न्यायसुधायाम् ।
प्रथमाध्यायस्य तृतीयपादस्य उत्तरार्धो भागः ।
॥ साधुपदप्रयोगनियमाधिकरणम् ॥ ९ ॥ प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥ १८ ॥ अत्र भाष्यकृता गोगाव्यादिशब्दानुगाहृत्य किमेते सर्वएव सास्नादिमतो ऽर्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम् उत एक एवेति सास्नादिमतो वा पदार्थस्य कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्व एवोत एक एवेति सन्देहमुपन्यस्य प्रयोगभेदेनाविरोधात्सर्वेषां व्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः । सिद्धान्ताभावेन सन्देहानुपपत्तिमाशङ्क्य किमत्रेति भाष्येण शक्त्या विना शब्दस्यार्थप्रत्यायकत्वं सम्भवत्युत नेति सन्देहकारणमुक्त्वा सर्वइत्यादिना भाष्येण पूर्वपक्षः कृतः । तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुपपत्तिमाशङ्क्याह एकस्मादिति व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोगबाधमङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितं तद्विकल्पदोषभयादेनकादृष्टशक्तिकल्पनाप्रसङ्गाद्गौणमुख्यविभागाश्रयणाच्चेति योज्यम् । एतत्कारणत्रयोपपादनायैकस्मादित्यत्कं, यवैर्यजेतेत्येकस्माद्यवपदाही।?।र्घशूकैर्वा यष्टव्यं प्रियङ्गुभिर्वेत्यनेकार्थप्रतीतेर्विकल्पो ऽनेकशक्तिकल्पना ह्येकस्य शब्दस्यापद्येत एकस्मिंश्चार्थे शब्दस्य शक्तौ क्लृप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्तेर्नानेकशक्तिकल्पनं युक्तम् इह तु गोशब्दश्रवणात्ततो ऽर्थप्रतीतिर्गावीशब्दश्रवणे तस्मादिति व्यवस्थोपपत्तेर्न तावच्छ्रातुर्विकल्पापत्तिः । वक्तुरप्ययमेव शब्दः प्रयोज्य इति नियमाभावात्प्रसज्यमानो ऽपीच्छया विकल्पेन दोषमावहति यत्र च कारणात्कार्यदर्शनं तत्र शक्तेरस्तित्त्वं सम्प्रतीयतइति न्यायेन शक्तेः कारणाश्रितत्वेन शब्दसमवेतत्वात्तद्भेदे युक्त एव भेदो गाव्यादीनां चार्थान्तरे मुख्यगौणाभावात्सास्नादिमति गौणत्वायोगात् शब्दसादृश्यमात्रेण शब्दस्य शब्दान्तरार्थप्रत्यायकत्त्वे शालाशब्दस्यापि मालाशब्दार्थप्रत्यायकत्वापत्तेर्मुख्यत्वमवश्यं प्रतीयतइति वैषम्यं, प्रियङ्गुदीर्घशूकयोश्चैकपदोक्तयोर्विकल्पे तस्यैव यवपदस्य युगपदेकार्थापेक्षया प्रामाण्यमर्थान्तरापेक्षया चाप्रामाण्यमित्यत्यन्तविरोधं वक्तुम् एकस्मादित्यंुक्तम् केषां चिद्दीर्घशूकेषु प्रयोगो ऽन्येषां प्रियङ्गुष्वित्यनेकार्थप्रतिभानकारणमुक्तम् । यववराहाधिकरणन्यायमुक्त्वा तद्वैषम्यमत्रैव दर्शयन् पूर्वपक्षयति यत्र पुनरित्यादिना साधुत्वेनावधार्यन्तइत्यन्तेन तत्र सत्यप्येकविषयानेकशब्दत्वे ऽर्थसाधनत्वात्साधुत्वेनावधार्यन्तइति वक्ष्यमाणसाध्यालोचनेन शक्तिभेदोपपत्तेरविरोधादिति च पञ्चमीद्वयं योज्यं, शब्दाश्रितत्वाच्छक्तेस्तद्भेदे शक्तिभेदौचित्यं समवायिशब्देनोक्तम् । अर्थविशेषावच्छिन्नशब्दाश्रितैकशक्तिकल्पनामात्रेणोभयनियमोपपत्तेरनवच्छिन्नशक्तिकल्पने वा शक्तिद्वयकल्पने ऽप्यर्थस्य सर्वशब्दवाच्यत्वापत्तेः शब्दस्य च सर्वार्थवाचकत्वापत्तेरर्थाश्रितशक्त्यभावात् अर्थैक्ये ऽप्येकस्यानेकशक्तिकल्पनादोषो नास्तीत्याशयः । यवादिविधेश्च शास्त्रस्थप्रयोगेण दीर्घशूकादिविषयत्वावधारणात्तद्विरुद्धलौकिकप्रयोगावगतप्रियङ्ग्वादिविषयत्ववाचोदाहृतगवादिशब्दप्रयोगमात्रेण गाव्यादिशब्दानामप्रयोगत्वावगमात्सर्वपर्य्यायप्रयोगानियमाच्चाविरोधान्न शास्त्रस्थप्रयोगेण लौकिकप्रयोगबाध इति शास्त्रस्थेत्यस्यार्थः । अस्यैव पूर्वपक्षहेतुद्वयस्य यववराहाधिकरणन्यायवैषम्यप्रतिपादनार्थत्वप्रदर्शनार्थं सत्यपि विरोधे शास्त्रस्य साध्वसाधुत्वप्रतिपादनव्यापाराभावच्छास्रस्थप्रयोगस्य निर्मूलत्वेन लौकिकप्रयोगाबाधकत्वादपि सर्वे साधुत्वेनावधार्यन्तइति उत्तरोपपत्तवेक्ष्यमाणसाध्यव्यवधायकरूपेण पदपूर्वकत्वाच्चेति स्वोपपादकोपन्यासपूर्वमुपन्यस्ता अनेन व्याकरणस्मृत्यप्रामाण्येन पूर्वपक्षकरणाद्विचारस्य पादाध्यायसङ्गतिदर्शिते । अनन्तराधिकरणसङ्गतिस्त्वीदृगसम्भवप्रतिपादनार्थमेव वेत्यत्र होलाकाधिकरणोक्तव्यक्त्याकृत्यादिवाच्युपपदासम्भवोपजीवनेनात्र पूर्वपक्षोत्थानाद्वक्ष्यते व्याकरणशास्त्रव्यापारस्य पदपूर्वकत्वोपपादनार्थं वाक्यात्मकत्वं विशेषणम् । अनेन च व्याकरणशास्त्रस्य लोकप्रसिद्धपदप्रयोगादुत्पत्तेः । साध्वसाधुव्यवस्थायाः शास्त्रविषयत्वायोगादित्येवम्प्रयोगोत्पत्त्याशास्त्रत्वादिति सूत्रावयवो व्याख्यातः । लोकप्रसिद्धसाधुशब्दवशात् व्याकरणशास्त्रं प्रवर्त्तते तस्माच्च लौकिकशब्दानां साध्वसाधुत्वनिर्णय इतीतरेतराश्रयोपपादनार्थम् तथा हीत्युक्तम् शब्दरूपश्चासावर्थश्चेत्येवं वस्तुव- म चनत्वेनार्थशब्दो व्याख्येयपदार्थज्ञानाय वा शब्दशास्त्रस्य पदरूपशब्दापेक्षाप्रदर्शनार्थो ऽर्थशब्दः । नन्वेवमप्यर्थप्रतिपादकत्वेन गोगाव्यादिशब्दानां लोके प्रसिद्धत्वात्साधुत्वं भेर्यादिशब्दानां त्वर्थप्रतिपादकत्वाप्रसिद्धेरसाधुतेति व्यवस्थोपपत्तेः शब्देषु न व्यवस्था स्यादित्ययुक्तमित्याशङ्क्य अत इत्युक्तम् लोकप्रयुक्तेष्वेव गोगाव्यादिषु साध्वसाधुत्वव्यवस्थानिरासार्थम्तदित्याशयः । नन्वेवं सत्याचारेण स्मृतिबाधः स्यात्स च पूर्वोक्तस्मृतिबलाबलीयस्त्वविरुद्ध इत्याशङ्क्य वाक्यार्थेषु हीत्युक्तम् तत्र आचारानपेक्षायाः स्मृतेस्ततो बलीयस्त्वमिह तु स्मृतेराचारपेक्षत्वेन विपरीतबलाबलक्रमत्वाल्लोकादेव साध्वसाधुता निर्णेतव्येत्याचारेण स्मृतिबाधो युक्त एवेत्याशयः । ननु लोकस्य सङ्कीर्ण व्यवहारित्वात्साध्वसाधुत्वनिर्णायकत्वं न युक्तमित्याशङ्क्य वाचकेत्युक्तम् अर्थप्रत्यायके यो गोगाव्यादिशब्दः स साधुरप्रत्यायको भेर्यादिशब्दश्चासाधुरिति व्यवस्था लोकसिद्धैवेत्यर्थः । ध्वनिमात्राणीत्यनेनैतदेव विवृतम् । मात्रिका वर्णसमाम्नायः । ननु वेदादिविद्यास्थानप्रयुक्तेष्वेव गवादिशब्देषु साधुत्वप्रसिद्धेर्गाव्यादिशब्देषु च तत्राप्रयुक्तेष्वसाधुत्वप्रसिद्धेर्लोके चैवंविधव्यवस्थानुपलब्धेर्न ततो निर्णयः सम्भवतीत्याशङ्क्य साध्वसाधुशब्दयोरर्थप्रत्ययसाधनत्वासाधनत्वनिमित्तत्वेन रूढित्वाभावाल्लोके च भेर्यादिशब्दानामप्रत्यायकत्वनिश्चयात् । गोगाव्यादिशब्दानां प्रत्यायकत्वनिश्चयात्सिद्धैव व्यवस्थेति तेनेत्यादिनोक्तम् अपशब्दत्वमप्यर्थप्रत्ययापगमनिमित्तत्वाद्भेर्यादिशब्देष्वेव व्यवस्थितमित्यनर्थकत्वादित्यनेनोक्तम् । नन्वेकेनैवार्थप्रत्ययसिद्धेः कथम्मेकस्मिन्नर्थे अनेकेषां साधुतेत्याशङ्का गवादिदृष्टान्तेन निरस्ता एवं वाचकशक्तिभेदोपपत्तिरविरोधादिति च पञ्चमीद्वयान्वयायैतावद्ग्रन्थतात्पर्यमेकवाक्यतया व्याख्यातम् । यद्वा तत्र वाचके शक्तिभेदोपपत्तिप्रतिरोधत्वं पर्यालोच्य यो निर्णयो भवति सर्वेषां साधुत्वमित्येवंरूपः स्वीकार्यः । न तु शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधं पर्यालोच्येतिल्पब्।?।पे पञ्चमीद्वयमङ्गीकृत्य पूर्वफक्किकागतनिर्णयशब्दानुषङ्गेण वैषम्यप्रतिपादनार्थत्वेनाविरोधादित्यन्तं ग्रन्थं व्याख्याय ननु वाचकशक्तिभेदोपपत्तौ शास्त्रस्थप्रयोगाविरोधे च सत्यपि व्याकरणशास्त्रेण गवादिशब्दानामेव साधुत्वान्वाख्यानेनेतरेषामसाधुत्वप्रतिपादनान्न तद्विरुद्धाचारबलेन सर्वेषां साधुत्वं युक्तमित्याशङ्कानिराकरणार्थतयोत्तरग्रन्थो व्याख्येयः । अत्र भाष्यकृता सर्व इति ब्रूम इत्यनेन शब्देषु न व्यवस्था स्यादिति सूत्रावयवं सर्वशब्दानादित्वपूर्वपक्षप्रतिज्ञानार्थत्वेनव्याख्याय कुत इत्यादिनार्थप्रत्ययान्यथानुपत्त्या गाव्यदिशब्दानामपि सास्नादिमतार्थेन सह वाच्यवाचकसम्भवं प्रश्नपूर्वमुपपाद्याशक्तिजत्वेनापभ्रंशत्वशङ्कामबाध्यस्मृत्या निराकृत्य कर्त्रस्मृत्या च सामयिकत्वाशङ्कां सम्बन्धग्रन्थे निराकृतामुक्त्वा तस्मात्सर्वे साधव इत्यपसंहृत्य सर्वेषामर्थवत्त्वात्सर्वैर्भाषितव्यमिति पूर्वपक्षप्रयोजनमुक्त्वा तेन सर्वेषां दृष्टार्थसाधनत्वाविशेषे ऽप्यदृष्टार्थो गवादिशब्दनियमो भविष्यतीत्याशङ्कानिरासार्थत्वेन प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीयत्वादित्येवं प्रयोगोत्पत्त्यशास्त्रत्वादितिसूत्रावयवो व्याख्यातः । तत्र भाष्यतात्पर्यविवेकार्थं दृष्टार्थत्वे साधनत्वाद् गाव्यादिशब्दानामसाधुत्वा [१९१।६] सम्भवमुपपादितमुपसंहरति ततश्चेति न च दृष्टार्थसाधनत्वनिबन्धनत्वात् साधुशब्दस्य गाव्यादिशब्दानां तदभावात्साध्वसाधुव्यवस्था भविष्यतीत्याशङ्कते अदृष्टेति साध्वसाधुव्यवस्थेत्यर्थः । यद्वा श्रेयोरूपादृष्टसानधत्वनिबन्धना साधुता प्रत्यवायरूपादृष्टसाधनत्वनिबन्धनात्वसाधुतेत्यर्थः साधूनामेवादृष्टसाधनत्वमदृष्टसाधनत्वमेव वा साधुत्वमित्युभयथापि व्यवस्था वेदाधीना न च सा वेदवाक्यैर्निर्दिष्टा अदृष्चसाधनत्वं वान्यप्रमाणविषय एव न भवतीति निराकरोति वेदवाक्यैरिति न च दृष्टसाधनत्वस्य प्रमाणान्तराविषयत्वे ऽपि तद्धेतुभूतयोः साध्वसाधुत्वयोः प्रमाणान्तरावगतयोर्वेदेनादृष्टसाधनत्वबोधो भविष्यतीत्याशङ्क्याह प्रत्यक्षेण तावदिति उपमानस्य सादृश्यमात्रविषयत्वेनानाशङ्कनीयत्वादर्थप्रत्यायन्यथानुपपत्तेश्चान्यार्थापत्त्या सर्वेषां वाचकत्वप्रतीतेर्व्यवस्थापकत्वस्य दूरनिरस्तत्वादनिराकरणम् । ननु प्रमाणान्तरासम्भवे ऽपि वेदवाक्यं साधुत्वासाधुत्वाग्राहकं भविष्यतीत्याशङ्क्याह वेदेति साध्वसाधुत्वयोः शब्दावान्तरजातिरूपत्वे वस्तुस्वरूपान्वाख्यनपरमेते साधवस्त्वन्य इत्येवं रूपं वाक्यं कल्प्यं धर्मान्तरत्वे साधुगुणान्वाख्यानपरमसाधुत्वदोषान्वाख्यानपरं तस्य च पुरुषार्थानुबन्धित्वाभावेनानर्थक्यापतेरध्ययनविधिना तात्पर्यानवधारणात्प्रामाण्यं न युक्तमित्याशयः । आत्मस्वरूपप्रतिपादकानां तूपासनादिविध्यपेक्षितार्थाभिधा नात्सरस्वतीविनशनादिना वाक्यानां सारस्वतसत्रादिकर्म्मविशेषौपयिकत्वानामानर्थक्यापत्तिरिति वैषम्यसूचनार्थं विधीत्युक्तम् । अस्तु तर्हि विधिनिषेधरूपमेव वाक्यं साध्वसाधुत्वप्रतिपादकमित्याशङ्क्याह न वेतिं ननु माभूत्स्वरूपेण विधिनिषेधविषयत्वं साधुभिरभिदध्यादसाधुर्भिर्नेत्यभिधानकरणत्वेन तु भविष्यतीत्याशङ्कते अभिधेति गोशब्देनाभिदध्यादश्वब्देनाभिदध्यान्न गावीशब्देनाभिदध्यान्न गोणीशब्देनाभिदध्यादित्यादि स्वरूपा प्रत्येकं वा विधिनिषेधा कल्प्यन्ते साधुभिरभिदध्यादसाधुभिर्नेति द्वावेव वा तत्रानन्त्यापत्तेराद्यं पक्षं तावद् दूषयति नेति कथं कल्पनानुपपत्तिरित्यपेक्षायां व्याकरणस्मृतिमूलत्वेन कप्यत्वादनन्तानां चाध्येतुमशक्यत्वादनुपपत्तिरित्याह यो हीति यो हि व्याकरणप्रणेता तद्गुणतया य एव पदानां प्रतिपत्तौ प्रतिपदं पाठ इति महाभाष्यकारोक्तन्यायेन साधूनां प्रतिपदं पाठन्नाध्यवस्ततीत्यर्थः । स एकैकस्य शब्दस्य गावीगोण्याद्यनेकापशब्ददर्शनात्तेषां विशेषमाह अपशब्दाश्चेति कलञ्जादिवदिति वैधर्म्यदृष्टान्तं विवृणोति व्रीह्यादीनि हीति कलञ्जादिग्रहणेन तुल्यन्यायतया व्रीह्यादीनां विधेयत्वसम्भवसूचनार्थं व्रीह्यादिग्रहणम् । अनन्तरोक्तव्यतिरेकमुखेन द्वितीयपक्षं निराकरोति न त्विति सर्वानुगतैकधर्म्ममात्रोपलक्षणार्थो जातिशब्दः तत्र एकोपलक्षणत्वाभावेनैकविधिनिषेधविषयत्वासम्भवमुपपादयति न तावदिति अयमाशयः न तावच्छब्दत्वाति [१९२।१] रिक्ता सर्वसाधुशब्दानुयायिन्यासाधुभ्यो व्यावृत्ता विलक्षणैकाकारप्रत्यवेद्या साधुत्वजातिरसाधुत्वजातिर्वा साधुशब्दानुगता साधुभ्यो व्यावृत्तोपलभ्यते न वान्यो ऽपि कश्चिद्धर्म्मः साध्वसाधुशब्दाभिधेयः सम्भवति तथा हि न तावच्छब्दव्यतिरिक्तस्येन्द्रियलिङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वं गाव्यादिशब्देष्वप्यापत्तेः । न च शब्दस्य शक्त्यर्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषो ऽग्निर्माणवक इत्यादौ गङ्गाग्निशब्दयोस्तीरमाणवकादिषु शक्त्यभावे ऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तरविषयसाधुत्वाभ्युपगमे गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः देवदत्तादिशब्दानां च संस्कृतेनार्थप्रतिपादनं, न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वं गाव्यादिशब्देष्वप्यापत्तेः । न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसाधुत्वापत्तिः । स्नुषादिशब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तेः पुत्रादौ शक्तिसद्भावात्साधुत्वापत्तिः । अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानामपि सास्नादिमदर्थविषयप्रयोगावध्यस्मरणेनानादित्वावगमात्साधुत्वमशक्यं निराकर्त्तुं स्वाभाविकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषाद्गवादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यं लक्षणानुगमो ऽपि च सिद्धेरुभयानर्थक्यमाशङ्क्य चम्पतीत्यादिशब्देषु वृद्धाप्रयुक्तत्वेनासाधुतया ऽभिमतेषु भावान्न साधुत्वलक्षणमिति न कथं चित् साधुत्वं निरूपयितुं शक्यमनेनैव मार्गेणासाधुत्वमपि निराकार्यमिति एतदेव विवृणोति अविभक्ता हीति अतश्चैकोपलक्षणाभावात्सामान्यरूपेण साध्वसाधूनां विधिनिषेधविषयतावनुपपत्तेः । व्यक्तिरूपेण विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधानन्त्यप्राप्तमित्युपसंहरति तेनेति ननूपलक्षणान्तरासम्भवे ऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपलक्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्क्याह न चेति अर्थप्रत्यायनोद्देशेन सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायादर्थप्रत्ययनार्थत्वलक्षणस्य वाचकत्वस्याव्यावर्त्तकत्वात्तद्विपर्ययलक्षणस्य वा वाचकत्वस्यासत्वान्नोपलक्षणत्वं सम्भवतीत्याशयः । ननु गाव्यादिशब्दाव्यावर्त्तकत्वे ऽपि प्रसिद्धावाचकत्वभेर्यादिशब्दव्यावर्तकत्वाद्वाचकत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्यभेर्यादिशब्दोपलक्षणतोपपत्तेस्तन्निबन्धनौ विधिनिषेधौ भविष्यत इत्याशङ्क्याह वाचकैरिति प्राप्ताप्राप्ततया विधिनिषेधविषयत्वाभावे दृष्टान्तमाह न हीति द्रवदव्यमात्रोपलक्षणार्थमुदकग्रहणम् । ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रे ण साध्वसाधुविवेकसिद्धेर्विधिनिषेधनिराकरणमनर्थकं मूलश्रुत्यपेक्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य साधुविधिमात्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्क्याह अवश्यं चेति निर्मूलत्वे अन्धपरम्परान्यायापत्तेर्न साध्वसाधुविवेकसिद्धिरित्याशयः । साधुविधानेनासाधुवर्जनसिद्धेरसाधुनिषेधेन वा साधुप्रयोगसिद्धेरुभयानर्थक्यमाशङ्क्य संयोगेत्युक्तम् विधेयेष्टसंयोगो विधेः फलं निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उपलक्षणमूलत्वे निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्क्याह त्रिष्वपि चेति साधूनामसाधुभ्यो ऽल्पत्वाद्व्यवस्थितत्वाच्च सौकर्यम् । एतदेव विवृणोति यदीति यथा पञ्चनखानाम्मध्ये पञ्चैव शशादयो भक्ष्या इति नियमे कृते ततो ऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते तथा गवादय एव साधव इति नियमे कृते ऽन्येषामसाधुत्वावगतिरित्यर्थः । एतदेवोपसंहरति स एष इति प्रासङ्गिकं व्याकरणस्य त्रिविधश्रुतिमूलत्वे ऽपि साध्वनुशासनमात्रात्मकत्वसम्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति नन्विति मूलासम्भवमेव द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वान्धिकरणोक्तमत्रापि योजयन्नाह इदृगीति एवमेकोपलक्षणासम्भवेन विधिनिषेधासम्भवमुक्त्वा विधिविषयासम्भवादपि विध्यसम्भवमाह अथ प्राप्तश्चेति अनेन च शब्दप्रयोगस्य लोक [१९३।४] व्यवहारार्थत्वेनैवोत्पत्तेः । सिद्धेरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः । नन्वत्र महावार्त्तिककारण सिद्धे शब्दार्थसम्बन्धे लोकतो ऽर्थ प्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्म्मनियमो यथा लौकिकवैदिकोष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे आक्षिप्ते धर्म्मार्थं शास्त्रेण साधुनियमः क्रियते यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदिति नियम इति वदता समाधनमुक्तमित्याशङ्कते अथेति धर्म्मजिज्ञासापह्नवेन धर्म्मस्य नियम इति षष्ठीविग्रहे ऽपि सम्बन्धमात्रोत्पन्नायाः षष्ठ्यास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शनार्थं धर्मायेति चतुर्थीनिर्द्देशः । साधूनां नियमविषयत्वासम्भवेनैतन्निराकरोति तदिति नित्यप्राप्तस्य नियमविषयत्वासम्भवे हेतुमाह यस्य हीति ननु गाव्यादिभ्यो ऽप्यर्थप्रत्यय सिद्धेस्तत्प्रसक्तौ गवादिशब्दस्य पाक्षिकत्वापत्तेर्गाव्यादिनिवृत्त्यर्थो नियमो भविष्यतीत्याशङ्क्याह यस्यापीति गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वये ऽपि व्यावर्त्यत्वायोगादित्याशयः । एतदेवोपपादयितुं विकल्पयति कीदृशश्चेति उभयत्र दोषमाह यदीति न च साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याशङ्क्याह यदि हीति शब्दव्यापारसाध्यमर्थप्रतिपादनं, भाषणं नार्थप्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षाद्व्यापारो गौणलाक्षणिकयोस्त्वभिधेयसादृश्याविनाभावद्वारा गाव्यादीनां तु कथं चिद्व्यापारालाघवशब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतुतास्तीत्याशयः । ननु साधूच्चारणायैव प्रवृत्तस्य प्रमादेनाशक्त्या वा प्रसज्यमानस्यासाधोर्निवृत्त्यर्थो नियमो भविष्यतीत्याशङ्कते अथेति प्रमादाशक्तिजानां दोषाणां परिहर्त्तुमशक्यत्वात्तन्निवारणमनर्थकमिति परिहरति तदसदिति नन्वव्यग्रा।?।णां शक्तानामपि [१९४।१] च गाव्यादिशब्दप्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते दृष्ट इति मत्पक्षे गाव्यादिशब्दानामप्यर्थप्रतिपादने व्यापारसद्भावाद्युक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथं चिद्व्यापाराभावान्न तावच्छब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे प्रसक्तिः । यथा कथं चिदर्थप्रतिपादने तु प्रसक्तस्य गाव्यादेर्निवृत्त्यर्थं नियमाभ्युपगमे अक्षिनिकोचादेरपि प्रसक्तेस्तन्निवृत्त्यर्थो नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति उच्यतइति निवृत्त्यर्थत्वे च नियमत्वं व्याहन्येतेत्याह न चेति साध्वसाध्वोश्च द्वयोर्नित्यप्राप्त्यभावात्परिसङ्ख्या युक्तेत्याहच नियमेति किं चादृष्टार्थस्य यागादीष्टसिद्धार्थं पुरोडाशादिद्रव्यनियमस्तत्प्रकृतित्वादिनियमस्तदपेक्षितावघाताद्युपायनियमश्च युत्कः । शब्दप्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वान्न तत्साधनसाधुनियमो युक्त इत्याह न चेति नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुत्कः शास्त्रान्वतिः स्वर्गे लोके कामधुग्भवतीति शब्दप्रयोगस्य स्वर्गसाधनत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्याशङ्क्याह परार्थत्वाच्चेति ननु यथा दृष्टार्थस्यापि भोजनादेः आयुष्यं प्राङ्मुखोभुङ्क्तइत्यदृष्टार्थः । प्राङ्मुखत्वनियमस्तथा दृष्टार्थस्यापि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्क्याह न चेदमिति शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्यइत्यर्थः । शब्दस्य तावन्नियमजन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति शब्दस्येति कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः कर्म्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम् अत्यन्तग्रहणम् यत्पुनः परार्थस्याप्याहवनीयादेस्सम्मार्गादिजन्यापूर्वाश्रयत्वप्रदर्शनात् दृष्टार्थग्रहणम् नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्क्याह सत्यपि चेति क्रत्वङ्गभूतानामप्यर्थानामर्थाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवलदृष्टार्थत्वान्नापूर्वेणोपयोग इत्याशयः । ननु श्रोतुरनुष्ठेयादृष्टार्थक्रियाफलभोक्तृत्वयोग्यताधानायापूर्वापेक्षणात्तदाश्रयत्वं भविष्यतीत्याशङ्क्याह श्रोतुः पुनरिति शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वाश्रयत्वशङ्केत्याह बुद्ध्योश्चेति वक्तुरपि बुद्धिववद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह वक्तेति ननु कामधुक्ऽशब्देन शब्दप्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्ऽत्वात्प्राधान्यं भविष्यतीत्याशङ्क्याह नेति स्वर्गकामादिशब्दात्काम्यौपयिकत्वावगतेस्तदनुरोधेन क्रियाफलभाक्त्वावगतिः । इह तु साधुशब्दप्रयोगस्य फलसाधनत्वमात्रं प्रतीयते तच्चार्थवादमात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगीति षष्ठी स्यात्ततः सप्तदश वैश्यस्येत्यादिवत् षष्ठ्युक्तसम्बन्धसामान्यस्यापेक्षावशात्स्वस्वामिलक्षणचविशेषरूपत्वप्रतीतेः प्राधान्यं स्यान्न त्वसा [१९५।१] वस्तीत्याह न चेति ननु यथा कमिपदाद्यभावे ऽपि प्राङ्मुखो ऽन्नानि भुञ्जीतेत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य दिङ्नियमापूर्वाश्रयत्वं तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः । साधुनियमापूर्वाश्रयत्वं भविष्यतीत्याशङ्क्याह यत्त्विति कमिपदाद्यभावे ऽपि भोजनं प्रति भोक्तुर्लोकादेव प्राधान्यावगतेरपूर्वाश्रयत्वं युक्तमिति भावः । अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्क्यमेवेत्याह स्वरूपेण पुनरिति अतो विषयाभावाद्व्यवस्थाभावददृष्टार्थत्वाभावाच्च नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वायोगाच्छास्त्रेण धर्म्मनियम इति यन्महावार्त्तिककारेणोत्कं तदयुक्तमित्युपसंहरति एवं चेति अनेन च साधुशब्दप्रयोगाणामुत्पत्तिरस्मादिति व्युपत्त्या व्याकरणं प्रयोगोत्पत्तिशब्देनाभिप्रेत्य तस्याः शास्त्रमूलत्वाच्छब्दव्यवस्थानियमो न प्रयोजनमिति सूत्रं योजितम् । ननु स्वयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्क्याह न चेति अत्रापि प्रयोगोत्पत्तेर्व्याकरणस्यं शास्त्रत्वाभावादिति योज्यं, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणइत्याह तदुक्तमिति एतदेव विवृणोत् न हीति यद्वा पौरुषेयत्वात् व्याकरणस्य वक्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोगनियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह सर्वत्र हीति स्मृतिशास्त्रान्तरसम्वादाभावादिति सप्तमीं योजनामाह न चेति एतदेव विवृणोति प्रायेणेति अस्तु तावत्स्मृत्यन्तरेणासम्वादः परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादो ऽस्तीत्याह परस्परेण चेति सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः । कीदृशं विगानमित्यपेक्षायां निः प्रयोजनं व्याकरणं सूत्रकृतो ऽभिप्रेतं, साधुशब्दप्रयोगद्वारेण धर्म्मप्रयोजनत्वं वार्त्तिककृतः, साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह न तावदिति तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यतइति भावः । ननु विस्मृत्याप्यनुक्त्युपपत्तेः । कथं प्रयोजनाभावाभिप्रायो लक्ष्यतइत्याशङ्क्याह कथं चेति एतावत्त्वेन वह्वायासत्वमभिप्रेतम् । एतदेव विवृणोति येष्विति मोक्षाणामिति निर्द्धारणे षष्ठी न चानादरेणानुक्त्युपपत्तिरित्याह न चेति सुज्ञानत्वेनापि नोपपत्तिरित्याह सुज्ञानत्वं पुन [१९६।५] रिति यद्यपि वार्त्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योत्कं तद्व्याकरणे धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह धर्म्मश्चेति ननु न साक्षाद् धर्म्मप्रयोजनत्वं व्याकरणस्याभिप्रेतं किं तु तदनुगतशब्दप्रयोगद्वारेण ज्ञानद्वारेण वेत्याशङ्क्याह धर्म्मत्वमिति एतदेव विवृणोति शास्त्रार्थो हीति किं पुनः शब्दस्य ज्ञाने धर्म्म आहो स्वित्प्रयोगइति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्म्म इति चेत्तथाधर्म्म इत्यनेन साध्वसाधुविवेककारिणो व्याकरणवत्साधुत्वज्ञाने ऽर्थान्तरो लक्षणरहितानामसाधुत्वाज्ञानापत्तेस्तस्य च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वावसायादधर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे तर्हि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभिज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानर्थक्यमिति । प्रयोगे सर्वलोकस्येत्यनेनोक्त्वा दोषद्वयभयाच्छास्त्रपूर्वके प्रयोगे ऽभ्युदयस्तस्य च वेदशब्देनेत्यनेन व्याकरणजनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनं यथा वेदशब्दपूर्वको ऽग्निष्टोमादिर्वेदजनितज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनं यथा वा वेदरुपः शब्दो नियमपूर्वमधीतो धर्म्मसाधनमित्युत्कं भाष्यकृता तत्सर्वं व्याख्यायाथ वा पुनरस्तु ज्ञाने धर्म इत्युक्तम् । न चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः । ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मित्वं भविष्यतीत्याशङ्क्याह सम्बद्धयोश्चेति एकवाक्योपात्तयोरप्याख्यातनामार्थयोः समुच्चयः प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्यधिकरणं यदैकस्मादपूर्वं तदतरत्तदर्थमित्येतदित्यर्थः प्रतिपदाधिकरणे निराकरिष्यतइत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति तदिहेति एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगो ऽप्यनुषङ्गान्निष्पद्यतइत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्म्मसाधनत्वपक्षे व्याख्येयः । प्रयोगपक्षे तु ज्ञातमात्रो ऽपि साधुशब्दः स्वर्गं साधयति किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन सम्यग।?।ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्म्मत्वे प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव ज्ञानानुनिष्पादित्वेन सत्यामपि व्याकरणादुपकारनिर्वृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न भावाभिप्रेतद्वारेण व्याकरणस्य धर्म्मप्रयोजनत्वं युक्तं प्रयोगस्य तु धर्म्मत्त्वे यदैकस्मादपूर्वं तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोरगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इतिवत्सम्यग।?।ज्ञात इत्यनेनाप्यन्वये कल्प्यमाने ऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्द्वा।?।रेणापि व्याकरणस्य धर्म्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्दप्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमीं योजनामाह किं चेति व्याकरणपूर्वकज्ञा [१९७।३] नप्रयोगयोरित्यर्थः । एतदेव विवृणोति यन्नामेति मन्त्रार्थवादगतस्थानित्यसंयोगस्य परिहारो यो न्यायो नित्यानित्यसंयोगविरोधरूपस्तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं शङ्कनीयमित्याह न चेति ननु व्याकरणस्य कूटस्थनित्यत्वाभावे ऽपि प्रवाहनित्यत्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह अथापीति उक्तमौत्पत्तिकसूत्रे ऽध्येतॄणामस्मरणादिभिश्शब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य प्राथम्यान्न पौरूषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेदविषयत्वं भविष्यतीत्यत आह न चेति ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः । व्याकरणाच्छब्दान्प्रतिपद्यामहइति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युत्कं नापि शब्दस्य व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वाभावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्यादिभिरप्रोक्तत्वेन पाणिनिना प्रोत्कं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वये ऽपि दूषिते भाष्यकारेण शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन करणाधिकरणयोरेव ल्युट्प्रत्ययनियमाभावाद् व्याक्रियत इति व्याकरणमिति कर्मव्यत्पत्त्या लुडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः शब्दसूत्रयोः समुदितयोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरण स्य कृत्रिमत्वे ऽपि शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते अथेति लक्षणनिरपेक्षाणां शब्दानामानन्त्याद्विधिविषयत्वानुपपत्तिर्न तु गवादिगाव्यादीनां जातिरूपेण व्यक्तिरूपेण वा विधिप्रतिषेधौ उपपद्यते इत्यादिनोक्तेन परिहरतिं तदिति ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावे ऽपि प्रवाहनित्यत्वमुत्कं तथात्रापि, तस्मादेषा व्याकृता वागुद्यतइति व्याककरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्याकरणस्य नित्यत्वं भविष्यतीत्याशङ्कते ननु वेदेति तद्ग्रन्थस्याध्येत व्यत्वायोगाद् ग्रन्थनित्यत्वं कल्पितम् । इह तु श्रुतिसामान्यमात्रेणापि व्याकृतशब्दव्याख्यानोपपत्तेर्न ग्रन्थनित्यत्वकल्पने प्रमाणमस्तीति परिहरति नैतदिति ननु वैदिक्या वाचः स्वराद्यविप्लुतरूपेणानिरूपिताकारत्वरूपस्य व्याकृतत्वस्य प्राप्तत्वाद्विध्यानर्थक्यमित्याशङ्क्य कर्मकाले स्वाध्यायकाले वोच्यमाने इयमनूदितेत्युक्तम् श्लोकं व्याचष्टे अव्याकृताया हीति अस्य च व्याख्यामेकः शब्दः इत्येषापि श्रुतिर्वैदिकस्यैव शब्दस्य स्वराद्यविप्लुतिरूपेण ज्ञानप्रयोगयोर्द्धर्मत्वप्र [१९८।२] तिपादनार्थतया व्याख्यातुं शक्येति सूचयितुमाह तस्याश्चेति नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्त शास्त्रान्वित इत्यत्र शास्त्रशब्दस्य ग्रन्थविषयत्वाद्व्याकरणग्रन्थस्य वेदविषयत्वप्रतीतेर्नित्यत्वकल्पना भविष्यतीत्याशङ्क्याह यदपि चेति प्रशंसार्थत्वमेवोपपादयति अहरहरिति शास्त्रशब्दस्तर्हि कथमत आह शास्त्रेति लोकव्युत्पत्त्या शिक्षणात्मकशासनवाचिना शास्त्रशब्देन ग्रहणाध्ययनकालीनः स्वस्यात्मीयस्य गुरोरध्यायः शिक्षणार्थः पाठो विवक्षितो ग्रन्थ इत्याशयः । ननु सुप्रयुक्तशब्दस्तर्हि पुनरुत्कः स्यादित्याशङ्क्याह सम्यगिति उपनयनमाचार्यकर्तृको माणवकसंस्कारः उपसदने सुश्रूषे माणवककर्तृके त्रयं वै तद्ग्रहणाध्ययनकालीनमपि विशिष्टेतिकर्तव्यताकग्रहणं संस्कृतस्य तस्यैव वेदस्य ब्रह्मयज्ञोपयोगित्वादुपन्यस्तम् । ननु तस्माद् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो हवा एष यदपशब्द इत्येषा श्रुतिर्गाव्याद्यपशब्दनिषेधार्थत्वाच्छब्दापशब्दविवेकस्य च व्याकरणाधीनत्वाद्व्याकरणापेक्षा भविष्यतीत्याशङ्क्याह यदपि चेति कृत्यार्थे तवैकेन्।?।केन्यत्वन इति कृत्यार्थे छन्दसि तवैप्रत्ययस्मरणात् कृत्यानां च प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चेति प्रैषार्थत्वस्मरणादप्राप्तप्रेषणस्य च विधित्वान्नञ्योगेन निषेधार्थतोक्ता । कथं वैदिकविषयत्वावगतिरपशब्दनिषेधस्येत्यपेक्षायां वैदिकशब्दापेतत्वरूपव्युत्पत्तिसम्भवं सुज्ञानत्वं च कारणद्वयमाह वैदिकाच्चेति सर्वेभ्यः शब्देभ्यो ऽपेत इति च व्युत्पत्तिः शब्दस्य अशब्दत्वयोगान्न सम्भवतीत्याह न चेति ननु नायमभाववचनो ऽपेत्युपसर्गः किं तु वर्जनवचनः अतो गाव्यादीनां सत्यपि शब्दत्वे शास्त्रकारैर्वर्जितत्वादपशब्दत्वं भविष्यतीत्याशङ्क्याह अथापीति वर्जने ऽर्थे बर्बरादिभाषाशिक्षणस्य स्मृत्या निषिद्धत्वाच्छ्रुतौ चापशब्दत्वस्य म्लेच्छितशब्दसामानाधिकरण्येन निर्देशाद् बर्बरादिभाषागतस्य शब्दस्यापशब्दत्वज्ञानादित्यर्थः । म्लेच्छितत्वशब्देन म्लेच्छि व्यक्तायां वाचीत्यव्यक्तोच्चारणार्थस्य म्लेच्छशब्दस्य म्लेच्छो व्यक्तोच्चारित इत्यर्थो दर्शितः । किं चान्येषामपि बर्बलादिसम्बन्धिनामाचाराणां निषिद्धत्वाच्छब्दप्रयोगरूपस्याप्याचारस्य तत्सम्बन्धिन एव निषेधो ऽवसीयतइत्याह युत्कं चेति गाव्यादीनां तु प्रसिद्धम्लेच्छबर्बरादिसम्बन्धित्वेनाव्यक्तोच्चारणत्वेन वा म्लेच्छतिधात्वर्थानुगमाभावादार्यप्रयुक्तशब्दायत्तत्वाभावाद्वा नापशब्दतेत्याह नत्विति यथावृत्तादार्याचारादपेतत्वात्तदपवृत्तमित्युच्यते नैवं गाव्यादिष्वार्यप्रयुक्तशब्दापेतत्वमस्ति तेषामप्यार्यैः प्रयुक्तत्वादिति वैधर्म्यदृष्टान्तार्थं, नन्वाहिताग्निरपशब्दं प्रयुज्येति श्रुतेर्म्लेच्छशब्दसामानाधिकरण्याभावाद् व्याकरणानुगतशब्दापेतत्वनिमित्तलब्धापशब्दव्यपदेश्यत्वगाव्यादिप्रयोगनिमित्तप्रायश्चित्तविधानार्थत्वाद् व्याकरणापेक्षा भविष्यतीत्याशङ्क्याह यदपि चेति निषिद्धाचरणनिमित्तत्वात्प्राय [१९९।१] श्चित्तस्य गाव्यादीनां च शिष्टावर्जितत्वेनानिषिद्धत्वावसायाद्यथासम्भवमन्यविषयतैवेयं श्रुतिर्भवेदित्याशयः । व्याकरणानुगतव्यतिरिक्तशब्दविषयत्वासम्भवमुपपादयति तथा हीति गाव्यादि शब्दप्रयोगलक्षणस्य कार्यस्य सर्वशिष्टपरिगृहीतत्वेनापरिहरणीयत्वमीदृशशब्देनोत्कं श्लोकं विवृणोति प्रायेण हीति ननु सर्वस्यापि व्याकरणानुगतशब्दप्रयोगनियमो न दृश्यतइत्याह न चेति एतदेव प्रपञ्चयितुमाह कल्पेति कल्पकारस्यापशब्दमुदाहरति समानमिति छान्दोग्यसूत्रकारस्योदाहरति सूत्रेति बह्वृच्सूत्रकारस्यापशब्दद्वयमुदाहरति तथेति कल्पादिग्रहणस्योपलक्षणार्थत्वात् शिक्षाकारस्यापशब्दमुदाहरति तथेति स्मृतिकारस्योदाहरति मनुनापीति स्मृतिग्रन्थकारेणापि साक्षिणः सन्ति मेत्युक्त्वा वदेत्युक्त्वा वदेत्तु य इत्यत्र मेशब्दस्येतीकारे परभूते संहितायामेचो ऽयवायाव इत्ययादेशे कृते लोपः शाकल्पस्येति च यकारलोपे कृते म इतीतिव्याकरणानुगतां संहितामनपेक्ष्यान्यथा कृतेत्यर्थः । मीमांसाकारस्यापशब्दद्वयमुदाहरति तथेति सम्वत्सरसत्रेषु गवामयनिकविध्यन्तातिदेश [२००।१] प्रतिपादनायाष्टमे गवामयनोत्तरकालविहितेष्वादित्यानामयनप्रभृतिषु गवामयनस्य विध्यन्तः प्रवर्ततइति वक्तव्ये तस्य विकारावयवे च प्राण्यौशधिवृक्षेभ्य इत्यधिकृत्य गोपयसोर्यदिति विकारावयवयोर्विहितो यत्प्रत्ययो ऽर्थवादावगतगोकर्तृकत्वमात्रनिमित्तप्रयुत्कः । न चैवाग्नीषोमायप्रकरणाधीतः स्यादिति मासामुमोक्ते तानिति बहुवचनान्तस्यापि मन्त्रस्य प्रातिपदिकार्थसमवायाद् बहुवचनस्य प्रातिपदिकार्थलक्षितावयवबहुत्वाभिधानार्थत्वेनोपपत्तेरनुत्कर्ष इति सिद्धान्तिते द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर्ऋद्ध्यासमित्यादीनां दर्शपूर्णमासप्रकरणान्धीतानां द्यावापृथिव्याद्यनुमन्त्रणानामपि केन चिद्गुणयोगेन दर्शपूर्णमासदेवताप्रकाशकत्वोपपत्तेरनुत्कर्ष इत्याशङ्कार्थं सूत्रे सरूपाणामेकशेषः इत्याद्येकशेषलक्षणहीनं द्यावोरित्युक्तमित्यर्थः । गृह्यकारेणापि जिघ्राणामिति ल्युडन्तजिघ्रादेशः पाघ्रादिसूत्रेण शित्येव प्रत्यये परभूते घ्रातेर्जिघ्रादेशमन्वाख्यातमनपेक्ष्यैव कुत इत्याह तथेति व्याकरणसर्वस्वे निरुक्ते ऽपि व्याकरणाननुगताः शब्दाः सन्तीत्याह कार्त्स्न्यइति आर्द्धधातुके परभूते ब्रुवो वच्यादेशस्याभिधानात्तदकरणं हीनलक्षणमित्यर्थः । एतदेव विवृणोति सम्वत्सरमिति पुराणेतिहासहस्तिशिक्षादिकारिणस्तु नात्यन्तं व्याकरणमान्द्रियन्तइत्याह अन्तइति हस्तिशिक्षादिग्रन्थकारिणो ये उभाभ्यादिरूपा अपशब्दास्तेषामन्तो नास्तीत्यर्थः । एतदेव विवृणोति युगपदिति वेदप्रयुक्तानां च शब्दानामपशब्दत्वाशङ्कानुपपत्तेर्निश्चितसाधुत्वानामनन्वाख्यानादव्यापकं लक्षणं स्यादित्याह वेदेष्वपीति सामान्यं छन्दसि भाषायां च साधारणं चातुर्वर्ण्यादिवत्स्वार्थे तद्धितः । ननु व्यत्ययो बहुलमिति बहुलग्रहणेन विकरणवत्सुबादीनामपि व्यत्ययसूचनाद् बहुलं छन्दसीति च लोपाद्यनियमविधानादस्ति सर्वशब्दानां छान्दसं लक्षणमित्याशङ्क्याह न हीति
सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्व।?।रकर्त्तृयङां च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सो ऽपि च सिध्यति बाहुलकेन ॥
