14 मुख्यमन्दसदृशप्रतिनिध्योः सामानविध्याधिकरणम्

यद्यशास्त्रलक्षणत्वान्नीवारणां कार्यापत्तिर्नास्ति । पूतीकानां तर्हि शास्त्रलक्षणत्वादनित्यत्वाच्च फलचमसवत्कार्यापत्तिप्रसङ्ग इति प्राप्तेऽभिधीयते ।

यागसाधनतां कुर्यात्पूतीकानां यदि श्रुतिः ।
ततः स्यात्कार्यवर्तित्वं न त्वेवं सा प्रवर्तते ॥

सोमनाशे हि प्रतिनिध्यपेक्षायां सत्यां पूतीका विधीयन्ते नं यागसाधनापेक्षायाम् । अतोऽयं प्रतिनिधिनियम एव भवति, यत्सकलसोमधर्मासंभवे विकलान्सोमधर्मानुत्पादयेत्तत्पूतीकगतानिति । वक्ष्यति हि ‘निय [(अ॰ ६ पा॰ ३ अ॰ ४ सू॰ १६)] मार्थः क्वचिद्विधिः’ ‘तन्नि [(अ॰ ६ पा॰ ३ अ॰ ४ सू १७)] त्यं तच्चिकीर्षा हि’ इति च । अतश्च नैवात्र पूतीकत्वं कर्माङ्गं, किं तर्हि, सोमधर्मोपलक्षणार्थम् । तेन श्रुतिलक्षणस्यापि पूर्वेणाविशिष्टत्वमिति । तेनेहापि तदेव चिन्तायाः प्रयोजनम् । अतश्च तदाश्रयस्य तद्बुद्ध्यनपायाद्गुणकामैः प्रवर्तितव्यम् । अन्ये त्वाहुः । सकलव्यक्त्याश्रयिणो हि गुणकामा वैकल्यादिह न प्रवर्तन्ते । नित्यस्य हि कर्मणोऽवश्यं प्रक्रमात्प्रक्रान्तस्य च सर्वस्यावश्यसमापनीयत्वात्किंचिद्धर्मवैकल्येऽप्यवैगुण्याभ्यनुज्ञा1 युज्यते । यथा तु काम्यानां प्रतिनिधिभिः प्रक्रमो नास्ति तथा गुणकामैर्न प्रवर्तितव्यम् । यदि तु प्रक्रान्ते कस्मिंश्चिद्गुणकामकल्पे द्रव्यनाशे सति प्रतिनिधीयते ततस्तस्यावश्यसमापनीयत्वाद्विकारेण प्रतिनिधिना वा तुल्यं समापनमित्यूहानूहावेव प्रयोजनम् ॥ ४० ॥

इति मुख्यमन्दसदृशप्रतिनिध्योः सामानविध्याधिकरणम् ॥ १५ ॥


  1. समापनीयत्वादिति—(अ॰ ६ पा॰ २ अ॰ ३) अत्रत्यन्यायेनोति शेषः । ↩︎