रुतसाहित्यान्यथानुपपत्तिरूपार्थापत्तिप्रमाणसहितः प्रयोगविधिरेवाविलम्बबोधको भवतीत्याह विलम्बे हीति। अङ्गेति। अङ्गप्रधानानां विधयः तेषामेकवाक्यता प्रयोगविधिस्वरूपा तयाऽवगतं यत्तत्साहित्यं तेषामङ्गप्रधानानां मिथः साहित्यं तस्यानुपपत्तिरिति। उपपादयति विलम्बेनेति। इतीति। इत्येवंरूपो यः साहित्यव्यवहारः तदभावात्।
एवं साहित्यबोधनद्वारा यदविलम्बबोधकत्वं तत् प्रयोगविधेर्लक्षणमित्युक्तम्। अथ तस्याविलम्बस्य निर्वाहकं क्रम इत्युच्यमानमर्थान्तरमपि प्रयोगविधिना विधीयत इत्यभिधास्यन् प्रथमं तस्य तन्निर्वाहकत्वमाहस चेति। प्रयोगविधिना बोध्यमानश्चेत्यर्थः। नियत इति। बहुषुपदार्थेष्वनुष्ठीयमानेषु यः कश्चित् क्रमोऽवश्यम्भावी। स तु पुरुषभेदेनकालभेदेन च भिद्यते। तादृशः क्रम इह नोच्यते। तस्याविलम्बहेतुत्वाभावात्। किन्तु अस्य पदार्थस्यानन्तरमयमेव पदार्थः कर्तव्यः तस्यानन्तरमयमेव तस्यानन्तरमयमेवेति सर्वदा सर्वैरादरणीयतया निश्चितो यः क्रमः सइहोच्यत इति भावः। अविलम्बहेतुत्वं क्रमस्योपपादयन् क्रमाभावे अविलम्बो न भवतीत्याह अन्यथेति। क्रमानाश्रयण इत्यर्थः। प्रयोगविक्षेपापत्तेरित्यत्रान्वयः। प्रयोगस्य विक्षेपो विलम्बः। ननु क्रमानाश्रयणे कथंविलम्ब इत्यत्रोक्तं किमेतदिति। पूर्वमेव क्रमनिश्चयाभावे प्रयोगमध्येएतत् कर्म किमेतस्य कर्मणोऽनन्तरं कर्तव्यं उत एतस्यानन्तरमिति विचारोजायेत। तेन च विचारेण विलम्बो जायेतेति भावः। अत्र विक्षेपः पदार्थलोप इति व्याचक्षाणा भाट्टालङ्कारकारप्रभृतयोऽत्यन्तमुपेक्षणीयाः। किमेतदित्याद्यनन्वयात्। क्रमाभावे पदार्थलोपापत्तेः क्रमे सति अविलम्बो भवतीत्युपपादनस्य चात्यन्तपरिहास्यत्वात्। एवमविलम्बनिर्वाहकत्वं क्रमस्योक्तम्।अथ तादृशविलम्बसिद्धये तादृशं क्रममपि स एव प्रयोगविधिर्विधत्त इत्याहअत इति। अन्यथा प्रयोगविक्षेपापत्तेरित्यर्थः। ननु क्रमस्य विधानमशक्यम्। स्वतन्त्रपदार्थत्वाभावात्। न हि दानहोमादिवत् क्रमः स्वतन्त्रःपदार्थः। स्वातन्त्र्येण बुद्धावारोपयितुमशक्यत्वात् इत्याशङ्क्योक्तं पदार्थविशेषणतयेति। सत्यं न स्वतन्त्रपदार्थः क्रमः। अत एव न साक्षाद्विधिविषयीभवितुमर्हति। तथापि समिद्यागानन्तरं तनूनपाद्यागः कर्तव्यः तदनन्तरंइड्यागः कर्तव्य इत्येवंरूपेण स्वतन्त्रपदार्थभूतयागादिविशेषणतया विधातुंशक्यत एवेत्यलम्। प्रसङ्गात् इदमपि प्रयोगविधेर्लक्षणं भवतीत्याह अतएवेति। क्रमविधायकत्वादेवेत्यर्थः।
तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा। तत्र षट् प्रमाणानि श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि।तत्र क्रमपरवचनं श्रुतिः। तच्च द्विविधम्। केवलक्रमपरं तद्विशिष्टपदार्थपरं चेति। तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम्। वेदिकरणादेर्वचनान्तरप्राप्तत्वात्। वषट्कर्तुः प्रथमभक्ष इति तु क्रमविशिष्टपदार्थपरम्। एकप्रसरताभङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यत्वात्। सेयं श्रुतिरितरप्रमाणापेक्षयाबलवती। तेषां वचनकल्पनद्वारा क्रमप्रमाणत्वात्। अत एवाश्विनग्रहस्य पाठक्रमात्तृतीयस्थाने ग्रहणप्रसक्तावाश्विनोदशमो गृह्यत इति वचनात् दशमस्थाने ग्रहणमित्युक्तम्।
क्रमं लक्षयति तत्रेति। उक्तरीत्या प्रयोगविधौ विषयीभूत इत्यर्थः। विततीति। प्रथममेकमङ्गं अनन्तरमन्यत् अनन्तरमन्यत् अनन्तरमन्यदिति चरमाङ्गपर्यन्तं यदानुपूर्व्यं सा विततिः। तस्या विशेषो नाम वक्ष्यमाणप्रमाणषट्कानुगृहीतत्वम्। सेयं विततिः सर्वाङ्गप्रधानव्यासक्ता। अथ एकैकपदार्थवृत्तितयाऽन्यादृशं क्रमस्वरूपमाह पौर्वापर्येति। पूर्वापरयोर्भावः पौर्वापर्यम्। आनन्तर्यमित्यत्र तात्पर्यम्। पूर्वपदार्थानन्तर्यं उत्तरपदार्थस्य क्रम इत्यर्थः।प्रयोगविधिर्विधेयस्यास्य क्रमस्य सहकारिप्रमाणानि निरूपयितुमाह तत्रेति। उक्तविधे क्रम इत्यर्थः। श्रुतिं निरूपयति तत्रेति। क्रमः परो बोध्योऽर्थोयस्य तत् क्रमपरं वचनम्। क्रमपरं वचनं विभजते तच्चेति। केवलेति। केवलश्चासौ क्रमश्च तत्परमिति। तदिति। तेन क्रमेण विशिष्टःपदार्थः तत्परम्। आद्यमुदाहरति तत्रेति। वेदः दर्भमुष्टिविशेषः। नन्वत्रकस्मात् वेदिकरणादिपदार्थस्य न विधानमित्यत्राह वेदीति। द्वितीयमुदाहरति वषट्कर्तुरिति। क्रमेति। प्राथम्यरूपक्रमविशिष्टो यो भक्षणरूपःपदार्थः तद्विधायकमित्यर्थः। नन्वत्र कस्मात् मानान्तरप्राप्तभक्षानुवादेन प्राथम्यमात्रविधिर्न भवतीत्यत्राह एकेति। एकस्मिन्नर्थे प्रसरः वृत्तिः यस्यतत् पदं एकप्रसरम् तस्य भावः एकप्रसरता। एकः प्रसरः ययोः तयोर्भाव इति वा। एकार्थीभावलक्षणं सामर्थ्यमित्यर्थः। तस्या भङ्गभयेनेति। भक्षानुवादेन प्राथम्यविधाने हि भक्षस्योद्देश्यत्वेन प्राथम्यस्य चविधेयत्वेन भावनायामन्वयेन परस्परमनन्वयात् प्रथमभक्षपदस्य समासावगतं यदेकार्थप्रतिपादकत्वरूपं सामर्थ्य तस्य भङ्गो भवेदिति। श्रुतेः क्रमबोधकप्रमाणान्तरेभ्यः प्राबल्यमाह सेयमिति। तत्र हेतुमाह **तेषामिति।**इतरप्रमाणानामित्यर्थः। श्रुतिलिङ्गादिवदिदमुपपादनीयम्। श्रुतिपाठयोर्विरोधे श्रुतेः प्राबल्यमुदाहरति अत एवेति। ऐन्द्रवायवंगृह्णाति मैत्रावरुणंगृह्णाति आश्विनं गृह्णातीति तृतीयस्थाने आश्विनग्रहणं श्रूयते।
** यत्र प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः। यथा अग्निहोत्रं जुहोति यवागूं पचतीति अग्निहोत्रयवागूपाकयोः।अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्वमनुष्ठीयते। स चायं पाठक्रमाद्वलवान्। यथापाठं ह्यनुष्ठानेक्लृप्तप्रयोजनबाधोऽदृष्टार्थत्वञ्च स्यात्। न हि होमानन्तरंक्रियमाणस्य पाकस्य किञ्चित् दृष्टं प्रयोजनमस्ति।**
अर्थक्रममाह यत्रेति। येषु पदार्थेषु क्रमनिर्णयः प्रयोजनवशात् तत्संबन्धीक्रमः अर्थक्रम इत्यर्थः। यत्र प्रयोजनवशेन निर्णय इति पाठः श्रेयान्।यत्र यस्मिन् क्रम इत्यर्थः। उदाहरति यथेति। आर्थत्वं क्रमस्योपपादयतिअत्रेति। तत्पाकः यवागूपाकः। अर्थक्रमस्य पाठक्रमात् प्राबल्यमाह स चेति। तदेवात्राप्युदाहरणमिति मन्वानः प्राबल्ये युक्तिमाह यथापाठमिति। अग्निहोत्रं जुहोति यवागूं पचतीति पाठानुसारेण पूर्वमग्निहोत्रहोमः अनन्तरंयवागूपाक इत्येवमनुष्ठाने सतीत्यर्थः। क्लृप्तति। यवागूपाकस्येति शेषः।अग्निहोत्रहोमनिष्पत्तिः क्लृप्तं प्रयोजनम्। यवाग्वाऽग्निहोत्रं जुहोतीतिवचनात्। तस्य बाधःस्यात्। न ह्यनन्तरं पक्ष्यमाणाया यवाग्वाः पूर्वंक्रियमाणाग्निहोत्रहोमनिष्पत्तिः प्रयोजनं भवितुमर्हति। द्रव्यान्तरेणैवतस्यनिष्पन्नत्वात्। एवं क्लृप्तहानिरूपं दोषमभिधाय अक्लृप्तकल्पनरूपंदोषान्तरमाह अदृष्टार्थत्वं चेति। ननु होमरूपदृष्टप्रयोजनस्य पूर्वमेव निष्पन्नत्वेऽपि अन्यत् किञ्चिद्दृष्टप्रयोजनं यवागूपाकस्यास्त्वित्यत्राह न हीति। शास्त्रबोधितं हि प्रयोजनं भवति। नैच्छिकं किञ्चित्। शास्त्रं चयवाग्वाऽग्निहोत्रं जुहोतीति होमनिष्पादनमेव प्रयोजनं बोधयति। तस्यच प्रकारान्तरेण पूर्वमेव निष्पत्तौ विहितस्य अनन्तरं क्रियमाणस्य यवागूपाकस्य अदृष्टमेव प्रयोजनं कल्पनीयमिति भावः।
** पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः। तस्माच्चपदार्थानां क्रम आश्रीयते। येन हि क्रमेण वाक्यानिपठितानि तेनैव क्रमेणाधीतान्यर्थप्रत्ययं जनयन्ति। यथाप्रत्ययं च पदार्थानामनुष्ठानम्। स च पाठो द्विविधः।मन्त्रपाठो ब्राह्मणपाठश्चेति। तत्राग्नेयाग्नीषोमीययोस्तत्तद्याज्यानुवाक्यानां पाठाद्यः क्रम आश्रीयते स मन्त्रपाठात्। स चायं मन्त्रपाठो ब्राह्मणपाठाद्बलीयान्। अनुष्टाने ब्राह्मणवाक्यापेक्षया मन्त्रपाठस्यान्तरङ्गत्वात्।ब्राह्मणवाक्यं हि प्रयोगाद्बहिरेवेदं कर्तव्यमिति अवबाध्य कृतार्थम्। मन्त्राः पुनः प्रयोगकाले व्याप्रियन्ते। तेनअनुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वात् अन्तरङ्गो मन्त्रपाठ इति। प्रयाजानांसमिधो यजति तनूनपातं यजति इत्येवं विधिपाठक्रमाद्यः क्रमः स ब्राह्मणपाठक्रमात्। यद्यपि ब्राह्मणवाक्यान्यर्थं विधाय कृतार्थानि तथापि प्रयाजादीनां(क्रम)स्मारकान्तरस्याभावात्तान्येव क्रमस्मारकत्वेन स्वीक्रियन्ते।**
उक्तेषु श्रत्यादिषु ष्टसक्रमप्रमाणेषु, श्रुतिः अर्थः स्थानमिति त्रयंस्वरूपेण पदार्थानां क्रमबोधकम्। पाठः मुख्यं प्रवृत्तिरितीदं त्रयंतु नतथा। किं तु स्वीयेन क्रमेण पदार्थानां क्रमबोधकम्। तस्मात् पाठस्यस्वीयं क्रमं तावदादौ निरूपयति पदार्थेति। तेन पदार्थानां क्रमः प्रमीयत इत्याह तस्माच्चेति। प्रमापकत्वमुपपादयति येनेति। अर्थस्यप्रत्ययं प्रतीति बोधमित्यर्थः। यथाप्रत्ययाप्नेति। प्रतीतिक्रमानुरोधेनेत्यर्थः। पाठं विभजते स चेति। आद्यस्य क्रमबोधकत्वमुदाहरति तत्राग्नेयेति। आग्नेययाज्यानुवाक्यायुगलं पूर्वं पठ्यते। अनन्तरमग्नीषोमीययाज्यानुवाक्यायुगलम्। एवं च अनेन मन्त्रपाठक्रमेण पूर्वमाग्नेययागः पश्चादग्नीषोमीय इत्यनयोः पदार्थयोः क्रमः सिद्ध्यतीत्यर्थः। लाघवादत्रैव पाठद्वयस्य बलाबलमाह स चायमिति। हेतुमाह अनुष्ठान इति। हेतुमुपपादयति ब्राह्मणेति। ननु व्याप्रियन्तां नाम। तावता कथं क्रमबोधनेऽन्तरङ्गत्वमित्यत्राह तेनानुष्ठानेति। तत्क्रमस्यस्मरणक्रमस्य। ब्राह्मणपाठक्रमात् क्रममुदाहरति **प्रयाजानामिति।**पूर्वं मन्त्रपाठादिति क्रमपदं विनोक्तेः अत्र ब्राह्मणपाठक्रमादिति क्रमपदघटनेनोक्तेश्चनातीव विशेष इति ध्येयम्। ननु पूर्वं ब्राह्मणवाक्यपाठस्यक्रमबोधने व्यापारो नास्तीत्युक्तमित्याशङ्क्य परिहरति।यद्यपीति।स्वीक्रियन्त इति। तथा च स्मारकत्वे स्थिते तदीयक्रमात् स्मार्याणां प्रयाजादीनां क्रमः सिद्ध्यतीति भावः।