इति वचनान्नियतविषय एव व्यत्ययविधिः दक्षिणायामिति हि प्राप्ते धुरि दक्षिणाया इति सुपो व्यत्ययः । तक्षन्तीति प्राप्ते ये अश्वयूपाय तक्षतीति तिङः स्रु।?।वन्तीति प्राप्ते सामगाः स्रु।?।वत इत्युपग्रहस्य इन्द्रः सोमस्य कामुक इति प्राप्ते कामुकेति लिङ्गस्य । ममृवां आवाहाइत्यत्रावाहादिति प्रथमपुरुषप्राप्तौ आवाहाइति पुरुषस्य । अग्निमद्यहोतारन्यमवृणीतेत्यत्राद्यतनकालवाचिनि लकारे प्राप्ते अनद्यतनकालवाचिलङ्प्रयोगात्कालव्यत्ययः । काण्डकेत्यत्र कामुकेइति प्राप्ते णकारप्रयोगाद्धल्व्य।?।त्ययः । अम्यक्सा।?।त इत्यत्रामेत्याकारे प्राप्ते अम्यगिति संहितादर्शनेनाकारप्रयोगादच्व्यत्ययः । अश्वावतीर्गोमतीरित्यत्रान्तोदात्तत्वे प्राप्ते ऽश्वावतीरित्याद्युदात्तत्वात्स्वरव्यत्ययः । कर्तृशब्दस्य कारकोपलक्षणत्वादद्भिर्ददातीत्यत्र सम्प्रदानस्य दातृत्वेन प्रत्युपकारार्थदानकरणत्वाभिधानाद्दद्भ्य इति प्राप्ते ददद्भिरितिकर्तृव्यत्ययः यङशब्दस्य प्रत्याहारत्वेन योगाद्यङ्न्तविकरणप्रत्ययग्राहित्वाद्वृत्रं हनतीत्यत्र हन्तीतिप्राप्ते हनतीति यङ्व्यत्ययः । बहुलं छन्दसीति च अदिप्रभृतिभ्यः शप इत्याद्यधिकारविशेषेण शबादिविषयमेवावसीयते न सर्वविषयमित्यर्थः । तत्रोदा विकारेषु कार्यातिदेशतो गता इत्युक्तम् प्राकृतकार्यनिरपे [२०६।१] क्ष्येण पदार्थातिदेशे शास्त्रातिदेशे वा कार्यान्तरकल्पना युज्येत वैकृतभावनाकाङ्क्षावशात्तु करणोपकारलक्षणकार्यद्वारस्यैवातिदेशस्य दशमाद्ये वक्ष्यमाणत्वान्न कार्यान्तरकल्पनेत्याशयः । कार्यद्वारातिदेशे ऽपि कार्यान्तरार्थे व्रीह्यादौ व्रीहीणां मेधेत्यादिमन्त्रप्रयोगस्यैवाभावात्प्राकृतकार्यार्थत्वे ऽप्यर्थान्तरत्वाभावेनाविकृतस्यैव प्रयोगोपपत्तेरूहाभावात्प्राकृतकार्यतापत्तेश्च अर्थान्तरेष्वित्युक्तम् कथं कार्यापत्त्यवगतिरित्यपेक्षायाम् पञ्चधेत्युक्तम् नैवारश्चरुरिति विकारतद्धितेन नीवाराणां चरुप्रकृतित्वाभिधानात्प्रत्यक्षविधिना प्रदेयप्रकृतित्वलक्षणव्रीहिकार्यापत्तिरवसीयते संस्थिते षडहे मध्वाशयेद् घृतं वेति मधुघृताशनयोः पडहाभावे विधानात्प्रत्यक्षविधिना ष।?।डहकार्यापत्तिः सत्रायावगूर्य विश्वजिता यजेतेति वा सत्राभावे विश्वजितो विधानात्सत्रकार्यापत्तिः । नैवारश्चरुर्नखावपूतानामिति वैतुष्यलक्षणविकारफलनिर्लुच्छनापरपर्यायावपनाङ्गत्वेन नखानां विधानाद्विकारेण वैतुष्योत्पादनलक्षणोलूखलमुसलकार्यापत्तिः । परिधौ पशुं नियुञ्जन्तीति परिधेर्नियोजनेविधानात्स्वशब्देन विनियोजनलक्षणरूपकार्यापत्तिः । न गिरागिरेति व्रूयादैरं कृत्वोद्गेयमितीरापदविध्येकवाक्यतया गिरापदस्य निषेधानुवादावगतेरेकार्थत्वाभावे चेरापदेन गिरापदवाधायोगान्निषेधानुवादानुपपत्तेर्निषेधानुवादेन गिरापदकार्यापत्तिरिति पञ्चप्रकारत्वम् । प्रत्यक्षविधिना भावे विधानेन विकारतः स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारितेति सङ्ग्रहश्लोक । ननु व्रीह्यादिकार्याय तेष्वपि नीवारादिषु व्रीह्यादिप्रकाशनार्थानां मन्त्राणां व्रीह्यादिस्वरूपस्याभावेनाप्राप्तेर्नोहः स्यादित्याशङ्क्य अपूर्वार्थद्वारेणेत्युक्तम् स्वरूपप्रयुक्तत्वनिराकरणेनापूर्वप्रयुक्तत्वस्य नवमाद्ये वक्ष्यमाणत्वान्नीवारा।?।दिषु व्रीह्यादिस्वरूपाभावे ऽपि व्रीह्यादिलक्षितापूर्वार्थत्वसद्भावात्तद्द्वा।?।रेणास्ति प्राप्तिरित्याशयः । नन्वर्थान्तरेष्वप्यूहेन मन्त्राणां प्रयोगोपपत्तौ याज्यानुवाक्ययोरनुपदेशे गायत्र्यादिना लक्षणेनानुवाक्यकल्पनवचनं त्रिष्टुवादिना च लक्षणेन याज्याकल्पनवचनं तादृशलक्षणयोश्चासम्भवेन असञ्ज्ञकयोनिमामशृणुधीर्हवं स्तीर्णं बर्हिरानुषासवेतदित्यनयोरिरागमवचनमनर्थकं स्यादित्याशङ्क्य अनिपिद्धोहा इत्युक्तम् पूयति वा एतदृचो ऽक्षरं यदेतदूह इति तस्मादृचं नोहेदित्यादावूहनिषेधान्न देवतान्तरवत्यां विकृतौ प्राकृतयोर्याज्यानुवाक्ययोः प्राप्तिः सम्भवतीत्याशयः । न माता वर्द्धते न पितेति तु यज्ञपतिन्यायप्राप्तनिषेधानुवादत्वान्नोदाहरणमेवम्भूतस्य वोहोपपत्तिकलापस्य मीमांसागम्यत्वादस्माकमेवोहः सिद्ध्यति न वैयाकरणानामिति न इत्यनेनोक्तम् न त्ववघातादिसस्कारविषयस्य दृढादृढप्रहारादिरूपस्योहस्य सामविषयस्य वोत्तराकृता वृद्धतालव्याश्रितापि भावरूपस्य व्याकरणानपेक्षत्वे ऽपि मन्त्रोहस्य वैयाकरणाधीनत्वेन महाभाष्यकृतोक्तस्य शब्दरूपत्वाद्वैयाकरणापेक्षा भविष्यतीत्याशङ्क्य व्रीह्यादिसम्बन्धित्वेनावगतानां धर्माणां नीवारादिसम्बन्धित्वापादकरूपवितर्कणात्मकस्योहरूपस्य मन्त्रविषये ऽप्यूहे साम्यद्वितर्कणायाश्च मीमांसाधीनत्वान्न वैयाकरणापेक्षेति मन्त्रशब्देनोक्तम् ननूह्यानूह्यविभागस्य मीमांसकाधीनत्वे ऽप्यूह्यपदस्वरूपज्ञानं वैयाकरणापेक्षं भविष्यतीत्याशङ्क्याह एतावतीति ननु कथं साध्वसाधुशब्दविवेकानाभिज्ञस्य योग्यपदलाभ इत्याशङ्क्याह वेद एव हीति यत्किञ्चिच्छब्दोहेनापि वा मन्त्रवाक्यनैराकाङ्क्ष्यसिद्धेर्न योग्यपदादरो युक्त इत्याह अथ वेति एतच्च देवतापदव्यतिरिक्तविषयमुत्कं तेषां विधिगतव्यतिरेकेण साधूनामप्यप्रयोज्यत्वादिति दर्शयंश्लोकं व्याचष्टे देवतेति आग्नेयादियागाङ्गभूतेष्वावाहनादिषु निगमनस्थानेषु किं येन केन चित्पर्यायेण देवताभिधेयार्थविधिगतेनैव शब्देनेति सन्दिह्य येन केन चिदर्थसिद्धेरनियमे प्राप्ते देवतायाः प्रतिग्रहादिव्यापाराभावात्स्वरूपेण कर्म्मसमवायानुपपत्तेः शब्देनाग्निमुद्दिश्य हविस्त्यजेदिति विध्यर्थावमात्केन शब्देनेत्यपेक्षायां बुद्धिस्थाग्निशब्दातिक्रमे कारणाभावादग्निशब्देनैवाग्निमुद्दिशेदिति विधिगतेनैव शब्देन देवतात्वविधानान्मन्त्रकार्ये तस्यैवोच्चारणं कार्यमिति विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदनेति सूत्रोक्तदाशमिकन्यायेन विधिगतप्रयोगानुसारेणैव विकृतौ देवतापदान्यूह्यमानानि प्रयोक्ष्यन्तइत्यर्थः । ननु सौर्यं चरुमिति विधौ प्रातिपदिकमात्रश्रवणादग्नये जुष्टमिति चतुर्थ्यन्ताग्निपदस्थाने सूर्यपदं कीदृशं प्रयोज्यमिति व्याकरणं विना न ज्ञायतइत्याशङ्क्य तद्वाक्यशेषेत्युक्तम् तस्य विधिवाक्यस्य शेषे वाक्यान्तरे वा महोदेवाय सूर्याय शंसतेत्यादौ यदधिगतमर्थाभिधानमित्यन्तेनेत्यर्थः । नन्वेवं सति शब्दव्यवस्थायामपि प्रयोगोत्पत्तिशास्त्रत्वदर्शनात्कथं तेनाव्यवस्थासिद्धिरित्याशङ्क्य तेषु हीत्यक्तम् किं विषयं तर्ह्यव्यवस्थितोह्यपदप्रयोज्यत्वाभिधानमित्यपेक्षिते यानीत्युक्तम् पौण्डरीके बर्हिपि दर्भैस्तृणीत हरितैः सुपर्णैरित्यतिदेशप्राप्ते मन्त्रे दर्भपदस्थाने पुण्डरीकैरिति द्रव्यपदमादिशब्दात्सुपर्णपदस्थाने पुण्डरीकावयववाचिपदम् । एवं व्रीहीणां मेधः सुमनस्यमान इत्यादौ यथासम्भवं नीराणामित्यादीनि यथासम्भवं द्रव्यादिपदान्युदाहार्याणि । ननु नीवारादिपदव्यतिरि क्तानां तत्पर्यायाणां साध्वसाधूनां मानाप्राप्तत्वेनाप्रतीतरूपाणां प्रयोगविधिविषयत्वाभावात्प्रयोगानुपपत्तेर्नाव्यवस्था युक्तेत्याशङ्क्य सन्निहितेत्युक्तम् । सन्निहितेन नीवारादिविधित प्रतीतेन नीवारादिनार्थेन पर्युपस्थापितानि समस्तानि पर्यायभूतानि साध्वसाधूनि रूपाणि येषामिति विग्रहः । पूर्वमेव तर्हि नीवाराद्यर्थस्य स्मृतत्वान्नीवारादिपदोहो ऽनर्थकः स्यादित्याशङ्क्य असन्निहितेत्युक्तम् असन्निहितार्थस्य व्रीह्यादिपदस्य निवृत्त्या हेतुभूतया न्यूनत्वात्साकाङ्क्षं यद्व्रीहाणां मेधेत्यादिमन्त्रवाक्यं तस्य निराकाङ्क्षीकरणायेति विग्रहः । द्रव्यादेर्हि श्रुतिसमवायित्वाभावेन विधिगतशब्दप्रयोगनियमाभावात्कर्म्मविधानार्थस्यैव शास्त्रस्य शब्दप्रयोगोत्पत्तिशास्त्रत्वानुपपत्तेर्मन्त्राम्नानरूपेण वा शास्त्रेण प्रयोगोत्पत्तेः शास्त्रवत्त्वं वाच्यं व्याकरणाख्येन वा तत्र मन्त्राम्नानं तावद्विकृतौ नास्तीत्याह प्रकृतौ हीति व्याकरणस्य च सम्भाव्यमानमूलशास्त्रत्वात्कृतकत्वादिदोषग्रस्तत्वात्पौरुषेयत्वेन चानादियज्ञगतशब्दविषयत्वायोगान्न प्रयोगोत्पत्तिशास्त्रत्वं युक्तमित्याह व्याकरणस्यापीति कृतकत्वस्यानाप्तप्रणीतत्वाशङ्कापादकत्वेन दोषत्वं व्याकरणानुगतशब्दप्रयोगनियामकत्वाभावेन अविधायकत्वस्योक्तम् इत्युपसङ्ख्यानानामादिशब्दोपात्तानां च वक्तव्यानामाचार्य्यसूत्राणां च दीधीवेवीटामित्यादीनां प्रत्याख्यानं सूत्रवार्तिकभाष्याणां परस्परविरोधे विशेषाग्रहेण इदमेव प्रमाणमित्यनिश्चयादनवस्थितं प्रमाणत्वं विकरणस्य के चित्प्रकृत्यन्तर्भावमिच्छन्ति, अन्ये प्रत्ययान्तर्भावमिति, यथारुचि कल्पितं प्रकृतेः प्रत्ययस्यवा परिमाणं धातुप्रातिपदिकादिलक्षणदू।?।षणान्यादिशब्देनोपात्तानि सत्यप्याप्तप्रणीतत्वे नित्यानित्यसंयोगविरोधेनानादियज्ञगतशब्दविषयत्वं निराकृतम् । ऊहस्यान्यतः सिद्धेर्व्याकरणप्रयोजनत्वासम्भवमुपसंहरति तेनेति प्रकृति [२०७।१] विकृतिविभागज्ञानं कर्म्मज्ञानं प्रकृतौ द्रव्यदेवतामन्त्राणां विकृतौ द्रव्यदेवतान्तरस्य प्राकृतानां च मन्त्राणां ज्ञानं कर्म्माङ्गज्ञानं प्रकृतावपूर्वप्रयुक्तत्वं कार्यातिदेशेन च विकृतिरा।?।मनं वैकृतानां चाङ्गानां प्राकृतकार्यापत्तिज्ञानं वाक्यार्थज्ञानं तेषु कौशलेः कर्तव्यतया लोकवेदप्रयोगाच्च स्वरूपेणोहसिद्धेर्व्याकरणानर्थक्यमित्यर्थः । व्याकरणतः सिद्धेरप्यूहस्य तत्प्रयोजनत्वं न युक्तमित्युपपादयितुं व्याकरणपर्यालोचनया कर्त्तव्यत्वेनावगतस्योहस्य मीमांसानुसारेणापवादः कल्पसूत्रव्याख्यातृभिः कृत इत्याह अपि चेति देव्याः शमितार आरभध्वम् इत्यादिः पशुविशसनप्रैषमन्त्रः अध्रिगुशब्दवत्त्वेनाध्रिगुरुच्यते तत्र पुराणन्यायादीन्यङ्गानि अस्वेत्वेवं मातेत्यादीनि ज्ञातिनामानि श्येनमस्येत्याद्या उपमाः सूर्यं चक्षुरित्यादीनीन्द्रियाणि यज्ञपतिशब्दवत्पारार्थ्यन्नैषामन्यैरूहविषयैर्वैषम्यान्नाध्रिगावूह्यते इत्यर्थः । यथागमः खल्वपीत्युपक्रम्य ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेति स्मरणमावश्यकधर्म्मज्ञानार्थं षडङ्गवेदाध्ययनविधानार्थं व्याकरणाध्ययनप्रयोजनत्वेनोपन्यस्तं तत्प्रयोजनं प्रयोजनिभाववैपरीत्येन दूषयति आगम इति यथा वेदाध्ययनं प्रति प्रयोजनभूतानां कर्म्मणां नाध्ययन प्रयोजन तथा षडङ्गवेदाध्ययनविधायकमागमं प्रति प्रयोजनभूतस्य व्याकरणाध्ययनस्य नागमप्रयोजनमित्युपालम्भार्थः । न त्वारगमप्रयोजनत्वप्रतिपादकं भाष्यमनुष्ठापकत्वाभिप्रायं व्याख्यातृभिर्व्याख्यातं तत्कथं फलपरत्वं प्रयोजनशब्दस्यारोप्य दूषणमुक्तमित्याशङ्कानिराकरणार्थः फलपदप्रयोग । रक्षोहागमलघ्व।?।सन्देहाः प्रयोजनमिति सकृच्छ्।?।रुतस्य प्रयोजनशब्दस्य रक्षादौ फलपरत्वमागमे ऽनुष्ठापकपरत्वं न युक्तमित्याशयः । एतदेव विवृणोति सर्वस्य हीति न चागमप्रयोजनत्वाभिधानेन लक्षणया धर्मज्ञानाख्यमागमोत्कं प्रयोजनमभिमतमित्याशङ्कते अथेति षडङ्गवेदाध्ययनवद्धर्म्मज्ञानस्याप्यनुष्ठेयत्वमनेनागमेनोत्कं न प्रयोजनत्वमि ति मत्वा परिहरति तदपीति नन्वेकस्मिन्वाक्ये विधिद्वयायोगाद्धर्म्मस्य ज्ञेयत्वाभिधानं प्रयोजनत्वेनैव व्याख्येयमत आह निष्कारणतयेति श्रेयःसाधनत्वेन धर्म्मस्य निष्प्रयोजनत्वायोगान्निष्कारणशब्दस्य षडङ्गशब्देनैवान्वयात्पौरुषेयेयु च वाक्यभेदस्यादोषत्वादित्याशयः । एतदेव विवृणोति निष्कारणेति कार्यते ऽनुष्ठाप्यते ऽनेनेति व्युत्पत्त्या प्रयोजनवचनो ऽय कारणशब्द इति वक्तु निष्प्रयोजनत्वशब्दः । अवेदत्वाच्चास्यागमत्वं नास्तीत्याह आगम इति नन्ववेदत्वे ऽपि वेदमूलत्वेनागमत्वं भविष्यतीत्याशङ्क्याह कथं चेति नन्वेवं तर्हि तस्याः स्मृतेर्वेदमूलत्वाभावे वेदाध्ययनस्यावैधत्वं स्यादित्याशङ्क्याह तस्मादिति न च केवलवेदविषयस्य विधेर्नित्यानित्यसंयोगविरोधो ऽस्तीत्याह उपपन्नं चेति ननु व्याकरणादेरपि प्रवाहनित्यत्वान्नित्यविधिविषयत्वं न विरोत्स्यतइत्यत आह व्याकरणादीति प्रत्यक्षश्रुी।?।ती।?।वषय त्वं सति तदन्यथानुपपत्त्या प्रवाहनित्यत्वं कल्प्येत तदभावे ऽप्यपस्मृतित्वेनाप्युपपत्तेर्न कल्पनागोरवाश्रयणं युक्तमित्याशयः । न चास्य वेदत्वेन तत्तुल्यत्वेन वा स्वयमागमत्वं सम्भवति कल्पसूत्रादिकरणे निरस्तत्वादित्याह न चेति किं च प्रधानं च षडङ्गेषु व्याकरणमिति भाष्येण वेदाङ्गत्वाद्व्याकरणस्यैतदागमप्रयोजनत्वमुक्तम् । अङ्गशब्दश्च तादर्थ्यवाची वा स्यादवयववाची वा नोभयथापि व्याकरणस्याङ्गतास्तीत्याह न चेति उभयरूपाभावमुपपादयति श्रुतीति कस्तर्ह्यस्याः स्मृतेरर्थ इत्यपेक्षायामाह तस्मादिति लिङ्गादेरशब्दरूपत्वे ऽपि तत्कल्प्या [२०८।१] नां श्रुतीनां वेदावयवत्वं भविष्यतीति भावः । अभिधानसमर्थानां वा मन्त्राणां लिङ्गत्वमङ्गानां सापेक्षवाक्यार्थप्रतिपादकवाक्यसमुदायस्य प्रकरणत्वम् । सन्निधिपठितानां वाक्यानां क्रमत्वम् । यौगिकस्य शब्दस्य समाख्यात्वमभिप्रेत्य अवयवत्वमुक्तम् एवं विधषडङ्गवेदाध्ययनस्य वान्वयव्यतिरेकाभ्यां धर्म्मज्ञानहेतुत्वावसायाद्धर्मो ज्ञेय इत्यस्य तत्प्रयोजनत्वाभिधायकत्वोपपत्तेर्नानेकविधानं निमित्तवाक्यभेदापत्तिरिति सूचयन्नाह तैः षड्भिरिति नन्वेवं सति वेदाध्ययनेनैव तदवयवाध्ययनसिद्धेः विशेषणानर्थक्यापत्तिं शङ्कते नन्विति प्रविभक्तरूपश्रुत्यादिज्ञानार्थत्वेन विशेषणसाधुत्वमाह उच्यतइति श्रुतेर्विनियोजकत्वे हेतुर्मु।?।ख्यं गौण वा सामर्थ्यं तेन विना विनियोजकत्वस्यासम्भवाद्विनियोजकाक्षरश्रवणरूपं व्यर्थं लक्षिते पूर्वं साधनांशे विनियोगः फलं सामान्यसम्बन्धाख्यः क्रतुसम्बन्धो लिङ्गस्य विनियोजकत्वे हेतुः सामर्थ्ये रूपं मुख्ये ऽर्थे विनियोगः फलं समभिव्याहारान्यथानुपपत्तिर्वाक्यस्य विनियोजकत्वे हेतुः । सन्निहिताकाङ्क्षितयोग्यपदार्थप्रतिपादकपदसमुदायो रूपं पूर्वापरपदाविरोधेन विनियोगः फलं प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः साकाङ्क्षफलवत्सन्निधानं रूपं फलवति विनियोजकत्वे सादृश्यं हेतुः । निराकाङ्क्षफलवत्सन्निधानं रूपं फलवत्याकाङ्क्षोत्थापनेन विनियोगः फलं सामान्यतः प्राप्तिः समाख्याया विनियोजकत्वे हेतुः यौगिकशब्दत्वं रूपं प्रतियोगिनि विनियोगः फलमिति । पृथग्भूतैर्हेतुरूपफलैः प्रविभक्तरूपेण श्रुत्यादिज्ञानं मीमांसानिरपेक्षाद्वेदाध्ययनमात्रान्न सिध्यतीत्याशयः । ज्ञात्वेति च ज्ञास्यामीत्यध्यवसायेत्येवमग्निष्टोमसाम कृत्वेतिवद्व्याख्येयं विधेरर्थमित्यनेन षडङ्गो वेदो ऽध्येयो ज्ञेयश्चेत्यागमस्य वेदः पठितव्यः स च परस्परविविक्तश्रुत्यादिषडङ्गरूपेण ज्ञेय इत्यर्थः । सूचितं मीमांसाधीनत्वं चास्यार्थस्य न इत्यस्मदा सूचितम् । ननु ज्ञेयशब्दस्य षडङ्गशब्दान्वये धर्मशब्दस्यानन्वयापत्तेर्नानेन श्रुत्यादीनां चोक्तरूपेण ज्ञानं विधियतइत्याशङ्क्य अध्येयशब्दस्यैवेण गतावित्येतद्धातुरूपत्वाङ्गीकरणेन ज्ञानविधायकतेति व्याख्यानान्तरमाह अधीति अकारप्रश्लषरहितेन वामे।?।न ध्यानं विधीयतइति तृतीयं व्याख्यानमाह ध्यायतेरिति अध्ययनविधित एव नान्तरीयकतयाध्ययनसिद्धेर्विधानानर्थक्यमित्याशङ्क्य श्रुत्याद्युपायकार्थप्रतिपादकत्वरूपेण षडङ्गस्य वेदस्य ध्यानं विवक्षितं न स्वरूपेण तस्यापि च वेदार्थावधारणकालसिद्धत्वात्पश्चादप्यनुष्ठेयत्वसिद्ध्यर्थं विधानमिति दर्शयितुमाह श्रुत्यादीति एवं च मीमांसाध्ययनानुष्ठापकतैवास्यागमस्यावसीयते न व्याकरणाध्ययनानुष्ठापकतेत्यनुष्ठापकत्वेनागमस्य व्याकरणप्रयोजनत्वाभिधानं न युक्तमित्याह ततश्चेति अनुष्ठानार्थत्वाद्वा विधिवाक्याध्ययनमात्रेण स्वाध्यायविध्यर्थसिद्धेरर्थवादान्तर्गतव्याकरणाद्यङ्गसहितवेदाध्ययनविधानार्थत्वेनास्यागमस्य न पाणिन्यादिप्रणीतग्रन्थाध्ययनानुष्ठापकतास्तीति चतुर्थी व्याख्या तामाह वेद इति श्लोक व्याचष्टे तद्दध्न इति तदेनमधिनोत्तद्दध्नो दधित्वमिति धिनोतेः प्रीणातिकर्मणो दधित्वशब्दनिर्वचनादेतन्निरुक्तोदाहरणं तदाहुर्यदन्यो जुहोत्यथ यो ऽनुवाहयति तं च कस्मान्न होतेत्याचक्षतइति पृष्टे यद्वाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तं देवहोतुर्होतृत्वमिति व्हयतेः कृतसम्प्रसारणस्यैतद्रूपं न तृजन्तं जुहोतेरिति प्रकृतिविशेषान्वाख्यानान्न व्याकरणोदाहरणम् आदिशब्दोपात्तस्य छन्दोविचित्यादेरष्टाक्षरा गायत्रीत्याद्युदाहरणं यथासम्भवं मृग्यम् । अस्तु वा निरुक्तादिग्रन्थानां षडङ्गाध्ययनस्मृतिविषयत्वम् । ननु व्याकरणस्य प्रातिशाख्यैः सङ्ख्याः पूरयिष्यतइति पञ्चमीव्याख्यामाह प्रातिशाख्यानि वेति यानि प्रातिशाख्यान्यध्येतारो ऽधीयते तेष्वेव षट्सङ्ख्यापूरणार्थं सङ्गतं न व्याकरणेष्वित्येवकारार्थे द्वितीयो वाशब्दः गृह्यमाणं लिङ्गेन स्वाध्यायार्थत्व ह्येषामिति हेत्वर्थः वेदसंहिताध्ययनानुगतस्वरसन्ध्याद्यनुसाराभिधानार्थः । स्वाध्यायत्ववदिति वतिः स्वाध्यायानुगतस्वराद्युच्चारणनियामकत्वरूपं प्रयोगशास्त्रत्वं तादर्थ्यग्रहणहेतुतया स्वाध्यायवदित्यनेनोक्तमुपपादयति यानि हीति तदुपपादितं गृह्यमाणतदर्थत्वं व्याचष्टे तेष्विति अतस्तेष्वित्यधायहारेण योज्यम् । एवकारार्थस्य वाशब्दस्य व्यावर्त्त्यमाह नन्विति ननु कतिपयानामपि तादद्वैदिकशब्दानामुच्चा [२०९।१] रणनियामकत्वात् व्याकरणानामपि प्रयोगशास्त्रतास्तीत्याशङ्क्याह प्रातिशाख्यानीवेति अन्वाख्यायमानेष्वपि वैदिकशब्देष्वध्ययनानुगतस्वरसन्ध्यादियक्ते रूपे व्यापाराभावान्नैषां प्रयोगशास्त्रतास्तीति नियामकत्वाद्व्याकरणानामपि प्रयोगशास्त्रतास्तीति परिहरति नेति प्रातिशाख्यानां वेदस्वरूपे व्यापारं विवृणोति प्रातिशाख्यैः पुनरिति उदात्तपौर्वापर्यत्वे तयोर्मध्ये कालः स्वरसन्धिः सर्वानुदात्तपदसंहतिः प्रयतिः असंहिता विवृतिः स्वरितस्योदात्तों ऽशः पूर्वाङ्गः, अनुदात्तः पराङ्ग आदिशब्देनाङ्गाद्युक्तम् । एवं तावद्व्याकरणाध्ययनाविधायकत्वान्नास्यागमस्य व्याकरणं प्रत्यनुष्ठापकत्वरूपप्रयोजकत्वान्नास्य किमपि प्रयोजनत्वम् सम्भवतीत्युक्तम् इदानीमस्यागमस्य व्याकरणाध्ययनविधायकत्वे ऽपि निष्कारणशब्देनाध्ययनमात्रपर्यवसानावसायादर्थज्ञाननिरपेक्षेणाध्यययनमात्रेण शब्दानामनुशासितुमशक्यत्वाच्छब्दानुशासनस्य रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति पूर्वोक्तेन प्रतिज्ञानेन तव प्रयोजनत्वेनाभिमतस्यागमस्यानुसन्धानसंवादो नास्तीत्याह पूर्वोक्तेनेति यो ह्ययमागमस्त्वया प्रयोजनत्वेनोपन्यस्तः सो ऽध्ययनं प्रति तन्मात्रे पर्यवस्यति न शब्दानुशासनपर्यन्तं गच्छति प्राक्शब्दानुशासनमागमप्रयोनत्वेन प्रतिज्ञातमित्यध्याहारेण योज्यम् । अस्माच्चागमादध्ययनमात्रे धर्म इति प्रतीतेर्महाभाष्यकृता ज्ञानेधर्म्म इति वक्ष्यते शास्त्रपूर्वं प्रयोगेषूदय इति च वार्तिककृता तदुभयमप्यागमविरुद्धं स्यादित्याह ब्राह्मणेनेति यच्च लाघवार्थं चाध्येयं व्याकरणमित्यादिभाष्येण लघुनोपायेन शब्दज्ञानं व्याकरणस्य प्रयोजनमित्युत्कं तदत्यन्तक्लिष्टत्वेन व्याकरणस्य लघूपायत्वायोगप्रयोजनातिक्लिष्टव्याकरणाध्ययनमध्येतुर्लाघवं मन्दबुद्धित्वमापादयतीत्यध्येतृलाघवमेवास्य प्रयोजनमित्येवं व्याख्येयमित्युपहसति यदपि चेति उपहासान्तरमाह यदि वेति श्लोकें व्याचष्टे लोकप्रसिद्धानामेवेति धातुशब्देन धातुपाठो विवक्षितः गणशब्देन गणपाठ उणादिशब्देन दशपादी पञ्चपादी वा सूत्रशब्देनाष्टाध्यायी आदिशब्देन वार्त्तिकादीनां तेषां पाठतो ऽर्थतश्च क्लिष्टत्वादत्यन्तवैषम्यं विशेषणं क्लिष्टार्थत्वोपपादनायोत्तरवदत्रापि विग्रहद्वयम् । अलौकिकीभिर्वृद्धिरादैजित्यादिभिः सञ्ज्ञाभिरिकोगुणवृद्धीत्याद्याभिश्च परिभाणाभिर्निबद्धा प्रक्रिया येषां धात्वादीनामिति प्रथमविग्रहः द्वितीयस्त्वनवस्थितौ स्थापनाक्षेपौ यस्य सिद्धान्तस्य स सिद्धान्तो यस्य विचारस्य स विचारो येषु धात्वादिष्विति द्वन्द्वगर्भबहुव्रीहिगर्भो बहुव्रीहिः । तद्यथा सिद्धे शब्दार्थसम्बन्धे इति शास्त्रारम्भवार्त्तिके भाष्यकृता सिद्धे शब्दे ऽर्थे सम्बन्धे चेति विग्रहं कृत्वा नित्यपर्यायवाचित्वेन सिद्धशब्दं व्याख्याय कं पुनः पदार्थं मत्वैष विग्रहः क्रियत इति विचारमुपक्रम्याकृतिमित्याहेत्याकृत्यभिप्रायत्वं प्रतिज्ञायाकृतिर्हि नित्या द्रव्यमनित्यमिति हेतुमुक्त्वा ऽथ वा द्रव्यपदार्थ एष विग्रहो द्रव्यं हि नित्यमाकृतिरनित्येति द्रव्यातीन्द्रियत्वमुक्त्वा पुनराकृतावपि पदार्थएष विग्रहो न्याय्य इत्युक्त्वा नित्याकृतिरेकद्रव्यविनाशे ऽपि द्रव्यान्तरे प्रत्यभिज्ञानादिति चाक्षेपं परिहृत्य कूटस्थनित्यत्वाभावे ऽपि वा पट्टकुटीवद्विनष्टा वा अथाकृतेर्द्रव्यान्तरभावे ऽयमिति तत्त्वप्रतिज्ञानान्नित्यतेति परिहारान्तरमुक्त्वा ऽथ वा किं न एतेन इदं नित्यमिदमनित्यमिति यन्नित्य ते पदार्थं मत्वैष विग्रहः क्रियतइति पदार्थविचारसिद्धान्तस्थापनाक्षेपानवस्थितहेतूपन्यासेनानवस्थितौ कृते एवमत्यन्तविष।?।मैर्धात्वादिभिर्लोकप्रसिद्धानामेव शब्दानां क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रकरणान्निष्फलश्रमापत्तिरित्यर्थः । तत्रापि चेत्यनेन यथावस्थितशब्दज्ञानमपि सर्वप्रतिपतॄणां न भवतीत्युक्तम् । स्तुत्यर्थमित्यन्तासम्भाविता स्तुतिरपि न सम्भवतीति सूचितम् । ननु भाष्यकृता न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुमिति लघूपायान्तराभावाभिधानाद् गुरोरप्यस्य प्रतिपदपाठात्मकगुरुतरोपायापेक्षया लघुत्वं भविष्यति एतदेव चान्यैरुपपादितमित्याशङ्क्यानुभाषणपूर्वकमुपसहरति यदपीति तत्त्वावबोधो रूपादेर्नास्ति व्याकरणादृतइत्याद्यपि वक्तव्यमित्यर्थः । ननु रूपादेः प्रत्यक्षगम्यत्वान्न व्याकरणापेक्षा तत्साध्वसाधुशब्दविवेकस्य तु व्याकरणमन्तरेणाज्ञानान्नोपहासो युक्त इत्याशङ्क्यार्थप्रतीतिसाधनत्वात्सर्वेषां गोगाव्यादिशब्दानां साधुत्वे तेषां च श्रोत्रेन्द्रियागम्यत्वान्न व्याकरणपेक्षेत्यभिप्रायेण परिहरति को हीति प्रमाणान्तरागोवरार्थवपयत्वं शास्त्रस्य स्वभावः प्रमाणान्तरगृहीतार्थानुवादित्वं लोकस्य इतिकरणार्थवाची इदृशशब्दप्रयोगात्तत्वावधारणमिति प्रथमा कीदृशं तर्ह्यर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धन [२१०।२] मिति श्लोकस्योत्तरार्द्धं वक्तव्यमित्यपेक्षायामाह अत इति यद्यप्यसन्देहार्थं चाध्येयं व्याकरणमित्यादिभाष्येण वेदार्थगतसन्देहनिवृत्तिप्रयोजनत्वं व्याकरणस्योत्कं तदपि दूषयति असन्देहश्चेति पदार्थगतस्य चासन्देहस्य निवृत्तिर्व्याकरणस्याप्रयोजनं वाक्यार्थमन्तरा वा उभयथाप्यन्यतः सिद्धत्वात् व्याकरणाच्चा।?।सिद्धेर्न व्याकरणप्रयोजनमित्यर्थः । पदार्थसन्देहनिवृत्तेरन्यतः सिद्धिमुपपादयति पदार्थेति व्याकरणेन चासिद्धिमुपपादयति व्याकरणेन पुनरिति नन्वीदृशं पदमस्मिन्नर्थे साध्वित्यर्थविशेषावच्छिन्नस्यैव पदस्वरूपस्यान्वाख्यानादर्थज्ञानमपि व्याकरणात्सम्भवतीत्याशङ्क्य शब्दान्वाख्यानोपायमात्रकेन व्याकरणे ऽर्थकथनं न तात्पर्येणेति निदर्शयितुमाह तथा हीति व्याकरणाद्धि सर्वनाम्नां धातुजत्वेन क्रियायोगनिमित्तता प्रतीयते न च वृद्धव्यवहारे तथा प्रतीतिरित्यर्थः । अत्रैवोदाहरणमाह गमेरिति अनेन सूत्रेण गत्यर्थात् गमेर्धातोरौणादिके डोप्रत्यये विहिते डित्क।?।रणाच्च टिलोपे कृते कर्त्तरि कृदिति गन्तरि गोशब्दव्युत्पादनार्थान्वाख्यानादरे लोके सिद्धा जातिवाचिता हीयेत लोकमूलत्वाच्च व्याकरणस्य नैतद्युक्तमित्यर्थः उदाहरणान्तरमाह तथा चेति कुशला दातरि कुशलशब्दस्य दातरि च दारशब्दस्य व्याकरणे ऽनुगमः । लोके च प्रवीरा ये कुशलशब्दस्य दातृमहत्त्वयो वाश्च दारशब्दस्येत्यर्थः ।1 अकृदन्तेष्वपि कृदन्तत्वान्वाख्यानात् व्याकरणस्य लोकविरोधमुक्त्वा समासाभावे ऽपि समासान्वाख्यानात्सर्वविरोधमाह अश्वेति अतद्धितान्तेष्वपि तद्धितान्तवद्व्याख्यानाद्विरोधमाह एवमिति वेदविरुद्धार्थान्वाख्यानाद्यङ्गव्याघाताशङ्कापत्तेर्न व्याकरणस्यार्थे तात्पर्यमित्याह तथेति अत्रैवोदाहरणद्वयमाह कलेरिति आपो वा ऋत्वियमार्छन्तासां वायुः पृष्ठेत्यवर्त्तते ततो वसुवामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतां वामं मर्याइदं देवेष्वाजनीति तस्माद्वामदेव्यमिति वामदेवेष्विति समभिव्याहृतशब्दद्वयोच्चारणनिमित्तवामदेव्यशब्दव्युत्पत्तिः कलनक्रियानिमित्तकालेयशब्दव्युत्पत्तिश्च वैदिकीं वैयाकरणीं दर्शननिमित्ततां बाधतइत्यर्थः । कल्पसूत्रकारैश्च कृष्णशम्वा।?।स इति कृष्णशशब्दस्य व्याकरणाननुगतदकारापगमेन कृष्णदशब्दवाचितया व्याख्यानात्कृष्णवलक्षे अजिने इति च वलक्षशब्दस्य लोकव्याकरणानवगतशुक्लत्ववाचितया व्याख्यानाद्यूपादिशब्दानां च व्याकरणमनादृत्यैव व्याख्यानान्न व्याकरणस्य पदार्थनिश्चायकत्वमस्तीत्याह तथेति नन्वस्तु नाम पदान्तरेषु व्याकरणानपेक्षो ऽर्थनिर्णयः । [२११।४] यत्तु भाष्यकृता स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेत्यत्र किं स्थूला चासौ पृषती चेति कर्मधारयः । स्थूलानि पूषन्ति यस्याः सेयं स्थूलपृषतीति बहुव्रीहिर्वेति सन्देहनिवृत्तिर्नावैयाकरणस्य भवतीत्युत्कं तत्र कः परिहार इत्याशङ्क्याह यथा चेति पदार्थसन्देहनिवृत्तेर्व्याकरणप्रयोजनत्वं निराकृत्य वाक्यार्थसन्देहनिवृत्तिरपि निराकरोति किं चेति ननु वाक्यार्थसन्देहनिवृत्तिप्रयोजनत्वं भाष्यकृतानुक्तत्वान्न निराकार्यमित्याशङ्क्य प्रसङ्गापादनार्थं तन्निराकरणमित्याह यदीति किं चिदित्यक्रियार्थत्वमभिमतम् । औदुम्बराधिकरणस्य साध्यांशविचारार्थत्वाभावे किमौदुम्बरत्वस्य फलसमभिव्याहारः साधारणत्वप्रतिपत्त्यर्थः । प्रशंसार्थो वेति व्याख्येयं प्रमाणान्तरेणान्नकरणत्वस्य होमसम्बन्धहेतुत्वमज्ञातं ज्ञाप्यतइत्यज्ञातज्ञापनाभिप्रायो विधिशब्दः हेतुद्वारो ऽर्थवाद इतिशाकपार्थिववन्मध्यमपदलोपी समासः दृष्टार्थत्वशब्देनार्थतात्पर्यमात्रं सर्वमन्त्रसाधारणं मन्त्राधिकरणे व्युत्पादितं न स्मारकत्वं स्तोत्रशस्त्रादिमन्त्रव्यापकत्वादिति दर्शितं व्याकरणानपेक्षोदाहरणान्युक्तै कत्वविवक्षयामेकवचनस्मृतेर्व्याकरणेनैकत्वविवक्षाप्रतीतेर्विरोधो ऽप्यस्तीति दर्शयितुम् ग्रहेत्युक्तम् न त्वनन्यलभ्यस्य प्रयोजनवदर्थवादत्वादिनिर्णयस्य च मीमांसासिद्धत्वान्न व्याकरणप्रयोजनत्वोपपत्तिरिति स्वयमेवाशङ्क्याह अथेति स्थूलपृषत्यादिशब्दार्थस्यापि कल्पकारादिव्याख्यानान्निर्णयः सेत्सतीत्याशयः । ननु मूलप्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशङ्क्य त्वया ऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह अपि चेति लक्षणोत्थसन्देहे व्याख्यानस्य निर्णायकत्वप्रतिपादकं भाष्यं वेदोत्थसन्देहेन योजयितुमाह व्याख्यानत इति भाष्यकृता हि शास्त्रारम्भवार्त्तिकगतस्य सिद्धशब्दस्य एकपरिहारयुक्तानि सार्थत्वमुपपाद्य चतुर्थः परिहारो ऽभिहित इत्यन्वयः सिद्धशब्दस्य1 कः पदार्थ इति पृष्ट्वा सिद्धा द्यौ सिद्धा पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा सिद्ध ओदनः सिद्धः सूपः सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णय इत्याशङ्क्य सङ्ग्रहे तावत्कार्यप्रतिद्वन्द्वि।?।भावप्रसिद्धामिति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तादर्थ्यनिर्णय इत्येकं परिहारमुक्त्वा ऽथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाब्भक्षो वायुभक्ष इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्वमुपपाद्याथ वा पूर्वपदलोपो ऽत्र द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्येणात्यन्तत्वविशेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणामिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारो ऽभिहितः । ननु लक्षणोत्थसन्देहनिवृत्तिलक्षणकारिपुरुशकृतव्याख्यानपरम्परयोपपद्यते वेदे तु कर्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्याख्यापरम्पराया मूलं भवतीत्याशङ्क्याह न चेति कल्पादि [२१२।१] भ्यो वेदार्थाग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः कल्पादीनामेव मूलत्वं युक्तमित्याशयः । वेदवद्वानादित्वात् व्याख्यानपरम्परा न मूलान्तरमपेक्षतइत्याह यथैवेति ननु भाष्यकृता यदि पूर्वपदप्रकृतिस्वरत्व ततो बहुव्रीहिः अथ समासान्तोदात्तत्वं ततस्तत्पुरुष इति भाष्येण बहुव्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीह्याद्यस्य पदस्य प्रकृतित्वाभिमताद्युदातस्वरत्वस्मृतेरुदाताधिकारे चान्तोवत्या इत्यतो ऽन्त इत्यनुवर्त्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरेषूत्सर्गः अन्तोदात्तत्वस्मृतेरनुदात्तं पदमेकवर्जमिति च विहितस्वरवर्जनमुदात्तत्वस्मृतेर्बहुव्रीहि विना आद्यपदोपदात्तत्वायोगाद्व्याकरणस्य समासविशेषनिर्णयद्वारार्थविशेषनिर्णायकत्वाभिधानाद्व्याकरणस्य निर्णायकत्वाभिधानाद्व्याकरणाधीनादध्येतृप्रसिद्धाद्युदात्तत्वाद् बहुव्रीहित्वेन स्थूलपृषत्यादिशब्दव्याख्येत्याशङ्क्याह न चेति श्लोकं व्याचष्टे वृद्धेति वेदे तु स्वरविवेके सत्यप्यर्थविशेषेण सह स्वरविशेषेस्य सम्बन्धग्रहणाभावान्न स्वरविशेषे कृत्वार्थविशेषव्यवस्था युज्यतइत्याह यत्र त्विति ननु वेदे सम्बन्धग्रहणाभावे ऽपि लोकतो ऽनेकार्थतया ऽवगतस्य पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणादिभिर्निर्णायो ऽभ्युपगम्यते तत्र चार्थद्वयसाधारणस्य पदस्यैकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासावर्थविशेषनिर्णयोपायत्वं स्वरस्याप्यस्तीत्याशङ्क्याह तत्रापीति साधारणस्यापि शब्दरूपस्य लोकावधारितार्थप्रकरणादिनिर्णयोपायवशेनैव एकार्थपरत्वावधारणोपपत्तेर्न लोकानवगतस्य स्वरस्याप्यर्थनिर्णयसामग्रीमध्ये निवेशकल्पना युक्तेत्याशयः । ननु स्वरस्याभिधानङ्गत्वे ऽनर्थकः पाठः स्यादित्याशङ्क्याह तेनेति न कदा चिददृष्टार्थतास्तीति दर्शयितुम् सर्वदेत्युक्तम् ब्रह्मयज्ञेषु ज्योतिष्टोमादिषु ये जपमन्त्रास्ते ऽप्यङ्गमिति निष्कृष्य योज्यम् । जपन्यूङ्ख।?।सामव्यतिरेकेण यज्ञकर्मण्येकश्रुत्यस्मृतेश्चकारेण न्यूङ्खसाम्नामुपादानम् । एवं च व्याकरणेन स्वरानुगमो ब्रह्मयज्ञाद्यपयोगित्वेनार्थवानस्तु न त्वर्थनिर्णयार्थतेत्याशङ्क्याह व्याकरणेति अलौकिके ऽर्थे सम्बन्धग्रहणासम्भवेनावश्यकत्वाज्ञानात् लौकिकेत्युक्तम् न वर्णवद्वाचकत्वेन लोके स्वरः प्रयुक्तो नाप्या।?।नुपूर्व्यादिवद्वाचकसहकारिता इत्ययन्तशब्देनोक्तम् ननु लोकाप्रयुक्तेष्वप्युणादिशब्देषु वाचकत्वोपलक्षणाल्लोकप्रयोगादेव वाचकत्वज्ञानमिति नियमायोगाद्व्याकरणादपि स्वरविशेषस्यार्थविशेषं प्रतिवाचकत्वज्ञानं भविष्यतीत्याशङ्क्याह न चेति शास्त्रारम्भभाष्ये ऽथ शब्दानुशासनमिति शब्दान्वाख्यानार्थत्वाख्याने तात्पर्याभावान्न व्याकरणस्य प्रामाण्यमित्याशयः । अत्रैव सूत्रावयवं योजयन्नसन्देहप्रयोजनत्वासम्भवमुपसंहरति तस्मादिति रक्षादीनामपि पूर्वोक्तप्रयोजनत्वासम्भवोपसंहारार्थो ऽपिशब्दः । एवं मुख्यानि पञ्चप्रयोजनान्युपन्यासपूर्वकं दूष यित्वा ते ऽसुराः दुष्टः शब्दः यदधीतं यस्तु प्रयुङ्क्ते अविद्वांसः विभक्तिं कुर्वन्ति यो वा इमां चत्वारि उत त्वः सक्तुमिव सारस्वतीं दशम्यां पुत्रस्य सुदेवो असि वरुणेत्यानुषङ्गिकाण्यपि त्रयोदश सङ्क्षेपतस्तावत् दूषयति धा।?।न्यपि चेति
अम्लेच्छत्वमदुष्टेक्तिर्विज्ञानं फलभागिता ।
अस्त्रीसाम्यं विभक्त्युक्तिः सप्तमं चार्त्विजीनता ॥
मनीषिवत् सम्मतत्वं देवेन महताष्टम् ।
वाक्खरूपप्रकटनं लभ्म्या वाचि निधापनम् ॥
अप्रायश्चित्तभाक्तं।?। च द्वादशं पुत्रनाम च ।
त्रयोदशं सुदेवत्वमुत्कं भाष्ये प्रयोजनम् ॥
प्रथमं च द्वितीयं च सप्तमं चाप्रयोजनम् ।
दशमैकादशौ चेति व्याक्रिया न ह्यपेक्ष्यते ॥
तृतीयादीनि चत्वारि नवमद्वादशे अपि ।
प्रयोजनवदाभान्ति किं तु नान्येन सिद्धितः ॥
सुदेव इति मन्त्रस्य चत्वारीति द्वयोरपि ।
असामर्थ्यं न चरममष्टमं वा प्रमाणकम् ॥
मुख्यप्रयोजनैश्च प्रयोजनवत्त्वासम्भवेनानुषङ्गिकेष्वाशा युक्तेत्याह अपि चेति नद्या वेगेन नीयमानो यस्तीरगतं वृक्षमप्यवष्टभ्य स्यातुं न शक्नोति तस्य यथा कुशावष्टम्भनं काशावष्ट म्भनं चानर्थकं तथैतदपीत्यर्थः । पूर्वोक्तमेव प्रपञ्चयितुं प्रत्येकमुप [२१३।३] न्यस्योपन्यस्य दूषयति तत्रेति भाष्यकृता ते ऽसुराहे ऽलयो हे ऽलय इति ब्रुवन्तः पराबभ।?।वुस्तस्माद् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो हवा एष यदपशब्द इत्यपशब्दनिषेधवाक्यमुपन्यस्य म्लेच्छा माभूमेत्यध्येयं व्याकरणमिति भाष्येण म्लेच्छरूपापशब्दप्रयोगात्प्रयोक्तुर्म्लेच्छत्वापत्तेरज्ञातस्यापशब्दस्य वर्जनायोगाच्छब्दापशब्दविवेकज्ञानार्थम् व्याकरणमित्युक्तम् यस्मादसुरा अरय इति रेफस्थाने लकारप्रयोगेण हैहेप्रयोगे हैहेयोरित्येतत्सूत्रविहितप्लुतप्रयोगेण ष्लुतप्रगृह्या अचीति च प्रकृतिभावविधानाद्धे अरय इति प्रयोक्तव्ये हे ऽलय इति त्रिविधापशब्दभाषणरूपम्लेच्छनात्पराभवं प्राप्तास्तस्माद् ब्राह्मणेन न म्लेछितव्यं नापभाषितव्यम्मिति समभिव्याहारेणापशब्दनिषेधस्यापराभवार्थत्वप्रतीतेर्म्लेच्छा माभूमेति म्लेच्छत्वपिरहारस्य प्रयोजनत्वं भाष्यकारोक्तमयुक्तमाशङ्क्य पराभवाख्यानस्यापभाषणफलप्रदर्शनार्थत्वे प्रतीते म्लेच्छो हवा एष यदपशब्द इत्यस्यानर्थक्यापत्तेरपशब्दस्य म्लेच्छशब्दप्रयक्तुर्म्लेच्छत्वं भवतीत्यपशब्दम्लेच्छत्वाभिधानार्थवादस्य फलपरत्वसूचनायोपन्यस्यार्थवादतोक्ता निषेधस्य तु प्रयोजनत्वमागमवत्प्रयोजकत्वेनाक्षेपकत्वेनोत्कं स निषेधो यथा गुरुसम्प्रदायागतवैदिकशब्दविषयो म्लेच्छभाषाविषयो वा न तु गाव्यादिशब्दविषयग्रन्था यदपि च तस्माद् ब्राह्मणेनेत्यादिग्रन्थेन प्रागुक्तमित्यर्थः । ततश्च व्याकरणानपेक्षत्वान्न तत्प्रयोजनत्वयोग्यतेत्याशयः । यच्च भाष्यकृता ।
दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
सं वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधाद् ॥
इति श्लोकमुपन्यस्य दुष्टॅाश्छब्दान्माप्रयुङ्क्ष्महीत्यध्येयं व्याकरणमिति भाष्येण दुष्टशब्दवर्जनं व्याकरणप्रयोजनमुत्कं तदपि मन्त्रविनाशविषयत्वस्य च व्याकरणानपेक्षत्वान्न व्याकरणप्रयोजनत्वयोग्यमित्यर्थान्तरन्यासेनाह दुष्ट इति अत्रापि पूर्ववद्व्याकरणानपेक्षत्वात्तत्प्रयोजनत्वयोग्यतेत्यपिशब्देन सूचितम् । ननु दुष्टादुष्टशब्दज्ञानस्य व्याकरणाधीनत्वात्कथं तदनपेक्षेत्याशङ्क्य दुष्टः शब्द इति पाठे भवेद् व्याकरणापेक्षा न त्वीदृशः पाठो ऽस्तीति दर्शयितुमाह वाग्घीति मन्त्रो हीनः स्वरतो वर्णतो वेति बहुजनप्रसिद्धस्य शिक्षाकारपठितस्य मन्त्रपदस्योद्धारेण पदान्तरप्रक्षेपः स्वपक्षानुरागमात्रेण कृतो न वस्तुत इत्यर्थः । मन्त्रविनाशविषयत्वे चास्य वाक्यस्य श्रुतिमूलत्वं भविष्यतीत्याह दुष्टेति दुष्टपदप्रक्षेपे ऽपि मन्त्रदोषविषयत्वेनोपपत्तेर्व्याकरणापेक्षानापादकत्वात्पाठान्तरोत्प्रेक्षानर्थक्यसूचनार्थो दुष्टशब्दः शब्दमात्रदोषविषयत्वे ऽस्य वाक्यस्य निर्मूलत्वसूचनार्थस्तुशब्दः उदाहरणपर्यालोचनयापि मन्त्रविनाशविषयतैवास्य श्लोकस्यावसीयतइत्याह तथा चेति स यज्ञवैशसं कृत्वा प्रासहाया स।?।मापि च तस्य यदशिष्यत तत्त्वष्टाहवनीयमुपप्रावर्त्तयत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति यदवर्तयत्तद् वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्बर्द्धस्वेति तस्मादस्येन्द्रःशत्रुरभवदित्याद्युदात्तेन्द्रशत्रुपदप्रयोगेणेन्द्रो यस्य शत्रुरिति बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्येन्द्रः शातयिता हिंसिता जात इत्याद्युदात्तत्वलक्षणस्वरदोषेण वृत्रशत्रोरिन्द्रस्योह्यत्वादिन्द्रवधसमर्थपुत्रोत्पादनार्थं यागे।?।कुर्वाणस्य त्वष्टुर्यजमानस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षणमन्त्रविनाशनिमित्तयमानगामिदोषोदाहरणं कृतमित्यर्थः । इन्द्रशत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं हिनस्तीत्युदाहरणार्थः । तस्मादिन्द्रस्य शत्रुर्भूत्वा वर्द्धस्वेति तत्पुरुषार्थविवक्षायां मन्त्रोदाहृतमिदं प्रयोज्यमित्याशयः । यच्च नाम भाष्यकृता ।
यदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हि चित् ॥
इति श्लोकमुपन्यस्य तस्मादविज्ञातमनर्थकमाधिगीष्महीत्यध्येयं व्याकरणमिति वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयोजनत्वेनोत्कं तद्व्याकरणप्रयोजनत्वेनाभासमानमप्यन्यतः सिद्धेर्न व्याकरणप्रयोजनमित्याह यत्त्विति अध्ययनविधेर्दृष्टार्थत्वाभिधानान्मीमांसाप्रयोजनत्वेनैतद्युत्कं भवतीत्याशयः । ननु मीमांसावद्व्याकरणमपि वेदार्थज्ञानसाधनं भविष्यतीत्याशङ्क्याह नन्विति शब्दानुशासनार्थत्वेनार्थपरत्वाभावः सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषयशब्दानुशासननान्तरीयकत्वेनार्थानुशासनमपि सेत्स्यतीति स्वयमेवाशङ्क्योत्तरं सूत्रावयवं परिहारे योजयति शब्देति नन्वर्थगतसन्देहविरर्ययनिरासमात्रस्य मीमांसासाध्यत्वाद्वेदार्थस्वरूपज्ञानं व्याकरणाद्भविष्यतीत्याशङ्कां निरस्यन्नुपसंहरति तस्मादिति यच्च
यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले ।
सो ऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥
इति श्लोकेन शब्दव्यवहारकाले ऽर्थविशेषे सम्यक्श।?।ब्दप्रयोगस्य पारलौकिकफलप्राप्तिहेतुत्वाभिधानात्तत्सिद्धिर्व्याकरणस्य प्रयोजनमिति भाष्यकृतोत्कं तदप्यन्यथा व्याख्यातुं शक्यत्वात्प्रयोजनाभासमित्याह यस्त्विति गुरुसम्प्रदायागते स्वरादिविशेषे कुशलः सन्वेदाध्ययनादिव्यवहारकाले वैदकांश्छब्दान्प्रयुङ्क्तइति व्याख्येयमित्याशयः । ननु मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्यति चापशब्दैरित्ययुक्तं स्यादित्याशङ्क्याह यथेति कथं वैदिकश ब्दविनाशविषयता ऽस्या ऽवसीयतइत्यपेक्षायामाह स्वाध्याये ति पौरुषेयत्वेनास्य प्रमाणान्तरावगतदोषानुवादत्वावसायादुदाहृतेन वचनेन यजनयाजनगतवेदशब्दविनाशहेतुकदोषावगतेरा दिशब्दाच्चेतिकरणसूचितेन च ।
हस्तहीनं तु यो ऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥
इति स्मृत्यनुमितेन वचनेनाध्ययनाध्यापनगतवेदशब्दविनाशहेतुकदोषावगतेस्तद्विषयत्वनियम इत्याशयः । यद्यप्येषामृगादिशब्दानामुपक्रमानुरोधेन वेदपरत्वं तृतीये वक्ष्यते तथापि ऋग्वेदादिविहितमन्त्रविषयाया अप्यार्तेर्विनाशाख्यायाः पदार्थान्तरार्तिवत्सामान्यशब्देनोपपादानादविरोधः । ननु प्रकृतिप्रत्ययरूपयोर्वाचोर्योगं सम्बन्धं वेत्तीति व्युत्पत्त्या वाग्योगविच्छब्देन वैयाकरणाभिधानात्तत्समभिव्याहारेणास्य वाक्यस्य व्याकरणानुगताननुगतशब्दप्रयोगविषयतावगम्यतइत्याशङ्क्य त्रेधा परिहरति वागिति वाचः प्रतियोगितयाक्षिप्तेनार्थेन यो वाचं वेत्तीति प्रथमे परिहारे निगमनिरुक्तादिकुशलो वाग्योगवित् द्वितीये तु वाचो वचनस्य योगं पदार्थावयवविशेषरूपां व्यक्तिं ब्राह्मणवाक्येषु मन्त्रेषु च वाचो भासनस्य प्रकाशनस्य योग्यं योगमर्हं वेत्तीति मीमांसको ऽभिधीयते चोदितत्वेनावगतस्य स्वार्थत्वात्प्रकाशनार्हत्वम् अनूदितत्वेनावगतस्य परार्थत्वात्प्रकाशनानर्हत्वं वेत्तीति समासार्थः । निर्वापमन्त्रे त्वग्नेश्चोदितत्वेनानुष्ठानाय स्मर्त्तव्यत्वात्प्रकाशनार्हत्वं सवित्रादीनां वा चोदितत्वेन निर्वापकस्तुत्यर्थत्वात्प्रकाशनानर्हत्वं प्रसिद्धं विदेर्विचारणार्थत्वसूचनार्थं प्रकाशनानर्हत्वं प्रतियोगितयोत्कं वैयाकरणस्य वाग्योगवित्त्वासम्भवोपपादनायास्य पदस्यान्येनार्थेन प्रकृष्टो योगः स्वाभाविकसम्बन्धो ऽस्य वचनस्यैवम्भूतपदान्वयरूपाव्यक्तिरस्य वा मन्त्रस्यायमर्थः प्रकाशनयोग्य इत्येवं विविधप्रयोगोत्पत्तिं प्रति व्याकरणस्याशास्त्रत्वादिति त्रेधां सूत्रावयवं तन्त्रेण योजयति वैयाकरणस्येति यच्च [२१४।५]
अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः ।
कामं तेषु तु विप्रोप्य स्त्रीष्विवायमहं वदेद् ॥
