ऋत्विक्शब्दो हि निपात्यमान एव उपपदधातुप्रत्ययसमन्वितेऽर्थे वर्तते, ऋतौ यजन्तीति ऋत्विजः । एतस्माच्चेत्कारणादृत्विजो भवन्ति हन्त सर्वेषां तदविशिष्टमिति तदनुसारमृत्विक्त्वमपि सर्वेषामेव प्राप्तम् । अतश्चत्वारः,1 पञ्च, षट्, सप्तदशेत्याद्या अवयवा अप्येतस्य महान्त इत्येवं स्तोतुमवयुत्यवादः ॥ ३२ ॥
“परिसंख्यानादिति” भाष्यकारेण परिसंख्यैव व्याख्यता । सप्तदशस्वन्येषु च प्राप्तवत्सु सप्तदशपुनःश्रवणं न तावन्मात्रपरिग्रहार्थं, योऽर्थादितराभावप्रत्ययस्तमाश्रयितुं, न सप्तदशस्वरूपं प्रत्यापयितुम् । सर्वत्र हि द्वयोः संबन्धे कृते तत्स्वरूपं संसर्गश्च प्रतीयतेऽन्यनिवृत्तिश्च । क्वचिच्च किंचित्प्रयोजनवशेन विवक्ष्यते । स्वरूपसंसर्गासंभवे च बलादेव विधिरितरनिवृत्तिप्रयोजनो भवति । अतश्च त्रिदोषत्वमदोषः । स्वार्थस्य प्राप्तत्वेनैव हेयत्वात्प्रतीतस्य च परार्थस्यापरिग्रहे विध्यानर्थक्यात् । परस्तु कर्मकरणमेव हेतुं परिगृह्य सति निमित्तेऽन्येष्वपि शब्दप्रवृत्त्यवश्यंभावित्वं मत्वाऽऽह— “ननु प्रतिषिध्यमानेष्वपी”ति । कार्यप्रतिषेधेनैव तावत्प्रक्रमते । सर्वत्र हि स्वरूपप्रतिषेधासंभवात्कार्यं प्रतिषिध्यते । तद्यथा न ममैष पुत्रः, पुत्रकार्ये न प्रवर्तत इत्यर्थः । एवं योऽयमर्थात्सप्तदशभ्योऽधिकानां प्रतिषेधः प्रतीयते स कार्यविषयो न स्वरूपविषय इति द्रष्टव्यम् । वरणं तु शब्दप्रवृत्तिनिमित्तत्वादनुदाहरणमिति2 चेत् । न । अस्मिन्पक्षे कर्मयोगादेव शब्दप्रयोगसिद्धेः । इतरस्तु स्वरूपाप्रतिषेधात्तन्निमित्तं कार्यमपि दुष्प्रतिषेधमिति कथमृतौ यजतां तेषामृत्विक्त्वं न स्यादित्याह । सिद्धान्तवादी तु तत्त्वेनोत्तरं विवक्षमाण एवं तर्हि द्विविधोऽयमित्यादि प्रक्रमते । यद्येष यौगिकः स्यात्ततो न कुतश्चिन्निवर्तते । संस्कारशब्दस्त्वयं, वरणभरणे3 हि संस्कारौ । ते येषां न स्तो न ते सत्यपि क्रियायोगे तच्छब्दवाच्या भविष्यन्ति । ते च वरणभरणे सप्तदशानामेव यजमानेन क्रियेते । तन्निमितत्वाश्रयणे च ‘सप्तदशर्त्विजः’ इत्यनुवादोऽवकल्पिष्यते । अन्यथा त्ववयवानुवादो मृषात्वरूपः कल्प्येत । तस्मान्नातिप्रसङ्गः । ननु च य ऋत्विजस्तेषां वरणभरणे येषां च ते, त ऋत्विज इतीतरेतराश्रयं प्राप्नोति । नैष दोषः । प्रथमं तावदाञ्जस्येनैषा वचनव्यक्तिरन्विष्यते । य ऋत्विजस्तेषां वरणभरणे इति । यदा तु वृक्षादिवत्ते लोकव्यवहारेष्वप्रसिद्धास्तदाऽर्थादयमर्थो भवति वरणेन ऋत्विजः करोतीति । यथैवास्य सूत्रस्य शाटकं