३ ३

न्यायसुधायाम्। तृतीयस्याध्यायस्य तृतीयः पादः।

अथोच्चैस्त्वादीनां वेदधर्मताधिकरणम्॥ १॥

श्रुतेर्जाताधिकारः स्यात्॥ १॥ वाक्यस्य लिङ्गद्वारा श्रुतिकल्पनेन विनियोगहेतुत्वात् लैङ्गिकविनियोगप्रकारचितानन्तरं वाक्यीयविनियोगप्रकारचिन्तायाः सङ्गतिमाह एवमिति लिङ्गाधिकरणोपक्रमवदिहापि विशिष्टावृ [८१५।२] त्त्या विशिष्टरूपविनियोगोक्तेर्विनियोगप्रकारोक्तिः वाक्यमरुणया क्रीणातीति प्रकरणाधिकरणभाष्यात् अरुणाधिकरणे वाक्यीयविनियोगप्रकारचिन्तां निराकर्त्तुमुच्चैरित्येव वाक्यमुदाहरणमित्याह तत्रेति वेदोपक्रममृगाद्युपसंहारं चान्यदपि वाक्यमत्रोदाहरणमित्याह तद्यदीति तत्रेति वा सन्देहभाष्यं व्याचष्टे तत्रेति ऋगादिशब्दवाच्यानां पादादिसमूहसामान्यरूपाणां जातानां ऋगादिशब्दैर्ग्रहणं वेदानां वेत्येवं भाष्ये व्याख्याते शब्दार्थचिन्ताया लक्षणासङ्गतिमाशङ्क्यर्गादिमन्त्रप्रकाश्ये कर्मणि उच्चैस्त्वादिकर्मभ्रेषे च प्रायश्चित्तमित्येवं विनियोगचिन्ताफलत्वात् लक्षणसङ्गतिसूचनायोच्चैस्त्वेत्याद्युक्तं वाक्यव्यापारालोचने ऽपि पूर्वपक्षोद्भवसूचनायोपक्रमोपसंहारस्थपदान्वयानपेक्षश्रुतिवशत्वे जातग्रहणस्योक्ते श्रुतिविरोधात् सिद्धान्तायोगमाशङ्क्य विनियोगश्रुत्यव्यापारात् अविरोधो ऽभिधानोक्त्या च सूचितः। श्रुतिवशाद्वेदग्रहणाप्रतीतेः सन्देहायोगं शङ्कते कुत इति श्रुतिवशात्पूर्वपक्षसम्भावनातिशयायोक्ता वस्तुतस्तु अत्न पूर्वपक्षस्यापि वाक्येनैव करणात्पदानां वान्योन्यविरोधे सति एकवाक्यत्वायोगादेकानुरोधेनेतरस्य व्याख्येयत्वावगतेरु-३ पक्रमोपसंहारस्थयोः श्रुत्योर्विरोधे बलाबलविशेषो ऽस्ति न वेति सन्देहाद्विशेषाभावे विध्युद्देशार्थवादविरोधे ऽङ्गगुणविरोधे च तादर्थ्यादित्यनेन न्यायेन विध्युद्देशस्यार्थवादं प्रति प्राधान्यात् बलीयस्त्वावगतेर्विध्युद्देशरूपोपसंहारस्थवर्गादिश्रुतिबलीयस्त्वात् तदनुशेषेनार्थवादरूपोपक्रमस्था वेदश्रुतिर्व्याख्येया उपक्रमबलीयस्त्वे तु उपक्रमस्थवेदश्रुत्यविरोधेनर्गादिश्रुतिव्याख्येयेति पक्षद्वयप्रतिभावात्सन्देहमुपपादयति एकेति एतदेवोपपादयति उपक्रमे हीति यो होता सो ऽध्वर्युरित्यादावुपक्रमोपसंहारयोर्द्वयोरपि विध्युद्देशस्थत्वे सति उपक्रमबलीस्त्वे ऽपि अत्रार्थवादरूपस्योपक्रमस्य विध्युद्देशेन बाधनिश्चयात्सन्देहायोगमाशङ्क्याह स चेति विध्युद्देशस्यार्थवादकृतप्ररोचनां विना पर्यवसानासम्भवासम्भवे ऽपि अर्थवादानर्थक्यपरिहारार्थवादैकवाक्यत्वाभ्युपगमे ऽपि विध्युद्देशबलीयस्त्वेन स्नेहमात्रस्याञ्जनसाधनत्वनिश्चयावगतेः प्ररोचनं विना पुंसः प्रवर्त्तयितुमशक्यत्वात् अर्थवादसन्निधौ चार्थवादानपेक्षस्य विध्युद्देशस्य प्रवर्त्तकत्वायोगेनार्थवादात् घृताख्यविशेषग्रहमात्पर्यवसानाभ्युपगमे तु घृतस्यैव साधनत्वनिश्चयात्प्ररोचनां विना पर्यवसानसम्भवासम्भवसन्देहात्स्नेहमात्रेणोक्तव्याः शर्कराः घृतेनैव वेति सन्देहः सम्भवतीति परिहारेण यथासन्देहः समर्थितः तथेहापि समर्तयन्ती इत्यर्थः। पौनरुक्त्यं तर्हीत्याशङ्कते एवं तर्हीति विध्युद्देशे ऽजनसाधनद्रव्यानुपादानात्सन्दिग्धार्थस्य दौर्बल्यं वक्तुं युक्त न तु निश्चितार्थेत्याशङ्क्याधिक्यादाहभ्यतइत्याशयेन परिहरति नायमिति विध्युद्देशस्य बलीयस्त्वादुच्चैस्त्वादिविधौ जातस्य विधेयोच्चैस्त्वादिविषयतेत्येवं पूर्वपक्षसूत्रव्याख्यार्थं किं [८१६।३] तावदित्यादिभाष्यं व्याचष्टे किमिति अक्ताधिकरणपूर्वपक्षे विध्युद्देशस्योपक्रमस्थत्वात् बलीयस्त्वोपपत्तेः न तन्न्यायनास्योपसहारस्थस्य बलीयस्तता युक्तेत्याशङ्कानिरासार्थत्वेनोपक्रमस्थाया वेदश्रुतेर्लक्षणया जातविषयता युक्ता न तु ऋगादिशब्देन वेदानां लक्षणया ऽप्यधिकारो विषयीकारः सम्भवतीत्येवमावृत्त्या सूत्रव्याख्यार्थं वेदानामिति भाष्यं व्याख्यातुं लक्षणासम्भावनयान्योन्यान्वयं तावदाह किं चेति सूत्रावृत्तिसूचनार्था किञ्चोक्ति यथाग्नीषोमीये पशुमालभेतेति विध्युद्देशस्थपश्वाख्यद्रव्यं सामान्यरूपत्वाद्वाक्यशेषभूतमन्त्रस्थेन छागाख्येन विशेषेण भावनावानेकधात्वर्थानुरञ्जनसहत्वेन सामान्यरूपत्वात् द्रव्यदेवतान्वयानुमितिवाक्यशेषस्थेन यागाख्येन धात्वर्थविशेषेण न विरुध्येत तथर्गादयो ऽवान्तरसमूहरूपत्वाद्विशेषस्थानीया महासमूहत्वात्सामान्यस्थानीयैर्वाक्यशेषस्थैर्वेदैर्न विरुध्यते किं त्वन्वीयन्ते ततश्च सम्भवति तावल्लक्षणेत्याशयः। लक्षणासम्भवे ऽपि वेदोक्त्यैवर्गादयो लक्ष्यन्ते न त्वर्गाद्युक्त्या वेद इति कुतो ऽवधारणेत्याशङ्कां निरस्यत् भाष्यव्याख्यां सूचयति न कथं चिदिति ब्राह्मणे ऽपि वेदप्रसिद्धेः सुतरां न वदन्तीत्युक्तम्। पक्षद्वये ऽपि सामर्थ्येनोच्चैस्त्वादीनामृगादिमन्त्ररूपशब्दाख्यजातिधर्मत्वाद्वेदविषयत्वपक्षे ऽनेकवेदविहितानामृगादीनामुच्चैस्त्वोपांशुत्वरूपविरुद्धधर्मद्वयप्राप्तावष्टदोषविकल्पापत्तेर्जातविषयतैव युक्तेत्येवमावृत्त्यान्यथासूत्रव्याख्यार्थमपि चेति भाष्यं व्याचष्टे किं चेति जातस्य तावदनेकवेदविहितत्वे ऽप्येकर्गादिरूपव्यवस्थानादेकोच्चैस्त्वादिधर्मावधारणादिशक्यं वेदानां त्वनेकजातसङ्कीर्णत्त्वाद्वेदविषयत्वपक्षे सामर्थ्यप्राप्तजातधर्मोच्चैस्त्वादिसङ्करः स्यादित्यर्थः श्लोक व्याचष्टे ऋचो हीति वेदविहितत्वस्य धर्मान्वयहेतुतयोत्तराधिकरणे वक्ष्यमाणत्वात् पठतिर्विधिलक्षणार्थः भाष्यस्थस्य ऋग्ग्रहणस्योपलक्षणार्थत्व। तथेत्यनेनोक्तम्। उच्चैस्त्वादिविधानस्य ज्योतिष्टोमप्रकरणे धुतेर्वेदविषयत्वे च प्रकरणेन वशीकारायोगात् प्रकरणबाधापत्तेर्जातविषयतैव युक्तत्येवमन्यथा सूत्रव्याख्याय प्रकरणं चेति भाष्य व्याचष्टे ज्योतिष्टोमेति प्रकृतज्योतिष्टोमत्यागे ऽपि प्रकरणस्यानादरादुल्लङ्घनम्। ऋग्वेदादिविहितस्य ऋगादिप्रकाशत्वस्यापि सर्वक्रतुसाधारण्यात्तद्धर्मत्वपक्षे ऽपि प्रकरणबाधाख्यदोषसाम्यापत्तेरनुवाक्याद्यर्थत्वेन प्रकरणापेक्षत्वात् प्राकरणिक्यर्चा यत् प्रकाश्यते तदुच्चैरुच्चारिततया प्रकाशनीयमिति वाक्यार्थप्रतीतेर्ज्योतिष्टौमिकजातविषयत्वेन व्यवस्थाभ्युपगमाद्दोषपरिहारे तु वेदविहितधर्मत्वपक्षे ऽपि प्राक रणिकेन ऋग्वेदेन यत् विधीयते तदुच्चैरुच्चरितेन शब्देन प्रकाशनीयमिति वाक्यार्थोपपत्तेर्ज्यौतिष्टोमिकर्ग्वेदविषयत्वेन व्यवस्थया परिहारस्यापि साम्यापत्तेर्नैकः पर्यनुयोक्तव्य इत्याशङ्कते नन्विति ज्योतिष्टोमप्रकरणे यो वेदः तेन यद्विधीयतइति वाच्ये कृत्स्नवदस्य ज्योतिष्टोमप्रकरणेनाव्याप्तेः यावानित्युक्तं जातस्यर्गादिशब्दवाच्यवर्णसङ्घाते प्रत्येकं प्रवृत्तेः प्रकरणस्थर्गादे समाप्तत्वाद्व्यवथोपपत्तेर्वेदत्वस्य तु प्रकणस्थ वेदभागे समाप्स्यभावात् व्यवस्थानुपपत्तेर्न परिहारतुल्यतेत्याह नैतदिति व्यतिरेकमुखेनातुल्यत्वमुपपादयति सर्वेति श्लोकद्वयेनान्वयमुखेन विवृणोति [८१७।३] मन्त्रेति विधिर्विधेय तर्कश्च वेद इति विधिशब्दोक्तस्य विधायकब्राह्मणभागस्य विधेयशब्दोक्तानां च मन्त्राणां मननविध्यपेक्षितात्मतत्वतर्कणार्थजगज्जननात्मकार्याभिधायिनो “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासिख तद्ब्रह्मे”त्याद्युपनिषद् भागस्य च वेदत्वस्मृतेस्तत्समूहे काठकाद्याख्ये क्रतुविषये वेदत्वं पादसमूहे त्वेकवाक्यभूतं जातं पदसमूहे यजुर्जातम् अवच्छेदरूपभक्त्यवयवात्मकेष्टस्थपर्वसमूहे सामजातं वर्ततइत्यर्थः। जातशब्दार्थसमूहसामान्यवाचितां वनादिशब्ददृष्टान्तेनोपपादयितुमाह यथेति सङ्घातसामान्यान्विता वृक्षादिसङ्घाता यथा वनादिशब्दवाच्याः तथा ऋगादिशब्दवाच्यानां पादादिसमूहानां सामान्यानि जातशब्देनोच्यन्तइत्यर्थः। जात्यधिकार इति भाष्येण भर्तृमित्रादिभिश्चाजातशब्दस्य जातिवाचितया व्याख्यानात्समूहवाचितया युक्तेत्याशङ्ग्याह जातिरेव त्विति ऋगादिजात्ययोगम्।

विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि।
व्यतिरिक्तपदारम्भो वर्णैर्नात्रोपपद्यते॥

अनारब्धे च गोशब्दे गोशब्दत्वं कथं भवेत्।

इति वार्त्तिकोक्तगोशब्दत्वायोगन्यायेन तद् भूताधिकरणोक्तवाक्यत्वायोगवदुपपादयितुमाह द्विवर्णे ऽपीति प्रातिपदिकाशयो द्विशब्दः श्लोक व्याचष्टे यथैव हीति भिन्नैः कर्णादिभिः स्थानैरुच्चारणप्रकाराख्यैश्च करणैस्तद्धेतुभूतैश्च प्रयत्नैर्व्यङ्ग्यत्वेन क्रमवत्त्वादयुगपद्भाविनां वर्ण्णानां वर्णसमुदायात्मकानां वा ऽक्षराणामक्षरसमुदायात्मकानां वा पदानां समूहे वाक्यान्त्ये वा वर्णे जातिरूपं वाक्यत्व भ्रमणत्वादिवत् कल्पयितुमारभ्यमाणं नवान्त्यवर्णवेलायां तेष्वालोचनसम्भवः पदतद्वाक्यसम्बन्धबुद्धिव्यवधिबाधनादिति तद् भूताधिकरणोक्तात्तद्विलक्षणानां पदरूपाणां वाक्यावयवानां ग्रहणरूपै पदार्थानां पदपदार्थसम्बन्धानां च स्मरणानुरूपैः प्रत्ययै पदार्थानां चान्योन्याकाङ्क्षाभिर्व्यवधानाज्जात्याश्रया। ननु सन्धानेन जातिग्रहणायोगात् यथा नाध्यवसितं तथर्गादीनि जातिरूपाणि कल्पयितुं न शक्यानीत्यर्थः। अयुगपद्भावित्वेन तर्हि समूहस्याष्ययोगात्तत्सामान्यरूपं जातमपि न स्यादित्याशङ्क्याह किं त्विति अयौगपद्ये ऽर्थे एकार्थप्रतिपादकत्वलक्षणैकधर्मयोगात्समूहोपपत्तिरित्याशयः सामान्योक्तेर्जातिवाचित्वात्सामान्याभ्युपगमे जात्यपह्नवो न युक्त इत्याशङ्क्याह यौगिकानामिति साधारणवाच्यय सामान्यशब्दो न जातिवाचीत्याशयः। जातोक्तेश्च समूहवाचितया लोकप्रसिद्धत्वात् न जातिवाचित्वव्याख्या युक्तेत्याह लोके ऽपि चेति वेदो वा प्रायदर्शनात्॥ २॥ [८१८।३] किमिदमिति प्रश्नभाष्यावयवं व्याचष्टे किमिति गत्यर्थक्रमिसमानार्थत्वेनेणः प्रक्रमाख्योपक्रमवाची प्रायशब्द इत्युत्तरार्थं वेदेति भाष्यं व्याचष्टे तत्रेति एतद्भाष्यविवरणार्थं प्रजापतिर्वा इति भाष्यं व्याचष्टे तदिति कुत इति प्रश्नभाष्यं पूर्वपक्षसूत्रस्थश्रुतिशब्दोक्तहेत्वनुसन्धानार्थत्वेन व्याख्यातुमाह यत्त्विति वाक्येत्युत्तरभाष्याशयं व्याचष्टे तत्रेति विध्येकवाक्यत्वं विना ऽर्थवादत्वानवसायात् विधिविरोधानवभासे ऽपि स्तुतिनिन्दाज्ञानानुत्पत्तेर्न विधिजन्येन ज्ञानेनार्थवादजन्यस्य ज्ञानस्य बाध्यत्वलक्षणं विध्यवादयोर्बलाबलं किं तु विधायकरूपविध्येकवाक्यत्वात् स्तुत्यर्थवादो निषेधरूपविध्येकवाक्यत्वात् निन्दार्थवाद इति विध्येकवाक्यत्वानुसारेणार्थवादस्वरूपावधारणलक्षणं तच्च विरोधकारणकत्वाभावात् न मुख्यपश्चाद्भावापेक्षं अतो जर्त्तिलयवाग्वा वा जुहुयादित्यादेर्मुख्यस्याप्यर्थवादस्य पयसा ऽग्निहोत्रं जुहोतीत्याद्युपसंहारस्थविध्यनुरोधात् पयोहोमस्तुत्यर्थवादत्वाद्यवधारणं युक्तम्। इह तु श्रौतार्थज्ञानाद् बाध्यबाधकत्वलक्षणं बलाबलमालोच्यते तच्च विरोधहेतुकत्वात् मरव्यपश्चाद्भावापेक्षं न विध्यर्थवादपदस्थत्वालाचनाद्विपरीतं भवतीत्याशयः। यदि तु विध्यर्थवादत्वनिबन्धनमेव बलाबलं वाच्यमित्याग्रहस्ततः पश्चात्तनेष्वर्थवादेषु तदस्त्वित्यतिशयार्थमाह य इति मुख्यत्ववद्विध्युद्देशत्वस्याप्यङ्गगुणविरोधन्यायाद् बलीयस्त्वहेतुता न विरुद्धेत्याशयः। पौरस्त्येष्वर्थवादेषु अङ्गत्वाद्दौर्बल्यं कस्मान्न भवतीत्याशङ्क्याह ये त्विति विरोधावस्थायां श्रुतस्य विध्युद्देशस्य स्वार्थपरत्वे ऽर्थवादान्वयापत्तेः सार्थवादस्य स्वयमप्ररोचकत्वेन केवलस्यापर्यवसानादलब्धात्मकस्य बाधकत्वानुपपत्तेर्मुख्यत्वेनार्थवादस्यैव बलीयस्त्वाद्विध्युद्देशगतत्वे ऽप्यृगादिशब्दानां दौर्बल्यं मित्याशयः। आग्नावैष्णवमेकादशकपालं निर्वपत्सरस्वतीमाज्येन यजेतेतिश्रुतेरमुरव्यस्याग्नावैष्णवस्य विकल्पेनाग्नीषोमीयैन्द्राग्नविकारत्वात्पौर्णमास्यमावास्यातन्त्रप्राप्तेनैव नैरकाङ्क्ष्यात्पाश्चात्यस्य सारस्वतस्योपांशुयाजविकारत्वहेतुकपौर्णमासतन्त्रनियमाप्रवृत्तिर्द्वादशाधिकरणे वक्ष्यते इह त्वेकवाक्यत्वप्रतीतेरुपक्रममात्रेण नैराकाङ्क्ष्याभावात् न तेन पौनरुक्त्यं शङ्कनीयं यद्युद्गातापच्छिद्याददक्षिणेन यजेत यदि प्रतिहर्त्ता सर्वस्वदक्षिणेनेतिश्रुतेः द्वयोः क्रमेणावच्छेदे पूर्वनिमित्तकः प्रयोगः कार्यः परनिमित्तको वेति सन्दिह्य पूर्वनिमित्तस्य मुख्यत्वाद् बाधकत्वं पूर्वपक्षयित्वा पूर्वबाधं विनोत्तरात्मलाभानुपपत्तेः वैकृतेभ्यः पदार्थेभ्यः प्राक् प्राप्तप्राकृतपदार्थवत् पूर्वदौर्बल्यस्य षष्ठे वक्ष्यमाणत्वात् मुरव्यस्यार्थवादजन्यस्य वेदज्ञानस्य पाश्चात्यविध्युद्देशजन्येन जातज्ञानेन वाध्यता युक्तेत्याशङ्कते ननु चेति उत्पन्नस्योत्तरभानस्य विरोधिपूर्वज्ञानबाधं विनोत्पत्त्ययोगेन बाधकत्वादेकवाक्यस्थानां च पदानामन्योन्यज्ञानानपेक्षज्ञानोत्पादकतायामेकवाक्यत्वभङ्गापत्तेरन्योन्यसापेक्षज्ञानोत्पादकतायामेकवाक्यत्वभङ्गापत्तेरन्योन्यसापेक्षज्ञानोत्पादकत्वावसायात् पूर्वपदजन्यज्ञानविरोधिनो ज्ञानम्योत्तरेण पदेनानुत्पादितस्य बाधकत्वानुत्पत्तेर्नात्र पूर्वर्दौबल्यन्यायः [८१९।४] सम्भवतीत्याशयेन परिहरति नैतदिति श्लोकं व्याचष्टे ये हीति पूर्वपदस्योत्तरपदाननुरोधवृत्तित्वे ऽप्येकवाक्यत्वविघातात् एकवाक्यस्थेष्वपि पूर्वदौर्बल्यं कस्मान्न भवतीत्याशङ्क्याह पूर्वप्रतीतं चेति जातस्योच्चैस्त्वादिवद्विधेयत्वाभावेन पूर्वप्रतीताद्विधेयविषयात् अनधिकत्वात् पूर्वप्रतीतवेदरूपविधेयविषयत्वाभावेन च पूर्वप्रतीताननुगुणत्वादनपेक्षितत्वेनाप्रतिपाद्यतया बलीयस्ता नाशङ्कितुमपि शक्येत्याशयः। सामान्यन्यायमुक्त्वा प्रकृते योजयति तदिहेति वेदानां विधेयविषयत्वस्य पूर्वं प्रतीतेर्विधेयमात्रापेक्षणात् जातस्यान्वयायागेनाप्रतिपाद्यत्वान्न बाधकतेत्यर्थः। वेदानामर्थवादाद्विधेयविषयत्वप्रतीतौ विध्युद्देशकीर्त्तनमनर्थकं स्यादित्याशङ्क्याहार्थवादस्य एव त्विति। वेदानां विधेयत्वं विधेयतैव वेत्यर्थवादात्सन्देहे विषयत्वनिर्णयस्य विध्युद्देशकीर्तनाधीनत्वात् यद्यपि वेदो ऽर्थवादाद्विधेयविषयतया भाति तथापि निर्णयार्थं विध्युद्देशे कीर्त्तनीय इत्याशयः। भाष्यव्याख्यार्थं सूत्रार्थमुपसंहरति तस्मादिति प्रायदर्शनोक्तेर्भूयोदर्शनवाचित्वेन प्राप्त्युक्त्यर्थत्वमङ्गीकृत्य वेदो व्यापकत्वेन हेतुलक्षणव्याप्यत्वशून्यत्वात् न ऋगादीन् लक्षयितुं शक्तः स एव ऋगादिभिर्व्याप्यत्वेन हेतुलक्षणयुक्तैः शक्यो लक्षयितुमित्यन्वयात्स्वयं सूत्रव्याख्यां सूचयितुमाह वेदश्चेति वेदाव्यभिचारात् ऋगादीनामृगाद्युक्तिमात्रेणर्गादिरूपवेदावयवप्रतीतिसिद्धेः तल्लक्षणार्थत्वे वेदोक्तिरनर्थिका तस्मादृग्बहुलो वेद इत्येवमादिमध्यमपदलोपिसमासत्वनैवर्ग्वेदाद्युक्तिर्व्याख्येयेत्यप्यनेन ग्रन्थेन सूचितम्। अर्थवादादेव च वेदानां विधेयोच्चैस्त्वादिविषयत्वप्रतीतिसिद्धेर्व्यवस्थामात्रार्थत्वेनर्ग्वेदाद्युक्तीनामनुवादप्रायत्वादनुवादानां च लक्षणवृत्तिदर्शनाद्विध्युद्देशस्थानामपि ऋगाद्युक्तीनां लक्षणयावृत्तिरविरु [८२०।३] द्धेति व्याख्यान्तरं सूचयितुमाह यथा वेति यस्मादिति भाष्यं सकलवाक्यवचनव्यक्त्युक्त्यर्थत्वेन व्याचष्टे तेनेति तस्मादिति सूत्रार्थोपसंहारभाष्यं व्याचष्टे तस्मादिति लिङ्गाच्च॥ ३॥ ऋग्भि प्रातरित्याद्यृक्छब्दस्य लक्षणयैव वेदे प्रयोगादलिङ्गत्वमाशङ्क्याह लक्षणापि चेति त्रिषु पादेषु द्वौ वेदौ ऋक् शब्दं च सङ्कीर्त्त्य वेदैरिति चतुर्थे पादे बहुवचनेनोपसहरतीति कृत्वा वेदवचनमृक्शब्दं दर्शयतीत्येवं लिङ्गत्वोपपादनार्थं द्वावित्यादिभाष्यममुख्यपादद्वयस्थवेदसङ्कीर्त्तनस्यादावुपन्यासेन मुख्यं वा पूर्वचोदना लोकवदित्यस्य विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वमित्यस्माद्भिन्नाधिकरणतया समसङ्ख्यविरोधविषयत्वमङ्गीकृत्याल्पस्य मुख्यत्वे ऽपि भूयोनुसारित्वसूचनात् चतुर्थपादानालोचने ऽपि ऋक्शब्दस्य यजुर्वेदसामवेदशब्दसाहचर्यात् वेदविषयत्वज्ञान भवति बहुवचनान्यथानुपपत्त्या तु तदेव दृढीक्रियतइत्येव व्याचष्टे त्रिष्वेव तावदिति तथा चाध्येतारस्तत्रैव सुतरां प्रयुञ्जतइति पूर्वपक्षवार्त्तिकोक्त ऋगादौ वेदप्रयोगमनुभाषणपूर्वं परिहरति य स्त्विति धर्मोपदेशसूत्रमसम्बद्धपदव्यवायापत्तेः स्वस्थानादुत्कृष्य त्रयी विद्याख्या च तद्विदि॥ ५॥ इति सूत्रं तावत् बलीयसा शास्त्रस्थेन प्रयोगोपन्यासानर्थक्यादयुक्तमाशङ्क्योपपादयितुमाह यदि चेति प्रश्मपूर्वं प्रयोगमुपपादयति कथमिति पञ्चविंशब्राह्मणप्रथमप्रपाठके महन्मे वोच इत्यादि यजु पाठात् छन्दोगानां जातत्रयत्वं त्रयीविद्यशब्दस्य वेदविषयत्वे ऽपि ऋगादिशब्दानां किमायातमित्याशङ्क्याह अत इति सूत्रार्थमुपसंहरति तस्मादिति [८२१।१] व्यतिक्रमे यथाश्रुतीति चेत्॥ ६॥ पक्षद्वये ऽपि लिङ्गेनोच्चैस्त्वोपांशुत्वयो ऋगादिशब्दरूपश्रुतिसम्बन्धितयैव प्रयोज्यत्वाद्वेदविहितपदार्थधर्मत्वपक्षे यजुर्वेदविहितत्वेन ऋचामृग्वेदाव्यतिक्रमे यजुर्वेदविहितत्वेनोपांशुत्वप्राप्तावपि ऋग्वेदविहितत्वेनोच्चैस्त्वस्याप्यपरिहार्यत्वात् वेदाख्यश्रुतिविहितवनिमित्तस्योपांशु उच्चैर्वा प्रयोगस्य पाक्षिकान्यथात्वापत्ते जातधर्मतैवोचितेत्यपि चेति भाष्यव्याख्यातपूर्वपक्षसूत्रार्थानुभाषणार्थत्वेनैतत्सूत्रव्याख्यार्थमथेति भाष्यं व्याचष्टे अनुभाषणेति न सर्वस्मिन्निवेशात्॥ ७॥ ऋग्वेदविहितानां यजुषां यजुर्वेदपाठमात्रेणोपांशुत्वे यजुर्वेदविहितानां चर्चां ऋग्वेदपाठमात्रेणोच्चैस्त्वे सति विधिविरोधाद्दोषः स्यात् सर्वस्मिस्त्वृग्जाते यजुर्जाते च ऋग्वेदविहिते उच्चैस्त्वनिवेशाद्यजुर्वेदविहिते चोपांशुत्वनिवेशादेकवेदविहितस्य धर्मद्वयसम्बन्धाप्राप्तेर्न दोष इत्येवं सूत्रव्याख्यार्थं नैषदोष इत्यादिभाष्यं व्याचष्टे न पाठमात्रेणेति करोतेर्विध्यनभिधायित्वात्कथं वेदविधेयतोक्तिरित्याशङ्क्य वेदस्य कर्त्तव्यत्वज्ञापनरूपकरणत्ववाचिन्या तृतीयया विधायकत्वाभिधानात्करोतेर्विध्यभिधायकत्वोपपादनार्थं प्रमाणेनेत्युक्तम्। एवमपि वेदद्वयविहिते ऽग्निहोत्रादौ विकल्पो ऽपरिहार्य इत्याशङ्क्याह यदि त्विति भूयस्त्वेनोभयश्रुतीत्यनेन न्यायेनाग्निहोत्रस्य याजुर्वेदिकत्वावगतेः सर्वं वास्य बर्हिष्यं सर्वैः परिगृहीतं य एवं विद्वानग्निहोत्रं जुहातीत्यार्ग्वेदिकस्य विधेरुदयकालत्वलक्षणगुणविध्यर्थं प्रकरणोज्जीवनार्थत्वावसायान्नोच्चैस्त्वोपांशुत्वयोर्विकल्पापत्तिः विशेषानवधारणे तु विकल्पो ऽप्यदोष इत्याशयः। वेदसंयोगान्न प्रकरणेन बाध्येत॥ ८॥ उच्चैस्त्वादिविधानस्य जातिष्टोमप्रकरणे श्रुतेर्वेदाधिकारत्वे प्रकरणबाधापत्तेः जाताधिकारः स्यादित्येवं प्रकरणं चेति भाष्यं व्याख्यातं सूत्रार्थं यदुक्तमिति भाष्येणानुभाष्य तत्परीहारार्थत्वेन वेदसंयोगात् ऋग्वेदादिविहितत्वलक्षणात्सर्वस्मिन्ज्योतिष्टोमाद्यतिरिक्ते ऽपि क्रतावुच्चैस्त्वादिनिवेशः प्राप्तो न प्रकरणेन बाधितुं शक्य इति कृत्वा यत्प्रकरणं बाध्यते स न दोषः वाक्येन प्रकरणबाधस्य युक्तत्वादित्येवं सूत्रव्याख्यार्थं वेदेति भाष्यं स्पष्टत्वादव्याख्याय वेदसंयोगात्सर्वस्मिन्निवेशं प्राप्तं न प्रकरणानुरोधेनोच्चैस्त्वादिधर्मो बाधेतेति द्वितीयान्तविपरिणतनिवेशोक्त्यङ्गीकारेण धर्म इत्यध्याहाराधिक्येन च सूत्रव्याख्यामभिप्रेत्य पाठान्तरमुदाहरति बाधेतेति वेति पूर्वपाठे प्रथमान्ततया निवेशशब्दविपरिणामः। धर्मोपदेशाच्च न हि द्रव्येण सम्बन्धः॥ ४॥ (1 १ ) ऋग्धर्मत्वेनोपदिष्टस्योच्चैस्त्वस्य पुनःसामधर्मत्वेनोपदेशाच्च ऋगादिशब्दैर्वेदो ऽधिक्रयितइत्येवं सिद्धान्तसूत्रोक्तप्रतिज्ञानुषङ्गेण सूत्रपूरणसूचनार्थं लिङ्गाच्चेति सूत्रानन्तरमेतत्सूत्रकृतमपि पूर्वपक्षनिरासार्थत्वेन स्वस्थानादुत्कृष्येदानीं व्याख्येयमिति सूचयितुं जाताधिकारपक्षं ऋग्धर्मत्वोपदेशेनैवोच्चैस्त्वस्य सामधर्मत्वसिद्धेः सामान्वयो न वक्तव्य इत्येवं पूर्वपक्षनिरासार्थमेव सूत्रशेषं व्याचष्टे जातेति प्रजापतिहृदयादिसञ्ज्ञानां साम्नागॄहीतत्वात् तदर्थं साम्नामुच्चैस्त्वोपदेशो भविष्यतीत्याशङ्कते अनृक्केति जा [८२२।१] तधर्मपक्षे प्रकरणानुग्रहसम्भवेनाप्रकरणिकेषु प्रजापतिहृदयादिषु उच्चैस्त्वविध्ययोगात्तादर्थ्यं न सम्भवतीति परिहरति नेति तादर्थ्याभ्युपगमे ऽप्यल्पविषयत्वान्मन्द्रप्रयोजनत्वापत्तिरित्याह अल्पेति वेदो ऽधिक्रियतइत्यनुषङ्गेण सूत्रपूरणं सूचयन्नधिकरणार्थमुपसंहरति तस्मादपीति

॥ आधाने गानस्योपांशुताधिकरणम्॥ २॥

गुणमुख्यव्यतिक्रमे तदर्थत्वात् मुख्येन वेदसंयोगः॥ ९॥ उच्चैस्त्वादेर्वेदधर्मत्वे स्थिते प्रसङ्गादुत्पत्तिवेदधर्मत्वं वेत्यत्र चिन्तेति परमतेन तावदधिकरणं वर्णयन् आधानसाम्नां विधानस्य वेदान्तरीयत्वाभावादनुदाहरणत्वमाशङ्क्य कृत्वाचिन्तात्वसूचनपूर्वं सन्देहं पूर्वपक्षं चाह इदानीमिति उत्पत्तिवेदधर्मः कर्त्तव्यः। प्रयोगवेदधर्मो वेति सन्देहार्थः वेदव्यपदेशनिबन्धनत्वादुच्चैस्त्वादिधर्माणां प्रत्यात्मव्यवस्थितोत्पत्तिविधिविषयस्य च साक्षाद्वेदव्यपदेशोपपत्तेः। प्रयोगविधिविषयत्वस्य त्वङ्गेषु प्रधानद्वारत्वेन साक्षाद्वेदव्यपदेशहेतुत्वायोगात् यस्याङ्गस्य यत्र वेदे विधानं तस्य तद्वेदधर्मः स्यादिति वदता यत्सामवेदिकैर्वारवन्तीयादिवाक्यैर्विधीयते सामवेदेनैतत्साक्षात्क्रियते यजुर्वेदेन तु प्रधानद्वारेत्येवं पूर्वपक्षभाष्यव्याख्या सूचिता। अङ्गप्रधानयोर्भिन्नवेदविहितत्वरूपे व्यतिक्रमे अङ्गे स्वरूपनिबन्धनधर्मानुरोधेन प्रधानद्वारप्राप्तस्य धर्मस्य बाधलक्षणो ऽतिक्रमः कार्य। प्रधानद्वारधर्मानुरोधेन वा स्वरूपनिबन्धनस्येति सन्देहे प्रधानसाद्गुण्यार्थत्वादङ्गधर्मानुष्ठनस्य प्रधानद्वारधर्मानुरोधेन स्वरूपनिबन्धनधर्मव्यतिक्रमस्य न्याय्यत्वात्प्रधानद्वारकः प्रयोगवेदसंयोगः क्रियतइत्यनेन विवक्षित इत्येवं सूत्रव्याख्यां सूचयन् सिद्धान्तमाह इतीति गुणे स्वरूपतः प्राप्तस्य धर्मस्य बाधनमित्यर्थः। भाष्ये ऽपि स्वरूपनिबन्धनो धर्मो गुणोक्त्योक्तः। प्रधानद्वारको मुख्योक्त्या। अपरोक्तेर्विरोधिधर्मान्तरार्थतामवश्यकर्त्तव्यतोक्त्या सूचयन् श्लोकं व्याचष्टे अवश्येति तदर्थत्वादिति हेतुव्याख्यार्थं कुत इत्यादि भाष्यं व्याचष्टे तथा हीति प्रधानद्वारप्राप्तेनैव धर्मेणाङ्गस्यापि साद्गुण्यसिद्धेरभ्युपेत्यवादमात्रेण यद्यतीत्युक्तम् आधानस्येत्यादिभाष्यं सिद्धान्तोपसंहारार्थत्वेन व्याचष्टे तस्मादिति प्रयोगविधेरङ्गप्रधानवाक्यैकवाक्यत्वलभ्याङ्गप्रधानविशिष्टभावनाविषयत्वेन कल्प्यत्वादनाम्नातत्वेन वेदत्वानुपपत्तेर्यजुर्वेदेन यत्प्रयुज्यते तदुपांश्विति शास्त्रार्थायोगात् यजुर्वेदेन यद्विनियुज्यते तदुपांश्विति शास्त्रार्थावगतेः सामवैदिकोत्पत्तिविधिविहितेष्वाधानसामसु उपांशुत्वाप्राप्तेर्नोच्चैस्त्वबाधकता युक्तेति पूर्वपक्षाशयं दूषयितुमुपन्यस्यति नन्विति प्रधानेन सहाङ्गानामेकदेशकालकर्त्तृत्वसिद्धये ऽङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरन् तस्मात्स्यादेकदेशत्वमित्येकादशाधिकरणसिद्धान्तसूत्रे प्रकाराख्यविधानरूपेति कर्त्तव्यताकाङ्क्षाकरणाख्यप्रधानविषयेन दर्शपूर्णमासाभ्यां स्वर्गङ्कामो यजेतेत्यादिप्रयोगविधिनोपदेशस्य वक्ष्यमाणत्वात्प्रयोगविधेरपि वैदिकत्वोपपत्तेः करोतेश्चानुष्ठानात्मकप्रयोगवाचित्वाज्जजुर्वेदेन यत्प्रयुज्यते तदुपांश्विति शास्त्रार्थोपपत्तिरित्याशयेन परिहरति नैतदिति प्रधानेन सहैकवेदविहितानामङ्गानां वाक्यैकवाक्यत्वापन्नवाक्यसमूहात्मकमहावाक्यार्थभूतानामङ्गप्रधानविशिष्टभावनाविषयवैदिकप्रयोगविधित्प्रयेज्यत्वसम्भवे ऽपि वेदान्तरविहितानामेकवाक्यत्वायोगात् न तत्प्रयोज्यत्वोपपत्तिरित्याशङ्कानिरासार्थं विधेस्त्वेकश्रुतित्वात् अपर्यायविधानात् नित्यवत् भूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं शब्दार्थो नीतः तत्तस्मात्सर्वप्रयोगे प्रवृत्ति स्यादित्येकादशाधिकरणान्तरसिद्धान्तसूत्रं पठति तथेति साङ्गप्रधानप्रयोगविधेरकेप्रधानप्रयोगविधिश्रुतिनिबन्धनत्वेनापर्यायेणाकादाचित्कत्वेन सर्वाङ्गानां विधानावगतेर्नित्यवच्छ् रुतानां च तथाभूतानां श्रुत्यादिप्रमाणोपनयलक्षणसन्निधानाविशेषात्सन्निकर्षविप्रकर्षानादरेण प्रधानान्वयावगतेरनिर्ज्ञातोपायपरिमाणत्वेन च प्रधानोपकाररूपेणार्थेन सर्वेषामपेक्षितत्वात् युगपत्प्राप्तेर्यथाप्राप्ते च स्वशब्दार्थे विकल्पायोगात् निवीता ऋत्विजः प्रचरन्तीति सर्वर्त्विजां निवीतवद्यथाप्राप्तस्याङ्गसमूहस्य सर्वस्य स्वप्रधानप्रयोगविधायिशब्दविषयत्वावगतेः सर्वाङ्गप्रयोगे फलसिद्धिः स्यादिति समन्त्याङ्गप्रयोगोपपादनायैककाण्डाम्नाननिमित्तैकवाक्यत्वाभावे ऽपि अङ्गप्रधानानामन्योन्यापेक्षावशात्सर्वाङ्गानुगृहीतेन प्रधानेन फलं भावयेदित्येवं वाक्यैकवाक्यत्वकल्पनया सन्निकृष्टविप्रकृष्टानां सर्वेषामङ्गानां प्रधानप्रयोगविधिप्रयोज्यत्वस्य वक्ष्यमाणत्वात् वेदान्तरीयाणामप्यङ्गानां प्रधानप्रयोगविधिप्रयोज्यत्वोपपत्तिरित्याशयः। अत प्रधानप्रयोगविधिप्रयोज्यत्वेनाङ्गानां वेदान्तरोत्पन्नानामपि प्रधानप्रयोगवेदप्रयोज्यत्वात्साङ्गस्याधानस्य याजुर्वेदिकत्वेनासाम्नामुपांशुत्वोपपत्तिरित्युपसंहरति तस्मादिति स्वयमेव तर्ह्याधानवत्साम्नामपि यजुर्वेदप्रयोज्यत्वा [८२३] दुपांशुत्वप्राप्तेः प्रधानद्वारत्वायोगाद्बलीयस्ता न युक्तेत्याशङ्कते एवं तर्हीति प्रधानोपकारित्वेनाङ्गधर्मस्याप्युपांशुत्वस्य प्रधानधर्मत्वाभ्युपगमे तूच्चैस्त्वस्यापि प्रधानधर्मत्वापत्तेरपरिहार्या तुल्यबलतेत्याह अथेति साक्षादङ्गविधावप्युत्पत्तिविध्यालोचने साम्नां याजुर्वेदिकत्वाभावादुपांशुत्वाप्राप्तेः प्रधानस्यैव तु साङ्गस्य यजुर्वेदसम्बन्धात्साम्नामुपांशुत्वप्राप्तेः दुर्निराकारा प्रधानद्वारतेति परिहरति उच्यतइति श्लोकं व्याचष्टे यदि हीति आधानसामोत्पत्तेर्वस्तुतो याजुर्वेदिकत्वे ऽपि सामवैदिकत्वं कृत्वाचिन्तारम्भादित्याशयः। साङ्गं कुर्यादित्युपबन्धस्य याजुर्वेदिकत्वेन साङ्गस्योपांशुत्वावधारणात्स्वरूपेण चाङ्गस्योपांशुत्वसंस्पर्शाभावे साङ्गस्योपांशुत्वायोगात्स्वरूपेण सस्पर्शापत्तिरित्याशङ्कते नन्विति साङ्गविधौ विशेषणत्वेनाङ्गविधानाद्विशणणविधश्च विशिष्टविधिकल्पत्वेनानाम्नानाद्वैदिकत्वानुपपत्तेराधानसाम्नां याजुर्वैदिकत्वाभावेनोपांशुत्वाप्राप्तेरुपांशुत्वरूपो धर्मः प्रधानद्वारैवाङ्गानि प्राप्नुवन्नङ्गधर्म इत्येवं कथ्यते न त्वङ्गस्य स्वरूपेणोपांशुत्वापादिका यजुर्वेदे साक्षाच्चोदनास्तीति परिहरति नेति अतो नोपांशुत्वोच्चैस्त्वयोस्तुल्यबलतेत्याह ततश्चेति बलीयस्त्वे ऽप्युपांशुत्वस्य विरोधाभावे बाधकत्वायोगाद्विरोधो ऽतिक्रमोक्त्योक्तः प्रधानद्वाराप्यङ्गं प्राप्तस्य धर्मस्य बाधे साक्षात्प्रधानवैगुण्यानापत्तेरङ्गवैगुण्यद्वारस्य तु प्रधानवैगुण्यस्योच्चैस्त्वबाधे ऽपि तुल्यत्वेन नोपांशुत्वस्य बाधकत्वं सम्भवतीत्याशङ्क्य प्रधानेन न हीत्युक्तम् उपांशुत्वस्य साङ्गप्रधानधर्मत्वादङ्गे ऽप्युपांशुत्वबाधे साक्षात्साङ्गप्रधानवैगुण्यापत्तेरुच्चैस्त्वस्य त्वङ्गधर्मत्वात्तद्बाधेन साक्षात्प्रधानवैगुण्यानापत्तेर्वैषम्यमित्याशयः। उच्चैस्त्वोपांशुत्वयोर्वेदविशेषविधयत्वोपलक्षितकर्माङ्गत्वेन विधानादुत्पत्तिवेदविधेयत्वस्य चाङ्गेष्वनन्यद्वारत्वात्साक्षात्प्राप्तेः प्रयोगवेदविधेयत्वस्य तु प्रधानद्वारत्वाद्विपरीतं बलाबलमितिप्रात्यात्मिकत्वाद्व्यपदेशधर्माणामिति वार्त्तिकोक्तं पूर्वपक्षाशय दूषणायामुसन्धत्ते नन्विति वैषम्ये ऽपि नोच्चैस्त्वस्य बाध्यतेत्यपिशब्दार्थः। प्रधानवैगुण्यापादकत्वेन साक्षात्प्राप्तेर्बलीयस्त्वहेतुत्वाभावात् शीघ्रावगतिहेतुत्वमात्रं वाच्यं तच्च षष्ठाधिकरणन्यायाद्दौर्बल्यमेवापादयतीत्याशयेन दूषयति सत्यमिति प्रधानवेदस्वरबलीयस्त्वाभ्युपगमे ऽनिष्टापत्ति शङ्कते ननु चेति [८२४।१] वचनेन न्यायादनिष्टापत्तिं परिहरति सत्यमिति सामिधेन्यनुवचनादीनां ऋग्वदे ऽन्वाधानमन्त्रादीनां च यजुर्वेदे विधानात् पूर्वपक्षन्यायेन नानावेदस्वरप्राप्तौ सिद्धान्तन्यायेन बाधितायां विशेषविषयेण मन्द्रादिवचनेन प्रधानेषु सामान्यवचनप्राप्तोपांशुत्वबाधपूर्वमङ्गेषु तद्बाध इत्यर्थः। स्वप्रधानानामिष्ट्याख्यानां पशुबन्धाख्यानां च दर्शपूर्णमासविकृतीनां दार्शपौर्णमासिकं मन्द्रादिस्वरत्रयं चोदकात्प्राप्तं बाधित्वा प्रत्यक्षयाजुर्वैदिकप्रधानप्रयोगवचनलक्षणोपदेशवशेनप्रधानविधायियजुर्वेदनिमित्तोपांशुत्वस्वरप्रसक्तौ सामवेदविहिते श्येने ऽङ्गान्युद्गातृभिः कार्याणीति वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युरिति सप्तमपादान्त्याधिकरणसूत्रेण पूर्वपक्षयित्वा तद्ग्रहणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यादव्यक्तः शेष इत्यनेन पूर्वसूत्रस्थपूर्ववच्छब्दनिर्दिष्टप्रत्युपस्थापितप्राकृतधर्मपरामर्शिनं तच्छब्दं चोदकप्राप्तान्यङ्गान्यधिकृत्य वैकृतप्रयोगवचनप्रवृत्तेश्चाधिकारशब्दञ्चोदकवाचिनमभिप्रेत्य प्रयोगवचनेन प्राकृतधर्मग्रहणात्प्राकृतानाञ्च धर्माणाञ्चोदकसामर्थ्येनानर्त्विक्कर्तृकाणामेव प्राप्तेः स्वकीयचोदकप्राप्तनानर्त्विक्कर्त्तृकधर्मयुक्तः श्येनादिः स्यात् यस्तूद्गात्रादिः सामान्यसमाख्यानिमित्तत्वात् अव्यक्त कर्त्ता स शेषे प्राकृतधर्मव्यतिरिक्ते कन्टकवितोदनादावपूर्वे श्येनाङ्गे भविष्यतीति सिद्धान्तयिष्यमाणत्वात् तेनैव न्यायेनात्रापि चोदकबलीयस्त्वात् काम्येष्टिव्यतिरिक्तानां दर्शपूर्णमासविकृतीनां साङ्गानां चोदकप्राप्तमन्द्रादिस्वरत्रयं काम्येष्टीनां तु यज्ञाथर्वणं वै काम्या इष्टय स्ता उपांशु कर्त्तव्या इति काम्यशब्दवाच्ये प्रधाने विशेषवचने नोपांशुत्वविधानादङ्गमात्रे स्वरत्रयं युक्तमित्याह तथेति ज्योतिष्टोमाङ्गभूतानां तु दर्शपूर्णमासविकृतीनां दर्शपौर्णमासिके मन्द्रादिस्वरत्रये चोदकात् प्राप्तप्रयोगवचनेन बाध्यमाने तद्ग्रहणाद्वेति वक्ष्यमाणेन चोदकबलीयस्त्वेनोज्जीविते ज्योतिष्टोमस्य याजुर्वेदिकत्वेनोपांशुधर्मकत्वात्प्रवृत्तत्वादिष्टे सोमे प्रवृत्तिः स्यादित्यष्टमाधिकरणपूर्वपक्षवक्ष्यमाणस्य क्लृप्तोपकारत्वाद्दार्शपौर्णमासिकानां धर्माणाङ्ग्रहणस्य कृत्स्नविधानात्तत् पूर्वत्वमिति सिद्धान्ते निराकरिष्यमाणत्वेनाभावाद्दार्शपौर्णमासिकमन्द्रादिस्वरत्रयाशङ्कानुपपत्तेः तदङ्गभूतानां दर्शपूर्णमासविकृतीनामपि प्रस्तुतसिद्धान्तन्यायेन ज्योतिष्टोमगतोपांशुत्वप्राप्ति बाधित्वा दीक्षणीयाद्युद्देशेन विशेणवचनविहितेषु स्वरेषु तेनैव न्यायेन साङ्गानां प्राप्तेषु मन्द्रं प्रातः सवने चरन्तीत्यादिविशेषवचनैः सवनविभागे विहितानां मन्द्रादि स्वरत्रयाशङ्कानुपपत्ते तदङ्गभूतानां दर्शपूर्णमासविकृतीनामपि प्रस्तुतसिद्धान्तन्यायेन ज्योतिष्टोमगतोपांशुत्वप्राप्तिं बाधित्वा दीक्षणीयोद्देशेन विशेषवचनविहितेषु स्वरेषु स्वरेषु तेनैव न्यायेन साङ्गानां प्राप्तेषु मन्द्र प्रातः सवने चरन्तीत्यादिविशेषवचनैः सवनविभागे विहितानां मन्द्रादि2 स्वरकाणामुच्चारणानां सर्वेषां ज्योतिष्टोमाङ्गानामपि गुणमुख्यव्यतिक्रमन्यायेन प्रतिस्वं साङ्ग प्रयोगं प्रयोगं त्रेधा विभज्य प्राकृतमन्द्रादिभिराज्यभागान्तत्वाद्यनादरात्सर्वथा साम्याभाव ऽपि त्रेधा विभक्तयज्ञभागधर्मत्वेन तुल्यानां मन्द्राद्युच्चारणानां प्राप्तौ यत्किञ्चिदिति वाक्याच्च सर्वेषां दैक्षात्प्राचामुपांशुत्वप्राप्तौ प्रधानमात्रवाचिना शब्देनोद्दिश्य यावत्या वाचा कामयीत तावत्या ऽनुब्रूयादित्यादिस्वरविशेषविधानात्प्रधानमात्रे स्वरविशेषात्तदङ्गेषूपांशुतेति व्यवस्था दैक्षे तु मन्द्रयाज्यभागान्तमित्यादिविभागन प्राप्तस्य प्राकृतस्य वा स्वरस्य गुणमुख्यव्यतिक्रमन्यायेन ज्योतिष्टोमगतोपांशुत्वप्रसङ्गाद्वारितस्य सवनविभागविहितेन मन्द्रादिस्वरेण गुणमुख्यव्यतिक्रमन्यायादेव दैक्षप्राप्तेनोभयानुग्रहायाज्यभागान्तादिविभागेन साङ्गदैक्षप्रयोगं त्रेधा विभज्य प्रयोज्यतया ऽवगतेन प्रतिप्रसवः प्राकृतस्य वा स्वरस्याङ्गभूते दैक्षे स्वरूपतः प्राप्तस्य प्रधानतः प्राप्तेन सवनविभागस्वरेण बाधात्सवनविभागतुल्यदैक्षविभागाश्रयाणान्मन्द्रादिस्वरकस्योच्चारणस्य सम्पादनं कार्यमनुबन्ध्यादिष्वपि सवनविभागस्वरद्वारप्राप्ता मन्द्राद्युच्चारणविशेषाद्दैक्षेण व्याख्याता इत्याह एवमिति तथा ज्योचिष्टोमस्येति तु पाठे तथा प्राप्ते सतीत्यध्याहार्यम्। ततो जोतिष्टोमस्येति पाठस्तु सुगमः यत्किञ्चिचिदित्येनेनैवोपसत्स्वप्युपांशुता न युक्तेत्याशङ्क्योपसंहारे यत्किं चिदिति वीप्सार्थप्रतीतिविरोधापत्तेर्दीक्षणीयास्वरप्रशंसार्थत्वेन चार्थवत्त्वोपपत्तेर्नोपसहारार्थत्वं सम्भवतीतिसूचनायोपांशूपसत्स्वित्युक्तं विप्सार्थयत्किञ्चिच्छब्देन सर्वव्यापित्वोक्त्योपसंहारानर्हत्वं सूचितं सवनीयादिष्वपि साङ्गं प्रयोगं त्रेधा विभज्य मन्द्राद्युच्चारणानां दैक्षन्यायेनोचितत्वात्तदतिक्रमेणानूबन्ध्यादिषु दैक्षन्यायातिदेशो न युक्त इत्याशङ्क्याह सु [८२५।१] त्याकालेति मन्द्रं प्रातः सवने चरन्तीत्यादिवाक्यस्थानां सवनोक्तीनां सोमयागावयववाचित्वेन सवनीयादिवाचित्वाभावाद्यथा दीक्षणीयाद्युद्देशेन विहिताः स्वरास्तदङ्गेषु न भवति यथा वा दीक्षणीयादिषु सुत्याकालबहिर्भूतेषु ज्योतिष्टोमाङ्गेषु सवनसम्बन्धेन विहिताः स्वरा न भवन्तीत्याशङ्कते ननु सवनशब्दानामिति सप्तम्या सवनानामाधारत्वप्रतीतेः कर्ममध्ये ऽनुष्ठानादेव च कर्मणामाधारत्वप्रसिद्धे कर्मकाले चानुष्ठानं विनानुष्ठानस्य कर्ममध्यत्वासिद्वेः सवनकाले तत्प्रयुज्यते तत्र सर्वत्र मन्द्रादिविध्यवगमात् सवनीयादिष्वपि यथासवनमेव स्वरा भवन्तीति परिहरति नेति एतदेव व्यतिरेकतो ऽन्वयतश्च यथाक्रमं श्लोकद्वयेन विवृणोति यदिति यत्प्रातःसवनस्याङ्गं चरन्ति तन्मन्द्रमित्य ङ्गव्यतिरेकजनितषष्ठ्याश्रयणात्सवनाङ्गमन्त्रप्रतीतिरभिमता। सवनानामाधारत्वमात्रविवक्षायां स्तोत्रशस्त्रयाज्यानुवाक्यादिरूपाणां सवनाङ्गमन्त्राणां सवनाख्यसोमयागावयवभूतावान्तरसमुदायावयवत्वेन सवनेभ्यो ऽत्यन्तभेदाभावादाधेयत्वानुपपत्तेर्वपया प्रातः सवने चरन्तीत्यादिवच्च सवनं प्रत्याधेयत्वेनाश्रुतत्वान्न यथा सवन मन्द्रादिस्वरः स्यादित्याशङ्कत केचिदिति व्यतिरेकतो ऽन्वयतश्च यथाक्रमं श्लोकं व्याचष्टे आधार इति षष्ठीप्रयोजनस्य मन्द्रादिस्वरलाभस्य षष्ठ्यभावे ऽपि सवनाधारत्वाविशेषेण स्तोत्रादिष्वप्यवगतत्वेन सम्भवात् स्तोत्रादौ मन्द्रादिस्वराभावापत्तिरूपो दोषो नास्तीति परिहरति इतीति अङ्गानङ्गविषया इत्युक्ते परिहारो ऽभिधीयतइत्यध्याहारेण योज्यम्। अत्यन्तभेदाभावे ऽपि आधेयत्वं [८२६।३] दृष्टान्तेनोपपादयन् श्लाकं व्याचष्टे यथा हीति अङ्गानङ्गविषया द्वयोक्ति। याज्यानुवाक्यादिसन्निपत्योपकारिमन्त्रव्यतिरिक्तस्य त्वारादुपकारिणः स्तोत्रादेः कृत्स्नस्य मन्त्रजातस्य निःफलसवनाङ्गत्वायोगेन ज्योतिष्टामाङ्गत्वावसायात्सवनीयाद्वयङ्गान्तरवस्तोत्राद्यपि प्रत्याधारत्वमात्रं सवनानां न तु प्रधानतेति सवनीयादितुल्यता वक्तुं शक्येत्याह यदि वेति सुत्योक्त्यात्र ज्योतिष्टोमो विवक्षितः। सवनान्तरगते सवनीयादौ स्तोत्रादौ च यथासवनस्वरमुपपादितमपूर्वे स्तोत्रादौ स्वरान्तरप्राप्तिक्रमोक्तिपूर्वमुपसंहरति नानेति सवनीयादिव्यावृत्तिशङ्कानिरासाय समस्तोक्तिः। सुत्यकालीनान्यङ्गानीति मध्यमपदलोपीसमासः। सर्वेष्वेकाहाहीनसत्रेषूज्यौतिष्टोमकस्वरन्यायमितिदिशति एतेनेति सर्वत्र वाचनिकस्वरलाभव्युत्पादनेनानिष्टापत्तौ परिहृतायामुच्चैर्भवेत्यादिविहितस्य नानावेदस्वरस्य निर्विषयत्वं शङ्कते क्व पुनरिति को विषय इत्यर्थः। श्नेनादावौद्गात्रादिसमाख्याप्राप्तस्य कर्त्तु प्राकृताङ्गव्यतिरिक्तापूर्वाङ्गविषयत्ववत् नानावेदस्य रस्यापूर्वमङ्ग विषयो भविष्यतीति पारहरति उच्यतइति एतदेव विवृणोति यदिति येषां प्राकृतानामङ्गानां प्राकृतस्वरस्तद्वत्यां विकृतौ चोदकेन प्रयोगवचनबाधात् प्रयोगवचन च विनाङ्ग प्रधानधर्माप्राप्तेरपूर्वे ऽङ्गस्ववेदस्वरोपपत्तिसूचनार्थम् प्राकृतेत्युक्तम्। प्रयोगवचनस्याबाधाभ्युपगमे ऽपि वेदान्तरीयतोक्ता। सविषयइति पूरणीयं प्राकृतेष्वङ्गेषु चोदकप्राप्तेन स्वरेण प्रयोगवचनप्राप्तस्वरबाध ऽप्यपूर्वे ऽङ्गे चादकाप्रवृत्तेः प्रयोगवचनप्राप्तस्वरबाधायोगात् वेदान्तरीयैश्चाङ्गवाक्यै प्रत्यक्षैकवाक्यत्वाभावे ऽप्यङ्गाङ्गिनामन्योन्यापेक्षाकल्पितैकवाक्यत्वशब्दादान्तरीये ऽप्यङ्गे वेदान्तरीयप्रधानप्रधानप्रयोगविधिप्रवृत्त्युपपत्तेः गुणमुख्यव्यतिक्रमन्यायेनं वेदान्तरीये ऽप्यप्रधानप्रयोगविधेर्वेदान्तरीयाङ्गेकवाक्यत्वायोगाद्वेदान्तरीये अङ्गे प्रवृत्त्यनुपपत्तेः वेदान्तरीये ऽङ्गे प्रधानवेदस्वराप्राप्तिसूचनार्थं वेदान्तरीयेऽपूर्वेऽङ्गे प्रधानद्वारस्य स्व राख्यस्य धर्मस्य भावान्न सविषय इत्येवमपि पक्ष दूषयति नन्विति समानवेदस्थं तर्ह्यङ्गप्रधानस्वराविरोधिस्वरत्वेनाबाध्यस्वकीयस्वरत्वान्नानास्वरविधिविषयो ऽस्त्विति पक्षान्तरं शङ्कते एव तर्हीति कन्टकवितोदनादे प्रधानवेदविहितस्याव्यक्तः शेष इत्यनन विषयत्वकल्पनादत्रापि समानवेदविहितस्यैव विषयता युक्तेति सूचनार्थम् शेषेष्वित्युक्तम् अङ्गे नानावेदस्वरम्य प्रधानस्वराविरोधित्वं वदता प्रधाने ऽवश्यं नानावेदस्वरविधिरभ्युपगन्तव्य इत्यापाद्य गुणमुख्यव्यतिक्रमन्यायात्प्रधानद्वारैवापूर्वे ऽङ्गे तद्वेदस्वरलाभोपपत्तरङ्गविषयस्वरविधर्नैष्फल्यप्रसङ्गात् सो ऽपि विषयो न भवतीत्येवमेनमपि पक्षं दूषयति सो ऽपीति प्रधानमेव तर्हि यथाप्रकृताप्राप्तशेषाङ्गक स्वसमानवेदस्थापूर्वाङ्गान्तरकं विषयो ऽस्त्विति पक्षान्तरं शङ्कते तदेव तर्हीति दार्शपौर्णमासिकेन मन्द्रयाज्याभागान्तमित्यादिना ज्यौतिष्टौमिकेन वा मन्द्रं प्रातः सवनइत्यादिना स्वरेण तस्य प्रधानस्यावरुद्धत्वात्सो ऽपि विषयो न भवतीत्येवमेतमपि पक्षं दूषयति नेति प्रधानस्यात्मीयवेदस्वराभावे प्राकृतस्य स्वरस्य प्राकृताङ्गमात्रान्वयित्वेनापूर्वङ्गान्वयानुपपत्तेः प्रधानद्वाराङ्गे स्वरलाभायोगात् अङ्गमेव तर्हि विषयो भविष्यतीत्यपूर्वाङ्गविषयवाद्येव पुनः प्रत्यवतिष्ठते न तर्हीति प्रधानद्वारापूर्वाङ्गस्य नानावेदस्वरप्राप्त्यभावे ऽपि य प्रधानस्य प्राकृतस्य प्राकृतस्वराख्यो धर्मः तस्यैव देशादिवत्प्रयोगाङ्गत्वेन प्रकृतिवद्विकृतावपि प्रयोगवचनाश्रयत्वावगतेरपूर्वे ऽप्यङ्गे ऽभावान्नाङ्गं नानावेदस्वरविधिविषय इत्येवं परिहरति नैवमपीति प्रकृतस्य स्वरस्य च यज्ञभागधर्मतया देशवद्धमुपांशुत्वमिति नवमाधिकरणन्यायेन स्थितत्वाद्यज्ञभागपतितस्यापूर्वस्याप्यङ्गस्य प्राकृतस्वराख्यधर्मलाभोपपत्तेर्नापूर्वमङ्ग नानावेदस्वरविधिविषय इत्याह अपि वेति ननु त्सरा वा एष यज्ञस्य तस्माद्यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीत्युदाहृत्य उपांशुताग्नीषोमीयप्राग्भाविपदार्थधर्मो यज्ञभागधमों वेति सन्दिग्धे यज्ञशब्दस्य प्रयोजनवत्तरत्वादर्थवादस्थत्सराशब्दत्यागेन विध्युद्देशस्थप्राचीनशब्दान्वयप्रतीतेर्यज्ञभागधर्मत्व पूर्वपक्षयित्वा तस्मादित्यादिपदव्यवधानेन यज्ञस्य प्राचीनमित्यन्वयायोगात् प्राचीनस्य चोद्देश्यत्वेन विशेषणानपेक्षत्वाद्यज्ञभागस्य चैकत्वात् यत्किञ्चिदिति बहुविषयविप्सार्थप्रतीत्ययोगापत्तेर्यज्ञस्य त्सरेत्यन्वये ऽपि स्तुत्यर्थत्वेनार्थवत्त्वोपपत्तेः पदार्थधर्मत्वस्य तस्मिन्नधिकरणे सिद्धान्तयिष्यमाणत्वात् कथ तेन न्यायेन मन्द्रादिस्वरस्य यज्ञभागधर्मता स्थितेत्याशङ्कानिरासार्थम् त्रेधेत्युक्तम् यत्किञ्चित्प्राचीनमित्यत्र यज्ञशब्दानन्वयाद्यज्ञभागधर्मत्वे निराकिष्यमाणे ऽपि प्रातः सवनादिशब्दानां यज्ञभागवाचित्वादाज्यभागान्तादिशब्दानामप्येकवचनान्तत्वेनाञ्जसा यज्ञभागवाचित्वावगतेः नवमाधिकरणपूर्वपक्षन्यायेन मन्द्रादेर्यज्ञभागधर्मतावसीयतइत्याशयः। यूपावटम्तरणबर्हिषः प्राकृतलवनादिधर्मानन्वयवत् अपूर्वस्याङ्गस्य प्राकृतस्वरानन्वयशङ्ककानिरासाय पूर्वस्याप्यङ्गस्य प्राकृतयज्ञभागाख्यकार्यारम्भकत्वेनाप्राकृतकार्यबर्हिषस्तुल्यत्वं निरस्तम्। नानावेदस्वरस्य निर्विषयत्वशङ्कामुपसंहरति तस्मादपीति ज्योतिष्टोमे च नानावेदस्वरनिवेशे सति वाक्यबलीयस्त्वादन्यत्र निवेशे ऽपि त्यान्तनं ज्योतिष्टोमप्रकरणाम्नानानर्थक्यापत्तिर्ज्योतिष्टोमनिवेशाभावत्वे ऽत्यन्तानर्थक्यं स्यादित्याह प्रकरणेति शङ्काद्वयस्यापि परिहारं प्रतिजानीते अत्रेति सर्वेषां दर्विहोमानामपूर्वत्वेन प्राकृतधर्माग्राहित्वात्प्रायशब्दश्च याजुर्वेदिकत्वादङ्गभूतपु प्रधानद्वारस्वरप्राप्तावपि स्वतन्त्रेषु दर्विहोमेषु उपांशु यजुपेति विधानमर्थवदित्याह [८२७।१] उपांश्विति एवं निर्विषयत्वशङ्कापरिहारे ऽपि ज्योतिष्टोमे निवेशाभावात् प्रकरणाम्नानानर्थक्याशङ्काऽपरिहृता स्यादित्याशङ्क्य ऋक् सामवेदस्वरविधानयार्नैमित्तिके ज्योतिष्टोमाङ्ग काम्ये चानङ्गे ऽपि ज्योतिष्टोमाङ्गाश्रितत्वादन्तः क्रतुप्रयोज्ये सार्थकत्वात् ज्योतिष्टोमप्रकरणाम्नानार्थवत्त्वोपपत्तेस्तत्साहचयादस्यापि प्रकरणाम्नानमर्थवद्भविष्यतीतिसूचनार्थस्तावच्छ। इतरयोरपि स्वरयोः काम्यनैमित्तिकेषु ज्योतिष्टोमाङ्गेषु निवेशेन सविषयता अन्तर्ज्योतिष्टोमप्रयोगाच्च प्रकरणाम्नानार्थवत्तेत्याह ऋक्सामेति वेदनिमित्तस्वरलक्षणार्था वेदोक्तिः कस्यां श्रितत्वलक्षणाङ्गोक्तिः। तत्र विशेषविहितमन्द्रादिस्वरसद्भावात् नार्थवत्तेत्याशङ्कानिरासपूर्वमेतदेव विवृणोति मन्द्रमिति सामवेदविहितं प्रवर्ग्याङ्गमहावीरभेदनिमित्तकमङ्गमुदाहरति तथेति एकपदार्थात्मकत्वेनाभिमर्शनस्याग्नीषोमीयवत्त्रेधा विभागायोगात्सुत्याकालत्वाभावेन च सवनीयादिवद्यथासवनमेकस्वरत्वायोगात्प्रधानद्वारस्वराप्राप्तेरात्मीयवेदस्वरावाधादुदाहरणत्वाविरोधे ऽप्यमन्त्रकत्वे स्वरविषयत्वायोगापत्तेर्मन्त्रप्रतीकग्रहणनैमित्तिकवर्णर्ग्वेदिकस्य काम्यस्य चोभयविधस्योदाहरणस्य सूचनायादिशब्दः। यजुर्वेदविहितत्वनिमित्तमुपांशुत्वमप्येवं विधयजुर्वेदविहितैकपदार्थात्मककाम्यनैमित्तिकाङ्गविषयमुदाहार्यमित्याह एवमिति सुत्योत्तरकालेषु वानुबन्ध्यादिषु ज्योतिष्टोमाङ्गेषु मध्ये ऽवभृथाङ्गभूतानां साम्नामादिशब्दोक्तानां चानुबन्ध्यादिसाम्नां परिसामाख्यानां परितः सामानातिव्युप्तत्त्या ऽवभृथादिप्रयोगाद् बाह्यत्वावगतेरवभृथादिप्रयोगविधिविधेयत्वाभावेनावभृथादिद्वारस्वरप्राप्त्यभावात्साक्षाज्योतिष्टोमाङ्गत्वाभावेन चाग्नीषोमीयादिवत्सवनविभागस्वरेण विषयतया ग्रहणाभावाद् बाधकाभावेन स्वरूपतः प्राप्तो यथावदमव स्वरो युक्त इति कृत्वा नानावेदस्वरोपदेशादुच्चैस्त्वसिद्धे नानावेदस्वरोपदेशस्य निर्विषयत्वं प्रकरणाम्नानानर्थक्यं वा नास्तीत्याशयेनोदाहरणान्तरमाह तथेति सवनविभागविहितमन्द्रादिस्वरलक्षणार्था सवनोक्तिः। सुत्योत्तरकालत्वात्प्राचीनभागविहितोपांशुत्वप्राप्त्यभावे सवनविहितेन च स्वरेण विषयतया ग्रहणाभावान्मन्द्रादिस्वराभावे पारिशेष्यादुच्चैस्त्वसिद्धेः वेदस्वरविध्यानर्थक्यमाशङ्क्याह अन्यथा हीति परिसामसु प्रयोगसमवायिस्वराभावे दीक्षणीयाद्यङ्गप्रयोगसमवाय्युपांशुत्व न स्यादित्याशङ्क्याह दीक्षणीयादीति दीक्षणीयादिपरिसाम्नां दीक्षणीयादिप्रयोगानन्तर्गतत्वे ऽप्यग्नीषोमीयप्राचीनत्वाविशेषादुपांशुतेत्याशय। प्रवर्ग्यसाम्नामपि तर्ह्यग्नीषोमीयप्राचीनत्वात्प्रवर्ग्यप्रयोगबहिर्भावाच्च प्रवर्ग्यस्वरोच्चैस्त्वाप्राप्तेः उपांशुत्व स्यादित्याशङ्क्याह प्रवर्ग्येति करणविभक्त्या साङ्गस्योच्चैस्त्वविधानात् प्रवर्ग्यप्रयोगबहिर्भावे ऽपि च पशुप्रयोगबहिर्भूतस्य दीक्षाकालस्य यूपच्छदेनस्य पश्वङ्गत्वाविरोधयत् प्रवर्ग्यसाम्नां प्रवर्ग्याङ्गत्वाविरोधादुच्चैस्त्वमित्याशयः। प्रासङ्गिकं परिसमाप्य साङ्गप्रधानसंयोगादुपांशुत्वं तु गम्यतइत्येतेन प्रकृतमेव तर्हि स्वयमेवाङ्गानां याजुर्वैदिकत्वादुपांशुत्व न गुणप्रधानधर्मविरोधद्वारमिति शङ्कानिरासमुपसंहरति प्रधानेति शङ्कानिरासोपसंहारवत्सूचनाथस्तुशब्द परमतेन वर्णितमधिकरणं आधानसाम्नां यजुर्वेदविहितत्वेन वेदान्तरीयत्वाभावादुदाहरणत्वायोगेन तावद् दूषयति य इति सामवेदेनैतद्क्रियते यद्वारवतीयादीभिरिति भाष्ये वारवन्तीयादिसामरूपं यद्गानं पठ्यते तत्सामवेद इति करोतेः पाठार्थत्वाद्वारवन्तीयादिभिरिति तृतीयायाश्चेत्यम्भूतलक्षणार्थत्वात्स्वरूपपाठमात्रं सामवैदिकमपेक्ष्योपचारात्सामवेदेन क्रियतइत्युपन्यासो न तु लिङादिव्यापारात्मिकायां विधानक्रियायां कारकहेतुं सामवेदमभिप्रत्येति स्वमतेनोदाहरण समर्थयितुमाह तत्रेति पाठस्य शब्दाभिव्यञ्जकत्वेनोत्पादकत्वोपचारोपपत्तेरुत्पादनवाचिकरोत्यर्थत्वसम्भवासूचनायोत्पत्त्युक्त्याऽस्मिन् व्याख्याने पाठो विवक्षितः। एवं पूर्वपक्ष भाष्यव्याख्ययोदारणसमर्थने सति पाठवेदधर्मो बलीयान् विधिवेदधर्मो वेति चिन्तापत्तेः गुणे स्वरूपतः प्राप्तमुख्यद्वारप्राप्तयोर्विराधे चिन्ताभावात्सौत्रौ गुणमुख्यशब्दौ नोपपद्येयातामिति कृत्वा कस्यां चित्सामवेदे शाखायामप्याधानसाम्नां विधिकल्पनेनोदाहरणं समर्थनीयमिति परमतेनाह तत्त्विति उपपत्त्युक्त्यात्र शब्दाभिव्यञ्जकत्वेन पाठस्योत्पादकत्वोपचारात् पाठो विवक्षितः। विनियोगोक्त्या च विशिष्टो ऽसाधारणो नियोग इतिव्युत्पत्त्या सर्वाङ्गप्रधानसाधारणप्रयोगविधिव्यावृत्त्यर्थमुत्पत्तिविधिप्राप्तात्मिकानकपदार्थविषयत्वेनासाधारणत्वाद्विवक्षितः। सामवेदशाखायामाधानविधौ सत्यध्येतृभेदाभावाद्यजुर्वेदे पुनः श्रुत्यानर्थक्यापत्ते शाखान्तरीयविधिवद्वेदान्तरीयाणामप्येकार्थानां विधीनां विकल्पेन विधायकत्वाभ्युपगम विकल्पेन पूर्वपक्षकरणापत्तेरनुदाहृतसामवैदिकविधिकल्पनायोगाच्चैतत्समर्थनानुपपत्तेरुत्पत्तिविनियोगबलाबलस्यैव चिन्तनीयत्वाद पठितानां मन्त्राणामज्ञातस्वरूपत्वाद्विनियोगाशक्तेः पाठस्य विनियोगं प्रत्त्युपकारित्वात् पाठाख्यामुत्पत्ति गुणशब्देन मुख्यशब्देन च पाठं प्रत्युपकार्यत्वलक्षणात्प्राधान्यात्प्राथम्याद्वोत्पत्तिविधिं विवक्षित्वाधिकरणं वक्ष्यमाणाप्रकारेणारम्भणीयमिति परमतनिरासपूर्व स्वमतेनाधिकरणवर्णनं प्रतिजानीते तदा त्विति कीदृगारभ्यतइत्यपेक्षायां विषयसन्देहपूर्वपक्षसिद्धान्तान् सहेतुकान्सङ्क्षेपेणाह यत्त्विति भाष्यमपि पाठवेदस्वरानुरोधन वेदस्वरानुरोधेन वा पाठवेदस्वरमिति जिज्ञासाया पाठवेदस्वरा बाधयितुं युक्तो विधिवेदस्वराश्चानुग्रहीतुं युक्त इत्येतावद् गुणोक्त्या पाठवेदम्वरो मुख्योक्त्या च विधिवेदस्वरा विवक्षित इत्येव व्याख्याय शेषं विधानार्थत्वात्पाठस्य विधीयमानस्यैव च मन्त्रस्य स्वरापेक्षत्वाद्विधानकालावगतस्यैव स्वरस्य यादृक्सामवेदाभ्यां विधीयते तदुच्चै प्रयोज्यं यजुर्वेदेन यद्विधीयते तदुपांश्वित्येव चोदनार्थत्वावगते यदृक्सामवेदयोः पठ्यते तदुच्चै यजुर्वेद पठ्यते तदुपांश्वित्येवं विधानाभावात् पाठकरणेन विधिविषयाख्यगुणयुक्त सम्पद्यतामित्येतदर्थमध्येता पाठे प्रवर्त्तते तत्र चेत्स्वरचादनार्थाज्ञानात्पाठवेदस्वरप्रवृत्त्या विधि वेदस्वरहानिर्भवति ततश्चोदिताकरणात्फलमेव नावाप्तं भवति विधिवेदस्वरानुष्ठानात्तु पाठवेदस्वरहानौ तस्याचोदितत्वान्न स्वार्थहानिः गुणश्च सामगानं पाठात्मकं प्रधानमाधानम् आधानाङ्गत्वेन विधीयमानं तस्य च याजुर्वेदिकत्वादुपांशुता गुणः स सामवेदाख्यपाठवेदधर्ममुच्चैस्त्वं बाधतेत्येवं व्याख्येयम्। भाष्यानुसाराद्व्यतिक्रमशब्दं बाधवाचिनं सन्दहोक्त्यर्थत्वाद्वा विरोधवाचिनमभिप्रेत्य नियममात्रेण च पूर्वपक्ष कृत्वा स्वयं व्यभिचारवाची व्यतिक्रमशब्दो नियमावकल्पाभ्या च पूर्वपक्ष इत्येतावतान्यथाधिकरणं वर्णयति अथ वेति सामान्यतो वेदान्तरीयाङ्गमात्रविषयत्वादस्याधिकरणस्य कृत्वा चिन्तया ऽधानसामोदाहरणमित्याशयेनोक्तमेव परमतेनाधिकरणार्थ स्वरूपतो दूषयितुं स्मारयति अथ वैवमिति स्वरूपताङ्गविधायिना वेदेनाङ्गस्य स्वरविधावुपलक्षण बलवत्प्रधानद्वाराङ्गविधायिना वेति चिन्तायां गुणे स्वरूपतो धर्म इत्यनेनैव न्यायेन प्रधानद्वाराङ्गविधायिनेति निर्णयात्प्रात्यात्मिकवेदधर्मबाधेन प्रधानवेदधर्म कार्य इत्यधिकरणार्थो व्यपदेशद्वारोक्त। प्रधानद्वाराङ्गे प्राप्तेन धर्मेण स्वरूपतः प्राप्तस्य धर्मस्य बाधपक्षे प्रकृतौ ज्योतिष्टोमे वेदान्तरीयेषु स्तोत्रशस्त्रादिष्वङ्गेषु तद्ग्रहणाद्वेति तच्छब्दपरामृष्टप्रात्यात्मिकवेदसमाख्याप्राप्तकर्त्तारं विकृतौ तत्सूत्रव्युप्तादितबलीयस्त्वप्रात्यात्मिकचोदकप्राप्तकर्त्तार बाधित्वा प्रधानवेदसमाख्यानकर्त्तृप्राप्तेः स्थितसिद्धान्तबाधप्रसङ्गात् नैव चिन्ता युक्तेत्याह एतस्मिंस्त्विति यथाचोदकप्रापिताङ्गग्राहित्वात्प्रयोगवचनश्चोदकात् दुर्बलस्तथा प्रात्यात्मिकोपदेशरूपविधिप्रापिताङ्गग्राहीत्वात्ततो ऽपि दुर्बल इति सूचनार्थं चोदकबलीयस्त्वव्युत्पादनार्थः सूत्रोपन्यासः। प्रात्यात्मिकाङ्गविधेरतिदेशस्य च प्रापकत्वेन बलीयस्त्वात्प्रकृतौ विकृतौ चाङ्गवेदसमाख्यातकर्तृग्रहणे ऽनुस्वरस्याप्यङ्गवेदसमाख्यातस्यैव ग्राह्यत्वापत्तेः प्रधानस्वरग्रहणं न युक्तमित्याह अथेति करोते प्रयोगवाचित्वाद्यजुर्वेदेन यत्प्रयुज्यते तदुपांश्विति प्रयोगविधिविहितस्थापांशुधर्मकत्वप्रतीतेर्याजुर्वैदिकप्रयोगविधिविहितत्वेनोपांशुतैवाधानसाम्नां युक्तेति यत्प्रयोगवचनपरिगृहीतत्वादन्यत्राप्युत्पन्नानामङ्गानां यत्रेव प्रधानं तत्रैव विधिरिति वार्त्तिकेनोक्त तन्निराससूचनायैवकारः। प्रधानप्रयोगविधिविधेयत्वे ऽङ्गानामेकादशे वक्ष्यमाणा ऽपि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादेः केवलस्याङ्गवाचिशब्दरहितत्वेन साङ्गप्रधानप्रयोगविधानाशक्तेः करणविभक्तिनिर्देशात्साङ्गत्वावगमे ऽप्यङ्गविशेषानवगतेः साङ्गत्वस्य वैकाङ्गसाहित्यमात्रेणाप्युपपत्तेः सर्वाङ्गोपसंहारानादरप्रसङ्गात् श्रुत्यादिस्मृत्याचारपर्यन्ताङ्गप्रापकसर्वप्रमाणसहितस्यैव दर्शपूर्णमासादिवाक्यस्य साङ्गप्रधानप्रयोगविधायित्वाद्धोषस्य च पदान्तरस्य पारार्थ्यादाख्यातं यो ऽपि मन्यते। वाक्ये प्राधान्ययोगेन वाक्यार्थं चापि भावनामित्याख्यातस्य वाक्यतोद्धोषवत् प्राधान्यमात्रेणोपपत्तेस्तादृशस्य चानाम्नातत्वेनोहादेर्मन्त्रत्ववद्वेदत्वाभावाद्यजुर्वेदेन यत्प्रयुज्यते तदुपांश्विति वाक्यार्थानुपपत्तेर्यजुर्वेदेन यद्विधीयते तदुपांश्वित्येष एव वाक्यार्थो युक्त इत्याशयः। करोतेश्च विधिवाचिनस्तद्विशेषप्रयोगविधिपरत्वे सत्युत्पत्तिविधिपरत्वायोगेनाङ्गे स्वरूपतो धर्माप्राप्तेस्त्वस्य प्रधानद्वारप्राप्तेन धर्मेण सह बलाबलचिन्ता न युज्येत उत्पत्तिविधिवाची करोतिः प्रयोगविधिवाची वेति चिन्तायां तु गुणे स्वरूपतो धर्म इत्यादिग्रन्थानुपपत्तिः तस्मात्पाठार्थः करोतिर्विधानार्थो वेति सन्दिह्योत्पादनार्थत्वात्करोतेः पाठस्य च शब्दाभिव्यञ्जकत्वेनोत्पादनत्वोपचारोपपत्तेर्विधाने ऽत्यन्ताप्रसिद्धवाचकशक्तिकल्पनायोगात्पाठार्थः करोतिरिति पूर्वपक्षयित्वा पाठे वेदस्य करणत्वायोगादृचेत्यादितृतीयाभङ्गापत्ते करोतेस्तु लक्षणया क्रियाप्रवृत्तिहेतुभूतविशेषापेक्षायां प्रयोगविधेः कल्पत्वेनैवदविशेषव्यपदेशायोगस्योपपादितत्वात्कार्ये ज्ञाते ऽधिकारः स्यादिति चाधिकारज्ञानस्य प्रयोगविध्यधीनकार्यज्ञानपू्वकत्वाभिधानेनाधिकारविधेः प्रयोगविधिपूर्वकत्वावसायात्सुतरां वेदविशेषव्यपदेशायोगावगतेरुत्पत्तिविनियोगविध्योरन्यतरो विधिविशेषो विवक्षित इति अवगतेरुत्पत्तिविधौ करोतिसामञ्जस्यात् तस्यैव च प्राथम्यादुत्पत्तिविधानार्थः करोतिरिति सिद्धान्तयितव्यमिति सूचयन् किं करोतिः पाठार्थत्वात्पाठवेदधर्मकार्यो विधानार्थत्वाद्वा विधिवेदधर्म इत्येषैव व्याख्या शोभनेत्याह अत इति पाठाख्यामुत्पत्तिं करोतिवाच्यां पूर्वपक्षे अभिप्रेत्य सिद्धान्ते विधानं करोतिवाच्यमभिप्रेत्य किमुत्पत्तिवेदधर्म कार्यो विधिवेदधर्मो वेत्येष विचार इत्यर्थः। वाच्यलिङ्गानपेक्षता ऽऽद्येनैवकारेण व्यावर्त्तिता। एवं च सामवेदपठितत्वादाधानसाम्नां युक्तोदाहरणतेत्याह तथा चेति गुणानुष्ठानेन मुख्यः सगुणः कथ स्यादित्यादिभाष्यानुसारादङ्गप्रधानधर्मविरोधार्थतया गुणमुख्यव्यतिक्रमशब्द कस्मान्न व्याख्यात इत्याशङ्क्याह यदि त्विति अपौनरुक्त्यसम्भवः सम्प्रधारणीय इति मृदुतयोक्तः।

॥ ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणम्॥ ३॥

भूयस्त्वेनोभयश्रुति १०॥ ज्योतिष्टोमस्यानेकवेदविहितत्वात् स्वरविकल्पो यजुर्वेदमात्रविहितत्वाद्वोपांशुतैवेति भाष्योक्ता चिन्ता वाचनिकस्वरान्तरावरुद्धत्वेन ज्योतिष्टोमे नानावेदस्थस्वरस्यानवकाशादयुक्तेत्याशङ्क्याग्निहोत्रं जुहोतीति यजुर्वेदे सर्वं वा अस्य बर्हिष्यं सर्वं परिगृहीतं य एवं विद्वानग्निहोत्रं जुहोतीत्यृग्वेदे च श्रुतस्याग्निहोत्रस्य भाष्योक्तोदाहरणानादरेणोदाहरणतामनन्तराधिकरणसिद्धान्तोपजीवनेन च सिद्धान्तकरणादनन्तरसङ्गतिं सूचयितुमाह इदानीमिति यानि नानावेदेषु श्रूयन्तेतानि केन वेदेन व्यपदेष्टव्यानीत्युदाहरणानादरः सूचित। उच्चैस्त्वोपांशुत्वयोः पाठवेदधर्मत्वे ऽनेकवेदपठितस्यैकस्य मन्त्रस्यानेकव्यपदेशनिराकरणाशक्तेः सिद्धान्तायोगप्रसङ्गात् विधिवेदधर्मत्वे ऽनन्तराधिकरणेनोक्ते ऽनेकवेदश्रुते केन वेदेन विहितमिति व्यपदेष्टव्यमिति चिन्ता सिद्धान्तसम्भवाद्युक्तेत्यनन्तरसङ्गतिसूचनायेदानीमित्युक्तं वाक्यीयविनियोगप्रकारचिन्ताशेषत्वात्तु लक्षणप्रकरणसङ्गती पूर्वाधिकरणवदस्यापि स्पष्टे निर्गुणपुनः श्रवणस्यैकशाखास्थस्येव वेदान्तरस्थस्याप्यध्येतृभेदाभावेन भेदकत्वात्सन्देहायोगमाशङ्क्य सन्देहोपपादनार्थं द्वितीयश्रवणस्य गुणार्थतां भाष्योक्तां स्ववाक्ये गुणानुपादानात् वाक्यान्तरस्थस्य च गुणस्य वाक्यान्तरेण विध्ययोगादयुक्तमाशङ्क्यासरूपत्वेनोत्पादकत्वायोगाद्भेदकत्वानुपपत्तेरनुवादकत्वाभ्युपगमे चानर्थक्यापत्तेः प्रकरणेन स्तोत्रशस्त्राद्यङ्गान्वयार्थो वेदान्तरीयस्थो विधिरिति सूचनायाविच्छिन्ने कथम्भावे यत्प्रधानस्य पठ्यते अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गतेति प्रकरणस्य कथम्भावात्मकत्वाभ्युपगमात् प्रधानानीत्युक्तं व्यपदेशोक्त्या सामवेदविहितत्वधर्मः कार्य इति फलतश्चिन्तोक्ता भाष्ये चैकावधारणाभावरूपा निश्चयोक्त्या विकल्पेन पूर्वपक्षकरणादुत कदाचिद्विपरीतमिति कदाचित्पदाध्याहारेण पूर्वपक्षवचनव्यक्तिव्याख्येया3 इतरत्रेति भाष्य चिन्ताप्रयोजनोक्त्यर्थत्वेन व्याचष्टे तत्रेति यस्मिन्वेदे स्वरूपेण विधीयन्ते तन व्यपदष्टव्यत्वात् तद्वेदधर्मो भविष्यतीत्यर्थः। शाखान्तरवन्नित्यं सर्वेषु वेदेषूत्पत्तिप्रती [८२९।१] तेर्द्धर्मविकल्पाशयत्वेन तावत्पूर्यपक्षभाष्य परमतेन व्याचष्टे किमिति शाखान्तरवदध्येतृभेदाभावात् नित्यं सर्वेषु वेदषु उत्पत्त्यानर्थक्यापत्तेर्विशेषाभावे चान्यतरत्रोत्पत्त्यनिर्णयात् स्वमतेनात्पत्तिविकल्पार्थत्वेन व्याचष्टे अथ वेति पूर्वपक्षनिरासार्थत्वनैवं प्राप्तइति भाष्यं व्याचष्टे एवमिति यथा शास्रान्तर सर्वत्र नित्यकर्मोत्पत्तेर्विरुद्धैकादशद्वादशकपालत्वादिधर्मविकल्पस्तथा वेदान्तरे ऽध्येतृभेदाभावो सर्वत्र नित्यकर्मौत्पत्त्ययोगात् स्वराख्यधर्मविकल्पो न युक्त इत्याद्यपूर्वपक्षनिरासे वैधर्म्यदृष्टान्तः नित्यवदाम्नानाच्छाखान्तरवत् वेदान्तरे ऽप्युत्पत्तिविधिविकल्पेन युक्त इति द्वितीयपूर्वपक्षनिरास वैधर्म्यदृष्टान्तः। अतो ऽनेकवेदस्थविधायकमध्ये नित्यमवैकः कश्चित् कर्मणा विधायको ऽन्यस्तु प्रकरणेन गुणान्वयसिद्ध्यर्थमित्युत्तरार्द्धार्थः सूत्रव्याख्यार्थं भूयस्त्वनेत्यादिभाष्यं विशेषनिर्द्धारणहेतूक्त्यर्थत्वेनावधारणपूर्वं परमतेन तावद्व्याचष्टे सत्विति एकैकस्याङ्गस्य करणनिराकाङ्क्षीकारणाशक्तरङ्गभूयस्त्वेनेतिकर्त्तव्यतेत्याशयः। एकैकस्याङ्गस्येतिकर्त्तव्यतात्वाभ्युपगमे ये च भूयांसो गुणाः सा बह्वीति कर्त्तव्यता तस्माद् बव्हीति कर्त्तव्यतासान्निध्याख्यकर्मानुग्रहार्थं कर्त्तव्यता चोदनालिङ्गावगतेर्यद्ध्येतिकर्त्तव्यतया लिङ्गभूतया कर्त्तव्यताचोदनानुमानं युक्तमित्येवं परमतेनैवान्यथा व्याचष्टे यजुर्वेद इति यजुर्वेदे ज्योतिष्टोमोत्पत्तावपि करोतिवाच्यस्यानुष्ठानस्य वेदत्रयाधीनत्वादेकवदकार्यत्वव्यपदेशानुपपत्तेरेकवेदाधीनानुष्ठानस्यैव दर्विहोमादेर्नानावेदस्वरविषयत्वान्नागमात् ज्योतिष्टोमादौ स्वरचिन्ता न युक्तेत्याशङ्क्य विहितानुष्ठानाशक्तेर्यजुर्वेदेन यस्मात् ज्योतिष्टोमो विधीयते तस्मात्तेन क्रियतइत्युच्यतइति करोतेरनुष्ठानहेतुविधिलक्षणार्थत्वात् ज्योतिष्टोमादेरेकवेदकार्यत्वव्यपदेशोपपत्त्युक्त्यर्थं यजुर्वेदेन हीति भाष्यमनुष्ठेयत्वप्रमापकत्वाद्विधेरनुष्ठानहेतुहेतुत्वमुपपादयत् व्याचष्टे अतश्चेति यजुर्वेदेन ज्योतिष्टोमस्य कर्त्तव्यत्वप्रमा क्रियत इति कृत्वायजुर्वेदेन विधीयमानो ज्योतिष्टोमस्तेन क्रियतइति करोत्यर्थो भवतीत्यन्वयः। यस्माद्यजुर्वेदेन विधीयते अविहितानुष्ठानाशक्तेश्चानुष्ठेयताज्ञापनरूपस्य विधानाख्यस्य लिङादिव्यापारस्य वेदेन पुंसि प्रवर्त्तमाने द्वारतावसीयते तस्मात्तेन क्रियतइत्युच्यतइति मुख्यार्थतयैव करोतिव्याख्यार्थमेतद्भाष्यमित्येवमन्यथा व्याचष्ट अथ वेति कर्त्तव्यत्वकरणाख्येनैव व्यापारेणानुष्ठानमपि यद्वेदाद्भवति तद्वेदेन क्रियतइत्येवं व्यपदिश्यतइत्यर्थः। परमतेन भूयस्त्वव्याख्यां दूषयितुमुपशङ्कते नत्विति एकैकस्याङ्गस्येतिकर्त्तव्यताभूयस्त्व लिङ्गमित्येतावद्व्याख्यां प्रश्नपूर्वं दूषयति कुत इति दृष्टान्तेनैतदेवोपपादयति यादृशस्य हीति दार्ष्टान्तिक योजयति तथेति व्याप्तिमात्रापेक्षत्वेन भूयस्त्वानपेक्षत्वान्नायं भूयसी स्यात् स्वधर्मत्वमित्यस्य विषय इत्याशयः। गुणभूयस्त्वैवेतिकर्त्तव्यतेत्याद्यां व्याख्यां दूषयति नैव हीति प्रत्येकं करणोपकारिणामेवाङ्गानामुपादेयत्वात् संहतानां प्रयोगो न तु संहतानामुपकारितेत्याशयः। एकैकस्याङ्गस्येति कर्त्तव्यतात्वे ऽपि वेदान्तरस्थप्रधानानुवादस्यानुसन्धानक्लेशापादकत्वात् वह्वङ्गविधौ च क्लेशबहुत्वापत्तेर्वेदान्तरस्थप्रधानानुवादे वाल्पाया एव विधेयत्वस्योचितत्वात् भूग।?।स्त्वायाः प्रधानविधिलिङ्गतेत्याशङ्कते तत्रेति एकाङ्गविधेये गुणार्थेन प्रधानविधिना अनुसन्धीयमानस्य बुद्धिविच्छेदकाभावेनाङ्गान्तरविधेये पुनरनुसन्धानानपेक्षत्वात् बह्वङ्गविधाने ऽपि क्लेशाधिक्यं नास्तीत्याशयेन परिहरति उच्यतइति वेदान्तरस्थस्य प्रधानस्य वेदान्तरीयाङ्गापेक्षायां वेदान्तरीयाङ्गान्वयसिद्ध्यर्थं वेदान्तरीयप्रधानविध्यधीनत्वाभ्युपगमात् स्वतो वेदान्तरीयाङ्गानपेक्षत्वावगतेरनपेक्षितार्थविधेश्च क्लेशबहुत्वापत्तेर्भूयस्त्वस्य प्रधानविधिलिङ्गत्वं शङ्कते तत्रेति प्रधानस्य प्रत्येकमङ्गापेक्षायामङ्गाधिक्ये क्लेशाधिक्यापत्तिस्तस्य तु युगपत्सर्वाङ्गापेक्षाभ्युपगमाद्यावदङ्गवाक्यं सकृदपेक्षोत्पत्तेरङ्गवाक्यबहुत्वादेवाक्लेशेन बहुविधिः सेत्स्यतीत्याशयेन परिहरति नैतदिति परव्याख्यादूषणोपसंहारपूर्वं स्वमतेन कर्मनिष्पत्त्युपयोगिद्रव्यदेवतारूपाङ्गसाकल्यार्थतया भूयस्त्वं व्याख्यातुं प्रतिजानाति तस्मादिति व्याचष्टे इहेति एतदे- [८३०।२] व तत्र हि द्रव्यदेवतारहिते कर्ममात्रं प्रस्तुतस्तोत्रशस्त्रयाज्यानुवाक्यादिमात्रं विधीयतइति शाखान्तराधिकरणवार्त्तिकेन द्रढयति तथा चेति यजुर्वेदे तु समस्तस्य द्रव्यदेवतात्मकस्य कर्मरूपस्याम्नानात् स्तोत्रादिभिर्विनापि यागनिष्पत्तिशक्तेर्स्तोत्रादिनिरपेक्षक्रियाविधानं शक्यमित्याह यजुर्वेदे त्विति स्तोत्राद्वाङ्गग्रहण तर्ह्यनर्थकं स्यात् इत्याशङ्क्याह वचनेति व्याख्याते ऽर्थे सूत्रं योयजयति अत इति त्रिष्वपि वेदेषु ज्योतिष्टोमाम्नानादुभयोक्तिरनुक्तेत्याशङ्क्याह ऋक्सामेति

