‘त [(अ॰ १० पा॰ १ अ॰ ४ सू॰ ६)] स्यां तु स्यात्प्रयाजवत्’ इत्येतदधिकरणन्यायेन पवमानहविःसंस्कृताग्निसाध्यत्वं तासामस्ति1 नास्तीति विचारः । तन्न ‘इष्टिषु द [(अ॰ ८ पा॰ १ अ॰ ४ सू॰ ११)] र्शपूर्णमासयोः प्रवृत्तिः स्यात्’ इत्येवं पवमानेष्टीनां दर्शपूर्णमासप्रकृतित्वे सिद्धे यथैव प्रयाजादीन्यतिदिश्यन्ते तथैव पवमानेष्टिसंस्कृताग्निवर्तित्वमपि । ननु चाऽऽहवनीयादयः सर्वकर्मणां प्रत्यक्षश्रुता एवाङ्गत्वं प्रतिपद्यन्त इति न वक्तव्यं प्रकृतित इति । नैष दोषः । यत्रैव प्रत्यक्षेश्रुत्या जुहोतिस्तत्र प्रकृतिसमकालमाहवनीयसंबन्धोऽवकल्पते । यत्र पुनर्द्रव्यदेवतासंबन्धाद्यजिमात्रे कल्पिते ‘चतुरवत्तं जुहोति’ इति प्रकृतितो होमः प्राप्नोति तत्र द्वारस्य प्राकृतत्वादाहवनीयेनापि प्रकृतित एव भवितव्यम् । अतः साधूक्तं प्रकृतित इति । ननु याः संस्कारार्थं क्रियन्ते तासामप्यन्याः प्राप्नुवन्ति, तासामप्यन्या इत्यनवस्था प्राप्नोति । नैष दोषः । सर्वानवस्थानां सामर्थ्येन व्यवस्थानात् । यावत्यो ह्यग्निकालं पौर्णमास्यमावास्यादिकं नातिक्रामन्ति तावत्यः करिष्यन्ते ॥ १६ ॥
यन्नाम प्रयाजादि प्रकृतेरङ्गं भवति तदतिदिश्यते । न तु पवमानेष्टयः कर्माङ्गमित्वाधानन्यायेन साधितम् । अतो ‘रूपं वा [(अ॰ ७ पा॰ ३ अ॰ ११ सू॰ २९)] ऽशेषभूतत्वात्’ इत्याहवनीयादिस्वरूपमतिदिश्यते नेष्टयः । आरम्भणीया त्वङ्गमिति कृत्वाऽधिकरणान्तरमारप्स्यते2 । तदीयश्चैष न्यायोऽत्रापि भविष्यति । सत्यपि चाङ्गत्वे यावन्न विधीयन्ते तावन्नेवेष्टयः प्रकृतौ दृश्यन्ते । यावच्च किं केन कथंभावैस्तद्भावना न पूर्यते तावद्विधिर्न प्रवर्तते । तेन पवमानेष्टिरहितायां प्रकृतौ ताभिरितिकर्तव्यता गृह्यमाणा तद्व्यतिरिक्तवाक्यविहितैव केवला ग्रहीतुं शक्यते । अन्यथा ह्येकस्मिन्वाक्ये विहितवदपेक्षणमविहितवच्च विधानमिति स्वरूपविप्रतिषेधः स्यात् । तस्माद्यादृगाहवनीयः प्राक्पवमानेष्टिभ्यस्तादृगेव तासां प्राप्त इति निष्पन्नस्याऽऽहवनीयस्य प्रयोजनमपेक्षमाणस्योपदेशेनातिदेशेन वाऽङ्गत्वं शक्यं कल्पयितुम् । एतास्तु तन्निष्पत्त्यर्था एवेति न तत्कृतमुपकारमपेक्षन्ते । न चानपेक्षितमुपदेष्टुमतिदेष्टुं वा शक्यते । तस्मादाधानमात्रसंस्कृतेनाग्निना संबद्धव्या इति सिद्धम् ॥ १७ ॥
इति पवमानेष्टिषु पवमानेष्ट्यनतिदेशाधिकरणम् ॥ ६ ॥