न्यायसुधायाम् ।
द्वितीयाध्यायरय चतुर्थः पादः
॥ अथ यावज्जीविकाग्निहोत्राधिकरणम् ॥ १ ॥
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् ॥ १ ॥ भाष्ये बहुवृच् विशेषणस्य चिन्तानौपयिकत्वाद्यथावस्थितोक्तिमात्रार्थत्वं सूचयितुमाह बहुवृचेति चिन्ताया लक्षणासङ्गतिमाशङ्कते ननु चेति परमतेन परिहरति के चिदिति दूषयति तत्त्विति स्वमतेन प्रयोगभेदाभेदफलतया सङ्गतिं वक्तुं प्रक्रमते अत इति ननु शब्दान्तरादिप्रमाणकस्य भेदस्य लक्षणार्थत्वात् तेषां चोत्पत्तिज्ञापनेन भेदकत्वात् स्वरूपभेदएव [६२९।१] व्यापारावगतेः प्रयोगभेदाभेदचिन्तापि न लक्षणसङ्गतेत्याशङ्क्याह यथैवेति प्रयोगाङ्गभूतस्य गुणस्य पूर्वप्रयोगसंयोगासम्भवे प्रयोगविधित्वज्ञापनेन प्रयोगभेदकत्वस्यावेष्ट्यधिकरणे व्युत्पादितत्वात्प्रयोगभेदे ऽपि व्यापारो ऽस्तीत्याशयः । लक्षणसङ्गतां चित्तामाह तदिहेति यावज्जीवशब्दस्य पूर्वपक्षे काललक्षणानुपादेयगुणपरत्वात् सिद्धान्ते च निमित्तपरत्वात्तस्यापि चावच्छेदकत्वलक्षणगुणत्वोपपत्तेरनुपादेयगुणान्वयस्य भेदकत्वाभेदकत्वस्य विचारात् कर्मविपरीवृत्ते प्रकरणान्तरन्यायायोगे ऽप्यनुपादेयान्वयनिमित्तभेदचिन्तानन्तरं बुद्धिस्थत्वोपपत्तेः प्रकरणान्तरचिन्तया ऽपि सङ्गतिः सम्भवतीति सूचयितुं यावज्जीवशब्दः । कालपरत्वे ऽपि काम्यप्रयोगे सायम्प्रातःकालावरुद्धे ऽप्यमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीतिवदवच्छेद्यावच्छेदकत्वेन कालद्वयसमावेशोपपत्तेर्जीवनपरिमितस्य कालस्य निवेशसम्भवादभेदकत्वं निमित्तपरत्वे तु तस्यावश्यकत्वापादकत्वेन काम्यप्रयोगे निवेशायोगाद्भेदकतेति गुणनिमित्तभेदाभेदचिन्तार्थं काललक्षणगुणपरो यावज्जीवशब्दो निमित्तलक्षणगुणपरो वेति विचारस्वरूपं सूचयितुं गुणशब्दः कस्मात्तर्हि भाष्ये कर्मधर्मः कर्तृधर्मो वेति चिन्तेत्याशङ्कय प्रयोगभेदाभेदफलासौ चिन्तेति दर्शयितुमाह तत्रेति काललक्षणस्य गुणस्य काम्यप्रयोगे निवेशसम्भवादभेदकत्वसिद्ध्यै कर्मधर्मत्वोक्तिरिति सूचनार्थः कालशब्दः । काम्यप्रयोगस्य सायम्प्रातःकालसमापनीयत्वेन तस्मिन्यावज्जीवकालस्य निवेशायोगाद्भेदकत्वं भविष्यतीत्याशङ्कानिरासार्थताभ्यासोक्तेः सायमित्यादिना सूचिता निमित्तलक्षणस्य गुणस्यावश्यकत्वापादकत्वेन काम्यप्रयोगे निवेशायोगाद्भेदकत्वसिद्ध्यै नियमाख्यस्यावश्यकत्वस्य कर्तृधर्मत्वान्नियमलक्षणार्था कर्तृधर्मोक्तिरिति सूचनार्थं निमयविधिभाष्योक्तमुपपादयितुम् यावत्कर्तृभाविनीत्याद्युक्तम् नियमस्य कर्तृधर्मत्वोपपादनार्थं स्वार्थेत्युक्ते स्वकाले विहिताकरणादुत्पन्नस्य दोषस्य नाशायातिक्रान्ते ऽपि काले कर्त्तव्यत्वज्ञापनार्थं जन्यत्वान्नाशस्यात्मप्रयत्नरूपभावनाभाव्यत्वोपपत्तिसूचनाय स्वार्थशब्देनोक्तस्य सिद्ध्यर्थमित्युक्तम् निषिद्धाचरणजन्यदोषनाशार्थत्वाभ्युपगमे त्वनाचरितनिषिद्धस्याकर्त्तव्यत्वापत्तेर्नावश्यकत्वसिद्धिः प्रायश्चित्तत्वेन चाविदानान्नोपात्तदुरितक्षयार्थत्वे ऽग्निहोत्रादेः किं चित्प्रमाणमस्ति विस्तरेण चोपात्तदुरितक्षयार्थताग्रिहोत्रादेस्तन्त्रसारे ऽस्माभिर्निरस्ता उपात्तदुरितक्षयार्थत्वोद्घोषस्तु विहिताकरणजन्यमेव दुरितं विहितकालसमीपे प्राप्तत्वादाङ्पूर्वस्य ददातेर्गृह्णात्यर्थवाचित्वेन ग्रहणफलप्राप्तिलक्षणत्वोपपत्तेरुपात्तदुरितमभिप्रेत्य व्याख्येयः । अकरणे दोषप्रसक्तेरिति हेत्वभिधानादप्ययमेव वार्त्तिककृतो ऽभिप्रायो लक्ष्यते अनर्थपरिहारार्थत्वमात्रहेतुत्वम् तु व्यवधानादयुक्तम् पूर्वां सन्ध्यां जपन् विप्रो नैशमेनो व्यपोहतीत्यादिस्मृतिस्तु निशान्तविहितकर्मानुष्ठानजन्यमेनो नैशमित्येवं व्याख्येया यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्नेत्यादिमन्त्रवर्णो ऽपि मनःप्रभृतीनामन्यासक्तत्वाद्रात्र्यन्तविहितकर्माननुष्ठानेन यत्पापमकार्यमित्येवं व्याख्येयः ।
सन्ध्योपासनमात्राद्धि सर्वपापक्षये सति ।
अग्निहोत्राद्यनुष्ठाने कः प्रवर्त्तेत बुद्धिमान् ॥ १ ॥
कस्य तु क्षमता कस्येत्यवगन्तुं न शक्यते ।
अतो मदुक्तरीत्यैव पापनाशार्थतोचिता ॥ २ ॥
एतच्च स्वकाले कुतश्चित् कारणात्कर्मण्यकृते कालान्तरे नैष्फल्यापत्तेः काम्यवन्नित्यस्यापि लोपशङ्कानिरासायोक्तं शास्त्रेण त्वकरणजन्यदोषाभावायैवाग्निहोत्रादेः कर्त्तव्यतोच्यतइति वक्तुं दोष।?।प्रागभावस्याजन्यत्वाद्भाव्यत्वायोगमाशङ्क्य प्रागसतो ऽपि दोषस्योत्पत्तिप्रतिबन्धः प्रागभावप्रतिपालनाख्यो भावयितुं शक्यते इति परिहारसूचनायानर्थरूपस्यावस्तुरूपस्यासद्रूपस्य दोषस्य परिहाराय प्रतिबन्धायेत्युक्तम् अग्नोहोत्रादेर्विहितत्वात्तदकरणस्य प्रत्यवायोत्पादकत्वं तदकरणस्य च प्रत्यवायोत्पादकत्वात्परिहारार्थविधिरित्यन्योन्यात्रयाशङ्का तुं विधिकर्मशक्त्योरनादित्वात्परिहरणीया अन्यथा विहितत्वात्फलसाधनत्वं फलसाधनत्वाच्च तादर्थ्येन विधिरित्यन्योन्याश्रयमपरिहार्यं स्याज्जीवननिमित्तकस्यापि प्रयोगस्य निमित्तैक्यादैक्यमेव स्यादित्याशङ्क्य सायम्प्रातःकालावच्छिन्नस्य जीवनस्य निमित्तत्वात्तस्य च प्रतिदिवस भेदात्प्रयोगभेदोपपत्ति वक्तुं कालजीवनसमुदायस्य निमित्ततोक्ता कालस्याङ्गत्वे ऽप्यनुपादेयत्वादन्यकालीनजीवनसद्भावे ऽपि कालापादनाशक्तेरनुष्ठानायोगात्तत्कालीनएव जीवने सत्यनुष्ठेयत्वावगतेरर्थात्कालविशिष्टस्यैव जीवनस्य निमित्ततावसीयतइत्याशयः । फलतः सङ्गतिमुपपादितामुपसंहरति तेनेति यदीति सन्देहहेतुभाष्यालोचनया चैतदवगम्यतइति सूचनार्थम् भाष्येत्युक्तम् यावज्जीवशब्दस्य निमित्तपरत्वे विधित्वायोगाद्विध्युक्त्या कालपरत्वसूचनाद् यावज्जीवशब्दः कालपरो निमित्तपरो वेति विचारार्थो गम्यते विपरीतशब्देन च सिद्धान्ते जुहोतेर्विधित्वोक्त्या भेद विना विध्ययोगात्कर्मस्वरूपभेदस्य च सन्निधौ त्वविभागादित्यत्र निरस्तत्वात्प्रयोगभेदाभेदविचारस्यापि सूचनात्तस्य योग्यतया फलतावगम्यतइत्याशयः । सूत्रव्याख्यानार्थं किं तावदिति भाष्यं व्याचष्टे किं तावदिति अभ्यासशब्देनाभ्यासापादककालपरता यावज्जीवशब्दस्य सूचितेति दर्शयितुम् कालेत्युक्तम् पूर्वपक्षभाष्यस्थयदिशब्दव्याख्यानार्थः पक्षशब्दः । कालविधिपक्षे च कालान्तरनिमित्ताभ्यासविघिपक्षे च तत्कालरूपमभ्यासरूपं च यथैव कर्माङ्गत्वेन वाञ्छितं तथैवोपपद्यतइत्यर्थः । उत्तरार्द्धं व्याचष्टे कालो हीति सन्निधानापरपर्यायाधिकारलक्षणप्रकरणानुग्रहसम्भवाशयेनाशङ्कते ननु चेति तथापि कथम्भावात्मकप्रकरणबाधो दुर्वार इति परिहरति सत्यमिति ननु कालत्वस्याप्यनुपादेयत्वात् यच्छब्दोपबन्धलक्षणत्वेन वानुपादेयत्वस्य विधिप्रतिबन्धकत्वाद्विधेयत्वानुपपत्तेः यावज्जीवशब्दोक्तत्वे ऽपि अङ्गत्वायोगेन प्रकरणानुग्रहासम्भवात्प्रकरणानुग्रहार्थं यावज्जीवोक्तेः कालपरत्वसूचनार्थो विधिशब्दो न प्रयुक्त इत्याशङ्क्याह यद्यपि चेति यावज्जीवनं तस्मिन् सति [६३०।१] यजेतेति कालनिमित्तपक्षयोः समानायामपि वचनव्यक्तावप्राप्तप्राप्तिफलत्वाद्विधेर्यच्छब्दोपबन्धाच्च स्वरूपस्य सिद्धत्वप्रतीतावपि अङ्गत्वविषयविधिप्रतिबन्धायोगादनुपादेयत्वेन यच्छब्दोपबन्धादनुवाद्यतया भासमानस्यापि कालस्यानुवादविपरीतं विधानं यागस्य चोपादेयत्वाद्विधेयतया भा।?।समानस्य विधिविपरीतो ऽनुवादः कथ्यतइत्यर्थ । यावज्जीवशब्दोक्तकालान्वयान्यथानुपपत्तिकल्पिताभ्यासविध्याशयत्वे तु विध्युक्तेरभ्यासस्योपादेयत्वाद्विधेयत्वं स्वरसादेव प्रतीयतइत्याह अथ वेति अभ्यासस्योपादेयत्वेनोपादेयकर्मान्वयायोगमाशङ्क्य स्वरसेनोपादेयत्वे ऽपि कर्मणो विध्यन्तरप्राप्तत्वेनोद्देश्यत्वोपपत्तेस्तद्रूपेणान्वयोपपादनार्थम् स चेत्युक्तम् ननु कर्मण प्राप्तत्वेनोद्देशसम्भवे यावज्जीवोक्तेर्निमित्तपरत्वे ऽपि निमित्तान्वयान्यथानुपपत्तिकल्पितस्यावश्यकत्वस्योपादेयत्वात्कर्मोद्देशेन विध्युपपत्तेर्न विध्युक्त्या कालपरत्वं सूचयितुं शक्यमित्याशङ्क्य कर्मानङ्गत्वेनावश्यकत्वस्य विधेयत्वे ऽपि न कर्मोद्देशापेक्षेत्याह कर्त्रिति निमित्तान्वयस्यावश्यकत्वापादकत्वसूचनार्थं कर्तृधर्मशब्देन लक्षणया निमित्तपरतोक्ता एवं चेति लिङ्गदर्शनभाष्यं व्याचष्टे एवं चेति तस्मादिति पूर्वपक्षोपसंहारभाष्यं व्याचष्टे तस्मादिति कर्त्तुर्वा श्रुतिसंयोगात् ॥ २ ॥ यावज्जीविक इति भाष्येण वाशब्दं व्याख्याय कर्तृशब्दव्याख्यानार्थं कर्त्तुरिति भाष्यं धर्मशब्दाश्रुतेरयुक्तमाशङ्क्योपपादयितुमाह धर्मइति अत्र च कर्तृधर्मश्चोद्यतइत्येतावता प्रतिज्ञासूत्रावयवव्याख्या कर्तृधर्मोक्तेश्च यावज्जीवशब्दस्य निमित्तपरत्वसूचनार्थत्वान्निमित्तान्वयापादितस्य चावश्यकत्वस्य काम्यप्रयोगे ऽनुपपत्तेः प्रयोगान्यत्वसिद्धिसूचनार्थो नियमशब्द इति तेनेत्यादिना सूचितम् । हेतुप्रश्नपूर्वं श्रुतिसंयोगव्याख्यानार्थं कुत इत्यादिभाष्यं व्याचष्टे कुत इति ननु जीवते श्रुतिवृत्तत्वोपपत्तावपि यावच्छब्दस्य निमित्तानभिधायित्वारकथ निमित्तपरत्वपक्षे यावज्जीवशब्दस्य श्रुतिवृत्तित्वं कर्त्तव्यतावाचिनश्चाख्यातप्रत्ययस्य पक्षद्वये ऽपि श्रौतत्वाविशेषान्निमित्तपक्षएवाख्यातस्य श्रुतिवृत्तत्वोक्तिरयुक्तेत्याशङ्कां निरस्यन् श्लोकं व्याचष्टे इहेति व्याप्तिवाचिना यावच्छब्देन जीवनस्य यावत्कर्तृमा।?।वित्वरूपेण सामस्त्येन श्रुत्यैव विशेषणात्सर्वेषां सायम्प्रातःकालभेदभिन्नानां जीवनानामनुष्ठानान्वयप्रतीतेः कर्मणि च जीवनविधौ स्वप्रयोजनप्रयुक्तस्य कर्मानुष्ठानस्य कादाचित्कत्वाद्यावच्छब्दाक्तायाः सर्वजीवनव्याप्तेः प्राप्त्यभावेनानुवादायोगादयुगपत्कालीनत्वाच्च जीवनानामेकस्मिन्प्रयोगे साहित्यानुपपत्तेः प्रयोगभेदाक्षेपकाभावाच्चाशङ्क्य सम्पादनत्वेन व्याप्तेर्विध्ययोगाद् यावच्छब्दानर्थक्यापत्ते निमित्तपरत्वे तु यावन्निमितं नैमित्तिकस्यानुष्ठेयत्वाद्यावच्छब्दोक्तव्याप्त्यनुवादोपपत्तेर्यावच्छरुतिसामर्थ्यान्निमित्तत्वावगतेर्यावज्जीवपदस्य श्रुतिवृत्तत्वं सिद्धान्तएव सम्भवतीत्यर्थः । यश्चाख्यातप्रत्ययस्य प्रकृतिभूतो ऽप्रशस्तस्य श्रुत्यैव प्रत्ययवाच्यभावनानुरञ्जकधात्वर्थवाचित्वादाख्यातस्य श्रुतिवृत्तत्वं सिद्धान्तएव सम्भवतीत्यार्थ । कालपरयावज्जीवपदान्वयनिबन्धनत्वादभ्यासलक्षणायाः धातोश्च प्रत्ययोपसर्जनत्वेनान्वयायोगात्तदन्वितप्रत्ययवाच्यभावनानुरञ्जकत्वेन स्वार्थवाचित्वादाख्यातप्रत्ययद्वारा धातोरपि यावज्जीवपदान्वयात्पूर्वपक्षे ऽभ्यासलक्षणार्थत्वापत्तिसूचनार्थम् धातोर्भावनावाचित्वं तात्पर्याशयेनोक्तम् मात्रशब्दो ऽभ्यासव्यावृत्त्यर्थः । ननु यावज्जीवोक्तेर्निमित्तपरत्वे ऽपि सायं च प्रातश्च जुहोतीति चशब्दोक्तकालद्वयसमुच्चयान्यथानुपपत्त्याभ्यासलक्षणा तुल्येत्याशङ्कानिराससूचनायैवकार आग्नेयी सायमाहुतिस्तद्रेतः सिक्तं रात्र्यां गर्भं।?। दधाति ततसौर्या प्रात प्रजनयतीति रेतःप्रजनसंस्तवान्यथानुपपत्त्या तेषां यस्त्रिरजुहोत्तमपृच्छत् कस्मिस्त्वं जुहोषीति सो ऽब्रवीत् त्रेधेत्यग्नये प्रजापतये सूर्यायेति योद्विस्तमपृच्छत् सो ऽब्रवीद् द्विधेति अग्नये च प्रजापतये च सायं सूर्याय प्रजापतये च प्रातरिति य एकस्तमपृच्छत् सो ऽब्रवीदेकधेति प्रजापतयएवेति तेषां यो द्विरजुहोत् स आर्ध्नोत्तस्य नेतरे सातत्यमुपायंस्तद्य एवं विद्वान् द्विर्जुहोति आर्ध्नोत्येवेत्यभ्यासवाचिना द्विरिति सुच् प्रत्ययेनैव कालद्वये ऽभ्यासस्योक्तत्वान्न सिद्धान्ते लक्षणापत्तिरित्याशयः । श्लोकं व्याख्यातुम् तदित्युक्तम् ननु जीवनधात्वर्थान्वयविध्यन्यथानुपपत्त्या कालाभ्यासलक्षणा पठ्य।?।