** स्थानं नामोपस्थितिः। यस्य हि देशे योऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तंतस्य प्रथममनुष्ठानम्। अत एव साद्यस्क्रेअग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सवनीयपशोरनुष्ठानमितरयोः पश्चात्। तस्मिन् देशे आश्विनग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितेः।तथाहि। ज्योतिष्टोमे त्रयः पशुयागाः अग्नीषोमीयःसवनीय अनुबन्ध्यश्चेति। ते च भिन्नदेशाः। अग्नीषोमीय औपवसथ्येऽन्हि। सवनीयः सुत्याकाले। आनुबन्ध्यस्त्वन्ते। साद्यस्क्रोनाम सोमयागविशेषः।स चाव्यक्तत्वात् ज्योतिष्टोमविकारः। अतस्ते त्रयोऽपिपशुयागाः साद्यस्क्रेचोदकप्राप्ताः। तेषां तत्र साहित्यंश्रुतं सह पशूनालभत इति। तच्च साहित्यं सवनीयदेशे।तस्य प्रधानप्रत्यासत्तेः। स्थानातिक्रमणसाम्याच्च। सवनीयदेशे ह्यनुष्ठानेऽग्नीषोमीयानुबन्ध्ययोः स्वस्वस्थानातिक्रममात्रं भवति। अग्नीषोमीयदेशे त्वनुष्ठाने सवनीयस्यस्वस्थानातिक्रममात्रम्। आनुबन्ध्यस्य तु स्वस्थानातिक्रमःसवनीयस्थानातिक्रमश्च स्यात्। एवमनुबन्ध्यदेशेऽग्नीषोमीयस्य द्रष्टव्यः। तथा च सवनीयदेशे सर्वेषामनुष्ठानेकर्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहाणनन्तरं हि सवनीयदेशः। तथा च प्रकृतावाश्विनं ग्रहं ग्रहीत्वात्रिवृता यूपं परिवीय सवनीयं पशुमुपाकरोतीत्याश्विनग्रहणान्तरं सवनीयो विहित इति साद्यस्क्रेऽप्याश्विनग्रहणेकृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात्प्रथममनुष्ठानम्। इतरयोस्तु पश्चादित्युक्तम्।**
स्थानात्क्रमं निरूपयन् स्थानपदार्थमाह स्थानमिति। ननु स्थानशब्दस्य उपस्थित्यर्थकत्वमप्रसिद्धमित्याशङ्कायां स्थानप्रयोज्यत्वात् लक्षणया स्थानमुपस्थितिरिति समाधानमभिप्रयन् तस्य क्रमहेतुत्वमुपपादयति **यस्य हीति।**यस्य स्थानवतः देशे स्थाने यः स्थानान्तरस्थितः तत्स्थानशून्यः प्रमाणान्तरवशादनुष्ठीयते तत्पूर्वतने तस्मात् स्थानवतः पूर्वकर्तव्ये पदार्थे कृते स एवस्थानवानेव पदार्थः। अत्र द्वितीययच्छब्दप्रतिनिर्देशकस्तच्छब्दः पञ्चम्यन्तःअध्याहर्तव्यः। तस्मात् स्थानशून्यात् प्रथमं पूर्वमुपस्थितो भवतीत्यर्थः। उपस्थितिक्रमानुसारेण च पदार्थानामनुष्ठानमित्युपपन्नं स्थानस्य क्रमबोधकत्वमिति। उदाहरणमाह **अत एवेति।**स्थानरूपप्रमाणसद्भावमाह **तस्मिन्निति।**सवनीयसम्बन्धिनीत्यर्थः। कोऽसौ सवनीयदेश इत्यत्रोक्तं आश्विनग्रहणानन्तरमिति। एवं संगृह्योक्तं विवरीतुमारभते तथा हीति। साद्यस्क्रइति।समानेऽहनि क्रियमाण इत्यर्थः। समाने एकस्मिन्। अव्यक्तत्वादिति। स्वार्थविहितदेवताशून्य इत्यर्थ इत्यन्यत्र विस्तरः। साहित्यमिति। एककालानुष्ठेयत्वमित्यर्थः। नन्वस्तु प्रकृतौ भिन्नकालानुष्ठेयानां त्रयाणां साद्यस्क्रेएकककालानुष्ठेयत्वम्। तत्तु सवनीयदेश इति कथम्। अग्नीषोमीयस्य आनुबन्ध्यस्य वा देशेऽप्युपपत्तेरित्यत्राहतच्चेति।तस्येति। सवनीयदेशस्येत्यर्थः। प्रत्यासत्तिः सन्निकर्षः। युक्त्यन्तरमाह स्थानेति। इदमुपपादयति सवनीयेति।
** प्रधानक्रमेण योऽङ्गानां क्रमः स मुख्यक्रमः। येन हिक्रमेण प्रधानानि क्रियन्ते तेनैव चेत्क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गानां स्वैः स्वैः प्रधानैस्तुल्यं व्यवधानंभवति। व्युत्क्रमेणानुष्ठाने केषां चिदङ्गानां स्वैः प्रधानैरत्यन्तमव्यवधानं केषां चिदत्यन्तव्यवधानं स्यात्। तच्चायुक्तम्। प्रयोगविध्यवगतसाहित्यबाधापत्तेः। अतःप्रधानक्रमोऽपि अङ्गक्रमे हेतुः। अत एव प्रयाजशेषेणादावाग्नेयहविषोऽभिधारणम्। पश्चादैन्द्रस्य दध्नः। आग्नेयैन्द्रयागयोः पौर्वापर्यात्। एवं च द्वयोरभिघारणयोःस्वस्वप्रधानेन तुल्यमेकान्तरितं व्यवधानम्। व्युत्क्रमेणाभिधारे त्वाग्नेयहविरभिधारणाग्नेययागयोरत्यन्तमव्यवधानम्। ऐन्द्रदध्यभिधारणैन्द्रयागयो-र्ह्यन्तरितंव्यवधानम्। तच्चायुक्तमित्युक्तमेव।**
** स च मुख्यक्रमः पाठक्रमात् दुर्बलः। मुख्यक्रमो हिप्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्वितप्रतिपत्तिकः। पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान्। स चायं मुख्यक्रमः प्रवृत्तिकमाच्च बलवान्। प्रवृत्तिक्रमे हि बहूनामङ्गानां प्रधानविप्रकर्षात्। मुख्यक्रमे तु सन्निकर्षात्।**
मुख्यक्रममाह प्रधानेति। मुख्यक्रम इति। मुख्यप्रयोज्यः क्रमइत्यर्थः। प्रधानक्रमस्य अङ्गक्रमनियामकत्वमुपपादयति येन हीति। उदाहरणमाह अत एवेति। अभिधारणमिति। प्रयाजशेषेण हवींष्यभिधारयतीति वाक्यविहितमभिधारणम्। प्रधानक्रमसद्भावमाह आग्नेयेति। पौर्वापर्यादिति। आग्नेययागस्य पूर्वं ऐन्द्रयागस्य तदनन्तरंच कर्तव्यत्वादित्यर्थः। पूर्वोक्तामुपपत्तिमत्र प्रदर्शयति एवं चेति। एकेति। अन्तरितः व्यवधानप्रयोजकः मध्ये स्थितः पदार्थः। एकः अन्तरितः यस्मिन् व्यवधाने तदेकान्तरितम्। एवमुत्तरत्रापि। व्युत्क्रमेणप्रधानक्रमानादरेण। पूर्वमैन्द्रहविषः पश्चादाग्नेयहविषश्चाभिधारणे कृत इत्यर्थः।अस्य मुख्यप्रमाणकस्य क्रमस्य पूर्वोक्तपाठप्रमाणकक्रमापेक्षया दौर्बल्यमाह सचेति। तत्र युक्तिमाह मुख्येति। प्रमाणान्तरेति। मन्त्रपाठब्राह्मणपाठान्यतरसापेक्षो यः प्रधानानां क्रमः तत्प्रतिपत्तिसापेक्षतयेत्यर्थः।पाठक्रमस्त्विति। पाठप्रमाणकः क्रम इत्यर्थः। निरपेक्षेति। निरपेक्षो यः स्वाध्यायपाठक्रमः तन्मात्रेत्यर्थः। न तथेति। न विलम्बितप्रतीतिक इत्यर्थः। अत्रोदाहरणं– आग्नेयोपांशुयाजाग्नीषोमीयेषु क्रमेणानुष्ठीयमानेष्वपि उपांशुयाजाज्यनिर्वापः मुख्यक्रमात् अग्नीषोमीयव्रीहिनिर्वापात् पूर्वं नानुष्ठीयते। मुख्यक्रमस्य दुर्बलत्वात्। किं तु पाठक्रमात् ततः पश्चादनुष्ठीयते। पाठक्रमस्य प्रबलत्वादिति। इदानीं मुख्यक्रमस्यैव स्वानन्तरप्रवृत्तिक्रमात् प्राबल्यमाह स चायमिति। प्रवृत्तिक्रमाच्चेति। चकारो भिन्नक्रमः। प्रवृत्तिक्रमाद्बलवांश्चेति। तत्र युक्तिमाहप्रवृत्तीति। प्रवृत्तिक्रमे अङ्गानां मिथःसाहित्यरक्षणं तन्त्रम्। मुख्यक्रमेतु अङ्गानां प्रधानसाहित्यरक्षणं तन्त्रम्। तस्मान्मुख्यक्रमः प्रबल इतिसंक्षेपः। निरूपयिष्यमाणः प्रवृत्तिक्रमश्चात्र सम्यक् चिन्तनीयः।
** सह प्रयुज्यमानेषु प्रधानेषु सन्निपातिनामङ्गानामावृत्त्याऽनुष्ठाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमाद्यः क्रमः स प्रवृतिक्रमः। यथा प्राजापत्यपश्वङ्गेषुःप्राजापत्या हि वैश्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः। अतस्तेषां तदङ्गानां चोपाकरणनियोजनप्रभृतीनां।साहित्यं सम्पाद्यम्। तच्च प्राजापत्यपशूनां सम्प्रतिपन्नदेवताकत्वेन युगपदनुष्ठानादुपपद्यते। तदङ्गानां चोपाकरणादीनां युगपदनुष्ठानमशक्यम्। अतस्तेषां साहित्यमव्यवहितानुष्ठानात्सम्पाद्यम्। तत्रैकस्योपाकरणं विधायापरस्योपकरणं विधेयम्। एवं नियोजनादिकमपि। तथा च प्राजापत्येषु कस्माच्चित्पशोरारभ्य एकं सर्वत्रानुष्ठाय द्वितीयादिपदार्थस्तेनैव क्रमेणानुष्ठेयः। स प्रवृत्तिक्रमः। सोऽयं श्रुत्यादिभ्यो दुर्बलः। तदेवं सङ्क्षेपतोनिरूपितः षट्विधक्रमनिरूपणेन प्रयोगविधिः।**
प्रवृत्तिक्रमं लक्षयति सहेति। अत्र द्वितीयादिपदार्थानामित्येतदारभ्यलक्षणमुच्यते। ननु एकैकः पदार्थः सकृदनुष्ठेयः। तत्र का क्रमापेक्षेत्यत्र, यत्रएकैकः पदार्थो बहुकृत्वोऽनुष्ठेयो भवति तत्रैवायं प्रवृत्तिक्रम इति समाधानाभिप्रायेणोक्तं आवृत्त्याऽनुष्ठाने कर्तव्य इति। ननु कुत्राङ्गानामावृत्त्याऽनुष्ठानमित्यत्रोक्तं सह प्रयुज्यमानेषु प्रधानेष्विति। अनेकेषु यागेषु एकस्मैफलाय एकेन प्रयोगेण क्रियमाणेषु तत्सम्बन्धीन्यङ्गानि प्रतिप्रधानं आवृत्त्याअनुष्ठेयानि भवन्तीत्यर्थः। तत्र प्रयाजादीनामारादुपकारकाणां तन्त्रत्वेनआवृत्त्यभावादुक्तं सन्निपातिनामिति। प्रथमानुष्ठितेति। एतेन प्रथमानुष्ठानं प्रवृत्तिरिति व्याख्यातं भवतीति ज्ञेयम्। प्रवृत्तिक्रम इति। प्रवृत्तिप्रमाणकः क्रम इत्यर्थः। उदाहरणमाह यथेति। सप्तदश प्राजापत्यान्पशूनालभत इति वाक्येन विहिताः सन्ति सप्तदश प्राजापत्याः पशवः। तेषां चाङ्गानि उपाकरणनियोजनादीनि। तत्र यस्मात्कस्माच्चित्पशोरारभ्य सर्वेषां पशूनामुपाकरणं कर्तव्यम्। अनन्तरं तेनैव क्रमेण सर्वेषांनियोजनादिकमपि क्रियत इति तत्र प्रवृत्तिक्रम इत्यर्थः। ननु प्रथमंएकस्यैव पशोः सर्वं उपाकरणनियोजनादिकमङ्गजातं कृत्वा अनन्तरंअन्यस्य सर्वं अनन्तरमन्यस्य सर्वमित्येव कस्मान्न क्रियत इत्याशंकां परिहर्तुमाह प्राजापत्या हीति। नन्वस्मिन् वाक्ये इतिकर्तव्यतावाचकपदाभावात् कथं सेतिकर्तव्यताकानां एककालत्वमित्यत्रोक्तं तृतीयानिर्देशादिति। यत्र प्रधानस्य द्वितीयया निर्देशः तत्र विधेयस्य प्रधानमात्रेऽन्वयः।यत्र तु तृतीयया निर्देशः तत्र साङ्ग एव प्रधानेऽन्वय इति स्थितो न्यायः।तेनात्र पशुयागानां प्राजापत्यैरिति तृतीयानिर्देशात् वैश्वदेवीं कृत्वेति वैश्वदेव्युत्तरकालस्य विधेयस्य साङ्गेष्वेव तेष्वन्वय इति भावः। एककालत्वेनेति। सप्तदशापि यागा युगपत्कर्तव्याः। सप्तदशानां पशूनामुपाकरणं युगपत्कर्तव्यम्। एवं नियोजनादिकमपि युगपत्कर्तव्यमिति विधीयत इत्यर्थः। एवं साङ्गानामेककालत्वेन विहितत्वात् प्रधानेष्विव अङ्गेष्वपि एककालत्वरूपं साहित्यं संपाद्यमित्याह अत इति। तत्र प्रकृतोपयोगितया अङ्गानांसाहित्यमन्यादृशमित्युपपादयिष्यन् प्रधानानां यथाश्रुतं साहित्यमुपपन्नमित्याह तच्चेति। साहित्यं चेत्यर्थः। संप्रतिपन्नेति। प्रजापतिरूपैकदेवताकत्वेनेत्यर्थः। इदानीमङ्गेषु यथाश्रुतं साहित्यमनुपपन्नमित्याह तदङ्गानां चेति। प्राजापत्याङ्गानां चेत्यर्थः। युगपदिति। उपाकरणस्य एकस्मिन्नेव काले सर्वेषु पशुषुअनुष्ठानमशक्यम्। एवं नियोजनादीनामित्यर्थः। तर्हि कथं साहित्यसम्पादनमित्यत्राह अत इति। आनन्तर्यरूपं साहित्यमित्यर्थः। अव्यवहितानुष्ठानमेव उदाहरणे प्रदर्शयति तत्रेति। एवमिति। एकस्य कृत्वा अपरस्य कर्तव्यमित्यर्थः। एवं सर्वेषु पशुषु प्रोक्षणादेरेकैकस्याङ्गस्य आनन्तर्यपर्यवसितस्य साहित्यस्य बोधनात् सर्वेषां पशूनां प्राथमिकमङ्गं कृत्वैवानन्तरमङ्गमनुष्ठेयं न त्वेकस्यैव पशोः सर्वाङ्गानुष्ठानम्। तथा च प्रथमपदार्थानुष्ठानक्रमेण द्वितीयादिपदार्थाः कर्तव्या इति सिद्ध्यत्यत्र प्रवृत्तिक्रम इतिपूर्वोक्तशङ्कां परिहरन्नाह तथा चेति। एवमेकस्यैवाङ्गस्य अङ्गिभेदेनाभ्यासेकर्तव्ये यत्साहित्यं प्रयोगविधिप्रमेयं तदिह पदार्थानुसमयनिर्वाहकतया प्रतिपादितम्। प्रथमपदार्थानुष्ठानक्रमेणैव द्वितीयादिपदार्थाःकर्तव्या इतिप्रवृत्तिक्रमस्य, एकैकाङ्गस्य अङ्गान्तरेण यत्साहित्यं तन्नियामकम्। तदुपपादनं तु अत्र ग्रन्थकारो विस्तरभियोपक्षितवानिति ज्ञेयम्। अस्य चरमस्य क्रमप्रमाणस्य सर्वपूर्वप्रमाणापेक्षया दौर्बल्यमाह सोऽयमिति। प्रयोगविधिमुपसंहरति तदेवमिति। क्रमनिरूपणेनेति। लक्षणस्यापि निरूपणान्तर्गतत्वेऽपि क्रमनिरूपणस्यैव विस्तृतत्वात् तन्मात्रोक्तिः।
॥ इति प्रयोगविधिप्रकरणम् ॥
–––––––