वयेत्युक्ते वानेन शाटकः क्रियत इति हि भाविनि संज्ञाविज्ञानादविरोधो विज्ञायते तथैवात्र प्रत्येतव्यम् । एतेन ‘अध्वर्युं वृणीते’ इति तद्विशेषवचनानि व्याख्यातानि । एवं च व्रियमाणानामृत्विजां द्वितीयानिर्देशोऽवकल्पिष्यते । वरणं चाऽऽधानवत्क्रर्मौपयिकांस्तानुत्पादयद्दृष्टार्थं भविष्यति । वेदपौर्वापर्यपर्यालोचनात्तु ते वरणेन क्रियन्त इत्यवसानान्नाप्रसिद्धिः । न4 त्विदं निपातनाख्यानद्वारेण5 ऋतुयजननिमित्तत्वं गम्यमानं सत्परित्यक्तुं युज्यते । न च वरणभरणयोः सिद्धर्त्विक्संबन्धित्वेन तानुद्दिश्य श्रूयमाणयोर्विपरीता वचनव्यक्तिर्युक्ता । यच्चाप्रसिद्धाः संस्कर्तुं न शक्यन्त इति वरणेऽप्येवं तुल्यम् । न हि कश्चिदप्रसिद्धं वस्तु कुरुष्वेत्युक्तोऽप्यध्यवस्यति6 । नापि तेन व्यापृतेनापि7 तन्निमित्ता निष्पत्तिरध्यवसीयते । यदि तु वेदवाक्यपौर्वापर्येण ज्ञायत इत्युच्यते ततः सिद्धानामेव संस्कारः सुखतरमध्यवसीयते । जानाति ह्येवं वरणं कुर्वन्यथा वेदस्य प्रसिद्धा एव केचिदृत्विजः । मम तु ते वरणद्वारेण प्रसिध्यन्ति, प्राक्तस्मादन्येनानवधारितत्वात् । अथवा तस्यापि सामान्यतोऽस्त्येव प्रसिद्धिः । सर्वो हि भावः केनचिदात्मना सिध्यन्व्यवहारं साधयति । सर्वात्मिकायाः सिद्धेः क्वचिदप्यभावात् । अतो य ऋतौ यजन्ति ये वाऽऽध्वर्यवादिकं कुर्वन्ति त ऋत्विजः । के च ते, ये तत्समर्थाः, सामर्थ्यरहितानामनधिकारात् । के च समर्थाः, ये विद्वांसः । तत्रापि स्मृतिप्रामाण्याद्ये ब्राह्मणास्तदविशेषप्रसङ्गे पुनर्विशेषो भवति वरणोपात्ता य इति, ततोऽपि पुनर्दक्षिणाभिर्भ्रियमाणा इति । सेयमेतैर्विशेषैः शब्दार्थसंबन्धव्युत्पत्तिर्भवति । विज्ञानं च तद्विषयमन्यथाऽन्यथा च प्रसज्यमानं विशेषविषयमुपसंह्रियमाणम्8 । अक्रियमाणमेव सिद्धमृत्विक्त्वम् । अपि च वरणभरणाभ्यामृत्विजो वोत्पाद्येरन्; ऋत्विक्त्वं वा । तत्र ऋत्विजस्तावन्मातृपितृभ्यामेवोत्पादिता इति न पुनरुत्पत्तिमपेक्षन्ते । तथा योग्यतालक्षणमृत्विक्त्वमध्ययनश्रवणाभ्यां सिद्धमिति न पुनः साधनीयम् । वक्ष्यति च ‘याजमाना [( अ॰ ३ पा॰ ८ अ॰ २ सू॰ ४ ) ।] स्तु’ इत्यत्र न योग्यतैषां यजमानेन कर्तव्येति । सर्वत्र च यदनुत्पन्नं तदुत्पाद्यते, किं चैषां प्राग्वरणादनुत्पन्नं कर्म प्रत्यानमनम् । ननु ऋत्विक्त्वमप्यनुत्पन्नम् । सत्यं, तत्तु पश्चादप्युत्पद्यमानं न पश्यामः । अथ यदुत्पद्यते तदेव ऋत्विक्त्वं, तथा सत्यानमनमेव तन्नान्यत्किंचित् । न चेदमदृष्टमृत्विक्त्वम् । यस्य