माना साध्यसाधनान्वयविध्यन्यथानुपपत्त्या पूर्वकल्पनावन्न दोषमावहतीत्याशङ्क्याह यत्र हीति निमित्तत्वानभ्युपगमे जीवनधात्वर्थविध्ययोगाल्लाक्षणिकार्थविध्यापत्तेर्दोषापत्तिरित्याशय । यावच्छब्दस्य काले प्रयोगदर्शनात्तद्वाचित्वं शङ्कते तत्रेति स्वापस्यात्रानुष्ठेयत्वाश्रुतेर्निमित्तानपेक्षत्वाद्दोहनस्य निमित्तत्वेनान्यथायोगात् यावच्छब्दोपबन्धान्यथानुपपत्तेर्लक्षणया कालग्रहणं न तु श्रुत्या तच्चागत्या युक्तम् अनुष्ठेयत्वश्रुतौ तु निमित्तत्वेन श्रुत्यर्थस्यैवान्वयोपपत्तेर्न युक्ता लक्षणेति परिहरति युक्तमिति कस्माद्यावच्छब्दस्य कालवाचित्वं नेष्यतइत्याश [६३१।५] ङ्क्याह न चेति लक्षणयापि कालप्रतीत्युपपत्तेर्न वाचकशक्तिकल्पना युक्तेत्याशयः । ननु नाडिकामुहूर्त्तप्रहरादिप्रत्ययाना।?। परत्वापरत्वयौगपद्यायौगपद्यचिरत्वक्षिप्रत्वविशिष्टपदार्थप्रत्ययानां च कालकृतत्वेनाङ्गीकृतानां विभक्तत्वादाकाशवदविभक्तेन काल द्रव्येण करणाशक्तेः सूर्यादिगतिक्रियावच्छेदाद्विभक्तस्य कालस्य विभक्तप्रत्ययहेतुत्वाभ्युपगमे तु सूर्यादिगतिक्रियाणामेव नभः पष्ठि तमभागातिलङ्घनफलः सूर्यादिगतिक्षणप्रचयो नाडिकानभस्त्रिशत्त मभागातिलङ्घनफलो मुहूर्त्तो नभो ऽष्टमभागातिलङ्घनफलः प्रहर।?। इत्येव नाडिकादिप्रत्ययहेतुत्वोपपत्तेः प्रतियोगिपदार्थापेक्षया बह्व ल्पतमसूर्यादिगतिलक्षणावच्छेदयोः परत्वापरत्वविशिष्टपदार्थप्रत्यय हेतुत्वोपपत्तेरेकभिन्नक्षणावच्छेदयोर्यौगपद्यायौगपद्यविशिष्टपदार्थप्रत्ययहेतुत्वोपपत्तेरुत्पत्त्यादिभावविकारान्तर्गतबह्वल्पसूर्यादिगतिलक्षणावच्छेदयोश्चिरत्वक्षिप्रत्वविशिष्टपदार्थप्रत्ययहेतुत्वोपपत्तेः क्र याव्यतिरिक्तकालाभावाज्जीवनक्रियाया एव कालत्वावगतेर्न लक्षणा पत्तिरित्याशङ्कते क्रियेति सूर्यादिस्थाया गतिक्रियाया युवस्थविरा दिपदार्थसम्बन्धाभावेन तदवच्छेदकत्वायोगात्कालस्य तु सर्वगत त्वात् स्वसंयुक्तसूर्यादिसमवेतक्रियावच्छेदलब्धविभागस्य युवस्थवि रादिपदार्थावच्छेदकत्वोपपत्तेर्युवस्थविरादिषु परापरादिप्रत्ययैः क्रि यातिरिक्तकालानुमानादपरिहार्या लक्षणेति परिहरति अत्रेति पदार्थासम्बद्धायाः क्रियायास्तेषु परादिप्रत्ययहेतुत्वायोगात्कालस्या नुमेयत्वे ऽपि क्रियाव्यातिरेकसिद्धिरिति प्रौढ्योक्तम् । परमार्थतस।?। प्रत्यक्षत्वानभ्युपगमे कालस्यासिद्धिरेवं स्यादिति सूचनार्थम् वै शेषिकानित्युक्तम् परापरादिप्रत्ययानां हि सार्वत्रिकत्वात् स र्वगतहेत्वपेक्षत्वे ऽप्याकाशेदेरेवान्यतः सिद्धात्कालवत्स्वरूपेणाभि न्नादपि सहकारिभेदापादितविलक्षणसामर्थ्यादुपपत्तेर्न कालक ल्पकत्वं भवति प्रत्यक्षत्वे तु सूर्योदयो वर्त्ततइति क्रियाविषयोदयप्र त्ययविलक्षणा वर्त्ततइत्यक्षजप्रत्ययवेद्यत्वाद्व्यतिरिक्तकालसिद्धि भूतः सूर्योदयो भविष्यती वेति भूतभविष्यत्कालावच्छिन्नोदयर।?। त्ताग्राहिणि प्रत्यये वर्त्तमानत्वाप्रतीतेश्च न वर्त्ततइति बुद्धेः सत्त लम्बनत्वं शङ्कनीयं ह्यो भूतो ऽद्य नश्यति श्वो भविष्यत्यद्य नोत्पद्य तइति प्रध्वंसप्रागभावग्राहिनाशानुत्पत्तिबुद्धिवैलक्षण्याच्च भूतभवि।?। ष्यद्बुद्ध्योः प्रध्वंसप्रागभावालम्बनानुपपत्तेः भूतभविष्यत्काला च्छिन्नसत्तालम्बनत्वं धातुप्रत्ययार्थालोचनयाभासमानं नापह्नोतुं शक्यं कालानवच्छेदे च सूर्योदयादिसदसत्त्वयोराकाशशशविषाणवत्सर्वदा सदसत्वापत्तेः कादाचित्कत्वप्रतीतिरोध स्वतश्च कालस्यैकरूप्ये ऽप्युपाधिभेदाद्भूतभविष्यद्वर्त्तमानत्वव्यपदेशोपपत्तिः । एकफलावच्छिन्ना हि क्रियाक्षणा यावन्तं कालं व्याप्नुवन्ति तावत्कालो वर्त्तमानकालत्वेन व्यपदिश्यते क्रियाक्षणानां च यौगपद्ये ऽप्येकफलोद्देशेनानुष्ठीयमानानामाद्यक्षणादारभ्य फलोत्पत्तिक्षणपर्यन्तं क्रियैक्यव्यपदेशाद्विद्यमानक्रियावच्छेदौपाधिक कालस्य वर्त्तमानत्वं विनष्टक्रियावच्छेदौपाधिकं भूतत्वं भाविक्रियावच्छेदौपाधिकं भविष्यत्वम् उपपन्नं सूर्यादिक्रियावच्छेदस्य च कालस्याक्षिपक्ष्मादिक्रिययावच्छेदाभ्युपगमान्नान्योन्याश्रयापत्तिः । अतश्च सूर्यादिक्रियाणामपि भूतभविष्यद्वर्त्तमानकालावच्छेदाक्रियाव्यतिरिक्तस्याकाशादिव्यतिरिक्तस्य च कालस्य प्रत्यक्षकालवादिमते विलक्षणप्रतीतिबलादेव सिद्धेस्तेषां तावत्पराजयो ऽताशङ्क्य एव । अनुमेयकालवादितो ऽपि त्वाकाशादिव्यतिरेकासिद्धावपि क्रियातस्तावद्व्यतिरेकसिद्धेरशक्याः पराजेतुमित्याशयः । सूर्यादिगतिक्रियाणां कालत्वमभ्युपेत्यापि गणनापरपर्यायसङ्ख्यानवाचित्वेन स्मृतात्कालयतेर्धातोर्घञि कृते कालशब्दव्युत्पत्ते क्रियामात्रे च कालत्वाप्रसिद्धः परिच्छेदकत्वप्रयुक्तत्वात्कालत्वस्य जीवनस्य चानियतपरिमाणत्वेन परिच्छेदकत्वायोगात्कालत्वानुपपत्तेरपरिहार्येह लक्षणेति वक्तुमारभते अपि चेति कासु तर्हि कालत्वप्रसिद्धिरित्यपेक्षायामाह तत्रेति यावद्दोहं स्वपिति इत्यादौ गोदोहनादिक्रियास्वपि स्वापादिक्रियान्तरपरिच्छेदकत्वात्कालत्वप्रसिद्धिरस्तीत्याशङ्क्य क्रियान्तरपरिच्छेदकचन्द्रादित्यपरिवर्त्तनक्रियोपलक्षणत्वद्वारा गोदोहनादेः परिच्छेदकत्वं न साक्षादिति क्रियेत्यनेनोक्ते जीवनवदनियतपरिमाणत्वादुपलक्षणत्वायोगमाशङ्क्य पयःप्राप्त्यादिफललाभात्मव्यवहारशेषत्वोक्त्या फललाभपर्यन्तत्वान्नियतं परिमाणत्वं सूचितम् । ननु परिवर्त्तनक्रियाणां प्रहरचतुष्टयव्यापित्वेन महापरिमाणत्वान्नाल्पपरिमाणाभिर्गोदाहनादिक्रियाभिरुपलक्षणं सम्भवतीत्याशङ्क्याह ता एवेति उदयास्तमयलक्षणपरिवर्त्तनक्रियाणां यदवान्तरमुहूर्त्तादिक्रियापरिमाणं तेन गोदोहनादिक्रियाभिरुपलक्ष्यमाणेन द्वारभूतेन परिवर्त्तनक्रिया उपलक्ष्यन्तइति वदता गोदोहनादिक्रियाणां साक्षाद्विपरिवर्त्तनोपलक्षकत्वायोगे ऽपि तदवयवभूतमुहूर्त्ताद्युपलक्षणद्वारोपलक्षणत्वे ऽभिहिते मुहूर्तादेव तर्हि उपलक्ष्यता कस्मान्नोक्तेत्याशङ्कानिरासाय अन्येत्युक्तम् परिवर्त्तनोपलक्षकगोदोहनादिपरिच्छेदार्थमुहूर्त्तादेरुपादानाज्ज्वलनादिवदवान्तरव्यापारत्वावगतेर्न प्राधान्येनोपलक्ष्यत्वं सम्भवतीत्याशयः । अनियतपरिमाणाया गोदोहनादिक्रियाया मुहूर्त्तादिना परिच्छेदायोगमाशङ्क्य प्रायिकी परिमाणप्रत्यासत्तिरुक्ता मुहूर्त्तादीनामुपलक्षकत्वसम्भवे ऽन्यपरिच्छेदार्थत्वेनोपादानमयुक्तमित्याशङ्कानिराससूचनायैवकारः अग्निहोत्रादिकालं किमित्यनेनातिक्रान्त इति पृष्टे गोदोहनपर्यन्तस्य स्वापस्यातिक्रमहेतुत्वोक्तये यावद्दोहं स्वपितीत्युच्यमानस्वापावच्छेदकतया गोदोहनमुदयास्तमययोरेव तत्कालत्वात्पूर्वाह्णादीनामप्युदयाद्यपेक्षत्वादुदयास्तमयरूपं परिवर्त्तनमेव प्रयोजनवत्त्वादुपलक्षणीयमित्याशयः । गोदोहनादीनामन्यतः परिच्छेदापेक्षामुपपादयति तथा हीति गोदोहनाक्रियासु स्वरूपतो ऽनवस्थितपरिमामाणत्वाद्व्यवस्थया प्रयोजनभूतया सूर्यादिचेष्टारूप मुहूर्त्तादिनियतत्वात्परिच्छेदकं लौकिका इच्छन्तीत्यर्थः । उत्तरार्द्धं व्याचष्टे कियतेति नन्वेतावान्नमो भागो ऽस्मिन्क्षणे सूर्यादिनातिलङ्घित हति पुराणतो ज्ञानाशक्तेस्तावद्भागातिलङ्घितफलसूर्यादिगतिक्षणप्रचयात्मकमुहूर्त्तादिपरिच्छेदायोगादपरिच्छिन्नानां मुहूर्त्तादीनां गोदोहनादिपरिच्छेदकत्वं न सम्भवतीत्याशङ्क्याह तत्परिच्छेदश्चेति आकाशावयवविशेषातिक्रमफलसूर्यादिगतिक्षणप्रवयात्मकस्य नाडिकादेः मुहूर्त्तादिवदेव नैपुण्येन स्वत परिच्छेत्तुमशक्यत्वात्षष्ट्या पानीयपलानां यत्र घटीपूरणफलघटीछिन्नोर्द्वगतिक्षणप्रचयात्मिका नाडिकाभिप्रेता अक्षिपक्ष्मसंयोगविभागफलस्याक्षिपक्ष्मगतिक्षणप्रचयात्मकनिमेषस्य चतुर्थो भागः क्षणद्वयं लवः क्षणत्रय त्रुटिः क्षणचतुष्टयं निमेषः पञ्चदश निमेषाः काष्ठा त्रिंशत्काष्ठा च कला मुहूर्त्तत्रिशा च यवात्मिकादिशब्देनोक्ता मानुषीणामपि निमेषादिक्रियाणां स्वतः परिच्छेदकसम्भवे गोदोहनादेरपि स्वतः परिच्छेदकत्वापत्तिरित्याशङ्क्य व्यावहारिकेत्युक्तम् पयः प्राप्त्याद्यभिमतफलात्मकस्य व्यवहारस्य दोग्धृप्रयत्नशैथिल्याशैथिल्याभ्यां बह्वल्पक्षणसाध्यत्वेनानियतपरिमाणकालव्यापित्वात्तच्छेषभूतानां गोदोहनादिक्रियाणां परिमाणनियामकत्वलक्षणपरिच्छेदकत्वायोगो ऽपि निमेषादिक्रियाणां फलानुद्देशेनैव स्वभावतो ऽनुष्ठीयमानानामप्रयत्नापाद्यत्वेन प्रयत्नशैथिल्यकृतवह् वल्पकालव्यापित्वायोगात्फलपर्यन्तत्वाभावेन च तन्निमित्तानियतकालव्यापित्वायोगान्नियतपरिमाणत्वोपपत्तेः परिच्छेदकत्व सम्भवतीत्याशयः । कथं तर्हि यावद्दोहं स्वपितीति गोदोहनक्रियायाः परिच्छेदकत्वव्यवहार इत्याशङ्क्याह तदभ्यासेति सकृदनुष्ठाने प्रायिकत्वायोगात्तस्मिन्मुहूर्त्तादिपरिमिते काले व्यवहारोपयोगिनीनां दोहनादिक्रियाणां यो अभ्यासस्तद्वशेनेत्युक्तम् जीवनस्य तु कथं चित्परिच्छेदकत्वायोगान्न कालत्वं सम्भवतीत्याह न चेति काललक्षणापरिहारायोगमुपसहरति तस्मादिति अभ्यासलक्षणामुपपादयितुमारभते पुनरिति प्रश्नपूर्वमुपपादयति कथमिति वैतत्येन कदा चित्स्तोकानुष्ठानादविक्षिप्तत्वेन प्रयोगे क्रियानुजीवनकाल इत्यपरिज्ञानाद्वैतत्यं वैपरीत्येन त्वेकहेलया कृत्स्नप्रयोगे यावज्जीवश्रुतिर्वृथा स्याद्यत इति अध्याहारेण योज्यम् । वैतत्येनापरिज्ञानादित्येतद्व्याचष्टे अनभ्यस्तमिति [६३२।२] अमृतेन समाप्येतइति परिसङ्ख्यारूपेणासमाप्य न्रियतइत्यर्थविवक्षया अथेत्युक्तम् मृते ऽपि समापने सर्वस्वाराख्यक्रतुवददोषमाशङ्क्यार्भवपवमाने प्रस्तूयमाने ब्राह्मणाः समापयत मे यज्ञमिति सम्प्रेष्य संविशतीति वचनात्तत्रादोष इति वैषम्यं न चेत्यनेनोक्तम् वितत्यप्रयोगपक्षे च यावज्जीवकालस्य सायम्प्रातः कालसमाप्ये काम्यप्रयोगे निवेशायोगात् । यावज्जीवचोदनायाः पूर्वपक्षे ऽनिष्टस्यापि प्रयोगान्तविधायित्वस्यापत्तेः सायम्प्रातश्चोदनयोश्चोदनाद्वयसन्निध्यविशेषे ऽपि काम्यप्रयोगमात्रविषयत्वकल्पना निष्प्रमाणिकाप्यापद्येतेति दूषणान्तरमाह सायमिति सती इति पाठे चोदने इति नपुंसकद्विवचनं प्रयोगान्तरापत्तिसूचनाय अस्मिन्नित्युक्तम् पक्षान्तरार्थमन्यथेति श्लोकावयवं व्याचष्टे यदि त्विति सायम्प्रातश्चोदनानुरोधेनैकदैव कृत्स्नप्रयोगात्साथम्प्रातश्चोदनार्थं यावज्जीवचोदनार्थयोर्द्वयोरपि सम्पादनं यदि मन्येतेत्युक्ते कृत्स्नजीवनकालाव्याप्तौ कथं तच्चोदनार्थसम्पत्तिरित्याशङ्कानिरासार्थो दृष्टान्तः । अस्मिन्पक्षे दोषोक्त्यर्थं वृथेत्यवयवं व्याचष्टे तत्रेति तिथिवाच्यहः शब्दः इह यावज्जीवश्रुतौ व्याप्तितो ऽन्यत्फलं न प्रतीयतइत्यर्थः । श्लोकं व्याचष्टे यदीति पूर्वाह्णो वै देवानामित्यन्यार्थदर्शनमेवान्यतः प्राप्त्यभावेन प्रापकत्वाच्चोदनाभिप्रेतम् । अजीवतो ऽनुष्ठानाशक्तेः कर्मणो जीवनव्यतिरिक्तकालाप्राप्तावपि सायम्प्रातःकालयोर्जीवनव्यतिरेकेणापि भावात्सायम्प्रातश्चोदनावशेनाजीवतः स्वयमशक्तावप्यृत्विर।?।