10 चमसाध्वर्यूणां पृथक्त्वाधिकरणम्

अध्वर्यव इति समाख्यानात्तेषां चमससंबन्धादध्वर्युपुरुषा एव चमसाध्वर्यव इति प्राप्तेऽभिधीयते । पृथक्त्वनियतत्वाद्वयपदेशानां सर्वैश्चेतरैस्तुल्यवत्पृथक्त्वेन व्यपदेशादुत्पत्तौ च वरणान्तराम्नानात्पूर्ववदेव भेदः । यद्यपि च यजमानेन व्रियन्ते तथाऽपि तदाज्ञाकरत्वेन व्रियमाणत्वाद्भवत्येव तदीयत्वव्यपदेशः ॥ २५ ॥

इति चमसाध्वर्यूणां पृथक्त्वाधिकरणम् ॥ १० ॥