हि कार्यमदृष्टं भवति तत्स्वरूपमप्यदृष्टं भवेत् । ऋत्विक्कार्यं तु कर्मनिर्वृत्तिर्दृष्टैव सा कथमदृष्टसाध्या भविष्यति । यावता च सा भवति तत्सर्वं विद्वत्त्वब्राह्मणत्वादि दृश्यत एव । यत्त्वदृष्टं किंचित्तत्प्रकरणवशात्कर्मप्रयोगवचनेन गृह्यमाणं तदर्थमेव नाध्वर्य्वादित्वे व्याप्रियते । न च तद्वरणभरणाभ्यां जायत इति तयोरनिमित्तत्वं भवति । आहवनीयादीनां त्वप्रकरणोत्पत्तीनामदृष्टोपकाराणामनुत्पन्नावस्थानां संस्कारविधानादुपपन्नमुत्पाद्यत्वम् । न हि तत्र होमादिभिस्त्यज्यमानद्रव्याधारोऽपेक्षितः9 । तेनावश्यं तत्संबन्धाददृष्टमेवाभ्युपगन्तव्यम् । न च तदग्निमात्रात्सिध्यतीति तन्निर्वृत्त्यर्थमदृष्टमेवाऽऽहवनीयादित्वमपेक्षितम् । अतो नैष दृष्टान्तः । यदि चादृष्टमृत्विक्त्वं वरणभरणाभ्यां जन्येत, ततः सत्रेऽपि यजमानेषु तदाधातव्यं, तद्विशेषाश्चाध्वर्य्वादयो दीक्षावाक्येऽनूद्यन्त10 इति वरणभरणे कर्तव्ये स्याताम् । तत्र ‘वरणमृ [( अ॰ १० पा॰ २ अ॰ १० सू॰ ३४ )] त्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात्’ ‘परिक्रय [( अ॰ १० पा॰ २ अ॰ ११ सू॰ ३५ ) ।] श्च तादर्थ्यात्’ इति च विरुध्यते । तस्मात्कर्मयोग्यतयाऽबधारितानामेव वरणभरणाभ्यामुपादाननियमः कर्मार्थः क्रियते । ऋत्विक्शब्दश्चावैगुण्यात्तद्विषय एवोपसंह्रियमाणः सतोऽप्यन्यान्योग्यान्नाऽऽलम्बते । सत्रे तु स्वयंकर्तृकत्वाद्वरणभरणयोरनपेक्षितयोरग्रहणाद्विनैव ताभ्यामवैगुण्यमिति योग्यतामात्रेणैवाध्वर्युत्वादिसिद्धिः । तद्यथा पौर्णमास्यां विनाऽपि शाखापरिवासनेन यदेवाङ्गारापोहनक्षमं द्रव्यं स एवोपवेष इत्यदोषः । तस्माद्यथा11 ‘यूपस्य स्वरुं करोति’ इत्यत्राऽऽदाने कर्मशब्द इति वक्ष्यति12 तथाऽत्र भाष्यकारस्य द्रष्टव्यम् ॥ ३३ ॥
पक्षेणेति चेत्13 ॥ ३४ ॥
वैश्वानरद्वादशकपालाधिकारे ह्यष्टत्वादय14 उच्चार्यमाणाः स्वरूपेणानुपयुज्यमानाः शक्नुवन्त्यवयवत्वं गमयितुम् । स्तुत्या चोपयुज्यन्ते । न त्विह परमसंख्योपात्ता यदधिकारात्सप्तदशत्वमवयवः प्रतीयेत । स्तुत्यर्थं च स्यात् । तस्मादृत्विक्त्वोपसंहारार्थमेवैतदिति सप्तदशर्त्विजः ॥ ३५ ॥
इति सर्वेषामृत्विक्शब्दावाच्यताधिकरणम् ॥ १६ ॥
-