द्वारा सर्वस्वारवत्प्राप्तानुष्ठाननिवृत्त्यर्थं सायम्प्रातश्चोदनयोर्जीवनकालान्तर्गतसायम्प्रातःकालाविषयत्वोपसंहारार्थत्वेनार्थवद्यावज्जीववाक्यमित्याशङ्क्य सायमित्युक्तम् आहत्य वचनं विनार्त्त्विग्द्वारानुष्ठानकल्पनस्याप्य युक्तत्वाच्छक्त्यालोचनयैव जीवनान्तर्गतसायम्प्रातःकालविषयत्व तच्चोदनायाः सेत्स्यतीत्याशयः । जीवनान्तर्गतसायम्प्रातःकालविषय तान्तर्गत्युक्त्या विवक्षिता अनेन च यदपीत्याशङ्कापरिहारभाष्य व्याख्यातम् यावच्छ् रुतिविरोधश्च अस्मिन्पक्षे स्यादिति दूषणा न्तरोक्त्यर्थत्वेन शब्देन त्विति भाष्यं चशब्दार्थो तुशब्दाभ्युपगमेन व्याचष्टे यावच्छब्दश्चेति इत्यर्थादित्यम्यासलक्षणोपसंहारभाष्यं [६३३।१] व्याचष्टे अत इति सायम्प्रातश्चोदनामिश्रत्वोक्त्या कृत्स्नप्रयो गाङ्गत्वेन कालविधानात्तद्विरोधादपि वितत्य प्रयोगो न युक्त इति सूचितम् । ननु जीवनपरिमिते काले जुहुयादिति विहिते ऽर्थादभ्यासापत्तावपि विधेरभ्यासविषयत्वाभावान्नाभ्यासलक्षणापत्तिरित्याशङ्कानिरासार्थत्वेन स हीति भाष्यं व्यख्यातुमाशङ्कते तावत् ननु चेति एतदेव विवृणोति तथा हीति शब्दस्य होमाभ्यासापादने यः श्रमः स सामर्थ्यहोमेनारोपितो यत इत्यध्याहारेण भारानुपादने हेतुतया योज्यम् । शब्दोक्तजीवनपरिमितकालान्वयसामर्थ्यस्याश्रुताम्यासापादकत्वमात्रेण तुशब्दस्य दुष्टत्वाभ्युपगमे सिद्धान्ते ऽपि सायम्प्रातःकालवच्छिन्नजीवनलक्षणनिमित्तान्वयसामर्थ्यस्याश्रुताभ्यासापादकत्वादविशेष इत्याह अथेति सिद्धान्ते प्रत्यह प्रयोगविध्यर्थसमाप्तेः प्रत्यहमभ्यस्तप्रयोगाभावात्प्रयोगाभ्यासस्य च विधिव्यापारं विनापि सामर्थ्यादेव सिद्धेर्नाभ्यासलक्षणापत्तिः पूर्वपक्षे त्वभ्यस्तस्य कर्मणः प्रयोगो न प्रयोगाभ्यासः प्रयोगस्य च विध्यधीनत्वादभ्यासलक्षणं च विनाभ्यस्तप्रयोगविध्ययोगाल्लक्षणापत्तिरिति वैषम्येणाशङ्कानिरासार्थतया व्याख्यातुमाह उच्यते इति प्रत्यहं विध्यर्थसमाप्तौ द्वितीयादिष्वहःस्वनुष्ठानानर्थक्यमाशङ्क्य पृथक्प्रयोगतोक्ता श्लोकं व्याचष्टे ममेति प्रतिदिनं कर्मसमाप्तेर्नैकस्मिन्प्रयोगे कर्माभ्यास इत्यर्थः । न त्वभ्यस्तप्रयोगस्यापि सामर्थ्यालभ्यत्वेनाशाब्दत्वात् न दोषापत्तिरित्याशङ्क्याह तच्चेति अभ्यस्तप्रयोगचोदनां विनाभ्यस्तप्रयोगासिद्धेरभ्यस्तस्वरूपत्वे विधिर्व्यापारयितव्य इत्यर्थः । ननु विधेयत्वे ऽप्यभ्यासस्य जीवनपरिमितकालान्वयान्यथानुपपत्तितः प्रतीतेर्धातोरभ्यासलक्षणायां व्यापाराभावाददोष इत्याशङ्कते नन्विति शाब्दत्वं विनाभ्यासस्य विधान्वयायोगेनान्यथानुपपत्तितः प्रतीतिसम्भवे ऽपि धातुव्यापारस्यावश्याभ्युपगन्तव्यत्वादपरिहार्या लक्षणेत्याशयेन परिहरं न चेत्यादिभाष्यसूचितमाह सत्यमिति श्रुतिश्चेत्यादिसूत्रार्थोपसंहारभाष्यम् । एकहेलया व्याख्यातुमाह तदिति पञ्चम्यर्थे तदित्यव्ययम् उभयशब्देनाख्यातयावज्जीवपदविषयतया श्रुतिशब्दो व्याख्यातः । अनुवादोक्तेरुद्देशाशयतोद्दिश्येत्यनेनोक्ता । लिङ्गदर्शनाच्च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत् स्यात् ॥ ३ ॥ अप्रतिपातनलक्षणलिङ्गदर्शनादपि कर्तृधर्मो यावज्जीविकतेति प्रतिज्ञाय कर्मधर्मे हि यावज्जीवकत्वे सति जीवनपरिमितदर्शपूर्णमासकालैक्याद्दर्शपूर्णमासयाजित्वानुपक्रमरूपातिपातनयोः कालभेदेन विरोधपरिहारानुपपत्तेर्यो दर्शपूर्णमासयाजी स तदुपक्रामेदेवेत्युपक्रमेण दर्शपूर्णमासयाजी तदुपक्रामित्वरूपेण वन्हिनेव धूमो नियम्येतेत्यनुपक्रमरूपातिपातनानुपपत्तिरित्येवं तदुपपादनार्थत्वेन कर्मधर्म हि प्रक्रान्तमित्येतावता भाष्येण प्रक्रान्तमेवेत्यवधारणया प्रक्रान्तं सदिति पाठे तु सच्छब्देनावधारणसूचनया मध्यमसूत्रावयवं व्याख्याय यावज्जीवेत्यादीना कर्मधर्मपक्षे उपक्रमरूपातिपातनायोगादसमापनरूपमतिपातनं वाच्यं तत्र च यावज्जीवकालेन समापनावगतेस्तावति काले ऽतिपन्ने कर्मणो ऽतिपत्तिः स्यात्तत्र च मृतस्य प्रायश्चित्तानुष्ठानाशक्तेर्निमित्तभूतातिपातनवचनादन्यन्नैमित्तिकप्रायश्चित्तविधानमनर्थकं स्यादित्येवम् अन्यावयवो व्याख्यातः । तत्र जीवनान्त्यकालात्प्रागप्यसमाप्तिरूपातिपत्त्युपपत्तेः [६३४।२] काले ऽतिपन्ने कर्मातिपत्त्युक्तिरयुक्तेत्याशङ्कानिरासपूर्वं सर्वं भाष्यं तात्पर्यतो व्याचष्टे अतिपत्तिरिति स्वधर्मभूतकालातिक्रमः कर्मकर्तृकः प्रयोज्यव्यापारे ऽतिपत्तिर्नानुपक्रमो समाप्तिर्वा तत्प्रयोजकस्तु पुंव्यापारो ऽनुक्रमणासमापनोपलक्षितो विध्यविज्ञानाख्यो ऽतिपात्तनमित्याशङ्कानिरासाशयः । सिद्धान्ते तु कालभेदादेकस्मिन्मासे दर्शपूर्णमासानुष्ठानाल्लब्धदर्शपूर्णमासयाजिव्यपदेशस्य मासान्तरे ऽनुपक्रमणरूपमसमापनरूपं वातिपातनं प्रायश्चित्तविधिश्च सम्भवतीत्याह मत्पक्षे त्विति प्रायश्चित्तविषयत्वेन सम्भवतीत्यनुषङ्गः । ननु जीवनपरिमितदर्शपूर्णमासकालैक्याद्दर्शपूर्णमासयाजिनो ऽतिपातनप्रायश्चित्तविध्ययोगे ऽप्यभ्यासकालभेदादादुभयं सम्भवतीत्याशङ्कते ननु चेति पौर्णमास्यमावास्याशब्दयोरभ्यासलक्षणार्थत्वे प्रमाणाभावादभ्यासातिपातनस्य निमित्तत्वानवगतेर्नाभ्यासकालभेदाभ्युपगमेन विरोधपरिहार सम्भवतीत्याशयेन परिहरति न शक्यमिति ननु पौर्णमास्यभावास्याशब्दयो कालवाचित्वात्तस्य च जीवनपरिमितदर्शपूर्णमासप्रयोगविषयत्वायोगादनभ्यासविषयत्वावगतेरभ्यासविषयकालातिपातनस्य निमित्तत्वं प्रतीयतइत्याशङ्कते ननु चेति अवयवविषयः कालकर्तृकः प्रयोज्यव्यापारो ऽतिपत्ताख्यो ऽतिक्रमो निमित्तभूतातिपानाख्यपुङ्कर्तृकप्रयोजकव्यापारविषयत्वान्निमित्तत्वेनोक्त । परमार्थतस्त्वतिपातनं नामेति परिहारग्रन्थालोचनया कालातिपातनान्यनिमित्तत्वशङ्कार्थो लक्ष्यते कालस्यातिपत्त्याख्यं प्रयोज्यव्यापारं प्रतिकर्त्तृत्वाभावात्कालातिपातनस्य निमित्तत्वं न सम्भवतीति परिहरति नैतदिति कालेन कर्मणातिक्रमणीयमिति कालकर्तृकर्मविषया ऽनतिपत्त्यविधेः कालस्यातिपत्त्ययोगमिति हेतुत्वमुक्तमुपपादयितुम् यस्य हीत्याद्युक्तम् प्रधानस्याङ्गमनतिक्रमणीयं नाङ्गस्य प्रधानमित्येतदेव कुत इत्यपेक्षायाम् तदेव चेत्युक्तम् सगुणत्वायानतिक्रमविधानात्प्रधानस्य च सगुणत्वापेक्षणात्प्रधानस्यैवाङ्गमनतिक्रमणीयमित्याशयः । अनुष्ठानाननुष्ठानरूपत्त्वाच्चा [६३५।३] तिक्रमानतिक्रमयोरनुष्ठेयकर्मधर्मतैव युक्तेत्याह तदेव चेति अनुष्ठानमात्मा स्वभावो धर्मो यस्येति विग्रहः अतः पौर्णमास्यमावास्याशब्दवाच्यकर्मातिपातनस्य निमित्तत्वादभ्यासस्य च पौर्णमास्यभावास्याशब्दवाच्यत्वाभावादतिपातनप्रायश्चित्तविध्येर्लिङ्गता युक्ता इत्युपसंहरति तस्मादिति व्यपवर्गं च दर्शयति कालश्चेत्कर्मभेदः स्यात् ॥ ४ ॥ दर्शपूर्णमाससमाप्त्युत्तरकालत्वदर्शनाच्च कर्मधर्मपक्षे दर्शपूर्णमाससमाप्त्युत्तरकाल कर्मकालाभावादनर्थकमन्यत् सोमयागविधानं स्यात्तदर्थवत्त्वाय तु सोमयागस्य दर्शपूर्णमाससमाष्त्युत्तरकालं कालो ऽस्तीत्यभ्युपगमे यावज्जीवकालसमाप्यत्वायोगात्प्रतिमास दर्शपूर्णमासकर्मप्रयोगाङ्गभेदः स्यात् स च यावज्जीविकत्वस्य कर्तृधर्मत्वपक्षे पौर्णमास्यमावास्याकालावच्छिन्नस्य जीवनस्य प्रतिमासं भिन्नस्य निमित्तत्वाद्युज्यते न कर्मधर्मपक्षइत्येवं तत्रानर्थकमन्यत् स्यादिति पूर्वसूत्रावयवानुषगेण व्याख्यां सूचयितु कथमनर्थकमन्यत् सोमयागविधानं स्यादिति प्रश्नपूर्वं कथमित्यादिभाष्येण सूत्रं व्याख्यातं तदभ्याससमाप्त्युत्तरकालत्वस्य कर्मधर्मपक्षे ऽपि सम्भवात् समाप्त्युत्तरकालत्वस्य कर्तृधर्मत्वाल्लिङ्गत्वशङ्कानिरासपूर्वं व्याचष्टे दर्शेति यथैव पौर्णमास्यमावास्याशब्दयोरभ्यासवाचित्वाभावान्न प्रतिमासमभ्यासापत्तिः प्रायश्चित्तनिमित्तं किं तु यावज्जीविकाभ्यासापत्तिस्तथैव दर्शपूर्णमासशब्दयोरभ्यासवाचित्वाभावाद्यावज्जीविकाभ्याससमाप्त्युत्तरकालतैव स्यात् न प्रतिमासाभ्याससमाप्त्युत्तरकालतेति शङ्कानिरासार्थः । कालश्चेदित्यादिसूत्रावयवं स्वयमन्यथा व्याख्यास्यन् भाष्यव्याख्याते ऽर्थे तावद्योजयति सूत्रमपीति अन्यथा व्याख्यातुमाह कालश्चेदिति कर्मान्तरेण सोमयागादिना दर्शपूर्णमासकर्मणोरविच्छेदे सत्यपि को दोषइत्यपेक्षायां दर्शपूर्णमाससमाप्त्युत्तरकालविधिविरोधो विचार एतद्यज्ञस्य छिद्यते यदन्यस्य तन्त्रे वितते ऽन्यस्य तन्त्रं प्रतारयते इत्यादिनिन्दोन्नीतनिषेधविरोधश्चेति दोषद्वयमुक्तं लिङ्गदर्शनसाध्यमर्थमुपसंहरति तस्मादिति अनुध्यायिनीजरामरणनिर्मोकवचनरूपस्यान्यार्थदर्शनवद्यज्ञस्य व्यपवर्गसूत्रार्थत्वाभावात्तद्व्याख्यावेलायामुपन्यासो न युक्त इत्याशङ्क्यापवर्गसूत्रार्थत्वाभावे ऽप्यनित्यत्वात्तु नैवं स्यादित्युत्तर सूत्रस्थेनैवंशब्देन परामर्शसिद्ध्यर्थं तत् समीपे मुक्तकस्यान्यार्थदर्शनद्वयस्योपन्यास इत्याह मुक्तकेति सूत्रानारूढस्योपन्यस्तस्य सौत्रेण शब्देन परामर्शमाश [६३६] ङ्क्य विशेषत केन चित् सूत्रेणानुक्तत्वे ऽपि सामान्यतो लिङ्गदर्शनसूत्रगोचरतोक्ता । अनुध्यायिनीवचनं व्यास्यास्यत् अतिपातनप्रायश्चित्तादीनां लिङ्गदर्शनानां विधिरूपत्वादस्यापि विधिरूपत्वशङ्कां निवर्त्तयितुमर्थवादत्वं तावदाह तद्यथेति लिङ्गदर्शनसूत्रे ऽनुध्यायिनीजरामरणनिर्मोचनवचनयोरपि नियमलिङ्गत्वादुदाहरणत्वसम्भवसूचनार्थस्तद्यथाशब्दः । अर्थवादत्वसिद्ध्यर्थं विध्यन्तरशेषभूतत्वे ऽभिहिते होमादिनिषेधार्थत्वाद्विध्यन्तरशेषत्वायोगमाशङ्क्य दीक्षितो न ददातीत्यादिवाक्यान्तरेणैव होमादेः पर्युदस्तत्वान्नाग्नि होत्रं जुहोतीत्यादेरनुवादत्वं दीक्षितस्येत्यनेनोक्तं व्याचष्टे एतावन्तं हीति य आहेत्यादिभाष्येणाभिमुख्यार्थत्वादाहो हकारस्य च निश्चयार्थत्वादात्मार्थत्वरूपेणाभिमुख्येन यो भागो निश्चितो भवति तस्मिन्नदीयमाने ऽनुध्यायिनीवचनं भवतीत्यनुध्यायिनीपचनाद्भागस्य नियतत्वमुक्त्वा यन्नेत्यनेन व्यतिरेकमुखेनोपपाद्य नियतश्चेत्यनेन भागनियतत्वद्वारानुध्यायिनीवचनस्य नियमलिङ्गतोपपादिता तत्सर्वं सङ्क्षिप्य तात्पर्यतो व्याचष्टे एतदिति कर्म धर्मपक्षलिङ्गायोगोक्त्यर्थं नेति भाष्यं व्याचष्टे कालेति तस्मादित्युपसंहारभाष्यं व्याचष्टे तस्मादपीति जरामरणनिर्मोकोक्तेर्लिङ्गत्वोक्त्यर्थमपि च श्रूयतइति भाष्यं व्याख्यातुं यथाभागस्य नियतत्वं नियमलिङ्गं तथा जरामृत्युभ्यामेव निर्मुच्यतइति जरामरणयोरपि निर्मोककारणयोर्नियतत्वं लिङ्गमित्यतिदिशति एतेनेति जराविधेरन्यतो ऽप्राप्तत्वादनेनैव वाक्येन विधि सूचयितुं विधानशब्दः । जरेति भाष्यं व्याचष्टे काम्यत्वेति अनित्यत्वात्तु नैवं स्यात् ॥ ५ ॥ जरामरणवाक्यस्य प्रागेवोपन्यस्तत्वात्पुनरुपन्यासो ऽनर्थ इत्याशङ्क्याह यदेवेति तत् सूत्रस्थेनैवंशब्देन परामर्शार्थ प्रागुपन्यस्तं वस्तुतस्त्वेतत् सूत्रार्थएवान्यार्थदर्शनद्वयमुपलक्षणार्थ त्वेकमुषन्यस्तमित्याशयः । सूत्रं योजयति नियमेति यदेतदनुध्यान जरामरणनिर्मोचनं चोक्तं तद्भवत्पक्षे कर्मणो ऽनित्यत्वायोगाद्यथोक्तं तथा न स्यादित्यर्थः । लक्षणाभ्युपगमे ऽपि जीवनस्यानियतपरिमाणत्वात्तु यत्काललक्षणार्थत्वमुक्तं तन्नैवं स्यादित्येवं स्वयमन्यथासूत्रं व्याचष्टे अथ वेति सूत्रार्थमुपपादयति तन्नामेति नित्यशब्दव्याख्यानार्थम् कियतापीत्युक्तम् चन्द्रादर्शनस्य ज्योतिः शास्त्रान्नियतपरिमाणेनामावास्याकालेनाविनाभावावगमात्तदुपलक्षणत्वं युक्तं जीवनस्य तु कियता कालेनाविनाभावानवगमान्न युक्तोपलक्षणतेत्यर्थः । यस्मादनियतपरिमाणत्वाज्जीवनकालमुपलक्षयितुं न शक्नोति तस्मादेतज्जीवनमेवमुपलक्षणमापद्यते यदुतैतज्जीवनमेवम्भूतमनियतपरिमाणं यदा भवेत्तदा जुहुयाद्यजेत वेति ततश्च कादाचित्कत्वान्निमित्ततैव स्यादित्याह तदिति ननु नियतनिमित्तत्वान्नियत कर्मेत्याद्यसिद्धान्तसूत्रस्थभाष्ये नियतनिमित्तत्ववशेन कर्मणो ऽवश्यकर्त्तव्यतोक्तिर्ज्जीवनस्यानित्यत्वान्निमित्तत्वाभ्युपगमे विरुध्येतेत्याशङ्कते कथं तर्हीति यावदात्माधिष्ठितत्वरूपेण शरीरमस्ति तावत्प्राणधारणाख्यं जीवनं नियमेनास्तीत्येवमाशयं भाष्ये जीवननित्यत्वाभिधानमिति परिहरति यावच्छरीरेति विरोधश्चापि पूर्ववत् ॥ ६ ॥ यावज्जीविकाभ्यासपक्षे च दर्शपूर्णमासवत्तद्विकृतीनामप्यभ्यासापत्तेः सर्वासां चैकस्मिन्काले ऽभ्यासस्याशक्यत्वाद्विरोधः स्यादित्येवं सूत्रव्याख्यार्थमितश्चेत्यादिभाष्यं नियमपक्षे ऽपि विरो [६३७।२] धसाम्यादयुक्तमाशङ्क्यापपादयति नियमः सन्निति नियमस्यावश्यकर्त्तव्यरूपस्य प्रत्यवायपरिहारार्थत्वेन पुरुषार्थत्वादनतिदेशो ऽष्टमे वक्ष्यतइत्यर्थः । नन्वतिदेशप्राप्तो ऽपि यावज्जीवकालो य इष्ट्येति वाक्योपदिष्टेन सद्यस्कालत्वेन बाधिष्यतइत्याशङ्कते ननु चेति अविरोधान्न बाध्यतइति परिहरति । नैतदिति कर्त्तुस्तु धर्मनियमात्कालशास्त्रं निमित्तं स्यात् ॥ ७ ॥ ननु कर्तृधर्मपक्षे ऽपि यावज्जीवशब्देन जीवनपरिमितकालत्वोक्तेस्तुल्यो विरोध इत्याशङ्कानिरासार्थत्वेन यथाभाष्यं सूत्रं योजयति कर्त्रेति व्यपवर्गदर्शनानुक्तावपि सूत्रार्थः पर्यवस्यतीति सूचनाय एतावदित्युक्तम् निमित्तपक्षे दर्शपूर्णमासाविष्ट्वेत्यपवर्गदर्शनावक्लृप्तेः कालश्चेत्कर्मभेदः स्यादित्यनेनैवोक्तत्वाद्दर्शनान्तरानुदाहरणाच्च व्यपवर्गदर्शनोक्तिरयुक्तेत्याक्षिपति यत्त्विति दर्शनशब्दो याज्ञिकस्थितिलक्षणसिद्धान्ताशयो न तु लिङ्गदर्शनाशय इत्येवं समाधत्ते तत्रेति व्यपवर्गसिद्धान्तोक्तेरपि पौनरुक्त्यमाशङ्क्य पूर्वसूत्रस्थभाष्यालोचनया विकृतिविषयतोक्ता प्रकृतिन्यायनैव विकृतीनामपि व्यपवर्गसिद्धान्तत्वोपपत्तिसिद्धेर्मन्दफलत्वेनापरितोषात्स्वयमन्यथासूत्रं व्याचष्टे अथ वेति उपसहारार्थत्वे सूत्रस्यानतिरिक्तार्थत्वात्फल्गुत्वापत्तेरत्राप्यारितोषान्नियमपक्षे कालवाचियावज्जीवशब्दानुपपत्तिमाशङ्क्य नियमवाचितया यावज्जीवशब्दव्याख्यार्थत्वेन व्याचष्टे अथ वेति उक्तेन न्यायेन कर्तृधर्मनियमे सिद्धे सति कालशास्त्रतयाभासमानमपि यावज्जीवपदं वस्तुतो निमित्तशास्त्रमेव स्यादित्यर्थः । श्रुतिसंयोगोक्त्यैव कालवाचित्वनिरासेन निमित्तवाचित्वसिद्धेरत्राप्यपरितोपात् स्वमतेन निरूढपश्वादिषु नैयमिकत्वोक्त्यर्थत्वेन व्याचष्टे अथ वेति षट्सु षट्सु मासेषु पशुना यजेत चतुर्पु मासेषु चातुर्मास्यैर्यजेतेत्यादिशब्देनोक्तम् । कालशास्त्रत्वेनाभासमानस्य वीप्सायोगमात्रेण कथं निमित्तशास्त्रतावसीयतइत्याशङ्क्याह न तावदिति काम्यस्य वा ज्योतिष्टोमप्रयोगस्य वसन्तकाल उपदिश्येत एष वा अनूणोयः पुत्री यज्वा ब्रह्मचर्यवासीत्यनृणवाक्याद्वावगतस्य नैयमिकस्य तत्र काम्यस्य तावद्यावदिच्छयावृत्तौ कालस्याप्यङ्गत्वेन हेतुना वीप्सां विनापि प्रतिप्रधानावृत्तिन्यायादावर्त्त्यमानतया स्थितत्वाद्वीप्सानर्थक्यापत्तेर्वसन्ते वसन्तइत्येवं वीप्सायुक्तत्वेन कालो न शक्यो वक्तुं नैयमिकस्य च ज्योतिष्टोमप्रयोगस्योपदिश्यते ततश्चौलोपनयनादिवत् सकृत्प्रयोगमात्रेण नैयामिकविध्यर्थसिद्धेर्निष्फलावृत्त्ययोगात्तद्वाचिका वीप्सानर्थिका स्यात् इत्यर्थः । ननु नैयमिकस्यापि प्रयोगस्य कालोपदेशे द्वित्रादिषु वसन्तेषु प्रयोगविध्यर्था [६३८।२] वीप्सा भविष्यतीत्याशङ्क्यानवस्थितशास्त्रार्थापत्त्या निरस्यति न चेति अतः सर्ववसन्तव्याप्त्यर्थत्वाद्वीप्साया निमित्तत्वं च विना व्याप्तेरप्राप्तत्वेनानुवादायोगादेकस्मिंश्च प्रयोगे ऽनेकवसन्तसाहित्यसम्पादनाशक्तेर्विध्ययोगान्निमित्तशास्त्रतावसीयतइत्याह तस्मादिति नन्वधिकरणवाचिन्या सप्तम्या कालस्याङ्गत्वावगतेर्निमित्तता न युक्तेत्याशङ्क्याह सप्तम्यपि चेति अत्रार्थे सूत्रं योजयति तेनेति ज्योतिष्टोमन्यायं पश्वादिष्वतिदिशति एतेनेति
॥ अथ सर्वशाखाप्रत्ययैककर्मताधिकरणम् ॥ २ ॥
नामरूपधर्मविशेषपुनरुक्तनिन्दा ऽशक्तिसमाप्ति वचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात् ॥ ८ ॥ षड्विधस्यापि कर्मभेदस्योक्तत्वादनर्थकमेतदधिकरणमित्याशङ्क्य शाखान्तराख्यकारणान्तरनिरासार्थत्वं तावत्परमतेनाह उक्तेति प्रतियोगिज्ञानापेक्षत्वादिदं कर्म शाखान्तरीयकर्मभिन्नमिति बुद्धेः शाखान्तरान्यभेदकत्वशङ्कानुपपत्तेः कारणान्तरनिरासार्थत्वायोगेनापरितोषात् स्वमतेनोक्तषट्कमध्ये एव सञ्ज्ञागुणाभ्यासाशङ्कानिरासार्थमाह तत्रैव चेति रूपादेः षट्कबाह्यत्वात्कथं तन्मध्युताशङ्केत्याशङ्क्य केनचिदपूर्वसंयोगादिप्रकारेण षट्कान्यतमरूपत्वाशङ्कोक्ता कथं निन्दादेः षट्कान्यतमप्रकारत्वमित्याशङ्क्याह तदिति सिद्धान्ते प्रतिषेधार्थं निन्दादेर्गुणप्रकारत्वमुदितानुदितकालसंयोगभेदादित्यत्र शाखान्तरीयाणां गुणानामित्यादौ च पूर्वपक्षवार्त्तिके योजयिष्याम इत्यर्थः । ननु पूर्वत्रासम्भवेन गुणस्य भेदकत्वादुदितानुदितकालस्य चोत्पत्तिशिष्टत्वाभावेनामिक्षादिवत् पूर्वसंयोगासम्भवहेतुत्वायोगाच्छाखान्तरीयस्य च कर्मणो ऽनवगतत्वेनाप्रत्यभिज्ञानाच्छाखान्तरीयस्य गुणस्य शाखान्तरीये कर्मणि विघ्य।?।सम्भवेन भेदकत्वस्याशङ्कनीयत्वाच्छाखान्तरीयगुणानां चैकशाखात्ये।?। कर्मण्युपसंहाराशक्तेः शाखान्तरीयकर्मानवगमस्यैव हेतुत्वाच्छाखान्तरीयत्वसहकृतस्यैव गुणस्य भेदकत्वेनाशङ्कनीयत्वावगतेः पुनः श्रुतेश्च सिद्धान्ते शाखान्तरीयत्वेनैवाभेदकत्वाभिधानाच्छाखान्तरीयाणां यथोदाहरणत्वं तथा वेदान्तरीयस्यापि कर्मणः शाखान्तरीयाध्यायिभिरनवगमाविशेषाद्वेदान्तराणामप्युदाहरणीयत्वावगतेः शाखान्तराणीति भाष्यमयुक्तमित्याशङ्कते कथं पुनरिति केषां चिदुपलक्षणत्वेन समर्थनं दूषयितुमुपन्यस्यति के चिदिति त्रयी विना सर्वाङ्गोपेतकर्मानवगतेर्वेदत्रयस्याप्यध्येयत्वाच्छाखान्तरीयन्यायासम्भवेन दूषयति न त्विति श्लोकं व्याचष्टे यत्र हीति औदगात्रे वा वेदे यत्कर्म द्रव्यदेवतासंयुक्तमाम्नायते तत्र कथमित्यपेक्षायामाह यत्त्विति अनेकवेदाधीतस्य कर्मणो यत्र द्रव्यदेवाम्नानं तत्रैवोत्पत्तिर्वेदान्तरे गुणमात्रविध्यर्थश्रुतिरित्येतदेव तृतीयाधिकरणसूत्रेण द्रढयति तथा चेति तस्माद्युक्तमेव भाष्यमित्याह तस्मादिति नामविशेषदर्शनाद्रपविशेषदर्शनादित्यादिप्रत्येकं दर्शनशब्दान्वयेन सूत्रव्याख्यां दृश्यतेशब्देन सूचयन्नाम्ना भेदोक्तिं व्याचष्टे तत्रेति नामरूपयोर्विशेषोक्त्यन्वयो भेदोक्त्या सूचितः । नामभेदो यद्भेदकारणं तत्तावदिह दृश्यतइत्यर्थः । नन्विति भाष्येण काठकादिनाम्नोऽवध्य स्मरणेनानादित्वावधारणाद्वैशम्पायनान्तेवासिपुरुषवाचिकठशब्दप्रकृतिकत्वे चादिमत्त्वापत्तेश्चरणाख्यब्राह्मणावान्तरजातिवाचिकठशब्दप्रकृतिकत्त्वावगमात्तस्माच्च परतस्तेन प्रोक्तमिति विहितस्याण्प्रत्ययस्य कठशब्दपरतया विध्यभावेन कठचरकाल्लुगिति स्मृतेर्लुराभावात्स्वार्थिककप्रत्ययान्तत्वेन काठकमिति रूपावगतेर्ग्रन्थस्यैव प्रवाच्यतयैतन्नामकत्वावसायात्कर्मनामत्वायोगमाशङ्क्य सत्यमित्यनेन तस्येदमित्यस्मिन्नर्थे गौत्रचरणाद् वुञिति चरणवाचिनः कठशब्दाद् वञ्प्रत्ययोत्पादनेन तदादेशाक्रान्तत्वात्काठकशब्दव्युत्पत्त्यवगतेस्तस्य च धर्मसमाम्नाययोरिष्यतइति स्मृत्या कठसम्बन्धिसमाम्नायविषयत्ववत्तत्सम्बन्धिधर्मविषयत्वस्याप्यवगत्यविशेषाद्विभक्त्यैक्यहेतुकसामानाधिकरण्याविशेषाच्च धर्मरूपकर्मनामताप्युपपादितेत्येवं व्याख्यातुमाह तद्यथेति रूपाद्भेदोक्ति व्याचष्टे तथेति आमिक्षावाजिनदृष्टान्तेनोपपादितेन गुणत्त्वेन रूपभेदस्य भेत्तृत्वे कपालसङ्ख्याया यागगुणत्वाभावादभेदकत्वमाशङ्क्य गुणस्य तु विधानार्थ इत्यत्र कपालाश्रिताया अपि सङ्ख्याया यागं प्रत्यङ्गत्वरूपगुणतोक्ताद्यदृष्टान्तेन स्मारिता धर्मविशेषस्यापि गुणत्वमुपपादयितुमाह कारीरीति कारीर्याद्यध्यनकाले ऽनुष्ठीयमानस्य भूमिभोजनादेः कैमर्थ्याकाङ्क्षायां फलवतः कारीर्यादेर्वाक्याध्ययनद्वारा सन्निहेतस्य प्रकरणानाम्नातेतिकर्त्तव्यताग्राहित्वायोगे ऽप्यध्ययनस्य दृष्टार्थत्वेनादृष्टार्थतेति कर्त्तव्यताग्राहित्वायोगात्सन्निधानाख्येन स्थानेन कारीर्यादीतिकर्त्तव्यतावगतेर्गुणत्वे ऽपि कर्माङ्गभूतज्ञानद्वारत्वेन विप्रकृष्टतरत्वाद्भेदेनोपादानमित्यर्थः । साक्षादितिकर्त्तव्यतात्वनिरासार्थः स्थानीयशब्दः । अश्वघासादिग्रहणस्योदाहरणार्थत्वेन धर्मान्तरस्यापि ग्रहणसिद्धेर्विशेषानभिधानाच्चान्यधर्मोक्तेरुदाहरणान्तरार्थत्वायोगादानर्थक्यमाशङ्क्याह पर इति अश्वघासादेरिति तन्त्रेणान्ययोगनिमित्तापादानपञ्चमीत्वेन व्याचष्टे अश्वेति पुनरुक्तत्वमभ्यासत्वेन व्याचष्टे पुनरुक्तत्वेनेति निन्दाया गुणत्वं तावदुपपादयति निन्दायामपीति पूर्वपक्षे निन्दाया निषेधमात्रपर्यवसानाभ्युपगमान्निन्दासंयोगेनोदितानुदितकालयोर्निषेध्ययोर्गुणयोर्भेदादित्येव योज्यम् । अनुदितहो मनिन्दां व्याचष्टे उदितेति निन्दाया निन्द्यनिषेधापेक्षत्वादुदित एवेत्यवधारणाभ्युपगमेनानुदितहोमो न कार्य इत्यस्मिन्नर्थे तस्मादिति योज्यम् । उदितहोमनिन्दां व्याचष्टे इतरे पुनरिति प्रद्रुतायान्नदानोक्तेर्निन्दात्वाभिव्यक्त्यर्थं यः पूजाप्तित्युक्तम्प्रद्रुतशब्दव्याख्यानार्थातिक्रान्तोक्तिः अतिक्रान्ता यान्नदानाशक्तिमाशङ्क्य व्याहृत्यैहीत्त्युत्क्वेत्युक्तम् तस्मादित्युदितहोमो न कार्य इत्येवं योज्यम् । निन्दाया निन्द्यन्तरविधिशेषत्वात्तद्वादशैकादशकपालत्ववद्विकल्पेनाविरोधमाशङ्क्य वैकल्पिकत्वे सत्युभयथाप्यवैगुण्यान्निन्दानुपपत्तेर्विरोधपरिहारायोगोक्त्यर्थं सर्वेति [६४०।