इति श्लोकमुपन्यस्य स्त्रीवन्माभूमेत्यध्येयं व्याकरणमिति भाष्येण स्त्रीसाम्यपरिहारो व्याकरणप्रयोजनमित्युत्कं तदपि प्रयोजनाभासमित्याह यदपीति तत्प्लुतस्येति तच्छब्दो ऽव्ययं तत्रेत्यर्थे तस्मिन् विषये तद्व्याकरणं प्लुतप्रयोगोत्पत्तिं पूज्यशास्त्रप्लुतस्वरूपस्य लोकसिद्धत्वान्नामान्ते च प्लुतप्रयोगस्य मन्वाद्युपदिष्टत्वादित्यर्थः । ऊकालो ऽज्झ्र।?।स्वदीर्घप्लुत इत्येतत्सूत्राधीनत्वं प्लुतस्वरूपज्ञानस्य ह्युपगम्य प्रकृतिप्रत्ययान्वाख्यानाद्वाशब्दापशब्दविवेकार्थस्य नैकसूत्रमात्रसाध्यं प्रयोजनं युक्तमितिशब्देषु न व्यवस्था स्यादितुत्तरसूत्रावयवयोजनया दर्शयति न चेति शब्दविषया व्यवस्था या व्याकरणेन न क्रियते सा न कर्त्तव्या स्यादित्येवं सूत्रावयवो ऽनेन योजितः । यच्च विभक्तिं कुर्वन्तीत्यपक्रम्य याज्ञिकाः पठन्ति प्रयाजाः सविभक्तिकाः कर्तव्या इति न चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्त्तुमिति भाष्येण विभक्तिज्ञानं व्याकरणप्रयोजनमुत्कं तदपि प्रयोजनाभासमित्याह एवमिति तदित्यव्ययं तत्रेत्यर्थे तत्रापि व्याकरणमशास्त्रमित्यपिशब्दाध्याहारेण योज्यं कस्मादित्यपेक्षिते सौत्रं प्रयोगोत्पत्तिपदं समासान्निष्कृष्य हेत्वर्थत्वेन त्रिविधोपपत्तिपूर्वकं याज्ञिकेत्यादिना योजितं समिधः समिधो ऽग्नआज्यस्य व्यन्तु तनूनपादग्निमग्न आज्यस्य वेतु इडोग्निमग्नआज्यस्य व्यन्तु बर्हिरग्निरग्नआज्यस्य वेत्विति याज्ञिकदोषोद्देशेन सम्बुद्धिद्वितीयातृतीयाप्रथमानां विभक्तीनां प्रयाजेषु सिद्धत्वाच्छान्दोग्यब्राह्मणे च षडहविभक्तिर्नानारूपेत्युपक्रम्याग्नइति प्रथमस्याह्नोरूपमग्निमिति द्वितीयस्याग्निनेति तृतीयस्याग्निरिति चतुर्थस्याग्नेरिति पञ्चमस्याग्नइति षष्ठस्येति परस्परविभक्तसम्बुद्धिद्वितीयातृतीयाप्रथमाषष्ठीसम्बुद्ध्याख्यविभक्तिप्रयोगदर्शनान्मत्रेषु चाग्निर्वृत्राणीत्यादिषु विभक्तविभक्तिप्रयोगदर्शनात्प्रयोगदर्शनाभावे ऽपि वा सिद्धशब्दानुक्रमाख्यवैभक्तिकग्रन्थमात्रालोचनेनापि विभक्तिप्रयोगसिद्धेरित्यर्थः । यच्च यो वा इमां पदशः स्वरशो ऽक्षरशो वाचं विदधाति स आर्त्विजीनो भवतीति श्रुतिमुपन्यस्यार्त्विजीनाः स्यामेत्यध्येयं व्याकरणमिति भाष्येणार्त्विज्यार्हत्वं व्याकरणप्रयोजनमुत्कं तद्गुरुसम्प्रदायसिद्धत्वाद्व्याकरणप्रयोजनत्वं योग्यमेव न भवतीत्याह यो इमामिति चत्वारि शृङ्गेत्यृचं महाभाष्यकृता पूर्वोपन्यस्तामपि मन्त्राधिकरणे ऽन्यविषयत्वेन व्याख्यातत्वादुपेक्ष्यापर आहेत्युपक्रम्य चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्रा।?।ह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीत्यृचमुपक्रम्य चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति भाष्येण ये ब्राह्मणास्तानि विदुस्ते मनीषिण इत्यर्थाश्रयणेन पदचतुष्टयज्ञानसाध्यं मनीषित्वं व्याकरणप्रयोजनमुत्कं तदस्या ऋचो ऽन्व।?।परत्वादप्रमाणकमित्याह तथेति निरुक्ते यान्योङ्कारो भूर्भुवः स्वरिति महाव्याहृतित्रयं वेति चतुष्टयमादिशब्दाद्वेदचतुष्टयं मृगपक्षिसरीसृपमनुष्याः वाक्च।?।तुष्टयमनपा यिनी पश्यन्ती मध्यमा वैखरीति सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलरूपावस्थाभेदभिन्नवाक्च।?।तुष्टयमिति चतुष्टयबाहुल्यरूपप्रयोजनानुसारेण चत्वारि पदजातानि प्रपञ्चितानि तन्न व्याकरणस्य व्यापार इत्यर्थः । एतच्च पदनिर्वचनसामर्थ्ये ऽपि तद्विषये सचार्यसङ्ख्यामात्रसामान्यादुत्कं न प्रामाणिकमित्यर्यः । अप्यक्षरेति निरुक्ताकारवचनोपन्यासेन सूचितं, ननु वैयाकरणाभिमतं नामादिचतुष्टयमपि निरुक्तैरुत्कं तद्व्याकरणापेक्षं भविष्यतीत्यशङ्क्याह यत्त्वित् परमार्थतस्तूत्तरार्द्धर्चविरोधान्नैतद्विषयताप्यस्या ऋचः सम्भवतीत्याह एतद्विषयत्वे चेति कस्तर्ह्यस्या ऋचः पारमार्थिको ऽर्थः पूर्वापरार्द्धर्चाविरोधीत्यपेक्षायामाह तस्मादिति अस्मिन् व्याख्याने वागिति [२१५।१] पदं षष्ठ्यन्तत्वेन विपरिणमयितव्यं प्रवो देवायाग्नयइति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानं विश्वजिता यजेतेत्यत्राव्यक्तचोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोपमानं विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्त्तव्यत्य।?।प्रभवा स्वर्गकामपदकल्पिकार्थापत्तिः दध्नेन्द्रियकामस्येत्यज।?। सारूप्याभावे ऽपि सन्निधानमात्रेणाग्निहोत्रवदिति पदोपमानसूचनायादिशब्दः ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाच्चतुष्ट्वं प्रमाणानां न युक्तमित्याशङ्क्याह षडिति अपोद्धारे कारणमाह अभास्तावदिा।?।त न चैरं कृत्वोद्गेयमित्यागमाद्यज्ञायज्ञीयस्येरापदवत्त्वागत्तेरागमस्याप्यागमप्रामाण्यमस्तीत्याशङ्क्याह प्रत्यक्षेति स्वरूपोपादानेनात्र प्रत्यक्षत्वसम्भवान्नागमगम्यतेत्याशयः । ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्वं चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्ता सो अस्य त्रिधा बद्धो वृषभो रोरवीति महो देवा मर्त्यां आविवेशेतीयमृगूपन्यस्ता सा किमित्यपेक्षितेत्याशङ्क्याह चत्वारीति ननु भाष्यकृता चत्वारि शृङ्गेति चत्वारि पद जातानि नामाख्यातोपसर्गनिपाताश्च त्रयो अस्य पादा भूतभविष्यत्व।?।र्त्तमाना द्वे शीर्षे शब्दात्मनौ नित्यः कार्यश्चेति सप्त हस्ता सो अस्य सप्त विभक्तयः त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति वृषभो वर्षणात् रोरवीति शब्दं करोति महोदेवो मर्त्यां आविवेश महान्देवः शब्दः मर्त्यान्मरणधर्माणो मनुष्यानाविवेशेति व्याख्याय महता देवेन नः साम्यं स्यादित्यध्येयं व्याकरणमिति भाष्येण शब्दब्रह्मसास्यं व्याकरणप्रयोजनमुत्कं का तत्रानुपपत्तिरित्याशङ्क्याह यत्त्विति विनियोगनिरपेक्षं मन्त्रस्यार्थतात्पर्यावधारणमशक्यमित्याशयः । सङ्ख्यासामान्यमात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां वैशेषिकादिष्वपि तन्त्रेषु योजयितुं शक्यत्वादव्यवस्था स्यादित्याह तादृळं चेति पार्थवाप्यतैजसवायवीयान्यवयविद्रव्याणि चत्वारि शृङ्गाणि त्रय़ो अस्य लोकस्य पादा महत् कार्यारम्भकाणि द्व्यणुकानि द्वे शीर्षे प्रधानाप्रधानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षड्भावरूपाः सप्तमश्चाभावः त्रिधा बद्धः । समवाय्यसमवायिनिमित्तकारणैर्बद्धः । वृषभो भोगहेतुः रोरवीति शब्दवास्म।?।हो देवो द्योतनात् मर्त्यानाविवेश मर्त्यैर्भोग्य इत्येवमादियोजनोपपत्तेरतिप्रसक्तिः स्यादित्याशयः । यच्च भाष्यकृतोत त्वः पश्यन्न ददर्श वाचमुत त्वः शृणवन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासा इत्यृचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चमविद्वांसमाहार्धमिति भाष्येणाविद्वांसमर्धं पूर्वार्द्धं वा वदतीत्यभिधानादवेदार्थविद्विषयत्वेन व्याख्यायोतो त्वस्मै तन्वं विसस्रे तनुं विवृणुते जायेव पत्यउशती सुवासाः तद्यथजाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते एवं वाग्वाग्विदे स्वमात्मानं विवृणुतइत्युत्तरार्द्धर्चं व्याख्याय वाङ्नो विवृणुयादित्यध्येयं व्याकरणामति भाष्येण वाक्प्रकाशनं व्याकरणप्रयोजनमुत्कं तदन्यतः सिद्धेः प्रयोजनाभासमित्याह उतत्व इति यत्तु भाष्यकृता सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचीत्यृचमुपन्यस्य सक्तुः सचतेदुर्द्धावो भवति कसतेर्वाविपरीताद्विकसितो भवतीति तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अत्र सखायः सन्तः सख्यानि जानते क एष दुर्गो मार्गः एकगम्यो वाग्विषयः के पुनस्ते वैयाकरणाः कुत एतत् भद्रैषां लक्ष्मीर्निहिताधिवाचि भद्रा ह्येषां लक्ष्मीर्निहिता भवति क्व अधिवाचि लक्ष्मीर्लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनिधानं व्याकरणप्रयोजनमुत्कं तद्गुरुसम्प्रदायसिद्धत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह एवमिति यच्च सारस्वतीमित्युपक्रम्य याज्ञिकाः पठन्त्याहिताग्निरपशब्दं प्रयुञ्ज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया माभूमेत्यध्येयं व्याकरणमिति भाष्येण प्रायश्चित्ताभाजनत्वं व्याकरणप्रयोजनमुत्कं तदपि वैदिकशब्दविनाशविषयत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह आहिताग्निरिति यच्च दशम्यां पुत्रस्येत्युपक्रम्य याज्ञिकाः पठन्ति दशम्युत्तरकालं पुत्रस्य जातस्य पिता नाम विदध्यात् घोषवदाद्यान्तरस्थमवृद्धं त्रिपुरुषानूकमनरि प्रतिष्ठितं तद्धि सुप्रतिष्ठिततमं भवति द्व्यक्षरं चतुरक्षरं वा कृतं कुयान्न तद्धितमिति न चान्तरेण व्याकरणं कृतस्तद्विता वा शक्या विज्ञातुमिति भाष्येण पुत्रनामज्ञानं व्याकरणप्रयोजनमुक्तं तदन्यतः सिद्धेः प्रयोजनाभासमित्याह यदपीति घोषवन्तो वर्गतृतीयाद्या वर्णा आदौ यस्य नाम्नस्तद्धोषवदादि अन्तस्था यरलवा अन्तर्म्मध्ये यस्य तदन्तरं तस्य घोषवदादेन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहस्तद्धितस्य वर्ज्जनं वा तयोर्यन्नामकरणे वचनं तत्र न व्याकरणं नामप्रयोगोत्पत्तिशास्त्रत्वेनापेक्षणीयमिति तत्कृत्तद्धितसञ्ज्ञयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गीकृत्य योज्यं तदुपपादनार्थं कृत्तद्धितसञ्ज्ञयोरित्याद्युक्तम् । यच्च भाष्यकृता सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिवेत्यृचमुपन्यस्य सुदेवो असि वरुणसत्यदेवो यस्य ते सप्तसिन्धवः सप्तविभक्तयः अनुक्षरन्ति काकुदं तालु काकुर्ज्जिह्वासास्मिन्नुद्यतइति काकुदं सूर्य्यं सुषिरामिव तद्यथा सूर्य्यं सुषिरामग्निरनुप्रविश्य तदन्तर्गतं मलमपहन्ति एवं सप्तसिन्धवः ताल्पनुक्षरन्ति तेनासि सत्यदेव इति व्याख्याय सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाष्येण सत्यदेवत्वप्राप्तिर्व्याकरणप्रयोजनमुत्कं तत्रास्या ऋचः सङ्ख्यासामान्यमात्रेण विभक्तिविषयत्वमभ्युपगम्याप्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षेति तावदाह सुदेव इति [२१६।१] परमार्थतस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि वरुणशब्देन यज्ञमृत्विजं यजमानं वा ऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते तथापि होत्रीयाप्रशास्त्रीयाब्राह्यणाच्छसीयापोत्रीयानेष्ट्रीयाच्छावाकीयाग्नीघ्रीयाख्यहोत्रागताः सप्तवाचः षड्ऋषभगान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगता वा प्रस्तावप्रणवोद्गीथहिङ्कारप्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वा वाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं निष्प्रमाणकमित्याह यदा पुनरिति नदी।?।तिहासिकगो।?।चरापन्नत्वादितरासां याज्ञिकगोचरापन्नत्वादित्यर्थः । एवं महाभाष्योक्तमुख्यानुषङ्गिकप्रयोजननिराकरणेन न चाश्रितप्रतिपदपाठानां वैदिकानां लक्षणेन कार्यमित्यादिग्रन्थोक्ते व्याकरणस्य निष्प्रयोजनत्वे समर्थिते यदि कश्चित्तस्मादव्याकृता वागुद्यतइति श्रुतिपर्यालोचनेन व्याकरणसंस्कृतानां शब्दानामदृष्टसाधनत्वलक्षणसाधुत्वावगमात्साधुत्वसिद्धिर्व्याकरणप्रयोजनं वदेत्तं प्रत्याह संस्कृतानां चेति श्लोकं व्याचष्टे व्याकरणेनेति शब्दत्ववर्णत्वतद्व्यक्तितत्समुदायावयविस्फोटगोशब्दत्वक्रमग्रहणोच्चारणतत्साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या । उत्पत्त्यादीनां चतुर्णां मध्ये कः संस्कार इति को वेत्यस्य शब्दत्ववर्णत्वजातिव्यक्तिपक्षेषु तावद्दोषमाह न तावदिति जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति शब्दत्वइति वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात्समुदीतानां वा तत्र प्रत्येकपक्षे ऽतिप्रसङ्गं विवृणोति एतेनेति समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह समु [२१७।४] दायस्त्विति किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्यपक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नानामपि संस्कारक्षणं यावदनवस्थानान्न।?। संस्कारः सम्भवतीत्याह येषां तावदिति संस्कारक्षणं यावदवस्थानाभ्युपगमे ऽपि व्यवहारकाले विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह न चेति एतदेव विवृणोति यथैवेति ननु भाष्यकृता किं पुनर्न्नित्यः शब्दः आहो स्वित्कार्य इति पृष्ट्वा सङ्ग्रहएतत्प्राधान्येन परिक्ष्यते नित्यो वा स्यात्कार्यो वेति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे तात्पर्येणैतद्विचार्यते नात्र तेन विचारेण प्रयोजनमित्युत्तरे दत्ते कथं तर्ह्यत्र लक्षणप्रवृत्तिरित्याशङ्क्य यद्यपि नित्यो ऽथापि कार्य उभयथापि लक्षणं प्रवर्त्त्यमित्युक्त्वा कथमनित्यपक्षे संस्कारानुपपत्तिरित्याशङ्क्याह ततश्चेति अत्यन्तविरुद्धत्वाच्च नित्यानित्यत्वयोरनियमाभिधानं न युक्तमित्याह अदूरेति कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्यशब्दव्युत्पत्तिविषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनित्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्गत्वाभावादुभयविधमपि शास्त्रत्वं हीयेतेत्याह उत्पादश्चैवेति श्लोकं व्याचष्टे व्याकरणेति वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदो ऽप्यप्रमाणं स्यादि [२१८।१] त्याह अथेति कार्यत्वे च शब्दस्य संस्कारो ऽशक्यो ऽनर्थकश्चेति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह शब्दश्चेति नित्यत्वे तु शब्दस्य विक्रियाख्यो ऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न सम्भवतीत्याह तस्मादिति न च ज्ञानरूपप्राप्तिलक्षणः संस्कारः शब्दस्य व्याकरणेन क्रियते श्रोत्रजन्मत्वात्तस्येत्याह विनेति अविहितत्वाच्च व्याकरणस्य नापूर्वसाधनसामर्थ्याधानलक्षणसंस्कारार्थता युक्तेत्याह अदृष्टार्थस्त्विति शब्दानां च दृष्टार्थत्वेनापूर्वसाधनत्वाभावान्न तत्सामर्थ्याधानलक्षणेन संस्कारेण प्रयोजनमस्तीत्याह दृष्टार्थेषु चेति ननु लोकव्यवहारार्थानां शब्दानां दृष्टार्थत्वात्संस्कार्यत्वायोगे ऽपि क्रत्वर्थानां व्रीहियववन्नियमापूर्वार्थत्वात् संस्कार्यत्वं भविष्यतीत्याशङ्क्याह कर्मेति किं च व्याकरणक्रियायाः पौरुषेयग्रन्थाधीनत्वे ऽनादिविधिविषयतैव न युज्यते प्रकरणाम्नानं दूरनिरस्तमित्याह हन्त्यादीति ननु तस्मादेषा व्याकृता वागुद्यतइत्यनारभ्याधीतः प्रत्यक्षो विधिः कथमपहूयतइत्याशङ्क्याह तेनेति नित्यानित्यसंयोगविरोधप्रसङ्गान्नास्यैतत्परतास्तीति प्रागेवोक्तमित्याशयः । व्याकरणक्रियायाविधेयत्वाभ्युपगमे ऽपि प्रकरणाभावेन क्रत्वर्थत्वाभावान्न क्रत्वर्थशब्दसंस्कारत्वं युक्तमित्याह अनारभ्येति नन्वनारभ्याधीतस्यापि खादिरादेर्दर्शपूर्णमासार्थतादृष्टेत्याशङ्क्याह ऐकान्तिकं हीति ननु यथाफलकल्पनालाघवायाश्वप्रतिग्रहेष्टौ वैदिकाश्वदानविषयत्वं तृतीये वक्ष्यते तथेहापि वैदिकशब्दविषयत्वं व्याकरणक्रियायो भविष्यतीत्याशङ्क्याह लोकेति लौकिकवैदिकशब्दानां भेदस्य निराकरिष्यमाणत्वान्न संस्कार्यासंस्कार्यव्यवस्था युक्तेत्याशयः । उपसंहरति अत इति किं च श्रोत्रोपलब्धिबुद्धिनिर्ग्राह्यः प्रयोगेणाभिलक्षितः आकाशदेशः शब्द इति वदद्भिर्वैयाकरणैः शब्दस्याकाशाश्रितत्वाभ्युपगमान्नित्याश्च शब्दा इति च नित्यत्वाभ्युपगमादमूर्त्तत्वाच्चाकाशाश्रितविभुत्वदृष्टान्तेन संस्कार्यत्वं वारणीयमित्याह आकाश इति विभुत्वस्य ज्ञानविषयत्वलक्षणप्राप्तिसम्भवे ऽपि गां दोग्धीत्यादौ स्वरूपप्राप्तेः संस्कारत्वेन प्रसिद्धायाः वारणीयत्वेनात्रेष्टत्वान्न साध्यविकलत्वम् । अइउणित्यादिचतुर्दशसूत्रात्कृताणादिसञ्ज्ञात्मकप्रत्याहारमात्रेण वर्णव्यक्तिसंस्कारसिद्धेः शेषग्रन्थानर्थक्यं स्यादित्याह वर्णेति जातिव्यक्तिसंस्कारपक्षौ दूषयित्वा समुदायसंस्कारपक्षं दूषयति समुदायस्त्विति नन्वनेकेषां गकारौकारविसर्जनीयानामे [२१९।१] कगोशब्दबुद्धिविषयत्वलक्षणः समुदायो लोकसिद्धत्वान्नापह्नवमर्हतीत्याशङ्क्याह प्रत्येकं चेति यथा नवमे हिरण्यशकलसहस्रे णाग्निं प्रोक्षतीत्यग्निबुद्धिविषयभूतानामिष्टकानां धर्म्मः प्रोक्षणादिः प्रतीष्टकमावर्त्तनीय इतिं पूर्वपक्षे वक्ष्यते तथात्रापि गकारादिवर्णसमुदायसंस्कारपक्षे प्रतिवर्णं संस्कारावृत्तिः प्रसज्येतेत्यर्थः । ननु पूर्वपक्षस्यास्थायित्वान्न दृष्टान्तता युक्तेत्याशङ्क्याह न चेति अयमाशयः इष्टकाव्यतिरिक्तावयव्यभावेनाग्निशब्दस्येष्टकासमुदायमात्रवाचित्वात्समुदायसंस्कारत्वाभ्युपगमेन पूर्वपक्षिते स्थलाख्यस्यावयविनो ऽग्निशब्दवाच्यस्येष्टकाभिरारम्भोपपादनेन संस्कार्यद्रव्यैक्यात्संस्कारानावृत्तिरिति पूर्वपक्षन्यायानुपमर्देन सिद्धान्तकरणाद् युत्कं दृष्टान्तत्वं, न चात्र गकारादिभिः एको गोशब्दा ऽवयव्यारभ्यते येनाग्निधर्म्मसिद्धान्तन्यायो न स्यात् ।
विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वगतैरपि ।
व्यतिरिक्तपदारम्भो वर्णर्नात्रोपपद्यते ॥
इति श्लोकेन स्फोटवादे निराकृतत्वादिति स्फोटगोशब्दगत्वादीनामप्यवयविवन्निराकृतत्वान्न संस्कार्यत्वं सम्भवतीत्याह स्फोटेति समुदायसंस्कारपक्षे च सर्ववर्णसमुदायो वा सस्क्रियेत कतिपयवर्णसमुदायो वा तत्राद्ये पक्षे सर्ववर्णसमुदायस्यार्थाभावादर्थप्रयु क्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिकमयुत्कं स्यादित्याह सर्वेति कतिपयवर्णसंस्कारपक्षे ऽपि केचिदेव वर्णाः । सस्क्रियन्ते नान्यइति व्यवस्थाहेत्वभावेन स्वरूपतः कतिपयत्वायोगात्कति चिदेवं संस्क्रिय।?।न्तइति सङ्ख्यात ततिपञ्च।?।त्वं वाच्यं, तत्र सङ्ख्यां विना वर्णानामसंस्कार्यत्वेनान्वयव्यतिरेकाभ्यां वर्णसङ्ख्यायाः संस्कार्यत्वात्साधुत्वं स्यात्तच्च गाव्यादिपदेषु अपि समानमित्याह अथेति गवादिपदगतैव वर्णसङ्ख्या संस्कार्या न गाव्यादिपदगतेति व्यवस्थाशङ्कानिरासार्थम् पदेपदइत्युक्तम् क्रमसंस्कारपक्षं दूषयति संस्क्रियेतेति शब्दधर्मत्वाभावेन तत्संस्कारे ऽपि शब्दस्य साधुत्वं न सिध्यतीत्यत्कं ग्रहणोच्चारणद्वारौपचारिकशब्दधर्मत्वाभ्युपगमे ऽपि गाव्यादिष्वप्यानुपूर्व्याःसम्भवात्साधुत्वं प्रसज्येतेत्यर्थः । ग्रहणोच्चारणसंस्कारपक्षौ दूषयति ग्रहणेति क्वोपरिष्टादित्यपेक्षायामाह वक्ष्यति हीति यथाभिक्रामं जुहोतीत्यभिक्रमणस्य होमसाधनत्वासम्भवो ऽभिक्रमाधिकरणपूर्वपक्षे वक्ष्यते । तथा ग्रहणमुच्चारणं वा प्रतिव्याकरणक्रियायाः साधनत्वं न भवतीत्यर्थः । ननु साक्षात्साधनत्वाभावे ऽपि यथाभिक्रमणस्य कर्तृप्रत्यासत्तिजननद्वा।?।रा होमसाधनत्वं सिद्धान्ते वक्ष्यते तथोच्चारणसाधनताल्वादिसंस्कारद्वारोच्चारणसाधनत्वं ग्रहणसाधनश्रोत्रसंस्कारद्वारा वा ग्रहणसाधनत्वं व्याक्रियाया भविष्यतीत्याशङ्क्याह ताल्वादी ति अस्तु तर्ह्युच्चारयितुः पुरुषस्य संस्कारद्वारा तन्मनः संस्कारद्वारा वोच्चारणसाधनत्वं ग्रहीतृपुरुषसंस्कारद्वारा तन्मनः संस्कारद्वारा वा ग्रहणसाधनत्वमिति स्वयमेवाशङ्क्याह मनोवेति यच्छस्त्रारम्भे भाष्यकृता ऽथ शब्दानुशासनमित्यक्त्वा अथेत्ययं शब्दो ऽधिकारार्थः प्रयुज्यते शब्दानुशासनं शास्त्रमधिकृतं वेदित व्यमिति स्वयमेव व्याख्यातं तद्व्यर्थं स्यादित्यर्थः । इतश्च शब्दानुशासनं व्यर्थमित्याह शिष्येति किं च वैयाकरणैः स्फोटात्मकः श ब्दो ऽभ्युपगतः तस्य च निरवयवत्वात्प्रकृतिप्रत्ययान्वाख्यानरूपः सं स्कारो न युक्त इत्याह स्फोटेति स्फोटपक्षे न केवलं वर्णा एवा सन्तः किं तु प्रकृतिप्रत्ययावपीत्यर्थः वाक्यस्फोटापेक्षायां च स्वरूपेणापि पदस्फोटस्यासत्त्वात्संस्कार्यत्वं न युक्तमित्याह वाक्येति [२२०।१] नन्वसतामेव नामादीनां निष्कृप्य।?।कल्पनया संस्कारो भविष्यतीत्याशङ्क्याह अपोद्धारेणेति कल्पनाप्यसतो न सम्भवतीत्याशयः । ननु निरवयवो ऽपि पदस्फोटस्तत्तत्ध्व।?।निसहकृतश्रोत्रवशात्पूर्वं गकारादिरूपेण प्रतीयते ततस्तदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौरित्येकं पदमिति स्फुटं पदतत्त्वज्ञानं जन्यते तत्नतत्त्वपरीक्षायामिवानेकमिथ्याज्ञानसहकृतेन चक्षुषा स्फुटारत्नतत्त्वप्रतीतिः एवं वाक्यस्फोटो ऽपि पूर्वं गोपदाकारेण शुक्लपदाकारेण च प्रतीयते ततः पदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौः शुक्ल इत्येकं वाक्यमिति स्वरूपेण वाक्यस्फोटः प्रतीयते । ततश्च ध्वनयो यत्स्थानकरणवशादेकस्मिन्पदस्फोटे वाक्यस्फोटे वा यद्वर्णाकारं यत्पदाकारं वा ज्ञानं जनयन्ति पदवाक्यस्फोटान्तरे ऽपि तत्स्थानकरणवशात्तद्वर्णाकारं तत्पदाकारं वा ज्ञानं जनयन्तः सादृश्यनिमित्तभ्रान्तिवशात्स एवायं वर्णस्तदेवेदं पदमिति प्रत्यभिज्ञानं जनयन्तीत्यन्योन्यविलक्षणेषु गौः शुक्लो गौः कृष्ण इत्यादिषु सादृश्याध्यवसितैकत्वानां नामादीनामपोद्धारो भविष्यतीत्याशङ्क्याह अन्येति अन्यस्य वाक्यस्फोटस्यावयवानामन्यस्य वाक्यस्फोटस्यावयवैः सारूष्यादित्यर्थः । सादृश्यमप्यसतो न सम्भवतीत्याशयः । ननु ।
गवये नरसिंहे वाप्येकज्ञानादृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥
इत्यादिस्फोटवादिभिरसतामप्यवयवानां सादृश्यसम्भवे निदर्शनमुक्तं तक्तथमसत्त्वे सादृश्यानुपपत्तिरित्याशङ्क्याह गवयादिष्विति लेख्यादिकृतेषु गवयादिषु ये ऽवयवास्तेषां मुख्यगवयादिगतैः कर्णखुरादिभिरवयवैः सारूप्यं यन्निदर्शितं तत्तेषां सत्यत्वात्स्वावयवसामान्ययोगाच्चोपपन्नं तथा इहापि वाक्यस्फोटे तथात्वे ऽवयवानां सत्यत्वे स्वावयवसामान्ययोगे च सति सारूप्यं स्यात् ततश्च निरवयवस्फोटसिद्धान्तहानिरित्याशयः । विस्तारेण चैतत्पूर्वं निरस्तमित्याह वाक्येति उपसंहरति तेनेति नामादीनामपोद्धारेण प्रकृतिप्रत्ययान्वाख्यानरूपस्य संस्कारस्य कल्पनेत्यर्थः । अप्रामाण्यापत्तेश्चासतामपोद्धारो न युक्त इत्याह अन्वाचक्षीतेति यच्च शब्दानुशासकत्वेन शास्त्रत्वं व्याकरणस्योत्कं तत्पदविषयं वा स्याद्वाक्यविषयं वा तत्रासत्यत्वेन पदानामनुशास्यत्वाद्वाक्यानुशासनस्य च व्याकरणेनाकृतत्वान्नोभयथापि युक्तमित्याह अशिष्यत्वादिति यत्कं तु वाक्यस्यैवानुशासनं लोकतो ऽर्थप्रसुक्ते शब्दप्रयोगे शास्त्रेण धर्म्मनियम इति वार्त्तिककृतार्थप्रयुक्तानां शब्दानामनुशास्यत्वाभिधानाद्वाक्यस्यैव चार्थप्रयुक्तत्वेनेष्टत्वादित्याह अर्थेनेति ननु सूत्रकारादिभिः पदपदार्थानामनिराकरणात्कथमुच्यते वाक्यमेवंविधं चेष्टमित्याशङ्क्य टीकाकृतैवमुक्तमिति दर्शयितुमाह ब्राह्मणार्थ इति यथा ब्राह्मणशब्दे ब्रह्मशब्दार्थो नञर्थश्च णकारार्थ एव वा ज्ञानाख्यो ऽनिरुपाख्यश्च नास्ति कम्बलज्ञब्दे च कंशब्दार्थो बलशब्दार्थो वा नास्ति तथा देवदत्तादयः शब्दा वाच्ये ऽनर्थकाः स्युरिति टीकाकारश्लोकार्थः । एवमादिना ग्रन्थेन बहुप्रपञ्चमुक्त्वा पदानामर्थव्यभिचाराभिधानादव्यभिचारिणामपि केवलाप्रयोगित्वेनार्थपरत्वनिराकरणाद्वाक्यान्वाख्यानार्थत्वेन व्याकरणव्याचिख्यासा टीकाकाराणामवसीयते पश्चात्तु तदनाश्रयणात्पूर्वापरविरुद्धार्थाभिधानेनाप्रामाण्यं व्याकरणस्य सूचितं भवतीत्यर्थः । सूत्रकृतो जनिकर्त्तुरित्यादिनिषिद्धमासकरणात्पूर्वापरविरुद्धाभिधानं दृष्टान्तितं सन्ति यदृच्छाशब्दा न सन्तीत्यादिवार्त्तिककृतः । आकृतिर्नित्या द्रव्यमनित्यं द्रव्यं नित्यमाकृतिरनित्येत्यादिभाष्यकृतः । सूत्रकारादिवदेव वाक्यान्वाख्यानानाश्रयणादिति वा योज्यम् । पूर्वपक्षमुपसंहरति अत इति आचार्याणां परस्परं विप्रतिपत्तोर्विगानभूयिष्ठत्वं स्वयमेव पूर्वापरविरुद्धाभिधानात् विरुद्धत्वम् । एकानेकमूलश्रुतिकल्पनायोगान्निर्मूलत्वम् । मुख्यामुख्यप्रयोजनासम्भवान्निष्फलत्वं सर्वैर्भाशितव्यमिति भाष्यात्कर्मस्वाध्यायकालवैदिकशब्दप्रयोगेप्यव्यवस्थाशङ्का कस्य चित्स्यात्तन्निवृत्त्यर्थ [२२१।२] माह ततश्चेति यस्तूपपादितमर्थं तार्किकत्वाभिमानी साधनप्रयोगमन्तरेण न बुध्यते ते।?। प्रति साधनप्रयोगा वक्ष्यन्तइत्याह अत्रेति सर्वेषामर्थप्रत्यायनशक्तत्वलक्षणे वाचकत्वे तावत्प्रयोगमाह गावीति गौणलाक्षणिकानामादिशब्दोपादानाशङ्कानिवृत्त्यर्थं प्रकृतग्राहीसर्वशब्दः गोणीशब्दस्यावपनवाचित्वात्सिद्धसाध्यतामाशङ्क्य गोत्वस्येत्युक्तम् उस्रादिशब्दैरनैकान्तिकत्वं तत्र शब्देन निरस्तं गाव्यादिशब्दैर्वृद्धशब्देन अर्थप्रत्यायनाङ्गत्वलक्षणे साधुत्वे प्रयोगमाह एवमित अत्रापि गोणीशब्दे सिद्धसाध्यतापरिहारार्थं गोत्वे साधुत्वमिति विशेषणीयं साधनशब्दोक्तस्य प्रत्यायकत्वस्य गाव्यदिशब्दैरनैकान्तिकत्वमाशङ्क्यार्थस्यैव साधनादिति मध्यमपदलोपिसमासाभ्युपगमेन मूलशब्दोपस्थापननिरपेक्षार्थप्रत्यायकत्वरूपहेतुसूचनार्थो ऽर्थशब्दः । अपभ्रंशरूपापशब्दत्वायोगाच्छब्दत्वाभावरूपमपशब्दत्वं गाव्यादीनां वाच्यमित्यापाद्य तन्निराकरणे प्रयोगमाह श्रौत्रत्वादिति अत्रापि प्रयोगद्वये दृष्टान्तः स एवेत्याह पूर्वेति अनादित्वे प्रयोगमाह अनादित्वं चेति अवध्यनवधारणस्य चिरन्तनकूपादिभिरनैकान्तिकत्वादवध्यभावावधारणादीति हेत्वर्थः । तत्सिद्ध्यर्थम् वक्तुरित्युक्तम् गवादिशब्दसम्बन्धे सर्वो ऽन्यस्मात्प्रपद्यते । महत्तद्व्यवहारित्वादिति सम्बन्धानादित्वन्यायेन सर्वेभ्यो वक्तृभ्यः पूर्वं विद्यमानत्वादित्यर्थः । साधुभाषणस्यादृष्टार्थत्वात्प्रयोगमाह साधुभिरिति अत्रैव साध्ये हेतुदृष्टान्तान्तरमाह अशास्त्रेति बुद्धोक्तैश्च शब्दैरर्थाभिधानवदित्यर्थः । हेतुसिद्ध्यर्थं संस्कृतव्याकरणस्याशास्त्रत्वे प्रयोगमाह शास्त्रं नेति संस्कृतव्याकरणत्वमित्यध्याहारः । साक्षाच्छास्त्रत्वाभावे ऽपि वेदमूलतया प्रामाण्यात्तद्विहितस्य साधुभाषणस्याष्टकादिवददृष्टार्थत्वं भविष्यतीत्याशङ्क्य तदभावे प्रयोगमाह वेदेति वेदाङ्गत्वाभावे प्रयोगमाह शास्त्राङ्गमपीति हेतुसिद्ध्यर्थमतादर्थ्ये प्रयोगमाह अतादर्थ्यमिति कथादिरेव दृष्टान्तः वेदानङ्गत्वे ऽपि शब्दप्रयोगाङ्गत्वात्प्रयोगोत्पत्तिशास्त्रत्वं भविष्यतीत्याशङ्क्य तदभावे प्रयोगमाह न चेति एतदेव व्याचष्टे यथा हीति अशास्त्रत्वादिसाधनस्य पूर्वपक्षोपयोगमाह तस्मादिति यदाचारेणैषां प्र [२२२।२] योज्यत्वमवगतं न तच्छास्त्रस्थैर्वारितमित्यर्थः । शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ २२ ॥ अत्र भाष्यं कृता महता प्रयत्नेनेत्यादिना सूत्रं व्याख्यायते अपराधादित्यादिना गाव्यादिशब्देष्वपराधम्भावनामात्रे सूत्रस्य तात्पर्यमुत्कं तत्सम्भावनामात्रेण सिद्धान्तासिद्धेरयुक्तमाशङ्क्य नेदं सिद्धान्तसूत्रं किं तु पूर्वपक्षदूषणार्थमित्याह अनैकान्तिकता तावदिति निर्णयवचनादेकान्तशब्दात्तस्मै प्रभवति सन्तापादिभ्य इति ठक्प्र।?।त्यये कृते ऽनैकान्तिकशब्दव्युत्पत्तेरनिर्णायकत्वमनैकान्तिकता एवं न कस्य चिच्छब्दस्य वाचकत्वं स्यादित्याशङ्क्याह वाचकत्वादिति परपक्षसन्देहापादनस्य स्वपक्षनिर्णयानुपयोगित्वादानर्थक्यमाशङ्क्याह संशयेति एतदेव व्याचष्टे दृढेति पूर्ववाचकत्वानिश्चयार्थत्वेनैतत्सूत्रं व्याख्यातमिदानीमनादित्वानिश्चयार्थत्वेन व्याचष्टे अथ वेति श्लोकं व्याचष्टे यदि हीति ननु विविधॅाश्छब्दानभिव्यनक्तीति भाष्येण कस्मै न सौत्रो निष्पत्तिशब्दो ऽभिव्यक्त्यर्थत्वेन व्याख्यात इत्याशङ्क्य शब्दाधिकरणे शब्दोत्पत्तेर्निषिद्धत्वादित्याह प्रयत्नेति यथाभाष्यं द्वेधा सूत्रं व्याख्याय स्वयमकारप्रश्लेषेणाप्रयत्नेनापि निष्पत्तेरिति मध्यमपदलोपिसमासाङ्गीकरणेन तावदन्यथा व्याचष्टे अपर [२२३।१] इति विधानशब्दः प्रकारवचनः निष्पत्तिशब्दस्य चोत्पत्त्यर्थत्वेन षष्ठ्यन्तत्वेन च प्रयत्नस्य निष्पत्तेरिति च षष्ठीसमासाश्रयणेनैतत्सूत्रं व्याख्येयमित्याह अथ वेति अपराधव्यतिर्कजनितेयं षष्ठीति प्रकटयितुं तस्यामिति सप्तमी । ननु प्रयत्ननिष्पत्तेरपराधभागित्वे शब्दस्य किमायातमित्याशङ्क्य तद्गतस्यापराधस्य शब्दे सञ्चारप्रतिपादनार्थत्वेन शब्द इति सूत्रावयवं व्याचष्टे यश्चेति यद्वैकोपलक्षणाभावात्साध्वसाधूनां विधिनिषेधविषयत्वासम्भवाभिप्रायेण साधुभिर्भाषेतासाधुभिर्नेति प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीयत्वादिति यो हेतुरुत्कः तस्यासिद्धत्वप्रतिपादनार्थमेतत्सूत्रमित्यन्यथा व्याख्यातं साध्वसाधुत्वव्यवस्थां तावदाह अतश्चेति
ग्रस्तं निरस्तं निहतावलम्बिते अम्बूकृतं ध्मातमथोविकम्पितम् ।
सन्दृष्टमेणीकृतमर्द्धतं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥
इत्यादिस्मृत्यवगतग्रस्तत्वादिदोषवर्जितनियतह्र।?।स्वादिकालाभिव्यङ्ग्ययथालक्षितक्रमग्राह्येषु वर्णेष्वभियुक्तो साधुशब्दप्रयोगात्तद्विपरीतेषु चासाधुशब्दप्रयोगादवश्यं तदालम्बनं कि चित् व्यवस्थितं वक्तव्यं तत्र चानित्यस्तु स्याद्दर्शनस्य परार्थत्वादिति सूत्रे साधुत्वेनाभिमतानां नित्यानां शब्दानामर्थप्रत्यायनाङ्गत्वस्योक्तत्वात्तस्य च फलवद्वयवहाराङ्गभूतार्थप्रत्ययाङ्गता निष्फलत्वेन शब्दस्य योग्यत्वादवसीयतइति वार्त्तिकेनोपपादितत्वादर्थप्रत्यायनाङ्गत्वं साधुत्वमवगम्यते । तच्च वाचकवृत्त्या लक्षणावृत्त्या गौणीवृत्त्या वेति त्रिविधम्।गाव्यादिशब्दानां मुख्यार्थान्तराभावाद्गौणलाक्षणिकत्वे तावदनाशङ्क।?।नीये । वाचकशक्तिकल्पनं त्वन्यथाप्युपपत्तेर्निषिद्धं न च प्रार।?। न्तरेण शब्दस्यार्थप्रत्ययाङ्गत्वं सम्भवतीत्यव्याप्त्यतिव्याप्त्यभावादेतदेव साधुत्वलक्षणं युत्कं तच्चानपभ्रष्टेष्वेव शब्देषु नापभ्रष्टेष्वित्यनपभ्रंशापभ्रंशकृता साध्वसाधुव्यवस्था सेत्स्यतीत्यर्थः । दृष्टं चानपभ्रष्टेष्वेव सुवर्णादिषु व्यवहाराङ्गत्वलक्षणं साधुत्वं नापभ्रष्टेषु कूटेष्वित्याह लोके ऽपि चेति इदमेव वानपम्रष्टत्वं साधुत्वमपभ्रष्टत्वं चासाधुत्वं तयोश्च सम्यत्क्वासम्यत्क्ववाचिभ्यां सत्यासत्यशब्दाभ्यां वक्तुं शक्यत्वात्सत्यं वदेदनृतं न वदेदिति विधिनिषेधविषयत्वोपपत्तेधर्माधर्मोपयोगो ऽस्तीत्यन्यथा साध्वसाधुव्यवस्थामाह यद्वेति एतदेव विवृणोति धर्मेति नन्वर्थतथात्वातथात्वविषयत्वादनयोर्विधिनिषेधयोर्न शब्दतथात्वातथात्वविषयता युक्तेत्याशङ्क्याह अर्थसत्यमिति एतच्चार्थे सत्यासत्यत्वयोः सत्त्वासत्त्वरूपत्वाच्छब्दे चानपभ्रष्टापभष्टरूपत्वात्सकृच्छ्।?।रुतयोश्च सत्यानृतशब्दयोरुभयपरत्वायोगादेष हवै सत्यं वदन् सत्ये जुहोति यो ऽस्तमिते सायं जुहोत्युदिते प्रातः प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति ये ऽग्नहोत्रमित्यादिश्रुतिपर्यालोचनया वा।?।र्थपरत्वावसायाच्छब्दपरत्वानुपपत्तेर्गाव्यादिशब्दस्य च शष्टैरगर्हितत्वात्प्रौढिमात्रेणोक्तम् । उक्तेन च प्रकारेण साध्वसाधुत्वयोर्व्यवस्थाया सत्यां विधिनिषेधविषयत्वोपपत्तेः प्रयोगोत्पत्त्यशास्त्रत्वादित्यसिद्धो हेतुरित्याह एवमिति अपराधभागित्वेन चासाधुत्वेनानियमेनाप्राप्तेरसाधूनां च प्रसक्तेर्नियमनिषेधविषयत्वसम्भवात् प्रयोगोत्पत्त्यशास्त्रत्वादित्यस्य हेतोरसिद्धत्वमनेन सूत्रेणोच्यतइत्यन्यथा व्याचष्टे अथ वेति धर्माय।?। नियमो धर्माप्रसक्तये वा नियमो [२२४।१] नास्तीत्यर्थः । एतदेव विवृणोति यदि हीति नियमशास्त्रशब्देन निषेधशास्त्रमप्युपलक्षितं साधुनियमकारिशब्देनासाधुनिषेधकारिणो ऽप्युपलक्षणम् । ननु गाव्यादिशब्दस्य सास्नादिमदर्थाप्रतिपादकत्वे प्रसक्त्ययोगात्प्रसक्तिसिद्ध्यर्थमवश्यं सास्नादिपर्यायतुल्यं वाचकशब्दान्तरत्वमेष्टव्यमित्याशङ्क्याह एक एवेति पूर्व प्रत्ययादिति पूर्वपक्षभाष्येणार्थापत्तिः सर्वेषां वाचकत्वे प्रमाणमुक्तेत्यभिप्रेत्यान्यथाप्युपपत्तिलक्षणदूषणाभिधानार्थत्वेनैतत्सूत्रं याख्यातम् । इदानीमनुमानोपन्यासार्थं तद्भाष्यमित्यभिप्रेत्यानैकान्तिकत्वलक्षणहेतुदूषणप्रतिपादनार्थत्वेनैतत्सूत्रं व्याचष्टे किं चेति अनेन च देवदत्तादिशब्दे बालै; प्रयुक्ते ऽप्यपटुकारणत्वेनाप्रयत्ननिष्पत्तेसत्तादिरूपेण नाशात् कठोरबुद्धिभिरपि बालप्रयुक्तशब्दानुकरणप्रयत्ननिष्प।?।त्तेस्तत्तादिरूपेण नाशादपराधभागित्वं दृष्टं ततश्च प्रत्ययादितिभाष्योक्तस्य शब्दश्रवणानन्तरभाष्यार्थप्रत्ययलक्षणस्य वाचकत्वहेतोस्तदुपलक्षितस्य चार्थविषयशब्दप्रयोगलक्षणस्यानैकान्तिकतेति सूत्रं योजितम् । श्लोकं व्याचष्टे तत्तेति गाव्यादिशब्दैरप्यनैकान्तिकाविमौ हेतू इत्याह अपभ्रंशाश्चेति ननु तेषामपि पक्षत्वान्न विपक्षतेत्याशङ्क्याह कतिषु चिदेवेति एवमपराधभागिन्यवाचके ऽपि शब्दे हेतोर्दर्शनादनैकान्तिकत्वभूतमपशब्दापराधप्रतिपादनार्थमेव तत् सूत्रमित्युक्तम् हेतोरेव चानेकान्तिकत्वलक्षणाप [२२५।२] राधभागित्वम् अनेन सूत्रेणोच्यतइत्याह ततश्चेति एवमपि सूत्रयोजना सम्भवतीत्यपिशब्दार्थः । यद्वा यथा शब्दे अन्यथोच्चारणादपभ्रंशलक्षणापराधभागित्वं तथा हेतोरनैकान्तिकत्वाद्धेत्वाभासत्वलक्षणापराधभागित्वमित्येवमनैकान्तिकत्वप्रतिपादनार्थतयैतत्सूत्रं योज्यमित्याह अन्यथेति एवमपि सूत्रयोजना सम्भवतीति चशब्दार्थः सन्देहापादनार्थत्वं सूत्रस्योक्तमुपसंहरति त स्मादिति नन्वत्र सर्वेषां वा शब्दानां वाचकत्वमेकस्यैव चेति एवं द्वावेव पक्षौ तत्र सर्ववाचकत्वपक्षे सन्देहापादनेन निरस्ते पारिशेष्यादेकस्यैव वाचकतेति निर्णयसिद्धेरन्येन निर्णयाभिधानमयुक्तमित्याशङ्क्याह संशयेति किन्तुदुत्तरसूत्रमित्यपेक्षायाम् । अन्यायश्चानेकशब्दत्वमिति ॥ २३ ॥ अत्र भाष्यकृता न चैष इत्यादिनैकस्यार्थस्यानेकशब्दत्वमयुक्तमित्येवं सूत्रं व्याख्याय हेत्वपेक्षायां प्रत्ययमात्रेत्याद्युत्कं तदन्यथाप्युपपत्तिमात्रप्रतिपादकत्वेन पूर्ववत्सन्देहमात्रापादनादनिर्णायकं तत्प्रकारनिरूपणं च तदशक्तिश्चेत्यत्र वक्ष्यमाणत्वापुनरुक्तमित्युपेक्ष्य स्वयं प्रश्नपूर्वं पञ्चहेतूनाह कथं पुनरिति कारकयोः साक्षादसम्बन्धात् क्रियासम्बन्धे सत्येकक्रियावशीकारात्परस्परनियमसम्बन्धो ऽभिधीयते । यथोक्तम् ।
प्रतिपत्तावुपादानात्साहित्ये च विवक्षिते ।
नियम्येत यदेकस्यां सम्बन्धः सो ऽर्थशब्दयोः ॥
इति स च वाच्यवाचकानेकत्वे स्वरूपान्नियमलक्षणाद्धीयतइत्यर्थः । वाच्यवाचकत्वयोः कर्मकरणरूपकात्मकत्वाच्छक्तेरेव कारकत्वमभिप्रेत्य सामर्थ्यशब्दः । क्रियाव्यापृतत्वरूपस्य तु कारकत्वमभिप्रेत्य तद्व्यवस्थासिद्ध्यार्थादृष्टातिशयरूपशक्त्यभ्युपगमे वा वाच्यावच्छिन्नवाचकाश्रितैकशक्तिमात्रेणोभयव्यवस्थोपपत्तेरनवच्छिन्नत्वे वा शक्तिद्वयकल्पने ऽपि व्यवस्थानुपपत्तेर्वाच्यावच्छिन्नस्य वाचकाश्रितस्य सामर्थ्यस्याभिधायां नियमो यः सम्बन्धशब्दाभिधेय इति योज्यम् । श्लोकं व्याचष्टे एकेति योग्यार्थापत्त्यनुदयादप्यनेकवाचकशक्तिकल्पनमन्याय्यमित्याह किं चेति श्लोकं व्याचष्टे अत्यन्तेति आनर्थक्यादप्यनेकशब्दत्वमन्याय्यमित्याह नाम चेति विकल्पापत्तेरप्यन्याय्यमित्याह किं चेति अर्थ [२२६।२] भेदापत्तेरप्यन्याय्यमित्याह नामन्तरइति ननु हस्तकरादिष्वनेकशब्दत्वदर्शनात्कथमन्यायतेत्याशङ्क्य हस्त इत्यादिभाष्येणाभियुक्तोपदेशाभावे सत्यन्याय्यतेति परिहृतं तद् गाव्यादिष्वपशब्देष्वप्यभियुक्तोपदेशस्य पूर्वपक्षिणेष्टत्वादयुक्तमासङ्क्य गत्यन्तराभावसूचनार्थत्वेन व्याचष्टे यत्त्विति दृढस्मरणेनेत्यभियुक्तोपदेशो ऽनन्यागतिकत्वोपपादनार्थत्वेन व्याख्यातः । तदुपलक्षितमसादृश्यं चकारेण सूचितं सम्प्रत्युपेक्षितं भाष्यं गाव्यादिशब्देषु गत्यन्तरसम्भवसूचनार्थत्वेन व्याचष्टे एकेति गोशब्दोच्चिचारयिषायामशक्त्या केन चिद्गावीत्युच्चारिते श्रुतगावीशब्दसादृश्यं गोशब्दस्योपमानेनावगम्य गावीशब्दोच्चारणस्य गोशब्दोच्चिचारयिषामूलत्वानुमानाद् गोशब्दक्त्यनुसारेण गावीशब्दादप्यर्थप्रत्ययोपपत्तेर्न गावीशब्दस्य शक्त्यन्तरकल्पनमित्यर्थः । अनेकशब्दत्वस्यान्याय्यत्वं पञ्चधोपपादितमुपसंहरति तस्मादिति स्वरूपं नियमरूपतासम्बन्धः सामर्थ्यलक्षणः शब्दो नामार्थो नामान्तरे ऽप्यभिन्न इत्येषां चतुष्टयोपसंहारः । निरूपणशब्दव्यवस्थार्थत्वेनावर्त्त्य विकल्पप्रसङ्गलक्षणोपपत्त्युपसंहारः । सर्वशब्दमध्ये एकैकस्यैव गवाश्वादिशब्दस्य वाचकत्वनियमादितिं वीप्सार्थः । यद्वैकस्यैव शब्दस्य वाचकत्वनियमादेकस्यैव चार्थस्य वाच्यत्वनियमादिति यववराहाधिकरणोक्तो वाच्यैकत्वनियमो दृष्टान्तत्वेन वीप्सयोत्कः कथं पुनरुपमानानुमानाभ्यामेकशक्त्यनुसारेण गतिसम्भव इत्याशङ्क्याह यथा चेति सिद्धान्तमुपसंहरति तेनेति तत्र तत्त्वमभियोगविशेषात्स्यादिति ॥ २४ ॥ भाष्यकृता पदोत्तरत्वेन सूत्रं व्याख्यातुं कथं पुनरित्याशङ्कितं तद्व्याचष्टे तुल्येति ततश्च पुनरपि अगृह्यमाणविशेषत्वात् सर्वेषां वाचकत्वमापद्येतेत्याशयः । शक्यमित्याहेति भाष्येणैतदाशङ्कानिरासार्थत्वेनैतत्सूत्रमवतारितं तद्व्याचष्टे अत आहेति अत्रार्थिनो ऽभियुक्ता भवन्तीत्यादिभाष्याददृष्टार्थिनामार्याणां शब्दार्थविषयादरविशेषात्तदुपदेशे वाचकत्तत्वावधारणकारणमित्याभाति तच्च गाव्यादिशब्देष्वप्यार्योपदेशतुल्यत्वादयुक्तमितिमत्वार्थविशेषप्रतिपिपादयिषया पृच्छति कःपुनरिति अभियोगतद्विशेषशब्दयोः प्रकृतोपयोगिनमर्थमाह तदुच्यतइति शब्दपरो ऽभियोग इति निर्देशः लक्षणस्य व्याकरणस्य यच्छ्रवणं तदभ्यासनिमित्तस्तं वा विषयीकृत्याभियोगशब्दः प्रवर्त्तते लक्षणश्रवणाभ्यासो ऽत्राभियोगशब्देनोक्त इत्यर्थः । यल्लक्ष्यमुदाहरणीकृत्य लक्षणश्रवणमभ्यस्तं तद्व्यतिरिक्तानान्तुल्यन्यायानां लक्ष्याणां तेन लक्षणश्रवणाभ्यासेन ज्ञानमभियोगविशेषः फलेन तद्धेतोरभ्यासतिशयस्य लक्षणाल्लक्षणश्रवणाभ्यासातिशयो ऽभियोगविशेष इत्युत्कं भवति । ननु प्रतिपदपाठेनैव वाचकत्वनिरूपणसिद्धेर्न लक्षणश्रवणाभ्यासातिशयापेक्षेत्या [२२७।३] शङ्कां निरस्यंस्तृतीयस्य प्रश्नस्योत्तरमाह प्रतिपदेति ननु प्रतिपदपाठस्याशक्यत्वे ऽपि वेदान्नो वैदिकाः सिद्धाः लोकाच्चैव हि लौकिकाः । अनर्थकं व्याकरणमिति न्यायेन लौकिकवैदिकप्रयोगसिद्धत्वाद्वाचकतत्त्वनिरूपणस्य न व्याकरणापेक्षेत्याशङ्क्याह तस्मादित वाचकसामस्त्याज्ञानत्वावाचकत्वनिश्चयो ऽपिन सम्भवतीत्याह तत्सामस्त्येति ननु वाचकसामस्त्यज्ञाने ऽपि कथमवाचकनिश्चयः स्यादित्याशङ्क्याह लक्षणेति सूत्रार्थमुपसंहरति तेनेति सूत्रं व्याख्याय पूर्वपक्षोक्तानि दूषणानि परिहरिष्यन्पदपूर्वकत्वाच्च वाक्यात्मकशास्त्रव्यापारसिद्धेरित्यादिनोक्तमितरेतराश्रयमनुभाषणपूर्वकं परिहरति यत्त्विति प्रयोगोत्पत्त्यशास्त्रत्वादित्यनेन लक्षणशास्त्रस्य तन्मूलशास्त्रस्य वा लोकप्रसिद्धपदप्रयोगादुत्पत्तेः प्रयोगनियामकत्वासम्भवादितरेतराश्रयत्वं।?। यदुत्कं तद्यदि तावन्निर्णीतवाचकत्वैः पदैरन्वाख्यानम् अन्वाख्यानाच्चः वाचकत्वनिर्णय इत्येवं रूपमभिप्रेतं ततो वाचकत्वानिर्णये ऽपि प्रतिपादकत्वमात्रेणान्वाख्यायकत्वोपपत्तेः सुपरिहरमित्यर्थः । ननु च कुत्वं कस्मान्न भवतीत्यादिलक्षणानुगमदर्शनाद्व्याकरणावयवभूतेष्वपि पदेषु साधुत्वनिर्णयेन भाव्यमित्याशङ्क्य पुनस्तैरपीत्युक्तम् अथ लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेतीतरेतराश्रयमभिप्रेतं तत्राह यदीति न त्वेतदस्तीति शेषः । ननु व्याकरणात्प्रागेव साधुत्वज्ञाने व्याकरणानर्थक्यं स्यादित्याशङ्क्याह निर्ज्ञानेति श्लोकं व्याचष्टे तेनेति ननु लौकिकशब्दानां सङ्कीर्णत्वाद्भवत्वन्वाख्यानमर्थवद्वैदिकानां त्वसङ्कीर्णत्वादनर्थकमित्याशङ्कते वेद इति अनेन च नवश्रितप्रतिपदपाठानां लक्षणं कार्यमित्यादिनोक्तमानर्थक्यं प्रसङ्गात्परिहारायानुभाषितं सर्वसाधुशब्दानां वेदे प्रयोगे सति व्याकरणानर्थक्यं स्यात्कृस्नसाधुशब्दविषयत्वाभावात्तु वेदस्य तदनुगतशब्दान्वाख्यानार्थं व्याकरणं भविष्यतीति परिहरति । नाकृत्स्नविषयत्वात् ॥ २५ ॥ भाषायामित्यधिकृत्यानुगतातां लोकविषयत्वाच्छन्दसीत्यधिकृत्यानुगतानां च वेदविषयत्वान्न वेदस्य कृत्स्नविषयतेत्युपपादयति केचिदिति तेन लोकव्यवस्थितानां तावल्लक्षणमर्थवदित्या [२२८।१] शयः । कृत्स्नसाधारणसाधुशब्दविषयत्वस्याप्येकस्यां शाखायामभावात्सर्वशाखागतानां चाध्ययनाशत्केः शाखान्तरगतसाधारणशब्दानामप्यपभ्रंशेभ्यो विवेकाय लक्षणमर्थवदित्याह सर्वेति एतदेव विवृणोति यथैवेति अशक्तावानन्त्यं कारणमाह प्रकृतीति इत्थं निर्णीतवाञ्चकत्वैः पदैरन्वाख्यानमन्वाख्यानाच्च वाचकत्वनिर्णय इत्येवं रूपे लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेत्येवं रूपं वा लक्षणगते ऽन्योन्याश्रये परिहृते यदि कश्चिद्व्याकरणमूलभूतो वैदिको विधिर्व्याकरणाश्रयो वेदविद्ध्याश्रयं च व्याकरणमित्येवं रूपं तस्मान्न ब्राह्मणेन म्लेच्छितवाइत्यादिलक्षणमूलगतमितरेतराश्रयं ब्रूयात्तत्राह एतेनेति पुरुषार्थं यत्स्वर्गे लोके कामधुग्भवतीति प्रतिपादितमदृष्टं साध्यं क्रत्वर्थं च ब्राह्मणेन न म्लेच्छितवाइतिज्योतिष्टोमप्रकरणाधीतवाक्यकल्पव्याकृता वागुद्यतइत्यनारभ्याधीतवाक्यकल्पं वा यत्साध्यं यच्च साधुशब्दप्रयोगाख्यं साधुशब्दज्ञानाख्यं वा साधनं तयोर्यत्साध्यसाधनभावविधायकं वाक्यं तद्गतानां शास्त्रान्वितादिपदानां वा या व्याक्रिया तस्याश्च या पूर्वप्रसिद्धविधिवाक्यमूलत्वकल्पना त्वयेष्टा तस्याश्च तद्वाक्यमूलत्वे वेदविधितः प्राक्सिद्धत्वकल्पनापत्तेस्तदाश्रयो वेदविधिः तस्याश्च तन्मूलत्वकल्पनातदाश्रया सेतीतरेतराश्रयत्वस्य यः प्रसङ्गः शक्यते एतेन प्रासङ्गिकानर्थक्यपरिहारसमाधानस्याबुद्धिस्थेन लक्षणगतेनेतरेतराश्रयत्वपरिहारन्यायेन प्रत्युक्त इत्यर्थः । एतदेव व्यतिरेकदर्शनपूर्वकं विवृणोति यदिहीति अन्वाख्यानं प्रकृत्यादिविभागेनाख्यानम् अन्वाख्येयाः साधुशब्दाः अन्वाख्यानं नां ऽविधिर्व्याकृता वागुद्यतइत्यादिप्रयोगो व्यवहारकालइति चतु ष्टयं साधुशब्दविषयं ब्राह्मणेन न म्लेच्छितवाइत्यनन्वाख्यातानां प्रतिषेधः व्यवहारकाले वर्जनं चेत्यसाधुविषयं द्वयमिति षट्कस्याप्यनादित्वे सति सर्वेषामन्वाख्यादीनां सर्वदानवगतपूर्वापरविभागसम्बन्धे सति यदात्यन्तादृष्टार्थत्वमात्रमेषां शास्त्रीयप्रत्ययाधीनं न स्वरूपं तदा सर्वकालव्याक्रियमाणत्वेन विद्यमानस्य शब्दस्य यो नियमविधिस्तस्येत्यर्थः । निषेधो ऽपि विधिशब्देनोपलक्षितः तयोरनादित्वे ऽवगम्यमानश्चासौ वेदविधिश्चेति वेदविधित्वेनावगम्यमानत्वं हेतुः । इतरेषामवगम्यमानो वैदिको विधिर्मूलं येषामित्यवगम्यमानवेदविधिमूलत्वं वैदिकस्य विधेरनादित्वाक्षेपकत्वे वेदादीनां स्वरूपविधयः कार्यविधयः साधनविधयश्च दृष्टान्तिताः । ध्वनिमात्राण्यसाधूनीत्यादिना गाव्यादीनामवाचकत्वस्य लोकविरुद्धत्वं यदुक्तं तत्परिहारायानुभाषते यत्त्विति भेर्यादिशब्दश्च मातृकाक्षपाठश्च प्रसिद्धानि च न्यूनवर्णन्यतिरिक्तवर्णानि विपर्यस्तवर्णानि च यानि पदानि तद्व्यतिरिक्ता ये प्रसिद्धा गाव्यादयः शब्दा [२२९।४] स्तेषां मध्यइत्यर्थः परिहरति तत्रेति एकार्थविषयेषु सदृशशब्देष्वेकस्य शक्तौ क्लृप्तायामितरेभ्यस्तदशक्तिजत्वेनापि प्रतीत्युपपत्तेरेकस्यैव शक्तिरिति निर्णीते ऽपि कस्यैकस्येत्यनिर्णयात्सम्मुग्धवाचके लोके सत्यविरुद्धो लक्षणाद्वाचकनिर्णयः । यदि तु लक्षणमनादृत्यागृह्यमाणविशेषत्वात्सर्वेषां वाचकत्वं कश्चिद्वदेत्तं प्रति स्मृत्याचारबाधो वाच्य इत्यर्थः । श्लोकं व्याचष्टे लोकेति नन्वेवं सत्यवाचकत्वप्रतिज्ञाया लोकविरोधः प्रथमपादे कथमुक्त इत्याशङ्क्याह तर्केणेति सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतः गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथेत्यनुमानस्य लोके ऽपेक्षितवाचकावाचकविवेकहेतुत्वाभावाल्लोकविरोधः । स्मृतेस्तु तदपेक्षितविवेकहेतुत्वादविरोध इत्याशयः । दृष्टान्तं विवृणोति यथैवेति वर्णविवेकावधारणस्य प्रत्यक्षत्वेनोक्तत्वात्स्मरणादेवेत्यवधारणं सहकार्यान्तरमात्रनिवृत्त्यर्थं लोकविरोधाभाव इत्यनेन स्मर्यमाणस्य तु वाचकावाचकविवेकस्य ब्राह्मणादिविवेकस्येव न लोकविरोध इति नञध्याहारेणोत्तरार्द्धं योजितं, विपरीतबाधप्रतिपादकत्वं नाध्याहारं विना स्मर्यमाणेन विरोधो बाध इत्येवमन्यथा व्याचष्टे यथा चेति स्मृत्या बाध इति विग्रहः । ननु निर्मूलत्वात् स्मृतेर्न बाधकत्वं युक्तमित्याशङ्क्याह आदितश्चेति प्रमाणमूलत्वेन स्मृतेर्बाधकत्वोपपादनायादितः स्मृतेरित्युक्तम् कुतः सिद्ध इत्यपेक्षिते प्रत्यक्षेणेत्युक्तम् नन्ववैयाकरणैरनवगमान्नास्य प्रत्यक्षता यक्तेत्याशङ्क्य कुशलैरित्युक्तम् यथा मातापितृसम्बन्धस्मृतिकुशलैर्ब्राह्मणादिभिर्ब्रह्मभेदो ऽवगम्यते तथा प्रकृतिप्रत्ययाख्यानकुशलैः साध्वसाधुविभाग इत्यर्थः । यद्यप्यर्थप्रत्यायनाङ्गत्वलक्षणं साधुत्वं लिङ्गावगम्यं तथापि तदाश्रयस्यानपभ्रष्टशब्दरूपस्य प्रत्यक्षताभिप्रेता एवमसाधुत्वमुपन्यस्यापभ्रष्टरूपस्येत्यदोषः ।
अर्थबोधानपेक्षा तु नानपभ्रष्टरूपता ।
साधुत्वमेकवर्णे ऽपि प्रसङ्गदिति वर्णितम् ॥
ननु स्मृतीनां शास्त्रमूलत्वस्योक्तत्वात्तद्विरुद्धं व्याकरणस्मृतेः प्रत्यक्षमूलत्वाभिधानमित्याशङ्क्याह यो नामेति फलोत्पत्तेरनियतकालत्वात्सम्बन्धस्यानियतकालत्वं साध्वसाधुविवेकस्य तु प्रत्यक्षग्राह्यत्वोपपत्तेस्तदपह्नवे न केवलं स्मृत्य बाधः किं तु प्रत्यक्षेणापीत्याह यस्य त्विति सङ्गीतशास्त्रे स्वरगतरागवि [२३०।२] वेकप्रकीर्णकप्रबन्धतालवाद्यनृत्ताख्याः सप्ताध्यायाः तत्र ।
आत्मा विवक्षमाणो ऽयं मनः प्रेरयते मनः ।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥
ब्रह्मग्रन्थिस्थितः सो ऽथ क्रमादूर्ध्वपथे चरन् ।
नाभिहृत्कण्ठमूर्द्धास्येष्वाविर्भावयति ध्वनिम् ॥
नादो ऽतिसूक्ष्मः सूक्ष्मश्च पुष्टापुष्टश्च कृत्रिमः ।
इति पञ्चाभिधावन्तः पञ्चस्थानस्थितीः क्रमात् ॥
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रो ऽभिधीयते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥
तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ् रुतयो मताः ।
स्यातां निषादगान्धारौ द्विश्रुती धैवतर्षभौ ॥
त्रिश्रुती वेदश्रुतयः षड्जमध्यमपञ्चमाः ।
मयूरचातकच्छागक्रौञ्चकोकिलदर्दुराः ॥
गर्दभः सप्तषड्जादिक्रमादुच्चारयन्त्यमी ।
इत्यादिलक्षणौः षड्जादीनां विवेके द्वितीयेन रागविवेकसञ्झकेनाध्यायेन कृते तदभ्याससंस्कृतेन श्रोत्रेण यथा षड्जो ऽयमृषभो ऽयं गान्धारो ऽयं मध्यमो ऽयं पञ्चमो ऽयं धैवतो ऽयं निषादो ऽयमिति स्वरविवेकज्ञानं जायते तथा यस्य व्याकरणस्मृतिजनिते साध्वसाधुविवेके पूर्वं जाते पश्चाद्व्याकरणश्रवणाभ्याससंस्कृतश्रोत्रस्य साध्वसाधुविवेकविषयं प्रत्यक्षं जायते तं प्रति साध्वसाधुसङ्करं साधयतः प्रत्यक्षबाधो ब्राह्मणादिवर्णसङ्करसाधनवद्भवतीत्यर्थः । अतस्त्वत्पक्षस्यैव प्रमाणविरोधो नास्मत्पक्षस्येत्युपसंहरति तेनेति प्रत्यक्षग्राह्यत्वे सति तत्पूर्वकस्यानुमानादेरपि सम्भवात्समस्तशब्दः । यच्चादृष्टविषयवच्छब्दानां साध्वसाधुतेत्यादिना साध्वसाधुविवेकस्याप्रामाणिकत्वेन विधिनिषेधविषयत्वायोगान्न धर्माधर्मसाधनत्वरूपापि साध्वसाधुतेत्युक्तम् । तदपि साध्वसाधुविवेकस्य सप्रमाणकत्वाभिधानं परिहृतं भवतीत्याह तेनेति ननु
साधुत्वं नेन्द्रियग्राह्यं लिङ्गं वास्य न विद्यते ।
शास्त्रस्य विषयो नैष प्रयोगे ऽप्यस्य सङ्करः ॥
इत्यन्यैरुक्तं तस्य कः परिहार इत्याशङ्क्याह यस्त्विर्ति इन्द्रियग्राह्यत्वं विवृणोति ग्रस्तेति ग्रस्ततमविभक्तिकोच्चारणं निरस्तं विश्लेषितसयोगम् अम्बूकृतं सनिष्ठीवितं संवृतकलप्रगीतोपगीतक्ष्विण्णरोमशादीनामादिशब्देनोपादानं दोषवर्जितानां नियतह्रस्वादिमात्रकालाभिव्यङ्ग्यानां यथावृद्धव्यवहारं लक्षितेन क्रमेण ग्राह्याणां वर्णानामिन्द्रियग्राह्यत्वमित्यर्थः । नन्वेवमप्यर्थप्रत्यायनाङ्गत्वलक्षणस्य साधुत्वस्येन्द्रियग्राह्यत्वं नास्तीत्याशङ्क्य वाचकत्वस्य साधुत्वस्याविनष्टत्वेन निरूप्यत्वात्तद्विषयस्य ज्ञानस्य श्रोत्रजन्यत्वेनेन्द्रियह्यत्वं नास्तीति वक्तुम् अविनष्टेत्युक्तम् प्रकृतिप्रत्ययान्वाख्यानस्मृतिसहकृतस्य च श्रोत्रस्याविनष्टरूपविषयज्ञानहेतुत्वादवैय्याकरणस्याज्ञानं युक्तमिति स्मर्यमाणशब्देनोक्तम् यथोदात्तादिरूपज्ञानश्रोत्रं स्मृतिमपेक्षते तद्वदविनष्टरूपज्ञाने ऽपीति दृष्टान्तार्थः । लिङ्गग्राह्यत्वं विवृणोति तदुत्तरेति प्रत्यक्षेण साध्वसाधुविवेकग्रहणोत्तरकालं यत्प्रवृत्तं लक्षणं तद्गतं प्रकृतिप्रत्ययलोपादिसाधुत्वाव्यभिचारितया लक्षणेनावगतत्वादुदाहृतशब्दे दृष्टान्तेन शब्दान्तरे साधुत्वानुमानाय लिङ्गं भवतीत्यर्थः । वृद्धप्रयोगगम्यो हि शब्दार्थस्सर्व एव न इत्यनेन न्यायेन शब्दार्थस्य वृद्धप्रयोगमात्रावसेयत्वावधारणात् भवन्तीत्यादिषु शब्देषु वृद्धाप्रयुक्तत्वेनार्थप्रत्यायकत्वाभावात्साधुत्वरहितेष्वपि प्रकृतिप्रत्ययान्वाख्यानदर्शनात् व्यभिचारमाशङ्क्य व्यवहारगतार्थप्रतिपत्तिसहितत्वं विशेषणं कृतम् । अस्मादेव विशेषणादर्थप्रत्यायनार्थत्वं साधुत्वलक्षणं वार्त्तिककृतो ऽभिप्रेतमिति ज्ञायते । शास्त्रविषयत्वं विवृणोति शास्त्रस्य चेति श्रुतिस्मृतिरूपत्वेन क्रत्वर्थपुरुषार्थसाधनत्वप्रतिपादकत्वरूपेण विधिनिषेधनिबन्धनार्थानर्थज्ञापकत्वरूपेण कार्यस्वरूपज्ञापकत्वरूपेण चेति चतुर्द्धा द्वैविध्यं विवृतं साधुत्वमिन्द्रियग्राह्यमिति साधुत्वशब्देनासाधुत्वस्याप्युपलक्षितत्वादनर्थज्ञानार्थनिषेधशास्त्रविषयत्व मसाधुत्वस्य दर्शितम् । अयं साध्वसाधुत्वरूपो विषय इत्यर्थः । ननु साध्वसाधुशब्दप्रयोगयोरिष्टानिष्टसाधनत्वज्ञापने साध्यसाधनभावविषयत्वाच्छास्त्रस्य साध्वसाधुविषयत्वं न स्यादित्याशङ्क्यैवंविध एवान्यो ऽपीत्युक्तम् । अन्यो ऽपि यागादिरेव विधिरेव विषय इत्यर्थः । द्विविधशास्त्रविषयत्व1 मेवोपपादयति अविनष्टैरिति साधुशब्दप्रयोगस्य स्वर्गसाधनत्वम् । एकः शब्द इत्यस्य कामधु क्शब्दयुक्तस्य शास्त्रस्य विषयः । यज्ञोपकारसाधनत्वव्याकृता वागुद्यतइत्यनारभ्याधीतस्याप्यश्वप्रतिग्रहेष्टिन्यायेन व्याकृतत्वस्य लौकिकवैदिकवाग्वदनविषयकत्वे क्रत्वर्थपुरुषार्थत्वलक्षणावैरूप्यापत्तेर्लौकिकमात्रविषयत्वे ऽपि फलकल्पनागौरवापत्तेर्वैदिके कर्मणि या वागुद्यते सा व्याकृतेत्यर्थावधारणात् विषयः । अपशब्द भाषणस्य प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यरूपानर्थसाधनत्वं ब्राह्मणेन न म्लेच्छितवाइति निषेधशास्त्रस्य ज्योतिष्टोमप्रकरणाधीतस्य विषयः । अस्य निषेधस्यानृतवदननिषेधवत्प्राकरणिकं क्रत्वर्थत्वं याज्ञे कर्म्मणि स नियमो ऽन्यत्रानियम इत्यादिना महाभाष्यकृता ऽप्युक्तमिति सूचयितुम् याज्ञे कर्मणीत्युक्तम् वाग्योगवित् दुष्यति चापश ब्दैरिति स्मृत्यापि वाचैव हि मनसा च यज्ञो वर्त्ततइत्यादिलिङ्गदर्शनाद्वाग्योगशब्दस्य यज्ञपरत्वावगतेर्वाग्योगविच्छब्दस्यर्त्विग्यजमानविषयतया व्याख्यातुं शक्यत्वाद्यज्ञविषयत्वमपशब्दनिषेधस्यावसीयतइति सूचयितुम् यथोक्तमित्युक्तम् यच्च प्रतिशब्दं वि [२३१।१] धिनिषेधवाक्यानुमानकल्पनानुपपत्तेर्न साध्वसाधुतयोर्विधिनिषेधविषयत्वं सम्भवतीत्यक्तं तत्परिहरति द्वाभ्यामेवेति क्रत्वर्थपुरुषार्थविध्योर्भेदे ऽपि विधित्वेनैक्यं मत्वा द्वाभ्यामित्युक्तम् ननु वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किं चित्प्रमाणत्वेन सम्भवतीत्यनेन वेदस्य स्वरूपपरत्वनिषेधात्कथं स्वरूपज्ञानार्थशास्त्रविषयता साध्वसाधु त्वयोरुक्तेत्याशङ्क्याह न चेति यावदेकाहेनाश्वो याति तावदाश्वीनं ननु तत्राप्यविनाशी वा अरे ऽयमात्मा ज्ञातव्य इत्येवंविधिपरस्यैव शास्त्रस्य स्वरूपज्ञानार्थत्वान्न तन्निरपेक्षस्येत्याशङ्क्याह अथापीति अत्रापि तर्ह्यर्थप्रत्यायनाङ्गत्वविशिष्टलक्षणानुगतत्वरूपैकोपलक्षणोपपत्तेर्ये ऽर्थप्रत्यायनाङ्गभूताः शब्दा लक्षणानुगतास्ते साधवो ऽन्ये चासाधवः प्रत्येतव्या इत्येवं ज्ञात्वा शास्त्रावधारितप्रयोजनान् साधुशब्दान्प्रयोक्तुमिच्छेन्नानर्थप्रत्यायनाङ्गभूताः शब्दा लक्ष णेनानुगतास्ते साधवो न वा लक्षणेनानुगतानित्येवं विधिनिषेधपरयोः शास्त्रयोः साध्वसाधुस्वरूपज्ञानार्थत्वं भविष्यतीत्याशयः । यावद्रूपमित्यनेन द्वयोरेव विधिनिषेधयोरेकेनोपलक्षणेन सर्वशब्दापशब्दव्यापित्वमुक्तम् शास्त्रस्य विषयो ऽप्येष इत्यपिशब्द सूचितमुपमानादिप्रमाणविषयत्वं दर्शयन्नुपमानं तावद् द्विविधमाह निः सन्दिग्धेति यो ह्यविनष्टत्वेन निःसन्दिग्धो वृद्धप्रयुक्तो देवदत्तशब्दो यश्च विनष्टत्वेन निःसन्दिग्धो बालप्रयुक्तस्तत् शब्दस्तत्सादृश्यं यच्च पटुकरणाभिव्यङ्ग्यत्वादिधर्मसामान्यभूतस्वरूपं गोशब्दादेरुपमानेनावगम्य पटुकरणाभिव्यङ्ग्यत्वस्य विनष्टाविनष्टरूपत्वेन देवदत्तादिशब्दे व्याप्तिदर्शनाद्गोशब्दादौ विनष्टाविनष्टरूपत्वानुमानं सम्भवतीत्युपमानपूर्वकानुमानविषयत्वं साध्वसाधुत्वयोरूपचारादुपमानविषयत्वेन विवक्षितमिति शक्यशब्देन सूचितम् सङ्कीर्णसाधुविषयं चेदमुपमानं लक्षणानुगतवैदिकशब्दसादृश्यं लक्षणानुगतत्वस्याविनष्टत्वेन वैदिकेषु व्याप्तिदर्शनात् लौकिकेष्वविनष्टत्वानुमानमित्येतदप्युपमानपूर्वकमेवानुमानमसङ्कीर्णसाधुत्वविषयमिति दर्शयितव्यमित्यनेन सूचितम् सङ्कीर्णसाधुत्वविषयोस्तावदर्थापत्तिमाह तथेति लक्षणनैरपेक्ष्याभिप्रायो लौकिकशब्दः वृद्धव्यवहारनिबन्धनेनार्थप्रत्ययेन योत्थापिता वाचकत्वविषयार्थापत्तिः तया विनष्टस्य स्वाभाविकार्थाभिधानशक्तत्वरूपवाचकत्वानुपपत्तेरविनष्टरूपं साधुत्वं गाव्यादिशब्दसङ्कीर्णं निश्चीयतइत्यर्थः । असङ्कीर्णसाधुत्वविषयामर्थापत्तिमाह तत इति अन्यासक्तिनिमित्तं तदनासक्तिनिमित्तं स्पृष्ट्वादिकरणवैगुण्यनिमित्तं वा यत्सम्भवत्यपभ्रष्टं रूपं तद्वर्जितस्य केवलस्य साधोर्यल्लक्षणेनान्वाख्यानं तदन्यथानुपपत्त्या गोशब्दादेरेव साधुतेति सिद्धं, गवादिशब्दनियतमसङ्कीर्णसाधुत्वज्ञानमित्यर्थः । गाव्यादिशब्दानां लक्षणाभावस्यासाधुत्वं विनानुपपत्तेरभावपूर्विकयार्थापत्त्या साधुत्वाभावनिश्चयात्तद्द्वारेणाभावस्यापि साध्वसाधुत्वनिर्णयो वि [२३२।१] षय इत्याह अपभ्रंशेष्विति ननु प्रत्यक्षादित्रयविषयत्वाभिधानमात्रेण परोक्तश्लोकप्रतिकञ्चुकसिद्धेरुपमानादित्रयविषयत्वाभिधानं किमर्थमित्याशङ्क्याह इतीति व्यापारशब्देनाभावोपमानयोः साक्षात्साध्वसाधुत्वनिर्णायकत्वाभावे ऽपि व्यापारसद्भावात्तद्विषयतेति सूचितम् । प्रयोगे ऽप्यस्त्यसङ्कर इत्येतद्विवृणोति यद्यपीति मातापितृसम्बन्धकुशलानां ब्राह्मणादिविवेकवत्प्रकृतिप्रत्ययान्वाख्यानकुशलानां साध्वसाधुशब्दविवेको ऽस्तीत्यर्यः । किं च साधुत्वं नाम दोषवर्जितत्वं तच्चान्यत्रापि परीक्षकगम्यं दृष्टमित्याह यथा चेति रत्नतत्त्वपरीक्षका यथा पद्मरागादीनि विवेकेन जानन्ति तथा परे शब्दनामदोषवर्जितत्वं तच्चान्यत्रापि परीक्षकतत्त्वपरीक्षकाः साधुत्वं विवेकेन जानन्तीत्यर्थः । लक्षणस्य च साध्वसाधुविवेकोपायता रत्नपरीक्षायामेव दृष्टेत्याह यथेति एवं च साध्वसाधुविवेकस्य प्रत्यक्षादिनावगतिसम्भवे तन्निराकरणाच्च तत्पूर्वकपुरुषवचननिराक्रियापि सिद्धेति यदुक्तं तदपि प्रति हतं भवतीत्याह पौरुषेयेति ननु व्याकरणानुगतसाधुत्वानन्तरं प्रत्यक्षेणासङ्कीर्णसाधुत्वदर्शने माभूदन्धपपम्परान्यायापत्तिः । सङ्कीर्णस्य तु साधुत्वस्य पूर्वदृष्टस्य व्याकरणमात्रात् विवेकज्ञाने तदापत्तिरपरिहार्येत्याशङ्क्याह यावानिति अयमाशयः न तावददृष्टसाधनत्वलक्षणसाधुत्वविवेके ऽन्धपरम्परान्यायापत्तिः विधिनिषेधमूलत्वादविनष्टरूपसाधुविवेके ऽपि न तदापत्तिर्वेदादिविद्यास्थानप्रयोगमूलत्वादिति । यच्चार्थप्राप्तश्च यो ऽर्थः स्यादित्यनेनार्थप्राप्तत्वात्साधुविधानानुपपत्तिरित्युक्तं तदनुभाषणपूर्वकं परिहरति यत्त्विति यथा चतुर्थे समे दर्शपूर्णमासाभ्यां यजेत पौर्णमास्यां पौर्णमास्या यजेत दर्शपौर्णमासयोश्चत्वार ऋत्विज इत्युपात्तानामपि देशादीनामर्थप्राप्तत्वादविधानमिति पूर्वपक्षयित्वा पक्षप्राप्तानामपि नियमार्थो विधिरिति नियमार्था श्रुतिरुच्येत्तदितिसूत्रेण सिद्धान्तयिष्यते तथात्रापि नियमार्थो विधिर्भविष्यतीत्याशयः । यच्चात्यन्तावाचकत्वादित्यनेन व्यावर्त्त्यासाध्वप्रसक्तेरसाधुनिवृत्त्यर्थस्य नियमस्यानुपपत्तिरित्युक्तं तदप्यनुभाषणपूर्वकं परिहरति यत्त्विति यत्त्वया ऽन्यनिवृत्तिफलो विधिर्नियम इत्युक्तः स नियमः परिसङ्ख्या वेत्यनेन किं नादौ परस्तान्नियमः किन्तु परिसङ्ख्येत्याशयः । सा चात्यन्तव्यावृत्त्याद्विना नेष्यते यस्तु परमार्थतो नियमः स नित्यतामात्रकारीति किमिति व्यावृत्याद्विना न लभ्यतइत्यर्थः । ननु भाषणे साधूनां नित्यप्राप्तत्वान्नियमो ऽनर्थकः स्यात् भाषणनियमे तु मौने दोषः प्रसज्येतेत्युक्तं तत्राह सतीति द्विधा परस्यार्थः पुरुषेण ज्ञाप्यते स्वाभिप्रायप्रकाशनद्वारेण वा तन्निरपेक्षमुख्यगौणलाक्षणिकैव त्रैरूप्यादिस्मरणमात्रे वा । तत्र स्वाभिप्रायप्रकाशनद्वारार्थज्ञापनमिह त्रैरूप्यस्मारणादिद्वारार्थप्रकाशनव्यावृत्त्यर्थभाषितव्यशब्देन लक्षणयोक्तम् । अनेन च पूर्वपक्षोक्तं दूषणद्वयमपि परिहृतम् । शब्दव्यापारद्वारार्थज्ञानरूपे हि भाषणे साधुव्यतिरिक्तोपायाप्रसक्तेः साधुनियमानर्थक्यमपरिहार्यम् । अर्थज्ञापनमात्रे तु साधुनियमे त्रैरूप्याद्युपन्यासः शास्त्रकाराणां विरुद्ध्येत । स्वातन्त्र्येण तु सर्वदा साधुभाषणनियमे मौने दोषो ऽपरिहार्यः स्वाभिप्रायप्रकाशनद्वारार्थज्ञापनं मौनिनाक्षिनिकोचादिना क्रियमाणं न श्रेयःसाधनमित्यक्षिनिकोचादिव्यावृत्त्यभिधानेनैव सूचितम् । अतश्च भोजनादौ मौनविधाने शाकादेर्भाषणनिवारणादि हस्तसञ्ज्ञादिना न कार्यं शिष्टाचारविरोधापरिहारार्थं वा मौनविध्यभावविषयत्वं साधुभाषणनियमस्य कल्पनीयं भाषणानुवादेन साधुनियामकत्वं कल्प्यं साधुभाषाशब्दस्त्वस्मिन्पक्षे विशेषणाशयः । नन्वन्यनिवृत्त्या शिष्टाचारविरोधपरिहारार्थं वा मौनविध्यभावं विना नित्यत्वायोगान्नियमे ऽप्यन्यनिवृत्तिरवश्यं कल्प्येत्याशङ्क्याह यद्य [२३३।४] पि चेति साधुस्मृत्या व्यवहितानामसाधूनां तदर्थप्रतिपादकत्वोपपत्तेरपभ्रंशकाले प्रयोगः सम्भवतीति विप्रकर्षाभिधायिकालशब्दोक्तानां स्मर्यमाणावधिदीर्घकालप्रयोगरूपरूढशब्दोक्तम्लेच्छभाषणविलक्षणसाधुसादृश्यरूपात्मककारणद्वयजन्यया भ्रान्त्या वाचकत्वेनार्वाचीनैर्गृहीतानामिदानीन्तनकाले प्रयोगः सम्भवतीत्यर्थः । गाव्यादिशब्दानामविवेकिलोकप्रसिद्धशब्दान्तरत्वमङ्गीकृत्य प्रसक्तिर्दर्शिता । परमार्थस्तु तेषां गवादिशब्दापभ्रंशमात्रत्वेन शब्दान्तरत्वाभावाद्विनाशनिवृत्तिमात्रं नियमफलमित्याह अथ वेति मा कश्चिद्विनीनशदित्येकवचनान्वयायाध्याहार्यं विनाशनिवृत्त्यर्थत्वं नियमस्य दृष्टान्तपूर्वकमुपपादयति तद्यथेति तस्माद् ब्राह्मणेनेति प्रतिषेधस्तस्मादेषेति च त्रिविधिरविनष्टप्रयोगनियमार्थ इत्यन्वयः म्लेच्छतिधात्वर्थव्याख्यार्थत्वापभाषितत्वादिति महाभाष्यकृत्प्रयुक्तं धात्वन्तरं दर्शितं विनाशनिवृत्त्यर्थत्वोपपादनाय दुष्टः शब्द इति स्मृत्युपन्यासः । किं चिद्विनष्टस्यापि भग्नशृङ्गगोन्यायेन शब्दत्वानपायात्कथमपशब्दतेत्याशङ्क्य प्रमादादिनिमित्तेन विनाशेनेत्याद्युक्तम् अयमित्यनेनापशब्दत्वं परामृष्टम् । विनष्टस्यापि गवादिशब्दस्य म्लेच्छैरप्रयोगात् किन्निमित्तो म्लेच्छशब्द इत्याशङ्क्य प्रकृतिप्रत्ययान्वाख्यानरूपव्यक्त्यभावेनाव्यक्तोच्चारणत्वनिमित्तता स्मरणेन सूचिता प्रत्यक्षविधिनिषेधोपन्यासेन नात्र साधुभिर्भाषेतासाधुभिर्नेति विधिनिषेधौ कल्प्यौ येनोक्तदोषद्वयापत्तिः स्यादिति सूचितम् । ननु प्रमादादेरभावे विनाशस्याप्रसक्तेर्भावे वा परिहर्तुमशक्तेर्निषेधो न युक्त इत्याशङ्कते ननु चेति विनाशकारणनिषेधद्वारेण विनाशनिषेधो भविष्यतीति परिहरति उच्यतइति अशक्तेः प्राग्भावरूपायाः स्वभावसिद्धत्वात् निषेधो न शक्य इत्याशङ्क्य सामर्थ्यायेत्युक्तम् प्रमादाशक्तभावे ऽपि च त्रेधा प्रसक्तिः सम्भवतीत्यन्यथा परिहरति अन्यइति उपसंहरति तत्कथं नामेति यत्किं चित्प्रमादाशक्तिरूपक्लेशो वा [२३४।६] दाक्षिण्याद्यनुवर्त्तनं वा ऽनभियुक्तसंव्यवहारो वापभ्रंशकारणं तत्परिहारार्थमविनष्टशब्दप्रयोगविषयापन्नो नियम्यतइत्यर्थः । यच्च न चादृष्टार्थतापि तस्येत्यनेन दृष्टार्थत्वाच्छब्दप्रयोगस्यादृष्टार्थो नियमो न युक्त इत्युक्तम् तत्क्रियास्वरूपस्य नैराकाङ्क्ष्ये ऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेरयुक्तमित्यभिप्रायेणानुभाषणपूर्वकं परिहरति यत्त्विति ननु फलासिद्ध्यर्थत्वादपूर्वकल्पनस्यात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह क्रत्वर्थमिति एतदेवोपपादयितुमेकस्य उभयत्वं संयोगपृथक्त्वमिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति एकस्य त्विति ननु तत्रःदध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्मात्स्वगुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यादित्यनेन न्यायेन परस्परासङ्गतेरेकेन विहितस्य दध्नो परेण फलबोधायोगात्परस्परनिरपेक्षवाक्यद्वयेन युक्तोभयरूपता । नन्विह तथाविधं वाक्यद्वयं श्रूयतइत्याशङ्क्याह तच्चेहेति ब्राह्मणेन न म्लेच्छितवाइति प्राकरणिकेन निषेधेनासाधुभाषणस्य क्रतुवैगुण्यापादकत्वावगतेरर्थात्साधुभाषणनियमस्य क्रत्वर्थतावसीयते । एकः शब्दः सम्यक्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवतीति चानारभ्यवादेन शास्त्रशब्दस्य रूढ्या विद्यास्थानवाचित्वात्सम्प्रदायपरतया व्याख्यानानुपपत्तेर्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थतावसीयतइत्यर्थः । ननु भाषणस्यार्थप्रतिपत्त्यर्थत्वेन जुह्वादिवत्पारार्थ्यादपापश्लोकश्रवणवत्स्वर्गे लोके कामधुगिति फलश्रुतेरर्थवादत्वात्पर्णमयीत्वनियमादृष्टवत्साधुनियमादृष्टस्यापि पुरुषार्थता न युक्तेत्याशङ्क्याह तत्रेति यदि क्रत्वर्थस्य भाषणस्योपायनियमरूपफलश्रुतिरेषा स्यात्ततो भवेदर्थवादस्यानार्भ्यविहितस्य तु भाषणस्य क्रत्वर्थत्वे प्रमाणाभावाद् दृष्टार्थव्यवहारहेतुत्वेन शुद्धपुरुषार्थत्वावगतेस्तस्य च नियमं विनापि सिद्धेरदृष्टफलाकाङ्क्षिणि नियमे फलनिर्देशात्फलमेवावसीयतइत्यर्थः एतदुपपादनार्थं फलमात्रेयो निर्देशादिति सूत्रोक्तं चतुर्थन्यायं दर्शयितुम् आत्रेयेत्युक्तम् श्लोकं व्याचष्टे क्रत्वर्थं हीति पुरुषार्थांशइत्यनवधारितक्रत्वर्थत्वमात्राभिप्रायेण नियमस्य पुरुषार्थतोक्ता । अनेन च क्रत्वर्थस्यांश इति क्रत्वर्थशब्दे विग्रहः सूचितः । यच्च न चेदं नियमापूर्वमित्याश्रयासम्भवेनेह अपूर्वकल्पना न युक्तेत्युक्तम् तदनुभाष्य परिहरति यत्त्विति पूर्वार्धेन क्रत्वर्थशब्देन साधुभाषणनियमस्यानृतवदनवर्जनवच्छुद्धक्रतुधर्मत्वाभिधानात्तस्य च क्रतुसंयुक्तपुरुषधर्मविषयब्राह्मणसंयुक्तवाक्यविषयत्वायोगात्तस्मादेषा व्याकृता वागुद्यतइत्यनेन वाक्येन या वागुद्यते साव्याकृतेति वाग्वदनानुवादेन व्याकरणानुगतत्वविधिप्रतीतिरनारभ्याधीतस्यापि चैषेति सर्वनाम्ना सन्निहितवैदिकवाग्वदनविषयत्वप्रतीतेर्लौकिकविषयत्वे च फलकल्पनागौरवापत्तेर्वैदिककर्माङ्गभूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यापूर्ववत् शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतेष्वेव व्रीह्यादिष्वाश्रितं, यत्तु न ब्राह्मणेन म्लेच्छितवाइति ज्योतिष्टोमप्रकरणाधीतापशब्दनिषेधसामर्थ्यलभ्याद्यज्ञमध्यगतमुक्तभाषणविषयात्साधुशब्दनियमादपूर्वं तज्जञ्जभ्यमानन्यायेनापशब्दवर्जनस्य क्रतुयुक्तपुरुषधर्मत्वावधारणेन क्रतुसाधनीभूतपुरुशाश्रितमित्यर्थः । क्रत्वङ्गभूतानामपि पदार्थानामङ्गत्वरूपेण यदभिधानं तदर्थं तद्विषयं यन्न भवतीत्यनङ्गत्वाभिधानार्थमित्युक्तम् । अपूर्वहेतोर्नियमस्याभिधानविषयत्वमुपचारेणापूर्वे ऽभिहितम् । यद्वाङ्गभूतस्यापि यस्यानङ्गत्वेन प्राप्तत्वेनाभिधानं यस्य स अनङ्गत्वाभिधानो यजमानः तदर्थमित्यर्थः । उत्तरार्द्धं व्या [२३५।१] चष्टे प्रकरणेति ननु जञ्जभ्यमानाधिकरणन्यायेन क्रतुयुक्तपुरुषसंस्कारत्वसिद्धावपि ऋत्विजामपि संस्कारोपपत्तेः कथं यजमानसंस्कारत्वावधारणेत्याशङ्क्य न्यायान्तरमुक्तं शुद्धक्रत्वङ्गधर्मत्वेन क्रतुयुक्तपुरुषधर्मत्वेन च क्रत्वर्थस्य साधुभाषणनियमापूर्वस्याश्रयमुक्त्वा पुरुषार्थस्याह पुरुषार्थेति पुरुषार्थवाक्ये ऽपि प्रयोक्राश्रितं साधुभाषणनियमापूर्वमित्यन्वयः । कथमित्यपेक्षायां सम्यगित्यनेन सन्निधिः प्रमाणत्वेनोक्तः ज्ञानपूर्वकस्य प्रयोगस्यापूर्वहेतुत्वसूचनाय ज्ञातृग्रहणम् । अपूर्वजनिकायाः साधुभाषणक्रियाया जन्यस्य च स्वर्गस्य फलस्य च तदाश्रितत्वात्तदधीननिरूपणस्यापूर्वस्यापि तदाश्रितत्वं युक्तमिति योग्यतोक्ता यथा प्रधानयागसाध्यमादिशब्दोपात्तत्वमारादुपकारकाङ्गसाध्यमपूर्वं प्रयोगक्राश्रितमनुष्ठात्राश्रितमिति दृष्टान्तार्थः । ननु वक्ता तु भाषणे सर्व इत्यनेन ब्राह्मणेनेति तृतीयया सुप्रयुक्त इति चोक्तिक्रियाया वक्तुर्गुणत्वावगमात्संस्कार्यत्वं निषिद्धमत आह तृतीयेति दृष्टान्तं विवृणोति यथैवेति यथा तृतीयानिर्दिष्टस्यापि शेषस्य भूतोपयोगित्वाद्धविषु क्षारणेन प्रतिपत्तिरूपः संस्कारः शेषधारणार्थपात्रान्तराप्रयोजकत्वाय चतुर्थे वक्ष्यते । तथेहापि ब्राह्मणस्य ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलग्रहणयोग्यतारूपः संस्कारो भविष्यतीत्यर्थः । यद्वा वर्जनीयाया म्लेच्छनक्रियाया वपनादिवदेव यजमानकर्तृकत्वे सिद्धे तृतीयायाः कर्तृविधानार्थत्वायोगेनानुवादमात्रार्थत्वात्तस्य चान्यतः सिद्ध्यपेक्षत्वात् यागकर्तृत्वस्यैव च प्रकरणसिद्धत्वात्तद्विषयत्वेनेयं तृतीयाङ्गमेव प्रतिवक्तुर्गुणत्वं ब्रुते न म्लेच्छत्वं प्रतीत्याह यदि वेति पुरुषार्थवाच्ये तु कमिपदादेव स्वर्गकामादिवत्प्राधान्यलाभ इत्याह कामधुगिति गोदोहनादिवदधिकृताधिकारशङ्कानिवृत्त्यर्थो बहिःशब्दः पूर्वार्द्धं व्याचष्टे नैवेति कथं तर्हि म्लेच्छतिनान्वय इत्याशङ्क्याह कुर्वतेति यागगुणत्वं च व्रीह्यादिवत्संस्कार्यत्वस्यानुकूलमेवेत्याह याग इति यागोपयोगिना ब्राह्मणेन संयुक्तस्य म्लेच्छनस्यारादुपकारित्वायोगात्संस्कारत्वमेव युक्तमित्यर्थः । ननूपयोगित्वे ऽपि ब्राह्मणस्य व्रीह्यादिवत्प्राधान्यावदेकद्वितीयाद्यभावात्कतं प्राधान्यावगतिरित्याशङ्क्याह तच्चेति उपयोगितैव शेषस्वीकारसामर्थ्यात्प्राधान्याक्षेपिकेत्याशयः । उत्तरार्द्धं व्याचष्टे बाह्येति साधुशब्दप्रयोगस्य फलसाधनतैवावगम्यमाना प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । अनेन वानप्रस्थपदं चात्र विद्यतइति परिहृतम् । यच्च न वेदोच्चारणमुच्चारयित्रर्थमित्यनेनोच्चारणस्य पुरुषार्थापूर्वद्वारता न युक्तेत्युक्तं तत्परिहरति यद्यपि चेति अन्यार्थाश्रितस्य निषेधस्यान्यार्थत्वे तदहर्मांसमैथुने वर्जयेदिति दर्शपूर्णमासप्रकरणाधीतं निषेधमुदाहरति तथाहीति नियमस्यान्याश्रितस्यान्यार्थत्वे खादिरं वीर्यकामस्य यूपं कुर्यादित्युदाहरणमाह क्रत्वर्थादिति ननु संयोगपृथक्त्वान्न [२३६।६] क्रत्वर्थत्वेनानुष्ठितस्य खादिरत्वस्य पुरुषार्थनियमाश्रयतास्तीत्याशङ्क्योदाहरणान्तरमाह भोजनाच्चेति खादिरत्वरूपेणैक्यमभिप्रेत्य पूर्वोदाहरणं समर्थनीयमुपसंहरति अतश्चेति एवं चावेदमूलत्वादित्युपसंहारं दूषयति अतश्चेति यत्तु न चास्याः शास्त्रता स्वयमित्यक्तं तदपि दूषयति यच्चेति नासन्नियमादिति सूत्रोपन्यासेन कृतकत्वमशास्त्रत्वे हेतुरुक्त इत्यभिप्रेत्य कृत्रिमत्वेनेत्युक्तम् प्रसिद्धिं दर्शयति शास्त्रेति यौगिकत्वे ऽपि प्रसिद्धिमुपपादयति अथापीति किं च शब्दार्थस्य वृद्धप्रयोगैकसमधिगम्यत्वेन तर्कविषयत्वाभावान्न तर्केण शास्त्रत्ववारण युक्तमिति प्रसङ्गापत्तेरित्याह प्रसिद्धमपीति श्लोकं व्याचष्टे यथैव हीति वेदातिरिक्तविद्यास्थानानां चाशास्त्रत्वमप्रामाण्यं वोच्यमानङ्गीकृकप्रामाण्यवेदमूलत्वेन वार्येत वेदस्यैव त्वशास्त्रत्वमप्रामाण्यं वोच्यमानं कथं वार्येतेति सोपहासं दृष्टान्तेन दर्शयितुमाह यो हीति शुक्लं निष्ठुरं ननु पूर्वव्युत्पादितेनेष्टानिष्टप्राप्तिपरिहारसाधनोपदेशकत्वेन परतः प्रामाण्याद्यप्रामाण्यकारणनिरासेन च वेदस्याप्रामाण्यं वारयिष्यतइत्याशङ्कानिराकरणं सूचयितुं मातापित्रोर्निष्ठुराभिधायिनोर्वारकान्तराभावे ऽपि तावेव वा [२३७।१] रकौ भविष्यत इत्याशङ्कां निरस्यति परत्रेति वेदवदितरविद्यास्थानानामपि प्रामाण्यस्य व्युत्पादिनत्वान्न तदनादरेणेदं प्रत्यवस्थानम् । तदवस्थितन्यायानादरे कश्चित्प्रतीकार इत्याशयः । दृष्टान्तेन सूचितमर्थं प्रकटयति तथेति व्याकरणस्य वेदाङ्गत्वाद्धर्मशास्त्रादिभ्यो ऽतिशयं सूचयितुं साङ्गेनेत्युक्तम् ननु व्याकरणमात्रस्याप्रामाण्यं मयोच्यते न वेदस्य तेनायं वृथोपहास इत्याशङ्क्याह क्रु।?।द्ध इति न चाङ्गीकृतेतरविद्यास्थानप्रामाण्यो व्याकरणमात्रस्याप्रामाण्यं वक्तुमर्हत्यविशेषादित्याह श्रुतीति यच्च न च स्मृत्यन्तरं किं चिदित्यनेन स्मृत्यन्तरसंवादाभावाद्व्याकरणाप्रामाण्यमुक्तं तदनुभाषणपूर्वकं परिहरति यत्त्विति ननु वर्णाश्रमधर्मोपदेशित्वाभावे व्याकरणस्य स्मृतित्वाभावान्न तन्न्यायेन प्रामाण्यं स्यादित्याशङ्क्याह स्मृतित्वं त्विति पूर्वानुभवपारतन्त्र्यनिमित्तस्मृतिशब्दो न वर्णाश्रमधर्मोपदेशित्वनिमित्त इत्याशयः । स्मृतित्वाभावे ऽपि वा तत्तुल्यत्वस्मरणशास्त्रत्वप्रामाण्ययोः सिद्धिरित्याह अथापीति न्यायतुल्यत्वादपि तत्सिद्धिरित्याह अपि चेति न च मूलासम्भवात्स्मृतिन्यायाभावः मूलस्योपपादितत्वादित्याह प्रमाणेति दृष्टार्थप्रत्यायनफलत्वरूपेण सर्वप्रमाणमूलत्वम् । अदृष्टफलत्वरूपेण तु शास्त्रमूलतेति विवेकः । मूलप्रमाणसम्भवे च व्याकरणान्तरमूलतापि न दु [२३८।१] ष्यतीत्याह एकस्य चेति ननु पुंवाक्यमूलत्वे ऽन्धपरम्परान्यायः स्यादित्याशङ्क्याह असम्भावितेति यच्च परस्परेण चाचार्या इत्यादिना ऽन्योन्यविगानादप्रामाण्यमुक्तं तदप्यनुभाष्य परिहरतियत्त्विति श्रुतीनां च विगीतत्वे तन्मूलश्रुतीनामविगानमेवाप्रामाण्यमापादयेदित्याह विगीतेति न चान्योन्यसंवादः प्रामाण्यकारणं येन तदभावादप्रामाण्यं स्यादित्याह मूलेति उपसंहरति परस्परेति सिद्धे वस्तुनि विकल्पायोगाद्यथासम्भवविषयं विकल्पाभिधानं त सर्वविगीतव्याकरणस्मृतिविषयं विगानं च धर्माधर्मसाधनत्वविषयं वा स्यादन्वाख्यानविषयं वा सूत्रप्रत्याख्यानसमाधानरूपं वा इष्ट्युपसङ्ख्यानावापरूपं तत्र सूत्रकृतो ऽपि प्रयोजनाभावाभिप्रायाभावमभिप्रेत्य धर्माधर्मसाधनत्वे तावद्विगानं नास्तीत्याह धर्मेति यत्तु
सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।
माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥
इत्याद्यन्वाख्यानविगानं तत्र ब्रूमः यदात्मानः सर्वेष्वेतेषु भिद्यन्तइति तद्भूताधिकरणोक्तेन न्यायेन लक्ष्याणां सान्तनान्तादिशब्दानां भेदादविरुद्धमित्याह अन्वाख्यानेति सूत्रप्रत्याख्यानसमाधानयोश्च तर्कमूलत्वात्तस्य चोच्चावचपुरुषबुद्धिप्रभवत्वेनानेकत्वरूपत्वोपपत्तेर्न व्याकरणाप्रामाण्यापादकतेत्याह पुनरुक्तत्वादिना हीति हिशब्दो ऽप्यर्थे वैदिकत्वाच्च मूलत्वे तस्यैकरूपत्वेनानेकरूपप्रत्याख्यानाच्चानुपपत्तिः स्यान्न त्वेतदस्तीस्यर्थः । इष्टुयपसङ्ख्यानयोरपि व्याकरणान्तरमूलत्वादधिकोपसङ्ख्यानस्य च मूलोपसङ्ख्यानाप्रामाण्यप्रसञ्जकत्वान्न व्याकरणाप्रामाण्यापादकतेत्याह ये चापीति अल्पविषयत्वमात्रस्याप्रामाण्यकारणत्वामावं दृष्टान्तेनोपपादयति तद्यथेति ननु सूत्रकारस्य प्रयोजनानभिधानात्तदभावाभिप्रायावगतेर्वार्त्तिककारादिभिश्च प्रयोजनाभिधानाद्विगानमुक्तं तस्य कः परिहार इत्याशङ्क्यान्यानुभाषणपूर्वकं परिहारमाह यस्त्विति वार्त्तिककृता शास्त्रेण धर्म्मनियम इति वदता साधुशब्दप्रयोगद्वारा धर्मसिद्धिः परं प्रयोजनमुक्तं भाष्यकृता चाथ शब्दानुशासनमितिवदता साधुशब्दज्ञानं साक्षात्प्रयोजनमुक्तं तत्र यस्तावद्वार्त्तिककारोक्तप्रयोजनानभिधाननिमित्तः सूत्रकारस्योपालम्भः कृतः स चोपालम्भनत्वस्यानर्हो समर्थः श्रुतिस्मृतिसिद्धत्वनिबन्धनत्वात्प्रयोजनानभिधानस्य भाष्यकारोक्तस्य च लक्षणश्रवणानन्तरमेव स्वसंवेद्यत्वेन सुज्ञानत्वादित्यर्थः । एकैकसूत्रेण शब्दाज्ञानात् ग्रन्थान्तरइत्युक्तम् धर्म्मसिद्धेः श्रुतिस्मृतिसिद्धत्वं विवृणोति सत्येति कामधुगादिश्रुतेर्वर्त्तमानापदेशत्वेन फलप [२३९।२] रत्वस्य दुर्ज्ञानत्वात्साधुशब्दप्रयोगविधिपरत्वेनानभिमतापि सत्यवचनविषया श्रुतिः स्मृतिश्चोपरिक्षिप्ता।?। । ननु सत्यशब्दस्य लोकवेदयोरर्थविषयत्वाप्रसिद्धेः शब्दविषयता न युक्तेत्याशङ्क्य प्रौढिवादेन पूर्वोक्तमेवोभयविषयत्वं स्मारयति सत्यं चेति नानृतं वदेदित्यभिधानार्थत्वाद्वदतेरर्थाभिधानकालएवासाधुभाषणं प्रत्यवायहेतुर्नान्यदेति विनियोगकालविशेषणेनोक्तम् । साधुशब्दज्ञानस्यानुभवसिद्धत्वं विवृणोति शब्दसाधुत्वेति उपसंहरति तस्मादिति शास्त्रेण सर्वशब्दान्वाख्यानस्य प्रयोजन यत्स्वयं सूत्रकृता नोक्तं तद्विज्ञायमानत्वान्नाभावाभिप्रायादित्यर्थः । नित्यसापेक्षत्वेनान्वाख्यानशब्दस्य समाशाविघातः । यच्च सुज्ञानत्वनिरासाय सुज्ञानत्वं पुनरीदृशं येनाद्यापि विवदन्तइत्युक्तं तदसिद्धमित्याह न चेति ननु मुख्यामुख्यप्रयोजनासम्भवेन निष्प्रयोजनत्वस्य पूर्वपक्षे ऽभिधानाद् विवादो ऽस्त्येवेत्याशङ्क्याह स एव त्विति प्रयोजनप्रस्तावे तीर्थिकान्तरविप्रतिपत्तावपि सूत्रकाराभिप्रेतत्वे विप्रतिपत्त्यभावान्न सूत्रकारस्य स्वतीर्थिकैः सह विगीतवचनत्वं भवतीत्याशयः । यच्च धर्म्मश्च फलसम्बन्धमित्यनेन धर्म्मस्य वार्त्तिककृता प्रयोजनत्वेनोक्तस्य व्याकरणे ऽनुपदेशान्निष्प्रयोजनत्वं व्याकरणस्योक्तं तत्परिहरति धर्म्मायेति नियमः प्रयोजनत्वेनोक्ता न धर्म्मस्वरूपमित्यर्थः । ननु नियमो ऽपि धर्मार्थं साधुशब्दा एव प्रयोक्तव्यास्त एव वा श्रेयः साधनमित्येवं रूपोन व्याकरणेन क्रियतइत्याशङ्क्याह वेदेति एत एव साधव इत्येवं रूपो नियमो व्याकरणाधीन इत्यर्थः । नन्वाचारे नियम इत्यादिवार्त्तिकपर्यालोचनया प्रयोगनियमो ऽत्र विवक्षितो गम्यते न स्वरूपनियम इत्याशङ्क्याह नियमेति प्रयोगनियमनिरपेक्षस्य स्वरूपनियमस्यानर्थक्याचन्निरपेक्षस्य चेतरस्य सिद्धेर्नियमद्वयमपि व्याकरणस्य प्रयोजनमित्यर्थः । तत्राद्यो वेदसिद्धत्वान्न व्याकरणेन क्रियतइत्याह साध्विति तदा च शास्त्रेण धर्म्मनियम इति वार्त्तिककृतः शास्त्रशब्दो वेदविषयतया व्याख्येय इत्याह अतश्चेति इतरस्तु व्याकरणाख्येन शास्त्रेण क्रियतइत्याह तथेति धर्म्मशब्दश्चास्मिन्पक्षे श्रेयःसाधनत्वात्साधुशब्दप्रयोगविषय इत्याह तेनेति येन कारणेन व्याकरणाद्विना साधुस्वरूपनियमो न सिध्यति तेन वेदावगतः सम्यग्ज्ञातस्य साधोः शब्दस्य प्रयोगात्मको यो धर्म्मस्तदर्थत्वेनायमेव नित्यो वाचकः शब्द इति नियतस्वरूपज्ञानं क्रियतइत्यर्थः । नियमे कारणीभूतस्य शास्त्रस्येतिकर्त्तव्यपेक्षायां व्याकरणगता प्रकृतिप्रत्ययान्वाख्यानप्रक्रियेतिकर्त्तव्यतोक्ता यद्वा व्याकरणेन स्वरूपनियमः किमर्थं क्रियते का वेतिकर्त्तव्यतेत्यपेक्षायामियं फक्किकावतारणीया तदा च तेन व्याकरणेनेत्यर्थः । यदपि धर्म्मत्वं यच्च विज्ञानशास्त्रपूर्वप्रयोगयोरित्यादिना ऽनवस्थितशास्त्रार्थाभिधानं व्यवस्थिताभिप्रायत्वे च भाष्यवार्त्तिकयोर्विगानमुक्तं तदप्यनुभाषणपूर्वकं परिहरति यच्चेति यच्च ज्ञाने धर्म्म इति चेदिति वार्त्तिकेन शब्दसाधुज्ञानस्य धर्म्मत्वपक्षमुपन्यस्य तथाधर्म्म इत्यनेन दोषमभिधाय शास्त्रेत्यनेन शास्त्रपूर्वस्य प्रयोगस्य श्रेयःसिद्ध्युपायत्वे कात्यायनेनावधारिते भाष्यकारेण तदेव व्याख्याय पुनः परावृत्य अथ वा पुनरस्तु ज्ञाने धर्म्म इति यदुक्तं तदभ्युपेत्य वादमात्रमुक्तमित्यन्वयः । विगानावस्थिताभिधानयोरप्यनुवादद्योतनार्थं यच्च यत्पुनरिति यच्छब्दद्वयं को दोष इत्यपेक्षायामपशब्दानामपि ज्ञानादधर्मापत्तेर्दोष इति द्वेषेण वार्त्तिकव्याख्योक्ता यथा व्याकरणाच्छब्दज्ञानं भवत्येवमपशब्दज्ञानमपीत्यपिशब्दो योज्यः अधर्म्मत्वापत्तिरिति च शब्दार्थं न विद्मः । शब्दानुशासनार्थाद्व्याकरणात्कथमपशब्दज्ञानमित्याशङ्क्य साध्वसाधुविवेकार्थत्वे व्याकरणस्य तन्त्रेण साध्वनुशासनमात्रार्थत्वे प्रसङ्गेनेत्युक्तम् किमर्थो ऽभ्युपेत्यवाद इत्यपेक्षायाम् पूर्वोक्तेत्युक्तम् अत्र भा [२४०।२] ष्यकृता नैष दोषः शास्त्रप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणं शब्दश्च शब्दज्ञाने धर्म्ममाह नापशब्दज्ञाने अधर्म्मं यच्च पुनरशिष्टाप्रतिषिद्धत्वान्नैव दोषाय भवति नाभ्युदयाय तद्यथा हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति नाभ्युदयायेति भाष्येणापशब्दज्ञानस्यानिषिद्धत्वान्न म्लेच्छाभाषां शिक्षेतेति निषेधस्य बर्बरादिभाषाविषयत्वान्नाधर्म्मापत्तिरित्येकं परिहारमुक्त्वा ऽथ वा भ्युपाय एवापशब्दज्ञानस्येत्यादिभाष्येणासङ्कीर्णशब्दज्ञानस्य प्रतियोग्यपशब्दज्ञानस्येत्यादिभाष्येणासङ्कीर्णशब्दज्ञानस्य प्रतियोग्यपशब्दज्ञानाधीनत्वात् धर्मसाधनतैवेति परिहारान्तरमुक्त्वा ऽथ वा कूपखानकवदेतद्भविष्यतीति तद्यथा कूपखानकः कूपं खनन्यद्यपि मृदा पांसुभिश्चावकीर्णो भवति सोऽप्सु सञ्जातासु तत एव तद्गुणमासादयति येन स च दोषो निर्हण्यते भूयसा चाभ्युदयेन युज्यते एवमिहापि यद्यप्यपशब्दज्ञाने ऽधर्म्मस्तथापि यस्त्वसौ शब्दज्ञाने धर्म्मस्तेन स च दोषो निर्घानिष्यते भूयसा चाभ्युदयेन योगो भविष्यतीति भाष्येणोत्पन्नस्याप्यधर्म्मस्य साधुशब्दज्ञानजनितधर्म्मेण निर्घाताददोष इति तृतीयपरिहाराभिधानात् पूर्वोक्तस्य दोषस्य परिहारत्रयसामर्थ्यप्रदर्शनार्थं च ज्ञायत इत्यर्थः । ननु परमार्थत शब्दज्ञानस्य धर्म्मे हेतुत्वाभावात्परिहारत्रयमप्येतदनर्थकमित्याशङ्क्य कृत्वा चिन्तान्यायेनेत्युक्तम् नन्वयमपि पक्षो ऽभिमतः कस्मान्न भवतीत्याशङ्क्याह परमार्थतस्त्विति ज्ञानमात्रस्य श्रेयोहेतुत्वे तत्पूर्वकस्य प्रयोगस्यानर्थक्यप्रसङ्गेन ज्ञानस्य च स्वभावतो विज्ञानेन पारार्थ्येनाप्रादितसमर्थवादत्वं यस्याः फलश्रुतेः सा तथोक्ता अर्थवादत्वादिति पाठे त्वापादितार्थवादत्वादिति कर्म्मधारयः । सदृष्टान्तमन्यानर्थक्यप्रसङ्गमुपपादयति यथेति किं तर्ह्यालम्बनं फलश्रुतेरित्याशङ्कां निराकुर्वन् प्रकृतमुपसंहरति तस्मादिति देवो ऽत्र वर्षति तण्डुलानित्यत्र यथावर्षणसाध्यस्य निष्पत्त्यादिकार्यपरम्परागततण्डुलफलत्वं वृष्टावुपचर्यते तथात्रापि प्रयोगफलं तत्कारणे ज्ञानइत्यर्थः । ननु सम्यग्ज्ञात इति प्रथमश्रुतत्वेन ज्ञानस्यैव फलवत् प्रतिपत्तेः सुप्रयुक्तपदस्य च सुष्ठु प्रयोगार्हो यथा सम्यग्ज्ञात इत्येवं सम्यक्त्वाव्याख्यानार्थत्वेनाप्युपपत्तेः फलपरत्वाभावादानर्थक्यप्रसङ्गो नास्तीत्याशङ्क्य कारणान्तरमुपन्यस्तं विवृणोति द्रव्येति द्रव्यादित्रयविषयाया एव फलश्रुतेः पारार्थ्यहेतुकार्थवादत्वाभिधानाच्छब्दज्ञानस्य क्वान्तर्गतिः संस्कारान्तर्गतावपि कस्य संस्कार इत्याशङ्काद्वयं निराकर्त्तुं ज्ञातुः पुरुषस्य ज्ञेयस्य वा शब्दस्य संस्कार इत्युक्तम् शब्दज्ञानस्य संस्कारत्वं पारार्थ्यं चोपपादयितुमाह सर्वत्रैव हीति संस्कारस्यापि चूडाकरणाधानादेः संस्कार्यसाध्यकर्मार्थत्वाभावात्तेन च विना फलश्रुतेरर्थवादत्वाभावात् पराङ्गं चेत्युक्तम् पुरुषार्थस्यात्मज्ञानस्य पराङ्गत्वाभावात् ततो ऽन्यत्रेत्युक्तम् इतिकरणः संस्कारत्वपारार्थ्यत्वभावत्वपरामर्शार्थः संस्कारत्वपारार्थ्यत्वभाव्यावधारणाद्यस्मात्सर्वत्र ज्ञानं संस्कारत्वेन पराङ्गत्वेनावगम्यते तस्माच्छब्दज्ञानमपि तथेति हिशब्दो योज्यः । ननु सम्बन्धग्रन्थे कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यतइत्यत्रादर्थवादाधिकरणे च क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदान्नैराकाङ्क्ष्यमित्यत्रात्मज्ञानस्य क्रत्वर्थाभिधानात् किमित्यत्र वर्जनमित्याशङ्क्याह आत्मज्ञानं हीति अविनाशी वा अरे अयमात्मा ऽनुच्छितिधर्मा मात्रासंसर्गस्त्वस्य भवतीति मात्राशब्देन भूतेन्द्रियधर्माभिधानात् शरीरादिव्यतिरिक्तसंसारीकर्तृभाक्तृनित्यात्मप्रतिपादनपूर्वकस्यात्मा वा अरे द्रष्टव्य इत्यात्मज्ञानविधेः कैमर्थ्याकाङ्क्षायां फलश्रुतेर्दृष्टसम्भवे चादृष्टकल्पनानुपपत्तेर्योग्यतया कर्म्मप्रवृत्तिसिद्ध्यर्थत्वावसायादनारभ्याधीतस्यापि च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रुत्योपनिषच्छब्दवाच्यस्यात्मविज्ञानस्य क्रत्वर्थत्वं युक्तम् । अत एवात्मा ज्ञातव्य इत्येतन्मोक्षार्थं, न च चोदितमित्येतच्छब्दप्रयोगेण संसारिरूपात्मज्ञानस्यैव मोक्षार्थत्वनिरासेन कर्मप्रवृत्तिहेतुतोक्ता असंसारिरूपात्मज्ञानस्य तु कर्म्मप्रवृत्त्यर्थत्वायोगात्पुरूषार्थतैव युक्तेत्याशयः । नन्वात्मनो लोकवेदसाधारण्येन क्रत्वव्यभिचाराभावात्कथं तज्ज्ञानस्य क्रत्वर्थत्वावसाय इत्याशङ्क्याह तेन विनेति अयमाशयः लौकिककर्माङ्गत्वव्यावृत्त्यर्थं क्रत्वव्यभिचारोद्धारस्याकाङ्क्षत्वेनादृष्टार्थं लौकिककर्म्मप्रवृत्तेश्च शरीरादिव्यतिरिक्तनित्यात्मज्ञानं विनापि सिद्धेः साकाङ्क्षान्वयसम्भवे च निराकाङ्क्षान्वयायोगाल्लौकिककर्माङ्गत्वव्यावृत्तिरैकान्तिकद्वाराभावे ऽपि सिध्यति अत एव परलोकफलकर्म्मविध्यन्यथानुपपत्त्या सामान्यसम्बन्धस्य क्लृप्तत्वाल्लौकिकविनियोगाविरोधः यद्वोपकारकत्वमात्राभिप्रायको ऽर्थवादः । अत एव निषिद्धकर्म्मनिवृत्त्यर्थत्वसूचनार्थो निवृत्तिशब्दो घटते निषिद्धकर्माङ्गत्वे त्वात्मज्ञानस्यानात्मज्ञेन कृतं ब्रह्महत्यादिकं वैगुण्यान्न प्रत्यवायं जनयेत् इति इह तु पुरुषार्थत्वं कर्तृत्वभोक्तृत्वादिसंसारिरूपात्मज्ञानस्योच्यते तस्य च क्रत्वर्थत्वायोगादाकाङ्क्षावशेनार्थवादिकफलकल्पना युक्तैवेति दर्शयितुमाह तथेति पापजरामृत्युशोकक्षुत्पिपासाराहित्यकाम्यमानफलप्राप्तिप्रयत्नानपेक्षसङ्कल्पमात्राधीनसिद्धिरूपगुणविशिष्टात्मप्रतिपादनपूर्विकया ऽन्वेष्टव्यः स विजिज्ञासितव्य इति श्रुत्या वेदान्तवाक्यार्थविचारणात्मकजिज्ञासासहितस्य तदवधारितात्मरूपार्थानुचिन्तनाख्यान्वेषणात्मकस्यापहतपाप्मत्वादिगुणविशिष्टात्मज्ञानस्य विधानं, यच्च मन्तव्यो बोद्धव्य इति श्रुत्या न्यायविमर्शनात्मकमननसहितस्य तन्निर्द्धारितात्मरूपसाक्षात्काराख्यबोधात्मकस्य सगुणात्मज्ञानस्यैव विधानं यद्यात्मानमुपासीतेति श्रुत्या केवलनिर्गुणात्मविषयावबोधपर्यन्तस्य स्पष्टस्यापरोक्षरूपस्यात्मतत्त्वज्ञानस्य विधानं तदपेक्षितस्य वाक्यान्तरोपात्तस्य द्विविधस्याभ्युदयरूपस्य निश्रेयसरूपस्य च फलस्य सम्बन्धः कामवादलोकवादवचनविशेषैर्ज्ञायतइत्येवं क्रत्वर्थं पुरुषार्थत्वेन ज्ञायतइत्येतत्फक्किकागतपदानुषङ्गेण योज्यं श्रुतिभेदज्ञापनार्थः पुनस्तथाशब्दः । सगुणात्मज्ञानविध्यपेक्षिताभ्युदयरूपफलं सम्बन्धज्ञापकं कामवादं तावदुदाहरति स सर्वांश्चेति लोकावाप्तेः कामोपभोगार्थत्वेनैकवाक्यत्वायाभिधानात्कामवादो ऽयमभिप्रेतः तद्विषयमेव लोकवादमुदाहरति तथेति पितृलोकेन मातृलोकेन भ्रातृ [२४१।४] लोकेन स्वसृलोकेन सखिलोकेन गन्धमाल्यलोकेन यानलोकेन सङ्गीतवादित्रलोकेन स्त्रीलोकेन सम्पन्नो महीयतइति जनकादिभिः सुखसाधनयोग्यत्वेन लोकशब्दवाक्यैः सम्पत्त्यभिधानात् लोकवादो ऽयमभिप्रेतः एतच्च जनकादिसम्पत्तिवचनं यं कामं कामयते सो ऽस्य सङ्कल्पादेव समुत्तिष्ठतीत्युपसंहारादष्टगुणैश्वर्यसिद्ध्यभिप्रायं न स्वर्गकामादिश्रुतिवन्नियतफलपरमिति दर्शयितुम् योगजन्येत्युक्तम् योगबलात्परमाणुवदतिसूक्ष्मता पर्वतवन्महत्त्वं सूर्यरश्म्यवलम्बनादिरूपं लाघवं करेण चन्द्रस्पर्शादिरूपप्राप्तिः । अप्स्विव भूमावुन्मज्जनम्मित्यादीच्छाद्य नभिघातः । प्राकाम्यं भूतभौतिकाज्ञापयितृत्वरूपमीशित्वम् । भूतभौतिकानां तदाज्ञप्ताचरणं वशित्वं अनाज्ञप्तानामेव तदिच्छानुरोधवृत्तित्वं कामावसायितेत्यष्टौ गुणाः अणिमा महिमा लघिमा प्राप्तिः प्राकाम्यमित्यपि ईशित्वं च वशित्वं च यत्र कामावसायितेति स्मृताः सगुणात्मज्ञानफलप्रतिपादकं कामवादं लोकवादं चोदाहृत्य निर्गुणात्मज्ञानविध्यपेक्षितनिश्रेयसरूपफलप्रतिपादकं वचनविशेषमुदाहरति तथेति लोकात्मकब्रह्मप्राप्तिरूपस्य फलस्याक्षयत्वाभिधानाद्वचनविशेषो ऽयमभिप्रेत इत्यपुनरावृत्त्यात्मकपरमात्मप्राप्त्यवसायस्य फलस्य वचनमित्यनेन सूचितं स्थानविशेषात्मकलोकप्राप्तेर्जन्यत्वेनाक्षयत्वानुपपत्तिमाशङ्क्य परमात्मैव ब्रह्मशब्दवाच्यः परमानन्दोपभोगे हेतुत्वात्कर्म्मधारयसमासाश्रयणेन लोके विवक्षितः तत्प्राप्तेश्च शरीरसम्बन्धोपाधिककर्तृभोक्तृत्वात्मकसंसारिरूपावस्थापरित्यागेनाकर्तृभोक्तृत्वात्मकासंसारिरूपनिजावस्थात्मकत्वेनाजन्यत्वाद्युक्तमक्षयत्वमिति सूचयितुम् परमात्मेत्युक्तम् अनौपाधिकरूपाभिप्रायः परमशब्दः पूर्वकृताशेषबन्धहेतुकर्म्मक्षयाद्वा संसासारिरूपप्राप्तौ कर्तृत्वाभावेन कर्म्मान्तरानुपपत्तेः पुनर्भवासम्भवेनापुनरावृत्तेः प्राप्ताया अनुवादात्तत् फलं तदक्षयत्वरूपार्थद्वयाभिधाननिमित्तवाक्यभेदापत्तिरिति सूचयितुमपुनरावृतेर्ब्रह्मप्राप्तितो भेद निरासायापुनरावृत्त्यात्मकतोक्ता कामवादलोकवचनविशेषजिज्ञासामनःसहितेति पाठेत्वेवं व्याचक्षते कामः सत्यकामत्वं वादः सत्यवादः लोकः सूर्यमण्डलाद्युपासनस्थानं वचनविशेष उपदष्ट्टत्त्वं कामादिभिर्मनःपर्यन्तैःसहितस्यात्मनो ज्ञानमित्यवान्तरसमासार्थः । केन वाक्यान्तरेणाभ्युदयरूपं फलमुपात्तमित्यपेक्षायां वाक्यद्वयमुदाहृतं निश्रेः यसरूपं केनोपात्तमित्यपेक्षायां स ब्रह्मोपासको यावदायुषमेवं विधां वृत्तिमाचरन् कुर्वंल्लोकात्मकं ब्रह्माभिसम्पद्यतइतिवाक्यमुदाहृतम् । नन्वासां फलश्रुतीनां पर्णमयीन्यायेनार्थवादत्वस्य सम्बन्धग्रन्थे ऽभिहितत्वान्न फलसमर्पकत्वं युक्तमित्याशङ्क्याह अप्रकरणगतेति अयमाशयः पारार्थ्ये निर्ज्ञाते फलश्रुतेरर्थवादत्वं भवति प्रकरणाच्च यदङ्क्ते वज्र एव भ्रातृव्यस्य अङ्क्तइत्यञ्जनस्य पारार्थ्यं निर्ज्ञातं यस्य खादिरः स्रु।?।वो भवति छन्दसामेव रसेनावद्यतीति च क्रत्वर्थव्यभिचारिसुवादिद्वारा स्वादिरत्वादेः । न चात्मज्ञानं प्रकरणगतं, न चात्मनो द्वारभूतस्यैकान्तिकः स्वाभाविकः क्रतुसम्बन्धो ऽस्ति शरीरसम्बन्धोपाधिकत्वात्कर्तृत्वस्याशरीरिरूपात्मज्ञाने तदभावादिति । न च संसारिरूपात्मज्ञानस्य मोक्षसाधनत्वे तस्मिन्सति कर्म्मसु प्रवृत्त्ययोगाद्यद् बृहट्टीकायां ननु निःश्रेयसज्ञानात् बन्धहेतोर्न कर्म्मण इत्याशङ्क्य नैकस्मादपि तत् किं तु ज्ञानकर्म्मसमुच्चयादित्युक्तम् तद्विरुद्ध्येतेत्याशङ्क्याह न चेति सत्वपि ज्ञाने नित्यनैमित्तिककर्म्मानुष्ठानं विना पूर्वकृतदुरितक्षयायोगादकरणनिमित्तानागतप्रत्यवायपरिहारायोगाच्च तत्फलोपभोगार्थं बन्धप्रसक्तेर्मोक्षायोगात्कर्म्मनाशार्थत्वेन च ज्ञानविध्यनुपलब्धेर्ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते ऽर्जुनेत्यादिस्मृतेश्चौपचारिकत्वेनोपपत्तेः सम्बन्धग्रन्थे ज्ञानस्य कर्मनाशकत्वनिषेधान्न1 ज्ञानस्य मोक्षसाधनतया विधानेन कर्मणो मोक्षसम्बन्धो वार्यते । न चासंसारिरूपात्मज्ञानपरिपाकात् प्राक्कर्तृभोक्तृत्वाभिमानानिवृत्तौ कर्मसु प्रवृत्त्यनुपपत्तिरिति विधानशब्देन सूचितम् । परिपक्वेन ज्ञानेनात्मनः कर्म्मसम्बन्धः कर्तृत्वं वार्यते विधानावस्थायाङ्कर्तृत्वाभिमाननिवृत्तौ नियोज्यत्वासम्भवाद्विधानानुपपत्तिरित्याशयः । एतदेव विवृणोति प्रत्याश्रमेति नन्वेवमपि ।
मोक्षार्थी न प्रवर्त्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यान्त्प्रत्ययवायजिहासया ॥
इत्यनेन न्यायेन काम्यनिषिद्धवर्जनात्तत्फलोपभोगार्थं शरीरानुत्पत्तेर्नित्यनैमित्तिकानुष्ठानाच्च तदकरणनिमित्तप्रत्यवायफलोपभोगार्थं शरीरानुत्पत्तेर्ज्ञानवाक्यानां चौपचारिकव्याख्यानोपपत्तेः कर्म्मणा ज्ञानं बाध्यतां तुल्यबलत्वाद्वा विकल्पो ऽस्तु, विरोधपरिहाराय चाङ्गाङ्गीभावः कल्प्यतां न तु निरपेक्षविहितयोः समुच्चयो युक्त इत्याशङ्क्याह न चेति अयमाशयः अवान्तरकार्यैक्ये सति बाधो विकल्पो वा स्यादिह तु कर्म्मणां पूर्वकृतपापनाशावश्यविहिताकरणनिमित्तपापपरिहारप्रयोजनत्वान्निर्गुणात्मज्ञानस्य च तत्त्वप्रकाशनप्रयोजनत्वान्नावान्तरकार्यैक्यमस्ति । न च बन्धहेतुकर्म्मक्षयान्मोक्षसिद्धेस्तत्त्वप्रकाशनानर्थक्यं शङ्क्यं सत्यपि पूर्वकृतकर्मक्षये कर्तृत्वभोक्तृत्वाभिमानानिवृत्तौ निर्व्यापारत्वानुपपत्तेरवश्यं कस्य चिद्बन्धहेतोः कर्म्मणः प्रसङ्गात्तं निवृत्त्यर्थं कर्तृत्वभोक्तृत्वाभिमाननिवृत्तेरपेक्षितायास्तत्त्वप्रकाशनं विनानुपपत्तेः । एतदेवाभिप्रेत्य बृ हट्टीकायामुक्तम् ।
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयन् ॥
वैराग्यात्पक्वविज्ञानः कैवल्यं भजते नरः ।
इति अतोऽवान्तरकार्यभेदान्न तावद् बाधविकल्पौ जीवानादिनिमित्तवतश्च कर्म्मस्वधिकारान्मुमुक्षोश्च ज्ञानाधिकारादधिकारिभेदलक्षणाद्भिन्नमार्गत्वान्नाङ्गाङ्गीभावः सम्भवतीति पारिशेष्यात्समुच्चय एव युक्त इति । नन्वात्मज्ञानवच्छब्दज्ञानस्यापि फलसम्बन्धः कस्मान्नेष्यते अत आह शब्देति यच्चादिमत्त्वाच्च धर्म्मत्वं नैतज्ज्ञानप्रयोगयोरित्यनेनादिमद्व्याकरणाधीनस्य ज्ञानस्य तत्पूर्वकस्य वा प्रयोगस्यानादिना वेदेन फलसाधनत्वं वक्तुं न शक्यमित्युक्तं तदप्यनुभाषणपूर्वकं परिहरति यत्त्विति व्याकरणपरम्परानादित्वं वा अनादिवेदविषयत्वान्यथानुपपत्त्या कर्तृस्मृत्या च पौरुषेयत्वावगतिरवसीयतइत्याह तस्मादिति यत्तु व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकीत्युक्तं तन्निराकरोति न चेति वैदिक्या वाचो ह्युच्चारणार्थत्वाव्यवच्छेदायोद्यतइत्येतावद्वक्तव्यम् । अव्याकृतत्वाप्रसक्तेस्तु व्याकृत्वोक्तिर्निष्फला स्यादित्यर्थः ।
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियाश्च यजानाश्च विज्ञेयाः पङ्क्तिपावनाः ॥
इति च मनुप्रोक्तवेदत्वस्य पूर्वोक्तत्वाद्यश्च मीमांसते ऽध्वरमिति च यज्ञमीमांसनस्य पश्चादुक्तत्वाद्यश्च व्याकुरुते वाचमिति व्याकरणस्य पङ्क्तिपावनत्वापादकत्वाभिधानं प्रकृतिप्रत्ययान्वाख्यानरूपव्याकरणविषयं न तु स्वरवर्णमात्रा कर्माविप्लुतिरूवैदिकशब्दव्याकरणविषयम् । नाप्युद्दिश्यमानोपादीयमानगुणप्रधानादिरूपवचनव्यक्तिव्याकरणविषयमित्यवधारणात्तस्य च वेदपूर्वत्वान्नित्यानित्यसंयोगपरिहाराय नित्यत्वं व्याकरणस्याध्यवसीयतइत्याह यदपि चेति तदशक्तिश्चानुरूपत्वादिति सूत्रं भाष्यकृता ऽथ यदुक्तमित्यादिभाष्येण गाव्यादिशब्दस्य शक्त्या विना कथमर्थप्रतिपादकतेति शङ्कानिराकरणार्थत्वेन व्याख्यातं तच्च यथाप्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतामेव शक्तिमाविर्भावयन्तो ऽर्थप्रतिपत्तावुपयोगं गच्छन्ति तथा तदशक्तिश्चानुरूपत्वादित्यत्र वर्ण इष्यते इत्यनेनैव प्रतिपादनप्रकारविशेषाभिधानार्थतया व्याख्यातत्वान्नेह व्याख्यातम् । एकदेशत्वाच्च विभक्तिव्यत्यये स्यादिति सूत्रान्तरमप्यत एवेत्यादिभाष्येणैवं गाव्यादिशब्ददर्शनादिति दार्ष्टान्तिके योजनाद्गाव्यादिशब्दस्य साधुशब्दानुस्मारणेनार्थप्रतिपादकत्वे दृष्टान्ताभिधानार्थतया व्याख्यातमिति प्रतीतेः स्पष्टत्वान्न व्याख्यातम् ।
॥ लोकवेदयोः शब्दार्थैक्याधिकरणम् ॥ १० ॥
॥ आकृतिशक्त्यधिकरण वर्णकान्तरारम्भश्च ॥
प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ २६ अत्र भाष्यकारेणाथ गौरित्येवमादयः शब्दाः किमाकृतेर्वाचकाः सन्तो वाच्यार्थे प्रमाणमुत व्यक्तेरिति गवादिविशेषणोपादानान्न सर्वशब्दानामेतद्विचारविधेयतेति सूचितं तत्र केषां शब्दानां व्यावृत्तिविवक्षितेत्यपेक्षायां जातिशब्दानामेवोदाहरणत्वमङ्गीकृत्य तद्व्यतिरिक्तानां व्यावृत्तिरिति दर्शयितुमाह इहेति आख्या [२४२।३] तशब्दार्थस्य द्वितीयाद्ये विचारयिष्यमाणत्वान्निपातोपसर्गाणां च स्वतन्त्रार्थाभिधायकत्वाभावान्नामान्येवेहोदाहरणत्वेन गृह्यन्ते तेषामपि षड्विधानां मध्ये शुक्लादिगुणानामेतयैव दिशा वाच्या शुक्लादेरपि नित्यतेत्यादिवार्त्तिकोक्तन्यायेनावान्तरभेदाभावेन गुणशब्दानां जातिवाचित्वायोगात् क्रियाणामप्यर्थप्रत्यक्षे नित्य एवेति भाष्येणावान्तरभेदस्य सङ्ख्याभावसूत्रे निराकृतत्वेन यागादिशब्दानामपि जातिवाचित्वायोगात्पाकाद्येकोपाधियोगेन वा ऽनेकत्र पाचकत्वाद्येकाकारे प्रत्ययोपपत्तेः । पाचकत्वादिजात्यभावेन तच्छब्दानामपि जातिवाचित्वायोगाद्देवदत्तादिशब्दानां च सङ्केतितार्थविशेषवाचित्वात्सर्वनामशब्दानां च सन्निहितार्थविशेषवाचित्वाज्जातिशब्दानामेवात्रैवमादय इति सादृश्यवचनेनैव शब्देनैवोदाहरणत्वं सूचितमित्यर्थः । परमतेन चैतदुक्तं स्वमते तु ततः शुक्लादितद्व्यक्तिगुणेषु प्रतितिष्ठतीत्यादिना गुणकर्म्मणाप्यवान्तरभेदाभ्युपगमाख्यातार्थं विना पौनरुक्तस्य चोत्तरप्रस्थाने परिहरिष्यमाणत्वात् गुणक्रियाशब्दानामप्याख्यातानामपि चोदाहरणत्वमस्त्येव तथाचोपसंहारभाष्यव्याख्याने गवादिशब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थमिति वक्ष्यति । नन्वेवं सति जातिशब्दा इत्येव स्पष्टत्वादुदाहरणनिर्देषः कार्यो गोशब्दोदाहरणं तु किमर्थमित्याशङ्क्य पूर्वाधिकरणे गोशब्दस्य गाव्यादिशब्दव्युदासेन साधुत्वाभिधानात्कस्मिन्नर्थे तस्य साधुतेति प्रासगिङ्की, सङ्गतिसूचनार्थं तदुदाहरणमिति दर्शयितुमाह तेषामपीति गोशब्दमुदाहृत्य यद्विचार्यते तत्पूर्वाधिकरणोदाहरणेन सहैतदधिकरणोदाहरणस्यैकत्वं सङ्गतिसूचनाय दर्शयितुमित्यर्थः । ननु पदार्थानुपदप्रामाण्यस्य शब्दे निरा कृतत्वात्किमाकृतेः प्रमाणमित्ययुक्तमित्याशङ्क्यावाचकव्यतिरेकजनिते षष्ठया विनैव प्रामाण्यव्यतिरेकजनिते इति व्याख्यातुमाह किं पुनरिति किमाकृतेर्वाचकाः सन्तो वाक्यार्थे प्रमाणमथ व्यक्तेरिति व्याख्या अनेनोक्ता व्यक्त्याकृतिवाचित्वसन्देहमुपन्यस्यो च्यत इत्यादिभाष्येण मध्ये चिन्तान्तरं कृतं तत्किमर्थमित्याशङ्क्य प्रकृतिचिन्तोपोद्घातार्थत्वमाह तत इति न निर्णयार्थं विना कापि चिन्ता कर्तुं शक्या न च निष्फला प्रतितिष्ठति लौकिकवैदिकशब्दार्थभेदे च वैदिकशब्दार्थचिन्ता निरुपाया लौकिकशब्दार्थचिन्ता च निष्फला स्यादित्याशयः । नन्वेवं सति प्रतिपदाधिकरणादिवत्प्रकृतचिन्तामनुपक्रम्यैवोपोद्थातचिन्ता कस्मान्न कृतेत्याशङ्क्यानन्तराधिकरणासङ्गतिप्रसङ्गादिति दर्शयितुम् तत इत्युक्तम् प्रतिपदाधिकरणादौ तु नानन्तरसङ्गत्यपेक्षाध्यायादित्वादित्याशयः ततो व्यक्त्याकृतिवाचित्वसन्देहोपन्यासानन्तरं वक्ष्यमाणं पूर्वपक्षादिसान्न्यासिकं त्यागार्हं कृत्वा सम्प्रतीदं तावद्विचार्यतइत्यन्वयः । त्यागार्थात्सन्न्यासप्रातिपदिकात्तदर्हतीत्यस्मिन्नर्थे ठगुत्पत्तेः सान्न्यासिकपदव्युत्पत्तिः अहिताशङ्कानिराकरणार्थस्तुशब्दः । किं यएवेतिं शब्दविषयं किं तएवेति चार्थविषयं सन्देहभाष्यद्वयं तन्त्रेण व्याख्यातुम् किं यएवेत्युक्तम् उपायफलसिद्ध्यर्थत्वं प्रश्नपूर्वं विवृणोति आहेति शब्दग्रहणमर्थानामप्युपलक्षणार्थम् । ननु व्यक्त्याकृतिविचारफलोपाययोर्भिन्नविषयत्वे ऽपि लौकिकवैदिकशब्दार्थैकत्वे यत्नः किमर्थ इत्यपेक्षायामाह यदीति एतस्या व्यक्त्याकृतिसन्निधानचिन्ताया इति हेतौ पञ्चमी एतच्छब्दो वेदविषत्वद्योतनार्थः । निर्णयोपायव्याख्यानार्थम् वृद्धेत्युक्तम् जातेरभिधेयत्वं व्यक्तेरनभिधेयत्वमिति निर्णयः नान्यथेति शेषः । नन्वन्यत्वे ऽपि लोकविषयैषा चिन्ता भविष्यतीत्याशङ्क्याह प्रयोजनं त्विति शङ्कानिराकरणार्थस्तुशब्दः प्रयोजनाभावमुपपादयति [२४३।२] सम्मूर्छितेति आशङ्काभिप्रायमनूद्य निराकरोति यदीति नन्वेवं तर्हि वेदविषयैव चिन्तान्यत्वे ऽपि यूपादिशब्दनिर्णयोपायसम्भवात्सेत्स्यतीत्याशङ्क्याह स्यादिति वृद्धव्यवहारस्थाने क्व प्रयोगानुसरणमेवाकृतिवाचित्वनिर्णयोपायो न यूपादिवद्वचनव्यक्तिविपर्ययाश्रयणादित्याशयः । अतः शब्दार्थान्यत्वे एकाङ्गविकलत्वाच्चिन्तेयमनारभ्या स्यादित्याह तेनेति ननु शब्दार्थानन्यत्वे फलोपाययोर्भिन्नविषयत्वेनैकाङ्गवैकल्याविषयः स्यादित्याशङ्क्याह अभेदे इति शब्दार्थान्यानन्यत्वचिन्तायाः प्रकृतचिन्तोपोद्धातत्वोपसंहारपूर्वकं पूर्वपक्षमाह तेनेति अनेन च तत्रान्यपूर्वपक्षप्रतिज्ञाभाष्यं व्याख्यातं अत्र व्यपदेशभेदाद्रूपभेदाच्चेति हेतुद्वयं भाष्यकृतोक्तं तत्र व्यपदेशभेदस्य भाष्यकृतैव व्याख्यातत्वाद्रूपभेदं व्याचष्टे नियतेति वैदिकेषु पदेषु नियतः स्वरो लौकिकेष्वनियतः वैदिकेषु च छन्दोविषयतया विहितस्य प्रकृतिप्रत्यययोर्लोपस्यागमस्य वा वर्णविकारस्य वा सद्भावो लौकिकेष्वसद्भावः तत्कृताद्रूपभेदादित्यर्थः । नन्वेवं सति छान्दोग्यब्राह्मणेषु स्वरनियमाभावाद्गवादिशब्देषु च प्रकृतिलोपाद्यभावान्न भेदः सिद्ध्येदित्याशङ्क्य धर्म्मभेदाभिप्रायेण रूपभेदं व्याख्यातुमाह अध्यायेति अधीयते ऽस्यामिति व्युत्पत्त्याध्ययनतिथिरध्यायो द्वितीयादिरष्टम्याद्यनध्ययनतिथिरनध्यायः वेदवाक्यान्यध्याययज्ञोपवीतेनैव त्रैवर्णिकेनैव च प्रयोज्यानि लौकिकान्यनध्याये ऽप्यनुपनीतेनापि चातुर्वर्ण्येनापि च प्रयोज्यानि अप्रयोज्यत्वेनाप्रेष्यत्वेन च हेतुना परिचर्यया प्रसादितो यो गुरुस्तदुच्चारणपूर्वकं वेदवाक्यानि प्रयुक्तानि यदृच्छया प्रयुक्तानि लौकिकानीति धर्म्मभेदाद्यथा लौकिकवैदिकवाक्यानामन्यत्वं तदन्यत्वाच्च वाक्यार्थान्यत्वं तथा पदानां धर्म्मभेदात्पदार्थानां च पदभेदाद्भेद इति पूर्वपक्षं प्रतिज्ञायान्वयः । धर्म्मभेदमात्रेण कथं पदभेदः कथं च पदभेदमात्रेण पदार्थभेद इत्याशङ्काद्वयनिराकरणार्थं हेतुगर्भविशेषणसहितदृष्टान्तोपादानम् । शब्दाभेदे धर्मव्यवस्थावैय्यर्थ्यापत्तेस्तत्साफल्याय शब्दभेदः कल्प्यते । तद्भेदे चौत्सर्गिको ऽर्थभेदः सञ्ज्ञा चोत्पत्तिसंयोगादित्यनेन सेत् स्यतिं पदादृष्टार्थप्रतिपत्त्यर्थस्य शब्दस्यादृष्टार्थेन धर्मेण प्रयोजनाभावादर्थप्रतिपत्त्यर्थमेव धर्मापेक्षेत्यर्थप्रतिपादनसामग्र्यतिरेकाद्वाचकभेदो जराराजेति क्रमभेदादिवेत्याशयः । ननु वैदिकपदानां लौकिकेभ्यो ऽन्यत्वे सम्बन्धग्रहणाभावेनार्थानवधारणादर्थान्यत्वेन पूर्वपक्षो न युक्त इत्याशङ्क्याह यदीति लौकिकार्थासम्भवएवानर्थक्येन वेदाप्रामाण्यापादनायान्यत्वमिषेण पूर्वपक्षिणो वक्तुमभिप्रेतः निर्विषयत्वाच्च प्रकृतचिन्तानारम्भायैव वेदाप्रामाण्योपपादनायोच्यत इत्यविरोध इत्याशयः । अग्निर्वृत्राणि जङ्घनदित्यन्यदिदं रूपमिति भाष्यं न्यूनाधिकक्रमान्यत्वाद्यभावेन रूपभेदानुपलब्धेरयुक्तमाशङ्क्य व्याचष्टे स्वरेणेति लौकिकस्यानियतस्वरत्वात्स्वरानपेक्षस्यार्थप्रतिपादकत्वं वेदे तु स्वरनियमात्सो ऽपि सहकारीति सामग्रीभेदाद् गौर्गौर इति वर्णातिरेकवत्स्वरातिरेकात्पदान्यतेत्याशयः । धर्म्माभिप्रायो वा रूपशब्द इति व्याख्यान्तरमाह अध्यायेति कर्म्मव्युत्पन्नावध्यायानध्यायशब्दौ यदा कदा चिद्येन केन चिद्यथा कथं चिदध्येयो न वैदिक इत्यर्थः । यद्वा अग्निर्वृत्राणि जङ्घनदिति वैदिकस्याग्निशब्दस्य वृत्रहननसमर्थवस्तुवाचित्वावगमो लौकिकः व्युत्पन्नाग्निशब्दवाच्यस्य च ज्वलनस्य तदसामर्थ्यादर्थान्तरे चाव्युत्पन्नस्यैव शक्त्यन्तरकल्पने गौरवापत्तेर्गत्यर्थस्य गिधातोः शोर्निर्नलोपश्चेति सूत्रेणौणादिके निप्रत्यये कृते ऽग्निशब्दव्युत्पत्त्यवधारणान्न प्रकृतिप्रत्ययान्वाख्यानभेदेनाव्युत्पन्नाल्लौकिकादग्निशब्दाद् व्युत्पन्नस्य वैदिकस्याग्निशब्दस्य रूपान्यताभिप्रेतेति व्याख्यान्तरमाह वृत्रेति शब्दान्यत्वाच्चेति पदान्यत्वेन पदार्थान्यत्वप्रतिपादकं भाष्यं स्पष्टत्वान्न व्याख्यातं अपि चेत्यादिभाष्यं लोकसिद्धानामेव गवां देवसम्बन्धनिमित्तोत्तानवहनात्मकधर्मविशेषप्रतिपादकत्वेनास्य वाक्यस्य अन्यार्थत्वलिङ्गत्वाभावादयुक्तमाशङ्क्योपपादयितुमाह विदग्धेति यथा यो विदग्धः स नैर्ऋत इति स्वरसतो विन्दग्धोद्देशेन नैर्ऋतत्वविधिः प्रतीयमानो व्युत्पत्तिशिष्टदेवतावरुद्धे देवतान्तरविध्ययोगाद्यो नैर्ऋतः स विदग्ध इतिवचनव्यक्त्यन्तराङ्गीकरणेन प्रकरणे सम्भवन्नपकर्षो न कल्प्येतेत्यत्र भाष्यकृता भग्नः तथात्र वषट्कर्त्तुः प्रथमभक्ष इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां चोत्तानवहनवदसिद्धत्वाविशेषात् कथं चित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देषप्रतीतेस्तदुद्देशेन गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः कृत इत्यर्थ । नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वापर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वे ऽपि व्यक्त्याकृतिचिन्तोपपत्तेरुपोद्धातो ऽनर्थकः स्यादित्याशङ्क्याह सर्वेषां चेति नन्वर्थावगत्यभावे कथमस्यार्थान्यथावेदकतेत्याशङ्क्यापातप्रतिभानेन लिङ्गमेतत्पूर्वपक्षिणोक्तं परमार्थतस्तु शब्दान्यत्वमेवार्थान्यहेतुरिति दर्शयितुमाह ग्राह्यत्वादीति स्वाध्यायएवोपनीतेनैव त्रैवर्णिकेनैव शुश्रुषासाधितगुरुसम्प्रदायेनैव च ग्राह्यत्वं वैदिकानां धर्म्मः यदा कदा चिद्येन केन चिद्यथा कथं चित् न ग्राह्यत्वं लौकिकानामिति धर्म्मभेदः । आदिशब्दो नियतानियतस्वराद्यभिप्रायः नियतैः पदैर्वाक्यरचना वेदे लोके त्वनियतैः तत्द्वा।?।रा वैदिकानीमानि पदानि लौकिकानीति व्यपदेशभेदः । वाक्यभेदनिबन्धनत्वात् व्यपदेशभेदस्य न पदभेदापादकतेत्याशङ्कानिराकरणार्थम् नियतेत्युक्तम् पदरचनात्मकत्वात् वाक्यानां पदभेदं [२४४।१] विना तद्भेदायोगाद्वाक्यभेदनिबन्धनत्वे पदभेदस्येतरेतराश्रयत्वापत्तेः स्वरादिनियमानियमकृतपदेस्वरूपदभेदनिबन्धनएव व्यपदेशभेद इत्याशयः । धर्मभेदव्यपदेशभेदाभ्यां शब्दानां भेदस्तद्भेदाच्चार्थानामित्यर्थः । भिन्नानां वर्णानामेकार्थप्रतिपादननिबन्धनत्वेनैकपदत्वस्यार्थभेदनिबन्धनत्वात्पदभेदस्य पदभेदनिबन्धनत्वे ऽर्थभेदस्येतराश्रयं स्यादित्याशङ्कानिराकरणार्थं पदभेदे कारणान्तरस्य पूर्वोक्तस्योपन्यासः । वनस्यते हिरण्यपर्णेति सामानाधिकरण्यनिर्देषे लोकसिद्धस्य वनस्पतेर्हिरण्यपर्णत्वस्यानुपलब्धिविरोधेन वक्तुमशक्यत्वादलौकिकस्य वस्त्वन्तरस्य हिरण्यपर्णस्य वनस्पतिशब्दवाच्यत्वप्रतीतेर्घृतस्य च मधुशब्दवाच्यत्वप्रतीतेर्वाक्यस्वारस्यादेव स्पष्टत्वान्न तत्प्रतिपादकं भाष्यद्वयं व्याख्यातम् । सिद्धान्ते यथाभाष्यं सुयोजमपि सूत्रमाकृत्यधिकरणपूर्वपक्षे ऽन्यथा योजयिष्यमाणत्वाद्विवेकार्थं योजयति प्रयोगेति तेष्विति लौकिकवैदिकशब्दार्थेष्वित्यर्थः । अविभागादिति सूत्रावयवावतारणार्थम् तस्मादित्युक्तम् । यएवेतिभाष्येण प्रयोगचोदनाभावादित्यकारप्रश्लेषं विना व्याख्यायेतरथेत्यनेनाकारप्रश्लेषेण व्याख्यानान्तरं कृतं तत्रैकत्वे ऽनेकत्वे चोभयत्र भावप्राप्तावेकत्वे सति पुनर्वचनस्य परिसङ्ख्यार्थत्वापत्तेर्द्वि।?।तीयमेव व्याख्यानं सम्मतमिति सूचयितुमादौ व्याचष्टे भेदे सतीति आद्यव्याख्यानं व्याचष्टे एकत्वे सतीति तस्मादेकशब्दत्वमिति भाष्यं सौत्रमर्थपदं शब्दस्याप्युपलक्षणार्थमिति दर्शयितुं द्वेधार्थैकत्वपदं व्याचष्टे अर्थैकत्वमिति एतदेव प्रपञ्चयति शब्देति ननु प्रयोगचोदनाभावादित्यनेनैव शब्दार्थैकत्वसिद्धेरविभागादित्यनर्थकं हेत्वन्तराभिधानार्थत्वे वा शब्दैक्यमात्रविषयत्वेनाव्यापकतया दौर्बल्याद् बलवति हेतौ प्रयुक्ते दुर्बलोपन्यासः क्लिष्टो भवतीत्यनेन न्यायेन पूर्वमुपन्यस्येतेत्याशङ्क्योच्यतइति भाष्येण पूर्वस्य प्रयोजनाभिधानार्थत्वादेतदेव हेत्वभिधानमित्युक्तमाभाति । तस्मादिष्टापत्तिरूपहेत्वभिधानप्रतीतेरयुक्तमाशङ्क्याह प्रयोगेति लिङ्गदर्शनबलेनात्रैको वेदवादी पूर्वपक्षी रूपभेदादिनान्यः शुष्कतार्किकः तत्र पूर्वं प्रतिहेतुरेव पूर्वः शुष्कतार्किकस्य त्विदं प्रत्यवस्थानमित्याशयः । अत इति ल्पब्लोपे पञ्चमी इदमभिप्रेत्याहेत्यर्थः अविभागं पञ्चधा व्याचष्टे तदुच्यतइति स एवायं गोशब्दइति प्रत्यभिज्ञानरूपप्रत्ययस्य लौकिकवैदिकशब्देष्वविभागादित्यर्थः । रूपाविभागादित्यनेन विलक्षणरूपाप्रतीतेरित्युक्ते घटपटयोरज्ञायमानत्वावस्थायां वैलक्षण्याप्रतीतावैक्याभावात्तन्मात्रैणैक्यासिद्धिमाशङ्क्य ज्ञायमानयोर्लौकिकवैदिकशब्दयोरित्युक्तम् सादृश्यनिमित्तभ्रान्त्यध्यवसितैकत्ववशेनापि वैलक्षण्याप्रतीत्युपपत्तिमाशङ्क्य ज्ञायमानयोरर्थयोरवश्यं कथं चिद्वैलक्षण्येन भाव्यं तदभावात्त्विह भेदो नास्तीत्याशयः । वाक्यतत्समूहमात्रनिबन्धनस्य पदवर्णानां तदन्त र्गतत्वादयं न पदवर्णविषयत्वस्यैते लौकिका इमे वैदिका इति व्यपदेशस्य वस्तुतः पदवर्णेषु विभागाभावादित्यर्थः । वस्तुतो वाक्यनिबन्धनस्तत्समूहनिबन्धनो वा ऽयं व्यपदेशः तदन्तर्गतनिमित्तया तु भ्रान्त्या पदवर्णविषयत्वमनेनोपात्तमित्यौपाधिकत्वान्नासौ पदवर्णानां भेदमापादयतीत्याशयः । शब्दानां प्रतिनियतविलक्षणाभिव्यञ्जकाभिव्यङ्ग्यत्वनियमात्तदाभावो वात्राभेदहेतुरुक्त इति तथेत्यनेनोक्तम् लक्षणेत्यनेन लक्षणाभेदो लक्ष्याभेदे हेतुरुक्त इत्युक्तम् छन्दसि भाषायां वेति विशेषणेन भिन्नलक्षणलक्षितानां सिद्धान्तिनापि भेदाभ्युपगमात्तद्व्यावृत्तिसूचनार्थम् बहुतरेत्युक्तम् अत इत्युपसंहारभाष्यं व्याचष्टे प्रत्यक्षेति तांश्चेति भाष्यं चकारेण शब्दैक्यमर्थैक्ये हेतुं सूचयतीति व्याचष्टे एकेति यच्चोक्तमिति भाष्येण लिङ्गदर्शनान्यनुभाष्य नास्तिवचनमित्यादिनोत्तानवहनानुवादेन गोशब्दवाच्यत्वविधित्वमस्य निराकृत्य गवानुवादेनोत्तानवहनविधित्वमुक्तं तद्व्याचष्टे यथाश्रुतेति गोमधुवनस्पतिशब्दानां यार्थान्तरद्योतिका श्रुतिरुपन्यस्ता सा न्यायसिद्धार्थैकत्वाविरोधेन प्रयोजनेनोत्तानवहनादिगुणमात्रा नातः परा व्याख्येयेत्यर्थः । अनन्तरोक्तार्थैकत्वसाधकशब्दैकत्वलक्षणन्यायपरामर्शार्थं यथाश्रुतत्वं लोकसिद्धत्वं विशेषणमुक्तम् । न च गुणमात्रान्यत्वेनार्थान्यत्वं भविष्यतीति दृष्टान्तपूर्वकमाह यथा [२४५।१] हीति अस्तु वा गुणान्यन्वेन देवसम्बन्धिनां गोमधुवनस्पतीनां भेदः तथाप्यगृहीतसम्बन्धत्वेन तेषां वाच्यत्वायोगाद्वैदिकानामपि गवादिशब्दानां लौकिका एवार्था इति मत्वाह न चेति दक्षिणादिसाधनत्वेन च विहितानां गवां देवसम्बन्धिनामस्वत्वेन दातुमशक्यत्वान्मनुष्यसम्बन्धितैव निश्चीयतइत्याह मनुष्येति देवसम्बन्धिनश्च वनस्पतेर्मेरुगतस्य गुणान्यत्वेन लौकिकवनस्पतितो भेदे ऽपि कर्मभूमिगतयज्ञसाधनत्वायोगाद्वैदिकस्यापि वनस्पतिशब्दस्य लौकिक एवार्थ इस्याह एवमिति लौकिकस्य च घृतस्य देवसम्बन्धान्मधुत्वेन लौकिकान्मधुतो भेदे ऽपि देवसम्बन्धापादितरसवीर्यविपाकात्पूर्वं घृतस्य मधुत्वाभावेन मधुपर्कादिसाधनत्वायोगाद्वैदिकस्यापि मधुशब्दस्य लौकिक एवार्थ इत्याह यत्त्विति सर्वेषां च वैदिकशब्दार्थानामन्यत्वे सत्युत्तानादिशब्दार्थानामप्यज्ञानान्न तदनुवादेन गवादिशब्दवाच्यत्वं विधातुं शक्यमिति प्रतिपादनार्थं यदि चान्य इति भाष्यं व्याचष्टे न चेति मधुगुणमात्रान्यतापरत्वे कार्योपयोगाभावाद्वाक्यानर्थक्यं स्यादित्याशङ्कानिराकरणार्थं न चेति भाष्येण स्तुत्यर्थत्वमुक्तं तत्र निरालम्बनस्तुत्यनुपपत्तिमाशङ्क्यालम्बनमाह अत इति लौकिकानामेव गवादीनां यज्ञादौ विनियुक्तानामिह स्वर्गं वै त्वालोकं गमयिष्याम इत्यादिदर्शनेन स्वर्गलोकप्राप्तेर्देवसम्बन्धप्रभावादुत्तानवहनाद्यलौकिकगुणान्तरप्राप्तिर्भविष्यतीत्याशयः । स्वर्गगमनाभावे ऽपि वा भूमिगतानामेव गवां देवाश्च याभिर्यजते ददाति च वा ज्योगित्ताभिः स च ते गोपतिः सहेत्यादिदर्शनाद्देवोद्देशेन त्यक्तानां दुःखसागरतारणार्थत्वावगतेरुत्तानवहनत्वादिगततारणगुणयोगेनोत्तानवहनप्रतिपादनमित्यालम्बनान्तरमाह अथ वेति यद्वोत्तानवहनाभावे ऽपि देवानां तथा प्रतीतेस्तदालम्बनमुत्तानवहनप्रतिपादनमित्यालम्बनान्तरमाह पृथिवीति दृष्टिवशाद्वोत्तानवहनप्रतिपादनमित्यत्राप्यतीतेनान्वयः कथं देवानामुत्तानवहनदृष्टिरित्यपेक्षायां पृथिवीगोलकत्रैलोक्यभ्रमणादिनेत्युक्तम् पृथिवीगोलकस्य भ्रमणे किं प्रमाणमित्यपेक्षायां पुराणोक्तेनेत्युक्तम् ननु सत्यपि भ्रमणे कथमुत्तानवहनदर्शनमित्यपेक्षायामाह यथैवेति अधोदेशस्योपरिदर्शनं परिवर्त्तनं विप्रतीपीभावं विना न युक्तमिति भूमेर्विप्रतीपीभावात्तद्गतानां गवामुत्तानवहनदर्शनमुपपन्नमित्यर्थः । तस्मादित्युपसंहारभाष्यं व्याचष्टे तस्मादिति यदेति प्रकृतविचारानुसन्धानभाष्यं व्याचष्टे इतीति श्रोतृबुद्धिप्रथनाय पक्षान्तराण्यपि दर्शयितुमौचित्यप्रतिज्ञां तावत्करोति द्वौ चेति यद्यपीत्यनेन भाष्यकारो ऽपि पदोच्चारणानर्थक्यं तत्र व्यक्तिरर्थोऽन्यत्राकृतिरिति भाष्येणोभयपक्षमस्तु विशेषणत्वेनाकृतिं वक्ष्यति विशेष्यत्वेन व्यक्तिमित्यनेन चाकृतिविशिष्टायामाकृतौ वर्त्तेतेत्यनेन च व्यक्तिविशिष्टाकृतिपक्षं दर्शयिष्यतीति सूचितं तानि दर्शयितुं जातिव्यक्तयोस्तावदष्टपक्षीमुद्दिश्यते नियोगेनेति नियोगशब्देन च नियमं विना पक्षद्वयं विशिष्टावेत्यनेन च पक्षद्वयमुक्तम् एतेषामेवाष्टानां पक्षाणां परस्परव्यतिकरेणापरान् षण्णवतिपक्षान् सूचयितुमाह एत इति जातिव्याक्तयोरेवोद्दिष्टानां नियमादि [२४६।१] पक्षाणां लिङ्गादिसिद्धित्रियोगेन संहतात्मभिरसंहतात्मभिश्च सह सम्प्रधारणे विविक्तोद्देशेन परस्परव्यतिकरेण वा।?।परा।?।श्चतुद्द।?।श चतुः शतानि च पक्षान् वक्तुं योजना कार्येत्याह लेङ्गेति नियोगेनेति श्लोकं व्याचष्टे प्रथमं तावदिति एते पक्षा इति श्लोकार्धं व्याख्यातुं षण्णवतिपक्षानाह तथेति द्वाभ्यामित्यनेन विशेषणविशेष्यभावनिरपेक्षाभ्यां व्यक्तयाकृतिभ्यां समुच्चिताभ्यां विशिष्टः सम्बन्धो गोशब्दस्यार्थ इति चतुर्थः पक्षो लाघवायान्ते दर्शित इत्येकाष्टपक्षी । किमाकृत्यैव विशिष्टसमुदायः किं व्यक्त्यैवाथाकृत्या व्यक्त्या वाथ सम्बन्धेनार्थाकृतिविशिष्टया व्यक्त्याथ व्यक्तिविशिष्टयाकृत्या अथ व्यक्त्याकृतिभ्यां परस्परविशिष्टाभ्यामथ विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्यक्त्याकृतिभ्यां परस्परविशिष्टाभ्यामथ विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्यक्त्याकृतिभ्यामिति द्वितीया किमाकृत्यैव विशिष्टः सम्बन्ध एव गोशब्दस्यार्थः अथ समुदाय एवाथ सम्बन्थो वा समुदायो वाप्यसम्बन्धश्च समुदायश्च उत व्यक्त्यैव विशिष्टः सम्म्बन्ध एवाप्यसमुदाय एव अथ विकल्पो ऽथ समुच्चयविशिष्टयाकृत्या किं व्यक्तिः अथाकृत्या ऽथ वा विशिष्टः सम्बन्ध एव । अथ समुदाय एव अथ विकल्पो ऽथ समुच्चयः । अथ एवं समुदायेन विशिष्टः सम्बन्ध एवाथ सम्बन्धेन विशिष्टः समुदायएवाथ विकल्पो ऽथ समुच्चयः किमाकृतिविशिष्टया व्यक्त्याविशिष्टः सम्बन्ध एवाथ समुदाय एवाथ विकल्पो ऽथ समुच्चयः । अथोभाभ्यां परस्परविशिष्टाभ्यां विशिष्टः सम्बन्ध एवाथ समुदाय एवाथ विकल्पो ऽथ समुच्चयः । अथोभाभ्यां स्वतन्त्राभ्यां विशिष्टः सम्बन्ध एवाथ समुदाय एवाथ विकल्पो ऽथ समुच्चय इति चतस्रो ऽष्टपक्ष्यः सम्बन्ध एवेत्येवकारेण प्रतियोगिभूतेन समुदायेन सह नियोगविकल्पसमुच्चयरूपपक्षचतुष्टयसूचनात् पूर्वोक्ताभ्यां सह षड् भवन्ति सम्बन्धवत्समुदायमपि प्रत्याकृत्यादेर्विशेषणत्वपक्षः पूर्ववत्सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्य इत्यर्थः । किं सम्बन्धेनैव विशिष्टाकृतिरित्याकृतिग्रहणस्य व्यक्त्युपलक्षणार्थत्वात्किं सम्बन्धेनैव विशिष्टा व्यक्तिर्गोशब्दार्थो ऽथ समुदायेनैव विशिष्टाथ विकल्पमानाभ्यामुत समुच्चिताभ्यामित्यपरपक्षचतुष्टयीसूचनेन सप्तम्यष्टपक्ष्युक्ता तथैतद्विशिष्टापीत्येतच्छब्देन सम्बन्धसमुदाययोः परामर्शादष्टम्युक्ता किमाकृतिविशिष्टसमुदायविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसमुदायविशिष्टाकृतिरेवाथ विकल्प उत समुच्चय इति सम्बन्धवत्समुदायमपि व्यक्त्याकृत्योर्विशेषणविशेष्यभावयोजनात् नवम्युक्ता सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद्दशमी सम्बन्धवत्समुदायमपि प्रत्यादिविशेषणयोर्व्यक्त्याकृत्योर्नियोगादिपक्षचतुष्टयोजनादेकाशदी विशेष्यविशेषणयोर्व्यक्त्याकृत्योर्नियोगादिपक्षचचतुष्टयकल्पनायाम् आदिविशेषणत्वेन सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद् द्वादशी इति परस्परव्यतिकरेण षण्णवत्यष्टपक्ष्या सह चतुः शतं पक्षा भवन्ति लिङ्गकारकसङ्ख्याभिरित्यनेन सूचितानपरांश्चतुर्द्दश चतुःशतानि पक्षी सङ्क्षेपेण दर्शयति एवं जातिलिङ्ग [२४७।५] योरिति किं लिङ्गमेव गोशब्दार्थो ऽथ लिङ्गं वाथ जातिर्वाथ लिङ्गं च जातिश्च अथ जातिलिङ्गयोः सम्बन्धो ऽथ समुदायो ऽथ लिङ्गविशिष्टा जातिः । अभ जातिविशिष्टं लिङ्गमित्याद्यामष्टपक्षीं दर्शयित्वा किमाकृत्यैव विशिष्टः सम्बन्धो लिङ्गेनैव वेत्यादिव्यक्तिस्थाने लिङ्गं प्रक्षिप्य परस्परव्यतिकरेण षण्णवतिपक्षयोजनया चतुः शतं रचयितव्यम् । कारकस्य जात्या सम्प्रधारणे द्वितीयं चतुः शतम् । सङ्ख्यायास्तृतीयम् । लिङ्गस्य व्यक्त्या सह सम्प्रधारणे चतुर्थं कारकस्य पञ्चमं सङ्ख्यायाः षष्ठं लिङ्गसङ्ख्यायुगलस्य जात्या सह सम्प्रधारणात् सप्तमं लिङ्गकारकयुगलस्य अष्टमं सङ्ख्याकारकयुगलस्य व्यक्त्या सह सम्प्रधारणे दशमं लिङ्गकारकयुगलस्यैकादशम् । सङ्ख्याकारकयुगलस्य द्वादशम् । लिङ्गादित्रयस्य जात्या सह सम्प्रधारणे त्रयोदशं व्यक्त्या सह चतुर्दशमितिन्यायेन चतुःशतेन सह पञ्चदश चतुःशतानि । षष्ठाधिकं सार्द्धपक्षसहस्रं भवति ग्रन्थस्त्वेवं योज्यः । जातिव्यक्तिविषयैर्नियोगादिभिरष्टभिः पक्षैर्विकल्पिताः परस्परव्यतिकरेण कल्पिता ये ऽन्ये षण्णवतिः पक्षास्तेषामाद्यैरष्टभिः सह समुच्चितानां प्रत्येकं लिङ्गादीनां जात्या सह सम्प्रधारणायामुत्थानं दर्शयित्वा व्यक्त्या सह दर्शयितव्यं तथा लिङ्गसङ्ख्यादियुगलानि व्यतिकरेण कल्पयित्वा लिङ्गादिसहितैकैकजाव्यक्तिविषयापेक्षया विकल्पा दर्शयितव्याः । लिङ्गादीनां कियतां जात्या व्यक्त्या वा सम्प्रधारणेत्यपेक्षायां प्रत्येकमेकैकेन द्वाभ्यां युगलीभूताभ्यां त्रिभिश्च लिङ्गदिभिः सहिताया एकैकस्या जातेर्व्यक्तेश्च विकल्प्य इत्युक्तम् ननु लिङ्गादीनां प्रत्ययार्थत्वात्प्रातिपदिकवाच्यत्वेन चिन्ता न युक्तेत्याशङ्क्य त्रियोगेत्युक्तम् स्त्रियां यत्प्रातिपदिकं वर्त्ततइति व्याख्यादर्शनाद्वैयाकरणैस्तावज्जातिव्यक्तिवल्लिङ्गस्यापि प्रातिपदिकार्थतेष्टेति त्रिकप्रातिपदिकार्थवाचित्वात्ते त्रियोगाः निपातोपसर्गवत्प्रत्ययस्यापि द्योतकमात्रत्वेन वाचकत्वाभावात्सङ्ख्याकारकयोरपि प्रातिपदिकार्थत्वं ये ऽभ्युपगच्छन्ति ते पञ्चकप्रातिपदिकार्थवाचित्वात्पञ्चयोगास्तन्मताश्रयणेनेमे विकल्पा इत्यर्थः । सम्बन्धसमुदायानपेक्षत्वे वा लिङ्गादित्रयेण सह जातिव्यक्त्योर्योगस्तदपेक्षत्वे पञ्चभिरिति व्यवस्थया विकल्पविषयप्रदर्शनं, ये तु वैयाकरणाः शब्दस्वरूपस्यापि वाच्यत्वमिच्छन्ति तन्मतेन तस्यापि जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकसङ्ख्याभिःसंहतासंहतात्मभिः सह सम्प्रधारणेन त्रिषष्ठयष्टपक्षीभिश्चतुरुत्तराणि पञ्चशतानि पक्षान्सूचयितुमाह एवमिति षट्कैः सहेति द्वितीयेन सहशब्देन सप्तकसाहित्यं विवक्षितं जात्यादिभिः सप्तभिरेकैकशो द्विकैस्त्रिकैश्चतुष्कैः पञ्चकैः षट्काभ्यां चेत्येतैः सप्तकेन सहितैः सह शब्दस्वरूपस्य विकल्पनेत्यर्तः । किं जातिरेव गोशब्दार्थो ऽथ गोशब्दस्वरूपमेवाथ जातिर्वा शब्दस्वरूपं वाथ जातिश्च शब्दस्वरूपं च अथ सम्बन्धो ऽथ समुदायो ऽथ जातिविशिष्टस्वरूपं स्वरूपविशिष्टा वा जातिरित्येवमेकैकशः सप्ताष्टपक्षीर्दर्शयित्वा जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकजातिसङ्ख्याद्विकैः षड्भिर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्याद्विकैः पञ्चभिः सम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसङ्ख्याद्विकैश्चतुर्भिस्समुदायलिङ्गसमुदायकारकसमुदासङ्ख्याद्विकैस्त्रिभिर्लिङ्गकारकलिङ्गसङ्ख्याद्विकायभ्यां कारकसङ्ख्याद्विकेनैकेनैकविंशतिरष्टपक्ष्यो दर्शयितव्याः । जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसङ्ख्यात्रिकैः पञ्चभिः व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसङ्ख्यात्रिकैश्चतुर्भिः सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकसङ्ख्यात्रिकैस्त्रिभिः समुदायलिङ्गकारकसमुदायकारकसङ्ख्यात्रिकाभ्यां द्वाभ्यां लिङ्गकारकसङ्ख्यात्रिकेनैकेन पञ्चदशजातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसङ्ख्याचतुष्कैश्चतुर्भिर्व्यक्तिसम्बन्धसमुदायलिङ्गव्यक्तिसमुदायलिङ्गकारकव्यक्तिलिङ्गकारकसङ्ख्याचतुष्कौस्त्रिभिः सम्बन्धसमुदायलिङ्गकारकसम्बन्धलिङ्गकारकसङ्ख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसङ्ख्याचतुष्केनैकेन दश जातिव्यक्तिसम्बन्धसमुदायालिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसङ्ख्यापञ्चकैस्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसङ्ख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्गकारकसङ्ख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदायलिङ्गकारकसङ्ख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसङ्ख्याषट्केनैकेन तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतुरुत्तराणि पञ्चशतानि पक्षाः पूर्वगणितेन षष्ठयधिकेन सार्द्धेन पक्षसहस्रेण सह चतुःषष्ठयधिकं पक्षसहस्रद्वयं भवति । परस्परव्यतिकरादेतेषां बहवो ऽपराः सम्भवन्तो ऽपि नोच्यन्ते ग्रन्थगौरवभीतितः । नन्वेतेषां पक्षाणां विशेषणविशेष्यभावसंहतान्यत्वे ऽपि स्वरूपनिष्कर्षाभावेन भेदेनाभावान्न भेदेनोपन्यासो युक्त इत्याशङ्क्याह एते चेति यथा जात्यादीनां निष्कर्षाभावे ऽप्यन्वयव्यतिरेकप्रसूतया भेदबुद्ध्या भेदस्तथैषामपि पक्षाणां स्वरूपभेदाभावान्निष्कर्षाभावे ऽपि विशेषणविशेष्यभावाद्यन्वयप्रसूतमाभेदबुद्ध्या भेदो भविष्यतीत्यर्थः । ननु सत्यपि भेदे प्रत्यक्षादि नैतावतां भेदानामग्रहणात्कथं तत्पूर्वकशब्दविषयतैतावतां भेदानां विचार्यते इत्याशङ्क्याह सर्वत्रेति प्रत्यक्षणेन्द्रियसंयुक्तद्रव्यधर्म्मतत्समवेतजातिगुणक्रियातत्समवेतगुणत्वादिसामान्यग्रहणादनुमानेन च स्वव्यापकाग्नितद्गतौष्ण्यभास्करत्वादिग्रहणादनेकात्मकवस्तुप्रतीतेर्विवेकाभावात्स्तोकभेदप्रतीतिः शब्दस्य तु सर्वात्मकवस्तुविषयतायामेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लदिशब्दानर्थक्यापातादेकैकांशनिष्कृष्टशक्तिकत्वेनांशान्तराणां लक्षणात्सिद्धज्ञानत्वादवाच्यत्वावगतेः सूक्ष्मांशविवेचकतया सर्वभेदबोधकत्वं युक्तमित्याशयः । ननु सामान्यविशेषबाधादेर्जातिव्यक्तिवाच्यत्वविचारमात्रासिद्धेः पक्षान्तराणि निष्प्रयोजनत्वान्न कार्याणीत्याशङ्क्याह पदादिति शङ्क्यमानसर्ववाच्यान्तरविप्रतिपत्तिनिरासं विना वाच्यतत्त्वानवधारणान्न पदार्थावधारणपूर्वकवाच्यार्थावधारणसिद्धिरित्याशयः । सौकार्यार्थं पूर्वोत्तरपक्षविभागमाह अत्र चेति नन्वेतावतां पक्षाणां विद्यमानत्वेन सप्रयोजत्वेन च भाष्यकारानुपन्यासे किं कारणमित्याशङ्क्याह व्यक्ताविति अन्वयव्यतिरेकावगम्यसामान्यमात्रशक्त्यपर्यालोचननिबन्धनत्वसाम्यात् व्यक्तिपक्षे दर्शिते सबन्धादीनामपि वाच्यत्वं कस्मान्न स्यादित्याशङ्कोत्थानात्तात्पर्यालोचनेन च व्यक्तिपक्षे निराकरणसिद्धेर्न भाष्यकृतोपन्यस्ता इत्यर्तः । नन्वनुपन्यासाद्भाष्यकृतो सत्त्वाभिप्रायो निष्प्रयोजनत्वाभिप्रायो वा कस्मान्न कल्प्यतइत्याशङ्क्याह नचेति सद्भावप्रयोरुक्तत्वान्नानयोरभिप्राययोर्मध्ये कश्चित्सम्भवतीत्याशयः । एतस्माद्भाष्यकाराप्रदर्शनात्कारणादित्यर्थः । नन्वेवं सति व्याख्यातृभिरूपपत्तयो ऽपि सर्वेषु पक्षेषु [२४८।१] प्रत्येकमुपन्यस्योपन्यस्य निराकार्या इत्याशङ्कयाह दर्शितेष्वपीति शब्दशक्त्यपर्यालोचनस्य पूर्वपक्षबीजस्य सर्वेषु तुल्यत्वादियाशयः । का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतं तस्य प्रयोजनमाह ततश्चेति विषयावधारणं विचारमुखं, ननु सम्बन्धादीनामपि विचारविषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कय प्राधान्येनाकृतिव्यक्त्योरेव विचारविषयत्वमनन्तरोक्तं ततश्चेत्यनेन कारणतया परामृष्टम् । आकृतिस्वरूपनिरूपणस्य पौनरुक्त्यमाशङ्कते नन्विति परिहरति सत्यमिति मात्रशब्दं सर्वसामान्यव्याप्त्यर्थत्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजतिं द्रव्येति प्रथमशब्देन परशब्दः कुतश्चिदव्याकृतत्वात्सर्वसामान्योक्तत्वाभिप्रायेण व्याख्यातः । गुणत्वकर्मत्वयोरादिशब्देनोपादानं द्रव्यत्वावान्तरसामान्यानि विभजति पुनरिति वायुत्वादीनां भिन्नतेत्यर्थः । पृथिवीत्वस्य तद्भेदघटत्वादिसामान्योक्त्या ज्ञातुं शक्यत्वादनुपन्यासः । मनोभेदस्य चात्मभेदाधीनत्वादात्मत्वसामान्योक्त्यैव मनस्त्वसामान्यसिद्धेरनुपन्यासः । पृथिवीत्वावान्तरसामान्यान्यवधिभेदेन विभजति पृथिवीत्वादिति पृथिवीत्वात्परं पाश्चात्यं घटत्वं घटव्यक्तिषु समाप्य एतेषु घटत्वं तद्वयक्तिष्वन्यं सामान्यमित्यर्थः । घटत्वादीन्यन्यानि पृथिवीत्वावान्तरसामान्यानि घटत्वेनैव व्याख्यातानि वृक्षत्वात्तु पृथिवीत्वावान्तरसामान्यात्परं शिंशपात्वाद्येवान्त्यं सामान्यमित्याह वृक्षत्वादित शरीरत्वात्परं गोत्वादीत्याह शरीरत्वाच्चेति मनुष्यत्ववाची पुंस्त्वशब्दः गोत्वात्परस्य सामान्यस्याभावात्तत्त्यागेनाश्वत्वात्परं वाजिकत्वाद्यन्त्यं सामान्यमित्याह वाजिकत्वादि चेति ननु कर्कत्वशोणत्वादेरप्यवान्तरसामान्यस्य भावान्न वाजिकत्वादेरन्त्यतेत्याशङ्क्य कर्कादिस्त्विति अश्वत्वैकार्थसमवायिशुक्लावान्तरसामान्यं कर्कत्वं रक्तावान्तरसामान्यं शोणत्वमित्यर्थः । हस्तित्वात्परा भद्रादिजातयो ऽन्त्या इत्याह हस्तित्वादिति आदिशब्देन मृगजात्युपादानं ताश्च दिङ्नागकुलजातास्वेव हस्तिव्यक्तिषु वर्त्तन्तइति दिङ्नागकुलशब्देनोक्तम् । मनुष्यत्वात्परो ऽवान्तरसामान्यभेदो ब्राह्मणत्वं ग्राह्यतात्वसामान्यावान्तरभेदात्कौण्डिन्यत्वादौ सामान्ये समाप्यतइत्याह पुंस्त्वादिति द्रव्यावान्तरसामान्यानि विभज्य गुणकर्मावान्तरसामान्यानि विभक्तुमाह तथेति गुणत्वस्य रूपतादि यदवान्तरसामान्यं कर्मत्वस्य च जन्मतादि ततः परं यच्छुक्लत्वादिरूपावान्तरसामान्यं तच्छुक्लत्वादिसामान्यव्यक्तिभूतेषु भासुरधूसरादिषु गुणेषु प्रतितिष्ठतीति समाप्यते । शुक्लत्वादेः परं सामान्यं नास्तीत्यर्थः । ये तु शुक्लत्वाद्यवान्तरसामान्यस्य कर्कत्वादेर्व्यक्तिभूता गुणास्तेषु शुक्लत्वादि न प्रतितिष्ठतीति विशेषसूचनार्थस्तच्छब्दः । असिद्धस्य कर्त्तुः स्वात्मलाभफलकव्यापारसामान्यं जन्मत्वं सिद्धस्य कर्त्तुरनात्मलाभफलकव्यापारसामान्यं यागत्वादिशब्देनोक्तम् कर्मत्वावान्तरसामान्यस्य जन्मत्वस्यावान्तरसामान्याभावात्तत्त्यागेनान्यात्मलाभफलकसिद्धकर्तृव्यापारात्मककर्मावान्तरसामान्यानि यागत्वादीनि विभजति कर्मणामपीति कर्म्मावान्तरसामान्यं यागत्वादि यजतिददातीत्यादिभिर्धातुभिर्विभागेनोक्तमित्युक्तेन यजदेवपूजासङ्गतिकरणदानेषु हूदानादनयोर्डुदाञ्दानइति त्रयाणामपि दानवाचित्वेन पर्यायतया स्मृतत्वात्कथं विभागार्थहेतुतेत्याशङ्क्यापर्यायेत्युक्तं प्रक्षेपपरस्वत्त्वापादनवाचित्वेन लोकतो ऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्त्वनिवृत्त्यंशोपलक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्यागत्वादेरप्यवान्तरविभागो ऽभ्यासादिभिः क्रियतइत्याह प्रविभज्यतइति विधानशब्देनासकृद्विधिरभ्या [२४९।१] सो नासकृच्छ् रुतिमात्रमित्युक्तम् सङ्ख्योत्पत्तिगता द्वयादिका सङ्ख्या ऽप्यन्यलिङ्गगैव गुणो पूर्वसंयोगार्हः अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरं । ननु यागत्वादिजात्यभ्युपगमे यजत्यादीनामपि विचारविषयत्वोपपत्तेर्जातिशब्दा एव चिन्त्यतइति किमित्युक्तमित्याशङ्क्याह अन्ये त्विति कर्म्मणामेव यागहोमादिरूपेण भेदो न यागादीनां ज्योतिष्टोमदर्शपूर्णपासादिरूपेणेति येषां मतं तदभिप्रायेण जातिशब्दानामेवोदाहरणतोक्तेत्याशयः । किं तेषां यागादिभेदाभावभ्रान्तौ कारणमित्यपेक्षायामपि वा व्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदैककर्म्यं स्यान्नामधेयं च सत्त्ववदिति षष्ठाधिकरणसिद्धान्तसूत्रगतमैककर्म्यशब्दं भ्रान्तिकारणं दर्शयितुमाह अपि चेति ऐकशब्दोक्तस्य प्रत्यभिज्ञानस्य सादृश्यनिमित्तत्वाशङ्कानिवृत्त्यर्थं देवतोद्देशपूर्वकद्रव्यत्यागात्मकरूपाभेदात्तत्प्रतिपादकयज्यादिशब्दाभेदाच्च कर्म्मभेदे प्रमाणाभावान्न सादृश्य निमित्तता युक्तेत्युक्तम् द्रव्यान्तरेण नीवारादिना कृतस्य कर्म्मणो ब्रीह्यादिद्रव्यकाद्दर्शपूर्णमासादेर्यागाद्भेदापत्तेर्न प्रतिनिध्युपादानं युक्तमिति प्रतिपादनार्थेन क्रियाणामाश्रितत्वाद् द्रव्यान्तरे विभागः स्यादिति पूर्वपक्षसूत्रेणोक्तमाश्रयभेदेन भेदं निराकर्त्तुं गोत्ववदिति दृष्टान्तितं यथा सत्त्वस्य गोत्वादेः पदार्थस्य गौरित्याद्यभिन्नं नामधेयमभेदापादकं तथा प्रतिनिधिनिष्पादिते ऽपि कर्म्मणि दर्शपूर्णमासादिनामधेयं याज्ञिकैः प्रयुक्तमभेदापादकमिति युक्त्यन्तरम् । प्रत्यभिज्ञानेनैवैक्ये सिद्धे ऽभ्युच्चयमात्रत्वान्नेहोपन्यस्तम् । प्रतिनिधिनिष्पादितकर्मविषयस्याप्यस्य न्यायस्य विध्यन्तरविहितेष्वपि तुल्यत्वं मन्वानानामभिप्रायेणैतदुदाहृतम् । एवं सामान्यानि विभज्य सर्वव्याप्त्यर्थत्वेन भाष्यं व्याचष्टे एवमिति नन्वाकृतिशब्दस्य संस्थानवाचित्वमक्षपादाद्युक्तं परित्यज्य जातिवाचित्वं किमित्युक्तमित्याशङ्क्यात्मादिषु द्रव्येषु गुणकर्मसु चाभावादित्याह नेति क्व पुनः संस्थानमस्ति क्व वा नेत्यपेक्षायामाह सर्वेषु हीति पार्थिवेषु स्वाभाविकं संस्थानम् अग्नेर्ज्वलनादिन्धनसंस्थाननुसारिसंस्थानभेददर्शनत्तोयस्य चाधारभूतपात्रसंस्थानानुसारिसंस्थानभेददर्शनाद् घटाद्यवच्छिन्नाकाशस्य चावच्छेदकघटादिसंस्थानानुसारिसंस्थानभेदर्शनात् वायोश्च घटाद्यवच्छिन्नाकाशसञ्ञ्चारिणो घटादिसंस्थानानुसारिसंस्थानभेददर्शनादौपाधिकं यद्यपि क्व चिद् वृष्टुयदकोद् र्ध्वगतज्वालादौ पार्थिवद्रव्यपरिग्रहाभावे ऽप्याकारः संस्थानापरपर्यायः प्रतीयते तथापि विलक्षणाकारस्यप्यग्नितोयव्यक्तिष्वग्नितोयशब्दप्रयोगान्नैकशब्दवाच्यत्वयोग्यः सर्वाग्नितोयव्यक्त्यनुवृतैक आकारश्च पद्यरचनात्मकसंस्थानशब्दवाच्यो यो ऽभिधेयाकृतिलक्षणं स्यादित्यनुवृत्तिशब्देन सूचितम् । कल्प्येतेत्यनेनौपाधिकत्वं दर्शितम् । दिगादीनां तु न स्वाभाविकं संस्थानं भाव्यौपाधिकमित्यर्थः । नन्वनुगतैकाकारप्रत्ययवेद्यत्वाज्जातिरप्याकाराभावे न सम्भवतीत्याशङ्क्याह सामान्येति संस्थानारव्याकाराभावे ऽप्येकाकारप्रत्ययवेद्यः सर्वस्वव्यक्त्यनुगतो विजातीयेभ्यो व्यावृत्तो निरालम्बनबुद्ध्ययोगाद् ब्राह्मण्यादिवन्नापन्होतुं शक्य इत्याशयः । सवषु स्वविशेषेष्वनुवृत्तिरेव रूपं यस्येति विग्रहः उपसंहरति तस्मादित नन्वाकृत्यादिषु संस्थानासम्भवे ऽपि गवाषु सद्भावाद् गवादिशब्दानां संस्थानात्मकाकृतिवाचित्वं भविष्यतीत्याशङ्क्याह संस्थानस्य चेति नानाव्यक्त्यनुगतनित्यसामान्याभ्युपगमात्संस्थानस्याकृतित्वे सामान्यं वाच्यमिति व्यवहारो न युज्यतइत्यर्थः । संस्थानसामान्यस्य त्वाकृतिलक्षणत्वेन गोत्वाद्याकृतीनां वैलक्षण्यं सिद्ध्येदित्याह अथेति नन्ववान्तरसंस्थानसामान्यस्याकृतित्वाभ्युपगमान्न सङ्करापत्तरित्याशङ्क्याह न चेति गोशब्दालम्बनत्वासम्भवे कारणमाह तस्य हीति नन्वेवं सति संस्थानस्याकृतित्वशङ्कारणाभावात् किं तन्निराकरणार्थेन सर्वसामान्यानामाकृतित्वाभिधानेनेत्याशङ्क्याह तेनेति येन संस्थानस्याकृतित्वं न युक्तं तेन निराकृतमिति तेनेत्यस्य योजना शङ्कोपोद्बलनाय दृष्टान्ताभिधानम् । ननु सामान्यशब्देनैव संस्थानशङ्कानिवृत्तिसिद्धेः सर्वसामान्यव्याप्त्यर्थो मात्रशब्दो ऽनर्थक इत्याशङ्क्याह अतश्चेति सर्वं सामान्यमाकृतिरित्यभिप्रेत्य यो मात्रशब्दः प्रयुक्तः सो ऽतः शङ्काव्यावर्तनात् कारणाच्छङ्काव्यावृत्त्यर्थमिति यावदिति योज्यम् । ऊहितशङ्कानिवृत्त्यर्थश्चकारः व्यक्तौ च सर्वशब्दानां वाच्येहाकृतित्वेन विवक्षिता न सामान्यान्तराणीति शङ्कान्तरनिराससूचनार्थो वा व्यक्तिस्वरूपनिरूपणार्थस्यासाधारणेति भाष्यस्थान्येषां व्याख्यानं दूषयितुमुपन्य [२५०।१] स्यति असाधारणेति गौर्गौरित्येकाकारप्रत्ययस्य सामान्याख्यानुवृत्ताकारविषयत्वाच्छाबलेयो बाहुलेय इति अनेकाकारप्रत्ययस्य च विशेषाख्यव्यावृत्ताकारविषयत्वान्न तद्वयतिरिक्ताकारिभूतवस्तुसद्भावे प्रमाणमस्तीति व्यक्तिशब्दस्य विशेषसमूहवाचित्वेन वृक्षा वनमितिवद्वचनभेदे दोषाभावाद्वृक्षाणामाश्रयो वनमितिवच्चाश्रय विशेषाणामाश्रयो व्यक्तिरिति अग्नेरुत्तानाभाष्यस्तु व्यवहारस्य वृक्षाणामाश्रयो वनमितिवदुपपत्तेरित्यर्थः1 व्यपदेशोपपत्तेः कर्म्मधारय एव युक्त इत्याशयः ।