** कर्मजन्यफलस्वाम्यबोधको विधिरधिकारविधिः।कर्मजन्यफलस्वाम्यं कर्मजन्यफलभोक्तृत्वम्। स च यजेतस्वर्गकाम इत्यादिरूपः। स्वर्गमुद्दिश्य यागं विदधताऽनेनस्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते। यस्याहिताग्नेरग्निर्गृहान् दहेत्सोऽग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेदित्यादिनाऽग्निदाहादौ निमित्ते कर्म विदधता निमित्तवतः कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते। एवमहरहः सन्ध्यामुपासीतेत्यादिना शुचिविहितकालजीविनः सन्ध्योपासनजन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते। तच्च फलस्वाम्यं तस्यैव योऽधिकारविशिष्टः। अधिकारश्च यद्विधिवाक्येषु पुरुषविशेषणत्वेन श्रूयते। यथा काम्ये कर्मणि फलकामना नैमित्तिककर्मणि निमित्तनिश्चयः। नित्ये सन्ध्योपासनादौ शुचिविहितकालजीवित्वम्। अत एव राजा राजसूयेन स्वाराज्यकामो यजेतेत्यनेन विधिवाक्येन स्वाराज्यमुद्दिश्यराजसूयं विदधताऽपि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते। किं तु राज्ञः सतः स्वाराज्यकामस्यैव। राजत्वस्यापि अधिकारिविशेषणत्वेन श्रवणात्।**
क्वचित् तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम्। यथा अध्ययनविधिसिद्धा विद्या। क्रतुविधीनामर्थज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्तं प्रत्येव प्रवृत्तेः। एवमग्निसाध्यकर्मसु आधानसिद्धाग्निमत्ता। अग्निसाध्यकर्मणामग्न्यपेक्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः।
** एवं सामर्थ्यमपि। आख्यातानामर्थं ब्रुवतां शक्तिः सहकारिणीति न्यायात् समर्थं प्रत्येव विधिप्रवृत्तेः।**
** तदेवं निरूपितो विधिः ॥**
अधिकारविधिं निरूपयति कर्मेति। कर्मजन्यं यत्फलं तस्य स्वाम्यमिति।अधिकारेति। अधिकारः फलस्वाम्यमिति पार्थसारथिः। स्वाम्यशब्दार्थंविवृणोति कर्मेति। उदाहरणमाह स चेति। अस्य फलभोक्तृत्वमुपपादयतिस्वर्गमिति। तत्र हि स्वर्गभाव्यका यागभावना स्वर्गकामकर्तृका इति बोधः।आत्मनेपदेन च स्वर्गकामनिष्ठस्य कर्तृत्वस्य फलसामानाधिकरण्यं भासते।एवं च फलसमानाधिकरणकर्तृत्वबोधे कर्तुः फलवत्त्ववोधात् तस्य च फलस्यस्वर्गपदेन स्वर्गरूपत्वावगमात् अयं विधिः स्वर्गकामनावतः स्वर्गरूपफलभोक्तृत्वबोधको भवतीत्यर्थः। अयं च काम्याधिकारविधिः। अथ नैमित्तिकाधिकारविधिमुदाहरति यस्येति। कर्मेति। कर्मजन्यः यः पापक्षयः तद्रूपं फलंतत्स्वाम्यमिति। यद्यप्यस्मिन्वाक्ये फलं न श्रूयते तथाऽपि धर्मेण पापमपनुदतीत्यादिना कल्प्यत इति यावज्जीवाधिकरणे द्रष्टव्यम्। अथ नित्याधिकारविविमुदाहरति। एवमिति। शुचीति। सायंप्रातःकालरूपे विहितेकाले जीवतीति विहितकालजीवी शुचिश्चासौ विहितकालजीवी च तस्यपुरुषस्येत्यर्थः। सन्ध्येति। सन्ध्योपासनेन जन्यः परिपाल्यः प्रत्यवायपरिहारः तद्रूपफलस्वाम्यमित्यर्थः। अकरणे हि प्रत्यवायो भवेत्। करणे च तस्यपरिहारः अनुत्पत्तिर्भवतीत्यर्थः। इदं च केषांचिन्मतेन। वस्तुतस्त्वत्रापिपापध्वंस एव फलमिति बोध्यम्। प्रत्यवायपरिहार इत्यस्यैव वा पापध्वंसएवार्थ इत्यन्यत्र विस्तरः। तत्तद्विधिप्रमेयमुक्तविधं फलस्वाम्यं न सर्वेषांकिन्तु केषांचिदेव व्यवस्थितमिति प्रतिपादयन्नाह तच्चेति। **अधिकारेति।अत्र अधिकारो योग्यता। ननु कोऽत्र योग्यतारूपोऽधिकार इत्यत्राहअधिकारश्चेति।**अधिकारश्च1 तदेव यत्……. इत्येव पाठः श्रेयान्। यथास्थितेऽपि तदेवेत्यध्याहृत्य योज्यम्। उदाहृतेषु त्रिषु कर्मसु पुरुषविशेषणं दर्शयति यथेति। स्वर्गकामपदेन स्वविषयककामनावत्पुरुषाभिधानात्स्वर्गकामना तत्र विशेषणम्। अज्ञातस्य निमित्तस्य अनुष्ठापकत्वायोगात् ‘स्वगृहदाहज्ञानवान् पुरुषः अग्नये क्षामवते निर्वपे दित्येव वचनार्थात् गृहदाहरूपनिमित्तनिश्चयोऽपि पुरुषविशेषणम्। अहरहरित्यत्रापि विहिते काले अजीवतोऽनुष्ठानायोगात् अशुचित्वे कर्मनिषेधाच्च शुचिर्जीवंश्च अहरहस्सन्ध्यामुपासीतेत्यर्थपर्यवसानात् शुचित्वजीवनयोः पुरुषविशेषणत्वं द्रष्टव्यम्। एवञ्च यजेतस्वर्गकाम इत्यत्र यागे स्वर्गकामनावत एव फलभोक्तृत्वम् न तत्कामनारहितस्य; गृहदाहवत एव क्षामेष्टौ फलवत्त्वं न तद्रहितस्य; शुचेर्जीवत एव सन्ध्योपासने फलभाक्त्वं नाशुचेरजीवतो वेति एवं। त्रैवर्णिकसाधारणंपुरुषविशेषणं प्रदर्श्य संप्रति असाधारणं विशेषणं प्रदर्शयति **अत एवेति।**पुरुषविशेषणत्वेन श्रुतो यो धर्मस्तद्रूपाधिकारवत एव फलस्वाम्यादित्यर्थः।विदधताऽपीति। यजेत स्वर्गकाम इत्यत्र स्वर्गकामनाया इवात्रस्वाराज्यकामनायाः पुरुषविशेषणत्वेन श्रवणात् तन्मात्रात् यद्यपि यो यः स्वाराज्यंकामयते स सर्वो राजसूये फलभोक्तेति प्रतीयते, तथाऽपि राजेति राजत्वरूपस्य विशणान्तरस्यापि श्रवणात् न स्वाराज्यकामस्य ब्राह्मणादेरत्र फलस्वामित्वं किन्तु राज्ञ एवेत्यर्थः। अधिकारीति। फलभोक्तृपुरुषेत्यर्थःएवं तत्तद्विधिवाक्येषु श्रुतं पुरुषविशेषणमुक्त्वा तथाऽश्रुतमपि विशेषणमस्तीत्याह **क्वचित्त्विति।**अधिकारिविशेषणं अधिकार इत्यर्थः। योग्यतेति यावत्। तत्प्रदर्शयति यथेति। विद्या ज्ञानम्। ननु विद्यायअश्रुतत्वे पुरुषविशेषणत्वे किं मानमित्यत्र वस्तुसामर्थ्यमेव तत्र मानमित्य स एवेति वा। भिप्रेत्याह क्रत्विति। विशेषणान्तरमाह एवमिति। पूर्वोक्ता विद्या सर्वकर्मस्वपेक्षिता अग्निस्तु न तथेत्यभिप्रेत्याह अग्निसाध्यकर्मस्विति। विशेषणान्तरमाह एवमिति। तत्रोपपत्तिमाह आख्यातानामिति। विधिनिरूपणमुपसंहरति तदेवमिति।
॥ इत्यधिकारविधिप्रकरणम् ॥
इति विधिपरिच्छेदस्तृतीयः।
——————
** प्रयोगसमवेतार्थस्मारका मन्त्राः। तेषां च तादृशार्थस्मारकत्वेनैवार्थवत्त्वम्। नतु तदुच्चारणमदृष्टार्थम्। सम्भवति दृष्टफलकत्वेऽदृष्टफलकल्पनाया अन्याय्यत्वात्।न च दृस्यार्थस्मरणस्य प्रकारान्तरेणापि सम्भवान्मन्त्राम्नानं व्यर्थमिति वाच्यम्। मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणात्। नानासाधनसाध्यक्रियायामेकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रापको विधिर्नियमविधिः। यथाहुः– विधिरत्यन्तमप्राप्तेनियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसङ्ख्येति गीयते॥इति। अस्यार्थः। प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिरपूर्वविधिः। यथा यजेत स्वर्गकाम इत्यादिः। स्वर्गार्थयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात्।**
** पक्षेऽप्राप्तस्य प्रापको विधिर्नियमविधिः। यथा व्रीहीनवहन्तीत्यादिः। कथमस्य पक्षेऽप्राप्तप्रापकत्वमिति चेदित्थम्। अनेन ह्यवघातस्य वैतुष्यार्थत्वं न प्रतिपाद्यते।अन्वयव्यतिरेकसिद्धत्वात्। किन्तु नियमः। स चाप्राप्तांशपूरणम्। वैतुष्यस्य हि नानोपायसाध्यत्वाद्यदाऽवघातंपरित्यज्य उपायान्तरं ग्रहीतुमारभते तदाऽवघातस्याप्राप्तत्वेन तद्विधाननामकमप्राप्तांशपूरणमेवानेन विधिना क्रियते। अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः। पक्षेऽप्राप्तावघातस्य विधानमितियावत्।**
** उभयोश्च युगपत्प्राप्तावितरव्यावृत्तिपरो विधिःपरिसंख्याविधिः। यथा पञ्च पञ्चनखा भक्ष्या इति। इदंहि वाक्यं न पञ्चपञ्चनखभक्षणपरम्। तस्यरागतःप्राप्तत्वात्। नापि नियमपरम्। पञ्चपञ्चनखपञ्चेतरपञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षे प्राप्त्यभावात्। अत इदं अपञ्चपञ्चनखभक्षणनिवृत्तिपरामिति परिसङ्ख्याविधिः। सा च द्विधा। श्रौती लाक्षणिकी चेति। तत्र अत्रह्येवावपन्तीति श्रौती परिसङ्ख्या। एवकारेण पवमानातिरिक्तस्तोत्रव्यावृत्तेरभिधानात्। पञ्च पञ्चनखा भक्ष्या इति तु लाक्षणिकी। इतरनिवृत्तिवाचकपदाभावात्। अत एवैषा त्रिदोषग्रस्ता।दोषत्त्रयं च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति। तदुक्तं–**
श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात्।
प्राप्तस्य बाधादित्येव परिसंख्या त्रिदूषणा॥
** इति। श्रुतस्य पञ्चपञ्चनखभक्षणस्य हानात्; अश्रुताया अपञ्चपञ्चनखभक्षणनिवृत्तेः कल्पनात्; प्राप्तस्य चापञ्चपञ्चनखभक्षणस्य बाधनादिति। अस्मिंश्चदोषत्रये दोषद्वयं शब्दनिष्ठम्। प्राप्तबाधस्त्वर्थनिष्ठ इति दिक्। येषां तु प्रयोगसेमवेतार्थस्मारकत्वं न सम्भवति तदुच्चारणस्यानन्यगत्याऽष्टार्थकत्वं कल्प्यतइति नानर्थक्यमिति॥**
मन्त्रानुपलक्षयति प्रयोगेति। ननुप्रयाजादिवन्मन्त्रोच्चारणमदृष्टार्थं स्यादित्यत्राह तेषां चेति। मन्त्राणां चेत्यर्थः। तादृशेति। प्रयोगसमवेतेत्यर्थः। तदुच्चारणं मन्त्रोच्चारणम्। तत्र न्यायमाह **सम्भवतीति।**दृष्टफलकत्वे मन्त्राणांवैयर्थ्यमाशङ्क्य परिहरति **आश्रयणादिति।**अङ्गीकारादित्यर्थः। ननु को नियमविधिरित्यत्राह नानेति। प्रामाण्यदार्ढ्याय विधित्रयलक्षणप्रतिपादकं वार्तिकग्रन्थमुदाहरति यथाहुरिति। विधिरित्यपूर्वविधिरुच्यते। श्लोकं व्याख्यातुमाह अस्यार्थइति। विधेयेऽर्थे मानान्तरेण सर्वथाऽप्राप्ते सति तद्विधानाय प्रवृत्तोयो विधिः सोऽपूर्वविधिरिति प्रथमपादार्थ इत्यभिप्रायेणाह **प्रमाणान्तरेणेति।**उदाहरणमाह यथेति। लक्षणं सङ्गमयति स्वर्गार्थेति॥
नियमः पाक्षिके सतीत्यस्य तात्पर्यमाह पक्ष इति। उदाहरति यथेति। लक्षणसङ्गमनाय प्रश्नप्रतिवचने करोति कथमिति इत्थमिति च। अपूर्वविधित्वंनास्तीत्याह अनेन हीति। किन्त्विति। प्रतिपाद्यत इत्यनुषंजनीयम्। अवधातेनैव व्रीहीणां वैतुष्यं कर्तव्यमिति नियम इति वैयाकरणरीत्या इतरनिवृतिपरत्वं न ग्रहीतव्यमित्यभिप्रेत्य व्याचष्टे **स चेति। अप्राप्तांश इति।**अंशः विधेयतावच्छेदकधर्मावच्छिन्नव्यक्तिविशेषः। पूरणं विधानम्। अप्रातत्वं तादृशांशपूरकत्वंचोपपादयति वैतुष्यस्येति। नानेति। नखविदलनाश्मकुट्टनाववातादिरूपतया बहुविधेत्यर्थः। एवं कदाचिदप्राप्तार्थविधायकस्य नियमविधेरत्यन्ताप्रातार्थविधायकादपूर्वविधेः स्फुटएव भेद इत्यभिप्रेत्याह अतश्चेति। नियम एवेति। न त्वपूर्वविधानामित्येवकारार्थः। वाक्यार्थ इति। वाक्यतात्पर्यविषय इत्यर्थः। स्पष्टत्वायैव प्रकृतोदाहरणे नियमं विवृणोति पक्ष इति॥
