02 अनारभ्याधीतसाप्तदश्यस्य प्रकृतावनिवेशाधिकरणम्

अपवादाधिकरणमेतत् । तत्र पूर्वाधिकरणेनैव सामिधेनीसाप्तदश्यानारभ्यवादस्य प्रकृत्यर्थत्वे, प्रकरणाधीतेन पाञ्चदश्येन सह विकल्प इति विशेषाशङ्कां निवर्तयति । कथं पुनः प्राकरणिकेन विशेषविधिना सहातुल्यबलस्य विकल्पोऽभिधीयते । आह ।

तत्र नाम विशेषेण सामान्यस्य निराक्रिया ।
प्रत्यक्षो यत्र संबन्धो विशेषेण प्रतीयते ॥

तुल्यप्रमाणको हि विशेषो बाधको भवति न दुर्बलप्रमाणकः । न च क्रतुप्रयोगादन्यत्र सामिधेन्यो विद्यन्ते । तस्मात्क्रतुप्रयोगप्राप्तिस्तुल्या । ततश्च किं प्रकरणमधिकं करिष्यति । द्वयोस्तुल्यबलयोः प्रमाणयोर्विरोधे सति बलवत्तरेण निर्णयः कर्तव्यः । न च प्रकरणं वाक्याद्बलवत्तरम् । अतो यावत्प्रकरणव्यापारो नैव भवति तावद्वाक्यद्वयेन तुल्यबलेन विकल्पोऽवधार्यते । तेन न्यूनबलं यद्यपि प्रकरणसहस्रमपि च सहायी भवति तथाऽपि न तदनुरोधः कर्तव्यः । तस्मात्प्रकृत्यर्थं साप्तदश्यमिति प्राप्ते ब्रूमः ।

तुल्यो यद्यपि संबन्धः साभिधेनीः प्रतीष्यते ।
तथाऽपि क्रतुसंबन्धवैषम्यान्न विकल्पते ॥

साभिधेनीस्वरूपप्रयुक्तत्वेऽनर्थिका संख्येत्यवश्यं यागात्पूर्वसाधनत्वकारितः संबन्धोऽभ्युपगन्तव्यः । न च यागापूर्वसाधनत्वं प्रकरणादृते लक्षयितुं शक्यते इति नवमे1 वक्ष्यामः । तेन प्रकरणानुग्रहविशेषात्पाञ्चदश्यंमपूर्वसंबन्धप्रमाणप्रत्यासत्तेर्बलीयः । विधिरपि हि पूर्वं प्रयोजनवति पुरुषं नियुङ्क्ते । साप्तदश्याच्च पाञ्चदश्यं शीघ्रतरं प्रयोजनवदवधार्यत इति विधिकालवैषम्यादतुल्यबलत्वम् । अपि च, क्रतुमविगुणं कर्तुं पुरुषः प्रवर्तते न सामिधेनीः । क्रत्वङ्गत्वे च साप्तदश्यस्य न किंचिच्छ्रुत्यादि प्रमाणमुपलभामहे, यथा पाञ्चदश्यस्य प्रकरणम् । तस्मादेतत्पाञ्चदश्यं सामिधेनीनां दर्शपूर्णमासयोश्च वाक्यप्रकरणाभ्यामवधार्यते । साप्तदश्यं तु केवलं सामिधेन्यर्थमेव । तस्येदानीमानर्थक्यपरिहाराय स्वादिरत्वादिवत्क्रतुसंबन्धः कल्प्यते, यदि त्वसौ प्रतीच्छेत् । न त्वसौ संख्यान्तरावरुद्धः सन्प्रतीच्छति । तत्र सामिधेनीनामुभयथाऽप्यवैगुण्यं भवति । क्रतोः पुनः पाञ्चदश्येन । ततश्च कांस्यभोजिवदमुख्येऽप्यविरोधः स्यात्किमङ्ग पुनर्यत्राङ्गगुणविरोध एव स्पष्टः2 । तस्मात्क्रत्ववष्टम्भदर्पितेन पाञ्चदश्येनोत्कालितं साप्तदश्यम् । क्लिष्टेन यावदतिदेशेन पाञ्चदश्यं (नैव) विकृतीः प्राप्नोति तावदौपदेशिकेन साप्तदश्येन प्रथमतरावरुद्धत्वात्ताभ्यो निराकृतं केवलप्रकृतिविषयत्वेनैवावधार्यत इति व्यवस्थायामुक्तायामुच्यते—

न साप्तदश्यं बलवद्विकृतिष्वौपदेशिकम् ।
अनारभ्यविधेस्तद्धि सामिधेन्यङ्गतां गतम् ॥

विकृतीनां तु नास्त्येवं प्रमाणं तत्परिग्रहे ।
अतिदेशेन हि प्राप्तिः पाञ्चदश्यस्य तास्वपि ॥

यथा प्रकरणप्राप्तं प्रकृतौ बलवत्तरम् ।
तथाऽतिदेशविज्ञातं क्रत्वङ्गं विकृतिष्वपि ॥

न च सामिधेनीष्वनतिदिष्टासु तद्द्वारेण साप्तदश्यं विकृतीरनुप्रवेष्टुं शक्नोति । यदा तु सामिधेन्योऽतिदेशेन प्राप्स्यन्ते तदा पाञ्चदश्यमपि कॢप्तोपकारसंबन्धं ताभिरेव सह पूर्वतरमाक्रम्य प्रकृताविव साप्तदश्यबाधकं भविष्यति । तस्माद्यास्वेव पशुमित्रविन्दाब्वरकल्पादौ साप्तदश्यं प्रकरणविहितं तास्वेव तदतिदेशप्राप्तपाञ्चदश्यबाधेन निविशते ।

नानारभ्यविधिप्राप्त्या सर्वास्वेव भविष्यति ।
पश्वादिव्यतिरिक्तासु पाञ्चदश्येन बाधनात् ॥

स्वाङ्गेन पाञ्चदश्येन व्याप्तास्ता ह्यतिदेशतः ।
विहितं सामिधेन्यङ्गं साप्तदश्यं न गृह्णते ॥

एवं च द [(अ॰ १० पा॰ ८ अ॰ ९) इत्यत्रेति शेषः ।] शमेऽप्येतद्विविक्तं स्थापयिष्यते ।
तेन नैतद्ग्रहीतव्यं सर्वत्र बलवत्तरम् ॥

सूत्रकारोऽपि विकृतौ विरोधीति यदब्रवीत् ।
प्रकृतौ नैतदस्तीति तदेतावद्विवक्षया ॥

सामिधेनीः प्रति प्राप्तिस्तुल्या वाक्येन यद्यपि ।
विशेषः पाञ्चदश्यस्य क्रतौ प्रकरणेन तु ॥

अतो यद्यपि दौर्बल्यं वाक्यात्प्रकरणस्य नः ।
तथाऽपि विषयान्यत्वात्क्रतौ तद्विनियोजकम् ॥

समानविषयत्वे हि वाक्यात्तद्दुर्बलं मतम् ।
क्रतौ त्वप्रतिपक्षत्वान्न तद्वाक्येन बाध्यते ॥

विशेषश्चायमेवास्य यदसाधारणं क्रतोः ।
सामिधेनीषु तुल्यत्वे शेषत्वे वाक्यकल्पिते ॥

क्रतुं प्रत्यसमानत्वात्साप्तदश्यस्य बाधकम् ।
न श्रुत्याद्युपदेशेन नातिदेशेन तस्य तु ॥

एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् ।
विकृतौ च न यत्रास्ति साप्तदश्यपुनः श्रुतिः ॥ ९ ॥

इति अनारभ्याधीतसाप्तदश्यस्य प्रकृतावनिवेशाधिकरणम् ॥ २ ॥


  1. नवम इति—नवमाध्यायाद्याधिकरण ऊहोपोद्धातविचारावसर इति शेषः । ↩︎

  2. स्पष्ट इति—तदा ‘ अङ्गुणाविरोधे च तादर्थ्यात् ‘ (अ॰ १२ पा॰ २ अ॰ ११ सू॰ २७) इत्यनेनैव निर्णयो भविष्यतीति यावत् । ↩︎