॥ प्रकरणस्य विनियोजकताधिकरणम्॥ ४॥

असंयुक्तं प्रकरणादितिकर्त्तव्यतार्थित्वात्॥ ११॥ श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यन्ते इति प्रतिज्ञातत्वात्। श्रुत्यादित्रयस्य विनियोगकारणत्वमनुत्त्का प्रकरणादेर्विनियोगकारणत्वोक्तिरयुक्तेत्याशङ्कानिरासार्थमुक्तानीति वृत्तसङ्गीर्त्तनभाष्यं तेषामर्थेन सम्बन्ध इत्यादिना कथ च विनियुज्यतइति प्रतिज्ञाचिन्तनन श्रुत्यादीनां विनियोगकारणत्वस्यानुक्तत्वादयुक्तमाशङ्क्य वृत्तविनियोगप्रकारचिन्तानुकीर्त्तनार्थत्वेन व्याख्यातुमाह एवं तावदिति तद्भूतानां क्रियार्थेन समाम्नाय इत्यत्र यैरर्थैर्येषाशब्दानामौत्पत्तिकः सम्बन्धः तेष्वर्थेषु वर्त्तमानानां शब्दानां सर्वकारकान्वितक्रियारूपवाक्यार्थप्रमाणत्वोक्त्या प्रत्येकश्रुतिरूपाणां पदकारकविभक्त्याख्यानां शब्दानां प्रकृतिप्रत्ययार्थान्वयरूपे क्रियान्वितकारकरूपे चार्थे व्यापाराभिधानात् लिङ्गस्य विनियोगकारणत्वे सिद्धे ऽपि यदि कश्चिच्छब्दस्य तात्पर्यानवधारणात् विज्ञानानुत्पादकत्वे प्रामाण्यायागाद्वेदस्य च प्रमाणान्तरागोचरार्थत्वेन प्रमाणान्तरतो ऽर्थतात्पर्यावधारणायोगाद्वेदान्तर्गतस्य श्रुत्यादेर्विनियोगकारणत्वायोगं शङ्केत तद्भ्रमापनुत्तये ऽध्ययनविधानार्थे विनियोगात्तात्पर्यावधारणे विनियुक्तशब्देनोक्ते पुरुषार्थानुबन्धिन्यर्थे विधिना विनियोगाच्छ् रुत्याद्यर्थस्याङ्गत्वाख्यपुरुषार्थानुबन्धित्वे प्रधानोक्त्योक्ते श्रुत्याद्यनपक्षस्य विधेः समीहितविशेषे विनियोजकत्वायोगात् श्रुत्यादेर्ज्ञापकत्वेन ज्ञेये लिङ्गाद्विनियोगोपपत्तिसूचनार्था ज्ञेयोक्तिः पुरुषार्थनुबन्धिन्यङ्गान्वयरूपे ज्ञये ऽध्ययनविधिना श्रुत्यादीनां विनियोगात्तात्पर्यावधारणे यस्य श्रुत्यादेर्यस्मिन्नर्थे विशेषतात्पर्यं तस्मिन्नेव तस्य विनियोजकत्वसिद्धेस्तेषामर्थाधिकरणादिभिः विनियोगविशेषचिन्तानर्थक्यमाशङ्क्य श्रुत्यादिभिर्यस्य यदङ्गत्वं ज्ञापयितुं शक्यते तस्य तदङ्गत्वं ज्ञापयेदिति सङ्कीर्णतात्पर्यावधारणात् सङ्कीर्णविनियोजकत्वसिद्धावपि विनियोगविशेषचिन्तार्थवत्त्वसूचनार्थं सङ्कीर्णरूपेण विनियुक्तानि सन्ति विशेषरूपेणाख्यातानीत्युक्तम्। विनियुक्तानीति पाठ तु प्राधान्येनैतदध्यायज्ञेये ऽङ्गत्वरूपे ऽर्थे तद्भूताधिकरणप्रथमान्त्यन्यायाभ्यां सङ्कीर्णानि सन्ति तेषामर्थाधिकरणादिभिर्विविक्तानि कृत्वा वर्णितानीत्यर्थ। अनेन चैतद्भाष्यस्था विनियोगोक्तिर्विशब्दावृत्तिर्विनियोगविशेषार्थत्वेन व्याख्याता। एकत्वयुक्तमेकस्य श्रुतिसयागादिति ग्रहाधिकरणपूर्वपक्षसूत्रे ऽवघातादीनां श्रुतिसंयोगाद्व्यवस्थाभ्युपगमे सम्मागाद्यपि एकवचनश्रुतिसयोगादेकस्मिन्नेव ग्रहादौ व्यवतिष्ठेतेत्यभिधानादवघातादिविनियोगविशेषकारणत्वेन श्रुतेरर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यादित्यत्र सामर्थ्यशब्दान्मन्त्रविनियागविशषकारणत्वेन लिङ्गस्य सूत्रितत्व ऽपि वाक्यस्य क्वचिद्विशेषकारणत्वेनासूत्रितत्वाद्विनियोगकारणानीति बहुवचनायोगमाशङ्क्य परमतन साक्षाद्वाक्यस्य विनियागविशेषकारणत्वे केन चित्सूत्रेणानुक्ते ऽपि श्रुत्यन्तर्गत्वात् लिङ्गान्तर्गत्या च वाक्यस्य विनियोगविशेषकारणत्वसिद्धेर्बहुवचनमुपपादयितुमाह तत्रेति विनियुज्यते ऽनयेति विनियोगशब्दस्य विनियोजकवाचित्वाद्विनियोजिकात्मिकायाः श्रुते सामर्थ्यात्मकस्य च लिङ्गस्यान्तर्गन्तवाक्यमिति कृत्वा वाक्यशब्दाख्येन ग्रहणन साक्षान्न सूत्रितमित्युक्तें ऽन्तर्गत्युपपादनार्थं यथाशुद्धावघातादिविध्ययोगेन केवलपदप्रयोगाच्च ब्रीह्यादिश्रवणे सत्यश्रुतावहेतुत्वादिकल्पनानुपपत्तेरवहन्त्यादिसमर्पकव्रीह्यादिपदान्तरसन्निध्यपेक्षत्वात् विध्यात्मिकायाः श्रुतर्वाक्यान्तर्गततया विनियोगस्यापि प्रतियोग्यनपेक्षस्यायोगात् केवलपदप्रयोगाभावाच्च श्रुते च प्रतियोगिनि सत्यश्रुतप्रतियोगिकल्पनानुपपत्तेः प्रतियोगिनि समर्पकपदान्तरसन्न्निध्यपेक्षत्वात् विनियोजकात्मिकाया अपि श्रुतेर्वाक्यमन्तर्गतं लिङ्गविनियोज्यस्य कर्मसमवेतार्थस्य निर्वपामीत्यादिपदस्य केवलस्य प्रयोगाभावेनासमवेतार्थसवित्रादिपदान्तरसन्निध्यपेक्षत्वात् वाक्यस्यैव लिङ्गं विनियोज्यत्वावगतेर्विनियोगविषयत्वस्यैव च सामर्थ्यस्य लिङ्गत्वात् लिङ्गस्यापि अन्तर्गतं वाक्यमित्युक्तम्। अन्यत्रान्तर्गत्वे बहुवचनायोगोपपत्तेः श्रौतसामान्यविनियोगापेक्षितविशेषविनियोगहेतुत्वमात्रेण वाक्यस्य श्रुत्यन्तर्गतिः सामान्यविशेषरूपविषयभेदात्तु श्रुतिवाक्ययोर्भेदो ऽस्त्येव लैङ्गिकपदविनियोगापेक्षितवाक्यविनियोगहेतुत्वमात्रेण च लिङ्गान्तर्गतिः पदवाक्यरूपविषयभेदात्तु लिङ्गवाक्ययोर्विषयभेदो ऽस्त्येवेति प्रायशब्देनोक्तम्। श्रुतेः सामान्यमात्रे पर्यवसानायोगात् वाक्यविनियोगपर्यन्तत्वावगतेर्लिङ्गस्य च पदमात्रे पर्यवसानायोगात् वाक्यविनियोगपर्यन्त त्वावगतवाक्यस्य विशषणविशेष्यभावमात्रे व्यापाराच्छ् रुतिलिङ्गाभ्यां विनियागे वाक्यस्य विनियोगकारणत्वाभावेनैव बहुवचनसमर्थनानुपपत्तरपरिताषात्स्वमतेन वाक्यविनियोगपर्यन्तत्वावगतेर्ग्रहणाभाव ऽपि प्रायशब्दनापक्रमोपसंहारैकवाक्यत्वस्य विनियोगकारणत्वाभिधानात् वाक्यमपि साक्षाद्विनियोगविशेषकारणत्वन सूचितमित्येवं बहुवचनं समर्थयितुमाह अथ वेति विशेषविहितस्यापि अरुणयेत वाक्योदाहरणं न युज्येतेत्याह अथ त्विति सामान्यमात्रविनियोगेन श्रुतिपर्यवसानाभ्युपगमे त्वैन्द्र्युदाहरणे श्रुतिलिङ्गविनिरोधो बलाबलाधिकरणवक्ष्यमाणो न यु [८३१।१] ज्येतेत्याह अथेति कथ तर्ह्यरुणयेत्यस्य वाक्योदाहरणतेत्याश ङ्क्याह तस्मादिति उदाहरणद्वये ऽपि विशेषविनियोगव्यापृतश्रुत्यपेक्षितविशेषणविशेष्यभावसमर्पणेन वाक्यस्य श्रुत्यन्तर्गतेर्द्दर्शयितुं शक्यत्वात् विनियोजकत्वस्य तूभयत्रापि अभावात् उभयस्य साक्षाद्विनियोगविवक्षया श्रुत्युदाहरणत्वे विनियोगौपयिकविशेषणविशेष्यभावविवक्षया च वाक्योदाहरणत्वे सम्भवत्यपि गुणस्य क्रियासाधनद्रव्यान्वयं विना श्रुत्यवगतक्रियाङ्गत्वानिर्वाहात् श्रुतेश्च द्रव्यान्वये व्यापाराभावात् वाक्यगम्यस्यारुण्यस्यैकहायनीद्वारतार्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादित्यत्रोक्तेति सूचनायारुणयेत्यस्य वाक्योदाहरणतेत्याशयः। श्रुत्यादित्रयवत् प्रकरणादित्रये ऽपि कथं च विनियुज्यतइत्यशः कस्मान्न चिन्त्यतइत्याशङ्क्याह इदानीमिति व्रीहीनित्यादिपरमापूर्वसाधने ऽवघातादिविनियुक्ते ऽवान्तरापूर्वसाधने वेत्यादिश्रौतविनियोगविशेषचिन्तायां गौणे मुख्ये च लिङ्गं मन्त्रं विनियुङ्के मुख्य एवेति। लैङ्गिकविनियोगविशेषचिन्तायां वाक्यमुपक्रमानपेक्षमुच्चैस्त्वादीनि विनियुङ्क्ते तदपेक्षं वेति वाक्यीयविनियोगविशेषचिन्तायाः श्रुत्यादिबलाबलचिन्तानपेक्षत्वात् पृथक्करणं युक्तं पूर्वप्रमाणविनियुक्ताङ्गव्यतिरिक्तानां प्रकरणादिविनियोजकं सर्वेषामेव वेत्येवं प्रकाराया विनियोगविशेषचिन्तायास्तु श्रुत्यादिबलाबलचिन्तार्न्तर्गतत्वादतादृश्याश्च विनियोगविशेषचिन्तायाः प्रकरणादिष्वयोगान्न तेषु विनियोगविशेषचिन्ता कार्येत्याशयः। अधिकारलक्षणस्य प्रकरणस्यानन्तर्यलक्षणस्य क्रमस्य रूढिशब्दलक्षणायाश्च समाख्यायाः सिद्धान्ते ऽपि विनियोजकत्वानभ्युपगमादितिकर्त्तव्यताकाङ्क्षालक्षणस्य प्रकणस्य सादेश्यलक्षणस्य क्रमस्य यौगिकशब्दलक्षणायां समाख्यायाश्च पूर्वपक्षे सद्भावस्याप्यनभ्युपगमाद्विनियोगकारणत्वचिन्ता न युक्तेत्याशङ्क्येतिकर्त्तव्यतार्थित्वाद्देशसामान्यात्तदर्थत्वादिति सूत्रावयवैः स्वरूपेणासयुक्तं प्रकरणाच्छेष इति प्रधानभूताध्यायार्थवाचितया सर्वत्रानुवर्त्तमानशेषशब्दानुषङ्गात् पञ्चम्या च ज्ञापकहेतुत्वोक्तेः क्रमश्चेति चकारेण पञ्चम्यर्थानुकर्षणादाख्या चैवमित्येवं शब्देन च तदतिदेशाद्विनियोगसामर्थ्येन दर्शयतीत्युक्तम्। सद्भावेनेतिवाच्ये यत्किञ्चिद्रूपप्रकरणादिसद्भावस्योभयसिद्धत्वात् स्वाभिमतरूपप्रकरणादिसद्भावस्य साध्यत्वसूचनार्था स्वरूपोक्तिः। वैदिके चार्थे शब्दातिरिक्तप्रमाणाभावात्। शब्दस्य च साक्षरश्रवणाक्षरसामर्थ्याकाङ्क्षितयोग्यर्थपदसन्न्निध्यतिरिक्तविनियोगकारणभूतप्रकाराभावात्। श्रुत्यादीनि त्रीण्येव तादर्थ्यबोधाख्ये विनियोगे कारणानीत्याशये किमेतावन्त्येवेति पृष्टमोदनं पचेत्युक्त्वा तण्डुलानानय क्राष्ठान्याहरोदकं स्थाल्यादि चोपनयेत्युक्ते लोके तण्डुलोपनयनादीनां पाकाङ्गत्वप्रतीतेः पदसन्निधिवद्वाक्यसन्निधावपीतिकर्त्तव्यताकाङ्क्षायां विनियोगहेतुत्वावसायाद्देवदत्तयज्ञदत्तविष्णुमित्रेभ्यः शुक्लनीलपीतवस्त्राणि देयानीत्युक्ते च शुक्लवस्त्रादीनां यथाक्रमे देवदत्ताद्यङ्गत्वप्रतीतेः सादेश्यनिमित्तस्य सन्निधिर्विनियोगहेतुत्वावसायाद्देवदत्तीयः पाक इत्युक्ते देवदत्तस्य पाकाङ्गत्वप्रतीतेर्यौगिकशब्दस्य विनियोगहेतुत्वावसायाच्छाब्दे व्यवहारे वा शाब्दस्यार्थस्यान्वयायोगादितिकर्त्तव्यताकाङ्क्षासादेश्ययौगिकत्वानामपि विनियोगकारणभूतशब्दप्रकारवाचित्वावगतेस्तान्यपि विनियोगकारणानीत्याशयेन नेतिभाष्येण निरस्य भावनायाः सन्निपत्त्योपकारीतिकर्त्तव्यतान्वयमात्रेणेतिकर्त्तव्यताकाङ्क्षानिवृत्तेरारादुपकारीतिकर्त्तव्यतानाकाङ्क्षत्वात् सन्निपत्योपकारिण्याश्चेतिकर्त्तव्यतायाः श्रुत्यादिगम्यत्वेन प्रकरणगम्यत्वाभावात् नेतिकर्त्तव्यताकाङ्क्षालक्षणं प्रकरणमस्तीत्याशयेन प्रकरणमात्रविषयं प्रश्नान्तर किमपरमिति भाष्येण कृत्वाधिकरणरक्षणार्थं पूर्वपक्षे कार्ये प्रश्नो न युक्त इत्याशङ्क्य विपर्यवत् सन्देहाज्ञानयोरपि सिद्धान्तप्रतिकूलत्वात्पूर्वपक्षत्वसम्भवसूचनार्थं त्रैविध्यप्रसिद्धेन प्रश्नेन पूर्वः पक्षः कृत इति प्रश्नेनैवेति भाष्येणोक्तं तत्सर्वं तात्पर्येण व्याचष्टे तत्रेति त्रयमपि क्रमेणोपपादयति यावद्धीति सूत्राधीनज्ञानस्य पुंसः कथनात् प्राक् सन्देहाज्ञाने सम्भवत इत्याशयः। नदीत्वपर्वतत्वफलत्वरूपेणानिश्चितेषु प्रश्नस्य लोक त्रैविध्यप्रसिद्धिदर्शनार्थं भवति चेति भाष्यं स्पष्टत्वान्न व्याख्यातं पूर्वपक्षमुपसंहरति तस्मादिति अस्य पूर्वपक्षस्याधिकरणत्रयसाधारण्यसूचनादियादिशब्दः तदित्यादिसिद्धान्तभाष्यं तात्पर्यतो व्याचष्टे इतीति करणत्वस्यातिशयितसाधकत्वरूपसाधकतमत्वलक्षणत्वादतिशयस्य चापेक्षितत्वादपकृष्टसाधकत्वरूपामितिकर्त्तव्यतां विना करणत्वानुपपत्तेः सन्निपत्त्योपकारिणश्च प्रोक्षणमन्त्रादेयागानिष्पादक्रभावनाकरणीभूतद्रव्यदेवतादीनि कर्त्तव्यतात्वेन फलभावनाकरणीभूतयागादीतिकर्त्तव्यतात्वाभावावश्यम्भाविन्यारादुपकारीतिकर्त्तव्यताकाङ्क्षेति सूचनार्थ करणवाची प्रधानशब्दः। सन्निपत्योपकारीतिकर्त्तव्यतान्वयमात्रेणाकाङ्क्षानिवृत्त्यभावः कथम्भावाविच्छेदोक्त्योक्त। असंयुक्तोक्तिव्याख्यानायानिर्ज्ञातेत्युक्तम् प्रकरणेनाङ्गतेति वदता शेष परार्थत्वादिति सूत्रस्थशेषशब्दानुषङ्गः सूचितः। सिद्धान्तोपपादनार्थं यदीतिकर्त्तव्यताकाङ्क्षिण इत्यादिभाष्यं व्याचष्टे दर्शेति दर्शपूर्णमासयोरुपकाराख्यानुग्रहापेक्षायां प्रयाजादीनां च साध्यापेक्षायां सत्यामपि यथाविकृतेरुपकाराकाङ्क्षायां विकृतौ चातिदिष्टानां प्रयाजादीनां साध्याकाङ्क्षायाः प्राकृतप्रमाणसिद्धेनोपकारेण निर्वृत्तेर्न विकृतौ प्रकरणं प्रवर्त्तते। तथा यदि दर्शपूर्णमासयोः सहायभूतप्रयाजादीनां साध्य उपकारो ऽन्यत सिद्धः केन चित्प्रमाणेनोपलभ्येत ततो दर्शपूर्णमासयोरपि न प्रकरणं प्रवर्तेत न त्वेतदस्तीतिसूचनार्थं तथेत्युक्तम् वायव्य श्वेतमालभेतेत्यस्य च प्रकृतिलिङ्गभूतेनालभतिना दैक्षोपकारस्य स्वपदे मासमग्निहोत्रं जुहोतीत्यत्र अग्निहोत्रोक्त्यानारभ्याग्निहोत्रधर्मातिदेशात्तद्गतस्योपकारस्य स्ववाक्ये दैक्षप्रकरणे च दर्शपूर्णमासिकप्रयाजादिदर्शनाद्दैक्षे पौर्णमासधर्मातिदेशावगतेः स्वतोपकारस्य स्वप्रकरणे प्राकृतप्रमाणसिद्धस्योपलम्भात्तत्तद्वैषम्यसूचनार्थं स्वेत्युक्तम् एवं सत्यपि यदि प्रकरणालोचनाद्दर्शपूर्णमासयोः का चित्प्रवृत्तिरवगम्येत ततस्तद्गतप्रमाणसिद्धेनोपकारेण नैराङ्काक्ष्यं स्यान्न त्वेतदस्तीति सूचनार्था प्रकरणान्तरोक्ति। शब्दस्यापि प्रत्यक्षादिपञ्चकान्तर्गतत्वात्तन्निरासेनैव निरासे ऽपि लौकिकवैदिकशब्दभेदविवक्षया भेदेनोक्ति। दर्शपूर्णमासयोः सहायभूतप्रयाजादीनां च साध्यभूत उपकारो ऽन्यतः सिद्धो न केन चिल्लोकिकेन वैदिकेन वा प्रमाणेनोपलभ्यतइत्युक्ते ऽर्थात् प्रोक्षणावघातादिजन्येन सान्निपातिकेनैवोपकारेणोपकाराकाङ्क्षानिवृत्तेर्दर्शपूर्णमासयोर्नारादुपकाराकाङ्क्षेत्याशङ्क्य अवश्यञ्चेत्युक्तम् यदि त्वित्यनेनाभावशङ्कायां प्रकरणाख्यारादुपकारप्रमाणसद्भावान्निरस्तायां सन्निधिमात्रादन्वयानुपपत्तेः प्रकरणे पदसन्निध्यभावाद्वाक्यसन्निधेश्च विप्रकृष्टत्वेनान्वयहेतुत्वायोगान्न प्रकरणं प्रमाणमित्याशङ्क्य न हीत्युक्तम् वि [८३२।६] श्वजिद्वत्फलाध्याहारेण दर्शपूर्णमासफलानुषङ्गेण वा साक्षात्पुरुषार्थभूतं स्वर्गाद्येव प्रयाजादीनां साध्यत्वेन कस्मान्न कल्प्यतइत्याशङ्क्य यच्चान्यत्स्वर्गादिसाध्यं कल्प्येत तस्येज्याधिकरणन्यायाद्दर्शपूर्णमासनामविशेषितयज्युक्तेनाग्नेयादिषट्केण सह सम्बन्ध्य निरासाङ्क्षीभूतस्य न प्रयाजादौ सम्बन्धाकाङ्क्षास्तीत्युक्त्वा दर्शपूर्णमासयो प्रयाजादीनां च परस्परमुपकार्योपकारित्वनियमसिद्धिरन्योन्याकाङ्क्षाधीनाङ्गाङ्गिसिद्ध्यर्थमुपसहृता। प्रयाजादेश्च स्वर्गार्थत्वशङ्कानिरासेन तानि तत्रैषेत्यादिप्रयोजनभाष्यस्य प्रयाजादीनि दर्शपूर्णमासयोरेव विनियुज्यन्ते न स्वर्गे तथाग्निहोत्रे ज्योतिष्टोमे वा यदेवं विधं पदार्थजाते तदप्यग्निहोत्रएव ज्योतिष्टोमएव विन्नियुज्यते न स्वर्गइति व्याख्या सूचिता फलकल्पनानुषङ्गाभ्यां चेह पूर्वपक्षश्चतुर्थोपान्त्ये फलवाक्यस्थेन यजिना प्रयाजादीनामपि ग्रहणादित्यपौनरुक्त्य स्पष्टम्। इतिकर्त्तव्यताकाङ्क्षिप्रधानसन्निधौ पठितानां प्रोक्षणप्रयाजादीनां बहूनामुदाहरणानां स्पष्टत्वात् प्रकृते विनियुज्यतइति प्रयोजनस्योक्तत्वात् प्रयोजनोदाहरणप्रश्नावनर्थकावाशङ्क्य सन्निपत्त्योपकारिणां प्रोक्षणादीनां क्रियाङ्गभूतद्रव्याद्यन्वयेन नैराकाङ्क्ष्यादुभयाकाङ्क्षालक्षणेन प्रकरणेन क्रियायां विनियोगानुपपत्तेरुदाहरणत्वायोगात्क्रियाङ्गभूतद्रव्याद्यङ्गत्वद्वारा तु तेषां क्रियाङ्गत्वाभ्युपगमे ऽधिकारलक्षणप्रकरणानुगृहीतेन श्रुत्यादिनैव तत्सिद्ध कथम्भावलक्षणेन प्रकरणेन विनियोगायोगात्तैरेव च क्रिया।?।या इतिकर्त्तव्यताकाङ्क्षानिवृत्तिसिद्धेरारादुपकारिणां प्रयाजादीनां।?। विनियोगायोगात्प्रयोजनानुपपत्तेः प्रयोजनोदाहरणे पृष्ट्वा सन्न।?।पत्त्योपकारिणामुदाहरणत्वायोगे ऽपि आरादुपकारिणामुदाहरण।?।त्वं तद्विनियोजनं च प्रयोजनमिति भाष्यव्याख्यासूचनायासंयुक्तोक्ते सन्निपत्त्योपकारिणां प्रकरणविनियोगनिवृत्त्यर्थत्वसूचनार्थ परमतेन तावत्सन्निपत्त्योपकारिणामारादुपकारिणां च प्रकरणविनि।?।योज्यतामभिप्रेत्यासंयुक्तोक्तेः। प्रश्नपूर्वं प्रयोजनमाह असंयुक्तेति द्वित्वबहुत्वयुक्तस्य प्रतिपद्विधानस्य श्रुत्या द्विबहुयजमानक्रत्वन्तरसंयुक्तस्य पूष्णो ऽहं देवयज्यया पशुभिर्जनीषीयेत्याद्यनुम न्त्रणेषु च पूषादिशब्दानां लिङ्गात् तच्छेषाणां चाहमित्यादीनां ।?। क्येन पूषादिदेवत्येष्टिपशुसंयुक्तानां ज्योतिष्टोमदर्शपूर्णमासप्रकरण भ्यां विनियोगनिवृत्त्यर्थमित्युत्तरार्थः। प्रोक्षणादीनां श्रुत्यादिभिर्व्रीह्यादिसंयुक्तानां दर्शपूर्णमासज्योतिष्टोमप्रकरणाभ्यामविनियोगापत्तेर्विशेषणमध्याहरति प्रकरणेति पदार्थान्वयरूपवाक्यार्थप्रतिपादनमात्रे वाक्यव्यापारस्य स्योनं ते सदनमित्यादेः सुमनस्यमान इत्यन्तस्य वाक्यविनियोगोक्तेरेकवाक्यत्वोपगमने सामर्थ्यनिमित्तविनियोगाङ्गत्वस्य स्योनं त इत्यस्य पूर्वेण सहैकवाक्यतामभ्युपेत्योपस्तरणे समर्थेनेत्यादिभाष्यालोचनया प्रतीतेः प्रतिनियतावेतौ श्रुतिवाक्यसम्बन्धावेकः शेषशेषिरूपेभ्यां विशेषणविशेष्यात्मकइत्यादिवार्तिके वाक्यस्य विनियोजकताया निषेत्स्यमानत्वात्तत्सामान्येनारुणावाक्ये ऽपि वाक्यस्याविनियोजकत्वावगतेरारुण्यस्य वाक्येन क्रयसम्बन्धायुक्तत्वादेतत्प्रयोजनानुपपत्तेः स्वमतेनासंयुक्तस्य ग्रहणस्य सन्निपत्त्योकारिणां प्रकणविनियोगनिवृत्तिप्रयोजनत्वं सूचयितुमाह तत्त्विति श्रुत्यादीनां सर्वेषामेव परदौर्बल्यात् पूर्वसंयुक्तएवार्थे परस्याविनियोगसामर्थ्यात्सामर्थ्यालोचनयैव श्रुत्यादिसंयुक्तानां प्रकरणविनियोगनिवृत्तेः सिद्धत्वादसंयुक्तमिति यत्सूत्रं तच्छरुत्यादिसंयुक्तानां प्रकरणविनियोगनिवृत्त्यर्थ न भवति। किं तु संयुक्तशब्देन सन्निपत्त्योपकारित्वाभिधानात्। सन्निपत्त्योपकारिणां प्रकरणविनियोगनिवृत्त्यर्थमित्याशयः।

क्रमस्य विनियोजकताधिकरणम्॥ ५॥

क्रमश्च देशसामान्यात्॥ १२॥ वैदिके ऽर्थे शब्दातिरिक्तप्रमाणाभावात्सादेश्ययौगिकत्वयोश्च विनियोगहेतुभूतशब्दप्रकारत्वाभावात्। न क्रमसमाख्ये विनियोगकारणे इत्याशयेनार्थत्याद्ये ऽधिकरणद्वयस्थे विकृतीनां प्राक्प्राकृताङ्गान्वये ऽप्यज्ञातोपायपरिमाणत्वादश्रुतफलत्वेनाङ्गत्वयोग्येषु कर्मसु सन्निहितेषु सत्सङ्गाकाङ्क्षानिवृत्त्यसिद्धेर्वैकृतकर्मसन्निधानस्य प्रकरणत्वादुपांशुयाजस्य विप्रतिपन्नजातिशत्रुमत्कर्त्तृकैन्द्राग्नकर्मद्वयस्य वा ब्राह्मणपाठादनुमन्त्रणमन्त्रस्य याज्यानुवाक्यायुगलद्वयस्य वा मन्त्रसहितायां पाठादेकप्रदेशवाक्यपाठसादेश्याभावेन तद्धेतुकबुद्धिविपरिवृत्त्याख्यसन्निध्ययोगाद्दैक्षस्य च स एष औपवसथ्ये ऽहनि द्विदेवत्यः पशुरालभ्यतइति श्रुत्यौपवसथ्याख्ये ज्योतिष्टामप्रदेशे ऽनुष्ठानोक्तावप्युपाकरणादीनां दैक्षाङ्गत्वावगमात्प्रागौपवसथ्ये ऽनुष्ठानावगतेरेकप्रदशानुष्ठानाख्यानुष्ठानसादेश्याभावेन तद्धेतुकस्यापि सन्निधेरयोगान्न फलवत्सन्निधिलक्षणः क्रमो ऽस्ति निर्वापादीनां च समाख्यां विनाध्वर्य्वादिसम्बन्धानवगतेराध्वर्यवादिसमाख्या यौगिकशब्दलक्षणा नास्तीत्याशयेन किं चेति द्वितीये च प्रश्नभाष्ये एकहेलया व्याचष्टे पूर्ववदेवेति किमुक्तेभ्यो ऽन्यदपिप्रमाणमस्तीति किञ्चेति भाष्यार्थः। क्लृप्तोपकारत्वेन प्राकृतानामङ्गानां निराकाङ्क्षीकरणसामर्थ्यस्य दशमे गृहमेधीयाधिकरणे वक्ष्यमाणत्वान्निवृत्ताकाङ्क्षाया साङ्ग्रहण्यादिकाया विकृतेः सन्निध्याम्नातानाम् अश्रुतफलानामामनहोमादिकर्मणां सन्निहितफलवत् कर्मोपकाराख्यसाध्यसम्भवे कल्पनागौदवापादकस्वर्गफलवत्वकल्पनायोगात् विकृतिफलानुषङ्गस्य फलसम्बन्धोक्तहेतुत्वादितरस्य प्रधाने स्यादिति चतुर्थाधिकरणे परिधिमन्त्राद्यसम्बद्दपदव्यवायेन निराकरिष्यमाणत्वात् सन्निहितविकृत्यङ्गतां विनानर्थक्यापत्तेर्निराकाङ्क्षस्योपाध्यायस्य शिष्याकाङ्क्षयाकाङ्क्षोत्थापनवत्सन्निध्याम्नातधर्माकाङ्क्षयाकाङ्क्षोत्थापने ऽपि स्वतो नैराकाङ्क्ष्यादुभयाकाङ्क्षालक्षणप्रकरणत्वानुपपत्तेर्वैकृतधर्मसन्निधि क्रम एव भिन्नग्रन्थाम्नातानामपि च कर्ममन्त्राणामुपकारकोपकार्याकाङ्क्षायां ब्राह्मणाधीतैः कर्मभिर्मन्त्रसंहिताधीतेषु मन्त्रेषु उपकारत्वेन मन्त्रैश्च कर्मसूपकार्यत्वेनालोच्यमानेष्वादित आरभ्यालोचनादाद्यग्रन्थप्रदेशाधीतयोः कर्ममन्त्रयोरन्योन्यं द्वितीयप्रदेशाधीतयोश्चान्योन्यमित्येवं क्रमेण बुद्धौ विपरिवृत्तेः सर्वस्वसंवेद्यत्वेनापह्नवायोगात् पाठसादेश्यहेतुको दैक्षाङ्गत्वानवगमे ऽपि चोपाकरणादीनां पाठक्रमेणौपवसथ्याख्ये दैक्षप्रदेशे ऽनुष्ठानावगमात् अनुष्ठानसादेश्यहेतुको ऽपि फलवत्सन्निध्याख्यः क्रमोऽस्तीति क्रमो देशसामान्यादित्येनावतोत्क्वा चकारेण पूर्वसूत्रस्थप्रकरणादिति पञ्चम्युक्तशेषहेतुत्वानुकर्षणात्सो ऽपि शेषहेतुरिति एवं सूत्रव्याख्यां सूचयन् सिद्धान्तमाह तत्रेति क्रमो ऽपि विनियोगकारणमित्येतावताद्ये प्रश्ने निरस्ते द्वितीयप्रश्ननिरासार्थं वैकृतकर्मसन्निधिरपि क्रम एवेत्येवकारेण सूचितम्। दब्धिमन्त्रैन्द्राग्नयाज्यानुवाक्यायुगलोपाकरणादीनां शेषित्वाभिमतकर्मविशेषसन्निधिपाठाभावे ऽप्येकदेशत्वाख्येन देशसामान्येन बुद्धिपरिवृत्त्याख्यसन्निधिरूपः क्रमः प्रतीयतइत्युक्ते देशसामान्यव्याख्यार्थ द्वैविध्योक्तिः देशसामान्यहेतुकक्रमद्वैविध्ये सति कस्मात्पाठसादेश्यमात्रे भाष्यकृतोक्तमित्याशङ्क्य दैक्षस्य श्रुत्योपाकरणादीनां चौपवसथ्याहानुष्ठेयाग्नीषोमीयप्रणयनोत्तरकालपाठेन पाठक्रमादौपवसथ्ये ऽहन्यनुष्ठेयत्वावगतेरेकप्रदेशानुष्ठानाख्यस्यानुष्ठानसादेश्यस्य स्पष्टत्वात् सुप्रतिपादं सन्निधिहेतुत्वं मत्वा पाठसादेश्यस्यास्पृष्टत्वेन सन्निधिहेतुत्वस्य दुःप्रतिपादस्य प्रतिपादनायेति परिहारं सूचयन्पाठसादेश्योपपादनपूर्व सन्निधिहेतुत्वमेव तावदुपपादयति विनापीति अपिपब्द प्रकारान्तरवाची पाठसादेश्यहेतुकस्य क्रमस्य विनियोगहेतुतामुपपादयति चेनेति ऐन्द्राग्नयोर्याज्यानुवाक्यायुगलयारैन्द्राग्नाभ्यां प्रधानाभ्याम् देवताप्रकाशकत्वाल्लिङ्गस्य च सामान्यस्य सम्बन्धि विना विनियोजकत्वायोगात् काम्ययाज्याकाण्डसमाख्यया च कर्मविशेषान्वयाख्यसामान्यसम्बन्धानवगतेः क्रमेण विनियोगे ऽप्यनुमन्त्रणस्य प्रधानेनानाकाङ्क्षितत्वाक्रमेण विनियोगो न युक्त इत्याशङ्क्य प्रधानस्यानुमन्त्रणानाङ्क्षत्वे ऽप्यनुमन्त्रणाकाङ्क्षया ऽकाङ्क्षामुत्पाद्य विनियोगो भविष्यतीति परिहारं सूचयन्ननुमन्त्रणविनियो [८३३।४] गे क्रमस्य हेतुतामुपपादयित तथेति आद्यानुमन्त्रणस्याद्यशेष्यन्वयान्निराकाङ्क्षतया द्वितीयादीनां अनुमन्त्राणादीनां द्वितीयादिभिः शेषिभिः सम्बन्धेन भाव्यमित्यर्थः। एवं तर्ह्यग्नेरहं देवयज्ययेत्याद्यनुमन्त्रणान क्रमविनियोज्यत्वेन कस्मान्नोदाहृतानीत्याशङ्क्याधिकारलक्षणप्रकरणेन दर्शपूर्णमासान्वयाख्ये सामान्ये सम्बन्धे सर्वेषामनुमन्त्रणानामनवगतर्द्वारविशेषान्वयाय व्यवस्थापेक्षायामाग्नेयादियागाङ्गत्वेनानुमन्त्रणानामाग्नेययागादिप्रकाशनसामर्थ्याल्लिङ्गेन व्यवस्थासिद्धेः क्रमानपेक्षत्वात् अस्पष्टलिङ्गतया लिङ्गेन व्यवस्थापयितुमशक्यमनुमन्त्रणमुदाहरति तत्रेति लिङ्गेनाव्यक्तलिङ्गमन्त्रव्यवस्थानभ्युपगमे प्रकरणात्सर्वार्थत्वापत्तेः। क्रमेण विनियोगो न सिद्ध्येदित्याशङ्कते ननु चेति अबाधसम्भवे बाधपक्षस्यानाश्रयणीत्वात् उपांशुयाजस्य विशेषितया ग्रहणे द्वयानुग्रहसम्भवात्। न क्रमो बाधनीय इति परमतेन दूषयितुमुपन्यस्यति तत्रेति उपांशुयाजमात्रार्थत्वे प्रकरणावगतसर्वार्थत्वबाधापत्तेर्न द्वयानुग्रहः सम्भवतीत्याशयेन दूषयति शक्यन्त्विति अनुमन्त्रणस्याश्रुतावृत्तिदोषापत्ते। सर्वार्थता युक्तेत्याशङ्क्य प्रतिप्रधानमङ्गावृत्तिर्न्याय्यैवेति सूचनार्थं प्रति प्रधानेत्युक्तम् आग्नेयादीनां लिङ्गावगतैरनुमन्त्रणान्तरैर्नैराकाङ्क्ष्यादुभयाकाङ्क्षालक्षणेन प्रकरणेनास्यानुमन्त्रणस्याग्रहणं न सम्भवतीति स्वमतेन परिहारमाह तत्रेति स्पष्टलिङ्गानां लिङ्गेनास्पष्टलिङ्गस्य च प्रकरणेन विनियोगाद्विषमशिष्टविकल्पापत्तेरपि नास्य प्रकरणेन ग्रहणमित्याह न चेति अदृ।?।ष्टार्थत्वेनैकार्थ्यानवगमात् विकल्पानापत्ति शङ्कते अदृष्टार्थानामिति

मन्त्रमुच्चारयन्नेव मन्त्रस्थत्वेन सस्मरन्।
शेषिणे तन्मना भूत्वा स्यादेतदनुमन्त्रणमित्येवम्॥

लक्षणेनैषां यागानुमन्त्रणाख्यया यागस्मृत्यर्थत्वावगते। कृतस्यापि च यागस्याकृतत्वशङ्कायामश्रद्धानिमित्तवैगुण्यापत्तेः शङ्कानिवृत्तौ कृतस्य यागस्य प्रत्येकस्मृत्याख्यप्रत्यवेक्षापेक्षत्वात् दृष्टार्थत्वावगतेरेकैकेन च मन्त्रेण तत्सिद्धेर्दुर्वारा विकल्पापत्तिरिति परिहरति नेति कृतयागस्मरणस्यानुष्ठानानौपयिकत्वात् कालविप्रकृष्टाभावेन चाकृतत्वशङ्कानुपपत्तेस्तन्निवृत्त्यर्थत्वायोगात् पदार्थमध्ये क्षुतादिनिमित्तविष्णुस्मरणवददृष्टार्थत्वे ऽपि भिन्नानां मन्त्राणाम् ज्ञप्तिमन्त्रवदेकप्रयोजत्वकल्पनानुपपत्तेरैन्द्रवायवादिग्रहणवच्च समुच्चयमन्तरेणागत्यभावात्समुच्चयानाश्रयणीयत्वावगतेर्न समुच्चय युक्त इत्याह सत्यपि चेति गत्यन्तरे सतीत्येतद्विवृणोति आग्नयादिभिरिति मन्त्राणां चाक्रियात्वेनानितिकर्त्तव्यत्वारूपत्वात् स्वमत प्रकरणविनियोज्यत्वानुपपत्तेरभिधानक्रियाद्वारा विनियोज्यत्वावगमे ऽपि अस्पष्टलिङ्गाभिधायकतायोगान्नास्य प्रकरणविनियोगः सम्भवतीत्याह किं चेति उपांशुयाजे ऽपि तर्ह्यभिधानाशक्तेर्नाविनियोगः स्यादित्याशङ्क्य क्रमादुपांशुयाजाङ्गत्वावगतेः सन्निहिताभिमुखवाचिमध्यमपुरुषयोगात् प्रकरणसन्निहितानेकयागत्यागेन क्रमसन्निहितैकोपांशुयाजाभिधानसामर्थ्यावगतेरुपांशुयाजे विनियोगोपपत्तिसूचना यासीत्युक्तम् श्लोकं व्याचष्टे दब्धिर्नामेति युष्मदर्थविषयमध्यमपुरुषान्तरत्वेनासिशब्दस्य सन्निहितवाचित्वे ऽपि सर्वेषां प्रकृतत्वेन सन्निधानात् अभिधानापत्तिमाशङ्क्य सन्निहितवाच्यभिमुख्यस्य युष्मदर्थत्वादुपांशुयाजस्यैव च मन्त्राकाङ्क्षयोत्पादिताकाङ्क्षत्वेनाभिमुखत्वात् मन्त्रित्वेनावान्तरनिराकाङ्क्षीकृतत्वेनानभिमुखत्वात् मन्त्रित्वेनावान्तरनिराकाङ्क्षीकृतत्वेनानभिमुखानामाग्नेयादीनां सन्निधाने ऽप्यनभिधानसूचनायाभिमुखोक्तिः सादेश्येनोपांशुयाजस्यात्यन्तसान्निध्यात्तस्यैवाभिधेयता युक्तेति परिहारसम्भवे ऽपि अतिशयार्थाभिमुखोक्तिः। स्वमतनोक्तपरिहारमुपसंहरति ततश्चेति तथैन्द्रग्नं कर्मेत्यादिभाष्येणोदाह्रतो याज्याकाण्ड [८३४।३] क्रमस्तयोश्चाङ्गाङ्ग्यपेक्षवेलायामित्यादिवार्त्तिकेनोभयाकाङ्क्षाया क्रमस्य विनियोगहेतुत्वाभिधानाद्व्याख्यात इत्याह याज्येति अनुष्ठानदेशः क्रमः कस्मान्नोदाहृत इत्याशङ्क्य पशुधर्माधिकरणे क्रमस्य प्रकरणविरोधपरिहारेण पशुधर्माणां दैक्षार्थत्वे वक्ष्यमाणो अनुष्ठानदेशलक्षणो ऽपि क्रमो विनियोगहेतुत्वेन सुज्ञानो भविष्यतीति मत्वेत्याह अनुष्ठानेति वैकृतधर्मकर्मसन्निधेस्तु प्रकरणत्वशङ्कायाश्चतुर्थे मध्यस्थं यस्य तन्मध्यइत्यस्मिन्नधिकरणे स्वातन्त्र्यशङ्कायाश्च फलबद्धोक्तहेतुत्वादितरस्य प्रधानं स्यादित्यस्मिन्निराकरिष्यमाणत्वेन क्रमस्य निःसन्दिग्धत्वात्। निराकाङ्क्षोपांशुयाजसन्निधेश्च विनियोजकत्वस्योक्तत्वात् पृथगनुदाहरण लिङ्गक्रमसमाख्यानादित्यत्र लिङ्गस्य क्रमसमाख्यासापेक्षत्वमात्रोक्तेः क्लृप्तस्य विनियोजकत्वाभिधानादिहोदाहरणम्॥

समाख्यायाः विनियोजकताधिकरणम्॥ ६॥

आख्या चैवं तदर्थत्वात्॥ १३॥ अख्याया विनियोगहेतुत्वाभावाशयस्याथेति प्रश्नभाष्यस्य यौगिकत्वलक्षणसमाख्यात्वाभावाशयस्य च किञ्चेत्यस्य प्रयोगे च व्याख्यातत्वात् समाख्यापि क्रमविशेषत्वहेतु क्लृप्तावयवार्थप्रत्यभिज्ञानेन चाध्वर्यवादियौगिकत्वात्समाख्या चैवमित्येवं सूत्रव्याख्यार्थं समाख्या चेति भाष्यं तात्पर्यतो व्याचष्टे यौगिकीति क्लृप्तावयवार्थप्रत्यभिज्ञाने समुदायशक्तिकल्पनायोगात्सम्बन्धनिमित्तैवेषाख्यैत्येतावता यौगिकत्वाख्ये समाख्यात्वे व्युत्पादित तस्या विनियोगहेतुत्वोक्त्यर्थमध्वर्य्वादिना प्रकृत्यर्थत्वेन सहान्वाधानादेः प्रत्ययार्थस्य कश्चित्सम्बन्धो ऽस्तीत्येवं सामान्याकारेण स्ववाच्यविशिष्टार्थान्यथानुपपत्त्या प्रतीते सम्बन्धे ऽपि निःशेषसामान्यायोगात् विशेषापेक्षायां शेषशेषिलक्षणसम्बन्धविशेषं बोधयतीत्युक्ते विशेषबोधोपपादनार्थमृत्विजां कर्माणि प्रति कर्तृतया शेषत्वेन चरणभरणाभ्यां परिक्रीतत्वादनुष्ठेयत्वेन शेषिभूतकर्मापेक्षायामनुष्ठातृत्वेन च शेषिभूतानां कर्मणां कर्तृशेषभूतापेक्षायां प्रत्ययार्थस्यान्वाधानादेः प्रकृत्यर्थस्य चाध्वर्योरन्योन्यसामीप्येन बुद्धौ स्थापनादित्युक्तं समाख्याया निर्दोषत्वायानादिप्रसिद्धता यच्छब्देनोक्तेति सूचनार्थं पौरुषेय्यामपि तावद्दीक्षानुवाकादिसमाख्यायामनादित्वान्न दोषो ऽस्ति आध्वर्यवादिसमाख्यायां तु दोषशङ्कापि नास्तीत्युक्तिपूर्वमुत्तरार्द्धं ध्याचष्टे आध्वर्यवादीति आध्वर्यवशब्दवाच्यत्वेनान्वाधानादेरध्वर्युशब्दवाच्यत्वेन चर्त्विजो ऽन्वाधानादिकर्तृकत्वकल्पना भवतीत्युक्ते कस्मात्तर्ह्यध्वर्युसमाख्या भाष्ये नोदाह्रतेत्याशङ्क्यैकयापि समाख्यया द्वयोरपि कर्त्तृकर्मणोः श्रुत्यर्थाभ्यां नियमसिद्धेरिति सूचनार्थं प्रत्येकोक्ति। प्रत्ययलोपस्य प्रातिपदिकप्रत्यापत्तेर्वा स्मृत्यभावात् कथमाध्वर्यवत्कर्त्रध्वयुता व्युत्पत्तिरित्याशङ्क्य प्रकृते ऽध्वर्युप्रातिपदिकादृत्विग्विशेषवाचितया प्रसिद्धादाध्वर्यवशब्दास्तद्विकारत्वेन व्याकरणालोचनयावगताध्वर्यवकर्मवाचित्वात्मकेन प्रकृत्यानुरूपेण विकाराद्वाध्वर्यवशब्दार्थान्वयस्य निमित्तत्वायोगेनौपचारिकादन्वाधानादिवाचितयावगतादौदमेघिवत् प्रसिद्धाध्वर्यवशब्दादर्थेनाध्वर्युशब्दस्तत्र प्रकृतित्वेनावगतो ऽन्वाधानाद्याध्वर्यवकर्तृवाचित्वात्मकेन विकारानुरूपेणानुमीयतइत्युक्तं शब्दाधिकरणप्रकृतिविकृत्योश्चति पूर्वपक्षसूत्रोक्तं प्रकृतिविकारइति सूत्रे विकारोक्त्यानुभाष्य शब्दान्तरोक्त्या निरस्तात्वात् प्रकृतिविकारोक्ती न युक्ते शब्दार्थसम्बन्धनित्यत्वोक्तेश्चाध्वर्यवशब्दप्रवृत्तावप्यध्वर्युशब्दार्थान्वयस्य निमित्तत्वायोगान्नोपचारतोऽपि प्रकृतिविकारतोक्ता युक्तेत्याशङ्क्य व्याकरणप्रत्ययौपचारिकी प्रकृतिविकारतोक्ता वस्तुतस्तु यद्यप्यध्वर्य्याध्वर्यवशब्दौ प्रकृतिविकारत्वाभावादन्योन्यानपेक्षौ नित्यं चार्थान्वितौ तथापि शब्दस्यार्थे प्रयोगाख्यायाः प्रकृतेः कूटस्थनित्यत्वाभावात् नित्यस्य च नैमित्तिकत्वे ऽपि अविरोधादाध्वर्यवशब्दप्रवृत्तौ वाच्यत्वेनाध्वर्युशब्दार्थान्वयस्य निमित्तत्वादध्वर्युशब्दस्याध्वर्यवशब्द प्रति निमित्ततामुपचर्य प्रकृतिविकारत्वान्वाख्यानमित्याह यद्यपि चेति प्रवाहनित्यत्वस्य नैमित्तिकत्वाविरोधसूचनार्थं सर्वयौगिकानामिति यदुक्तं तदुपपादयितुमाह न हीति एवमपि शब्दानां कूटस्थनित्यत्वे ऽपि सम्बन्धज्ञानापेक्षस्य शब्दप्रवृत्तौ निमित्तत्वात्सम्बन्धज्ञानस्य च कादाचित्कत्वान्निमित्तत्वान्निमित्तत्वाविरोधवद्राजादिशब्दस्यापि राज्यादिशब्दप्रवृत्तिनिमित्तभूतराज्याद्यन्वयापेक्षितराज्याद्यर्थोक्तिद्वारा राज्यादिशब्द प्रति निमित्तत्वात् सम्बन्धज्ञानापेक्षत्वेन चार्थोक्ते कादाचित्कत्वनिमित्तता न विरुद्धेत्याह निमित्तेति समाख्याहेतुकाद्विनियोगात्प्रागाध्वर्यवाख्यस्यान्वाधानादेरध्वर्युसम्बन्धाप्रतीतौ शब्दे यौगिकत्वज्ञानाशक्तेः प्रतीतौ वा समाख्याया विनियोगहेतुत्वायोगापत्तेर्यौगिकत्वायोगात् रूढित्वेनान्योन्यानपेक्षत्वे ऽप्यध्वर्य्वाध्वर्यवसमाख्ययोरध्वर्योः कर्त्तव्यापेक्षायामध्वर्युसमाख्यासाधृश्यादाध्वर्यवसमाख्यायामुपनिबध्यमानायामन्वाधानादेः कर्त्तव्यत्वावगमात्। अन्वाधानादेश्च कर्त्रपेक्षायामध्वर्युसमाख्यायामुपतिष्ठमानायामध्वर्योः कर्तृत्वावगमात् एष समाख्याहेतुको विनियोगः सेत्स्यतीति भर्तृमित्रादिमतं दूषयितुमुपन्यस्यति तत्रेति यत्रातिदेशे धर्मसम्बन्धे सारूप्यादुपस्थापनस्य सामर्थ्यं प्रसिद्धं तत्रापि तावद्रूढिः सारूप्यहेतुकस्योपस्थापनस्य नास्त्यत्र त्वौपदेशिके क्रियाकर्त्रृसम्बन्धे सारूप्यहेतुकस्योपस्थापनस्य सामर्थ्यं दरात्सारितमित्येवं दूषयति [८३५।४] न त्विति उपस्थापनस्य नित्यमुपस्थापकापेक्षत्वादुपस्थापकसारूप्यसापेक्षत्वे ऽपि सामर्थ्यशब्देन सह समासाविघातः। कण्वरथन्तरशब्दस्य यौगिकत्वे सत्यरथन्तरे रथन्तरे रथन्तरशब्दस्य वत्यर्थकल्पनया शब्दोक्तात्सादृश्यात्प्रवृत्तेः सादृश्यस्य च धर्मसामान्यलक्षणत्वात् रथन्तरधर्मातिदेशकत्वं स्यात् रूढित्वात्तु शब्दसादृश्येन रथन्तरशब्दोपस्थापनद्वारा रथन्तरोपस्थापने ऽपि शब्दसादृश्यस्य प्रत्यक्षस्य गम्यत्वेन शाब्दत्वात्तद्वारेण रथन्तरोपस्थापने शब्दस्याव्यापारान्नातिदेशता युक्तेति दाशमिकदृष्टान्तेन रूढिसादृश्यहेतुकस्योपस्थापनस्यातिदेशिकधर्मान्वयासमर्थतोपपादिता। उपदेशे तु वत्यर्थानपेक्षणेन शब्दोक्तस्यापि सारूप्यस्य हेतुत्वाभावात् सादेश्यवच्च सारूप्याभावात्सादेश्यवच्च सारूप्यसम्बन्धं विनानर्थक्याभावेन सम्बन्धाभिमुख्यरूपेणानुपस्थापकत्वात् स्वरूपमात्रेण चोपस्थापने ऽपि गोगवयवत्सम्बन्धाप्रतीतेरशाब्देन सारूप्येणोपस्थापने शाब्दस्याव्यवहारात् वैदिके च शब्दव्यतिरिक्तप्रमाणाभावात् रूढिसारूप्यस्य।?। कियाकर्तृसम्बन्धस्ये शक्तेर्दूरोत्सारितता किमुतेत्यनेनोक्तार्थाद्वा सम्बन्धमात्रे ऽपि सारूप्यहेतुकत्वोक्तस्योपस्थापनस्य शक्तिर्नास्ति तद्विशेषे तु क्रियाकर्तृसम्बन्धे दूरोत्सारितेत्यर्थः। भाष्यकृतो ऽपि रूढिनानभिमतति सूचयितुमाह याचकादिति परपक्षे दोषमुक्त्वा स्वपक्षे दोषं परिहर्तुं निर्दोषत्वं प्रतिजानीते तस्मादिति अनुभाषणपूर्वं परिहरति यत्त्विति सत्यं समाख्याहेतुकात् विनियोगात्प्रागध्वर्युणाध्वर्यवाननुष्ठानादध्वर्य्वाध्वर्यवयोः सम्बन्धे प्रत्यक्षप्रमाणं नास्ति तथाप्यध्वर्युणाध्वर्यवं कार्यमित्येवं रूपं श्रुत्याख्यं प्रमाणं समाख्यया क्रमादिपारम्पर्येणाङ्गाङ्गिसम्बन्धबोधाख्याद्विनियोगात् प्रागनुमाय सम्बन्धे प्रमाणं भविष्यतीत्यर्थः। सम्बन्धात्प्राग्यौगिक्या समाख्यायाः प्रवृत्तिरयुक्तेति यदुक्तं तत्परिहर्तुमाह वेदे हीति अनादित्वोपलक्षणार्था वेदोक्तिरनादिसमाख्याप्रमाणकस्य सम्बन्धस्यानादित्वादिदानीं ततः समाख्यातृप्रयोगात् प्रागेव पूर्वेष्वनुष्ठातृषु निष्पत्तेस्तस्मिन् प्रतीते सतीदानीन्तनेषु प्रयोक्तृषु समाख्या प्रवृत्तेत्यर्थः। समाख्यातः प्रागङ्गाङ्गिसम्बन्धप्रतीतौ समाख्याप्रमाणं न स्यादित्याशङ्क्यानुष्ठातृषु निष्पन्नस्यापि सम्बन्धस्यामीभिर्मीमांसकमूलप्रमाण विना याज्ञिकानुष्ठानमात्रादविश्वसद्भिः प्रतिपत्तेः समाख्याख्यमूलप्रमाणदर्शनेनैव वयं मीमांसकाः सम्बन्धं प्रतीपद्यामहइत्याह वयं त्विति सम्बन्धप्रतिपत्ति विना सम्ब [८३५।१] न्धिनिमित्तायाः समाख्याया दर्शनायोगात्समाख्यादर्शनेन सम्बन्धप्रतिपत्तौ अन्योन्याश्रयत्व स्यादित्याशङ्क्य क्लृप्तावयवार्थप्रत्यभिज्ञानेनावयवार्थाभावविनिश्चयं च विना समुदायकल्पनायोगात्सम्बन्धज्ञानपूर्वं प्रयोक्तृस्था समाख्या ज्ञायते पश्चात्सम्बन्धो ज्ञायतइत्याह तेनेति कथं तर्हि सम्बन्धस्य प्रथमतोक्तेत्याशङ्क्य वस्तुस्थित्येत्याह वस्तुतस्त्विति सम्बन्ध ऽपि4 सम्बन्धस्याज्ञाने तत्प्रातपादिकाया समाख्यायाः प्रवृत्तिरयुक्तेत्याशङ्क्य सम्बन्धस्याप्रतीतावप्यसत्त्वनिश्चयाभावमात्रेण क्लृप्तावयवार्थप्रत्यभिज्ञान समुदायशक्तिकल्पनायोगात्। प्रयोक्तृस्थायाः समाख्याया श्रोतार प्रति ज्ञेयत्वेन प्रवृत्तिरयुक्तेत्याह स चेति अन्यप्रयुक्तसमाख्यादर्शनाच्छ्रोतुः सम्बन्धप्रतिपत्तिसम्भवे ऽपि अनवगते सम्बन्धे तत्प्रतिपादिकयाः समाख्याया वक्तुरप्रयोगादप्रयुक्तायाश्च श्रोतुर्दर्शनायोगात् न सम्बन्धिप्रतिपत्तिरित्याशङ्कानिरासपूर्वं यौगिक्या समाख्यायाः सम्बन्धमात्रावगमे ऽपि तद्विशेषाङ्गाङ्गिसम्बन्धावगतिः कथमित्याशङ्कां निरस्यति यदि हीति प्राक्सम्बन्धावगमे ऽपि नित्यत्वात्समाख्याया पूर्व वृद्धप्रयोगदर्शनात्सर्वेषां नित्यं प्रयोगोपपत्तावुक्तायां सम्बन्धनिमित्तायाः समाख्यायास्तं विना कथ नित्य प्रवृत्तिरित्याशङ्क्य सम्बन्धस्य प्रवाहनित्यतोक्ता ससमाख्यावगतस्य सम्बन्धसामान्यस्य विशेषं विनानुपपत्तेर्विशेषान्तरानुक्तेश्चाध्वर्योश्चाध्वर्युं वृणीतेति विधिना वरणेनाध्वर्युमुपाददीतेत्येवंविधानात्सामान्यतो ऽङ्गत्वादन्वाधानादेश्च क्रतूपकारित्वेन समूहितत्वात्सामान्यतो ऽङ्गत्वे ऽवगतेर्विध्यनुगृहीतया समाख्ययाङ्गाङ्गित्वलक्षणः सम्बन्धविशेषो ज्ञायतइति द्वितीयाशङ्कानिरासाशयः अनेन वैवं वेदे ऽपीति भाष्यस्याकृतकमध्वर्युत्वाद्याधानाद्याख्ययोः प्रकृतिप्रत्ययार्थयो सामान्यतः सम्बन्धप्रतिपादकमाध्वर्यवशब्दमुपलभ्य निर्विशेषसामान्यायोगात् तस्मिन्नङ्गाङ्गिसम्बन्धबोधस्य विनियोगविषयभूते ऽङ्गाङ्गित्वलक्षणे सम्बन्धविशेषे प्रत्ययो भवतीति शङ्काद्वयनिरासार्थत्वेन व्याख्या सूचिता वैदिकस्य क्रियाकर्त्रादिसम्बन्धस्य प्रमाणान्तरादनवगतेः सम्बन्धनिमित्तसमाख्योदाहरणायोगः । प्रमाणान्तरात्सम्बन्धावगतौ वा सामाख्यानिकविनियोगोक्तिर्निष्प्रयोजनेत्याशयत्वेन किमिहेति प्रश्नभाष्यव्याख्या यौगिकत्वायोगशङ्कावार्त्तिकन सूचिता ऽधिकरणार्थमुपसंहरति तस्मादिति रूढित्वनिरासोपसहारायैवकारः॥