२] भाष्यं व्याचष्टे तत्रेति अशक्तेर्गुणत्वमुपपादयति अशक्तीति समाप्तिभेदस्याप्येकस्मिन्कर्मणि निवेशासम्भवेन भेदकत्वात् समाप्तिवचनस्यापि गुणतेत्याह समाप्तीति अस्माकं यो ऽग्निः सो ऽन्वारोहेषु समाप्यते ऽन्येपामन्यत्रेति समाप्तिभेदाः समाप्त्युक्त्या भेदकत्वेन विवक्षितभेदशब्देन सूचितम् । क्व चिच्छाखायामुदितकालातिक्रम इति प्रायश्चित्तनिमित्त क्व विदनुदितकालातिक्रम इति प्रायश्चित्तनिमित्तभेदस्यापि निन्दावन्निषेधगमकत्वेनैव भेदकत्वात्पृथगुपन्यसानर्थक्यमाशङ्क्याह निन्दयेति प्रायश्चित्तनिमितो भेदः३ प्रायश्चित्तभेद इति मध्यमपदलोपी समासः वृद्धिशब्दव्याख्यानार्थं वैगुण्योक्तिः । एकेनैवोदाहरणेनान्यार्थदर्शनव्याख्यासिद्धेरुदाहरणपञ्चकानर्थक्यमाशङ्क्य परिहरति परिहारेति यदीत्यन्यार्थदर्शनं व्याचष्टे यदीति इष्टवतामिति भाष्यादिष्टप्रथमयज्ञतानिष्टप्रथमयज्ञता च द्वयमपि लिङ्गमिति भ्रान्तिनिरासायानिष्टप्रथमयज्ञत्वस्यैव लिङ्गत्वमाह द्वादशाह इति ताण्डुकइत्यादिभाष्यं व्याचष्टे ताण्डुकेति ज्योतिष्टोमस्य प्राथम्यनियमे सति यज्ञान्तरेभ्यः पश्चात्प्रयोगे प्राथम्याभावान्नैष्फल्यापत्तेः यज्ञान्तराणां च प्रथमप्रयोगे ऽप्यवैगुण्यापत्तेरन्येन यजेतेति चान्यशब्दसमभिव्याहृतस्य यजेर्यज्ञान्तरवाचित्वात्तत्परेण प्रत्ययेन ज्योतिष्टोमस्य प्राथम्यविधावत्यन्तश्रुतिवाधापत्तेः सोमयागान्तराणां ज्योतिष्टोमपश्चाद्भावरूपधर्मविध्यर्थत्वेनास्य वाक्यस्य वार्त्तिककृतैव पञ्चमे व्याख्यास्यमानत्वाद्यजुर्वेदोत्पन्नत्वेन च ज्योतिष्टोमस्य सामवैदिकताण्डुकशाखागतत्वाभावात् सारस्वतसूत्रे च ज्योतिष्टोमपूर्वत्वात् सर्वकर्मणामिति भाष्यदर्शनादेकस्यापि ज्योतिष्टोमस्य प्राथम्यनियमे सति पक्षद्वये ऽप्यदीक्षितदर्शनानुपपत्तिसम्भवात् तत्सिद्ध्यै लिङ्गपरिहारसूत्रे सर्वशेषत्वोक्त्यानर्थक्यापत्तेर्द्वादशाहस्य ज्योतिष्टोमपश्चाद्भावलक्षणार्थं ज्योतिष्टोमान्तरस्य प्राथम्यनियमे सति इत्युक्तिमङ्गीकृत्य प्रकृतशाखगताद् द्वादशाहादन्यताण्डुकशाखागतं द्वादशाहं प्रति ज्योतिष्टोमस्य प्राथम्यनियमे सति प्रकृतशाखागतस्य द्वादशाहस्य ज्योतिष्टोमपश्चाद्भावानियमात्प्रतिशाख द्वादशाहाख्यकर्मभेदे सत्यनिष्टप्रथमयज्ञत्वं द्वादशाहकर्तृविशेषणं युक्तं भवतीति व्याख्येयम् । ननु सामवेदे ज्योतिष्टोमोत्पत्त्यभावाद्यजुर्वेदोत्पन्नज्योतिष्टोमप्राथम्यप्रतीतेः कर्मभेद चाविशेषात् सर्वज्योतिष्टोमप्राथम्यापत्तेरेकं च द्वादशाहादियज्ञं प्रति सर्वज्योतिष्टोमप्राथम्यायोगात् सर्वशाखोत्पन्नानां द्वादशाहादियज्ञानां ज्योतिष्टोमः प्रथम इत्यर्थावगतिद्वारा सर्वशाखागतानां द्वादशाहानां ज्योतिष्टोमपश्चाद्भावावगतेरुदाहृतवाक्ययुक्तशाखागतस्यापि द्वादशाहस्य ज्योतिष्टोमपश्चाद्भावनियमात्कर्मभेदे ऽप्यनिष्टप्रथमयज्ञदर्शनानुपपत्तिरित्याशङ्कानिराससूचनार्थोत्तरशब्दः । यज्ञान्तरधर्मभूतपश्चाद्भावावच्छेदकत्वेन ज्योतिष्टोमस्य परार्थतयोपादानात्पारार्थ्ये चैक इष्यतइत्यनेन न्यायेनैकस्यैव ज्योतिष्टोमस्य प्राथम्यावसायान्नैतद्वशेन सर्वशाखास्थानां द्वादशाहानां ज्योतिष्टोमपश्चाद्भावावगतिरित्याशयः । सर्व शाखासु कर्मैक्ये तु सर्वशाखास्थं द्वादशाहं प्रति ज्योतिष्टोमप्राथम्यनियमात्तद्द्वा।?।रा सर्वशाखास्थस्य द्वादशाहस्य ज्योतिष्टोमपश्चाद्भावनियमावगतेरदीक्षितदर्शनं द्वादशाहे न स्यादित्याह एकत्वे त्विति ज्योतिष्टोमः प्रथमो यस्मात्स ज्योतिष्टोमप्रथमस्तस्य भावो ज्योतिष्टोमप्राथम्यमिति बहुव्रीह्यभ्युपगमेन वा सर्वशाखास्थस्य द्वादशाहस्य ज्योतिष्टोमप्राथम्यनियमादित्येवं योज्यम् । तथा चेति द्वितीयान्यार्थदर्शनभाष्यं व्याचष्टे तथेति अर्द्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदीति वेद्य ग्रे विहितस्य यूपमानस्यातिदेशेन यूपैकादेशिनी प्राप्तस्य वेदिदेशातिक्रमा योगाद्वेदिमानस्य वेद्याधारस्य श्येनादिपक्ष्याकारस्थलावयवभूतपक्षद्वयसम्मानस्य चार्थप्राप्तत्वेना नुवादोपपत्तेः प्रत्यक्षविधिविरोधे ऽर्थवादकल्प्यविध्ययोगात्पक्षं सम्मानं निन्दित्वा वेदिसम्मानपरिग्रहः शाखान्तरीयस्य विरोधिनो वचनान्तरस्य तच्छाखीये कर्मण्यप्राप्ति द्योतयतीत्यर्थः । एतदेवोपपादयति वचनान्तरे हीति चतुर्विशतिप्रक्रमवेद्यग्रदेशे रथाक्षमात्रान्तरालानाम् एकादशानाम् यूपानां मातुमशक्यत्वाद्व्यासमात्राणि पक्षपुच्छानि भवन्तीति च पक्षयोर्वासमात्रत्वविधानात्पक्षसम्मानपक्षो सुतरामशक्तेर्विरोध इत्याशयः । तस्मादपीत्युपसंहारभाष्यं व्याचष्टे ततश्चेति अपरं चेति तृतीयान्यार्थदर्शनात् भाष्यं व्याचष्टे द्वे इति स्तोत्रीयावाचिसंस्तुतशब्दपरनिर्द्धारणपष्ठीयोगाद् द्वित्रिसङ्ख्ययोः स्तोत्रियाविषयत्वोक्तिः दशकाख्यत्वेन विराट्शब्दं व्याख्यातु दशकशब्दः । अतिरेकोक्त्याऽतिरात्रसंस्थज्योतिष्टोमविषयत्वप्रदर्शनायातिरात्रशब्दः अपि चेति चतुर्थान्यार्थदर्शनभाष्यं नासोमयाजी सन्नयतीत्यसोमयाजिन सान्नाय्यनिषेधो नेन्द्राग्नस्य पुरोडाशस्य तत्स्थाने विधानादनिष्टप्रथमयज्ञानां पुरोडाशित्वेन विवक्षितानां दीक्षितादीक्षितदर्शेनेव गतत्वादयुक्तमाशङ्क्य समाधत्ते पुरोडाशीति पञ्चमान्यार्थदर्शन भाष्यं व्या [६४१।३] चष्टे किं चेति नानाकर्मत्वेति भाष्यं व्याचष्टे उपहव्येति तस्मादिति पूर्वपक्षोपसंहारभाष्यं व्याचष्टे तस्मादपीति एकं वा संयोगरूपचोदनाख्याविशेषात् ॥ ९ ॥ सूत्रं व्याचष्टे सर्वत्रेति रूपशब्दोक्तद्रव्यदेवतव्यतिरिक्ताङ्गशयो गुणशब्दः संयोगचोदनयोर्ग्रहणायादिशब्दः । शाखास्थानां ब्राह्मणानामेव विधायकत्वात् सर्वशाखाभ्यो ज्ञानं यस्य कर्मणस्तदेकमित्युक्ते सर्वेभ्यो ब्राह्मणमार्गेभ्यो ज्ञानं यस्य तदेकमित्युक्तिः पुनरुक्तेत्याशङ्क्याह सर्वेति अत्रोदाहरणमाह तद्यथेति गुणमुख्यव्यतिक्रमाधिकरणे ज्योतिष्टोमस्य याजुर्वैदिकतयाः स्वयमेव वक्ष्यमाणत्वादौद्गात्रे ज्योतिष्टोमानुत्पत्तेस्तदङ्गभूतस्तोत्राद्याशया ज्योतिष्टोमोक्ति । अर्थसंयोगस्येति भाष्यं व्याचष्टे संयोग इति संशब्दस्य समीहितवाचित्वात्फलस्यैव च समीहितत्वात् समीहितेन योग इत्यवयवार्थसयोगात्फलान्वयवाची संयोगशब्द इत्याशयः । रूपमपीति भाष्यं व्याचष्टे रूपमिति पुरुषेति भाष्यं व्याचष्टे चोदनेति नामधेयं चेति भाष्यं व्याचष्टे ज्योतिष्टोमादीति तेनेति सिद्धान्तोपसंहारभाष्यं व्याचष्टे तस्मादिति शाखान्तरस्य भेदकत्वं शङ्कितुमापातनिकां तावत्करोति न चेति व्याचष्टे1 प्रमाणान्तरवदिति असन्निधानेनैव कारणेन शाखान्तराध्यायिभाष्यं शाखान्तरीयस्य कर्मणो ऽनवगतेः प्रतियोग्यनवगमे च भेदाप्रतीतेर्न शाखान्तरलक्षणमसन्निधानं भेदहेतुरिति परिहरति नेति एतदेव विवृणोति येन हीति स्मृतिहेतुसंस्कारोद्बोधसिद्ध्यार्था सदृशोक्तिः । ननु शाखाद्वयाध्यायिनः प्रतियोगिकर्मग्रहणसम्भवाच्छाखान्तरे प्रकरणान्तरन्यायो भविष्यतीत्याशङ्कते यस्तर्हीति पञ्चविशादिषु चैकशाखाङ्गतेषु ब्राह्मणान्तरेष्वेकशाखाध्यायिनो ऽपि प्रकरणान्तरन्यायो भविष्यतीत्याशङ्कान्तरमाह एकेति आद्यां शङ्कां निरसितुमुपक्रमते नैष इति एतदेव प्र [६४२।२] श्नपूर्वमुपपादयति किमिति स्वाध्यायोक्तर्वेदवाचित्वात् समस्तस्वशाखासमूहस्य च वेदत्वात्कथं स्वाध्यायशब्देनैकशाखाग्रहणमित्याशङ्कां निरस्यन् पूर्वार्द्धं व्याचष्टे यथैवेति एकशाखाध्यायिनि वेदवित् शब्दप्रयोगान्न शाखासमूहस्य वेदतेत्याशयः । संस्कारकर्माध्ययनपक्षे स्वाध्यायस्य संस्कार्यत्वेनानुपादेयत्वे ऽपि स्वशब्देनात्मीयवाचिना पितृपितामहादिपरम्परागताया एव शाखायाः कर्मव्युत्पत्त्याध्यायशब्दोक्तायाः अध्येतव्यत्वोक्तेरेकशाखाग्रहणसूचनार्थश्चशब्दः वेदान्तरस्यापि तर्ह्यनध्ययनापत्तेस्त्रिवेदीवोध्यज्योतिष्टोमादिकर्मासिद्धिः स्यादित्याशङ्कते नन्विति स्वाध्यायाध्ययनविधिनैकवेदाध्ययनविधानाद्वेदान्तरानध्ययनप्रसक्तावपि वचनान्तरेण प्रतिप्रसवाद्वेदान्तराध्ययनसिद्धिरिति परिहरति नेति स्मृत्यापि प्रतिप्रसवमाह तथेति वेदान्तरवैषम्यप्रदर्शनपूर्वमुत्तरार्द्धं व्याचष्टे साकाङ्क्षत्वाच्चेति द्वितीयामपि शङ्कामनेनैव न्यायेन परिहरति साकाङ्क्षत्वादेवेति ननु शाखान्तरानध्ययने प्रतियोगिकर्माग्रहणाद्भेदबुद्धिवत्प्रत्यभिज्ञानस्यापि तदेवेदमिति प्रतियोगिग्रहणसापेक्षत्वेनानुपपत्तेर्विकल्पादेवैककर्माभ्युपगमप्रसङ्गादन्योन्याश्रयः स्यादित्याशङ्कते नन्विति विधेयरूपभेदे शब्दान्तरादिप्रमाणव्यापारात्तस्य चोत्पत्तिविध्यधीनत्वादुत्पत्तिबोधनेनोत्पन्नोत्पत्त्ययोगाच्छब्दान्तरादीनां भेदकत्वावगतेः शाखान्तरे चोत्पन्नोत्पत्तावप्यध्येत्रन्तरे प्रत्यर्थवत्त्वोपपत्तेरुत्पत्तिबोधने ऽपि भेदकत्वायोगाच्छाखान्तरीयत्वनिमित्तवैलक्षण्यप्रतीतिमात्रेण भेदो वाच्यः स च प्रतियोगिग्रहणापेक्षत्वाच्छाखान्तराग्रहणे तावन्न शक्यो ग्रहीतुमध्येत्रन्तराग्रहणे ऽपि फलाद्यविशेषेण प्रत्यभिज्ञानाद्वस्त्रादिवैलक्षण्येन च देवत्तवैलक्षण्यवच्छाखावैलक्षण्यमात्रेण कर्मवैलक्षण्यायोगादभेद एवावसीयते न भेद इत्याशयेन परिहरति नेति विकल्पावगतिं विनाप्यध्येत्रन्तराच्छाखान्तरीयकर्मग्रहणे सति फलाद्यविषयनिमित्तप्रत्यभिज्ञानमात्रेण कर्मैक्यज्ञानाद्विकल्पसिद्धेरन्योन्याश्रयपरिहारमुक्त्वैकशाखाध्ययनात् स्वाध्यायविध्यर्थसम्पत्तावप्यनेकशाखाध्ययननिषेधादनेकशाखाध्यायिनो विहितविध्ययोगाद्विधिभेदेन कर्मभेदबुद्धेर्विधिश्रुतिविरोधात् सन्निधिलक्षणप्रत्यभिज्ञाबाधमाशङ्क्य स्वाध्यायगतयैकत्वसङ्ख्यया ऽनेकशाखाध्ययननिषेधसूचनार्थम् सङ्ख्यावशेनेत्युक्तम् स्वशब्देन च स्वीयशाखानियमाच्छाखान्तराध्ययननिवृत्तिरिति दृष्टान्तद्वारा सूचयितुमाह अथेति शाखान्तरस्य भेदकत्वशङ्कानिरासमुपसंहरति तस्मादिति न नाम्ना स्यादचोदनाभिधानत्वात् ॥ १० ॥ काठकादिनाम्नः कर्माभिधानत्वे ऽप्युत्पत्तिचोदनागतत्वाभावान्न नाम्ना कर्मभेदः स्यादिति स्वयमभ्युपेत्योक्त्याशयहेत्वर्थसूचनापूर्वं चोद्यतइति व्युत्पत्त्या कर्मवाचिचोदनाशब्दाभ्युपगमेन भाष्योक्तं हेत्वर्थं व्याचष्टे यद्यपि तावदिति इदं त्वित्यनेन परिहृतमिति भाष्ये व्याख्याते ऽथेति भाष्येण कर्मभिरपीति पूर्वपक्षभाष्यो [६४३।१] क्तमर्थमनुभाष्य नैष इति परिहारभाष्यं व्याख्यातुम् अन्यायो हीत्युक्तम् कथमिति प्रश्नभाष्यं व्याचष्टे कथं पुनरिति यद्यदिति परिहारभाष्यं व्याचष्टे तदिति श्लोकं व्याचष्टे काठकादीति ज्योतिरादिवल्लाक्षणिक्यपि कर्मसज्ञा कर्म भेत्स्यतीत्याशयेन किमत इति पृष्ट्वा पञ्चम्यर्थे यदित्यव्ययमङ्गीकृत्य यस्मात्काठकग्रन्थसंयोगात्काठककर्मैक्ये ऽपि काठकादिभिन्नग्रन्थसंयोगात्कर्म काठकादिभिन्नसज्ञं भविष्यतीति परिहारार्थं यद् ग्रन्थसंयोगादित्यादिभाष्यं व्याचष्टे ततश्चेति एतदेवोपपादयति तस्मादिति सर्वेषां चैककर्म स्यात् ॥ ११ ॥ नामभेदाच्च कर्मभेदे ऽभ्युपगम्यमाने सर्वेषामेकशाखाधीतानामग्निहोत्रदर्शपूर्णमासादीनां काठकादिनामैक्यादैककर्म्यं स्यादिति नाम्ना कर्मभेदे ऽनिष्टापत्त्युक्त्यर्थमेतत्सूत्रं चातुर्मास्यादिनामैक्ये ऽपि वैश्वदेववरुणप्रघासादिकर्मभेददर्शनादयुक्तमाशङ्क्योपपादयति प्रायेणेति करोतेर्ज्ञानाख्यक्रियाविशेषलक्षणार्थत्वमभिप्रेत्य साध्यवाची कार्यशब्दः । नन्वेवमपि सञ्ज्ञैक्यस्य साध्यकर्मैक्ये व्यभिचारान्न हेतुत्वं सम्भयतीत्याशङ्क्याह साध्येति सत्यं साध्यव्यभिचारेण सम्यग्घेतुत्वायोगान्नेदं सम्यगुत्तरं किं तु जात्युत्तरमित्यर्थः । साधर्म्यवैधर्म्योत्कर्षापकर्षवण्यार्वर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेपोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाख्यानां चतुर्विशतिजातीनां मध्ये केयमित्यपेक्षायां नामभेदात्कर्मभेदे ऽभिहिते ऽर्थान्नामैक्ये कर्मैक्यापत्तेरर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसम इति लक्षणयोगात् अर्थापत्तीत्युक्तम् । जातेरुत्तराभासत्वादुपन्यासानर्थक्यमाशङ्क्य कर्मनामभेदस्य पूर्वपक्षहेतोः काठकादेः कर्मनामत्वे ऽग्निहोत्रदर्शपूर्णमासादीनामेकशाखास्थानां काठकादिनामैक्येनैक्यापत्तेर्न कर्मनामता युक्तेत्यसिद्धत्वलक्षणस्य दोषस्याचोदनाभिधानत्वादित्यनेन दर्शितस्याप्यनिष्टाग्निहोत्रदर्शपूर्णमासाद्यैक्यापादनद्वारा प्रकर्षेण दर्शना याभिहितेत्युक्तम् । असिद्धत्वलक्षणदोषाविवक्षायामपि यादृशो यक्षस्तादृशो बलिरित्यनेन न्यायेन दुष्टपूर्वपक्षे दुष्टमप्युत्तरं यथा मदीयमुत्तरं दुष्ट तथा त्वदीयः पूर्वपक्षो ऽपि दुष्ट इत्येवं पूर्वपक्षस्य दुष्टत्वद्योतनात्सम्यगुत्तर भवतीत्याशयेन परिहारान्तरमाह सर्वत्र चेति सन्तं दोषमनुक्त्वान्यमसन्तं यो हि जल्पति तस्य द्वे निग्रहस्थाने वाच्यानुक्तीतरोक्तिजे इति बृहट्टीकायां दुष्टे ऽपि पूर्वपक्षे सम्यगेवोत्तरं वाच्यमित्युक्तत्वान्न्यायभाष्ये ऽपि छलजातिनिग्रहस्थानानां स्ववाक्ये परिवर्जनं परवाक्ये च पर्यनुयोग इत्यनेन स्वयमप्रयोगाय परप्रयुक्तस्य च छलादेरुत्तराभासत्वोद्भावनाय परिज्ञानाय न्यायविस्तरे छलादिव्युत्पादनं न तु प्रयोगायेत्युक्तत्वाद् दुष्टे ऽपि पूर्वपक्षे जातेर्नोत्तरता युक्तेत्याशङ्क्य परमतत्वसूचनार्थं केषां चिदिष्टमित्युक्तम् । कृतकं चाभिधानम् ॥ १२ ॥ यथाभाष्यं तावत्सूत्रं व्याचष्टे कृत्रिममिति कठस्य वै [६४४।१] शम्पायनान्तेवासित्वात्कलापिवैशम्पापनान्तेवासिभ्यश्चेति तेन प्रोक्तमित्यस्मिन्नर्थे पाणिनिप्रत्ययस्मृतेस्तस्य कठचरकाल्लुगिति लुक्स्मृतेः छन्दोब्राह्मणानि च तद्विषयाणीति च तदधीते तद्वेदेत्येतदर्थविहितप्रत्ययविषयत्वनियमस्मृतेस्तस्यापि च प्रोक्ताल्लुगिति लुक् स्मृतेः कठेन प्रोक्तं यो ऽधीते स कठ इति स्थिते तस्येदमित्यस्मिन्नर्थे काठकशब्दव्युत्पत्त्यबगमादाख्येति वेदाधिकरणसूत्रे काठकाद्यभिधाने पुरुषविशेषप्रवचनकृतमित्युक्तं ततश्चादिमता सताभि।?। नेनानादीनि कर्माणि न भिद्यन्तइत्यर्थ । ननु यथा ब्राह्मणादि।?। ब्दो मनुष्यावान्तरवर्णाख्यजातिवाची तथा कठादिशब्दो ब्राह्मण।?। वान्तरचरणाख्यजातिवाची तद्वाचिन एव च कठशब्दाठ् ठञ् प्र।?। य इतिस्मृतेस्तज्जातीयानां च वैशपायनप्राग्भाविनां तदन्तेवासि।?। रुपविशेषप्रोक्ताध्येतृत्वायोगात्प्रवक्तृविषयस्यापि कठशब्दस्य चर।?। विशेषवाचित्वावगतेःशाखाचरणविशेषयोगाच्च प्रवाच्यवक्तृसम।?। न्धस्यानादित्वात्प्रवचनकृतापीयमाख्या नित्यैवेति भाष्यकृत् व्य।?। ख्यानस्यायुक्तत्वमाशङ्क्य स्वयं प्रवचनकृतत्वात्काठकाद्यभिधा।?। स्याकर्मणश्चाप्रवाच्यत्वान्न कर्मविषयत्वं सम्भवतीति व्याख्यान्त।?। माह यद्यपीति नाम्नो भेदकत्वायोगमुपसंहरति तस्म।?। दपीति कठप्रोक्ताध्येतृसम्बन्धनिमित्तत्वात्प्रवचननिमित्तत्वे ऽ।?। पूर्वोक्तन्यायात्कर्मविषयत्वासम्भवसूचनार्थो ऽपि शब्दः । एकत्वे ऽपि परम् ॥ १३ ॥ रूपभेदाख्यं यत्परं कर्म भेदकारणमुक्तम् तत्कर्म्यैक्ये ऽ।?। विकल्पेनानेकाङ्गनिवेशोपपत्तेर्युक्तमित्यभिधानार्थं सूत्रं व्याख्या।?। माह न चेति व्रीहियवादिसम्बन्धिद्वारस्य कर्मभेदस्या।?। भ्युपगमादित्यर्थः । कर्मैक्ये कथं कपालसङ्ख्याभेदनिवेशोपपत्ति।?। त्याशङ्क्याह तस्मादितिं न तूत्पत्तिशिष्टगुणावरुद्धे कर्म।?। तद्विरोधिगुणान्तरविध्ययोगादिकल्पासम्भवस्योत्पत्तिवाक्यविज्ञा।?। मिति चित्राधिकरणवार्त्तिके ऽभिहितत्वान्नेह विकल्पः सम्भवत।?। त्याशङ्कते ननु चेति गुणान्तरस्याप्युत्पत्तिशिष्टत्वाविशेष।?। त्केन गुणेनावरुद्धे कर्मणि को गुणो ऽशक्यविधिरिति ज्ञातुमशक्य।?। त्वादगृह्यमाणविशेषत्वेनोभयोस्तुल्यबलत्वाद्विकल्पो युक्त इति ।?। रिहरति नैष इति तर्ह्युत्पन्नोत्पत्त्ययोगात्कर्मभेद स्यादि।?। शङ्कते कथं पुनरिति अद्विर्वचनं वेत्यत्र सूत्रे चोद्यस्याध्ये।?। भेदादेकस्मिन्नपि कर्मणि स्वाध्येतॄनू प्रत्यप्रवृत्तप्रवर्त्तकत्वा ।?। त्तिविधिभेदे ऽपि कर्मभेदापत्तिरेषेत्येवं परिहारं वक्ष्याम इत्याह तस्येति अनेकवाक्योत्पादितत्वोक्त्यापौनरुक्त्यानुभाषणार्थस्याग्ने।?। यवदिति सूत्रस्य बुद्धिस्थत्वात्तदपेक्षयोत्तरत्व धर्मविशेषस्य भेदक।?। निरासार्थम् । विद्यायां धर्मशास्त्रमिति ॥ १४ ॥ सूत्रं यद्धर्मशास्त्रं भेदकत्वेनोक्तं तत्कर्माङ्गत्वावेदकश्रुत्यादिप्रमाणाभावान्न कर्मविषयं किं तु ।
तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥
इत्यादिविद्यासंयोगाद्विद्याविषयमित्यभिधानार्थं यथाभाष्यं स्पष्टत्वान्न व्याख्यातम् । आग्नेयवत्पुर्नवचनम् ॥ १५ ॥ यथाग्नेयस्य पुनर्वचनमाग्नेयसूक्तहेतुत्वादित्याग्नेयाधिकरणपूर्वपक्षसूत्रे भेदकमुक्तं तथा प्रतिशाखमग्निहोत्रादिपुनर्वचनं भेदकमित्येवं यथाभाष्यं तावत् सूत्रं व्याचष्टे अनुभाषणेति यत्पुनर्वचनं भेदकत्वेनोक्तं तदन्यार्था वा पुनः श्रुतिरित्याग्नेयाधिकरणसिद्धान्तसूत्रे यथाग्नेयस्य पुनर्वचनम् अन्यार्थत्वान्न भेदकमित्युक्तं तथा प्रतिशाखमग्निहोत्रादिपुनर्वचनमप्यन्यार्थत्वान्न भेदकमित्येवं पौनरुक्त्यस्य भेदकत्वनिरासार्थत्वेन स्वयं व्याचष्टे अथ वेति यथासम्भवमर्थवादार्थत्वेन गुणार्थत्वेन वा पुनः श्रुतेरन्यार्थत्वान्न भेदकतेत्याशयः । अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥ १६ ॥ आग्नेयवदित्यस्य पौनरुक्त्यपरिहारार्थत्वव्याख्याने तेनैव पूर्वपक्षनिवृत्तेस्तन्निवृत्त्यर्थं वाशब्दानर्थक्यमाशङ्क्यान्यार्थत्वलक्षणपूर्वपरिहारनिवृत्त्यर्थमाह द्वितीयेति पूर्वपरिहारनिवृत्तावर्थवादार्थं गुणार्थं वेदं द्विर्वचनं न भवति समस्तेतिकर्त्तव्यतोपेतप्रधानश्रवणलक्षणस्य श्रुतिसंयोगस्य सर्वशाखास्वविशेषादित्येवं सूत्रं योजयितुमाह तत्रेति अच्युतवाक्ये पौर्णमास्यतिरेकश्रुतेरप्राप्तार्थत्वेनैकान्तिकविधित्वप्रतीतेरमावास्यामात्रश्रुतेरेव प्राप्तार्थत्वसम्भवेन गृह्यमाणविशेषत्वादर्थवादत्वं यथाङ्गीकृतं तथेह यद्येकस्यां शाखायां समस्तेतिकर्त्तव्यतोपेतप्रधानश्रुतिरस्यां प्रधानमात्रश्रुतिः स्यात्ततो नेतिकर्त्तव्यताकप्रधानश्रुतेर्गृह्यमाणविशेषत्वादर्थवादत्वं स्याद्यदि च शाखान्तरविहितं किं चिदङ्गमेकस्यां शाखायां प्रधानवाक्यगतं विधेयं स्यात्ततो दध्ना जुहोतीतिवत् गुणार्थत्वं स्यादित्याशयः । अत्रैवार्थे श्रुतीतिसूत्रावयवं योजयति एतमेवेति भाष्यकृद्वयाख्याते प्रतिशाखं भिन्नानामध्येतॄणां श्रुतिसंयोगस्यापूर्वत्वेनाविशेषान्न कं चिदध्येतारं प्रति द्विर्वचनमित्येवं सूत्रं योजयितुमाह न चे- [६४५।१] ति प्रश्नपूर्वं हेत्वर्थं व्याख्यातुमाह कुत इति श्लोकं व्याचष्टे पूर्वोक्तेनेति इतरस्तैत्तिरीयो ऽपीतरत्काठकमग्निहोत्रमनादरान्न शृणोति शृण्वन्नपि च कठप्रतिपत्त्यर्थमेवैतदिति कल्पयित्वा पुनः श्रुतिं न मन्यतइत्यर्थः । यच्च शाखान्तरस्य भेदकत्वनिरासायैकं वेति सूत्रे प्रतियोगिभूतशाखान्तरीयाग्निहोत्राग्रहणात्प्रतियोगिग्रहणसापेक्षभेदग्रहणं न सम्भवतीत्युक्तं तत्रापि प्रतियोगिग्रहणशून्यत्वेन श्रुतिसंयोगस्य सर्वशाखास्वविशेषादित्येवं हेतुयोजनं सूचयितुमाह इतीति अभ्युपेत्याप्यनेकशाखाध्ययनं पौर्वापर्याभावात्पुनः श्रुतित्वं नास्तीत्याह न चेति अनेन च श्रुतिसंयोगस्य पौर्वापर्यरूपविशेषाभावादिति हेत्वर्थः सूचितः । अत्रैवार्थे वृद्धसम्मतिमाह आह चेति यथाभाष्यं सूत्रार्थमुपसंहहरति तस्मादिति नन्वेकेन पुंसानेकशाखाध्ययने ऽपि शाखानां च पौर्वापर्याभावे ऽप्येककर्मविषयत्वे सत्येकयैव शाखया सर्वपुसां प्रतिपत्तिसिद्धेः शाखान्तरानर्थक्यं स्यादित्याशङ्कते ननु चेति प्रतिचरणं व्यवस्थितत्वाच्छाखानां स्वशाखात्यागेन परशाखाध्ययनानुपपत्तेः स्वशाखाध्ययनपूर्वं मेधावितया शाखान्तराध्ययने सत्यानर्थक्यं वाच्यं तच्च स्वाध्यायइत्येकवचनेनानेकशाखाध्ययननिषेधादयुक्तमित्याशयेन परिहरति नेति नन्वनधीतस्यापि शाखान्तरस्यानध्येतारं प्रत्यप्रतिपादकत्वादानर्थक्यं स्यादित्याशङ्क्याह न चेति यत्पुरुषप्रतिपत्त्यर्था या शाखा तस्यास्तं प्रत्यप्रतिपादकत्वे सत्यानर्थक्यं स्यान्नान्यथेत्याशयः । स्वाध्यायगतेनैकवचनेनैकशाखाध्ययननियमे ऽपि शाखाविशेषानियमात्प्रतिचरणं व्यवस्थाया प्रमाणाभावेनानुपपत्तेः सर्वपुंसामेकयैव शाखया प्रतीपत्तिरित्याशङ्कित्राशयमुद्भावनपूर्वकं निरस्यति यस्त्विति तुच्छत्वद्योतनार्थः किलशब्दः ते ऽपीति तच्छब्दो ऽन्यात्प्रतीत्यनन्तरनिर्द्दिष्टान्यपरामर्शी यद्यन्येषामपि शाखिनां पुरुषान्तरगतशाखाध्ययनादेव प्रतिपत्तिसिद्धेः शाखान्तराणि किमर्थ प्रवृत्तानीत्याशयस्ततो नित्यत्वेन वेदस्यापर्यनुयोज्यत्वादयुक्तः । अथ शाखान्तराध्ययनमनर्थकमित्याशयस्तथापि तच्छब्दनिर्दिष्टकाठकादिशाखाध्ययनाध्यापनाभ्यां कठादिचरणानां कर्तृकर्मसम्बन्धलक्षणस्याचारस्यानादित्वेन भ्रान्तिमूलत्वायोगात्कठचरणैः काठकशाखाध्येतव्येत्यादिश्रुतिकल्पनां प्रतिचरणं व्यवस्थावगतेरयुक्त इत्यर्थः ।
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तेनागच्छन् तरिष्यतीति ॥
स्मृत्यालोचनया काठकादिसमाख्यालोचनया स्वाध्याय इति स्वशब्दालोचनया च पितृपितामहादिपरम्परात्मकसम्प्रदायागतशाखात्यागेन शाखान्तराध्ययनं न युक्तमित्याह किं चेति स्वेनात्मना कठादिना समाख्या काठकशाखेयमित्यादिका निबन्धनमध्ययनव्यवस्थापिका यस्या इत्यर्थाश्रयणेन स्वसमाख्याशब्देन काठकादिसमाख्योक्ता स्वशब्दवती समाख्येत्यर्थाश्रयणे त्वधीयतइति कर्मव्युत्पत्त्या शाखावाच्यध्यायशब्दाभ्युपगमेन स्वश्चासावध्यायश्चेति विग्रहाश्रयणात्स्वाध्यायविधित एव प्रतिचरणं शाखाव्यवस्थासिद्धिः एवं सत्यपि शाखान्तराध्ययनस्याल्पायाससाध्यत्वे सत्यनुकल्पाश्रयणेन शाखान्तरमधीयेत न त्वेतदप्यस्तीति तुल्यश्रमोक्त्या सूचितम् । सदृशः श्रम इति व्याचक्षणः सूत्रार्थमुपसंहरति तस्मा [६४६।३] दिति यस्य वेदस्य शाखानां प्रतिचरणं व्यवस्थया यथावस्थितमध्ययनं स तथोक्तः । श्रुतिसंयोगाविशेषोपपादनायैकस्य पुंसो ऽनेकशाखाध्ययननिरासार्थं वाक्यासमवायादिति सूत्रं विस्मृतत्वान्न भाष्यकृता व्याख्यातमित्याह तत्रेति कथं तर्हि व्याख्येयमित्यपेक्षायामाह तदिति अर्थासन्निधेश्च ॥ १७ ॥ निन्दादेर्गुणप्रकारत्वात्तत्परिहारार्थत्वेनैकत्वे ऽपि परमित्यनेन सामान्यतः परिहारसिद्धेरन्यार्थदर्शनानां च प्राप्त्यपेक्षत्वात्तेष्वपरिहृतेष्वपि पूर्वपक्षे दोषोपन्यासावसरसम्भवाद्वाक्यासमवायादित्यनेन च काठकादिसमाख्याबलेन प्रतिचरणं शाखाध्ययनव्यवस्थायामुक्तायां शाखासमाख्याया बुद्धिस्थत्वात्तद्बलेन पूर्वपक्षनिरासायैतत्सूत्रं कर्मणो ऽनुग्राहकतयार्थ्यमानस्याङ्गकाण्डस्य समस्तस्यैकैकस्यां शाखायामनिधानादनिक्षेपादभावादैककर्म्येण शाखासादृश्याच्छाखासमाख्योपपत्तेर्न कर्मभेद इत्येवं यथाभाष्यं व्याख्यातुमाह एकस्येति धर्मशब्दस्याङ्गवाचित्वात्फलोक्त्या च पुष्पाणामप्युपलक्षणादेवंशब्देन च कर्मैक्यपरामर्शात्कर्मैक्ये सत्येकस्यैककर्ममूलत्वं विधिस्कन्धरूपस्य वेदाख्यवृक्षस्य कतिपयाङ्गाख्यपुष्पफलान्वयात्काठकाद्याः शाखाः शाखाव्यपदेश्याः प्रसिद्ध्यन्तीत्यर्थः । कथं वेदस्य वृक्षत्वोपचारः शाखानां च शाखात्वोपचार इत्याशङ्क्य बह्वित्युक्तम् यथैकस्य वृक्षस्यैकमूलः सर्वशाखाधारभूतः स्कन्धस्तथैकस्यैव कर्म्माख्यमूलोत्पत्तिविध्याख्यस्कन्धरूपत्वाद् वृक्षत्वोपचारः यथा वृक्षस्य पुष्पफलानि नैकैकस्यां वृक्षशाखायां समस्तानि सन्ति तथा वेदशाखायामप्येकैकस्यामृग्वेदादिप्रतिपाद्यहौत्रादिसमस्ताङ्गाख्यपुष्पफलासत्त्वाच्छाखात्वोपचार इत्याशयः । व्यतिरेकतो ऽन्वयतश्च श्लोकार्थमुपपादयति यदीति प्रधानभूतमग्निहोत्रादिकर्म प्रथमं विधेयत्वेन प्रतीतेर्मूलत्वेनोपचरितं कर्माख्यमूलान्तरत्वेनाङ्गाख्यपुष्पफलार्थान्तरत्वेन च समस्तस्य मूलपुष्पफलस्यान्यत्वादादित एवारभ्य भिद्यमानाः शाखाः वेदान्तराण्येवोच्येरन्नित्यन्वयः सौत्रस्य संशब्दस्य सामस्त्यर्थत्वं समस्तशब्देन सूचितम् । अङ्गानां पश्चात्प्रतीतेः पुष्पफवत्वोपचारः वृक्षमूलाश्रितस्य शाखोपक्रमस्य स्कन्धत्वाप्रसिद्धेःप्रधानाश्रितत्वादितिकत्तव्यताविध्युपक्रमत्वाच्च प्रधानविधेः स्कन्धत्वेनोपचारः एकमग्निहोत्रादिमूलमधिष्ठानविषयमूर्त्तस्य प्रधानकर्मोत्पत्तिविधेः स सर्वशाखास्थाङ्गविध्यधिष्ठानत्वास्कन्धरूपो यस्य वेदस्य तत्त्वे सतीति कर्मधारयगर्भवहुव्रीहिसमासार्थः । यथा क्व चिद् वृक्षस्य शाखायां पुष्पं क्व चित्फलमधिकं तथा क्व चिद्वेदशाखायामितिकर्त्तव्यतायाः । किं चिदधिकमित्येककर्माख्यमूलसम्बन्ध्यङ्गाख्यविलक्षणपुष्पफलयोगित्वरूपधर्मसामान्येन वेदशाखानां वृक्षशाखासादृश्याच्छाखान्तररूपो वेदान्तरव्यपदेशाद्भेदेन व्यपदेशो वेदस्यैककर्ममूलविधिस्कन्धरूपत्वे सत्युपपन्न इत्यर्थः । शाखान्तराध्यायिनः शाखान्तरीयार्थाप्रत्यभिज्ञानाच्चाद्विर्वचनमित्येवमेतदपि सूत्रं पौनरुक्त्यपरिहारार्थत्वेन स्वयं व्याचष्टे अथ वेति न चैकं प्रतिशिष्यते ॥ १८ ॥ नन्विहाधिकरणे स्वशाखाविहिताङ्गमात्रोपसंहारः पूर्वपक्षप्र योजनं सर्वशाखाविहिताङ्गोपसंहारश्च सिद्धान्तप्रयोजनं तत्र चेत्कर्मभेदे ऽपि सर्वशाखाविहितमग्निहोत्रादि प्रत्यङ्गानि विधीयन्ते ततः पूर्वपक्षप्रयोजनाभावादनारभ्यमिदधिकरणं स्यादित्याशङ्क्याह अभ्युपेत्येति यथा दर्व्यादेरपि होमसाधनत्वस्य हेत्वधिकरणपूर्वपक्षप्रयोजनस्य यदि च हेतुरवतिष्ठेतेत्यनेन निरासे ऽप्यन्नकरणे ऽसमर्थशूर्पव्यावृत्तेः पूर्वपक्षप्रयोजनत्वसम्भवादधिकरणारम्भोपपत्तिस्तु चोदिते2 जुहोतीत्यादिवाक्यसंयुक्तानामुदितकालादीनामङ्गानां सर्वाग्निहोत्राद्यर्थत्वे ऽपि प्राकरणिकानामङ्गानां प्रतिशाखमग्निहोत्रादिभेदे ऽन्यप्रकरणस्थानामङ्गानागन्येनाग्रहणाद्व्यवस्थायाः पूर्वपक्षप्रयोजनत्वसम्भवादधिकरणारम्भोपपत्ति रित्यभ्युपेत्यवादोक्त्या सूचितं, कीदृशो ऽभ्युपेत्यवाद इत्यपेक्षायामाह सत्यपीति वाक्यसंयुक्तानामङ्गानां सर्वार्थत्वे ऽपि प्राकरणिकानां व्यवस्थापूर्वपक्षप्रयोजनं भविष्यतीति सूचनार्थस्तावच्छब्दः स्वशाखामात्रेण परितोषात्काठके ऽग्निहोत्रे तच्छाखाविहितमेवाङ्गं नान्यशाखाविहितमिति व्यवस्था लभ्यतइत्येतदेव द्रढयितुं प्रातरूपोदयं व्युषितउदिते वेत्यादौ शाखान्तरविहितैरूपोदयादिभिः स्वशाखाविहितस्योदितत्वादेर्विकल्पाभिधानादाश्वलायनादीनां सूत्रकाराणां मध्ये न कश्चित्स्वशाखाविहिताङ्गोपसंहारमात्रेण अवस्थितइत्युक्तम् अनेन चैकमग्निहोत्रादि प्रत्यङ्गं न शिष्यतइत्येवं सूत्रव्याख्यार्थं यच्चाग्निहोत्रस्येति भाष्यं पाश्चात्यमपि प्रधानानामपि प्रतिचरणव्यवस्थया गुणत्वाच्च वेदेन व्यवस्था स्यादिति लोहितोष्णीपाधिकरणवभ्यमाणन्यायनिरस्तत्वेन पूर्वपक्षिणो ऽप्यनिष्टत्वात्तत्रैकफलत्वादित्यादिवार्त्तिकवक्ष्यमाणन्यायेन पौनरुक्त्यपरिहारार्थं तन्निरासो न तु पूर्वपक्षस्य निष्प्रयोजनत्वोक्त्यर्थ इति सूचयितुं प्राग्व्याख्यातं नैकं कठादिकमेव पुरुषं प्रत्यग्निहोत्रादिप्रधानं शिष्यते येन भिन्नविषयत्वात्समुच्चयः स्याद्विकल्पस्तु कर्मणां भवतु शाखानां वेति जिज्ञासायां शाखानां व्यवस्थितपुरुषविषयतया विकल्पे सम्भवत्यव्यवस्थितकर्मविकल्पाश्रयणस्यायुक्तत्वाच्छाखानामेव विकल्पावगतेरद्विर्वचनमित्येवं सूत्रव्याख्यानार्थ न चेत्याद्यं भाष्यमिदानीं व्याख्यातुमाह प्रधानान्यपीति स्वर्गकामादिशब्दैरर्थिमात्र [६४७।१] मुद्दिश्य विधीयमानत्वात्कर्मभेदपक्षे च भिन्नविषयत्वाच्छाखानां विकल्पानापत्तेस्तस्याष्टदोषत्वपरिहारार्थं प्रतिचरणं शाखाव्यवस्थाकल्पस्यायुक्तत्वात् सर्वशाखास्थानि प्रधानानि सर्वान् पुरुषान्प्रति प्रकाशन्तइत्युक्ते काठकादिसमाख्याभिर्व्यवस्थामाशङ्क्य यजमानानां प्राधान्यात् समाख्यानां च प्रधाननियमं प्रत्यसामर्थ्यात् समाख्यायोगे ऽपि न व्यवतिष्ठन्तइति समाख्याभियुक्तान्यपीति पदद्वयाध्याहारसहितेनोक्तं ननु पूर्वपक्ष्यनिष्टाख्यायाः प्रतिचरणं कर्मव्यवस्थायाः किमर्थो निरास इत्याशङ्क्याह तत्रेति प्रतिचरणमग्निहोत्रादिव्यवस्थानभ्युपगमे निरपेक्षसाधनत्वेन समुच्चयोयोगादेकेनैवाग्निहोत्रादिना सर्वपुंसां फलसिद्धेः शाखान्तरीयाग्निहोत्राद्यानर्थक्यापत्तेर्विकल्पेनार्थवत्त्वं वाच्यं तच्च विकल्पेनार्थवत्त्वं कर्मैक्याभ्युपगमेन शाखानामेव व्यवस्थितेः कठादिचरणै प्रतिपद्यमानत्वेनाष्टदोषत्वनिमित्ताकुलत्वानापादकत्वाच्च कल्पितं वरं ततश्चापौनरुक्त्यमित्यंवे पौनरुक्त्यपरिहारसूचनार्थम् प्रतिचरणं कर्मव्यवस्था निरास इत्याशयः । समाप्तिवच्च सम्प्रेक्षा ॥ १९ ॥ यदा च भिन्नमपि कर्म सर्वान्प्रति विधीयते तदा यो ऽस्माकमग्निः सो ऽत्र समाप्यतइति कर्मभेदापेक्षसमाप्तिव्यपदेशायोगाद्यो ऽग्निः सो ऽस्माकमत्र समाप्यतइत्यध्येतृविशेषापेक्षः समाप्तिव्यपदेशो वाच्यः भिन्नकर्मविषयत्वे समाप्त्यसमाप्त्योरध्येतृविशेषापेक्षानर्थक्यापत्तेरस्मानपेक्ष्याग्नेः समाप्तिर्जातेत्येवंरूपापेक्षाबुद्धिरध्येतृविशेषसम्मताध्येतृविशेषापेक्षा कर्मैक्यं द्योतयतीत्यभिधानार्थमेतत्सूत्रं समाप्तेरापेक्षिकत्वस्य सिद्धान्तलिङ्गत्वोक्त्यर्थत्वेनात्रेति भाष्येण व्याख्यायासमाप्तेरापेक्षकत्वस्य सिद्धान्तलिङ्गत्वोक्त्यर्थत्वेनान्वारोहे त्वित्यादिनापेक्षिकत्वोक्त्यर्थं सौत्रसंशब्दव्याख्यानायासमाप्तेर्मैत्रायणीयापेक्षत्वाभावोक्तिपूर्वं व्याख्यातं तत् सूत्राननुगुणमाशङ्क्याकारप्रश्लेषेण पाठान्तरमाह असमाप्तिवदिति शिष्यते समाप्तिवदिति सूत्रसंहितायामकारप्रश्लेषेणापि विछेदसम्भवः छेदोक्त्या सूचितः । सूत्रार्थमुपपादयति कर्मेति अन्वारीहशब्दव्याख्यापूर्वं सङ्क्षेपतो भाष्यं व्याचष्टे अन्वारोहनामेति एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥ २० ॥ यानि पुनर्वचनात्पराणि निन्दाशक्तिसमाप्तिवचनानि कर्मभेदकारणान्युक्तानि तान्येकत्वे ऽप्यविरुद्वानीत्यभिधानार्थमेतत्सूत्रं व्याख्यातुं न हीति निन्दापरिहारभाष्यं तावद्व्याचष्टे अन्योन्येति ननूदितानुदितवाक्ययोर्भिन्नविषयत्वेनाविकल्पिकतयाष्टदोषत्वपरिहाराय व्यवस्थानपेक्षत्वात्प्रतिचरणं व्यवस्थाकल्पनानुपपत्तेः सर्वपुरुषान्प्रति प्रामाण्याविशेषादुदितानुहितत्वयोरव्यवस्थितविकल्पापत्तेरपरिहार्याष्टदोषतेत्याशङ्क्याह त्वत्पक्षे चेति कर्मभेदपक्षे तद्वाक्यानामपि भिन्नविषयत्वेनावैकल्पिकत्वात् प्रतिचरणं प्रामाण्यकल्पनानुपपत्तेः कर्मणामव्यवस्थितविकल्पाविशेषादुभयोस्तुल्योदोषा नैकं प्रत्युद्भावनीय इत्याशयः । तथेत्यशक्तिपरिहारभाष्यं व्याचष्टे तथेति एकशाखाविहितेष्वप्यङ्गेष्वन्धादीनामशक्तेः साधनसम्पन्नानां च सर्वशाखाविहितेष्वपि शक्तेः परशाखाविहितानां च कल्पसूत्रादिभ्यो ज्ञानसम्भवादित्याशयः । ननु सर्वशाखास्थाङ्गोपसंहारो बहुतरायाससाध्यत्वादशक्य इत्याशङ्क्याह सवेति बहूनामङ्गानां सर्वशाखास्वभिन्नत्वात्कतिपयान्यत्वे ऽपि न बह्वायासापत्तिरित्याशयः । शाखान्तरे ऽधिकाङ्गविधावप्येकशाखायाः सकाशात् सर्वशाखास्वङ्गानामन्तरस्य स्तोकत्वाच्छक्त्यशक्त्योरविशेष इत्यर्थः । प्रकरणविनियोज्यानामङ्गानां प्रतिप्रकरण व्यवस्थितत्वेन तत्तच्छाखाध्यायिभिरेवानुष्ठेयत्वाद्वाक्यविनियोज्यानामेव सर्वशाख्यानुष्ठेयत्वावगतेः स्तोकान्तरत्वं कैश्चिदुक्तं तद् दूषयितुमुपन्यस्यति के चिदिति विध्युक्तिर्विधेयलक्षणार्था प्रधानस्य सर्वशाखास्वभिन्नत्वात्कथं भावरूपस्य प्रकरणस्याप्यभेदावगतेः कथं प्राकरणिकानामप्यङ्गानां व्यवस्थेत्याशयेन प्रश्नपूर्वं व्यवस्थामुपपादयति कुत इति कर्मस्वरूपाभेदे ऽपि फलसाधनत्वेन विधी [६४८।१] यमानस्यैव कथम्भावोत्पत्तेः कर्मैक्ये ऽपि च तद्विधीनां प्रतिशाखं भेदादेकविषयत्वाच्च विकल्पमानानां प्रतिचरणं व्यवस्थितप्रामाण्यावगतेर्विधेयत्वप्रयुक्तत्वेन कथम्भावस्यापि भेदात्पञ्चावत्तादिवच्चानुष्ठातृव्यवस्थया व्यवस्थिताङ्गग्राहकत्वोपपत्ते प्रतिचरणं प्राकरणिकाङ्गव्यवस्था युक्तेत्युत्तराशय । श्लोकं व्याचष्टे शाखान्तरेष्विति प्राकरणिकाङ्गव्यवस्थोक्ते प्रकृतोपयोगमाह ततश्चेति दूषयति तत्त्विति कर्मधर्मत्वेनाङ्गानामविशेषात्सर्वपुरुषानुष्ठेयकर्मार्थत्वप्राप्तेः पञ्चावत्तादिवत्पुरुषविशेषानुष्ठेयकर्मार्थत्वावेदकश्रुत्यभावेन शाखान्तरानुष्ठेयकर्मार्थत्वानिवारणाद्भिन्नानामपि च प्रकरणानामेककर्मणि विनियोजकत्वेन व्यवस्थापकत्वायोगात्प्राकरणिकानामप्यङ्गानां सङ्कर एव युक्त इत्याशयः । नन्वनेकेषां प्रकरणानामेककर्माङ्गर्विनियोजकत्वेनैकार्थ्याद्विकल्पापत्तेर्व्यवस्थापेक्षायां विधायकवत्तच्छाखाध्यायिनामेव प्रतिप्रामाण्यावगतेर्व्यवस्थापकत्वं भविष्यतीत्याशङ्कानिरासपूर्वं श्लोकं व्याचष्टे प्रतिवेदमपि चेति वि।?।धायकवत्प्रकरणानामप्रवृत्तप्रवर्त्तनस्वभावत्वाभावेनैकमपि पुरुषं प्रयनेकेषामन्योन्यानपेक्षत्वेनानुवादत्वपरिहाहसम्भवात्प्रामाण्योपपतेर्व्यवस्थापकत्वायोगं दृष्टान्तेन द्रढयितुं यथा प्रतिवेदं भिन्नं प्रकर।?।णं यद्यपि कर्मधर्मान् पुरुषस्योपदिशति तथापि वेदान्तराध्यायिनं पु।?।रुषं प्रत्यप्रमाणं न भवतीत्युक्तं श्लोकव्याख्यार्थम् कर्मेत्युक्तम् ।?। फलवत्कर्मविधिसन्निधावफलकर्मविधिपाठस्य प्रकरणत्वात्प्रति।?।शाखं च विधिभेदेन सन्निधिभेदात्प्रकरणभेदे सति कथमविशेष त्याशङ्क्य यद्यपीत्युक्तम् कथं तर्ह्यशक्तिः परिहर्त्तव्येत्या।?।ङ्क्याह सर्वास्वपि चेति तथैकस्मिन्नपीति समाप्तिपरिहारभाष्यं याचष्टे समाप्तिश्चेति प्रायश्चित्तं निमित्तेन ॥ २१ ॥ उदितानुदितकालातिक्रमात्मकेन भिन्नेन निमित्तेन प्रायश्चित्तं विधीयमानं भेदकत्वेन यदुक्तमित्यनुभाषणार्थत्वेन तावद्यथाभाष्यं सूत्रं व्याचष्टे अनुभाषणेति उदितानुदितकालयोर्द्वयोरप्यतिक्रमे प्रायश्चित्तं विधीयमानं यद्भेदकत्वेनोक्तं तत्केनं चिन्निमित्तेन कर्मैक्ये ऽप्युपपत्तेर्न भेदकमित्येवं सामान्यपरिहारार्थत्वेन स्वयं व्याचष्टे सामान्येनेति [६४९।१] प्रक्रमाद्वा नियोगेन ॥ २२ ॥ सङ्कल्पापरपर्यायप्रक्रमवशेन वैकल्पिकानामप्यङ्गानां यदेव सङ्कल्पितं तदेवानुष्ठेयमिति नियमात्तदत्तिक्रमे कर्मैक्ये ऽपि प्रायश्चित्तमविरुद्धमित्येवमनुभाषितभेदहेतुपरिहारार्थं सामान्यपरिहारोक्तिजनितविशेषसन्देहव्यावृत्त्या विशेषपरिहारार्थं चैतत्सूत्रं प्रधानवशवर्त्तित्वेनाङ्गानां प्रधानसङ्कल्पेनैवानुष्ठानसिद्धेरङ्गानामसङ्कल्पनीयत्वादयुक्तमाशङ्क्योपपादयन् व्याचष्टे वैकल्पिकानामिति नैयमिकाङ्गासङ्कल्पने ऽपि वैकल्पिकाङ्गासङ्कल्पने प्रयोगमध्ये किमिदं कुर्यामिदं वेति दोलायमानमतेः कालविक्षेपापत्तेः कर्मोपक्रमकालएव वैकल्पिकानामङ्गानामिदमेव करिष्यमीत्येवमङ्गीकरणीयत्वादङ्गीकृतसङ्कल्पस्याङ्गस्यातिक्रमे प्रायश्चित्तविधिर्युक्त इत्यर्थः । समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयते ॥ २३ ॥ समाप्तेर्भिन्नस्थानत्वरूपेणाभेदहेतुत्वस्य पूर्वपक्षितस्यैकत्वे ऽपि पराणीत्यनेन दूषितत्वादापेक्षिकत्वरूपेण त्वेकत्वहेतुत्वस्य समाप्तिवच्चेत्यनेन सिद्धान्तितत्वादनर्थकमेतत्सूत्रमित्याशङ्क्याह एकत्वे ऽपीति यथैकत्वे ऽग्निसमाप्तिर्लिङ्गत्वेनोक्ता न तदीयकतिपयपदार्थसमाप्तिस्तथाभेदे ऽप्यग्निसमाप्तेरेव लिङ्गत्वेनोक्तत्वात्स्वशाखाधीताग्न्यङ्गभूतपदार्थापेक्षसमाप्त्यभ्युपगमेन दूषणोक्तिरयुक्तेत्याशङ्क्य समाप्तिवचनस् न्यायानुसारेण व्याख्येयत्वान्न्यायेन चैकत्वावधारणात्तस्यैव समाप्तिः साधिका न भेदस्येत्येतदभिधानायेदं सूत्रमित्याशयः । नन्वग्निशब्दस्याग्न्यङ्गभूतपदार्थवाचित्वाभावात्कथ कर्मैक्ये ऽग्निसमाप्तिवचनोपपत्तिरित्याशङ्क्य पूर्ववत्वादित्यवयवेनोपपत्तिरुक्तेत्याह तद्वचनस्य चेति एतमेव चावयवं यथाभाष्यं ता तत्पूर्वशब्दस्यारम्भवाचित्वाभ्युपगमेन व्याचष्टे आरम्भेति समाप्तेरारम्भापेक्षत्वान्मैत्रायणीयैश्चान्वारोहान्ताग्न्यङ्गपदार्थकलापमात्रस्याध्येतुमारब्धत्वात्तल्लक्षणार्थो ऽग्निशब्दो ऽवसीयतइत्याशयः । स्वयमन्यथा व्याचष्टे कथं वेति भाष्यकृता तु प्रक्रमाद्वेति सूत्रेणारम्भवशाद्वैकल्पिकाङ्गनियमे ऽभिहिते बुद्धिस्थत्वात्समाप्तेरारम्भापेक्षत्वात्समाप्तिसमभिव्याहृतस्याग्निशब्दस्य यावदारब्धपदार्थकलापलक्षणार्थत्वोक्तेरभ्रष्टावसरत्वसिद्ध्यर्थं पूर्वशब्दस्यारम्भवाचित्वं व्याख्यातं पूर्वपक्ष्युक्तविरोधपरिहारसमर्थनार्थत्वं सूत्रस्य च सूचयन्नुपसंहरति तस्मादिति लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् ॥ २४ ॥ यददीक्षितदर्शनं भेदलिङ्गमुक्तं तद्भेदपक्षे ऽप्ययुक्तत्वान्न पक्षविशेषसाधकमित्येवमाद्यसूत्रावयवं व्याचष्टे अदीक्षितेति [६५०] सर्वेत्यनेन ज्योतिष्टोमपश्चाद्भावस्य सर्वशाखास्थद्वादशाहशेषत्वमुक्तमुपपादयितुं प्राथम्यस्य सर्वज्योतिष्टोमधर्मत्वं भाष्यकृतोक्तं विवृणोति ताण्डकइति न हीति सूत्रावयवव्याख्यानर्थ न हीति भाष्यं व्याचष्टे न हीति सामवेदे ज्योतिष्टोमस्योत्पत्त्यभ्युपगमे यजुर्वेदोत्पन्नाज्ज्योतिष्टोमाद्भेदः स्यान्न चासाविष्ट इति सूचनाय अपरस्येत्युक्तम् तस्मादिति सूत्रावयवव्याख्यानार्थमत इति भाष्यं व्याचष्टे तत्रेति सामवेदे ज्योतिष्टोमोत्पत्त्यभावादध्वर्युवेदोत्पन्नानां ज्योतिष्टोमानां भेदे सत्यविशेषात्सर्वेषामेव प्राथम्यनियमे सत्येकं द्वादशाहं प्रति सर्वज्योतिष्टोमानां प्राथम्यायोगात्तद्द्वारा सर्वेषां द्वादशाहानां ज्योतिष्टोमपश्चाद्भावनियमापत्ते पक्षद्वये ऽपि दोषसाम्यात्तत्परिहारार्थं यदि पुरा द्वादशाहेन दिदीक्षाणा यदि पुरा द्वादशाहेनादिदीक्षाणा इति चाध्याहारेण द्वादशाहस्य पक्षद्वये ऽप्युभयथा व्यपदेशः स्यादित्यर्थो ऽनेन दर्शितः । तस्मादिति सूत्रार्थोपसंहारभाष्यं व्याचष्टे तस्मादिति द्रव्ये वा चोदितत्वात् विधीनामव्यवस्था स्यान्निर्दशाद् व्यवतिष्ठेत तस्मान्नित्यानुवादः स्यात् ॥ २५ ॥ अग्न्याख्ये द्रव्ये यूपैकादशिन्या अचोदितत्वात्सम्मानामपेक्षत्वेन सम्मानविधीनां मध्ये न कस्य चित्सम्भवः स्याद्यदि ह्यग्नौ यूपैकादशिन्या निर्देशः स्यात्ततः कश्चित्सम्मानविधिः सम्भवेत्तस्मान्नान्तरिक्षे न दिवीतिवत्सम्माननिषेधो नित्यानुवादः स्यान्नित्यानुवादत्वादेव च वाचस्तोमादौ यूपैकादशिनीसद्भावे ऽपि पक्षवेदीसम्मानयोरप्राप्तेस्तत्र रथाक्षमात्रान्तरालविधिर्न विरुध्यतइत्येवं यथाभाष्यं तावत्सूत्रम् अनुभाषणपूर्वं व्याख्यातुमाह अथेति भेदपक्षे ऽप्यग्नौ यूपैकादशिन्यभावात्पक्षमानं वेदिमानमादिशब्दोक्ता रथाक्षमात्रान्तरालता च नास्तीत्युक्ते पश्वेकादशिनीविधानादेवाविहितापि यूपैकादशिनी प्रतिप्रधानावृत्तिन्यायात् भविष्यतीत्याशङ्क्य श्रूयतइत्युक्तम् यूपैक्यश्रुत्या न्यायप्राप्तैकादशिनीबाधादभाव इत्याशय । नित्यानुवादप्रयोजनोक्त्यर्थं द्वयमपीति भाष्यं सम्माननिषेधानुवादस्य पश्वेकादशिनीविधानशेषत्वायोगादयुक्तमाशङ्क्य यूपैक्यविधायिवाक्योपलक्षणार्थत्वं पश्वेकादशिनीविधानोक्तेः सूवयन्व्याचष्टे एकेति यूपैक्यविधिस्तुत्यर्थत्वोपपादनार्थं यदित्यादिभाष्यं पक्षसम्माने तावत्स्पष्ट एवोक्तो दोषः वेदिसम्माने तु स्पष्टदोषाभावे ऽपि यूपान्तरालानां न्यूनातिरेकनिवृत्तये ऽतिनैपुण्यसम्पादनाय क्लेशलक्षणस्य दोषस्यापरिहार्यत्वेन यूपैकादशिन्या दुष्टत्वाद्यूपैक्यमेव प्रशस्तमित्येवमर्थत्वेन व्याचष्टे एकादशिन्यां हीति नन्वग्नौ यूपैकादशिन्यभावात्कस्य चित्सम्मानस्याभावे ऽपि वाचस्तोमादौ यूपैकादशिनीसद्भावे सम्मानत्रयसमावेशः कर्मैक्ये विरुध्येतेत्याशङ्कानिरासार्थं वाचस्तोमादिषु त्विति भाष्यं पक्षसम्मानस्य निन्दया वर्ज्यत्वावगमादनेकयूपत्वे ऽप्यप्राप्तैर्निन्दोन्नीतस्य च तन्निषेधस्य नित्यानुवादत्वेन पक्षसम्माने विध्यभावाद्वेदिसम्मानोक्तेश्च जर्त्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयान्न ग्राम्यान् पशून् हिनस्ति नारण्यानित्यादिवद्विधेयान्यप्रशंसारूपत्वेन विधेयरूपैक्यप्रशस्ततरत्वज्ञापनार्थत्वाद्वेदिसम्माननिन्दार्थत्वावगतेर्निन्दोन्नीतस्य तन्निषेधस्यापि नित्यानुवादत्वावगतेर्वेदिसम्मानस्यापि विध्यभावाद्यूपैकादशिन्यां सत्यां रथाक्षमात्रान्तरालत्वस्यैव निवेशादविरोध इत्येवं व्याचष्टे पक्षेति पक्षवेदिसम्मानयोरभावे तत्रकीर्त्तनं निरालम्बनं स्यादित्याशङ्क्यासतोरपि जर्त्तिलादिवदन्यस्तुत्यर्थं कीर्त्तनं युक्तमित्यभिधानार्थं नित्यानुवादाच्चेति भाष्यं स्पष्टत्वान्न व्याख्यातं वेदिसम्मानोक्तेः स्तुत्यर्थत्वं दूषयति इह त्विति जर्त्तिलादावनाहुतिर्वै जर्त्तिलाश्च गवीधुकाश्चेत्यादिनिन्दाश्रुतिवद्वेदिसम्माननिन्दाश्रुत्यभावात् सम्मानविध्यन्यथानुपपत्त्या च शाखान्तरे यूपैकादशिनीविधानस्यापि कल्पयितुं शक्यत्वाद्यूपैकादशिनीपक्षे वेदिसम्मानविध्युपपत्तेर्नान्यस्तुत्यर्थत्वकल्पना युक्तेत्याशयः । कथं तर्हि नित्यानुवादता सूत्रकृतोक्तेत्याशङ्क्याह अत इति नन्वेवमपि वेदसम्मानरथाक्षमात्रान्तरालयोः कर्मैक्ये विरोधः स्यादित्याशङ्क्याह प्राकरणिकत्वाच्चेति ज्योतिष्टोमे ऽग्न्यभावे पश्वेकादशिन्यवि [६५१।१] धानाद्यूपैकादशिन्यप्राप्तेर्यासु विकृतिष्वग्न्यभावे ऽपि पश्वेकादशिनी विहिता तद्विषयत्वं रथाक्षमात्रान्तरालविधेर्विकृत्युक्त्योक्तं विशिष्टमपि सूत्रं व्यवधारणकल्पनया गमयितव्यमित्याह सूत्रमपीति स चेत्यनेन निश्चितरूपातिदेशनाद्विधानाद्रथाक्षमात्रान्तरालत्वमेव व्यवतिष्ठेतेत्येवं निर्देशादित्यवयवो व्याख्यातः । विहितप्रतिषेधात्पक्षे ऽतिरेकः स्यात् ॥ २६ ॥ षोडशिग्रहणस्य विहितत्वात्प्रतिषेधाच्च ग्रहणपक्षे द्वयोर्ग्रहणपक्षे तिसृणामतिरेकः स्यादित्येवं तृतीयलिङ्गपरिहारसूत्रं व्याचष्टे वैकल्पिक इति सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥ २७ ॥ सर्वसोमयागानां ज्योतिष्टोमपश्चाद्भावनियमेन सारस्वते द्वादशाहवत्पक्षद्वये ऽप्यनिष्टप्रथमयज्ञत्वनिमित्तपुरोडशित्वदर्शनविप्रतिषेधाद्यदा पुशेडाशिन इति कालभेदनिमित्तपुरोडाशित्वं स्यादित्येवं चतुर्थलिङ्गपरिहारसूत्रं व्याचष्टे सारस्वते ऽपीति मित्रावरुणयोरयने सारस्वतसत्रविशेषे यथामावास्यायामतिरात्रः स्यात्तथा दीक्षेरंस्ते ऽमावास्यायामतिरात्रं संस्थाप्य तदहरेव वत्सानपाकुर्यास्तं पक्षमामावास्येन व्रजित्वा पौर्णमास्यां गामुपेयुः पौर्णमासेनोत्तरं व्रजित्वामावास्यायामायुषमुपेयुरेवमावर्त्तयन्तो व्रजेयुरित्यनेन वाक्येन प्रतिमासमेकस्मिन्पक्षे मावास्याख्यकर्मविधानात्पक्षान्तरेण पौर्णामावास्याख्यकर्मविधानात्पुरोडाशिशब्दः पौर्णमास्याख्यकर्मोपयोगिपक्षोपलक्षणार्थः सान्नायिशब्दश्चामावास्याख्यकर्मयोगिपक्षोपलक्षणार्थ इत्येवमवश्यं पक्षद्वये ऽपि वक्तव्यमित्यर्थः । ननु कालभेदविवक्षायां पुरोडाशिनः सान्नायिन इति कर्तृभेदव्यपदेशो न युज्येतेत्याशङ्क्याह भवति हीति उपचारात्कर्तृव्यपदेश इत्याशयः । सूत्रार्थमुपसंहरति तस्मादपीति उपहव्ये प्रतिप्रसवः ॥ २८ ॥ उपहव्यस्य भेदे सत्यतिदेशप्राप्तबृहद्रथन्तरविकल्पनिवृत्तिः प्रतिप्रसवाख्या पुनःश्रुतिप्रयोजनं स्यात् ऐक्ये तु शाखाद्वयप्रत्ययत्वात्पुनः श्रुतावपि विकल्पापत्तेर्न तन्निवृत्त्याख्यः प्रतिप्रसवः प्रयोजनमिति पुनः श्रुत्यानर्थक्यं स्यादित्येवमनुभाषणार्थत्वेन यथाभाष्यं तावत्सूत्रं व्याचष्टे अनुभाषणेति उपहव्ये बृहद्रथन्तरपुनः श्रुतेर्न प्रतिप्रसवो ऽस्माकं प्रयोजनत्वेनेष्टो येन तदसम्भवादानर्थक्यं स्यात्किं त्वन्यत्किं चिदित्येवं सामान्यपरिहारार्थत्वेन स्वयं व्याचष्टे सामान्येति गुणार्था वा पुनः श्रुतिः ॥ २९ ॥ यदेति भाष्यात् दक्षिणाव्यवस्थालक्षणगुणविध्यर्था निमित्त त्वेन बृहद्रथन्तरपुनः श्रुतिरिति सूत्रार्थः । प्रतिभाति स च संस्थाश्रुत्यानर्थक्यापत्तेरयुक्त इति मत्वोपलक्षणार्थत्वम्भाष्यस्य सूचयन्सूत्रं [६५२।२] व्याचष्टे संस्थेति संस्था सामदक्षिणा विशिष्टयागविधावरूणै कहायनीन्यायात्पार्श्निकपरस्परनियमावगमे सति सामश्रुतेः प्राप्तार्थत्वान्निमित्तपरत्वं प्रतीयमानमविशेषादुभयव्यवस्थार्थं प्रतीयतइत्याशयः चशब्दार्थे वाशब्दः प्रत्ययं चापि दर्शयति ॥ ३० ॥ शाखान्तरविहिताङ्गानुवादेन तद्धर्मविधानं शाखान्तराधीतस्य च मन्त्रस्य स्वशाखाधीतेन मन्त्रेण सह विकल्पवचनमन्योन्यधर्मसाङ्कर्य सूचयन्सर्वशाखाप्रत्ययमेकं कर्म द्योतयतीत्येवं सिद्धान्तलिङ्गोक्त्यर्थं सूत्रं व्याचष्टे शाखान्तरेति सर्वाभिः शाखाभि प्रत्ययो ज्ञानं यस्येति समासार्थः । अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां3 व्यवतिष्ठेत ॥ ३१ ॥ सर्वशाखाङ्गोपसंहारलक्षणसिद्धान्तप्रयोजनाक्षेपार्थमेतत्सूत्रं व्याचष्टे प्रतिशाखमिति एकैकस्यामिति वीप्सा प्रतिशब्देन सूचिता ऋतवो वै प्रयाजा इत्यादावपि न शाखान्तरप्रयाजाद्यनुवादः किं त्वन्यप्रयाजादिविधिरिति सूचनार्थं विधिपृथक्त्वोक्त्या कर्मव्युत्पत्त्या विधेयान्यतोक्ता कालपरिमाणयोरपि क्रमोक्त्योपलक्षणं सूचयन् हेत्वर्थं व्याचष्टे तथा सति हीति कालो ऽप्या शु निर्माणलक्षणः पूर्वाह्णादिलक्षणश्च न बाधिष्यतइति चशब्देन सूचितम् । विराधिनां त्वसंयोगादैककर्म्यें तत्संयोगाद्विधीना सर्वकर्मप्रत्ययः स्यात् ॥ ३२ ॥ कर्मोङ्क्ये सति सर्वशाखास्थानां विधेयानामङ्गानां विधिशब्दोक्तानां तेनैकेनैव कर्मणा संयोगावगतेर्विरोधिनां क्रमकालपरिमाणानामसंयोगात्सर्वशाखाविहितानामङ्गानामेककर्माङ्गत्वप्रत्यय इत्येवं सिद्धान्तप्रयोजनसमाधानार्थे सूत्रे विरोधिनामसंयोगादिति हेतुमुपपादयितुमाह यत्रेति क्रमादीनां पदार्थप्राप्त्युत्तरकालभावित्वात्तदनुरोधवृत्तिता शिष्टाकोपाधिकरणे व्युत्पादितेत्याशयः । शिष्टाकोपाधिकरणेन तर्ह्येतत्युनरुक्तं स्यादित्याशङ्कते एतेनैव चेति सूत्रानुक्तत्वात् पौनरुक्त्यं परिहरति नेति ननु तेष्वदर्शनाद्विरोधस्येत्येतावतापि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्निति सिद्धान्तसूत्रसमाप्तिपक्षे सूत्रोक्तत्वात्पौनरुक्यं स्यादित्याशङ्क्याह तत्र हीति शब्दार्थविरोधात् क्रमादिसंयोगाभावेनेहोक्तेन सिद्धाविरोधाभावस्तत्र सिद्धवर्द्धतुत्वेनोक्तो न तूपपादित इत्याशयः । तस्मादित्यधिकरणार्थोपसंहारभाष्यं व्याचष्टे तस्मादिति तदेवेत्यनेनैक वेति सिद्धान्तसूत्रार्थोपसंहारः । न कथम [६५३।२] चिदित्यनेन नामादिभेदहेतुनिरासोपसंहारः न कारणमित्यनेन शाखान्तरभेदकत्वनिरासोपसंहारः।अध्यायार्थमुपसंहरति एवमिति उक्तेन प्रकारेण शब्दान्तरादिप्रमाणिका हि भेदसिद्धिर्न शाखान्तरप्रमाणिकेत्येवकारार्थः ।
इति श्रीमत्र्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट्टमाधवात्मजभट्टसोमेश्वरकृतायां तन्त्रवार्त्तिकटीकायां सर्वानवद्यकारिण्यां न्यायसुधाख्यायां द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः ।