16 प्राकृतधर्माणां विकृतावपूर्वपदार्थानङ्गत्वाधिकरणम्

यंद्ययमङ्गोपदेश1 एवानुषङ्गरूपेण साधारणः स्यात्, यदि च शास्त्राण्यतिदिश्येरंस्ततः शास्त्रार्थः प्रकृतिवद्विकृतिष्वपि कल्प्यमानः सर्वार्थत्वेनावधार्यते कार्यप्राप्तिपुरःसरस्तु धर्मातिदेश इष्टः2 । तत्र यागगतेन व्यापारेण गृहीतेनाऽऽत्मसिद्धयर्थं नियमादृष्टद्वारभूतानि दृष्टान्यदृष्टानि च प्रयोजनानि गृह्यन्ते । तानि च निर्ज्ञातपरिमाणान्येव प्राप्नुवन्ति । तैश्चाऽऽत्मसिद्धयर्थं पदार्थाः प्राप्यमाणाः स्वात्मनियता एव प्राप्यन्ते । न च यूपावटास्तरणं नाम बर्हिषः कार्यं प्रकृतौ विज्ञातं, येन बर्हिस्तद्धर्मा वा गृह्येरन् । यैस्तु वेदिस्तरणादिभिर्गृह्यन्ते न तेषां यूपावटस्तरणमन्तरेण किंचिन्नोपपद्यत इति न तदर्थं प्राप्यन्ते । तस्मादिहापूर्वस्यानधिकार इति । “प्रधानं3 हि चोदकोऽपेक्षत” इत्यादिना, “अपिना” साधारण्यं शास्त्रातिदेशो4 नेत्येतन्निराकरोति । शास्त्रापेक्षायां हि सर्वमभिनवं प्रकृतिवत्पुनः कल्पयितव्यं स्यात् । दूरस्थसंबन्धादिक्लेशश्च स्थित एव । शास्त्रातिदेशात्सामानविध्याच्च, पशुधर्माणां मध्येऽग्नीषोमसंस्कारार्थः पशुपुरोडाशो देवतान्तरे न प्राप्नोति । तस्योहस्य च दर्शनं विरुध्येत । तस्मादुपकारातिदेश इति ॥ ३१ ॥

इति प्राकृतधर्माणां विकृतावपूर्वपदार्थानङ्गत्वाधिकरणम् ॥ १६ ॥


  1. ‘ये च प्रधानस्य’ इत्यादि सिद्धान्तभाष्यं तात्पर्यतो व्याचष्टे-यद्ययमित्यादिना । ↩︎

  2. इष्ट इति—सप्तमाद्ये प्रकृतिविकृतिसाधारण्यनिरासेन, दशमाद्ये च कार्यप्राप्तिपुरःसरमतिदेशोऽभिप्रेत इत्यर्थः । ↩︎

  3. प्रधानं हीत्यनेन शास्त्रातिदेशः, अपि चेत्यनेनोपदेशस्य प्रकृतिविकृतिसाधारण्यं च निरंस्तत इत्वेवं भाष्यमवयवशो व्याख्यास्याति—प्रधानं हीत्यादिना । ↩︎

  4. शास्त्रातिदेश इत्यारभ्य स्थित एवेत्यन्तो ग्रन्थो काशीमुद्रितपुस्तकेऽनुपलभ्यमानोऽपि व्याख्यानाद्यवलम्बनेन स्थापितः । ↩︎