श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणम्॥ ७॥

श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्॥ १४॥ श्रुत्यादीनि विनियोगे करणानीति अंशे चिन्तिते तेषां प्रबलदुर्बलतेत्यंशचिन्तायाः सङ्गत्युक्त्यर्थाक्तानीति भाष्यं व्याचष्टे [८३६।२] इदानीमिति समवायोक्तेर्व्याख्यापूर्वं प्रयोजनमाह तच्चेति विरोधानपेक्षस्यासमवायस्य चिन्ताऽविषययत्वान्न्यूनतां शङ्कते तत्रेति एतदेव प्रश्नपूर्वकमुपपादयति कुत इति श्लोकं व्याचष्टे एक एव हीति प्रमाणानां परस्परानुग्रहे समवायस्य निमित्तत्वोपपादनार्थं निर्विशेषसामान्यायोगात् श्रुत्या वाक्यं स्वरूपप्रयुक्तं त्वेवानर्थक्याद्वाक्येन प्रकरणमपेक्षितमित्युक्तम्। समवायोक्त्यैव विरोधसिद्धेर्न विरोधग्रहणं कार्यमिति परिहरति नेति एतदेव प्रश्नपूर्वमुपपादयति कुत इति तुल्यबलत्ववाचिन्या समानोक्त्या संशब्दस्यान्यूनानधिकैकार्थत्वव्याख्या नात्। विषयोक्त्या चापहाराख्यविच्छेदार्थविशब्दपूर्वात् बन्धनार्थात्सिनोतेर्धातोरच् प्रत्यायान्तादुत्पन्नतया विनाशब्दस्यापहरणनिमित्ताध करणार्थत्वादकस्मिन्नन्यूनाधिके ऽर्थे ऽपहरणेनान्यदधःकृत्यायोगमनं समवायशब्दार्थत्वेनोक्तं यत्र त्वेकः शेष स्तावानेव चेत्यादिविवरणवार्त्तिकालोचनया चैकशब्दस्यान्यूनानधिकैकत्वाविषयार्थत्वावसायादपहार्ये च प्रार्थनातिशयादर्शनेनार्थशब्दस्य प्रार्थनावाचितया पदार्थलक्षणार्थत्वावसायात्समानविषयत्वरूपः समवायः श्रुत्यादीनां प्रमाणानामन्यूनानधिकैकशेषापहारित्वे शेषाणां चान्यूनानधिकैकशेष्यपरिहारित्व सत्यवगम्यतइति उत्तरार्द्धार्थः। श्लोकं व्याचक्षाणो विषयोक्त्यापहारानपेक्षबोध्यवदरुणावाक्ये प्रमाणानां समवायो नास्ती त्याह अरुणादौ तावदिति श्रुत्यादीनामेकत्रारुणादौ शेषे मिश्रणात्कथ न समवाय इत्याशङ्कानिरासार्थत्वेन पूर्वार्द्धं व्याचष्टे न हीति प्रमाणस्य प्रमेयविशेषविषयत्वात् शुद्धस्यैवारुण्यस्य क्रियामात्रान्वयित्वेन श्रुतिप्रमितक्रियान्वयस्य चारुण्यस्य श्रुत्युक्तकारकापक्षितक्रियासामान्यान्वयमात्रेणापर्यवसानात् भूयः क्रियाविशेषे ऽपेक्षाविशेषेण क्रयान्वयितया वाक्येन क्रयान्वयपर्यन्तत्वे ऽपि सत्यारुण्येन समीहितप्रयोजनानवाप्तेः प्रयोजनविषये ऽपेक्षान्तरे सति ज्योतिष्टोमापूर्वसम्बन्धव।?। क्रयस्य सम्बन्धिन सतो ऽरुणैकगुणस्य ज्योतिष्टोमान्वयितया प्रकरणेन प्रमेयत्वात् विषयनानात्वेनाविरूद्धा सर्वेषां विनियोजकतेत्यर्थः। कथं कारकश्रुत्यारुण्यस्य क्रियान्वयप्रमितिरित्याशङ्क्य पदश्रुत्युक्तकारकान्वयद्वारा क्रियान्वयोपपत्तिसूचनार्था कारकोक्तिः श्रुत्यादिकल्पिति प्रमीतः क्रियाया सह कारकद्वारा सम्बन्धो यस्यारुण्यस्येति विग्रहो विशेषस्य सामान्यं प्रत्याश्रयत्वेन विषयत्वाद्विशेषणविशेष्यान्वयमात्रे वाक्यसावस्तुतो व्यापारो नाङ्गाङ्गयान्वयाख्ये विनियागे प्रौढ्याभ्युपेत्य तत्र विनियोगे वाक्यव्यापारे विषयताक्तेति सूचनार्था विषयतोक्तिः। क्रयस्येत्यारुण्यव्यतिरेकजनिना षष्ठी। प्रकरणसमर्थितज्योतिष्टामापूर्वसाधनार्थत्वेन श्रुतिव्यापारपर्यवसानाच्छ्र रुत्यपेक्षितशेषिस्वरूपसमर्पणमात्रे प्रकरणव्यापारसुचनार्थं ज्योतिष्टोमविशिष्टस्य क्रयस्य शेषित्वाद्विशेषणीभूतस्य ज्योतिष्टोमस्यापि शेषितामभिप्रेत्य ज्योतिष्टोमार्थत्वोक्तिरिति प्रकरणेन ज्योतिष्टोमिकस्य क्रयस्य शेष इति पूर्वोक्तेनाविरोधः। अर्थापत्त्या च बुध्यन्ते सम्बन्धन्त्रिः प्रमाणकम्। इतिवद्विनियोगे व्याप्रीयमाणया श्रुत्या ऽपेक्षितस्य शेषित्वस्य वाक्येनापूर्वसाधनांशस्य च प्रकरणेन समर्पणाद्वाक्यप्रकरणयोर्विनियोजकश्रुतिसहायत्वं विवक्षित्वा सर्वेषां विनियोजकत्वोक्तिः। प्रकरणेनापूर्वसाधनांशसमर्पणात्प्राक् श्रुतिर्व्यापारापर्यवसानायैवारुण्यस्य क्रियार्थत्वं श्रुत्येत्यनेनोक्तम्। एकविषयापहारलक्षणस्तु समवाया ऽरुणादावनाशङ्क्य एवेति दर्शयितुमाह न चेति वाक्यादिप्रमाणकविशेष्यान्वयग्रहणात्। श्रुत्यादिप्रमाणकशेष्यन्वयबाधकप्रसक्तौ सत्यां श्रुत्यादिना स्वप्रमेयशेष्यन्वयाबाधार्थम् एष वाक्यादिप्रमेयाच्छेषिणः शेषो ऽयह्वियेत तद्बाधप्रसक्तादर्शनेन त्वपहारात्प्राचीनैकविषयापहारित्वलक्षणः समवायः सम्भवतीत्याशयः। जानस्य बाधस्यानिवार्यत्वात् प्रसक्तो दर्श्यतइत्यध्याहार्यम् एतदेव विवृणोति न हीति क्त्व तर्हि प्रमाणसमवायः सम्भवतीत्यपेक्षायां स चैकार्थ्ये प्रमाणानामित्येतद्व्याख्यायोत्तरमाह यत्र त्विति एकस्या एवास्या [८३७] एवान्यूनाधिकाया ऐन्द्रया।?। लिङ्गेन गार्हपत्यादयः श्रुत्येन्द्रार्थत्वज्ञानाच्छ् रुत्या चेन्द्रादपह्वत्य गार्हपत्यार्थत्वज्ञानात् श्रुतिविषयो लिङ्गं सः परस्परेणापहार्यः समानं विषयो ययोस्ते तथोक्ते तयोर्भावस्तत्वं तल्लक्षणमस्येति विग्रहः। विशेषाणां चावगम्यतइत्येतद्व्याचष्टे तथेति एकस्मिन्नेव गार्हपत्ये शेषिणि तुल्योपस्थापनजन्योपकारनिबन्धनत्वाच्चान्यूनानधिकेन लिङ्गेनैन्द्रीतां गार्हपत्यमपह्रत्याग्नेय्यास्तदुपकारसाधनत्वन शेषत्वप्रतीतेः श्रुत्या चाग्नेयीतो ऽपहृत्यैन्द्रया शेषत्वप्रतीते एकशेषिविषयापहारित्वाच्छेषयोः समवाय इत्याशयः। तुल्य उपकारः शेषान्वये निबन्धनमस्येत्याद्ये शेषविशेषणे द्वितीयेत्येकेन शेषेणोपकार साधितो ऽस्येति विग्रह। श्लाकार्थस्य विरोधग्रहणाकार्यत्वे हेतुतामुपपदायितुमाह स चेति विरोधं विना नापहारः सम्भवतीत्याशयः। प्रमामविषये शेषे शेषविषये च शेषिण्येकत्वविशेषणस्यान्यूनानतिरिक्तत्वविशेषणस्य च यथाक्रमं फलानि दर्शयितुमाह यत्र पुनरिति शेषैकत्वविशेषणस्य समिद्यागादिषु शेषभेदे प्रमाणासमवाये निवृत्तफलत्वे ऽभिहिते कथं तर्ह्याग्नेयादिशेषिभेदे तद्यथा श्रुतिलिङ्गविरोधवार्त्तिके विरोधोक्त्या प्रमाणसमवायो वक्ष्यतइत्याशङ्क्य भिन्नोपकारसाधनशेषभेदो ऽत्र विवक्षित इति सूचनार्था स्पष्टोक्तिस्तावन्मात्रत्वविशेषणफलं यत्र वा तस्येत्यनेनोक्तं शेष्येकत्वविशेषस्याग्नेयादिशेषिभेदे समवायनिवृत्तिफलत्व तथेत्यनेनोक्तम्। तुल्योपकारित्वनिबन्धनविशेषणफलोक्त्यर्थं यत्र शेष्यैक्ये ऽपि शेषिगतमाधिक्यं यथा दर्शपूर्णमासयागाङ्गानामेकैकस्मिन्नाग्नेयादौ शेषिण्युपकार्यस्थेन शेषित्वात्प्रत्यङ्गं चोपकार भेदात्सामिद्यागजन्यावान्तरोपकारोपकार्यत्वेनाग्नेयस्य समिद्यागशेषित्वात्तनूनपाद्यागजन्यावान्तरोपकारोपकार्यत्वेन तनूनपाद्यागशेषतेत्येवमवान्तरोपकारनिबन्धनमाधिक्यं तच्छेषाणां शेष्याख्यविषयान्यत्वादसमवाय इत्युक्तं यत्र शेषभेदो यत्र वा तस्यैव शेषस्य किञ्चिदाधिक्यं तत्र प्रमाणानां शेषाख्यविषयत्वादन्यसमवायस्तथा यत्राशेषाणां शेष्याख्यविषयान्वयादसमवाय इति प्रत्येक तत्रेत्यस्यान्वयसूचनार्थो ऽपिशब्दः एव सत्यपि विरोधविषयत्वाद् बलाबलचिन्ताया साक्षाद्विरोधग्रहणमेव कस्मान्न कृतमित्याशङ्क्य विरोधे सत्यपि समवायाभावे प्रत्यक्षेण श्रुत्यादिना विनियोगे कृते ऽपि श्रुत्यनुमानमूलभूतानामाकाङ्क्षानिवृत्तभावेन श्रुत्यनुमानद्वारा लिङ्गादिजन्यविनियोगप्रतिबन्धायोगात् सर्वेषां तुल्यत्वापत्तेर्विरोधं विना बाध्यबाधकत्वायोगात् विरोधापादनद्वारा समवायस्यैव बाधहेतुत्वे ऽपि समवायस्यैव बलाबलचिन्ताविषयत्वात्समवायग्रहणमेव कार्यमिति परिहारं सूचयितुमाह इतीति समवाये सतीतिकरणार्थ समवायाभाव श्च महिषवद्विरोधसम्भवे ऽप्येकेन इतरप्रतिबन्धायोगात् सर्वेषां तुल्यत्वापत्तेर्बलवदबलत्वायोगादित्याशयः। समिद्यागादीनामङ्गानामवान्तरोपकारभेदे ऽपि परमोपकाराभेदेन भिन्नोपकारसाधनशेष भेदाभावात् प्रमाणसमवय्येकपरमोपकार्यत्वेन चैकस्य शषिणो ऽभिन्नापकारोपकार्यत्वनिबन्धनाधिक्याभावाच्छषसमवाये सत्यपि विराधाभावात्। समवायस्य विरोधव्यभिचारावगते कथ समवायग्रहणाद्विरोधशक्तिसिद्धिरित्याशङ्क्याह यस्त्विति फल भावयेद्यागेनेत्थमित्यपर्यायेण यौगपद्येनाङ्गानां परमोपकारे विधानात् श्रुत्यादीनां च प्रत्येकविनियोजकतया यौगपद्येनानकाङ्गविनियोजकत्वायागात् प्रयोगवाक्यस्यैव विनियोजकत्वावगतेस्तस्य च एकत्वेन शषप्रमाणानां भेदाभावात् समवायस्य च भेदाधिष्ठानत्वात् असमवाय। शेषाभेदस्य च भिन्नोपकारसाधनत्वेनेह विवक्षितत्वात् परमोपकारापेक्षया च शेषाणां भिन्नोपकारसाधनत्वाभावात् असमवाय इत्युक्ते प्रात्यात्मिकविध्यालोचनयाङ्गानां प्रत्येकमुपकारसाधनत्वावगमात्संहत्यैकोपकारसाधनत्वायोगमाशङ्क्य समिद्यागेन भावयेत् तनूनपाद्यागेन भावयेदिति प्रात्यात्मिकैर्विधिभिर्व्यापारभेदावगते प्रत्येकं बुद्ध्या व्याप्रियमाणानां भृत्यादीनाम् एकस्मिन् छत्रुजयाख्ये स्वाम्युपातानेकव्यापारसाध्ये सहत्य साधनत्ववदङ्गानां प्रात्यात्मिकभिन्नव्यापारधारा संहत्यैकोपकारस्य साधनत्वोपपत्तेः शेषत्वस्यैव उपपत्तिसूचनार्था व्यापारभेदोक्तिः। एवमप्येकस्यैव प्रधानस्य हविर्न्मन्त्रादे शेषस्यैकस्मिन्नेव पुरोडाशप्रथनादौ शेषिणि श्रुत्या लिङ्गेन च विनियोगात् प्रमाणसमवायस्य विरोधव्यभिचारावगतः समवायग्रहणाद्विरोघासिद्धिरित्याशङ्क्य लिङ्गस्यैव तत्र प्रमाणश्रुतेरर्थवादत्रिरभ्यासादिप्रयोजनान्तरार्थत्वात् तन्न प्रमाणसमवाय इत्याह तथेति न्यूनत्वशङ्कापरिहारम उपसहरति तस्मादिति स्तोकशो बलाबलसम्प्रधारणस्य चिकीर्षितस्यौचित्योक्त्यर्थमनेकार्थेति भाष्यमनेकेषु अर्थेषु वाच्यवृत्तिदर्शनादेकार्थवृत्तित्वे च द्वयोर्द्वयोः सम्प्रधारणायोगात् अयुक्तमाशङ्क्यैकार्थवर्त्तित्वोक्तिः। एककालविषया सम्प्रधारणा चेकैकस्याभिप्रेतेत्येवं परिहर्तुमाह तत्रेति सूत्रे कृत्स्नशो बलाबलोक्तेर्भाष्ये स्तोकशः सम्प्रधारणस्यानौचित्यशङ्कानिरासार्थत्वें षण्णामप्येकस्मिन्नेव काले बलाबलकथनीयत्वोक्त्या सूचितम्। एकैकसम्प्रधारणस्याभिप्रेतत्वे द्वयोक्तिरयुक्तेति आशङ्क्यैकैकस्य द्वितीयेन सहेत्येवमर्थत्वेन द्वयोक्तिं व्याख्यातुमाह यत्विति एकेकस्मिन् श्रुत्यादिरूपे ऽर्थे बलाबलवाग्वर्त्तते इत्येवमेकार्थवर्त्तित्वाद्वाच इत्येतावदन्यथा व्याचष्टे एकार्थेति एतदेवोपपादयति तानि हीति बालबल प्रति श्रुत्यादीनां प्राधान्यात् प्रतिप्रधान बलाबलोक्तिरावर्त्तनीयेत्याशयः। एवमप्यैकैकस्य पञ्चमि सह सम्प्रधारणीयत्वात् द्वयोक्तिरयुक्तेत्याशङ्क्याह तत्रेति श्रुत्यादिबाधितेन लिङ्गादिना बाध्यस्य वाक्यादेः वाक्यादिबाधकस्य लिङ्गादेर्बाधकेन श्रुत्यादिनेत्यर्थः। एतदव विवृणाति यानि हीति तत्रेतिभाष्यं श्रुतिलिङ्गबलाबलसम्प्रधारणस्य प्राधान्योक्त्यर्थत्वेन व्याचष्टे तत्रेति किम्पुनरित्युदाहरणप्रश्नभाष्यम् अनकोदाहरणप्रश्नभाष्यम् अनेकोदाहरणसद्भावात् अयुक्तमाशङ्क्य न किञ्चिदुदाहरणं सम्भवतीत्येवमाशयत्वेन व्याचष्टे किमिति केवलस्य पदस्य श्रवणसामर्थ्याभ्यां विनियोगादर्शनाच्छ् रुतिलिङ्गयोः स्वकीयस्य विनियोगसामर्थ्यस्य वाक्यीयविनियोगसामर्थ्याद्विवेको न लक्ष्यतइत्यर्थः ऐन्द्येत्युत्तरभाष्य विवेकहेत्वनभिधानादयुक्तमाशङ्क्याह [८३८।२] वक्ष्यमाणेति अत्रेति सन्देहभाष्यमाहोस्विल्लिङ्गमिति भाष्ये लिङ्गबलीयस्त्वोक्त्यैन्द्रस्यैवेत्यपि नियमस्य उक्तत्वाद्यदि तु लिङ्गं बलीय इत्यस्मिन्नुज्जीविष्यमाणत्वादय तर्हि विरोध इति भाष्ये चोपपादयिष्यमाणत्वादविरोधात् कः स्वल्वपीतिभाष्येण समुच्चयस्यापि वक्ष्यमाणत्वात्। चतुर्थसन्देहप्रतीतेर्न्यूनमाशङ्क्योपलक्षणार्थत्वेन व्याख्यातुमाह किमिति यदीति सन्देहहेतुभाष्यमप्युपलक्षणार्थत्वेन व्याख्यातुमाह यदीति एन्द्र्यधिकरणे श्रुतिबलेन मन्त्रस्य यथार्थत्वाभिधानात् पौनरुक्त्यमाशङ्क्याह यत्त्विति का पुनरिति प्रश्नभाष्य श्रुतेः ऐन्द्रया गार्हपत्यमितिद्वितीयाविभक्तिलिङ्ग मन्त्रेषु वचनसामर्थ्यमिति प्रकरणाधिकरणोपक्रमभाष्ये स्वरूपस्योक्तत्वात् अयुक्तमाशङ्क्य श्रुतिलिङ्गयार्वाक्याद्विवकाभावाश्रयत्वेन व्याचष्टे तेनैवेति केवलपदप्रयोगाभावादिति वार्त्तिकोक्तेन सर्वेषु वाक्यत्वाशयेन श्रुतिलिङ्गरूपे ऽर्थे वाक्यत्वभ्रान्त्या पूर्वोक्तमपि स्वरूपं पृच्छतीत्यर्थः। श्रुतिरित्युत्तरभाष्यं भ्रान्तिनिरासकविवेकानभिधानादयुक्तमाशङ्क्य येन यत्तावच्छब्दस्येत्यादिभाष्ये वक्ष्यमाणविवेकाभिप्रायेणोदाहरणाभावाशयस्य प्रश्नस्येन्द्र्येतिभाष्येणोत्तरमुक्तं तेनैवाभिप्रायेणेदमप्युत्तरमित्याह तत्रेति प्रश्नशेषनिरास विनोत्तरत्वायोगात्। उत्तरोक्त्या तेनैवाभिप्रायेणेतिपदद्वयानुषङ्गस्तेनैवेत्यस्य च वक्ष्यमाणविवेकविषयत्वपरामर्शित्वं सूचितम् अथेति प्रश्नभाष्यं वाक्यस्य श्रुतिलिङ्गाभ्यां विवेकाभावाशयत्वे व्याचष्टे परः पुनरिति संहत्येत्युत्तरभाष्याशयमाह सिद्धान्तेति पदसमूहस्यैकवाच्याभावादयुक्तमाशङ्क्य द्वेधा व्याचष्टे यद्यपि चेति वाक्यार्थङ्गमयन्ती सतीत्याद्यव्याख्यानेन गमनमात्रलक्षणार्थो ऽभिदधाति द्वितीये त्वेकेन पदाभिहितैकगम्यमानेन वा क्यार्थेन पदसङ्घातस्य प्रयुक्तत्वात् सङ्घात पदार्थ स्वस्वपदार्थम भिदधति पदानि वाक्यमित्यर्थः। पदार्थाभिधानानपेक्षस्य पदस ङ्घातस्य वाक्यार्थवाचिताया उपसंहारस्य उपक्रमानुरोधवृत्तित्वेन वाक्यार्थव्याख्यासिद्धान्तभङ्गापत्तः। पदार्थाभिधानद्वारतोक्ता प्रश्नाशयविवरणार्थं यदित्यादिभाष्यं भाष्यं व्याचष्टे तदिति वेदे मन्त्रव्यतिरिक्तस्य शब्दस्य लिङ्गविनियोज्यत्वाभावात् प्रकरणोपक्रमे मन्त्रविनियोगहेतुलिङ्गस्वरूपप्रदर्शनार्थ मन्त्रेषु वचनसामर्थ्यमित्युक्तम्। कारकविभक्तिश्रुतेरेव च विनियोगहेतुत्वात्कारकविभक्त्युपलक्षणार्थद्वितीयाविभक्तेः श्रुतितोक्ता का पुनरत्र श्रुतिः। किं लिङ्गमित्यनेन त्वैन्द्र्युदाहरणे ऽत्र शब्देन श्रुतिलिङ्गयोः स्पृष्टयोरिन्द्रशब्दस्य दवताभिधानसामर्थ्यं लिङ्गमित्युक्तम्। गार्हपत्यं प्रातिपदिकान्वयं च विना विभक्तिमात्रात् गार्हपत्यप्राधान्याप्रतीतेः लिङ्गविरोधाभावेन बलाबलं विनोदाहरणत्वाप्रसङ्गात् गार्हपत्यश्रवणश्रुतितोक्ता इह पुनः श्रुतिलिङ्गवाक्यानाम् लक्षणतो विवेकार्थं सामर्थ्यमात्रस्य लिङ्गलक्षणत्वे ऽप्यर्थान्तरविषयत्वे लिङ्गस्य श्रुतिवाक्याभ्यां विवेकस्पष्टविषयत्वाच्छब्दविषयलिङ्गस्य श्रुतिवाक्याभ्यां विवेकार्थाभिधानसामर्थ्यलक्षणं यदर्थमभिधातुं सामर्थ्यं तच्छब्दस्य लिङ्गमिति वदतोक्तं विध्यभिधानश्रुत्या लिङ्गवाक्याभ्याम् अविवेकशङ्कायां तद्वदेव विनियोगश्रुतिरपि अविवेकापन्नपदार्थस्य स्वरूपेणान्वितत्वेनैकार्थत्वाभिधानेन तच्छ्रवणमितिकृत्वा श्रुतिरिति तच्छब्दाध्याहारेण श्रुतिमात्रलक्षणमुक्त्वा श्रोतृजन्यस्य श्रवणशब्दवाच्यत्वाप्रसिद्धेः शब्दजन्यार्थज्ञानाख्यस्याभिधानस्य श्रवणशब्दवाच्यत्वायोगात् पर्यायश्रुतिवाच्यता न युक्तेत्याशङ्क्य सो ऽर्थः श्रुत्यावगम्यतइति कृत्वा श्रुतिजन्यार्थावगमाख्यमभिधानं लक्षणया श्रुतित्वेन व्यपदिश्यतइत्युक्तं व्यवायार्थज्ञानस्यापि तर्हि शब्दश्रवणाख्यश्रुतिजन्यत्वाच्छ् रुतित्वापत्तिरित्याशङ्क्यापदार्थाभिधानानपेक्षाच्छब्दश्रवणाद्यो ऽर्थो गम्यते स एवानया श्रुत्या गम्यतइतिव्यपदिश्यते न तु पदार्थाभिधानद्वारा गम्यमानो वाक्यार्थ इत्युक्ते संहत्यार्थमित्यनेन तु वाक्यमात्रलक्षणस्यैवोक्तत्वान्नेहान्यलक्षणं वाच्यं इत्येकार्थमित्यनेनोक्तमित्येवं भाष्य व्याख्येयम्। तदेतदित्यादिना लिङ्गादित्यन्तं भाष्यं श्रुत्यादित्रयसङ्करनिरासार्थत्वेन व्याख्यातुं शङ्कां तावदाह सामर्थ्येति एतदेव विवृणोति तथा हीति एतच्छङ्कानिरासार्थत्वेनार्थतो भाष्यं व्याचष्टे सत्यमिति यद्यपि ब्राह्मणे मन्त्रे च शक्तिरभिधानाख्या श्रुतिश्चास्ति तथाप्यैद्र्या गार्हपत्यस्य प्रकाशनोक्तिः कार्येति शक्त्या नावगम्यते इन्द्राङ्गत्वमतिश्चैन्द्र्या न श्रवणेनाभिधानद्वारा कृतेति श्रुतिलिङ्गयोः परस्परं विवेकः शक्यो वक्तुमित्याशयः। अभिधानद्वारत्वसूचनार्थम् कारितेत्युक्तम् पूर्वार्द्धं व्याचष्टे या हीति ब्राह्मणपदस्थशक्त्यैन्द्र्यां गार्हम्पत्याङ्गतावगम्यते मन्त्रपदस्थया वेति विकल्प्याद्यपक्षे अन्यस्थया शक्त्यान्यविनियोगाद् ब्राह्मणपदस्थया शक्त्या नैन्द्रो मन्त्रो गार्हपत्याङ्गमवगम्यतइत्युक्ते ब्राह्मणपदानामे व तर्हि स्वया शक्त्या स्वेषु स्वेषु ऐन्द्रीत्यादिविनियोगसम्भवात् श्रुतित्वादभिमतेषु ब्राह्मणादिपदेष्वपि विनियोगहेतुशक्त्याख्यलिङ्गोपपत्तेर्न श्रुतेर्लिङ्गाद्विवेको ऽवगम्यतइत्याशङ्क्य लौकिकार्थविनियोगहेतुत्वे ऽपि तस्य लिङ्गस्य वैदिकविनियोगहेतुत्वाभावात् विवेकासिद्धिरिति परिहारसूचना यैतान्येवेत्युक्तम् प्रतिपद शक्तिभेदे ऽपि सामान्याशयेनैकवचन गार्हपव्योक्तावशक्तस्यैन्द्रस्य मन्त्रस्य गार्हपत्ये ऽपि विनियोगान्मन्त्रपदस्थया शक्त्या मन्त्रपदस्थङ्गार्हपत्याङ्गत्वं भविष्यतीति द्वितीयपक्षनिरासार्थं ब्राह्मणस्थैः पदैः मन्त्रपदस्थामशक्तिमिव शक्तिमप्यनपेक्ष्य स्वकीयेप्सिततमत्वाद्युक्तिसामर्थ्यवशात् ईप्सिततमत्वादिषु प्रवृत्तेरैन्द्रस्य मन्त्रस्य गार्हपत्याङ्गमन्त्रत्वमभिधीयतइत्युक्त कथमशाब्दस्य अङ्गत्वोपपत्तिरित्याशङ्क्य मन्त्रशक्तिग्रहणात्प्राक् स्वसामर्थ्यवशेनाङ्गत्वाभिधाने निष्पन्ने तदन्यथानुपपत्तिगम्यत्वेनाङ्गत्वाभिधानात्प्राक् शक्त्यग्रहणात् गृह्यमाणत्वरूपेण शक्त्यनपेक्षोक्तानां स्वरूपेणेति न चेत्यनेनोक्ते ऽनवगतापि विनियोगहेतुर्भविष्यतीत्याशङ्क्य ज्ञातस्यैव भावस्य परोक्षार्थज्ञापकत्वनियमान्न ज्ञातायाः शक्तेरङ्गत्वाख्ये विनियोगे हेतुत्वोपपत्तिरित्याशयेन तेनेत्यनेन परिहृते विनियोगहेतुत्वाभावे कल्प्यमानानर्थक्यमाशङ्क्य कारकहेतुत्वात्कल्पनार्थवत्वे यद्यपीत्यादिना उक्ते शेषिज्ञापनेनैव मन्त्रस्याङ्गत्वादज्ञातशक्तिकस्य च ज्ञापकत्वायोगात् अङ्गिज्ञापकरूपे ऽङ्गत्वे कारकताप्ययुक्तेत्याशङ्क्य विनियोगवाक्यस्य पौरुषेयत्वे सति प्रमाणान्तराग्राह्यस्यार्थस्य स्वयमाक्षेपाशक्तेरङ्गत्वाभिधानात्। प्राक् विनियोज्यमन्त्रप्रयोक्तुः शेष्यभिधानशक्तिज्ञापनमपेक्ष्यं स्यात् वेदत्वेन त्वस्यापौरुषेयत्वात् स्वय प्रमाणान्तरावगतगौणशक्त्याक्षेपत्वोपपत्तेः मन्त्रप्रयोगकाले शक्तिज्ञानापेक्षायामपि विनियोगकाले ऽनपेक्षणात् युक्ता सद्भावमात्रेण शक्तेः कारकतेति यदि त्वित्यनेन सूचयित्वा पूर्वार्द्धोक्तश्रुतेर्लिङ्गादिविवेकस्तस्मादित्येनेनोपसंहृतः। अङ्गत्वज्ञापनाख्यविनियोगविषयत्वेनाङ्गत्वं लक्षणया विनियोगत्वेनाभिप्रेत्य विनियोगस्याभिधेयत्वोक्ति लिङ्गस्य श्रुतितो विवेकार्थम् उत्तरार्द्धं व्याचष्टे कदेति इन्द्राभिधानशक्त्यालोचनात् मन्त्रस्येन्द्राङ्गत्वशक्तिज्ञाने सत्यङ्गत्वं कस्मान्नाभिधीयतइत्याशङ्क्य मन्त्राङ्गत्वस्य सिद्ध्यर्थासौ शक्तिर्नाङ्गित्वाभिधानसिद्ध्यर्थेति कृत्वाभिधानतया मन्त्रस्याङ्गत्वाभिधायिता युक्तेनि परिहारसूचनार्थं न चेत्युक्तत्वाभ्युपगम्याङ्गत्वाभिधान विधिं विना विहितस्यापि अङ्गस्य सत्क्वादिवदनादरणीयत्वात् मन्त्रस्य चाभिधायकत्वेनाभिधानश्रुत्येन्द्रस्य सन्त्रस्येन्द्राङ्गत्वसिद्धिरिति न विहिता इत्यनेनोक्ते ब्राह्मणे ऽप्यङ्गत्वविधानस्य प्रागनुक्तत्वात् कस्य चिदभावस्य शङ्कां निराकर्त्तुम् ब्राह्मणे त्वित्युक्तम् यथा ब्राह्मणेऽभिधानान्यथानुपपत्तिगम्यत्वेनाभिधानात् पश्चाच्छक्तेर्ज्ञानाद्विनियोगहेतुत्वायोगेनाभिधानस्यैव प्राथम्यात्विनियोगहेतुत्वं तथा मन्त्रे ऽप्यभिधानस्यैव प्राथम्याद्विनियोगहेतुत्वापत्तेर्न लिङ्गस्य श्रुतितो विवेकः शक्यो ऽवगतुमित्याशङ्कते ननु चेति इन्द्रस्वरूपमात्रस्याभिधानमिति विवेकहेतुमाह सत्यमिति विनियोगानभिधाने विनियोगशक्तेः कल्पकाभावेनासिद्धेः। स्वरूपाभिधानशक्तेश्चाभिधानमात्रहेतुत्वेन विनियोगहेतुत्वाभावात् न शक्त्येन्द्राङ्गत्वसिद्धिरित्याशङ्क्याह अन्यैव चेति स्वरूपाभिधानान्यथानुपपत्त्या तच्छक्तौ कल्पितायां स्वरूपाभिधानशक्तिबलेन विनियोगयोग्यत्वाख्या शक्तिःकल्प्यते ततश्च विनियोक्तुं शक्यत्वात् कल्पितया श्रुत्या विनियुज्यतइत्याशयः। पाकादौ शक्तस्यापि देवदत्तादेर्विनियोक्तारमननुविदधानस्य विनियोक्तुमशक्यत्वदर्शनाद्यो यत्कर्तुं शक्तस्य तत्र विनियोक्तुं शक्य इति नियमानुपपत्तेः कथमभिधानशक्त्या विनियोक्तुं शक्यत्वं कल्प्यतइत्याशङ्कां प्रश्नपूर्वं निरस्यति कथमिति असौ शक्तो न ह्यशक्त इति कर्मोत्पन्ननिष्ठान्ताभ्यां शक्यत्वाशक्यत्वोक्तेः प्रकरणाम्नातस्य मन्त्रस्य प्रकरण्यङ्गत्वे ऽवगते कथं तस्योपकरिष्यतीत्यपेक्षायां शक्त्यालोचनया अनेन मन्त्रेणेद्रमभिदध्यदिति विनियोजकश्रुतिकल्पनादवश्यविनियोज्यत्वावगतेः विनियोक्तुमशक्याभिधानशक्तिकल्पितयापि श्रुत्युक्तिविनियोज्यत्वायोगात् अभिधानशक्त्या विनियोज्यत्वे शक्य इत्यर्थः। श्लोकव्याख्यानाय शक्तश्चेन्न विनियुज्यते मा विनियोजि न ह्यवस्यविनियोज्यता केन चिदवगतेत्याशङ्क्याभिधानशक्त्यैव श्रुतिकल्पनाद्वारा ऽवश्यविनियोज्यतावगतेतिसूचयितुमाह ततश्चेति हेत्तौ चशब्द ततो ऽभिधानत्वाच्छरुतिकल्पनाद्वारा यो विनियोगो ऽभिमतः सद्वितीयाद्विनियोक्तुं शक्यत्वरूपात् सामर्थ्यात्कल्पयिष्यत उपपादयिष्यत इत्येतदर्थमभिधानशक्तिबलेनाविनियोक्तुं शक्यत्वं कल्प्यतइति क्रियार्थायां क्रियायाम् उपपदस्मृतेन लृट्प्रत्ययेन विनियोगशक्ति कल्प्यतइत्युपपदार्थीकृतविनियोक्तुं शक्यत्वकल्पनक्रियया कल्पयिष्यत इति क्लृप्तसामर्थ्यवाचककल्पयत्युक्तोपपादनक्रियार्थत्वाभिधानार्थ अभिधानशक्तिमात्रात् विनियोगोपपत्तेर्विनियोक्तुमशक्यत्वकल्पना न कथितेत्याशङ्क्य न प्रथमसामर्थ्यमात्रात् विनियोगोपपत्तिरित्याह नेति एतदेवोपपादयति प्रथमेन हीति पूर्वेणावगतो ऽपि विनियोगो द्वितीयं विना न निर्वहतीत्याशयः। श्रुतिलिङ्गयोर्विवेकमुक्तं स्पष्टयति अत इहेति श्रुतौ जातत्वरूपेणासत्येव सामर्थ्ये मन्त्रस्याङ्गतोच्यते लिङ्गे त्वनुक्ताङ्गत्वसामर्थ्यमात्रं प्रतीयते इत्यर्थः। श्लोकं व्याचष्टे [८४१।३] अविद्यमानमवति ज्ञानत्वरूपेणाविद्यमानमेवाभिहितस्याङ्गत्व विधानात् कल्प्यमित्यर्थः। तदेतदित्यस्य श्रुत्यादित्रयपरामर्शित्वसूचनार्थं सामर्थ्यपूर्वकत्वादित्यादिवार्त्तिकेनानाशङ्कितमपि श्रुतिलिङ्गाभ्यां वाक्यस्याविवेकं निरस्यति वाक्ये पुनरिति सर्वेष्वेवेति भाष्यात् श्रुतिलिङ्गविरोधोदाहरणे श्रुत्यादित्रयविवेककथनस्य सर्ववाक्येषु विवेकज्ञानार्थत्वावगतेर्वाक्यप्रकरणादिविरोधोदाहरणेषु प्रकरणादिविवेको ऽपि कस्मात् भाष्ये न पृष्टः कथितो वेत्याशङ्क्याह कथं भावेति तदाचष्टइत्यस्मिन्नर्थे विवेचिते इति णिन् प्रत्यययोगेन कथित इति वाच्ये प्रत्ययानुग्रहार्थो धातुः व्याख्याते ऽर्थे श्रुत्यादित्रयशङ्कानिरासप्रतिज्ञानार्थं तदिति भाष्यावयवं योजयति तदिति लिङ्गाच्छ् रुतिविवेकोपपादनार्थं न त्वेवमिति भाष्यावयवं योजयति गार्हपत्ये पुनरिति का पुनरत्र श्रुतिरित्यादिभाष्येण श्रुत्यादिविवेकोक्तेः। ऐन्द्र्युदाहरणे श्रुतिलिङ्गविरोधोपपादनार्थत्वसूचनार्थत्वेन यदि त्विति भाष्यं व्याख्यातुमाह इतीति यद्येवमित्यादिभाष्ये चोभयोर्वाक्यत्वात् श्रुतिलिङ्गविरोधोदाहरणत्वायोगे शङ्कितेनैव श्रवणात् गम्यते नापि शब्दान्तरस्य समीपे उच्चरिरितसामर्थ्यमप्यस्ति येनैतत् गम्यतेत्यनेनैन्द्रीत्वस्य वाक्यीयस्य श्रौतत्वनिरासे ऽपि न त्वेवमस्यामृचि सामर्थ्यमालोच्यैव वाक्यात् ऐन्द्र्या गार्हपत्योपस्थानं भवतीति अनेन गार्हपत्याङ्गत्वस्य लैङ्गिकत्वनिरासे ऽपि वाक्यीयत्वानिरासात् वाक्यीयत्वाभ्युपगमे प्रतीते यथा गार्हपत्यशब्दमात्रात् गार्हपत्यप्राथम्यप्रतीतावपि ऐन्द्रत्वस्य वाक्याधीनत्वादैन्द्रीवाक्ये वाक्यस्य विनियोजकताभ्युपगम्यते तथेन्द्रशब्दमात्रस्य लिङ्गादिन्द्राङ्गत्वप्रतीतावपि शेषाणां मन्त्र पदानाम् इन्द्राङ्गत्वस्य वाक्याधीनत्वात् केवलस्य च पदस्याप्रयोज्यत्वेनाविनियोजकत्वात् मन्त्रे ऽपि वाक्यस्य विनियोजकताभ्युपगन्तव्येत्याशङ्कोत्थानादथ वेति भाष्येणोभयत्र वाक्यस्य विनियोजकत्वे निरस्ते मन्त्रे केवलस्य पदस्याभिधानाशक्यत्वे ऽनिराकाङ्क्षीकरणसमर्थपदान्तरान्वयं विना सम्पूर्णव्यवहारानङ्गत्वेनाप्रयोज्यतया विनियोक्तुमशक्यत्वात् इन्द्राभिधानशक्तेन्द्रपदैकवाक्यत्वाच्चावशिष्टानामपि वदानां विशेषणाभिधानद्वारेन्द्रप्रकाशनशक्त्युपपत्तेः पदमात्रे च लैङ्गिकविनियोगस्य पर्यवसानाभ्युपगमे लिङ्गविरोधाद्वाक्येन कृत्स्नमन्त्रविनियोगापत्तेरिन्द्रपदसामर्थ्येन कृत्स्नमन्त्रविनियोगाय पदान्तरामाम्। इन्द्रविशेषणाभिधानासामर्थ्यसम्पादनमात्रे वाक्यव्यापारावगमात् लिङ्गेनैव कृत्स्नमन्त्रविनियोगसिद्धेर्न वाक्यस्य विनियोजकतेतीन्द्रशब्दवत् कृत्स्नस्य मन्त्रस्येन्द्रप्राधान्यमिति भाष्येणोपपादितत्वात् लिङ्गत्वमभ्युपगम्य ब्राह्मणवाक्यस्य विनियोजकत्वनिरासयुक्त्यनभिधानादेव तर्हि लिङ्गवाक्ये इति भाष्येण पुन प्रत्यवस्थानमिति न्युत्क्रमेण परेषां भाष्यव्याख्यां दूषयितुम् उपन्यस्यति अत्रेति प्रश्नपूर्वकमपकर्षहेतुमाह कुत इति शङ्कावादिनैव तर्हि लिङ्गवाक्ये इति लिङ्गशब्देनेन्द्रोपस्थानकस्य प्रमाणस्य लिङ्गत्वाभ्युपगमात् पुनर्वाक्यत्वाभिधानाशक्तेस्तं निरासार्थम् अथ वेति भाष्यमेवं तर्ही त्यतःपश्चादसम्बन्धमित्याशयः। क्व तर्हि अथ वेत्ययं ग्रन्थो योजनीय इत्यपेक्षायां यत्र यद्येवमिति भाष्ये द्वयोर्वाक्यत्वं शङ्क्यते तत्रैव तदभिधीयतइत्यादिना ततो गार्हपत्येन द्वयोर्वाक्यत्वसम्भवे ऽपि श्रुतिलिङ्गयोस्तावदन्योन्यविवेको ऽस्तीत्युक्ते वाक्याद्विवेकोक्तये ऽय वेत्यनेनैकवाक्यत्वव्यापारनिरासो च कल्प्यते इत्यभिधानपूर्वकं श्लोकं व्याचष्टे यत्रति [८४२।३] दूषयति न त्विति यद्यवमिति भाष्येण श्रुतिलिङ्गयोर्वाक्यत्वोक्त्या वाक्यादविवेकं शङ्कित्वा श्रुतिलिङ्गवाक्यानि विवेक्तव्यानीति अनेन द्वितीयासामर्थ्यात् गार्हपत्त्यप्राधान्यप्रतीते श्रुते लिङ्गत्वेन लिङ्गादविवेक मन्त्रेन्द्राभिधानात् इन्द्रप्राधान्यात् इन्द्रप्रतीते लिङ्गस्य श्रुतित्वेन श्रुतेरविवेकः वाक्ये चर्ग्वेदृष्ट्वाग्नेरजायतेत्यादिभिरुपक्रमस्थैः पदैर्वेदाभिधानादुच्चेर्ऋचेत्यादीनां चोपसंहारस्थानाम्। ऋगादिशब्दानां वेदाभिधानसामर्थ्यात् उच्चैस्त्वादीनां वेदधर्मत्वप्रतीतेर्वाक्यस्य श्रुतिलिङ्गाभ्याम्। अविवेक इति शङ्कात्रयसूचनाच्छङ्काचतुष्टयमध्ये कदा चनस्तरीत्यनेन मन्त्रेणेत्यादिभाष्येण लिङ्गश्रुतिवाक्याभ्यां विवेकाभिधानात् तृतीयाशङ्कालिङ्गांशे चाद्यां परिहृत्य नत्वेवमित्यादीना श्रुतेर्लिङ्गात् विवेकाभिधानात् द्वितीयां परिहृत्य वाक्यस्य श्रुतिलिङ्गाभ्यामविवेक इत्यनिष्टापादनं कृत्वा तदेतत्सर्वेष्वेव समवेतं विविक्त च दृश्यतइति प्रतिज्ञामात्रेण निरासासिद्धेस्तत्परिहारमुपपाद्य तत्परिहारकाले ऽपि लिङ्गयोर्वाक्यादविवेक इत्याद्यशङ्कां लिङ्गांशेनापि शब्दान्तरस्य समीपे उच्चरितस्य सामर्थ्यमस्तीत्यनेन परिहृतत्वादुपेक्ष्यैवं तर्हीत्यनेन श्रुत्यंशे ऽनुभाष्य नैतदेवमित्यनेन श्रुतेर्वाक्यादविवेके ऽपि श्रुतेरेव लिङ्गविरोधेन वाक्यस्येत्यपि विवेकाभ्युपगमेन परिहारे दत्ते लिङ्गस्यापि तर्हि वाक्यादविवेकाभ्युपगमापत्तेः कृत्स्नस्य मन्त्रस्य श्रुत्या गार्हपत्ये विनियोगात् कृत्स्नस्य मन्त्रस्यैन्द्रे विनियोजकेन वाक्येन विनैव श्रुतेर्विरोधप्रतीतेः पदमात्रविनियोजकेन लिङ्गेन विरोधाभावात् श्रुतिवाक्ययोरसम्प्रधारणापत्तेर्न श्रुतिलिङ्गविरोधोदाहरणता युक्तेति लिङ्गांशे वाक्यत्वादाशङ्कापरिहारार्थत्वाशङ्काया नापि शब्दान्तइत्यनेन परिहृताया अपि श्रुतिदृष्टान्तेन पुनरुज्जीवनमाशङ्क्याथ वेत्यननोभयोर्वाक्याद्विवेकाभिधानात्परिहारः सम्भवतीत्याशयः। एतच्चाथवेत्यस्याद्यशङ्कापरिहारार्थादादौ निवेशो युक्त इत्यपकर्षवाद्याशयमापाद्योक्तं प्राक्वाथ चेत्यनेनोभयोर्वाक्यत्वे निरस्ते श्रुतेर्वाक्यत्वशङ्कानुत्थानात् एवं तर्हीत्यत्र वाक्यशब्दो न युज्येतेत्याह अपि चेति अपकर्षवाद्युक्तम् अपकर्षकारणं त्रेधा निरस्यति अत यो देवताविशेषं वक्तुं शक्नोति इन्द्रशब्दः सो ऽस्यामृचि विद्यते कर्मसमवेतत्वात् चैन्द्रशब्दोक्तया देवतया प्रयोजनमस्तीति एवशक्त्यालोचनमात्रेण सा उपस्थातव्या इत्येवं गम्यते न त्विन्द्रशब्दश्रवणमात्राच्छब्दान्तरसमीपाद्वेत्युक्ते कथं मिन्द्रशब्दशक्तिमात्रात् कृत्स्नस्य मन्त्रस्येन्द्राङ्गत्वावगतिरित्याशङक्य येन कारणेनेन्द्राभिधायकः शब्दो ऽस्मिन् मन्त्रे प्रयुज्यते तदेकवाक्यत्वेन चावशिष्टानि पदानि प्रयुज्यन्ते तेन कारणेन कृत्स्नस्य मन्त्रस्येन्द्राङ्गतावगम्यते इति शक्त्येकवाक्यत्वाभ्यां मन्त्रस्येन्द्रागतावगमाभिधानात् वाक्यसङ्कीर्त्तनमेव लिङ्ग श्रुतिलिङ्गविरोधाभिधायिनो ऽभिमत इति मन्यमानेनाक्षेप्ता यद्येव विधं लिङ्गं तवाभिमतं तथापि लिङ्गवाक्यविरोधापत्तेः श्रुतिविरोधादाहरणता न युक्तेत्यभ्युपेत्यवादमात्रेण लिङ्गत्वस्योक्तत्वात् आक्षेप्तुर्वाक्यत्वाभिप्रायस्य नापिशब्दान्तरस्य समीपे उच्चरितस्य सामर्थ्यमस्तीत्यनेन केवलस्य वाक्यस्य विनियोजकत्वं निरस्यतापनीतस्यापि लिङ्गसहितं वाक्यं विनियोजकं भविष्यतीति शेषमपनेतुमथ वेत्यनेन उभयत्र वाक्यस्य निरासो युज्यते यद्वा श्रुतेरेव केवलया वाक्यात् विवेकायैन्द्रीवाक्यस्थस्यैवैकवाक्यत्वस्य विनियोग प्रत्यकारणता विवक्षिता न मन्त्रस्थस्य दृष्टान्तार्थं तु मत्रस्थस्यैकवाक्यत्वस्य कारणत्वं पूर्वोक्तमेव प्रसङ्गात् स्मारितमित्येवं यथान्यासमेव स्थिते ग्रन्थसन्दर्भे व्याख्यानं कार्यमिति भावे कृत्योत्पत्तेरर्थः स्वमतेन यथान्यासमेव व्याख्यातुमेवं तर्हीति भाष्यस्य वाक्यं ह्येतदित्यवयवं ऐन्द्र्याः केचिदुपस्थानार्हपदार्थं प्रति तृतीयाङ्गत्वप्रतीतेर्गार्हपत्यस्य च कं चिन्मन्त्रं प्रति द्वितीययाङ्गत्वप्रतीतेर्वाक्यत्वे सत्यपि श्रुतेरपि विनियोजकत्वासम्भवेन श्रुतिलिङ्गविरोधसम्भवादयुक्तमाशङ्क्योपपादयति तत्रेति श्रुतेर्वाक्यात् विवेकाभावे ऽपि श्रुतेरेवात्र लिङ्गविरोधो न वाक्यस्येत्याशङ्कापरिहारार्थं नैतदिति भाष्यमैन्द्रयारुणादिवाक्ये श्रुत्या क्रियामात्रे वाक्येन क्रियाविशेषे प्रकरणेन प्राकरणिके विनियोगं इत्येवं वादिमते ऽथ वेत्यस्य वाक्यव्यापारनिरासार्थत्वायोगात् भाष्यद्वये ऽपि श्रुतिविशेधमात्रोक्तेः पौनरुक्त्यमाशङ्क्य प्र।?।तिपादकेश्रुतिविरोधोक्त्यर्थत्वेन व्याचष्टे नैतदिति गार्हपत्यशब्दस्य यौगिकत्वात् गौणत्वाद्वेन्द्रार्थत्वाभावे ऽपि द्वितीयाया सप्तम्यर्थवृत्त्या गार्हपत्यसमीपे तिष्ठन्निन्द्रमुपतिष्ठेतेत्यैन्द्रया विरोधो भविष्यतीत्याशङ्क्य विभक्तिश्रुत्यनुग्रहीतया प्रातिपदिकश्रुतेर्विरोधोक्त्यर्थमग्निसमीपं चेति भाष्यावयवं व्याख्यातुम् अग्निसमीपं वा लक्षयेदित्युक्तम्। समुदायप्रसिद्धिपरित्यागोक्त्या गौणत्वसामीप्ये लक्षणयोर्निरासः। अथ वेतिभाष्ये प्रतिपदिकश्रुत्यनुगृहीतिवभक्तिविरोधोक्त्यर्थत्वेन व्याचष्टे अथ वेति श्रुतिविरोधयोः प्रातिपदिकविभ [८४३।५] क्तिभेदादपौनरुक्त्ये ऽपि लिङ्गविरोधस्य नापि शक्त्यन्तरस्य समीपे रुच्चरितस्य इत्यनेन मन्त्रे वाक्यस्य विनियोजकत्वनिरासेनोक्तत्वात् श्रुतिवच्च लिङ्गवैलक्षण्यानुपलम्भान्नैकवाक्यत्वादिन्द्रप्राधान्यं किं तु इन्द्रशब्दवत्वात् मन्त्रस्येति लिङ्गस्यैव श्रुत्या विरोधो न वाक्यस्येति लिङ्गविरोधोक्तेः कथमपौनरुक्त्यम् इत्याशङ्क्य नापीत्यनेन केवलस्य वाक्यस्य विनिोयजकत्वे निरस्ते ऽपीन्द्रशब्दस्य लिङ्गेनावशिष्टानां च पदानां वाक्येन विनियोगात् लिङ्गसहितस्य वाक्यस्य कृत्स्नविनियोजकत्वावगतेः पदमात्रविनियोजकत्वेन च लिङ्गस्य कृत्स्नमन्त्रविनियोजकतया श्रुत्या विरोधाभावात् वाक्यस्यैव श्रुत्या विरोध इत्येवं वाक्यत्वविषयदीर्घद्वेषदोषापनयार्थं केवलस्य सम्पूर्ण्णव्यवहारानङ्गत्वेनाप्रयोज्यतया विनियोगानर्हत्वात् इन्द्रविशेषणेनोक्तिद्वारा चावशिष्टानामपि पदानामिन्द्राक्तिशक्त्युपपत्तेः श्रुतिवाक्याभ्यां सामान्यविशेषविनियोगवच्च पदमात्रकृत्स्नमन्त्रविनियोगयोरन्योन्योपकारित्वाभावेन विरोधाल्लिङ्गविरोधिवाक्येन स्योनादिमन्त्रवत् कृत्स्नमन्त्रविनियोगायोगात् लिङ्गविनियोगापेक्षितपदान्तराणामिन्द्रविशेषणोक्ति सामर्थ्यस्य सम्पादनमात्रे वाक्यस्य व्यापारो न विनियोग इत्येवम्। एकवाक्यत्वस्य विनियोगव्यापारनिरासमात्रार्थं नैकवाक्यत्वात् इन्द्रप्राधान्यमित्युक्तमित्येवं परिहरति लिङ्गेति श्रुतिवाक्ययोर्द्वयोरपि अत्र विनियोजकताभ्युपगमे श्रुत्यनपेक्षस्य वाक्यस्य लिङ्गाविरोधाद्वाक्यानपेक्षाया श्रुतेरपि ऐन्द्र्यास्तृतीयाश्रुत्येत्यादिवार्त्तिकोक्तन्यायेनाविरोधात् श्रुतेरेव विरोधो न वाक्यस्येति परिहारो न युक्त इत्याशङ्किताक्षिपति कथं पुनरिति आक्षेपनिरासोक्तेरेतत्परिहारार्थत्वेन भाष्यव्याख्यानापरितोषात्स्वमतेनाप्यथ वेति भाष्यस्य मन्त्रवद्ब्राह्मणे ऽपि एकवाक्यत्वस्य विनियोगव्यापारनिरासार्थत्वेन व्याख्यासूचनार्थं विरोधे शीघ्रप्रवृत्तया श्रुत्या लिङ्गादिकल्प्यश्रुतिप्रतिबन्धवदविरोधे ऽपि क्रियासामान्यस्य विरोधित्वेन साक्षात्परम्पराया वा पुरुषार्थाननुबन्धितया शेषित्वाद्धात्वर्थानवच्छिन्नभावनाश्रयत्वेनासामान्योक्तेः सस्थाधिकरणभाष्ये धात्वर्थानवच्छिन्नाया भावनाया धर्मान्वयस्य निराकरिष्यमाणत्वेन दोषत्वात्। महत्वात्सामान्ये वा विनियोगायोगेन क्रियाविशेषे ऽङ्गविनियोग विना तृतीयाश्रुत्यपर्यवसानात विधेश्च स्वविषयस्य साक्षात्स्वत समीहिताङ्गत्वे समीहित विशेषणसमर्पणद्वारा द्वितीयायाः प्रकृत्यर्थे ऽङ्गविनियोजकत्वख्यातोक्तविधिविहितस्यैवाङ्गस्य द्वितीयाविनियोज्यत्वावगतेरङ्गमात्रविनियोगे पर्यवसानायोगादक्षरश्रवणकृत एवाय गार्हपत्याङ्गप्रत्यय इति वार्त्तिकाच्च विशेषविनियोगएवश्रुतिपर्यवसानावगतेरैन्द्र्या गार्हपत्याङ्गत्वबोधाख्ये विनियागे शीघ्रप्रवृत्तया श्रुत्या वाक्यकल्प्ययुतिप्रतिबन्धाद्विनियोगव्यापारानुपपत्तेर्न वाक्यलिङ्गविरोध इत्येवं परिहरति उच्यत इति कल्प्यश्रुतिप्रतिबन्धसूचनार्था दृष्टान्तोक्तिः। सैव प्रवर्त्तत इति। एवकारेण वाक्यप्रवृत्तिं निरस्ता मुपपादयितुं श्रुतिकल्पनप्रतिबन्धोक्त्यै पूर्वप्रवृत्त्युक्तिः श्रुतेः शीघ्रं प्रवृत्तावपि सामान्यविषयत्वादविरोधे वाक्यप्रवृत्तेश्च निरासाद्वाक्यविराधमाशङ्क्य श्रुतिलिङ्गविरोधवाक्ये चाविरोधं वक्तुं विषयत्वं सूचयितुमाह यच्चेति विशेषविषयत्वं विना प्रतियोगित्वायोगात् प्रतियोग्युक्त्या विशेषविषयत्वं सूचितं परिहाराशयाज्ञानाच्छङ्कते ननु चेति तृतीयया गार्हपत्यमेव प्रत्यैन्द्रयाः शेषत्वोक्तेर्द्वितीयया चैन्द्रीमेव प्रति गार्हपत्यशेषित्वोक्तेः श्रुत्यैव विशेषविनियोगकृतवाक्यस्य विनियोजकत्वायोगात् विशेषविनियोगप्रवृत्त्याश्रुत्यपेक्षितविशषणविशेषान्वयमात्रार्थत्वावगतेश्रुतेरेव लिङ्गविरोधेन वाक्यस्येति स्वाभिमतपरिहाशयविवरणेनाशङ्कां निरस्यति कथमिति एकश्रुतिकृतो ऽन्यो वाक्यकृत इत्येवं प्रत्येक व्यवस्थितेनाङ्गाङ्ग्यन्वयस्य वाक्यकृतत्वाभावाद्वाक्यस्य लिङ्गविरोधाभावे ऽपि श्रुतिकृतस्य सामान्यतो ऽङ्गाङ्ग्यन्वयस्य कथं विरोध इत्याशङ्य विशेषित एवाङ्गाङ्ग्यन्वय श्रुत्या क्रियतइति सूचयितुम् तत्रेत्युक्तम् निष्प्रतिद्वद्न्व्युक्त्या वाक्यस्याङ्गाङ्ग्यन्वये व्यापाराभावः स्पष्टीकृतः क्रीणात्यरुणयेत्यत्र समवायो हि सत्यपीत्यादेस्तु परमते स्थित्वोक्तत्वादिह चारुण्यस्य क्रियासम्बन्धः श्रुत्येत्यादिश्चेतद्ग्रन्थानुसारेणैव व्याख्यातत्वान्न पूर्वापरवार्त्तिकविरोधः। तद्भाष्योक्तं द्वितीयाश्रुतेर्लिङ्गाविरोधमुपपाद्य विध्यानर्थक्यपरिहारायैवेन्द्रव्यतिरिक्ताङ्गत्वस्यैन्द्रया कल्प्यत्वनाख्यातान्वयाधीनत्वात् वाक्यानपेक्षायास्तृतीयावु।?।तिरपि लिङ्गविरोधायोगात्। स्वानभिमतमपि तृतीयाश्रुतेर्लिङ्गविरोधं प्रौढिप्रदर्शनायाह अथ वेति श्रुतिलिङ्गविरोधोपसंहारार्थं तस्मादिति भाष्यं व्याचष्टे तस्मादिति श्रुतिलिङ्गवि [८४४।१] रोधोपपादनस्य सूत्रोक्तसमवायापपादनार्थत्वं सूचयितुम श्रुतिलिङ्ग विरोधोपपादनभाष्यं व्याख्याय भाष्ये शेषव्याख्यानात् प्राक् सूत्रं व्याख्यातु पूर्वपक्षं तावदाह किं तावदिति श्रुत्याद्यनुमानद्वारा लिङ्गादीनां प्रामाण्यात्प्रत्यक्षादिविरोधे च लिङ्गादिभिः श्रुत्यादे प्रत्यक्षश्रुतिविरुद्धयात्येवश्रुतेः कल्पयितुमशक्यत्वात् कथं तुल्यबलतेत्याशयेन प्रश्नपूर्वमुपपादयति कुति इति स्वशक्तेरित्यनेन स्वतः प्रामाण्यात्स्मृतिवैरूप्यं सूचितम्। स्वतः प्रामाण्यस्यापि न क्वचिद्बाधात अप्रामाण्यं प्रत्यक्षादिवद्भविष्यतीत्याशङ्क्याह सर्वत्रेति प्रत्यक्षादावपि किञ्चित्प्रमाणमेव कश्चिच्च प्रमाणाभास एवेति नियतैकरूपप्रकारद्वयातिरिक्ताद्वैरूप्यलक्षणप्रकारान्तराभावात् प्रमाणस्याभासता। आभासस्य वा प्रमाणता नास्तीत्युक्ते स्वतो ऽन्यथात्वाभावे ऽपि वाक्यात्प्रमाणस्य प्रामाण्यं भविष्यतीत्याशङ्क्य बाधकलक्षणत्वात्प्रामाण्यस्य न कदाचित्प्रमाणस्य बाधो बाध्यस्य वा प्रमामतेत्युत्त्का अपि तर्हि प्रमाणाभासा एव बाधिष्य।?। ।?।त्याशङ्क्य प्रत्यक्षस्येन्द्रियसन्निकर्षार्थविषयत्वात् इन्द्रियार्थ।?। ।?॥?।विषयसञ्चार ऽनुमानस्य व्यापकविषयत्वादव्यापकवि।?। ।?॥?।दव्यापकविषयसञ्चारे प्रमाणाभासतेति एवं सर्वेषां वि।?। ।?॥?।न्तरहतुत्वात प्रमाणाभासत्वस्य श्रुत्यादीनां चाभिधेयाच।?। ।?॥?॥?।दितिकर्त्तव्यताकाङ्क्षसमीपाम्नातात्समानदेशात्समाख्या ।?॥?। स्वविषयाद्विषयान्तरसञ्चाराभावेन प्रमाणाभासत्वं न।?। स्तीत्युक्तम। न चानुत्पत्तिविनाशसंस्कारोच्छेदे फलापहार णां बाधप्रकाराणां मध्ये कश्चिदत्र सम्भवतीत्याह चेति बाध्यत्वाभिमते विज्ञाने स्मृत्याख्यकार्यदर्शनेन नुच्छेदोपपादनार्थं स्मृतिहेतुतोक्ता तुल्यबलत्वं पूर्वपक्षं सप्रयोजन।?। मुपसहरति तस्मादिति बलाबले वैपरीत्यपूर्वपक्षान्तरमाह ।?। व।?।व।?।स्त्वि।?।ति श्रुत्यादिकल्पनाद्वारापि लिङ्गादीनां प्रामान्यविराधे।?। ऽपि स्मृतिवद्भ्रान्त्यादिचतुष्टयान्यतरमूलत्वायोगेन श्रुत्यादिकल्पन स्य दुर्वा।?।र।?।स्योक्तकल्पनापेक्षत्वेन श्रुत्यादिभ्यः पश्चात्प्रवृत्तः कल्प्य श्र।?।त्याद्यपेक्षत्वे ऽपि च विरोधिश्रुत्याद्यनपेक्षश्रुतत्वात् ।?। ।?॥?॥?।र्यबलीयस्त्वन्यायेनैव वैपरीत्य युक्तमित्येव। श्लोकं व्याचष्टे श्रुत्यादीनामिति परदौर्बल्यहेतुत्वेन सिद्धान्त्युक्तस्य विप्रकर्षस्य पूर्वदौर्बल्यापादकत्वाद्विपरीतसाधनतामुत्त्का विप्रकर्षवैपरीत्यादपि बलाबलवैपरीत्यमित्याह कि चेति यद्यपि श्रुत्या विनियोग प्रतीयते तथाप्यशक्तस्य नावकल्प्यतइत्यपिशब्दार्थः। सामर्थ्यैकवाक्यस्य त्वाकाङ्क्षारूपाणां तु लिङ्गवाक्यप्रकरणानामेकवाक्यत्वाकाङ्क्षासन्निधिरूपैर्वाक्यप्रकरणस्थानैर्विना रूपमेव नास्तीत्यर्थः। श्रुत शक्त्यपेक्ष्यत्वे ऽपि विनियोगानुसारिशक्तिकल्पनया विनियोगो ऽवकल्पतइत्याशङ्क्याह उत्पत्तीति प्रागविद्यमानसामर्व्यविनियोगादपि विनियोजकावस्थया च श्रुत्या विरोधाभावात्सामर्थ्यस्यैवाविनियोजकत्वावगतेर्बलीयस्त्वादनुमानकालवगतस्येन्द्रियविषयसामर्थ्यस्य श्रौतविनियोगकाले निवर्त्तनाशक्तेर्गार्हपत्यशक्तिकल्पनायोगाच्छक्त्यनुसारणेन्द्र एव विनियोगो युक्त इत्यर्थः। लिङ्गस्य वाक्यापेक्षतामुपपादयति केवलेति केवलस्य पदस्य प्रयोजकत्वे वा विनियोजकत्वात् लिङ्गेन कृत्स्नमन्त्रविनियोगायैव मन्त्रवाक्यस्यासमवेतार्थस्यापि देवस्येत्यादेः पदस्य समवेनार्थनिर्वपामीत्यादिपदेन सदैकवाक्यतालक्षणसम्बन्धबलेन निर्वापी।?।दि।?।वि।?।षयशक्तिकल्पेनन विनियोगदर्शनात्। लिङ्गस्य वाक्यापेक्षावगते यस्य मन्त्रान्तरस्थपदस्य यत् मन्त्रातरस्थपदेन सहैकवाक्यतालक्षणः सम्बन्धो न विद्यते। तस्यैव विनियोज्यपदार्थविषयशक्तिर्न कल्प्यते। तस्मिन्सीद तवैव सदनं कृणोमीत्यनेन सहैकवाक्यतालक्षणे सम्बन्धे सति तदन्यथानुपपत्त्यैव तस्मिन्सीदेत्यादेः सदनकरणविषयशक्तिसिद्धे स्योनं तइत्यादेश्च सीदेत्यनेन सहैकवाक्यतालक्षणसम्बन्धान्यथानुपपत्त्या सादनविषयसिद्धेर्वाक्यस्यैव लिङ्गाद् बलीयस्तेत्यर्थः। वाक्यस्य प्रकरणापेक्षामुपपादयति तथे [८४५।५] ति प्रकरणस्य क्रमापेक्षितामुपपादयित तथा सर्वाकङ्क्षा इति आकाङ्क्षायाः सम्बन्धसिद्ध्यर्थत्वादसम्भवत्सम्बन्धिवैफल्यापत्तेः। नाकाङ्क्षा युक्तेति सूचनार्थम् सम्बन्धं वेत्युक्तम् समाख्यायां कथं बलीयस्तेत्यपेक्षायामाह समाख्या पुन रिति वैपरीत्यपक्षमुपसंहरति तस्मादिति समुच्चयेन पूर्वपक्षमाह। अथ वेति सूत्रेण सिद्धान्तमाह इतीति प्रश्नपूर्वं लिङ्गादौ विनियोगाख्यसामर्थ्यंस्य विप्रकर्षहेतुमाह कुत इति पूर्वार्द्धं व्याचष्टे यदेव हीति पठितश्रुतिग्रहणे प्रत्यक्षः समुदायो पठितश्रुतिग्रहणे लिङ्गादीत्याशयः। षोढावस्थानोपपादनार्थं पूर्वपक्षाशयमुपन्यासपूर्वं दूषयितुमाह कथं पुनरिति चोदनाशब्दाद्विधात्र्येव श्रुतिः प्रमाणम्। न विनियोक्रीत्याशङ्क्य शब्दमात्रमेव धर्मप्रमितिशक्तिप्रदर्शनार्थं चोदनाशब्देन विवक्षितमिति सूचनार्थम् तथा चेत्युक्तम् एवं सति षट्प्रकारत्वं भवतीत्याह तत्रेति उत्तरार्द्धं व्याख्यातुमाह ततश्चेति प्रस्थितयोः प्रवृत्तयोर्मध्य [८४६।३] इत्यर्थ। विरोधे ऽपि श्रुतिकल्पनस्य दुर्वारत्वात्। श्रुतिकल्पनत्वनिबन्धनविप्रकर्षस्य बलाबलवैपरीत्यापादकत्वं बाधो यदि कल्प्येतेति द्वितीयपूर्वपक्षवार्त्तिकोक्त निराकर्त्तुमाह तस्मिंश्चेति आकाङ्क्षारूपप्रकरणावगतसामान्यव्यापेक्षत्वेनाकाङ्क्षासहितस्य लिङ्गस्य विनियोजकश्रुतिकल्पनत्वे नैराकाङ्क्ष्ये ऽसति सामग्रीवैकल्याच्छ् रुतिकल्पनानुपपत्तेः श्रुति विना विनियोगासिद्धेर्लिङ्गप्रामाण्याद्वैपरीत्यं दूरोत्सारितमित्याशय न केवलं प्रकरणानुमानान्यथानुपपत्तेः परिहृतत्वात् श्रुतिकल्पनायोगात् किं तु विध्याकाङ्क्षासहितानामेव श्रुत्यादिनां विनियोजकत्वात्। प्रत्यक्षाया च विनियुक्ते मन्त्रे विध्याकाङ्क्षानिवृत्तेर्विध्याकाङ्क्षाविरहादपीति सूचयितुं सन्निकृष्टो न लभ्यते प्रकृष्टो ऽपि वैदिकः अपवादस्तु तस्य स्यात् प्राप्तः सन्निहितो यदेत्यनुषङ्गाधिकरणवार्त्तिकोक्तामाकाङ्क्षां विना कल्पितस्य वैदिकत्वं स्मारयति वर्णितं चेति विप्रकर्षस्य विपर्ययसाधनत्वनिरासमुपसंहरति तस्मादिति वृद्धश्लोकेनैतदेव दृढयति आह चेति इममेव श्लोकं व्याचष्टे श्रुत्यादीनां हीति पौर्वापर्ये पूर्वदौबल्यमिति न्यायस्यान्योन्यानपेक्षबुद्धिजन्मविषयत्वात् सापेक्षे लिङ्गादावप्राप्तिसूचनार्थम् न हीत्युक्तम् विप्रकर्षवैपरीत्यं श्रुत्या पि नासमर्थस्येति वार्त्तिकोक्तं दूषयितुमनुभाष्यते नन्विति दूषणप्रतिजानाति सत्यमिति प्रश्नपूर्वकमुपपादयति कुत इति शक्तिकल्पने विनानुपपत्त्यपरिहारे ऽपि अङ्गत्वरूपज्ञानात्पादनेन श्रुतेःशक्त्यपेक्षेति पूर्वार्द्धेनोक्ते जातस्याप्यङ्गत्वज्ञानस्य शक्ति विना कथ प्रमितत्वनिर्वाह इत्याशङ्क्य निरासार्थमुत्तरार्द्धं व्याचष्टे विनियोगेति स्वाभाविकशक्तिनिवृत्त्या शक्त्यन्तरस्यानेकत्र [८४७।१] दर्शनान्नैषानुपपत्तिरिति परिहार सूचयितुमाह नत्रेति स्वाभाविकशक्त्यनिवृत्त्ययोगवादी स्वाभिप्रायं प्रकटयति ननु चेति अनुमेयस्य लिङ्गस्य दुर्बलतरत्वोक्त्यानुमापिकायाः श्रुतेर्दुर्बलत्वं सूचितम्। विनियागात्प्राक् सामर्थ्ये कल्प्यमाने तत्कल्पिकाया श्रुतेस्तदानीमविनियोजकत्वाच्छ् रुतिविरोधाभावेन प्रत्यक्षस्य सामर्थ्यविनियोजकत्वापत्तेः कल्प्यस्य सामर्थ्यस्य प्रत्यक्षदुर्बलतरतापद्येत। ननु विनियोगात्प्राक् तत्कल्पनास्तीत्याह सत्यमिति एवं विप्रकर्षवैपरीत्यनिरासेन बलाबलवैपरीत्ये निरस्ते मन्त्रप्रकरणिनोश्च नैराकाङ्क्षयोक्त्योभयत्र विनियोगनिरासात्। समुच्चयपूर्वपपक्षस्यापि निरासे सूचिते विनियोजकश्रुत्यपेक्षितस्य शक्तिकल्पनस्य पश्चाद्भावं सिद्धान्त्युक्तमाश्रित्य विप्रकर्षतुल्यत्वादन्यूनतां शङ्कते नान्वति श्लोकं व्याचष्टे सर्वथा हीति एव विधविप्रकर्षसाम्यं बलाबलसाम्येनोपपादयतीति परिहरति सत्यमिति—प्रश्नपूर्वं बलाबलसाम्यानापादकतामुपपादयति कुत इति लिङ्गविनियोगाभिधानात् पूर्वं श्रुत्यनुमानात् विनियोगाभिधानस्य दूरत्वं श्रुतौ तु विनियोगोत्तरकालं शक्त्यनुमान न विनियोगोक्तेर्दूरतेत्यर्थः। श्लोकं व्याचष्टे लिङ्गे हीति श्रुतौ विनियोगप्रत्ययस्योत्पत्तिविक्षेपाभावे ऽपि प्रमितत्वनिर्वाहाय विक्षेपस्य लैङ्गिकेन विनियोगप्रमितिविक्षेपेण साम्यात्तुल्यबलतैव युक्तेत्याशङ्क्याह सहेति प्रस्थानप्राप्यत्वेन विनियोगस्य देशत्वोपचारात् सह विनियोगाख्यं देशं प्रस्थितयोः सतोः प्रमाणयोर्येन विक्षपेण कृत्वा प्रमाणस्य चिरेण विनियोगाप्राप्तिः सम्भवति तस्यैव दौर्बल्यकरत्वाद्विनियोगप्रत्ययोत्पत्त्युत्तरकालं तस्य प्रमितिप्रयोजकनिर्द्दोषकारणजन्मत्वावगमे प्रमितित्वावश्यम्भावावगमात्। प्रमितित्वनिर्वाहायापवादकशक्तिनिरासार्थं शक्त्यनुमानविक्षेपे ऽपि न विनियोगविपरीतता नापि तुल्यो विप्रकर्ष इत्यर्थः। प्रत्युपयुज्यतइति हिशब्दान्वयाध्याहारार्थं युगलान्तरेष्वेतमेव न्यायमतिदिशति एतेनेति प्रकरणाम्नातत्वस्य देवस्यत्वेत्यादेरसमवेतार्थस्य पदस्य प्रकरणाङ्गत्वे ज्ञाते कथमुपकरिष्यतीति सन्देहे यथा शक्नोतीत्यवधारिते कथ शक्नोतीत्यपेक्षायां निर्वपामीत्यादिवत् प्रत्यक्षसामर्थ्याभावात् समवेतार्थनिर्वापामीत्यादिपदैकवाक्यतामनुमाय तदन्यथानुपपत्त्या प्रकरण्यपेक्षितोपकारजननसामर्थ्यकल्पनपूर्वम् अनेन प्रकरणिनमुपकुर्यादिति श्रुति मनुमाय विनियोगावगते उपांशुयाजादिसन्निध्याम्नातस्य च दब्धि।?।मन्त्रादेरुपांशुयाजादिप्रत्याकाङ्क्षादर्शनाच्छिष्याद्याकाङ्क्षायाश्च स्वतो निराकाङ्क्षे ऽप्युपाध्यायादावाकाङ्क्षोत्पादकत्वदर्शनेनास्या अप्युपांशुयाजादावाकाङ्क्षोत्पादकत्वावगते उपांशुयाजादेर्दब्धिमन्त्राद्याकाङ्क्षामनुमाय तदेकवाक्यत्वसामर्थ्यश्रुत्यनुमानपूर्वं विनियोगावगतेराध्वर्यवादिसमाख्यातस्य च कर्मणो ऽध्वर्य्वादिसम्बन्धदर्शनात्तत्सन्निधिमनुमाय तदाकाङ्क्ष्येकवाक्यत्वसामर्थ्यश्रुतिकल्पनपूर्वं विनियोगावगतेः परस्य वाक्यादेः पूर्वं लिङ्गाद्यननुमाय विनियोगोक्रितैव दर्शनेन निर्वापादिविशेषणीभूतस्य स्वार्थाभिधानद्वारा स्वार्थे विशिष्टनिर्वापादिप्रतिपादनसामर्थ्यमनुमायानेनेन निर्वापादि प्रकाशयेदिति श्रुतिकल्पनद्वारा विनियोगावगते प्रयाजादेश्च प्रकरणाम्नातस्योभयाकाङ्क्षादर्शनात् प्रकरणिना सहैकवाक्यतैव5 नोपपद्यते पूर्वेण तु लिङ्गादिना वाक्याद्यनुमायैव पूर्वं श्रुत्याद्यनुमात्रेण विनियोगे कृते प्रत्यक्षदृष्टस्य सामर्थ्यादनेकवाक्यत्वाद्यन्तरेण प्रमित्यनिर्वाहान्निर्वापार्थं परस्य वाक्यादेर्नान्तरेणैकवाक्यत्वादिलिङ्गाद्युपपद्यते इत्येवं नान्तरीयकत्वेन सद्भावमात्रं विनियोगहेतुत्वाद्यपेक्ष्या इति बलाबलवैपरीत्यनिरासार्थं नान्तरीयकतोक्ता एकवाक्यत्वादिभिर्विना सामर्थ्यादेर्दृष्टमात्रस्याप्रमितत्वेन श्रुत्यादिकल्पनाद्वारा विनियोजकत्वायोगमाशङ्क्याप्रमितस्यापि गृहाभावादेर्निर्द्दोपकारणजनितत्वाख्यप्रमितिप्रयोजकयुक्तजातविषयत्वमात्रेण बहिर्भावादिकल्पकत्ववत्सामर्थ्यादेरपि प्रमितिप्रयोजकत्वाद्युक्तज्ञानविषयत्वमात्रेणैकवाक्यत्वादिभिर्विना ऽनुपपद्यमानस्यैकवाक्यत्वादिकल्पकत्ववत् श्रुत्यादिभिर्विनानुपपद्यमानत्वात् श्रुत्यादिकल्पकत्वस्याप्युपपत्तिसूचयनायेति इत्युक्तम् सर्वलौकिकानामेव प्रतिपत्तिः सर्वस्वसंवेद्येत्यर्थ। वाक्यादीनामपि श्रुतिकल्पनमात्रेण लिङ्गवद्विनियोजकत्वोपपत्तेर्लिङ्गादिकल्पनानपेक्षत्वाच्छ् रुतितः सर्वेषां दौर्बल्ये ऽपि अन्योन्यं तु [८४८।२] ल्यबलतैव युक्तेत्याशङ्कते आहेति विनियोगसिद्ध्यै विनियोजकां श्रुति कल्पयितुं प्रवृत्तैर्वाक्यादिभिरसमर्थविनियोगायोगेनाङ्गाङ्गिप्रतिपादकशब्दैकवाक्यतां च विनाङ्गाङ्ग्यन्वयायोगेनैकवाक्यतामकल्पयित्वा एकवाक्यतायाः कल्पयितुमशक्यत्वात् समाख्यायाश्चाकाङ्क्षां विनैकवाक्यात्वायोगे साकाङ्क्ष्यमकल्पयित्वा एकवाक्यतःकल्पयितुमशक्यत्वात् समाख्यायाश्चाकाङ्क्षां कल्पयितुं प्रवृत्तवाक्यसंहितालम्बनेन सन्निधिमकल्पयित्वा कल्पयितुमशक्यत्वाल्लिङ्गादीनां यथाक्रममेकादिभिः श्रुतिसमर्थैकवाक्यत्वाकाङ्क्षासन्निध्याख्यैर्वस्तुभिर्व्यवधिकारितं विनियोगं प्रति विप्रकर्षवैषम्यं बलाबलापादकमिति परिहरति तदिति लिङ्गवाक्ययोर्मध्ये तावद् वाक्यस्यार्थविप्रकर्षमुपपादयितुं प्रतिजानाति श्रुतिमात्रेति प्रश्नपूर्वमुपपादयति कथमिति असमवेतार्थवाचिनाम्पदानां समवेतार्थवाचिना पदेनैकवाक्यत्वात्समवेतार्थाभिधानशक्तिं कल्पयित्वा श्रुतिः कल्प्यतइत्यर्थः। श्लोकं व्याचष्टे सर्वत्र हीति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टनिर्वपामीतिमन्त्रपदानां देवादिविशिष्टनिर्वापप्रकाशनेन प्रयोगार्हत्वोक्त्या सकलस्यैव मन्त्रस्य प्रयोगार्हत्वाभिधानेनैकदेशस्याप्रयाज्यत्वसूचनात्ततः शब्देन च प्रयोगार्हत्वं प्रतिपन्नानां विनियोज्यत्वाभिधानाद्वाक्यसहकृतेन लिङ्गेन सकलमन्त्रविषयश्रुत्यनुमानं सूचितम्। एवं तर्हि स्योनन्ते तस्मिन् सीदेत्यनयोरपि तच्छब्दयोगावगतैकवाक्यत्वानुपपत्त्या तस्मिन् सीदेत्यस्यापि सदनकरणे स्योनन्त इत्यस्यापि च पुरोडाशसदनेन सामर्थ्यकल्पनोपपत्तेर्लिङ्गे बाधो न युज्येतेत्याशङ्क्याह तच्चेति द्वयोः समवेतार्थत्वसम्भवे भेदेन विनियोगाय प्रस्थानाद्विरोधावगतेर्युक्तो बाध इत्याशय। प्रस्थित इति भावोत्पन्नया निष्ठया प्रस्थानमुक्तम्। लिङ्गनैकत्र प्राप्तवतो वाक्येनान्यत्र नेतुमशक्यतां लिङ्गाच्च प्राप्नुवतः स्वप्रकाश्ये ऽर्थे तेभ्यो वाक्यादागच्छद्भ्यो ऽवकाशदातृतां प्रश्नपूर्वमुपपादयितुं वाक्याल्लिङ्गस्यार्थसन्निकर्षमाह कथमिति केवलस्य पदस्याप्रयोज्यत्वात् वाक्यसहकृतेन लिङ्गेन सकलस्यैव मन्त्रस्य विनियोगावगतेः तच्छब्दप्रयोगेण च स्योनादे सुमनस्यमानान्तस्यैकमन्त्रस्यावगमादकेनैव सामर्थ्येन तावतः पदसमूहस्य विनियोगसिद्धे सामर्थ्यान्तरकल्पनानापत्ति [८४९।