आविर्भावतिरोभावधर्म्मकेष्वनुयायि यत् ।
तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेद् ॥
इत्यनेन न्यायेन प्रत्यक्षसूत्रावयवानुवृत्तव्यावृत्तव्यतिरिक्तस्य धर्म्मिणः साधितत्वात्तदपह्नवो न युक्त इत्यभिप्रायेण दूषयति तत्त्विति साधारण्यत्वविशेषाणां नासाधारणव्यक्त्यात्मकत्वं युक्तमित्याह खण्डेति एतदेव व्याचष्टे खण्डेति अन्यो ऽपीत्यनेनान्तरशब्दो शाबलेयवर्णे ऽपि शबलापत्य इत्येवं व्याख्यातः शबलाशब्देन च तच्छब्दः वार्त्तिकश्लोकस्थ इत्यर्थः । शाबलेयशब्दप्रकृतिभूतशबलाप्रातिपदिकपरामर्शार्थत्वेन व्याख्यातः । एतच्चेत्यनेनादिशब्दोक्तं शबलाख्यविशेषस्य साधारण्यं व्याख्यातम् । एतदेव शबलेति नामान्यत्रापि व्यक्तौ वर्त्ततइत्यर्थः । कथमित्यपेक्षिते प्रकारद्वयमुक्तं यादृच्छिकत्वासिद्धौ सङ्केतवशादित्युक्तम् नामशब्देनावास्तवो ऽपि वर्णद्वयशून्यो ऽयं विशेषः प्रोक्तव्य इति सू चितम् । यादृच्छिकशबलापत्वे साधारण्यार्थं तदपत्ये वेति पुनर्वचनं शाबलेय इति नाम वर्त्ततइत्याद्यनुषङ्गेण योज्यम् । ननु साधारण्ये ऽपि व्यक्तिमात्रलक्षणार्थत्वेनादोषो भविष्यतीत्याशङ्क्याह असाधारणेति दोषान्तराभिधानार्थं चेदमुक्तम् । दोषान्तरमाह विशेषेति व्यक्तिशब्दस्य समुदायवाचित्वाभावान्न वृक्षा वनमित्येतत्तुल्यतेत्याशयः । स्वमतेन व्याचष्टे तस्मादिति दोषसाम्यमाशङ्कते नन्विति या व्यक्तिः सौत्रं लक्षणेति लक्षणत्वेनोपादीयमानानां विशेषाणां समुदायेनासाधारण्येन च विशेषणाद्युक्तमसाधारण्यं परमते तु विशेषव्यतिरिक्ताया व्यक्तेरभावेनोद्देश्यत्वायोगाद्दे विशेषास्ते व्यक्तिशब्दवाच्या इत्युद्देश्यानां विशेषाणामविशेषेण व्यक्तिविशेषशब्दयोः पर्यायत्वापत्तेस्तन्निवृत्त्यर्थं मृष्यामहे हविषा विशेषणमितिवदेकस्मिन् विशेषणे कृते ऽर्थसिद्धेर्विशेषणान्तरस्य विवक्षितुमशक्यत्वाच्छ रुतेनासाधारण्येन विशेषितानां व्यक्तिशब्देनेत्यर्थः । समुदायेन विशेषणानुपपत्तेः प्रत्येकमेव विशेषाणां व्यक्तिशब्दवाच्यत्वप्रसङ्गाद्वैषम्यमभिप्रेत्य परिहरति उच्यतइति ननु विशेषसमुदायाश्रयत्वमात्रेण व्यक्त्युपलक्षणसिद्धेः । किमसाधारणविशेषणेनेत्याशङ्क्याह प्रविभक्ता हीति पिण्डात्मना समुदायात्मना साधारणत्वेनेत्यर्थः । विशिष्टा व्यक्तिर्गवादिशब्दवाच्यत्वेनाभिमता नासाधारण्यं विनोपलक्षयितुं शक्येत्याशयः । नन्वेवं सत्यत्यन्तसदृशव्यक्तिगतस्य खण्डादिविशेषसमूहस्यासाधारण्याभावान्नोपलक्षणत्वं स्यादित्याशङ्क्याह न चेति ननु प्रतिव्यक्त्यपूर्वविशेषाभ्युपगमे विशेषानन्त्यापत्तेरदृष्टकल्पना [२५२।२] गौरवं स्यादित्याशङ्क्याह अनन्तेति ननु खण्डत्वादीनामनेकव्यक्तिसाधारण्ये कथं विशेषव्यपदेश्यतेत्याशङ्क्याह परेति व्यक्तेर्विशेषेभ्यो ऽन्यत्वं पूर्वोक्तं भाष्यकृद्वचनेन द्रढयति एतच्चेति सामान्यस्य व्यक्तिपारतन्त्र्याद् व्यक्तेः सामान्याश्रयत्वं मुख्यं समुदाय्याश्रयत्वं तु वृक्षाश्रयो वनमितिवत् समुदायस्य तन्मध्ये समुदायिप्रतीतेरौपचारिकं, न च सकृच्छुतस्याश्रयशब्दस्योभयरूपता युक्तेत्याशयः । व्यक्तिभाष्यस्य परव्याख्यादूषणेनाकृतिभाष्यस्य द्रव्याद्यनुगतसत्तासामान्यमेवाकृतिर्न गोत्वाद्यवान्तरसामान्यमिति सत्तावाच्यत्ववादिनां व्याख्यां बुद्धिस्थां दूषयितुं तन्मतं तावदुपन्यस्यति तत्रेति उपन्यासार्थस्तद।?। शब्दः सर्वशब्दानां पर्यायत्वशङ्कानिवृत्तये शब्दस्वरूपेण गोत्वादिना वा व्यवच्छेदाभिधानम् । अत्रार्थे तदीयं श्लोकं पठति यथाहुरिति अस्तीत्येवं रूपः सत्तासामान्यरूपः सर्वशब्दानामर्थ इतीदृशं प्रत्याय्यस्य वाच्यस्य लक्षणमाहुः । तस्य गवादिपदेष्वपूर्वादिपदैः सह तुल्यत्वादित्यर्थः । अपूर्वादीनां हि शब्दैकगोचरत्वात्तेन च विशेषाप्रतीतेरस्ति किं चिदित्येतावन्मात्ररूपेण प्रतीतेरपूर्वादिशब्दानां सत्तावाचित्वावधारणात्तद् दृष्टान्तेन गवादिशब्दानामपि सत्तावाचिता ऽनुमीयतइत्यर्थः । एतच्च सत्त्वप्रधानानि नामानि प्रातिपदिकार्थः सत्तेत्यादिदर्शनान्नामविषयमेवेति सर्वशब्दस्तद्विषयतया सङ्कोचनीयः दूषयति तत्त्विति कक्ष्याशब्दः कोष्ठवाची द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां वर्त्तन्ते । पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायामित्येवमादिः कक्ष्याणां विभागः । तत्र द्रव्यशब्देन द्रव्यत्वसत्तयोर्निश्चयं प्रतीतिर्भवति । पृथिवीत्वादिषु सन्दिग्धा प्रतीतिर्गुणत्वादिषु त्वप्रतीतिरेव गुणशब्दाद् गुणत्वसत्तयोर्निश्चयप्रतीतिः । रूपत्वादिषु सन्दिग्धप्रतीतिः । द्रव्यत्वादिष्वप्रतीतिरेवेत्यादिकक्ष्याविभागेन सामान्यानां प्रतिपादनात्सर्वशब्दानां च सत्तावाचित्वे द्रव्यशब्दाद् गुणत्ववद् द्रव्यत्वस्याप्यप्रत्ययापत्तेः । सत्ताद्वारेण वा प्रत्यये पृथिवीत्वादिवत् सन्दिग्धप्रतीतिप्रसङ्गाद् गुणत्वादावपि च तादृक् प्रतीतिप्रसङ्गात् सत्तावान्तरसामान्यविषयामां द्रव्यादिशब्दानामेव तावत् सत्तावाचित्वमयुक्तं तत्रैवं सति दूरान्तरितार्थानां गवादिशब्दानां सुतरां सत्त्वावाचकत्वे शक्तिर्नास्तीत्यर्थः । श्लोकं व्याचष्टे प्रतिनियतेति ननु द्रव्यादिशब्दानां द्रव्यत्वाद्यवच्छिन्नशब्दवाचित्वाद्वयवस्था भविष्यतीत्याशङ्कानिराकरणार्थं विशिष्टाभिधानपक्षं निराकरिष्यन्परानभिमतमपि शुद्धाभिधानं विशिष्टाभिधाने निराकृते यदि कश्चिदङ्गीकुर्यात्ततस्तदपि निराकार्यमिति मत्वा विकल्पयति तावत्सत्तामिति आद्यं तावत्पक्षं निराकरोति शुद्धेति ननु देशाद्यपेक्षया घटादिवत्सत्तायां नास्तित्वाभिधानं न विरोत् स्यते ऽत आह देशेति आदिशब्दो वस्त्वभिप्रायो यथा [२५२।२] काशस्य कूपपूरणेनोपलम्भप्रतिबन्धात्प्रतीयमानावस्थापेक्षया नास्त्याकाशमित्युच्यते तथात्रापीत्याशङ्कानिराकरणार्थः । मूर्त्तद्रव्यावष्टम्भो ह्याकाशोपलम्भप्रतिबन्धको ऽन्वयव्यतिरेकाभ्यामवगम्यते न तु सत्तायाः किञ्चिदुपलम्भप्रतिबन्धकमस्तीत्याशयः । व्यक्तिमात्रगतत्वे ऽपि जातेराकाशादिव्यक्तीनां विभुत्वात् सत्ताया विभुत्व।?।सिद्धिः सत्ताशब्दस्य लौकिकव्यवहारे च जातिवाचित्वाभावात् सर्वशब्दानां महासामान्यवाचित्वे ऽपि सत्तावाचित्वाभिधानं न युक्तमित्याह रूढीति लोकदृष्ट्येत्यनेन गवादिशब्दवत् सत्ताशब्दस्य लौकिकव्यवहारे प्रयोगाभावाज्जातिवाचित्वनिषेधस्य लोकविरोधः परिहृतः । किं तर्हि सत्ताशब्दवाच्यं युज्यतइत्यपेक्षायामाह य एव हीति यो ऽस्तिशब्देन द्वितीयो भावविकार उच्यते स एव सत्तेत्येतद्युज्यतइत्यर्थः । अनेन चास्तिशब्दो ऽपि न वस्तुत्वापरपर्यायमहासामान्यवाचीति सूचितम् । द्वितीयभावविकारवाचिनो ऽस्तेर्धातोः शत्रन्तात्तलि कृते सत्ताशब्दव्युत्पत्तेरित्याशयः । ननु वस्तुशब्दस्यापि द्वितीयभावविकारवाचित्वात्सत्तास्तिशब्दयोर्वस्तुशब्दपर्यायत्वमविरुद्धमित्याशङ्क्याह जायमानेति प्रथमो भावविकारो जायमानत्वं विपरिणामस्तृतीयः । आदिशब्देन वृद्ध्यपक्षयौ चतुर्थपञ्चमावुपात्तौ विनश्यता षष्ठः । सर्वशब्देन भावविकाररहितेष्वपि नित्येष्वाकाशादिषु वस्तुत्वप्रतीतेर्न वस्तुशब्दो भावविकारवीचीचि सूचितम् । ततश्चास्तिशब्दो ऽपि न वस्तुत्ववाचीति पूर्वसूचितमर्थं प्रकटयन्नस्त्यर्थ इति पाठं दूषयति तेनेति लौकिकप्रयोगाभावाच्चासमुदायप्रसिद्ध्यात्मलाभाभावे क्लृप्तावयवार्थत्यागेन समुदायस्य शक्त्यन्तरकल्पनं प्रोक्षिण्यादिशब्दवन्न युक्तमित्याह न चेति सत्ताशब्दप्रकृतित्वात् सन्शब्दस्योपन्यासः । तस्माद्यौगिक एव सत्ताशब्दो न रूढिरित्युपसंहरति इतीति यथा भवतीत्याख्यातस्यार्थे भवन्निति भवच्छब्दो धात्वर्थविशिष्टकर्तृवाचित्वाद्यौगिकः तथास्तीत्याख्यातस्यार्थे सन्नितिशब्दो ऽपि । ततश्च सतो भाव इत्यस्मिन्नर्थे सच्छब्दात्तल्प्रत्ययोत्पत्त्या सत्तेति प्रवर्त्तमानो यौगिक एव । ननु सत्ताशब्देन जातिः प्रतिपत्तव्या वैशेषिकपरिभाषैव हि तत्प्रतिकारणं नान्यत्किं चिदित्यर्थः । कीदृशी परिभाषेत्यपेक्षिते काश्यपीयं सूत्रं पठितम् । इतिकरणो बुद्ध्युपलक्षणार्थः । यतो वस्तुत्वान्महासामान्याद् द्रव्यादिषु सदिति बुद्धिर्भवति सा सत्तेति सूत्रार्थः । परिभाषाशब्ददर्शनात् परिभाषासूत्रत्वशङ्कां निवर्त्तयितुं लक्षणसूत्रमेवेदं स्वोत्प्रेक्षितत्वद्योतनार्थन्तु परिभाषात्वाभिधानमिति लक्षणशब्देन सूचितम् । किं पुनर्वैशेषिकाणां सत्ताशब्दस्य जातिवाचित्वप्रसिद्धौ कारणमित्यपेक्षामाह सेयमिति वस्तुपर्यायेण क्रमेण वक्तीति वस्तुपर्यायवाची वस्तुत्ववाचीत्यर्थः । भवच्छब्देन सह साधारणो द्वितीयभावविकाररूपो ऽर्थो ऽस्येति भवसाधारणार्थः । घटो भवति इत्यादिषूत्पत्त्याख्यप्रथमभावविकारवाचित्वेनापि प्रसिद्धस्य भवतेर्भूसत्तायामिति सत्ताख्यद्वितीयभावविकारवाचित्वस्मृतिबलाद्भवत्साधारणार्थत्वमव्ययसञ्ज्ञकस्यास्तिशब्दस्योक्तेः । भवतिधात्वर्थमात्रवाचित्वे ऽपि अव्ययास्तिशब्दस्य प्रकृत्यनुग्रहार्थं शतृप्रत्ययोपादानाद्वस्तुत्वद्वितीयं भावविकाररूपार्थद्वयवाचिना अव्ययसञ्ज्ञकेनास्तिशब्देनेयं प्रसिद्धिरुपपादितेत्यर्थः । क्व पुनरव्ययास्तिशब्दो वस्तुत्ववाची दृष्ट इत्यपेक्षायामाह अस्तित्वमिति दिग्योगनिमित्ता पञ्चमी यस्मादस्तिशब्दात्परौ त्वतलौ दृश्येते स वस्तुत्ववाचीत्यर्थः । आख्यातप्रतिरूपक इत्याख्यातत्वम्रान्तौ कारणमुक्तम् । नन्वाख्यात शब्द एवायं कस्मान्न भवतीत्याशङ्क्याह अप्रातिपदिकत्वाद्धीति भवत्साधारणार्थत्वमुपपादयन्नामाख्यातत्वे कारणान्तरमाह अस्तीति तेनास्ति2 शब्देन सह समासाभ्युपगमादनाख्यातत्वं तस्य च सन्शब्दवाच्यद्वितीयभावविकारवाचित्वावगमात् भवत्साधारणार्थतेत्यर्थः । एतदेव व्याचष्टे अस्तीति अस्तिपदेन सह यो बहुव्रीहिः सो ऽव्ययसञ्ज्ञकेन नाख्यातसञ्ज्ञकेन तस्यासुबन्तत्वेन समासायोगादित्युक्तेः नन्वव्ययस्यापि सुब्लोपान्वाख्यानेनासुबन्तत्वादव्ययीभाववच्चाहत्य बहुव्रीह्यविधानात्कथं समासः स्यादित्याशङ्क्य प्रत्ययलोपे प्रत्ययलक्षणमिति स्मृतेः प्रत्ययलक्षणद्वारेण सुबन्तत्वमुक्तम् । ननु सुबुत्पत्तेः प्रागसुबन्ततास्तीत्याशङ्क्यावश्यम्भावित्वेन सुबुत्पत्तेः प्राथम्यमुक्तम् । आवश्यकत्वोपपादनार्थं प्रातिपदिकत्वेन योग्यतोक्ता । ननु यथा पठतितमामित्यप्रातिपदिकादपि तद्धितो जातस्तथात्र तिङन्तस्यापि समासो भविष्यतीत्याशङ्क्य तिङन्तेत्युक्तम् । तिङश्चेति सूत्रेणाहत्य विधानात्तत्र तद्धितो जातः तिङन्तस्य तु समासत्वेनोपसङ्ख्यानमपि नास्तीत्यर्थः । सदर्थवचन इत्यनेन सद्वाचिनः सच्छब्दस्यार्थपरत्वं व्याख्यातम् । कथमव्ययशब्देनेयं प्रसिद्धिरुपपादितेत्यपेक्षायामाह ततश्चेति वस्तुनि महासामान्ये सति च द्वितीये भावविकारे सत्सञ्ज्ञकमस्तिशब्दं प्रयुज्यमानमुपलभ्य तदीयद्वितीयं भावविकाराख्यार्थानुसरणेन च कृत्वाव्ययास्तिशब्देन सह प्रत्यासन्नमदूरान्तरार्थं कर्तृप्रतीत्या विनेति द्वितीयभावविकारवाचितयास्त्यर्थं सच्छब्दमुपलभ्य महासामान्यमप्यव्ययास्ति शब्दवाच्यः सच्छब्दवाच्या सत्तेत्येवं कल्पितमित्यर्थः । नन्वव्ययास्तिशब्दवाच्यस्य द्वितीयभावविकारस्य सच्छब्दवाच्यत्वे ऽपि कथं महासामान्यस्य सच्छब्दवाच्यत्वकल्पनमाशङ्क्याव्ययास्तिशब्दवाच्यत्वहेतुना द्वितीयभावविकारदृष्टान्तेन तस्यापि सच्छब्दवाच्यत्वानुमानसूचनार्थं तार्किकैरित्युक्तम् । नन्वेवमपि तस्प्र।?।त्ययाधिक्या सत्ता3 शब्दस्य कथं महासामान्यवाचितेत्याशङ्क्य देवात्तलितिस्मृतेर्यथा देवतेति तल्प्रत्ययः स्वार्थिकस्तथायमपीत्युक्तम् । ननु द्वितीयभावविकारे कृत्सञ्ज्ञकशतृप्रत्ययोपात्तकर्तृविशेषणतया सच्छब्दवाच्यत्वेन सहाव्ययास्तिशब्दवाच्यत्वेन सहाव्ययास्तिशब्दवाच्यत्वस्य व्याप्तेर्महासामान्यस्यापि कर्तृविशेषणतयैव सच्छब्दवाच्यतानुमितसामान्यस्य बाधकर्तृकत्वान्न तथानुमानं सम्भवतीति धर्मविशेषविपरीतसाधनात् विरुद्धो हेतुः [२५३।२] स्यादित्याशङ्क्य इहापीत्युक्तम् यथा ऽव्ययास्तिशब्दवाच्ये द्वितीये भावविकारे कर्तृविशेषणत्वप्रतीतिर्नास्ति तथेह सच्छब्दवाच्ये द्वितीयभावविकारे भवतीमपि कर्तृप्रतीतिं सक्षीरेति समासोपपत्तये सुबन्तत्वयोग्यप्रातिपदिकत्वयोग्यप्रातिपदिकत्वसिद्ध्यर्थं कृत्सञ्ज्ञकशतृप्रत्ययोच्चारणोपपत्तेरतन्त्रीकृत्य कर्तृनिरपेक्षधात्वर्थमात्रवाची सच्छब्दस्तत्समानार्थत्वाच्च सत्ताशब्दो ऽपीत्यर्थः । ननु स्मृत्यभावाच्छब्दपरस्य तल्प्रत्ययार्थस्य स्वार्थिकं तत्त्वमविवक्षाहेत्वभावाच्च कर्तृप्रतीतेरतन्त्रीकरणमयुक्तमित्याशङ्क्यापारमार्थिकाभ्युपगममात्रद्योतनार्थम् गृहीत्वेत्यक्तम् स्वार्थिकं तलं गृहीत्वा धात्वर्थमात्रवचनौ च सच्छब्दसत्ताशब्दौ गृहीत्वेत्यन्वयः । नन्वनेन न्यायेनाख्यातसञ्ज्ञकस्याप्यस्तिशब्दस्य द्वितीयभावविकारवाचित्वान्महासामान्यवाचितापि प्रसज्येतेत्यनिष्टापत्तिशङ्कानिराकरणायाख्यातप्रत्ययोच्चारणास्यानन्यार्थत्वेन कर्तृसङ्ख्याकालादिप्रतीतेरतन्त्रीकर्त्तुमशक्यत्वात्कर्तृसङ्ख्याकालादिनिरपेक्षशुद्धधात्वर्थमात्रवाचित्वमाख्यातास्तिशब्दस्य नास्तीति सूचयितुमेवकारः । ततश्चाख्यातास्तिशब्दवाच्यद्वितीयभावविकारदृष्टान्तेनाव्ययत्वे ऽस्तिशब्दवाच्यत्वहेतुता वस्तुत्वस्याख्यातास्तिशब्दवाक्यमिहानुमीयमानं कर्तृसङ्ख्यादिविशिष्टत्वेनैवानुमीयेत यदव्ययास्तिशब्दवाच्यं तत्कर्तृसङ्ख्यादिविशिष्टत्वेनाख्यातास्तिशब्दवाच्यमित्याख्यातास्तिशब्दवाच्ये द्वितीयभावविकारे व्याप्तिदर्शनादित्याशयः । ननु वस्तुत्वजातेः सच्छब्दवाच्यता तार्किककल्पिता पदवाक्यार्थतत्त्वज्ञैर्निराक्रियमाणा कथं प्रसिद्धि यायादित्याशङ्क्याह तदुक्तेति
यावद्यावद्विवादाय मुक्तकं दीयते मनः ।
अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥
इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निराकृतस्यापि पुनः पुनरुद्भवेन समापयितुमशक्य त्वात्तार्किकोक्तस्यान्तगमने समापने अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं, सदिमां युक्तायुक्तत्वविचारावस्थां प्राप्तमित्यर्थः । प्रसिद्ध्याभासं चेदं न परमार्थतो नियुक्तानामेवं प्रसिद्धिरस्तीति चशब्देनोक्तम् । किं तदित्यपेक्षायामाह येनेति येन सत्ताया वस्तुत्वापरपर्यायमहासामान्यात्मकत्वेन गवादिशब्दवाक्यत्वेनापि सञ्ज्ञा सम्भाव्यते । तत्सत्ताया महासामान्यरूपत्वमिमामवस्थां प्राप्तमित्यर्थः । यद्वा युक्तायुक्तत्वविचारस्य कः प्रस्तुतोपयोग इत्यपेक्षायामिदमुक्तं, येन कारणेन सत्तायाः सामान्यरूपत्वे सति गवादिशब्दवाक्यत्वेनापि न सत्ता सम्भाव्यते तेन तन्निराकरणार्थं रूढिशब्दश्च नैवायमित्यादिर्न सत्ताशब्दस्य जातिवाचिता निराकृतेत्यर्थः । परमार्थतस्तु वस्तुत्वस्य जातिरूपस्यापि गवादिशब्दवाच्यत्वं नास्ति किमुत सत्तायाः । जात्याख्याद्धर्माद्धर्म्मान्तरत्वेन द्वितीयभावविकारत्वेन वर्त्तमानत्वादित्याह नन्विति ननु वस्तुशब्दस्यापि निवासार्थद्वसेर्धातोर्वसेस्तुन्निति सूत्रेणौणादिके तुन्प्रत्यये कृते व्युत्पत्तिसम्भवादनेकत्र नितरां प्रत्येकमेकमेव वसतिवर्ततइत्यवयवार्थयोगेन सत्तादिषु सामान्यं सामान्यमित्येकाकारप्रत्ययालम्बनस्यानेकेष्वेकस्य प्रत्येकवृत्तित्वलक्षणस्याभिधानादयौगिकत्वेन जातिवाचित्वं न युक्तमित्याशङ्कां निराकुर्वन्नर्थगम्यत्वं विवृणोति वस्तुशब्दो हीति व्यक्तेः प्रत्येकवृत्तित्वाभावादेवंविधयोगनिमित्तत्वे वस्तुशब्दस्य व्यक्तौ प्रयोगानुपपत्तिप्रसङ्गाद्यौगिकत्वासम्भवाभिधानार्थं व्यक्त्याश्रितत्वं वस्तुत्वसामान्यस्योक्तम् । जातेर्जात्याश्रितत्वाभावाद्वस्तुशब्दस्य जातिवाचित्वे जातौ प्रयोगानुपपत्तिमाशङ्क्य निःसामान्यानि सामान्यदीनीति वैशेषिकपरिभाषायाः प्रतीतिविरोधेनायुक्तत्वाज्जातेरपि जात्याश्रयत्वं सम्भवतीति दर्शयितुं जात्यन्तराश्रितत्वमुक्तम् । नन्वेवं सति वस्तुत्वे ऽपि वस्तुत्वप्रतीतेर्जात्यन्तराश्रयणायान्तरशब्दः । यथैव गोत्वरूपेण शाबलेयादौ गवाकारप्रत्ययसिद्ध्यर्थं गोत्वमङ्गीकृतं न गोत्वे तत्र गवाकारप्रत्ययस्य स्वरूपनिबन्धनोपपत्तेः । तथा जात्यन्तरे व्यक्तौ च वस्त्वाकारप्रत्ययसिद्ध्यर्थं वस्तुत्वं जातिरिष्यते तत्र स्वरूपनिबन्धनत्वेनैव वस्त्वाकारप्रत्ययोपपत्तेर्नापरा वस्तुत्वं जातिरङ्गीकार्येत्याशयः । शुद्धाभिधानपक्षस्य द्रष्ट्टत्वोपसंहारपूर्वकं विशिष्टभिधानपक्षस्य दुष्टत्वं प्रतिजानाति तावत् शुद्धेति दूषयति यदेवेति एतदेव प्रपञ्चयितुं विकल्पयति गोसत्तां चापीति आद्ये कल्पे दोषमाह तत्रेति एतदेवोपपादयति विशेषणमिति गोव्यक्तिविशिष्टसत्ताभि [२५४।२] धाने ऽप्येतमेव दोषमतिदिशति तथेति कल्पनागौरवापत्तेश्च केवलव्यक्त्यभिधानपक्षवद्विशेषणभूतव्यक्त्यभिधानपक्षो ऽप्ययुक्त इत्याह अनित्येति अनित्यः सम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यां विना ऽपि ज्ञानमनन्ताश्च शब्दशक्तयो यस्मिन्व्यक्त्यभिधाने प्रसज्यन्ते तत्तथोक्तम् । दृष्टान्तं साध्यविकलत्वेन दूषयितुमनुभाषते यत्त्विति दूषयतिश्लोकं तत्रेति श्लोकं व्याचष्टे केचिदिति श्रुतार्थापत्त्या पर्युपस्थापितस्यार्थविशेषस्य वचना वाचका इति पूर्वपदसमासान्निष्कृष्य योज्यं पर्युपस्थापनस्य नित्यपर्युपस्थापकसापेक्षत्वात्पर्युपस्थापितशब्दस्य श्रुतार्थापत्तिसापेक्षत्वे ऽप्युत्तरपदसमासाविघातः श्रुतार्थापत्त्या अपूर्वं पर्युपस्थाप्यते । स्वर्गो देवताश्च वाच्यशेषैरर्थवादैर्वाक्यान्तरैश्च मन्त्रोपनिषदादिभिरुपस्थाप्यन्ते । ननु यद्यपि श्रुतस्वर्गयागसाध्यसाधनसम्बन्धान्यथानुपपत्त्या यागजन्यः स्वर्गोत्पादनसामर्थ्यातिशयविशेषः कल्प्यते । तथापि समस्तवैदिकादृष्टार्थकर्म्मजन्यातिशयानुगतमपूर्वशब्दवाच्यं सामान्यं न सत्तातो ऽन्यत्प्रमाणान्तरेण लभ्यते । एवं सवनीयसूक्तादिमहेन्द्रादिदेवताविशेषावगमे ऽपि सर्वदेवतानुगतं सामान्यं देवताशब्दवाच्यं न सत्तातो ऽन्येन लभ्यते ये हि जनाः पुण्यकृत इत्यादिवाच्यशेषाच्च नक्षत्रलोकादिस्वर्गविशेषावगमे ऽपि न च वै स्वर्गलोका इत्यादिवाक्यशेषेभ्यो ऽनेकस्वर्गावगतेः सर्वानुयायिस्वर्गशब्दवाक्यं सत्तातो ऽन्येन लभ्यते इति बलात्सत्तैवापूर्वादिशब्दवाच्या स्यादित्याशङ्क्याह कार्येति सामान्येनेतीत्थम्भूतलक्षणे तृतीया । सामान्यरूपमप्यपूर्वादिसत्ततो ऽन्यदेव लभ्यतइत्येवकारार्थे तुशब्दः । किं तदित्यपेक्षिते सर्वातिशयानुवर्त्तिस्वर्गादिकार्योत्पादनसामर्थ्यसामान्यमपूर्वशब्दवाच्यं सर्वेन्द्रादिदेवतानुवर्त्तिदीव्यतिधात्वर्थयोगित्वसामान्यं देवताशब्दवाच्यम् । सर्वस्वर्गानुवर्त्तित्वदुःखमिश्रसुखनिष्ठसुखसङ्गतिसामान्यं स्वर्गशब्दवाच्यमित्युक्तम् । श्लोकं व्याख्यातुमपूर्वशब्दस्य तावत्सत्तातिरिक्तसामान्यवाचित्वमुपपादयति सर्वेति ननु लोकिकसाधनगतानां सामर्थ्यानां कार्यार्थापत्तिगम्यत्वे ऽप्यपूर्वशब्दवाच्यत्वाभावात्तद्वाच्यानां च वैदिकयागादिजन्यानां सामर्थ्यानां विशेषतः श्रुतार्थापत्तिगम्यत्वे ऽपि सर्वकर्मसामान्यविध्यभावेन सामान्यतः प्रमाणान्तरेणानवगमात्सम्बन्धग्रहणासम्भवेन कथमपूर्वशब्दाभिधेयतेत्याशङ्क्य यागादीत्युक्तम् क्लृप्तावयवसमार्थ्यनुसारेणैवापूर्वशब्दस्य सत्ता वैदिककर्मजन्यातिशयविशेषवर्त्त्यवान्तरसामान्याभिधायकत्वोपपत्तेर्न पृथक्सम्बन्धग्रहणापेक्षेति भावः । देवताशब्दस्य सत्तातिरिक्तसर्वदेवतावर्त्त्यवान्तरसामान्यवाचित्वमुपपापयति तथेति दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति सप्तस्वर्थेषु स्मृताद्दीव्यतेर्धातोर्घञि कृते देयशब्दव्युत्पत्तेः । सर्वेन्द्रादिदेवानुगतस्य क्रीडादिदीव्यत्यर्थयोगस्य सामान्यस्य सत्तातिरिक्तस्य सद्भावात्सुज्ञानो देवशब्देन सह देवानां सबन्ध इत्यर्थः । सत्ताव्यावृत्त्यर्थो विशेषशब्दौपाधिकत्वाद्वा देवशब्दस्यापूर्वशब्दवदेव जातिवाचित्वनिराकरणार्थः । ननु क्रीडादिदीव्यत्यर्थयोगस्य प्रमाणान्तरेण देवेष्वनवगमात्कथं तद्योगनिमित्तेन देवशब्देन सह सम्बन्धज्ञानमित्याशङ्क्यार्थान्तरानवगमे ऽपि द्युत्यादेर्दीव्यत्यर्थस्य चन्द्रादौ प्रत्यक्षेणोपलम्भाद्देवशब्दप्रवृत्तिनिमित्तत्वं भविष्यतीति दर्शयितुम् द्योतन्ते वेत्युक्तम् ग्रहशब्देनैव चन्द्रादित्योपादाने सिद्धे ऽपि द्युत्यतिशयात्तयोः पृथगुपादानं चन्द्रतारकेभ्यो नक्षत्राणां द्युत्यतिशयात्पृथगुपादानं रूपेणेतीत्थम्भूतलक्षणे तृतीया योजना तु दीव्यन्तीति व्युत्पत्त्या क्रीडादिदीव्यत्यर्थयोगात्सर्वे देवाश्चन्द्रादिरूपेण गगने स्थिता द्योतन्तइति दिव्यत्यर्थः । द्युतियोगाद्देवाः वायवः सततगत्या दीव्यत्यर्थगतियोगाद्देवाश्च शब्दोपात्ताश्चेतरे सर्वे ऽपि वा स्तूयन्तइति दीव्यत्यर्थस्तुतियोगाद्देवा इति प्रकारवचनमितिकरणं निरावर्त्त्य कार्या गत्येत्यत्र तु तृतीययैवेतिकरणार्थस्य लब्धत्वान्नेति करणापेक्षा आर्थवादिकीनां स्तुतीनां विधिशेषत्वेन देवता स्वरूपपरत्वाभावान्मन्त्रैरित्युक्तम् । अस्य च ग्रन्थस्य क्रमेण श्लोकगतेन्द्रादिपदोपात्तार्थविवरणत्वावगमात्सर्वेन्द्रादिदेवतागतदेवता1 त्वसामान्यपरमिन्द्रादिपदमवसीयतइति कृत्वा तथास्माभिर्व्याख्यातम् । स्वर्गशब्दस्य सत्तातिरिक्तार्थवाचित्वमुपपादयितुं नक्षत्रदेशो वा मेरुपृष्ठं वा विशेष एवं स्वर्गशब्दवाच्यो न सामान्यमिति प्रकारद्वयं तावदाह तथेति वैदिकेन प्रकृष्टेन स्पष्टेन वादेन तन्मूलेन च पौराणिकानां मातल्यर्ज्जुनसम्वादादिगतेन दर्शनेन याज्ञिकानां धाइ गन्मस्तुवः सञ्ज्योतिषा भूमेत्यादिप्रोत्साहनमन्त्रार्थानुसन्धानरूपेण दर्शनेनेत्यर्थः । वैदिकप्रवादद्वयं यथा वेद इत्युपक्रम्योदाहृतम् । ननु न च वै स्वर्गलोका इत्यादिदर्शनेनानेकस्वर्गानुगतसामान्यं स्वर्गशब्दवाच्यमङ्गीकार्यं न वा तत्सत्तातो ऽन्यत्सम्भवतीत्याशङ्कानिराकरमार्थत्वेन निर्मिश्रसुखसङ्गतिरित्येतद्व्याचष्टे अथ वेति केवलमेव सुखं स्वर्गशब्देनोच्यतइत्यनुष [२५५।१] ङ्गः । सुखस्य केवलं दुःखामिश्रत्वमुपपादयितुं दुःखाभावे ऽप्यलम्पातदुःखासद्भावे ऽपि च व्यतिरेकाद् दुःखाद्विभक्तमित्युक्तम् नन्वेवं सति कियत्कालं केवलसुखस्येहापि दर्शनात् स्वर्गस्यामुष्मिकत्वं न स्यात् इत्याशङ्कय यदित्युक्तम् सर्वसुखसाधनसम्पन्नस्यापि पिपासादिदुःखाभावे स्वादूदकपानाद्यप्रवृत्तेः कं चित्कालं दुःखस्यापरिहार्यत्वादिष्टवियोगादिदुःखस्य चापरिहार्यत्वाच्चिरकालं केवलसुखोपभोगस्यास्मिन् देशे ऽनुपपत्तेः । परलोकभोग्यत्वादल्पकालस्य च केवलसुखस्य स्वर्गशब्दानभिधेयत्वात्पारलौकिकता सिद्धेत्यर्थः । ननु चिरकालोपभोग्यस्य केवलसुखस्य प्रमाणान्तरेणानवगमात्कथं सम्बन्धग्रहणमित्याशङ्कां निराकुर्वन्स्वर्गादिशब्दार्थनिरूपणस्य प्रकृतसत्तावाचित्वनिराकरणोपयोगित्वमुपसंहरति तच्चेति यागादिजन्यस्य चिरकालकेवलसुखस्य प्रमाणान्तरेणाग्रहणे ऽपि लौकिके एव सुखे ऽन्वयव्यतिरेकाभ्यां दुःखामिश्रात्सुखान्निष्कृष्टे गृहीतसम्बन्धः स्वर्गशब्दो ऽल्पकाले सुखे तद्विना प्रत्यासत्तिजन्यदुःखापरिहारेणामिश्रत्वायोगात्कैवल्येनैव चिरकालताक्षेपाद्विशिष्टमेवालौकिकं प्रतिपादयतीत्याशयः । स्वर्गशब्दस्य सत्तावाचित्वनिराकरणोपसंहारेणेतरयोरपि तुल्यन्यायसिद्धत्वात्पृथगनुक्तिः अतश्चापूर्वादिशब्दभोग्यं गवादिशब्दानां स्वार्थाभिधानेन मन्त्रागमकतया ऽस्मत्पक्षे ऽप्युपपन्नमित्याह तेनेति परपक्षनिराकरणमुपसंहरति अतश्चेति नन्वेवं तर्हि गोत्वादेरश्वादिभ्यो व्यावृत्तत्वेन विशेषरूपत्वादाकृतिवाच्यत्वपक्षो ऽनुपपन्नः स्यादित्याशङ्क्याह गोत्वेति अश्वादिभ्यो व्यावृत्तत्वे ऽपि शाबलेयादिष्वनुवृत्तेः सामान्यरूपताप्यस्तीत्याशयः । कुत इति सन्देहे तु प्रश्नभाष्यं द्वयोः प्रतीतेरेकाभिधानेनैवाविनाभावादितरप्रतीतिसिद्धेः सन्देहहेतोः स्पष्टत्वादयुक्तमाशङ्क्य व्यक्तिपक्षनिश्चयाभिप्रायत्वेन व्याचष्टे कुत इति सन्देहहेतुप्रतिपादनार्थं गौरिति भाष्यं प्रत्ययस्य व्यक्त्याकृत्योस्तुल्यत्वादयुक्तमाशङ्क्य प्रत्ययहेतुशब्दशक्तिलक्षणार्थप्रत्ययशब्दाङ्गीकरणेन व्याचष्टे उच्यतइति प्रत्ययशब्दस्यानार्जवं द्योतयितुं व्युत्क्रमेण व्याख्यातम् । नन्वेवं सति विरुद्धाव्यभिचारित्वापत्तौ केनान्येन निर्णय इत्याशङ्क्याह शक्तिति नात्रान्येन निर्णयः किं त्वनयोरेव बलाबलावधारणेनेति भावः । प्रयोगचोदनाभावादितिसूत्रं लोकवेदाधिकरणसिद्धान्ते ऽन्यथा योजितत्वाद्विवेकायाकृत्यधिकरणपूर्वपक्षे ऽप्यावृत्त्या योजयति किं तावदिति लौकिक एवार्थो वेदे ऽपीत्युक्तम् को ऽसावित्यपेक्षायां प्रयोगचोदनाभावं पर्यालोच्य यो युक्तः स इत्येवं व्यक्तिवाच्यत्वप्रतिज्ञावगतेः व्यक्तिर्वाच्येत्युक्तम् अर्थैकत्वमिति सूत्रावयवं द्वयोः प्रतीयमानत्वाद्वयक्तिमात्रवाच्यत्वं न युक्तमित्याशङ्कानिराकरणार्थत्वेन व्याख्यातुम् नन्वित्युक्तम् एकस्य वाच्यत्वे द्वयप्रतीतिः कथमित्याशङ्क्य द्वयप्रतीत्यपपादनार्थत्वेनाविभागादिति सूत्रावयवो व्याख्यातः । ननु शक्त्यनुसारेण शब्दानां वाचकत्वाच्छक्तेश्चान्वयव्यतिरेकाभ्यां जातावेव ज्ञातुं शक्यत्वात्कार्ययोगाभावे ऽपि तस्या एव वाच्यत्वं युक्तं न व्यक्तेरित्याशङ्क्याह नित्यमिति वाक्यार्थप्रतिपादनात्मकप्रयोजनकाले शब्दानामुच्चारितानां वाक्यार्थप्रत्यायनार्थत्वानुकारणैतद्वाक्यार्थप्रतिपादनोपयोगिपदार्थप्रतिपत्तिरेवंविधेन शब्दविभागेन भवतीति ज्ञात्वा तथाविधशब्दविभागावधारणम् । शब्दविभागसन्देहाभावे ऽपि वाक्यार्थविशेषोपयोगिशब्दार्थविशेषावधारणं तद्यथा श्वेतो धावतीत्यत्रार्थप्रकरणादिना गौरा निर्णेनेक्ति इत्येवं वाक्यार्थपरत्वावधारणे श्वेत इत्येकपदत्वं धावतेश्च निर्णेजनार्थतावधार्यते । अस्माद्देशाच्छीघ्रं गच्छतीत्येतद्वाक्यार्थपरत्वे ऽश्वा इति पदद्वित्वं गत्यर्थत्वं च धावतेर्निश्चीयते । एवं यथा येन प्रकारेण जातिवाच्यत्वनिरूपणरूपेण व्यक्तिवाच्यत्वनिरूपणरूपेण वा पदार्थानां वाक्यार्थप्रत्ययार्थता भवति तथा पदार्थानां जात्याख्यस्य व्यक्ताख्यस्य वा रूपस्य निरूपणं कार्यं न शक्त्यनुरोधेन कार्यावसेयत्वेन तस्यास्तदानुगुण्येन कल्प्यत्वादितिभावः । प्रयोगचोदनाभावव्याख्यानार्थमालम्भनेति भाष्यं व्याचष्टे आकृतिरिति ननु देवतोद्देशपूर्वकत्यागसङ्कल्पमात्रत्वाद्यागस्याकृतावप्युपपत्तिरित्याशङ्क्य नेत्युक्तम् निष्क्रियत्वेनाकृतेर्य [२५६।१] थेष्टविनियोज्यत्वलक्षणसत्तायोगात्स्वत्त्वनिवृत्तिरूपत्यागो न सम्भवतीत्याशयः । आदिशब्दोपात्तमवघाताद्ययोग्यत्वमुपपादयितुमाह अमूर्त्ता हीति अवघाताद्युत्तरकालं वा व्रीह्यादेस्त्याज्यत्वादाकृतेश्चावघाताद्ययोग्यत्वात् त्यागानुपपत्त्युपपादनार्थो ऽयं ग्रन्थः श्लोकद्वयं व्याचष्टे व्रीहीनिति यावन्तो ऽवघातादयः संस्कारा विनाशिमूर्त्तिमद् द्रव्यविषयत्वादाकृतौ न युज्यन्ते ये चावेक्षणादयो विनाशिमूर्त्तिमद् द्रव्यविषयत्वाभावे ऽपि यागापूर्वख्यप्रयोजनसिद्ध्यर्थत्वादाकृतेश्च यागसाधनत्वाभावान्न तत्र युज्यन्ते । तेषां सर्वेषां या प्रयोगचोदना तस्या आकृतावभावाद् व्यक्तौ च भावाद्विधिविषयत्वयोग्यो यो व्यक्त्याख्यः पदार्थस्तत्कल्पनमवश्याङ्गीकर्त्तव्यमित्यन्वयः । कथं व्यक्तेर्विधिविषयत्वयोग्यतेत्यपेक्षिते वाक्यार्थेत्युक्तम् ननु विधिविषयत्वायोग्यत्वे ऽप्याकृतेः सम्बन्धग्रहणवशाद्वाच्यत्वं भविष्यतीत्याशङ्क्य कार्येत्युक्तम् कार्योपयोगिन्येवार्थे सम्बन्धग्रहणसम्भवो नेतरत्रेत्याशयः । कथमित्यपेक्षायाम् विध्यधीनत्वाच्चेत्युक्तम् शब्दश्रवणानन्तरभाविन्या हि प्रयोज्यवृद्धप्रवृत्त्या तद्विषयज्ञानमनुमाय तत्कारणत्वं शब्दस्य कल्प्यमानं प्रवृत्तेर्विध्यधीनत्वात्तद्विषयज्ञानकारणत्वमेव कल्पयितुं युक्तमिति भावः । एतच्च पूर्वोक्तमेव विवरीतुं भाष्यव्याख्यावसरे ऽभिहितमिति न पौनरुक्त्यम् । आकृतेर्निषेधविषयत्वासम्भवमुपपादयति तथेति उपसंहरति तस्मादिति यद्यप्यन्वयव्यतिरेक निष् कृष्टशक्तिवशेनाकृतेस्तत्त्वतो वाच्यतावधारयितुं शक्या । तथापि कार्यानौपयिकत्वेनास्याः पदार्थकल्पनात्तत्वज्ञानमात्राददृष्टसिद्ध्यर्थं स्यात्प्रयोगचोदनाविरोधित्वात्त्वसावयुक्तेत्यर्थः । अर्थैकत्वमिति सूत्रावयवावतारणार्थं यत्रेत्याशङ्काभाष्यं व्याचष्टे स्यादिति एतदाशङ्कानिराकरणार्थत्वेन सूत्रावयवव्याख्यानार्थमुक्तमिति भाष्यं व्याचष्टे तदिति केन न्यायेनेत्यपेक्षायामन्यायश्चानेकशब्दत्वमितिसूत्रं भाष्यकृता ऽन्यायश्चानेकार्थत्वमित्यूहित्वा पठितमिति व्याचक्षाणः सूत्रोक्तं न्यायत्रयमाह अनवस्थितेति यववराहाधिकरणोक्तन्यायपरामर्शार्थं वेदं भाष्यमितिव्याख्यानान्तरार्थं तत्र न्यायमाह सम्बन्धानां चेति यथैव सदृशानां प्रियङ्गुदीर्घशूकादीनामेकाभिधानेनैवेतरप्रतीतिसिद्धेर्यवादिशब्दानामर्थैक्यं स्थितम् । तथैव सम्बन्धानामप्येकाभिधानेनैवेतरत्र प्रतीतिसिद्धेरन्याय्यानेकार्थतेत्यर्थः । कथमित्याशङ्काभाष्यं व्याचष्टे कथं तर्हीति सादृश्यवत्सम्बन्धादप्येकाभिधानेनेतरप्रतीतिसिद्धावुक्तायामपि किमिह सादृश्यादेकाभिधानेनेतरप्रतीतिसम्बन्धाद्वेति विशेषजिज्ञासयोरन्वयः प्रश्नपूर्वव्याख्याने तु समञ्जस एव । व्यक्तिपदार्थकस्येत्यादिभाष्यमेतत्प्रश्नासम्बन्धत्वादुपेक्ष्य स्वयमविभागादिति सूत्रावयवमेतत्प्रश्नायाकरणार्थत्वेनावतारयति अत आहेति इह च प्रश्नोत्तरएव सम्बन्धाद्भाष्यकतः शून्यहृदयाभिधानपत्तेरेतदाशङ्कापरिहारासामर्थ्याच्च शुद्धव्यक्त्यभिधानपक्षत्यागादाकृतिविशिष्टव्यक्त्यभिधानपक्षपरिग्रहार्थत्वेनोत्तरभाष्यव्याख्याने प्रतिज्ञासन्न्यासाख्यनिग्रहस्थानापत्तेर्विभागादिति च सूत्रावयवेनैव सुपरिहरत्वेनासामर्थ्यायोगात्सूत्रावयवव्याख्योपेक्षाकारणाभावाच्चैतत्सूत्रावयवव्याख्यानार्थं व्यक्तिसम्बन्धादित्युत्तरभाष्यं, कथं व्यक्त्यन्तरेण प्रयोग इति चाशङ्कान्तरभाष्यं भाष्यकृतोक्तमपि लेखकैः प्रमादान्न लिखितं लिखितमपि प्रलीनमिति प्रतिभाति । अवतारितं सूत्रावयवं व्याचष्टे यतस्त्विति शङ्कानिराकरणार्थस्तुशब्द । एतच्च यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीतो भवति भवति खल्वसावलङ्गुणवति प्रत्ययमाधातुमिति तद्भूताधिकरणभाष्येण तुल्यन्यायत्वादुक्तं भवतीत्याह तदुक्तमिति नन्वालम्भादिचोदनासु व्यक्त्योर्वाच्यत्वं श्येनचितादिचोदनासु त्वाकृतेरेव क्रियार्थत्वाल्लक्षितायाश्चाशाब्दत्वेन धूमगम्याग्निवच्छाब्दक्रियान्वयायोगात्तस्या एव वाच्यताङ्गीकार्येत्याशङ्क्याह यस्य त्विति शङ्कानिराकरणार्थस्तुशब्दः गौणलाक्षणिकत्वयोः शब्दस्य शक्त्यभावे ऽपि तात्पर्यसद्भावाच्छ्वशुराल्लज्जते स्नुषेत्यादौ च पुत्रविशिष्टभार्यादिवाचिनः सुखादिशब्दस्य विशेषणभूतपुत्राद्यनभिधाने विशेष्यभूतभार्याभिधानाशक्तेः स्नुषादिशब्दाभिहितस्यापि पुत्रादेर्ल्लज्जादिक्रियान्वयादर्शनेन तात्पर्यवृत्तेरेव पदार्थान्वयकारणत्वावसायाल्लाक्षणिका ऽप्याकृतिः क्रियात्वं प्रतिपत्तुं शक्तेत्याशयः । तस्य पदस्य तत्रस्थस्य तत्रैवार्थे वर्त्तमानस्येत्यर्थः । नन्वेवं सति व्यक्तेरपि लाक्षणिक्याः क्रियान्वयोपपत्तेर्जातिवाचितैव कस्मान्नेष्टेत्याशङ्क्याह इत्यपि चेति इति [२५७।१] करणो ऽयमेवशब्दार्थे एवमपीत्युक्तं भवति यद्यप्युभयथापि क्रियान्वयो युज्यते तथाप्याकृतेर्व्यक्तिविशेषनिश्चायकत्वाभावाद्व्यक्तेश्चाकृतिविशेषनिश्चायकत्वसद्भावादाकृतेरेव लाक्षणिकत्वं युक्तं न व्यक्तेरित्यर्थः । उपसंहरति तस्मादिति ननु विकल्पादिपक्षान्तरसम्भवान्नायमुपसंहारो युक्त इत्याशङ्क्याह न चेति अद्रव्यशब्दत्वादितिसूत्रं स्वयं तावद्व्याचष्टे अपि चेति पूर्वस्मिन्नेव पक्षे ऽयमपि हेतुरित्यपि च शब्दस्यार्थः । जातिपक्षे द्रव्यशब्दत्वाभावापत्तेर्व्यक्तेरेव वाच्यतेत्युक्ते तदापत्तौ को दोष इत्यपेक्षायाम् सामानाधिकरण्यं हीत्युक्तम् ततश्चेत्यर्थे हिशब्दः श्लोकं व्याचष्टे गोशब्दादीनामिति एतदेवोपपादयति गोत्वस्येति ननु गोत्वस्य शुक्लदिगुणैः सहैकार्थसमवायलक्षणः सम्बन्धो ऽस्तीत्याशङ्क्याह न हीति व्यक्तिद्वारस्यैकार्थसमवायस्य व्यक्त्यनभिधाने रूपरसादिशब्दवत्सामानाधिकरण्यानापादकत्वात्साक्षात्सम्बन्धेन भाव्यं न चासावस्तीति भावः । ननु व्यक्तिपक्षे गोशब्देन जातिविशिष्टायास्तदुपलक्षिताया वा व्यक्तेरभिधानाच्छुक्लशब्देन च गुणविशिष्टायास्तदुपलक्षितया वा ऽभिधानात्तयोश्चैकत्वे प्रमाणाभावत्कथं सामानाधिकरण्यमित्याशङ्क्याह मम हीति व्यक्तिपक्षे सर्वव्यक्त्यभिधानाद्गोशब्दस्य शुक्लायामपि गोव्यक्तौ वृत्तेः शुक्लशब्दस्य च गोजातीयायामपि शुक्लव्यक्तौ वृत्तेरैकार्थासिद्धिः । जातिपक्षे तु व्यक्तेः शब्देनानुक्तत्वाल्लक्ष्यमाणायाश्चैकत्वे प्रमाणाभावाद्गवाश्वशब्दयोरिव भिन्नार्थतेति भावः । मम हि व्यक्तीति व्यक्तिशब्दः । न बलत्वद्रव्येति द्रव्यशब्दः । उत्तरार्धे पूर्वार्धस्य विपर्ययेणाव्यक्तिशब्दत्वादिति वक्तव्ये द्रव्यशब्दव्यतिकरेण मिश्रणेन गुणशब्दस्य गुणवचनशब्दस्य शुक्लादिशब्दस्य गुणवचनशब्दस्य शुक्लादिशब्दस्य गुणोपलक्षितद्रव्यवाचित्वमेव न तु गुणवाचित्वामिति व्यक्त्यभिधानपक्षे पूर्वपक्षमते सूचितमित्यन्वयः । व्यक्तिद्रव्यशब्दव्यतिकरेण इति सूचितमित्यन्वयः । मम हि व्यक्तीति व्यक्तिशब्दः न बलत्वद्रव्यशब्देति च द्रव्यशब्दः तयोः झटित्यन्वयव्यतिरेकयोरेकविषयत्वोपस्थित्यै व्यक्तिशब्दस्य द्रव्यशब्दस्यैव वा उभयत्र प्रयोज्यत्वौचित्ये ऽपि तयोः व्यतिकरः भिन्नरूपयोः प्रयोगः तेन गुणशब्दस्य गुणवचनसञ्ज्ञकशब्दस्य गुणव्यक्तिवाचित्वशङ्काया व्यक्तिवाचित्वपक्षे प्रसक्ता सा1 गुणशब्दस्य गुणोपलक्षितद्रव्यवाचित्वं न तु गुणव्यक्तिवाचित्वं जातिपक्षोक्तदोषसाम्यादिति सूचितम् । श्लोकं व्याचष्टे जातीति ननु गोशब्देन कृष्णादिव्यक्तीनामप्यभिधानाच्छुक्लशब्देन चाश्वादिव्यक्तीनामप्यभिधानात्कथं सामानाधिकरण्यमित्याशङ्क्य तच्चेत्युक्तम् द्रव्यान्तराभिधाने ऽपि तस्यापि तावदभिधानात्सा मानाधिकरण्यसिद्धिरित्यपिशब्दार्थे चशब्दः नन्वाकृतिपक्षे ऽपि तर्हि जातिगुणाभ्यां लक्षितस्य द्रव्यस्यैकत्वमपि सम्भवतीति पाक्षिकं सा2 माधिकरण्यं स्यादित्याशङ्क्य एवंविधमपीत्युक्तम् व्यक्तिपक्षे भिन्नव्यक्तिवाचित्वे ऽप्येकव्यक्तिवाचित्वं नित्यमस्ति । जातिपक्षे तु भिन्नार्थत्वसङ्कीर्णमप्येकार्थत्वं नास्तीत्यर्थः । अद्रव्यशब्दत्वादित्यस्याकृतिपक्षे लक्षणयाप्येकद्रव्यशब्दत्वाभावप्रसङ्गादित्येवं साक्षात्सामानाधिकरण्याभावप्रसङ्गाभिधानपरत्वेन व्याख्यानान्तरमाह इतीति ननु द्रव्याश्रयस्येति भाष्ये ण द्रव्यशब्दस्य लक्षणया गुणपरत्वमुक्त्वा न भवेदिति नञो भवतिनान्वयः कृतः तत्किमित्यन्यथा भवता व्याख्यातमित्याशङ्क्याह यत्त्विति कथं द्रव्यशब्देन गुणलक्षणेत्यपेक्षायां तत् द्रव्यमाश्रयो ऽस्येत्युक्तम् भेदाधिष्ठानत्वाच्चाश्रयाश्रयिभावस्य यत्र पदस्य युक्त इति व्यधिकरणत्वेन निर्द्दिष्टस्य गुणस्य प्रयोगस्तदर्हत्वमप्यनेनैवोपपादितम् । अतिक्लिष्टत्वोपपादनार्थमप्रधानभूतगुणविपरीतार्थेन प्रधानभूतार्थेन द्रव्यशब्देन लक्षणा । नञश्च भवत्यर्थसापेक्षस्य द्रव्योपसर्जनत्वेनासमर्थस्य द्रव्यशब्देन समासाङ्गीकरणमुक्तम् यद्यपि क्रिया न स्यादिति चेदर्थान्तरे विधानं द्रव्यमिति चेदित्यनुभाषणसूत्रगतो द्रव्यशब्दः षडादिशब्दस्य द्रव्यवाचित्वाभावादगत्य गुणलक्षणार्थो व्याख्यायते तथापीह द्रव्यशब्देनैव गुणस्य वक्तुं शक्यत्वात्तल्लक्षणाश्रयणं युक्तमित्याशयः । किमेवं सत्ययुक्तमिदं भाष्यमित्याशङ्क्याह तत्रापि चेति नात्र द्रव्यशब्देन समस्तस्य नञो भवत्यन्वयो विवक्षितः । किं त्वकारप्रश्लेषेण गुणशब्देनाद्रव्यशब्दएव सौत्रे व्याख्यानायोक्तः । जातिशब्दस्याप्यद्रव्यशब्दत्वोपपत्तेः कथं गुणशब्दस्यैवाद्रव्यशब्दतेत्याशङ्कानिराकरणार्थं द्रव्यत्वेन नापर्युदस्ते तदन्यापेक्षायां द्रव्यैकाश्रयत्वाद् गुण एव शीघ्रमुपतिष्ठते जातिस्त्वनेकद्रव्यगुणकर्माश्रयत्वान्न शीघ्रमुपतिष्ठतइत्यद्रव्यशब्देन गुणाभिधानाद् गुणशब्द एवाद्रव्यशब्द इति द्रव्याश्रयस्येत्युक्तम् नन्वेवं सति नकारा [२५८।