चत्वार इति—दर्शपूर्णमासयोस्तावत्, ब्रह्मा—ऊध्वर्युः—होता—आग्नीध्रश्चेति चत्वारः । चातुर्मास्ये प्रतिप्रस्थात्राधिक्येन पञ्च । पशुयागे मैत्रावरुणाधिक्येन च षट् । सोमयागे च ब्रह्मगणे तावत्—ब्रह्मब्र ह्मणाच्छंस्याग्नीध्रपोतारश्चत्वारः । अध्वर्युगणे—अध्वर्युप्रतिप्रस्थातृनेष्ट्रुन्नेतारश्चत्वारः । होतृगणे—होतृमैत्रावरुणाच्छावाकप्रावस्तुतश्चत्वारः । उद्नातृगणे च—उद्नातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्याश्चत्वारः । यजमानः सप्तदश इत्याहत्य सप्तदश भवन्तीति वस्तुस्थितिः । ↩︎
-
अनुदाहरणमिति—ऋत्विजो वृणीत इत्येवं भाष्योक्तं वरणभृत्विक्कार्योदाहरणं न भवतीत्यर्थः । ↩︎
-
भरणं—दक्षिणादानमित्यर्थः । ↩︎
-
एवं तावद्ययाश्रुतं भाष्यार्थमुपवर्ण्याधुवा तत्र च विशेषं वक्तुं दूषणे तावदादौ वदति । नत्वित्यादिना । ↩︎
-
निपातनेति—‘ऋत्विग्दधृक्—‘इत्यनया स्मृत्या ऋत्विक्पदस्य कर्तृवाचिक्विन्नन्तत्वनिपातनेन ऋतुयजननिमित्तत्वं गम्यत इत्यर्थः । ↩︎
-
नाध्यस्यतीति—बुद्धिपूर्वकारी तावदप्रसिद्धं वस्तु कर्तव्यतया न जानाति, न प्रयतते चेत्यर्थः । ↩︎
-
व्यापृतेनापीति—अबुद्धिपूर्वकारिणा प्रयत्नाख्यव्यापारे यदृच्छया कियमाणेऽपि न तेन फलनिष्पत्तिर्नैकान्ताद्भवतीत्यर्थः । ↩︎
-
उपसंह्रियमाणमिति—एभिर्विशेषैर्भवतीति पूरणीयम् । ↩︎
-
अपेक्षित इति—देवताये त्यक्तस्य द्रव्यस्य पूर्वदेशविभजनमात्रेणापि प्रक्षेपघटितहोमपदार्थनिष्पत्तेरित्यर्थः । ↩︎
-
दीक्षावाक्य इति—सत्रात्मकद्वादशाहप्रकरणे ह्येवं श्रयते ‘अध्वर्युगृहपति दीक्षयित्वा ब्रह्माणं दीक्षयतितत उद्गातारं, ततो होतारं ततस्तं प्रतिप्रस्थातां दीक्षयित्वाऽर्धिनो दीक्षयति—ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्रातुः, मैत्रावरुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति—आग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्रातुः अच्छावाकं होतुः, ततस्तमन्नेता दीक्षयित्वा पादिनो दीक्षयति—पोतारं ब्रह्मणः सुब्रह्मण्यमुद्रातुः ग्रावस्तुतं होतुः, ततस्तमन्यो ब्राह्मणो दीक्षयति ब्रह्मचारी वाऽऽचार्यप्रोषितः, इति, तदस्मिन्बाक्य इत्यर्थः । ↩︎
-
एवं तर्हि ऋत्विक्शब्दस्य यौगिकत्वे ‘वरणेन ऋत्विजः क्रियन्ते’ इत्यादिभाष्यस्य का गतिरिति चेदत आह—तस्मादित्यादिना । ↩︎
-
वक्ष्यतीति— [( अ॰ ४ पा॰ २ अ॰ १ सू॰ ६ )] इत्यत्रेत्यर्थः ↩︎
-
एतत्सूत्रस्थभाष्यस्य सुस्पष्टतयाऽव्याख्याय सूत्रस्य पाठमात्रं कृतम् । ↩︎
-
अष्टत्वादय इति‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’ इत्युपक्रम्यैवं श्रूयते’ यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यदद्वादशकपालो जगत्यैवास्मिन्पशून् दधाति ( तै॰ सं॰ २-२-५ ) इत्यादिरिति शेषः । ↩︎