३] रित्याशङ्कां निरस्यन् श्लोकं व्याचष्टे समुदायो हीति कल्पयाम्यन्तस्य स्वार्थविशिष्टोपस्तरणप्रकाशेन नैराकाङ्क्षयात् तत्प्रकाशितस्योपस्तरणसंस्कृतस्य सदनशब्दोक्तस्य स्थानस्य तच्छब्देन ग्रहणात्सादनत्वविशेषणत्वे ऽपि उपस्तरणविशेषणेन कल्पयाम्यन्तानां सादनविशेषणत्वानुपपत्तेः श्रुत्योपस्तरणविनियोगानपेक्षकल्पयाम्यन्तो ऽवयवः सादने विनोयोक्तुमशक्यः तस्मिन्सीदेत्यादेश्च स्वार्थविशिष्टसादनप्रकाशेन नैराकाङ्क्ष्यात् तत्प्रकाशितस्य सादनस्योपस्तरणक्रियाविशेषणत्वे ऽपि सादनविशेषणानामुपस्तीर्णस्थानादीनामुपस्तरणक्रियाविशेषणत्वानुपपत्तेः सादनविनियोगानपेक्षस्तस्मिन्नित्यादिरवयवो नोपस्तरणे विनियोक्तु शक्य इत्याशङ्कानिरासाशयः। समुदायविनियोगस्यावयवविनियागापेक्षत्वात् शक्त्यन्तरकल्पनापेक्षत्वे ऽपि एकवाक्यतयैव शक्तिद्वयस्यापि कल्प्यत्वात् विप्रकर्षसाम्यशङ्कां निराकर्त्तुम् अवयवस्यैकवाक्यत्वमात्रमन्योन्यानपेक्षोपस्तरणसादनरूपभिन्नार्थाभिधानशक्त्यवगमात् प्राक्शब्दालोचनया प्रत्यक्षवच्छीघ्रं प्रतीयते न उपस्तरणविशिष्टसादनरूपस्य साधनविशिष्टोपस्तरणरूपस्य चैकार्थस्याभिधाने शक्तिरन्योन्यानपेक्षार्थाभिधानशक्तिस्तु स्वविशेषणविशिष्टैकार्थप्रत्यायनेन प्रागेव सिद्धेत्युत्तरश्लोकव्याख्यार्थ तत्र समुदायेत्यादिना लिङ्गाद्वाक्यस्य विप्रकर्षोक्तिः पूर्वबाधसिद्ध्यै प्रकरणे मन्त्राम्नानस्य नैराकाङ्क्ष्यमुक्तं साधयितुं प्रकाशकयोर्मन्त्रयोर्लैङ्गिकेन विनियोगेन नैराकाङ्क्ष्यमुक्त्वा प्राकरणिकप्रकाशनाख्योपकारनिवृत्त्या प्रकरणिनो ऽपि नैराकाङ्क्षयं प्रकाश्ययोरर्थयोर्नैराकाङ्क्ष्योक्त्या वक्तु कल्पयाम्यन्तमन्त्रावरुद्धत्वात् उपस्तरणस्य तस्मिन्नित्यादिमन्त्राग्राह्यत्वे तस्मिन्नित्यादिमन्त्रावरुद्धत्वाच्च सादनस्य कल्पयाम्यन्तमन्त्राग्राहकत्वे ऽभिहिते सादनस्योपस्तरणस्य सादनविशिष्टतया प्रकाश्यत्वात् कल्पयाम्यन्तमन्त्रमात्रेण तथा प्रकाशयितुमशक्यत्वात्। उत्तरमन्त्रग्राहितामुपस्तरणस्य वा सादनं प्रत्युपसर्जनत्वेन सादनस्योपस्तरणविशिष्टतया प्रकाश्यत्वात् तस्मिन्नित्यादिमन्त्रमात्रेण च तथा प्रकाशनाशक्तेः पूर्वमन्त्रग्राहितामाशङ्क्य स्वप्राधान्ये चेत्युक्तम् अतश्च लिङ्गवाक्ययोस्तावत् बलाबलं सिद्धमित्याह तस्मादिति लिङ्गबलेन दृश्यमानैकवाक्यत्वबाधे लिङ्गविनियोज्यस्य पदस्य यावद्भिः पदैर्विना नैराकाङ्क्ष्यं न सम्भवति तावता लिङ्गापेक्षितेन वाक्येन विनियोगे व्यतिरिक्तानामसमवेतार्थवाचित्वात्पृथक्प्रयोगानर्हाणामपि लिङ्गेन बाधादविनियोगापत्तेः शिष्टानि त्वसमवेतार्थाभिधायित्वादित्यादिवार्त्तिकेन देवस्य त्वेत्यादीनां निर्वापे विनियोगोक्तिर्विरुद्धेत्याशङ्कते नन्विति भिन्नप्रयोजनत्वे सति याज्यानुवाक्यादिवदेकवाक्यत्वाभावापत्तेर्भिन्नप्रयोजनकत्वायोगेन न समुच्चय सम्भवतीत्युक्तं यष्ट्रनुज्ञाप्रकाशनं चेह प्रयोजनान्तर शङ्कनीयं तस्य च नवमे निराकरिष्यमाणेत्वेनायोगात् प्रयोजनान्तरशङ्काप्रयुक्तोत्पत्त्यशयायावश्यम् चेत्युक्तम् लिङ्गविनियोज्यस्य पदस्य देवस्यत्वेत्यादिपदाद्देवस्य त्वेत्यादीनां लिङ्गविनियोज्याभिर्निवपामिपदैकवाक्यत्वं विनानर्थक्यापत्तेस्तत्परिहाराय वाक्यस्याप्यनुग्राह्यत्वात् निर्वापविनियोगोक्तिरविरुद्धेत्याशयेन प [८५०।२] रिहरति अत्रेति अगत्युपपादनपूर्वं श्लोकं व्याचष्टे यानि हीति क्लृप्तनिर्वापान्वयोऽग्नये जुष्टमित्यादिभिर्निराकाङ्क्षीकृतो ऽपि निर्वापो देवस्येत्यादीनां साकाङ्क्षत्वात् उत्पन्नपुनराकाङ्क्ष सन् देवस्येत्यादिपदप्रकाश्यत्वं प्रतिपद्यत इत्युक्ते निराकाङ्क्षस्यान्योन्याकाङ्क्षोपपत्त्युपपादनार्थं प्रकरणप्राप्तैर्धर्मैर्निराकाङ्क्षीकृतानामप्युपांशुयाजादीनां निराकाङ्क्षफलवत्सन्निधिलक्षणेन कमेणाकाङ्क्षामुत्पाद्यानुमन्त्रणादिधर्मप्राप्ति प्रयाजादीनां च प्रकृत्यन्वयेन निराकाङ्क्षीकृतानामपि विकृत्याकाङ्क्षयोत्पन्नाकाङ्क्षाणां विकृतिगमनं दृष्टान्तयित्वात्यन्तसाम्यार्थे मन्त्रशेषस्यैकमन्त्रावयवान्वयेन निराकाङ्क्षीकृतस्यापि मन्त्रान्तरव्यवायाकाङ्क्षामुत्पाद्य मन्त्रान्तरान्वयं दृष्टान्तयितुं यथाक्लृप्तावसकृदुच्चारितमन्त्रशेषयुक्तायां विचारितायां सकृदुच्चारितमन्त्रशेषत्वात्प्रतियोगित्वेनानुषङ्गाधिकरणे प्रसक्ते मन्त्रशेषार्थो यथैकमन्त्रावयवान्वितशषप्रकाशितत्वेन निराकाङ्क्षीकृतो ऽपि मन्त्रान्तरावयवानां साकाङ्क्षत्वात्पुनरुत्पन्नाकाङ्क्षः सन् पुनरुच्चारितपूर्वमन्त्रशेषप्रकाशत्वं प्रतिपद्यतइति व्याख्यातं इत्येवं यथाक्लृप्ताविति पाठे यथा सोमलक्षणं वस्तु सद्गुणादिपदैः प्रकाशने तु निराकाङ्क्षीकृतमपि मन्द्रादीनां तृप्यन्तानां पदानाम् अनुष्ठेयतृप्तिप्रकाशने कर्मानङ्गत्वापत्तेः भक्षणावयवो भूततृप्तिप्रकाशनो ऽर्थत्वेन साकाङ्क्षत्वात्पुनरुत्पन्नाकाङ्क्षः सन् मन्द्रादिप्रकाश्वत्वं प्रतिपद्यतइति व्याख्यातमित्येवं तृतीय दृष्टान्तमुक्त्वा विप्रकृष्टप्राप्तानामपि देवस्येत्यादीनां निर्वापसम्बन्धोपपत्तेः र्निर्वापविनियोगविरोधमुपसंहृत्य पदान्तराणि यत्रार्थमिति श्लोकावयवं व्याख्यातुम् येषां त्वित्युक्तम् देवस्येत्यादिपहानामानर्थक्यापत्तावपि लिङ्गेन बाधो निर्वापे विनियोगमाशङ्क्याह सर्वेषामेवेति विधिना सामान्यतः समीहिताङ्गतयाकाङ्क्षितस्य विशेषमात्रबोधे श्रुत्यादीनां व्यापारादानर्थक्यापत्तौ च समीहिताङ्गत्वायोगान्न श्रुत्यादीनां व्यापारः सम्भवतीत्याशयः। क्वेष्यतइत्यपेक्षायां नवमाद्यसिद्धप्रकरणेन श्रुतिबाधमुदाहरति तद्यथति श्रुत्या स्वरूपेण शेषित्वं प्राप्तं प्रकरणप्राप्तन प्रकृतापूर्वसाधनीभूतानि व्रीह्यादीनि समीहिततथा शेषित्वं बाधित्वा प्रकरणलभ्यं यदपूर्वसाधनत्वं तत्कृतः प्रोक्षणादिसम्बन्धो नवमाद्ये भविष्यतीत्यर्थ। देवस्येत्यादिनां निर्वापाङ्गत्वविरोधापत्तेर्लिङ्गस्य वाक्याद् बलीयस्त्वायोगाशङ्कायाः परिहारमुपसंहरति तेनेति येन कारणेन लिङ्गस्य वाक्याद् बलीयस्त्वे ऽपि नानिष्टापत्तिस्तेनेत्यर्थः। लिङ्गबलीयस्त्वानभ्युपगमे एवेत्येकोपक्रमोपसंहारवशनैकवाक्यत्वस्य भक्षानुवाकेन गतस्य लिङ्गेन बाधो भक्षानुवाकाधिकरणोक्तो विरुध्येतेति सूचयितुमाह तथा चेति वाक्यात्प्रकरणस्यार्थं विप्रकर्षं प्रतिज्ञापूर्वकमुपपादयितुमाह वाक्येति अङ्गाङ्गिसम्बन्धत्वाभावे ऽपि उभयाकाङ्क्षामात्रेणाङ्गाङ्गयन्वयायोगावगतेराकाङ्क्षातो ऽङ्गाङ्गिवाक्यरूपाणां शब्दानां सङ्गतिरनुमातव्येत्युक्त श्लोकं व्याचष्ट प्रकरण हीति वाक्यानामित्यनेन प्रकरणे ऽङ्गाङ्गिवाक्यानां प्रत्यक्षा सङ्गतिर्नास्तीत्यर्थः सूचितः। वाक्ये पदानां सङ्गतिः प्रत्यक्षेत्यर्थः। विप्रकृष्टत्वव्याख्यार्थम् ततश्चेत्युक्तम् यावदितरत्र प्रकरणे सामर्थ्येन श्रुतिः कल्प्यतइत्यनुषक्तेन पदेन कल्प्यमानाया वर्त्तमानत्वोक्तेस्तावदितरत्र वाक्ये श्रुत्यङ्गाभिहित इत्यनेन च विनियोगाभिधानस्य भूतत्वोक्तेः प्राकरिणिकश्रुतिकल्पनात्प्राक् वाक्ये ऽपि विनियोगाभिधानमुक्त वाक्यात्प्रकरणस्यार्थविप्रकर्षं फलेनोपसंहरति तस्मादिति करणात्क्र [८५१।५] मस्यार्थविप्रकर्ष प्रतिजानाति तथेति प्रश्नपूर्वमुपपादयति कथमिति प्रकरणमाकाङ्क्षातः प्रकृतिश्रुतेरर्थं विनियोगं प्रति गच्छति क्रमस्य तु विनियोजकत्व सिद्ध्यर्था श्रुतिराकाङ्क्षां विना गौरश्व इत्यादेः सन्निधाने ऽप्यन्वयादर्शनात् आकाङ्क्षामपि इतराकाङ्क्षातो यथैकवाक्यत्वसामर्थ्यकल्पनपरम्परया कल्पयितुमारभ्यन्ते इत्यर्थः। दब्धिमन्त्रस्यानिर्त्रातपरिमाणोपायत्वे त्वनिवृत्ताकाङ्क्षतयोपांशुयाजे साकाङ्क्षे क्रमेण विनियोगाभ्युपगमात् क्रमे ऽप्युभयाकाङ्क्षायाः प्रत्यक्षत्वात् अङ्गाकाङ्क्षयाङ्ग्याकाङ्क्षाकल्पनोक्तिरयुक्तेत्याशङ्क्याह क्रमो नामेति मन्त्रस्याक्रियात्वेनानितिकर्त्तव्यतारूपतया इतिकर्त्तव्यताकाङ्क्षेणोपांशुयाजेनाभिधानक्रियानपेक्षितस्याकाङ्क्षितुमशक्यत्वात् दब्धिमन्त्रस्यापि ज्ञातलिङ्गत्वेनाभिधानक्रियाद्वाराकाङ्क्षितुमशक्यत्वान्नोपांशुयाजस्य स्वतो मन्त्राकाङ्क्षास्तीत्याशयः। निरपेक्षाणां सतां प्रधानानामनुष्ठानदेशतः पाठदेशतो वाङ्गा।?।नां सन्निध्यमात्रं क्रम ।?। ।?। ।?। साकाङ्क्षसन्निधाख्येन प्रकरणेन सह क्रमस्य क्वचित् समवायायोगान्न क्वचित्क्रमप्रकरणविरोधे प्रकरणं युक्तमित्याशङ्क्याह अत्र चेति विकृतित्वेन प्राकृतैरङ्गैर्निराकाङ्क्षीकरणात् क्रमस्थमहाप्रकरणोपनिपाताच्च प्रकरणसमवायस्तु सम्भवतीत्याशयः। दैक्षस्यापि तर्हि ज्यौतिष्टोमिकमहाप्रकरणोपनिपाताद्दर्शपूर्णमासाविकृतित्वाच्चोदाहरणत्वोपपत्ते पशुधर्माणां क्रमप्राप्ते दैक्षाङ्गत्वं प्रकरणेन बाध्येतेत्याशङ्क्य सन्निपत्त्योपकारिणां प्रकरणाविनियोज्यत्वाभावादनुदाहरणत्वसूचनार्थम् प्रायेणेत्युक्तम् राजसूयादिमहाप्रकरणान्तरगतास्वध्यभिषेचनाद्यासु ज्योतिष्टोमादिविकृतिषु शौनः शेषाख्यानादीनां माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यतइत्यादिना प्राकृतमाहेन्द्रस्तोत्राद्यङ्गसबन्धित्वेन विधानात् माहेन्द्रस्तोत्राद्यङ्गत्वावगतेर्निरङ्गस्य माहेन्द्रस्तोत्रादेवैर्गुण्यादनिष्टमुपकारं प्रकृतौ शौन शेषाख्यानाद्यनपेक्षमपि प्रतिविकृतौ तद्रहितस्यासाधनत्वावगमादतिदिश्यमानानाम्माहेन्द्रस्तोत्रमुपदिश्यमानाङ्गवैशिष्ट्य विनातिदेशापर्यवसानावगतेर्विकृतिकथम्भावाकाङ्क्षायामपनिवृत्तायामेव शौनःशेषाख्यानाद्युपनिपातादवान्तरप्रकरणेन माहेन्द्रस्तोत्रादिद्वाराभिषेचनीयाङ्गत्वप्रकरणबाधमहाप्रकरणान्तर्गतानामपि विकृतीनां नोदाहरणता युक्तेति मध्यस्थं यस्य तन्मध्य इति चतुर्थाधिकरणपूर्वपक्षन्यायेनाशङ्क्य माहेन्द्रस्य स्तोत्रं प्रति अभिषिच्यतइत्यस्याभिषेचनीयाङ्गभूतमाहेन्द्रस्तोत्रदेशे ऽभिषेकान्तः शौन शेषाख्यानमभिषेचनीयप्राकृताङ्गानुवादेन विधानादभिषेचनीयकथम्भावग्राह्यत्वाशङ्कां निराकर्त्तुं यत्प्राकृतानुवादेनान्यदनुष्ठानविधानार्थत्वेनानुत्पत्तिविधेयत्वादुत्पत्तिविधावेलायामेव तत्प्रयोजनापेक्षणादभिषेचनीयात्। बहिरुत्पन्नान्महाप्रकरणात् राजसूयाङ्गत्वावगत्या च कृतार्थत्वेन माहेन्द्रस्तोत्रसंयोगस्य देशार्थत्वोपपत्तेस्तद्वाराभिषेचनीयाङ्गत्वकल्पनायोगात् क्रमेणैवाभिषेचनीयाङ्गता कल्पनीयेति सर्वासां वा समत्वाच्चोदनातः स्यान्न हि प्रकरणं तद्देशार्थमुच्यते तस्य मध्य इति तदीयसिद्धान्तन्यायेनोदाहरणसमर्थन सूचयितुमाह तासु हीति शौन शेषाख्यादीनामभिषेचनीयप्राकृताङ्गानुवादेन विधानादभिषेचनीयकथम्भावग्राह्यत्वाशङ्कां निराकर्तुं यत्प्राकृताङ्गानुवादेनोत्पन्नमिति वाच्ये प्राकृतानुयाजोद्देशविहितपृषदाज्यवद्विधानार्थानूदितप्राकृताङ्गानुवादेनाप्युत्पन्नस्याङ्गस्य सन्देशाभिव्यक्तकथम्भावग्राह्यत्वसूचनार्थ प्राकृताङ्गमध्यपतित्वेनेत्युक्ते प्राकृताङ्गगुणविधानतः प्रागतिदेशापर्यवसानात्कथम्भावानिवृत्त्यभ्युपगमे ऽपि तिष्ठन्तं पशु प्रयजन्तीति प्राकृताङ्गापकर्षविधानात्प्रागुत्पन्नानामुपकरणादीनामपि दैक्ष्यप्रकरणग्राह्यत्वापत्तेः क्रमविनियोज्यत्वोक्तिर्विरुध्येतेत्याशङ्क्य क्लृप्तोपकारप्राकृताङ्गग्रहणे प्रवृत्तस्य कथम्भावस्य स्वतो ऽक्लृप्तोपकारात्पूर्वाङ्गग्राहित्वायोगात्प्राकृताङ्गान्वयस्य च पूर्वाङ्गग्रहणहेतोः प्राकृताङ्गगुणविधितः पुरस्ता द्वावस्थितेष्वङ्गेषु अभावात प्रकरणग्राह्यत्वापत्तिसूचनार्थं पुरस्तादित्युक्तम्। एवमन्योन्याकाङ्क्षायाः प्रत्यक्षत्वशङ्कां क्रमप्रकरणविरोधोदाहरणायोगाशङ्कां च निरस्यन् प्रकरणाक्रमस्यार्थविप्रकर्षं दर्शयितुमारभते तथेति क्रमसमाख्ययोर्मध्ये क्रमे सम्बन्द्धार्थान्योन्याभिमुख्यरूपेण सन्निधानाख्यं परस्परपर्युपस्थापनं वेदरचितत्वात् प्रत्यक्षमित्यनेकात्समाख्यायामप्रत्यक्षमिति विप्रकर्षसिद्ध्यर्थमुक्ते ऽपेक्षां विना सम्बन्धयोगात् समाख्योक्तसम्बन्धमात्रेणापेक्षासिद्धेर्विप्रकर्षायोगमाशङ्क्य संशब्दस्यैकीभावार्थत्वात् सम्बन्धशब्दस्य च नियमार्थत्वात् अवयवव्युत्पत्त्या ऽऽलोचनया नियम्यते। यदेकस्य सम्बन्धास्यार्थशब्दयोरित्याद्युदाहरणालोचनया च सम्बन्धस्यैकनियमरूपत्वावगतेः सम्बन्धिनोः केन चिदभिन्नेन सम्बन्धहेतुना विना सम्बन्धायोगादसिद्धात्मलाभेन च सम्बन्धिनाकाङ्क्षायाः कल्पयितुमशक्यत्वादेकत्र निधानाख्यसम्बन्धिनोः सन्निधानं सम्बन्धहेतुत्वेनावश्यं कल्पनीयम्। पौरोडाशिकसमाख्यावतं शुन्धध्वमिति मन्त्रस्य पुरोडाशपात्रशुन्धनेन सह न किञ्चित्पाठतो ऽनुष्ठानतो वा देशैक्यं वेदेन विरचितमस्ति येन मन्त्रपुरोडाशपात्रशुन्धनेन सह तन्निमित्तसम्बन्धार्थं सम्बन्धिनोरन्योन्याभिमुख्यं स्यादाभिमुख्यानपेक्षं च भवदपि न विनियोगायालमिति सर्वत्र हीत्यादिनोक्तम्। समाख्या पुनः प्रत्यक्षमेव सम्बन्धं वदन्तीति पूर्वपक्षवार्त्तिकोक्तं समाख्यायाः श्रुतितुल्यत्वमनुभाषते ननु चेति [८५२।१] दूषयति नैतदिति श्रुत्यभिधेयादङ्गाङ्गित्वविशेषरूपात्सम्बन्धात्सामाख्यानिकस्य सम्बन्धस्य सामान्यरूपात्मनोक्त्या श्रुतितुल्यत्वे निरस्ते ऽप्यतिशयार्थं कल्प्यतोक्त्याभिधानं निरस्तम्। लौकिक्याः समाख्याया वैदिकसम्बन्धप्रतिपादने विप्रकर्षसूचनापूर्वं श्लोकं व्याचष्टे अर्थानामिति यापि वैदिकी समाख्यानवगतसम्बन्धार्थप्रतिपादने प्रवर्त्तते सापि तावन्नाङ्गाङ्गित्वं प्रतिपादयतीति वदता विप्रकर्षो लौकिक्याः सूचितम्। येन केनचिदित्यनेन सामान्यरूपतयान्यत्वं व्याख्यातम्। सर्वत्र हीति वार्त्तिकेनाङ्गाङ्गिसम्बन्धस्यैव सन्निध्यपेक्षोक्तेति भ्रान्ता समाख्याकल्पितस्य सम्बन्धमात्रस्य सन्निधिकल्पनहेतुकविप्रकर्षाभावशङ्कां निराकर्तुमाह सम्बन्धमात्रस्य चेति यदेतत्किञ्चिदभिन्नं सम्बन्धिनामस्तीत्यवगम इत्यध्याहारेण योज्यम्। सम्बन्धस्य सन्निध्युक्तः क्रमसमाख्याबलसिद्ध्यर्थत्वं दर्शयितुमाह ततश्चेति विप्रकर्षमव प्रपञ्चयति समाख्या हीति सूत्रार्थमुपसंहरति तस्मादिति एवदेव द्रढयितुं वृद्धानाम्। श्लोकपञ्चक पठति आह चेति अतश्च यत्पूर्वपक्षवार्त्तिके विरोधो ऽपि बाधायोगो [८५३।१०] क्त्यर्थं क्वचिद्यस्य प्रमाणत्वमित्युक्तम्। तदयुक्तमित्याह तस्मादिति यदपि नित्यं च प्रमाणाभासस्यैव बाध इत्युक्त तदप्यनुभाषणपूर्वं परिहरति यत्त्विति यदपि श्रुत्यादिषट्कस्य समस्तेत्यादिवार्त्तिकन विषयान्तरसञ्चाराभावेन लिङ्गादीनां क्वचित्प्रमाणाभासत्वायोगात् बाध्यत्वं न युक्तमित्युक्त तदपि दूषयितुं प्रश्नपूर्वं प्रमाणाभासतामुपपादयति कथमिति श्लोकं व्याचष्टे न हीति श्रौतविनियोगान्यथानुपपत्त्या यज्ञसाधनत्वगुणयोगेनेन्द्रइत्यर्थानुसाराद्वेन्द्रशब्दस्य गार्हपत्यपरत्वावगतेरिन्द्रोपस्थानस्य शक्यत्वेन लिङ्गाविषयत्वात् स्योनन्ते सदनं तस्मिन् सीदेत्यनयोश्च लिङ्गाद्भिन्नवाक्यत्वावगतेरनन्यत्वेन वाक्याविषयत्वात् पौर्णमासीदेवतापदशेषाणां च वाक्यादमावास्यादेवतापदैकवाक्यत्वाभावावगतेरामावास्यप्रयोगेणेतिकर्त्तव्यत्वेनानाङ्क्षणादमावास्यादेवतापदशेषाणां पौर्णमासीप्रयोगेणानाकाङ्क्षणात् प्रकरणविषयत्वानुपपत्तेः शौन शेषाख्यादीनां च प्रकरणात् प्रकृतसर्वसाधारण्यावगतेरभिषेचनीयमात्रसन्निध्यभावेन क्रमाविषयत्वात् शुन्धनमन्त्रस्य च क्रमात् सान्नाय्यपात्रशुन्धनार्थत्वावगतेः पौरोडाशिकसमाख्याया भूम्ना दर्शपूर्णमासकाण्डविषयत्वावगमेन पुरोडाशमात्रकाण्डपरसमाख्यानाविषयत्वाल्लिङ्गादीनां विषयान्तरसञ्चारो विषयापहारोक्त्या बलाबलवद् बाधिते विषये व्यापाराभावसिद्धेः सूचितः। बाधहेतुककत्वाद्व्यापाराभावस्य बाधात् प्राक् व्यापारोपक्रमे सत्यपि बाधाद्विषयान्तरसञ्चारावगमात्तरकालसमाप्तव्यापारत्वात् प्रमाणाभासनैत्यन्यथाप्रमाणाभासतामुपपादयितुमाह अथ वेति प्रमाणाभासतामेवोपसहरति तेनेति यदपि नच तदुत्थापितं ज्ञानमित्यादिवार्त्तिकेन बाधप्रकारासम्भवात् बाधो न सम्भवतीत्युक्त तदपि उत्पत्तिप्रतिबन्धाख्यबाधाभ्युपगमेन परिहरति अनुत्पन्नमेव चेति व्यापारोक्रमप्रतिबन्धसूचनायैवकारः व्यापारोपक्रमप्रतिबन्धसूचनायैवकारः व्यापारोपक्रमपक्षे आन्तरालिकश्रुतिलिङ्गादिकल्पनरूपज्ञानमिथ्यात्वकल्पनायेत्थम्भूतकल्पनार्थं तया तृतीयया बाधप्रकारतोक्ता। शेषशेषिज्ञानं तु पक्षद्वये ऽप्यनुत्पन्नमेव बाध्यते वस्तुकथनार्थं चेह प्रकारान्तरस्यानशङ्कनीयतोक्ता न तूपपादनासामर्थ्यादिति सूचयितुं यो ऽप्यनुमानादीनां प्रत्यक्षादिभिरुत्पन्नबाधो बाधग्रन्थे वक्ष्यते। तमपि तत्रैवोपपादयिष्याम इत्याह यो ऽपि चेति एकैकस्य [८५४।१] भाष्ये बाध्यत्वोक्ते सूत्रे परशब्दस्य अनन्तरपदमात्रविषयत्वभ्रान्ति निराकर्तुं व्यवहितपराणामपि बाध्यत्वस्य प्रपञ्चनीयतामाह एवमिति श्रुतेर्वाक्यविरोधे सोदाहरणं बलाबलं प्रपञ्चति यथेति आनन्तर्यसामानाधिकरण्यावगतात् वाक्यसामर्थ्यादेकहायन्याद्यङ्गत्वेनारुणादि प्राप्नुवदित्यर्थ। षष्ठीश्रुतेः प्रकरणविरोधमुदाहरति श्रुतीति षष्ठीश्रुतिसयोगाविशेषेऽप्यनुवचनानामेव प्रकरणविरोधो न द्वादशत्वस्येति परमतं दूषयितुमुपन्यस्यति अनुवचनानां चेति एवकारार्थे चकारः। दूषयति न त्विति स्वविशेषणवैशिष्ट्यं विना वैगुण्यापत्तेरिति कर्त्तव्यत्वायोगेनाभिन्नेऽतिदिश्यमानानामुपसदामुपदिश्यमानद्वादशत्ववैशिष्ट्यात् प्रागतिदेशापर्यवसानादहीनकथम्भावग्राह्यताऽविरुद्धेत्याशयः। विप्रकर्षं दर्शयति इहापि चेति ज्योतिष्टोमे विध्यन्तदानाथ कयाचिद्विकृत्या न हीयतइति व्युत्पत्त्या ऽहीनश्रुत्युपपत्तेर्नेदं श्रुतिविरोधोदाहरणं युक्तमित्याशङ्क्याह नैव हीति श्रुतेः प्रश्नपूर्वं क्रमविरोधमुदाहरति [८५५।२] श्रुतीति रशना तद्धर्माश्च दर्भभय्यादयः क्रमादग्नीषोमीययागाङ्गतया यूपं परिव्ययतीति द्वितीयाश्रुत्या रशनाया यूपाङ्गत्वे ऽवगते दर्भमयी रशना भवतीत्यादौ रशनाश्रुत्या रशनात्वैकार्थसमवायियूपाङ्गत्वं लक्षयित्वा तदुद्देशेन दर्भमयीत्वादिविरोधात् तद्धर्मश्चास्याङ्गमित्यर्थः। यूपस्याग्नीषोमीयाङ्गत्वात् स्वधर्मिकाया रशनाया यूपाङ्गत्वे ऽपि ज्योतिष्टोमाङ्गक्रयाङ्गस्यारुण्यस्य ज्योतिष्टोमाङ्गवदग्नीषोमीयाङ्गत्वोपपत्तेरविरोधमाशङ्क्यालौकिकत्वेन यूपस्य स्वरूपोत्पत्त्यर्थमेव रशनादिधर्मान्वयोपपत्तेः क्रयवत् प्रकृतापूर्वसाधनत्वानपेक्षणात् यूपस्वरूपे विधीयमानानां रशनादीनामग्नीषोमीयाङ्गत्वानुपपत्ते यूपस्य च पशुयागप्रयोगात् बहिरुत्पन्नत्वेनागृह्यमाणविशेषतया सर्वपशुयागसाधारण्यात् रशनादीनां यूपाङ्गत्वे सवनीयस्याप्राकृतत्वे ऽपि परिव्याणान्तरे साधारण्यावगतेरग्नीषोमीयाङ्गत्वसाधारण्यापत्तेः विरोधं सूचयितुमाह एतद्यूपेति रशनया यूपं परिव्ययतीत्यग्नीषोमीये विहितात्परिव्याणात् स आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं व्ययतीति सवनीये विहितस्य परिव्याणस्य भेदे ऽपि लौकिकत्वात् परिव्याणस्य स्वरूपे धर्मविध्ययोगेन यूपान्वयप्रत्युक्तत्वात् धर्मान्वयस्य यूपसाधारण्यात् धर्माणामपि साधारण्याप्रतीतेः परिव्याणद्वये ऽपि रशनायाः समानविध्यसूचनायेण्गतावित्यस्माद्धातोरेतेस्तुड्वेत्युणादिसूत्रेणातिप्रत्ययस्य तुडागमसहितस्य विहितत्वादति सर्वत्रागच्छतीत्यर्थविवक्षया साधारणवाच्ये तच्छब्दप्रयोगादेतस्य पशुत्रयसाधारणस्य यूपस्य यदेकं परिव्याणमग्नीषोमीये परं च सवनीये विहितं तस्योभयस्य साधारणशेषे रशना धर्मसंहितःश्रुत्यावगम्यते अतस्तद्विरुद्धेन क्रमेणाग्नीषोमीययशुयागमात्राङ्गतां न यातीत्यर्थः। विप्रकर्षं श्लोकद्वयेन दर्शयति यावदिति श्रुतिसमाख्याविरोधं प्रश्नपूर्वमुपसंहरति श्रुतीति पौरोडाशिकसमाख्याते काण्डे पठितत्वात् समाख्याविरोधे ऽभिहिते दर्शपूर्णमासप्रकरणे वर्त्तमानत्वात् प्रकरणविरोधमाशङ्क्य साधारण्यात्तस्येवात्रापि मन्त्रविनियोगे विरोधाभावमुत्त्क्वा प्रकरणाबहिर्भावे ऽपि सर्वार्थप्रतीतेर्विरोधापरिहारमाशङ्क्य नचाविज्ञातलिङ्गानां प्रक्रिया विनियोजिकेतिन्यायेनानुन्मीलितलिङ्गत्वात् प्रकरणाविनियोज्यत्वे क्रमेण चेति चकारेण सूचिते तसीत्यस्य सामर्थ्यं सन्निधावुपसहृतमित्यनेन न्यायेनात्रापीषेत्वेति युष्मदर्थविषयत्वात् सन्निहिताभिधायित्वान्तशब्दायोगात् प्रथमपदार्थे ऽग्निप्रणयनेनाम्नातमन्त्रकत्वात् मन्त्राकाङ्क्षे क्रमेण विनियोगावगतेः श्रुतिक्रमविरोधापत्तेरित्याशङ्क्य क्रियापदशून्यत्वेनानुन्मीलितलिङ्गत्वात् क्रमस्य विनियोगाशक्तावुक्तायां क्रियापदशून्यत्वे ऽपि यागानुमन्त्रणसमाख्यानात् सामान्यतो यागाङ्गत्वावगमाद्दब्धिमन्त्रस्य क्रमविनियोगोपपत्तिवत् पौरोडाशिकसमाख्यानादिषेत्वेत्यस्यापि सामान्यतः पुरोडाशयागाङ्गत्वे ऽवगते क्रमेणाग्निप्रणयने विनियोगोपपत्तिमाशङ्क्यानुमन्त्राख्या क्रिया विशेषवद्दव्धिमन्त्रसाध्यक्रियाविशेषावगमात् न क्रमस्य विनियोगे शक्तिरिति परिहारसम्भवे ऽपि अभ्युपेत्य क्रमविनियोग क्रमसमाख्ययोस्तावन्न विरोध इति परिहारसूचनार्थम् पुरोडाशस्यैव चेत्युक्तम् विप्रकर्ष दर्शयति तत्रापीति लिङ्गस्य प्रकरणादिविरोधोदाहरणानि प्रतिजानाति एवमिति प्रकरणं विरोधं तावदुदाहरति तत्रेति विप्रकर्षं दर्शयति यावच्चेति माहेन्द्रग्रहयागक्रमे पठितस्यैन्द्रस्य प्रगाथस्य लिङ्गेनापकर्षः [८५६।४] क्रमविरोधोदाहरणमित्याह अलिङ्गेति अनिष्टापादनार्थत्वाच्चापकर्षोक्तेरपरितोषात् प्रतिवचनमिति पञ्चमपादाधिकरणस्थितमुदाहरणमाह स्थितेति विप्रकर्षं दर्शयति यावद्धीति उदाहरणमाह [८५६।४] तथेति परिवीरसि परित्वादेवीर्विशोव्ययन्तां परीमं रायस्योषो यजमानं मनुष्या इतिकरणमन्त्रस्य युवासुवासाः परिवीत आगात्सउ श्रेयान् भवति जायमान इति क्रियमाणानुवादिमनोतासूक्तस्य प्रकरणात् ज्योतिष्टोमान्वयावगतेर्मनोतायै हविषो ऽवदीयमानस्यानुब्रूहीति मनोतोद्देशेनावदीयमानपश्वाख्यहविरर्थत्वेन प्रैपाच्च पशुदेवताया मनोताशब्दवाच्यत्वावगमेन पशुयागान्वयावगतेन सामान्येन लिङ्गेनाग्नीषोमीयकर्म बाधित्वा सवनीयाङ्गत्वावगमस्योदाहरणत्वं शङ्कते कथमिति श्रुत्या लिङ्गबाधान्न मनोतासूक्तस्य सवनीयाङ्गतेति परिहरति नेति कासौ श्रुतिरित्यपेक्षायां श्रुतिमुदाहरति एवं हीति मनोतायां तु वचनादविकारः स्यादित्यत्र वायव्ये पशावतिदेशप्राप्तस्य मनोतासूक्तस्योहनिवाह्यत्वेनास्याः श्रुतेर्व्याख्यास्यमानत्वात्। न दैक्षे विनियोजकता युक्तेत्याशङ्क्याह अनया हीति दैक्षक्रमे ऽधीतायाः श्रुतेर्लिङ्गप्राप्तोत्कर्षनिरासार्थत्वेन दैक्षार्थत्वसम्भवे दूरस्थे वायव्यादावूहनिवार्यत्वायोगात् लैङ्गिकोत्कर्षनिरासेन च लिङ्गस्यानादृत्यर्थे ऽभिहिते ऽर्थत्वान्मुख्यस्यार्थत्वाभावेनान्यायनिगदत्वात् बहुवचनान्तपाशशब्दवदनूह्यसिद्धेर्मनोताधिकरणविरोधाभावालिङ्गेनोत्कृष्यमाणा मनोता कार्यश्रुत्या वारितेत्याशयः। आग्नेय्येवेत्येवकारेणानाग्नोयीनिषेधावगतेः प्रकृतौ चानाग्नेय्या मनोतायाः प्राप्त्यभावेन निषेधायोगाद्विकृतौ त्वतिदेशप्राप्तायास्त्वं ह्यग्ने प्रथमो मनोतेति मनोताया वायव्यादिवैकृतपशुदेवताया प्रकाशकाशक्तेस्तस्मादञ्चन्नोहेतिवर्च्चानूहनिषेधाद्वाय्वादिदेवतस्य सूक्तान्तरस्य मनोताकार्ये प्राकृतस्यैव कारकश्रुत्यानिषेधोपपत्तेर्वायव्यादिपशावनाग्नेयादिसूक्तान्तरत्वे रूपविकारनिषधार्थैवेय श्रुतिर्न दैक्षादावाग्नेयसूक्तोत्कर्षार्थेत्याशङ्क्य द्वेधैवकारमुपादयति द्विदेवत्ये ऽपीति द्विदेवत्ये यद्यप्येकदेव त्याग्नेय्यशक्ता तथापि सैव कार्या न तूत्कृष्टव्येत्याद्यव्याख्यायामेवकारार्थः द्वितीयायां कार्यैवेत्यर्थः। भक्षानुवाकस्थान्ये हि सवितरित्यादिवाक्यानि समाख्यानात् भक्षाङ्गत्वरूपाय विनियोगाय प्रस्थितानि सन्ति लिङ्गेन ग्रहणादिषु विनियुज्यन्तइति यत् भक्षानुवाकाधिकरणे स्थितं तदेकं सल्लिङ्गसमाख्याविरोधोदाहरणं यच्चाग्निरुक्थे पुरोहितइत्यादीनां मनार्ऋचां पृथूपजास्तं स बाध इति पृथुपाजवत्योश्च याज्यासमाख्यां बाधित्वा लिङ्गेन सामिधेनीकार्ये विनियोगइति लिङ्गक्रमसमाख्यानादित्यत्रोक्तवदपरमित्याह लिङ्गेति विप्रकर्षं दर्शयितुं भक्षाङ्गत्वरूपसम्बन्धाभिमुखार्थस्य कस्य चित्सामान्यस्यादिशब्दोक्तस्य वाक्षादे कल्पनयेत्युक्तम्। वाक्यानि लिङ्गेन विनियुज्यन्तइति वदता लिङ्गस्य कृत्स्नमन्त्रविनियोजकतोक्ता परिव्याणकरणमन्त्रे परिवीरसिपदव्यतिरिक्तानां परित्वादेवीर्विशोर्व्ययन्तामित्यादिपदानां क्रियमाणानुवादिमन्त्रे च परिवीतपदव्यतिरिक्तानां युज्येत्यादिपदानां लिङ्गे विनियाक्तुमारभ्यमाणाभ्यां परिवीरसिपरिवीतपदाभ्याम् एकवाक्यत्वात् सवनीयार्थे द्वितीये ऽपि परिव्याणे विनियोगो वाक्यक्रमविरोधोदाहरणमित्याह वाक्येति परिवीतपदोक्त्या परिवीरसिपदमप्युलक्षितम्। सन्ध्यासमाप्त्यादिपदेषु लिङ्गेन ग्रहणादौ विनियोक्तुमारभ्यमाणेषु सन्ध्यासमित्यादिपदैकवाक्यगतानां शेषाणां पदानां भक्षणादर्वाचीनग्रहणादावेव वृत्तिविनियोगाख्या वाक्यसमाख्याविरोध उदाहार्य्ये [८५७।४] त्याह वाक्यसमाख्यचोरिति आवृत्तिरितिपाठे त्वाङो ऽर्वागर्थवाचित्वात् भक्षणात्प्रागनुष्ठीयमानत्वात् ततो ऽर्वाचीनेषु वृत्तिर्विनियोगइत्यर्थः। यद्वा भक्षणे शेषाणां पदानामावृत्तिरविनियोग इति समाख्याप्राप्तभक्षणाङ्गत्वाबाधो वृत्तिप्रतिषेधेनोक्तम्। एकपदमात्रे लैङ्गिकविनियोगापर्यवसाने चालिङ्गविरोधिना वाक्येन शेषपदविनियोगायोगात् शेषपदमात्रस्य कृत्स्नवाक्यत्वाभावेनाविरोधेन वाक्येन विनियोक्तुमशक्यत्वात् पदान्वये तु तस्य चैकवाक्यत्वस्य पदार्थान्वयत्वाभावेन वाक्यप्रतिपाद्यत्वाभावात् आत्माश्रयदोषापत्तेश्चात्मनेवात्मनो विनियोगाच्छेषाणां पदानां लिङ्गविनियोज्यपदार्थोपसर्जनीभूतार्थप्रतिपादनशक्तिमात्रमेकवाक्यत्वादवसीयते। ननु विनियोग इत्यपरितोषात् उदाहरणान्तरमाह तथेति चेतनस्य कर्मफलाभाक्तं विना कर्तृत्वायोगात्। समाख्याकर्तृत्वस्य यजुर्वेदाध्ययनलब्धाध्वर्युसञ्ज्ञस्य पुंसः कर्मफलभाक्तेन प्राधान्यावगतेः समाख्यातोऽध्वर्य्वर्थत्वावगमे ऽपि वाक्यावगतस्य स्वर्गकामार्थस्य समाख्यानुरोधेन यजुर्वेदाध्यायिस्वर्गकामविषयकल्पनया सङ्कोचायोगाद्वाक्येन च समाख्याबाध इत्याशयः। कर्त्रधिकरणे निषेत्स्यमानस्याख्यातेन कर्त्रभिधानस्याज्ञानात् श्रुतिसमाख्याविरोधोदाहरणत्वं शङ्कते नन्विति कर्त्रधिकरणसिद्धान्तस्मारणेन निरस्यति नात्रेति प्रयाजादीनां पुरोडाशमात्राङ्गत्वस्य प्रकृतप्रधानमात्राङ्गत्वेन बाधः प्रकरणसमाख्याविरोधोदाहरणमित्याह प्रकरणेति श्रुत्यादीनां शेषमात्रत्वेन शेषिविषयत्वाभावात् शेष्यैकविषयत्वे ऽपि शेषभेदे प्रमाणसमवायानुपपत्तेरुपस्मरणे कृत्स्नो मन्त्रः स्योनादिसुमनान्तः प्रयोज्यः कल्पयाम्यन्तो वेत्येकस्मिन्नुपस्तरणाख्य शेषिणि समुदायावयवरूपयोस्समवाये ऽपि लिङ्गवाक्ययोः समवायायोगात् बलाबलचिन्ता न युक्तेत्याशङ्क्य शेषसमवायद्वारा प्रमाणसमवायसूचनार्थं शेषसमवायोदाहरणानि दर्शयिष्यन् विरोधवृत्तवर्त्तिष्यमाणसङ्कीर्त्तनं तावत्करोति एवं तावदिति श्रुतेस्तावल्लिङ्गविरोधमुदाहरति तद्यथेति ऐरं कृत्वोद्गयमितिश्रुतर्वाक्यावराध इत्याह श्रुतीति पूर्ववदपरिताषादुदाहरणान्तरमाह तथेति प्रकारविरोधमुदाहरति प्रतिष्ठाकामति एकविशतिसङ्ख्याविशिष्टस्यानुवचनान्तरस्यानु [८५८।२] श्रुत्या नमः प्रचक्त इति दर्शपूर्णमासाङ्गभूतनिगदानन्तर प्रयोज्यावगतिनिगदस्य च जातवेदो रमया पशून्मयीति लिङ्गेन सामिधेनीवदग्निप्रकाशनाङ्गत्वात् सामिधेन्यनुवचनाङ्गत्वाभावेनानुवचनेन प्रयावतुमशक्ते ऐकविंशतिसख्यायाश्च सख्येयापेक्षया सङ्ख्याविशिष्टानुवचनचोदनासामान्यनानुवचनान्तरस्य दार्शपौर्णमासिकस्य सामिधेन्यनुवचनविकृतित्वात्सामिधनीनां सख्ययत्वेनातिदेशात् तासां वार्थाभिधानकर्मत्वेनानुवचनप्रयुक्तत्वात् अतः प्रयोज्यनिगदसामिधेन्यनुरोधेन पुरुषार्थस्याप्यनुवचनान्तरस्यान्तःक्रतुप्रयोज्यत्वादेकविंशतिसख्याविशिष्टेनानुवचनान्तरेण प्रतिष्ठां कामयमानस्य नित्य फलार्थे वा दर्शपूर्णमासप्रयोग इत्युक्तम्। अन्तः क्रतु प्रयोज्यत्वादेव पुरुषार्थेनाप्यनुवचनान्तरेण प्रसङ्गात् क्रतूपकारसिद्धेः श्रुतिप्रकरणविरोधोदाहरणसिद्धये ऽङ्गत्वोपचारः प्रतिष्ठाकामस्येति षष्ठ्या दर्शपूर्णमासप्रयोगव्यतिरेकजानतत्वमनुवचनान्तरस्यान्तःक्रतुप्रयोज्यबलेनाङ्गीकृत्य षष्ठीश्रुतिप्रयोगाङ्गतोक्ता। क्रमविरोधमुपहरति पशुकामात चमसोत्पत्तिसन्निधावपः प्रणयतीति श्रुतस्य कारणत्वेनान्वयस्य विवक्षितत्वात् कर्तृव्यापारत्वलक्षणस्य शब्दतः साधनापेक्षितत्वावगमे ऽपि चमसस्य साधनत्वानुक्ते शब्दत साध्यापेक्षित्वानवगमात् शब्दानपेक्षवस्तुमात्रायाश्चापेक्षाया दण्डो ऽस्ति। गामानयेत्युक्ते ऽपि दण्डेनानयेत्यप्रतीतेः शाब्दं व्यहारानुयोगित्वादन्यतराकाङ्क्षालक्षणेन क्रमेण च समस्याङ्गता गोदोहनेन पशून् कामयमानस्यापि दर्शपूर्णमासप्रयागे सामान्यतः प्राप्ता श्रौतात्तु गोदोहनात्तस्मिन् प्रयोगे चमसनिराक्रियेत्यर्थः। गोदोहनस्यापि क्रत्वर्थं प्रणयनाश्रिततयान्तःक्रतुप्रयोज्यत्वबलेन पशुकामस्येति षष्ठ्या दर्शपूर्णमासप्रयोगव्यतिरेकजनितत्वाङ्गीकारात् गोदोहनस्थदर्शपूर्णमासप्रयोगाङ्गतायाः प्रासङ्गिकोपकारित्वेनोपचरितायाः श्रौतत्वं श्रुतिक्रमविरोधोदाहरणत्वसिद्धये ऽभिप्रतं समाख्याविरोधमुदाहरति वाजपेय इति स्वाराज्यकामस्य कर्त्तृतेत्यध्याहारः कर्त्रधिकरणपूर्वपक्षे स्थित्वोदाहृतत्वेनैतदपरितोषात् उदाहरणान्तरमाह तथेति लिङ्गस्य वाक्यविनियोगमुदाहरति स्योनादेरपीति एकस्मिन्सादनाख्ये शेषिण्येकसमुदायावयवात्मकशेषसमवायः प्रथमश्लोकेनैकस्मिन्नुपस्तरणाख्ये शेषिणि द्वितीयेनोदाहृतः। पुरोडाशव्यापारस्य सदनस्याननुष्ठेयत्वेनाप्रकाश्यत्वात् प्रयोजकसादनलक्षणार्था सदनोक्तिः हविः संस्कारार्थत्वे ऽप्युपस्तरणस्य हविराधारपात्राभिमुखक्षारणरूपत्वेनाभिघारणं विवक्षितम् एतयोः समुदायावयवयोः पूर्वोदाहृतत्वादविवेकमाशङ्क्याह अनेकति अनेकयाः शेषिणोरन्योन्यविशिष्टशुद्धरूपयोरेकस्य शेषित्वमभिप्रेत्य प्रागुदाहृतौ सम्प्रत्येकस्य सादनस्योपस्तरणस्य वा शेषिणो ऽनेकसमुदायावयवरूपाशेषान्वयमभिप्रेत्येत्यर्थः। पूर्वार्द्धं श्लोकद्वयेन व्याचष्टे पूर्वमिति कल्पयाम्यन्तस्योपस्तरणवाचित्वात्तस्मिन्नित्याद्येकवाक्यत्वेन सादनाङ्गत्वायोगमाशङ्क्य साभिघारणोक्त्योपस्तरमस्य सादनेनोपसर्जनतोक्ता शेषः सादनविशिष्टे ऽभिधारण इत्याध्याहार्यं तस्यैवोत्तरार्द्धं व्याचष्टे [८५९।१] एकैकस्मिस्त्विति द्वयोरवयवयोः समुदायापन्नयोर्वाक्यादेकस्य तु लिङ्गेनैकस्मिञ्च्छेषिणि यस्मिञ्च्छेषत्वं प्राप्तं तत्सम्प्रति उदाहरणत्वेन गृह्यतइत्यर्थः। सादनोपस्तरणाख्यशेषिभेदेनोदाहरणभेदात् विशिष्टोपपत्तिः समुदायस्य विकल्पेन समुच्चयो न वा शेषिद्वये विनियोगो यथालिङ्गं वावयवस्येत्येकस्यैव लिङ्गवाक्यबलाबलोक्तिप्रकारस्य भाष्यकृतोक्तत्वात्प्रकारचतुष्टयोक्तिर्भाष्यानारूढेत्याशङ्क्याह एकस्मिन्नेवेति यद्यप्येक एव मार्गो भाष्यकृतोक्तः तथापि किमुपस्तरणे पुरोडाशसादने च प्रयोक्तव्य उतोपस्तरण इत्येतावता भाष्येण निष्कृष्टेनोपस्तरणे कृते यत्पुरोडाशसादनमित्येवं विशेषणविशेष्यभावप्रतीतेरुपस्तरणविशिष्टे सादने स्वप्रधाने चोपस्तरणे प्रयोक्तव्या इति अनेकयोः शेषिणोरेकशेषविषयप्रमाणद्वयसमवायादेको मार्गः पुरोडाशसादने स्वप्रधाने चोपस्तरणे प्रयोक्तव्य इत्यनेकयोः शेषिणारेकशेषविषयप्रमाणद्वयसमुदायादेको मार्गः पुरोडाशसानदने कार्ये यदुपस्तरणमिति विपरीतविशेषणविशेष्यभावात्सादनविशिष्टे उपस्तरणे स्वप्रधाने सादनइति द्वितीया ऽपि किं कृत्स्न उपस्तरणे प्रयोक्तव्य इति कल्पयाम्यन्तइत्येतावतैकस्मिन्नुपस्तरण शेषिणि समुदायावयवरूपशेषद्वयसमवायात् तृतीयः किं कृत्स्नः पुरोडाशसादने प्रयोक्तव्य उत तस्मिन्सीदेत्येवमादिरेत्येतावतैकस्मिन्पुरोडाशसादने शेषिणि तस्यैव शेषद्वयस्य समवायाच्चतुर्थ इति मार्गचतुष्टयमेकस्मिन्नेव मार्गे यत्सङ्कीर्त्तनमव्यक्तं प्रतीयते तद्व्याख्यातृभिरात्मना स्वयं विवेक्तव्यमित्यर्थ। लिङ्गस्य प्रकरणादिविरोधानुदाहरति लिङ्गस्येति लिङ्गेन प्राप्तेनेत्यध्याहार्य्यं वाक्यस्य प्रकरणविरोधमुदाहरति वाक्येति शेषद्वयसमवायमुपपादयति प्रकरणेन हीति गार्हपत्यस्योपरि हवि स्थापनं विधाय वेदिकरणविधानात् विधिपाठक्रमेणार्थादवगतस्य तदधिवासनोत्तरकालस्य प्रकरणेनाङ्गतया ग्रहणमुपपादयितुं विधानोक्तिः कालाख्यविशेषणप्रधानानुष्ठानलक्षणार्थत्वादुत्तरकालविधानहेतुकस्योत्तरकालस्य ग्रहणमित्यर्थः। एवमप्यमावास्यायामिति सप्तमीश्रुत्यैव पूर्वेद्यु कालस्यामावास्याङ्गत्वोपगतेर्वाक्यप्रकरणविरोधोदाहरणता न युक्तेत्याशङ्क्याह न चेति शेषिणः शेषेण सह सम्बन्धाख्यशषित्वं न वदतीत्यर्यः। तावत्या दीक्षणीयामनुब्रूयादित्यादिवत्सप्तम्युक्तस्याधिकरणत्वस्याधेयव्याप्यत्वात् प्राधान्यापेक्षकत्वेन सप्तम्याः शेषित्वे प्रमाणत्वमाशड्य स्वरादिवत् कालस्य कर्म मध्यपातित्वलक्षणाधेयत्वाभावात् काल प्रति कर्मणो ऽधिकरणत्वायोगोक्तिः प्रतिपदासम्बन्धिकार्यमिति अपेक्षायां बहिष्पवमानस्तोत्राङ्गत्वावगतेर्नित्यप्रतिपत्सम्बन्धिन एव द्वितीयपादादिप्रभृतिद्वितीय6 वाक्यप्रकरणविरोधोदाहरणत्वोपपादनमुपसहरति तस्मादिति बाध्यबाधकतातूपपादितत्वात् सिद्धैवेत्याह स चेति क्रमविरोधं प्रश्नपूर्वमुदाहरति वाक्येति इति राजन्याय प्रतिपदमितीतिकरणश्रुत्या विनियोगात् श्रुतिक्रमविरोधोदाहरणत्वशङ्कां निराकर्तु पादमात्रमित्युक्ते श्रुतिविरोधात्स हि वाक्येनापि द्वितीयादिपादविनियोगो न युज्येतेत्याशङ्क्य विरोधार्थं प्रतीकोक्तिः वृषा पवस्व धारयेत्याद्यपादानां विनियागेनोपास्मै गायता नरः पवमानायेन्दवे अभिदेवं इयक्षत इति नित्यायाः प्रतिपादं तुल्यार्यत्वेनाद्यस्यैव पादस्य निवर्त्तितत्वात् द्वितीयादिपादविनियोगस्य श्रुत्या विरोधे सति द्वितीयपादात्प्रभृति कस्या प्रतिपदसम्बन्धिकार्यमिति अपेक्षायां बहिष्पवमानस्तोत्राङ्गत्वावगतेर्नित्यप्रतिपत्सम्बन्धिन एव द्वितीयापादादिप्रभृति द्वितीयातृतीयत्वलक्षण यथासङ्ख्यं क्रमविनियोगप्रसङ्ग इति तत्रेत्यनेनोक्तम्। ततश्चैकस्मिन् बहिष्पवमानस्तोत्रे शेषिणि द्वितीयपादप्रभूतिशेषद्वयसमवायमुदाहरणपूर्वं दर्शयितुमाह तद्यथेति वृषेति प्रथमान्तस्य पदस्य पवमानायेत्यादिभिश्चतुर्थ्यन्तैरेकवाक्यतोपगमनासामर्थ्याल्लिङ्गेन क्रमस्य विरोधे सम्भवति ततो जघन्येन वाक्येन विरोधोक्तिरयुक्तेत्याशङ्कते नन्विति मत्सरादिपदवत्पवमानायेत्यादीनामपि सोमलिङ्गत्वान्न लिङ्गविरोध इति परिहरति नेति एकवाक्यत्वोपगमनशक्त्याख्यं तु लिङ्गमेकवाक्यत्वेन कल्प्यत्वात्ततो ऽपि जघन्यमित्याशङ्काशयनिरासार्थं दर्शयितुमाह विभक्तीति मरुत्वतइत्यस्यापि चतुर्थ्यन्तत्वादेकवाक्यत्वायोगमाशङ्क्य मरुत्वत इत्यस्य देवतावाचिनो वृषेत्यादिद्रव्यवाचिपदानन्तर्यान्मरुत्वद्द्रव्यत्वेन सोमद्रव्यस्तुत्यर्थत्वात् सोमस्तुत्यर्थवृषादिपदैकवाक्यत्वोपपतिर्मत्सरादिपदानां च वृषादिपदवत्सोमवाचित्वेन स्पष्टमेव वृषादिपदैः समानविषयत्वं विप्रकर्षोक्तिमिषेण सूचयितुमाह तदिति स [८६०।२] माख्याविरोधमुदाहरति वाक्येति समुच्चयाशङ्कानिरासाय केनेत्युक्तम् तत्रेत्यनेन विप्रकर्षस्यानाशङ्क्यतोक्ता। प्रथमाया अप्यभिहितकारकविभक्तित्वादिति कर्त्रधिकरणवार्त्तिके प्रथमायाः कारकविभक्तित्वस्य वक्ष्यमाणत्वात्प्रथमाश्रुतेः समाख्याविरोधमाशङ्क्य कर्त्तरि प्रथमाश्रुत्यभावात् आख्यातसामानाधिकरण्यान्यथानुपपत्त्या च प्रातिपदिकस्याख्यातोक्तभावनाक्षिप्तकर्तृत्वाश्रयत्वेन कर्त्रधिकरणवार्त्तिकोपपत्तेः। प्रथमायाः कारकविभक्तित्वाभावाच्छरुतिविरोधवादिनाख्यातस्य कर्तृवाचिता वैयाकरणेनाभ्युपगन्तव्येत्यापाद्य तदसम्भवोक्त्या निरस्यति नचेति प्रकरणस्य क्रमविरोधमुदाहरति क्रमेति पूर्वं श्रुतिवाक्यविरोधाविषयत्वेनास्योदाहृतत्वात्क्रमविरोधोदाहरणत्वायोगमाशङ्क्य स्तोत्रापेक्षयेयुक्तत्वा याग्निष्टामेत्युक्तं सामशब्दो ऽत्र स्तोत्रवाची पूर्वं किमपेक्षयेत्याशङ्क्य यज्ञायज्ञीयसामापेक्षयेत्याह पूर्वे त्विति समाख्याविरोधमुदाहरति प्रक्रियेति वाक्यसमाख्याविरोधविषयतया ऽस्योदाहृतत्वात्। प्रकरणसमाख्याविरोधोदाहरणत्वायोगमाशङ्क्य ज्योतिष्टोमं प्रतीत्युक्त्वा तस्य हीत्यादिना विविक्तविषयत्वं विवृत्तं क्रमसमाख्याविरोध प्रश्नपूर्वमुदाहरति क्रमेति लिङ्गेनापूर्वकर्मद्वयाङ्गत्वापत्तेः लिङ्गक्रमविरोधोदाहरणत्वमाशङ्क्याह लिङ्गं त्विति सामान्यसम्बन्धापेक्षत्वेन लिङ्गस्यान्यतश्च सामान्यसम्बन्धानवगतेः क्रमसमाख्ययोर्मध्ये यद्बलीयस्तदपेक्षत्वात् बाधेन विनियोजकत्वं न सम्भवतीत्याशयः। श्रुत्योः समवाये दौर्बल्यमर्थविप्रकर्षात् लिङ्गयोः समवाये पारदौर्बल्यम्। अर्थविकर्षादित्येवमादिसूत्राभ्युपगमेन सजातीयबलाबलप्रदर्शनं सुखग्रहणार्थं प्रवृत्तानुकीर्त्तनपूर्वं प्रतिजानाति एवमिति शषैकत्वेन साक्षाच्छेषभेदेन शेष्येकत्वे शेषसमवायद्वारा श्रुत्यादीनां विजातीयैः समवायस्य चिन्तित्वोक्त्या सजातीयसमवायस्यापि द्वेधा चिन्तनीयत्वं सूचितम्। कारणदोषजन्यत्वात् मिथ्यात्वस्य अनाप्तप्रणीतत्वस्य च शब्ददोषत्वात् पौरुषेयत्वाद्वदे ऽनुपपत्तेः वेदार्थज्ञानस्योत्पन्नस्य मिथ्यात्वज्ञापनलक्षणबाधायोगात्। सामान्यशास्त्रादीनां बाधायोगमाशङ्क्य लिङ्गादिवत्सामान्यशास्त्रादेरपि ज्ञेयासद्व्युदासप्रकाशनलक्षणपरिच्छेदफलविज्ञानोत्पादकत्वप्रतिबन्धलक्षण एव बाधोक्तिस्तु बाधग्रन्थे वक्ष्यमाणाज्ञानमात्रोत्पादकत्वाशयेति सूचयितुम् यथा चेत्युक्तम् श्रुत्युदाहरणानि तावद्दर्शयितुं सामान्यविशेषसन्दिग्धपौर्वापर्यविराधादिविषयत्वेन भिन्नायाः श्रुतेरेकस्मिन् शेषे समवायो दर्शनीय इत्याह तद्यथेति सामान्यविशेषश्रुत्योरेव चतुर्द्धाकरणाख्यशेषयोर्विरोधमुदाहरति पुरोडाशमिति प्राप्नुवदित्यनेन प्राप्तबाधः सूचितः। एकस्मिन्नवभृथ [८६१।३] होमे शेषिणि आहवनीयस्य आहवनीयाख्यशेषद्वयसमवाये सामान्यविशेषश्रुत्योर्विरोधमुदाहरति तथेति अपूर्वत्वेनावभृथे चतुरवत्तहोमाप्राप्तेराहवनीय प्राप्त्युदाहरणान्तरमाह तथेति अकरणविरोधमुदाहरति प्रतिष्ठाकामेति एकविंषतिसङ्ख्याविशिष्टस्यानुवचनान्तरस्यानुश्रुत्या नवइति दर्शपूर्णमासाङ्गभूतनिगदानन्तरं प्रयोज्यावगतिनिगदवस्यवज्मातवेदौ रमया पशुन्मेधालिङ्गेन सामिधेनीवदग्निप्रकाशनाङ्गत्वात् सामिधेन्यनुवचनाङ्गत्वाभावे सानुवचनविकृतित्वात्सामिधेनीनां सङ्ख्येयत्वेनातिदेशात् तासां चार्थाभिधानकर्मत्वेनानुवचनप्रत्युक्तत्वाभावादतः प्रयोगनिगदसामिधेन्यनुरोधेन पुरुषार्थस्याप्यनुवचनान्तरस्यातः सन् प्रयोज्यत्वादेकविंशतिसङ्ख्याविशिष्टेनानुवचनान्तरेण प्रतिष्ठाकाममानस्य नित्ये फलान्तरे वा दर्शपूर्णमासप्रयोगइत्युक्तम्। तन्नः क्रतुः प्रयोज्यत्वादेव पुरुषार्थेन7 प्राप्त्ययोगमाशङ्क्यातिदेशतो होमाप्राप्तावप्यवभृते जुहोतीति उपदेशादेव प्राप्तिं दर्शयितुं जुहोति सामानाधिकरण्योक्तिः एकस्मिन्वैश्वदेवयागशेषिण्यामिक्षावाजिन इति चतुर्द्धा पञ्चमरूपेण सन्दिग्धायाः श्रुतेर्वैश्वदेव्यामिक्षेत्यसन्दिग्धस्तद्धितश्रुत्या विरोध इत्याह सन्दिग्धेति एकस्मिन् ज्योतिष्टोमे शेषिणि पूर्वोद्ग्रात्रविच्छेदनिमित्ता दाक्षिण्यप्रतिहर्त्रवच्छेदनिमित्तसर्वस्वदाक्षिण्यरूपशेषद्वयसमवाये पूर्वशेषविषया दाक्षिण्यश्रुतेः। य इष्ट्येति वाक्येनैकस्मिन् पर्वणि शेषे सोमेष्टिश्रुत्योः समवायो ऽङ्गगुणविषयेष्टिश्रुतेरेकस्मिन् श्येन प्रयोगशेषिणि प्राकृतबहिर्वैकृतशराख्यशेषद्वयसमवाये प्राकृतविषयाया बर्हिष्षिहवींष्यासादयतीति बर्हिश्रुते प्राप्तत्वेन विप्रकर्षायोगात् बाध्यत्वायोगमाशङ्क्य विप्रकर्षाभावे ऽपि विज्ञानोत्पादकत्वाभावात् बलवद्विरोधपरिहारं च विना तात्पर्यस्यावधारणाभावात्। विषयपरिच्छेदकरूपज्ञानाख्यज्ञानविशेषोक्तिप्रतिबन्धलक्षणबाध्यत्वं सम्भावयितुमाह एवमिति प्राकृतवैकृतविरोधग्रहणायादिशब्द। एकस्मिन्सख्याख्ये भावनाख्ये च शेषे पदैकाभिधानश्रुत्यो समवाये पदश्रुतेरेकाभिधानश्रुत्या बाधात् श्लोकद्वयेनोदाहरति तथेति लिङ्गद्वयस्यैकस्मिन् शेषे शेषद्वयस्य च एकस्मिन्छेषिणि समवाये स्योनमित्येवोदाहरणमित्याह तथा लिङ्गेति किमत्र लिङ्गद्वयमित्याशङ्क्याह एतच्चेति तदेषो ऽर्थविप्रकर्षो यत् स्योनं त इत्यस्य प्रत्यक्षसादनाभिधानसामर्थ्यं मुख्यमित्यादिभाष्येण विशेषं द्रढयितुमाह इतीति एकस्मिन् वैश्यप्रयोगे शेषिणि पाञ्चदश्यसाप्तदश्याख्यशेषद्वयसमवाये वाक्ययोर्विशेषमुदाहरति वाक्ययोरिति उदाहरणत्वोपपादनपूर्वं विशेषमाह उभयत्रापीति सामान्यश्रुतिवत् सामान्यवाक्यस्यापि विशेषविषयज्ञानोत्पादने साङ्कर्याद्विप्रकर्ष इत्याशयः। एकस्मिन्नभिक्रमणे शेषे प्रकरणयोः समवायमुदाहरति प्रकरणयोरिति विरोधोपपदानपूर्वं विशेषमाह महाप्रकरणेन हीति सन्देशाभिव्यक्त्यावान्तरप्रकरणस्थस्याङ्गस्य सन्दशभूतश्रुत्यादिसंयुक्तत्वेन महाप्रकरणाय ग्राह्याभ्यामाद्यन्ताभ्यां अवान्तरप्रकरण्यङ्गाभ्यां व्यवधानादवान्तरप्रकरणिनः प्रयाजादेर्महाप्रकरणस्पर्शं विनाभिक्रमणादेर्महाप्रकरणस्पर्शानुपपत्तेस्तमनुभूयैवान्तरप्रकरणान्वयः प्रत्यासत्तेर्वाक्यस्थानीयत्वात् पूर्व भवतीत्याशयः। आद्यस्य युगलस्य द्वितीयकर्मणः पूर्वत्वात् द्वितीयस्य वाद्यात् परत्वात् पौर्वापर्यक्रमेणाद्यस्य द्वितीयाङ्गत्वावगतेर्द्वितीयस्य पौर्वापर्यक्रमेणाद्याङ्गत्वात् द्वितीयाङ्गत्वानवगतेर्यथासङ्ख्यक्रमेण त्ववगतेरेकस्मिन्नाद्ये द्वितीये वा शेषे क्रमद्वयसमवाये पौर्वापर्यक्रमेण वाद्यस्य यथासङ्ख्यक्रमेण द्वितीयस्य च पौर्वापर्यक्रमेणाद्यस्य च यथासङ्ख्यक्रमेणाद्याङ्गत्वावगतेरेकस्मिन्नाद्ये द्वितीये वा शेषिणि शेषद्व [८६२।२] यसमवाये क्रमयोर्बलाबलमुदाहरति क्रमयोरिति सादेश्यलक्षणस्यैव क्रमस्य विनियोक्तृत्वाभ्युपगमात् पौर्यापर्यस्य क्रमत्वाभावमाशङ्क्य सन्निधिरूपत्वेन क्रमस्य विनियोक्तृत्वात् पौर्वापर्यस्यापि सन्निधिरूपत्वाविशेषेण विनियोक्तृत्वसम्भवे ऽप्यबाधितपौर्वापर्यादर्शनेन विनियोक्तृत्वानभ्युपगमाद्धस्तावनजनोलपराजिकास्तरणादिपौर्वापर्यवच्च प्रकरणादिना बाधाभावाद्यथासङ्ख्यक्रमेणाबाधे विनियोक्तृत्वापत्तेस्तेन बाधः सम्भवति न चति सम्प्रधारणा युक्तेति परिहारसूचनार्था प्रत्यासत्त्युक्तिः। एकस्मिन् पोत्रियाख्यकर्मणि शेषिणि पोत्रध्वर्य्याख्यशेषद्वयसमवाये पो त्रियमिति विशेषसमाख्यया आध्वर्यवमिति समान्यसमाख्याया बाध स्तस्येति। सप्तमपादसूत्रबद्धः समाख्याद्वयविरोधोदाहरणमित्याह समाख्ययोस्त्विति सन्दिग्धासन्दिग्धश्रुत्याद्युक्तोदाहरणेषु मध्ये क्वैकस्मिञ्छेषे प्रमाणद्वयसमवायः क्ववैकस्मिञ्छेषिणि शेषद्वयसमवाय इत्याशङ्क्यास्मदुक्तप्रकारविवेकं सूचयितुमाह शेषेति उपकारपृष्ठभावेन पदार्थशास्त्राणामप्यतिदेशाभ्युपगमादानुमानिकेष्वपि श्रुत्यादिषु बलाबलस्य विचार्यत्वं वृत्तानुकीर्त्तनपूर्वं प्रतिजानाति एवं तावदिति एतदेव विवृणोति तत्र वेति शरमयं भवतीत्यादीनां प्रत्यक्षगम्यानां श्रुत्यादीनां बर्हिषि हर्वीष्यासादयतीत्यादिभि श्येने ऽनुमानगम्यै श्रुत्यादिभि सह पशौ चानुमयानां प्रयाजादिविषयाणां श्रुत्यादीनां पशुपुराडाशे प्रयाजादिविषयैरानुमानिकैः श्रुत्यादिभिः सह बलाबलमनुत्पन्नमेव चेह श्रुत्यभावाच्छेपज्ञानम्। बाध्यतइति पूर्ववार्त्तिकोक्तेन मार्गेण व्याख्येयमित्यर्थः। कीदृद्व्याख्येयमित्यपेक्षायाम्प्रत्यक्षाणामानुमानिकैः सजातीयै सह विरोधे प्रत्यक्षाणां बलीयस्त्वमाह तद्यथेति विजातीयविरोधे पूर्वस्यापि श्रुत्यादेरानुमानिकस्य परणापि।?। लिङ्गादिना प्रत्यक्षेण बाध इत्याह विपरीतो ऽपि चेति यथा कृष्णलेषु कृष्णलानवहन्तीत्यवहननातिदेशानुमितिश्रुतिप्राप्तावघातस्तुषकरणविमोचनसामर्थ्येन प्रत्यक्षेण तुषरहितेषु कृष्णलेष्वशक्यत्वावगमात् बाध्यतइत्युदाहरणमाह यथेति लिङ्गमात्रेषु वचनसामर्थ्यमिति करणाधिकरणोपक्रमभाष्ये मन्त्रसामर्थ्यस्य लिङ्गत्वाभिधानात्कृष्णलगतस्यासामर्थ्यस्वलिङ्गत्वं नास्तीत्याशङ्क्याह सर्वेति लैङ्गिकगौणमुख्यार्थविषयविनियोगप्रकारचिन्तायां मन्त्रस्यातिरिक्तविषयत्वायोगात्तदनुकीर्त्तनार्थे भाष्ये लैङ्गिकविनियोगसिध्यै लिङ्गविशेषलक्षणं तदित्याशयः। सामर्थ्यमात्रस्य लिङ्गत्वे भाष्यसम्मतिमाह तथा चेति प्राप्त्युक्त्या प्रापक विवक्षितत्वाल्लिङ्गदर्शनोक्तेः प्रापकोपोद्वलार्थत्वाद्यत् प्रापकमनेन लिङ्गेनोपोद्बलनीयम्। तत्किमिति पृष्टे ऽनन्यथासम्भवोक्त्यानन्यगतित्वलक्षणसाध्यतायाः प्रापकत्वाभिधानात् सामर्थ्यरूपता लिङ्गस्य भाष्यकृतो ऽभिमता ज्ञायत इत्याशयः। भवत्वन्यार्थदर्शनस्य प्रापणसमर्थत्वाल्लिङ्गत्वम्। तस्य तु श्रुतिविरोधे बाधोक्तिर्न वेति पृच्छति यत्पुनरिति सन्देहोपपादनार्थं श्रुतेरानुमानिकत्वे लिङ्गस्य प्रत्यक्षत्वे ऽभिहिते कृष्णलावघातवदेव तर्ह्यन्यत्राप्यानुमानिक्याः श्रुतेः प्रत्यक्षलिङ्गबाध्यत्वसिद्धः प्रश्नो न युक्त इत्याशङ्क्यातिदेशानुमेयायाः श्रुतेर्वैकृतप्रयोगवाक्यैकवाक्यतयानुमेयत्वाभ्युपगमात् समस्तप्राकृतवैकृताङ्गप्रापकश्रुत्यादिप्रमाणपर्यालोचनयानुमीयमानायां श्रुतौ विरोधपरिहारार्थं बलवत् प्रमाणाविरुद्धार्थाविषयतयानुमानादशब्दरूपस्य वा लिङ्गस्य गौणसामर्थ्यायोगादसमर्थस्य च विनियोगायोगादवघातविषयप्रत्यक्षसामर्थ्यरूपलिङ्गानादरे विनियोगानुपपत्तेस्तस्याः श्रुतेः प्रत्यक्षलिङ्गबाध्यत्वसम्भवे ऽपि स्मृत्यनुमेयायाः श्रुतेः स्वातन्त्र्येण पठ्यमानतयानुमेयत्वाभ्युपगमेन प्रत्यक्षश्रुतितुल्यत्वावगमाद्ग्रर्भे नुनौ जनिता दम्पती कर्देवस्त्वष्टर्ज्जनिता विश्वरूप इत्यादेर्मातुलदुहितृपैतृष्वसेयीविवाहादिद्योतनार्थस्यान्यार्थदर्शनसामर्थ्यरूपस्य लिङ्गस्यानादरे ऽपि पैतृष्वसेयीं मातुलसुतां सगोत्रां च परीणीय चान्द्रायणं चरेत्परित्यज्यैनां मातृवत् बिभृयात् इतिस्मृत्यनुमेयया श्रुत्या मातुलदुहितृपैतृष्वसेयीविवाहनिषेधादेरशक्यत्वाभावाद्वैषम्यसूचनार्थम् यथेत्युक्तम् उत्तरमाह तत्रेति प्रत्यक्षश्रुतिविरोधे ऽपि स्मृतिमूलश्रुतिकल्पनाया दुर्वारत्वस्यैतावत्त्विह वक्तव्यमित्यादिविरोधाधिकरणवार्त्तिकोक्तत्वेन लिङ्गविरोधे मूलान्तरशङ्काया दूरोत्सारितत्वादयथार्थश्रुताश्रुतिमूलत्वं मूलान्तरोक्त्याभिप्रेतम्। यमेन स्वभगिनीं यमीं प्रति आवयोर्गर्भेदम्पी प्रजापतिर्जनितेत्यभिधानात् भ्रातृभगिन्यपत्ययोरन्योन्य दाम्पत्यौचित्यश्रौतकत्वे ऽनभिमतस्य गर्भेत्विति लिङ्गस्यौचित्येन वैवस्वतयोर्यमयम्योः संवादः षष्ठ्यद्युग्भिर्यमीमिथुनार्थं यमं प्रोवाच सतां नवमी युग्भिरनिच्छत्प्रत्याचष्टइति शौनकस्मृतर्गभेत्वित्यृचः पञ्चमीत्वेनानायुक्त्वाद्यम्याः स्वभ्रातरंयमम्प्रति गर्भस्थावेवावां दम्पती जनितेत्यभिधानार्थतया भ्रातृभगिन्यपत्ययोर्दाम्पत्यौचित्यद्योतकत्वायोगमाशङ्क्य मम सप्तपुरुषान्तरात्तव च स्त्रयन्तरेयो गर्भस्तज्जातयोस्तावत्स्त्रीपुसयोर्दम्पतीतावश्यं स्वभाविनी तद्वरमावयोरेवान्योन्यसम्पर्काद्यो गर्भो भविष्यति तज्जातयोः श्रीपुंसयोर्दम्पतिता ऽस्त्वित्येवं यमीवचनत्वे ऽपि भ्रातृभगिन्यपत्ययोर्दम्पतीत्वौचित्यद्योतकत्वाविरोधसूचनार्थम् न त्वित्युक्तम् आयाहीन्द्रपथिभिरीणितेभिर्यज्ञमिमन्नो भागधेयं जुषस्वाभितृप्ताञ्जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयीवपामिवेति अस्यामप्यृचि घृतसेकतृप्तवपाख्यं भागधेयं जुषस्वेत्युक्ते वपायाः सेव्यत्वलक्षणं नामत्वं दृष्टान्तेनोपपादयितुं यथा मातुलस्य योषा रूपं जहुशब्दवाच्यमपत्यं यथा च पैतृष्वसेयी पुंसो भागो भजनीया सव्या तथा वपा तद्वत् सेव्येत्यभिधानं स्रुचौ व्यूहति प्राची जुहूं प्रतीचीम्युप भृतमिति स्रुग्व्यूहनविधिवाक्यशेषे च समानात्पुरुषदत्ता चाद्यश्च जायते इत्यनेनैकस्मात्पुंसो जाताभ्यां भ्रातृभगिनीभ्यां पुरुषादत्ता भोक्ता पुरुषसन्तानो वाद्यश्च भोग्यस्त्रीसन्तानो जायतइत्युक्तेर्भ्रातृभगिन्योरेव भोक्तृभोग्यतेत्याशङ्क्य निरासार्थमुत तृतीये सङ्गच्छामहै चतुर्थे सङ्गच्छामहा इति यं देवन्दीव्यमाना जात्या आसतद्वेत्यनेनैकस्मात्पुंसो जाताभ्यां भ्रातृभागनीभ्यां द्वितीयाभ्यां स्वभार्यास्वपतिसम्पृक्ताभ्यामेकस्मात्पुमानन्यस्मात् स्त्रीत्येवं जातेतृतीये ततो वा जाते चतुर्थे विवाहाख्यां सङ्गतिं कुर्म इत्येवं दीव्यमानाः क्रीदृ।?।माना श्लाघ्यमानाः जात्याः कूलीना यस्मादासते तस्मादेकस्माद्भोक्ता भोग्यश्च जायते इत्यभिधान भ्रातृभगिन्यपत्ययोर्दम्पतित्वौचित्यद्योतकलिङ्गमनन्यगतित्वात् स्मृतिं बाधते तस्मात्पूत्रिकाकरणे दुहितुः स्वत्वनिवृत्त्यभावात्सापिण्ड्यानिवृत्तेः।