१] न्तराभावान्न द्रव्याश्रयवचन इति भाष्यं कथमित्याशङ्क्याध्याहारेण योजयितुम् स आकृतेरित्युक्तम् स्वरूपेण शब्दस्य निषेद्धुमशक्यत्वाद्यस्याकृतिः शब्दार्थ इति चानन्तरमभिधानादाकृतिवाचिशब्दसम्बन्धिनश्चेदित्यर्थलाभं मत्वा एकवाक्यसम्बन्धमित्युक्तम् । नन्वेवं सत्यन्याय्यलक्षणासमर्थसमासदोषपरिहारादक्षरार्थमात्रस्य सम्भवेनैषा योजनेति किमित्युक्तमित्याशङ्क्याह सामानाधिकरण्येति षड्गावो देया इति समानाधिकरणनिर्द्दिष्टगुणशब्दोदाहरणाद्गोशब्दस्याकृतिवाचित्वे तत्सामानाधिकरण्यं षडादिशब्दानां न युज्येतेति पूर्वपक्षिणः सिद्धान्तबोधं प्रतीयते । तच्च भेदाधिष्ठानाश्रयाश्रयिभावोक्तेर्निष्कृष्टगुणवचनस्याद्रव्यशब्दत्वावसायात्तस्य च व्यक्तिपक्षे ऽपि गुणव्यक्तिपर्यवसायित्वेन द्रव्यव्यक्तिपरत्वाभावाविशेषात्तदानीमपि क्लेशेनाक्षरार्थयोजनायामप्यनुपपन्नमेवेत्यर्थः । का तर्हिसूत्रस्य गतिरित्याशङ्क्याह इतीति यास्माभिर्व्यक्तिद्रव्यशब्दव्यतिकरेण व्यक्तिपक्षे गुणोपलक्षितद्रव्यव्यक्तिवाचित्वं गुणशब्दानां सूचयित्वा जातिपक्षे द्रव्यशब्दत्वाभावात्सामानाधिकरण्यं न सम्भवतीति व्याख्या कृता सैव युक्ता न तु या भाष्यकृता गुणशब्दस्य व्यक्तिपक्षे गुणव्यक्तिवाचित्वमभिप्रेत्य कृता तस्मिन्व्याख्याने सामानाधिकरण्याभावप्रसङ्गत्योभयवादिसाम्येनाचोद्यत्वापत्तिरित्यर्थः । अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तरगतभाष्यं स्पष्टत्वादुपेक्ष्याकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतीति भाष्यं दुष्टत्वसामान्येन बुद्धिस्थमपठित्वैव दूषयति । किं चेति न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति किं चशब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानादेकशब्दस्य चापो भूयिष्ठा इत्येको अब्रवीदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थलाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् नैवाकृतिस्तु क्रियार्थत्वादिति वदता सूत्रकृतेष्टकाभिराकृतिसम्पादनमभ्युपगतं येन च यत्र साकृतौ सम्भवतीत्येवं सूत्रव्याख्या युज्येतेत्यर्थः किमिति नाभ्युपगतमित्याशङ्क्याह यत इति स्वरूपेण जातेर्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यं । तदपि नित्येष्वात्मादिषु नित्यसिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव तदारब्धे द्रव्ये जातिसमवायाच्छ् येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवं रूपस्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गान्नेदमभ्युपगतमित्यर्थः । क स्तर्हि श्येनवचनचोदनार्थ इत्याशङ्क्याह पिष्टेति अमी पिष्टपिण्उाः सिंहाः कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहाकृतिसादृश्यसम्पादनं चोदनार्थस्तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वात्तद्वाचित्वे श्येनशब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते श्येनव्यक्तेश्च यत्नेनानुत्पाद्यत्वे ऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च पश्चाच्छ् रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य पक्षद्वये ऽपीत्यक्तम् श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्नयाधारत्वायोगेनाग्न्याधारानुपपत्तेः । कर्मण्यग्न्याख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वाश्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथमस्य श्येनशब्दस्याकृतिवाचित्वेन निश्चय इत्याशङ्कयाह सा त्विति सा सादृश्यसम्पत्तिः श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्तस्य च कतिपयविशेषोपादानेन सम्पादयितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्यसम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरतत्यन्तकुशलेनापि सम्पादयितुं शक्यमिति भावः । अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतं ततस्त्वस्यैवंविधमिति निरूपणरूपविकल्पगोचरत्वाभावान्नानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथं चिच्छक्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविधमिति विकल्पागोचरत्वात्सादृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपातात्सामान्येनैवोक्तं स्यात्तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेरसाधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यतइत्याशङ्क्यानिर्धारितविशेषया यया कया चिद्वयक्त्या सादृश्यं विधीयेत निर्धारितविशेषया वा यया कया चिदिति विकल्पाद्यपक्षे तावद् दूषणमाह सामान्येति सामान्य विशेषावच्छेदकत्वेन यन्नापेक्षते सादृश्यं1 तत्तथोक्तम् । तच्च व्यक्तिमात्रे ऽपि नित्यप्राप्तं सर्वस्य येन केन चित्सादृश्यावश्यं भावादित्यर्थः । श्येनव्यक्त्या यया कया चिदिति तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य श्येनव्यक्तिमात्रस्याभावाच्छे्यनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु यद्व्यक्तिसादृश्यं विहितं तद्दर्शिभिस्तत्सादृश्यस्याशक्यसम्पाद्यत्वाद्वयक्त्यन्तरसादृश्यस्य चाविहितत्वात्सर्वपुरुषविषय त्वं शास्त्रस्य व्याहन्येतेत्याह एकेति सूत्रार्थमुपसंहरति तस्मादित ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगे ऽपि चयनोत्पादकत्वेन विधिः सम्भवति एकव्यक्त्यनुत्पाद्यत्वे ऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साधकतम इत्यनेन श्येनशब्दार्थस्येप्सिततमत्वावगतेः साधनत्वेन विधिर्न सम्भवतीत्युक्तं तदुपपादयति न हीति यद्यप्ययं कर्मशब्दः क्विप्प्रत्ययवाच्यविशेषणत्वान्नोपपदविशेषणं तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न शब्दार्थस्य कर्मतावसीयतइत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे श्येनमिति ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्याशङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह तत्रापीति श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थो ऽनेन दर्शितः चयनमाकृतौ सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोपपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य किं पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तं नाकृतिवाच्यत्वनिश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तर्ह्याकृतिवाच्यत्वनिश्चय इत्यपेक्षायामाकृतित्स्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणादयुक्तमाशङ्क्य सङ्क्षेपेण व्याचष्टे असाधारण इति व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृतिवाच्यत्वं निश्चीयतइति भावः । ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति तद पारिशेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदितिभाष्यं व्याख्यातुमसाधारणे वाच्ये ऽङ्गीक्रियमाणे शब्दस्य प्रभूतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येतदेवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषवियुक्ता हीत्यनेनैकापि व्यक्तिर्न शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यं किं चिद्धि सामान्यरूपं किं चिद्धि विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं पद्वियुक्ते रूपं कथं प्रवर्तेतेत्याशयः । ननु सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावे ऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति । न च तदेवसामान्यम् वस्तुरूपत्वादिति नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन भाष्येणाशङ्क्य सामान्यविशेषरूपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्तिष्वपि भावाद्गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनार्थं यदीति भाष्यं व्याख्यातुम् अव्यपदेश्यत्वेन चेत्युक्तम् ननु सामान्यविशेषवियुक्तत्वाविशेषे ऽप्यृगादिशब्दवत्प्रयोगतो व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथं चित्प्रयोगसम्भवे ऽपि व्यवहारकालीनस्य प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद्गौर्न पदास्पृष्टव्येत्यादौ शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थप्रतिपादकं सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम् सामान्याकारेण वेत्युक्तम् गौर्न पदा स्पृष्टव्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते तत्र विकल्पः प्रसज्येतेत्यर्थः । ननु व्यक्तिवाचिनो ऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्याशङ्क्य व्यापकेत्युक्तम् गोत्वैकार्थसमवायिनां शाबलेयत्वाद्यवान्तरसामान्यरूपाणां विशेषाणां गोत्वव्याप्यत्वाश्वव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दाभिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वासाधारणशब्देनोक्तत्वात् व्यक्तिः परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद्गोत्वापेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकाग्न्यपेक्षत्वे ऽपि तदाश्रयस्यासाधारणस्याग्न्यपेक्षा नास्ति वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चये ऽप्यनिश्चयादिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षयेत्युक्तम् नन्वसाधारणरूपेण व्यक्तेः शब्दार्थत्वासम्भवे ऽपि शाबलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्वरूपेण शब्दार्थत्वोपपत्तेः । कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्क्याह तत्रेति तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यं तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः सम्बन्धानित्यत्वापत्तिर्विकल्पप्रसङ्गा शेषव्यक्त्यानय।?।नापत्तिः । नित्यबहुवचनप्रसङ्गशुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एतेनैव व्यक्त्यभिधानपक्षे सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां वाच्यतेत्याह न चेति नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्वयक्त्याकृत्योर्विकल्पेन समुच्चयेन वाभिधाननिरासेनैव निरस्तमित्याह एतेनेति व्यक्तिविशिष्टाकृतिपक्षो ऽपि व्यक्तेर्विशेषणत्वेन पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह व्यक्तीति एतेन प्रयुक्त इत्यनुषङ्ग । आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैर्निराकर्त्तुमाह सम्बन्धेति सम्बन्धसमुदाययोरपि वाच्यत्वाभ्युपगमे ऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशेषणता ऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते स्वरूपेत्युक्तम् सम्बन्धो ऽयं समुदायो ऽयमिति स्वतन्त्ररूपेणाप्रतीते सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायनिरूपणस्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षायामाह तत्रापीति व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह व्यक्त्यंशे चेति समुदायस्य स्पर्द्धमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिक्रियासाधनविशेषणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पर्द्धमानयोर्व्यक्त्याकृत्योर्नास्त्येवेत्याह न चेति जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह अ [२५९।२] नन्त्यन्तेति आकृतिविशिष्टव्यक्तिपक्षे ऽपि व्यक्तिविशिष्टो वाकृतिविशिष्टो वाच्यो व्यक्तिमात्रं च विकल्प्याद्यपक्षं तावद् दूषयति आकृतीति द्वितीयपक्षे त्वाकृतिव्यतिरिक्ततद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह व्यक्तीति एवमाकृतिव्यतिरिक्तायास्सप्तपक्ष्या निरस्तत्वात्तन्निरासेनैव च व्यतिकीर्णपक्षनिराससिद्धेर्लिङ्गकारकसङ्ख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वसिद्धेः शब्दस्वरूपस्य च प्रत्यक्षसिद्धत्वेनावाच्यत्वस्य नात्मानमभिधत्ते हिशब्दः कश्चित्कदा चनेति शून्यवादवार्त्तिकपाठनिरस्तत्वात्पारिशेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम् इदानीम्
तत्र प्रयोगबाहुल्यात्तद्विशेषेषु सत्स्वपि ।
प्रयोगात्परसामान्ये सति वाप्यप्रयोगतः ॥
सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः ।
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥
इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यतावसीयतइत्याह नानेति गोत्वाकारविषयैव गोशब्दस्य वाच्येन सह सम्बन्ध वाचकत्वरूपे शक्तिरन्वयव्यतिरेकाभ्यां गम्यतइत्यर्थः कृत्तद्धिकसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्द शब्दशक्तिजन्यज्ञानकर्म्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य गोत्वाकाराश्रितैव गोशब्दं प्रति वाच्यत्वरूपा शक्तिरिति योज्यम् । ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः तस्य च सन् द्विष्ठवस्तुविषयत्वात् कथं निष्कृष्टैकाकारविषया शक्तिरवसीयतइत्याशङ्क्य तद्भेदेत्युक्तम् सर्वात्मकवस्तुविषयत्वे शब्दशक्तेरेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात्तद्भेदाद्वस्तुगतान् भिन्नाकारांश्छब्दशक्तयो ऽनुसरन्तीत्यर्थः । भिद्यन्तइति भेदाइति व्युत्पत्त्या वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसाराभावेनैकशब्दव्यक्त्यानर्थक्यप्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिनं निराकर्त्तुं नानाकारेष्वित्युक्तम् नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः । ननु गोत्रमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्वप्राणित्वपार्थिवत्वद्रव्यत्वसत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शाबलेयत्वादीनामपि निश्चयः स्यादित्याशङ्क्याह तदेकेति सामान्यान्तरावगतिर्निश्चयस्तैः सामान्यान्तरैर्गोशब्दार्थस्य गोत्वस्य व्याप्तेर्विशेषैश्च साहचर्ये सत्यप्यव्याप्तेस्तेषां सन्देहनिवृत्तयेऽन्यतो ऽवधारणाकाङ्क्षेत्यर्थः । एवं सिद्धान्तमुपपाद्य पूर्वोक्तान् दोषान्परिहर्त्तुमाह अनत्यन्तेति आदिशब्दानित्यत्वम् । ननु वस्तुतो ऽत्यन्तव्यतिरेकाभावे ऽपि शब्दान्निकृष्टावगतेः कथं दोषप्रसङ्गाभावो ऽत आह सा हीति कैवल्याभिप्रायो निकृष्टशब्दो न स्वनिष्ठत्वाभिप्रायः । यद्यप्याकृतिः शब्दाच्छुद्धा प्रतीयते तथापि क्रियान्वयस्यापि प्रतीतेस्तदन्यथानुपपत्त्या व्यक्तितादात्म्यावगमात्सम्भवत्येव क्रियान्वय इत्यर्थः । प्रोक्षणादि तु व्यतिरेके ऽपि सम्भवतीत्याह प्रोक्षणेति क्षरणार्थसिञ्चतिधात्वर्थवाचित्वादुक्षतेः क्षार्यस्य चोदकादेरूर्ध्वाधोदेशविभागसंयोगमात्रेण सिद्धेराभिमुख्यमात्रेण क्षरणसिद्धिराभिमुख्यमात्रेण च जातेरपि द्रव्यवत्कर्म्मत्वोपपत्तेः । सिच्यमानस्योदकादेः कर्मीभूतव्रीह्यादिसंयोगानपेक्षणात्पुञ्जीकृतेषु च व्रीह्युपरिस्थितव्रीहितिरोहितानामधः स्थितानां व्रीहीणां सिच्यमानोदकसंयोगाभावेऽपि शास्त्रार्थनिष्पत्तिप्रसिद्धेः व्रीह्यादिसंयोगापेक्षायामनुपपत्तेःप्रोक्षणमाकृतेः स्वतोऽपि सम्भवति अवेक्षणं चाकृतेश्चक्षुःसंयुक्तद्रव्यसमवायत्प्रसिद्धमेव आदिशब्देन ध्यानोपादानं किमर्थं तर्ह्यव्यतिरेकोपन्यास इत्याशङ्क्याह विशसनादीति प्रतीतिसिद्धत्वाकृतेर्विशसनादियोगो न स्वमनीषिकामात्रकल्पित इत्याह तथा हीति पश्वादिष्वपनीताङ्गेषु विच्छिन्नावयवेषु या विशसनादिविशिष्टा बुद्धिः सामान्यविषयैव विभक्तैरवयवैः सामान्यमात्रानुमानोपपत्तेः । न तु व्यक्तिविषया व्यक्तिविशेषानुमानासम्भवे तत्तद्बुद्ध्यभावादित्यर्थः । नन्वाकृतेर्विशसनादियोगे सत्यत्वप्रसङ्गादनिष्टापत्तिः स्यादित्याशङ्कते नन्विति विनष्टव्यक्त्यात्मकरूपेणाकृतेरपि विनाशाभ्युपगमान्नानिष्टापत्तिरिति परिहरति तेनेति नन्वेवं सत्याकृतिपक्षे ऽपि सम्बन्धनित्यत्वं न सिद्ध्येदित्याशङ्कयाह आश्रयान्तरेति अत्यन्तव्यतिरेकवादिनाप्यन्तराले ऽनुपलम्भात् स्वपिण्डमात्राश्रिताकृतिरेष्टव्या तस्याश्चाश्रयविनाशे स्थातुमशक्तेरन्यत्र च गमनायोगादवश्याङ्गीकरणापत्तेराश्रयान्तराविनाशादेव नित्यत्वमेष्टव्यमिति सर्वैरित्यनेनोक्तम् एतदेव विवृणोति तेनेति नन्वत्यन्तव्यतिरेके ऽप्याकृतिलक्षितव्यक्तिद्वारेण प्रयोगचोदनोपपत्तेरित्यत्यन्तक्लिष्टभेदाभेदपक्षाश्रयणमित्याशङ्क्याह अत्यन्तेति अव्यवस्थामुपपादयितुमाह न चेति ननु पशुनोपलक्षितं द्रव्यं पशुं विशास्तीत्यादिधर्म्मविधीनां विषयो भविष्यत्यत आह तदुपलक्षितं त्विति द्रव्यरूपताया द्रव्यत्वप्रतिपादनं विना प्रतिपादयितुं शक्तेस्तदेव प्रतिपाद्यं स्यात्तत्र च स एव दोष इत्यर्थः । ननु द्रव्यत्वप्रतिपादनद्वाराप्याश्रयोपलक्षणोपपत्तेर्नामूर्त्तत्वदोषापत्तिरित्याशङ्क्याह आश्रयेति ननु पशुत्वेन स्वाश्रयोपलक्षणाद्वाक्छलमात्रेण द्रव्यत्ववदाश्रयपक्षदोषात्तत्वनिर्णयफलवादेन युक्तमित्याशङ्क्य पशुत्वाश्रयमात्रोपलक्षणे तस्य पश्वाकृतितोऽन्यत्वेनानिरूपणादाकृतेरेव बलाद्धर्माविषयत्वापत्तेराश्रयविशेषस्योपलक्षणं वाच्यं तत्त्वव्याप्ते न सम्भवतीत्याह विशेषस्त्विति परानभ्युपगतत्वादनाशङ्क्यात्वाच्च द्रव्यत्वस्येति दृष्टान्ततया व्याख्येयम् । अगम्यो।?। ज्ञातुमशक्य इत्यर्थः । आगमगम्य इति पाठस्त्वव्यापकत्वेन लक्षयितुं शक्यत्वाद्यदि परमागमगम्यः स्यान्न चासवस्तीत्युपहासार्थत्वेन व्याख्येयः । ननु निर्विशेषसामान्यानुपपत्तेः कस्य चिद्विशेषस्यावसायाद्धर्म्मविधिविषयत्वं भविष्यत्यत आह न वेति प्रत्येकरूपेण निर्द्धारितरूपेणानवगतं विधिना न सम्बन्ध्यतइत्यर्थः । ननु पशुत्वाश्रयो यो विशेष इत्येवं निर्द्धारणाद्विधिविषयतोपपत्स्यतइत्याशङ्क्याह न चेति पशुत्वाश्रयाणामनेकत्वात्सर्वेषां चोपादानाशक्तेरयं वोपादेयो ऽयं वेति सन्देहानिवृत्तेर्न निर्धारणोपपत्तिरित्याशयः । ननु सामान्यमात्रे पर्यवसिते ऽपि शास्त्रे ऽनुष्ठानवेलायां विशसनादेस्तत्रासम्भवात्तदाश्रयविशेषे प्रत्यक्षोपनयनेन निर्द्धारिते ऽनुष्ठानं भविष्यतीत्याशङ्क्याह न चेति यस्मादन्यत्रोक्तो धर्म्मस्तत्रासम्भवमात्रेणान्यत्र न कार्यतया शास्त्रेणानुज्ञातस्तस्मान्न सामान्ये कृतो विहितो विशेषेषु कर्त्तुं युक्त इत्यर्थः । किं च प्रत्यक्षैकसमधिगम्यस्यासाधारणस्य शब्दव्यवहाराविषयत्वाच्छुक्लादिरूपो विशेषो वाक्यस्तस्य चामूर्त्तत्वात्पशुत्ववदेव विधिविषयत्वास [२६०।२] म्भव इत्याह विशेषा इति उपसंहरति तस्मादिति अत्यन्तव्यतिरेकपक्षे च गौः शुक्ल इति सामानाधिकरण्यं पशुनेति लिङ्गकारकसङ्ख्यान्वयश्च लक्षणया स्यात्सा च लोके मुख्यत्वप्रसिद्धेरयुक्तेत्याह सामानाधिकरण्यादि चेति ननु यदि पशुं विशास्तीत्यादावन्यत्सव्यतिरेकपक्षे धर्म्मविधिविषयत्वयोग्या व्यक्तिर्न प्रतीयते कथं तर्हि भाष्यकृताकृतिर्व्यक्त्या नित्यसम्बन्धा सम्बन्धिन्यां च तस्यामवगतायां सम्बन्ध्यन्तरमवगम्यतइति व्यतिरेकमभ्युपगम्य तदेतदात्मप्रत्यक्षं शब्द उच्चरिते व्यक्तिः प्रतीयतइति वदताकृतिवाचिशब्दोच्चारणे व्यक्तिप्रतीतिरुक्तेत्याशङ्क्याह भाष्येति व्यतिरेकाभ्युपगमे ऽनया व्यक्तेर्गतिः प्रतीतिरुक्ता साश्रयत्वमात्रेण न विशेषरूपेण न हि विशेषरूपा व्यक्तिः शब्दात्प्रतीयतइत्यर्थः । अभ्युपगमशब्देन परमताभ्युपगममात्रेण व्यतिरेको ऽभिहितो न स्वमताभिप्रायेणेति सूचितम् । ननु व्यतिरेकस्यानभिमतत्वे यो ऽर्थ सामान्यस्य विशेषाणां स्वाश्रयः सा व्यक्तिरित्याश्रयाश्रयिभावोक्तिर्नयुज्येतेत्याशङ्क्याह यो ऽपीति नन्वाकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति भाष्याद्विशेषलक्षणप्रतीतेः कथमाश्रयमात्रगतिरुक्तेत्युक्तमित्याशङ्क्याह सामान्याच्चेति सामान्याद्विशेषस्य लक्षणं यद्भाष्यकृतोक्तं तत्राश्रयितव्यम् आश्रयणमादरणं न कर्त्तव्यमिति भावे कृत्यं व्युत्पाद्य व्याख्येयम् । लक्षणानाश्रयितव्येति पाठे सा ऽनादर्त्तव्या आक्षेपमात्रस्य भावाद्विशेषस्य त्वाक्षेप्यस्य गम्यस्याव्यभिचारिलिङ्गाभावेनाभावादित्यर्थः । यद्वा यच्छब्द उच्चरिते व्यक्तिः प्रतीयतइत्ययं प्रपञ्चो न व्यक्तिप्रतीतिसद्भावविषयः किं तु किंशब्दादाकृतेर्वेत्येतद्विचारविषयत्वेन यथा सिद्धव्यक्तिः प्रतीत्यनुवादोऽयमित्याह अथ वेति प्रसङ्गादादितः सो ऽन्ययव्यतिरेकाभ्यामिति भाष्यं व्याचष्टे अन्वयेति शब्दव्यतिरेके ऽप्याकृत्यन्वये व्यक्तिप्रत्ययान्वयप्रतिपादनार्थमन्तरेणापीति भाव्यमुदाहरणनिष्ठतया व्याचष्टे यो हीति आकाङ्क्षाशब्देन निर्विशेषसामान्यायोगात् कश्चिदत्र तीक्ष्णमन्दादिरग्निविशेषः स्यादिति प्रमाणतो विशेषनिर्धारणाकाङ्क्षा भवतीत्येवम्परत्वेनाबुद्ध्येतैवासौ व्यक्तिमिति भाष्यं व्याख्यातं शब्दान्वये ऽप्याकृतिव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकप्रतिपादनार्थं यस्त्विति भाष्यं मनो वै यग्न्याच्छब्दार्थसम्बन्धात्स्मृतौ4 सहकार्यभावाच्छब्दस्यापि व्यतिरेकापत्तेः स्मृतौ वा मनो वै यग्न्याभावादाकृतेरप्यन्वयापत्तेरयुक्तमाशङ्क्य द्वेधा व्याचष्टे मानसादिति निष्कृष्टाकृतिवाचित्वनिश्चयात्सामर्थ्यात्मकजाड्यरूपेणापचारेण सम्बन्धस्मृताव या।?।कृत्यप्रतीतिः शीघ्राप्रतीतिर्वा विवक्षितेति भावः । ननु यदि गोशब्दात्स्वतन्त्राकृतिः प्रतीयते ततः केन हेतुना गोशब्दस्य शाबलेयादिशब्दसामानाधिकरण्यं प्रतीयते न गोत्वशब्दस्येत्याशङ्कते केनेति गोत्वमित्यत्र प्रातिपदिकवाच्याया जातेर्भावप्रत्ययेन व्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्याप्रतीतिः । गोरित्यत्रान्वयव्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्यप्रतीतिरिति विशेषहेतुमाह व्यतिरेकांशस्येति ननु भावप्रत्ययेन व्यतिरेकांशस्य विवक्षायां गोत्ववॅां।?।श्छाबलेय इत्यपि सामानाधिकरण्यं न स्यादित्यशाङ्क्याह गोत्ववानिति यद्यप्यत्र स्फुटो व्यतिरेको विवक्षितस्तथापि प्रकृतिप्रत्ययविभागोपपत्तेर्मतुप् प्रत्ययेन जातिमदभिधानात्तद्वाचिना शाबलेयादिशब्दस्य सामाधिकरण्यं युक्तमिति भावः । गोत्ववाचिनि स्फुटमितिपाठे स्फुटमिति क्रियाविशेषणं स्फुटं निष्कृष्टत्वेन गोत्ववाचिनि गोत्वशब्दे यत्र परतो मतुप्प्रत्ययो भवति तत्र तेन जातिमदभिधानमित्यर्थः । ननु मतुप्प्रत्ययेनापि व्यक्त्यभिधाने व्यक्त्यभिधानपक्षोक्ताः सम्बन्धानाख्यातादयो दोषाः प्रसज्येरन्नित्याशङ्क्याह सामान्यस्य वेति जातिमदभिधाने प्रमेयान्तर्गतत्वेन व्यावर्त्तकत्वाज्जातेर्विशेषणत्वे ऽपि विशिष्टवाचिना प्रत्ययेनानुपादानादुपलक्षणत्वोक्तिः । ननु गौरित्यत्राव्यतिरेकांशविवक्षायां जातिव्यक्त्योरभेदात् व्यक्तेर्वा गोशब्दो वाचको जातेर्वेति चिन्ता न युज्येतेत्याशङ्क्याह भेदानामिति अयं विचार्यत्वेन प्रकृतो गोशब्दः पक्षद्वये भेदानां व्यक्तीनामेव वाचकः । सामानाधिकरण्याद्यन्यथानुपपत्तेरिष्यते । स्वरूपेण व्यक्तिर्वाच्या नान्यात्मना वेत्येतावांस्तु विचारार्थः । व्यक्तिवाचित्वे ऽपि व्यक्त्यन्तरे प्रयोगोपपादनार्थम् सर्वेषामित्युक्तम् नन्वेवं सत्यानन्त्यात्सम्बन्धग्रहणानुपपत्तिरित्याशङ्क्य प्रत्येकमित्युक्तम् समुदितानां वाच्यत्वे सम्बन्धग्रहणासम्भवः स्यान्नान्योन्यनिरपेक्षाणां वाच्यत्वे जात्यात्मना चैकेन नित्येन रूपेण वाच्यत्वान्न शक्त्यानन्त्याद्यापत्तिरिति भावः । ननु गोशब्दोच्चारणे व्यक्तिविशेषानिर्धारणान्न व्यक्तंर्वाच्यत्वं युक्तमित्याशङ्क्याह यस्त्विति व्रीहीन्प्रोक्षतीत्यादावुद्दिश्यमानेषु व्रीह्यदिषु प्रकृतापूर्वसाधनव्यक्तिविशेषनिर्णयान्न सन्देहाशङ्का व्रीहिभिर्यजेतेत्यादावुपादीयमानत्वे ऽप्यन्यजातीयव्यक्तिभ्यो व्रीहिजातीयानां व्यावृत्तिप्रतीतेर्वीहिजातीयैव व्यक्तिरित्यस्त्येव निर्णयः । सर्वासां तूपादानायोगात्कियतीनामुपादेयतेति सङ्ख्याश्रयमात्ररूपसन्देहो न व्यक्तिरूप इत्यर्थः । अधिकरमोपक्रमेजातिशब्दा एवात्र विद्यन्तइति यदुक्तम् । तत्परमतेनेति द्योतयितुं तस्माद् गौरश्व इत्येवमादय इत्युपसंहारभाष्यं स्वमतेन नामख्यातरूपद्विविधपदविषयत्वेन व्याचष्टे गवादीति गुणक्रियाशब्दोपसङ्ग्रहार्थः सर्वशब्दः विचारप्रयोजनमाह प्रयोजनमिति पूर्वपक्षविशेषणसामर्थ्यात् सिद्धान्ते बाध इत्युक्तं भवति वर्णकान्तरत्वाभावे ऽपि पूर्वव्याख्याप्रकारे केन चिद्व्याक्षेपदोपेणाप्रसन्नाभिधानाच्छिष्यक्लेशापत्तेः । सुखप्रतिपत्त्यर्थं प्रकारान्तरमारभते एवं वेति प्रासङ्गिकत्वेन तावत्सङ्गतिमाह गौरिति विचारविषयं बोधयति चतुर्विध इति संशयोत्पत्तेरित्यनेन यावकादिद्रव्यशब्दानां देवदत्तादियदृच्छाशब्दानां सर्वादीनां च सर्वनामशब्दानां व्यक्तिवाचित्वेन निश्चयात्संशयानुत्पत्तेर्निपातोपसर्गवद्विचारविषयत्वमस्तीति सूचितं निपातोपसर्गयोर्जातिव्यक्तिवाचित्वसंशयानुत्पत्तौ हेतुमाह तयोरिति अभ्युपगम्यापि वाचकत्वमन्वित्यादिषूपसर्गेषु [२६१।२] पश्चादित्यादिषु च निपातेषु पदान्तरान्वयात् पूर्वं कस्य चिद्वार्थस्याप्रतीतेः पदान्तरान्वये च विशेषस्यैव प्रतीतेः । सन्देहानुत्पत्तिमाह वाचकत्वे ऽपीति पाश्चात्यशब्दान्तर्गतः पश्चाच्छब्दो ऽत्रोदाहरणं संशयेन ज्ञाप्यते न विषयीक्रियतइत्यर्थ, । एतदेव विवृणोति यदीति ननु पौनरुक्त्यापत्तेर्नेहाख्यातं विचार्यमित्याशङ्कते आख्यातस्यापीति ननु द्वितीयाध्यायाद्ये ऽधिकरणे द्रव्यादिशब्देभ्यो ऽपूर्वं भावशब्देभ्यो वेति विचारान्नाख्यातार्थविचारणेत्याशङ्क्याह कः पुनरिति अन्यार्थे ऽप्यधिकरणप्रसङ्गाद्भाष्यकृताख्यातार्थनिरूपणात्पौनरुक्त्यं भवतीत्याशयः । तत्र प्रत्ययार्थचिन्तेव प्रकृत्यर्थचिन्तेति परिहरति प्रत्ययार्थस्येति आश्रयं तु प्रत्ययार्थविचारे पौनरुक्त्यं परिहर्त्तुमशक्नुवतां परिहारे इत्यपरितोषादन्यथा स्वमतेन परिहरति प्रकृत्यर्थेति प्रत्ययार्थस्य प्रकृत्यर्थाद्विवेकायेह सिद्ध एव प्रकृत्यर्थस्तत्र वक्ष्यतइत्यर्थः । ते च यागदानहोमसम्बद्धा इत्यादिना प्रकृत्यर्थस्य यागस्य भाष्यकृता स्पष्टीकृतत्वात् भाष्यकारेणेत्युक्तम् ननु सूत्रकारानुक्तिसूचनार्थं तेनापि कर्म्मशब्दपदेन प्रकृत्यर्थस्योक्तत्वात् अयमपि विषयभेदं वक्तुमशक्नुवतां परिहार इत्यपरितोषात्स्वमतेनान्यथा परिहरति युज्याद्यर्थे ऽपि वेति सामान्यविशेषयोर्मध्ये इति निर्धारणे षष्ठी प्राप्तेतीहावसरप्राप्त्युक्त्या तत्रासङ्गतत्वात्सामान्यविशेषविचाराभावः सूचितः । प्रासङ्गिककथया चैतत्पौनरुक्त्य परिहृतं प्रधानचिन्तया तु पौनरुक्त्यशङ्कैव नास्तीत्याह अपूर्वमिति अतो ऽत्र युक्ता द्विविधस्य पदस्यार्थचिन्तेत्युपसंहरति नामेति गोसदृशो गवयः इति जातौ गोशब्दप्रयोगाद्गौरानय इति च व्यक्तौ प्रयोगान्न गोशब्दोच्चारणाच्चोभयप्रतीतेर्वृद्धव्यवहारस्योभयत्र तुल्यत्वं शब्दलक्षणे महाभाष्यकारेण किं पुनराकृतिः पदार्थ आहो स्विद् द्रव्यमित पृष्ट्वोभयमित्याहेत्याकृतिपक्षवद्वयक्तिपक्षस्याप्यभिधानान्न शास्त्रस्याप्युभयत्र तुल्यतेति द्वेधा सन्देहहेतुमाह प्रयोगस्येति भाष्योक्तसन्देहहेतुनिरासार्थमस्माद्धेतुद्वयादेव संशयो नः प्र [२६२।१] तिभातीत्युक्तम् ननु यदि सामान्यप्रत्ययाद्व्यक्तौ च क्रियासम्भवात्सन्देहः स्यात्ततः प्रतीयमानाया आकृतेरक्रियार्थत्वात् क्रियार्थायाश्च व्यक्तेरप्रतीतेर्वाक्यार्थौपयिकपदार्थासम्भवाद्व्यक्तिवाच्यत्वपूर्वपक्षस्याकृतिवाच्यत्वासम्भवप्रतिपादनमात्रपरत्वात्पूर्वपक्षे वेदाप्रामाण्यं सिद्धान्ते चाकृतेरपि क्रियार्थत्वाद्वाक्यार्थौपयिकत्वोपपत्तेर्वेदप्रामाण्यमिति प्रामाण्याप्रामाण्यफलत्वात्प्रामाण्यलक्षणसङ्गतेयं चिन्ता स्यात् व्यक्त्याकृत्योस्तु प्रतीतिप्रयोगतुल्यत्वे पक्षद्वये ऽपि प्रामाण्याविशेषात्कथं तल्लक्षणसङ्गतिः । प्रतीतिप्रयोगतुल्यत्वेनैव च व्यक्तिवाच्यत्वस्मृतेरपि समूलत्वोपपत्तेरेतत्पादगतेन स्मृतिमूलविकारेणापि कथं सङ्गतिः स्यादित्याशङ्कते कथमिति पादानामैकार्थ्यनियमाभावान्नावश्यं सर्वत्र पादसङ्गतिरपेक्षणीया एकप्रकरणगतानां त्वधिकरणानां प्रकरणप्रतिपाद्यैकार्थ्यान्वयाय प्रकरणसङ्गतिरवश्यापेक्षणीयेति मत्वा प्रकृतेन वेत्युक्तम् स्मृतिमूलविचारो ह्यस्मिन्पादे प्रकरणार्थः तथा हि ।
स्मृतीनां श्रुतिमूलत्वं विरोधे भ्रान्तिमूलता ।
उक्तोपवीतस्मृत्यादावविरोधं निरूप्य च ॥
आर्यैर्विरोधे म्लेच्छानां शब्दार्थविषयस्मृतेः ।
भ्रान्तिर्मूलमसत्त्वे ऽस्य पिकादौ लोकमूलता ॥
मूलापेक्षां च कल्पादेरव्यवस्थितगोचरम् ।
होलाकादिस्मृतेर्मूसमुक्तं शब्दस्मृतेरपि तत्प्रामाण्यमूलत्वप्रासङ्गिकत्वेनास्याश्चिन्तायाः पूर्वचिन्ताया लक्षणप्रकरणसङ्गत्यैवास्या अपि तद् द्वारेण सङ्गतिलाभान्न पृथक्सङ्गत्यपेक्षेति परिहरति द्वयमिति ननु यदि कस्मिन्नर्थे गोशब्दस्य साधुतेत्यनेन प्रसङ्गेनास्य विचारस्यावान्तरस्तुतेरर्थनिरपेक्षस्य साधुत्वस्य निरूपयितुमशक्यत्वाद्व्यक्त्याकृतिचिन्तैव पूर्वं प्रसज्येतेत्याशङ्कते वक्तव्य इति सास्नादिना शब्दस्य साधुवाच्ये इत्येतावति ज्ञाते व्यक्त्याकृतिविवेकाज्ञाने ऽपि साधुत्वं निरूपयितुं शक्यमिति परिहरति अनिश्चिते ऽपीति एतदेव विवृणोति वाच्येति पूर्वापवादत्वेन चास्य सङ्गतिरिति परिहारान्तरसापेक्षत्वे ऽपि किं विचार्यतइत्यपेक्षायामाह व्यक्तिरिति अस्मिश्च पक्षे त्रिविधापि सङ्गतिः साक्षादेवेत्याह स्मृतेरिति प्रयोजनाभावेनाधिकरणानारम्भमाशङ्कते ननु चेति शब्दार्थशब्देनाकृतिर्विवक्षिता प्रोक्षणादेः क्रिया ब्रह्महत्यादेश्चाक्रिया पक्षद्वये ऽप्याकृतावसम्भवाद्व्यक्तावेवेत्यर्थः । वेदे प्रयोजनाभावे ऽपि लोके प्रयोजनं भविष्यतीति तावत्परिहरति यद्यपीति किं फलमित्यपेक्षायामाह व्यक्तीति लोकव्यवहारस्य प्रमाणान्तरानुसारित्वात्तदर्थं शब्दार्थतत्त्वचिन्तानर्थक्यापत्तेर्वेदार्थनिर्णयानौपयिकत्वाच्च शास्त्रसङ्गत्यभावापत्तेरपरितोषात्स्वमतेन प्रयोजनमाह वेदेऽपि चेति हेत्वपेक्षायामुदाहरणद्वयमाह व्रीहीति भेदो विशेषः आद्योदाहरणे विशेषं विवृणोति प्रोक्षणमिति सन्निधिरूपं क्रमं बाधि [२६३।२] त्वेत्यर्थः । द्वितीयोदाहरणं विवृणोति एवमिति यदाहवनीये जुहोति पदे जुहोतीत्यादिसामान्यविशेषशास्त्रयोः पूर्वपक्षे विकल्पः सिद्धान्ते सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्याद्यपि प्रयोजनमित्याह सोपपत्तिकमिति उपसंहरति कर्त्तव्येति पौनरुक्त्यमाशङ्कते नन्विति गौरिति शब्द आदिर्यस्य तस्य गौरित्यस्य शब्दस्य को ऽर्थ इत्यस्य भाष्यस्य तस्मिन्नित्यर्थः आद्यपादस्थे भाष्ये विचारितमित्यर्थः । तत्र प्रतिज्ञायामिहानुपपत्तिरिति तावत्परिहरति आकृतेरिति यथा चाकृतिशब्दार्थस्तथाकृतिस्तु क्रियार्थत्वादित्यत्र निपुणतरमुपपादयिष्याम इत्याकृतिवादान्ते भाष्यकृताप्येवमेवोदितमित्याह यथा चेति विषयप्रदर्शनार्थत्वात्प्रतिज्ञाया हेतुं विनानर्थक्यापत्तेरिहापि चाकृतिः शब्दार्थ इति प्रतिज्ञायाः पौनरुक्त्यापत्तेरेतत्परिहारेष्वपरितोपात्स्वमतेनान्यथा परिहरति यद्वेति नन्वेवं सत्याकृतेः शब्दार्थत्वोक्तिस्तत्रत्या कथमित्याशङ्क्य सद्भावप्रतिपादनायैव प्रकृतानुपयोगप्रसङ्गान्न साक्षाद्वाच्यत्वोपक्रमस्तत्रेत्याह या त्विति चिन्ताविषयत्वेन नोक्तेत्यर्थः । प्रतिज्ञामात्रेणाकृतिवाच्यत्वासिद्धेरनभिमतमपि परिहारान्तरं विभवार्थमाह उक्ते वापीति व्यक्त्याकृतिचिन्तामुपक्रम्य भाष्यकृता लौकिकवैदिकशब्दार्थभेदाभेदचिन्ता कृता तस्याः प्रकृतोपोद्घातार्थत्वेन सङ्गतिमाह एतदिति ननु सङ्ख्याभावादित्यनेन न्यायेनाभेदस्य सिद्धत्वात्पुनः को ऽयं विचारः स्यादित्याशङ्क्य लौकिकशब्दाभेदे ऽपि वैदिकानां रूपभेदाद्व्यपदेशभेदाच्च भेदशङ्कोपपत्तस्तन्निराकरणार्थो ऽयमारम्भ इति संशय्यते अस्मिन्नित्यधिकरणव्युत्पत्त्या संशयविपर्ययप्रतिपादकेन संशयशब्देनोक्तम् । उपोद्घातत्वमेव विवृणोति एकत्वं सतीति लौकिकवैदिकयोःशब्दयोर्वाच्ययोश्चैकत्वे सति लोकव्युत्पन्नाद्वैदिकाद् गोशब्दाद्व्यक्त्याकृतिरूपत्वादिपदार्थप्रत्ययोत्पत्तौ को ऽर्थो वाच्यः को वा गम्य इति सन्देहाद्विचारः कार्यः भेदे व्युत्पत्त्यभावेन वैदिकाच्छब्दादर्थाप्रतीतेः सन्देहाभावान्न चिन्तावसर इत्यर्थः । ननु लोके सन्देहसम्भवाच्चिन्ता भविष्यतीत्याशङ्क्याह शब्दार्थेनेति वेदे तु शब्दविषये ऽर्थविषये च य एव लौकिकः शब्दो ऽर्थश्च स एवायमिति प्रत्यभिज्ञाने सति लोकव्युत्पन्नाद्वैदिकाच्छब्दादर्थप्रतीतेः को ऽर्थो वाच्यः को वा गम्य इति विवेक्तुं शक्यम् । अलौकिके तु वैदिके शब्दे ऽर्थे वाचकरूपाज्ञानाद्वाच्यविषयः सन्देह एव न स्यादिति ।?। ।?। संशयशब्दसूचित पानरुक्त्यपारहार वक्तुमाशङ्कते तावत्सख्यति न हेत्वन्तराभिधित्सया पुनरारम्भस्तस्यानुक्तत्वादित्याह अभेदेति ननु न प्रयोगचोदनाभावादिति हेत्वन्तरमप्युक्तमित्याशङ्क्याह अन्यत्त्विति शङ्कामुपसंहरति तेनेति परिहरति लौकिकेष्वेवेति ननु वैदिकेषु काधिका शङ्केत्यपेक्षायामाह व्यपदेशादीति रूपभेदो लिङ्गं चादिशब्देनोपात्तम् । अर्थभेदाभेदचिन्तायास्तु पौनरुक्त्याशङ्कैव नास्तीत्याह एकत्वे ऽपि चेति न च शब्दैक्यमात्रेण प्रकृतचिन्तासिद्धिर्येनार्थैक्यमचीन्त्यं स्यादित्याह अर्थेति शब्दाभेदे सत्यपि यद्यर्थाभेदः स्यात्ततो व्यक्त्याकृत्योर्द्वयोमध्ये कस्य वाच्यतेतीयं चिन्ता घटते न शब्दैक्यमात्रेणेत्यर्थः । सन्देहहेतुमाह व्यपदेशादीति उभयविषयप्रतिज्ञापूर्वकं शब्दभेदाभावहेतूनाह किं प्राप्तमिति आख्यायाः शब्दस्य यल्लक्षणं तस्य भाषायां छन्दसीति चोपबन्धेन भिन्नत्वादित्यर्थः । अर्थभे [२६५।३] दे हेतुमाह अश्वबालादीति नन्वग्निर्वृत्राणीति भाष्ये वृत्रहननादिक्रियाभेदो हेतुः प्रतीयते स किमित्युपेक्षित इत्यपेक्षायामर्थभेदे हेतुत्वं तावन्न सम्भवतीत्याह अग्न्यादीनां चेति नन्वग्निस्वरूपाभेदे ऽपि वृत्रहन्तृत्वविशिष्टस्य वैदिकाग्निपदवाच्यत्वादर्थभेदो भविष्यतीत्याशङ्क्याह हन्तीति वृत्रहन्तृत्ववैशिष्ट्यस्य वाक्यार्थत्वेनाशब्दवाच्यत्वान्न वैदिकाग्निशब्दवाच्यता युक्तेत्यर्थः । हन्तृत्वे च प्रमाणाभावान्न तेनापि रूपेणान्यत्वं युक्तमित्याह हननमिति न च यो वृत्रहन्ता सो ऽग्निरिति वचनव्यक्त्यार्थान्यत्वसिद्धिर्वृत्रशब्दार्थस्य जङघनदिति च क्रियाशब्दस्यालौकिकत्वेनैवंविधवचनव्यक्त्यसम्भवादित्याह अपूर्व इति देवतायश्च विग्रहाभावस्य नवमे वक्ष्यमाणत्वेन क्रियया वृत्रहननायोगान्मन्त्रस्य स्तुतिमात्रार्थत्वावगतेर्न वृत्रहन्तृत्वानुवादेनाग्निशब्दवाच्यत्वविधिर्युक्त इत्याह स्तुतीति कथमक्रियतेत्यपेक्षायाम् भाष्योक्तैरित्युक्तम् कानि तानि वाक्यानीत्यपेक्षायां नावमिकदेवताधिकरणोक्त युक्तिपरामर्शार्थमितीत्युक्तम् अतो ऽश्ववालादिशब्दानां स्पष्टार्थान्तरदर्शनादित्येषैवार्थान्यत्वे युक्तिरित्युपसंहरति तेनेति शब्दभेदहेतुत्वं तु क्रियाभेदहेतुत्वे ऽप्यनाशङ्क्यमेवेत्याह यच्चेति अथ भेदकारितो ऽपि शब्दभेदो न भवति किमुत तद्गुणभेदकारित इत्यर्थः । भाष्यस्य तर्हि का गतिरित्यपेक्षायां भाष्योक्तं रूपान्यत्वं स्वरादिभेदाभिप्रायं व्याख्येयमित्याह तेनेति पूर्वपक्षोपसंहारपूर्वकं सिद्धान्तप्रतिज्ञां करोति तस्मादिति प्रतिज्ञाक्षिप्तमेव तावद्धेतुमाह वेदस्यैवेति प्रसज्यतामित्येवं वादिनम् प्रति प्रसज्येतेत्युक्तम् प्रयोगचोदनाभावादिति सौत्रं हेतुं प्रयोगस्य चोदनायाश्चाभावादित्येवं व्याचष्टे प्रयोगस्येति चोदनायाः कथमभाव इत्यपेक्षायाम् प्रत्ययार्थस्येत्युक्तम् अर्था [२६६।१] न्तरे शब्दप्रयोगविषयायाश्चोदनाया विधेरभावादित्यवमन्यथा व्याचष्टे अर्थान्तरे चेति कस्माद्वेदेनार्थान्तरे शब्दप्रयोगो न विधीयते इत्यपेक्षायां गुणाद्वाप्यभिधानं स्यात् सम्बन्धस्य शास्त्रहेतुत्वादित्यैन्र्द्य।?।धिकरणसूत्रावयवो ऽर्थतः पठितः वचनान्वयार्थमैन्द्री स्यादिति सूत्रेणैन्र्द्या।?। गार्हपत्यमुपतिष्ठतइति श्रुतिबलेनैन्र्द्या।?। गार्हपत्योपस्थानाङ्गत्वे विहिते श्रुत्याप्यशक्तविनियोगासम्भवात्कथमिन्द्रशब्देन गार्हपत्याभिधानमित्यपेक्षायां गुणयोगेनेति पूर्वावयवेनोक्तम् । नन्विन्द्रशब्दस्य गार्हपत्त्याभिधानशक्तिप्रदर्शनार्थमेवैतद्वचनं कस्मान्न भवतीत्यशङ्क्य शब्दार्थसम्बन्धस्य वृद्धव्यवहारावसेयत्वेन शास्त्रहेतुकत्वाभावादित्यनेनोक्तम् । अविभागादिति सूत्रावयवो न तेषामेषां विभागमुपलभामहइति भाष्येण शब्दप्रत्यभिज्ञाभिधानार्थत्वेन तांश्चार्थानवगच्छाम इत्यनेन।?। चार्थप्रत्यभिधानार्थत्वेन व्याख्यातः । तदुभयमपि यथाक्रममनुसन्धत्ते किं चेति शब्दलक्षणाविभागादित्येवं स्वयमन्यथा व्याचष्टे लक्षणस्येति ननु कतिपयलक्षणाविभागे ऽपि भाषायं छन्दसीत्युपबन्धेनोक्तानां लक्षणानां भेदात्कथं सर्वशब्दैक्यसिद्धिरित्याशङ्क्याह सर्वथेति भिन्नलक्षणकानां शब्दानामश्वबालाद्यर्थानां च भेदस्य सिद्धान्तिना ऽपीष्टत्वादितरशब्दार्थानामैक्यं साध्यं तेषां चोक्तैर्हेतुभिर्न भेदः शक्यो वक्तुमित्यर्थः । याज्ञिकानां च गवादिविरधौ लौकिकैरेव सास्नादिमदाद्यर्थैर्व्यवहारान्मीमांसायां च लोकव्यत्पत्त्यनुसारेण वेदार्थनिर्णयादुभयानुग्रहार्थं लौकिकवैदिकशब्दार्थानामैक्यमाश्रयणीयमित्याह एकत्वेति मीमांसा चानुगृह्यतइत्यनुषङ्गः । अविभागशब्देनोक्तं प्रत्यभिज्ञानमेव पूर्वपक्षोक्तानां हेतूनां कालात्ययापदिष्टत्वलक्षणदोषाभिधानार्थत्वेन व्याचष्टे व्यपदेशादीति आदिशब्देनाख्यालक्षणस्वरोपादानम् । ननु व्यपदेशादिभेदेन तदवच्छिन्नात्मनां भेदस्यावश्यम्भावात्कथं न भेदानुमानमित्याशङ्कयान्यरूपतेत्युक्तम् रूपिणः स्वरूपतो ऽन्यता रूपान्यता अत्र भेदानुभेदविचारे वो।?। व्यपदेशादिभेदैरैक्यरूपतालक्षणो भेदो ऽनुमीयते स तु न युक्तः वैदिकशब्दे प्रत्यक्षप्रत्यभिज्ञानादित्यर्थः । भेदादेरिति पाठे द्वितीयेनादिशब्देन लोपागमव्यत्ययोपादानम् । अन्यनिबन्धनत्वादपि व्यपदेशभेदो रूपभेदो वा न भेदानुमानायालमित्याह व्यपदेशादीति नन्वेवमपि पदावधारणोपायत्वट्कृतिनिछन्दतिसूरयः5 क्रमन्यूनातिरिक्तत्वस्वरवाक्यस्मृतिश्रुतीत्यनेन न्यायेनाचारादिभेदेन च भेदो भविष्यतीत्याशङ्क्य आह स्वरादयश्चेति अभिधानाङ्गभूतस्वरादिभेदो ऽभिधायकपदभेदहेतुत्वेन तत्रोक्तः अग्निर्वृत्राणि जङ्घनदित्यादिषु तु स्वरनियमस्य व्योमन्नित्यादिषुं च वर्णलोपस्य देवास इत्यादिषु आगमस्यागृभ्णन्नित्यादिषु विकारस्य स्वाध्यायविध्यपेक्षितवेदत्वसिद्ध्यर्थं त्वदृष्टार्थोपयोगितयाभिधानाङ्गत्वाभावान्नाभिधायकभेदावधारणोपायतास्तीत्यर्थः । यत्तु स्वरुयूपादिस्पष्टभेदशब्दसाहचर्यं गवादिशब्दे भेदहेतुत्वेनोपन्यस्तं तन्निराकरणार्थं विभागशब्दोक्तशब्दप्रत्यभिज्ञानं योजयति स्वर्विति अनध्यायादिधर्मभेदस्य शूद्रोच्चारणवर्जनस्य च वाचनिकत्वेनाप्युपपत्तेर्न्न भेदहेतुतेत्याह वचनादिति उच्चारणधर्मत्वादप्येषां न भेदहेतुतेत्याह धर्माविति यत्त्वाश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनाद्गवादिशब्दानामपि भिन्नार्थतेत्युक्तं तन्निराकरणे ऽप्यविभागशब्दोक्तमर्थप्रत्यभिज्ञानं योजयति अश्वबालादीति वाक्यशेषात्मकवचनवशात्तत्रार्थभेदे जाते ऽपि प्रत्यभिज्ञायमानार्थेषु गवादिशब्देष्वर्थान्यत्वद्योतकत्वाभावान्नार्थान्यता युक्तेत्यर्थः । नन्विहाप्युत्तानवहनादिवचनकारितो र्थभेदो भविष्यतीत्याशङ्क्याह उत्तानानां चेति उत्तानवहनासिद्धेस्तदनुवादेन गोशब्दवाच्यत्वविध्ययोगात्सर्वेषां च वैदिकानामन्यत्वे सम्बन्धज्ञानाभावेनैकस्यापि पदार्थस्याग्रहणाद्वाक्यार्थानवगतेर्नातो वाक्यादर्थान्यत्वावसाय इत्यर्थः । किमर्थं तर्ह्युत्तानवाक्यम् इत्यपेक्षायामाह विधेरिति [२६७।२] सिद्धान्तमुपसंहरति तस्मादिति प्रकृतविचारमनुसन्धत्ते यद्वा चेति अतो ऽधुना क्रियतइत्यध्याहारेण योज्यं पक्षान्तराणामप्यभिधानं प्रतिजानाति बहव इति अभिनवे पक्षे केन चिदुपन्यस्ते निराकरणोपपत्त्या ज्ञानाच्छिष्याणां व्यामोहापत्तेस्तन्निवृत्त्यर्थं सर्वं ऽभिधेया इत्यर्थः । बहुपक्षप्रतिभाने कारणमाह गौरिति शब्दस्वरूपस्य प्रत्यक्षग्राह्यत्वेन तद्विषयाभिधानशक्तिकल्पनानुपपत्तेर्नव्यानभिधानो हिशब्दः कश्चित्कदा चनेति शून्यवादे बृहट्टीकायां स्वरूपाभिधानस्य निरस्तत्वाच्छब्दवाच्यत्वशङ्कानुपपत्ति सूचनार्थं तइत्युक्तम् सप्तवस्तुप्रतिभाने ऽपि कथं बहुपक्षप्रतिभानमित्याह तेषामिति पक्षानुद्दिशति किं जातिरेवेति जातिव्यक्त्योः सामानाधिकरण्यबुद्धिहेतुभूतस्य ।
