02 यजमानसंस्काराणां प्रधानमात्रार्थताधिकरणम्

‘याज [(अ॰ ३ पा॰ ८ अ॰ २ सू॰ ४)] मानास्तु तत्प्रधानत्वात्कर्मवत्’ इत्यनेनाधिकरणेन येषां याजमानत्वं सिद्धं ते किं यजमानस्य कर्तृत्वाशेनाङ्गप्रधानार्था उत भोक्तृत्वांशेन केवलप्रधानार्था इति । किं प्राप्तं । पूर्वेणाधिकरणेन सर्वार्थत्वम् । सर्वार्थे हि यजमानेऽवस्थिताः शक्नुवन्ति सर्वेषामुपकर्तुम् । न च व्यावृत्तिकारणमस्तीति प्राप्तेऽभिधीयते ।

येनैव हेतुनैतेषां स्वाभिगामित्वनिश्चयः ।
तेनैव तु प्रधानार्थप्रतिपत्तिरपि स्फुटा ॥

यदि ह्येते कर्तृत्वांशपातिनो भवेयुस्ततः सर्वार्थत्वं प्रतिपद्येरन् । भोक्तृत्वांशस्थास्त्वेति । स हि तैर्विना नोपपद्यते1 । कर्तृत्वं तु तदभावेऽपि यथा भवति तथा सर्वलोकप्रत्यक्षम् । ऋत्विजामपि त तत्संभवान्नैव तेभ्यो निवृत्तिः स्यात् । अभीष्टे चार्थे योग्यताधानमाकाङ्क्षति । यत्र च योग्यत्वमनुपजातम् । न तु यजमानस्य कर्तृत्वस्वरूपमभीष्टम् । न च प्रागेभ्यो न निष्पन्नम् । योग्यतां चाऽऽदधानाः क्रियाः संस्कारा इत्युच्यन्ते । तस्माद्भोक्तृत्वांशं भजन्ते । यस्य च वर्मणः फलं यजमानेन भुज्यते तद्देशस्थास्तस्यैवोपकर्तुं शक्नुवन्ति नान्यस्य । प्रधानस्य फलं पुरुषैर्भुज्यते नाङ्गानां, क्रत्वर्थत्वात् । तस्मात्प्रधानस्यैवंजातीयकाः । आह । यदि क्रतोर्निर्वर्तकांशे न पतन्ति तत्,2 फलस्यैवाङ्गं प्राप्नुवन्ति । नैष दोषः । एष एव हि प्रधानस्योपकारो यदस्य फलग्रहणाय योग्यः कर्ता क्रियते । ततश्च यथैवान्यान्यदृष्टार्थान्यङ्गानि3 फलयोग्यतामपि कुर्वन्ति नाङ्गत्वात्प्रच्यवन्ते तथैवैतेऽपि4 द्रष्टव्याः । प्रयोजनमग्नीषोमीयादिविकारेषु गमनं वपनादीनामगमनं सिद्धान्ते ॥ ६ ॥

इति यजमानसंस्काराणां प्रधानमात्रार्थताधिकरणम् ॥ २ ॥


  1. नोपपद्यत इति—भोक्तृत्वांशस्यादृष्टरूपत्वेनानिर्ज्ञातप्रकारत्वादिति शेषः । ↩︎

  2. तत्—तदेत्यर्थः । ↩︎

  3. अन्यान्यदृष्टार्थानीति—आरादुपकारकाण्यङ्गानीत्यर्थः । ↩︎

  4. एतेऽपीति—याजमानाः संस्कारा अपीत्यर्थः । ↩︎