प्रधानकामस्य1 यजेतेत्यात्मनेपदात्सामानाधिकरण्यादाधानगताच्चाऽऽत्मनेपदात्प्रधानकर्तृविषयत्वेऽन्यतः2 सिद्धे ये गुणकामाः सदोमानविशेषादिषु श्रुतास्तेषु मिनुयादित्यनेन समानकर्तृकत्वादविरुद्धया समाख्ययाऽध्वर्युविषयत्वे प्राप्ते, प्रधानगतेनाऽऽत्मनेपदेन समस्तप्रयोगविषयः फलसंबन्धो यजमानविषयोऽवगम्यत इति यदि कामयेत यजमान इति प्रकरणादवर्धाय तद्भागित्वं गम्यते । तथा चाध्वर्युव्यापारे परस्मैपदमुपपत्स्यते । अन्यथा ‘डुमिञ् प्रक्षेपणे’ इत्यस्य कर्त्रभिप्रायक्रियाफलविवक्षायां ञित्वादात्मनेपदं स्यात् । अनया च श्रुत्या3 सामानाधिकरण्यं वाक्यगम्यं बाधितमित्यदोषः । तद्वशेन वा यजमानप्रार्थनानुसारो योऽध्वर्यौः काम एष मे यजमानो वृष्टिं प्राप्नुयादिति तदपेक्षया सामानाधिकरण्यमविरुद्धम् । तथाशब्देन च पूर्वाधिकरणादेतावदतिदिश्यते समाख्यया न नियम्यत इति ॥ १३ ॥
अन्यत्र वचनादितरेषां स्यादिह तादृशस्य वचनस्याभावाद्वयपदेशादित्युच्यते । वाशब्दोपादानाद्यजमानव्यतिरेकेण चाऽऽत्मग्रहणाच्चतुर्थ्या च विस्पष्टतादर्थ्यप्रतीतेः ‘आत्मने वा यजमानाय वा’ इति कर्तृद्वयस्य फलसंबन्ध इति शक्यं विज्ञातुम् ॥ १४ ॥
इति गुणजन्यकामानां याजमानत्वाधिकरणम् ॥ ५ ॥