आश्रयी येन भिन्नो ऽपि सम्बन्धेनाश्रये धियम् ।
स्वानुरूपां सदा कुर्यात्समवायः स कीर्त्त्यते ॥
इत्येवं लक्षणसमवायाख्यस्य सम्बन्धस्य जात्या साहाधाराधेयसम्बन्धसद्भावाज्जातिसम्बन्धयोः सच्छब्दवद्यः सम्बन्धः शब्दार्थ इत्यस्यापि पक्षस्योपपत्तेर्वस्तुगतस्य जात्याख्याया अनुवृत्ताकारस्य व्यावृत्ताकारस्य च व्यक्तित्वेनाभिप्रेतस्यैव वस्तुगतत्वादेकदेशस्थवृक्षवद्यः समुदायस्तस्याकारद्वयाकारद्वयाधारे धर्म्मिभूते वस्तुनि प्रतीतेस्तदाश्रितया जात्या सहैकवस्तुगतत्वादेव समुदायोपपत्तेः । सर्वत्राष्टपक्षीसम्भवः । यथा जातेर्व्यक्त्यादिभिः षड्भिः सह प्रत्येकमष्टौ पक्षाः कृतास्तथा व्यक्त्यादेरप्येकैकस्येतरैः सह कार्या इत्याह एवमेकैकस्येति ननु व्यक्त्यदिभिः सह सम्प्रधारितया जात्या सह व्यक्त्यादेः सम्प्रधारणे पक्षभेदो नास्तीत्याशङ्क्य उक्तवदित्युक्तम् एकद्वित्रिचतुःपञ्चषट्कैः सह विकल्पनेत्युक्तद्विकादिप्रकारभेदात्पक्षविवेक इत्याशयः । ततश्च व्यक्तिसम्बन्धयोर्व्यक्तिसमुदाययोर्व्यक्तिलिङ्गयोः व्यक्तिकारकयोः व्यक्तिसङ्ख्ययोः सम्बन्धसमुदाययोः सम्बन्धलिङ्गयोः सम्बन्धकारकयोः सम्बन्धसङ्ख्ययोः समुदायलिङ्गयोः समुदायकारकयोः समुदायसङ्ख्ययोर्लिङ्गकारकयोः लिङ्गसङ्ख्ययोः कारकसङ्ख्ययोः पञ्चदशाष्टपक्षीः पूर्वाभिः षड्भिः सहैकविंशतिं कृत्वा जातेर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसङ्ख्यासमुदायलिङ्गसमुदायकारकसमुदायसंरव्यालिङ्गकारकलिङ्गसङ्ख्याकरकसङ्ख्याद्विकैः पञ्चदश । व्यक्तेर्जातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकजातिसङ्ख्यासम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसङ्ख्यासमुदायलिङ्गसमुदायकारकसमुदायसङ्ख्यालिङ्गसङ्ख्याकारकसङ्ख्याद्विकैः पञ्चदशसम्बन्धस्य जातिव्यक्तिजातिसमुदायजातिलिङ्गजातिकारकजातिसङ्ख्याव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासमुदायलिङ्गसमुदायकारकसमुदायसङ्ख्यालिङ्गकारकलिङ्गसङ्ख्याकारकसङ्ख्याद्विकैः पञ्चदशसमुदायस्य जातिव्यक्तिजातिसम्बन्धजातिलिङ्गजातिकारकजातिसङ्ख्याव्यक्तिसम्बन्धव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसङ्ख्यालिङ्गकारकसङ्ख्याद्विकैः पञ्चदश लिङ्गस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिकारकजातिसङ्ख्याव्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमुदायसम्बन्धकारकसम्बन्धसङ्ख्यासमुदायकारकसमुदायसङ्ख्याकारकसङ्ख्यायुगलैः पञ्चदशकारकस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिसङ्ख्याव्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिसङ्ख्यासम्बन्धसमुदायलिङ्गसम्बन्धसख्यासमुदायलिङ्गसमुदायसङ्ख्यालिङ्गसख्याद्विकैः पञ्चदश सङ्ख्याया जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकव्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गवियक्तिकारकसम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसमुदायलिङ्गकारकद्विकैः पञ्चदश जातेर्व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गकारकव्यक्तिकारकसङ्ख्यासम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसङ्ख्यासमुदायलिङ्गकारकसमुदायकारकसङ्ख्यालिङ्गाकारकसङ्ख्यात्रिकैर्दश व्यक्तेर्जातिसम्बन्धसमुदायसङ्ख्याजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसङ्ख्यासम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकसङ्ख्यासमुदायलिङ्गकारकसमुदायकारकसङ्ख्यात्रिकैर्दश सम्बन्धस्य जातिव्यक्तिसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसङ्ख्याव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसङ्ख्यासमुदायलिङ्गकारकसमुदायकारकसङ्ख्यालिङ्गकारकसङ्ख्यात्रिकैर्दश । समुदायस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धलिङ्गजातिलिङ्गकारकजातिकारकसङ्ख्याव्यक्तिसम्बन्धलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसङ्ख्यासम्बन्धलिङ्गकारकसम्बन्धकारकसङ्ख्यात्रिकैर्दशलङ्गस्यःजातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायकारकजातिकारकसङ्ख्याव्यक्तिसम्बन्धसमुदायकारकव्यक्तिकारकसङ्ख्यासम्बन्धसमुदायकारकसम्बन्धकारकसङ्ख्यासमुदायकारकसङ्ख्यात्रिकैर्दश कारकस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गसङ्ख्याव्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गसङ्ख्यासम्बन्धसमुदायलिङ्गकारकव्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकसम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धलिङ्गकारकसङ्ख्यासमुदायलिङ्गकारकसङ्ख्याचतुष्कैः षट् । व्यक्तेः जातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसङ्ख्यासम्बन्धसमुदायलिङ्गकारकसम्बन्धलिङ्गकारकसङ्ख्यासमुदायलिङ्गकारकसङ्ख्याचतुष्कैः षट् । सम्बन्धस्य जातिव्यक्तिसमुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसङ्ख्याव्यक्तिसमुदायलिङ्गकारकव्यक्तिलिङ्गकारकसङ्ख्यासमुदायलिङ्गकारकसङ्ख्याचतुष्कैः षट् । समुदायस्य जातिव्यक्तिसम्बन्धलिङ्गजातिसम्बन्धलिङ्गकारकजातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायकारकजातिसमुदायकारकसङ्ख्याव्यक्तिसम्बन्धसमुदायकारकव्यक्तिसमुदायकारकसङ्ख्यासम्बन्धसमुदायकारकसङ्ख्याचतुष्कैः षट् । कारकस्य जातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्गसङ्ख्याव्यक्तिसम्बन्धसमुदायलिङ्गव्यक्तिसमुदायलिङ्गसङ्ख्यासम्बन्धसमुदायलिङ्गसङ्ख्याचतुष्कैः षट् । सङ्ख्याया जातिव्यक्तिसम्बन्धसमुदायलिङ्गजातिसमुदायजातिसमुदायलिङ्गकारकव्यक्तिसम्बन्धसमुदायलिङ्गव्यक्तिसमुदायलिङ्गकारकसङ्ख्यासमुदायलिङ्गकारकचतुष्कैः षट् । जातेः व्यक्तिसम्बन्धसमुदायलिङ्गकारकव्यक्तिसमुदायलिङ्गकारकसङ्ख्यासम्बन्धसमुदायलिङ्गकारकसङ्ख्यापञ्चकस्तिस्रः । व्यक्तेर्जातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसङ्ख्यासम्बन्धसमुदायलिङ्गकारकसङ्ख्यापञ्चकैस्तित्रः । सम्बन्धस्य जातिव्यक्तिसमुदायलिङ्गकारकसङ्ख्याव्यक्तिसमुदायलिङ्गकारकसङ्ख्यापञ्चकैस्तिस्रः । समुदायस्य जातिव्यक्तिसम्बन्दलिङ्गकारकजातिसम्बन्धलिङ्गकारकसङ्ख्याव्यक्तिसम्बन्धलिङ्गकारकसङ्ख्यापञ्चकैस्तिस्रः । लिङ्गस्य जातिव्यक्तिसम्बन्धसमुदायकारकसङ्ख्याव्यक्तिसम्बन्धसमुदायकारकजातिसम्बन्धसमुदायकारकसङ्ख्याव्यक्तिसम्बन्धसमुदायकारकसङ्ख्यापञ्चकैस्तिस्रः। कारकस्य जातिव्यक्तिसम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गसङ्ख्याव्यक्तिसम्बन्धलमुदायलिङ्गसङ्ख्यापञ्चकैस्तिस्रः । सङ्ख्यायाः जातिव्यक्तिसम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकव्यक्तिसम्बन्धसमुदायलिङ्गकारकपञ्चकैस्तिस्रः । जातेर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसङ्ख्याषट्केणैका व्यक्तेर्जातिसम्बन्धसमुदायलिङ्गकारकसङ्ख्याषट्केणैका सम्बन्धस्य जातिव्यक्तिसमुदायलिङ्गकारकसङ्ख्याषट्केणैका समुदायस्य जातिव्यक्तिसम्बन्धलिङ्गकारकसङ्ख्याषट्केणैका लिङ्गस्य जातिव्यक्तिसम्बन्धसमुदायकारकषट्केणैकेति पञ्चचत्वारिंशदधिकं शतद्वयमष्टपक्ष्यः पूर्वयैकविंशत्या षष्ठ्यधिकं शतद्वयं कार्या इत्यर्थः । विपूर्वस्य यजेर्दधातिसमानार्थत्वाद्विपूर्वस्य दधातेः करोत्यर्थे प्रयोगदर्शनान्नियोक्तव्यशब्देन कार्य्यतोक्ता एवं चैतेषां षट्षष्ठ्यधिकाष्टपक्षीशतद्वयगतानामष्टाविंशतिसहितशताधिकसहस्रद्वयसङ्ख्याकानां पक्षाणां पूर्वप्रस्थानोक्तप्रकार एव परस्परव्यतिकरेणैकैकस्या अष्टपक्ष्याश्चतुःशतपक्षोत्पत्तेश्चतुःषष्ठिसहितषट्शताधिकसप्तविंशतिसहस्रपक्षसम्पत्त्या तावतां झटिति सङ्कलनाशक्तेरानन्त्यं भवतीत्याह एवमिति
इह पक्षसहस्राणां मिलिताः सप्तविंशतिः ।
शतानि षट् चतुःषष्ठिश्चापरा वस्तुसप्तके ॥
शीघ्रसङ्कलनाशक्तेरुपचारात्तथापि तु ।
आनन्त्यवचनं यद्वा लिङ्गाद्याधिक्यकारितात् ॥
विशेषणविशेष्यत्वप्रकाराधिक्यतो ऽधिकाः ।
पक्षाश्चतुःशतात्पूर्वं गणितादित्यनन्तता ॥
ननु भाष्ये किमाकृतिः शब्दार्थो व्यक्तिरिति पक्षद्वयस्यैवोपन्यासाद्व्याख्यातॄणामेतावत्पक्षोपन्यासो न युक्त इत्याशङ्क्याह पूर्वपक्षे ऽपीति यत्रोच्चारणानर्थक्यं तत्र व्यक्तिरर्थो ऽन्यत्राकृतिवचन इति भाष्ये पूर्वपक्षवेलायां द्वयवाच्यत्वपक्षस्यापि व्यक्तिपक्षवदुपन्यासादपिशब्दाच्च सिद्धान्तवेलायामथ किं विशेषणत्वेनाकृति वक्ष्यति विशेष्यत्वेन व्यक्तिमित्याकृतिविशिष्टव्यक्तिपक्षोपन्यासान्न तु व्यक्तिविशिष्टायामाकृतौ वर्त्तेत इति च व्यकितविशिष्टकृतिपक्षोपन्यासादुपलक्षणार्थः सन्देहवेलायां पक्षद्वयोपन्यास इत्याशयः । नन्वेवं सति सर्वेषामेवोपन्यासनिराकरणे कस्मान्न कृति इइत्याशङ्क्याह उपन्यासेन चेति सन्देहवेलायामपि पक्षद्वयोपन्यासो ऽत एवेत्याह तेनेति भाष्योक्तसन्देहहेतुमुपन्यासपूर्व [२६८।१] कं दूषयति भाष्यकारेण चेति अतः प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे व्यक्तिपक्षाविधानाच्चेत्यस्मदुक्त एव द्वेधा सन्देहहेतुरित्याह तेनेति का पुनराकृतिरिति प्रश्नभाष्यं प्रथमपादेन त्वाकृतिः साध्यस्ति वा न वेत्याशङ्क्य न प्रत्यक्षा सती साध्या भवितुमर्हतीत्यादिना रुचकादिद्व्यात्मकवस्तूदाहरणेनाकृतिसद्भावस्य निरूपितत्वादयुक्तमित्याशङ्कते का पुनरिति तदश्राविणो ज्ञानाभिप्रायेण तावत्प्रश्नमुपपादयति नैष दोष इति प्रथमपादाश्राविणस्तृतीयपादश्रवणे ऽनधिकारज्ञानाभिप्रायायोगादुक्ते ऽपि द्व्याकारे वस्तुनि को व्यक्त्याकारः को वा ऽऽकृत्याकार इत्यविवेकात्सन्देहाभिप्रायेणोपपादयति सन्देहाद्वेति श्येनादिमय्याशङ्कानिराकरणेनानुगताकारस्याकृतित्वनिश्चयात् सन्देहानुपपत्तेरुक्ताप्याकृतिर्व्यक्तिव्यतिरेकेणानुपलम्भान्न सम्भवतीति विपर्ययाभिप्रायेणोपपादयति वैपरीत्येन वेति युक्तिविशेषस्योत्तरे ऽनभिधानेनोक्ताक्षेपाभिप्रायेण प्रश्नायोगात्स्वमतानुगताकारस्य व्यक्तितो ऽन्त्यन्तभेदाभावेनाविचार्यत्वान्नातो ऽत्यन्तभिन्नाकृतिर्वाच्या न चासावस्तीत्येवं विपर्ययाभिप्रायेणोपपादयति अथ वेति द्रव्येत्युत्तरभाष्यमज्ञानसन्देहनिरासार्थत्वेन तावदवतारणपूर्वकं व्याचष्टे तत्राहेति अत्यन्तभेदे सति व्यतिरेकानुपलम्भादभावः स्याद्भिन्नाभिन्नयोस्तु न भेदानुपलम्भमात्रेणाभावो भवतीत्युक्ताक्षेपनिरासार्थत्वेन व्याचष्टे यस्त्विति ननु प्रथमपादोक्तन्यायेनैवाकृतिसिद्धावयं ग्रन्थो ऽनर्थकः स्यादित्याशङ्क्याह न चेति एतदेवोपपादयति तेनैवेति विवेककथनार्थत्वाभावे स्वरूपक [२६९।२] थनस्य सामान्यमित्येतावतैव सिद्धेर्मात्रशब्दो ऽनर्थकः स्यादित्यर्थः । अत्यन्तभेदाभावे ऽपि कथं चिद् भेदाद्विचार्यत्वं भवतीति द्वितीयविपर्ययाभिप्रायनिरासार्थत्वेन व्याचष्टे यदपीति यथाचायं मात्रशब्दो ऽत्यन्तभेदनिरासार्थस्तथा सर्वसामान्यव्याप्त्यर्थो ऽपीति दर्शयितुं तदभावे सत्तामात्रमेव द्रव्यत्वादित्रयमात्रमेव वा निर्दिष्टः स्यादिति पक्षद्वयं तावदाह द्रव्यादीनां चेति एतत्पक्षद्वयनिरासे मात्रशब्दं योजयितुमाह अथ वेति असाधारणविशेषेतिसमासं पराभिमतकर्मधारयत्वनिरासेन बहुव्रीहितया व्याचष्टे असाधारणेति कस्मादित्यपेक्षायां यो ऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिरित्युपरिष्टादभिधानाद् द्रव्यगुणकर्मणां सामान्यविशेषवत्त्वं साधर्म्यमिति च वैशेषिकतन्त्रे द्रव्यगुणकर्म्मव्यक्तीनां सामान्यविशेषाधारत्वस्मृतेश्चेत्याह उपरिष्टादिति अन्त्यविशेषाणां वा नित्यद्रव्यवृत्तित्वस्मृत्या सामान्यतो विशेषाणां द्रव्यवृत्तित्वं स्मृतं न भवतीति मत्वा स्मृतेश्चेत्युक्तम् कुतः प्रश्नपूर्वकस्य व्यक्त्याकृतिविवेकाभिधानस्य प्रस्तुतोपयोग इत्याशङ्क्य व्यक्त्याकृतिवाच्यत्वविचारानुपपत्तिशङ्कानिरासार्थत्वं सूचयितुमाह तेनेति प्रयोगचोदनाभावादितिसूत्रमावृत्त्यैतद्विचारपूर्वपक्षे ऽपि योजयति किं प्राप्तमिति अनेनैव सूत्रावयवेनाक्षिप्तानिं हेत्वन्तराण्याह सङ्ख्येति एतदेव विवृणोति यदि हीति प्रयोगचोदनादिसिद्ध्यर्थं व्यक्तिलक्षणायां लक्षणैव दोषः स्यादित्याह लाक्षणिकेति ननु लक्षणापि शब्दवृत्तिप्रकारत्वा [२७०।१] न्न दोषमित्याशङ्क्याह तथा चेति ततश्च श्रुतिलक्षणाविवेको न स्यादिति भावः । मुख्यसामानाधिकरण्यसिद्ध्यर्थमपि व्यक्तेरेव शब्दार्थतेत्याह व्यक्तीति पशुचोदनाक्षिप्तहृदयादिव्यवहारसिद्ध्यर्थमपि व्यक्तेरेव शब्दार्थतेत्याह पशुमिति अपेक्षितविधिसिद्ध्यर्थमपि सैव शब्दार्थ इत्याह कर्मभिश्चेति सर्ववादिसिद्धत्वाच्च सैव वाच्येत्याह सिद्धेति अर्थैकत्वमिति सूत्रावयवमवतारयितुं शङ्कते किमितीति प्रयोगप्रतीत्युपपत्तेर्जातिर्वाच्या क्रियोपपत्तेश्च व्यक्तिरित्यर्थः । सूत्रावयवेनेमां शङ्कां निराकरोति नेति अविभागादिति सूत्रावयवावतारणाय शङ्कते सामान्येति एतदाशङ्कानिराकरणार्थत्वेन सूत्रावयवं व्याचष्टे व्यक्तीति अर्थैकत्वमिति सूत्रावयवावतारणार्थं यत्रेति शङ्काभाष्यं निरुपपत्तिकमाशङ्क्योपपादयति यत्रैवेति सूत्रावयवव्याख्यानार्थत्वमुक्तमिति भाष्यमुपपादयति नेति आदिशब्देन विकल्पोपादन गौरिति एकपदोच्चारणे क्रियाविशेषानवधारणेन तत् सम्भवासम्भवसन्देहादुच्चारणानर्थक्यसन्देहे संशयोत्पत्तिः कथमिति प्रश्नभाष्यं व्यक्तिपदार्थकस्येत्त्युत्तरानुरूपत्वादुपेक्ष्योत्तरानुरूपं स्वयं प्रश्नान्तरं करोति व्यक्तीति एतत्प्रश्नापाकरणार्थत्वेनोत्तरभाष्यं व्याचष्टे आकृतीति ननु कथं सामान्यावगतिरित्येतत्प्रश्नोत्तरभाष्यस्य प्रश्नानन्तरापाकरणार्थत्वेन व्याख्या न युक्तेत्याशङ्क्य यथाश्रुतस्य दूषणमाह भाष्यकारस्त्विति का तर्हि भाष्यस्य गतिरित्यपेक्षायामाह तेनेति अविभागादिति सूत्रावयवावतरणार्थो ऽयं प्रश्न इति भावः । एवं भाष्यकृतः शून्यहृदयतापत्तेरन्यथा व्याचष्टे यद्वेति ननु विशिष्टाभिधाने पूर्वपक्षिणो ऽभिमते कथं सामान्यावगतिरितिप्रश्नानुपपत्तिः शुद्धाभिधाने तु पक्षान्तरपरिग्रहे प्रतिज्ञान्तराणां निग्रहस्थानं स्यादित्याशङ्क्य व्यक्तिः शब्दार्थः इति पूर्वपक्षप्रतिज्ञाया द्वैविध्यं दर्श [२७१।२] यितुमाह तेनेति अद्रव्यशब्दत्वादिति सूत्र सङ्क्षेपेण व्याचष्टे तथा चेति तस्मान्नाकृतिवचन इति उपसंहारभाष्यं व्यक्तिः शब्दार्थ इति इति प्रतिज्ञानुरोधात् व्यतिरेकमुखेन व्यक्त्यभिधानोपसंहारार्थमेवेति सूत्रयितुं तथा चेत्युक्तम् । अन्यदर्शनाच्चेतिसूत्रमन्वयमुखेन तावत्स्वयं व्याचष्टे अन्यमिति यद्याकृतिवचन इति व्यतिरेकमुखेन भाष्यकारीयव्याख्यानमनुसन्धत्ते अन्यथेति पूर्वपक्षमुपसंहरति तस्मादित आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रमुभवत्र क्रियासम्भवादुभयाभिधानप्रतिपादनार्थम् कस्य चिद् भ्रान्तिःस्यात्तन्निवृत्त्यर्थं जातिमात्राभिधानप्रतिपादनार्थत्वेन व्याचष्टे इतीति नन्वाकृतेरपि व्यक्तिवच्चयनेनानुत्पाद्यत्वात्कथमाख्याश्रवणादाकृतेः पदार्थत्वविज्ञानमित्याशङ्क्याह अत्र हीति अत्र हि श्येनमिव चितं चयनेन निवर्त्तयेदिति वाक्यार्थ इत्यन्वयः । श्येन इव चीयतइति श्येनचिच्छब्दस्य कर्मव्युत्पत्तिप्रदर्शनार्थः स्थलशब्दः क्विप् प्रत्ययस्याग्न्याख्यात्वौपाधिकत्वप्रदर्शनार्थो ऽग्निशब्दसादृश्यवाचिशब्दाश्रवणात् कथं सादृश्यलाभ इत्याशङ्क्य परिशेषादित्युक्तम् ननु श्येनव्यक्तिभिः स्थलस्य चेतुं शक्यत्वात् कथं सादृश्यलाभ इत्याशङ्क्य श्येनशब्दार्थकरणत्वस्य निषेध्यमानत्वात्कर्म्मतैव वाच्येति दर्शयितुम् वाक्यार्थद्वयमुक्तम् नन्वेवमपि न सादृश्यलाभ इत्याशङ्क्यैतद्वाक्यार्थद्वयदूषणार्थं यावदित्याद्युक्तम् चयनेन श्येनव्यक्तिं कुर्यादित्येतद्यावन्नोपपद्यते तथाकृतिं कुर्यादित्येतदपि यावन्नोपपद्यते तावत्परिशेषात्सादृश्यलाभ इति यस्मादर्थं यावच्छब्दावृत्तिः तस्मादर्थं तावच्छब्दोत्कर्षेण योज्यं चयनेन श्येनव्यक्तिं कुर्यादित्येतत्कस्मान्नोपपद्यतइत्यपेक्षायाम् इष्टकाभिरित्युक्तम् स्नाय्वादिभिस्तर्हि श्येनव्यक्त्यन्तरादुद्भूतैः क्रियतामित्याशङ्क्य स्नाय्वादिभि अपीति हेतुद्वयमुक्तम् ननु स्त्रीपुंसमैथुनेन तर्हि क्रियतामित्याशङ्कय तेन निष्पन्नाया अपि श्येनव्यक्तेरग्निधारणाशक्तत्वात्तादर्थ्यासम्भवेन प्रयोजनान्तरकल्पनापत्तेर्मैथुने च चिनोतेरप्रसिद्धत्वादमुख्यार्थत्वापत्तेरग्न्याधारत्वासम्भवेनैव चाग्न्याख्यानुपपत्तेरग्नाख्यानिमित्तक्विप्प्रत्यय स्मृतिपरित्यागापत्तेश्चेत्युक्तम् इष्टकाबाधश्चात्रापि तुल्यः । चयनेनाकृतिं कुर्यादिति वाक्यार्थनुपपादनार्थम् आकृतेरपीत्युक्तम् ननु सादृश्यमपि श्येनव्यक्त्या सह करिष्यते ऽत आह ततश्चेति एकया वा श्येनव्यक्त्यन्तरविलक्षणया श्येनव्यक्त्या सहाग्न्याख्यस्थलस्य सादृश्यं सम्पद्येत सर्वाभिर्वा तत्रानिर्द्धारितरूपैकव्यक्तिसादृश्यस्य व्यक्तिनिरपेक्षजातिसादृश्यासम्भवेन जातिसादृश्यव्यतिरेकापत्तेर्निर्द्धारितरूपव्यक्त्यन्तरविलक्षणैकव्यक्तिसादृश्यं वाच्यं न चेष्टकाभिस्तत्सुसम्पादम् । सर्वव्यक्तिसादृश्यं तु तासां परस्परवैलक्षण्यादतीतानागतानां चाग्रहणेन तत्सादृश्याग्रहणादनाशङ्कयमेवेत्याशयः । ननु चेत्याशङ्काभाष्यं व्याचष्टे अथेति न साधकतम इत्युत्तरभाष्यमनुवादपूर्वकमाक्षिपति तत्रेति यद्यपि सिहं देवदत्तमानयेति सिंहशब्दवच्छयेनं चितमिति द्वितीयान्तः श्येनशब्दः स्यात्तथापि तावत्सादृश्यविशेषणार्थत्वेन मुख्यार्थत्वाभावान्मुख्यार्थत्वे ऽपि वा श्येनमानयेति गोशब्दवत्परविशेषणार्थत्वेन स्वप्रधानभूतार्थप्रतिपादकत्वाभावान्न मुख्यश्येनशब्दार्थस्य करणत्वेनाशङ्कितस्येप्सिततमत्वाभिधानायालम् अयं च द्वितीयान्तवत् भवति तस्याः श्येनशब्दानन्तर्याभावादित्यर्थः । क्विप्प्रत्ययान्तः शब्दो ऽत्रेप्सिततमत्वनिर्देशको ऽभिमतो न द्वितीयेतिभाष्यं समाधत्ते तेनेति स्मृतिपर्यालोच्यति ल्यब्लोपे पञ्चमी कथमेतत्स्मृतिपर्यालोचनयाश्येनशब्दार्थस्य करणत्वनिषेधो [२७२।१] ऽत आह कर्म्मणि हीति नन्वेवमपि प्रत्ययार्थमात्रस्य कर्मत्वावगतेर्नोपपदार्थस्य कर्मत्वं सिद्ध्येदित्याशङ्क्याह यदीति नन्वेवमप्युपपदस्य किमायातमित्याशङ्क्याह न चेति निरुपप दस्य चिनोतेरग्नौ प्रयोगादर्शनेनाग्न्याख्यात्वाभावात्प्रसिद्ध्यग्न्याख्यानिमित्तत्वाच्च क्विप्प्रत्ययस्मृतेः सोपपदस्यैव चिनोतेरग्न्याख्यात्वं गम्यत इत्यरथः । ननु कर्म्मणीति वाच्यसप्तम्या चिच्छब्दमात्रस्य कर्मवाचित्वावगतेरुपपद्स्य कर्मवाचित्वनियमाभावात् कथं सकलस्यैकार्थत्वमित्याशङ्क्याह तेनेति केवलस्य चिनोतेरग्न्याख्यानुपपदापेक्षया कर्मणि हन इत्येतत्सूत्रगतस्योपपदविशेषणस्य कर्मशब्दस्यावश्यानुवर्त्तनीयत्वादुपपदस्यापि कर्मवाचित्वावगतेर्न श्येन शब्दस्य कर्मवाचिना चिच्छब्देन सह वैय्यधिकरण्यमित्यर्थः । उपसंहरति ततश्चेति तृतीया तत्कृतार्थेन गुणवचनेनेत्यादितृतीयासमासलक्षणाभावादपि न श्येनशब्दार्थः करणमित्याह यदि वेति यद्यसौ करणं स्यात्ततस्तृतीयासमासो वाच्यः स चानुपपन्नो लक्षणाभावादित्यर्थः । नन्वश्रुततृतीयाकल्पनं चास्मिन्पक्षे स्यादित्याह तृतीया चेति काम्यत्वेन च श्रुताभिः श्येनव्यक्तिभिर्नित्यानामिष्टकानां बाधो ऽस्मिन्पक्षे स्यान्न चाबाधपक्षसम्भवो बाधपक्षव्याप्य इत्याह श्रुतेति विश्वजिति तत्परत्वान्निषिद्धानुष्ठानं प्रसज्येतेत्याह सत्यां चेति अत इत्याशङ्कानिराकरणोपसंहारभाष्यं व्याचष्टे तेनेति तथाकृतिवचनत्वे विकल्पतइति पुनरुक्तं भाष्यं चयनमाकृतौ सम्भवतीत्यनेन पुनरुक्तं भासमानं सूत्रार्थोपसंहारार्थत्वेन व्याख्यातुमाह अतश्चेति उभयत्रेत्याक्षेपभाष्यस्य तात्पर्यमाह नैतदिति व्यतिरेकमुखेन तात्पर्यं तु योगसाध्यं भाष्यकारोक्तं दृढयितुमन्वयमुस्वेन स्वयमुक्तं पर्यनुयोगं सामान्ये ऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थम् बहुत्वाच्चेत्युक्तम् परिहारसाम्यप्रतिपादनार्थं यदप्युच्यतइति भाष्यं व्याचष्टे अथेति परिहारसाम्ये ऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थं विशेषमाह युक्ता चेति व्यक्तेरेव वाचकरूपत्वेन क्रियायोगसिद्ध्यर्थमनन्वाख्यातो ऽपि तृतीयासमासो ऽङ्गीकरिष्यतइत्याह अगत्या वेति व्यक्तिपक्षे ऽन्यो ऽपि विशेषो ऽस्तीत्याह सङ्ख्येति किं पुनरत्र ज्याय इति काक्वा सूचितमाक्षेपतात्पर्यं व्याचष्टे तेनेति आकृतिः शब्दार्थ इति समाधानभाष्यसूचिताः पर्यनुयोगपरिहारसाम्ये ऽप्याकृतिपक्षस्य ज्यायस्त्वसाधिका युक्तीर्वक्तुं स्वरूपतस्तावत् व्याचष्टे इतीति प्रश्नपूर्वकं युक्तीराह कुत इति आद्यां युक्तिं व्याचष्टे गोशब्दोच्चारणे हीति गौरित्युक्ते सजातीयव्यक्त्यन्तराव्यवच्छेदेन विजातीयव्यक्तिमात्रव्यवच्छेदप्रतीत्या सामान्यप्रतीतेः पूर्वभावमुपपादयितुम् तदाकारेत्युक्तम् एवमपि कथं जातिवाचित्वनिश्चयो ऽत आह अतश्चेति द्वतीयां व्याचष्टे यदीति तृतीयां [२७३।१] व्याचष्टे गामिति ननु व्यक्तिपक्षज्यायस्त्वे युक्तीनामुपन्यस्तत्वात्कथमन्यतरपक्षावधाणेत्याशङ्क व्यक्तिपक्षं दूषयितिं त्रेधा विकल्पयति व्यक्तीति सर्वव्यक्त्यभिधानपक्षे तावत्कल्पना गौरवसम्बन्धानित्यत्वापत्तिव्यवहारद्व्येकवचनशुक्लादिसामानाधिकरण्यानुष्ठानासम्भवरूपदोषषट्कमाह तत्रेति व्यक्तिसमुदायाभिधानपक्षे ऽप्येतानेव दोषानतिदिशति एवमिति अतिदेशमुपपादयति तत्रापि हीति विशेष्यांशे ऽपि व्यक्तिव्यतिरिक्तसमुदायकल्पनाभिधानार्थक्यसम्बधानित्यत्वप्रसङ्गद्विवचनबहुवचनसामानाधिकरण्यानुष्ठानासम्भवरूपदोषषट्कमाह व्यक्तीति एकव्यक्त्यभिधानपक्षे ऽपि सम्बन्धानित्यत्वव्यवहारसामान्यधीद्विवचनबहुवचनप्रत्युत्तरकालप्रयोगासम्भवविशेषहेत्वभावरूपं दोषषट्कमाह अथेति भाष्योक्ता युक्तीर्व्याख्यातुं प्रतिजानाति अत इति वक्ष्यतइति शेषः । यदीति भाष्यं व्याचष्टे यदि चेति एकव्यक्त्यभिधानविषयत्वं भ [२७४।४] ष्योक्तं दोषाणां द्योतयितुम् एकेत्युक्तम् सर्वसामान्यविशेषविनिर्मुक्ता हीति कस्मिन्नर्थे हेतुरित्यपेक्षायां केन चित्साम्येन व्यक्त्यन्तरे प्रयोगो भविष्यतीत्याशङ्कानिराकरणहेतोरत्यन्तवैलक्षण्यस्योपपादनार्थे ऽयं हेतुरिति दर्शयितुमाह अत्यन्तेति गोत्वादिना हि सामान्येन खण्डमुण्डादिना च विशेषेण व्यक्तेर्व्यक्त्यन्तरेण साम्यं स्यान्न व्यक्तेः सामान्यरूपता विशेषरूपता वास्तीत्यर्थः । ननु ऐषां तर्हि साम्यं न भविष्यतीत्याशङ्क्याह न चेति नैष दोष इत्याद्याशङ्काभाष्यं व्याचष्टे ननु चेतियदीति परिहारभाष्यं व्याचष्टे यद्येवमिति न इत्युत्यतइत्याशङ्काभाष्यं व्याचष्टे पूर्वपक्षेति नेत्युच्यतइतीतिकरणव्याख्यानायैवं शब्दः व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव वर्त्तिष्यतइत्यानेन सामान्यविशेषविर्निर्मुक्तत्वं निमित्तीकृत्य व्यक्त्यन्ते वर्त्ततइति नोच्यतइत्येवं भाष्यं व्याख्यातुम् सामान्यविशेषविनिर्मुक्तत्वादित्युक्तम् यस्यैकस्यां व्यक्तौ सामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य वर्त्तते तथैव व्यक्त्यन्तरे इत्येवकारसूचितार्थकथनार्थं व्यक्तवित्युक्तम् किं त्तर्हि उच्यतइत्यपेक्षायां यो ऽर्थ इति भाष्यवाच्यव्यक्त्युपलक्षणत्वेन सामान्यविशेषविनिर्मुक्ततोच्यतइत्येतदर्थप्रतिपादनार्थतया व्याख्यातुमाह किं त्विति नन्वन्यापोहवती सामान्यविशेषाभावोपलक्षिता चेद्व्यक्तिर्वाच्यत्वेन कथ्यते ततस्तदाश्रयत्वोक्तिर्विरुद्धयेतेत्याशङ्क्य सामान्यविशेषव्यतिरिक्तत्वं सामान्यविशेषरूपत्वाभाववाचिना विनिर्मुक्तशब्देनोच्यते नाश्रयत्वाभाव इति व्यतिरेकशब्देनोक्तम् तृतीयेत्थम्भूतलक्षणा सामान्यविशेषनिर्मुक्तइत्युक्तम् इति नेयं निमित्तसप्तमी किं तु व्यक्त्यन्तरइतिवदियमपि विषयसप्तमीत्याशयः । निमित्तत्वोक्तिनिराकरणस्य सिद्धान्त्युक्तानिष्टापत्तिपरिहारोपयोगितां दर्शयितुमाह तत्रेति व्याख्याते ऽर्थे भाष्यं योजयितुमाह यो ह्यर्थ इति तेनेत्याशङ्कोपसंहारभाष्यं व्याचष्टे ततश्चेति अनेन च तेनापशब्दलक्षितेन व्यतिरिक्तत्वेनोपलक्षणेन व्यक्त्यन्तरे वृत्तिर्युक्ता । न चैतावतासामान्याभिधानापत्तिर्दोषो व्यक्त्यन्तरस्य सामान्यरूपत्वाभावादित्येवं भाष्यं व्याख्यातम् । यदीति परिहारभाष्यं गोत्वशाबलेयत्वादिसामान्यविशेषाश्रयत्वैकार्थसमवायिनः सामान्यविशेषविनिर्मुक्तत्वस्योपलक्षणत्वाभ्युपगमाच्छुद्धस्यापि चोपलक्षणत्वे ऽपि पिङ्गाक्षत्वाद्युपलक्षितस्य देवदत्तशब्दवाच्यत्वोक्तावपि सर्वस्मिस्तदुपलक्षिते प्रयोगादर्शनेनोपलक्षणसद्भावे सर्वत्र प्रयोगनियमाभावादयुक्तमाशङ्क्य यदि व्यक्त्यन्तरेष्वपि सर्वसामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य गोशब्दो भवति ततः शब्दप्रकृतिनिमित्तत्वात्सामान्यमेव वाच्यमापद्येतेति । यदि सामान्यविशेषविनि र्मुक्तत्वाद्व्यक्त्यन्तरं शब्दप्रवृत्तिविषयस्तर्हि सामान्यरूपमेव तद्व्यक्त्यन्तरं वाच्यं स्यादित्यनेनैवोक्तम् । यदि तु सर्वसामान्यविशेषविनिर्मुक्तत्वरूपं सामान्यं निमित्तं न भवति तदोपलक्षणमात्रस्यानेकत्र शब्दप्रवृत्तिहेतुत्वाभावाद्व्यक्त्यन्तरे वृत्तिरदोषो न भवति किं तु दोष एव । यदि तु निमित्ताभावे ऽपि व्यक्त्यन्तरेषु शब्दो भवति ततो ऽश्वव्यक्तावपि वर्त्ततइत्यनुषङ्गेणावृत्त्या वा योजयितुमाह सिद्धान्तेति आहेत्याशङ्काभाष्यं व्याचष्टे नैवमिति यदीति प [२७५।२] रिहारभाष्यं व्याचष्टे यद्येवमिति सामान्यप्रत्ययश्चेति भाष्यं प्रकृतासङ्गतत्वादपकृष्य यदि व्यक्तिः शब्दार्थो व्यक्त्यन्तरे न प्रयुज्येतेत्येतस्मादनन्तरं व्याख्येयमित्याह यत्त्विति भाष्यकृता त्वेकनिमित्तशून्ये ऽक्षशब्दस्यानेकत्र प्रयोगे ऽक्षत्रयानुगैतकसामान्यप्रत्ययादर्शनादिहाप्येकनिमित्ताभावे प्रयोदमात्रेणानुगतैकाकारप्रत्ययो न स्यादितिसङ्गति मत्वा प्रोक्तम् । एवं तर्हीत्याशङ्काभाष्यं व्याचष्टे शक्त्या तर्हीति नैवमिति परिहारभाष्यं व्याचष्टे नैवमपीति गोत्वमित्याशङ्काभाष्यं व्याचष्टे जात्येति एवं तर्हीति परिहारभाष्यं गोत्वविशिष्टा व्यक्तिर्गोशब्दवाच्यतया प्रतीयेतेत्यस्य सिद्धान्तिनो ऽप्यनिष्टत्वादयुक्तमाशङ्क्याकृत्यभिधानापादनार्थत्वेन व्याचष्टे सत्यमिति अस्तीत्याशङ्काभाष्यं प्रतिज्ञान्तराख्यनिग्रहस्थानापत्तेरयुक्तमाशङ्क्य पूर्वपक्षान्तरपरिग्रहार्थत्वेन व्याचष्टे पूर्वपक्षेति नैतदेवमिति परिहारभाष्यं व्याचष्टे इतर इति नन्वक्षा [२७६।३] दिशब्देष्वनेकार्थप्रत्ययस्यानेकशक्तिकल्पनाहेतुतया क्लृप्तस्येहापि भावादस्त्यनेकशक्तिकल्पनायां प्रमाणमित्याशङ्क्याह नचेति परस्परासम्बन्धार्थत्वेनागत्या तत्रानेकशक्तिकल्पनासामान्यविशेषयोस्तु परस्परान्वयादेकाभिधानेनेतरप्रतीतिसिद्धेरस्ति गतिरित्याशयः । तदेतदिति भाष्येण शब्दाकृतिप्रत्ययसन्निधाने व्यक्तिप्रत्ययस्याकृतिप्रत्यय एव हेतुर्न शब्द इति कथं निश्चय इत्याशङ्क्यान्वयव्यतिरेकाभ्यां निश्चय उक्तः तद्व्याचष्टे अन्वयेति अनन्तरकरिष्यमाणपक्षान्तरशङ्कोत्थापनार्थं सिद्धान्तमुपसंहरति तेनेति ननु भवत्वाकृतिः शब्दार्थः तथापि व्यक्तिधर्मत्वेन तस्यास्तन्निरपेक्षायाः प्रतीत्ययोगाद्व्यक्तिविशिष्टैवाकृतिः शब्दार्थो भविष्यतीति पक्षान्तरशङ्कार्थं नन्वितिभाष्यं तस्माच्छब्द आकृतिप्रत्ययस्य निमित्तमित्यन्वयव्यतिरेकसाधितविभागोपसंहारस्य ननु गुणभूतेति चाकृतिविशिष्टव्यक्त्यभिधानशङ्काशेषनिराकरणस्य च वक्ष्यमाणत्वात्पूर्वोपन्यस्तपक्षापर्यवसानावगतेर्मध्ये पक्षान्तरोपन्यासस्यासङ्गतत्वादयुक्तमाशङ्क्य समर्थयते साम्प्रतमिति तस्माच्छब्द इत्यस्य व्यक्तिविशिष्टाकृतिपक्षनिराकरणोपसंहारार्थत्वेनापि व्याख्यातुं शक्यत्वान्ननु गुणभूतेत्याशङ्कायाश्चोभयसाधारण्योपपत्तेः पक्षान्तरोपन्यासान्यथानुपपत्त्यैव पूर्वोपन्यस्तपक्षपर्यवसाननिश्चयात्पक्षान्तरोपन्या।?।सावसरोपपत्तिसूचनार्थम् सम्प्रत्युक्तम् इति साम्प्रतमितीतिकरणोपक्रमो वायं ग्रन्थः । यस्मापूर्वोक्रान्तः पक्षः समाप्तस्तस्मात्साम्प्रतं पक्षान्तरोपन्यासो युक्त इतीति करणो हेत्वर्थः । पूर्वं ग्रन्थशेषत्वे ऽग्रन्थशेषत्वे ऽनुसमाप्त्यर्थः । पक्षान्तरकरणबीजमाह तदेतदिति आदावेव वाशब्दप्रयोगेणास्य व्याख्यानस्य परमतत्वं सूचितम् । व्यक्तिविशिष्टाकृततिपक्षनिरासस्य विस्तरोक्त्यभावेनोपसंहारानर्थक्यात्तस्माच्छब्द इत्यस्य वाञ्जस्येन तदर्थाप्रतीतेः । ननु गुणभूतेत्यस्य चाकृतिर्गुणभावेन विवक्षितेत्येतदनुभाषणार्थत्वा वगतेः साधारण्यायोगात्सिद्धान्तोपसंहारं च विनास्य पक्षस्यानवतारादश्रुतोपसंहारापत्तेरिति स्वमतेन व्याचष्टे यद्वेति व्यक्तिधर्मत्वेनाकृतेस्ततः प्राक् प्रतीत्ययोगादन्वयव्यतिरेकाक्षेपार्थत्वेन सङ्गतिरित्याशयः । ननु व्यक्तिविशिष्टाकृतिपक्षोपन्यासात् कथं शुद्धाया व्यक्तेः शब्दार्थत्वं सिद्ध्येदित्याशङ्क्याह अनेनेति आकृतेशब्दार्थत्वं मदभिमतमनेन पूर्वपक्षिणाभ्युपगतमेव क्रियासम्भवश्च व्यक्तिविशेषणाद्भविष्यतीत्यभिप्रायेण सिद्धान्ते व्यक्तेरपि गुणत्वेनाभिधानेमिच्छति ततो ऽहं पूर्वं शुद्धव्यक्त्यभिधानं साधयिष्यामीत्यनेनाभिप्रायेणेदमुत्यतइत्यन्वयः । व्यक्तिविशिष्टायां तदिति परिहारभाष्यं व्याचष्टे इतरस्त्विति व्यक्तभिधानपक्षोक्तसर्वदोषोपलक्षणार्थत्वमस्य दर्शयितुमाह यदीति तस्मादिति ग्रन्थं पूर्वोक्तान्वयव्यतिरेकसाधितव्यक्तिप्रत्ययनिमित्तविभागोपसंहारार्थत्वेन स्पष्टत्वादव्याख्यायात्र ग्रन्थपातनिकार्थं शुद्धाकृतिपक्षं सिद्धान्त्युक्तमुपसंहरति तेनेति पूर्वव्याख्यानेन शब्दः शुद्धाकृतिप्रत्ययस्य निमित्तं व्यक्तिप्रत्ययस्य त्वाकृतिप्रत्यय एवेत्युपसंहारभाष्यव्याख्यानार्थो ऽयं ग्रन्थः । नन्वाकृतेर्व्यक्तिधर्मत्वाच्छुद्धाया वाच्यत्वं न युक्तमित्याशङ्कार्थं नन्विति भाष्यं व्याचष्टे नन्विति न तु [२७२।१] गुणीभाव इति परिहारभाष्यं व्याचष्टे नैवमिति वस्तुतो व्यक्तिधर्म्मत्वेऽप्याकृतेः शब्दतः स्वरूपमात्रेण प्रतीतेः शुद्धाभिधानाविरोध इत्याशयः । व्यक्त्यभिधाने ऽप्याकृतेरुपलक्षणत्वाद्वयक्त्यक्त्यन्तरप्रयोगो व्यवस्था वोपपन्नेति पूर्वपक्षिणोक्ते यत्सिद्धान्तिते एवं तर्हीत्यादिनोपलक्षणत्वे सत्याकृतेरपि विशेषणत्वेनाभिधानम् प्रसज्येतेत्युक्तम् । तदाक्षेपार्थं ननु चेत्याशङ्काभाष्यं व्याचष्टे नन्विति भाष्यकारीयदण्डशब्दोदाहरणमाक्षेप्तुमुपन्यस्यति भाष्येति द्वेधा ऽक्षिपति नन्विति आद्यमाक्षेवं परिहरति यत्विति विशेषणोपलक्षणशब्दयोर्व्यावर्त्तकत्वापरपर्यायाविशेषणत्वात्स्वतन्त्रस्यैव व्यावर्त्तकस्योपलक्षणत्वादस्त्येव भेद इत्याशङ्क्य परिहारान्तरमाह यद्वेति किं तत्समान्यमित्यपेक्षिते यथा दण्डो विशिष्टवाचिना प्रत्ययेनानभिधेयस्तथाकृतिरपि तदुपलक्षितव्यक्तिवाचिना गोशब्देनेत्यनभिधेयैव ! यथा दण्डो व्यावर्त्तकस्तथाकृतिरपीति विशेषवत्त्वेन वेति सामान्यद्वयमुक्तम् आकृतिविशिष्टेति वास्मिन्परिहारे तदुपलक्षिताभिप्रायमुपचाराद्व्याख्येयम् । समाधानमुपसंहरति ततश्चेति ननूपलक्षणत्वे ऽष्याकृतेः सामान्यप्रत्ययश्च न प्राप्नोतीति दूषणं परिहर्त्तुमशक्यम् । उपलक्षणस्योपलक्ष्ये स्वानुरक्तप्रत्ययजनकत्वादर्शनात् न ह्येकापवरकस्याक्षत्रयस्य यदिदानीमस्मिन्नपरवके ऽस्ति तदक्षशब्दवाच्यमित्येकापवरकत्वमुपलक्षणीकृत्य केन चित्सम्बन्धकथने कृते ऽपि व्यवहारकाले ऽक्षब्दोच्चारणादेकापवरकस्थत्वाकारेण नाक्षः प्रतीयते किं त्वक्षमात्रं तेनोपलक्षणत्वे ऽपि गवाकारप्रतीत्ययोगात्सामान्यप्रत्ययो न स्यादेवेत्यनर्थकमुपलक्षणत्वाङ्गीकरणमित्याशङ्क्याह एवं चेति एतद्दोषापरिहारोत्तरदोषपरिहारार्थोपलक्षणत्वोक्तिरित्याशयः । नैतदितिपरिहारभाष्यं व्याचष्टे तदेतदिति यथोपलक्षणाभावे ऽश्वव्यक्तावपि गोशब्दोवर्त्ततइत्यतिप्रसक्तिरुक्ता तथा चातो ऽप्युपलक्षणस्याप्रतीतस्याविशेषकत्वात्प्राप्नोतीत्यर्थः । नन्वेवं सति मत्वर्थीयेभ्यो ऽपि विशेषणांशाभिधानद्वारेण तदविनाभावाद्विशिष्टा प्रत्ययोपपत्तिस्तेषामपि न विशिष्टवाचिता स्यादित्याशङ्कानिराकरणार्थं न च यथेति भाष्यं व्याचष्टे न चेति प्रकृत्यर्थस्य दण्डस्य प्रत्ययेन विशेषणत्वोक्तौ [२७८।२] विशेषणत्वान्यथानुपपत्त्या विशिष्टप्रतीतिसम्भवे ऽपि मत्वर्थीयप्रत्ययस्य विशेषणे प्रयोगाभावाद्विशिष्टवाचितेष्टा तद्वज्जातिशब्दानामप्याकृतौ प्रयोगाभावे सति विशिष्टवाचिता स्यान्न चासावस्ति श्येनचिच्छब्दे जातिशब्दस्याकृतौ प्रयोगदर्शनादित्यर्थः । यदा च केवलाकृत्यभिधायिश्येनशब्दो दृष्टस्तदान्वयव्यतिरेकाभ्यामप्याकृतिवाचिता निश्चीयते व्यक्तिसम्बन्धाभावे ऽप्याकृतौ प्रयोगादाकृतिसम्बन्धं विना क्व चिदपि व्यक्तावप्रयोगादिति प्रतिपादनार्थं तदेवमिति भाष्यं व्याचष्टे अन्वयेति व्यक्तेरशाब्दत्वे ऽन्वयव्यतिरेकौ पूर्वमुक्तौ शब्दस्याकृतिवाचितायामधुनेति विवेकः तस्मादित्युपसंहारभाष्यं व्यक्त्यभिधाने निरस्ते ऽपि सम्बन्धाभिधानादिपूर्वपक्षाणामनिरस्तकत्वात्परिशेषासिद्धेरयुक्तमाशङ्क्य समर्थयते एवमिति न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमितिचेदिति सूत्रं प्रथमं वेति चेदिति सूत्रावयवेनाकृत्यभिधानपक्षपरामर्शादाकृतिवाचितायामालम्भनादिक्रिया न स्यादन्यं तद्वर्णं तद्वयसमालभेतेति चार्थान्तरे आलम्भविधानं न स्यात् षड् देया इति च द्रव्याश्रयस्य सङ्ख्यालक्षणस्य वाचकः षडिति शब्दो न स्यादिति पूर्वपक्षसूत्रार्थानुभाषणार्थत्वेनाथ यदुक्तमित्यादिभाष्येण व्याख्याय तत्परिहारार्थत्वेन तदर्थत्वात्प्रयोगस्याविभाग इति सूत्रं व्याख्यातुं सङ्क्षेपेणानुसन्धत्ते ये त्विति भाष्यकृतेदं सूत्रं न्यायेन शब्दस्याकृत्यर्थत्वावधारणादालम्भादिक्रियाया द्रव्ये प्रयोगस्यानुष्ठानस्य षडादिसङ्ख्यायाश्च द्रव्ये प्रकर्षकत्वेन विशेषकत्वेन योगस्यान्वयस्योपाकृतपशुना सैव प्रतिनिहिते द्रव्यान्तरे प्रयोगस्यानुष्ठानस्याविभागो द्रव्यस्याकृत्या सम्बन्धः कारणं जातिवाचिनो ऽपि शब्दस्य लक्षणया व्यक्तिपरत्वादविरोध इत्याशय इत्येवं व्याख्यातं तत्स्पष्टत्वादव्याख्याय स्वयमन्यथा व्याचष्टे तदर्थत्वादिति प्रयुज्यमानक्रियाप्रयोजनत्वेनानिर्दिष्टमप्यपूर्वं बुद्धिस्थत्वात्तच्छब्देन परामृश्यापूर्वार्थत्वादालम्भनादेराकृतिपक्षे ऽपि प्रयोगस्यानुष्ठानस्याविशेष इति व्याख्येयमित्यर्थः । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वावगतिः कथं पक्षद्वये प्रयोगस्य विशेष इत्याशङ्क्याह द्रव्यं चेति यागद्वारा पश्वादेरपूर्वसाधनत्वं न चाकृतिर्निष्क्रियत्वात्त्यक्तुं योक्तुं शक्येत्यर्थः । किमर्थं तर्ह्याकृत्यभिधानमत आह तदभिधानं त्विति नन्वदृष्टार्थत्वेनैव तर्ह्याकृतेः प्रोक्षणादिवदपूर्वसाधनत्वं भविष्यतीत्याशङ्क्य क्रियारूपाया जातेस्तद् द्वारमन्तरेणादृष्टसाधनत्वअप्रतीतेरित्युक्तम् नन्वाकृतेः साधनत्वाभावे पशुना यजेतेत्यादिकरणनिर्द्देशा न युज्यन्तइत्याशङ्क्याह यदपीति अनुपात्तस्य द्रव्यस्य क्रियासाधनाशक्तेरनवधारितविशेषस्य चोपादानायोगादाकृत्या च विना द्रव्यविशेषानवधारणाद् द्रव्यविशेषावच्छेदकत्वेनैवाकृतेः करणत्वं न साक्षादित्यर्थः । अत्रादिसूत्रं योजयति तेनेति न द्रव्यमित्यनुभाषणसूत्रगतेन द्रव्यशब्देन बुद्धिस्थं द्रव्यं तच्छब्देन परामृश्यतइति भावः । प्रयोगस्याविभाग इतिसूत्रावयवव्याख्यानार्थं द्रव्ये वेत्युक्तं तमेवावतारणपूर्वकं व्याख्यातार्थे योजयति तदा हेति आकृतिपक्षे ऽपि प्रयोगस्याविशेष इत्येवमेव वात्राप्यपूर्वार्थत्वादिति पूर्वव्याख्याभवदुत्तरावयवो योज्य इत्या [२७९।१] ह अथ वेति व्यक्त्याकृत्योस्त्वभेदविवक्षायां भेदानामेव वायं प्रत्येकं सर्वेषां वाचक इति पूर्वप्रस्थानोक्तन्यायेन पक्षद्वये ऽपि व्यक्त्यभिधानाविशेषात्स्वरूपेणैवासौ वाच्या ज्यात्यात्मना वेत्येतावन्मात्रस्य विचारार्थत्वात्सिद्धान्ते ऽपि क्रियाद्युत्पत्तेस्तुल्यत्वाद्यदि परं जात्यात्मना व्यक्त्यभिधानपक्षे निर्द्धारितविशेषव्यक्त्युपादानासम्भवात् क्रियाद्यनुपपत्तिर्वाच्या तच्च स्वरूपेणाप्येकव्यक्त्यभिधाने तदुत्पत्तेः प्रागुत्तरकालं च क्रियानुपपत्तेः सर्वव्यक्त्यभिधाने च सर्वोपादानाशक्तेः कदा चिदपि क्रियानुष्ठानासम्भवेनानिर्धारितविशेषव्यक्त्यभिधानस्यावश्याङ्गीकार्यत्वात्तुल्यमित्येतदर्थप्रतिपादनायान्यथासूत्रं व्याचष्टे यद्वेति द्रव्यशब्दवाच्याया व्यक्तेरुभयरूपत्वे ऽपि व्यावृत्ताकारतात्र व्यक्तिरूपशब्देनाभिमता पक्षविकल्पार्थौ कदाचिच्छब्दौ अस्मिन्नपि व्याख्याने पूर्वप्रकृतद्रव्यपरामर्शिनं तच्छब्दमभिप्रेत्यानुवृत्तव्यावृत्तोभयरूपवदनिर्धारितविशेषद्रव्यार्थत्वाच्छब्दस्य पूर्वपक्षे ऽपि प्रयोगस्यानुष्ठानस्य निर्द्धारितविशेषव्यक्तिविषयत्वायोगान्न विभागो व्यादृशतेति योजयितुम् शब्दस्येत्युक्तम् यद्वा जातिश्च व्यक्तिश्च तामस एवार्थ इत्येवं तदर्थत्वादिति सूत्रावयवेनैव जातिव्यक्त्योरत्यन्तभेदाभावो ऽभिधीयते ततश्चाकृतौ विहितस्या लम्भादिप्रयोगस्य विभागो निष्कृष्टाकृतिविषयता नास्तीति न क्रियानुपपत्त्यादिदोषापत्तिरिति चतुर्थी व्याख्यामाह जातेर्वेति भेदे ऽपि व्याकृतिर्व्यक्त्या न क्रिया स्यादित्यनुभाषणसूत्रनिर्द्दिष्टां क्रियां तच्छब्देन परामृश्याप्याकृतावनवच्छिन्नव्यक्त्युपादानाभावेन आकृतिनिरपेक्षया व्यक्त्या साधनत्वायोगेन उभयोरन्योन्यापेक्षयो र्यागापूर्वसाधनत्वावसायात्साधनत्वापेक्षायाः शक्तेरपि साधनशक्तत्वाच्च । धर्म्माणां कर्मसम्बन्धे च शेषिसाहित्यस्याविवक्षितत्वेनैकत्रापि कृतानामुपकारकत्वोपपत्तेरपूर्वसाधनव्रीहिष्विव विहितानां धर्माणां यवेष्वाकृतावपि विहितानां व्यक्तावनुष्ठानोपपत्ते र्व्यक्त्याकृत्योर्द्वयोर्यागापूर्वार्थत्वाच्चाकृतौ विहितस्यालम्भादिप्रयोगस्य व्यक्तिविषयत्वाद्विभागो भेदो नास्तीति नाकृत्यभिधानपक्षे क्रियानुपपत्तिरितिसूत्रं व्याख्येयमित्याह यद्वेति तस्मादित्यु पसंहारभाष्यं व्याचष्टे तस्मादिति सास्माद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः गोशब्द इति विज्ञातमन्वयव्यतिरेकिणमित्यनेन न्यायेनान्वयव्यतिरेकबलेनैवाकृत्यभिधानस्याविचारितसिद्धत्वात्प्रयोगचोदनाद्यनुपपत्तेस्तदसम्भावच्छङ्कामात्रं निराकर्त्तुमेतदधिकरणमिति सूचयितुम् आकृतिपक्षे ऽपीत्युक्तम्
इति श्रीमत्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट्टमाधवात्मजभट्टसोमेश्वरविरचितायां तन्त्रवार्त्तिकटीकायां सर्वानवद्यकारिण्यां न्यायसुधाख्यायां प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ।