09 द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणम्

उखाधिश्रयणावहन्त्यादीनां द्वादशानां कर्मद्वंद्वानां याजमान आध्वर्यवे च पठितानां ह्याम्नातमन्त्रवदुभाभ्यां प्रयोक्तुमशक्यत्वाद्याजमानसमाख्यानाद्यजमानकर्तृकत्वमिति ॥ १९ ॥

अनुत्पन्नानां द्वंद्वत्वापादनाशक्तेर्विधायकशब्दाभावाच्च नैषां याजमान एवोत्पत्तिः । किं तर्हि । आध्वर्यवे । तत्र च कर्त्राकाङ्क्षा तदर्थश्च परिक्रय इत्यवगते कर्तरि न द्वंद्वाम्नानवेलायामपेक्षाऽस्तीति यजमानकर्तृत्वानुपपत्तिः । तत्र स्वरूपस्यासति यजमानसंबन्धे द्वंद्वता कथं1 याजमानी क्रियेत । न च सा कर्त्रन्तरेण क्रियमाणानां संभवति । समासन्नकरणं हि द्वंद्वता । न चान्यकर्तृकां क्रियामन्यः समासन्नां कर्तुं समर्थः । न च समासन्नकरणानुरोधेन क्रियास्वरूपमपि याजमानं संभवति । अतोऽङ्गगुणविरोधन्यायात्तदप्याध्वर्यवमेव2 । यजमानस्तु स्मारयिष्यति द्वंद्वतामिति समाख्यार्थवत्ता ॥ २० ॥

इति द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणम् ॥ ९ ॥


  1. कथमिति पाठस्तु क्वचिदपि नोपलभ्यते । परं तु ‘तत्र स्वरूपस्यासति’ इत्यादिवार्तिकस्य ‘तत्राध्वर्युः पदार्थान्’ इत्यादि भाष्यग्रन्थव्याख्यानार्थस्य यथाश्रुते विवक्षितार्थालाभेन कथमित्यादिरावश्यकमिति भाति । ↩︎

  2. ( अ॰ १२ पा॰ २ अ॰ ९ सू॰ २७ ) अत्रत्यादिति शेषः । ↩︎