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत्।
अनन्यपूर्विकाङ्कातामसपिण्डां यवीयसीम्॥

इति सपिण्डोद्वाहनिषेधात्तद्विषयत्वेन पैतृष्वसयीमातुलसुतापरिणनयनिषेधस्मृतिर्व्याख्येया अतएव।

पैतृष्वसयीं भगिनीं स्वसीयां मातुरेवच॥

मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रयण चरेदिति।

गमने प्रायश्चित्तमुक्त्वा।
एतास्रिस्रस्तु भार्यार्थे नोपयच्छेत बुद्धिमान्।
ज्ञातित्वेनानुपयास्ताः पतति ह्युपयन्नधः॥

इति पैतृष्वसेयादिपरिणयननिषेधे जातितैव सपिण्डताख्याहेतुत्वेनोक्ता भगिनीत्वस्य पैतृष्वस्रयीविशषणत्वाभावे चतुष्ट्वापत्तेरेतास्तिस्रस्त्वित्यनुपपत्तिप्रसङ्गात्पितृष्वसुः पुत्रिकाकरणे तृतीयः पुत्रः पुत्रिकैवेति पुत्रिकायाः पुत्रत्वस्मृतेः। अभ्राते च पुस एति प्रतीचीति मन्त्रे चाभ्रातृकादुहिता पुत्रिकाकरणात्पुसः प्रतीचीनं पुत्रत्वङ्गच्छतीति पुत्रिकायाः पुत्रत्वदर्शनान् पुत्रिकायाः स्वभ्रातूः पुत्रं प्रति पितृव्यत्वापत्तेः। पितृव्यदुहितुश्च भगिनीत्वविशेषेणेन पुत्रिकायां पितृष्वसु।?।र्यादुहिता पैतृष्वसयीति प्रतीतेर्मातृभ्रातुश्चासत्वविशेषणेन पुत्रिकाया मातुर्यो भ्राता सपिण्डस्तस्य दुहितुरङ्गत्वेत्यर्थावगमात् पैतृष्वसेयीमातुलदुहितृपरिणयननिषेधः पुत्रिकाकरणविषयो निश्चीयते। वसुदेवाङ्गजाता च कौन्तेयस्य विरुध्यतइत्यादिवार्त्तिकं त्वभ्युपेत्यवादमात्रत्वेन व्याख्येयम्। मातुलदुहितृपरिणयनस्याश्वविक्रयादिवत् दुराचारत्वस्मृतिपितृसन्ताने सप्तमान्मातृसन्ताने च पञ्चमादर्वाक् पुत्रिकाकरणाभावमनिश्चित्य परिणयनविषयेति सर्वमनवद्यम्। न केवलमानुमानिकस्यैव श्रुत्यादेः परेण लिङ्गादिना प्रत्यक्षेण बाध किन्त्वानर्थक्यापत्तौ प्रत्यक्षस्यापीत्याह सर्वत्र वेति विपरीतबाधोदाहरणार्थसाधनविशेषलक्षणार्था जातिनाध्यवसीयते। व्रीहिजातिरहितं यत्साधनं किं तद्यतस्तन्धुला भवन्ति तत्प्रोक्षितव्यमिति तन्दुलनिर्वृत्तिकरणता हि साधनं न द्रव्यतेति नवमाधिकरणभाष्यम् अर्थतः पठति तदिति श्रौतं व्रीहिस्वरूपमनादृत्य प्रकरणगम्यापूर्वसाधनांशलक्षणो सृजतिना व्यवहिताः प्रमेयाख्याश्रयबलाबलवैपरीत्यादपि प्रमाणबलाबलवै [८६३।३] परीत्यं भवतीत्याह तथेति श्लोकं व्याचष्टे सर्वेति एतदेव लोकसिद्ध्योपपादयति तथा चेति श्रुतिलिङ्गविरोधापादनभाष्यस्य सूत्रोक्तसमवायोपपादनार्थत्वसूचनार्थं वृत्तवर्त्तिष्यमाणकीर्त्तनं करोति एवमिति किन्तावदित्यादिपूर्वपक्षभाष्यलिङ्गस्य श्रुत्यपेक्षत्वेनासम्भवादर्थविषयप्रतिज्ञानुपपत्तेरयुक्तमाशङ्क्योपपादयितुमाह तत्रेति श्रुत्यपेक्षत्वाभ्युपगमे ऽपि यस्मिन् विषये विरोधो नास्ति तस्मिन् यल्लिङ्गस्य श्रुतिकल्पनहेतुभूत समवेतार्थोक्तिसामर्थ्य करणाम्नातं च रूपं तस्य विरोधविषये ऽपि तुल्यत्वात् श्रुतिकल्पनाविधात तुल्यबलत्वोपपत्ति प्रदेशान्तरेत्यनेनोत्क्वा यथाश्रुतेर्विरोधाविरोधयोस्तुल्यं रूपम्। तथा लिङ्गस्यापीति श्रुतिदृष्टान्तेन लिङ्गस्य रूपतुल्यत्वं द्वयोरपीत्यनेनोपपादितया पूर्वार्धं व्याचष्टे स्वत एवेति श्रुतिलिङ्गजन्ययोर्ज्ञानयोस्तुल्परूपत्वेन श्रुतिलिङ्गत्वोपपादनार्थ न हीति भाष्यं श्रौतविनियोगान्यथानुपपत्तिकल्पितया गार्हपत्योक्तिशक्त्येन्द्रोक्तिशक्तिबाधात् श्रुत्याख्यलिङ्गरूपविकल्पेन लिङ्गस्य ज्ञानोत्पादकत्वानुपपत्तेरयुक्तमाशङ्क्योपपादयितुमाह न हीति रूपोक्त्या शक्त्यभिधानादज्ञानत्वशक्तिकस्य मन्त्रस्य विनियोक्तुमशक्यत्वात् विनियोगात् प्राक् शक्तिनिरूपणे कार्ये स्वारसिकेन्द्राक्तिजनितेन्द्राङ्गत्वज्ञानबाधा न शक्येत्यर्थः लिङ्गजन्यस्य ज्ञानस्य सविचिकित्सत्वाल्लिङ्गस्य सारूप्यशङ्कार्थं नन्वितिभाष्यं लिङ्गादपि सन्देहाख्यविचिकित्सानुत्पत्तेरयुक्तमाशङ्क्य विक्षेपार्थत्वेन विचिकित्सोक्तिं व्याख्यातुमाह नत्विति स्वतःप्रामाण्यात् विक्षेपायोगमाशङ्क्य नहीत्युक्तम् नैतदिति परिहारभाष्यं श्रुत्यपेक्षत्वेन कुतश्चित् लिङ्गान्निर्विक्षेपप्रत्ययायोगादयुक्तमाशङ्क्योपपादयितुमाह परःपुनरिति भवतु लिङ्गात्प्रत्यय इति भाष्यात् लिङ्गेन ज्ञानोत्पादनं सिद्धान्तिनाप्यभ्युपगतत्वात्। ऐकान्तिकभ्रान्त्या गृहीत्वा ज्ञानस्योत्पन्नस्य विक्षेपे ऽपि दोषाभावेन सविक्षेपत्वस्य सविचिकित्सत्वस्य वाच्यत्वात् सन्देहो विपर्ययो ऽनध्यवसायो वा सदसत्तासाधारणज्ञानरूपो विचिकित्साशब्देनोक्त इति मत्वा सन्दिग्धबुध्यभावान्नैतदेवमिति वाचकाभावेन च विपर्ययायोगात्पारिशेष्यादिन्द्राङ्गत्वलक्षणयैन्द्रीत्वसदसत्त्वयोर्मध्येऽन्यतरानिश्चयरूपोऽनध्यवसायाख्यो भवति तस्याविराधे ऽपि विषयसदसत्त्वादन्यत्र परिच्छेदफलविज्ञानरूपत्वाभावेनाप्रामाण्यात् बलाबलचिन्तानुपपत्तेर्वाध्यत्वे ऽपि न पूर्वपक्षहानिः। यतस्तु कदाचनेति स्पष्टेन्द्रलिङ्गात् इन्द्रदेवत्यो ऽयं मन्त्रो भवत्येवेति। एव सत्त्वनिश्चयरूपे निर्विचिकित्साख्यः प्रत्ययो भवति सप्रामाण्याविशेष्याद्विकल्पितुमर्हतीति पूर्वपक्ष्याहेत्यर्थः। नन्विति शङ्काभाष्यश्रुतिविरोधे मन्त्रस्येन्द्रपरत्वायोगात् विज्ञानोत्पादकशब्दसहकारितात्पर्यावधारणाभावे विज्ञानापरपर्यायाध्यवसायाख्यनिर्विचिकित्सत्वानुपपत्तेरयुक्तमाशङ्क्य सविचिकित्सो हीति भा-। ष्यवदिहापि विक्षेपार्थे विचिकित्सोक्तिरित्येव व्याचष्टे नन्विति नेतदिति परिहारभाष्यं विक्षेपे ऽप्यविरोधिश्रुतिविकल्पनोत्तरकालं प्रामाण्यासम्भवादयुक्तमाशङ्कानध्यवसायाख्यविचिकित्साशयत्वेन व्याचष्टे इतरस्त्विति काममित्यादि न लिङ्गं वि [८६४।८] नियोजकमित्यन्त शङ्काभाष्यं सिद्धान्तिन सार्वत्रिकलिङ्गात्प्रामाण्यानुज्ञानौचित्यादयुक्तमाशङ्क्य विरोधे तावत्प्रामाण्यं नास्त्येवेत्येवमर्थत्वं कुपितोक्त्या सूचयन् व्याचष्टे सिद्धान्तेति विचिकित्सोक्तेर्विक्षपार्थत्वव्याख्याया लिङ्गस्य चाप्राप्तबाधोक्तेरेतद्भाष्यविरोध शङ्कते कथं पुनरिति यदि सविचिकित्सोक्त्या सविक्षेपताच्यते कथं भाष्यकृता सविक्षेपकत्वम् सविचिकित्सशब्दवाच्यत्वेन परित्यज्य संशयो यः स विचिकित्सशब्दवाच्यत्वेन लोके प्रसिद्ध स एवात्र सविचिकित्सत्वेनोच्यते लिङ्गस्य वा प्राप्तबाधाभ्युपगमे कथं लक्षणस्य चाप्राप्तबाधाभ्युपगमे कथं लिङ्गपरिज्ञातत्वं भाष्यकृतोच्यते नास्मिन् विषयद्वये भाष्यविरोधो वार्त्तिकस्येत्याशयः वशब्दार्थे एवशब्दः। श्रुत्यविरोधे लिङ्ग विनियोज्यस्य मुख्यार्थतात्पर्यावधारणा लिङ्गस्याङ्गत्वरूपार्थविषय परिच्छेदकविज्ञानोत्पादकत्वे ऽपि विरोधतात्पर्यानवधारणात् श क्तिप्रकरणाम्नानलक्षणलैङ्गिकज्ञानमात्रोपपादकसामग्रीसद्भावे ऽपि विषयपरिच्छेदकस्वरूपज्ञानविशेषात्मना विज्ञानोत्पादकतात्पर्यावधारणाख्यसामग्र्यभावात्सदसत्वसाधारणज्ञानरूपो ऽनध्यवसायः। संशय एव प्रतिभादितुल्यो यस्माद्भवति तस्माद्यद्यपि पूर्वपक्षिणाक्तोकोपेनाविरोधो ऽपि प्रामाण्यं त्यज्यते तथापि तद्वरमङ्गीकुर्मः। न तु विरोधे प्रामाण्यमित्येवमर्थत्वात् भाष्यस्य न तद्विरोधाख्यो दोषो वार्त्तिकस्यास्तीत्याह नैष इति ज्ञेयसत्वानिश्चयतुल्यत्वात् सन्दिग्धत्वोक्त्या नाध्यवसाय एवोक्तः। शक्तिप्रमाणाम्नानमात्रस्य च लैङ्गिकज्ञानसामग्रीत्वाभ्युपगमेनाविरोधे ऽपि ज्ञानमात्रोत्पत्तिरुक्ता वस्तुतः श्रुतिकल्पनां विना लिङ्गस्य विनियोक्तृत्वायोगात् आकाङ्क्षां च विना श्रुतिकल्पनां विना लिङ्गस्य शक्तेराकाङ्क्षायामपि सामग्रीत्वावगमात् प्रत्यक्षया च श्रुत्यान्यत्र विनियुक्तस्य मन्त्रस्याकाङ्क्षानिवृत्तेः सामग्र्यभावेन ज्ञानमात्रस्याप्युत्पत्त्ययोगान् प्रामाण्यशङ्कैव नास्तीत्यभिधानार्थं यदेवेत्यादिभाष्यावयवं व्याचष्टे यदि चेति सामान्यतो लिङ्गप्रामाण्योक्त्यर्थमात्रेत्यादिप्रमाणमित्येतत्परिहारभाष्यं सिद्धान्तिना सार्वत्रिकप्रामाण्यापह्नवादयुक्तमाशङ्क्य काममित्यादिभाष्येण सिद्धान्तिना विरोधविषयएवाप्रामाण्ये शङ्कित ऽपि पूर्वपक्षी भ्रान्त्या सार्वत्रिकप्रामाण्यापह्नवं सिद्धान्तिकमत मत्वा प्रकरणवदित्यादिभाष्येण प्रामाण्यमार्गं दर्शयन्ती [८६५।१] त्याह परस्त्विति इममेव लिङ्गप्रामाण्यमार्गं द्रढयितुमा ह तदेतदिति यद्वा सार्वत्रिकं लिङ्गाप्रामाण्यं सिद्धान्त्यनभिमतं न विरोधविषया प्रामाण्योक्तिसौकर्यार्थं काममिति भाष्येणाशङ्कितं तन्निरासार्थं च सामान्यतः प्रामाण्यमत्रति भाष्येण पूर्वपक्षेनोक्तमित्येवमन्यथा भाष्यद्वयं व्याचष्टे अथ वेति तुल्यबलत्वाभावे ऽप्यविरोधात् समुच्चय इति पूर्वपक्षभाष्यं व्याचष्टे अभ्युपगम्यापीति एकस्यानेकार्थता विरुद्धेत्याशङ्क्य प्रयाजादिजन्यस्योपकारस्यैकस्याप्यनेकार्थत्वादर्शनादविरोधोक्त्यर्थं न चेति भाष्यावयवं व्याख्यातुमाह तद्यथेति अश्रुतावृत्तिदोषापत्तेः विरोधाशङ्कार्थं नन्वितिभाष्यं व्याचष्टे सकृदिति प्रधानानुरोधेन गुणावृत्तेर्न्याय्यत्वात् विरोधपरिहारार्थमुप- स्थापयेति भाष्यं व्याचष्टे नेति एकस्येन्द्रशब्दस्य मुख्यजघन्यवृत्तिद्वयविरोधशङ्कार्थमयं तर्हीति भाष्यं व्याचष्टे इन्द्रेति प्रयोगभेदेन विरोधपरिहारार्थं नेति ब्रूम इतिभाष्य व्याचष्टे नेति इन्द्रार्थत्वे मुख्यवृत्तेः सम्भवस्य गार्हपत्यार्थत्वे द्वारसम्भवस्याश्रवणादित्यर्थः। अत इत्युपसहारभाष्य समुच्चयपूर्वपक्षानुरूपत्वादयुक्तमाशङ्क्य परं लक्षणार्थत्वेन तुल्यबलोक्ति व्याचष्ट तस्मादिति एवमिति सिद्धान्तप्रतिज्ञाभाष्य व्याचष्टे एवमिति कुत इत्याद्यवगम्य तं प्रश्नपूर्वमुपपत्तिभाष्यं व्याचष्टे कुत इति विधेरस्य मन्त्रस्य सामान्यतः समीहिताङ्गत्वे विधितो ऽवगतेर्द्वितीयया गार्हपत्यस्येप्सिततमत्वेन समाहतत्वोक्तेगार्हपत्याङ्गतोक्ता भवतीत्याशयः। श्रुत्याख्यस्य वचनाभावे ऽपि प्रकरणलभ्यसामान्यसम्बन्धे ऽस्य लिङ्गाद्विनियोगा भविष्यतीति अत्राभिधीयतइत्यादिपूर्वपक्षभाष्योक्तानुभाषणार्थं नन्विति भाष्यं व्याचष्ट यत्विति वैदिके ऽर्थे शब्दातिरिक्तप्रमाणायोगात् श्रुत्यभावे लिङ्गादेः प्रामाण्येन सम्भवतीति परिहारार्थं नैतदित्यादिविप्रकृष्टः श्रुत्यर्थाल्लिङ्गमित्यन्तं भाष्य व्याचष्टे तदिति श्रुति विना प्रामाण्याभावे लिङ्गस्य श्रुत्यभावे नुपपत्त्यभावात् श्रुतिसद्भावकल्पकत्वायोगाप्रामाण्यापत्तेर्बलाबलचिन्तानुपपत्तिशङ्कार्थं तदित्यादिभाष्यं व्याचष्टे परस्त्विति अध्ययनविधितो मन्त्रस्य सामान्यतः समीहितार्थत्वे ऽवगते तद्विशेषापेक्षायां प्रकरणेन प्रकृते कर्मणि समीहितविशेषत्वेन समर्प्पिते यदुद्देशेन विधिविषयत्वाख्यस्य तादर्थ्यस्यानेनेदं कुर्यादित्येवं रूपाङ्गाङ्गिवाचिशब्दाभावे ऽनवगते समीहितविशेषार्थत्वं च विना सामान्यतो ऽवगतस्य समीहितार्थत्वस्यानिर्वाहात्तन्निर्वाहायानेन यजेतेति श्रुतौ प्रकरणेन कल्पितायां कथं मन्त्रेण यागं कुर्यादित्यपेक्षायां यथा शक्नुयादिति सर्वाख्यातसाधारणोपबन्धात्सामान्यतः शङ्काद्वारा ऽवगमे तद्विशेषापेक्षायां लिङ्गेनाभिधानाख्ये द्वारविशेषं समर्पिते ऽपि पूर्ववदेव मन्त्राभिधानयोरन्वयवाचिशब्दाभावे ऽन्वयानवगतेरभिदानद्वारानन मन्त्रेण यजतेति द्वारद्वांर्यन्वयवाचिशब्दकल्पने ऽस्या लैङ्गिकविनियोगान्यथानुपपत्तिलक्षणार्थापत्त्या ऽवगतश्रुतिमूलत्वेन लिङ्गप्रामाण्योक्त्यर्थमन्त्रेत्यादिश्रुतिमूल एवायमर्थ इत्यन्तं भाष्यं व्याचष्टे सिद्धान्तेति लिङ्गस्य श्रुतिकल्पकत्व [८६६।१] सति विरोधे ऽपि श्रुतेरेव कल्पकत्वाविघातात् प्रामाण्याविघातशङ्कार्थं यदीत्यादि अर्हतीत्यन्तं भाष्य व्याचष्टे परस्तु मदीयमेवेति नापीत्यादि बाध्यतइत्यन्तं भाष्यं प्रामाण्यविकल्पाख्यदोषपरीहारार्थत्वेन व्याचष्टे सिद्धान्तेति विकल्पायोगोपपादनार्थं यतस्त्वित्याद्यर्थविप्रकर्ष इत्यन्तं भाष्यावयवं व्याख्यातुम् विरोधे चेत्युक्तम् भाष्ये च लिङ्गभूतस्येन्द्रशब्दस्येन्द्रोक्तिमसामर्थ्यमालोच्यानेन मन्त्रेणोन्द्रोपस्थानमित्ययं ततो ऽर्थो च गम्यतइत्युक्ते सामर्थ्यादिद्रशब्दमात्रविनियोगः स्यात् न कृस्नमन्त्रस्येत्याशङ्क्य कृत्स्नमन्त्रविनियोगविषयश्रुत्यनुमानाय प्राग्भवन्तीति कृत्स्नस्य मन्त्रस्यैकवाक्यतामपेक्ष्य आलोच्येत्युक्तम् तदस्मै प्रभवति सन्तापादिभ्य इति श्रुतेः सन्तापादिष्वनुमानशब्दस्य पाठमङ्गीकृत्याप्रत्ययोत्पत्तिमलिङ्गेन पदमात्रविनियोगात् वाक्यीयकृत्स्नमन्त्रविनियोगायोगस्मृत्यनुमेयश्रुतिवच्च लिङ्गाद्यनुमेयायाः श्रुते क्व चिदपाठादपाठं च विना विशिष्टक्रमकवस्तुसमूहार्थश्रुत्यसम्भवात् लिङ्गादिभिः श्रुत्यनुमानायोगमाशङ्क्य पदमात्रस्य निराकाङ्क्षार्थे शक्तत्वेनाप्रयोज्यतया विनियोगानर्हत्वात् पादमात्रे लैङ्गिकविनियोगानर्हत्वात् पदमात्रे लैङ्गिविनियोगपर्यवसानानुपपत्तेः प्रथममिन्द्रपदैकवाक्यत्वालोचनया कृत्स्नस्य मन्त्रस्येन्द्रोक्तिसामर्थ्यरूपं लिङ्गज्ञानं ततः कृत्स्नमन्त्रसामर्थ्यालोचनयोच्चरितेनाप्यनेन मन्त्रेणेन्द्रो ऽभिधेय इति शब्देन प्रयोगवाक्यैकदेशतयाभिसंहितेनोच्चारणक्रमाभावे ऽपि अभिधा।?।नक्रमात्सम्भवाद्विशिष्टक्रमकवर्णसमूहात्मकत्वेनास्य मन्त्रस्येन्द्राङ्गस्वरूपो ऽर्थो ऽभिहितो ऽर्थो भवतीति विज्ञानमित्येवं शङ्काद्वयपरिहारार्थ प्रथमं तावदिति भाष्यद्वयमविरोधे श्रुतिकल्पनोपपत्त्यर्थत्वेन व्याख्यातुम् यत्र हीत्युक्तम् प्रत्यक्षश्रुतिविरोधे लैङ्गिकश्रुतिविकल्पनायोगोक्त्यर्थं तदेतदित्यादिभाष्यावयवं व्याख्यातुम् यत्र त्वित्युक्तम् गार्हपत्योपस्थानाख्येनैकेनौवोपकारेण निर्ज्ञातेन मन्त्रवाक्यस्य कृतायागोपकाराख्यप्रयोजनत्वात् प्रकरणस्य च कृतयागाङ्गत्वबोधाख्यप्रयोजनत्वान्निराकाङ्क्ष्यं तत्रेत्यनेनोक्तप्रयोजनाख्यः समीहितोक्त्यर्थः। चातुर्वर्ण्यादिवत्स्वार्थिकस्यानेन भाष्यस्थेन सामर्थ्यशब्देनोक्तः। विकल्पस्य चेत्यादिभाष्यं व्याचष्टे कि चेति अष्टदोषत्वेनान्याय्यत्वोपपादनार्थं नित्यवच्चेतिभाष्य व्याचष्टे स्वतन्त्रयेति श्रुत्युपन्यासेन लिङ्गमप्युपलक्षितमिति सूचनार्थम् लिङ्गेन चेत्युक्तम् चोदितं सन्न कृतमित्यनेन श्रुतं चेति भाष्यावयवं व्याख्यायाचोदित सत्कृतमित्यनेनाश्रुतं सत्कृत भवतीत्येवमश्रुतमिति भाष्यावयवे व्याख्याते व्युत्क्रमव्याख्यायां को हेतुरित्याशङ्क्य चोदितस्यापीतरोलोचनेनाचोदितत्वापत्ति हेतुं सूचयितुम् तदपेक्षेत्युक्तम् अन्यतराक्षयणे सति इतरकरणस्य चोदितत्ववदाश्रीयमाणस्य नियमार्थेन शास्त्रेणार्थादन्यनिवृत्तेरितराकरणस्यापि चोदितत्वात् दाषो ऽकृतेनेत्याशङ्क्येतरन्न कार्यमिति निषेधाभावान्नियमस्य च स्वविषयनियतत्वमात्रपर्यवसानेनान्यनिवृत्तावव्यापारात्प्रकरणमपि चादितमिति नास्ति येनाकृतत्वस्यादोषत्वं स्यादिति तदकरणमपीत्यनेनोक्तमश्रुतस्याप्यनिषिद्धत्वेनादुष्टकरणमित्याशङ्क्य न शास्त्रपरिमाणत्वादित्यनेन न्यायेन पदार्थयत्तानियमात् अधिकपदार्थकरणे चेयत्ताबाधापत्तेरश्रुतकरणदोषत्वोक्त्यर्थं यावांश्चेति भाष्यं व्याचष्ट श्रुतेति तुल्यत्वोपपादनार्थं उभयत्र हीति भाष्य व्याचष्टे प्रसिद्धीति विकल्पपक्षनिरासोपसंहारार्थं तस्मादिति भाष्य व्याचष्टे तस्मात्तावदिति समुच्चयपक्षस्याविरोधात्खल्वपीत्यादिपूर्वपक्षभाष्योक्तस्यानुभाषणपूर्वं निरासार्थमथेत्यादिभाष्यं व्याचष्टे यस्त्विति विरोधोपपादनार्थं यत्कृतसामर्थ्ययोरि [८६७।२] त्यादिभाष्यं प्रश्नपूर्वं व्याचष्टे कथमिति भाष्यस्य वाक्योक्तिव्याख्यार्था मन्त्रोक्तिः कृतप्रयोजनोक्तेर्नैराकाङ्क्ष्यसिद्ध्यर्थत्वसूचनार्थम् निराकाङ्क्षइत्युक्तम् यस्मान्मन्त्रप्रकरणे द्व अपि निराकाङ्क्षे कृते लिङ्गस्य च विनियोगरूपो ऽर्थः साकाङ्क्षाभ्यां मन्त्रप्रकरणाभ्यां साध्यः तस्माल्लिङ्गं श्रुत्या विरुध्यतइत्यर्थः। श्लोकं व्याचष्टे एक इति मन्त्रप्रकरणयोर्नैराकाङ्क्ष्ये सति हवि ष्कृदेहीति त्रिवरघ्नन्नाह्वयतीत्यादिवछ् रुतेरपि विनियोजकत्वायोगात् लिङ्गविनियोज्यपदातिरिक्तपदमात्रसमूहस्य चाकृत्नवाक्यत्वेनाविनियोज्यत्वे विनियोगयोर्द्वयोरप्ययोगात् लिङ्गविनियोज्यं पदैकवाक्यतायाश्च लैङ्गिकविनियोगापेक्षत्वस्य नि सन्दिग्धत्वात लिङ्गेन सह तुल्यवलत्व शङ्कानुपपत्तेभाष्योक्तं लिङ्गवाक्यविरोधोदाहरणापरितोषात्स्वयमुदाहरणान्तर तावदाह लिङ्गेति होता यक्षन्मि [८६८।३] त्रावरुणाप्रशास्ताराप्रशास्त्रऋतुना सोम पिवतां प्रशास्तर्यजेति प्रैष। प्रशास्तृशब्दस्य मैत्रावरुणवाचित्वात् स्वशक्त्या मैत्रावरुणयागे नियुङ्क्ते। ततश्च मैत्रावरुणस्य नियोज्यत्वेन नियोत्कृत्वायोगाद्विनियोगार्थे8 प्रेष्येषु मैत्रावरुणविधिर्न कवलेष्विति सूचनार्थं हौत्रप्रवचनाधीनत्वविशेषण को ऽनुष्ठाने विशेषइत्यपेक्षायामाह तत्रेति मैत्रावरुणस्य यागे नियोगे ऽस्मिन् स्तस्य प्रैषे कर्त्तृत्वाशक्तेः अशक्तस्य च विनियोगायोगात् वाक्येन प्रैषे विनियागायोगमाशङ्क्य वाक्यावगतेन प्रैपकर्त्तृत्वेन लिङ्गानवगतयागकर्त्तृत्ववाधात् होतुरेव सामाख्यावगतं यागकर्त्तृत्वं बाधकाभावन यागे नियोगावगतेर्मैत्रावरुणस्य प्रैषे शक्त्यविरोधोक्तौ त्वात्मनि चेत्युक्तं केन परेण मैत्रावरुणा यागे नियोक्तव्य इत्यपेक्षायां स च परो होता नियोक्ता विप्रतिषेधे समवायविशेषादितराभ्यामन्यस्तेषां यतो विशेषः स्यादिति सूत्रशेषोक्तेन न्यायेन विज्ञायतइत्युक्तेष्वपकृष्टस्योत्कृष्टकार्यकारित्वप्रसिद्धेर्मैत्रावरुणादुत्कृष्टस्य होतुर्मैत्रावरुणकार्यकारित्वायोगान्मैत्रावरुणादपकृष्टस्यानन्तरस्य होतृपुरुषत्वेन मैत्रावरुणसदृशस्याच्छावाकस्यैवानेन न्यायेन मैत्रावरुणकार्यकारित्वप्राप्तेरपरितोषान्समाख्ययोर्होतृकर्त्तृकत्वं प्रैषस्योक्तं प्रैषार्थे ऽपि तर्हि यागे समाख्यया होतैव कर्त्ता स्यादित्याशङ्का यागांशे लिङ्गेन समाख्याबाधः प्रैषार्थेत्यनेनोक्तः। मन्त्रब्राह्मणयोर्विरोधे मन्त्रस्य तु ब्राह्मणचोदितार्थप्रकाशनात् तत्परतन्त्रवृत्तेरित्यैन्द्र्यधिकरणवार्त्तिकं मन्त्रस्य ब्राह्मणानुरोधवृत्तित्वोक्तेः प्रैषमन्त्रानुरोधेनेह ब्राह्मणवाक्यबाधो न युक्त इत्याशङ्क्याह यद्यपि चेति ब्राह्मणोक्त्या श्रुतिस्तत्र विवक्षितेत्याशयः। कीदृक लिङ्गमित्यपेक्षायामाह यदि हीति मैत्रावरुणस्य प्रैषकारित्वे होतुः समाख्यावगतप्रैषकार्यं यागकारित्वापत्तेर्यागनियोज्योक्त्यर्थेन प्रशास्तृशब्देन होता वाच्यः। स च मैत्रावरुणकार्यलोपं मत्वा न शक्यो वक्तुमित्याशयः। मैत्रावरुणस्य प्रैषार्थकारित्वे ऽपि होतृशब्दो मैत्रावरुणे ऽनर्थकः स्यान्न युक्तो ऽनर्थको ऽभ्युपगन्तुमिति लिङ्गद्वयविरोधस्यैतदुदाहरणम्। ततश्चोपक्रमस्थेन होतुर्यष्ट्टत्वलिङ्गेनोपसहारस्थस्य प्रशास्तुर्यष्ट्टलिङ्गस्य बाधः स्यादित्याशयेन शङ्कते ननु चेति ऋग्वेदविहितकर्मकारित्वगुणयोगेन होतृशब्दस्यार्थवत्त्वाभ्युपगमे प्रशास्तृशब्दस्यापि तुल्यार्थवत्तेत्याह गौण इति आदिरित्यादिशब्दसूचितं होतृशब्दस्य गौणत्वायोगं प्रकटयितुमाह अपि चेति शङ्काशयं प्रकटयन्नुपसहरति तस्मादिति होतृशब्दस्य होतरि मुख्यायां वृत्तौ ऋग्वेदविहितकर्मकारित्वस्य निमित्तत्वेन मैत्रावरुणेष्ट्यां वृत्तौ निमित्तत्वायोगात् कार्यापत्तिरेव निमित्तं वाच्या मैत्रावरुण एव होतृकार्यम् ऋग्वेदविहितं करोति न तु मैत्रावरुणकार्यं प्रैषानुवचनं होतेत्याशयेन परिहर्त्तुमाह अत्रेति एवमपि होतृशब्दस्य गौणत्वदोषो परिहृतः स्यादित्याशङ्क्य सर्वथा तावदित्युक्तम् अगत्या च मुख्यस्यापि गौणत्वं न दोषायेत्याशयः। अध्वर्यवो यजयन्ति विनिषय्वोद्ग्रातारः स्तुवन्तीत्यादौ च मुख्यर्त्विग्वाचिनोरध्वर्यूद्गातृशब्दयोस्तत्पुरुषेष्वपि प्रयोगदर्शनात् होतृशब्दस्यापि मुख्यर्त्विग्वाचिनस्तत्पुरुषमैत्रावरुणवाचिता कल्पयितुं युक्तेति सूचयितुमाह सर्व एवति अथाह यद्धोता यक्षद्धोता जक्षदिति मैत्रावरुणां होत्रे प्रष्यत्यथ कस्मादहोतृभ्यः सद्भयो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति चाहोतृषु होतृशब्दप्रवृत्तिनिमित्तं पृष्ट्वा प्राणो वै होता प्राण सावऋत्विज प्रतिप्रतिवचनालोचनायां होतृशब्दस्य गौणताव सीयतइति सूचनार्थः सर्वशब्दः। अतो होतृलिङ्गत्वाभावान्नायं प्रैषमन्त्रो होतारं प्रयुङ्क्ते किं तु प्रशात्रलिङ्गत्वात् प्रशास्तारमवेति नेह लिङ्गयोर्विरोध इत्युपसहर्तुमाह तस्मादिति एतत्प्रैषानुवचनमात्रविषय एव लिङ्गेन वाक्यबाधो नार्थेषु प्रेषानुवचनष्वित्याह न चेति भाष्यकारोदाहरणमाक्षिपति स्योनमिति श्लोकं व्याचष्टे सत्यपीति पुरोडाशाधारस्य पात्रस्य सीदति पुरो [८६९।३] डाशो ऽस्मिन्निति व्युत्पत्या सदनशब्दवाच्यस्याभिधारणमाधारद्वारा पुरोडाशसंस्कारार्थत्वाद्भाष्यकृतोपस्तरणत्वेनाक्ते निश्चलत्वफलप्रतिष्ठापनपर्यन्तं सादनं मन्त्रवर्णात्कार्यमिति सूचनाय प्रतिष्ठापनाक्तिः स्योनादिकल्पयाम्यन्तपदसमूहात्मकमेकं वाक्य तस्मिन्नित्यादिसुमनस्यमानान्तपदसमूहात्मकमपरमित्यर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादित्यत्र वाक्यैकत्वविशेषणप्रत्युदाहरणत्वेनोक्तत्वात् सकलस्य स्योनादेः सुमनस्यमानान्तस्य पदैकवाक्यत्वायोगे ऽपि तस्मिन्निति तच्छब्दाद्वाक्यद्वयैकवाक्यतावगम्यते यद्यपि किं सकलस्योनादिसुमनस्यमानान्तपदसमूहात्मकावान्तरवाक्यभेदशून्य वाक्यं लिङ्गविनियोज्यत्वविचोरो न सम्भवति तथापि किमेक एवावान्तरवाक्यरूपांशो लिङ्गबलीयस्त्वाद्विनियुज्यते वाक्यबलीयस्त्वाद्वा द्वितीयो ऽपि द्वितीयांशेन सहैको ऽशो विनियाज्यः केवला वेत्येवं विचारः सम्भवतीति परमतन तावत्समाधत्ते तत्रेति मन्त्रप्रकाश्यस्यार्थद्वयस्य विशेषणविशेष्यत्वेनोक्तावान्तरवाक्यभेदायोगात्स्वातन्त्र्येणोक्तौ विधेयत्वाभावेनाङ्गाङ्गित्वाद्यपेक्षाभावात् वाक्यैकवाक्यत्वानुपपत्तेरिहावान्तरवाक्यभेदे सति वाक्यैकत्वायोगात् सत्यपि च वाक्यैकवाक्यत्वे लिङ्गस्यावान्तरवाक्यविनियोगेन पर्यवसानसम्भवेन वाक्यान्तरैकवाक्यत्वानपेक्षाल्लिङ्गानपेक्षितस्यावान्तरस्यार्थान्तरे च लिङ्गविनियोगेन निराकाङ्क्षीकृतस्य लिङ्गविनियोज्यावान्तरवाक्यैकभूतावान्तरवाक्यान्तरविनियोजकतया लिङ्गापक्षेण वाक्येन विनियोगाशक्तेर्वाक्यस्य विनियाजकत्वायोगात्सत्यपि विनियोजकत्वे लिङ्गस्य वाक्यानेकत्वनिश्चयाद्वाक्यस्य लिङ्गापेक्षत्वनिश्चयात्तुल्यबलत्ववाक्यबलीयस्त्वयो शङ्कानुपपत्तेरेतत्समाधानापरितोषादन्यथा समाधत्ते अथ वेति श्लोकं व्याचष्टे तस्मिन्निति साकाङ्क्षावयवत्वे सत्यप्यर्थैक्याभावादेकवाक्यत्वायोगमाशङ्क्य साकाङ्क्षावयवत्वेनैवार्थैक्यस्य कल्पयितुं शक्यत्वादिदमेवैकवाक्यत्वे प्रधानकारणमित्युक्त्वा साकाङ्क्षावयवत्वे नार्थैक्यकल्पन शक्तये हीत्यादिनोपपादितं यदीत्या दिना लिङ्गबलीयस्त्वस्य नानावाक्यत्वानापादकतोपपादिता वाक्यस्य तर्ह्यलब्धात्मकत्वाद्विरोधो बलाबलचिन्ता वा न युक्तेत्याशङ्क्याह तेनेति वाक्यस्यात्रात्मलाभो ऽस्ति न वेत्येवमिह चिन्त्यते तेन लब्धात्मकस्य वाक्यस्य लिङ्गेन सह विरोधे सति बलाबलमिव वाक्यात्मलाभस्याशङ्क्यमानस्य बलाबलसहितो लिङ्गवाक्ययोर्विरोध इति भाष्यस्थविरोधोक्त्या चोक्तो नतु लब्धात्मकस्य वाक्यस्येति वदता सूचिते वाक्यात्मलाभस्य भाष्यानारूढत्वमाशङ्क्य कृत्स्नमन्त्रविनियोगोक्तिद्वारा कृत्स्नस्यैकमन्त्रतोक्ते त्युक्तम् अनेन न कृत्स्न एको मन्त्र इति कृत्स्न उभयत्र विकल्पेन समुच्चयेन वा प्रयोक्तव्य उत कल्पयाम्यन्त एको मन्त्रस्तस्मिन् सीदेत्यवमादिरपर इतिकृत्वा विभक्त्येत्येव सन्देहभाष्यव्याख्यां सूचिता वाक्यात्मलाभ एव कथं तर्हि कस्मात्साक्षान्न विचारित इत्या [८७०।१] शङ्क्याह तत्रापीति साकङ्क्षावयवत्वेनापाततो वाक्यात्मलाभप्रतीतेर्लिङ्गेन वाक्यभेदप्रत्ययेन बाधे सत्यनिर्वाहादबाधे तु निर्वाहाद्वाक्यात्मलाभसहसद्भावार्थं बाधकसदसद्भावविचार इत्याशयः। किं तावदिति पूर्वपक्षभाष्य व्याचष्टे किमिति तुल्यवलत्वे पूर्वपक्ष्यमाणे कृस्त्नो मन्त्रउभयत्र प्रयोज्य इति पूर्वपक्षवचनव्यक्त्यसम्भवमाशङ्क्य पुरोडाशसादने चेति चकारेण विभज्य प्रयोगो ऽपि पाक्षिकः सूचित पुरोडाशसादने वेति वाशब्दाध्याहारेणोभयत्र विकल्पेन कृत्स्नप्रयोगस्य शब्दावृत्त्या समुच्चयेन कृत्स्नप्रयोगो ऽभिहित इत्येवं पूर्वपक्षवचनव्यक्तिभाष्यव्याख्यां सूचयितुमाह तदा चेति लैङ्गिकविनियोगपक्षे विभज्य प्रयोगो वाक्यीयविनियोगपक्षे विकल्पेनोपस्तरणसादनयोर्मध्ये ऽन्यतरत्र समुच्चयेन वोभयत्र समुदायः प्रयोक्तव्य इत्यर्थः। विभज्य प्रयोगस्य वाक्यभेदापेक्षत्वात्समुदायप्रयोगस्य वा भेदापेक्षत्वात् वाक्यभेदाभेदयोस्त्वार्थभेदाभेदापेक्षत्वात्तावत एव च स्योनादे सुमनस्यमानान्तस्य मन्त्रसमूहस्यैको ऽर्थो भिन्नो वेत्यनवस्थितमन्त्रशास्त्रार्थागाद्विभज्य समुदायप्रयोगयोर्विकल्पो न सम्भवतीत्याशङ्कते कथं ।?।रिति समुदायावयववैकल्पिकप्रयोगोपादकवैकल्पिकभिन्नान्नरूपतेत्थंशब्देनोक्ता। एकस्याप्यतो देवा अवन्तु न इत्यादेत्रस्य देवविष्ण्वादिवैकल्पिकदेवतास्मृत्या वैकल्पिकानेकार्थत्वा।?।मात् एकस्यापि स्योनादेः सुमनस्यमानान्तपदसमूहस्य विशेभावापन्नैकार्थत्वं स्वतन्त्रार्थपरत्वं वेत्येवं वैकल्पिकानेकार्थत्वारोधेन वैकल्पिकवाक्यभेदाभेदविकल्पाविरोधाद्विभज्य समुदायोगयोरविरुद्धो विकल्प इत्याशयेन परिहरति सर्वथेति ।?। प्रमाणतो भिन्नाभिन्नरूपतया ऽनवस्थितस्योनादिसुमनस्यमातमन्त्रशास्त्रार्थावगतिरित्यपेक्षायामाह लिङ्गेति वाक्यबलीत्वपूर्वपक्षोक्त्यर्थमथ वेति भाष्यं व्याचक्षाणस्तस्मिन्पक्षे प्रकारेण भ।?।ज्य प्रयोगसूचनाशङ्कां निराकर्त्तुमाह यदा त्विति यथा ङ्गाच्छीघ्रम्प्रवृत्तेः श्रुतिर्लिङ्गाद्बलीयसी। तथा यस्य येन सह सध एकवाक्यतया न विद्यते। न तस्य तद्विषया शक्तिः कल्प्यते ।?। वार्त्तिकोक्तेन न्यायेन लिङ्गस्य केवलपदविनियोगे पर्यवसाना।?।न पदान्तरैकवाक्यत्वापेक्षित्वात् वाक्यमपि लिङ्गात् शीघ्रं तेस्ततो बलीय इत्यभिधानार्थं तद्धीत्यादिभाष्यं व्याख्यातुम् ।?।र्वेत्युक्तम् एवमित्यादिप्रयोजनमस्तीत्यन्तं सिद्धान्तभाष्यं व्या एवमिति तस्मिन्नित्यस्याप्युपलक्षणस्योनादि रिति स्योनादिहस्तरणप्रकाशनाय तस्मिन्नित्यादिश्च सादनप्रकाशनाय स्वतो ऽवगसामर्थ्येन विनियोगान्निराकाङ्क्षः शक्यते कर्त्तुमिति यत्तु साका।?। कल्पयितुमारभते तत्तस्मिन्निति तच्छब्दाधीनं तच्च देवीतिवन्नैकवाक्यत्वापादकसाकाङ्क्षत्वं कर्त्तुं शक्नोतीत्यध्याण योज्यं वाक्यात्मलाभहेतोः साकाङ्क्षावयवत्वस्य तच्छब्दादातः प्रतीतस्यापि स्वतो ऽवगतेन सामर्थ्येन बाधादेकवाक्यत्वमलाभ एव नास्ति कुतस्तस्य तुल्यबलत्वं बलीयस्त्वं वा शङ्क्येतेशयः। स्योनादेः कल्पयाम्यन्तस्य स्वकार्यसामर्थ्येन विनियोराकाङ्क्षोक्त्या केवलस्य पदस्य लिङ्गविनियोज्यत्वशङ्कानिरासो सूचितः तस्मिन्नित्यादेर्नैराकाङ्क्षोक्त्यार्थस्य प्रकरणवत इत्यादे।?।योज्येतेत्यन्तस्याद्यस्य श्रौतं व्याख्यानमकृत्वा स्योनादेर्नैराकाऽर्थस्य तथेत्यादेः पाश्चात्यस्य श्रौतव्याकरणं स्योनादेर्नैरा।?।स्य स्पष्टत्वसूचनायेतिसर्वस्तावदित्यनेन सूचनपूर्व श्लोकं व्या।?। सर्वस्तावदिति उपलक्षितभाष्यव्याख्याप्रकरणार्थम्910 न चेत्युक्ते तच्छब्दस्य पूर्वापेक्षत्वात्कथं च परस्य पूर्वेण विनानर्थकत्वानापत्तिरित्याशङ्कानिरासार्थत्वेन श्लोकान्त्यपादव्यानाख्यार्थम् यद्यपि चेत्युक्तम् नास्तीत्यस्य न पुरोडाशसादनइत्यस्य च भाष्यावयवस्यान्येनैव पादेन व्याख्येति सूचनार्थम् तस्मादित्युक्तम् एवमिति भाष्यस्य तस्मिन्सीदेति पुरोडाशसादनाभिधानसामर्थ्यादित्यादिना सामर्थ्यावगतसादनविनियोगमात्रेण निराकाङ्क्षोक्तेः सामर्थ्यस्य विनियोजकप्रमाण्याभावेन वोपस्तरणे विनियोगोक्तेस्तस्मिन्सीदेत्यस्योपस्तरणार्थात्सामर्थ्याभावाभिधानात् पुरोडाशसादने ऽपीति भाष्यस्य तत्तथेत्यादिना सामर्थ्यावगतेरुपस्तरणविनियोगमात्रेण नैराकाङ्क्ष्योक्तेः सादनं च विनियुज्यमानस्य स्योनमित्यस्य प्रयोजकवाचिप्रयोजनशब्दोक्तविनियोगाक्षेपकसामर्थ्याख्यप्रमाणाभावेन सादने विनियोगानर्हत्वोक्तेरर्थात्सामर्थ्याभावाभिधानात्पौनरुक्त्यमाशङ्क्याह एवमिति अर्थसिद्धस्यापीतरविषये सामर्थ्याभावनिरूपणस्य दार्ढ्यायेत्यर्थः। तस्मिन्नित्यस्य सादने विनियोगान्नैराकाङ्क्ष्ये स्योनमित्यस्याप्युपस्तरणे विनियोगान्नैराकाङ्क्ष्ये सतीति भाष्यस्यैवशब्दार्थः। यत्स्योनं तइत्येतस्येति भाष्यस्य सदेत्यनेन सीदेत्यस्य पुनरिति भाष्यस्य च पूर्वेण सहेत्यनेन पौनरुक्त्यमाशङ्क्याह यच्चेति तस्मिन्नित्यस्यैकत्र सादने सामर्थ्यस्य। तस्मिन्सीदेति पुरोडाशाभिधानसामर्थ्यादिति भाष्योक्तस्य इतरस्योपस्तरणवदिति भाष्येण स्योनमित्यस्य वैकत्रोपस्तरणे सामर्थ्यस्य तथेति भाष्योक्तेरस्येतरत्र सादने पुरोडाशसादने ऽपीति भाष्येण नास्ति सामर्थ्यमित्यनुषङ्गसहितेनाभावं दर्शयित्वा तच्छब्दालोचनयैकवाक्यत्वस्यावगतस्यार्थैक्यं विनानुपपत्तेरवयवद्वयस्येतरेतविषये सामर्थ्यावश्यं भावमाशङ्क्य सत्यन्तस्मिन्सीदेत्यस्य पूर्वैकवाक्यत्वादुपस्तरणे पूर्वस्य च पदैकवाक्यत्वात्सादने11 शक्तिस्तथापि स्वरूपेणोभयोर्मन्त्रयोरुभयार्थविषयशक्त्य भावाद्विनियोगस्य श्रुत्यर्थविप्रकर्ष इत्युक्ते तस्मिन्सीदेति वत्स्योनादिशब्दानामप्युपस्तरणाख्यसदनकरणोक्तिःशक्तेः सदनम् करोमीत्येतदेकवाक्यत्वाधीनत्वेन तत्वायोगाद्विप्रकर्षतुल्यत्वमाशङ्क्य सदनशब्दवत् स्योनसुशेवशब्दयोर्द्वितीयान्तत्वेन कृणोतिकर्मभूतस्य सदनशब्दोक्तस्य स्थानस्य ग्रहत्वसुमुखत्वरूपस्तुत्यर्थत्वेन तेशब्दस्य च स्थानापेक्षितस्थातृपुरोडाशसर्पकत्वेन घृतस्य धारयेत्यस्य च करणसमर्कत्वेन कल्पयामिशब्दस्य च सदनक्रियाया रचनारूपस्तुत्यर्थत्वेन कृणोमिपदैकत्वस्य स्पष्टत्वात् स्योनादेः कल्पयाम्यन्तस्य सदनकरणोक्तिशक्तिः स्पष्टत्वरूपेण प्रत्यक्षत्वेन प्रथमावगतत्वान्मुख्येति वदता यत्स्योनं तइत्यस्येति भाष्येणात्मनिबन्धनं स्वरूपनिबन्धनं शक्त्याख्यं धर्ममुपनीय सिद्धत्वेनोक्ता तस्मिन्नित्यादेरपि तर्हि परोडाशसादनाख्यं सदनक्रियाफलोक्त्यर्थत्वेन कृणोमिपदैकवाक्यत्वात् सदनकरणोक्तिशक्तिस्तुल्येत्याशङ्क्य सदनक्रियाया मन्त्रविधेयत्वाभावेन फलानपेक्षत्वात् तच्छब्दस्य च पूर्ववाक्योक्तसदनपरामर्शित्वसम्भवेनैकवाक्यत्वानाक्षेपत्वात् बलात्कृणोमिपदैकवाक्यतामापाद्य सदनकरणोक्तिशक्तिः पाश्चात्यत्वेन जघन्यति वदता सीदेत्यस्य पुनरितिभाष्येणेतरमन्त्रावयवैकवाक्यत्वनिबन्धनस्य शक्त्याख्यसुधर्मस्य तेनाकाङ्क्ष्ये सत्येकवाक्यत्वकल्पनायोगेन तन्निबन्धनं शक्तिकल्पनायोगान्निराकरणं कृत ततश्च भिन्नार्थात्वान्न पौ नरुक्त्यमित्येवं सकलो ग्रन्थो निराकुलीकार्य इत्यर्थः। एवमप्येकवाक्यत्वोपगमनशक्त्याख्यलिङ्गविप्रकर्षार्थत्वोक्त्यर्थस्य सत्यमेवमित्यादिभाष्यस्य सीदेत्यनेनोत्तरस्य त्वित्यनेन चापिचेत्यादिभाष्य स्य च न ह्यस्मिन् विनियुज्यमानस्य किं चिदपि प्रयोजनमस्तीत्यनेन पौनरुक्त्या परिहारात्कथं सकलस्य ग्रन्थस्यानाकलतेत्याशङ्क्याह पूर्वश्चेति को वा अर्थविप्रकर्षः प्रस्तुतस्तत्र प्रकरणवत [८७१।१] इत्यादिना लिङ्गं बलवत्तरमित्यनेनैकस्यावयवस्य स्वार्थे ऽभिधानशक्त्याख्यविनियोगप्रमाणसद्भावात्तस्य च श्रुतिकल्नमात्रान्तरितत्वात्सन्निकृष्टो विनियोगाख्यश्रुत्यर्थः अवयवान्तरार्थे त्वभिधानशक्त्याख्यप्रमाणाभावेन वाक्यस्य विनियोजकतयाभ्युपनीयत्वात्तस्य च लिङ्गश्रुतिकल्पनान्तरित्वात् विप्रकृष्ट इत्येववाक्यस्य लिङ्गापेक्षयार्थं विप्रकर्षप्रस्तावे पूर्वकृते अवयवद्वयस्यैकवाक्यत्वावगमादैकार्थ्यं च विनैकवाक्यत्वायोगात् एकस्मिन्नर्थे शक्ते शक्तिनियुक्ते इत्याशङ्कानिरासार्थं ततः स्योनमित्येषशब्दमित्यादिभाष्येण लिङ्गेन बाधापत्तेरेकवाक्यबाधायोगापत्तेर्विरोधस्यापरिहारार्थत्वमाशङ्क्यैकवाक्यत्वोपगमनशक्तेर्लिङ्गत्वविधिप्रकृष्टार्थत्वेन बाध्यत्वस्योचितत्वात् वाक्यभेदोपपत्तेः शक्त्यशक्त्योर्विरोध इत्येव शक्त्यशक्तिभ्यामविरोधित योपपाद्यत्वेन प्रयोगभूताभ्यां सत्यमेवमित्यादिभाष्येणैकवाक्यत्वोपगमनशक्त्याख्यस्य लिङ्गस्य सन्धानशक्त्याख्यलिङ्गापेक्षयार्थविप्रकर्षप्रस्तावो मध्ये कृत इत्यस्य तावद्भाष्ये सीदेत्यस्य पुनरित्यनेनोत्तरस्य त्वित्यनेन चार्थभेदादपौनरुक्त्यम्। अनेनापि चेति भाष्येण वाक्यस्य तन्निर्बाह्यार्थस्य शब्दलिङ्गस्याभिधानशक्त्याख्यलिङ्गापेक्षया दृष्टार्थत्वविशेषनिमित्तार्थविप्रकर्षप्रस्तावो न ह्यस्मिन्नित्यनेन च प्रमाणस्य चोक्तौ पौनरुक्त्यं तत्तच्छब्दावगतैकवाक्यत्वनिर्वाहायैकवाक्यत्वोपगमनशक्त्याख्याल्लिङ्गात्कल्पितादेकवाक्यत्वनिर्वाहे ऽवगते ऽप्यवयवान्तरोक्तक्रियाविशेषणोक्तिद्वारावयवान्तरस्यावयवान्तरार्थाभिधानशक्तेः कल्प्यत्वात् स्वप्रधानभूतस्वार्थोक्त्या च निराकाङ्क्षणावयवारुत्तरार्थविशेषणीभूतस्वार्थोक्तौ च दृष्टार्थत्वापत्तेरस्यार्थविशेष्यस्यावयवान्तराकाङ्क्षां कल्पयित्वान्तरभिधानशक्तित्वात्कल्पनपूर्वकल्पार्थकल्पनाद्विप्रकर्षो प्रधानभूतस्वार्थमात्रोक्तै च दृष्टसमवेतार्थत्वेनावयवान्तरार्थाङ्काङ्क्षाकल्पनाभावात्सनिकर्ष इत्येवमाशयशब्दादपि वेति भाष्यस्येत्यर्थ। एवमित्यादिभाष्यस्य तु निरूपणादाढ्यार्थत्वेनाद्यप्रस्तावान्तत्वात्मध्यमप्रस्तावार्थत्वं न युक्तमित्यनवद्यम् तस्मादिति लिङ्गबलीयस्त्वसिद्धान्तोपसहारभाष्य तस्मादिति अथेति भाष्येण वाक्यप्रकरणयोर्विरोधे कीदृग्बलाबलमिति पृष्ट्वा प्रकरणस्वरूपप्रश्नार्थं किं पुनरिति भाष्यमितिकर्त्तव्यतार्थित्वलक्षणस्य स्वरूपस्य सूत्रकृतैवोक्तत्वादयुक्तमाशङ्क्य शब्देनेतिकर्त्तव्यतार्थित्वरूपेण भावनानभिधाने वस्तुवृत्या तदर्थित्वे ऽपि अङ्गप्रधानवाक्यानामन्योन्यानाकाङ्क्षत्वेनैकवाक्यत्वायोगापत्त्या तदनुमानद्वारविप्रकर्षायोगापत्तः प्रकरणस्य वाक्यार्थविप्रकर्षेण दौर्बल्यं वक्तुमितिकर्त्तव्यताकाङ्क्षत्वेन भावनाभिधानस्य प्रकरणलक्षणकत्वकथनायैतद्भाष्यमिति सूचयितुमाह किं पुनरिति प्रकरणस्य विनियोगसामर्थ्योपपादनायेतिकर्त्तव्यतार्थित्वादिति सूत्रावयवः। न तु लक्षणकथनायेति न चेत्यनेनोक्ते वस्तुवृत्त्येतिकर्त्तव्यताकाङ्क्षायाः सद्भावे ऽपि शब्दस्पर्शाभावे शब्दैकसमधिगम्ये ऽर्थे प्रामाण्याभावापत्तेर्विनियोगसामर्थ्यस्याप्यसिद्धेस्तत्रैवैतल्लक्षणं वाच्यमित्याशङ्क्य शब्दस्पर्शविनीतकर्त्तव्यताकाङ्क्षायाः परमार्थतो विनियोगप्रामाण्याभावे ऽपि शब्दोक्तार्थत्वमात्रेण प्रामाण्यं वक्तुं शक्ष्यामीति प्रौढिसूचनार्थं तत्र लक्षणानुक्तिरति सूचयितुम् तदित्याद्युक्तम् यद्वा न लक्षणजिज्ञासयायं प्रश्नः किं तु वाक्यक्रमाभ्यां भेदजिज्ञासयेत्यन्यथागतार्थत्वं परिहरति अथ वेति वाक्यात्तावदभेदशङ्कां दर्शयितुमारभते साकाङ्क्षेति इतिकर्त्तव्यतान्वयं विना भावनाकर्त्तव्यत्वोक्त्यपर्यवसानात्प्रकरणे ऽप्याकाङ्क्षायाः शब्दस्पष्टत्वाविशेषसूचनार्थं पदसाकाङ्क्षत्वोक्तिः प्रकरणस्य वाक्यसमूहात्मकत्वेन पदसमूहात्मकात् वाक्यात् भेदो ऽत्मा भविष्यतीत्याशङ्क्याह न चेति यावतां पदानां विभज्यमानानां साकाङ्क्षत्वं संहत्यमानानां चैकप्रयोजतत्वं तावतां वाक्यतेत्येतावन्मात्रोपलक्षणत्वाद्वाक्यस्य तन्निरपेक्षायां पदसङ्ख्यायां प्रमाणभावे नैराकाङ्क्ष्यात् प्राक् वाक्यत्वात् प्रकरणे ऽपि पदानामेकसमूहो न वाक्यानामित्यपरं बहुपदमित्यनेनाशङ्कानिरासार्थं सूचिते ऽवान्तरवाक्यार्थवशेनावान्तरसमूहाख्यवर्गान्तरकृतात्यन्तभिन्नवाक्यत्वादेकवाक्यत्वायोगमाशङ्क्यावान्तरसमूहीकृतत्वे ऽपि महावाक्यार्थाख्यप्रयोजनवशेन महासमूहापत्तेरेकवाक्यत्वोपपत्तिरुक्ता एतदेव न तद्वाक्यं हि तदर्थत्वादिति वेदाधिकरणसूत्रस्थभाष्यसम्मत्या द्रढयति वक्ष्यति हीति क्रमादभेदशङ्कां दर्शयति अथ वेति कर्त्तव्यस्येत्यादिभाष्यत्रयं लक्षणत्रयोक्त्यर्थत्वेनाभासमानत्वादयुक्तमाशङ्क्य आद्यमेव लक्षणोक्त्यर्थं द्वितीयं लक्षणोपपादनायावयवव्युत्पत्त्यर्थ तृतीयं रूढित्वशङ्कानिरासाय यौगिकत्वमुपपादयितुं पर्यायाक्त्यर्थमित्येवं व्याचष्टे तदिति तत्वं प्रकरणस्य प्रकरणत्वं प्रकरणशब्दप्रवृत्तौ निमित्तं सर्वप्रकरणेष्वनुवृत्तमन्यतो व्यावृत्तं लक्षणभेदो ऽवयवार्थोक्तिः प्रकरणशब्दपर्यायो विध्यादिशब्दः तैस्तै प्रकरणं निरूपयतीत्यर्थः एतदेव विवेक्तुं कर्त्तव्यस्येतिभाष्यं तावत्तेन प्रकरणोक्त्यर्थतया व्याचष्टे तत्रेति इतिकर्त्तव्यताकाङ्क्षायाः शाब्दत्वोपपादनार्थ कर्त्तव्यतोक्तिं द्वेधा व्याचष्टे कर्तव्येति सेति कर्त्तव्यताकप्रधानसाध्यत्वेनापूर्वस्येतिकर्त्तव्यतां विना साध्यत्वायोगात्साध्यत्वोक्त्या भावनाया वा सेतिकर्त्तव्यताकप्रधानावच्छिन्नाया विधेयत्वेतिकर्त्तव्यतां विना विधेयत्वायोगाद्भावनाविधेनेतिकर्त्तव्यताकाङ्क्षत्वरूपेण भावनोक्तिसूचनायानुष्ठापकप्रयोगविधिविषयत्वलक्षणार्थत्वेन कर्त्तव्यतोक्तिव्याख्यार्थानुष्ठेयत्वोक्तिभावनार्थत्वाकर्त्तव्यत्वोक्तेः स्त्रीलिङ्गत्वापत्तेर्भावनाशब्देन भावनोक्ताकर्त्तव्यत्वोक्तेः साध्यार्थत्वे फलवाचित्वापत्तेर्वापूर्ववाचित्व स्यादित्याशङ्कते साध्यांशेति फलं भवद्भावयेदनेनेत्थमिति साध्यसाधनेतिकर्त्तव्यतावच्छिन्नाया भावनाया युगपत्प्रयोगविधिविषयत्वात्वयाणामपि भावनांशानामेककालत्वावगतेः फलस्य चानिर्ज्ञातकालत्वेन साधनेतिकर्त्तव्यताकालत्वावगमात्स्वर्गादेश्च कालान्तरभावित्वेन साधनेतिकर्त्तव्यताप्रयोगेण सहैककालत्वाख्यसमवायाभावादपूर्वस्य तु यदा त्वाद्यपरिस्पन्दात्प्रभृत्या फललाभः क्रिया पूर्वापरीभूता लक्ष्यते वर्त्तते तदेति न्यायेन फलनिष्पत्तिपर्यन्तं पूर्वापरौदासीन्यावस्थान्तरालकालैक्यात् प्रयोगसमवायोपपत्तिस्तस्यैव कर्त्तव्यत्वावधारणान्न फलं कर्त्तव्यमिति परिहरति नेति अपूर्वस्य फलत्वाभावात्तन्निष्पत्तिमात्रेण प्रयोगसमाप्त्ययोगात्स्वर्गादिनिष्पत्तिपर्यन्तं कालैक्यात्स्वर्गादेरपि प्रयोगसमवायोपपत्तिमाशङ्क्य पूर्वापरौदासीन्यावस्थान्तरालवर्त्तिप्रयोगवाह्यस्य कालस्य प्रयोगपरिच्छेदकत्वायोगात्स्वर्गादेश्चान्तरालवर्त्तित्वभावाच्च न्निष्पत्तिपर्यन्तकालैक्यानुपपत्तेः फलसिद्ध्यर्थत्वाच्चापूर्वस्यापि इत्युद्देश्यत्वलक्षणफलत्वोपपत्तेस्तन्निष्पत्तिमात्रेण प्रयोगसमाप्तिसूचनार्थम् तत्सिद्ध्यर्थेत्युक्तम् यस्य च शब्दार्थेन फलं साध्यते नापूर्वं कृत्वेति भावार्थाधिकरणभाष्य द्वितीयया पूर्वस्य कृतिकर्मत्वाभिधानेन कर्त्तव्यत्वावधारणं द्रढयितुं तदवयव पठति तेनेति नवमाद्यसूत्रे च यज्ञेन क्रियते इति व्युत्पत्त्या पूर्वस्य यज्ञकर्मशब्दोक्तस्य कर्त्तव्यतया चोद्यमानत्वेन हेतुना प्रयोजकत्वस्य वक्ष्यमाणत्वात्तस्यैव कर्त्तव्यतासूत्रकृतो ऽभिप्रतेति दर्शयितुमाह तथा चेति कर्त्तव्यताङ्गीकारेणेति तथाशब्दस्यार्थः फलदेवतयोश्चेति नवमाधिकरणे पूर्वपक्षसूत्रे चागन्मस्वः सञ्ज्योतिषा भूमेति फलप्रकाशके मन्त्रे फलस्येग्निरुज्जितिमनुज्जेषमित्यादिषु देवताप्रकाशकेषु देवतायाः प्रयोजकत्वमुपन्यस्य चोदनातो हि ताद्गुण्यमिति सिद्धान्तसूत्रे कर्त्तव्यतया चोद्यमानत्वे नापूर्वस्य मन्त्राणामपि नवमाद्यन्यायेनापूर्वावगुणत्वागतेःफलदेवतायोः कर्त्तव्यत्वाभावेन प्रयोजकत्वस्य निराकरिष्यमाणत्वात्फलस्याकर्त्तव्यता सूत्रकृतो ऽभिप्रेतावसीयतइत्याह फले ति इतिकरणसूत्रावच्छेदायोपन्यासपूर्वनिराकार्यप्रयोजकत्वपरामर्शाय चावर्त्तनीयः कर्त्तव्योर्क्ति द्वेधा व्याख्यायेतिकर्त्तव्यताकाङ्क्षोक्तिं द्वेधा व्याचष्टे तत्रेति कर्त्तव्यस्य य इति कर्त्तव्यताविषया आकाङ्क्षाभिलाषस्तस्य यद्वचनमिति व्यधिकरणस्य षष्ठ्यन्तन्तपदद्वयस्याद्ये व्याख्याने ऽभिप्रेतत्वात्तस्येति षष्ठ्यां प्रयोज्यायां कर्त्तव्यतानुक्तावितिकर्त्तव्यताया अभावेनापूर्वनिष्पत्तावपि भावनायाश्च विधेयत्वायोगे ऽपि शब्दविरोधाभावात्कयाचिदितिकर्त्तव्यतयावश्यम्भाव्यमितिकर्त्तव्यता ऽकाङ्क्षायाः शब्देनाक्षेपायोगेन शब्दत्वापत्तेः शब्दे च सिध्यर्थमितिकर्त्तव्यताकाङ्क्षेण कर्त्तव्यत्वस्य निमित्ते च सूचनार्थं तत्रेति सप्तम्यर्थे त्रल् प्रयोगेण षष्ठ्यर्थो लक्षितः पर्यायेणेति कर्त्तव्यतोक्तिव्याख्यानायानुग्रहोपयोगोक्तिः भावव्युत्पन्नत्वेनाकाङ्क्षोक्तौल्युजन्तयाकाङ्क्षणोक्त्या व्याख्यातायामाकाङ्क्षापदस्य स्त्रीलिङ्गत्वप्रसिद्धेः पुल्लिङ्गत्वायोगमाशङ्क्य पुल्लिङ्गत्वसिद्ध्यै घञन्ततायामुक्तायामलौकिकप्रयोगापत्तेर्घञ्ञन्तत्वायोगमाशङ्क्याकाङ्क्षायाः शाब्दत्वसिद्ध्यै वाच्यत्वं विवक्षितुं परमतेन षष्ठीसमासमभिप्रेत्येयं व्याख्यातिव्याख्यायतइत्यनेन सूचिते साकाङ्क्षत्वापादकेन रूपेणापूर्वस्य भावनाया वाभिधानमात्रेणाकाङ्क्षायाः शाब्दत्वोपपत्तौ तद्वाचिशब्दकल्पनायोगादेतद्वयाख्याख्यानापरितोषेण कर्मत्रयेण प्रत्ययमभिप्रेत्योपपादसमासतया स्वमतेन व्याख्यातुं यद्वेत्युक्ते स्यां व्याख्यायां पदद्वयस्यापि सामानाधिकरण्याद्वनपदेनान्वय पूर्वस्यां तु वैयधिकरण्यादितिकर्त्तव्यताकाङ्क्षाया विधिवाक्ये केन चिच्छब्देनानभिधानाद्वचनोक्तिमयुक्तामाशङ्क्य व्याचष्टे वचनेति आद्यव्याख्याते ऽङ्गप्रधानवाक्यैकवाक्यत्वान्यथानुपपत्त्या कल्पितेन कथमितिशब्देन प्रत्यायनं द्वितीये त्वपूर्वकर्त्तव्यत्वपक्षे यागेनापूर्वं कृत्वा स्वर्गं भावयेदिति साध्यसाधनान्वयान्यथानुपपत्त्या कल्पितेनापूर्वकर्त्तव्यत्ववाचिना पूर्वं कृत्वेति शब्देन भावनाकर्त्तव्यत्वपक्षे श्रुतेनैव विधिशब्देनेत्यर्थः वचनविशेषणस्य किं प्रयोजनमित्यपेक्षायामाह एतदिति प्रमाणान्तरेण प्रतीयमानत्वे ऽपि शाब्दत्व सिद्धेः शब्देनेत्यध्याहार्यं आकाङ्क्षाशब्दन प्रत्यायनशङ्कां निवर्त्तयितुमाह तेनेति भावनेत्यत्राप्यभिधीयमानेत्यनुषञ्जनीयं भावव्युत्पत्त्याकाङ्क्षाया भावनाया वा प्रकरणत्वोक्तिः आकाङ्क्षावतो ऽपूर्वस्य प्रकरणत्वानुपसंहारेणापूर्वनिष्पत्तिभावनयेतिकर्त्तव्यताकाङ्क्षणादपूर्वस्याकाङ्क्षोक्ता वस्तुतस्त्वंशतयान्विता भावना विध्युत्तरकालं कल्प्यत्वेनापूर्वस्य प्रागप्रतीतेराकाङ्क्षायोगान्नावमिक्याश्चापूर्वप्रयुक्तत्वोक्तेर्भावनाय धर्मप्रयोजकस्यापूर्वनिप्पत्त्यर्थत्वाशयत्वेन व्याख्यातुं शक्यत्वान्नापूर्वस्याकाङ्क्षास्तीति सूचितं प्रारम्भो हीति भाष्यं यस्माद्य प्रकरणशब्दवाच्यो ऽर्थः स क इत्यपेक्षायामवयवार्थानुसारात् क्रियायाः प्रारम्भो ऽवसीयते क्रियानवयत्वाच्चाकाङ्क्षायाः क्रियारम्भत्वं न सम्भवति तस्मान्नाभिधानानपेक्षाप्रकरणं किं त्वंशत्रयान्वितकर्त्तव्यभावनाभिधानाख्यक्रियारम्भात्मकत्वादाकाङ्क्षाभिधानं साकाङ्क्षभावेनाभिधानं वा प्रकरणमित्येवमुपलक्षणोपपादनायावयवार्थभेदेन प्रकरणोक्त्यर्थतया व्याचष्टे इदानीमिति लक्षणोपपादनार्थत्वसूचनायेदानींशब्दः क्रियाप्रारम्भवाचित्वं प्रकरणशब्दस्योपपादयितुमाह तत्रेति अवयवालोचनया क्रियामात्रारम्भप्रतीतेर्वचनविशेषणमयुक्तमाशङ्क्याकाङ्क्षाभिधानस्य क्रियान्ततरारम्भत्वायोगादंशत्रयोपेतां भावनाभिधानक्रियारम्भत्वोक्त्यर्थत्वेनोपपादयितुमाह का पुनरिति किं विषया वचनक्रियेत्यपेक्षायां तस्येत्येतेन कर्त्तव्यस्य भावनाख्यस्यार्थविषयत्वेन परामर्शं सूचयन्वचनोक्तेश्च वाक्यवाचित्वाशङ्कां निवर्त्तयन्नवतारितं भाष्यावयवं व्याचष्टे अर्थेति भाष्ये स इत्यस्य प्रकरणपरामर्शित्वे ऽप्यारम्भ शब्दसामानाधिकरण्यात्पुल्लिङ्गत्वाविरोधः इतिकर्त्तव्यताकाङ्क्षत्व रूपेण भावनाभिधानस्यांशत्रयोपेतभावनाभिधानक्रियारम्भत्वमु पपादयितुमारभते भावनेति त्र्यंशभावेनाभिधानक्रियाया प्रयोगवाक्यव्यापाराद्यतः प्रयोगवाक्यस्य प्रवृत्तिस्तस्य तदारम्भ त्वात्किं केन कथमिति च फलकरणेतिकर्त्तव्यताकाङ्क्षत्वापादकेन भावयेदिति अनेन रूपेण भावनाभिधानस्य प्रयोगवाक्यप्रवर्त्तक त्वात्तस्यैव त्र्यंशभावनाभिधानक्रियारम्भतावसीयतइत्याशयः। प्रयो गवाक्यस्यास्मात् प्रवृत्तिरिति व्युत्पत्त्या प्रवर्त्तकं प्रवृत्तिशब्देनोक्तं य स्मादाद्यप्रयोगवाक्यप्रवर्त्तकं सम्भाविताभिधानक्रियारम्भस्तस्मादिति कर्त्तव्यताकाङ्क्षभावनाभिधानस्य भावनाभिधानक्रियारम्भता युक्ते त्यर्थ। फलाकाङ्क्षाया एव तर्ह्याद्यत्वादारम्भत्वं स्यादित्याशङ्क्याह फलेति फलद्वयमात्रसाध्यत्वेनाद्यांशद्वयपूरणस्य प्रकरणानपेक्षतयेतिकर्त्तव्यतालाभत्रस्यानेकवाक्याधीनसिद्धित्वेन प्रकरणापेक्षत्वादितिकर्त्तव्यतालाभे च फलकरणाकाङ्क्षयोर्हेतुत्वाभावेन प्रकरणशब्दप्रवृत्तिनिमित्तभूतारम्भत्वेनावक्तव्यत्वात्कथम्भाव एवेति कर्त्तव्यतालाभाभावाद्धेतुप्रकरणशब्दप्रवृत्तिनिमित्तभूतारम्भत्वेनोच्यते इत्युक्ते कथम्भावस्य फलकरणाकाङ्क्षोत्तरकालत्वेनानादिभूतत्वादारम्भत्वायोगमाशङ्क्य तेषामनेकेषां वाक्यान्तराणां समस्तानामालोचनापेक्षयेत्युक्तं वचनशब्देनाभिधानवाचिना ऽविधानस्याप्युपलक्षणं सूचयितुं विधानोक्तिः यथा च करणशब्दस्य स्वरसत क्रियामात्रवाचित्वे ऽप्यागमस्य क्रियान्तरायोगाद्योग्यतयाभिधानाख्यक्रियाविशेषणवाचितावसीयते तथारम्भवाचिनः प्रशब्दस्य स्व रसतः कथं किं भावविषयत्वावगमे ऽपि किं भावस्येतिकर्त्तव्यतालाभाहेतुप्रकरणशब्दप्रवृत्तिनिमित्तभूतारम्भत्वायोगाद्योग्यतयाङ्गवाक्यालोचनादिभूतकथम्भावविषयतापीति सूचयितुमाह करणेति स एष इति भाष्ये प्रकरणशब्दस्य रूढि त्वेनायोगिकतया क्रियारम्भवाचित्वाभावान्न तद्वशेनाकाङ्क्षाभिधानलक्षणतावसातुं शक्येत्याशङ्क्यारम्भवाचिविध्यादिशब्दपर्यायत्वात्प्रकरणशब्दस्यारम्भवाचित्वोपपादनार्थं पर्यायेण प्रकरणोक्त्यर्थतया व्याचष्टे स एष इति विध्यादिशब्दमात्र स्य पर्यायत्वात् विध्यन्तापेक्षोक्तयानर्थक्यमाशङ्क्य परिहर्तुमाह आदीति दृष्टान्तायान्तशब्दस्य सम्बन्धिशब्दतोक्ता विध्यन्तशब्दस्यार्थमाह विध्यन्तोनामेति विध्यन्तापेक्षया विध्यादित्वे तत्समस्तालोचनापेक्षया कथं भावः प्रकरणमभिधानविधानक्रिययोरारम्भ इति वार्त्तिकं विरुध्येतेत्याशङ्क्याह तस्य चेति अनेकेषां प्रयाजाद्यङ्गवाक्यानां वाक्यार्थानां च प्रयाजादीनां प्रयाजादिप्रयोजनानां चालौचनानि विधिमध्यभूतानि यस्येति बहुव्रीहिणा मत्वर्थोक्तेरङ्गवाक्याद्यालोचनाख्यविधिमध्यसहितविध्यन्तापेक्षयैव विध्यादित्व भाष्यकृतो ऽभिप्रेतं नतु विध्यन्तमात्रापेक्षया विध्यन्तोक्तिरूपलक्षणार्थेत्याशयः। विध्यन्तमात्रापेक्षाया च कथं भावस्यादित्वे विध्यन्तादित्वप्रसिद्ध्यापत्त्या विद्ध्यादिष्वप्रसिद्ध्ययोगापत्तेरङ्गवाक्यद्यालोचनाख्यविधिमध्यसहितविध्यन्तापेक्षयादित्वे त्वादिभूतविधिभागव्यतिरिक्तसमस्तोत्तरविधिभागसमूहं विधित्वेनाभिप्रेत्य विध्यादित्वप्रसिद्ध्युपपत्तेरेतत्प्रसिद्धिबलादपि विध्यन्तमात्रापेक्षयादित्वं निराकर्त्तुमाह इतीति हेत्वर्थेनेतिकरणेनात एव मध्यसहितान्तादित्वाद्धेतोर्विध्यादित्वप्रसिद्धिर्युक्तेत्युक्ते प्रसिद्धेरप्रामाण्याशङ्कानिरासायाचार्याणामित्युक्तम् आद्यन्तव्यपदेशयोर्वा मध्यापेक्षत्वात्तत्सम्बन्धित्वेन मध्योक्त्यर्थो ऽयं ग्रन्थः वाक्यक्रमाभ्यां प्रकरणस्य भेदे जिज्ञासया प्रश्नपक्षे कर्त्तव्यस्येत्यादिभाष्यण भेदसिध्यै प्रकरणस्वरूपस्य वाक्याद्भेदसिध्युपयोगित्वोक्त्यर्थत्वेन वाक्यं त्विति भाष्यव्याख्यां सूचयितुमाह तत्र चेति वाक्यार्थोक्तेः प्रयोजनत्वाभ्युपगमे तन्मात्रपर्यवसानेनानपेक्षत्वाद्वाक्यानामन्योन्यान्वयायोगः प्रयोजनत्वानभ्युपगमे पर्यवसानायोग इत्याशङ्क्य वाक्यार्थस्य प्रमेयत्वेन प्रमाणभूतवाक्यप्रयोजनत्वात्तत्प्रतिपादनेन वाक्यानां स्वप्रयोजनादाकाङ्क्षानिवृत्तिलक्षणे पर्यवसाने सत्यपि वाक्यार्थभूतभावनाकार्यदृष्टादृष्टप्रयोजनापेक्षावशेनान्योन्यान्वयोपपत्तिसूचनार्थम् कियत्यपीत्युक्तम् पदानामपि पदार्थोक्त्याख्ये प्रयोजने पर्यवसितानां वाक्यप्रयोजनभूतवाक्यार्थोक्त्याख्यकार्यान्तरापेक्षावशेनान्वयादविशेषमाशङ्क्याह तथेति पदमप्यधिकाभावात्स्मारकान्न विशिष्यत इत्यनेन न्यायेन पदार्थानां प्रमेयत्वाभावेन प्रमाणप्रयोजनत्वायोगान्न तन्मात्रे पर्यवसानं सम्भवतीत्याशयः। वाक्ये पदानामन्योन्यान्वयादादौ विभज्यमानानां प्रयोजनलेशे ऽपि वृत्तिर्नास्ति किं त्वन्योन्यान्वयेनैव वाक्यार्थस्य प्रयोजनलाभ इत्यर्थः क्रमात्तु प्रकरणस्य भेदमने कस्याम्नायमानस्य सन्निधिविशेषाम्नानमात्रं हि क्रम इति प्रकरणात्क्रमस्य दौर्बल्योक्त्यर्थं भाष्यं व्याचक्षाणा व।?। क्रमेण त्विति वाक्यक्रमाभ्यां प्रकरणस्य भेदमुपसं।?। दिति तयोरित्युदाहरणप्रश्न भाष्यमनकोदाहरणस।?। शङ्क्य साकाङ्क्षपदसन्निधिमात्रं हीत्यादिवार्त्तिकोक्तेन।?। [८७३।१] कवाक्यत्वशङ्का येनेत्येवमुपपादयति किमिहेति।?। न्युदाहरणभाष्य सूक्तवाकाख्यस्यापि निगदस्य दर्श।?। धिपाठेन तदेकवाक्यत्वशङ्कासम्भवादयुक्तमशङ्क।?। सिद्धान्तेति साक्षाद्दर्शपूर्णमासवाक्यैकवाक्यत्वाय।?। वाकविधायिनः सूक्तवाक्येन प्रस्तरं प्रहरतीतिवाक्यस्य।?। वलक्षणेनान्वयेन सूक्तवाकैकवाक्यभूतस्य दर्शपूर्णम।?। क्यत्वात्तद्वारा सूक्तवाक्यस्य दर्शपूर्णमासवाक्यै।?। विष्यन्तीत्याशङ्क्य विधयविधायकत्वलक्षणत्यान्वयसै।?। कत्वनैकवाक्यत्वानापादकत्वे भिन्नप्रवृत्तित्वाक्त्या स।?। ह्य।?।णयोर्द्वयोरपि प्रहरणाख्यैकार्थ्याविषयत्वेनैकवा स्य।?। ङ्क्य विषयैक्ये ऽपि विधायकस्मारकत्वलक्षणव्यापार।?। त्वायोगे ऽभिहितः। अग्नये पावकायेत्यादिवदिन्द्राग्न।?। माख्यपौर्णिमासीदेवताविशेषवाचित्वादग्नीषोमपदस्य।?। ख्यामावास्यादेवताविशेषणवाचित्वादन्योन्यैकवाक्यत।?। विरोधाभावेन देवतापदोत्कर्पाभावात्तदेकवाक्यत्व सिद्धान्तायोगेन सन्देहायोगमाशङ्क्योपपादनपूर्वं स।?। हीत्यादिभाष्यं सङ्क्षिप्य व्याचष्टे लिङ्गादिति नि।?। तनिष्ठया देवतापदनिष्कर्षस्य कृत्स्नोपदेशादुभयत्र स्येतदधिकरणसिद्धत्वं स्मारितं तच्छक्त्या विकल्पे।?। शेषप्रापकत्वपक्षे ऽविवृधेतामित्यादिप्रतीकत्वमङ्गीकृत्य।?। विरजुषेतामवीवृधेतामहोज्यायो ऽक्रातामिति शेषर।?। चेन्द्रादिपदशेषाणामप्युदाहरणत्वं सूचितं देवता पदः।?। णां देवताविशेषणवाचित्वायोगेनाप्रयोज्यत्वमाशङ्क्य।?। तदेवताविशेषणवाचितयैव प्रयोगसमवेतदेवतापदशे।?। ल्पेन प्रयोगापपत्तिसूचनार्थम् तदहिता अपीत्युक्त विकल्पेनानेकशेषविनियोजकत्वं मत्वा यावत् कृत्व यव समुच्चयेनानेकशेषप्रयोगोक्त्यर्थतया भासमानं ।?। क्त्यर्थत्वेन व्याख्यातुमाह प्रकरणेनेति विकल्पपक्षे।?। भाष्याणामाञ्जस्यापत्तेरस्या व्याख्याया परमतत्वसू।?। ब्दः।?। द्विवचनयोगिनः शेषस्य द्विवत्तनयोगिना शेषेण।?। मि।?।नक्षै।?।कवचनयोगिभिः सह वैलक्षण्याद्विकल्प्प्रो।?।क्त्यानर्थक्यापत्तेरेकवचनयोगिना द्विवचनायोगिनश्चैकवचनयोगिभि सह विकल्पस्य वक्तव्यत्वात्तत्र लिङ्गात्समानसख्ययोरेव विशेषणविशेष्यत्वावगतेः प्रकरणबाधः स्यादित्याशङ्क्याह लिङ्गमपीति अवैलक्षण्ये ऽप्यग्नी।?।षोमपदशेषस्येन्द्राग्निपदान्विते प्रजापत्यादिपदशेषस्य चेन्द्रादिपदान्वये पाठक्रमेण देवतापदात् प्राक प्रयोज्यत्वाभावात् देवतापदशेषस्य तु पश्चात्प्रयोज्यत्वात्प्रयोगक्रमवैलक्षण्यार्थत्वेन षि।?।कल्पोक्त्यर्थवत्त्वोपपत्तेर्ल्लिङ्गानुसारेणैवोभयोः पौर्णमास्यमाना।?।स्ययोः सर्वशेषप्रापकत्वान्न लिङ्गविरोधः प्रकरेणस्ये।?।त्याशयः। प्रयोगसमवेतदेवतापदशेषस्य स्ववाक्यस्यत्वाद्देवतान्तरपदशेषस्य तु वाक्यान्तरस्यत्वाद्विषमशिष्टत्वेन विकल्पानुपपत्तेः प्रकरणबलीयस्त्वात्सर्वे शेषा विकल्पन प्रयोक्तव्या वाक्यबलीयस्त्वाद्वा प्रयोगसमवेतदेवतोपदेशे एव नियमेनेति सन्दहो न युक्त इत्याशयेनाशङ्कते ननु चेति आत्मीयानात्मीयत्वलक्षणे विषमशिष्टत्वे सत्यपि प्रकरणेनापतीतदेवताकस्यापि वाक्यान्तरस्यस्य शेषस्य विकल्पेन प्रयोज्यत्वप्राप्तेर्वाक्येन तु स्ववाक्यस्थस्यैव नित्यं प्रयोज्यत्वप्राप्तेः वाक्यप्रकरणविरोधे सति वाक्यबलीयस्त्वं विना स्ववाक्यशेषनियमाश्रयणायोगाद्विकल्पोत्थविरुद्ध इत्याशयेन परिहरति सत्यमिति प्रकरणस्यापर्यायवृत्तित्वेन युगपत्सर्वाङ्गग्राहित्वदसमर्वतविशेषणान्वयप्रकाशनस्य चादृष्टार्थत्वाच्छास्त्रैकसमधिगम्यत्वेन चादृष्टस्यैकैकस्माच्छेषाददृष्टसिद्ध्यवगतेरिदं हविरजुषेतामित्येताव।?। विभागमन्त्रवद्विकल्पसम्भवे ऽप्यवीवृधेतामित्यादेर्विकल्पायोगाच्छेषोदाहरणभाष्यस्य चास्मिन्पक्षे ऽनाञ्जस्यापत्तेर्यावत् कृत्व इति भाष्यावयवस्य सर्वप्रयोगमात्रोक्यर्थत्वव्याख्यानायापरितोषात्स्वम।?।तेन समुच्चयार्थत्वव्याख्यासूचयन्नन्यथासन्देहं दर्शयितुमाह असकृद्वेति सकृदसकृत्प्रयोगयोरविरोधपक्षायोगसूचनार्था विरोधोक्तिः अवीवृधेतामिति शेषेणासकृत्प्रयुक्तेनेष्टां देवतं विशिषतां प्रस्तरं प्रहरेदिति प्रकरणकल्प्ययासकृत्प्रयुक्तेनेति वाक्यकल्प्याया वा श्रुतेः शेषस्येष्टदेवतापदैकवाक्यत्वपूर्वकेष्टदेवताविशेषणोक्तिसामर्थ्यकल्पनापूर्वकत्वाविशेषादेकवाक्यत्वस्य च वाक्यप्रकरणयोर्द्वयोरप्याकाङ्क्षाहेतुकत्वाविशेषात्तुल्य बलतेति पूर्वपक्षोक्त्यर्थ किं तावदित्यादिभाष्यमाकाङ्क्षाख्यप्रकरणपूर्वकत्वेन नैकवाक्यत्वस्य लिङ्गादिव प्रकरणादपि विप्रकृष्टार्थत्वाद्वाक्यस्य दुर्बलतेति पूर्वपक्षान्तरोक्त्यर्थं चाथवेति भाष्यं स्पष्टत्वान्न व्याख्यातम्। एवमित्यादिसिद्धान्त- भाष्ये वाक्यबलीयस्त्वसिद्ध्यै वाक्ये पदैकवाक्यत्वप्रत्यक्षतोक्तिं पदैकवाक्यत्वस्याकाङ्क्षाविशेषादयुक्तमाशङ्क्याकाङ्क्षानवगमे ऽप्यन्योन्यान्वयायोग्यपदसमभिव्याहारमात्रे ऽस्यैकवाक्यत्वावगत्याशयत्वेनोपपादयितुमाह क्लृप्तेति वाक्यस्य वाक्यार्थाख्यप्रयोजनलाभेन नैराकाङ्क्ष्यरूपात्परिपूर्णत्वात्प्रकरणे वाक्यैकवाक्यत्वस्याप्रत्यक्षत्वोपपादानपूर्वं विप्रकर्षोपपादनार्थमितिकर्त्तव्यताकाङ्क्षस्येत्यादिभाष्यं सूक्तवाकमन्त्रात्मकस्य वाक्यस्य ब्राह्मणात्मकदर्शपूर्णमासवाक्यैकवाक्यत्वायोगात्प्रहरणसंयुक्तत्वेन प्रकृतयागैकवाक्यतया तदभिधानसामर्थ्यकल्पनपूर्वकप्रकृतयागाभिधानार्थत्ववाचिश्रुतिकल्पनस्यायुक्तत्वादयुक्तमाशङ्क्योपपादयितुमाह कथम्भावेन हीति इत्थं यजेतेति कथम्भावाख्यप्रकरणानुमितायां श्रुतौ दर्शपूर्णम्मासवाक्यविहितयागानुवादेन तदङ्गत्वेन सूक्तवाकविधिरेकवाक्यतयोपचरित इति सम्बन्धोक्त्या सूचितं प्रहरणसंयुक्तत्यात्साक्षात्प्रकृतयागाङ्गत्वाभावे ऽपि प्रकृतयागापूर्वान्वयिनिरूपे सूक्तवाकस्याङ्गत्वसिद्ध्यै सामान्यसम्बन्धानुमानपूर्वं प्रहरणाङ्गतया विहितसूक्तवाकस्थापनीतदेवतापदशेषमात्मीयैर्वाक्यान्तरस्थत्वादन्यदीयैर्देवतापदैः क्लृप्तस्य वाक्यशेषान्वयत्वाच्छेषान्तराकाङ्क्षैः सह पुन शेषान्तराकाङ्क्षामुत्पाद्यान्वयकल्पनेति प्रहरणाङ्गत्वविध्यपेक्षितसामान्यसम्बन्धसिध्यै प्रहरणाङ्गत्वद्वारा प्रकृतयागाङ्गत्वोक्तिरिति तथाशब्देन सूचिते सामान्यसम्बन्धापेक्षया शेषाणां वाक्यान्तरस्थदेवतापदान्वये स्ववाक्यस्थदेवतापदान्वये च तुल्यत्वेनोभयसाधारण्याद्विप्रकर्षया वाच्यत्वामाशङ्क्य सर्वशेषप्रयोगसिद्ध्यर्थत्वं सामान्यसम्बन्धोक्तेः सूचयितुम् यावदाम्नानमित्युक्तम् भाष्ये चाभिधेयो ऽयं प्रकृतो याग इति वाच्य श्रौतप्रहरणाख्यद्वारविशेषान्वयस्य सामान्यान्वयापेक्षत्वसूचनाय पूर्वकालत्वोक्त्यर्थाभिहित इति भूतनिष्ठा साक्षाद्यागाभिधाने ऽपि श्रुतिविहितयागाङ्गभूतप्रहरणाभिधानद्वारा यागाभिधानोपपत्तिसूचनार्थं तस्मात्सूक्तवाकेन प्रस्तर प्रहरतीति सामान्यान्वयापेक्षत्वसूचनाय वक्ष्यमाणभाष्योदाहृतश्रुतिविहितद्वारपरामर्शायैवशब्दः प्रकृतयागापूर्वसाधनभूतप्रस्तरप्रहरणाङ्गत्वेन सूक्तवाकविधिमात्रात् सूक्तवाकस्य विशेषणीभूतप्रकृतयागसिद्धेः प्रकृतापूर्वलक्षणामात्रे प्रकरणव्यापारो न त्वङ्गत्वावेदने यागेतिकर्त्तव्यताभूतप्रहरणाकरणत्वेन सूक्तवाकस्य यागेतिकर्त्तव्यतात्वाभावात्प्रकरणविनियोज्यत्वानुपपत्तेः सन्निपत्योपकारिणां च प्रकरणविनियोज्यत्वस्यासंयुक्तं प्रकरणादित्यसंयुक्तत्वोक्त्या पर्युदस्तत्वादितिसूचयितुं प्रहरणाङ्गत्वविधिमात्राद्यागाङ्गत्वसिद्ध्युक्त्यर्थं भवतीत्युक्तम् एषो ऽत्रेति भाष्यमुपपादितार्थविप्रकषोपसहारार्थत्वेन व्याख्यातुमाह इतीति तस्मादिति भाष्यं प्रकरणबाधसिद्धान्तोपसंहारार्थत्वेन व्याचष्टे तस्मादिति इतिकर्तव्यताकाङ्क्षेत्यादिभाष्येण सूक्तवाक्यस्य दर्शपूर्णमासवाक्यैकवाक्यताया प्रत्यक्षत्वनिरासे ऽपि देवतान्तरपदशेषाणामुत्कर्षायष्टदेवतापदैकवाक्यतायाः प्रत्यक्षत्वस्य निरसनीयस्यानिरासादुत्कर्षसिद्धेः कथं देवतान्तरपदशेषाणां निष्कृष्य प्रयोगासिद्धिरित्याशङ्क्य प्रकरणसामर्थ्यालोचनं विना देवतान्तरपदशेषाणामिष्टदेवतापदैकवाक्यत्वस्यानवगतेरप्रत्यक्षत्वं सिद्धमङ्गीकृत्य येन कारणेन यद्यप्यप्रत्यक्षा सती पौर्णमासी देवतापदशेषाणाममावास्यादेवतापदैकवाक्यतानुमातुमारभ्यते तथापि प्रत्यक्षेणामावास्या देवतापदैः सहान्नातानामेव शेषाणाममावास्यादेवतापदैकवाक्यत्वावगतेः प्रत्यक्षविरोधान्नानुमान सम्भवति वस्तुतस्तु शेषाणां स्ववाक्यदेवतापदान्वयाद्देवतापदानां च स्ववाक्यशेषान्वयात्प्रकरणान्नानार्थत्वोपपत्तेर्निराकाङ्क्षाणां देवतापदान्तराणां शषान्तराकाङ्क्षात्पादनाशक्तेर्न प्रकरणस्यानुमानारम्भे सामर्थ्यमस्ति तेन कारणेन निष्कृष्य प्रयोगसिद्धिरिति तेन शब्दोत्कर्षसहितेन तच्छेषाणामपि निष्कृष्य प्रयोग इति भाष्यावयवानुषङ्गेण परिहारार्थं तेनेत्यादिभाष्यं क्लृप्तशेषैरिति वार्त्तिकेनानागतावेक्षणन्यायेनार्थतो व्याख्यातत्वाद्विपरीतबाधपूर्वपक्षस्य चाथेति भाष्येणानुभाष्य निरासार्थं न यदित्यादिभाष्यं वाक्ये पदैकवाक्यत्वस्य प्रत्यक्षत्वोक्तया वाक्यस्य लिङ्गापेक्षयां विप्रकर्षः प्रकरणापेक्षया सन्निकर्ष इत्युपपादितार्थत्वादव्याख्याय चिन्ताप्रयोजनं विवेक्तुमाह ततश्चेति देवतापदान्तरशेषाणां नित्यमपकर्षसिद्धान्तप्रयोजनमुक्त्वा तुल्यबलत्वपूर्वपक्षे प्रकरणस्य विकल्पेन सर्वशेषप्रापकत्वे वाक्याश्रयणे नित्यमपकर्षः प्रकरणाश्रयणे पाक्षिकः समुच्चयेनासकृत्प्रयोगप्रापकत्वे तु प्रकरणाश्रयणे सर्वशेषविनियोग इति प्रयोजनं सूचयितुं न पाक्षिक इत्याद्युक्तम्। बलाबलविपरीतपूर्वपक्षे तु न पाक्षिक एवापकर्षः सर्वदेवताविनियोग इत्युभयत्राप्यवधारणं कार्यम्। अथेति प्रश्नभाष्यस्यार्थतः पाठपूर्वमाशयं व्याचष्टे अथेति। अनुक्तमुदाहरणं ज्ञातुमशक्नुवतः श्रोतुरज्ञानादापाततो ज्ञातं च निश्चेतुमशक्नुवतः संशयात्तावत्सम्भवत्येव प्रश्नः तावतिक्रम्यापि तुल्यक्रमाणामैन्द्राग्नादीनां कर्मणां याज्यानुवाक्यायुगलानां चानार।?।भ्या।?।धीनत्वेन कस्य वित्प्रकरणेऽनाम्नाद्दब्धिमन्वस्य शुन्धनगन्त्रस्य च यथासख्यलक्षणक्रमविनियोज्यस्य दर्शपूर्णमासप्रकरणाम्नातस्यापि शुन्धध्वमिति सन्निद्दितोपसंहारियुष्मद थयिषयशब्दसामर्थ्यात्मकलिङ्गविरोधेन दब्धिमन्त्रस्य चास्पष्टलिङ्गत्वेनापि प्रकरणाविनियोज्यत्वायोगाद्ययासख्यलक्षणपाठसादेश्यहेतुकस्य क्रमस्य प्रकरणविरोधे कस्य चिदुदाहरणस्यानुपपत्तेरनुष्ठानसादेश्यहेतुकात्। क्रमादभिपेचनीयाङ्गत्वावगतेः प्रकरणा।?। राजसूयाङ्गत्वावगते रुदाहरणत्वेनाभिमतस्य पुरतात्परस्ताद्वाम्नानसन्निधिनैव लक्षणेन सन्दशाभिव्यङ्ग्यावान्तरप्रकरणत्वप्रसङ्गान्न किञ्चियुदाहरणमस्तीति चि।?।पर्थयदार्ढ्याय सम्भवतीत्यर्थ। राजसूयइत्युत्तरभाष्यमा।?।योक्ति पूर्वं व्याचष्टे शङ्क्यत्विति कथं शक्यमित्येपेक्षितनैकम्याम्नायमानस्येति भाष्यवक्ष्यमाणाकाङ्क्षारहितसन्निधिमात्रलक्षणत्वात्क्रमस्ये ति सूचयितु तद्भाष्यकारीयं पुरस्तात्परस्ताद्वाम्नानसन्निधानलक्षणेन क्रमस्यावान्तरप्रकरणत्वापत्तिनिरासमुपपाद्यैव तावत्सप्रयोजनस।?।न्दैहोक्तयर्थं यदीतिभाष्यं शौन शेषाख्यानादीनां सामान्यतो ऽङ्गत्वासिद्धेस्तद्विशेषचिन्तायोगादयुक्तमाशङ्क्ययापि षाङ्गमनिज्याः न्यु।?। रिति चतुर्थाधिकरणसिद्धान्तसूत्रे ऽङ्गत्वस्य स।?।ध्यमाणत्वान्सन्देह विपर्ययाभावेनोपपादयन्यदि तुल्यबले सर्वेषां चाभिषेचतीयस्य वेति विकल्प इत्यध्याहारेण त्रेधा सन्देहोक्तयर्थतया व्याख्यातुमाह तषां चेति विपर्ययो विप्रतिपत्तिशब्देनोक्त। समस्तैशाङ्गत्वयोः समुच्चयायोगादुक्तप्रकारेण त्रेधैव विचार्यतइति इतिकरणान्वय। कैगर्थ्यचिन्ताया बलाबलचिन्ताप्रयोजनत्वसूचनार्थम् प्रकरणस्येत्युक्तम आकाङ्क्षासन्निधियोग्यत्वानां त्रयाणाम् प।?।कवाक्यत्वापादकत्वेनेष्टत्वादाकाङ्क्षालक्षणस्य प्रकरणस्य सन्निधिलक्षणस्य च क्रमस्य तुल्यबलत्वोक्त्यर्थं किं तावदित्यादिभाष्यं सम्बन्धार्थत्वा।?।दाकाङ्क्षायाः सन्निधि च विना सम्बन्धायोगात्सर्वासामाकाङ्क्षाणां ।?। वि।?।हितावलंविनीत्वावगतेराकाङ्क्षालक्षणस्य प्रकरणस्य वाक्या।?॥?। सन्निधिलक्षणाक्रमादर्थविप्रकर्षात् दुर्बलतेतिबलाबलवैपरी।?।त्य।?।पूर्व पक्षान्तरोक्त्यर्थं चापि वेति भाष्यमेव मिथ्याद्यर्थविप्रकर्षादित्यन्तं व सिद्धान्तभाष्यं स्पष्टत्वादव्याख्याय सन्निधिलक्षणस्य क्रमस्या।?।यान्तरप्रकरणत्वेन महाप्रकरणान्सन्निकृष्टार्थत्वावगतेर्नार्थविप्रकर्ष सम्भवतीत्याशयत्वेन को ऽत्रेति प्रश्नभाष्यव्याख्यां सूचयन्नवान्त [८७४।५] रणकरणत्वापत्तिनिरासमुपपादयितुं शङ्कते ननु चेति ए।?।च्छङ्कानिरासार्थत्वेन प्रकरणवत इत्यादे सन्निधिविशेषाम्नानमात्रं हि क्रम इत्यन्तरयोत्तरभाष्यस्य व्याख्यां सुचयन्नवान्तरप्रकरणत्वापत्तिनिरासमुपपादयति नैष इति अनेन चावान्तरप्रकरणनत्वेनाभिमतस्याभिषेचनीयस्य यदि शौनः शेषादिपाठकाले साकाङ्क्षत्व स्यात्ततस्तन्सन्निधापान्नातेन शौनः शेषाख्यानादिना स्ववाक्यार्थपरिपूर्णेनायवान्तरप्रकरणलक्षणवाक्यैकवाक्यतावकल्पेत तस्य त्वभिपेत्तनीयस्य विदेवनशौन शेषा।?।ख्या।?।नाहिभ्यः प्रागेव निराकाङ्क्षीकृतत्वेतावान्तरप्रकरणवत्वायोगान्न तल्लक्षणैवाक्यतावकल्पत इत्येवं प्रकरणवत इति भाष्यावयवव्याख्या सूचिता। प्रत्यासन्नविदेवनाद्युल्लङ्घनेन प्राकृतधर्मापेक्षा न युक्तेस्याशङ्कानिरासार्थत्वेनोभिषेचनी।?॥?॥?। ।?॥?॥?। ऽक्लृत्पोपकारान्सन्निहितान्धर्मानुल्लङ्घ्यातिदेशतो धर्मलाभाय प्रकृत्यपेक्षत्वादाकाङ्क्षारहितसन्निधिमा।?।त्रलक्षणक्रमवत्त्वापत्तेः।?। सन्निधिमात्रलक्षणे क्रमे शौनःशेषाख्यानादिना।?।तेनाथेकवाक्यत्वं नावकल्पतइत्येव न त्वितिभाव्यावयवव्यान्यां सूचयितुमाह सत्यामपीति क्रमत्वे सत्यपि साङ्ग्रहण्यादेस्ति।?।स्त।?। आहु।?।तीर्जुहोतीत्यादिभिरेकवाक्यत्वोपपत्तेरनवक्लृत्प्युक्तिरयुक्तेत्याशङ्क्य प्रकरणविरोधेनानवक्लृप्त्युक्तिमुपपादयितुमाह निराकाङ्क्षस्य हीति अभिपचनीय।?।वत्सर्वेषां राजसूयशब्दवाच्याना सामष्टिपशुबन्धानां विकृतित्वेन प्राकृतैर्धर्मैनिराकाङ्क्षीकृतत्वात्कथम्भावायागमाशङ्क्याह तदीयो हीति प्रात्यात्मिकापूर्वसि।?। कथम्भावस्य प्राकृतैध।?।र्मैनिवृत्तावपि समस्तसाध्यफलापूर्वसि्ध्ये कथम्भावस्य पवित्राख्यान्सामयागादारभ्य क्षत्रस्य धृत्याख्यसोमयागपर्यन्तमनुवृत्तेस्तन्मध्यपतिविदेवनादिस्पर्शात्तत्कथम्भावेन विनियोग सिद्ध इत्यादाय। अवान्तरप्रकरणापत्तिनिरासमुपसंहरित अत इति कर्त्या चिदपि तर्हि विकृतौ प्रात्यात्मिकं प्रकरणं ।?। स्यादित्याशङ्क्याह यद्यां।?। त्विति प्रकृतमङ्गमनूद्य तत्सम्बन्धित्वेन वैकृतमङ्ग ।?। विधीयते तत्सम्बन्धित्वेन वा विहितस्य वैकृतस्याङ्गस्यैकस्य विधीयमानादङ्गात्पुरस्तादपरस्य च परस्तादवनि।?।तस्य मध्ये स्व।?।तन्त्रमङ्ग यस्यां विधीयते प्रधानाद्वा पुरस्तात्प्राकृताङ्गानुवादेन विहितस्याङ्गस्य परस्तात्स्वन्तन्त्रमङ्ग परस्ताद्वा प्राकृताङ्गानुवादेन विहितस्य पुरस्तान्स्वतन्त्रमङ्गं यस्यां विधीयते तस्यां कथम्भावगृहीतप्राकृताङ्गवर्त्तित्वात्कथन्भावग्रहीतप्राकृताङ्गानुवादे न विहिताङ्गद्वयमध्यपर्त्तित्वाद्वा प्रकरणोपपप्तिरिति यथायोग।?। ध्याहारावृत्तिभ्यां योज्यम्। अभिषेचनीये ऽपि ।?॥?। माहेन्द्रस्य स्तो।?। प्रत्यभिपि।?।च्यतइति वाद्ये।?।न।?। प्राकृतमाहेन्द्रस्तोधर।?॥?।न्धित्वेन विधानलक्षणायोगात्प्रकरणोपाख्यानादीनां प्राकृतवर्त्तित्वात्पश्वादिषु प्राकृतसामिधेन्यनुवादेन विधियमानसात्पदश्यवत्प्रकरणपाठो भविष्यतीत्याशङ्क्याह न चेति शौनः शेषाख्यानादीनां माहेन्द्रस्तोत्रकाले ऽनुष्ठानविधाने ऽपि स्तोत्राङ्गत्वाभावेन स्तोत्रद्वारा कथम्भावग्रहणायोगात्प्रकरणव्यापारो न सम्भवतीत्याशयः। तात्पर्यतो व्याख्याते प्रकरणवत इति भाष्ये शौनः शेषाख्यानादेः परिपूर्णत्वोक्तिं प्रकरणवतैकवाक्यत्वात्प्रयोजनालभेन नैराकाङ्क्षलक्षणपरिपूर्णत्वायोगादयुक्तामाशङ्क्योपपादयति सन्निधाविति क्रमस्यावान्तरप्रकरणत्वाशङ्कानिरासार्थलक्षणोक्तयर्थेऽनेकस्येति भाष्ये ऽनेकविशेषणानर्थक्यमाशङ्क्यानेकस्य मध्ये कस्य चित्सन्निधावाम्नानमित्येवं रूपस्य सन्निधिविशेषाम्नानस्य नान्तरीयकत्वादेकाङ्गत्वं विनाप्येकसन्निध्युपपत्तिसूचनायानेकोक्तिर्न लक्षणविशेषणायेत्येवमुपपादयितुमाह अनेकस्येति नान्तरीयकतामुपपादयति यो हीति एकस्यापि तर्हि प्रकरणिनो ऽर्थे ऽनाम्नायमानस्य प्रकरणापाठावश्यम्भावात्प्रकरणपाठो ऽपि नान्तरीयकः स्यादित्याशङ्क्याह नत्विति क्रमवदङ्गत्वं विनापि क्रमस्योपपत्तिरूप यादृशं नान्तरीयकत्वं तादृशं प्रकरणवदङ्गत्वं विनापि प्रकरपाठस्योपपत्तिरूपं नान्तरीयकत्वं नास्ति कञ्चित्प्रकरणवन्तं प्रत्यङ्गत्वाभावे बहिरपि पाठसम्भवात्प्रकरणपाठस्यादृष्टार्थत्वापत्तेरित्याशयः। सन्निधिलक्षणस्य क्रमस्यावान्तरप्रकरणत्वाभावे ऽप्याकाङ्क्षासन्निध्योस्तुल्यवेदकवाक्यत्वहेतुत्वान्न क्रमस्याकाङ्क्षालक्षणात्प्रकरणाद्विप्रकर्षः सम्भवतीति तुल्यबलत्वपूर्वपक्षाशयस्याकाङ्क्षानपेक्षान्सन्निधिमात्रादेकवाक्यत्वानवगतेः क्रमे चाप्रत्यक्षत्वाकाङ्क्षायाः प्रकरणे तु प्रत्यक्षत्वाद्विप्रकर्षोपपादनेन निरासार्थं तत्रेत्यादिभाष्यं सन्निहितालम्बनत्वेनाकाङ्क्षायाः सन्निध्यपेक्षत्वाद्विपरीतबलाबलपूर्वपक्षस्यानुभाषणपूर्वमाकाङ्क्षणीयान्वयं विनानुपपत्तिरूपत्वेनार्थापत्त्याख्यप्रमाणतया ऽऽकाङ्क्षायाःसाक्षादेकवाक्यत्वावगतिहेतुत्वात्सन्निधेस्त्वाकाङ्क्षणीयविषयविशेषसमर्पणद्वारैकवाक्यत्वावगतिहेतुत्वाद्विषयविशेषसमर्पणायाकाङ्क्षायाः सनिध्यपेक्षत्वे ऽप्येकवाक्यत्वावगमाय सन्निध्यनपेक्षत्वाद्वाक्यापेक्षयार्थविप्रकर्षात्प्रकरणस्य दौर्बल्ये ऽपि क्रमापेक्षयार्थसन्निकर्पादबलीयस्त्वेत्येवं निरासार्थं वाथेत्यादिभाष्यम् एकग्रन्थेन सङ्कृष्य व्याचष्टे अत इति क्रमस्य सन्निधिविशेषमात्रत्वेनावान्तरप्रकरणत्वाभावे सतीत्येव तत्र सग्निधिविशेषम्नानसामर्थ्यादिति भाष्यस्थतत्रशब्दव्याख्यासूचनार्थं व्याख्यातभाष्योक्तक्रमलक्षणपरामर्शायातः शब्दः क्रमसमाख्याविरोधोदाहरणपक्षभाष्यमपि पूर्ववत्रेधा व्याख्येयमित्याह क्रमेति [८७५।१] अधिकृत्य कृते ग्रन्थइत्यनुवर्त्तमाने पुरोडाशाठ्ठञिति स्मृतेः पौरोडाशिकसमाख्यायाः पुरोडाशविषयग्रन्थवाचित्वावसायान्मन्त्रपुरोडाशपात्रशुन्धनसम्बन्धाख्यविनियोगहेतुत्वस्य तद्धितशब्दकृतत्वेन बलीयस्त्वात्परदौर्बल्यसिद्धान्तोपयोगिविरोधोदाहरणत्वायोगादयौगिक्याश्च समाख्याया विनियोगहेतुत्वनिरासाद्रूढित्वाभ्युपगमेन सारूप्यमात्रेण विनियोगहतुतया दौर्बल्यायोगान्न किञ्चिदुदाहरणं सम्भवतीति वक्तुं शक्यत्वे ऽपि पौरोडाशिकसमाख्याया समस्ते दर्शपूर्णमासकाण्डे पुरोडाशानलङ्कुर्वितिवद्गौणत्वाच्छ् रुतितुल्यत्वशङ्कापि नास्तीति अतिशयोक्त्यर्थत्वेन पौरोडाशिकमित्युदाहरणभाष्यं व्याख्यातुमाह पौरोडाशिकमिति पुरोडाशपात्रशुन्धनार्थत्वाभावे पौरोडाशिकसमाख्यानुपपत्तिशङ्कापि समस्तकाण्डवाचित्वोक्त्या निरस्तलिङ्गाच्छुन्धनार्थत्वावगमे ऽपि पात्रशुन्धनार्थत्वानवगमात्पात्रविशेषसन्देहो न युक्त पात्राणामेव प्रक्षालनाख्यशुन्धनविधानाशुन्धनार्थत्वलिङ्गवशेन पात्रशुन्धनार्थत्वरूपविशेषावगमे ऽपि तुग्रहादिपात्रशुन्धने ऽपि लिङ्गाद्विनियोगावगतेः क्रमसमाख्ययोर्द्वयोरपि बाधप्रसङ्गान्सन्देहायोगमाशङ्क्य प्रकरणाद्दार्शपौर्णमासिकत्वविशेषलाभ इत्येवं सन्देहापपादनार्थत्वन दर्शपूर्णमासकाण्डे शुन्धनार्थिमन्त्रे समाम्नाते सतीत्येवं तत्रशब्दं व्याचक्षाणस्तत्रेति सन्देहभाष्यं व्याचष्टे स चेति प्रकरणावगतस्य सामान्यसम्बन्धस्य द्वारविशेषसम्बन्धापेक्षत्वात्प्रकरणविरोधस्य निर्ज्ञाते प्रकरणेनेति भाष्यव्याख्यायां निराकरिष्यमाणत्वेनानाशङ्क्यत्वसूचनार्थम् सामान्येनेत्युक्तम् विनियोगविषयविशेषचिन्तायाः फलतो बलाबलचिन्तार्थत्वसूचनार्थतां समाख्यानस्येति भाष्यावयवस्य सूचयितुम् इतरदित्युक्तम् तुल्यफलत्वाद्विकल्पो विरोधाभावाद्वोभयत्रेति पूर्वपक्षद्वयान्तरमपि किंशब्देन सूचितम्। पौरोडाशिकासमाख्यायाः पौरोडाशिकापौरोडाशिकसमुदायवाचित्वे ऽप्यप्थवत्त्वाय श्रुत्यादित्रयानवगतद्वारविशेषस्य पुरोडाशशब्दान्वयार्थत्वावगतेस्तद्बलीयस्त्वे पुरोडाशमात्रपात्रशुन्धनार्थतोक्ता। समाख्योक्तसम्बन्धस्याकाङ्क्षाविनानुपपत्तेः सन्निधिमकल्पयित्वा ऽप्याकाङ्क्षाकल्पकत्वसम्भवान्समाख्यायाः क्रमाद्विप्रकर्षायोगाशयेन तुल्यबलत्वपूर्वपक्षोक्त्यर्थं किं तावदित्यादि स्यातामित्यन्तं भाष्यमते इत्यादिचावृत्त्या विच्छिन्नं द्वे अप्येते ऽविरोधाद्विनियोगकारणे इत्येवं समुच्चयपूर्वपक्षान्तरोक्त्यर्थं यदि वेति भाष्यं च समाख्यायाः श्रुतितुल्यत्वाद् बलाबलवैपरीत्यपूर्वपक्षान्तरोक्त्यर्थमित्येकहेलया पूर्वपक्षभाष्यद्वयव्याख्या पूर्वमेवमित्यावर्त्य विप्रकर्षादित्यन्तं सिद्धान्तभाष्यं व्याचष्टे तुल्येति दृष्टबाधत्वोक्त्या क्रमस्य विप्रकर्षः समाख्यायाश्चादृष्टबाधत्वोक्त्या सन्निकर्षो विवक्षितः। कथमर्थविप्रकर्ष इत्यपेक्षायामुपदिश्यते हिहि क्रमे समाम्नानात्सान्नाय्यसम्बन्ध इत्यादिभाष्ये वक्ष्यमाणामुपपत्तिमनागतावेक्षणन्यायेन दर्शयति तथा हीति यावति प्रदेशे ब्राह्मणं सान्नायपात्रशुन्धनं तावत्येव मन्त्रसहितायां शुन्धनमन्त्रपाठाद्वेदरचितत्वेन क्रमे सादेश्यं प्रत्यक्षत्वाच्छीघ्रं दृश्यते समाख्यायां तु सम्बन्धान्यथानुपपत्त्या कल्प्यत्वाद्विलम्बनेत्यर्थः कः पुनरिति सम्बन्धस्यावाच्यत्व ऽप्यन्तर्णतिसम्बन्धस्य सम्बन्धिनो ऽभिधानात्सम्बन्धानुपपत्तिमात्रेणाकाङ्क्षाकल्पनसिद्धेरेकस्मिन्नेव च क्षणे सादेश्यसम्बन्धाभ्यामाकाङ्क्षाकल्पना न विप्रकर्ष इति तुल्यबलत्वपूर्वपक्ष प्रश्नाशयः। वैपरीत्यपूर्वपक्षे तु श्रुत्यभिधेयस्याङ्गाङ्गिसम्बन्धस्य समाख्यावाच्ये सम्बन्धिन्यन्तर्णीतत्वेन श्रुतितुल्यत्वात्समाख्यायाः क्रमस्यैव प्रकरणादिव समाख्यातो ऽप्यर्थविप्रकर्ष इत्याशयः। निर्ज्ञात इत्युत्तरभाष्ये प्रकरणव्यापारोक्त्यानर्थक्यमाशङ्क्य परिहरति निर्ज्ञात इति अविरोधोपपादनार्थं विरोधं तावच्छङ्कते कथ पुनरिति मन्त्रस्य सन्न्निपत्त्योपकारित्वेन प्रकरणविनियोज्यत्वाभावेन सामान्यान्वयमात्रे प्रकरणव्यापारात्तस्य च द्वारविशेषापेक्षत्वादविरोधे इत्याशयेनाविरोधमुपपादयति नैष इति लिङ्गाच्छुन्धनसयुक्तस्य मन्त्रस्य प्रकरणेन क्रत्वङ्गत्वबोधाशक्तेः शुन्धनस्वरूपाङ्गतायामानर्थक्यप्रसक्तिपरिहारायापूर्वसाधनांशलक्षणामात्रार्थं प्रकरणव्यापारापेक्षणादेकापूर्वसाधनांशलक्षणया चानर्थक्ये परिहृते ऽपूर्वान्तरसाधनांशलक्षणायां प्रकरणव्यापारापेक्षणादेकापूर्वसाधनांशलक्षणया चानर्थक्ये परिहृते पूर्वान्तरसाधनांशलक्षणायां प्रकरणाम्नानात्सर्वार्थत्वावगतिसूचनार्थं प्रकृतदर्शपूर्णमासाख्ययागषट्कान्यतरार्थत्वावधारणोक्ता। परिहा [८७६।२] राशयाज्ञानाच्छङ्कामपरिहृतां मत्वा पुन शङ्कते नन्विति परिहाराशयं विवृणोति नावश्यमिति मन्त्रस्यैकप्रकरण्यन्वयेन कृतार्थत्वादानर्थक्यपरिहारं ऽप्यन्येषां पुरोडाशाज्ययागाख्यानां प्रकरणिनां पात्रशुन्धनमन्त्राभावे वैगुण्यापत्त्या ऽपूर्वाख्यप्रयोजनरूपार्थासिद्धेर्मन्त्रस्य सर्वार्थत्वमाशङ्क्य मन्त्रस्य यागन्तरपात्रशुन्धनाङ्गत्वाभावात्तच्छुन्धनस्यामन्त्रकत्वे ऽपि वैगुण्यानापत्तेर्यागान्तराणां क्व चिदप्यंशे मन्त्राभावे ऽभियुक्तानां दृष्टान्ते ऽर्थेषु कर्मसु मन्त्रादरदर्शनादमन्त्रमन्ये यत्किञ्चिद्धुयते च हुताशने। सम्वत्सरकृतं पापं तत्पावमानीभिरहं पुनामीत्यादलिङ्गाच्च वैगुण्यं वाच्य तच्च प्रोक्षणादिष्वङ्गान्तरेषु मन्त्रसद्भावान्नोपपद्यतइति परिहारसूचनार्थम् मन्त्रान्तरैरपीत्युक्तम् क्रमात्पूर्वं च प्रकृतक्रत्वन्वयाख्यसामान्यविनियोगविषयश्रुतिकल्पने ऽपि क्रमविरोधाभावात्पात्रशुन्धनाख्यद्वारविशेषान्वयविषयश्रुतिकल्पनकाले च पात्रशुन्धनस्य सन्निपत्त्योपकारित्वेन प्रात्यात्मिकयागोत्पत्त्यपूर्वमात्रपर्यवसायित्वात्तेषां चापूर्वाणां धर्मान्वये ऽन्योन्यानपेक्षतया युगपत्पर्यालोचनायोगायावत्प्रकरणमेकैकयागापूर्वसाधनीभूतं पात्रशुन्धन प्रतिद्वारविशेषान्वयविषयां श्रुतिं कल्पयितुमारभते तावत्क्रमेम सान्नायपात्रशुन्धनविषयाकाङ्क्षाख्यप्रकरणकल्पनापेक्षेणाप्येकविषयतयान्यालोचननिमित्तविक्षेपशून्येन कल्पितत्वात्प्रकरणेन कल्पयितुमारभ्यमाणाया द्वारविशेषान्वयविषयायाः श्रुतेः क्रमकल्पितश्रुतिविषयभूतसान्नायपात्रविषयतयोपसंहारापत्तेः प्रकरणेन सर्वार्थत्वानवधारणादविरोध इत्याह सामान्येति समाख्याया अपि तर्हि समस्तदर्शपूर्णमासवाचित्वेनानेकविषयश्रुतिकल्पनापत्तौ क्रमकल्पितैकविषयश्रुतिविषयोपसंहारसम्भवादविरोधापत्तिरित्याशङ्क्यानेकविषयत्वे पौरोडाशिकसमाख्यानर्थक्यापत्तेर्द्वारापेक्षिणां धर्माणां पुरोडाशमात्रद्वारान्वयार्थेयं समाख्येत्यवसायाद्विराध इति परिहारं सूचयितुमाह समाख्या पुनरिति लौकिकस्त्विति भाष्यमवैदिकत्वेनास्याः समाख्याया वैदिके ऽर्थे प्रामाण्यायोगोक्त्यर्थमिति भ्रमं निवर्तयितुं विप्रकर्षात्समाख्या दुर्बला नत्ववैदिकत्वादित्याह विप्रकर्षाच्चेति समाख्योक्तेन सम्बन्धेन सन्न्निधिमकल्पयित्वैवाकाङ्क्षाकल्पनाद्विप्रकर्षाभावमाशङ्क्य सम्बन्धिनोरेकत्र नियमरूपत्वात्सम्बन्धस्यैकत्र सम्बन्धिद्वयनिधानाख्यं सन्निधि विनात्मलाभाभावेनाकाङ्क्षाकल्पनाशक्तेर्विप्रकर्षोपपादनपूर्वं विप्रकर्षोक्त्यर्थस्योपदिश्यते हीति भाष्यस्य सान्नाय्यपात्रशुन्धनेन सह शुन्धनमन्त्रस्यैकत्र नियमरूपः सन्निधिः क्रमे पाठेनैवापदिश्यते ऽवगम्यते समाख्यायां नावगम्यतइत्येवं सशब्दस्यैकीभावार्थत्वाद् बन्धशब्दस्य च नियमार्थत्वान्सम्बन्धशब्देन सन्निध्युक्तिमङ्गीकृत्य व्याख्यासूचनेन विप्रकर्ष दर्शयति सर्वो हीति वैदिकत्वं ऽपि तर्हि समाख्याया विप्रक।?।सिद्धेर्लौकिकत्वेन चाप्रामाण्यस्य भक्तानुवाकसमाख्यायां निरस्त।?।वाल्लौकिकस्त्वित्यादिभाष्यमयुक्तमित्याशङ्क्य वैदिकाङ्गङ्गिसम्ब।?।धविप्रकर्षस्य लौकिक्यां समाख्यायामतिशयाख्यप्रकर्षदर्शनार्थत्वेनोपपादयति लौकिकस्त्विति यद्येवमित्याशयाशङ्काभाष्यं लौकिकत्वेनाप्रामाण्यस्य सिद्धान्तिनानुक्तत्वादयुक्तमाशङ्क्याज्ञाताशयशङ्कात्वेनोपपादयति परस्त्विति नैष इत्यादि न प्रमाण मित्यन्तं परिहारभाष्यं तात्पर्यतो व्याचष्टे सिद्धान्तति कीदृगुत्तरमित्यपेक्षायामाह यदि हीति एतदेवभाष्यमवयवशो व्याचिख्यासुः पौरोडाशिकशब्द इति भाष्यावयवं तात्पर्यतस्तावद् व्याचष्टे पौराडाशिकेति भवति चेति भाष्यावयवस्याशयं तावदाह शब्दश्चेति वाच्यवाचकसम्बन्धस्यानादित्वेनानाप्तत्वेनानाप्तत्वदोषाभावात्पुरोडाशाठ्ठञितियौगिकत्वस्मृतेश्च प्रयोगमूलभूताया विद्यमानत्वेन यौगिकत्वाद्विनियोजकत्वोपपत्तेर्नाप्रमाणमित्युक्ते पुरोडाशान्वयस्य पौरोडाशिकशब्दवाच्यस्यातीन्द्रियत्वेन वाच्यवाचकसम्बन्धस्यातीन्द्रियत्वात्स्मृतेरपि निर्मूलत्वेनाप्रामाण्यापत्तेर्न तन्मूलत्वेन शब्दप्रमाणता युक्तेत्याशङ्क्य याज्ञिकैरनुष्ठीयमानस्य पुरो़डाशान्वयस्य प्रत्यक्षत्वोपपत्ते सम्बन्धस्यापि प्रत्यक्षत्वसम्भवोक्त्यर्थम् पौरोडाशिकेत्ययुक्तम् तदेतदवैदिकत्वे ऽपि शब्दस्य प्रामाण्यं दृष्टान्तैर्दर्शयतीत्याह तदिति सान्नायपात्रशुं धनक्रमे शुन्धनमन्त्राम्नानं दर्शपूर्णमासयोरिदं प्रकरणं शुन्धध्वं दैव्यायेत्यादिपदानामेकवाक्यत्वं काठकादिसमाख्यातवाक्यसमूहरूपः शब्दो वेद इत्यादिष्वर्थंषु यथा पुरुषः प्रमाणं तथा पौरोडाशिकशब्दो ऽस्य मन्त्रस्य वाचक इत्यस्मिन्नर्थे पुरुषः प्रमाणमित्यर्थः। न हीति भाष्यावयवं पुरुषप्रामाण्योपपादनायैन्द्रियकत्वो [८७७।२] क्त्यर्थत्वेन तावद्व्याचष्टे सर्वत्र हीति अध्येतृपुरुषस्थक्रमाम्नानादिदर्शनपूर्व श्रोतॄणां सर्वत्र क्रमाम्नानादौ क्रमादिशब्दप्रयोगप्रवृत्तिरित्यर्थः। अनिन्द्रियरूपवेदविषयत्वाभावात्पुरुषस्यास्मिन्नर्थे प्रमाणता युक्तेत्येवमर्थत्वेनैतमेव भाष्यवयवं व्याचष्टे समानेति पदानामन्योन्यान्वयलक्षणैकवाक्यत्वहेतुभूतस्यान्योन्यसन्निधेर्वेदनानभिधाने ऽप्येकवाक्यत्वस्यैकार्थ्यनिबन्धनत्वाद्वेदार्थस्य चानन्यप्रमाणकत्वादर्थोक्तिद्वारैकवाक्यत्वस्यापि वेद एव वक्तेत्याशङ्क्य वेदानुक्तस्याप्येकवाक्यत्वस्य पदार्थाकाङ्क्षासन्निधियोग्यत्ववशेन ज्ञातुं शक्यत्वान्न वेदो वक्तेति परिहारसूचनार्थम् परस्परेत्याद्युक्तम् उपपद्यत इतिभाष्यावयवं पूर्वेणैन्द्रियकत्वोक्तावतः शब्दाध्याहारेण पुरुषप्रामाण्योपसहारार्थत्वेन स्पष्टत्वादव्याख्याय वेदविषयत्वाभावोक्तिपक्षे मूलभूतप्रमाणाभावात्तर्ह्यप्रामाण्यं पुंसां स्यादित्याशङ्कानिरासार्थत्वेन व्याख्यातुमाह कि तर्हीति दृश्यतइत्यनन प्रत्यक्षमूलतोक्ता। पुरुषदोषनिरासायानादित्वे तैरपीत्यनेनोक्ते ऽन्धपरम्परान्यायनिवृत्त्यै दर्शसम्भवोक्तिः। ये त्विति भाष्यावयवमतीन्द्रयत्व सर्वलोकप्रसिद्धवेदादिविवेकबाधापादननैन्द्रियकदृढीकरणार्थत्वेन व्याख्यातुमाह अन्यथा हीति बुद्वादिवाक्यानामपि तर्ह्यप्रामाण्यभयेनैन्द्रियकविषयताभ्युपगन्तव्येत्यतिप्रसङ्गशङ्कां वैषम्योक्त्या निराकर्तुमाह अनेकेति तस्मादिति परिहारोपसंहारभाष्यं व्याचष्टे तस्मादिति उपदिश्यते हीत्यादिभाष्योक्तस्य समाख्यायां सादेश्यलक्षणस्य सन्निधे कल्पनीयत्वेन विप्रकर्षस्य समाख्योक्तसम्बन्धमात्रेणाकाङ्क्षादिकल्पनसिद्धेः सादेश्यस्याकल्पनीत्वेनायोगमाशङ्क्य सर्वत्र हि केन चिदभिन्नेन सम्बन्धो ऽवकल्पतइति सूत्रव्याख्यावार्त्तिकेन सादेश्यस्य कल्पनीयत्वोपपादनादुक्षादिपरामर्शित्वायोगेनान्यत्राप्यस्य ग्रन्थस्यासामर्थ्यान्नोत्कर्षो युक्त इत्याशङ्क्याह विज्ञातेति श्रुत्यादिवाधप्रस्तावेन बाधान्तराणामपि बुद्धिस्थत्वात्सर्वनाम्ना परामर्शोपपत्तावुक्तायां सन्निधानात्प्रकरणस्य बलीयस्त्वात्प्रकृतश्रुत्यादिपरामर्श एव युक्त इत्याशङ्कानिरासार्थम् विज्ञातेत्युक्तम् बाधान्तरप्रकारोक्ते स्वतन्त्र्योपयोगसिध्यै मिमांसाशास्त्रोपनिबद्धतोक्ता। बाधान्तराणां बुद्धिस्थत्वे ऽपि श्रुत्यादिबाधप्रकारोक्त्यैव ज्ञातप्रकारोक्तेः स्वतन्त्र्योपयोगमाशङ्क्याह तेषां चेति एवमपि प्रकृतोपयोगाभावात्तत्प्रश्नो न युक्त इत्याशङ्क्य प्राप्तबाधस्य मिथ्यात्वज्ञापनरूपत्वान्मिथ्यात्वस्य दोषजनत्वाद्वेदे चानाप्तोक्तत्वदोषाभावात्सामान्यादिशास्त्रस्य प्राप्तबाधाभ्युपगमे शास्त्रार्थप्रतिपत्तुरपरामृष्टप्रतियोगिशास्त्रत्वस्य दोषत्वाभ्युपगमापत्तेस्तस्य च लिङ्गादिष्वपि सम्भवात्प्राप्तबाधोपपत्तौ बाधस्य सर्वत्रैकप्रकारत्वसम्भवं प्रकारान्तरकल्पनायोगालिङ्गादिभिर्बाधकविषयप्राप्त्यै श्रुतेरवश्यानुमेयत्वादनुमितायाश्च श्रुतेः सामान्यशास्त्रादिवद्विषयव्यवस्थया विरोधपरिहारायोगात्प्रत्यक्षश्रुतितुल्यत्वेन चात्यन्तबाधायोगात्तुल्यबलत्वेन विकल्पापत्तेर्व्युत्पादितमपि श्रुत्यादिषु परदौर्बल्य न सम्भवति शास्त्रार्थं प्रतिपत्तु परम्परामृष्टप्रतियोगिशास्त्रत्वस्य क्लृदोषवच्छब्दे सङ्क्रान्त्ययोगाच्छाब्दज्ञानमिथ्यात्वापादकदोषत्वानुपपत्तेर्लिङ्गादिषु प्राप्तबाधायोगेनाप्राप्तबाधाभ्युगमे तु तेनैव हेतुना सामान्यशास्त्रादिष्वपि अप्राप्तबाधापत्तेः सामान्यशास्त्रादेर्ज्ञानजनकत्वाभावेन विशेषशास्त्रानवरुद्धे विषये प्रामाण्याभावापत्तेः सार्वत्रिको बाधः प्रसज्येतेति कृत्वा वेदेन क्व चिद्बाध सम्भवतीति सूचनात्प्रकृतोपयोगं दर्शयितुमाह सर्वत्रेति बाधस्यानेकप्रकारत्वस्य वायोगान्न क्वचिद्बाधः सम्भवतीत्येवमाशयत्वे प्रश्नस्य श्रुत्यादावपि साधारण्यापत्तेः श्रुत्यादिविषयत्वनिरासो न युक्त इत्याशङ्क्याह तत्रेति सर्वबाधारतरविषयत्वेन प्रश्नं व्याख्यातुमाह प्रत्यक्षेणेति स्तम्भो ऽयमित्यादिना बाह्यार्थविषयप्रत्यक्षेण निरालम्बनानुमानम्। मृगतृष्णादिप्रत्ययाश्च तत्सम्प्रयोगजकत्वादिप्रत्यक्षादिप्रमाणलक्षणरहितत्वात्प्रमाणाभासा प्रत्यक्षेण प्रत्यक्षाभासो ऽनुमानेनानुमानाभास इत्येव यथास्व प्रत्यक्षादिभिः प्रमाणैः औदुम्बरीस्पर्शनादिश्रुत्या सर्ववेष्टनादस्मृतिः। आप्तस्य मन्वादेरविगीतया नात्मानं घातयेत्प्राज्ञ इत्याद्यया स्मृत्या केदारे पादयद्देहमित्याद्यनाप्तपारवण्ड्यादिस्मृतिः। भायाश्चतस्रा विप्रस्येत्याद्याप्तस्मृतिरपि।

यदुच्यते द्विजातीनां शूद्राद्दारोपसग्रह।
न तन्मम मतमिति याज्ञवक्ल्यादिस्मृतिभिर्विगीता-

शूद्रां शयनमारोप्य ब्राह्मणो यात्यधागतिमित्याद्यया अदृष्टार्थया न जातु ब्राह्मण हन्यादित्यादिस्मृत्या जिघासन्ताञ्जघांसीयादित्यात्मरक्षणादिदृष्टार्था पुत्र प्रतिग्रहीष्यन्वधूमाहूपरज्ञ निवेद्यतिवेशनृस्य मध्ये व्याहूतिभि र्हुत्वा प्रतिगृह्णीयादित्याद्यया होमादिति कर्तव्यतायुक्तपुत्रप्रतिग्रहादिविषयत्वातिप्रभवया स्मृत्या न शेषां अग्न अन्यजातमस्तीत्यादे शेषा ऽपत्यमन्योत्पादितं नास्तीत्याद्याभधायित्वेन दत्तकपुत्रनिषेधादिलिङ्गत्वात्तत्प्रमया यस्य यनापादितो विप्रकर्ष इत्याह स चेति तदेतेषामित्यादेरधिकरणार्थोपसहारभाष्यस्य प्रत्यक्षानुमादिबाधप्रकारोक्त्यर्थादथेत्यादिभाष्यात्प्रागपकृष्य व्याख्येयत्वं सूचयितुमधिकरणार्थं सक्षिप्योपसंहरति एवमिति सामान्यादिविषयायाः श्रुतेरपि विशेषादिविषयेण बाधात्यस्य विशेषविषयायाश्च समाख्यायाः सामान्यविषयां समाख्यां प्रति बाधकत्वस्य सजातीयबलवार्त्तिके ऽभिहितत्वान्नित्यं श्रुतेर्बाधकता समाख्यायाश्च बाध्यता न युक्तेत्याशङ्कानिरासार्थं यथाभाष्यावस्थितानाम् मध्यइत्युक्तम् अथेत्यादि न तन्मिथ्येत्यन्तस्य भाष्यस्याक्षेपपूर्वमेतदधिकरणोक्तश्रुतिलिङ्गादिबाधप्रकारोक्त्यर्थ तया परमतेन व्याख्यां दूषयितुमुपन्यस्यति इदानीमिति श्रुतिलिङ्गादिमात्रविषयत्वे तत्र तत्रेति वीप्सायोगमाशङ्क्य पञ्चधा विभक्तश्रुतिलिङ्गादियुगलविषयत्वेन विप्सोपपादनार्थम् द्वयोर्द्वयोरित्युक्तम् यदिति भाष्यं व्याचष्टे तद्यदि तावदिति अथेति भाष्यं व्याचष्टे समवायेति प्राप्ते बाधकविषयमित्यादिबाधप्रकारोक्त्यर्थं भाष्यं व्याचष्टे तत्रेति विरोधाविरोधसाधारणभूतात्सामर्थ्यैकवाक्यत्वाकाङ्क्षासादेश्ययौगिकत्वरूपाल्लैङ्गिकादिविनियोगज्ञानकारणाद् बाधकस्य श्रुत्यादिजन्यस्य ज्ञानस्य विषयमैद्र्यादिकं प्राप्तं सल्लैङ्गिकादिविनियोगज्ञानं बाधकेन मृषात्वेनावगम्यतइत्युक्ते लिङ्गादेर्विप्रकृष्टार्थश्रुत्यादिविरोधे ऽननुमितश्रुतितया विनियोजकज्ञानजनकत्वायोगात्प्राप्तबाधायोगमाशङ्क्य विरुद्धार्थविषयज्ञानजनकत्वं विना लिङ्गादेर्विरोधायोगेन बाधायोगान्मृषात्वावगतेः प्राग्वस्तुतो सत्यामप्याकाङ्क्षायां श्रौत्याकाङ्क्षारोपेण श्रुत्यनुमानद्वारोप्तन्नस्य विनियोगज्ञानस्य श्रुत्यादिजनितेन ज्ञानान्तरेण विरोध सति विप्रकर्षालोचनया वास्तवनैराकाङ्क्ष्यमध्यवसायश्रुत्यनुमानमृषात्वावगतिसूचनार्थत्वेन भाष्य स्थपूर्वशब्दव्याख्यार्थम् पूर्वामत्युक्तम् श्लोकं व्याचष्टे यद्यपि चेति सामान्यस्येति भाष्येणोपपत्तेरुक्तत्वाद्विनोपपत्तेरि [८७८।६] त्ययुक्तमित्याशङ्क्य सामर्थ्यादिरूपाणां लिङ्गादीनां साक्षाद्विनियोगकारणताभावात्साक्षात्करणभूतायाश्च श्रुतेरभावादसिद्धेयमुपपत्तिरित्याह यदपीति श्रुत्यनुमानाभ्युपगमेन तुल्यबलतैवापद्यतइत्याह अथ त्विति अविद्यमानाकाङ्क्षारोपेणानुमितायाः श्रुतेवस्तुतो ऽसत्वान्न तुल्यबलत्वापत्तिरित्याशङ्क्य पश्चाद्भावाभ्युपगमेन विप्रकर्षो वाच्यः तदा च पौर्वापर्यबलीयस्त्वन्यायेनानुमितयैव श्रुत्येतरश्रुतिबाधापत्तेस्तद्विनियोगवशन नैराकाङ्क्षाभ्यवसायायागाच्छरुत्यनुमानमिथ्यात्वकल्पना न युक्तेति परिहारं सूचयितुमाह यदि चेति पूर्ववाधापत्तिं प्रश्नपूर्वमुपपादयति कथमिति श्लोकं व्याचष्टे श्रुत्यादाविति परव्याख्यादूषणोपसंहरपूर्वं स्वमतेन व्याख्यातुमुपक्रमते तस्मादिति बाध [८७९।१] ग्रन्थान्तेऽधिकरणोपसंहाराद्यद्यप्येष ग्रन्थः श्रुत्यादिबलाबलप्रकरणान्तः पातित्वेन श्रुत्यादिविषय प्रतिभाति तथापि तेषु न घटतइति कृत्वोत्कृष्यतइत्यर्थः। तत्रेति सर्वनाम्ना प्रकृतश्रुत्यादित्यागेनाप्रकृतबाधान्तरविषयभूतप्रत्यजिनो जातास्तस्य तेनेतरस्य त्वित्याद्या तद्यथा मनुष्यराजआगते अन्यस्मिन्वार्हत्युक्षाणं वा वेहतम्वाक्षदन्त इत्याद्यर्थवादप्रभवा च महोक्षं वा महाजं वा श्रोतियायोपकल्पयेदित्याद्यामागामनागामदिति वधिष्टेत्यादिविधिश्रुतिप्रभवयागो ब्राह्मणाऽनलाम्भांसिनोच्छिष्टो न पदा स्पृशेत् न निन्दा ताडने कुर्यादित्याद्यया सूर्याविदेव धूमवस्त्रन्दद्यादित्यादिस्मृत्या विवाहचतुर्थे ऽन्हि वधूवस्त्रपरिधानाद्याचारः। वृद्धव्यवहाराभियुक्तानामपि म्लेच्छानां हस्त्यादौ पील्वादिशब्दप्रयोगाचारो ऽभियुक्ततराणामार्याणां वृक्षविषयप्रयोगाचारेण। अक्ताः शर्करा इति सन्दिग्धमसन्दिग्धेन घृतस्तवनेन दुर्बलक्रमाशयं वेदं कृत्वा वेदिं करोतीति वेदवाक्यं बलवत्पदार्थाश्रयेण क्षुतादिनिमित्ताचमनवाक्येन उपसंहारस्थमृगादिपदमुपक्रमस्थेन वेदपदेन सान्नायाज्ययोरित्यन्तास्पष्टार्थ अवघाताद्योषधे नियमादृष्टार्थेनावघातादिना पशुपुरोडाशस्यारादुपकारित्वं सन्निपत्योपकारित्वेन दध्ना जुहोतिति विशिष्टविधिपक्षे विशेषणविशेषणविशेष्यरूपानेकार्थविधानं गुणविधिपक्षे ऽल्पार्थविधानेन एकस्यार्थस्यानेकगोगाव्यादिशब्दत्वम् एकगोशब्दत्वेन एकस्य च शब्दस्यानेकव्यक्ताकृत्यर्थत्वमेकाकृत्यर्थत्वेन प्रतिगृहीतुरिष्टिरिति पक्ष वरुणायेति चतुर्थ्याः पञ्चम्यर्थत्वेनाश्वमनयदिति नयतेश्च प्रतिगृह्णात्यर्थत्वेन कल्पनात्स स्वां देवतामिति च तच्छब्दस्याप्राधान्यनिर्द्दिष्टवरुणपरामर्शित्वाद्दातृत्वे च वरुणस्य देवतात्वाभावेन देवताशब्दस्याविवक्षितार्थत्वाद् बहुबाधो दातुरिष्टिरिति पक्षे वरुणायेति चतुर्थ्याः पञ्चम्यर्थत्वेनाश्वमनयदिति नयतेश्च प्रतिगृह्णात्यर्थत्वेन कल्पनात्स स्वां देवतामिति च तच्छब्दस्याप्राधान्यनिर्द्दिष्टवरुणपरामर्शित्वाद्दातृत्वे च वरुणस्य देवतात्वाभावेन देवताशब्दस्याविवक्षितार्थत्वाद् बहुबाधो दातुरिष्टिरिति पक्षे वरुणायेति चतुर्थ्या पञ्चम्यर्थत्वेनाश्वमनयदिति नयतेश्च प्रतिगृह्णात्यर्थत्वेन कल्पनात्स स्वान्देवतामिति च तच्छब्दस्याप्राधान्यनिर्द्दिष्टवरुणपरामर्शित्वाद्दातृत्वे च वरुणस्य देवतात्वाभावेन देवताशब्दस्याविवक्षितार्थत्वाद् बहुबाधो दातुरिष्टिरितिपक्षे प्रतिगृह्णातिमात्रस्य दाने कल्प्यत्वादल्पबाधेन सामवेदोत्पन्नं वारवन्तीयादियजुर्वेदविहितत्वेनोपांशुत्वप्राप्त्योच्चैस्त्वरूपेण परशाखाविहितं वार्तामात्रेणावगतं यावत्स्वयं श्रूयते तावत्स्वशाखाविहितेनाग्नीषोमीयादर्द्वादशकपालत्वाद्येकादशकपालत्वादिना नित्यं सामधेनीपाञ्चदश्यं वैश्यनिमित्तेन साप्तदश्येन नित्यं पाञ्चदश्यं नैमित्तिकवशात्सात्पदश्यम्पुरुषार्थेनैकैविशत्यादिनानारभ्याधीतं साप्तादश्यं प्रकरणाधीतन पाञ्चदश्येन सर्वस्वं दाक्षिण्यादाक्षिण्यानिमित्तभूतप्रतिहर्तुद्गात्रपच्छेद पौर्वापर्यात्सर्वस्वदाक्षिण्यादाक्षिण्ययोः पौर्वापर्येणापय्वमानयोर्विरोधे पूर्वपरेण प्राकृतं बर्हिरादि वैकृतेन शरादिना। प्रयोगवचनाश्रितं भ्येनेप्रकृतष्वङ्गेषु उद्गातृकर्तृकत्वं चोदकाश्रयेण नानर्त्विक्कर्तृकत्वेन। निः प्रयोजनं निगदेषु परसम्बोधनार्थेषु उपांशुत्वं सप्रयोजनेनोच्चैस्त्वेन। आग्नेयाग्नीषोमीययोर्ब्रार्ह्मणक्रमो मन्त्रक्रमेण देवताश्रयमैन्द्रपुरोडाशादौ सान्नायविध्यन्तादिद्रव्याश्रयेणौषधविध्यन्तादिना। पश्चादप्याम्नातमुपांशुयाजविकारभूतं सारस्वतं कर्मामावास्यायामुपांशुद्याजमङ्गीकृत्यामावास्यातन्त्रप्रवर्तकतयाभासमानं पूर्वाम्नातेनाग्नीषोमीयविकारभूतनाग्नावैष्णवेन पौर्णमासतन्त्रप्रवर्त्तकेनाऽल्प पञ्चदशरात्रे ऽग्निष्टुत्कर्माग्नेयीसुब्रह्मण्याप्रवर्त्तकं भूयसा ज्योतिरादिनैन्द्रीसुब्रह्मण्याप्रवर्त्तकेन गौणं बर्हिर्मन्त्रप्रकाश्यं कुशसदृशं मुख्येन क्रुशेन सामान्यविहितमाहवनीयादि विशेषविहितेन पदादिना सावकाशं यत्किञ्चित्प्राचीनमित्यग्नीषोमीयप्राग्भाविपदार्थविहितमुपांशुत्वं दीक्षणीयादिमात्राङ्गतया विहितेन स्वरेणान्यत्र निरवकाशे ऽनाङ्गमाधाने ऽग्निहोत्रहवणीप्रधानेन निर्वापेणा ऽङ्गधर्मो दीक्षणीयादौ पर्वकालत्वं प्रधानधर्मेण सुत्यायाः पर्वकालत्वेन बाध्यत इति यत्तत्रतत्रोच्यते तत्सर्वं प्राप्तमप्राप्तं वा बाध्यतइत्यर्थः। सर्वशब्देनैकाभिधानश्रुत्या पदश्रुतिबाधो ऽपि सूचितः। किञ्चेति भाष्येणाप्राप्तबाधपक्षे को दोषः प्राप्तबाधपक्षे क इति पृष्टे बाधकविषयमप्राप्तस्य बाधे दोषोक्त्यर्थं यदीतिभाष्यं यदि बाध्यं सामान्यशास्त्रादिज्ञानानुत्पादकत्वाद् बाधकस्य विशेषशास्त्रादेर्विषयभूतं होमादि अप्राप्तं ततो विरोधाभावात्किं बाध्यतइत्येवमर्थत्वेन भासमानं बाधकज्ञानविषयविरुद्धज्ञानाभिमुख्यमात्रेणानुत्पादितज्ञानस्यापि सामान्यराज्यादेरन्योन्यराज्याभिमुख्यमात्रेणानपहृतराज्यानामपि राज्ञामिव विरोधोपपत्तेरयुक्तमाशङ्क्य विरोधविषयभूतपदहोमादिवदविरोधविषयमूते ऽग्निहोत्रहोमादावप्याहवनीयाधिकरणत्वादिज्ञानानुत्पादकत्वेनातुल्यत्वात्सार्वत्रिकबाधापत्त्यर्थत्वेन व्याख्यातुमाह तद्यदि तावदिति सामान्यशास्त्रादेः प्रत्यक्षेण स्वरूपे [८८०।३] णाभावायोगे ऽपि ज्ञानोत्पादेन प्रवृत्त्यभावेनाहवनीयादिविनियोजकत्वरूपेणाभावापत्त्युक्त्यै विनियोजकस्येत्युक्तम्। अनेन च किं बाध्यतइति भाष्यस्थस्य किंशब्दस्य स्तोकवाचि किञ्चित् शब्दैकदेशत्वात्किमिव च रेतो विक्रियतइत्यादिदर्शनाद्वा स्तोकवाचित्वाभ्युपगमपूर्वं विरुद्धलक्षणया सर्ववाचित्वमभ्युपगम्याव्ययत्वाभ्युपगमेन च सप्तम्यर्थत्वाचित्वमभ्युपगम्य सर्वत्र बाध्यतइति भाष्यार्थः सूचितः। ज्ञानोत्पत्तिप्रतिबन्धस्य विरोधनिबन्धनत्वादविरोधविषये प्रतिबन्धकाभावेनोत्पादकत्वोपपत्तेः नाप्रवृत्तिनिमित्ताऽसत्तुल्यत्वापत्तिरित्याशयेन अथेति सामान्यादिशास्त्रास्यापर्यवसानाद्विशेषादिषु प्रवृत्तावपि सामान्यादिद्वारैव प्रवृतेर्विषये भेदाभावेन ज्ञानभेदायोगात्क्व चिदंशे ज्ञानोत्पत्तिः प्रतिबध्यते क्व चिन्नेत्यनुपपत्तेरविरोधविषये प्रतिबन्धाभावेन ज्ञानोत्पादकवच्छास्त्रस्यासत्तुल्यत्वानापत्तौ विरोधविषये ऽप्यसत्तुल्यत्वापत्त्ययोगाद्विशेषादिशास्त्रेण सह तुल्यबलत्वापत्ति। पौर्वापर्यबलीयस्त्वन्यायाद्वा विपरीतबाधापत्तिरित्याशयेन परिहरति तत इति ज्ञानभेदाभावेनोत्पत्तिप्रतिबन्धाप्रतिबन्धव्यवस्थायोगसूचनार्थम् न हीत्युक्तम् सर्वमेतदुदाहरणनिष्ठतया विवृणोति तेनेति सामान्यविशेषशास्त्रयोस्तुल्यबलत्वं विपरीतो वा बाधो ऽस्त्वित्याशङ्कमानस्य लोकप्रसिद्धिविरोधसूचनार्थं लौकिकोदाहरणम्। ज्ञानोत्पादने शास्त्रप्रवृत्तौ ज्ञानोत्पत्तिप्रतिबन्धाशक्तेरप्राप्तबाधवादिना ज्ञानोत्पत्तिप्रतिबन्धार्थं शास्त्रप्रवृत्तिप्रतिबन्धस्य वाच्यत्वात्तन्मते शास्त्रस्याकिञ्चित्करत्वेनासत्तुल्यत्वापत्त्युपपादनाया ऽप्रवृत्तिशब्दः। शङ्कमानस्य लोकप्रसिद्धिविरोधसूचनार्थं लौकिकोदाहरणम्। ज्ञानोत्पादने शास्त्रप्रवृत्तौ ज्ञानोत्पत्तिप्रतिबन्धाशक्तेरप्राप्तबाधवादिना ज्ञानोत्पत्तिप्रतिबन्धार्थं शास्त्रप्रवृत्तिप्रतिबन्धस्य वाच्यत्वात्तन्मते शास्त्रस्याकिञ्चित्करत्वेनासत्तुल्यत्वापत्त्युपपादनाया ऽप्रवृत्तिशब्दः। नहीति वार्त्तिकावयवव्याख्यानायाप्यतो प्रतीत्यनेनैकस्य ज्ञानस्य सदसत्त्वविरोधात्तज्जनकस्य शास्त्रस्य सदसत्तुल्यत्वविरोधमुक्तमेकस्यापि शब्दार्थसम्बन्धस्य ज्ञानं हि पुरुषाधारं तद्भेदान्न विरुध्यतइत्यादिसम्बन्धग्रन्थवार्त्तिकोक्तग्रहणाग्रहणविरोधवत्तदृष्टान्तत्वेन वोक्तां धानन्धसमीपच्छरूपग्रहणाग्रहणाविरोधवदेकस्यापि शास्त्रस्य ग्रहणाग्रहणाविरोधाद् गृहीतस्यैव च शास्त्रस्य ज्ञानजनकत्वात्क्वचिदंशे ज्ञानजनकत्वं क्व चिन्नेत्यविरोधोपपत्तेरयुक्तमाशङ्क्यांशभेदे ऽपि प्रमातृभेदाभावाच्छास्त्रस्य ग्रहणाग्रहणाविरोधायोगो न चात्रेत्यनेनोक्तः। प्रमातृभेदाभावे ऽपि विषयभेदेन तदधीननिरूपणाज्ञानभेदादज्ञातज्ञानाख्यशासनात्मकशास्त्ररूपभेदावगतेः सदसत्त्वविरोधो नास्तीत्याशङ्क्याह न चेति सकृच्छ् रुतस्य शास्त्रस्यानेकार्थपरत्वायोगाद्विषयभेदो न सम्भवतीत्याशय। सामान्यशास्त्रस्य च व्यक्तिविषयत्वाभावादतिदेशशास्त्रस्यैकपदार्थविषयात्वाभावाद्विषयभेदो नास्तीत्याह व्यक्तीति व्यक्तिवाचित्वपदार्थाविदेशपक्षयोः शास्त्रस्वरूपेण भेदे ऽपि स्वरूपभेदाभावसूचनार्थं कदा चिद्भिन्नत्वं भवेदित्युक्तम्। आकृतिवाचित्वयागगामिपदार्थसमुदायव्यापारातिदेशयोरपि सामान्यशास्त्रस्यानुष्टानार्हव्यक्तिपर्यवसायित्वादतिदेशशास्त्रस्य च पदार्थपर्यवसायित्वाद्व्यक्तिनामङ्गख्यानां च पदार्थानां भिन्नत्वात् भिन्नविषयत्वेन शास्त्रभेदो भविष्यतीत्याशङ्क्याह आकृतीति प्रवृत्तिप्रतिबन्धलक्षणबाधाभ्युपगमे सामान्यवाचिना ब्राह्मणादिशब्देन व्यक्तिलक्षणाया प्रकृतिसादृश्योक्तिद्वारभूतयागगतव्यापारवाचित्वात् जनकपदार्थावान्तरकार्यलक्षणाद्वारायाः पदार्थलक्षणायाः प्रवृत्तित्वेनाभिप्रेतायाः प्रतिबद्धत्वेन नाभावाद्व्यक्तीनां पदार्थानां वा विषयत्वानुपपत्तेर्विषयभेदो न सम्भवतीत्याशयः। व्यक्त्यादिलक्षणात्मकप्रवृत्तिप्रतिबन्धलक्षणबाधाभ्युपगमे विषयभेदाभावेन शास्त्रभेदाभावात्सदसत्त्वविरोधपरिहारायोगे ऽपि सर्वत्र प्रवृत्तस्य सामान्यादिशास्त्रस्य विशेषादिशास्त्रेण स्वविषयानिवृत्तिलक्षणबाधाभ्युपगमे विषयभेदाच्छास्त्रभेदोपपत्तेर्विरोधपरिहारो भविष्यतीत्याशङ्क्याह एतेनेति व्यक्तिषु सामान्यशास्त्रप्रवृत्तिहेतोर्ब्राह्मणशब्दस्य पदार्थेषु चातिदेशशास्त्रप्रवृत्तिहेतोः प्रकृतिवच्छब्दस्य सर्वव्यक्तिषु सर्वपदार्थेषु तुल्यत्वेन कस्याश्चिद्व्यक्तेः कस्य चिद्वा पदार्थस्य वर्जनायोगादनेन ततो ऽवश्यमित्यादिवार्त्तिकोक्तेन प्रवृत्तिप्रतिबन्धनिमित्तशास्त्राभावापादनलक्षणबाधनिरासेन निवर्त्तनाख्योत्कालनलक्षणो ऽपि बाधो निरस्त इत्यर्थः। सूत्रकृत्सम्मत्या किं चिद्वर्जनायोगं दृढयितुमाह तथा चेति अनारभ्यादिकरणे ऽनारभ्यविधिना विकृतिष्वपि खादिरत्वादिप्राप्तेस्तद्वर्ज चोदकवचनमित्यनारभ्यवादानां प्रकृतिमात्रार्थत्वसिद्धान्तहेतोः प्रकृतिविकृत्यर्थत्वे द्विरुक्तत्वप्रसङ्गस्यासिद्धत्वशङ्कार्थमुत्त्का चोदकस्यानारभ्यविधितो र्दार्बल्यं तेनैव विकृतिनैराकाङ्क्षाच्चोदकाभावापत्त्या तत्प्राप्यप्रयाजादिदर्शनादितिचेदिति सूत्रेणाशङ्क्य न चोदनैकार्थ्यादित्यनेनानारभ्यचोदनायाः खादितरत्वाद्येकार्थपरत्वेन स्रुवाद्यविधानाद्विकृतिनैराकाङ्क्षकरणाशक्तेश्चोदकस्य दौर्बल्ये ऽप्यनारभ्यविध्यप्राप्तप्रयाजादिप्रापकत्वोपपत्तिमुत्त्का सिद्धान्तैकदेशिमतेन द्विरुक्तत्वप्रसङ्गस्यासिद्धत्वमभ्युपेत्य सङ्क्षेपविस्तररूपत्वेन हेतुना प्रयाजादिप्रायकत्वोपपत्तिमुत्त्का सिद्धान्तैकदेशिमतेन द्विरुक्तत्वप्रसङ्गस्यासिद्धत्वमभ्युपेत्य सङ्क्षेपविस्तररूपत्वेन हेतुना प्रयाजादिविधिदृष्टान्तेन खादिरादिविधेः प्रकृतिमात्रार्थत्वानुमानमुत्पत्तिरिति चेदित्यनेनाशङ्क्य न तुल्यत्वादित्यनेनाशङ्क्य न तुल्यत्वादित्यनेनामनहोमादिविधेर्विकृत्यर्थस्यापि सङ्क्षेपविस्तररूपत्वदर्शनेनानैकान्तिकत्वादनुमानायोगमुत्त्का चोदनार्थकार्स्र्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थमित्यनेनानारभ्यविधेः स्वविधेयखादिरत्वाविषयभूतस्रुवादिप्राप्त्यै चोदकापेक्षत्वेन चोदकस्यैव बलीयस्त्वादनारभ्यविधिविषयवर्जनानुपपत्तेः कृत्स्नस्य प्राकृताङ्गजातस्य चोदकचोदनार्थत्वावगमेनानारभ्यविधेर्विकृत्यर्थत्वे मुख्यस्य विकृतिविधेश्चोदकः शेषो ऽनारभ्यविधिर्वेति विप्रतिषेधापत्तेस्तत्परिहारायानारभ्यविधानं प्रकृतिमात्रार्थमिति द्विरुक्तत्वप्रसङ्गस्यासिद्धत्वशङ्कनिरासेन सिद्धान्तमुपसंहरिष्यंश्चोदनार्थकार्त्स्न्यार्द्धेतोर्न प्राप्तवर्जनमित्यसिद्धत्वशङ्कोत्तरं सूत्रकृद्वास्यतीत्यर्थः। शुद्धस्य च वर्जनव्यापाराभावात्सम्भवद्वर्जनव्यापारस्य च वक्राशयस्य वेदे ऽनुपपत्तेर्न किं [८८१।१] चिद्वर्जनं सम्भवतीत्याह पौरुषेये ऽपि तावदिति वक्राशयानुरोधेन पुवाक्यस्यार्थप्रतिपादकत्वाच्छब्दव्यापारं विनापि तत्र वर्जनरूपस्यार्थस्य यन्मया ब्राह्मणेभ्यो दधीति प्रयुक्त तत्कौण्डिन्यवर्जमित्येवं वक्त्तृहृदये वर्त्तमानतया वर्जनं भवेदिति हृदये वर्त्तमानो ऽर्थो हृदयार्थ इतिमध्यमपदलोपिसमासाभ्युपगमेनोक्तेवर्जनस्याशब्दार्थत्वे सत्यनावृत्य त्वमाशङ्क्यानुविधेयपुरुषाशयार्थत्वेनादृत्यत्वसूचनायेश्वरेत्युक्तम्। सामान्यशास्त्रस्यैकत्वे ऽपि तत्कल्प्यव्यक्तिशास्त्रभेदात्सदसत्त्वविरोधपरिहारमाशङ्क्य सामान्यशास्त्रस्यैवापर्यवसानाद्व्यक्तिपरपरत्वेनानुष्ठेयार्थत्वोपपत्ते शास्त्रान्तरकल्पना न युक्तेत्याशयेन परिहरति न चेति अतो लिङ्गादिष्वप्राप्तबाधस्योक्तत्वादवश्यम्भाविबाधैकरूप्यसिद्ध्यै यदि सामान्यशास्त्रादिष्वप्यप्राप्तबाधो ऽभिप्रेतस्ततो विरोधविषयवदविरोधविषये ऽपि बाधापत्तेर्नावकल्पतइति यदीतिभाष्यार्थमुपसंहरति तस्मादिति प्राप्तबाधपक्षे दोषोक्त्यर्थमथेतिभाष्यं प्राप्तस्य सामान्यादिशास्त्रस्याशक्य बाधेत्येवमर्थत्वेनाभासमानमुत्पादितज्ञानत्वेन बाधकविषयप्राप्तस्यापि तज्जनितज्ञानमिथ्यात्वकल्पनया बाधोपपत्तेरयुक्तमाशङ्क्य प्राप्तं चेत्सामान्यशास्त्रादि बाध्यते ततो लिङ्गाद्यपि बाधैकरूप्यसिद्ध्यै प्राप्तमेव बाध्येत तस्य च बाधकसमानविषयश्रुतिकल्पनं विना बाधकविषयप्राप्तययोगात्कल्पितायाश्च श्रुतेः प्रत्यक्षया सहाविशेषात्तुल्यबलत्वापत्ते पौर्वापर्यबलीयस्त्वन्यायाद्वाकल्प्याया एव पाश्चात्यत्वेन बाधकत्वापत्तेः कथं लिङ्गादि बाधितुं शक्यमित्येवमर्थत्वेन व्याख्यातुमाह अथेति दोषजन्यत्वान्मिथ्यात्वस्य शब्दे चानाप्तोक्तत्वस्यैव दोषत्वाद्वेदे च तदयोगात्प्राप्तवाधायोगमाशङ्क्यमित्येवमर्थत्वेन व्याख्यातुमाह अथेति दोषजन्यत्वान्मिथ्यात्वस्य शब्दे चानाप्तोक्तत्वस्यैव दोषत्वाद्वेदे च तदयोगात्प्राप्तबाधायोगमाशङ्क्य तात्पर्यावधारणानपेक्षस्य शब्द स्य विषयपरिच्छेदकज्ञानाख्यविज्ञानानेनुप्तादकत्वात्सर्वांशोपेतभावनाविषयसमस्तोत्सर्गापवादरूपशास्त्रालोचनं च विना तात्पर्यानवधारणात्सामानन्यादिशास्त्रमात्रलोचने विज्ञानोत्त्पत्त्यनुपपत्तेर्विज्ञानापेक्षया वेदे सर्वत्राप्राप्तबाधे ऽपि लिङ्गादिना बलवद्विरोधिश्रुत्यनुमानाभावेन ज्ञानमात्रमपि नोत्पाद्यते सामान्यशास्त्रादिना ऽनुविरोधे ऽपि ज्ञानमात्रमुत्पाद्यतइति वैलक्षण्यप्रदर्शनाय ज्ञानमात्रापेक्षयात्र प्राप्तबाधोक्तिर्ज्ञानमात्रस्य च विज्ञानत्वाभावादविज्ञाने तु दोषाणां व्यापारा नैव विद्यते कारणाभावतस्त्वेव तत्सिद्ध नस्त्वदुक्तिवदिति स्वतो ऽप्रामाण्याभिधानाद्दोषाभावे ऽप्यप्रामाण्योपपत्तिरिति सूचनार्थः कथञ्चिच्छब्दः। तत इत्यादिना ततो लिङ्गाद्यपि प्राप्तमेव बाध्येत तच्च कथं शक्त्येत बाधितुमिति साध्याहारभाष्यव्याख्या सूचिता। कथं शक्येतेति यद्भाष्यकृतोक्तं तत्र श्रुत्यादीनां प्राप्तबाधे इति तच्चेत्यध्याहारसूचनायोक्तं कथं तद्बाधितुमशक्यमित्यपेक्षायां न चेतदुत्थापितं ज्ञानमनुत्पन्न शक्य वक्तुमित्यादिवार्त्तिकोक्तोपपत्तिसूचनार्थश्चकारः। प्रश्नभाष्यस्य वेदे क्वचिद् बाधो न सम्भवतीत्येवमाशयत्वं सूचयन्नुपसंहरति अत इति बाधमार्गस्यैकरूप्यं युक्तं तच्च न घटतइतिकृत्वा न क्व चिद् बाधो वेदे घटतइत्यर्थः। प्राप्तमित्युत्तरभाष्य प्रश्नाशयानतिक्रमादयुक्तमाशङ्क्य प्रश्नाशयं तावन्निरस्यति तदिति प्रमाणवत्वान्नरूप्यमवगम्यमानं यस्मादिह वेदे न किञ्चिद्विरुणद्धि तस्मान्न बाधस्यैकप्रकारत्वनियमो ऽस्तीत्यर्थः। बाधप्रकारनानारूप्यस्यानुभवसिद्धत्वेन प्रमाणवत्वं बाध्यनानारूप्यदृष्टान्तेनोपपादयन्नुत्तरार्द्धं व्याचष्टे यथैवेति य एते ऽनुमानादयो ऽङ्गधर्मपर्यन्ताः षट्त्रिशदन्योन्यं भिद्यमाना बाधविषया वर्णितास्तेषु भिन्नरूपत्वस्यैव प्रमाणवत्वाद्यथैकरूप्यं नाङ्गीकृत तथा बाधप्रकारनानात्वस्यापि गम्यमानत्वेन प्रमाणवत्वाद्वेदे ऽपि ज्ञानमात्रापेक्षया प्राप्तबाधोपपत्तेश्च बाधविरोधित्वाभावाद् बाधप्रकारेष्वप्यैकरूप्यं नाङ्गीकार्यमित्यर्थ। बाधप्रकारनानात्वोक्त्यर्थत्वेन प्रश्नाशयनिरासकतयोपपयितुमुत्तरभाष्यं श्रुत्यादिबाधव्यतिरिक्तविषयत्वेनोपपत्तिपूर्वं व्याख्यातुमाह तत्रेति लिङ्गादेरप्यप्राप्तबाधपक्षे सामान्यशास्त्रादिवत्सदसत्वविरोधापत्तिमाशङ्क्य सामान्यशास्त्रादेर्विरोधविषयभूते कौण्डिन्यादौ शास्त्रान्तरप्रतिबद्धायाः प्राप्तितः प्राप्तयन्तरस्याविरोधविषयभूते माठरादावभ्युपगमात्सदसत्वविरोधापत्तिरुक्ता कदा चनस्तरीरसीत्येतन्मन्त्रस्थेन्द्रोक्तिशक्यात्मकस्य तु लिङ्गस्य तस्मिन्नित्यस्य च स्योनाद्येकवाक्यत्वात्मकस्य वाक्यस्यावीवृधतामित्यस्य च दर्शपूर्णमासप्रकरणाम्नानात्मकस्य प्रकरणस्य शौनः शेषाख्यानादेश्चाभिषेचनीयसन्निध्यात्मकस्य शुन्धनमन्त्रस्य च पौरोडाशिकाख्यात्मिकाया क्व चिद्विनियोजकत्वानभ्युपगमेन विरोधविषयप्राप्तितः प्राप्तयन्तरानभ्युपगमान्न तत्राप्राप्तबाधे ऽपि सदसत्वविरोधो ऽस्तीत्युक्तम्। श्रुत्यादिव्यतिरिक्तसर्वबाधविषयत्वेन प्रश्नभाष्यव्याख्यानादुत्तरभाष्यस्यापि तद्व्यतिरिक्तसर्वबाधविषयत्वशङ्कापत्तेस्तन्निरासार्थम् ये ऽपीत्युक्तम् अर्थविप्रकर्षहेतुकत्वेन श्रुत्यादिच्छायानुपातिनो ये बाधास्ते सर्वे ऽर्थविप्रकर्षाख्यस्य हेतोरतस्मिंश्च निर्ज्ञाते कृतसामर्थ्ययोर्वाक्यप्रकरणायोर्नैतदेवं कल्पयितुं शक्यमिन्द्रोपस्थानं शब्देनाभिहितमितीद्यादिभाष्येणाप्राप्तबाधसामर्थ्यकथनात्तब्दाधेनैवाप्राप्तबाधतया व्याख्याता इत्यर्थः। सदृशवाचिना ऽऽदिशब्देन पूर्वोद्दिष्टो ऽनुमानबाधो ऽनन्तरोद्दिष्टा च परशाखाविहितान्तबाधाव्यवहितोद्दिष्टाश्चानारभ्याधीतप्रयोगवचनाश्रितब्राह्मणक्रमदैवताश्रयगौणबाधा गृहीताः। अनुमानस्य प्रत्यक्षविरोधे पक्षस्यैव साध्यशून्यत्वेन विपक्षत्वात्तत्र हेतोर्वृत्तेरनैकान्तिकत्वेन कारणाभावात्सर्ववेष्टनादिश्रुतेश्च द्वित्राङ्गुलव्यतिरिक्तसर्ववेष्टनादिविषयत्वसम्भवेनाशेषवेष्टनश्रुतिकल्पनाशक्तत्वादनाप्तस्मृतेश्च श्रुत्यकल्पकत्वस्य स्पष्टत्वाद्विगीतायाश्चाप्तस्मृतेरप्यापद्विषये ऽल्पदोषत्वार्थत्वसम्भवेन निर्दोषत्वावेदकश्रुत्यकल्पकत्वादाततायिवधस्मृतेश्चात्मरक्षणप्रयत्नमात्रार्थत्वसम्भवेन वधपरश्रुत्यकल्पकत्वाल्लिङ्गार्थवादप्रभवयोश्च स्मृत्योस्तन्मूलत्वेनैव श्रुत्यकल्पकत्वाद्वधूवस्त्रपरिधानाचारस्य चाऽश्रीरा तनूर्भवतिरुशतीपापयामुपापतीर्यद्वधो चासमास्वमङ्गमभिधित्सत इत्यादिलिङ्गाद्वधूवशत्वफलत्वावगतेर्वधूबन्धूभिस्तद्वशत्वसिद्ध्यै प्रवर्त्तितत्वसम्भवेन श्रुतिकल्पनाशक्तत्वाद्धस्त्यादौ च पिल्वादिशब्दप्रयोगाचारस्य सादृश्यादि मूलत्वसम्भवेनानुपपत्तिक्षयाद्वाचकाशक्तिकल्पनाशक्ते सन्दिग्धस्य च विध्युद्देशस्यासन्दिग्धवाक्यशेषापेक्षत्वेन तद्विरुक्तार्द्धार्थविध्यशक्तत्वात् दुर्बलक्रमाद्याश्रयस्य च बलवत्पदार्थविप्राप्त्यपेक्षत्वेन तद्विरुद्धक्रमादि विध्यशक्तत्वादुपसहारस्य चोपक्रमापेक्षत्वेन तद्विरुद्धार्थविध्यशक्तत्वादवघातादिविधेश्चौषधे नियमादृष्टार्थत्वेन परिहृतानर्थक्यस्याज्यसान्नाय्ययोरत्यन्तादृष्टार्थावघातादिविध्यशक्तत्वादग्नीषोमीयपशुपुरोडाशयागविधेश्च लिङ्गावगतदेवतासंस्काराख्यसन्निपत्त्योपकारार्थयागविधानेन परिहृतानार्थक्यस्य प्रकरणावगम्यारादुपकारार्थयागविध्यशत्वादल्पार्थविधानेन च कृतार्थस्य विधेरनेकार्थविध्याशक्तत्वादेकस्य च शब्दस्य वाचकशक्तिकल्पनेन तदशक्तिजशब्दान्तरप्रयोगोपपत्तेः शब्दाशक्तिकल्पनस्याशक्यत्वादेकस्य वार्थस्य वाच्यशक्तिकल्पनया तदविनाभावेनार्थान्तरप्रत्ययोपपत्तेरर्थान्तरशक्तिकल्पनस्याशक्यत्वाप्रतिगृह्णात्रिमात्रबाधेन चाश्वप्रतिगृहेष्टिवाक्योपपत्तेर्बहुबाधकल्पनस्याशक्यत्वादुच्चैज्ञचा क्रियतइति च करोतेर्विधिवाचित्वेनोत्पत्तिवेदस्वरविध्यशक्तत्वात्परशाखाविहितस्य च मूलनिश्चयात्प्रागश्रद्धेयत्वेनानुष्ठेयत्वादनारभ्याधीतस्य च विकृतिप्रकरणावगतविकृत्यन्वयनिराकाङ्क्षीकृतस्य प्रकृत्यन्वयकल्पनाशक्तः प्रयोगवचनस्य च चोपेक्षत्वेन तद्विरुद्धार्थविध्यशक्तत्वात्प्रयोगसमवायिमन्त्रक्रमकल्पितक्रमविधायिश्रुतिकल्पनाशक्तेः स्वरूपसमवाय्यन्तरङ्गद्रव्यसामान्ययुक्तसुसदृशप्रकृतिलाभसस्भवे शब्दमात्रसमवायिबहिरङ्गदेवतासामान्ययुक्तस्य कर्मणो मन्दसदृशत्वेन यदि सुसदृशमन्यल्लभ्यते तत्र मिथ्या भवति विसदृशत्वान्मन्दसादृश्ययुक्तमित्यनेन न्यायेन विसदृशत्वात्प्रकृतित्वकल्पनाशक्तेः पूर्वान्मन्त्रकर्मतन्त्रप्रवृत्त्या च प्रसङ्गलब्धोपकारस्य पश्चादाम्नातस्य कर्मणः स्वकीयतन्त्रप्रवर्त्तकत्वाशक्तेः मुख्ये ऽर्थे मन्त्रविनियोजकलैङ्गिकश्रुतिकल्पनेन च मन्त्रप्रकरण्याकाङ्क्षायां निवृत्तायां गौणे ऽर्थे विनियोजकश्रुतिकल्पनाशक्तेः सर्वेष्वेष्वप्राप्तबाध इत्याशयः। प्राप्तबाधोक्तिस्तर्हि किं विषयेत्यपेक्षायाम् ये त्वित्युक्तम् प्राप्तिहेतुप्रश्नार्थं कथमितिभाष्यं ब्राह्मणशब्दादेः प्राप्तिहेतो स्पष्टत्वादयुक्तमाशङ्क्य लिङ्गादौ सामर्थ्यादेः प्राप्तिहेतोर्भावे ऽपि बलवता श्रुत्यादिना प्रतिबन्धादप्राप्तिवत्सामान्यशास्त्रादावपि बलवता विशेषशास्त्रादिना प्राप्तिहेतुप्रतिबन्धादप्राप्त्या भाव्यमित्येवमाशयत्वेन व्याख्यातुमाह कथमिति आकाङ्क्षासहकृतस्य सामर्थ्यादेः प्राप्तिहेतुत्वाद् बलवद्विनियोगेनाकाङ्क्षानिवृत्तौ शुद्धस्य सामर्थ्यादेः प्राप्तिहेतुत्वाभावादप्राप्तिर्युक्ता ब्राह्मणशब्दादेस्तु विरोधाविरोधयोः साधारणरूपस्य शुद्धस्यैव प्राप्तिहेतुत्वात्प्राप्तिहेतुभूतब्राह्मणादिशब्दानाश्रितत्वेन च विशेषशास्त्रादे प्रतिबन्धकत्वायोगान्नेहाप्राप्तिर्युक्तेत्येवमाशय सामान्यस्येत्युत्तरभाष्यमवतारयति उत्तरमिति विरोधाविरोधसाधारण्यवाचिना सामान्यशब्देनाविरोधासाधारणाकाङ्क्षानपेक्षत्वं सूचितम्। प्रमाणाभासे सामान्यरूपस्य कारणस्य चक्षुरादेः प्रमाणविरोधे ऽपि नित्ये च सामिधनीषाञ्चदश्ये क्रतुप्रकरणाम्नानस्य वैश्यप्रयोगे ऽपि नित्यनैमित्तिकयोश्च क्रत्वर्थयोः पाञ्चदश्यसाप्तदश्ययोर्गुणकामप्रयोगे ऽपि पूर्वस्मिंश्च सर्वस्वदाक्षिण्ये निमित्तभूतस्य प्रतिहर्त्रवच्छेदस्योद्गात्रवच्छेदे ऽपि प्राकृते च बर्हिषि प्रकृतिवच्छब्दस्य शरोपदेशे ऽपि सामान्यविहिते चाहवनीये होमत्वस्य पदादिहोमे ऽपि निष्प्रयोजनेच परसम्बोधनार्थेषूपांशुत्वे यजुर्वेदविहितत्वस्य निगदेष्वप्याग्नेयीसुब्रह्मण्याप्रवर्त्तकत्वे चाग्निष्टुत्वस्य भूयो विरोधे ऽपि सावकाशे चोपांशुत्वे ऽग्नीषोमीयप्राग्मावित्वस्य दीक्षणीयादिष्वप्यग्निहोत्रहवण्यङ्गकत्वे च निवार्पत्वस्याधाने ऽप्यङ्गधर्मे च दीक्षणीयायाः पर्वकालत्वे मुख्यत्वेनानुपसञ्जातविरोधत्वस्य प्रधानसोमयागधर्मपर्वकालत्वविरोधे ऽपि विद्यमानत्वात्प्राप्तिः सम्भवतीति भाष्यार्थसूचनायोत्तरशब्दः। कथं प्राप्तिकारणस्य विरोधाविरोधविषययोः साधारणरूपतेत्याशङ्क्य ब्राह्मणप्रकृतिवच्छब्दयोस्तुल्यहेतुत्वेन किं चिद्वर्जनासम्भवादिति वार्त्तिकेन सामान्यातिदेशप्राप्तिकारणयोर्विरोधाविरोधसाधारण्योक्त्या सर्वेषां प्रमाणाभासादिप्राप्तिकारणानां चक्षुरादीनां साधारण्यं तुल्यन्यायतया दर्शितं भवतीत्याह दर्शितमिति प्राप्तस्य बाधायोगाशयमथेति प्रश्नभाष्यमुपपादयितुं नचैतदुत्थायितुं ज्ञानमनुप्तन्नं शक्यं वक्तुमित्यादिपूर्वपक्षवार्त्तिकोक्तां बा [८८२।१] धायागोपपत्तिमनुभाषते यत्त्विति अनुष्ठानाख्यफलवियोगाशक्तिस्त्वर्थसत्वपरिच्छेदाख्यफलवियोगलक्षणबाधोपपादनेन निराकरिष्यमाणत्वान्नानुभाषिता। नैवेत्युत्तरभाष्यं नोत्पन्नं ज्ञानं प्रतिबध्यते न च स्वरूपेण संस्काररूपेण चाबाधकवशान्नश्यति किं तु मिथ्यात्वेनावगम्यतइति मिथ्यात्वज्ञापनरूपबाधोक्त्यर्थत्वेनावतारयति तत्रेति विषयासत्वव्युदासप्रकाशफलज्ञानविशेषरूपविज्ञानमिथ्यात्वस्य दोषजन्यत्वाद्वेदे च दोषाभावात्तन्मिथ्यात्वानुपपत्तेर्वेदे ज्ञानमात्रस्य दोषजन्यत्वाद्वेदे च दोषाभावात्तन्मिथ्यात्वानुस्यैवेति सूचयितु भाष्यविशब्दानादरेण ज्ञानमित्येतावदुक्तम्। भाष्यं त्वकारप्रश्लेषेण विज्ञानत्वाभावोक्त्यर्थत्वेन दोषाभावाद्विज्ञानमिथ्यात्वायोगशङ्कानिरासार्थमविज्ञानमेतदिति विज्ञानत्वाभावप्राहकं प्रत्ययान्तरं विज्ञानरूपं भवतीत्यविज्ञानरूपाद् बाध्यप्रत्ययाद्विज्ञानरूपत्वेन बाधकप्रत्ययस्य वैलक्षण्योक्त्यर्थमन्तरशब्दमङ्गीकृत्य व्याख्येयम्। एतदेव विवृणोति शास्त्रान्तरं हीति परिकल्पनोक्त्या सामान्यादिशास्त्रजनितस्य ज्ञानस्य विषयसत्वपरिच्छेदकत्वलक्षणविज्ञानत्वाभावाध्यवसाने ऽभिहिते यथा तर्हि गौरिति पदमात्रस्य गोसत्वपरिच्छेदकत्वाभावात्प्रमाणान्तरेण गवाभावावगमे ऽपि विरोधो न भासते तथास्यापि विशेषादिशास्त्रेण विषयाभावावगमे ऽप्यविरोधापत्तेर्बाधो न युज्येतेत्याशङ्क्य नेह ज्ञानस्य विषयसत्वापहारलक्षणो बाधो ऽभिमतः किं तु सामान्यादिशास्त्रस्य भ्रान्त्यवगतकौण्डिन्यादिविषयवत्वापहारलक्षणो ऽनन्यगतिना विशेषादिशास्त्रेण बाध इति भ्रान्तिशब्देन सूचिते भ्रान्तौ को हेतुरित्यपेक्षायां सामान्यरूपेण कारणेन ब्राह्मणशब्दादिना कौण्डिन्यादिव्यतिरिक्तेषु ब्राह्मणादिषु सामान्यादिशास्त्रस्य तात्पर्यमित्येवंरूपाया बुद्धेरपहारेण ब्राह्मणादिमात्रे तात्पर्यभ्रान्ति सामान्यादिशास्त्रस्य ब्राह्मणादिमात्रविषयत्वभ्रान्तौ हेतुं सूचयितुम् सामान्येत्युक्तम् बाध्यशास्त्रस्य बाधकशास्त्रावरुद्धविषयताया भ्रान्तत्वे प्राप्तययोगात्प्राप्तबाधोक्तिर्विरुद्ध्येतेत्याशङ्क्य चक्षुरादेरसन्निकृष्टे मृगतोयादौ स्वकार्यप्रमाणज्ञानजननाशक्तेस्तद्विषयत्वाभावे ऽपि दोषसहितचक्षुरादिजन्यस्य मृगतृष्णादिज्ञानस्यासन्निकृष्टविषयत्वोपपत्तिवत्सामान्यादिशास्त्रस्य तात्पर्यशून्ये कौण्डिन्यादौ स्वकार्यप्रमाणज्ञानजननाशक्तेः कौण्डिन्यादिविषयत्वाभावे ऽपि ब्राह्मणादिमात्रतात्पर्यभ्रान्त्याख्यदोषसहितसामान्यादिशास्त्रजन्यस्य ज्ञानस्य ब्राह्मणादिमात्रविषयत्वोपपत्तिसूचनार्था दृष्टान्ताक्तिः। ज्ञानस्य विषयसत्वापहारलक्षणबाधाभावे मिथ्येति प्रत्ययान्तरं भवतीति भाष्यं न घटेतेत्याशङ्क्य विषयसत्वपरिच्छेदफलबुद्धित्वलक्षणविज्ञानत्वाभावनिश्चयेन विषयसत्वपरिच्छेदाख्यात्फलाद्वियोगलक्षणो बुद्धेर्बाधो मिथ्याशब्देन विवक्षित इति सूचयद्भाष्यार्थमुपसंहरति तस्मादिति भ्रमेरनवस्थानार्थत्वात्सत्वव्यवस्थाहेतुपरिच्छेदकनिरासार्थो ऽयं भ्रान्तिशब्दः। यद्वैतदविज्ञानमिति कृत्वा सत्वेनापरिच्छिद्यमानत्वात्क्वौण्डिन्यादिरर्थो सन्नितिप्रत्ययान्तरं शास्त्रं वार्थसत्वापरिच्छेदकमिति प्रत्ययान्तरं भवतीत्यर्थासत्ववाचिनं शास्त्रस्यार्थसत्वपरिच्छेदकत्वाभाववाचिनं वा मिथ्याशब्दमिति करणावृत्तिं चाङ्गीकृत्येदं भाष्यं व्याख्येयमिति सूचनायार्थं शास्त्रं वेत्युक्तम् किमित्याशङ्काभाष्य सामान्यादिशास्त्रजनितस्य ज्ञानस्य विज्ञानत्वेनाभासमानस्यापि विज्ञानत्वाभावरूपमिथ्यात्वज्ञापनेन निरासे विशेषादिशास्त्रजनिते ऽपि ज्ञाने विज्ञानत्वानाश्वासापत्त्यर्थत्वेन व्याचष्टे किं त्विति पदादिजन्यस्य ज्ञानस्य विषयसदसदसत्वसाधारण्यात्स्वत एव विज्ञानत्वाभावो ऽवसीयते न तु प्रत्ययान्तरबलेनेति वैषम्यसूचनार्था प्रत्ययान्तरोक्तिः। यस्येत्युत्तरभाष्यं शास्त्रान्तरविरोधे यथाश्रुते तात्पर्यावधारणायोगात्तन्निरपेक्षस्य शास्त्रस्य विज्ञानजनकत्वाभावाद्विज्ञानत्वनिरासो न तु विरोधम्। विनेति व्यवस्थोक्त्यर्थत्वेन व्याचष्टे तदिति यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्यय इति भाष्ये कारणदोषज्ञानबाधकज्ञानयोर्विषयव्यभिचारित्वलक्षणविज्ञानमिथ्यात्वज्ञापकत्वेनोक्त्योर्मध्ये बाधकविज्ञानस्य विज्ञानत्वाभावलक्षणज्ञानमिथ्यात्वज्ञापकत्वोक्तौ कारणदोषज्ञानस्यापि बाधकज्ञानवद्विषयासत्वज्ञापनेनैव विषयसत्वपरिच्छेदकत्वलक्षणविज्ञानत्वाभावज्ञापक [८८२।२] त्वस्याप्युपपत्तेः कस्मान्नेह तत्ज्ञापकतोक्तेत्याशङ्क्याह यत्त्विति शाब्दविज्ञानमिथ्यात्वहेतुत्वेन प्रसिद्धस्यानाप्तप्रणीतत्वाख्यस्य विज्ञानकारणशब्दस्य दोषस्य वेदं ऽनुपपत्तेर्न तत् ज्ञानस्य मिथ्यात्वज्ञापकत्वं सम्भवतीत्याशयः। दोषाभावे निष्कारणं मिथ्यात्वं न सम्भवतीति चेत्। सत्यम्। नोत्पन्नस्य विज्ञानस्य विपयव्यभिचारित्वलक्षणं मिथ्यात्वं वेदे सम्भवति किं तु विशेषशास्त्राद्यवरुद्धे विषये सामान्यशास्त्रादेर्विज्ञानोत्पादकतैव नास्ति। यथोक्तमाग्नेयाधिकरणे परिहृत्य च विशेषविधिविषयं सामान्यशास्त्राणि प्रवर्त्तन्तइति। जञ्जभ्यमानाधिकरणे च न हि प्रवृत्तानि शास्त्राणि केन चिदपि निवर्त्यन्ते किं तर्ह्यादित एवेषां प्रवृत्तिप्रतिबन्धो ऽवधार्यत इति दशमेनेदानीं किमतिदिश्यतइति व्याख्यायत इति दशमाद्यवार्त्तिकालोचनयापत्तिदेशशास्त्रादेर्विरोधिशास्त्रविषये विज्ञानुत्पादकतावसीयते श्वेतो ऽवधावतीत्यादौ त्वनेकार्थप्रतिभाने ऽपि यत्रैवार्थे ऽर्थप्रकरणादिना तात्पर्यमवधारितं तत्रैव विज्ञानजनकत्वदर्शनाद्विज्ञानोत्पादने तात्पर्यावधारणस्य शब्दसहकारित्वावगतेः सामान्यशास्त्रादेश्च विशेषशास्त्राद्यविरोधार्थं तदनवरुद्धे ऽर्थे तात्पर्यावसायात्तात्पर्याख्येन शब्दव्यापारेण विशेषशास्त्राद्यवरुद्धविषयवर्जनोपपत्तेः कक्षान्तरितसामान्यविशेषेषु हि दुर्लभः सामान्यवचनः शब्दो जायते लक्षणाबलादितिवार्त्तिके दुर्लभोक्त्या सामान्यवाचिनः शब्दस्य विरोधिशास्त्रान्तरविषयवर्जनावगतेर्न तत्र विज्ञानजनकत्वोपपत्तिः चोदनार्थकार्त्स्न्योक्तिस्तु ज्ञानमात्राशयत्वेन व्याख्येया एतदेवाभिप्रेत्य पौर्वापर्यपरामृष्टः शब्दो ऽन्यां कुरुते मतिमित्युक्तमन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते। अन्यश्च परिपूर्णेनं समस्तार्थोपसंहृतादिति च वक्ष्यते इहापि यथा चैषां विप्रकर्षाद्विजातीयैः सह बलाबलमेवं सजातीयैरपि यत्र हेतुसाम्यं तत्र दर्शयितव्यमित्युपक्रम्य सामान्यविशेषादिश्रुतिबलाबलोदाहरणात्सामान्यादिशास्त्रस्याप्राप्तबाधोक्ति र्विज्ञानापेक्षया प्राप्तबाधोक्तिस्तु ज्ञानमात्रापेक्षयेत्यवसीयते।

ज्ञानमात्रस्य चोत्पत्तिर्न प्रामाण्यसञ्जिका।
स्मृतौ पदार्थबाधे च प्रामाण्यानुपलब्धितः॥

अतो विरोधविषये विज्ञानोत्पत्त्यभावतः।
दोषाभावे ऽपि सामान्यशास्त्रादेर्न प्रमाणता॥

न च प्रामाण्यजनकं ज्ञानमात्रस्य कारणम्।
किं तु ज्ञानविशेषस्य विज्ञानस्यैव कारणम्॥

सर्वं चैतत्तन्त्रसारे विस्तरेणोपपादिम्। प्रधानलक्षणे चास्माभिस्तस्मादुपरम्यते। बाधग्रन्थस्य श्रुत्यादिबाधव्यतिरिक्तबाधविषयत्वे ऽधिकरणोपसंहारभाष्यात्प्राक्पाठायोगशङ्कानिरासपूर्व तदेतेषामित्याद्युपसंहारभाष्यं कः शेष केन हेतुना शेष कथ च विनियुज्यते श्रुत्यादीनि च विनियोगकरणानि वक्ष्यन्ते तेषां च बलवन्नेति भाष्यात्पञ्चानामेव शेषप्रकाराणामथातः शेषलक्षणमिति सूत्रेणाध्यायार्थत्वेन प्रतिज्ञातत्वप्रतीतेस्तेषां च सर्वेषामुक्तत्वाद्यत्कारणमिति च कारणशब्देन विनियोगकारणत्वतद्विशेषरूपयोश्चतुर्थतृतीयप्रकारयोरुपसहारसम्भवादुपकारित्वादिरूपे च शेषे तद्धेतुकस्योपकारादेः प्रत्यक्षादिगम्यत्वेन श्रुत्यादिप्रमाणकत्वाभावात्प्रमाणवाचिना कारणशब्देनैवाद्ययोरप्युपसंहारसभवादहीनो वेत्याद्युत्तरसूत्रग्रन्थस्य चाध्यायान्तरत्वसम्भवादध्यायोपसंहारपरत्वेनाभासमानमधिकरणोपसंहारार्थत्वेन व्याख्यातुमाह प्रासङ्गिकमिति प्राक्पाठोपपत्तिसूचनार्था प्रासङ्गिकोक्तिः। अध्यायोपसंहारार्थत्वशङ्कानिरासार्थाधिकरणोक्तिः चतुर्थोपक्रमे तृतीये ऽध्याय इति भाष्येण प्रयुक्तिलक्षणस्य शेषेणानन्तर्योक्तेः मध्ये ऽव्यायान्तरानुषपत्तिसूचनार्थाधिकरणान्तराक्तिः॥

द्वादशोपसत्ताया अहीनाङ्गताधिकरणम्॥ ८॥

अहीनो वा प्रकरणाद्गौणः॥ १५॥ अध्यायसमाप्तिपर्यन्तस्योत्तरचिन्ताजातस्य लक्षणासङ्गतिं शङ्कते ननु चेति विरोधविषयस्यैव बलाबलचिन्ताविषयत्वात्को विरोधस्य विषयः को वा नेति विरोधविषयपरिशोधनार्थतया बलाबलचिन्ताविषयत्वेन सङ्गतिमाह तदिति कस्मिन्प्रदेशे कस्य प्रमाणस्य केन प्रमाणेन सह विरोधाविरोधचिन्तेत्यपेक्षिते पशुधर्माधिकरणात्प्राचीनेषु तावदधिकरणेषु प्रकरणस्य क्व चिच्छ्ररुत्या क्व चिल्लिङ्गेन क्व चिद्वाक्येन सहेति दर्शयितुमाह तत्रेति भाष्योदाहृताग्निष्टोमयुक्तवाक्यवच्छाखान्तरीयं सान्हयुक्तमपि वाक्यमिहोदाहरणमिति दर्शयितुमाह ज्योतिष्टोमइति सान्हशब्दस्याप्रसिद्धार्थत्वेन तद्योगिनी त्र्युपसत्तापि सन्दिग्धत्वाच्चिन्तनीयेत्याशङ्क्य वाक्यशेषात् सान्हशब्दार्थप्रसिद्धेस्र्युपसत्ताया निःसन्दिग्धत्वात् द्वादशोपसत्तामात्रचिन्तेत्युपपादनार्थमाह तत्रेति प्रक [८८३।३] रणस्य श्रुतिविरोधाविरोधत्सन्देहात्सन्देहमुपपादयति यदीति पूर्वपक्षप्रतिज्ञाया वाशब्दोक्तत्वं दर्शयितुमाह किमिति कथं वाशब्देन ज्योतिष्टोमार्थत्वप्रतिज्ञेत्याशङ्क्य भाष्योक्तसन्देहनिवृत्तिद्वारेव सिद्धान्तनिवृत्तिद्वारापि प्रतिज्ञार्थत्वोपपत्तिसूचनार्थं सिद्धान्तेनेत्युक्त परदौर्बल्योक्त्या सिद्धान्तोद्भूतेस्तेनोपक्रमो युक्त इत्याशयः। प्रकरणस्य श्रुतिविरोधशङ्कोत्तरत्वेनाहीनो गौण इति सूत्रावयवद्वयं व्याख्यातुं नन्विति भाष्ये नाहीनस्येति षष्ठीश्रुतिविरोधमाशङ्क्य तत्परिहारार्थं न बाधिष्यतइति भाष्यमुपपादयितुमाह न चेति न समासार्थत्वेन गौणोक्तिव्याख्यार्थ न हीयतइतिभाष्यं व्याचष्टे अस्ति चेति मध्योदात्तत्वेनाहः समूहवाचिरवप्रत्ययान्तत्वावसायान्नञ्समासत्वायोगमाशङ्क्य स्वरस्याशाब्दत्वेन श्रुतित्वाभावाद्विरोधे अनादरणीयत्व सूचयितुमाह अत इति यतो ऽहीनशब्दस्य ज्योतिष्टोमाभिधानसामर्थ्यास्तित्वाच्छ् रुतिविरोधः शक्यः परिहर्तुमित्यत शब्दार्थः। नञ्समासे गोणौक्तिः कथमित्याशङ्कानिरासाय अहानीत्युक्तम् स्वमतेनाहानि द्वेधा व्याचष्टे सहीति त्यागवाचिनो जहातेः कर्मकर्त्तरि निष्ठोत्पत्तौ प्रतियोगिना सोमयाङ्गान्तराणां समानजातीयत्वेन प्रतिपन्नानामपि कर्मत्वेन कर्त्तृत्वेन वान्वयायोगादपायरूपत्यागापेक्षितापादानत्वेनान्वयं कुतश्चिदिति पञ्चम्योत्का निष्ठार्थोक्त्यै हीयतइत्युक्तं कर्मणि निष्ठायामेनमिति द्वितीयया निष्ठार्थमुक्त्वा प्रतियोगितां कर्त्तृत्वेनान्वयोक्त्यै जहतीत्युक्तम् हीनोक्तेर्न्यूनवाचित्वे तन्निषेधोपपादनार्थ परिपूर्णत्वोक्त्यै कृत्स्नेत्युक्तम् दक्षिणयेतिभाष्योक्तामहानिव्याख्यां दक्षिणादीनां सोमयागान्तरवत्समानजातीयत्वस्यान्यस्य चाप्रतिपत्तिनिमित्तस्यानुपादानेन प्रतिपत्त्ययोगादिच्छामात्रं वानुसृप्तदक्षिणादिभिरहीनत्वविकल्पे क्रियमाणे ऽनवस्थितसमासार्थापत्तेः सहस्त्रदक्षिणादिभ्यश्च साद्यस्क्रादिभ्यः क्रतुभ्यो ज्योतिष्टोमस्य दक्षिणाभिर्न्यूनत्वाक्रतुकरणाख्यैश्च सवनीयपशुभिः संस्थान्तरे ऽत्यग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य न्यूनत्वाद् दूषयति यत्विति फलस्य तु साक्षात्परिमाणाश्रुतेस्तेन न्यूनत्वं कल्प्यत्वान्नोक्तम्। तेनेत्यहानिव्याख्योपसंहारभाष्यं स्वमतमेवानुसृत्य व्याचष्टे तस्मादिति स्वमतेनैवाहानिङ्कर्त्तरि निष्ठामुत्पाद्य तृतीये प्रकारेण व्याख्यातुम् न चेत्युक्तम् कर्मनिष्ठापक्षएवाख्यातेन निष्ठार्थमुक्त्वा प्रतियोगिनः कर्तृत्वेन तृतीययान्वयं वक्तुं केन चिद्वेत्युक्तम् स्वरानादराद्वा प्रत्ययान्तत्वानिश्चये ऽपि नञ्समासतापि कथं निश्चेयेत्याशङ्क्य प्रकरणसामर्थ्यान्निश्चये ऽभिहिते नञ्समासं ऽपि गौणवृत्त्यभावाद्गौणोक्तिरयुक्तेत्याशङ्क्यानेनेत्याद्युक्तम्॥ असंयोगात्तु मुख्यस्य तस्मादपकृष्येत॥ १६॥ ज्योतिष्टोमस्याहीनशब्देन सह वाच्यवाचकलक्षणसम्बन्धाभावादहीनसयुक्ता द्वादशोपसत्ता ज्योतिष्टोमादपकृष्येतेत्येवं सिद्धान्तसूत्रं श्लोकद्वयेन व्याचष्टे मुख्यइति गुणयोगेनाप्यहीनशब्दसम्बन्धो नास्तीति कथं च नेत्यनेनोक्तं भाष्यात् द्वादशोपसत्वासंयोगप्रतीतेरहीनशब्दासंयोगव्याख्या न युक्तेत्याशङ्क्य पूर्वपक्षसूत्रनिर्द्दिष्टाहीनशब्दासंयोगव्याख्यायां तत्सङ्गतत्वेन बुद्धिस्थद्वादशोपसत्वस्यापकृष्येतेत्यनेनान्वयसौकर्यायान्यथाव्याख्येति परिहारसूचनार्थ तेन सङ्गतेत्युक्तम प्रश्नपूर्वं द्वादशोपसत्ताया ज्योतिष्टोमासंयोगोपपादनार्थं कथमिथ्यादिभाष्यं षष्ठीश्रुतेः। सम्बन्धमात्रवाचित्वे ऽपि निर्विशेषसामान्यायोगात्सम्बन्धविशेषापरत्वापेक्षायां विधीयमानसङ्ख्यापेक्षिताङ्गाङ्गिसम्बन्धविशेषपरत्वावगत्या विनियोजकत्वस्य निवीत मनुष्याणामिति पुरुषप्रधानो निर्देश इत्यादिनिविताधिकरणभाष्यवक्ष्यमाणन्यायेनावगमान्नञ्समासाच्च ज्योतिष्टोमेनाप्येकवाक्यत्वोपपत्तरयुक्तमाशङ्क्य वाक्यमरुणया क्रीणातीति भाष्यवदिदमपि विशेषान्वये वाक्यस्यापि व्यापारोक्तेन तु श्रुत्यभावाशयमहीनोक्तिश्चाहरगणवाचिन्यभिप्रेतेति सूचयितुमाह द्वादशत्वमिति नन्वितिभाष्यं पूर्वपक्षोक्तश्रुतिविरोधपरिहारानुभाषणार्थत्वेन व्याचष्टे यत्त्विति नेतीत्यनुभाषणपरिहारभाष्यमौपचारिकत्वाख्यस्य मुख्यत्वप्रतियोगिनो गौणत्वस्य पूर्वपक्षिणानुक्तत्वादयुक्तमाशङ्क्य गौणोक्त्यौपचारिकत्वं विवक्षितं नञ्समासात्मिकावयवव्युत्पत्तिर्वेति विकल्प्याद्यकल्पनिरासायैतद्भाष्यमित्येवं व्याचष्टे तदिति प्रकरणवाधापत्तेर्मुख्यसम्भवोक्तिरयुक्तेत्याशङ्क्य न प्रकरणानुरोधेनेत्युक्तम्। यो विदग्धः स नैऋत इत्यादौ नैऋतादिशब्दानां प्रकरणानुरोधेनापि श्रुत्यर्थत्यागो ऽदृष्ट इत्याशङ्क्याह न चेति विधावप्यष्टावुपभृतीत्यष्टशब्दस्य श्रुत्यर्थत्यागेन चतुष्ट्वद्वयलक्षणार्थता दृष्टेत्याशङ्क्याह नचास्येति चतुष्ट्वद्वयवाचिशब्दान्तराभावादष्टशब्देन तल्लक्षणाभ्युपगता ज्योतिष्टोमवाचिनस्त्विह सान्हशब्दस्य भावान्नाहीनशब्देन तल्लक्षणा युक्तेत्याशयः। आद्यकल्पनिरासमुपसंहरति तस्मादिति नन्वितिभाष्येण द्वितीयं कल्पमाशङ्क्य तन्निरासार्थं नेतीतिभाष्यं मध्योदात्तत्वोक्त्या समूहवा चिखप्रत्ययान्तत्वेनावयवव्युपत्यार्हगणवाचित्वोक्त्यर्थत्वेनाभासमान महर्गणात्मकेष्वपि सत्रेष्वहीनशब्दप्रयोगाभावेन केवलयौगिकत्वा योगादयुक्तमाशङ्क्य योगरूढ्याशयत्वेन व्याख्यातुमाह न चेति अहीनशब्दस्याखण्डस्याहर्विशिष्टगणवाचित्वे ऽनेकशक्तिकल्पनापत्ते समुदायप्रसिद्ध्ययोगादहीनशब्दावयवभूतस्याहः शब्दस्याह परिमिते सोमयागाभ्याससमूहे समुदायप्रसिद्ध्या नञ्समासनिरासादित्येव व्याख्येयं विशेषणभूतश्च नञ्समासो ऽनेन निषिद्व्यते न विशेष्यभूतावयवव्युत्पत्तिः। समुदायप्रसिद्ध्यैव नञ्समासनिरासेन नञ्समासचिन्हभूताद्युदात्तत्वाभावेन तन्निरासो ऽनर्थक इत्याशङ्क्योपचयार्थत्वेनार्थवत्वं चशब्देन सूचयंस्तथासतीति भाष्यं व्याचष्टे न च नञ्समासस्येति नञित्यन्वाख्यानाख्यलक्षणसद्भावाच्चिन्ह वाची लक्षणशब्दः चिन्हाभावमुपपादयति नञ्समासे हि सतीति नञ्समासस्य तत्पुरुषत्वाद् बहुव्रीहौ प्रकृत्या पूर्वपदमित्यतः प्रकृत्या पूर्वपदमित्यनुवर्त्तमाने तत्पुरुषे तुल्यार्थतृतीयासय।?।म्युपमानाव्ययद्वितीयाकृत्या इति स्मृत्या ऽव्ययाख्यस्य नञः पूर्वपदस्योदात्ताख्यप्रकृतिस्वरत्वान्वाख्यानादित्याशयः। मध्येतिभाष्यं स्वप्रत्ययां तत्वोपपादनार्थत्वेन व्याचष्टे मध्येति कथ मध्योदात्तत्वात्स्वप्रत्ययान्तत्वाध्यवसानामत्याशङ्क्याह तथा सति हीति आद्युदात्तश्चेतिप्रत्ययस्याद्युदात्तत्वनिधानादाकारे प्रकृतिस्वरः सिद्ध्यतीत्युक्ते आयनेयीनीयियः फढखच्छघां प्रत्ययादीनामिति प्रत्ययादिभूतस्य खकारस्येनादेशविधाने यीनादिशब्दस्याप्रत्ययत्वादादेशादावीकारे कथमुदात्तस्वरसिद्धिरित्याशङ्क्यायनादिष्वादेशेषु स्वरसिध्यर्थमुपदेशो विद्यते येषां फगादिप्रत्ययानां तद्वद्भावस्य वचनङ्कार्यमितिस्मृतेरादेशसम्बन्धिन्यपीकारे स्वर सिध्यतीत्युक्तम् तस्मादिति सिद्धान्तोपसंहारभाष्यं मध्यादात्तत्वोपपादितसिद्धान्तहेत्वहर्गणवाचित्वोपसंहारपूर्वकत्वेन व्याख्यातुमाह तस्मादिति सान्हाहीनशब्दयोः सह प्रयोगेणापर्यायत्वावगतेर्मुख्यस्य सान्हशब्दस्यार्थेन सहाहीनशब्दस्यार्थेन सहाहीनशब्दस्य वाच्यवाचकलक्षणसम्बन्धाभावादित्येवं सूत्रव्याख्यार्थमपि चेतिभाष्यं व्याचष्टे अपि चेति अर्थान्तरवाचित्वाभावे ऽहीनशब्दानर्थक्यापत्त्युक्त्यर्थत्वेन व्याख्याय शब्दद्वायानर्थक्यापत्त्युक्त्यर्थत्वेनैतदेव भाष्यं व्याचष्टे प्रकरणाद्वेति अहीनशब्दस्यार्थान्तरवाचित्वे ऽपि सा [८८५।२] न्हशब्दस्यानर्थकान्त दवस्थमेवेत्याशङ्क्याह अर्थान्तरत्वे त्विति तिस्रउप सद इत्युपसदनुवादेन त्रित्वविधिमात्रेण नैराकाङ्क्षादहीनशब्दा नुषङ्गानुपपत्तेरहीनशब्दस्य च सान्हशब्दवत्रित्वद्वादशत्वमध्यपाठाभावेनोभयान्वयानवगतेरनूद्यमानाहीनसन्निधेश्च प्रकरणविरोध्यहीनाङ्गत्वानापादकत्वात्कथ त्रित्वस्याहीनान्वयापत्तिरित्याशङ्क्य वस्तुतो ऽहीनान्वयानापत्तावप्यानन्तर्यात्तदन्वयापत्तिभ्रम निवर्तयितुं सान्हशब्द इति सूचनायानन्तर्यादित्युक्तम्। द्वादशोपसत्वं ज्योतिष्टोमे विधीयते ऽहीने वेत्येवं यथाभाष्यमधिकरणं व्याख्यातं स्वमतेनाहीने द्वादशत्वविध्ययोगमभिप्रेत्याक्षिपति न त्विति यथाहीनस्य द्वादशोपसत्तोचिता तथा ज्योतिष्टोमस्य श्रुत्युपसत्तेत्यौचित्यरूपेण त्रित्वस्तुत्यै द्वादशता ऽनूद्यते न त्वहीने विधीयतइत्याक्षेपार्थः। स्वाभिप्रेतत्वे ऽप्याक्षेपस्य स्तुत्यर्थतयैकवाक्यत्वसम्भवे वाक्यभेदापादिका विध्यर्थता न युक्तेति टुपृीकोक्त एवाक्षेपहेतुर्युक्तां ऽत्र त्वन्यप्रकरणे ऽन्यधर्मविधेरन्याय्यतान्यधर्मविधौ विच्छिन्नस्य प्रकरणस्यानुसन्धानक्लेशा ऽहीने च द्वादशत्वप्राप्तिरिति हेतुत्रय परमतेनोक्तमिति सूचनार्थः किलशब्दः स्वमतेन ज्योतिष्टोमे द्वादशत्वं विधीयते वाक्यान्तराद्वाहीने प्राप्तं त्रित्वस्तुत्यर्थमनुद्यतइत्येवमधिकरणं प्रश्नपूर्वं व्याचष्टे कथ तर्हीति श्लोकं व्याचष्टे एतदिति अहीनसम्बन्धद्वादशत्वोक्तेर्ज्योतिष्टोमसम्बन्धित्रित्वस्तुत्यर्थत्वे प्रकृतज्योतिष्टोमोपयोगसम्भवात्प्रकरणविरोधाविरोधचिन्तास्मिन्नधिकरणे न युज्येत इत्याशङ्कते नन्विति द्वादशत्वस्य३ विधेयत्वे प्रकरणस्य तद्विनियोजकत्वाद् बाधो विरोधत्वे नेत्येवं विरोधाविरोधचिन्तामुपपादयति नैष इति प्रकरणस्याविनियोजकत्वे ऽपि द्वादशत्वस्य प्रकृतज्योतिष्टोमसम्बन्धित्रित्वस्तुत्यर्थत्वेन प्रकरणपाठानर्थक्याभावात्प्रकरणबाधोक्तिरयुक्तेत्याशङ्क्याह अन्यत्त्विति प्रकरणपाठार्थवत्त्वे ऽपि विनियोगएव प्रकरणस्य प्रामाण्याद्विनियोगाभावे बाधो भवतीत्याशयः। द्वादशाहीनस्येत्यस्य स्तुत्यर्थत्वेन त्रित्वविध्येकवाक्यत्वसम्भवे वाक्यभेदानेकादृष्टकल्पनापादकविध्यर्थत्वायोगाद्वादशत्वस्याविधेयत्वेत्युक्तेन हेतुत्रयेण विधेयता निराकर्त्तुमशक्येति सूचयितुमाह यदा त्विति क्रत्वन्तरान्वयाख्यविशेषसम्बन्धविधिनैवापूर्वान्वयाख्यसामान्यसम्बन्धाक्षेपे गौरवापत्तेः किलान्यप्रकरणे ऽन्यधर्मविधेरन्याय्यत्वं वाच्यं सत्यां च गतौ गौरवं दोषो नासत्यं कृत्वन्तराङ्गविधिश्च कृत्वन्तरविधायित्वाभावेनातुल्यकक्षत्वात्पूर्वोत्तराङ्गसन्दशावगतं प्रकरणं विच्छेत्तुं न शक्नोतीति उत्तराधिकरणन्यायोक्त्या सूचितम्। शाखाभेदाच्चापौनरुक्त्योपपत्तेर्विधित्वसम्भवे स्तुतेः प्रयोजनत्वायोगाद्विधितैव युक्तेति सूचनार्थम् शाखान्तरेत्युक्तम् स्तुत्यर्थत्वे ऽप्येवं प्रकरणमनुगृहीतं भवति प्रकरणं बाधित्वेति पूर्वपक्षभाष्यसिद्धान्तभाष्ययोः पूर्वपक्षं हीत्यादिवार्त्तिकोक्तोपपत्तावपि विधित्वपक्षे एवभाष्यार्जवं यथाभाष्यतोक्त्योक्तम्। ज्योतिष्टोमगतत्र्युपसत्वस्तुत्यर्थत्वे तस्मादपकृष्येतेति सूत्रावयवस्याप्यनार्जवापत्तेर्यथासूत्रमिति [८८६।२] कस्मान्नोक्तमित्याशङ्क्याह सर्वथा तावदिति द्वादशत्वस्याहीनसन्बन्धित्वेनोक्तस्य पक्षद्वये ऽपि ज्योतिष्टोमानन्वयसाम्यादपकर्षोक्तिरविरुद्धेत्याशयः प्रकरणविच्छेदशङ्कानिवृत्तिसूचनाय एतावदि त्युक्तम्

॥ कुलायादौ प्रतिपदोरुत्कर्षाधिकरणम्॥ ९॥

द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य॥ १७॥ अतिदेशाधिकरणत्वेनानन्तरसङ्गतिं सूचयन्सन्देहभाष्यं व्याचष्टे पूर्ववदेवेति का तर्ह्यधिका शङ्केत्याशङ्क्याह एतावदिति ज्योतिष्टोमानन्वयिगुणद्वाराप्युत्कर्षसिद्धे पूर्वपक्षायोगमाशङ्क्य कथं चिदित्युक्तम् आशङ्कितः प्रकृतेन सम्बन्धो यस्येति समासार्थः प्राथम्यादस्य पूर्वपक्षत्वशङ्कां निवर्त्तयन् मुख्यस्य ज्योतिष्टोमस्य द्वित्वबडुत्वनिमित्तयुक्तमपि प्रति यद्विधानं तस्माज्योतिष्टोमादपकृष्येतेति पूर्वाधिकरणसिद्धान्तसूत्रार्थानुकर्षणार्थत्वेन चकारव्याख्यार्थं द्वित्वेति भाष्य व्याचष्टे तत्रेति सिद्धान्तेनाधिकरणोपक्रमो येनेति समासार्थः। असंयोगोपपादनार्थत्वेन तस्य ज्योतिष्टोमस्य यजमानद्वित्वबहुत्वाचोदनादित्येवमचोदनात्तस्येति सूत्रावयवव्याख्यार्थं नहीति भाष्यं व्याचष्टे न तावदिति अन्यतः सिद्धद्वित्वबहुत्वानुवादेन द्वित्वबहुत्वे निमित्तीकृत्य द्विबहुशब्दप्रवृत्त्यवगमेनानयोर्वाक्ययोः प्रतिपन्मात्रविधिपरत्वात्सङ्ख्या प्रतिपद्रूपानेकार्थविधौ च वाक्यभदापत्तेर्नेह वाक्यद्वयं ज्योतिष्टोमाङ्गत्वेन द्वित्वबहुत्वे विधीयेते इत्यर्थ। अविहितत्वाच्चेति वार्त्तिकस्य वक्ष्यमाणार्थानाक्षेपापेक्षया तावच्छब्दः सङ्ख्यानपेक्षस्य यजमानस्य यजमानानपेक्षाया वा सङ्ख्याया नित्यत्वेन सङ्ख्यायाश्चाव्यवस्थितत्वाधिक्येन निमित्तत्वायोगान्मृष्यामहे हविषा विशेषणमिति वद्यजमानविशिष्टाया निमित्तत्वे ऽपि न वाक्यभेदापत्तिः प्रतिपत्प्रकरणे च यजमानद्वित्वे निमित्ते युवं हिस्थः स्वर्पतो इति कुर्यादिति निमित्तोद्देशेन मन्त्रे विहिते ।?। ।?। ।?। ।?। सायं जुहोतीति कालोद्देशेन देवतायां विहितायां प्रकरणप्राप्तजुहोत्यनुवादवत्प्रकरणप्राप्तप्रतिपदनुवादसम्भवान्न प्रतिपत्तिनिमित्तयोर्द्वयोरुद्देशाद्वाक्यभेदापत्तिः। प्रतिपत्त्वेनैव च मन्त्रविधिमभिप्रेत्य प्रतिपद्विध्युक्तिः। अनेकस्तोत्रीयागणात्मके स्तोमे कस्याश्चित्स्तोत्रीयाया नियमेनादित्वप्राप्तेराद्यस्तोत्रीयत्वाख्यप्रतिपत्त्वप्राप्तेः स्तोमविधिनैव सिद्धत्वात्स्वरूपेण प्रतिपद्विध्यनुपपत्तिः। एकस्य यजमानस्य ज्योतिष्टोमानुष्ठानाशक्तावशक्तिकृताङ्गत्यागन्यायात् ज्योतिष्टोमे ऽपि विहितयजमानैकत्वत्यागेनार्थात्तद्वित्वबहुत्वप्राप्तिर्भविष्यतीति आशङ्क्य आख्यातादेकत्वविशिष्टस्यैव कर्तृत्वावगतेरेकत्वाभावेनाधिकाराभावादेव त्वस्याशक्तिकृताङ्गत्यागन्यायविषयत्वानुपपत्तेर्नार्थाद्द्वित्वप्राप्तिरिति परिहारमुत्तरसूत्रद्वयारूढमप्येकत्वस्याशक्तिकृताङ्गत्यागन्यायविषयत्वसदसद्भावसन्देह एवात्र सन्देहहेतुरिति सूचनार्थं तस्य द्वित्वस्य बहुत्वस्य वा ज्योतिष्टोमे ऽर्थाक्षेपाभावादित्ये वमचोदनात्तस्येति सूत्रावयवारूढं कर्तुमाह अविहितत्वाच्चेति यथेतिभाष्यं तात्पर्यतो व्याचष्टे कुलालादिषु त्विति सिद्धान्तमुपसंहरति तस्मादिति पक्षेणार्थकृतस्येति चेत्॥ १८॥ एकाशक्तिपक्षेणापन्नादर्थाद्वाभ्यां बहुभिर्वा कृतस्य ज्योतिष्टोमस्य द्वित्वबहुत्वसंयोगो भविष्यतीति प्रतिपद्विधानस्यार्थप्राप्तद्वित्वबहुत्वसयोगविषयत्वकल्पनोक्तेर्बीजं तावदाह प्रकरणाद्वेति द्विबहुश्रुतिविरोधात्प्रकरणबाधमाशङ्क्याह न चेति साक्षाद्यज्ञान्तरसम्बन्धाश्रवणे ऽपि द्वित्वबहुत्वसम्बन्धश्रवणाच्छ् रुतिविरोधो ऽपरिहार्य इत्याशङ्क्याह यजमानेति द्विबहुश्रुत्योरङ्गाङ्गिभावार्थत्वे प्रकरणगम्याङ्गाङ्गिभावबाधकत्वस्यानिमित्तार्थत्वे तु भिन्नविषयत्वेनाविरोधान्न बाधकतेत्याशयः। द्वित्वबहुत्वश्रुत्योर्द्विबहुयजमानकर्तृकक्रतुलक्षणया तदङ्गत्वावेदकत्वात् विरोधो भविष्यतीत्याशङ्क्याह न चेति लक्षणापि लौकिकीत्वाद्युक्तैवेत्याशङ्क्याह न हीति श्रौतद्वित्वबहुत्वाङ्गत्वावेदकत्वादेव तर्हि विरोधो भविष्यतीत्याशङ्क्याह द्वित्वादीति श्रौतस्य द्वित्वादिसम्बन्धस्य निमित्तमात्रौपयिकत्वे ऽपि सङ्क्रान्त्यादौ निमित्ते फलार्थस्नानादिविधिवत् द्वित्वादौ निमित्ते प्रतिपद्विधेः फलार्थत्वसम्भवात्स्वातन्त्र्योपपत्तेर्न ज्योतिष्टोमे निवेशो युक्त इत्याशङ्क्याह फलेति फलकल्पनायामश्रुतफलतत्साधनेतिकर्त्तव्यताकल्पनागौरवापत्तेः प्रकृतक्रत्वन्वयकल्पनैव ततो ज्यायसीति वाच्ये प्रकरणप्रमाणकत्वेन कल्पनालाघवादिति हेतुसूचनार्थं कर्मव्युत्त्पत्त्या प्रकृतवाची प्रकरणशब्दः प्रयुक्तः। एतदन्तेन च प्रकरणादित्यादिवार्त्तिकेनेति चेदिति सूत्रावयव तस्मादपकृष्येतेत्यनुकृष्टसूत्रावयवार्थानुभाषणार्थत्वेन व्याख्याय पूर्वाधिकरणपूर्वपक्षसूत्रस्थेन प्रकरणादिति हेतुना मण्डूकप्लुतिन्यायादन्नागतेन परिहारोक्त्यर्थं बाध्येतेत्यन्त भाष्यं व्याख्यातम्। असंयोगादित्यनुकृष्टसूत्रावयवार्थानुभाषणार्थत्वेनावृत्त्येति चदिति सूत्रावयवव्याख्यार्थं बाध्यतामिति भाष्यं व्याचष्टे यत्त्विति तत्परिहारार्थत्वेनार्थकृतस्येति सूत्रावयवव्याख्यार्थमसत्यपीतिभाष्यं व्याचष्टे तदिति अचोदनात्तस्येति सूत्रावयवोक्तामुपपत्तिं [८८७।२] निराकर्त्तुमाह न हीति हित्वबहुत्वयोरर्थप्राप्त्युपपादनार्थत्वेन पक्षेणेति सूत्रावयवव्याख्यार्थं य एक इति भाष्यं व्याचष्टे अस्ति चेति एकस्याशक्तावपि यदेतेत्येकत्वश्रुतिविरोधान्नानेकयजमानप्राप्तिः सम्भवतीत्याशङ्क्य परमतेन तावत्परिहारं विवक्षित हीत्युत्तरसूत्रस्थभाष्यसूचितमाह न चेति वक्ष्यमाणानालोचनेन प्रत्यवस्थाने सर्वविचाराणामनवस्थानापत्तेरेतत्परिहारापरितोषादशक्तिकृताङ्गत्यागन्यायेनैकत्वत्यागादनेकयजमानप्राप्तिरिति स्वमतेन परिहारान्तरोक्त्यर्थमवश्येतिभाष्यं व्याचष्टे सत्यामपि चेति षष्ठे सर्वशक्तौ प्रवृत्ति स्यात्तय भूतोपदेशादिति सूत्रेण नित्ये ऽपि प्रयोगे सर्वाङ्गानुष्ठानशक्तौ सत्यां प्रवृत्तिर्युक्ता विधस्त्वेकश्रुतित्वादपर्यायविधानात्सन्निधानेन श्रुतिभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दार्थो निवीतवत्तस्मात्सर्वप्रयोगे स्यादित्येकादशाधिकरणन्यायेन सर्वाङ्गोपेतप्रयोगोपदेशादिति पूर्वपक्षयित्वा ऽपि वाप्येकदेशे स्यात्प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमित्तरत्तदर्थत्वादित्यनेनाङ्गैकदेशे ऽपि शक्तौ सत्यां नित्ये प्रयोगे प्रवृत्तिर्युक्ता शक्त्यपेक्षत्व ऽप्यधिकारस्य सर्वाङ्गानुष्ठानशक्तेरनित्यत्वेन नित्य सर्वाङ्गोपेतं कुर्यादिति विध्ययोगाद्यदा सर्वाङ्गोपेत कर्त्तुं शक्नुयात्तदा कुर्यादिति विध्यर्थाभ्युपगमे च यावज्जीवादिश्रुत्यवगतनित्यत्वविरोधापत्तेर्यावन्त्यङ्गानि कर्त्तुं शक्नुयात्तावद्भिरुपेतं नित्यं कुर्यादिति विध्यर्थावसायाद्यावच्छङ्क्यङ्गोपेते प्रधाने ऽनुष्ठिते विध्यर्थनिष्पत्तेरितरस्य चाशक्यस्याङ्गस्य प्रधानार्थत्वेन गुणमात्रत्वाद् गुणलोपे च मुख्यस्य क्रिया स्यादिति दशमाधिकरणन्यायेनाङ्गलोपे ऽपि प्रधानानुष्ठानस्य युक्तत्वादिति सिद्धान्तयिष्यमाणत्वाद्यजमानैकत्वमपि कदा चित्परित्यज्यातेके यजेरन्नित्युक्ते कर्त्तुरेवाधिकारादेकत्वविशिष्टस्यैव च कर्त्तृत्वादेकत्वत्यागे ऽधिकाराभावाद्यागानुष्ठानं न युक्तमित्याशङ्क्य बहुषु बहुवचनं द्व्येकयोर्द्विवचनैकवचने इति बहुद्व्येकशब्दानां सङ्ख्याप्रधानत्वाभ्युपगमात्कर्तुरेकत्वे द्वित्वे बहुत्व इति च व्याख्यानात्सख्याविशेषणत्वेन सङ्ख्यान्वयात्प्रागेव कर्तृत्वप्रतीतेरेकत्वत्यागे ऽपि कर्तृत्वसद्भावेनाधिकारसद्भावाद्यागानुष्ठानोपपत्तिसूचनार्थम् यथैवेत्युक्तम् सूत्रतात्पर्यमुपसंहरति ततश्चति प्रतिपद्विधानान्यथानुपपत्तिरूपदर्थात्कल्पितया ज्योतिष्टोमस्य द्विबहुयजमानकत्वश्रुत्या विहिताभ्यां द्वाभ्यां बहुभिर्वा कृतस्य ज्योतिष्टोमस्य द्वित्वबहुत्वसयोगो भविष्यतीत्येव स्वयमन्यथार्थकृतस्येति सूत्रावयवं व्याचष्टे अथ वेति ज्योतिष्टोमेन द्वौ बहवो वा यजेरन्निति श्रुतिकल्पने द्विबहुश्रुत्योर्द्वित्वबहुत्वविधिं विनानर्थक्यापत्तेरनन्यगतित्वेन निरवकाशत्वाद्यजेतेत्येकवचनाख्यातश्रुतेराख्यातानां मध्ये कस्मिश्चिदाख्याते प्रयोक्तव्ये प्राथम्यात्प्रयोगोपपत्तेर्गत्यन्तरसम्भवेन सावकाशत्वादेकत्वमत्यन्तं बाध्येतेत्याशङ्कानिरासार्थत्वेनैतत्प्रतिपद्विधिपक्षेणेति सूत्रावयवं व्याचष्टे सा चेति यदि च हेतुरवतिष्ठेतेति न्यायात् शूर्पत्वैकार्थसमवायिनो ऽन्नकरणावान्तरसामान्यस्य होमसाधनत्वहेतुत्वान्यथानुपपत्त्यान्वयविधिः कल्प्यमानो यथा शूर्पविषयएव कल्प्यते तथा द्वित्वादिनिमित्तप्रतिपद्विशेषविध्यन्यथानुपपत्त्या द्वित्वादिविधि कल्प्यमानः प्रतिपद्विशेषपक्ष एव कल्प्यत इत्याशयः। न त्वेतद्युक्तं प्रतिपद्विशेषनिमित्तद्वित्वादिविधिकल्पने ऽन्योन्यनिमित्तत्वापत्त्या ऽन्योन्याश्रयापत्तेः निमित्तानपेक्षद्वित्वादिविधिकल्पने तूपास्मै गायता नर इति प्रतिपदं कुर्यादिति नित्यायाः प्रतिपदो नैमित्तिक्या प्रतिपदाबाधेनार्थाद्वित्वबहुत्वयोस्तन्निमित्ताभ्यां प्रतिपद्भ्यामेकविषयत्वनियमे ऽपि तद्विधायिन्योः श्रुत्योः प्रतिपद्विशेषानपेक्षत्वात्सर्वत्र प्राप्तेरेकत्वचोदनाया विरोधपरिहारायोगेन बाधे सत्युपास्मै गायता नर इत्यस्या अपि प्रतिपदो ऽनन्यगतित्वाद्विबहुयजमानकयोरेव प्रयोगयोर्विकल्पेन निवेशापत्तेः। तस्मात्प्रौढिमात्रेणेयं व्याख्याकृता। न प्रकृतेरेकसंयोगात्॥ १९॥ प्रकृतिशब्दं स्वयं तावत्प्रक्रियतइतिकर्मव्युत्पत्त्या प्रकृतवाचित्वेनासंयोगात्तु मुख्यस्येति मुख्यशब्दवत् ज्योतिष्टोमोक्त्यार्थतया व्याचष्टे प्रकृतीति यथाभाष्यं व्याचष्टे औपदेशिकत्वाद्वेति आतिदेशिकं सदेकत्वं प्रयोगाख्यस्यार्थस्यैकेन कर्त्तुमशक्यत्वात्तद्वशेन कपालवद् बाध्येत द्विविधे ऽपि तु ज्योतिष्टोमप्रयोगे तस्यैकवचनश्रुत्या प्रत्यक्षविहितत्वान्नार्थवशेन बाधो युक्त इत्यर्थः। विवक्षितं हीति भाष्यमविवक्षाशङ्कानिरासार्थत्वेन व्याचष्टे न चेति षष्ठाद्यन्यायेन पुरुषस्य प्रधानतयोद्देश्यत्वेनैकत्वस्य पुंस्त्ववदुद्देश्यविशेषणत्वमविवक्षाकारणमस्तीत्याशङ्क्य प्राधान्यस्य भावनानिष्पादकत्वाख्यगुणत्वान्यथानुपपत्तिकल्प्यत्वेन गुणत्वएव शास्त्रव्यापारादाख्यातोक्तस्यैकत्वस्य भावनाक्षिप्तगुणभूतोपादीयमानकर्त्तुर्विशेषणत्वाद्विवक्षोपपादयिष्यतइत्याह यथा चेति यत्रापि हीति भाष्यमेकत्वस्याशक्तिकृताङ्गत्यागन्यायविषयत्वाभावोक्त्यर्थत्वेन व्याचष्टे यदपीति भावनासङ्ख्ययोरेकप्रत्ययवाच्यत्वाद्भावनाप्रतीतिकालएव सङ्ख्याप्रतीतेस्तदा च भावनाक्षेप्यस्य कर्त्तुरप्रतीतत्वेन विशेषणत्वायोगाद्धात्वर्थेन तु निष्पाद्यत्वाद्यथा कथं चिन्निष्पादकाक्षेपे ऽप्यक्रियात्वेन स्वतन्त्रनिष्पादककर्तृरूपाक्षेपायोगाद्यावदेवेह धात्वर्थः प्रतीतस्तावदेव कापि भावना कर्त्ता कश्चिद्भविष्यतीत्यवधार्यत इति कर्त्रधिकरणवार्त्तिके च धात्वर्थेन स्वतन्त्रनिष्पादककर्त्राक्षेपस्य वक्ष्यमाणस्य प्रौढिमात्रत्वात् बहुद्व्येकशब्दानां सङ्ख्यामात्रस्य वाच्यत्वान्वाख्यानमित्येवं परत्वात्प्रथमप्रतीतत्वेन सङ्ख्याया एव विशेषणत्वावगतेर्यजेतेत्येकवचनादेकत्वविशिष्टस्यैव कर्तृत्वप्रतीतेरेकत्वाभावे कर्त्तृत्वाभावेनाधिकाराभावान्नैकत्वस्याशक्तिकृताङ्गत्यागन्यायविषयता युक्तेत्याशयः। यदि च्यान्याङ्गत्यागे ऽप्येकस्या शक्तिः स्यात्ततो गुणलोपे च मुख्यस्य क्रिया स्यादिति न्यायात्प्रधानानुरोधेन गुणभूतैकत्वत्यागः शङ्क्येत न त्वेतदस्तीत्याहं शक्नोति हीति कर्त्तृविशेषणत्वाभ्युपगमे ऽप्येकत्वस्य त्यागो न युक्त इति प्रौढि दर्शयितुमाह उत्पत्तीति सोमेन यजेतेत्युत्पत्तिचोदनास्थत्वेनैकत्वस्य कर्मरूपत्वावधारणात्तत्त्यागे कर्मण एवाननुष्ठितत्वापत्तेरुत्पत्तिकाले च बहुदक्षिणत्वाद्येकाशक्तिहेत्वनवगमेनानुपसञ्जातविरोधावस्थायां श्रुतत्वाद्वसन्ते वसन्ते ज्योतिषा यजेतेति च प्रयोगचोदनास्थत्वेनानुष्ठानप्रत्ययप्रत्यासन्नतया वलवत्वादित्याशयः। तस्मादिति भाष्यं सूत्रार्थोपसंहारार्थत्वेन व्याचष्टे तस्मादिति स्वयं व्याख्याते पक्षेणेतिशङ्कासूत्रार्थे विकृतौ क्व चिद्वित्वबहुत्वाभ्यामपि संयोगासद्भावेनार्थाक्षेपायोगोक्त्यर्थत्वेन प्रकृतेरेवैकत्वसंयोगनियमादित्येवं व्याख्यातुमाह यत्विति प्रतिपद्विशेषनिमित्तो यजमानसङ्ख्याविशेषो यजमानसख्याविशेषनिमित्तश्च प्रतिपद्विशेष इत्यन्योन्याश्रयापत्तेः प्रतिपद्विशेषनिमित्तद्विबहुयजमानकत्वश्रुतिकल्पनायोगात्प्रतिपद्विशेषानपेक्षश्रुतिकल्पने चैकत्वचोदनाविरोधापरिहाराद्यजमानसङ्ख्याविशेषविशिष्टप्रतिपद्विशेषविकल्पनपूर्वं तदन्यथानुपपत्त्या विशेषणभूतसङ्ख्याविशेषविधि कल्पयित्वा सङ्ख्यान्तरपक्षे प्रतिपद्विशेषविध्यभावात् सङ्ख्याविशेषस्यार्थान्निमित्तत्वं वाच्यं कुलायादौ तु सङ्ख्याविशेषप्राप्तेर्गौरवलक्षणवाक्यभेदापत्तेश्च न विशिष्टविधिः सम्भवतीत्याशयः। अथेत्यादिभाष्येण वासनाविति द्विवचनवत् ज्योतिष्टोमे ऽपि पत्न्याशयं द्विवचनं बहुवचनं वा भविष्यतीत्याशङ्क्य वैषम्योक्त्यर्थमुच्यतइत्यादिभाष्यं व्याख्यास्यत्स्वयं तावद्धर्म्मप्रजासम्पन्ने दारेषु नान्यं कुर्वीतेति दारान्तरनिषेधेनैकपत्नीकत्वनियमात्पत्न्याशयस्य द्वित्वस्य नित्यत्वेन निमित्तत्वं न सम्भवतीति परिहारमाह पत्नीति व्याचष्टे बहुभ्य इति [८८८।२] बहुशब्दस्यैकशेषत्वाभावान्मध्यप्रतीकेन बहुत्वयुक्तं वाक्यं गृहीत्वा तुल्यन्यायत्वाच्च चकारेण द्वित्वयुक्तं वाक्यमन्वाचित्यास्मिन्वाक्यद्वये यो यजमानशब्दः स पुमान् स्त्रियेति लक्षणाद्विरूपैकशेषः कल्प्येत सच पुम्बहुत्वस्य पुन्द्वित्वस्य वा सत्राहीनेषु विहितस्य द्विब हुवचनाभ्यां स्वरसात्प्रतीतेर्निष्प्रमाणक इत्येवं योज्यं निमित्तोपादानानर्थक्यदोषोक्तिप्रसङ्गेनेह त्विति भाष्यावयवं व्याख्याया सम्भवादिति भाष्यावयवं व्याचष्टे क्षौमे इति ब्राह्मणो ऽग्नीनादधीतेत्युत्पत्तिशिष्टैकत्वविरोधिपुन्द्वित्वविध्ययोगात् क्षौमाख्यगुणविधानार्थत्वेन च वाक्यार्थवत्त्वोपपत्तेः पुन्द्वित्वाप्राप्तिमगतिहेतुं सूचयितुं गुणस्य तु विधानत्वात्पत्नयां द्वितीयशब्दः प्रयुक्तः क्षौमवाक्ये पुन्द्वित्वाविधाने ऽप्यन्यत्र क्व चिद्विधिर्भविष्यतीत्याशङ्कानिरासार्थम् न हीत्युक्तम् अपि चेतिभाष्यं व्याचष्टे एकेति विकल्पेनार्थवत्वमाशङ्क्य नित्यनैमित्तिकत्वेन विषमशिष्टत्वाद्विकल्पायोगो ऽभिहितः। तस्मादिति सिद्धान्तोपसंहारभाष्ये तस्मादुक्रष्टव्ये एवेति सिद्धान्तोपसंहारभाष्येण गतार्थमाशङ्क्यापिशब्देन युक्त्यन्तरोपसंहारार्थत्वं सूचयन् व्याचष्टे तस्मादपीति न चाहीनवदप्रकृतयज्ञसम्बोन्धो ऽस्तीत्यादिवार्त्तिकेन क्रत्वन्तरान्वयावेदकप्रमाणाभावाद्यजमानद्वित्वबहुत्वस्वरूपान्वये चानर्थक्यापत्तेरुत्कर्षायोगमुक्तमनुभाषणपूर्वं द्वेधा परिहरति यत्विति ज्योतिष्टोमस्य प्रतिपन्निमित्तभूतयजमानद्वित्वबहुत्वसंयोगाभावत्प्रतिपदोरुत्कर्षो ऽपि क्रत्वन्तराङ्गत्वे किं प्रमाणमित्याशङ्क्य द्विवचनान्तयजमानशब्दोपस्थापितस्य द्वियजमानकस्य यज्ञस्याहीनवच्छष्ठ्या बहुवचनान्तोपस्थापितस्य च बहुयजमानकस्य तादर्थ्यचतुर्थ्याप्राधान्याभिधानाच्छ् रुतिं प्रमाणं सूचयन्नधिकरणार्थमुपसहरति तस्मादिति

॥ जाघन्या अनुत्कर्षाधिकरणम्॥ १०॥

जाघनी चैकदेशत्वात्॥ २०॥ जाघनीपत्नीसंयाजान्वयविधिर्दर्शपूर्णमासयोः पशौ वेति चिन्तायाः प्रकरणस्य पूर्वैः सविरोधाविरोधचिन्तात्वाभावेनासङ्गतिमाशङ्क्य निमित्तत्वेनोद्देशभूतयोर्द्वित्वबहुत्वयोःः प्रकृतकर्मासंयोगात्तत्संयुक्तानां पत्नीसंयाजानामप्युत्कर्षं प्रसक्तमपवदितुं चिन्तैषेति विरोधाविरोधचिन्ताफलभूतोत्कर्षानुत्कर्षचिन्तात्वात्सङ्गतिमाह उत्कर्षेति जाघन्यास्तृतीययाङ्गत्वोक्तेः संस्कार्यत्वायोगेनोत्कर्षकत्वायोगादुत्कर्षशङ्कानुपपत्तेरधिकरणानारम्भमाशङ्क्य पश्ववयवत्वेन पशु विनोपादानाशक्तेरवयवत्वेनैव चोत्तरार्द्धादिवदवयव्यप्रयोजकत्वादङ्गत्वानुपपत्तेः प्रयाजशेषवत् तृतीयाभङ्गेन सस्कार्यत्वं न्यायाभासात्पुरुषबुद्धिप्रभवाच्छङ्क्यतइति परिहारसूचनार्था बुध्द्युक्तिः क्रियतइति वक्तुं प्रयुक्तस्य प्रत्ययस्यानुग्रहार्थं कस्मिंश्चिद्धातौ प्रयोज्ये नित्याया प्रतिपदः प्रकृतौ विहिताया कुलायादिष्वप्यतिदेशात्प्राप्तिं प्रसङ्गाद्वारयितुं प्रतिपदन्तरविधिर्युक्तः जाघन्यास्तु प्रकृतावप्रस्तुतत्वान्न युक्तः सस्कारविधिरित्याशङ्क्य पत्नीसंयाजानां प्रकृतावारादुपकारित्वेन विहितानां प्रसङ्गात्पशावतिदेशप्राप्तानां जाघनीसंस्कारार्थत्वविधेर्युक्तत्वसूचनार्थं प्रसङ्गवाची प्रस्तौतिः प्रयुक्त। प्रश्नपूर्वं सन्देहहेतूक्त्यर्थं कथमित्यादिभाष्यं व्याचष्टे जाघन्येति कीदृग्वचनव्यक्तिद्वयमित्यपेक्षित पत्नीसंयाजानां गुणत्वं जाघन्याः प्राधान्यमित्येका जाघन्या गुणत्वं पत्नीसंयाजानां प्राधान्यमिति द्वितीयेतिविवरणार्थं यदीत्याद्युक्तं सर्वपशुप्रकृतित्वादग्नीषोमीयगतेत्युक्तं संस्कार्यत्वोपपादनायोत्तराङ्गत्वात्पत्निसंयाजानां तत्काले पशुकार्यस्य प्रधानस्य कृतत्वात्तदवयवभूताया जाघन्याः कृतार्थतोक्ता नेह पत्नीसयाजानामुक्तर्षानुत्कर्षचिन्ता किन्त्वस्य वाक्यस्येत्येतद्विधानमिति भाष्यस्थविधानशब्देनोक्तमिति सूचनार्था विधानोक्तिः। किं तावदित्यादिभाष्योक्तं पूर्वपक्षं सङ्गह्णाति किमिति अचोदनादित्यस्य पूर्वाधिकरणाद्यसूत्रस्थस्य हेतोर्जाघन्याः पशुरहितयोर्द्दर्शपूर्णमासयोश्चोदयितुमशक्यत्वादित्येवमर्थाङ्गीकारेणोत्कर्षहेतुतयानुषक्तस्य व्याख्यार्थेन जाघन्यामिति भाष्येण प्रतिज्ञाते सन्निपत्योपकारित्वे कथमिति प्रश्नाक्षिप्तयोर्हेतूक्त्यर्थमारादुपकारित्वमपेक्ष्य सन्निपत्योपकारित्वस्य पशुपुरोडाशाधिकरणन्यायेनाभ्यर्हितत्वादित्युक्तम्। शब्दादितिभाष्ये शब्दोक्तेरेकपदोपादानलक्षणश्रुतिवाचित्वसूचनायान्यत्र चेत्युक्तम्। सौत्र हेतुमेकदेशश्चेति भाष्यव्याख्यातं स्पष्टयितुमेकदेशेत्युक्ते विद्यमानैकदेशिसंयोगस्यैकदेशद्रव्याप्रयोजकत्वहेतुतया वक्ष्यमाणस्येहैकदेश्यभावेनाभावादेकदेशो प्रयोक्ष्यतइत्याशङ्क्य परप्रयुक्तश्रुतैकदेश्येकदेशग्रहणे सम्भवत्यन्यप्रयोजकता न युक्तेति सूचनार्थम् तथा सति चेत्युक्तम् [८८९] अपकृष्येतेत्यहीनाधिकरणसिद्धान्तसूत्रावयवस्य द्वित्वबहुत्वयुक्तं चेति चकारानुकृष्टस्येहापि जाघनी चति चकारेणानुकृष्य पूर्वपक्षप्रतिज्ञार्थत्वेन व्याख्यार्थं भाष्यस्थमुत्कर्षपदं व्याख्यातुमुत्कर्षोक्तिः। नन्वित्याशङ्काया परिहारे सत्यमित्यादावुच्यते शब्दस्योत्तरग्रन्थशेषत्वभ्रमं निवर्त्तयितुमाह सेति एव सतीति भाष्यं पत्नीसंयाजानां सन्निपत्त्योपकारित्वोक्तिप्रयोजनोक्त्यर्थत्वेन व्याचष्टे परं चेति कर्मानुष्ठानं कथ्यते ऽनेनेति व्युत्पत्त्यानुष्ठानकथनार्थं परं भाष्यमित्यर्थ। कस्मान्नोत्तरग्रन्थशेषतोच्यते शब्दस्येष्यत इत्याशङ्क्याह यदि पुनरिति विहितत्वाभ्युपगमेन परिहारे दत्ते पत्नीसंयाजान्यजतीति वाक्यान्तरेण विहितत्वे सति दर्शपूर्णमासयोर्जाघन्यभावे ऽपि पत्नीसंयाजानुष्ठानापत्तेः पूर्वपक्षीष्टोत्कर्षासिद्धिप्रसङ्गादीनष्टापत्तिपरिचोदनाच्छायापतनयुक्तमेवेत्याशङ्क्योत्तरेत्युक्तम्। पशौ जाघतीप्रतिपादनार्थत्वे ऽपि दर्शपूर्णमासयोरारादुपकारित्वेनानुष्ठानविरोधाज्जाघनी त्वित्यादेर्नोत्तरत्वं सम्भवतित्याशयः। अतः परिहारवाचिवचनत्वेनैवैवं सतीत्यादिग्रन्थजातं जाघनीवाक्येन पत्नीसयाजसंस्कृता जाघनी कार्येति वचने सति वाक्यान्तराद्दर्शपूर्णमासयोः पत्नीसयाजानुष्ठाने ऽपि जाघनीवाक्यात्पत्नीसयाजेषु जाघनी प्रतिपाद्यते तस्मात्पशौ हृदयादिनिष्पत्तिप्रयोजनत्वेन विशस्यमानं पशुमनुनिष्पन्नाया जाघन्याः प्रतिपत्तिरित्येवं योज्यमित्युपसंहरति तस्मादिति जाघनीवाक्यस्य जाघनीसंस्कारार्थतया पत्नीसंयाजविधायित्वे सति क्रत्वन्वयनिरपेक्षाणां जाघनीस्वरूपान्वये नैष्फल्यापत्तेः प्रतिपच्छब्दाक्रतुगामित्वप्रतीतिवदनेनैव वाक्येन जाघनीशब्दात्पश्वाख्यक्रतुगामित्वप्रतीतेरभ्युपगमनीयत्वात्प्रकरणगम्यदर्शपूर्णमासगामित्वबाधापत्त्या तत्राकरणप्राप्तेदर्शपूर्णमासयोः पत्नीसंयाजा इति भाष्यं न युज्येतेत्याशङ्कते नन्विति जाघनीवाक्यं विना पश्वाख्यक्रतुगामित्वासिद्धौ वाक्येन प्रकरणबाधाद्दर्शपूर्णमासयोः पत्नीसंयाजाकरणं प्राप्नुयादतिदेशात्तु तद्गामित्वप्रतीतिसम्भवे वाक्यस्य तत्राव्यापारादतिदेशेन चोपदेशात्मकप्रकरणबाधायोगात्प्रत्युतातिदेशेनात्मलाभार्थं प्रकरणगम्यदर्शपूर्णमासाङ्गत्वापेक्षणात्तत्राकरणाप्राप्तेन भाष्यविरोध इत्याशयेन परिहरति प्राप्नुयादिति उत्कर्षोक्तिस्तर्हि विरुद्ध्येतेत्याशङ्कते तेन तर्हीति वाक्योत्कर्षो ऽत्र विवक्षितो न विधेयोत्कर्ष इति परिहरति सत्यमिति पाठोत्कर्षशङ्कानिरासार्थं विकृतावित्युक्तम्। जाघन्याः पश्वेकदेशत्वात्पशुं विनोपादानाशक्तेरङ्गत्वेन चोदयितुमशक्यत्वात्पशौ कृतार्थत्वात्प्रतिपाद्यत्वावगतेरुद्देश्यत्वाज्जाघनीवाक्यमपकृष्येतेत्येवं सूत्रं योज्यमित्याशयः। चोदना वा ऽपूर्वत्वात्॥ २१॥ जाघनी वेति भाष्यं पूर्वाधिकरणाद्यसूत्रस्थानुषक्ता चोदनादितिशब्दोक्तविधेयत्वनिरासार्थत्वेन वाशब्दव्याख्यार्थतयाभासमानं पूर्वपक्षसूत्रस्थचकारानुकृष्टापकृष्येतेतिशब्दोक्तोत्कर्षप्रतिज्ञानिरासाभावे पूर्वपक्षसिद्धान्तसूत्रयोरन्योन्यासङ्गत्यापत्तेः प्रथमान्तजाघनीशब्दपरेण तु चकारेण पचम्यन्तभावव्युत्पन्नाचोदनादिति शब्दानुकर्षणमङ्गीकृत्यऽविधेयत्वपूर्वपक्षप्रतिज्ञानुज्ञपत्तेरयुक्तमाशङ्क्य सौत्रेण वाशब्देनोत्कर्षप्रतिज्ञायां निरस्तायां तद्धेतुत्वेनाभिमतोद्देश्यत्वनिरासार्थत्वेन सौत्रचोदनाशब्दव्याख्यार्थतया व्याख्यातुमाह नवेति जाघनी संस्कार्या सत्युद्दिश्यमानत्वादुत्कर्षिका स्यात्सा तु तृतीयया पत्नीं सयाजाख्येषु यागेष्वङ्गत्वावगतेः सस्कार्यत्वाभावान्नोद्दिश्यते किं तूपादीयते ततश्चेह दर्शपूर्णमासयोरेवैतद्वाक्यं विधानाख्यं कार्यं कुर्वन्नोत्कृष्यतइति श्लोकार्थः। भाष्ये विधेयत्वोक्तेरुपादेयत्वसिद्ध्यर्थत्वसूचनायोपादीयतइत्युक्तम्। पत्नीसंयाजाङ्गत्वेनाज्यस्य विहितत्वाज्जाघनीविध्यानर्थक्यमाशङ्क्य विकल्पेनार्थवत्वसूचना याज्यावदित्युक्तम् विधेयत्वसिद्ध्यर्थत्वेनापूर्वत्वादिति हेतुव्याख्यार्थं कुत इत्यादिभाष्यं स्पष्टत्वादव्याख्याय पत्नीसंयाजा इति भाष्यं स्वरूपेण विहितानामपि जाघनीसंस्कारार्थत्वेन विधेयत्वोपपत्तेः सत्यं विहिता इत्यादिपूर्वपक्षभाष्ये ऽभिहितत्वादयुक्तमाशङ्क्य तत्सन्निधेर्गुणार्थेन पुनः श्रुतिरित्यनेनापि न्यायेन जाघन्या विधेयत्वोक्त्यर्थत्वेन व्याख्यातुमाह सर्वत्रैवेति जाघनीवाक्यस्यैवंविधशब्दोक्तप्रत्यभिज्ञायमानधात्वर्थवत्वोक्त्यर्थतां भाष्यस्य वक्तुं ततश्चानन्तरविहितत्वान्मनसि विपरिवृत्तेरशक्यः पत्नीसंयाजानाम् विधिरित्युक्तम्। ततश्चेति चकारार्थः। अनन्तरविहितस्यापि स्विष्टकृद्यागस्योत्तरार्द्धसंस्कारार्थत्वेन विधिवदेपामपि जाघनीसंस्कारार्थत्वेन विधिर्भविष्यत्तीति सत्यमित्यादिपूर्वपक्षभाष्योक्तपरिहारनिरासार्थं यद्यपि जाघनीसम्बन्धः पत्नीसंयाजानामविहितस्तथापि जाघन्याः प्राप्तयभावेनोद्देश्यत्वायोगात्सम्बन्धिद्वयोद्देशं च विना सम्बन्धिनो ऽपि विधेयत्वापत्त्या गौरवापत्तेः प्राकाशावध्वर्यवे ददातीत्यादिवत्सम्बन्धविधौ तात्पर्यायोगादक्रियात्वेन जाघन्याः स्वान्तन्त्र्येण विध्ययोगे ऽपि पत्नीसंयाजोद्देशेन तत्सम्बन्धं नान्तरीयकमङ्गीकृत्य तस्या एव विधेयता युक्तेति जाघनीसम्बन्ध इत्यादिना लक्षणत्वेन चात्र पत्नीसंयाजा इत्यन्तेन भाष्येणोक्ते कथं तेषामुद्देश्यतावगम्यतइतिकथमिति भाष्येण पृष्ट्वा पत्नीसंयाजानां जाघन्यन्वये विधेयत्वोपादेयत्वात्पत्न्यन्वये चानुवाद्यत्वप्राधान्योद्देश्यत्वाद्वैरूप्यादत्तेः विधेयत्वायोगादित्यभिधानार्थं पत्नीसम्बन्धादित्यादिभाष्यं दार्शपौर्णमासिकानां पत्नीसंयाजानां पशावतिदेशात्प्राप्तानां जाघन्यन्वयविधेः पूर्वपक्षीष्टत्वात्तेषां च पत्न्यन्वयस्य प्राप्तत्वेनाविधेयत्वाद्वैरूप्यानापत्तेरयुक्तमाशङ्क्य स्वरूपतो प्राप्तानामन्यान्वयविध्ययोगेन जाघन्यन्वयविधेः स्वरूपप्राप्तयनुवादापेक्षत्वात्पशौ च प्राप्तानां दर्शपूर्णमासप्रकरणस्थेन वाक्येनाप्रत्यभिज्ञायमानत्वेनानुवादायोगादपूर्वस्य यागस्य जाघनीसंस्कारार्थत्वेन विधिः पू्वपक्षिणां वाच्य इत्यापाद्य दूषणोक्त्यर्थतया व्याख्यास्यन्पूर्वपक्षीष्टं पक्षं दूषयितुमाह न चेति पाशुकपत्नीसंयाजानुवादसम्भवाभ्युपगमे ऽप्युद्देश्यत्वायोगाज्जाघन्या नोत्कर्षकत्वं सम्भवतीत्याह न च जाघन्या इति इहोपादीयतइति वार्त्तिकेन पाशुकत्वानपेक्षपत्नीसयाजान्वये जाघन्याः संस्कार्यत्वे निरस्ते ऽपि पाशुकपत्नीसंयाजान्वये संस्कार्यत्वादुद्देश्यत्वं भविष्यतीत्याशङ्कापूर्वं निरस्यती संस्कार्यत्वादिति पशौ जाघन्याः कृतार्थत्वमतिक्रमकारणमाशङ्क्य कृतार्थत्वावेदकशेषादिशब्दाभावाशयेन निरस्यति यदि चेति पूर्वपक्षनिरासमुपसंहरति तस्मादिति पाशुकत्वानपेक्षपत्नीसंयाजान्वयपक्षे तु पत्नीसंयाजानां प्रकरणगम्यदर्शपूर्णमासाङ्गत्वविरोधापत्तेर्जाघनीसंस्का [८९०।१] रार्थत्वायोगान्नोत्कर्षशङ्काप्यस्तीत्याह न चेति पत्नीसंयाजोक्त्या ऽस्मिन्पक्षे पदार्थोत्कर्षः सूचितः। वाक्याज्जाघन्यङ्गत्वावगतेः प्रकरणबाधं शङ्कते वाक्येति अनुत्पन्नानां पत्नीसंयाजानां जाघन्यां विनियोक्तुमशक्यत्वात्पत्नीसंयाजान्यजतीत्युत्पत्तिवाक्यापेक्षित्वेनार्थविप्रकर्षाद्वाक्यमपीदं न बलीय इति परिहरति नेति एतदेव विवृणोति यदि हीति एवमपि तुल्यबलत्वापत्तर्दौर्बल्यौक्तिरयुक्तेत्याशङ्क्य जाघनीफलालोचनाद्विप्रकर्षाधिक्यमाह न चेति अतः पशौ दर्शपूर्णमासयार्वा प्राप्तानां पत्नीसंयाजानां जाघनीसंस्कारार्थत्वविध्ययोगादपूर्वस्य यागस्य तादर्थ्यविधिः पूर्वपक्षिणा वाच्य इत्यापाद्य दूषणोक्त्यै पत्नीसम्बन्धादिति भाष्यमित्येव व्याचष्टे न चेहेति भाष्ये च पत्नीसम्बन्धादित्यनेन वैरूप्ये सूचिते सर्वयागेषु सपत्नीकस्यैवाधिकारात्पत्नीकर्तृकत्वप्राप्त पत्नीशब्दस्य तदनुवादत्वेनाविधायकत्वाद्वैरूप्यानापत्तिमाशङ्क्यानर्थक्यापत्तेर्बहुपत्नीकर्तृकत्वस्य च नित्यमप्राप्तेर्देवपत्नीदेवत्यत्वनिमित्तपत्नीसंयाजनामधेयावयवत्वप्रत्यभिज्ञानाच्च पत्नीशब्दस्य देवताभूतदेव पत्नीवाचित्वावगमन देवतारूपगुणविधायित्वावगमाद्वैरूप्यस्या ऽपरिहार्यत्वसूचनार्थं नात्र यजमानपत्नीभिर्यागो ऽन्वीयते येन सर्वयागानां पत्न्यन्वयप्राप्तेः पत्नीशब्दो ऽनुवादः स्यात्किं तु यस्य यागस्य देवपत्न्यो देवतात्वरूपेण साधनत्वेनोच्यन्ते तासां चापूर्वे यागे प्राप्तयभावेन विधेयत्वापत्तेरपरिहार्यं वैरूप्यमित्युक्तम्। एतद्भाष्यविवरणार्थत्वेनार्थत्यादिप्रश्नोत्तरभाष्यं व्याख्यातुमाह तत्रेति जाघन्याख्यद्रव्यपत्न्याख्यदेवताविशिष्टयागविध्युत्तरकालं यागकैमर्थ्याकाङ्क्षायां जाघनीप्रतिपादनार्थत्वावगमे ऽपि जाघन्युद्देशेनाविधानाद्वैरूप्यपरिहारशङ्काया निराससूचनार्थत्वेन जाघन्या त्विति भाष्यस्थ तुशब्दं व्याख्यातुमाह अल्पार्थेति पत्नीविशिष्टयागोद्देशेन जाघनी विधियज्ञे विशिष्टानुवादलक्षणवाक्यभेदशङ्कानिरासार्थत्वेनास्ति त्विति भाष्यं व्याख्यातुं शङ्कापातनिकायै सिद्धान्त्यभिमतवचनव्यक्त्युपसहारार्थे तस्मादिति भाष्यं पश्चात्पठितमपि तावद्व्याचष्टे तस्मादिति शङ्कानिरासार्थत्वेनास्ति त्विति भाष्यमिदानीं व्याचष्टे नन्विति पत्नीसंयाजावान्तरप्रकरणात्पत्नीविशिष्टत्वप्राप्तेः पत्नीशब्दानादरादित्यर्थः। अवान्तरप्रकरणाद्विशेषलाभं दृष्टान्तेनोपपादयति यथैवेति यत्वित्यादिभाष्यं स्पष्टत्वादव्याख्याय तस्मादिति सिद्धान्तोपसंहारभाष्यं व्याचष्टे तस्मादिति एकदेश इति चेत्॥ २२॥ पूर्वपक्षसूत्रोक्तोत्त्कर्षहेत्वनुभापणार्थत्वेन सूवव्याख्यार्थमथेति भाष्यं व्याचष्टे अथ यदिति एकदेशत्वस्याप्रयोजकत्वे हेतुताया न्यायमिद्धत्वसूचनार्थ चतुर्थाधिकरणसूत्र पदकर्माप्रयोजकमित्येतत्सूत्रर्स्थावपरिणताप्रयोजकपदानुषङ्गसहितं पठितम् न प्रकृतेरशास्त्रनिष्पत्तेरिति)12 सूत्रं परिहारार्थत्वन्नावतारयति तत्रेति नञं व्याख्यातुमाह स नामेति यद्यप्येकदेशो द्रव्यं यस्य [८९१।२] यागस्येति चतुर्थाधिकरणसूत्रस्थैकदेशद्रव्यशव्दार्थस्तथाप्यङ्कदेशद्रव्यो ऽपि जाघनीशब्दो जाघन्या नाप्रयोजको नानुपादायक इत्येवं नञं व्याख्यातुं गत्यर्थात् द्रवतेर्द्धातोर्द्रव्यशब्दव्युत्पत्तिमङ्गीकृत्यैकदेशो द्रव्यो गम्यः प्रतिपाद्यो यस्य शब्दस्येत्येकदेशद्रव्यशब्दार्थ कृत्वा एकदेशवाची शब्दो ऽर्थस्यानुपादायको यस्य सम्बन्धिशब्दत्वात्प्रतिसम्वन्धिनं च विना सम्वन्ध्युपादानाशक्तेरन्यतः सिद्धप्रतिसम्वन्धिसम्भव च तदाक्षेपाशक्तेरन्यतः सिद्धत्वेन प्रकृतस्य प्रतिसम्वन्धिनो ग्रहणं विनार्थो न ज्ञायते जाघनीशब्दस्य तु जातिवाचित्वेन सम्वन्धिशब्दत्वाभावात्तदर्थभूताया जाघन्या। पशुयानाङ्गत्वेन सिद्धस्य पयोर्ग्रहणं घिनाप्युपादातुं शक्यत्वान्नानुपादेयत्वेनोत्कर्षकतेत्युक्तम। न प्रकृताविनिभाष्ये प्रकृतौ दर्शपूर्णमासयोरित्यवयव दैक्षवैषम्योत्तयर्थसौत्रप्रकृतिशव्दव्याख्यार्थत्वादुत्कृष्यानेन विशसनादिप्रकारेण पशुनो निष्पशया जाघन्या पत्नीसंयाजाः कार्या इत्यनन्न रूपेण जाघनीशास्त्रेण नोच्यते किं त्वविशिप्टा विधीयतइत्येवं माप्यशेषं व्याख्यातुमाह रूपं वेति यथा कथञ्चिच्छव्देन विशमनाद्युत्पत्तिप्रकारनियमाभावं येन केन चिदित्यनेन च कयाद्युपादानप्रकारनियमाभावमुक्तमनोवासोन्यायेनोपपादयितु रूपं वेति सप्तमाधिकरणसिद्ध न्तसू पं पठितम्। यदि चेयं पृथग्भूता न प्रचरेत्ततः पशुं विना न शक्यतोपादातुं न त्वेदस्तीत्येवमर्थत्वेन सतिभाष्यं व्याख्यातुमाह नचेति पृथत्त्कवाच्यवयवशव्दः छागप्रकृतिकत्वनियमस्यापि चाभावाद्विशमनादिनियमो दूरापास्त इत्याह नवावश्यमिति दैक्षे ऽपि तर्ह्यनियमः स्यादित्याशङ्क्य वैपम्योक्त्यर्थसौत्रप्रकृतिशब्दव्याख्यार्थं प्रकृतौ दर्शपूर्णमासयोरिति भाष्यावयवमुत्कृष्टमिदानीं व्याख्यातुमाह अग्नीपोमीये ऽपीति पश्ववयवप्राप्तौ दर्शपूर्णमासयार्दैक्षप्रकृतित्वाभावात्प्रकृत्युत्तयानर्थक्यमाशङ्कय कर्मव्युत्पत्त्या प्रकृतवाचित्वेन दर्शपूर्णमासोपलक्षणार्थतयोपपादयति प्रकृतीति भाष्ये च सप्तम्यर्थे षष्ठोव्याख्यार्थम् प्रकृतावित्युक्तम् तस्मादित्यधिकरणार्थोपसंहारभाष्यं संस्कार्यत्वाभावनोत्कर्षकत्वा ऽयोगे ऽपि दार्शपौर्णमासिकेषु पत्नीसंयाजेष्वाज्यावरोवेन जाघन्यनवकाशादुत्कर्षापत्तरयुक्तमाशङ्क्योपपादयन्व्याचप्टे तस्मादिति

सन्तर्दनस्य संस्थानिवेशाधिकरणम्॥११॥

सन्तदर्न प्रकृतौ क्रयणवदनर्थलोपात्स्यात्॥२४॥ दीर्घसोम इति सप्तमी श्रुत्या प्राधान्यानुक्तेरधिकरणत्वस्य च सन्तर्दनं प्रति यागस्यायोगात्केन सहात्र प्रकारणस्य विरोधाविरोधचिन्तेत्यपेक्षायामाह इहेति ज्योतिष्टामोक्त्या प्रकरणविरोधाविरोधचिन्तात्वसूचनपूर्व हनू वा एते यइस्य यदभिषवणे इति चाभिपवणफलकयोः प्रक्रमोक्त्या सन्तर्दनीयत्वसूचनपूर्व ज्योतिष्टोम इत्युदाहरणभाष्यं व्याचष्टे ज्योतिष्टोम इति सम्पूर्वस्य तर्दतेरर्थ व्याचष्टे मित्वेति द्वयोः समीभूतयोः संश्लेषार्थं संश्लेषप्रदेशौ भेदनेन तनूकृत्यैकस्योपर्यपरं स्थापयित्वा संश्लंषयेत् इति यावत्। तत्रेति सन्देहभाष्यं कर्तृतो वेत्यादिपक्षान्तराणामपि पक्ष्यमाणत्वान्न्यूनमाशङ्क्याग्निष्टोमपक्षवत्कर्तृपक्षे ऽप्यविरोधाविशेषाद्भाष्यमतेन च सङ्ख्यापक्षे ऽप्यविशेषाद्विरोधस्य च सत्राहीनपक्षवदग्निष्टोमान्यमात्रपक्षे ऽप्यविशेपाज्ज्योतिष्टोम एवेत्यननाग्निष्टोमकर्तृसंस्थापक्षाणामाहोखिदित्यनेन च सत्राहीनाग्निष्टोमान्यमात्रपक्षयोः सङ्ग्रह इति सूचयितुमाह तत्रेति कियन्तो ऽत्र पक्षाः [८९२।१] सम्मवन्तीत्यपेक्षायामाह एने चेति अग्निष्टोमसङ्ख्यातोतयर्यः शुद्धशब्दः। सन्तर्दनं प्रकृतानर्थलोपादित्येतावत्सूत्रव्याख्यार्थमुच्यतइत्यादिभाष्यं व्याचष्टे किमिति दीर्घसामशब्दार्थस्य दीर्घकालत्वस्य सोमयागत्वस्य च प्रकृतावग्निष्टोमे ऽप्यलोपादित्येवं व्याख्यार्थ दीर्घेत्युत्त्काग्निष्टोमोदारणशङ्काभावेन दीर्घाख्यप्रयोजन लोपाद् धृत्यर्थत्वार्थवादायोगशङ्गानिरासर्थत्वेन व्याख्यार्थम् सन्तर्दनेत्युक्तम् क्रयणद्रव्याणां विकल्पदृष्टान्तत्वायोगसूचनार्थ स्वयं दृष्टान्तान्तरमुक्तम्। अग्निष्टोमनिवेशप्रतिज्ञार्थत्वेनावृत्त्या प्रकृतिशब्दव्याख्यार्थ तस्मादिति भाष्यं व्याख्यातुमनुत्कर्ष इत्युक्ते कर्मव्युत्पशेन प्रकृतिशब्देनाग्निष्टोमोक्तेः प्रकरणाख्यानुत्कर्षहेतुसूचनार्थत्वं सूचयितुम् प्रकरणन्त्युक्तम् दीर्घसोमत्वस्याग्निष्टोम प्युपपत्तेर्वाक्यविरोधाभावे ऽप्यप्तन्तर्दनविरोधादुत्कर्षमाहेनि भाष्येणाशङ्क्य तन्निरासार्थत्वेन क्रयणद्रव्यवद्विकल्पो भविष्यतीत्येवं क्रयणवच्छव्दव्याख्यार्थमुच्यतइत्यादिभाष्यं द्वादशे क्रयणेषु विकल्पः स्यादेकार्थत्वादिानसूत्रेण क्रयसाधनानां द्रव्याणां विकल्पं पूर्वपक्षयित्वा समुच्चयो वा प्रयोगे द्रव्यसमवायादित्यनेन समुच्चयो वा प्रयोगे द्रव्यसमवायादित्यनेन समुच्चयस्य सिद्धान्तयिय्यमाणत्वादयुक्तमाशङ्क्य तत्रत्यपूर्वपक्षाशयत्वन व्याख्येयमित्याह क्रयणवदिति पूर्वपक्षस्य स्थायित्वादत्र युक्ता दृष्टान्ततेत्याशङ्क्याननिविशेषकरत्वाक्रयप्रयोगे द्रव्याणां समुच्चयोपपत्तेरिति विकल्पापवादकस्य सिद्धान्तहेतोः सन्तर्दनासन्तर्दनयोरभावेन पूर्वपक्षन्यायस्याप्यनपोदितत्वाद्यक्ता दृष्टान्ततेत्याह न चेति यद्वा नायं विकल्पे दृष्टान्तः किं त्वनर्थलोप इति स्वयमन्यथा क्रयणवच्छव्दं व्याचष्टे असन्तर्दनोति कथमयं दृष्टान्तो नार्थलोपे योज्य इत्याशङ्क्याह तत्रन्ति अग्निष्टोमनिवंशपक्षमुपसंहरति तस्मादिति उत्कर्षो वा ग्रहणाद्विशेषस्य २५॥ सूत्रव्याख्यार्थमुत्कृष्येत वेति भाष्यं व्याचष्टे। वाक्येति अग्निष्टोमस्यापीष्टयाद्यपेक्षया दीर्घत्वाद्दीर्घसोमशब्दसंयोगोपपत्तेः कथमुत्कर्ष इति प्रश्नोत्तरत्वेन ज्योतिष्टोममिनि भाष्यं व्याख्यातुमाह कुत इति सोमयागरय दैर्घ्यमुक्तं न कर्ममात्रस्य तत्तु सोमयागान्तरापेक्षयैवेत्यर्थ। श्लोक व्याचष्टे नहीति सोमयागान्तरस्या [८९३।३] प्यनुपादानान्नापेक्षा युक्तन्त्याशङ्कते नन्विति बुद्धिस्थत्वायोपादानापेक्षणात्सोमयाङ्गान्तरस्य चानुपादाने ऽपि सजातीयत्वाद् बुद्धिस्थत्वोपपत्तेर्युक्ता ऽऽपेक्षेति परिहरति यद्यपीति सोमशब्देन चोपादानं सामान्यनो ऽस्तीति परिहारान्तरमाह विेशेषणन्ति एवं च सति ज्यातिष्टोमस्य दैर्घ्यायोगाद्दीर्घसोमशब्दन्नान्ये ऽनूद्यन्त इत्युपसंहरति तत्रेति भाष्ये सत्रशव्दस्यान्यमात्रोपलक्षणा र्थतान्योत्तया सूचिता। दैर्घ्यस्य विशेषणत्वे विरोधिव्यावृत्त्या विशेषणत्वप्रसिद्धेर्विरोधिह्रस्वत्वव्यावृत्त्या विशेषणत्वप्रसङ्गात्तत्‌द्विरात्रादिषु च सहस्रसंवत्सरात्प्राचीनेषु ह्रस्वत्वव्यावृत्तदैर्घ्याभावात्सहस्रसंवत्सरमात्रग्रहणापत्तेः सत्राणीति भाष्ये वहुवचनं न युज्येतेत्याशङ्क्याह तेषां चेति द्विरात्रादिखस्य दैर्घ्यस्य त्रिरात्राद्यपेक्षह्लस्वत्वाव्यावर्त्तकत्वे ऽपि दैर्घ्यबुद्धेर्ह्रस्वापेक्षत्वाव्रिरात्रादेश्च द्विरात्राद्यपेक्षया ह्रस्वत्वाभावेनानपेक्षणीयत्याज्ज्योतिष्टोमवच्च निरतिशयत्वाभावेनान्यानपेक्षह्रस्वत्वायोगाज्ज्योतिष्टोम एवान्यानपेक्षह्रस्वत्वेन प्रथमं ह्रस्वतया बुद्धिस्थत्वादन्येषामपेक्षायाः कारणमालम्बनं विषयो ऽपेक्षणीयस्ततश्च ज्योतिष्टोमापेक्षह्रत्त्वत्वव्यावृत्तस्य दैर्घ्यस्य द्विरात्रादिष्वपि भावाद् बहुवचनं युक्तमित्याशयः। अपेक्षणीयस्यापेक्षाकारयितृत्वाद्वा णिजन्तात्करोतेर्ल्युटि कृते व्युत्पन्नेन कारणशब्देनोक्ति। तच्छब्दसापेक्षत्वे ऽप्यपेक्षाशब्दस्य नित्यसापेक्षत्वात्समासाविघातः। सोमयागानां मध्ये ज्योतिष्टोमस्यैवान्यानपेक्षह्रस्वत्वेन प्रथमं प्रतियोगितया बुद्धिस्थस्यातिक्रमायोगादिति वा योज्यम् कर्तृतो वा विशेषस्य तन्निमित्तत्वात् नोत्कृष्येति भाष्यण वाशब्दं व्याख्यायानुत्कर्षे वाक्यविरोधपरिहारायोक्तस्य षष्ठीसमासत्वस्यानुपपत्तेर्यत्कर्तृकल्पनविक्षेपाद्दैर्घ्यस्य चानवस्थितत्वात्कर्मधारयापेक्षया च दौर्बल्यात् क्लिष्टस्यानुत्कर्षप्रमाणं विना कल्पनाशक्तेराद्यसूत्रस्थप्रकृतिशब्दसूचितप्रकरणाख्यप्रमाणाख्यप्रमाणोत्तयर्थमेघमिति भाष्यं दुर्बलप्रमाणानुरोधेन दीर्घसोमश्रुतेः क्लिष्टकल्पनायोगादयुक्तमाशङ्क्याबाधपक्षसम्भवे बाधपक्षस्यायुक्तत्वादुपपादयितुमाह यथा कथं चिदिति दीर्घसोमसंयोगाख्यस्य विशेषस्य कर्तृद्वारत्वे कादाचित्कत्वात्सन्तर्दनं प्रति निमित्तत्वोपपत्ते। सन्तर्दनस्य नैमित्तिकत्वान्नित्यासन्तर्दनबाधेन ज्योतिष्टोमे निवेशोपपत्तिसूचनार्थ तन्निमित्तत्वादिति सूत्रावयवं नैमित्तिकत्वाभावे ऽपि विकल्पेन निवेशोपपत्तेरुक्तत्वेनातिशयमात्रार्थत्वादनाहत्य कर्तृतो विशेष इत्येतावत्सूत्रावयवव्याख्यार्थ दीर्घेति भाष्यं व्याख्यातुमाह सचेति स्थपत्यधिकरणे कर्मधारयाद्दोर्बल्यस्य वक्ष्यमाणात्वाच्छब्दासमासानुपपत्तेः कर्तृद्वारता न युक्तेत्याशड्याह नचेति परविशेषणत्वस्य षष्ठयर्थलक्षणाया वा दौर्बल्यहेतोस्तत्र वक्ष्यमाणस्य प्रमाणबाधापत्तावनादरणीयत्वात्खरगतं पूर्वपरनिपातलक्षणं वा विशेषं विना षष्ठीसमासो ऽशक्यो निराकर्तुमित्याशयः। क्रतुतो वार्थवादानुपपत्तेः स्यात्॥२७॥ न चेति भाष्येण कर्तृपक्षनिरासार्थतया वा शब्दं व्याख्याय क्रतुत इति सूत्रावयवस्य पूर्वसूत्रस्थप्रथमान्तविपरिणतविशेषशब्दानुषङ्गेण क्रतुत एवायं विशेषो न कर्तृत इत्येवं व्याख्यार्थ क्रतुत इति भाष्यं व्याचष्टे क्रतुन एवेति कर्मधारयबलीयस्त्वोपपादनार्थत्वेनार्थवादोति सूत्रावयवं षष्ठीसमासे पूर्वपदेन स्वप्रधानभूनार्थाभिधानायोगादित्येवं व्याख्यातुं क्रतुद्वारदीर्घसोमसंयोगाख्यविशेषोक्तः कर्मधारयप्रतिज्ञार्थत्वं सूचयितुमाह समानाधिकरणोति स्वयं तावत्कर्मधारयबलीयस्त्वोपपादनार्थत्वेनार्थवादेत्यवयवं हेतुप्रश्नपूर्व व्याचष्टे किमिति स्वयमेव क्रतुदैर्घ्यस्य निमित्तत्वे बहुसोमाभिषवाद्दारणशङ्कां निवर्तयितुं दार्ढ्याकाङ्क्षायां सन्तर्दनस्य दीर्घसाधनत्वाद् दृष्टार्थस्य विधानस्य सम्भवतः कर्त्तृदैर्घ्यलिमित्तपक्षे दारणानाशङ्कनेन दार्ढ्यानाकाङ्क्षणादनुपपत्तेरित्येवं क्रतुदैर्ध्यनिमित्तत्वोपपादनार्थत्वेन दीर्घसोमत्वाख्यस्य विशेषस्य क्रतुद्वारत्वोपपादनार्थत्वेन वा व्याचष्टे एवं चेति विशेषस्य कर्तृद्वारत्वे वाक्यशेषायोगादित्येवं हेतुप्रश्नपूर्व व्याख्यार्थ कुत इत्यादिभाष्यं कर्मधारयबलीयस्त्वेनात्यन्तादृप्टार्थ नियमादृएार्थ नियमादृष्टार्थेन बाध्यतइति बाधग्रन्थोक्तेन च न्यायेन क्रतुद्वारत्वनिश्चयात्सन्देहाभावेन वाक्यशेषान्निर्णयो त्तयनुपपत्तेरयुक्तमाशङ्क्य न्यायोपोब्दलनार्थत्वेन व्याख्यातुमाह तथेति क्रतुद्धारत्वोपपादनस्य प्रकृतोपयोगमाह तस्मादिति मृदुदेशस्थापनेनापि दार्ढ्योपपत्तेर्दीर्घकाले ऽपि सोमयागे सन्तर्दननियमस्यादृष्टार्थत्वात्साम्यमाशङ्क्य अत्यन्तमेवेत्युक्तम् खसमवतस्यैव वानुरञ्जकत्वाद्विशेषणत्वप्रसिद्धङ्कर्त्तुश्च क्रतावसमवायाद्यदेतद्दीर्घेण कर्त्रा क्रतोर्विशषणं तत्सन्तर्दनशेषितया प्रमित्सिते सोमयागरूपे ऽनन्तः पातित्वेन सम्बन्धद्वारतया व्यवहितत्वाद्वाह्यं यत्तु स्वसमवेतेन दैर्घ्येण विशेषणं तत्प्रमित्सितक्रतुरूपान्तः पातित्वेन सन्निकृष्टत्वादन्तरङ्गं तस्मादेतदेव ज्याय इत्याह बाह्यं चेति तस्मादिति सूत्रार्थोपसहारभाष्यं व्याचष्टे तस्मादिति संस्थाश्च कर्तृवद्धारणार्थाविशेषात्॥ २८॥ कर्मधारयसम्भवे षष्ठीसमासायोगात्कर्तृद्वारदीर्घसोमत्वसम्भवान्नोत्कर्षो युक्त इत्येवं शङ्कोत्तरत्वेन सूत्रव्याख्यार्थमिदमिति भाष्यं व्याचष्टे परिचोदनापदेति किमिति भाष्येण किं प्रकाराणि पदानीति पृष्ट्वा शङ्कापदप्रकारोत्तयर्थमथेत्यादीत्यन्तं भाष्यं व्याचष्टे मा नामेति संस्थानां ज्योतिष्टोमेन सह प्रकरणतुल्यत्वस्य संस्थाधिकरणेन निराकरिष्यमाणत्वात्संस्थास्वपि निवेशे प्रकरणानुग्रहायोगमाशङ्क्याह प्रकरणेति वक्ष्यमाणानालोचनेन शङ्काया मन्दत्वादित्थं संस्थाधिकरणविरोधपरिहारानुपपत्तेरग्निष्टोमसंस्थाया निष्फलत्वेन प्रकरणायोगात्प्रकरणस्य ज्योतिष्टोमीयत्वावगतेर्ज्योतिष्टोमस्य च सङ्ख्याचतुष्टये ऽप्यनुवृत्तेर्ज्योतिष्टोमसमाप्तिविशेषरूपाणां फलवतां सङ्ख्यान्तराणां प्रकरणाविशेषस्य निराकर्तुमशक्यत्वात्प्रकरणाविशेषे ऽपि च नित्यानित्यसंयोगविरोधान्नित्याग्निष्टोमसङ्ख्यज्योतिष्टोमगृहीतत्वेन नित्यानां धर्माणामनित्याभिः संस्थाभिः प्रकरणोनाग्रहणोपपत्ते: संस्थाधिकरणवक्ष्यमाणाऽसामानविध्या विरोध इत्यन्यथा परिहरति अथ वेति अग्निष्टोमसस्थज्योतिष्टोमवाच्यग्निष्टोमशब्दः। तस्मात्संस्थाखेव सन्तर्दननिवेश इति शङ्कामुपसंहरति तस्मादिति अभिपूयमाणासोमधारणे सन्तर्दनप्रयोजने ऽर्थवादोक्ते कर्तृदैर्घ्यहव संस्थास्वप्यविशेषेणार्थवादायोगसाम्याद्यथादीर्घः कर्त्ता न सन्तर्दननिमित्तं तथा संस्था अपीत्येवं सूत्रव्याख्यार्थमुच्यतइत्यादिमाष्य व्याचष्टे इतीति श्लोकं व्याचष्टे सत्यपीति सन्तर्दनाभावं ऽपि धृतिसिद्धेरितिकरणपरामृष्टं सन्तर्दनं धृत्यै वृथा धृत्यर्थं न भवतीत्येव धृत्वा इति पदत्रयस्यावृत्त्या व्याख्या दृष्टार्थथ्वोत्तया सूचिता। उक्थ्यादिषु वार्थस्य विद्यमानत्वादिति सूत्रस्य सोमवृद्धि विना प्रदेयवृद्धययोगाद्धारणं संस्थासु विशेषो ऽम्तोत्याशङ्काशयविवरणार्थत्वेन नवेत्यादिभाष्यं व्याख्यातुमाह प्रदानेति स्तोकसोमग्रहणात्सोमवृर्द्धि विनापि प्रदानवृद्धिसम्भवशङ्कानिरासार्थ पूर्णे चेत्यादिभाष्यावयवं व्याख्यातुमन्यूनेत्युक्तम्। उपरि बिलाद् गृह्लातीति पूर्णग्रहणविधानान्न न्यूनग्रहण युक्तमित्याशयः। ।?।वात्स्तुतिर्व्यर्थेति चेदिति)13 सूत्रस्य तोयवृद्धया प्रदानवृद्धिसम्भवान्मुष्टिवृद्धया पर्ववृद्धया वा सोमवृद्धिर्दशमुष्टित्रिपर्वनियमविरुद्धा न युक्तन्ति परिहाराशयविवरणार्थत्वेनेति चेदित्यादिभाष्यं व्याख्यातुमाह नेति पदोत्तराशयविव [८९५।२] रणोपसंहारार्थ तस्मादुत्कर्ष इति भाष्यं ब्याचष्टे तस्मादिति स्यादनित्यत्वात्॥२९॥ परिचोदनापदानामेव सिद्धान्तत्वोत्तयर्थत्वेन सूत्रव्याख्यार्थ नैतदित्यादिभाष्यं व्याचष्टे स्यादिति प्रकरणानुग्रहादिति भाष्यावयवव्याख्यार्थम् तेनैवेत्युक्तम्। संस्थासु सन्तर्दननिवेशे ऽप्यर्थवाद उपपन्न। स्यादित्येवमावृत्त्या स्याच्छव्दव्याख्यार्थमर्थाच्चेति भाब्यं व्याचष्टे प्रदानेति तोयवृद्धया प्रदानवृद्धिसम्मवशङ्कानिराससूचनार्थत्वेन भाष्यस्थां प्रदेयोर्क्ति व्याख्यातुमाह तोयनेनि मुष्टिपर्वसङ्ख्याविरोधात्सोमवृद्धययोगं पूर्वपक्षोक्तं केनोति भाष्येणानुभाष्य पर्वदैर्ध्यात्मो मवृद्धिसं भवोक्त्यर्थत्वेनानित्यत्वादिति सूत्रावयवव्याख्यार्थ विप्रकृष्टेतिभाष्यं व्याचष्टे स चेति। तृतीयसवनेंशोरकस्याभिषूयमाणस्या कपर्वणः स्थूलपर्वणश्च ग्रहणादपि प्रदेयवृद्धयुपपत्ते दीर्घ र्श्वत्वकल्पनायोगशङ्कान्तस्यापिदशमुष्टेरेव सोमादुपादानात्स्थ्यौल्ये ऽपि प्रदे यवृद्धयसम्भवात्रित्वविरोधेन च बहुपर्वत्वस्यासभान्निराकर्तु स्थौल्येत्युक्तं। सप्तमीषष्ठयोस्तन्त्रेण द्विवचनं योज्यं। पर्वदैर्घ्य विधिं विना कथ गम्यतइत्याशक्य प्रदानवृद्धिमुष्टिपर्वसङ्ख्यासभवान्यथानुप पत्येति परिहारं सूचयितुमाह तथा सतीति। मत्राहीनेषु सन्तर्दननिेवेशे पर्व्वदैर्घ्यं विनापि प्रदानवृद्धिमुष्टिपर्वसङ्ख्यानभवोपपत्तेर्नान्यथानुपपत्तिरस्तीत्याशङ्क्य संस्थासु दीर्घसोमशब्दोपपत्तेर्वाक्याविरुद्धेन प्रकरणेन संस्थास्वेव निवेशावगमान्नान्ययोपपत्तिरस्तीति परिहारं सूचयितुमाह प्रकरणन्ति। प्रकरणस्योम्पपत्तिरविरोधः। संस्थासु च निवेशे सोमशव्दवाच्याया लतायाः स्वत एव दैर्घ्यौपपत्तेः कालद्वारदैर्घ्यकल्पनायाः मोमशब्दस्य यागपरत्वकल्पनायाश्चाभावादाञ्जस्येन दीर्घमोमशव्दोपपत्तिरित्याह शक्यं चेति। विप्रकृष्टपर्वत्वस्यानित्यत्वादिति मूत्रावयवोक्तत्वोपपादनायोक्ते ऽर्थे सूत्रावयवं योजयति अनित्यत्वादिति। दशमुष्टित्रिपर्वत्वनियमेनाग्निष्टोमसंस्थायां नियतस्य मोमपरिमाणस्योक्थयादिसंस्थास्वप्यतिदेंशप्राप्तस्य प्राकृतनियमावाधे वाधायोगात्कथमनियतत्वाख्य मनित्यत्वमित्याशङ्क्य दशमुष्टित्रिपर्वत्वनियमावाधेपि दीर्घपर्वग्रहणाख्येनोपायान्तरेणाग्निष्टोमसंस्थागतं परिमाणं बाधितुं शक्यमित्याह शक्यं हीति। दीर्घसोमशब्दस्य दीर्घकालसोमयागवावित्वेन सन्तर्दनविध्यपेक्षिताङ्गिसमर्पणोपयोगसं मवेऽनपोक्षितनिमित्तमात्रसमर्पणोपयोगापादकलतादैर्घ्यवाचित्वाभ्पुपगमायोगाद्दीर्घकालसोमयागमात्रवाचित्वावगतेः संस्थास्विव सत्राहीनेष्वपि मन्तर्दनविध्यवगमात्तपु च केषां चिदह्नामग्निष्टोमसंस्थत्वेन प्रदानवृद्धिरहिततया प्रदेयवृध्द्यै लतादै र्घ्यकल्पनायोगान्नेदं भाष्यकारीयमनित्यत्वोक्तिव्याख्यान युक्तमित्येवं विप्रकृष्टेति भाष्यं दूषयति नन्विति। सत्राहीनेष्वप्पुक्थ्यादिसंस्थेष्वहस्सु प्रदानवृद्धयर्थप्रदेयवृद्विसिद्धैय लतादैर्घ्यकल्पनसम्भवेन पूर्वपरिमाणातिक्रमसम्भवात्मामस्येन भवनमुपपत्तिःसं मवोत्तयोक्ता। यत्र प्रदेयवृद्धिरपेक्ष्यते तत्र लतादैर्घ्यकल्पनं भविष्यतीत्याशक्य दशमुष्टयवशिष्टलताद्रवीकरणविधाववशिष्टानां लतानामनियतपरिमाणत्वादतिरिक्तलताद्रवीकरणेन प्रदेयवृद्धयुपपत्तेर्न क्व चिल्लतादैर्घ्यकल्पना युक्तेति परिहार सूचयन्नवशिष्टलताभ्यूहपरिमाणस्यानित्यत्वादित्येवं सूत्रावयवं व्याचप्ट अत इति। यद्वा न प्रदेयवृद्धिप्रकारोपपादनायानित्यत्वोक्तिः किं तु स्यादिति सूत्रावयवन प्रकरणानुग्रहात्संस्थासु सन्तर्दन स्यादि त्युक्ते संस्थानां प्रकरणाभावस्य संस्थाधिकरण वक्ष्यमाणत्वात्संस्थास्वपि निवेशे प्रकरणविरोधापत्तेस्तदनुग्रहो न सम्भवतीति ब्रुवाणस्य न सस्थानां प्रकरणाभावो वक्ष्यते किं तु प्रकरणाविशषे ऽपि नित्यानित्यसंयोगविरोधादसमानतति सूचनार्थ धर्मातराणां नित्याग्निष्टोमगृहीतत्वेन नित्यन्वादनित्याभिः संस्थाभिरग्रहण सतर्दनस्य तु नित्याग्रिष्टोमागूहीतत्वेनानित्यत्वात्संस्थाभिर्ग्रहणमविरुद्धमित्युत्तरमनित्यत्वोत्तयोच्यतइत्येवं व्याख्येयमित्याह संस्थाधिकरणेति तृतीयसवे ऽभिषूयमाणैकांशुपरिमाणस्यानित्यत्वादित्येव व्याख्यान्तरार्थम् अपि चति अपिचेति भाष्यमेकस्याप्यंशोर्दशमुष्टेस्त्रिपर्वण एव सोमादुपादानात्प्रदेयवृद्धिकारणत्वानुपपत्तेर्दूषयति तृतीयेति विहितावशिष्टांश्वभ्यूहपरिमाणानियमेनैव प्रदेयवृद्धिसिद्धेर्विप्रकृष्टपर्वत्वकल्पननिरासंऽवशिष्टांश्वभ्युहपरिमाणानित्यत्वाशयत्येनानित्यत्वोक्तिव्याख्यया सूचितेपि प्रकरणविरोधशङ्कोत्तरत्वेनानित्यत्वोक्तिव्याख्यापन्नेन केन चिद्भाष्येणानित्यत्वोक्तिव्याख्यायते विप्रकृष्टेति भाष्यद्वयं तु विप्रकृष्टपर्वत्वात्तृतीयसवनेंशोरेकस्यामिपूयमाणस्यानेकस्थूलपर्वत्वाप्रदेयस्य सोमस्य वृद्धयाख्यो विशेषःस्यादित्येवं पदेयवृद्धि प्रकारोपपादनार्थत्वेनावृत्त्या स्याच्छब्दव्याख्यार्थमिति सूचनायैकस्मिन्नप्यशौ विप्रकृष्टपर्वत्वमात्रं प्रदेयवृद्धिकारणं वाच्यं न त्वनेकस्थूलपर्वतेत्याह अत इति मात्रशब्देनैव कारणान्तरनिराससिद्धावपि कारणान्तरनिरासमात्रे तात्पर्य न तु विप्रकृष्टपर्वत्वस्य कारणत्वोक्ताविति सूचनायैवकारः। तस्मादिति सिद्धान्तोपसंहारभाष्यं व्याचष्ट तस्मादपाति संस्थावत्सत्राहीन्नष्वपि निवेश इति स्वाभिमतसिद्धान्तसूचनायापिशब्दः। अनुत्कर्षप्रतिज्ञालोचनया प्रकरणानुग्रहोपपत्यालोचनया च संस्थामात्रनिंवेशसिद्धान्तावगतेः सवाहीनेष्वपि निवेशसूचनार्थो ऽपिशब्दो न युक्त इत्याशङ्क्य संस्थामात्रनिवंशसिद्धान्तायोगं प्रतिजानाति नत्विनि प्रश्नपूर्वमुपपादयति कुत इति एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्टाथा न्येन यजेतगर्त्तपत्यमेव तज्जायते प्रावमीयत इति ज्योतिष्टोमात्प्राग्यदन्ययजनं तद्गर्तपतनतुल्यं तस्माद्योन्येन प्राग्यजेत सजरां मृत्युं वा प्नोतीति निन्दाकल्प्पप्राग्यजनविषेधद्वारज्योतिष्टोमोत्तरकालत्वविधिवाक्ये य एतेनेत्यग्निष्टोमः प्रकरणादिति पञ्चमाधिकरणेनैतच्छब्दस्याग्निष्ठोमसंस्थमात्रज्योतिष्टोमवाचितामुक्ताथान्येनेति संस्थानां सन्निधानादिन्यनेनान्यशब्दस्य सर्वनामत्वेन सन्निहितवाचित्वाद्यागान्तराणां च संस्थामिर्व्यवधानात्संस्थामात्रवाचित्वं पूर्वपक्षयित्वा तत्प्रकृतेर्वापत्तिविहारौ न हि तुल्येषूपपद्येते इत्यनेनान्यशब्दस्यानन्तर्याख्यसन्निध्यपेकक्षायामुक्‌थ्यमात्रवाचित्वापत्तेस्तस्य च स्वशब्देनोक्तिसम्भवे सन्देहापादकान्यशब्दानर्थक्यप्रसगाद्ब‌ुद्धिस्थत्वाख्यसनिध्यपेक्षावगतेर्ज्योतिष्टोमप्रकृतिकत्वेन च सर्वेषां तद्विकाराणां बुद्धिस्थत्वाविशेषादग्निष्टोमान्यमात्रवाचितायाः सिद्धान्तयिष्यमाणत्वाद्यथान्यशब्दो ऽग्निष्टोमान्यमात्रे ऽवकल्पते तथादीर्घसोमशाब्दो पीत्यर्थः श्लोकं व्याचष्टे यथैवेति संस्थानां प्रकरणसद्भावा [८९६।३] क्ष्युपगमे ऽपि वाक्येन प्रकरणबाधात्सर्वधर्मतैव युक्तेति प्रौढिप्रदर्शनार्थ प्रकरणेनेत्युक्तं। वस्तुतस्तु प्रकृतिवच्छब्देन संस्थानां निराकाङ्क्षीकृतत्वात्प्रकरणं नास्तीत्यथवास्त्येव संस्थानां प्रकरणमिति पूर्वपक्षवार्त्तिकोक्तं प्रकरणाविशेपं निराकर्तुमाह प्रकृतिवच्छब्देति कथं तर्हि दैक्षाद्यानां विकृतीनां प्रकरणेन पृषदाज्यादिग्रहणमित्याशङ्क्य पृषदाज्येनानुयाजान्यजतीति प्राकृतानुयाजानुवादेन पृषदाज्यविधानात् प्राकृताङ्गग्रहणवेलायामेव पृषदाज्यग्रहणप्रतीतेस्तदानीं च नैराकाङ्क्ष्याभावात्प्रकरणन्न पृषदाज्यं यथा गृहीतं तथा यदि सस्थाभिर्गृहीतं किञ्चित्प्राकृतमङ्गमनूद्य सन्तर्दनं विधीयन्त ततस्ताभिः प्रकरणेन सन्तर्दनं गृह्येत न त्वेतदस्ति ज्योतिष्टोमधर्ममध्यपातित्वात्सतर्दनस्येत्याह नहीति संस्थानामपि ज्योतिष्टोमान्तः पातित्वेन सन्निधानाविशेषात्फलवत्वाविशेषाच्च ज्योतिष्टोमस्यैव दीक्षणीयादयो धर्मा न सस्थानामिति कथं गम्यतइत्याशङ्क्य नासौ साध्यस्य भवन्ती साधनेन संवध्यतइत्यादिमंस्थाधिकरणभाष्यवक्ष्यमाणन्यायसूचनार्थ प्रथमं ज्योतिष्टोमार्थतयोपदिश्यमानाताङ्क्ता। संस्थानां धर्माकाङ्क्षासद्भावाक्ष्युपगमे ऽपि सस्थावान्तरप्रकरणे सन्तर्दनापाठान्न सन्तर्दनविधिवेलायां संस्थानां प्रकरणमस्तीत्याह इतश्चेति श्लोक व्याचष्टे यदि हीति असम्बद्धपदव्यवायेनैव प्रकरणवत्सन्निधानाख्यस्य स्थानस्यापि निवृत्तेस्तदपि न संस्थासु सतर्दनविनियोजकमिति स्थानंवेत्यनेन प्रसङ्गादुक्ते कथं तर्हि संस्थासु सन्तर्दननिवेश इति किं तर्हीत्यनेन पृष्टे वाक्यमेवेत्युम्। दीर्घसोमशब्दस्य लतादैर्ध्यवाचित्वात्संस्थास्वेव च तार्तीयसवनिके सकृदभिषवे प्रदेयवृद्धयै लतादै र्घ्यापेक्षणाद्वाक्यमपि तास्व्ये व विनियोक्ष्यतीत्याशङ्कयाह तच्चेति दशमुष्टयवशिष्टलताक्ष्युहपरिमाणानियमादतिरिक्तलताक्ष्यूहनैव प्रदेयवृद्धिसिद्धेर्लतादै घ्यार्नपेक्षणादपेक्षिताङ्गिसर्मपणोपयोयित्वार्थ च दीर्घमो मशब्दस्य यागपरत्वावसायात्कर्मधारयण च यागवाचित्वसम्भवे दीर्धः सोमोऽन्मिन्नस्तीति बहुव्रीह्याश्रयणायोगाद्दीर्घकालसोमयागमात्रवाच्ययं शब्द इत्याशयः। सूत्राणि तु पदोत्तरसूत्रेण संस्थास्वेवेत्यवधारणा निरस्योक्‌थ्यादिषु वेति सूत्रेणापिशब्दार्थे वाशब्दमङ्गीकृत्योक्‌थ्यादिषु चेति चकारयुक्तमेव वा पाठं कृत्वोक्‌थ्यशब्देन वा संस्थास्तिस्त्रोऽप्यादिशब्देन च सत्राण्यहीनांश्चोत्त्का संस्थासु सत्राहीमषु च दीर्घसोमशब्दार्थस्य दीर्घकालसोमयागत्वस्य विद्यमानत्वात्सतर्दनं स्यादिति द्वितीयपूर्वपक्षोक्तें सत्राहीनमात्रविपयतयोत्कर्षनिरासेनाग्निष्टोमान्यमात्रविषयतयोत्कर्षे सिद्धान्तिते संस्थासु प्रदंयस्य सोमस्य दशमुष्टित्रिपर्वत्वनियमेन वृद्धयाख्यविशेषाभावान्निरात्नम्बनस्तुत्यापत्तरग्निष्टामान्यमात्रविषयसिद्धान्तायोगमविशेषादिति सूत्रेणाशङ्क्यावशिष्टांश्वक्ष्यूहपरिमाणस्यानियतत्वात्सस्याखपि प्रदेयस्य वृद्धयाख्यो विशेष स्यादित्यन्त्यसूत्रेण परिह्रियतइत्येव व्याख्येयानि सिद्धान्तसूत्रस्थमनुत्कर्षभाष्यं प्रकरणानुग्रहभाष्यं चोपेक्षणीयम्॥६॥

प्रवर्ग्यनिषेधस्य प्रथमप्रयोगविषयत्वाधिकरणम्॥१२॥

सङ्ख्यायुक्तं क्रतोः प्रकरणात्स्यात्॥३२॥ वाक्यप्रकरणविरोधाविरोधचिन्तात्मकत्वेनावान्तरप्रकरणसङ्गतिसूचनपूर्व विषयोत्तयर्थ ज्योतिष्टोमइतिभाष्यं बह्वीषु शाखासु प्रवर्ग्यस्यानारक्ष्याधीतत्वेन ज्योतिष्टोम प्रकरणपाठाभावादयुक्तमाशङ्कयानारक्ष्याधीतत्वे ऽप्यव्यभिचरितक्रत्वन्वयाभिरूपसद्भिर्वाक्य कृतेनान्वयेन क्रत्वन्वय प्राप्तस्य प्रकृतो वेतिन्यायेन ज्योतिष्टो मगमनास यतया

तावत्परमतेनोपपादयति प्रवर्ग्य इति। सर्वार्थत्वे द्विरुक्तत्वा पर्त्ति प्रकृते योजयितुं तत्र हीत्युक्तम्। एवं ज्योतिष्टोमगमने ऽपि ज्योतिष्टोमप्रकरणे प्रवर्ग्यपाठाभावाद्भाष्यानुपपत्तिमाशङ्क्य ज्योतिष्टोमे न्यायाद्भवन्तं प्रवर्ग्यमिति भाष्यार्थो न तु ज्योतिष्टोमे प्रकृत्येत्येवं भाष्यव्याख्यां सूचयितुं तेनेत्युक्त। येन कारणेन [८९७।२] प्रवर्ग्यो ज्योतिष्टोमं गच्छति तेन कारणेन ज्योतिष्टोम इत्याह न तु ज्योतिष्टोमे प्रकृतत्वेनेत्यर्थ। एव व्याख्यायां प्रवर्ग्यनिषेधस्य ज्योतिष्टोमाङ्गत्वपूर्वपक्षोपयोगसम्भवे ऽपि प्राकरणिकज्योतिष्टोभाङ्गत्वाभावात्प्रकरणविरोधाविरोधचिन्तात्मकत्वासिद्धेः सगत्यनुपयोगप्रसङ्गादेतह्याख्यानापरितोपेणर्ज्जुवृत्यैव स्वमतेनोपपादयनि *कौषीतकीति। मृदूत्तयर्थस्तदाशब्दः। अस्मिन्पक्षे ज्योतिष्टोमप्रकरणे प्रवर्ग्य प्रकृत्येति व्याख्यासूचनार्थ तमित्यनेन ज्योतिष्टोमप्रकरणएवोपसद्भ्यः प्रागुत्पन्नमित्युक्त। द्वितीयतृतीयशब्दयोर्यागवावित्वशङ्कानुपपत्तेः प्रयोगवाचित्वस्य निःसदिग्धत्वात्तत्साहचर्येण प्रथमशब्दस्यापि प्रयोगवाचित्वावसायात्सिद्धान्ताम्पयोगित्वेन द्वितीयेत्यादिवाक्यशेषो भाष्ये पठितो न तूदाहरणत्वेनेति सूचनार्थ निषेधमावं पठितम्। भाष्योक्तस्य सन्देहस्य हेतुभूतं सन्देहमाह तत्रेति। य एतेनेत्येतच्छब्दवत्प्रथमयज्ञशव्दस्यापि प्रकरणादग्निष्टोमसंस्थज्योतिष्ठोमवाचित्वावगतेरतिरात्रसस्थज्योतिष्टोमप्रथमप्रयोगपक्षे निषेधायोगादतिरात्रसंस्थस्य प्रथमाहारे प्रतिपेध इत्यादिवक्ष्यमाणवार्तिकानुपपत्तिशङ्कानिरासायैतच्छब्दवदस्य सर्वनामत्वाभावेन प्रकृतवाचित्वनियमाभावात्प्रकरणानुरोधेनवश्रुतिसङ्कोचायोगात्त्सर्वसंस्थज्योतिष्टोमवाचितोत्तयै भाष्यानारूढमपि मर्वमंस्थ इत्युक्तम्। किं तावदिति भाप्येण पूर्वपक्षं प्रतिज्ञाय कुतइति हेतुं पृष्ट्वा वाक्यविरोधे प्रकरणव्यापारात्सौत्रहेत्वपरितोपेण ज्योतिष्टोमाङ्गत्वप्रतिज्ञार्थस्य सौत्रस्य कतुशव्दस्यैवावृत्त्या प्रथमशब्दस्य वाचकतया ज्योतिष्टोमाख्यक्रतुसम्बन्धित्वादित्येवमर्थत्वमङ्गीकृत्य हेत्वर्थतयापि व्याख्यार्थ प्रथमशब्दस्य ज्योतिष्टोमाख्ययज्ञवाचित्वं प्रथमेति भाष्यावयवेन प्रतिज्ञाय तदुपपादनार्थत्वेनापि कतुशब्दव्याख्यार्थ यज्ञेत्युक्तं तत्प्रथमयज्ञशब्दे प्रथमश्चामौ यज्ञश्चेति प्रथमशब्दस्य सामानाधिकरण्यलक्षणाद्यज्ञसंयोगादेष घा वेति वाक्ये वा प्रयोगलक्षणाज्ज्योतिष्टोमाख्यायज्ञसंयोगादित्येवं द्वन्धा व्याचष्टे यज्ञशव्देति। आद्यव्याख्यायामुद्भिदादिवत्सामानाधिकरण्यं नामत्वहेतुः द्वितीयस्यां वैदिकः प्रयोगः कतुशब्दो ऽपि प्रथमशब्दम्य समानाधिकरणतया प्रयुज्यमानतया वा क्रतु सम्बन्धित्वादित्येव द्विधा योज्य। प्रथमशब्दस्य ज्योतिष्टोमे प्रवृत्तिनिमित्तोत्तयर्थ तस्य हीत्यादिभाष्यं व्याचष्टे य इति। अन्वाचयत्वेनसौत्रहेतुव्याख्यार्थमेवं चेतिभाष्यं व्याचष्टेतथा चेति। एवं चेत्यनेनैव ज्योतिष्टोमवाचित्वपरामर्शाद्यदीति भाष्यावयवानर्थक्यमाशङ्क्य शङ्कोत्तरत्वेन व्याख्यास्यञ्च्छङ्कां तावदाह ननु चेति। एतच्छङ्ङ्कोत्तरत्वेन यदीतिभाष्यावयवं व्याख्यातुमाह कथमिति। वाक्येनैकप्रयोगविषयत्वकरणे ऽपि ज्यौतिष्टोमिकत्वार्थ प्रकरणापेक्षणात्तदनुग्रहो भविष्यतीत्याशङ्कयाह नहीति। यागान्तरीयप्रथमप्रयोगविषयत्वेऽपिवाक्योपपत्तर्ज्यौतिष्टोमिकत्काश्रयणस्य वाक्यकृतता न युक्तेत्यांशक्याह यदि हीति। पारिशेय्यानुगृहीताद्वाक्यादेव ज्यौतिष्टोमिकप्रथमप्रयोगविषयत्वसिद्धेः प्रकरणस्य न किञ्चित्कार्यमस्तीत्यवधारणाद्बाधः स्यादेवेत्यर्थः॥ प्रथमशब्दोक्तसङ्ख्यायुक्तं प्रवर्ग्यनिषेधनं ज्योतिष्टोमाख्यस्य कतोरङ्ग स्यादित्येव सूत्रयोजनद्वारा पूर्वपक्षोपसंहारार्थ तस्मादिति भाष्यं प्रथमशब्दस्य सङ्ख्यावाचित्वाभावादयुक्तमाशङ्कय सङ्ख्यावाचित्वाभावे ऽप्यादित्ववाचित्वादादित्वस्य वैकत्वसङ्ख्यापेक्षत्वाद्वित्वादिसख्यानिबन्धनद्वितीयत्वाद्यनपेक्षित्वादेकत्वसङ्ख्यैकान्तिकत्वावगतेः सङ्ख्यावाचित्वोपचोरणेयं सख्यावाचित्वोक्तिरित्युपपादन सूचयन् व्याचष्टे तस्मादिति। प्रकरणादपीत्येवं सौत्रहेतुव्याख्यासूचनायापिशब्दः॥ नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात्॥३३॥ प्रथमशब्द स्यावर्तितक्रतुशब्दोक्तयज्ञवाचित्वव्यावृत्त्यर्थतया वाशब्दव्याख्यार्थं नवेतिभाष्यं प्रवर्ग्यनिषेधस्य प्रथमप्रयोगनिमित्तत्वसिद्धान्तप्रतिज्ञार्थनैमित्तिकशब्दपरत्वाद्वाशब्दस्य पूर्वपक्षप्रतिज्ञार्थकतुशब्दोक्तसर्वप्रयोगस्थकत्वङ्गत्वव्यावृत्यर्थत्वप्रतीतेरयुक्तमाशङ्कय हेतुव्यावृत्तिं विना पूर्वपक्षाव्यावृत्तेस्तद्यावृत्त्यर्थत्वेनाप्यावृत्त्या व्याख्या [८९८।२] युक्तेति सूचनपूर्व यज्ञस्य प्रयोग इत्यन्तं भाष्यं व्याचष्टे यदीति अतःप्रयोगस्यैपप्रथमशब्दो बाद इत्यध्याहारेण भाष्यव्याख्यासूचनाय एषइत्युक्तं। प्रथमशब्दस्य प्रयोगवाचित्वोपपादनार्थत्वेन कर्त्राद्यप्रवर्त्तनाख्यकर्त्तृ संयोगनिमित्तत्वात्प्रथमशब्दस्य प्रयोग एव च कर्तृसंयोगोपपत्तोरित्येवं कर्तृसंयोगादिति सूत्रावयवव्याख्यार्थ कर्त्रेत्यादिभाष्यं व्याचष्टे प्रथमेति। शब्दप्रवृत्तिनिमित्तत्वोक्त्यर्थत्वेन पञ्चमीव्याख्यानायाभिधेयत्वोक्तिः। अप्रयुज्यमानावस्थस्यकर्मणः कर्त्रनपेक्षत्वात्स्वरूपेण कर्तृसंयोगानुपपत्तावप्येत एवाहिताग्नय इष्टप्रथमयज्ञागृहपतिसप्तदशादाक्षित्वासमो ऽप्याग्नीस्तन्मुखाः सत्राण्यासतइत्यादौ प्रथमशब्दाज्ज्योतिष्टोमप्रतीतेस्तत्स्वरूपमेव प्रथमशब्दप्रवृत्तौ निमित्तं भविष्यतीत्याशङ्कानिरासार्थं प्रयोग इति भाष्ये व्याचष्टे तद्योगात्त्विति। कर्मस्वरूपनिमित्तसूत्रशब्दसन्निधिपठितस्य प्रथमशब्दस्य कर्मस्वरूपनिमित्तत्त्यप्रतीतेः कर्तृसंयोगशब्दोक्तकर्त्राद्यप्रवर्त्तननिमित्तता न युक्तेत्याशङ्कय प्रथमप्रयोगस्थस्यैव ज्योतिष्टोमस्य तस्मादपि प्रथमशब्दात्प्रतीतेः कर्मस्वरूपनिमित्तता न युक्तेति परिहारं सूचयितुमाह सापि चेति। एतदेव प्रयोगानुसारेण द्रढयति न हीति। द्वितीयादिज्योतिष्टोमप्रयोगे प्रथमशब्द प्रयोगाभावात्कर्मवाचित्वाभावो निश्चीयतइत्याशयः। अयजमानस्येति षष्ठया ज्योतिष्टोमव्यतिरेकजनितत्वमङ्गीकृत्य प्रथम यजमानो ऽतिरात्रेण यजेतेति पक्षाश्रयणात्प्रथममग्निष्टोमसंस्थं ज्योतिष्टोमयागभकुर्वाणस्य यः पश्चादग्निष्टोमसंस्थो ज्योतिष्टोमस्तस्य लोके प्रथमयज्ञो नाम न भवतीति योज्यम्। एवमपि प्रथमयज्ञशब्दस्य प्रथमप्रयोगवाचित्वे यागान्तरप्रथमप्रयोगस्यापि प्रवर्ग्यनिषेधनिमित्तत्वापत्तेः प्रथमप्रयोगस्थज्योतिष्टोमवाचितैवावसीयतइत्याशङ्कानिरासार्थ श्रुतिश्चेति भाष्य व्याख्यातुमाह ततश्चेति। विप्रकर्षो ऽप्येष वावेति वेदाश्रितत्वात्।

गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम्।

वेदो यमाश्रयत्यर्थ को नु तं प्रतिकृलयेत्॥ इत्येतेन न्यायेनाश्रयणीय इत्या शङ्क्याह तत्र चेति क्रतुवाचिज्योतिष्टोमशब्दैकवाक्यत्वसिद्धय तत्र लक्षणाऽऽश्रिता इह तु प्रयोगवाचित्वे ऽपि यज्ञशब्दसामानाधिकरण्यस्य लिङ्गस्यन्ति सूत्रावयवेनोपपादयिष्यमाणत्वात्तद्वशेन लक्षणाकल्पनानुपपत्तेः प्राथम्यनिमित्तत्त्वायोगो लक्षणाहेतुर्वाच्य इत्यापाद्य नत्विहेत्युक्तं लक्षणाश्रयणेऽपि पूर्वपक्षाष्टमिद्धय मावस्तत्प्रयोगस्थो ऽपि तावदित्यादिनोक्तः। श्रुतिश्चेति भाष्यनिरसनीया शङ्का येनाशयेनोत्तिष्ठति तं न्निरसितुमुपन्यस्यति नन्विति विधित्वे प्राप्त्यनपेक्षित्वाद्यस्य कस्य चित्ग्रथमप्रयोगो निमित्त स्यान्निषेधत्वेन तु प्राप्त्यपेक्षित्वाल्लौकिकव्यापाराद्यर्थेन च प्राप्त्य मावात्प्राप्तिंसामर्थ्येन मोमयागप्राप्तंस्तेष्वपि मध्ये ऽनारक्ष्यपादन्यायेनैष यावन्त्यत्र च ज्योतिष्टोम एव प्रथमशब्दप्रयोगाद्य एतेनेति वा प्राथम्यविधायकाच्छब्दान्निमित्ताभावेनान्यत्र निषेधाप्राप्तेर्ज्योतिष्टोमस्यैवाद्य प्रयोगमयं निषेधो गच्छतीत्येवं निरस्यति प्राप्नुयादिति प्राप्त्यभावान्निवर्त्तमान इति पाठे तु लौकिकव्यापागेक्ष्य इत्यादीनां पञ्चम्यन्नत्वेनान्वयः। ज्योतिष्टोमसमानाधिकरणो ज्योतिष्टोमप्राथम्यविधायी वाशब्दो ज्योतिष्ठोमप्रथमशब्दः। ज्योतिष्टोममिति पाठ त्वनारभ्यवादन्यायेन ज्योतिष्टोमं गच्छति प्रथमयज्ञ इति प्रथमशब्दाच्च तस्याद्य प्रयोगं गच्छतीत्यर्थ। ज्यौतष्टोमिकप्रथमग्रयोगगामित्वे च निषेधस्य द्वितीयादिप्रयोगस्थस्य ज्योतिष्टोमस्य व्यक्तयन्तरत्वेऽपिज्योतिष्टोमत्वजात्यैक्यात्प्रत्यासत्तेस्तस्यैव द्वितीयादीन्प्रयोगानपेक्ष्य प्रथमशब्दोपपत्तेराज्यस्य भवति यत्किञ्चित्प्रथमप्रयोगगामित्वे तु दर्शपूर्णमासादिद्वितीयप्रयोगानपेक्षणे ऽपि दूरस्थसोमयागान्तरद्वितीयादिप्रयोगापेक्षायां विप्रकर्प स्यादित्याह एवञ्चेति अनेन च तुल्यन्यायतया प्रथमशब्दस्य ज्योतिष्टोमवाचित्वे दूरस्थद्वितीयादियज्ञान्तरापेक्षायां विप्रकर्ष। स्यादिति सूचना द्वितीयादीनपङ्क्ष्येति भाष्योक्तविशेषणफलं दर्शितं भवति। प्रथमप्रयोगनिमित्तत्वसिद्धान्तप्रतिज्ञार्थनौमित्तिकपदव्याख्याद्वारा सिद्धान्तोपसंहारार्थ तस्मादितिभाष्यमथेति भाष्येणैष वावेति वाक्ये प्रथमशब्दस्य ज्योतिष्टोमाख्यक्रतुसामानाधिकारण्यन प्रयोगाक्रतुवाचितेत्येवमर्थत्वेन पूर्वपक्षसूत्रस्थक्रतुशब्दोक्तं हेतुमनुभाष्यलक्षणयत्यनेन ज्योतिष्टोमसामानाधिकरण्याक्ष्यस्य ज्योचिष्टीमवाचित्वलिङ्गस्य प्रथमशव्दवाच्येन प्रयोगेण ज्योतिष्टोमलक्षणानिमित्तकत्वान्न कतुवाचित्वसाधकतेत्येपमर्थमङ्गीकृत्य यत्वित्येनेनच प्रथमयज्ञशब्दे यज्ञशब्दमामानाधिकरण्याक्रतुवाचितेत्येवमर्थत्वेन कतुशब्दोक्त हेतुमनुभाष्य तदपीत्यनेन यज्ञशब्दसामानाधिकरण्याख्यस्य लिङ्गस्य भावव्युत्पत्त्या यज्ञशब्दस्य प्रयोगवाचित्वनिमित्तकत्वान्न क्रतुवाचित्वसाधकतेत्येपमर्थमङ्गीकृत्य लिङ्गस्येति सूत्रावयवेन परिहारे वक्ष्यमाण ऽपि प्रकरणादिति पूर्वपक्षहेत्वपरिहारादयुक्तमाशङ्क्य प्रकरणबाधाशयत्वेन व्याचष्टे तस्मादिति दीर्घसोमशब्दवत्प्रथमयज्ञशब्दस्याप्यपेक्षिताङ्गिसमर्पणोपयोगसम्भवे नपेक्षितानिमित्तमात्रोपयोगस्यान्याय्यत्वात्प्रथमप्रयोगाङ्गस्य च निषेधस्य यदाप्रथमः प्रयोगस्तदैव प्रवृत्युत्तैय नैमितिकत्वोक्तयुपपत्तेः सप्तम्या चाङ्गित्वानमिधानाद्वाक्येनैव प्रकरणगम्यं सर्वप्रयोगस्थज्योतिष्टोमाङ्गत्व बाधित्वा प्रथमप्रयोगमात्राङ्गत्वावगते र्वाक्येनेत्युक्तम् एवमप्युत्कर्षानभिधानाज्ज्थोतिष्टोमप्रथमप्रयोगे न प्रवर्जितव्यमिति सिद्धान्तोपसंहारार्थप्रतीतेस्तत्र चाग्निष्टोमे प्रवृणक्तीति विधिना निषेधस्य बाधात्क्रत्वन्तरप्रथमप्रयोगविपयत्वावगतेरुपसंहारभाष्यमाक्षिपति तत्र त्विति। विधेर्द्वितीयादिप्रयोगविपयत्वेना विरो [८१९।१] धमाशङ्कय यत्प्रवर्ग्य प्रवृञ्जन्तीत्यनेनैव द्वितीयादिप्रयोगे विधिसिद्धेः पुनः विद्धयानर्थक्यप्रसङ्गादाद्यप्रयोगविषयतोक्ता। प्राप्त्यपेक्षत्वे ऽपि निषेधस्य पूर्वविधिनैव प्राप्तिसिद्धे पुनर्विध्यनपेक्षत्वान्न तेन वाध सम्भवतीत्याशङ्क्य सावकाशतोक्ता। अग्निष्टोमसंस्थक्रत्वन्त रप्रथमप्रयोग ऽप्यतिदेशप्राप्तेनाग्निष्टोमवाक्येन निषेधवाधापत्तेः प्राथम्य स्य च क्रत्वन्तरेष्व भावान्न निषेधस्य क्रत्वतरप्रथमप्रयोगगमनं युक्तमित्येवमेतद्यवस्थानुपपत्तेरग्निष्टोमप्रथमप्रयोगे निषेधवाधेऽप्यतिरात्रसंस्थ ज्योतिष्टोमप्रथमप्रयोगविषयो निषेधो भविष्यतीत्यन्यथाव्यवस्थामक्ष्युपगम्य तद्विपयत्वेनोपसंहारभाष्यं परमतेन समाधातुमाह तत्तिवति। अग्निष्टोमशब्दस्यग्निष्टोमसंस्थज्योतिष्टोमवावित्वात्कथमग्निष्टोमस्य क्रत्वन्तरे विद्यमानतेत्याशङ्क्य श्रौतसस्थावाचित्वत्यागेन लाक्षणिकज्योतिष्टोमवाचिता न युक्तन्ति परिहारसूचनार्थं सस्थारूपम्येत्युक्तम्। आहारः प्रयोगः। य एतेनानिष्ट्वेत्ये तच्छब्दस्याग्निष्टोमपरामर्शितायाः पञ्चमेवक्ष्यमाणत्वान्नातिरात्रस्य प्रथमप्रयोगोऽस्तीत्याशङ्क्याह विहितश्चेति। अग्निष्ठोमविधेर्निषेधेनानपेक्षितत्वादग्निष्टोमस्यापि चान्यत्र विद्यमानत्वोत्तया सामान्यरूपत्वाभिधानान्निषेधबाधकत्वं न सम्भवतीत्याशङ्क्य पूर्वविधिनैव सिद्धेः पुनर्विध्यानर्थक्यप्रसङ्गादाद्यप्रयोगविषयत्ववत्क्रत्वन्तरेष्वतिदेशप्राप्तेर्विध्यानर्थक्यप्रसङ्गेनैव ज्योतिष्टोमविपयत्वस्याप्यवगमाद्विशेषविषयत्वेन वाधकत्वमुपपादयितुमाह सो ऽयमिति। द्वितीयादिप्रयोगेषुक्रत्वन्तरेपु वान्यत प्राप्त्यालोचनया ज्यौतिष्टोमिकाद्यप्रयोगाख्यविशेषविषयत्वावगमेऽपि खारसिकसामान्यविशेषविषयत्वालोचनया बाध्यबाधकभावप्रसिद्धेर्निषेधस्य चामिष्टोमातिरात्राद्यअगोगयोर्द्वयोरेव सामान्यरूपत्वाद्विधेस्तु वहुषु द्वितीयादिषु क्रत्वन्तरेषु च सामान्यरूपत्वाद्विधर्बाधकता शङ्कितुमपि न शक्येत्येतामव्यि वस्यां दूपयति एतदपीति। खमतेनातिरात्रप्रथमप्रयोगे नित्यं न प्रवर्जितव्यमग्निष्टोमप्रयोगे विकल्पेनेत्येव भाष्यव्याख्य सूचयितुमन्यथाव्यवस्थामाह अत इति। निपेधत्वे ऽतिरात्रग्रथम प्रयोगे ऽपि विकल्पस्यापरिहार्यत्वात्पर्युदासत्वनिरासार्थस्य चोच्य तइन्यादेर्वक्ष्यमाणस्य वार्त्तिकस्याग्निष्टोमवाक्यातिरात्रप्रकृतिवच्छव्द शेषत्वनिरासमात्रार्थत्वो पपत्तेरग्निष्टोमवाक्यस्य चप्रतिप्रसवार्थताय वक्ष्यमाणत्वादतिरात्रप्रथमयोगे ऽपि नित्यं पर्युदासो ऽग्निष्टोमप्रथ मप्रयोगे त्वग्निष्टोमवाक्येन प्रतिप्रसूतत्वान्नञ्‌युक्तेन चानारम्यवा दप्रासस्य पर्युदासाद्विकल्प एवेत्येवं व्याख्येयम्। प्रतिषेधोत्ति यथाश्रुतां विहितोक्तिं चाप्राप्तविध्याशयां मत्वा पर्युदासेन सम्भव द्विकल्पपरिहाराणां नञ्युक्तानां वाक्यानां पर्युदासत्वस्यापि तु वाक्यशेष। भ्यादष्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यादिति दशप्राधिकरणसिद्धान्तसूत्रेण वक्षमाणत्वादस्य पर्पुदासत्वावगतेरग्नि ष्टोमवाक्यशेपत्वे च तस्य पर्युदासापेक्षितप्राप्तिसमर्पणामात्रे व्यापा राक्ष्युपगमापत्तेरनारक्ष्यवादादेव च प्राप्तिसिद्धेरग्निष्टोमवाक्यानर्थ क्यग्रसङ्गादनारक्ष्यवादशेपत्वावगमादनक्षरयवादभ्य चाग्निष्टोमवा क्यविहितप्रवर्ग्यायां प्रकृतावानर्थक्यापत्तोर्विकृत्यर्थत्वावगमादतिरा अनिरिक्तायां च विकृतौ प्रथमप्रयोगाभावादनारक्ष्यवादशेपस्य पर्य दामस्थातिरात्रमात्रविषयत्वावगतेरग्निष्टोमवाक्यस्य पर्युदासानन्वयाग्नित्यमेव वाग्निष्टोमे प्रवर्ग्यप्राप्तेर्विकल्पो न युक्त इत्याशङ्कते क्रिचित्पुनरिति। अग्निष्टोमवाक्यादेव प्राप्तिसिद्धेरनारक्ष्यवादो ऽनर्थक इति विपरीतं कस्मान्न स्यादित्याशङ्क्य सामान्याविषयत्वेनानारक्ष्यवादस्य वहुविरोयव्यापित्वान्नैकस्मिन्विशेषे प्राप्तावप्यानर्थक्यापत्तिरिति परिहारसूचनार्थ सामान्येत्युक्तं। अग्निष्टोमवाक्यस्य प्रकृतावनारक्ष्यवादस्य च विकृतौ प्रापकत्वात्पर्युदासस्योमयशेपत्वोपपत्तेरग्निष्टोमविधेर्निरपवादत्वायोगशङ्कां निराकर्तु न चेत्युक्तम् पर्युदासत्वे सिद्धान्त्याभिमतेऽपि विकृत्यर्थानारक्ष्यवाकशेपत्वे ऽग्निष्टोमवाक्यशेपत्वे चाग्निष्टोमे विकल्पसिद्धेरग्निष्टोमवाक्यशेषत्वे चातिरात्रप्रथमप्रयोगे ऽप्यकरणासिद्धयाधिक्यात्तन्निरासार्थं सिद्धान्तैकदेशी विकृत्यर्थानारक्ष्यवादशेषभूतपर्युदासत्वे ऽग्निष्टोमविधेर्निरपवादत्वाद्विकल्पो न युज्येत शक्यं त्विहेत्यादिवार्तिके वक्ष्यमाणेन तु न्यायेनानारक्ष्यवादस्य विकृत्यर्थत्वायोगादतिरात्रे ऽतिदेशप्रासस्यानारक्ष्यवादस्य शेषो वाच्य इत्यापाद्यातिरात्रकथभावपूरणवेलायामपाठात्तत्प्रकृतिवच्छब्दप्राप्तानारक्ष्यवादशेपत्वानुपपतेर्दर्शपूर्णमासप्रकरणपठितस्य तौ न पशौ करोतीत्यस्य पशुप्रकृतिवच्छब्दप्राप्ताज्यभागवाक्यशेषत्वायोगेन पर्युदासत्वायोगा न्निषेधत्वं यथा ऽपूर्वे चार्थवाद स्यादिति दशमाधिकरणेन सौम्ये ऽध्वरइत्यस्य तौ न पशौ करोतीति निपेधशेषतयार्थवादत्वसिद्धयै भाष्यकृता वक्ष्यते तत्तथा न प्रथमयज्ञइत्य स्यापि निषेधत्वावगमाद्युको विकल्प इत्येव विकल्पायोगचोद्यं निराकर्त्तुमाह उच्यत इति। दृष्टान्तत्वेनाग्निष्टोमवाक्यशेषत्वस्यानुपपन्नत्वं तावत् त्वयैवौक्तमित्युक्तम्। षष्ठयर्थे सप्तमी। अपिशब्देनानार [९००।२] तावत् त्वयैवौक्तमित्युक्तम्। षष्ठयर्थे सप्तमी। अपिशब्देनानारभ्यवादसूचनात्ततो ऽनारक्ष्यवादस्यातिरात्रवाक्यावयवभूतस्य न प्रथमयज्ञ इति शेषः स्याद्यद्यतिरात्रकथम्भावपूरणवेलायां पठयेत संस्थानां त्वसमानविधानत्वेन ज्योतिष्टोमकथम्भावपूरणवेलायास्तदीयत्वायोगान्नैतत्तदीयकथम्भावपूरणवेलास्थत्वेन पठितं येनोपदेशतो ऽतिरात्रवाक्यावयवभूतस्यानारक्ष्यवादस्य न प्रथमयज्ञइत्येतद्वाक्यं शेषः स्यादित्युक्ते ऽतिदेशतस्तर्ह्यतिरात्रप्रकृतिवच्छब्दप्राप्तस्यानारभ्यवादस्य शेषो भविष्यतीत्याशङ्क्यातिरात्रावान्तरप्रकरणे पाठाभावादसाधारणातिरात्रकथम्भावपूरणवेलास्थत्वेनापि न पठितः येनातिदेशतो ऽतिरात्रवाक्यावयवभूतस्यानारभ्यवाद स्य शेषः स्यादित्युक्ते ज्योतिष्टोमप्रकरणपठितस्याप्यतिरात्रप्रकृतिवच्छब्दप्राप्तानारभ्यवादशेषत्वं कस्मान्न भवतीत्याशङ्क्य व्यवहितत्वेनैकवाक्यत्वायोगो न हीत्यनेनोक्तः। प्राकृतानामङ्गशास्त्राणां विकृतौ स्वरूपेणातिदेशस्य दशमाद्ये निपेत्स्यमानत्वात्प्रकृतिवच्छब्देनैवोपकारादिपरम्परयातिदेशावगतेरतिदेशप्राप्तानारभ्यवादशेषत्ववादिना प्रथमप्रयोगप्रवर्ग्यवर्ज प्रकृतिवदतिरात्रेण यजेतेत्येवमेकवाक्यता कल्प्येति मत्वा प्रकृतिवच्छब्दस्येत्युक्तम। न प्रथमयज्ञइत्यस्य पर्युदामत्वपक्षे विकृतिविपयत्वायोगोक्त्या कुपितश्चोदयिता निषेधत्वपक्षे ऽपि प्रकृतौ वा द्विरुक्तत्वादित्यनेन ष्यायेन विकृतिविषयत्वायोगात्प्रकृतिमात्रविपयत्वावगते। प्रकृतौ च वैङ्कल्पिकत्वाद्विकृतावतिदेशप्राप्तस्यापि पैकल्पिकत्वापत्तेर्नाति रात्रप्रथमप्रयोगे निषेधस्य नित्यत्वं सिद्धान्त्युक्तं समर्थितं भवतीत्येवमनिष्टापादनेनैकदेशिनमाक्षिपति नन्विति। पार्श्वस्थेऽतिरात्रे निषेधस्य नित्यत्वसिद्धयै पर्णतादेर्ज्जुव्हाद्यङ्गत्वान्निरङ्गस्य चजुह्वादेरनुपकारित्वेनातिदेशायोगाद्विकृतौ जुह्वादिप्राप्त्यैव प्राप्तिसिद्धेरनाभ्यवादस्यानपेक्षितत्वाद्विकृतावनुपपत्तेः प्रकृतिमात्रविपयत्वं युक्तं निषेधस्य तु प्रवर्ग्यानङ्गत्वात्प्रवर्ग्यप्राप्तिमात्रात्प्राप्त्यसिद्धेरौपदेशिकनिषेधप्राप्तिसम्भवे चातिदेशिकप्राप्त्यन पेक्षणाद्विकृतानपि निषेधोपदेशस्यापेक्षितत्वेनोपपत्तेर्निषेध्यस्य च प्रवर्ग्यस्योभयत्र प्राप्तेर्न प्रकृतिमात्रविषयता युक्तेत्याशयेनाक्षेपं परिहरति प्राप्नुयादिति। यथा जुह्वादेः प्रकृतौ शीघ्रं प्राप्तेर्विकृतौ च विलम्वेन प्राप्तेस्तप्प्राप्त्यपेक्षस्य पर्णतादिविधेः प्रकृतिमात्रार्थजातं तथा प्रवर्ग्यस्यापि प्रकृतौ शीघ्रं विकृतौ विलम्बेन प्राप्तेन्तत्प्राप्त्यपेक्षस्य निषेधस्य प्रकृतिमात्रार्थत्वं भविष्यतीत्याशङ्क्य जुह्वादे पर्णतादि प्रतिप्राधान्यसिद्धयै क्रत्वपूर्वसाधनत्वापेक्षणात्प्रतिक्रतु चापूर्वभेदात्सकृत्प्राकृतवैकृतापूर्वसाधनीभूतजुह्वाद्युद्देशेन पर्णतादिविध्यनुपपत्तेः शीघ्रप्राप्तप्राकृतापूर्वसाधनीभूतजुह्वाद्युद्देशेन पर्णतादि विधाय कृतार्थस्य विधेर्विकृतौ व्यापाराभावो युक्तः निषेधस्य तु प्रवर्ग्यस्यापूर्वसाधनत्वानपक्षेणात्सकृद्यथाप्राप्तप्रवर्ग्यानुवादेन निषेधोपपत्तेः शीघ्रमन्थरप्राप्त्यालोचना न युक्तेति वैषम्यसूचनार्थ प्राप्तिमात्रेत्युक्तं। निषेध्यस्य प्राप्तिमात्रं निषेधो ऽपक्षे तेनापूर्वसाधनतामित्यर्थः। एकदेश्यग्निष्टोमविकल्पायोगचोद्यनिरासमात्रं ममाभिप्रेतं न त्वतिरात्रं निषेधस्य नित्यत्वसमर्थनमपीति मत्वा प्रवर्ग्याननुष्ठानस्य प्रवर्ग्यानङ्गत्वे ऽपि क्रत्वङ्गत्वसद्भावात्सर्वागेषु च युगपच्चोदकप्रवृतेर्विकृतावतिदेशतः प्रवर्ग्यप्राप्तिवेलायामेव पवर्ग्याननुष्ठानस्यापि प्राप्तत्वेन निषेधोपदेशस्याप्यनपेक्षणादनुम्पपत्तेरिह निषेधे ऽपि प्रकृतिमात्रवियत्वं वक्तुं शक्यमित्येव पार्श्वस्थनिरासेन चोदयित्रापादितं प्रकृतिमात्रविषयत्वमनुजानाति। शक्यं त्विति। इहापीत्यपिशब्दो ऽध्याहार्यः। प्रकृतौ प्राप्तिनिषेधयोर्द्वयोरप्यौपदेशिकत्वेन तुल्यबलतया वैकल्पिकत्वाद्विकृतौ त्वातिदोशिक्या। प्राप्तेरौपदेशिकेन निषेधेन नित्यं बाधाद् द्विरुक्तत्वानापत्तिं पाश्वस्थ शङ्कते ननु चेति। प्राप्त्यपेक्षत्वान्निषेधस्य दुर्बलाया अपि प्राप्तेर्निषेधेनात्यतबाधायौगस्य दशमाधिकरणपूर्वपक्षसूत्रे वक्ष्यमाणत्वाद्द्विरुक्तत्वापत्ति समाधत्ते नैतदिति। सूत्रार्थमुपपादयति यस्येति। अतश्च निषेधस्य प्रकृतिविकृतिविषयत्वाक्ष्युपगमे ऽप्यतिरात्रे निषेधनित्यत्वासिद्धेस्तदभ्युपगमों ऽनर्थक इत्येवं पार्श्वस्थनिरासनुपसहरति। अत इति। एवं सति सिद्धान्त्यनिष्टविकल्पापक्षिशङ्काया ननु प्रतिषेधो ऽपि सन्नितिवार्तिककृतायाः कः परिहारइत्याशङ्क्य न प्रथमयज्ञ इत्यस्यातिरात्रवाक्यैकवाक्यभूतानारक्ष्यवादशेपत्वमात्रनिरासो ममाभिप्रेतो न प्रर्युदासत्वनिरासो येनातिरात्रे सिद्धान्न्त्यनिष्टों विकल्पः प्रसज्येतेति सूचयन्नेकदेश्यनिष्टापत्तिशङ्का परिहर्तुमाह तस्मादिति। विकृतावपि निषेधोपदेशस्यानपेक्षितत्वेन द्विरुक्तत्वादुपदेशातिदेशयोश्च शीघ्रमथरत्वलक्षणप्राप्तिकालवैषम्यान्न प्रथमयज्ञइत्यस्य प्रकृतावेव व्यापारो न त्वतिरात्रे ऽतिदेशो नापदेशेन वा प्राप्तानारक्ष्यवादशेंषतयेत्येता वदग्निष्टोमे विकल्पायोगचोद्यनिरासायाभिप्रेतं वरं निषेधत्वादतियात्रे विकल्पेन भवितव्यमित्यक्ष्युपेत्य वादमात्रेण प्रतिषेध एवायमिति प्रागुक्तं न तु निपेधताभिप्रेता येन विकल्पः स्यात्प्रकृतावेव त्वनारक्ष्यवादशेषभूतस्य पर्युदासस्यातिरात्रेतिदेशात्प्राप्तेर्नित्यमकारणं सेत्स्यतीत्येवं वरमतिरात्रे विकल्पेन भवितव्यमित्यनुषगेण योज्यम्॥ चोदयितृकृताक्षेपपरिहर्तृपार्श्वस्थनिरासेन गतकोपश्चोदयिता ऽनिष्टापादनं त्यत्क्काएकदेशिनइत्यादिनान्वय। न प्रथमयज्ञ इत्यस्य यत्प्रवर्ग्य प्रवृञ्जन्न्तीत्यनारक्ष्यवादशेषत्वमक्ष्यनुज्ञायातिरात्रवाक्यैकवाक्यभूतानारक्ष्यवादशेषत्वाख्यविशेषमात्रनिरासात्प्रकृत्यर्थानारक्ष्यवादेशषत्वाक्ष्युपगेमनानारक्ष्यवादस्य च विकृत्यर्थतायां न प्रथमयज्ञइत्यस्यातिरात्रकथभावपूरणवेलायामपाठे ऽपि पर्युदसनीयप्रवर्ग्यप्रापकस्यानारक्ष्यवादस्य प्रकृतावव्यापारादग्निष्टोमवाक्यप्रासप्रवर्ग्यपर्युदासाक्ष्युपगमे चातिरात्रप्रथमप्रयोगे पर्युदासभावेन नित्यमनुष्ठानापत्तेर्निषधत्वाक्ष्युपगमे चान्याप्यविकल्पापत्तेरतिरात्रवाक्यैकवाक्यभूतानारक्ष्यवादशेपत्वस्य निराकर्तुमशक्यत्वात्तन्निराकरणेनारक्ष्यवादस्य प्रकृत्यर्थत्वाक्ष्युपगमे सत्यग्निष्टोमवाक्येनैव प्रकृतौ प्रवर्ग्यविविसिद्धेरनारभ्यवादस्यानर्थक्यप्रसङ्गाद्विकृत्यर्थत्वावगतेस्तच्छेषेण न प्रथमयज्ञइत्यनेनातिरात्रप्रथमप्रयोगे प्रवर्ग्यपर्युदासादतिरात्रे नित्यमप्रयोगो ऽग्निष्टोमे चापवादान्नित्यं प्रयोगः सेत्स्यतीत्याशयेनैकदेशिनश्चोद्यनिरासं दूषयितुमाह न न्विति। एकदेश्यानर्थक्यदोपपरिहारं शकतें नैप इति प्रवर्ग्यस्यानारक्ष्योत्पन्नस्यापि पर्णत दिवत्प्रकृतौ विनियोगसिद्धेर्व्यापाराभेदेनानर्थक्यपरिहासयोगाद्विकृत्यर्थतैवानारक्ष्यवादस्य युक्तोति चोदयिता स्वाशयं प्रकटयति अथ वति पर्णतादिवदुत्पत्तिवाक्ये प्रकृतिविशेषाव्यभिचारिद्वारसंयोगाश्रुतेर्दर्शपूर्णमासादीनामपि च प्रकृतीनां भावादग्निष्टोमाख्यप्रकृतिविशेषोपसंहारार्थत्वेनार्थवान्विनियोङ्गे भविष्यतीत्यङ्क [९०१।१] देशी शङ्कते नत्विति प्रवर्ग्योत्पतिवाक्ये प्रकृतिविशेषाद्वव्यभिचारिद्वारसंयोगाश्रवणे ऽपि पुरस्तादुपसदां प्रवर्ग्येण चरन्तीत्यनुष्ठानस्थानवाक्ये ग्निष्टोमाव्यभिचार्युपसदाख्यद्वारसंयोगश्रुतेर्नोपसंहाराय विनियोगापेक्षेति चोदयिता परिहरति न शक्यमिति नासदश्यं सामिधेन्याख्यद्वारसयुक्तमपि प्राकरणिकेन पाञ्चदश्येन विकृतिष्वप्यतिदेशप्राप्तेन द्वारावरोधात्कत्वन्वयासमर्थामिति कृत्वा पशुमित्रविन्दादिप्रकरणाधीतेन साप्तदश्यवाक्येनोपसंह्रियते यत्प्रवर्ग्यमित्ययं त्वनारक्ष्यवादो ऽनन्यावरुद्धोपसद्वारतयोपसंहारमनपेक्ष्यैवाग्निष्टोमाख्ययज्ञान्वये शक्तत्वेनोपसंहारानपेक्षत्वान्नोपसंहारमर्हती त्यर्थ॥ अनारक्ष्यवादस्य विकृत्यर्थत्वमुपसंहरति अतश्चेन्ति अनारक्ष्यबादस्य विकृत्यर्थत्वे ऽपि न प्रथमयज्ञइत्यस्यातिरात्रकथम्भावपूरणवेलायामपाठेनातिरात्रवाक्यैकवाक्यभूतानारक्ष्यवादशेषत्वायोगान्नातिरात्रप्रथमयोगे नित्यमप्रयोगो ऽग्निष्टोमे च नित्यं प्रयोगः सेत्स्यतीत्याशङ्क्यानारक्ष्यवादस्य प्राकरणिकेनाग्निष्टोमवाक्येनोत्कालनात्प्रकृतावव्यापारे ऽप्यग्निष्टोमवाक्यालो चनात्प्राक्प्रकृतिं प्रविष्टस्य शेषो भूत्वा ऽनारक्ष्यवादसहितः पर्युदासः पश्चादतिरात्रं गमिष्यतीति परिहारं सूचयंश्चोदयिता स्वाभिप्रेतसिद्धिमुपसंहरति तथा सति चेति केवलविधिस्पर्शोपपादनार्थ वाक्यद्वयशेषत्वनिरासो न चैक एव शेष इति वार्त्तिकोक्तो न हीत्यनेन स्मारितः। एकदेशी स्वाशयप्रकटनेनानारभ्यवादस्य विकृत्यर्थत्वं निरस्यति एतावत्विति प्रकृतौ प्रागुपसदः प्राप्रुवन्ति पश्चाद्विकृतावित्युपसत्प्राप्तिकालवैषम्यात्पकृतौ प्रागुपसत्प्राप्तेरुपमहारवाक्याभावे ऽपि प्रवर्ग्य। प्रकृतिं गच्छेत्किमुताग्निष्टोमे प्रवृण क्तीति विस्पष्टोपसंहारकवाक्यसद्भाव इत्युक्ते पुरस्तादुपसदामित्यनेन क्रत्वन्वयाख्यसामान्यसबन्धावगमान्नोपसंहारः सम्भवतीत्याशङ्क्य दर्शपूर्णमासप्रकरणपाठाच्चतुर्द्धाकरणस्यावगतक्रत्वन्वयस्याप्याग्नेयं चतुर्द्धा करोतित्यनेनोपसंहारदर्शनादविरोधमुत्त्का प्रकृत्यर्थत्वे ऽनारक्ष्यवादस्यानर्थक्यशङ्कानिरासायोत्पत्यर्थत्वेनाथर्वत्वं पूर्वोक्तं स्मारितं कौशीतकिब्राह्मणे ज्योतिष्टोमप्रकरणाधीतप्रवर्ग्यवाक्यसमानार्थत्वायाप्यनारक्ष्यवादस्य प्रकृत्यर्थतैवाक्ष्युपगतव्येत्याह एवं चेति। सिद्धान्तैकदेशिनाऽनारक्ष्यवादस्य विकृत्यर्थत्वनिरासेन चोद्यवादिनि निरस्ते परमसिद्धान्तीचोद्यवा द्युक्तं पर्युदासत्वमेकदेश्युक्तं चानारक्ष्यवादस्य प्रकृत्यर्थत्वमक्ष्यनुज्ञायैवानारक्ष्यवादाग्निष्टोमवाक्ययोर्द्वयोरुत्पत्तिविनियोगार्थत्वेनैकवाक्यत्वे वाक्य द्वयस्याप्यग्निष्टोमे प्रवृणक्तीत्येतन्मात्रार्थनिष्पतेर्न प्रथमयज्ञइत्यस्यानारभ्यवादशेपत्वे ऽग्निष्टोमवाक्यशेषत्वे वा विशेषाभावादग्निष्टोमवाक्यशेषत्वे ऽपि चाग्निष्टोमवाक्यानर्थक्यापत्तिलक्षणविरोधाभावादविनियुक्तोत्पन्नमात्रप्रवर्ग्यपर्युदासे व पर्युदसनीयस्य क्रत्वर्थत्याभावेन पर्युदासस्य क्रत्वर्थत्वानापत्तेरानर्थक्यप्रसङ्गाद्विनियुक्तपर्युदासत्वायाग्निष्टोमवाक्यशेपत्वापत्ते रग्निष्टोमें नित्यमकरणापत्या विकल्यासिद्धेरग्निष्टोमवाक्यस्यैकदेश्युक्त विनियोगार्थत्वं दूषयति यदि तर्हीति किमर्थत्वेन तर्ह्यग्निष्टोमवाक्यं विकल्पसिद्धयै वर्णयितुमाह अत इति। विनियोगार्थत्वेनार्थवत्वोपपत्तौ विकल्पापादिका प्रतिप्रशवार्थता न युक्तेत्याशक्य प्रकृत्यर्थाद नारक्ष्यवावदादेवाग्निष्टोमप्रवर्ग्योपसंहारसिद्धेश्चतुर्द्धाकरणवदनेकत्र प्राप्तस्यैकत्रोपसंहारप्रयोजनत्वायोगाद्विनियोगानर्थक्यसूचनायानन्यप्रयोजनत्वोक्तिः। न प्रथमयज्ञइत्यस्य प्रतिषेधत्वे ऽत्रिरात्रे प्रतिप्रसवाभावे ऽप्यतः सर्वथाऽतिरात्रे विकल्पेन भवितव्यमिति वार्तिके स्वयमेंव विकल्पस्योक्तत्वादग्निष्टोमे चानारक्ष्यवादविहितप्रतिषेधादेव विकल्पसिद्धेः प्रतिप्रसवानर्थक्यप्रसङ्गात्पर्युदामत्त्वे तु नित्यमकरण प्राप्ते विकल्पसिद्यै प्रतिप्रसवार्थत्वोपपत्तेरग्निष्टोमे च विकपे सत्यप्यतिरावे ऽतिदेशप्राप्तस्य पर्युदासस्य नित्यमकरणापादकवेनार्थवत्वोपपत्तेः पर्युदस्तवाची प्रतिषिद्धशब्द॥अकर्तव्यत्वोक्तयानिपी धविषयीकृतस्य कत्तर्व्यत्वोक्तः प्रतिप्रसवत्वेन प्रसिद्धत्वात्पयुदासस्य चाकर्तव्यत्वोक्तयर्थत्वलक्षणनिर्षेधत्वायोगस्य विधानामेकदेशः स्यादिति दशमाधिकरणसिद्धान्तसूत्रावयेवनोक्तत्वात्पर्युदतस्य प्रवर्ग्यस्य प्रतिप्रसवो न युक्त इत्याशकते नन्विति। प्रतिषेधोक्ते कर्त्तव्यत्वोत्तयर्थलक्षणोयोभिधेयंयस्यास्तदङ्गावयवस्तत्वन्तस्मादित्यर्थः14 कर्त्तव्यत्वोत्तयर्थत्वलक्षणार्थत्वान्नायं पर्युदासोकर्त्तव्यत्वोद्धय र्थ इति दशमम्पर्युदासस्य विध्येकदेशत्वोत्तयोक्तमित्यर्थ। यद्यपि पर्युदासस्यापि प्राप्तिमक्ष्यनुज्ञायैव प्रवृतेः शास्त्रीयायाश्च प्राप्तेरत्यतबाधायोगान्निषे धवदन्याय्यविकल्पापादकत्वेनायुक्तत्वमाशङ्क्य विधिना कर्त्तव्यत्त्वोक्तेर्निषेधेन चाकर्त्तव्यत्वोक्तेः कर्त्तव्यत्वाकर्त्तव्यत्वयोश्च विरुद्वत्वेनैकस्मिन्काले समावेशायोगाद्विकल्पापत्तिः पर्युदासस्य तु पर्युदस्यमानव्यतिरिक्तार्थविषयतया विध्युपसंहारार्थत्वेनबिध्यनुग्राहित्वात्कर्त्तव्यत्वोत्तयर्थविधिविरुद्धाकर्त्तव्यत्वोत्तयर्थत्वानुपपत्तेर्नविकल्पापत्तिरित्यमिधानार्थपर्युदामस्याकर्त्तव्यत्वोत्तयर्थत्वायोगो विधिनामेकदेशः स्यादिति मूवावयवेनोक्तस्तथापि पर्युदस्यमानव्यतिरिक्तार्थविषयत्वोक्ते पर्युदस्यमानवर्जनफलत्वातू फलतो कर्त्तव्यतो त्तयर्थत्वावगतरिह पर्युदासन प्रथमप्रयोगे प्रवर्ग्यस्याकर्त्तव्यत्वानुक्तावनारभ्यवादेनैव प्रथमप्रयोगं ऽपि कर्त्तव्यत्वसिद्धेरग्निष्टोमवाक्यानर्थक्यप्रमगात्तदर्थवत्वाय पर्युदासो ऽप्ययमकर्त्तव्यत्वोत्तयर्य इति व्रूम इति परिहरति अग्निष्टामेति। पर्युदामापेक्षितप्राप्तिममर्पणार्थत्वेनाग्निष्टोमवाक्यार्थवत्वं भविष्यतीत्याशक्य न चासावग्निष्टोमवाक्यस्य शेषो भवतीत्यादिवार्त्तिकेनाग्निष्टोमवाक्यैकवाक्यतया पर्युदासत्वायोगस्य दर्शितत्वान्नैवमर्थत्वं सम्भवतीत्याह न [९०२।१] हीति। अनारक्ष्यवादस्याग्निष्टोमव्यतिरिक्तविषत्वेन तच्छेषस्यपर्यदासस्याप्यग्निष्टोमव्यतिरिक्त विषयत्वाद्भिन्नविषयस्याग्निष्टोमवाक्यस्य तत्प्रतिप्रसवार्थता न युक्तेत्याशङ्क्याह न चेति। तेन पर्युदासाग्निष्टामेवाक्ययाद्वेर्यारेप्यकेविषयत्वात्पयुदर्स्तप्रातप्रसवार्थन्ता ऽग्निष्टोमवाक्यस्य युक्तेत्याशयः। पर्युदासाभ्युपगमे तस्य नित्यवर्जनफलत्वप्रसिद्धेरग्निष्टोमे तु विहितप्रतिपेधाद्विकल्प इति सिद्धान्तवार्त्तिकोक्लो विकल्पो न युज्येतेत्याशङ्क्य पर्पुदासत्वे ऽप्युभयोअयुदासप्रतिप्रसवयोः सामर्थ्याद्विकल्पसिद्धिमाह। अतश्चेति। एतदेव प्रश्नपूर्वमुपपादयति कुत इति। पर्युदासत्वे सति भाष्ये वार्त्तिके च प्रतिषेधोक्तिः किमर्थेत्याशङ्क्य प्रतिषेधवत्पर्युदासस्याप्यस्य फलतो कर्त्तव्यत्वोत्तयर्थत्वादौपचारिका प्रतिषेधो क्तिः प्रतिप्रसवोपपत्त्यर्थेति सूचयितुमाह ततश्चेति। यद्विकल्पभयेनान्यत्र पर्युदास आश्रीयते स विकल्पो ऽत्र पर्युदासे सत्यपि प्रतिप्रसवबलादापन्न इति कृत्वा प्रतिप्रसवस्याकर्त्तव्यत्वोक्ति विनानुपपत्तेः प्रतिप्रसवसिद्धयै पर्युदासवृत्तेर्नञ्शब्दस्याकर्त्तव्यत्वोक्तौ तात्पर्याभावे ऽपि नञ्शब्दसामर्थ्याद कर्त्तव्यत्वप्रतीतेः प्रतिपेधोक्तिर्भाष्यकारादिभिराश्रितेत्यर्थः। मुख्यनिषेधस्यानभिमतत्वसूचनार्थ वरमित्युक्तम्। अग्निष्टोमप्रथमप्रयोगे विकल्पसिद्धिमुपसंहरति तेनेति। अयं च विकल्पो वाक्यान्तरेण विकल्पकारिणः प्रतिप्रसववाक्यस्य प्रकृष्टश्रोत्रियब्राह्यणकर्तृकाग्निष्टोमप्रथमप्रयोगविषयतयोपसंहारात्तन्मात्रविषयः। अप्रकृष्टश्रोत्रियाणां ब्राह्मणानां प्रकृष्टश्रोत्रियाणामपि च क्षत्रियादीनां त्वग्निष्टोमप्रथमप्रयोगे पर्युदस्तत्वात्प्रतिप्रसवाभावाच्च नित्यं प्रवर्ग्याभाव इत्याह अत्रापीति। श्रोत्रियशव्दस्य च्छन्दोध्येतृवाचित्वादनधीतवेदस्य च कर्मण्यप्रवृत्तेः श्रोत्रियत्वस्य विशेपणत्वायोगं शङ्कते कथं पुनरिति। अनुष्ठानान्यथानुपपत्तिप्राप्तश्रोत्रियत्वमात्रविशेषणफलत्वे वचनस्यानर्थक्यापत्तेंर्विशेषणवचनसामर्थ्यात्पाठतो ऽर्थतश्चातिशयेन वेदज्ञानवाञ्छ्रोत्रियो गम्यतइति परिहरति सत्यमिति। प्रकर्षेण गतिर्ज्ञानं यस्येति बहुव्रीहिविग्रहः। अर्थज्ञत्वसूचनार्थं गतिशब्देन ज्ञ नमुक्तम्। एतदेव दृष्टान्तेनोपपादयति यथेति। अध्यापयितृवाचिनोऽनूचानविशेषणस्य प्रयोजनमाह अनूचानेति। एवं सत्यतिरात्रे ऽप्यतिदेशात्प्रकृष्टश्रोत्रियब्राह्मणकर्तृकाद्यप्रयोगे विकल्पापत्तेरतिरात्रप्रथमाहारे नित्यं प्रतिषेध इति सिद्धान्तवार्त्तिकोक्तं नित्यमकरणं न युज्येतेत्याशङ्कते तदिति। अतिरात्रे न प्रथमयज्ञ इति पर्युदासेनातिदेशप्राप्तेन पर्युदासात्प्रतिप्रसवनिमित्ताग्निष्टोमसंस्थत्वाभावेन च प्रतिप्रसवानतिदेशान्नित्यमकरणमुपपादयति तत्रेति। अग्निष्टोमसंस्थत्वस्य प्रतिप्रसवनिमित्तत्वे ऽतिरात्राद्विकृत्यन्तेरष्वग्निष्टोमसंस्थेषु पर्युदासप्रतिग्रसवयोरतिदेशाद्वि कल्पशङ्कां निराकर्तुमाह विकृत्यन्तरेष्विति पर्युदसनीयप्रथमप्रयोगायोगेन पर्युदासस्यैव तत्रायोगादित्याशयः। इष्टाग्निष्टोमसंस्थज्योतिष्ठोमस्यैव विकृतिषु प्रवृत्तेरग्निष्टोमसंस्थासु विकृतिषु पर्युदसनीयप्रथमप्रयोगायोगात्पर्युदासायोगे ऽप्युकथ्यादि संस्थासु विकृतिषूक्‌थ्यादिसंस्थायाः प्रागनिष्टत्वेन सजातीयोक्‌थ्यादिसस्थापेक्षया प्राथप्यसभवात्त्पर्युदासातिदेशोपपत्ते। प्रतिप्रसवनिमित्ताग्निष्टोमसंस्थत्वाभावाच्च प्रथमप्रयोगे ऽतिरात्रवन्नित्यमकरणापत्तेर्विकृत्यन्तरेष्वविशेषेण नित्यानुष्ठानोक्तिरयुक्तेत्याशङ्कते नन्विन्ति। एतदपेक्षया प्रथमयज्ञइत्यविशेषितात्प्रथमशब्दात्सर्वप्रवर्ग्यान्वयार्हे सोमयागप्रयोगापेक्षप्राथम्यप्रतीतेस्नस्य च विकृत्यन्तरे कर्स्मिश्चिदयोगात्पर्युदासातिदेशो न युक्त इत्याशयेन परिहरति नैतदिति। तत्र तु केपां विदित्यादिवार्त्तिकोक्तस्याग्निष्टोम्मवाक्येन ज्योतिष्टोमाद्यप्रयोगविषयेण बाधान्निषेधस्य क्रत्वन्तराद्यप्रयोगविषयत्बप्रतीतेंर्ज्योतिष्टोमप्रथमप्रयोगेन प्रवर्जितव्यमित्युपसंहारो न युक्त इत्युपसंहारभाष्याक्षेपस्य क्रत्वन्तरेषु प्रथमशब्दाप्रवृत्त्या निषेधाप्रवृत्तेर्निरासं सूचयन् ज्योतिष्टोमातिरात्रप्रथमप्रयोगे नित्यं न प्रवर्जितव्यं ज्योतिष्टोमाग्निष्टोमप्रथमप्रयोगे विकल्पेनेत्येवमर्थाङ्गीकरणेनोपसंहारसमर्थनमतिरात्रप्रथमाहारे नित्यं प्रतिपेध इत्यादिवार्त्तिकोक्तमनारक्ष्यवादस्य प्रकृत्यर्थतायां सिद्धायामित्यादिवार्त्तिकोपपादितमुपसंहरति तस्मादिति। आक्षेपवाद्युक्तक्रत्वन्तरप्रथमप्रयोगविषयत्वनिराससूचननार्था केवलोक्तिः।

पौष्णपेषस्य विकृतौ निवेशाधिकरणम्॥१३॥

पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ ३४। तत्र सन्देह इत्यादिभाष्येणापूर्वन्यायव्युत्पादनार्थत्वेन प्राकृत्या देवतायाः पूषशब्देनाचोदितत्वात्पूषान्वितं पेपणं प्रकृतौ न सम्भवतीत्येवं सूत्रं व्याख्यायाऽथ वेत्यादिना सन्देहायीगेनापूर्वन्यायव्युत्पादनार्थत्वायोगादुत्तरचिन्तावतारार्थप्राप्त्यर्थत्वेन व्याख्याते श्रुतिप्रकरणविरोधे प्रकरणनिवेशे श्रुत्यर्थस्यात्यन्तबाधापत्तेः प्रकरणबाधेनोत्कर्षो युक्तः इह तु भागशब्दस्य सेव्यवाचित्वे देवतायाः सेवितृत्वायोगेन विकृतावपि पूपभागायोगाद्वाक्यानर्थक्यापत्तेः पूषशब्दस्य पूष्णो हस्ताक्ष्यामिति मन्त्रे यजमानवाचित्वदर्शनाद्यजमानवाचित्वावगतेर्यजमानभागस्य च प्रकृतावपि सद्भावाद्विरोधानुपपत्तेर्द्देवतोद्देशेन त्याज्यद्रव्यवाचित्वस्य च देवतावाचिपूपशब्दसमभिव्याहारात्मकं वाक्यं विना ऽनवगतेः सन्निहितवाचिसर्वनामार्थवहुव्रीहिश्रुत्या वैश्वदेवीति तद्धितश्रुत्येव देवतान्वितद्रव्यप्रतीतावपि वाक्येनैव प्रकरणस्य विरोधावगमात्प्रकरणाबाधेनापि च पूषशब्द स्य गुणवृत्त्या प्राकृतदेवतावाचित्वाक्ष्युपगमेन वाक्योपपत्तौ प्रकरणस्यात्यन्तबाधायोगात्कथं विकृत्यर्थत्वप्राप्तिरित्याशङ्क्याह सन्तर्दनादीति। पदार्थ पूर्वकत्वा द्वाक्यार्थस्य पदार्थवाधे [९०३।४] वाक्यार्थबाधापत्तेर्यथा दीर्घसोमशब्दस्य कर्तृदैर्घ्यवाचित्वाक्ष्युपगमेन प्रथमशब्दस्य वा ज्योतिष्टोमवाचित्वाभ्युपगमेन वाक्यस्य प्रकरणाविरोधोपपत्तावपि मुख्यपदार्थवाधेन वाक्यार्थवाधापत्ते सन्तर्दनवाक्येन प्रवर्ग्य निषेधवाक्येन वा प्रकरणं बाधित तथात्रापि वाक्येन प्रकरणबाधात् विकृतिपु पूषदेवत्ये कर्मणि विहितं पेषणं निविशते चरुद्रव्यकास्वेव वेत्युत्तरचिन्तोक्तिप्रसक्तयर्थ प्राप्यत इति इत्यर्थइत्यन्वयः15 कूलं पिपतिषतीतिवत्सना प्रत्यासत्तिवाचिना बुद्धिस्थत्वलक्षण पञ्चमी15 प्रत्यासत्तिप्रसत्तयभिधानाद्विवक्षाशब्देनाभिधानप्रसक्त्युक्ते कर्मधारयात्प्रत्यासत्तिरूपाप्रसक्तिरित्यर्थः16 रर्थः।

पौष्णपेषस्य चरावेव निवेशाधिकरणम् १४॥

तत्सर्वार्थमविशेषात् ३५। यथाभाष्यं स्पष्टार्थत्वात्पूर्वपक्षसूत्रस्य पाठमात्रं कृतम्। चरौ वार्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात्पशौ न स्यात् ३६। चराविति भाष्येण चरौ वेति सूत्रावयवं चरावेवेत्यवधारणार्थवाशब्दयुक्तत्त्वेन सिद्धान्तप्रतिज्ञार्थतया व्याख्यायार्थप्राप्तत्वेन विध्ययोगात्पुरोडाशे न स्यादित्येवं हेतूत्तयर्थत्वेनार्थोक्तं पुरोडाशे न स्यादिति सूत्रावयवव्याख्यार्थं पुरोडाशे तावदित्यादिभाष्यं सामर्थ्यप्राप्त्युतयर्थतया भासमानमयुक्तमाशङ्क्योपकारप्राप्त्युत्तयर्थतया व्याख्यातुमाह यदीति। उपदेशात्प्राप्तिसम्भवे ऽतिदेशात्प्राप्तिरयुक्तेत्याशङ्क्य विकृतौ पेषणासाध्यपिप्टसिद्धयाख्योपकाराप्राप्तौ तत्साधनत्वेन पेषणोपदेशायोगात्पिष्टसिद्धयाख्योपकारप्राप्त्यै प्राक्प्रवृत्तेनातिदेशेनापर्यायप्रवृत्तित्वात्त्पेपणस्यापि प्राप्तेरुपदेशानर्थक्यसूचनार्थ पूर्वतरेत्युक्तम्। पुरोडाशे ऽर्थप्राप्तत्वे ऽपि पेषणस्यानुष्ठेयत्वान्न स्यादिति सूत्रावयवमयुक्तमाशङ्क्य पेषणोपदेशनिरामार्थत्वेन व्याख्यार्थस्तदर्थ तावदिति भाष्यावयवः। प्रधानाख्यार्थविरोधापत्तेः पशौ पेषणोपदेशो न स्यादित्येवमर्थेति सूत्रावयवव्याख्यार्थ पशौ चेत्याद्यव दास्यतइत्यन्तं भाष्यं तात्पर्यतों व्याचष्टे पोशौ चेति नन्वितिभा ष्येण हृदयादिशब्दानां स्थानविशेषस्थमांसविशेषवाचित्वात्पेपणे ऽपि च ताद्रूप्यानपायात्प्रधानवैगुण्यानापत्तिरित्याशङ्क्य हृदयत्वादिजा त्याख्याकारवाचित्वाज्जातेश्च संस्थानविशेषविशिष्टव्यत्तयाश्रयत्वेन पे षणादाश्रयभूतव्यक्तिनाशे सामान्यान्यपि चैतानि नश्यन्त्याश्रयनाशत इत्यनेन नाशाद्वैगुण्यापत्युपपादनार्थ नेतीति भाष्यं व्याचष्टे तद्धी ति। स्वमतिन ह्यवदान जुहोतीत्यस्य यागे ह्यवदानोपसहारकत्वायोमं मत्वा पशुत्वजातेरमूर्त्तत्वात्तह्यक्तेश्च विशसनेन नाशात्साधन त्वायोगे ऽपि हृदयादीनामवयवानामवदानोद्धरणे ऽपि पुरोडाशव त्प्रत्यभिज्ञायमानत्वेनानाशात्साधनत्वोपपत्तेर्हृदयत्वादिजातीयेन व्य क्तिविशेषेण प्रधानं साधयितव्यमिन्युक्त्वा भाष्यकृन्मतेनोपसंहारकत्व मत्वा ततोवत्तेनावदानेनेत्युक्तम्। हृदयादेरप्यद्ध‌ूतावदानावस्थस्यैव साधनत्वान्न चेति पक्षद्वयसाधारणम्। यद्यपीत्याशङ्कापरिहारभाष्यं व्याचष्टे पुनरिति। आकारा हृदयादय इत्याकारशब्दवत्तदाकृ तिक इत्याकृतिशब्दस्यापि जातिवाचित्वशङ्का ऽऽकारोत्तया निरस्ता। पारिणामिकस्यैव हृदयादेर्हृयत्वादिजात्याश्रयत्वात्कृत्रिमाद्ध‌ूदयादेरवदाने ऽपि वैगुण्या परिहारसूचनार्थत्वेन तथापीत्यपिशब्दं व्याख्यातुं मृद्गवयादिवदित्युक्तम्। उत्सादनदेशमोहे ऽपि को दोष इत्याशङ्क्योत्सादनदेशादिति श्रुत्यर्थानिष्पत्त्याख्यं दोषमुक्त्वोक्त्वर्त्तनार्थत्वेनोत्सादोक्तिव्याख्यानायोत्त्कृत्तोक्तिः। तस्मादिति सिद्धान्तोपसंहारभाष्यं व्याचष्टे तस्मादिति। अदन्तकत्वहेतूत्तया पेषणस्य भोजनार्हत्वसिद्धयर्थत्वेन भोजनत्वोपचरितयागकालत्वावसायादयदानानन्तर्यावसायात्तत्काले च न प्राप्तिर्विप्रतिषेधो वेति परिहारस्याविशेपादिति पूर्वपक्षसूत्रावयवेनादन्तकत्वहेतोः पशुपुरोडाशयोरप्यविशेषादित्येवमर्थेन विवक्षितत्वात्सिद्धान्तोपसंहारो न युक्त इत्याशङ्कते नन्विति। स्वमतेनावदानातिरिक्तस्यापि पुरोडाशस्य हृदयादेश्च यागाङ्गत्वं मत्वा तच्छेषाश्चेत्युक्तम्। पेषणस्य भोजनार्हत्वसिद्धयर्थत्वेन भोजनत्वोपचरितयागकालत्वद्योतनार्थतामदन्तकत्वहेतोः सूचयितुं दास्यन्तइत्युक्तम्। सिद्धान्तोपसंहारभाष्योपपादनार्थं प्राप्तिविप्रतिषेधपरिहारशङ्कां दूपयितुमाह उच्यतइति। द्यवदानं जुहोतीत्यनेनावत्तस्य होमविधानादवदानक्रियां च विनावत्त होमाशक्तेरर्थादवदानक्रियाया प्राप्तेर्द्विर्हविषो ऽवद्यतीत्यस्य च द्विरक्ष्यासमात्रविध्यर्थन्त्वोपपत्तेरविधेयत्वेन पृथक्पदार्थत्वाभावस्य पञ्चमे मुष्टिकपालावदानाञ्जनाक्ष्यञ्जनवपनपावनेषु चैकेनेति सूत्रेणावदानोदाहरणे ह्यवदानमात्रेणानुसमयं पूर्वपक्षयित्वा सर्वाणि त्वैककर्म्यादेतेपां तद्गूणत्वादित्यनेन ह्यवदानादिना प्रदानान्तेनानुसमयं सिद्धान्तयितुमैककर्म्योत्तया वक्ष्यमाणत्वान्मध्ये व्यवधानं न युक्तमित्यर्थः। हेत्वन्यथानुपपत्त्या न्यायानुपेतमपि व्यवधानमाश्रयिष्यतइत्याशङ्क्य हेतुमात्रमदन्तत्वमित्यनन्तराधिकरणसूत्रे हेतूक्ते। स्तुतिमात्रार्थत्वस्य व क्ष्यमाणत्वान्न यागकालत्वद्योतनार्थतास्तीत्याह हेनुवन्निगदस्य चेति तस्मात्फलीकरणानन्तरमेवेह पेषणस्य विधेयत्वान्न प्राप्तिविप्रतिपेधपरिहारः सम्भवतीत्युपसंहरति तेनेति। वैरूप्यापत्तेरपि न सर्वत्र विधिर्युक्त इत्याह उपनीतेति। पुरोडाशसिद्धयर्थपिष्टा [९०४।१] ख्यकार्यलोपाच्चरौ निवृत्तिः। पशुप्रकृतौ सायं दोहे विध्यभावेनातिदेशतो ऽप्राप्तेः पशौ चानुपदेशादत्यन्ताप्राप्तिः। एवमपि पुरोडाशमात्रविषयत्वे पशुमात्रविपयत्वे ऽपि वैकरूप्यसम्भवात्कथं चरुमात्रविषयत्वावधारणेत्याशङ्क्याह तत्रेति। अत्यन्ताप्राप्तविधावदृष्टार्थत्वकल्पनागौरवापत्तेरनुवादे च वैयर्थ्यापत्तेर्नान्यविषयता युक्तेत्याशयः॥ चरावपीति चेत् ३७। चरुशब्दस्यौदनवाचित्वादन्योन्यासंलग्नत्वलक्षणवैशद्ययुक्ततण्डुलनिष्पन्नस्य चान्नस्यौदनत्वप्रसिद्धेः पेषणे वैशद्याभावेनाचरुत्वापत्तेश्चरावपि पाकात्प्राक्पेपणे ऽर्थविप्रतिपेधप्रसङ्गस्य तुल्यत्वाद्धेतुवशेन न्यायं बाधित्वा यागकालत्वाक्ष्युपगमेन परिहारस्य च पशुपुरोडाशयोरपि साम्यात्पर्यनुयोगपरिहारसाम्येनैकस्यापर्यनुयोज्यत्वोत्तयर्थत्बेन यथाभाष्यं स्पष्टत्वात्सूत्रस्य पाठमात्रं कृतम्। न पक्तिनामत्वात् ३८। ओदनशब्दस्यावस्रावितानवस्रावितयोस्तुल्यप्रयोगतया नवस्रावितपाकनिमित्तत्वायोगेन विशदश्रपणनिमित्तत्वावसायाच्चरौ वैशद्यानपेक्षायामनोदनत्वापत्तेरोदनो वा प्रयुक्तत्वादिति दशमाधिकरणसिद्धान्तसूत्रे चरुशब्दस्यौदनवाचिता वक्ष्यमाणा विरुद्धयेतन्त्याशङ्क्यादितिमोदनेनेति वैशद्याख्यचरुविशेपविधिसूचनार्थे वाक्यशेषे प्रयुक्तौदनशब्दवशेन चरुशब्दस्य स्थालीवाचित्वपूर्वपक्षनिवृत्त्यै तत्रौदनशब्दा नवस्राविनान्तरूष्मपक्वत्वमात्रवाचित्वे वा सूपशाकादेरपि चरुत्वापत्तेस्तन्निवृत्यै सूपादिव्यतिरिक्तत्वोपलक्षणार्थो न तु चरुशब्दस्यौदनवाचित्वोत्तयर्थो ऽवस्रावितौदने चरुशब्दाप्रयोगादित्येवं विरोधपरिहारसूचनार्थ सत्यमित्यादिभाष्येण यद्यप्योदने चरु शब्दः प्रयुज्यते विशदतण्डुलनिष्पन्नमेव चान्नमोदनत्वेन प्रसिद्धं तथापि पिष्टैरपि तण्डुलैर्निष्पन्ने चरुशब्दप्रयोगाद्वैशद्यानपेक्षत्वावगतेः पिष्टविशदसाधारणसूपादिव्यतिरिक्तान्तरूष्मपक्वत्वाख्यचरुशब्दप्रवृत्तिनिमित्तोपपत्तेश्च पिष्टसिद्धे चरुशब्दस्य गौणत्वकल्पनायोगान्न वैशद्यापेक्षेत्यस्मिन्नर्थे सूत्रयोजनपूर्वं नञर्थव्याख्यार्थन चराविति भाष्यं व्याचष्टे न चराविति। हेतुप्रश्नोत्तरत्वेन पक्तिनामत्वादिति सूत्रावयवव्याख्यार्थं कथमित्यादिभाष्यमाशयतो व्याचष्टे कथमिति। पिष्टौदन इति भाष्यावयवं पिष्टविशदसाधारणौदनमात्रवाची चरुशब्दो न तु विशदलक्षणौदनविशेषवाचीत्येवमर्थत्वेनाभासमानं पिष्टतण्डुलनिष्पन्ने ऽन्ने क्वचिदुपचारादोदनशब्दप्रयोगादर्शनादवस्राविते च विशदतण्डुलनिष्पन्नौदने ऽपि चरुशब्दाप्रयोगादयुक्लमाशङ्क्य पिष्टतण्डुलनिष्पन्ने ऽन्ने क्व चिदुपचारादोदनव्यपदेश्ये मुख्ये चौदने विशदतण्डुलनिष्पन्नान्नलक्षणे चरुरिति प्रयोक्तारो भवन्तीत्येवं भाष्यव्याख्यां सूचयञ्छ्‌लोकं व्याचष्टे ओदनेति अनवस्रावितपाकेनेति भाष्ये नवस्रावितविशेषणोनावस्रावितौदननिवृत्तावप्यन्तरूष्मविशेषणमपि मण्डकादिनिवृत्त्यै विवक्षितमिति सूचनार्थं पिष्टौदनयोरनवस्रावितान्तरूष्मपक्वत्वं सामान्यमित्युक्तम्। सूत्रार्थमुपसंहरति तस्मादिति। पक्षोक्त मिति भाष्यं प्रयोजनाभावचोद्यस्य प्रयोज नसन्देहस्य वा पक्षोक्तत्वोक्तिव्यावर्त्यस्याभावादयुक्तमित्याशङ्कते पक्षोक्तमित पुरोडाशे पक्षद्वयेपि पेपणासद्भावाच्चिन्ताप्रयोजनाभावमाशङ्क्य चिन्ताया पशुपुरोडाशयोरविशेषे सत्यपि न पेषणस्य पुरोडाशार्थत्वं निवर्त्यत्वेन चिन्ताप्रयोजनं किं तु पश्वर्थत्वं निवर्त्यत्वेन प्रयोजनमित्येवं प्रयोजनसमाध्यर्थत्वेन भाष्यमुपपादयितुमाह एतावान्वेति। पुरोडाशे ऽप्यवदानानन्तरमप्राप्तमदृष्टार्थं पेषणं पूर्वपक्षे सिद्धान्ते तु तन्नास्तीति विशेषसूचन्नायापिशब्दः।

पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणम्॥१५॥

एकस्मिन्नेकसंयोगात् ३९। पौष्णमित्यादिभाष्येण प्रासङ्गिकसङ्गत्युक्तिपूर्वं सन्देहमुत्त्का सौमापौप्णे विधितो ऽर्द्धपेषणनिश्चयादुदाहरणाभाव किं द्विदवत्य इति भाष्येणाशङ्क्य राजसूयइत्यनेनैन्द्रापोष्णस्योदाहरणत्वमुत्त्कैकस्मिन्नेव पूष्णि देवतायां पेषणं न सद्वितीय इति सिद्धान्तोत्तयर्थत्वेन सूत्रव्याख्यार्थ किमिति भाष्य देवताभागधर्मत्वं विना सर्वपेषणे धर्मविप्रतिपेधसूत्रोक्तभागसङ्करासिद्धेर्देवताभागधर्मत्वाक्ष्युपगमेनपदसार्थ्यावगम्यनिरपेक्षपूपसंयोगधर्मविप्रतिषेधाक्ष्यां सिद्धान्तोत्तयर्थत्वावगमात्तयोश्चापि वेति पूर्वपक्षसूत्रवक्ष्यमाणन्यायेन सुपरिहरत्वादयुक्तमाशङ्क्योपक्रममात्रार्थतयोपपादयितुं सर्व भाष्यं सङ्क्षिप्य व्याचष्टे इदानीमिति। उपक्रमते तावदित्यन्वयावुपक्रममात्रत्वोक्तिः। तद्धितसमासवत्पदमात्रे ऽपि समर्थः पदविधिरिति सामर्थ्यापेक्षत्वस्मरणात्सापेक्षत्वे च व्यपेक्षालक्षणसामर्थ्यव्याघातापत्तेर्निरपेक्षस्य पूष्णः प्रपिष्टभागसमासार्थत्वलक्षणात्संयोगादित्येवं केवलचतुर्द्धाकरणदृष्टान्तोक्तिक्ष्यां हेतुव्याख्यासूचनार्थ केवलेति भाष्यं ब्याचष्टे पूषेति। तथाभूतोत्तय निरपेक्षपूपसंयुक्ततोक्ता॥ धर्मविप्रतिषेधाच्च ४०। सूत्रव्याख्यार्थ द्विदेवत्य इत्यादि भाष्यं सङ्क्षिप्य व्याचष्टे। इत [९०५।१] श्चेति। तत्र यद्यऽथाविरोधमिति भाष्यस्थयद्यथशब्दसूचितविकल्पव्याख्यार्थ पूर्वार्द्ध स्पष्टत्वादव्याख्याय तत्रेत्यादिसविप्रतिषिद्धयैतेत्यन्तभाष्यावयवव्याख्यार्थ तृतीयं पादं व्याचष्टे। अर्द्धेति। पिष्टस्य तशडुलेषु विलयनादवैशद्येनानोदनत्वे ऽपि चरोर्वैशद्यानपेक्षत्वात्कथमचरुत्वापत्तिरित्याशङ्क्यान्योन्यासंलग्नत्वलक्षणस्वाभाविकवैशद्यानपेक्षत्वे ऽपि पाकविशेषापाद्यान्योन्यावयवानन्तर्गतिलक्षणवैशद्यापेक्षत्वादचरुत्वापत्तिं पाकनिमित्तञ्चेति भाष्यावयवोक्तां परिहारत्वेन वक्तुं पाकवैशद्येन हीक्त्त्युक्तं अथेत्यनेनेपत्पक्वेषु स्थाल्यां पिष्टनिक्षेपाद्वैशद्यसिद्धिमाशङ्क्य तत इत्यनेन पिष्टतणडुलभागयोर्द्धयोरप्येकयागसा धत्वेनैकहविष्ट्वात्कृत्स्नस्य च हविषो हवीम्पि श्रपयतीति युगपछ्रपणविधानाछ्रपणार्थस्य निक्षेपस्यापि यौगपद्यमिहातिदेशाद्गम्यमानं बाध्येतेत्युक्तम्। अथेत्यादिक्रियेतेत्यन्तभाष्यावयवव्याख्यार्थं चतुर्थ पादं व्याचष्टे पूवेति। अर्द्धपेषणवत्पृथक्करणाशक्तावपि बुद्धयानिष्कर्पसम्भवादवैगुण्यमाशङ्क्य सर्वपेषणे ऽर्द्धपेषणवत्पिष्टापिष्टविवेकाभावाद्यावान्पिष्टो भागस्तावान्पूष्ण इत्येवं वुद्धया निष्कर्षायोगसूचनार्थ भागसङ्करोक्तिः। भाष्ये भागस्य प्रदेयावदानप्रकृतित्वात्प्रकृतिव्यत्ययोक्तावपि स्वमतेन कृत्स्रस्य भागस्य प्रदेयत्वं मत्वा भागव्यत्ययोक्तिः। द्विदेवत्ये हविषि देवताभेदाद्गागकल्पनामापाद्य सर्वपेषणो सङ्करापादनेन व्यत्ययापादनाद्वैगुण्यापादनमपेपणपक्षे ऽपि साम्यादेकस्मिन्पक्षे पर्यनुयोगानुपपत्तेरयुक्तमित्याशङ्कते ननु चेति। अपेषणो सङ्करानापत्तेः पर्यनुयोगासाम्यमाशङ्क्य दानात्प्राग्घविषोऽपृथक्करणाद्दानकाले च भिन्नदेवतान्वयसिद्धयर्थमर्द्धमस्यै देवताया अर्द्धमस्या इति बुद्धया पृथक्करणात्सङ्करापत्तिमुपपादयति। तथा हीति। दानवेलायां बुद्धया निष्कर्पाभावे प्रागपृथक्करणे ऽपि सङ्करस्य व्यत्ययानापादकत्वेन तन्निमित्तवैगुण्यापादकत्वासिद्धेः पूर्वविशेषणसामर्थ्यलभ्यं पश्चात्पृथक्करणमपि विवक्षितम्। अतो ऽधिष्ठानभेदे ऽपि व्यासङ्गित्वेन देवतात्वस्याभेदाद्दानकाले बुद्धया निष्कर्षहेत्वभावेन व्यत्ययापत्तिद्वारवैगुण्यानापत्तिर्यथा पेपणशून्येषु द्विदेवत्येषु निर्दोषत्वात्सङ्करोऽङ्गीकृतस्तथा पेपणयुक्तेष्वपि निर्दोषत्वादङ्गीकार्य इति परिहारसाम्यं सूचयितुमाह स चेति। वैगुण्यं विरोधोक्तं मिश्रोत्तया चापृथक्करणम्॥ अपेषणवादमते धर्माणां यागापूर्वप्रयुक्तत्वात्तस्य चैकत्वात्तत्त्साधनकृत्स्नद्रव्याश्रितत्वेन पृथक्करणानपेक्षतया द्रव्यस्य पृथक्करणाभावात्कृत्स्नस्य युगपद्दानोपपत्तेर्भागाभावेन सङ्कराभावाद्वैगुण्यानापत्तिः पेषणवादिमते तु देवताप्रयुक्तत्वाभावे द्विदेवत्ये पेषणप्रयोजकपूषदेवत्ययागापूर्वप्रयुक्तत्वेनानवस्थितत्वात्प्रयोजकाभावे नापेषणापत्तेर्देवताप्रयुक्तत्वस्याक्ष्युपगमनीयत्वाद्देवताभेदाद्द्रव्यपृथक्करणापत्तेर्युगपद्दानविधानाच्च दानकाले सङ्करापत्तेर्वैगुण्यापत्तिरितिवैषम्योत्तया परिहरति उच्यतइति एवमिदमंशद्वाक्ष्यां मिश्रस्य युगपद्दानपरामर्शादस्मत्पक्षे धर्माणां यागापूर्वप्रयुक्तत्वादिदन्दानमेवम्मिश्रस्य युगपदविरुद्धं भवेद्भवत्यक्षे तु पेषणस्य देवताप्रयुक्तत्वेन भिन्नदेवतान्वयार्थ द्रव्यपृथक्करणाक्षेपान्मिश्रस्य युगपद्दानं विरुद्धमित्यर्थः। द्विदेवत्येष्वपेषणे ऽपि वैगुण्यं समानमिति यदुक्तं तदैन्द्रापौष्णविषयं द्विदेवत्यान्तरविपयं वेति विकल्प्पाकृकल्पे तावत्प्रयोजकाभावादेवापेषणसिर्द्धेर्वैगुण्यापत्तिसाम्योक्तिर्व्यर्था। द्वितीये नु प्रयोजकाभावात्पृथक्करणापत्त्या मङ्करानापतेंस्तन्निमित्तवैगुण्यानापत्तिरिति सूचयन् पूर्वार्द्ध व्याचष्टे अस्मत्पक्षे पुनरिति। सद्वितीयपूषदेवत्ये तस्य पेषणस्य पूषदेवत्ययागापूर्वप्रयुक्तत्वेनावस्थितत्वात्प्रयोजकाभावनै14 वाप्रवृत्तिस्ततश्च वैगुण्यसाम्योक्तिर्व्यर्थेत्याशयः। इत्येवेत्यप्रवृत्तिशब्दादपकृष्यहेत्वर्थेनेतिकरणेनैवकारो ऽन्वेतव्य। द्विदेवत्यान्तरेष्वपि यागापूर्वप्रयुक्तत्वप्रकारतैवेतिकृत्वा देवताया गुणभूतत्वात्तदनुरोधेन प्रधानावृत्त्यनौचित्येन युगपत्सर्वहविर्दानश्याक्ष्युपगमनीयत्वात्तदर्थ सर्वस्मिन्हविष्यादित आरक्ष्य सहकियमाणे पृथक्करणाभावेन दोपतयोक्तस्य सङ्करस्य दानकालेऽनाश्रयणादङ्गीकृतत्वोक्तिरयुक्तेत्याशयः। उत्तरार्द्ध व्याचष्टे भवता पुनरिति। असङ्कीर्णमपेक्षत इति हेतोरसकीर्णभागदानानुष्ठानौचित्यान्मिश्रदेवतोद्देशपूर्वकदानविध्याक्षिप्तयुगपत्कृत्स्नदानसिद्धयै दानकाले सङ्करापत्तेर्वैगुण्यापत्तिरपरिहार्येत्याशयः। एव द्विदेवत्ये ऽर्द्धस्य कृत्स्नस्य वा पेपणं स्यादिति पक्षद्वयं तुल्यबलत्वेन विकल्प्य दूषणोक्तयर्यत्वेन तत्र यदीत्यादिभाष्यं व्याख्यायाधुनैतदेव भाष्यं यदिपिष्येत तत्र तस्मिन्पक्षे पूष्ण एव भागः पिष्यते नेतरस्ततश्च पाकवैषम्यापत्तिरित्येवमन्यथा व्याख्यातुमाह आदिश्चेति। यदा [९०९।२] त्वसङ्कीर्णभागं देवतापेक्षते तदा तु सर्वपृष्ठायां रथचक्रमात्रैकपुरोडाशविधौ यावद्देवतं चतुर्मुष्टिनिर्वापभेदवादिहापि चतुर्मुष्टिनिर्वापभेदापत्तेर्निर्वापवेलायामेव भागकल्पनादर्द्धपेपणमेवोचितं न सर्वपेषणमित्यर्द्धपेपणस्य पूर्वपक्ष्यभिमतत्वसूचनार्थश्चकारः। अथेतिभाष्यमर्धपेपणौचित्ये ऽपि पाकवैपभ्याख्यविरोधपरिहारार्थ कृत्स्रपेपणं पूर्वपक्ष्यनभिमतमप्याशङ्क्य वैगुण्यापादनेन निरासार्थमित्येवमन्यथा व्याख्यातुमाह अथेति। अपेषणवादिमते ऽपि सम्मोहशब्दोक्तसङ्करसाम्येनैकस्य पर्यनुयोज्यत्वात्सङ्करे ऽप्यदोप इत्याशयेन तत्र को दोष इति ष्टष्ट्वा ऽम्मतूपक्षे यागापूर्वप्रयुक्तत्वाद्धर्माणां द्विदेवत्ये ऽपि च हविपि यागापूर्वैक्येन चतुर्मुष्टिनिर्वापमेदायोगादनुत्प न्नभागविवेकस्य हविषो विविक्तदेवतान्वयानवधारणात्सेकराख्यो दोषो न जायते भवत्पक्षे तु देवताप्रयुक्तत्वं विना द्विदेवत्ये पेषणग्रयोजकपुषदेवत्ययागापूर्वा भावेन पेषणासिद्धेस्तत्सिद्धयै देवताप्रयुक्त त्याक्ष्युपगमाद्देवता भेदेन चतुर्नुष्टिनिर्वापभेदनिवन्धन भागवि।?।पनापत्तेश्चतुर्मुष्टिद्वयैकीकरणाक्षेपकवचनाभावाच्च रथचक्रमात्रपुगेडागयन्निर्वाषोत्तरमङ्ककिरणानुपपत्तेग्सङ्कीर्णाभागदानौचित्यादृद्वावगतेरितरेतरयुक्तदेवतोद्देशपूर्वकदानविध्याक्षिप्तसकृत्‌कृ स्नदानगिद्धतै दानकाले सङ्करकरणाद्वैगुण्यापत्तिरित्यतुल्यपर्यनुयोगोतयर्थमन्यस्येति भाष्यमित्येवं ननु चैतत्सर्वमित्यादिवा र्तिकाक्तयोः शङ्कापरिहारयोरेतद्भाष्यारूढत्वसूचनार्थ यावदित्युक्तम्। कृत्तषपणानौचित्ये ऽपि देवताप्रयुक्तत्वेन चतुर्मुष्टिनिर्वापभेदाद्धविर्भेदावगतेर्मेदेनैव पाकान्नार्द्धपेषणे ऽपिे पाकवैपम्यापत्तिरित्याशङ्कते पात्रेति। विहितैकत्वविरोधिचरुभेदापादकत्वाद्भेदेन पाको न युक इति परिहरति नेति आचार्यप्रयुक्तद्वितीयान्यथानुपपत्या शाखान्तरीयमैन्द्रापौष्णं चरु निर्वपेदिति द्वितीयान्तचरुशब्दयुक्तं वाक्यं प्रकल्प्य तस्मादपीति सूत्रार्थोपसंहारभाष्य व्याचष्टे अत इति ॥ अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात्॥४१॥ पूर्वपक्षप्रनिज्ञार्थमपिवेतिसूवावयवं व्याचष्टे सद्वितीयेपीति वाशव्दस्य निरपेक्षपूषसंयोगधर्मविप्रतिषेधहेतुकसिद्धान्तनिवृत्यर्थत्वसूचनायैवकार। निरपेक्षपूषसयोगधमीविप्रतिपेधाक्ष्यां सद्वितीये पूष्णि देवतायां सत्यां चरावपेपणावगतेः कुतः पेषणं स्यादिति हेतुप्रश्नोत्तरत्वेन देवतानिमित्तत्वादिति सूत्रावयवव्याख्यार्य देवतानिमित्तमिति भाष्यं व्यतिरेकमुखेन तावह्याचष्टे कुत इति। पूरुषोद्दशेन त्यज्यमानत्वलक्षणपूषदे वत्यत्वाख्यस्य पौष्णत्वस्य सा क्षात्प्रवोजकन्वे प्रयोजकपूषदेवत्ययागापूर्वसाधनद्वारत्वे वा द्विदे वत्ये देवतासूतेन पूष्णा योगाभावात्पेषण न स्यान्नत्वेनद्दूयमप्यस्तीत्याशय। पौष्णत्वस्य माक्षात्प्रयोजकत्वे यागोक्तिलक्षितयागापूर्वभाधनत्वानपेक्षस्य पौण्णस्य हविष षेषण प्रति शेषित्वापत्तः षौष्णत्वस्य प्रयोजकत्वसृवनार्था पौष्णाङ्गत्वोक्तिः। द्वारत्वे पौष्णस्य लतो यागापूर्वसाधनम्य शेपित्वापत्तेर्द्वारत्वसूचनार्था तस्य पौष्णस्य सतोयागापूर्वाङ्गस्याङ्गं यदि स्यादिति पौष्णपरामर्शिना तच्छब्देन समानाधिकरणेन पौष्णत्वस्य यागापूर्वसाधनाविशेषणत्वोक्तिः। अन्वयमुखेनैतदेव भाष्य व्याचष्टे पूषेति। सीदतेस्तस्मिन्सीदेत्यादौ तिष्ठत्यर्थे प्रयोगात्तिष्ठतेश्चाधिपूर्वस्यास्मिन् ग्रामे देवदतो ऽधिष्ठातेत्यादौ म्वाम्यवाचित्वदर्शनात्सीदत्यधितिष्टति स्वामी भवतीत्यरिमन्नर्थे सीदतेः क्विष्प्रत्ययमुत्पाद्य सदो ऽवितिष्ठत स्वामिनो भाव इति व्युत्पत्त्या सद्भावशब्देन स्वामित्वाभिधानात्सद्वितीयपूषोद्देशेनापि च त्यक्ते द्रव्ये गणोद्देशेनापि दत्ते ग्रामादौ तदंशे प्रत्ये कं यथेष्टपिनियोक्तृत्वलक्षणस्वाम्यदर्शतादर्द्धे केवलस्य पूष्णः स्वाम्योपपत्तेर्नवमे चापूर्वप्रयुक्तन्वे वक्ष्यमाणे ऽपि द्वागविशेषानपेक्षायां स्रुगादिष्वपि पेषणापत्तेर्द्वारविशेषस्यावश्याक्ष्युपगमनीयत्वाद्भागश्रुत्यालोचनया यत्पूषस्वामिकत्वाख्यपूषभागत्वद्धारापूर्वसाधनं तत्षेषणो पमित्य यं पूषभागत्यस्य द्वारत्वावगतेः पूष्णो यः सद्भावो ऽधिष्ठातृभावः स्वामिभावस्तन्निमित्तं तद्दूारापूर्वसाधनत्वप्रयुक्तम् पेषणमित्यर्थः। द्वारानपेक्षस्य पूर्वसाधनत्वमात्रस्याप्रयोजकत्वेनापूर्वमाधनत्वस्य प्रयोजकत्वे द्वारस्य निमित्तत्वावगमान्निमित्तोत्तया देवतास्वामिकत्वस्य द्वाग्त्वाक्ष्युपगमे सद्वितीयाग्निदेवत्ये ऽपि पुरोडाशे ऽर्द्वस्य केवलाग्निस्वामिकत्वाच्चतुर्द्धाकरण स्यादित्याशङ्क्य देवतातद्धितात्तत्राग्न्युद्देशेन त्याज्यत्वस्य द्वारतावगम्येत ऽत्र तु भज्यते सेव्यतइति व्युत्पत्या भागशब्दस्य सेवनार्हत्ववाचित्वाद्देवतायाश्च भोक्तृत्वा भावेन मुख्यदेवतासेवनार्हत्वायोगाल्लक्षणया स्वत्ववाचित्बावगतेः स्ववाक्योपात्तद्वारासम्भवे च द्वारान्तरकल्पनायोगात्पूपस्वत्तैव द्वारमिति वैषम्यसूचनायैतच्छब्दः। अनेन च सूत्रभाष्ययोर्द्देवताशब्दः स्वामित्ववाची न तु त्याज्यद्रव्योद्देश्यत्ववाचीति सूचितम्। चरौ पेषणविधे प्राकृतपेषणप्रतिप्रसवार्थत्वात्प्रकृतौ च यागोत्पत्तिवाक्यस्थदेवतातद्धितालोचनया देवतोहेशेन त्याज्यस्य द्वारत्यावगमात्तस्यैवेहातिदेशाद्द्वारत्वावगतेरनपेक्षितद्वारान्तरकल्पना न युक्तेत्याशङ्क्य भागशब्दनैव पूषखताया द्वारत्वस्यौक्तत्तेन कल्पनीयत्वाच्छुतन च द्वारेणातिदेशिकद्वारबाधान्नेह पूषोद्देशेन त्याज्यताया द्वारता युक्तेति सूचयितुमाह नेति। न पूपदेवत्यद्रव्यनिमितमिति वाच्यद्रव्यान्वयानपेक्षाया देवतायाः सम्वन्धाभावेन द्रव्यपेषणे निमित्तत्वायोगाद्द्रव्यान्विताया निमित्त त्वस्याक्ष्युपगमनी यत्वेनान्वयस्य द्विष्ठत्वाद्द्रव्यस्यापि निमित्तान्तर्भा वापत्तेः पूपदेवत्यस्य द्रव्यस्य निमित्तत्वनिषेधायोगमाशङ्क्य द्रव्य देवतान्वयस्य निमित्तत्वे सत्यपि स्वस्वामिभावात्मको ऽन्वयो नि मित्तं न तूद्दिश्यत्यागात्मक इति सूचनायोद्दिश्यत्यागात्मके ऽन्वरं देवताया गुणत्वे देवताश्रुतिरिति न्यायेन गुणत्वात्स्वस्वाभिभावात्म के तु स्वामित्वेन प्राधान्याद् गुणत्वेन देवताया निमित्तत्वनिरासद्वा रोद्दिश्यत्यागात्मकस्य द्रव्यदेवतान्ययस्य निमित्तत्वनिरासार्थं पूपा प्रति प्रधानभूतं सद्द्रव्यं न निमित्तमिति विवक्षितत्वात्तद्धितनिर्देशं देवतायाः प्रकृत्यर्थथ्वेन विशेणत्वात् गुणता द्रव्यस्य प्रत्ययार्थत्वे।?। विशेष्यत्यात्प्रधानता युक्ता ऽत्र त्वन्यपदार्थत्वात्प्रधानतैव पूष्णो युक्त न गुणतेत्युपपत्तिं सूचयितुं न पूषविशेषितद्रव्यनिमित्तं षेषणं कि ।?। पूषविशेषणभूतद्रव्यनिमित्तमिति विशेषितशब्दप्रयोगः। द्रव्य शब्दं प्रयोज्ये वस्तुलक्षणो गुणप्राधान्यरूपो ऽत्र विशेषणविशेष्यभावो विव क्षितो न तु शब्दलक्षणो ऽबच्छेद्यावच्छेदकरूप इति द्योतनाथ वस्तुशव्दः। पूषा प्रषिष्टभाग इत्यन्यपदार्थत्येन प्रधानतया पूष्ण श्रवणात्स्वाम्यलक्षणदेवतामूतपूपनिम्मित्त पेषणं न तूद्देश्यभूतपूष निमित्तमिति देवतानिमित्तमिति भाष्येणोक्ते देवतायाः स्वाम्यस्य त्यज्यमानद्रव्योद्दश्यत्वापाद्यत्वाद्द्विदेवत्ये चैकस्योद्देश्यत्वाभावाद्द्वि देवत्ये केवलस्य पूष्णः स्वाम्यायोगमाशङ्क्य सकृद्देवदत्तयज्ञदत्तो द्देशेन दत्ते द्रव्ये ऽर्द्वस्य देवदत्तः स्वामीति व्यपदेशान्मिश्रोद्देश स्याप्यर्द्धे प्रत्येकस्वाम्यापादकत्वप्रसिद्धेः स पूषा द्बिदेवत्ये ऽपि द्रव्ये य स्वकीयत्वेन भजनीयत्वोपचारादर्द्धत्वाच्च भागस्त स्मिन्देवता स्वामी भवतीत्येवं परिहारसूचनार्यत्वेन स च द्विदेयतो ऽपि भागे भवतीत्येतावद्भाष्यमवच्छिद्य व्यतिरेकमुखेन व्या ख्यातुमाह व्यासङ्गित्वाच्चेति गुणभूतोद्देश्यत्वलक्षणदेवतात्वस्य द्विदेवत्ये व्यामङ्गित्वाद्यद्यपि पूषोद्देशेन त्यज्यमानत्वनिमित्ता पूष्ण प्राधान्यरूपा पूषविशिष्टता न स्यात्तथापि पूषा विशिष्टभूत प्रधानभूतः स्वामिभूतो न नास्ति किन्त्बस्त्येवेत्युक्ते देवताया भो क्तृत्ववत्स्वाम्यस्यापि नवमे निषेत्स्यमानत्वेनैकदेवत्ये ऽपि षूष्ण स्वाम्याभावाद्विदेवत्ये सुतरामभाव इत्याशङ्क्य यागस्य देवतारा धनार्थत्वनिरासार्थ देवताया यथेष्टविनियोक्तृत्वाख्यस्वाम्याभावेनादातृत्वादनाराध्यत्वोक्तयै यथेष्टविनियोक्तृत्त्वाख्यस्वाम्यनिषेधे ऽपि जीवत्पितृकस्य यथेष्टविनियोक्तृत्वाख्यस्वाभ्यभावे ऽपि पितृद्रव्ये ऽम्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धापादकत्वाख्यस्वाम्यसद्भाववद्देवताया अपि स्वोद्देशेन त्यक्ते द्रव्ये ऽन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धापादकत्वाख्यं स्वाम्यं देवस्यं ब्राह्मणस्वं च लोभेनोपहिनस्ति य इत्यादिस्मृतेर्देवतोद्देशेन त्यक्ते यथेष्टविनियोगार्हत्वप्रसिद्धे चास्त्येवेति परिहारसूचनार्थत्वेन भाष्यस्थाया भागोक्तेर्भजनीयवाचिताया व्याख्यार्थ पूष्णः स्वकीयाख्यो भागो न नास्ति किं त्वस्त्येवेत्युक्तम्। द्विदेवत्यस्य द्वयोद्देशेन त्यक्तत्वादेकस्वामिकत्वायोगमाशङ्क्यान्योद्देशेन त्यक्तस्य यच्चान्यस्मै प्रतिश्रुतमित्यादिस्मृत्यालोचनया यथेष्टविनियोगानर्हत्वावगतेर्देवतोद्देशेन त्यागस्यानन्यविनियोज्यत्वलक्षणदेवतास्वत्व। पादनपर्यन्तत्वावगमाद्देवताद्वयोद्देशेन त्यक्ते द्रव्ये द्वयो स्वाम्ये ऽवगते दम्पतिवद्देवताद्वयस्य सहत्यैकद्रव्यसाध्यकर्मकारित्वाभावाज्जायापत्योर्न विभागो विद्यतइतिवच्च विभागनिपेधाभावात्संहत्य स्वाम्यानवगतेरनेकस्वामिके च विभागं विना प्रत्येकं स्वाम्यायोगाद्विभकस्यैकैकस्वामिकत्वोपपत्तिसूचनार्थत्वेनार्द्धवाचितयापि भागोक्तिव्याख्यार्थ स्वकीयाख्यो वा भागो न नास्तीति विवक्षार्थो वाशब्दः। मनोताधिकरणभाष्ये चाग्नीषोमीये पशावग्नेर्देवतात्वाभावे ऽपि समवेतत्वोक्तेर्द्रव्यान्वयानपेक्षस्वरूपसत्तामात्रार्थत्वे ऽग्नेः कर्मसमवायाभावेनाप्रकाश्यत्वापत्तेर्द्रव्यान्वितत्वोत्तयर्थत्वावसायाद्द्विदेवत्ये चैकस्याग्नेः स्वस्वामिभावातिरिक्तद्रव्यान्वयायोगान्निर्विशेषान्वयसामान्यायोगाच्च स्वामित्वेनाग्निरसमवेतो न भवति किं तु स्वामित्वेन समवेतएवेति वक्ष्यमाणत्वादुद्देश्यत्वातिरिक्ता देवताया। स्वामिता द्विदेवत्ये ऽपि चैकस्या भाष्यकृतो ऽभिप्रेतेति स्वाम्योक्तयर्यत्वेन सचेतिभाष्यव्याख्यौचित्यसूचनायाह यथैति। व्याख्यातं भाष्यार्थ विवृण्यननुपसंहरति तेनेति। अर्द्वस्य पूषभागत्वे ऽप्यर्द्धपेषणे पाकवैपम्यापत्तेः स र्वपेषणे भागसङ्करापत्तेरपेपणमाशङ्क्य भागस्यार्द्धस्यैव पेषणात्प्रकृष्टपिष्टभागः सुपक्वपिष्टभाग पूपाकृतो भवतीत्येवं परिहारार्थत्वेन सचेत्येतदेव कृत्स्नं भाष्यं सर्वापेषणे ऽपि पौष्णभागानुरोधेनेतरस्य पेषणीयत्वात्पेषणकाले ऽवश्यमस्मिन्द्र व्ये ऽर्द्धं पूष्णो ऽर्द्धमिन्द्रस्येति बुद्धया निष्कर्षणीयत्वापत्तेर्दानकाले ऽपि पुनरभ्युन्नीतवद्यत्येयणकाले पूषभागत्वेन निष्कृष्टं तत्पूष्णे यदिन्द्रभागत्वेन तदिन्द्रायेति पुद्धया निष्कर्पसम्भवान्न सङ्करापत्तिरिति प्रौढिसूचनार्थत्वेनापि भाग [९०७।१] इत्यपिशव्दव्याख्यापूर्व व्याचष्टे तस्यन्ति। अस्य भागः पेष्टव्य इन्युपसंहारभाष्यस्थभागशब्दालोचनया सर्वपेषणस्यानभिमतत्वसूचनाय श्रुतोक्तिः। स्थाल्युपरिभागे वस्त्रादिना पिष्टधारणादिप्रकारणे केन चिन्नैपुण्येन पचनाद्युगपन्निक्षेपपात्रैक्ययौः पाकगुणतया पाकानुरोधन वाधाद्वा पाकदोषाभावं निरूप्योपपाद्य पेपणं कार्यमेवेत्यर्थः॥ न यथेत्यादि भाष्य यथा चतुर्द्वाकरणइति पूर्वपक्ष भाष्योक्तदृष्टान्तवैपम्योक्तयर्यत्वेन दृष्टान्तानुभाषणपूर्व व्याचष्टे अथेति। समर्थयोरेवेति भाष्यस्थैवकारसूचितस्याविघातस्य सापेक्षत्वदोपाभावहेतुत्वोक्त्य र्यया सामर्थ्याविघातादिति पञ्चम्या न त्वत्रेति भाष्यस्थस्य तुशब्द स्यातो नात्रेत्येवमत शब्दार्थे व्याख्येयत्वं सूचितम्। पदमात्रे सामर्थ्यापेक्षत्वस्मृतेः प्रकृत्यर्थस्य प्रत्ययार्थान्वयसिद्धयर्यत्वात्प्रथमान्तपदोक्तस्य च पूष्णो देवतात्वे ऽन्यापेक्षस्यापि प्रत्ययार्थलिङ्गसङ्ख्यान्वये स्वाभाविकनिरपेक्षान्वयावगमेनान्यापेक्षायोगादेकसंयोगादितिसूत्रावयवोक्तनिरपेक्षसंयोगाविरोधसूचनार्थं न किं चिदित्युक्तम्। तस्मादिति पूर्वपक्षमूत्रार्थोपसंहारभाष्यस्थं तस्माच्छब्द सापेक्षत्व दोषाभावोक्तिसूचितस्य द्विदेवत्ये ऽपि पूष्णः स्वामित्वेनपेष्टव्यद्रव्योपलक्षणत्वसम्भवस्यार्द्धपेषणहेतुत्वेन परामर्शार्थतया व्याख्यातुमाह इतीति । लिङ्गदर्शनाच्च॥४२॥ पेषणस्य भोजनार्हत्वापादनार्यत्वलिङ्गादपि भोजनार्हत्वोपचरितादन्तकपूषस्वामिकत्वद्वारत्वावगतेर्द्विदेवत्ये ऽपि पेपण गम्यतइत्येवमर्थत्वेन सूत्रव्याख्यार्थ लिङ्गमपीत्यादिमाष्यं व्याचष्टे अदन्तको हीति। पेषणमितीति भाष्यस्थमितिकरणमेतत्प्रभूतिस्तुतिर्दर्शयतीत्येवं प्रभृत्यर्थत्वाद्द्विदेवत्ये ऽपि पेपणं दर्शयतीत्येवमर्यत्वेन व्याख्यातुमाह न चेति। तथा सौम्या पौष्ण तथार्द्वपिति च लिङ्गद्वयान्तरोत्तयर्थं भाष्यद्वयमेकहेलया व्यावष्टे तथेति । वचनात्सर्वपेषणं तं प्रति शास्रवत्वादर्थामावाद्धि चरावपेषणं भवति॥४३॥ चोद्यपदोत्तयर्थ कस्मादिति भाष्यमननुवादत्वात्पूर्वपक्षलिङ्गत्वयोगोत्तयै पूषवाक्येतैव द्विदेत्ये ऽपि पेषणविधौ सोमापौष्णं ऽपि तेनैव पेपणसिद्धर्नेमपिष्ठादि विध्यानर्यक्यप्रसङ्गात्सिद्धान्तलिङ्गत्योत्तयैवेत्येव द्विधा व्याचष्टे विधित्वादिति। मस्मात्पिष्टविधानादङ्गीकृतात्सर्वत्र [९०८] चरौ पशौ पुरोडाशे पेषणं प्रसज्येतेत्यनिष्टापाइनरूपोत्तरत्वेन वचनादिति सूत्रावयवव्याख्यार्थमुच्यतइत्यादिनेमपिष्ठतेत्यन्त भाष्यं व्याचष्टे अत इति। चरुमनूद्य सर्वत्र सोमापौष्णे ऽन्यदेवत्ये च पेषणं यिदध्यादित्यपि पुरोडाशे चेति चकारेण सूचिते चर्वनुवादेन पेषणविधावपि चरोर्नेमपिष्टान्वयवत्सोमापौष्णान्वयस्यापि विधानादन्यदेवत्य पेषणानापत्तिमाशङ्क्य सोमापौष्णनेमपिष्टाक्ष्यां चरोः सम्वन्धविधौ नेमपिष्टसन्बन्धे वेति चकारसूचिते च सोमापौष्णानुवादेन पेषणविधावपि सोमापौष्णस्य नेमपिष्टान्वयवञ्जर्वन्वयस्यापि विधानात्पशुपुरोडाशयो पेपणानापत्तिमाशङ्क्य चरुनेमपिष्टाक्ष्याँ सोमापौष्णसम्बन्धविवौ वाक्यभेदोत्तयर्थत्वेन भाष्यं व्याख्यातुं चरुं वेत्याद्युक्तम्। यो य सोमापौष्ण इत्यनेन यो यश्चरुरित्यप्युपलक्षितमिति सूचयितुं सर्वत्र चरौ सर्वत्र च सोमापौष्णे पेषणं प्राप्नोतीत्युक्तम्। सर्वपेषणापत्तौ को दोष इत्याशङ्कयाह ततश्चेति विविच्यानर्थक्यं विवृणोति तदिति। तत्रेत्यस्मिन्नर्थे तदित्यव्यय। आनर्थक्यस्यैकदेशानुवादत्वहेतुकत्वं पूर्वव च्छब्देनोक्तम्। सूक्तस्य सोमापौष्णस्यापि पेषणाशक्तेः पेषणविधौ हविर्विशेषणानपेक्षसोमापौष्णोद्देशायोगेन मृष्यामहे हविया विशेषणमितिवच्चर्वाख्यदविर्विशिष्टस्यैव सोमापौष्णस्योद्देश्यत्वावगमाद्विध्यानर्थक्यापत्तेश्चापूर्वसाधनत्वापादकदेघतान्वयानपेक्षचरूद्देशायोगेन सोमापौष्णशव्दोक्तदेवतान्वयविशिष्टस्यैय चरोरुद्दश्यत्वावगमान्न सर्वपेषणापत्तिरित्याशङ्कय पेषणार्हत्वालोचनयैव सोमापौष्णशब्दस्य हविर्विपयत्वावगतेरुपधानार्थस्य च चरोर्देवतान्वसभावे ऽप्यपूर्वसाधनत्वसम्भवेन देवतान्वयानपेक्षताया विशेषणानपेक्षत्वात् दुर्वारा सर्वपेषण पत्तिगिति परिहारसूचना र्यत्वेन त पेषणविधावुद्देश्य सोमापौष्णं चरुं वा सर्व प्रतीत्योपलक्षणीकृत्योद्दिश्य पेषणस्य शास्त्रविषयत्वाख्यशास्त्रवत्वसम्भवादित्येवं तं प्रतीतिसूत्रावयवव्याख्यार्थ तं प्रतीतिभाष्यं व्याचष्टे तं प्रति हीति। भाष्यवार्त्तिकयोः सोमापौष्णशब्देन चरुरप्युपलक्षितः। सर्वपरामर्शित्वेन तच्छब्दव्याख्यार्थमात्रशब्दव्याख्यानायाविशेषितशब्दः। शास्त्रवत्वादिति पञ्चमीं व्याखातुं भाष्ये हिशब्दाध्याहारसूचनार्थो हिशब्दः। सोमापौष्णमात्रमुद्दिश्यपेषणस्य शास्त्रविपयत्वसम्भवे ऽपि पुरोडाशे ऽर्थादेव प्राप्ते पशौ च हृदयाद्याकृतिकावयवोत्साददेशापादानकावदानसाध्यप्रधानरुपार्थाभावापत्तेर्विध्ययोगेन पारिशेष्यात्केवलचरुविषयत्वमाशङ्क्य पुरोडाशे ऽर्थादासमन्तात्सर्वस्य पेषणभावापत्तेश्चरौ त्वन्योन्यावयवानन्तर्गतिलक्षणपाकवैशद्यासिद्धया चरुशब्द वाच्यचरुत्वाख्यार्थाभावापत्तेश्ररुशब्दोपलक्षिते च पशौ प्रधानाख्यप्रयोजनरूपार्था मावापत्तेर्हि यस्मादपेषणं भवति सर्वपेषणं न सम्भवति न त्वर्द्धपेषणं न सम्भवति तेनेदमर्द्धपेषणवचनं सर्वत्र सम्भवतीति परिहारार्थत्बेनार्थाभावाद्धीत्यादिसूत्रावयवव्याख्यार्थं पुरोडाशइतिभाष्यमश्रुतपुरोडाशशब्दाध्याहारापत्तेरभावादभावादिति च दीर्घहस्वाकारयुक्तत्वेनार्थाभावशब्दस्याश्रुतावूत्त्यापत्तेश्चरुशब्दस्य चार्द्धपेषणव्यावूत्त्यै स र्वपेषणवाचित्वकल्पनापत्तेर्वचनात्सर्वपेषणमिति सूत्रावयवानुपङ्गा पत्तेश्चापरितोषादुपेक्ष्यस्वयमर्थाभावादिति सूत्रावयवमुत्तरावयवाद वच्छिद्योद्देश्यस्य विशेषणान्वये वाक्यभेदापत्तेर्विशेषणरूपार्थाभावा त्सर्व प्रति पेषणस्य शास्त्रवत्वमित्येतत्त्सूत्रावयवार्थोपपादनार्थत्वेन व्याचष्टे विशेषणेति। तस्मान्नेमपिष्टत्वविधिपक्षे चरावे ब पेषणं यदभिमतं तन्न भवतीति पेषणशब्दसमस्तस्यापि नञो वि वक्षितार्थत्वलाभान्यथानुपपत्त्या भवतिशब्दान्वयमभिप्रेत्य विधित सर्वपेषणापत्युपसंहारार्थत्वेन स्वयं व्याचष्टे एतस्मिन्निति। अस्मिन्व्याख्याने यस्मादेव तस्मान्नास्य विधित्वाक्ष्युपगमेनालिङ्ग ता विपर्ययसावनता च शङ्कुनीयेत्येवं हिशब्दो योज्यः। नन्वङ्गनाश भयादित्याशङ्कापरिहारयोः पुरोडाशइति भाष्यव्याख्यातस्यार्थाभावा दित्यादिसूत्रावयवस्यैतच्छङ्कोत्तरत्वेन व्याख्यार्थत्वं सूचयितुं तवे त्यादिभाष्यात्प्रागपकृष्यव्याख्यार्थ नन्वित्याशङ्काभाष्यं तावह्याच नन्विति। शङ्काभाष्यस्योपलक्षणार्थान्षयमृचनायार्थप्रासन्य दित्युक्तम्। अर्थोक्तमित्यादिपूर्वाधिकरणसिद्धान्तसूत्रावयवारूढत्वं शङ्काया वकुमुक्ततोक्ता। नेतीति परिहारभाष्यमप्युपलक्षणार्थत्वेन व्याख्यातुमाह नेति। पुरोडाशेर्थप्राप्त्यप्रसङ्गं तावदुपपादयतिसर्वेति। अर्द्धपेषणे पिण्डानिष्पत्तेस्तत्साध्यपुरोडाशानिष्पत्तिमाशङ्कय शिथिलपिण्डनिष्पत्त्यापि पुरोडाशनिष्पत्तिमाह तावतापीति पशावर्थविप्रतिषेधाप्रसङ्गमुपपादयति हृदयादीनामपीति। उत्सादस्योत्कर्तनस्य यो हृदयाद्येकदेशो देशस्तद्वर्जमेकदेशान्तरे ऽपिष्यमाणानां हृदयादीनां तेपामाकारनाशः स्यादिति पूर्वाधिकरणभाष्योक्तस्य संस्थाननाशस्यात्यन्तमनापत्तेर्हृदयत्वादिजात्याश्रयभूतायाः संस्थानविशेषविशिष्टाया व्यक्तेरप्यत्यन्तमनाशेन जातेरनाशात्तस्योत्साददेशं प्रति मुह्येयुरिति भाष्योक्तस्य मोहस्यानापत्तेर्हृदयत्वादिजातिकावयवोत्साददेशपादानकावदानसाध्यप्रधानाख्यार्थाविप्रतिषेधाप्रमङ्गइत्यर्थः॥प्रसङ्गाच्चरोः सर्वपेषणे भागसम्मोहः स्यादिति धर्मविप्रतिषेधसूत्रस्थभाष्योक्तस्य कस्या देवताया को भाग इति मोहस्य तुल्यन्यायत्वात्पशौ प्राप्तस्यार्द्धपेषणे प्रसत्तयभावमाह इतरेति इतरस्य देवतान्तरभागस्य य उत्साददेशसतस्य देवतान्तरभागावदानापादानतया स्पष्टत्वेन पूषभागः पिष्टो ऽपि सनूयो देवतान्तर भागोत्साददेशव्यतिरिक्तादुत्साददेशादवत्तः सपूषभाग इत्येवमुपलक्षणसम्भवान्न मोहापत्तिरित्यर्थः। अनेन चाङ्गनाराशब्दोवदानप्रकृतित्वे नाङ्गस्य हृदयादेर्विनाशो ऽपादानत्वेन चाङ्गस्योत्साददेशस्य मोहो देवताङ्गस्य वार्द्धस्य मोह इत्येवं त्रेधा व्याख्यातः। पेषणस्य देवतानिमित्तत्वे पूषवाक्येनैव द्विदेवत्ये पेषणसिद्धेर्विध्यानर्थक्यप्रसङ्गाददृष्टार्थत्वावगतेः सद्वितीयपूषोद्देशेनाष्यपिष्टादर्द्धादवदानाविरोधात्रिविधो ऽप्यङ्गनाशो न प्रसज्यतइति परिहारान्तरार्थमपिष्टादिति भाष्य व्याचष्टे अथ वेति। भाष्यकारीयामर्थाभावाद्धीत्यादिमूत्रावयवव्याख्यामुपसहरति तस्मादिति। विधित्वे सर्वपेषणापत्तौ सूत्रेणोक्तायां सर्वपेषणापत्तावपि को दोष इत्याशङ्कावतारादुत्तरत्वेन सोमापौष्णोद्देशे चरुशब्दानर्थक्य चरूद्देशे सोमापौष्णशब्दानर्थक्यमिति दोषोत्तयर्थत्वात्तत्रेति भाष्यमिदानीं व्याचष्टे इनीति। भाष्यवार्त्तिकयोश्चरूत्तया सोमापौष्णोष्युपलक्षितः। पेषणन्तिभाष्यं पेषणविधावनिष्टापत्त्युक्ते पूर्वपक्षलिङ्गपेषणानुनादोपपादनार्थत्वेन व्याचष्टे इति चर्विति। नेमार्द्धपिष्टवाक्ययोः पेषणानुवादोपपादनस्य पूर्वपक्षलिङ्गत्वसिध्युपयोगोत्तयर्थं [९०९।१] तस्मादिति माष्यं व्याचष्टे अतश्चेति। एकस्मिन् वाऽर्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात्॥४४॥ एकस्मिन्वेति पूर्वपक्षनिरासप्रतिज्ञार्थसूत्रावयवव्याख्यार्थमेकेति भाष्यं व्याचष्टे एकस्मिन्नेवेति। हेतुप्रश्नोत्तरत्वेनार्थधर्म्मत्वादिति सूत्रावयवस्य व्यतिरेकमुखेन व्याख्यानार्थ नैष इति भाष्यं देवतानिमित्तत्वादिति पूर्वपक्षसूत्रावयवेन हविषः पेषणाख्यधर्मान्वये पूष्णो देवताशब्दोक्तस्य स्वामित्वस्य व्यधिकरणत्वेन साज्ञान्निमित्तशब्दोक्तद्वारत्वायोगात्पूपस्वत्वाख्यस्य पूषभागत्यस्य द्वारत्वोत्तया पेषणस्य पूषभागभूतापूर्वसाधनधर्मत्वाभिधानाद्देवताधर्मत्वानुक्तेस्तन्निरासायोगादयुक्तमाशङ्कय पूषभागधर्मत्वनिरासार्थत्वेनव्याचष्टे कुत इति। न देवताधर्म इति वदता न देवता भागधर्म्म इत्युक्तमित्यर्थः॥ अन्वयमुखेन व्याख्यार्थ कस्येत्यादियागइत्यन्तं भाष्यं व्याचष्टे पूषेति। यागस्य यो ऽर्थ प्रयोजनमपूर्व तद्धर्म पेषणमित्त्युक्ते पूर्वधर्मस्याप्यपूर्व्वसाधने ऽनुष्ठेयत्वात्साधनस्य च द्वार विशेषानपेक्षायां स्रुगादिष्वप्यनुष्ठानापत्तेर्द्वारविशेषे ऽवश्याक्ष्युपगमनीये भागश्रुत्यालोचनया पूषस्वामित्वाख्यस्य पूषभागत्यस्य द्वारत्वावगतेः पूषभागधर्मत्वाविरोधमाशङ्क्य देवतोद्देशेन त्याज्यत्वस्य प्रकृतौ द्वारतया ऽवगतस्येहाप्यतिदेशाद्द्वारत्वावगतेः पूषभागत्यस्य द्वारत्वकल्पना न युक्तेति परिहारसूचनार्थं पूषदेवत्यस्य षूपोद्देशेन त्याज्यस्य धर्मः सन् यागार्थस्यापूर्वस्य धर्मो न तु पूषभागधर्मः सन्नपूर्वधर्म्म इत्युक्तम्। प्रषिष्टभागशब्दाद्यो भागः सप्रपिष्ट इति भागोद्देशेन पेषणविधानात्पूषभागधर्मत्वप्रतीतेः पूषभागत्वस्योपदेशतो द्वारत्वावगमादातिदेशिकषूपदेवत्यत्वद्वारबाधावगतेः कथं देवताभागत्वस्य द्वारत्वनिरासार्थो देवताभागधर्मत्वनिरास इति कथामिति भाष्येण पृष्ट्वोच्यतइत्यनेन पितृधने पुत्रस्येव स्वतः सिद्धे भागे निरस्ते नन्वितिभाष्येण स्वतःसिद्धदेवताभागाभावे ऽपि देवतायै दानात्तस्याभागो भविष्यतीत्याशङ्कयोच्यतएतद्धीत्यादिनास्तिपूष्णो भाग इत्यन्तं भागाभावोत्तयर्थ भाष्यं व्याचष्टे न तावदिति परिग्रहात्प्राक्स्वस्वामिसम्बन्धानापत्तावस्वपरिग्रहात्स्तेयापत्तेः परिग्रहाख्यपरिग्रहीतृव्यापारानपेक्षादुद्देशत्यागाख्याद्दातृव्यापारमात्रात्स्वस्वामिसम्बन्धापत्तिमाशङ्कय प्रतिग्रहीतृव्यापारानपेक्षत्वेऽपि दानस्य परेच्छाधीनविनियोगार्हत्वाख्यपरस्वत्वापादनर्पयन्तत्वात्परो यथेपृविनियोगं करोत्वित्येवं सङ्कल्पपर्यतान्योद्देशपूर्वस्वत्यागसङ्कल्पाख्याद्दातृव्यापारात्स्वस्वामिसम्बन्धापत्तेर्देवतायाश्च विग्रहादिराहित्येन यथेष्टविनियोत्क्तृत्वायोगात्तदिच्छाधीनविनियोगार्हत्वापादनपर्यन्तोद्देशत्यागाशक्तेर्न देवतास्वत्वापत्तिरिति परिहारसूचनार्थ यश्चेत्यादि भाष्यावयव व्यारव्यातुं कर्मसाधनो हीत्याद्युक्तम्। नवमनिषिद्धभोत्क्तृत्वाद्यक्ष्युपगमेन पूर्वपक्षायोगात्तन्निरासानर्थक्यापत्तेर्देवताया यागसाध्यस्वर्गादिस्वाम्याभावात्स्वर्गादिदानाशक्तेर्यागानाराध्यत्वसिध्यै देवतोद्देशेनात्यक्तस्वर्गादौ स्वाम्ये नवमे निषेत्स्यमाने ऽपि देवतोद्देशेन त्यक्ते हविषि स्वाम्यानिषेधाद्देवतोद्देशेन त्यक्तस्य हविषो देवतास्वत्वाख्यं तद्भागत्वं भविष्यतीति पूर्वपक्षाशयनिरासार्थत्वेनायं ग्रन्थो यथेष्टविनियोगं सेवनाख्यभजनत्वेनोपचर्य यथेष्टं विनियुज्यतइति कर्मसाधनभागशब्दव्युत्पत्तेर्यो ऽयं यथेष्टं विनियुङ्क्ते स तस्य भागो न च देवता हविर्यथेष्टं विनियुङ्के नवमे विग्रहादिनिपेधेन यथेष्टविनियोत्त्क्तृत्वनिषेधादित्येव योज्यः। देवताया यथेष्टविनियोत्त्कृत्वाख्यस्वाम्यायोगे ऽपि देवतोद्देशेन त्यक्तस्यान्येनाविनियोज्यत्वादन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धापादकत्वाख्यस्वाम्योपपत्तेः पूष्णो भागः सम्भवतीत्याशङ्कयानन्यविनियो ज्यत्वाख्यपूषस्वत्वलक्षणपूषभागत्वसम्भवेपि तद्भागत्वस्यार्यानुपयोगित्वात्पेषणाख्यस्य धर्मस्य देवताभागधर्मत्वे निष्प्रयोजनत्वापत्तेर्न देवताभागधर्म्मता युक्तेति परिहारार्थमथापीत्यादिभाष्यं व्याख्यातुमहा। अथापीति। अन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धलक्षणस्य स्वीकारस्या स्मिन्‌ग्रन्थे भजनत्वोपचाराद्यद्यपि देवता हविरन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धापादनात्स्वीकुर्यात्तथापि देवतायाः प्रयोजकत्ववारणार्थं नवमे फलदातृत्ववारणत्तद्भागधर्म्मत्वे पेषणस्य निष्प्रयोजनत्वप्रसङ्गात्तद्धर्मत्वानुपपत्तेः पूषभागत्वस्य द्वारत्वायोगाद्देवतोद्देशद्रव्यत्यागाख्यो याग एवापूर्वस्य धर्मान्वये द्वारमित्यर्थः। प्रयोजकत्ववारणोक्त्या तद्धेतुफलदातृत्ववारणे देवताभागधर्मत्वे पेषणस्य निष्प्रयोजनत्वोपपादनार्थं सूचितम्। भागोत्तया देवताया इति भाष्यस्था पष्ठी भागव्यतिरेकजनितत्वेन व्याख्याता यागोक्त्या भागशब्दस्य त्याज्यद्रव्यवाचित्वे सूचिते तर्हि समासश्रुत्या भागशब्दवाच्यस्य देवतोद्देशेन त्याज्यस्य साक्षात्पंषणान्वयावगतेर्देवतोद्द्वेशेन त्याज्यत्वस्य द्वारमात्रत्वोक्तिरयुक्तेत्याशङ्कानिरासायापूर्वधर्मत्वव्युत्पादनार्था नवमाद्यन्यायोक्तिः। नावमिके देवताधिकग्णे देवतायाः प्रयोजकत्ववारणार्थं फलदातृत्ववारणात्पेपणस्य देवताराधनप्रयोजनत्वायोगाद्देवताभागधर्मत्वे देवताराधनार्थत्वेन प्रयोजनवत्त्वासिद्धावप्यपूर्वसाधने कृत स्यापूर्वार्थत्वाक्ष्युपगमात्तत्र च स्रुगादौ पेषणप्रसक्तिपरिहारार्थ द्वारविशेषापेक्षायां भागश्रुत्यालोचनया ऽनन्यविनियोज्यत्वलक्षणपूपभागतया यदपूर्वसाधनं तत्पेष्टव्यमिति पृषभागत्वस्य द्वारत्वावगतेः पूषभागे ऽनुष्ठानलक्षणं पूषभागधर्मत्वं विना पेषणस्याविधेयत्वेनापूर्वसिध्यर्तत्वायोगात्पूषभागधर्मत्वे सत्येवापूर्वसिद्धयाख्यप्रयोजनवत्वं भविष्यतीत्याशङ्कय विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदनेनि दाशमिके देवताधिकरणे देवतायाः स्वरूपेण कर्मणि समवायनिपेधेनान्यविनियाज्येत्वप्रतिबन्धलक्षणव्यापारायोगाद्दातृव्या पारेणान्यविनियोज्यप्रतिबन्धे ऽपि देवताविनियोज्यत्वानापादनात्पूषस्वत्वाख्यपूषभागत्वानिष्पत्तेस्तस्य द्वारत्वायोगेन पूषणमुद्दिश्य त्यक्तस्यापि पूषभागत्वद्वारा ऽपूर्वसाधनत्वायोगात्तस्मिन्कृतस्य पेषणस्यापूर्वधर्मत्वासिद्धया ऽपूर्वसिद्धिप्रयोजनत्वायोगोक्त्यर्थस्यायागेतिभाष्यावयवस्यापूर्वधर्मत्वासिद्धेरित्येवं व्याख्यासूचनार्थ दाशमिकदेवताधिकरणन्यायोक्तिः॥ पेषणस्यापूर्वधर्मत्वे कः पुनरर्थो यागइतिप्रश्नोत्तरभाष्ये यागधर्मत्वोक्तिरयुक्तेत्याशङ्कयापूर्वविवक्षयैव वा नादराद्यागोक्तिरिति परिहारं तह्याख्यानन्तरं वाच्यमयागेत्याद्यानामपि यागोक्तीनामनादरहेतुकत्वसूचनार्थ बहुयागोक्तिसन्निधावाह भाष्येति। पूषयागसाधनस्य द्रव्यस्य पूषभागत्वाभावे पूषप्रधानवहुव्रीहिस्थेन भागशब्देन पूषयागलक्षणाशक्तेर्दर्शपूर्णमासप्रकरणम्नातस्य च पेषणस्य पूषयागे प्राकरणिकविनियोगायोगात्पूषयागाङ्गत्वं न स्यादित्याशङ्कार्थ कथं तर्हीति भाष्यं व्याचष्टे कथं तर्हीति। यागोक्तेः पूषयागाख्याविशेषपरत्वसूचनार्थो ऽत्र शब्दः। पूषोद्देशेन त्याज्यस्य द्रव्यस्य पूषभागत्वाभावे भागशब्दस्य यागलक्षणाशक्तिं तर्हिशब्दसूचितामुपपादयितुं वाक्येत्युक्तम्। यागोक्तेरनादृत्यत्वसूचनाया पूर्वेण वेत्युक्तम्। देवतावाचिपूषशब्दसमभिव्याहारात्मकवाक्यगम्यपूषोद्देशत्याज्यद्रव्यवाचित्वेन भागशब्देन पूषयागलक्षणात्पेषणं यागधर्मो भविष्यतीति परिहारार्थमुच्यतइति भाष्यं देवतास्वेन पेषणस्य भागश्रुत्या संयोगाद्वाक्यलक्ष्योयागसंयोगो न युक्त इति प्रश्नाशयविवरणार्थं च ननु चेति भाष्यमुत्तराशयविवरणार्थ चोच्यते भागाभावादित्याद्युक्तमित्यन्त भाष्यमेकग्रन्थेन तात्पर्यतो व्याचष्टे तत्रेति भागाभावोक्तयोक्तस्य मुख्यदेवतास्वाख्यभागरूपार्थासम्भवस्य देवताभागसंयोगायोगहेतोर्यागलक्षणार्थत्वोपपादने तात्पर्यसूचनार्थं मुख्येत्युक्तम्। भाष्ये देवतायाः स्वामित्वान्वितेन भागेन पेषणस्य संयोगो देवतासंयोगो विवक्षितः। देवताभागान्वयायोगे ऽपि यागान्वयः कथमिति तथापि त्विति भाष्येणाशङ्क्य भागोक्तया पूषोद्देशत्याज्यत्वलक्षणद्वारा यागलक्षणादि ति परिहारोक्तयर्थ तदुच्यतइत्यादिदेवतेत्यन्तं भाष्यं व्याचष्टे परस्येति। तच्छब्देन व्याख्येयभाष्यनिर्द्दिष्टपूषपरामर्शात्पूषोद्देशेन त्याज्यतेत्यर्थः। उभयोरित्यादिसूत्रावयवव्याख्यार्थ नचेत्यादिसम्बन्धइत्यन्तं भाष्यमुपेक्ष्य केवलेत्वित्याद्येषेत्यन्तं भाष्यं सेव्यवाचिना भागशब्देन कथं त्याज्यलक्षणेत्याशङ्कयान्यस्मै सकल्पितस्योद्देश्यं प्रति भागवत्वप्रसिद्धेः पूषोद्देशेन त्याज्यतया सङ्कल्पितस्य भागशब्देन लक्ष णोप पत्युत्तयर्थत्वाद पकृष्य व्याख्येयमिति मत्वादौ व्याचष्टे स चेति। असावित्यनेन तस्मै सङ्कल्पित इति व्याख्येयो निर्दिश्यमानसङ्कल्पितपरामर्शादेकदेवत्ये स त्याज्यो ऽर्थः पूषविशिष्टः सङ्कल्पितो भागो भवतीति पूषभागव्यपदेशो युक्त इत्यर्थः। उपेक्षितं भाष्यं तात्पर्यतो व्याचष्टे द्विदेवत्ये पुनरिति। ऐन्द्राग्नवदिति भाष्योपेक्षितसूत्रावयवव्याख्यार्थ यथैवेत्युक्तम्। इह पुनः [९१०।२] पूषपदस्येतिपूर्वपक्षवार्त्तिकोक्तं वैपम्यं परिहरति यद्यपि चेति। इह द्विदेवत्ये पूषभागशब्दाप्रवृत्तिरित्यर्थः। एकैकोद्देशं विना द्वयोद्देशायोगाद्‌द्विदेवत्ये ऽपि केवलपूषभागत्वापत्तिमाशङ्क्य येन कारणेन सङ्कल्पो भागव्यपदेशहेतुस्तेनकारणेन यद्यपि पूषास्वशब्दोच्चारणेने भाष्ये इन्द्रापूष्णोरुच्चारणमित्यन्वयः शब्दव्यतिरेकजनिता च षष्ठी तेनेन्द्रापूष्णोर्वाचकस्येन्द्रा पूषशब्दस्योच्चारण कुर्वन्नित्यर्थः एकदेशभूतपूषशब्दोच्चारणस्य समस्तोच्चारणे हेतुत्वात्। उपकारकमिति वोच्चारणविशेषणम्। अर्थाच्चोपकार्यद्विदेवत्यत्वसङ्कल्पलाभ इति भावः ।14 इन्द्रापूषशव्दोच्चारणं द्विदेवत्य चरुसङ्कल्पोपकारि कुर्वन् द्विदे वत्यचरुसङ्कल्पोपकारी स्यात्तथापि पूष्णं द्विदेवत्यस्यासङ्कल्पनान्न तस्य पूष्णः सद्विदेवत्यो भागव्यपदेशार्ह इति परिहारार्थ तेनेति भाष्यं व्याचष्टे यद्यपि चेति। यत्रैकः पूषा देवतेत्येवमेकस्मिन्नितिसूत्रावयवयोजनार्थ केवल इति भाष्यं यत्रोभे देवते इत्येवं चोभयोरिति सूत्रावयवयोजनार्थं नेन्द्रापौष्णादिष्वितिभाष्यं स्पष्टत्वान्न व्याख्यातम्॥ हेतुमात्रमदन्तत्वम्॥४५॥ यददन्तत्वं देवताभागधर्मत्वे लिङ्गमुक्तं तद्धेतुवन्निगदार्थवादमात्रत्वाद्यागापूर्वधर्मत्वपक्षे ऽप्युपपन्नमित्येवं सुत्रव्याख्यार्थ यदुक्तमितिभाष्यं व्याचष्टे यत्त्विति। वचनं परम्॥४६॥ यत्परं नेमपिष्टार्द्धपिष्टवाक्ययोः पेषणानुवदनं देंवताभागधर्मत्वे लिङ्ग मुक्तन्तत्पेषणविधित्वेनाननुवादत्वादलिङ्गमित्येवं सूत्रव्याख्यार्थमथेत्यादिभवतीतीत्यन्तं भाष्यं व्याचष्टे नेमेति। वचनात्सर्वपेषणमितिसूत्रे सोमापौष्णसम्वन्धे नेमपिष्टसम्बन्धे चेति भाष्योक्तां वाक्यभेदशङ्कां नन्वितिभाष्यानूदितां स्वयं तावन्न्नेमपिष्टवाक्ये सर्वविशेषणविशिष्टयागभावनाविधानादर्धपिष्टवाक्ये चार्धविशिष्टपेषणविधानात्परिह रति विशिष्टेति। विशिष्टविधौ च सति वचनादिति सूत्रोक्तामपरिहृत्य विधित्वाभ्युपगमेन लिङ्गपरिहाराशक्तेर्वचनमित्यनेन विशिष्टविधित्वस्यैवोक्तत्वादनेकार्थविधिलक्षणवाक्य भेदशङ्कानुपपत्तेर्नन्वितिभाष्येण गौरवलक्षणावाक्यभेदशङ्कोक्तेत्यापाद्यागतौ गौरवस्यादोषत्वं वक्तुमगौरवपक्षसम्भवे तदाश्रयणेन गौरवं परिह्रियते इह त्वगौरवपक्षासम्भवादानर्थक्यपरिहारार्थं गौरवाक्ष्युपगमो न दोपायेत्येवं परिहारार्थमुच्यतइत्यादिभाष्यं व्याचष्टे अविशिष्टेति। तस्मादिति भाष्यं सूत्रार्थोपसंहारद्वाराधिकरणर्थोपसंहारार्थत्वेन व्याचष्टे तस्मादिति॥

इतिश्रीमत्रिकाण्ण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिमाधयभट्टोपाध्यायात्मजसोमेश्वरकृतौ तन्त्रवार्तिकटीकायां सर्वानवद्यकारिण्यां न्यायसुधाख्यायां तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः॥


  1. अत्र चतुर्थसूत्रं व्याख्यातं वार्तिके। ↩︎

  2. अय पा॰ पु॰ ना॰। ↩︎

  3. प्रधानेत्यधिक पु॰। ↩︎

  4. सद्भावे ऽपीति पुमा॰। ↩︎

  5. अय पा॰ ना॰। ↩︎

  6. अय पा॰ पु ना॰। ↩︎

  7. अय पा॰ पुस्तके ना॰। ↩︎

  8. प्रैषे शक्तानुपपत्तेस्तद्वातिरिक्तस्य लिगेन विनियोगावगमान्मैत्रावरुणविनियाजमस्य वाक्यस्य विरोधावगतेर्युक्तीदाहरणतेत्यर्थः। अनुवाक्यापूर्वकष्वेव इत्वधिक पु॰। ↩︎

  9. आद्येत्यधिक पु॰ ↩︎

  10. प्रकटनार्थमि २ पु॰ पा॰। ↩︎

  11. परैकात २ पु॰ पा॰ ↩︎

  12. इद सूच वार्त्तिकव्याख्यातम्। ↩︎

  13. इदं सूत्र भाष्ये व्याख्यातम्। ↩︎

  14. इति द्वितीयपुस्तके नास्ति। ↩︎ ↩︎ ↩︎

  15. इति द्वितीयपुस्तके नास्ति ↩︎ ↩︎

  16. इति द्वितीयपुस्तकेणस्ति। ↩︎