तत्र चान्यत्र च प्राप्त इत्युतरार्धंविवृणोति उभयोश्चेति। प्रकृतोद्देश्यविधेयान्यतरस्य तदितरस्य चेत्यर्थः। उदाहरति यथेति। अपूर्वविधित्वमस्यन भवतीत्याह इदं हीति। नियमविधित्वं नास्तीत्याह नापीति। हेतुमाह पंचेति। नियमविधिस्थलेऽवघातादेर्विधेयस्य नखविदलनाद्युपायान्तरानुष्ठानावसरे यथाऽप्राप्तिः तथात्रापंचपंचनखभक्षणावसरे पंचपंचनस्वभक्षणाप्राप्तिर्नास्ति।किं तु रागत उभयोरपि प्राप्तिरित्यर्थः। एवमपूर्वविधित्वनियमविधित्वयोरुभयोरसम्भवात्परिसङ्ख्याविधित्वमेवास्येत्याह अत इति। अपंचेति। पंच च तेपंचनखाश्च। न पंचपंचनखाः अपंचपंचनखाः। न पंच अपंच। ते चते पंचनखाश्च अपंचपंचनखाइति वा। तद्भक्षणेति। शल्यकश्वाविदोघाशशकूर्मरूपपंचपंचनखभिन्ना ये पंचनखाः प्राणिनः तद्भक्षणेति यावत्। पंचेतरपंचेति च पाठः। अत्र सर्वत्र एकपंचपदपरित्यागेन दृश्यमानः पाठोऽनुपपन्नः अर्धव्युत्पन्नैः पौनरुक्त्यभ्रान्त्या प्राचीनपाठान्यथाकरणेनकल्पित इति मन्यामहे। परिसंख्यां विभजते सा चेति।श्रौतीति। पदेन शक्त्या प्रतिपादितेत्यर्थः। आद्यानुदाहरति तत्रेति। अत्रैव, पवमानस्तोत्रसंबन्धिनीषु ऋक्ष्वेवेत्यर्थः। आवपन्ति, साम घटयन्तीत्यर्थः। श्रौतत्वमुपपादयति एवेति। पूर्वोक्तमेव द्वितीयस्याप्युदाहरणमित्याशयेनाह पंचेति। कुतो न श्रौतीत्यत्राह इतरेति। अपंचपंचनखभक्षणनिवृतीत्यर्थः। ननु कथं लक्षणादोषो विधावङ्गीक्रियतइत्यत्र न केवलमेको दोषः किं तु दोषत्रयमगत्याङ्गीक्रियत इत्याहअत एवेति। लाक्षणिकत्वादेवेत्यर्थः। किं तद्दोषत्रयमित्याह दोषेति। उक्तमेव प्राचीनश्लोकेनाह तदुक्तमिति। प्रकृतोदाहरणे दोषत्रयं दर्शयति। श्रुतस्येति। दोषत्रयविवेकमाह अस्मिंश्चेति। ननु मन्त्राणामर्थस्मारकत्वेन दृष्टार्थत्वे हुंफडादिमन्त्राणां अर्थशून्यत्वेन तत्स्मारकत्वासम्भवादानर्थक्यम्। तेषां चेददृष्टार्थत्वंसर्वेषामेव च तथात्वं कुता नेष्यते। न खल्वर्धजरतीयता युक्तेत्याशङ्कायां, सत्यपि वैरूप्ये सम्भवदर्थानां मन्त्राणां दृष्टार्थत्वं न परित्याज्यम्। न ह्येकमक्षि न पश्यतीत्यक्ष्यन्तरस्याप्यान्ध्यं संपादनीयम्। अर्थशून्यानान्त्वगत्याऽदृष्टार्थत्वान्नानर्थक्यमिति समादधान आह येषान्त्विति॥
इति मन्त्रपरिच्छेदश्चतुर्थः॥
** नामधेयानां च विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम्।तथा हि। उद्भिदा यजेत पशुकाम इत्यत्रोद्भिच्छब्दोयागनामधेयम्। तेन च विधेयार्थपरिच्छेदःक्रियते।तथा हि। अनेन वाक्येनाप्राप्तत्वात् फलोद्देशेन यागो विधीयते। यागसामान्यस्याविधेयत्वात् यागविशेष एव विधीयते। तत्र कोऽसौ यागविशेष इत्यपेक्षायामुद्भिच्छब्दादुद्भिद्रूपो याग इति विज्ञायते। उद्भिदा यागेन पशुं भावयेदित्यत्र सामानाधिकरण्येन नामधेयान्वयात्। नामधेयत्वं च निमित्तचतुष्टयात्– मत्वर्थलक्षणाभयात् वाक्यभेदभयात् तत्प्रख्यशास्त्रात् तद्व्यपदेशाच्चेति। तत्रोद्भिदा यजेत पशुकाम इत्यत्रोद्भिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात्। तथा हि। न तावदनेन वाक्येनफलं प्रति यागविधानम् तं प्रति च गुणविधानं युज्यते। वाक्यभेदापत्तेः।उद्भिच्छब्दस्य गुणसमर्पकत्वे च यागस्याप्यप्राप्तत्वात्गुणविशिष्टकर्मविधानं वाच्यम्– उद्भिद्वता यागेन पशुं भावयेदिति। विशिष्टविधौ च मत्वर्थलक्षणेत्युक्तमेव।**
नामधेयं निरूपयन् तस्य लक्षणमभिप्रेत्याह नामेति। बहुवचनमनपेक्षितम्। परिच्छेदकत्वं, अयमिति निश्चयजनकत्वम्। यद्यपि विधेयार्थपरिच्छेदकं नामधेयमित्येव वक्तमुचितम् तथापि आपदेवीयानुसारेणैवमुक्तिरिति ज्ञेयम्। लक्ष्ये लक्षणं सङ्गमयितुमाह तथा हीति। अस्मिन्वाक्ये उद्भिच्छब्दोलक्ष्यमित्यभिप्रेत्याह उद्भिच्छब्दइति। तत्रलक्षणमस्तीत्याह तेन चेति। तदिदमुपपादयितुमाहतथा हीति। विधेयार्थं दर्शयति अनेन हीति। विधेयत्वे हेतुरप्राप्तत्वादिति। वक्ष्यमाणपरिच्छेदाकांक्षापपत्तये विधेयस्वरूपनिष्कर्षमाह यागसामान्यस्येति। यागविशेष एवेति। वाक्यान्तरविहितसर्वयागविलक्षणः कश्चिद्याग इत्यर्थः। अथ, एवं यागविशेषविधिज्ञानेसति परिच्छेदाकांक्षा भवति; उद्भित्पदेन च तन्निवृत्तिर्भवतीत्याह तत्रेति। यागविशेषस्यैव विधीयमानत्व इत्यर्थः। उद्भिद्रूप इति। उद्भिदभिन्नेत्यर्थ इत्यनन्तदेवः। ब्राह्मण आगत इत्युक्ते एकवचनवशाद्यः कश्चिदेको ब्राह्मण इति ज्ञातेऽपि यथा कोऽसौ ब्राह्मण इति ब्राह्मणविशेषस्य इदंत्वेन जिज्ञासा जायते। देवदत्त इति नामधेयज्ञानाच्च तन्निवृतिर्भवति तद्वदत्रापि द्रष्टव्यम्। ननूद्भिच्छब्दो यागस्य विशेषक इत्यत्र किं मानमित्याशङ्कायां सामानाधिकरण्येनान्वय एव मानमित्याहउद्भिदेति। अत्रास्मिन्वाक्ये उद्भिदा यागेनेति सामानाधिकरण्येनान्वयादित्यन्वयः। सामानाधिकरण्यम्, एकार्थवाचित्वम्। एवं नामधेयस्य विधेयार्थपरिच्छेदकत्वमुपपादितम्। अथ नामधेयप्रमाणानि निरूपयति नामधेयत्वं चेति। आद्यनिमित्तकृतं नामधेयत्वमुदाहरति**तत्रेति।**उपपादयति तथा हीति। नामधेयत्वाभावे उद्भित्पदं गुणविधानपरमिति वक्तव्यम्। तत्र च त्रयी गतिः। फलोद्देशेन यागविधाने सत्येव यागोद्देशेन गुणविधानामिति; यागस्यानुवाद्यत्वमङ्गीकृत्य गुणमात्रविधानमिति; गुणविशिष्टयागविधानमिति। तत्राद्या गतिः गुरुतरदोषवत्त्वादयुक्तेत्याह न तावदिति। द्वितीयगतेरप्यत्रासंभवात् तृतीयैवगतिराश्रयणीयेत्याह उद्भिदिति। अस्तु। किं तत्रेत्यत्राह मत्वर्थेति। तथाच तद्दोषपरिहाराय नामधेयत्वमेवाङ्गीकर्तव्यमिति भावः ॥
** चित्रया यजेत पशुकाम इत्यत्रचित्राशब्दस्य कर्मनामधेयत्वं वाक्यभेदभयात्। तथा हि। न तावदत्रगुणविशिष्यागविधानं संभवति। दधि मधु पयो घृतं धाना उदकं तण्डुलाः तत्संसृष्टं प्राजापत्यमित्यनेन यागस्य विहितत्वात् तद्विशिष्टयागविध्यनुपपत्तेः।(प्राप्त) यागस्य फलसंबन्धे गुणसंबन्धे च विधीयमानेवाक्यभेदः। तस्माच्चित्राशब्दः कर्मनामधेयम्। तथाच चित्रायागेन पशुं भावयेदिति सामानाधिकरण्येनान्वयान्न वाक्यभेदः। प्रकृतेष्टेरनेकद्रव्यत्वेन चित्राशब्दवाच्यत्वापपत्तेः।**
द्वितीयान्निमित्तान्नामधेयत्वमुदाहरति **चित्रयेति।**गुणविधानपक्षेमत्वर्थलक्षणया विशिष्टविधानाङ्गीकारान्न वाक्यभेदस्य प्रसक्तिरित्याशङ्कां कर्मणःप्राप्तत्वादत्रविशिष्टविधिर्दुर्वच इति परिहरति न तावदिति। ननुप्राप्तस्यैव यागस्य फलसंबन्धोऽप्यस्तु गुणसंबन्धोऽप्यस्त्वित्याशङ्क्य वाक्यभेदएव दोष इत्याह यागस्येति। निगमयति तस्मादिति। नामधेयत्वे चवाक्यभेददोषो नास्तीत्याह तथा चेति। ननु प्रकृतयागस्य चित्रेति कथन्नामधेयमित्यत्राह प्रकृतेति। प्रकृतयागस्येत्यनुक्त्वा प्रकृतेष्टेरिति स्त्रीलिङ्गं प्रयुञ्जानेन चित्रेति स्त्रीलिङ्गस्याप्युपपत्तिर्दर्शिता। अनेकेति। अनेकानि द्रव्याणि यस्यास्तत्त्वेन।
अग्निहोत्रं जुहोतीत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयत्वं तत्प्रख्यशास्त्रात्। तस्य गुणस्य प्रख्यापकस्यप्रापकस्यशास्त्रत्य विद्यमानत्वात् अग्निहोत्रशब्दः कर्मनामधेयमिति यावत्। नन्वयं गुणविधिरेव कुतोनेति चेन्न। यद्यग्नौ होत्रमस्मिन्निति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयस्तदा यदाहवनीये जुहोतीत्यनेनैवाग्नेः प्रातत्वात् तद्विधानानर्थक्यम्। अग्नये होत्रमिति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपगुणोऽनेन विधीयत इति चेन्न। तद्देवतायाः शास्त्रान्तरेण प्राप्तत्वात्। किं तच्छास्त्रान्तरमिति चेत्। यदग्नये च प्रजापतये च सायं जुहोतीतिकेचित्। अपरे त्वग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहेति मन्त्रवर्णंएवाग्निरूपदेवताप्रापकः। नन्वग्नेर्मान्त्रवर्णिकत्वे प्रजापतिदेवता बाधःस्यात्। मन्त्रवर्णस्य चतुर्थीतोदुर्बलत्वात्। यथाहुः–
तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः।
देवताया विधिस्तत्र दुर्बलं तु परं परम् ॥
इति चेन्न। यदग्नये च प्रजापतये च सायं जुहोतीत्यत्र नकेवलं प्रजापतिविधानम्। किन्तु मन्त्रवर्णप्राप्तमग्निमनूद्यतत्समुच्चितप्रजापतेः। एवं च न बाधः। केवलप्रजापतिविधानाभावात्। नचात्र समुच्चितोभयविधानमेव कथंनेति वाच्यम्। समुच्चितोभयविधानापेक्षयाऽन्यतः प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात्।एवं प्रयाजेषु समिदादिदेवतानां समिधः समिधो अग्नआज्यस्य व्यन्त्वित्यादिमन्त्रवर्णेभ्यः प्राप्तत्वात् समिधोयजतीत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात्कर्मनामधेयानि।
तृतीयान्निमित्तान्नामधेयत्वमुदाहरति अग्निहोत्रमिति। तत्प्रख्यशास्त्रादित्येतद्विवृण्वन्नाह तस्येति। विधित्सितस्येति शेषः। गुणविधिरिति पूर्वपक्षमाशङ्क्य परिहरति नन्विति। किमाहवनीयात्मकाग्निरूपगुणस्य विधिःउत देवतारूपाग्निविधिरिति विकल्पमभिप्रेत्य नाद्य इत्याह यदीति। होत्रंहोमःप्रक्षेप इत्यर्थः। अस्मिन्, कर्मणीत्यर्थः। न द्वितीय इत्याह अग्नय इति। तद्देवतायाः, अग्निदेवताया इत्यर्थः। इतीति। इति विधिवाक्यमेतच्छास्त्रान्तरमिति केचिद्वदन्तीत्यर्थः। अन्येषां पक्षमाह अपरे त्विति। आहुरिति शेषःशङ्कते नन्विति। यत्प्रजापतये सांय जुहोतीति केवलप्रजापतिविधाने सति दुर्बलस्य मन्त्रवर्णस्य विरुद्धस्यानपेक्षितत्वात् बाधः स्यात् यदग्नये चेतिअग्नेरप्यत्रानुवादात् दुर्बलस्य मन्त्रवर्णस्य प्रवृत्तिमयं विधिरङ्गीकरोतीतिप्रतीयते। तस्माद्विरोधाभावान्नबाध इति समादधाति नेति। ननु यथा प्रजापतेर्मानान्तरणाप्राप्तस्यैवात्र विधिस्तद्वदग्नेरप्यप्राप्तस्यैव विधिरेवास्तु; कुतो मन्त्रवर्णात्प्राप्तस्यैवात्रअनुवाद इत्यङ्गीक्रियत इति शङ्कान्तरं लाघवात्परिहरतिन चेति। यद्यप्यग्निहोत्रपदस्य ब्राह्मणवाक्यतोऽग्निप्राप्तिमङ्गीकृत्य नामधेयत्वमुच्यते तथापि मान्त्रवर्णिकप्राप्तिमप्यङ्गीकृत्य क्वचिन्नामधेयत्वमवश्यम्भावीत्यभिप्रायेणाह एवं चेति॥
** श्येनेनाभिचरन् यजेतेत्यत्रश्येनशब्दस्य कर्मनामधेयत्वं तद्व्यपदेशात्। तेन व्यपदेशादुपमानात् अन्यथानुपपत्तेरिति यावत्। तथाहि यद्विधेयं तस्य स्तुतिर्भवति। यद्यत्र श्येनो विधेयः स्यात् तदाऽर्थबादैस्तस्यैवस्तुतिः कार्या। यथा वै श्यनो निपत्यादत्ते एवमयं द्विषन्तंभ्रातृव्यं निपत्यादत्त इत्यनेनार्थवादेन श्येनः स्तोतुं नशक्यः। श्येनोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात्। न चश्येनोपमानेन स एव स्तोतुं शक्यते। उपमानोपमेयभावस्य भिन्ननिष्टत्वात्। यदा तु श्येनसंज्ञको यागोविधीयते तदाऽर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुंशक्यत इति श्येनशब्दः कर्मनामधेयं तद्व्यपदेशादिति।**
चरमान्निमित्तान्नामधेयत्वमुदाहरति श्येनेनेति। तद्व्यपदेशादित्येतद्विवृणोति तेनेति। विधित्सितेन श्येनगुणेनेत्यर्थः। उपमानात्, उपमितिकरणात् श्येनप्रतियोगिकसादृश्यादित्यर्थः। नन्वस्तु श्येनेन व्यपदेशःतेन श्येनपदस्य नामधेयत्वमिति कथमित्यत्राह तदिति। तस्य, श्येनोपमानस्य। अन्यथा, नामधेयत्वानङ्गीकारेणनामधेयत्वानङ्गीकारेण गुणविधायकत्वाङ्गीकारेऽनुपपत्तेरित्यर्थः। अनुपपत्तिमुपपादयति। तथा हीति। न्यायं शिक्षयति यद्विधेयमिति। एवं च व्यपदेशस्यार्थवादत्वात्तस्य च विधेयार्थस्तावकत्वस्य वक्तव्यत्वात् श्येनपक्षिविधाने सति तत्स्तावकत्वमस्यावश्यं भावीति भावः। तच्चानुपपन्नमित्याह यथा वा इति। कस्मान्नशक्य इत्यत्र यथा श्येन एवमयमिति उपमानवाचिना पदेन श्येनातिरिक्तस्य स्तुतिप्रतीतेरिति हेतुमाह श्येनेनेति। न केवलमर्थान्तरस्तुतिप्रतीत्या श्येनस्तुत्यसंभवः किन्तु अशक्यत्वादपीत्याह। नचेति। हेतुमाह उपमानेति। सादृश्यस्य भेदघटितत्वादित्यर्थः।श्येनपदस्य कर्मनामधेयत्वे उक्तानुपपत्तिर्नास्तीति वदन् उपसंहरति यदात्विति॥
** उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं नामधेयनिमित्तमिति केचित्। यथा वैश्वदेवेन यजेतेत्यादौ। अत्रोपत्तिशिष्टाग्न्यादीनां बलीयस्त्वाद्वैश्वदेवशब्दस्य विश्वदेवदेवताविधायकत्वं न सम्भवतीति कर्मनामधेयत्वम्। वस्तुतस्तु तत्प्रख्यशास्त्रादेवास्य कर्मनामधेयत्वम्। प्रकृतयागे विश्वदेवरूपगुणसमर्पकशास्त्रस्यार्थवादरूपस्यैव सत्त्वात्। यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्यवैश्वदेवत्वम् इति॥**
तस्य यागस्य अनादरणीयत्वख्यापनाय पञ्चममपि नामधेयनिमित्तं केचिदिच्छन्तीत्याह उत्पत्तीति। उदाहरति यथेति। उपपादयति **अत्रेति।उत्पत्तीति।**आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं सावित्रंद्वादशकपालंसारस्वतं चरुं पौष्णं चरुं मारुतं सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालं इत्यष्टसु यागेषु आमिक्षाव्यतिरिक्तानां उत्पत्तौ विहिताया अग्न्यादयो देवतास्तासां बलीयस्त्वादित्यर्थः। अस्मिन्मते अनादरंसूचयन्नाह वस्तुतस्त्विति। किं तच्छास्त्रमित्यत्राह प्रकृतेति। अस्मादर्थवादरूपात् शास्त्रात् विश्वेषां देवानां कर्तृत्वेन प्राप्तिरिति ध्येयम् ॥
इति नामधेयपरिच्छेदः पञ्चमः ॥
–––––––
** पुरुषस्य निवर्तकं वाक्यं निषेधः। निषेधवाक्यानामनर्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात्। तथा हि।यथा विधिः प्रवर्तनां प्रतिपादयन् स्वप्रवर्तकत्वनिर्वाहाय विधेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्रप्रवर्तयति,तथा न कलञ्जं भक्षयेदित्यादिनिषेधोऽपि निवर्तनां प्रतिपादयन् स्वनिवर्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्जभक्षणस्य परानिष्टसाधनत्वमाक्षिपन्पुरुषं ततो निवर्तयति।**
निषेधं निरूपयति पुरुषस्येति। निवर्तकम् निवृत्तिजनकम्। नन्वत्रकस्य सकाशान्निवृत्तिजनकत्वं विवक्षितम्। किं च निषेधवाक्यस्य निवर्तकत्वं किमर्थमङ्गीकर्तव्यम्। यस्य पुरुषस्य स्वयमेव निवृत्तिर्भवति तदनुवादकत्वमेव कस्मान्न भवतीत्याशंकाद्वयं परिहरन्नाह निषेधेति। अर्थःइष्टं स्वर्गादि; अनर्थः नरकादिरूपमनिष्टम्; तद्धेतोः क्रियाया निवृत्तिः।एतेन प्रथमाशङ्कापरिहारः। एवार्थवत्त्वादिति। अन्यथाऽनुवादत्वाङ्गीकारेऽध्ययनविध्युपात्तानामेषां वैयर्थ्यमेव स्यादिति भावः। एतेनान्तिमाशङ्कापरिहारः। अनर्थहेतुक्रियातो निवृत्तिजनकत्वमुपपादयति **तथा हीति।**ननु न कलञ्जं भक्षयेदित्यादिषु निषेधवाक्येषु अनर्थवाचिनः पदस्याभावात् कथमनर्थहेतुत्वावगमः क्रियायाः इत्याशङ्कायां निवर्तनावाचकनञ्समभिव्याहृतलिङ्श्रुतिबलादेव तदवगम इति समादधानः सदृष्टान्तमाह यथेतिIनिर्वाहार्थमिति। प्रवृत्तिं प्रति हि इष्टसाधनताज्ञानं कारणम्। तदजनने पुरुषस्य प्रवृत्त्यसंभवात् स्वस्य प्रवर्तकत्वं भज्येतेति भावः। इष्टापत्तिस्तु न शक्या कर्तुम्। प्रवर्तनाप्रतिपादकत्वेन प्रवर्तकत्वस्यावश्यंभावात्। अनेनैवाभिप्रायेणोक्तं प्रवर्तनां प्रतिपादयन्निति। आक्षिपन्निति। ननु न सर्वो विधिरेतदाक्षेपकः। किं तु फलपदरहितोत्पत्तिवाक्यस्थ एव। फलपदसत्त्वे तेनैव इष्टसाधनत्वस्यावगमेन विधेरनपेक्षितत्वादिति चेन्नैतदेवम्। प्रथमं विधिना इष्टसाधनत्वानाक्षेपे पदश्रुत्या धात्वर्थस्यैव साध्यत्वेनान्वयापत्तेर्भाव्यान्तराकांक्षाया एवाभावादित्यास्तां तावत्। स्वनिवर्तकत्वेति। अनिष्टसाधनताज्ञानमन्तरा निवृत्तेरसंभवादिति भावः ॥
** ननु निषेधवाक्यस्य कथं निवर्तनाप्रतिपादकत्वमिति चेदुच्यते। न तावदत्र धात्वर्थस्य नञर्थेनान्वयः। अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितेः। न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वयापत्तेः। अतः प्रत्ययार्थस्यैव नञर्थेनान्वयः।तत्रापि नाख्यातत्वांशवाच्यार्थभावनायाः। तस्याःलिङ्त्वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितेः। किन्तु लिङ्त्वांशवाच्यशब्दभावनायाः। तस्याः सर्वापेक्षया प्रधानत्वात्।**
निवर्तनां प्रतिपादयन्निति यदुक्तं तन्नोपपद्यते। न कलञ्जमिति वाक्ये तद्वाचकपदाभावात्। नञोऽभाववाचित्वात्। नामधातुपदयोरप्यर्थान्तरे प्रसिद्धत्वात्। लिङोऽपि प्रवर्तनावाचित्वादित्याक्षिपति नन्विति। नञ्समभिव्याहृता लिङेव तत्प्रतिपादिकेति समाधास्यन् प्रथमं ननु कलञ्जं न भक्षयेदित्येव वाक्यविन्यासस्यात्रवक्तव्यतया तत्र च नञ्प्रत्यययोर्धातुना व्यवधानात् नञ्धात्वोश्च व्यवधानाभावात् ‘न हिंस्यात्’ इत्यादिषु चाव्यवधानस्य स्पष्टत्वात् नञ्धात्वोरेव सम्बन्धो निषेधवाक्ये वक्तव्यः। न नञ् प्रत्ययोरिति शङ्कां परिहरति न तावदिति। अव्यवधानेपीति शङ्काबीजमुक्तम्।तस्य धात्वर्थस्य। प्रत्ययार्थेति। प्रत्ययवाच्येत्यर्थः। उपसर्जनत्वेन विशेषणत्वेन। ननु प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितौ नञर्थान्वयः कस्मान्नभवतीत्यत्र सामान्यन्यायमाह न हीति। एतदनङ्गीकारे दोषमाह अन्यथेति। न तावदित्यादिनोक्तं धात्वर्थान्वयासंभवं उपसंहरन्नेव सामान्यतःस्वाभिमतप्रत्ययार्थान्वयं प्रतिजानीते अत इति। प्रत्ययेऽपि आख्यातत्वावच्छिन्नवाच्यार्थान्वयो नास्तीत्याह तत्रापीति। भावनाया इति।अन्वय इत्यनुषङ्गः। अत्रापि पूर्वोक्तविध एव हेतुरित्यभिप्रेत्याहतस्या इति। आख्यातत्वांशेति लिङंशेति, आख्यातांशेति लिङ्त्वांशेति चवैरूप्येण पाठः प्रामादिक इति ज्ञेयम्। एवमनभिमतमन्वयं निरस्यसंप्रति स्वाभिमतमाह किन्त्विति। पूर्वोक्तोऽनन्वयहेतुरत्र नास्तीत्यभिप्रेत्याह तस्या इति। प्रधानत्वादिति। अन्योपसर्जनत्वमशक्यशंकमित्याशयः॥
नञश्चैष स्वभावः यत्स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम्। यथा घटो नास्तीत्यादौ अस्तीति शब्दसमभिव्याहृतो नञ् घटसत्त्वविरोधि घटासत्त्वं गमयति। तदिह लिङ्समभिव्याहृतो नञ लिङर्थप्रवर्तनाविरोधिनीं निवर्तनामेव बोधयति। विधिवाक्यश्रवणेऽयं मां प्रवर्तयतीति प्रवर्तनाप्रतीतिवत् निषेधवाक्यश्रवणेऽयं मां निवर्तयतीति निवृत्त्यनुकूलव्यापाररूपनिवर्तनायाः प्रतीतेः। तस्मान्निषेधवाक्यस्थले निवर्तनैव वाक्यार्थः।
नन्वस्त्वेवम्। तावता निवर्तनाप्रतिपादकत्वं कथमित्यत्र समाधानं वदन्नञः प्रकृते विवक्षितमर्थं प्रतिपादयन् तादृशार्थवाचित्वं प्रसिद्धमेवेतिसदृष्टान्तमाह नञइति। घटासत्त्वमिति। अत्रेदं बोध्यम्। असत्त्वमितिकिं सत्त्वाभाव इष्यते उत भावरूपं किंचिदसत्त्वमिति। आद्येऽयमदृष्टान्तः। अभावप्रतिपादकत्वेन विरुद्धार्थप्रतिपादकत्वाभावात्। द्वितीये घटेत्यनन्वितम्। न हि शशशृंगादेवि घटस्यासत्त्वमस्ति। अत एव आपदेवेन ‘नास्तीत्यत्र हि’ इत्येतावदुक्तम् न तु घटोनास्तीति। अनन्तदेवेनचात्राभिप्रायं विवृण्वतोक्तम्– एवं च स्वपुष्पं नास्तीत्यादिवाक्यगतनास्तीतिपदाभिप्रायो दृष्टान्तग्रन्थोऽपि संगच्छत इति। तदत्र घटपदघटनमविमृश्य कृतम्। अधर्म इत्यादि च विरुद्धार्थं बोध्यम्। एवं नञो विरुद्धार्थत्वे स्थिते प्रकृते तादृशविरुद्धार्थो निवर्तनैवेति सिद्ध्यति। निवर्तनाप्रतिपादकत्वं नञ्सहितस्य लिङ इत्यभिप्रेत्याह तदिहेति। नन्वस्तु समभिव्याहृतपदार्थविरोधिबोधकत्वं नञः। अस्तु च तादृशार्थस्वीकारे प्रकृतेनिवर्तनाबोधकत्वमपि। परन्तु ‘तदन्यतद्विरुद्धतदभावेषु नञ्’ इत्यनुशासनेन अभावार्थत्वस्यापि सत्त्वात् स एवार्थः कस्मादत्र न भवतीत्याशङ्कायामाह विधीति। अभावार्थत्वे हि न भक्षयेदित्यत्र अयं मां न प्रवर्तयतीतिप्रवर्तनाभावः प्रतीयेत। न हि कदाचिदेवं प्रतीयते। किन्तु सर्वत्रायं मांनिवर्तयतीति निवर्तनैव प्रतीयते। तस्मादभावार्थत्वमयुक्तमिति भावः।वाक्यार्थः वाक्यजन्यबोधे मुख्यविशेष्यभूता।
** यदा तु प्रत्ययार्थस्य तत्रान्वये बाधकं तदाधात्वर्थस्यैव तत्रान्वयः।तच्च बाधकं द्विविधम्–तस्य व्रतमित्युपक्रमः विकल्पप्रसक्तिश्च।तत्राद्यं नेक्षेतोद्यन्तमादित्यमित्यादौ। तस्य व्रतमित्युपक्रम्यैतद्वाक्यपाठात्। तथा चात्र पर्युदासाश्रयणम्।तथा हि। व्रतशब्दस्य कर्तव्यार्थे रूढत्वात्तस्य व्रतमित्यत्न स्नातकव्रतानां कर्तव्यत्वेनोपक्रमात् किन्तत्कर्तव्यमित्याकांक्षायां नेक्षेतोद्यन्तमित्यादिना कर्तव्यार्थएव प्रतिपादनीयः। अन्यथा पूर्वोत्तरवाक्ययोरेकवाक्यत्वं न स्यात्। तथा च नञर्थेन न प्रत्ययार्थान्वयः। कर्तव्यार्थानवबोधात्।विध्यर्थप्रवर्तनाविरोधिनिवर्तनाया एव तादृशनञा बोधनात्। तस्याश्च कर्तव्यार्थत्वाभावात्। तस्मान्नेक्षेतेत्यत्रनञा धात्वर्थाविरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते। तस्य कर्तव्यत्वसम्भवात्। आदित्यविषयकानीक्षणसङ्कल्पेन भावयेदिति वाक्यार्थः। तत्र भाव्याकांक्षायां एतावता हैनसा वियुक्तो भवतीति वाक्यशेषादवगतःपापक्षयो भाव्यतयाऽन्वेति। एवं च पूर्वोत्तरयोरेकवाक्यत्वं निर्वहत्येव। नचात्र धात्वर्थविरोधिनः पदार्थान्तरस्यापि संभवात्कथमनीक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम्। तस्य कर्तव्यत्वाभावेन प्रकृते भावनान्वयायोग्यत्वात्॥**
पूर्वं निरस्तोऽपि नञर्थे धात्वर्थान्वयः क्वचिदङ्गीक्रियत इत्याह यदा त्विति।बाधकस्यानेकत्वात् विभज्य क्रमेणोदाहरति तच्चेति। आद्यमिति।तस्य व्रतमित्युपक्रमरूपं बाधकमित्यर्थः। उदाहरणे बाधकमिदमस्तीत्याह तस्येति। एवं हेतोःसत्त्वात् साध्यमप्यस्तीत्याह तथा चेति। पर्युदासः प्रत्ययार्थव्यतिरिक्तस्य नञर्थान्वयः। ननु तादृशोपक्रमसत्त्वे प्रत्ययार्थातिरिक्तस्य तत्रान्वय इति को निर्बन्ध इत्याशङ्कापरिहाराय प्रत्ययार्थस्यतत्रान्वयासंभव उपपादयितुमाह तथाहीति। तस्येतिपदस्यार्थमाह स्नातकस्येति। स्नातकः गुरुकुलात्समावृत्तः। अन्यथेति। कर्तव्यार्थप्रतिपादनाभाव इत्यर्थः। पूर्वोत्तरेति। तस्य व्रतमित्यस्य नेक्षेतेत्यादेश्चेत्यर्थः।तस्येदं कर्तव्यमित्यस्य आदित्येक्षणान्निवर्तितव्यमित्यस्य च न खल्वेकवाक्यता सुवचेति भावः। अस्तु कर्तव्यार्थस्यैव प्रतिपादनीयत्वम्। तेनकिमित्यत्राह तथा चेति। कर्तव्यार्थस्यैव प्रतिपादनीयत्वे सतीत्यर्थः।तादृशार्थप्रतिपादनस्यावश्यकत्वे एतदन्वयस्य को विरोध इत्यत्राहकर्तव्येति। एतदन्वयाङ्गीकारेऽवश्यापेक्षितः कर्तव्यार्थबोधो न सम्भवतीत्यर्थः। तत्कथमित्यत्राह विधीति। प्रत्ययार्थान्वये नञा निवर्तना प्रतिपाद्यत इति तावदुक्तम्। न च निषेधरूपश्रुतवाक्यनिष्ठा निवर्तनापुरुषस्य कर्तव्या भवति। तस्मात् कर्तव्यार्थबोधकत्वं न घटत इति भावः। प्रत्ययार्थान्वयाभावमुपसंहरन्नेव धात्वर्थान्वये सिद्ध्यन्तमर्थमाह तस्मादिति। धात्वर्थेति। ईक्षणरूपो यो धात्वर्थः तस्य विरोधी यःनेक्षिष्य इति अनीक्षणसङ्कल्पः स इति। एतादृशेऽर्थे शक्त्यभावादुक्तं लक्षणयेति। प्रत्ययार्थान्वये या अनुपपत्तिरुक्ता साऽत्र नास्तीत्याह तस्य कर्तव्यत्वेति। सङ्कल्पं हि पुरुषः कर्तुं शक्त एव। कर्तव्यत्वसम्भवमेवस्पष्टयितुं तस्य विधिविषयत्वं प्रदर्शयन् नेक्षेतेति वचनजन्यबोधमभिलपतिआदित्येति। ननु भाव्यस्याश्रवणात् कथमस्य करणत्वमित्यत्राह **तत्रेति।**एवमस्यार्थस्य कर्तव्यत्वे एकवाक्यत्वमपि घटत इत्याह **एवं चेति।**नञाधात्वर्थविरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यत इति यदुक्तं तत्रकिञ्चिदाशङ्क्य परिहरति न चेति। तस्येति। अयं भावः। विरोधिपदार्थान्तरमिति किमक्षिनिमीलनादिरूपं प्रतिबन्धकमभिप्रेतं उत ईक्षणासामानाधिकरण्यात् तद्विरोधी ईक्षणाभावः। नाद्यः। अनियताक्षिसङ्कोचाद्यपेक्षया अनीक्षणनियतानीक्षणसङ्कल्पस्यैवोपस्थिततरत्वात् कर्तव्यत्वेनप्रतीतेः। न द्वितीयः। अभावस्याकर्तव्यत्वात्। न ह्यभावः कर्तुं शक्यतइति॥
द्वितीयं यजतिषु येयजामहं करोति नानूयाजेष्वित्यादौ। अत्र विकल्पप्रसक्तौ पर्युदासाश्रयणात्। तथा हि। यद्यत्र वाक्ये नञर्थे प्रत्ययार्थान्वयः स्यात् तदाऽनूयाजेषु येयजामह इति मन्त्रस्य प्रतिषेधः स्यात्–अनूयाजेषु येयजामहं न कुर्यादिति।स च प्राप्तिपूर्वक एव। प्राप्तस्यैव प्रतिषेधात्। प्रातिश्च यजतिषु येयजामहं करोतीति शास्त्रादेव वाच्या।शास्त्रप्राप्तस्य च प्रतिषेधे विकल्प एव। न तुबाधः। प्राप्तिमूलरागस्येव तन्मूलशास्त्रस्य शास्त्रान्तरेण बाधायोगात्।
एवं तस्य व्रतमित्युपक्रमरूपं प्रथमं बाधकमुदाहृतम्। अथ द्वितीयं विकल्पप्रसक्तिरूपमुदाहरति द्वितीयमिति। उक्तस्यैव दार्ढ्याय आश्रितो हि ग्रन्थकारैरत्रविकल्पप्रसक्तिहेतुकः पर्युदास इत्याह अत्रेति। विकल्पप्रसक्तिमुपपादयति तथा हीति। प्रतिषेधः ‘नकलञ्जं भक्षयेदि’ त्यादाविव निवर्तनाविषयत्वम्। अस्तु प्रतिषेधः ततः किमित्यत्राह स चेति। प्रतिषेधश्चेत्यर्थः। कस्मादित्यत्राह प्राप्तस्यैवेति। अनूयाजेषु येयजामहः कर्तव्य इति यत् तन्न इति हि तत्र वाक्यार्थः। तत्र प्रमाणान्तरेण कर्तव्यत्वप्रतीतिमन्तरा कर्तव्य इति यत् इत्यनुवादासंभवात् तस्य प्रतिषेधः कर्तुमशक्य इत्यर्थः। ततोऽपि किमिति चेदाह **प्राप्तिश्चेति। शास्त्रादेवेति।**न ह्येवमादिमन्त्रपाठस्य शास्त्रमन्तरा रागादिना प्राप्तिः संभवतीति। ततोऽपि किमिति चेत् विकल्पप्रसक्तिरेवेत्याह शास्त्रेति। एवकारं विवृणोति न त्विति। रागप्राप्तकलंजभक्षणादिकर्तव्यताया यथा न कलञ्जं भक्षयेदिति प्रतिषेधेन बाधः तथाऽत्र न भवतीत्यर्थः। को नु रागप्राप्तशास्त्रप्राप्तयोर्विशेष इत्यत्राह प्राप्तीति। प्राप्तेर्मूलं यः रागः तस्येति। तन्मूलेति।प्राप्तिमूलेत्यर्थः। भ्रान्तिहेतुकत्वाद्दुर्बलस्य रागस्य प्रबलेन शास्त्रेण बाधोयुक्तः। अन्यत्र तु उभयोः शास्त्रयोस्तुल्यबलत्वाद्बाधो न वक्तुं शक्यतइति भावः।
न च पदे जुहोतीति विशेषशास्त्रेणाहवनीये जुहोतीति शास्त्रस्येव नानूयाजेष्वित्यनेन यजतिषु येयजामहं करोतीत्यस्य बाधः स्यादिति वाच्यम्। परस्परनिरपेक्षयोरेव शास्त्रयोर्बाध्यबाधकभावात्। पदशास्त्रस्य हि स्वार्थविधानार्थमाहवनीयशास्त्रानपेक्षणान्निरपेक्षत्वम्। प्रकृते तु निषेधशास्त्रस्य निषेध्यप्रसक्त्यर्थं यजतिषु येयजामहमित्यस्यापेक्षणान्न निरपेक्षत्वम्। तस्माच्छास्त्रविहितस्य शास्त्रान्तरेण प्रतिषेधे विकल्प एव। स च न युक्तः। विकल्पे शास्त्रस्य पाक्षिकाप्रामाण्यसंपातात्। न ह्यनूयाजेषु येयजामह इत्यस्यानुष्ठाने नानूयाजेष्वित्यस्य प्रामाण्यं सम्भवति। व्रीहिभिर्यागानुष्ठाने यवशास्त्रस्येव। द्विरदृष्टकल्पना च स्यात्। विधिप्रतिषेधयोरुभयोरपि पुरुषार्थत्वात्।अतो नात्र प्रतिषेधस्याश्रयणम्। किन्तु नञोऽनूयाजसम्बन्धमाश्रित्य पर्युदासस्यैव। इत्थं चानूयाजव्यतिरिक्तेषुयजतिषु येयजामह इति मन्त्रं कुर्यादिति वाक्यार्थबोधः। नञोऽनूयाजव्यतिरिक्त लाक्षणिकत्वात्। एवं च न विकल्पः।
एवं शास्त्रेण शास्त्रस्य बाधो नास्तीत्युक्ते अस्तीति कस्यचिच्छङ्कां परिहरतिन वेति। विशेषशास्त्रेणेति। प्राकरणिकहोमविशेषमात्रोद्देशेन पदविधायकत्वादस्य विशेषशास्त्रत्वम्। यदाहवनीय इत्यस्य त्वनारभ्याधीतस्यहोमसामान्योद्देशेन अग्निविधायकस्य सामान्यशास्त्रत्वमिति ज्ञेयम्। नैरपेक्ष्यमुपपादयति पदेति। प्रकृते नैरपेक्ष्यं नास्तीत्याह प्रकृते त्विति। एवंनैरपेक्ष्याभावात् सामान्यविशेषन्यायेनात्र बाध्यबाधकभावो न भवति। किन्तु सापेक्षत्वात्तुल्यबलत्वमेव। ततश्च विकल्प एवेत्यभिप्रेत्याह तस्मादिति। ननु काममस्तु विकल्पः, कोऽनर्थः; येन न्यायसिद्धस्य निवर्तनावाक्यार्थस्य परित्यागेन पर्युदास आश्रीयत इत्याशङ्कायामाह स चेति।पाक्षिकेति। शास्त्रान्तरार्थानुष्ठानकालिकेत्यर्थः। पाक्षिकाप्रामाण्यमेवोपपादयति न हीति। न केवलं दृष्टार्थत्रीहियवस्थल इव शास्त्रस्याप्रामाण्यमेव। किन्तु अदृष्टकल्पनागौरवमपि विकल्पे भवतीत्याह **द्विरिति।**विधिवाक्यानुरोधेन सकृत् निषेधवाक्यानुरोधेन सकृदिति द्विरदृष्टकल्पनमित्यर्थः। अत्रावश्यकतां प्रदर्शयन्नाह विधीति। यद्यपि क्रत्वर्थत्वमेवात्रेष्यते तथाऽपि–
व्याख्यायते यथादृष्टः पाठ एष कथंचन।
अन्वेषणीयः शक्यत्वेपाठोऽन्यस्तु समञ्जसः॥
** पुरुषार्थत्वादिति।** पुरुषप्रवृत्तिनिवृत्तिप्रयोजनकत्वादित्यर्थः। पुरुषप्रवृत्तिफलोहि विधिः। तेन तदुपपत्तये येयजामहानुष्ठाने कश्चिद्यागोपकारो भवतीतिकल्पनीयम्। न ह्यन्यथा निष्फलेऽङ्गे कश्चित् प्रवर्तेत। एवं पुरुषनिवृत्तिफलप्रतिषेधसाफल्याय येयजामहाननुष्ठानस्यापि यागोपकारजनकत्वं कल्पनीयमिति द्विरदृष्टकल्पना। तदुक्तमापदेवेन–
विधेर्हि एवं ज्ञायते यदनुयाजेषु येयजामहकरणे कश्चनोपकारोभवतीति। निषेधाच्च तदकरणादिति ज्ञायते। अनृतवदनाकरणादिव दर्शपूर्णमासयोः। स चोपकारोऽदृष्टरूप इति द्विरदृष्टकल्पनाप्रसङ्गः।
इति। एवमकरणस्य क्रतूपकारकत्वं सोमनाथेनापि दशमाष्टमेऽभिहितम् - करणाकरणयोरुभयोरपि प्रयोगविधिविधेयतया क्रतूपकारकत्वावगमेन समानार्थकत्वानपायात्
इति। इदं तु तत्र वाच्यम्। अकरणेन कः क्रतूपकारो जायते। अकरणेऽपिनास्ति क्रतोर्वैगुण्यम्। इतराङ्गैरेव तु क्रतूपकारः सिद्ध्यतीति हि तत्रसिद्धान्तः। न तु कृतेरविषयेणाभावरूपेणाकरणेन कश्चिदुपकारः क्रतोःसम्भवति।आपदेवोक्तानृतवदनदृष्टान्ते तु करणे क्रतोर्वैगुण्यं अकरणे तदभावमात्रमिति न तत्राप्युपकारः कश्चित्। वैगुण्याभाव एवोपकार इति चेत्कथं तस्यादृष्टत्वम्। कथं च तस्य कल्पनीयता। प्रतिषेध्यकरणस्य वैगुण्यजनकत्वे स्थितेऽकरणे तदभाव इति स्वयं सिद्धेः। तदत्राकरणस्यादृष्टोपकारजनकत्वाभिधानं नातीवोपपन्नमिति कथंचिदत्र तात्पर्यमन्यथोपपादनीयमिति। नञर्थे प्रत्ययान्वयासम्भवमुपसंहरति अत इति। सिद्धान्तमाह—किन्त्विति। ननु नञोऽभाव एव शक्तत्वात्कथमनुयाजव्यतिरिक्तेष्वित्यर्थलाभइत्यत्राह नञ इति। पूर्वोक्तो दोषोऽत्र नास्तीत्याह एवंचेति। यजतिषुयेयजामहं करोति, नानुयाजेषु येयजामहं करोति, इत्युभयोरेकवाक्यतयाऽनूयाजव्यतिरिक्तेषु यजतिषु येयजामहं करोतीत्यर्थलाभात् अनुयाजेषु विधेर्वाप्रतिषेधस्य वा प्रसक्त्यभावेन न विकल्प इति भावः।
अत्रच वाक्ये ये यजामह इति न विधीयते। यजतिषु ये यजामहमित्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तयेयजामह इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं विधीयते–यद्यजतिषु ये यजामहं करोतीतितदनुयाजव्यतिरिक्तेष्वेवेति।
ननु यजतिषु येयजामहं करोतीत्यनेनैव विधिना सर्वेष्वपि यागेषुयेयजामहस्य विहितत्वात् पुनरपि अनुयाजव्यतिरिक्तेषु यागेषु किमर्थं येयजामहविधानमित्यनतिविवेकिनः शङ्कां परिहरन्नाह अत्र चेति। नात्रानुयाजव्यतिरिक्तोद्देशेन येयजामहविधानं येन विहितविधानं शङ्क्येत। अपितु येयजामहं करोतीत्यनूद्य अनुयाजव्यतिरिक्तेष्वित्येव विधीयते। एवं चसामान्यविधिना सर्वेषु येयजामहप्राप्तौ, न सर्वेषु यागेषु अपि त्वनुयाजव्यतिरिक्तेष्विति उद्देश्यसङ्कोचोऽनेन वाक्येन क्रियत इति न कश्चिद्दोष इतिभावः। विधीयत इति। ज्ञाप्यत इत्यर्थः।
नन्वेवं सामान्यशास्त्रप्राप्तस्य विशेषे सङ्कोचनरूपादुपसंहारात्पर्युदासस्य भेदो न स्यादिति चेन्न। उपसंहारो हि तन्मात्रसाङ्कोचार्थः। यथा पुरोडाशं चतुर्द्धाकरोतीति सामान्यप्राप्तं चतुर्द्धाकरणम् आग्नेयं चतुर्द्धाकरोतीति विशेषादाग्नेयपुरोडाशमात्रे सङ्कोच्यते। पर्युदासस्तु तदन्यमात्रसङ्कोचार्थ इति ततो भेदात्।
सामान्यतः प्राप्तस्य सङ्कोच इति श्रुत्वा शङ्कते नन्विति। परिहरतिनेति। तन्मात्रेति। विशेषशास्त्रोपात्तविशेषमात्रेत्यर्थः। सामान्यप्राप्तेति। आग्नेयाग्नीषोमीयादिषु प्राप्तेत्यर्थः। तदन्यमात्रेति। विशेषशास्त्रोपात्तविशेषव्यतिरिक्तमात्रेत्यर्थः। ततः उपसंहारात्। विशेषशास्त्रोपात्तस्य विशेषस्यनञ्समभिव्यहारे सति पर्युदासः। तदभावे उपसंहार इति फलितम्।
कुत्रचित् विकल्पप्रसक्तावप्यनन्यगत्या प्रतिषेधाश्रयणम्। यथा नातिरात्रे षोडशिनं गृह्णातीत्यादौ। अत्र हि अतिरात्रेषोडशिनं गृह्णातीति शास्त्रप्राप्तषोडशिग्रहणत्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्रयणम्।
** असम्भवात्। तथाहि। यद्यत्र षोडशिपदार्थेन नञर्थान्वयस्तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीति वाक्यार्थबोधःस्यात् स च न सम्भवति। अतिरात्रे षोडशिनं गृह्णातीतिप्रत्यक्षविधिविरोधात्। यदि चातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरिक्ते षोडशिनं गृह्णातीति वाक्यार्थबोधः स्यात् सोऽपि न सम्भवति। तद्विधिविरोधात्। अतोऽत्रानन्यगत्या शास्त्रप्राप्तषोडशिग्रहणस्यैव निषेधः।न च विकल्पप्रसक्तिः। तस्याप्याश्रयणीयत्वात्।**
एवं बाधकद्वयहेतुकः प्रतिषेधापवादो निरूपितः। सम्प्रति क्वचित्विकल्पप्रसक्तिरूपद्वितीयबाधकसत्त्वेऽपि प्रतिषेध एवाश्रीयते; न पर्युदासइत्यपवादापवादमाह कुत्रचिदिति। उदाहरति यथेति। उपपादयितुंप्रतिजानीते अत्रहीति। रागप्राप्तप्रतिषेधे विकल्पाभावात् शास्त्रप्राप्तेति।हेतुमुपपादयति तथाहीति। नातिरात्र इति वाक्ये पर्युदासपक्षे, अतिरात्रेषोडशिभिन्नं गृह्णातीति वा अतिरात्रभिन्ने षोडशिनं गृह्णातीति वा वाक्यार्थोवक्तव्यः। उभयथाऽपि तु न सम्भवति। अतिरात्रे षोडशिनमिति विधिनाऽतिरात्रेऽपि षोडशिग्रहस्य विहितत्वादिति क्रमेणाह **यदीति।**ननु पूर्वोक्तस्य गुरोर्विकल्पदोषस्य कथमङ्गीकार इत्याशङ्क्यअगत्याऽऽश्रयणीय एवेति परिहरन्नाह न चेति।
इयांस्तु विशेषो यद्विकल्पापादकप्रतिषेधेऽपि प्रतिषिध्यमानस्य नानर्थहेतुत्वम्। विधिनिषेधोभयस्यापिक्रत्वर्थत्वात्। यत्र तु न विकल्पः, प्राप्तिश्च रागत एव,प्रतिषेधश्च पुरुषार्थः, तत्र प्रतिषिध्यमानस्यानर्थहेतुत्वम्। यथा न कलञ्जं भक्षयेदित्यादौ कलञ्जभक्षणादेः। तत्रभक्षणनिषेधस्यैव पुरुषार्थत्वात्। न च दीक्षितो न ददाति न जुहोतीत्यादौ शास्त्रप्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम्। स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वाभावेऽपि निषिध्यमानस्यानर्थहेतुत्वात्। यथा क्रतौ स्वस्त्रीगमनादेः। तन्निषेधस्यक्रत्वर्थत्वेन तस्य क्रतुवैगुण्यसंपादकत्वात्।
नन्वत्र प्रतिषेधाश्रयणे कलञ्जभक्षणस्येव निवर्तनाविषयत्वेन षोडशिग्रहणस्यानर्थहेतुत्वं स्यादित्यत्राह इयांस्त्विति। विकल्पेति। विकल्पापादको यःप्रतिषेधः तस्मिन् सत्यपीत्यर्थः। प्रतिषेधेऽपीत्यनेनेाक्ताशङ्कानुवादः। प्रतिषिध्यमानस्य षोडशिग्रहणस्य। अनर्थेति।नरकेत्यर्थः। हेतुमाहविधीति। उभयस्यापीति। यथा विधिः क्रत्वर्थः तथा प्रतिषेधस्यापि क्रत्वर्थत्वादित्यर्थः। अयं भावः। पुरुषार्थो हि प्रतिषेधः स्वनिवर्तकत्वनिर्वाहाय पुरुषगतनरकरूपानर्थसाधनत्वं प्रतिषेधस्याक्षिपेत्। क्रत्वर्थस्तु प्रतिषेधो न पुरुषगतानर्थसाधनत्वमाक्षेप्तुमलम्। यदि तु प्रतिषेध्यस्य प्राप्तिः पुरुषार्थतया स्यात् तदा प्रापकसमानविषयत्वात् प्रतिषेधस्य क्रतुप्रकरणगतस्यापि पुरुषार्थत्वं शङ्कितुं शक्यम्। तदपि तु नास्ति। प्रापकस्यषोडशिग्रहणविधेरपि क्रत्वर्थत्वादिति। विशेषं विशदयितुं अनर्थहेतुत्वं यत्रभवति तत् स्थलं प्रदर्शयति यत्र त्विति। न विकल्प इति। प्रतिषेधतुल्यबलस्य प्रापकशास्त्रस्य सत्त्वेहि विकल्पः स्यात्। तादृशशास्त्राभावेनयत्र विकल्पोन भवतीत्यर्थः। प्राप्तिश्चेति। लौकिकाल्पसुखेच्छयेत्यर्थः।उदाहरति यथेति। नन्वत्र प्राप्तिप्रतिषेधयोरुभयोः पुरुषार्थत्वात् विकल्पः कस्मान्न भवतीत्यत्राह तत्रेति। भक्षणनिषेधस्यैव न तु भक्षणविधेरपि।पुरुषार्थत्वात् पुरुषार्थत्वेन श्रवणात्। यदि हि कलञ्जभक्षणस्य पुरुषार्थत्वबोधको विधिः श्रूयेत ततस्तुल्यबलत्वाद्विकल्पः स्यात्। न तु तथा विधिःश्रूयते। लोकत एवाल्पसुखसाधनत्वमवगम्य हि जातरागः पुरुषस्तत्रप्रवर्तते।तं निवर्तयन् श्रुतः प्रतिषेधः अल्पसुखरागेण नात्र प्रवर्तितव्यम्, महानर्थहेतुत्वादिति बोधयतीति भावः। एतावता इदमुक्तं भवति।प्रतिषेधस्थले विकल्पोवा प्रतिषेध्यस्यानर्थहेतुत्वं वा। प्रतिषेध्यस्य शास्त्रप्राप्तत्वे विकल्पः रागप्राप्तत्वेऽनर्थहेतुत्वमिति। तत्र योऽयं दशमाष्टमाधिकरणन्यायेन शास्त्रप्राप्तपुरुषार्थाग्निहोत्रहोमादीनामकर्तव्यताबोधको ज्योतिष्टोमप्रकरणे श्रुतः प्रतिषेधः दीक्षितो न ददाति न जुहोतीति तत्र प्रतिषेध्यस्यानर्थहेतुत्वं नाश्रयितुं शक्यते। रागप्राप्तत्वाभावात्। प्रतिषेधस्यज्योतिष्टोमार्थत्वेन पुरुषार्थत्वाभावाच्च। अतो विकल्प एवाश्रयणीय आपतति।स च नोपपद्यते। पुरुषार्थतया प्राप्तानां होमादीनां क्रत्वर्थतया निषेधेन भिन्नविषयत्वात्। एकार्थत्वे हि विकल्पः। यथा षोडशिग्रहणाग्रहणयोः। उभयोरपिक्रत्वर्थत्वात्। एवमनुपपन्नोऽपि विकल्पो भवदुक्तनीत्या क्रत्वर्थे शास्त्रप्राप्तप्रतिषेधेऽस्मिन्नापद्यत इति शङ्कां परिहरन्नाह न चेति। स्वत इति। यावज्जीवमग्निहोत्रं जुहोतीत्यादिस्वतन्त्रविधिभिः पुरुषार्थतया विहितानामित्यर्थः। पुरुषार्थत्वाभावेऽपीति। एतावता अनर्थहेतुत्वानुपपत्तिशङ्कानुवादः। निषिध्यमानस्येति। एकत्वं चिन्त्यम्। होमादीनामित्यर्थः। अनर्थहेतुत्वादिति। एवं चानर्थहेतुत्वस्यैवाश्रयणान्न विकल्पापत्तिरित्युक्तं भवति। ननु स्वयमेव पूर्वं ‘यत्र तु प्राप्तिश्च रागत एव प्रतिषेधश्च पुरुषार्थस्तत्र प्रतिषिध्यमानस्यानर्थहेतुत्वं’ इत्युक्त्वाकथमिदानीं पुरुषार्थतया शास्त्रप्राप्तानामेषां प्रतिषेधस्य पुरुषार्थत्वाभावेऽपि अनर्थहेतुत्वमुच्यत इतिशङ्कायाम्; अर्थ्यत इत्यर्थइष्टम् तद्भिन्नोऽनर्थोऽनिष्टम्। सोऽयमनर्थो द्विविधः पुरुषगतो नरकरूपः क्रतुगतो वैगुण्यरूपश्च। तत्र पुरुषगतस्यानर्थस्य निबन्धनं रागप्राप्तत्वं प्रतिषेधस्य पुरुषार्थत्वं च। तत् पूर्वमुक्तम्। क्रतुगतस्य निबन्धनं प्रतिषेधस्य क्रत्वर्थत्वम्। तच्च प्रकृतेऽस्ति। न दीक्षित इत्यादिनिषेधस्य ज्योतिष्टोमप्रकरणगतत्वेन तदर्थत्वादिति समाधानाभिप्रायेण दृष्टान्तमाह यथेति। क्रतौ; दर्शपूर्णमासप्रयोगमध्य इत्यर्थः। पुरुषार्थप्रतिषेधविषयकलञ्जभक्षणाद्यपेक्षयाऽन्यादृशानर्थहेतुत्वं स्फुटीकरोतितन्निषेधस्येति। ‘न स्त्रियमुपेयात्’ इति दर्शपूर्णमासप्रकरणश्रुतस्येत्यर्थः।तस्य स्वस्त्रीगमनादेः। क्रतुवैगुण्यं क्रतुगताऽपूर्वानुत्पत्तिप्रयोजिकाऽयोग्यता।
ननु रागप्राप्तस्य स्त्रीगमनादेःक्रत्वर्थप्रतिषेधवशेन क्रतुवैगुण्यापादकत्वेऽपि शास्त्रप्राप्तहोमादेस्तन्नोपपद्यत इति चेन्नैवम्। क्रत्वर्थप्रतिषेधविषयत्वमात्रस्य तत्र निबन्धनत्वात्। रागप्राप्तत्वशास्त्रप्राप्तत्वयोस्तत्राविशेषकरत्वात्। अथैवं सति षोडशिग्रहणप्रतिषेधस्यापि क्रत्वर्थत्वात् तद्विषयस्यषोडशिग्रहणस्य क्रतुवैगुण्यरूपानर्थहेतुत्वमवर्जनीयमिति चेत्; न।तत्रप्रापकशास्त्रस्यापि क्रत्वर्थतयैव प्रापकत्वात्। रागप्राप्तस्य पुरुषार्थतयाशास्त्रप्राप्तस्य वा क्रत्वर्थतया प्रतिषेध एव क्रतुवैगुण्यापादकत्वकल्पनात्।कस्मादिति चेत्; श्रूयताम्–
प्रतिषेधस्तावन्निवर्तनां बोधयन् स्वनिवर्तकत्वनिर्वाहाय प्रतिषेध्यस्यानिष्टसाधनत्वामाक्षिपतीत्युक्तम्। यदि तु क्वचित् अनिष्टसाधनत्वाक्षेपमन्तरेणैव निवर्तकत्वं सिध्येत्, न तत्रानिष्टसाधनत्वं प्रतिषेध्यस्यावश्यमाक्षेप्तव्यम्। नातिरात्र इति प्रतिषेधस्य च, प्रतिषेध्यस्य षोडशिग्रहणस्यानिष्टसाधनत्वमनाक्षिपत एव निवर्तकत्वमुपपद्यते। अतिरात्रे षोडशिनंगृह्णातीति विधिना षोडशिग्रहणस्य क्रतूपकारकत्वमवगच्छन् पुरुषस्तत्रप्रवर्तते। तस्य यदि क्रत्वनुपकारकत्वबुद्धिर्भवति तत एव तस्यषोडशिग्रहणान्निवृत्तिः सिध्यति। अनुपकारके हि निष्फले न कश्चित् प्रवर्तेत। एवमनुपकारकत्वबुद्धिमेवायं प्रतिषेधो जनयतीत्यभ्युपगम्यते। लाघवात्। गृह्णातीति विधिबोधितस्योपकारकत्वस्य प्रतिषेधेनाभावबोधनेहि लाघवम्। अनुपस्थितानिष्टसाधनत्वबोधने तु गौरवम्। न चकथमेकस्मिन् पदार्थे विधिप्रतिषेधाभ्यां मिथो विरुद्धयोरुपकारकत्वानुपकारकत्वयोर्बोधनं शक्यमिति शङ्क्यम्। प्रतिषेधेनानुपकारकत्वबोधनद्वारा इतराङ्गैरेव क्रतूपकारसिद्धौ बोधितायां विधिवैयर्थ्यपरिहारायानुष्ठाने फलातिशयकल्पनेन तत्कामनायां षोडशिग्रहणानुष्ठानंअन्यथाऽननुष्ठानमिति विरोधाभावात्। तदेवं समानविषयविधिपूर्वकप्रतिषेधस्थले विधिप्रमितेष्टसाधनत्वाभावमात्रबोधान्न प्रतिषिध्यमानस्यानिष्टसाधनत्वम्।पुरुषार्थविधिप्राप्तविषये तु क्रतुमध्ये निवृत्तिः क्रतुवैगुण्यापादकत्वकल्पनमन्तरेण कथमपि न सिद्ध्यतीत्यलम्।
यदेवं ग्रन्थकारो दीक्षितहोमादीनामनर्थहेतुत्वमाह तदापदेवीयाननुसारि। स खल्वाह–
न तेषामनर्थहेतुत्वम्। रागप्राप्त्यभावात्। रागतः प्राप्तस्यापि क्रत्यर्थत्वेन प्रतिषेधे तदनुष्ठानात् क्रतोर्वैगुण्यम्; नानर्थोत्पत्तिः। यथास्त्र्युपगमनादिप्रतिषेधे। इति।
तदत्रक्रतुवैगुण्यस्याप्यनिष्टत्वादनर्थत्वं वक्तुं सुशकमित्यापदेवोक्त्यनङ्गीकाराभिसन्धिः प्रतीयत इति विभाव्यम्। तदनुसारी पाठो वाऽन्वेष्टव्यः।
शास्त्रीयवाक्यविषया कियती किलाद्य
व्युत्पत्तिरित्यवहिताः परिचिन्तयन्तः।
पङ्क्त्यर्थभावविवृतौ बिभृमोमहान्तं
यत्नं न वोऽस्तु सुधियो बहुवादबुद्धिः॥
इति निषेधपरिच्छेदः षष्ठः॥
––––––––
प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः। तस्य चलक्षणया प्रयोजनवदर्थपर्यवसानम्। तथाहि। अर्थवादवाक्यं हि स्वार्थप्रतिपादने प्रयोजनाभावाद्विधेयनिषेध्ययोःप्राशस्त्यनिन्दितत्वेलक्षणया प्रतिपादयति। स्वार्थमात्रपरत्वे आनर्थक्यप्रसङ्गात्। आम्नायस्य हि क्रियार्थत्वात्। नचेष्टापत्तिः। स्वाध्या योऽध्येतव्य इत्यध्ययनविधिना सकलवेदाध्ययनं कर्तव्यमिति बोधयता सर्ववेदस्य प्रयोजनवदर्थपर्यवसायित्वं सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः।
