13 वषट्कर्तुः प्रथमं भक्षप्रतिपादनाधिकरणम्

एकस्मिन्पात्रेऽनेको भक्षयिता साधितः । इदानीं तद्गताः क्रमादिविशेषाः प्रतिपाद्यन्ते । तत्राध्वर्यौ प्रथमं भक्षयति न समर्पणभूयस्त्वेन प्रयोगो विक्षेप्स्यते1 । अन्यथा पुनरध्वर्युणा समर्पिते पुनरपि तस्मै समर्पणाद्विक्षेपः स्यादिति मत्वा क्रमादध्वर्युः पूर्व इत्याह ॥ ३६ ॥

बलवति प्रमाणे विहिते दुर्बलोपन्यासः क्लिष्टो भवतीति मन्त्रवर्णं तावदुपन्यस्यति । तत्र ग्रावस्तुतिपरो मन्त्रो हौत्रकारिणां प्रथमं भक्षं दर्शयति । एते वदन्ति—अभिषवे क्रियमाणें शब्दं कुर्वन्ति, शतवत्सहस्रवदभिक्रन्दन्ति—वदनमेवोत्तरेणाभिक्रन्दनेन विशेषितं, हरितोभिरासभिः—सोमसंपर्कान्नीलाकृतैर्मुखैः । विष्ट्वी—कर्मणि,2 ग्रावाणः सुकृतः—शोभनकारिणः, सुकृत्यया—सुकृत्त्वेन, होतुश्चित्—होतुरपि, पूर्वे हविरद्यं—होतुर्यत्प्रथममदनीयं, तदाशत—भुक्तवन्त इति ब्रुवन् वषट्कर्तुः प्रथमभक्ष इति दर्शयति । एवं ‘होतेव नः प्रथमः पाहि’ इति । यथा होता प्रथमं पिबतीत्युपमानात्प्रसिद्धिर्गम्यते ॥ ३७ ॥

‘वषट्कर्तुः प्रथमभक्षः’ इति विशिष्टविधानं पूर्वमेवोक्तम् । अपूर्वत्वाच्च नानेकविधिदोषः । समासश्चाधिकः समासेनैकपदीभूतैककारकविधानात् ‘तस्य त [( अ॰ २ पा॰ २ अ॰ ३ सू॰ ६ )] स्योपदिश्येत’ इत्येतन्नास्ति ॥ ३८ ॥

यथानिमित्तं नैमित्तिकोपनिपातात् ‘वषट्कृते जुहोति’ इति प्रथमं होतृव्यापारो निमित्तं पश्चादध्वर्योर्होमः । ननु च तस्याप्यभिषवः प्रथमतरमासीत् । सत्यमासीत्, न तु तावतो निमित्तत्वमुभाभ्यां वा । न हि तयोर्धर्मशास्त्रमित्येवं सहितयोर्निमित्तत्वात् । यस्य च नाम ‘होतुश्चित्पूर्वे हविरद्यमाशत’ इत्येतस्माद्धोतुरेव केवलस्य प्रथमं भक्षभ्रान्तिस्तस्याप्येतेन सूत्रद्वयेन वषट्कर्तृमात्रे होतृशब्द इति प्रतिपादितं भवति ॥ ३९ ॥

इति वषट्कर्तुः प्रथमं भक्षप्रतिपादनाधिकरणम् ॥ १३ ॥


  1. विक्षेप्स्यत इति । अध्वर्योर्होमकर्तृत्वेन तद्धस्त एव पात्रसत्त्वेन स्वीयं भक्षणं तेन कृत्वाऽन्यस्मै दानेऽर्पणप्रत्यर्पणादिगौरवं नाऽऽपद्यत इति भावः । ↩︎

  2. विष्ट्वी—यज्ञं प्राप्येति वेदभाष्ये । ↩︎