** **अर्थवादं निरूपयति प्राशस्त्येति। प्राशस्त्यनिन्दयोरन्यतरत् परं प्रधानंविवक्षितोऽर्थः यस्य तत्। न तु स्वशक्यार्थपरमिति भावः। ननु कथं वाक्यस्य स्वार्थं विहायार्थान्तरवाचकत्वं भवेत्। न हि घटशब्दः पटमभिदधीत\। किमर्थं चार्थान्तरपरत्वाश्रयणम्। इत्यत्र समाधानाभिप्रायेणाहतस्य चेति। अर्थवादस्य चेत्यर्थः। लक्षणयेति। शक्तिवल्लक्षणाऽपि हि शब्दस्य वृत्तिः। तया वृत्त्यार्थान्तरप्रतिपादकत्वं भवत्येवेति भावः।प्रयोजनेति। प्रयोजनवत्यर्थे पर्यवसानं विश्रान्तिः तात्पर्येण प्रतिपादकत्वम्।वक्तव्यमिति शेषः। चकारो हिकारार्थे हेतौ। तस्य शक्त्यभावेऽपि लक्षणामाश्रित्य प्रयोजनवदर्थवाचित्वं हि वक्तव्यम्। तस्मात् प्राशस्त्यनिन्दान्यतरपरत्वमिति। एतेन स्वार्थस्य प्रयोजनाभावात् त्याग इति सूचितम्।ननु प्रयोजनवदर्थपर्यवसायित्वे को निर्बन्ध इस्यत्र हेतुमभिधातुमाह तथाहीति। उक्तमेव प्रथमं विवृणेति अर्थवादेति। स्वार्थेति। वाक्यानां स्वार्थप्रतिपादनस्य हि फलकामानां पुरुषाणां कर्मानुष्ठानं प्रयोजनम्।यथा विधिवाक्यैर्यागादिषु फलसाधनतया बोधितेषु तत्र पुरुषाः प्रवर्तन्तइति। न च वायुर्वैक्षेपिष्ठा देवतेत्येक्मादीनां वाक्यानां तादृशं प्रयोजनं सम्भवतीति। विधेयेति। विधेयस्य प्राशस्त्यं निषेध्यस्य निन्द्यत्वम्।अथेदानीं प्रयोजनवदर्थपर्यवसानावश्यंभावे हेतुमाह स्वार्थमात्रेति।स्वार्थस्यप्रयोजनाभावे स्वयमप्यनर्थकं प्रसज्यत इत्यर्थः। नन्वस्त्वानर्थक्यम्। नहि सर्वं वाक्यं सार्थकमित्यस्ति निर्बन्ध इत्यत्राहआम्नायस्येति।लौकिकवाक्यानां केषांचिन्निरर्थकत्वेऽपि वैदिकवाक्यानां निरर्थकत्वं वक्तुमनुचितम्। कर्मानुष्ठानफलं हि वेदस्याम्नानम्। तदुक्तं जैमिनिना ‘तद्भूतानां क्रियार्थेन समाम्नायः’ इति, ‘आम्नायस्य क्रियार्थत्वात्’ इतिचेति भावः। आपदेवीये इदं न दृश्यते। ननु तत्सर्वं विधिवाक्यविषयम्। अर्थवादवाक्यानान्त्वानर्थक्ये इष्टापत्तिरेवेतिशङ्कां वारयतिन चेति। सकलेति। तथा च विधिवाक्यवदर्थवादवाक्यानामपि यथावदधीतानां धार्यमाणानां च विधिवत् प्रयोजनवदर्थपर्यवसायित्वं वक्तव्यम्।अन्यथा तदध्ययनवारणानुपपत्तेरिति भावः। सूचयतेति। अध्येतव्य इतिकर्मणि तव्यप्रत्ययश्रवणेन यथाश्रुते स्वाध्यायाध्ययनं कर्तव्यमिति बोधेऽपि षष्ठाद्यभावार्थाधिकरणन्यायपर्यालोचनया प्रयोजनवदर्थज्ञानसाधनीभूतस्वाध्यायमध्ययनेन भावेयदितिव चनव्यक्तिं सम्पाद्य प्रयोजनवदर्थपर्यवसायित्वं बोद्धव्यं भवतीत्यभिप्रायेण सूचयतेत्युक्तम्।उपात्तत्वेन विषयीकृतत्वेन।
सद्विविधः। विधिशेषोनिषेधशेषश्चेति। तत्र‘वायव्यं श्वेतमालभेत भूतिकाम’ इत्यादिविधिशेषस्य‘वायुर्वै क्षेपिष्ठा देवते’ त्यादेर्विधेयार्थप्राशस्त्यबोधकतयार्थवत्वम्। ‘बर्हिषिरजतं न देय’ मित्यादिनिषेधशेषस्य,सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्यादेर्निषेध्यस्य निन्दितत्वबोधकतयार्थवत्त्वम्। न च प्राशस्त्यादिबोधस्यनिष्प्रयोजनत्वेन नार्थवादस्यार्थवत्त्वमिति वाच्यम्। आलस्यादिवशादप्रवर्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेनतद्बोधस्योपयोगात्॥
प्राशस्त्यनिन्दाऽन्यतरपरत्वमुक्तम्। तत्र कुत्रप्राशस्त्यपरत्वं कुत्र निन्दापरत्वमिति विवेकायार्थवादं विभजते **स द्विविध इति। विधेयार्थेति।**वायुदेवताकयागेत्यर्थः। बर्हिषीति। क्रतावित्यर्थः। निषेध्यस्य रजतदानस्य। निन्दितत्वेति। रुद्ररुदिताश्रुप्रभवतया, दीयमानं रजतं दातुर्गृहे रोदनंजनयतीति निन्दा \। ननु निष्प्रयोजनं स्वार्र्थं परित्यज्य प्रयोजनवदर्थान्तरंवक्तव्यमित्युक्त्वाकथं स्वार्थतुल्यमेवार्थान्तरमुच्यते। न हि प्राशस्त्यनिन्दितत्वबोधस्य किञ्चित् प्रयोजनमस्ति। तदाहुः स्तुतश्चास्तुतश्च तावानेवसोऽर्थः इति। तथा च पुनरर्थवादानर्थक्यमिति शङ्कां वारयति **न चेति।**अयं भावः। विचित्रस्वभावेऽस्मिन् जगति तथाविधा अपि केचिदलसाःसम्भाव्यन्ते ये विधिमात्रेण प्रवृत्ताः निषेधमात्रेण निवृत्ताश्च न भवन्ति। तेषामालस्यं निरस्य प्रवृत्तिनिवृत्त्युद्यमसम्पादकत्वात् नोक्तरीत्या नैरर्थक्यमिति।
स पुनस्त्रेधा। तदुक्तम्–‘विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधामतः’ इति। अस्यार्थः–प्रमाणान्तरविरोधे सत्यर्थवादोगुणवादः। यथा ‘आदित्यो यूप’ इत्यादि। यूपे आदित्याभेदस्य प्रत्यक्षबाधितत्वादादित्यवदुज्ज्वलत्वरूपगुणोऽनेन लक्षणया प्रतिपाद्यते। प्रमाणान्तरावगतार्थबोधकोऽर्थ-वादोऽनुवादः। यथा‘अग्निर्हिमस्य भेषजमिति। अत्र हिमविरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात्। प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादो भूतार्थवादः। यथा ‘इन्द्रो वृत्राय वज्रमुदयच्छ’ दित्यादि।
नन्वेवंप्रयोजनवदर्थपर्यवसानं कृत्वा अर्थवादानां सार्थक्यवर्णनं अयुक्तम्;गावो वै सत्रमासत, इत्येवमादीनां अनुपपन्नार्थानां उन्मत्तबालवाक्यतुल्यानामानर्थक्यस्यैव न्याय्यत्वादित्यत्र एवंविधा वादा गौणतया नेया इतिआप्ततमैः प्राचीनैरेवोक्तमिति समाधातव्यमित्यभिप्रेत्य पुनरर्थवादं त्रेधाविभज्य निरूपयति स पुनरिति। यद्वा ननु एतावतात्मदुक्तं सर्वंआपदेवोक्तमेव, तदनुक्तं किंचिदुच्यतामिति पृष्ट आह। **स पुनरिति।**विरोधे सत्यर्थवाद इति। विरोधेसत्यर्थवादो यद्वाक्यं तत् गुणवाद इति बोध्यम्।अतएव उदाहरणे इत्यादीति नपुंसकम्। उज्ज्वलत्वेति। तथाच गुणेन वादो गुणवाद इति द्रष्टव्यम्। प्रमाणन्तरेति। प्रमाणान्तरमनु ततः पश्चात् तदनुसारेण वा वादः अनुवादः। श्लोके तद्धानादिति। तच्छब्देन विरोधावधारणे गृह्येते। तयोर्हानं राहित्यं तस्मिन् सतीत्यर्थः। तदाह प्रमाणान्तरेति। भूतार्थेति। यत्र न प्रमाणान्तरसंवादस्य संभवः न विसंवादस्य,तथाऽपि वृत्तत्वेन वर्ण्यते; स भूतार्थः। तस्य वादः।
इत्यर्थवादपरिच्छेदस्सप्तमः॥
–––––––––
** एवं च ‘यजेत स्वर्गकाम’ इत्यादिनिखिलवेदस्य साक्षात्परम्परया वा यागादिधर्मप्रतिपादकत्वं सिद्धम्।**
** सोऽयं धर्मो यदुद्दिश्य विहितस्तदुद्देशेन क्रियमाणस्तद्धेतुः। ईश्वरापर्णबुद्ध्या क्रियमाणस्तु निश्रेयसहेतुः। न च तदर्पणबुद्ध्यानुष्ठाने प्रमाणाभावः।**
यत्करोषि यदश्नासि यज्जुहोषिददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥
** इति भगवद्गीतास्मृतेरेव प्रमाणत्वात्। स्मृतिचरणेतत्प्रामाण्यस्य श्रुतिमूलकत्वेन व्यवस्थापनादिति शिवम्॥**
बालानां सुखबोधाय भास्करेण सुमेधसा।
रचितोयं समासेन जैमिनीयार्थसङ्ग्रहः॥
इति श्री लौगाक्षिभास्करविरचितपूर्वमीमांसार्थसङ्ग्रहः॥
–––––––––––
ग्रन्थमुपसंहरन् ग्रन्थारम्भे यदुक्तं ‘वेदस्य सर्वस्य धर्मे तात्पर्यवत्त्वेन धर्मप्रतिपादकत्वेन’ इति, तदियता निरूपणेन सिद्धमित्याह एवंचेति। साक्षादिति। विधिनामधेययोः साक्षात्, मन्त्रार्थवादयोर्विध्यन्वयेन विधिकल्पनया वा परम्परया च धर्मप्रतिपादकत्वम्। निषेधस्यापि निषेध्यवर्जनरूपधर्मप्रतिपादकत्वं साक्षात्। ‘वेदोऽखिलोधर्ममूलम्’ इति ह्याहुः। तदनुसारेणेदमुक्तमिति ज्ञेयम्। इह व्युत्पादिता इमे मीमांसाशास्त्रार्था न केवलं स्वर्गपश्वादिक्षुद्रफलकामानामेव विज्ञेयाः।अपि तु मोक्षकांक्षिभिरपीत्याशयेन स्वर्गादिफलसाधनतया श्रुतानां धर्माणांमोक्षार्थत्वमप्यस्तीत्याह सोऽयमिति। तत्र कदा स्वर्गसाधनत्वमित्यत्रोक्तंयदुद्दिश्येति। यस्य भाव्यत्वं कृत्वेत्यर्थः। तदुद्देशेन तन्मे भूयादिति सङ्कल्प्य। कदा मोक्षहेतुत्वमित्यत्रोक्तं ईश्वरेति। ईश्वरो भगवान् वासुदेवःतस्य तस्मिन् वाऽर्पणम्; ईश्वर एव कर्ता भोक्ता आराध्यश्चेत्यनुसन्धानमित्यर्थः। तस्य बुद्ध्या तद्विषयकदृढाध्यवसायेनेत्यर्थः। निश्रेयसस्य मोक्षस्यहेतुः मोक्षहेतुज्ञानोपकारीत्यर्थः। ननु फलान्तरे श्रुतिसिद्धे एवं फलान्तरकल्पनमन्याय्यमिति शङ्कां वारयति न चेति। मदर्पणमिति। मह्यमर्पितमित्यर्थः। यद्यप्यनया स्मृत्या नित्यनैमित्तिककर्मणामवश्यकर्तव्यानामेवार्पणमुपदिश्यत इत्युच्यते तथाऽपि
वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये।
यथाश्रमं त्यक्तकामः प्राप्नोति परमं पदम् ॥
काम्यं विषयभोगार्थमिहामुत्र प्रयुज्यते।
मोक्षाय सुकृतं तद्धि ब्रह्मार्पणधिया कृतम् ॥
इत्यादिस्मृतिवचनान्तरोपलक्षणमिदमिति ज्ञेयम्। ननु वेदस्य हि धर्मेप्रामाण्यमुक्तम्; न स्मृतेरित्यत्राह स्मृतीति। स्मृतिचरणः स्मृतिपादःप्रथमाध्याये तृतीयः। तत्प्रामाण्यस्य स्मृतिप्रामाण्यस्य। श्रुतीति। एवंचे स्मृतेः स्वरूपतोऽप्रमाणत्वेऽपि मूलभूतश्रुत्युपस्थापनद्वारा प्रमाणत्वमविहतमिति भावः। इतीति। एवमुक्तं सर्वं प्रामाणिकत्वेने शोभनमित्यर्थः।यद्वा इतिः समाप्तौ। शिवं ग्रन्थकारस्याध्यापकाध्याप्यानां च भूयादित्यर्थः।ननु जैमिन्यादिभिर्निरूपितान् बहूनर्थाननिरूप्यैव कथं ग्रन्थसमापनमितिशङ्कां परिहरन्नाह बालानामिति। अनेनोक्तशङ्कापरिहारोऽभिप्रेतः। सुमेधसेति। अधिकमपि वक्तुं शक्तोस्मीति भावः। यद्वा सर्वे स्वप्रौढिं प्रकाशयन्तो दुर्ग्रहं बहु ब्रूयुः। न त्वहं तथा। किन्तु बालानुग्रहाय ललितसंक्षिप्तभाषीति स्वविवेकितां श्लाघते सुमेधसेति। बहूनर्थान् परित्यज्य येकतिपयेऽर्थानिरूपणीयतयोपात्ताः तत्रापि न विस्तरः कृत इति भावः।
इति निगमनपरिच्छेदोऽष्टमः।
श्रीशैलतातयाचार्यशिरोमणिरिति व्यधात्।
प्राच्यविद्येश्वर इति ख्यातस्तन्त्रप्रकाशिकाम्॥
मीमांसापरिभाषापरिष्क्रियामक्षरार्थमथ चैताम्।
तन्त्रप्रकाशिकां यः सम्यगधीते स वेद मीमांसाम्॥
अन्तर्गृहं बहिरपीह मुहुः प्रवृत्तै–
र्दुःस्वैःप्रणष्टमनसां द्वितयं सुखं नः।
मीमांसने परिचयो महतां गुरूणां
पादारविन्दपरिसेवनभागिता च॥
जयतु विपुलतन्त्रन्यायमार्गावगाह–
प्रगुणमतिविकासः पण्डितानां समाजः।
भजतु च रसवद्भिर्वाङ्मयैरेतदीयै–
र्विघटितमतिभेदो लोक एष प्रशान्तिम्॥
इति श्रीशैलताताचार्यस्य
न्यायमीमांसाशिरोमणेः प्राच्यविद्येश्वरस्य कृतिषु
तन्त्रप्रकाशिका।
<MISSING_FIG href="../books_images/U-IMG-1726120420Screenshot2024-09-12104924.jpeg"/>
शोधनिका॥
–––⇔–––
पुट | पङ्क्तिः | अशुद्धम् | |
३ | १०,१३ | इदंशब्दः | एतच्छब्दः |
६ | १३ | श्येनादाविति | श्येनादाविति |
९ | १८ | प्रवृच्यनु | प्रवृत्त्यनु |
१० | ८ | भावना | भावनां |
१४ | १६ | लिङादि | लिङादिज्ञान |
१५ | १५ | क्रियाविशेषो | क्रियाविषयो |
१६ | १६ | दिति' | दिति' |
२३ | १८ | पदं इति | पद इति |
२४ | २५ | कर्माविशेषो | कर्मविशेषो |
३० | १६ | तत्र अभि | तत्र वि |
३० | २५ | पदान्तर | प्रमाणान्तर |
३१ | १४ | व्यच | व्याच |
३१ | १५ | अवगन्तव्यम् |
ट्टालङ्कारे ‘यच्छब्दज्ञानमन्यव्यवधानमपेक्ष्य’ इत्यत्र ‘अनपेक्ष्य’इति शोधनीयम्। शक्तं पदं श्रुतिरिति तात्पर्यम्।
[TABLE]
६० | १० | तादृश | तादृशा |
६२ | १५ | कॢप्तति | क्लृप्तेति |
७१ | १४ | एवं | |
७१ | २० | विशणा | विशेषणा |
७६ | १७ | कांक्षा | कांक्षो |
७९ | ११ | रणा | रेणा |
७९ | १७ | अन्यथा | तदन्यथा |
८० | २ | ‘सादृश्या’ | सादृश्यबोधना |
८० | १४ | दात्विति॥ | दात्विति |
८० | २३ | तस्य यागस्य (इतीदं परित्याज्यम्) | |
८१ | १ | प्रत्ययो | प्रत्यययो |
९६ | २३ | श्रवणेन | श्रवणेन, |
<MISSING_FIG href="../books_images/U-IMG-1726120886Screenshot2024-09-11170303.png"/>
]
-
“स एवेति वा।” ↩︎